श्रीविष्णुसहस्रनामस्तोत्रम्
श्रिमद्बलदेवविद्याभूषणविरचितम् “नामार्थसुधा”
श्रीमद्बलदेवविद्याभूषणभणितनामार्थसुधाभिधं भाष्यम् ।
श्रीश्रीकृष्णचैतन्यचन्द्राय नमः ।
अनन्तकल्याणगुणैकवारिधिर्विभुश्चिदानन्दघनो भजत् प्रियः ।
कृष्ण स्त्रिशक्तिर्बहुर्मूत्तरीश्वरो विश्वैकहेतुः स करोतु नः शुभम् ॥१॥
व्यासं सत्यवतीसुतं मुनिगुरुं नारायणं संस्तुमो
वैशम्पायनमच्युताह्वयसुधामोदं प्रपद्यामहे ।
गाङ्गेयं मुरमर्द्द नप्रियतमं सर्वर्थसंविद्वरं
तत्सभ्यानपि तत्कथारसजुषो भूयो नमस्कुर्महे ॥२॥
नित्यं निवसतु हृदये चैतन्यात्मा मुरारिर्नः ।
निरवद्योनिवृतिमान् गजपतिरनुकम्पया यस्य ॥३॥
युगपन्नव्यानन्दान् प्रकीर्तयन् यानि विन्दते शेषः ।
कृर्त्तृण्यभीष्टपूर्तेर्जयन्ति नामानि तानि कृष्णस्य ॥४॥
ये नामैकपुमर्थहरिभक्तास्तान्नमस्यामः ॥
भाष्यं येषां कृपया नामार्थसुधा भवेदेतत् ॥५॥
वैशम्पायन इति – “शम्पांशतद्रुदाहुरयनं पतनं ततः । विगतं शब्दोतो यस्मात्तद्वैशम्पायनः स्मृत” इति पुराणोक्तमाहात्म्यः । स व्यासप्रियशिष्यो मुनिः परमोपादेयत्वाद्बक्ष्यमाणं स्तोत्र मपृष्टोऽपि सौहर्द्दात् कारुण्याच्च जन्मेजयं नृपं प्रत्युवाच श्रुत्वेत्यादिभिः । युधिष्ठिरो राजा धर्मान् राजधर्मादीनशेषतः सामस्त्येन पावनानि तीर्थादीनि च सर्वशः सर्वणि श्रुत्वा पुनरपि शान्तनवं भीष्ममभ्यभाषत परिपप्रच्छ ॥१॥
अयं अस्मत् पितामहः शरतल्पस्थः भीष्मः समधीतसाङ्गनिखिलवेदोपनिषद् ब्रह्मचर्यादिसर्वधर्मोपसम्पन्नो भगवद्दत्ताद्वराद्विनिवृत्तशस्त्रव्यथः प्रति-लब्धसार्वज्ञ्यः करामलकन्यायेन परिदृष्टपरावरतत्त्वस्ततः परत मं तत्त्वं जिज्ञास्यं तच्च सामान्यतः पृष्टो वक्ष्यतीति भावेन पृच्छति किमिति लोक इति भवतः मत इति च प्रति प्रश्नं सम्बध्यते । विभक्तिश्च यथायोगं विपरिणम्य लोक्यते तत्त्वमनेनेति निरुक्तर्लोके वेदादिशास्त्रे एकं मुख्यं परमयनं सर्वश्रयभूतं वस्तु किं भवतो मतमिति द्वितीयः । कं देवं स्तुवन्तः कञ्चार्चन्तो मानवाः शुभं प्राप्नुयुः । कस्य गुणकर्मकीर्त्तिनेनाराधनेन चाभ्युदयनिश्रेयप्राप्तिर्भवतो मतेनेनि तृतीयश्चतुर्थः ॥२॥
क इति त्वयोक्तानां सर्वेषां धर्मणां मध्ये कः परमः श्रमं विनैवैष फलप्रदो धर्मो भवतः सर्वज्ञस्याभिमत इति पञ्चमः । जन्तुर्जीवः किं जप्यं जपनन् जन्म-संसारबन्धनाद्विमुच्यते?, जन्म गर्भनिरयनिपातलक्षणं कार्यम्, संसारः प्राचीनकर्मलक्षणं कारणम्, ताभ्यां बन्धनं परपदप्राप्तिनिरोधनं तस्माद्विमुक्तो भवति भवतो मतेनेति षष्ठश्च ॥३॥
एवं सामान्यतः षडर्थान् पृष्टो विद्वत्तमो भीष्मस्तेषु प्रथमस्योत्तरं विशेषेणाह जगदित्यर्द्धकेन । जगतः स्थिरचरात्मकस्य प्रभुं स्वामिनम्, देवदेवं सर्वदेवाराध्यम्, अनन्तं स्वरूपेण गुणैविभूतिभिश्चापरिमितम् । अतः पुरुषेषु वद्धमुक्तोभयावस्थेषुत्कृष्टतममिति क्रमं विहाय प्रकृतोत्कण्ठया (प्रकृतेषु नामसु) तृतीयस्योत्तरमाह स्तुवन्नित्यर्द्धकेन । पुरुषः पुमर्थलिप्सुर्जनः सततमुत्थितः सर्वदोद्द्युक्तो वक्ष्यमाणेन नामसहस्त्रेण पुरुषोत्तमं स्तुवन् गुणान् कर्मणि च तस्यानुकीर्तयन्निति षष्ठस्याप्येतदुत्तरम् । सर्वदुःखातिगो भवेदित्युत्तरेणान्वयः ॥४॥
चतुर्थस्याह तमेवेति-यजमानोऽर्च कः, भक्त्या श्रद्धया “भक्तिः सेवागौणवृत्त्योर्भङ्गयां श्रद्धाविभागयो”रिति हैमः । तमेव पुरुषं कृष्णं स्तुवन् सर्वदुःखातिगो भवेदित्यनेन सम्बन्धः । कथं स्तुवन्नित्याह – अर्चयन् पाद्यादिभिराराधयन्, ध्यायन तन्मूर्त्तिनिरतं मनः कुर्वन्, नमस्यन् साष्टाङ्गप्रणमन् । पुरुषं विशिष्टि - अव्ययमिति नित्य-स्वरूप-गुण-विभूति-लीलमित्यर्थः । तच्छब्दस्य द्विःप्रयोगोऽन्वयभेदाददोषः ॥५॥
प्रकृतोपयोगिफलं वदन् पुरुषं विशिनष्टि अनादीति द्वाभ्यां, जन्मविनाशशून्यं नित्यमित्यर्थः । यतो विष्णुं व्यापकं अतः सर्वेषां लोकानां तत्पतीनाञ्च महेश्वरम् । लोकास्ते तत् पतयश्चाध्यक्षाः करामलकवत् प्रत्यक्षा यस्य तम् । अत्रानादीत्यकालोपाधिकतया विष्णु मित्यदेशोपधिकतया चोपकारितायाः सर्वर्ति स्तोतृवाञ्छितपूरकताया लोकेति सर्वज्ञतायाश्च सूचनादर्चन-स्तवन-योग्यत्वं ईदृशं तं स्तुवन् जनः सर्वदुःखातिगो भवेत्तापत्रयदावाग्निमतीत्यानन्दसिन्धुं कृष्णं प्राप्यानन्दी भवेन्मुक्तः स्यादित्यर्थः । आदिमे श्लोके नाम्नां केवलमुच्चारणं मध्ये तदर्चनादिपूर्वकं तेषां कीर्तनं अन्त्ये तु कथञ्चिदेव तदुच्चारण मुक्तम् । “सकृदुच्चारितं येन हरिरित्यक्षरद्वयम् । वद्धः परिकरस्तेन मोक्षाय गमनं प्रति”॥ “सकृदपिपरिगीतं श्रद्धया हेलया वा, भृगुवर नरमात्रं तारयेत् कृष्णनामेऽ” त्यादि वाक्येभ्यः । यत्तु दीर्घकालादरनैरन्तर्योपसेवितैस्तीर्थतपःसमाधिभिदुर्लभां मुक्ति वाक् व्यापारितमात्रेण नाम्ना ब्रुवच्छास्त्रमर्थवाद इत्याह तत्खलु नाम-प्रभावानभिज्ञस्य छन्दस्य पशुत्वमेव । अन्यथा “तथार्थवादो हरिनाम्न कल्पनमि”ति स्मृतिर्व्यकुप्येत् ॥६॥
ब्रह्मण्यं विप्र-देव-तपोभ्यो हितं तेषां पालकमित्यर्थः । सर्वान् वेदोक्तान धर्मनग्निहोत्रदर्शपौर्णमासादोन स्वार्चनध्यानप्रणतिस्तुत्यादींश्च जानातीति तं तदुक्तफलप्रदमित्यर्थः । लोकानां वेदोक्ततत्तद्धर्मानुष्ठायिनां जनानां कीर्त्तिवर्द्धनं तदनुगुणद्रविण-विद्यावैराग्यादि-प्रदानेन तेषां यशोविस्तारयन्तमित्यर्थः । लोकैर्विधिरुद्रादिभिः स्वाभिलषितलाभाय याचनीयमिति । लोकांस्तान्नाथति शास्तीष्टे चेति वा लोकनाथं “नाथृणाधृयाज्ञोपतापैश्वर्याशीःष्विति” धातुपाठः । “युग कोटि-सहस्राणि विष्णुमाराध्य पद्मभूः । पुननस्त्रैलोक्यधातृत्वं प्राप्तवानिति शुश्रूम” इति । “महादेवः सर्वमेधे महात्मा हुत्यात्मानं देवदेवो वभूव । विश्वाल्लोकाɱन् व्याप्य विष्टभ्य कीर्त्त्य विराजते द्युतिमान् कृत्तिवासा” इति ‘‘एतौ तो विबुधश्रेष्ठौ प्रसादक्रोधजावुभौ तदा दशितपन्थानौ सृष्टिसंहारकारका”विति च महाभारतात् । एतच्चान्यत्र बिस्तृतं महत्तेषां लोकानां पूज्यं यतोभूतं तेभ्यः पूर्व सिद्धम् । एतदेवाह सर्वति सर्वेषां भूतानां भवो जन्म याभ्यां तौ सर्वभूतभवौ विधिरुद्रौ तयोरुद्भवो यस्मात्तं “प्रजापतिञ्च रुद्रञ्चाप्य हमेव सृजामि वै । तौ हि मां न विजानीतो मम मायाविमोहिता” वित्यादि महाभारतात् ॥७॥ ।
पञ्चमस्योत्तरमाह एष इति - सर्वेषां मदुक्तानां धर्माणां मध्ये एष धर्मोमे भीष्मस्याधिकतमोऽत्युत्कृष्टो मतः । क एष इति चेत्तत्राहयदिति । भक्त्या पुण्डरीकाक्षं कृष्णं तदात्मकनामजपलक्षणैः स्तवैरर्च्चदिति यत् । श्रद्धापूर्वकं तन्नामकीर्तनलक्षणमर्च्चनमेव भीष्माभिमतः परमो धर्म इत्यर्थः । इह भक्त्येति कषायपानवद्विरसाद्देवतान्तरार्च्चनात्, पुण्डरीकाक्षमिति विकृतभयङ्करदेवतान्तरस्तोत्रात् । स्तवैरिति बहुलायासज्योतिष्टोमादेश्वोत्कर्षः, नर इति द्विजत्वादिनियमस्यैकवचनेन बहुसहकारि नियमस्य । सदेति-देशकालविशुद्ध्यपेक्षायाश्च निवृत्तिः सूच्यते । भक्त्या विभिन्नतया स्वामित्वबुद्ध्यत्येके । भीष्मेणोक्तोऽयं नाम्नां महोत्कर्षस्तेषां भगवद्रूपत्वादेव वोध्यः । “अस्य जानन्तो नाम चिद्विविक्तनमहस्ते विष्णो सुमतिं भजामहे ओं तत्सदिति” श्रुतेः । “नाम-चिन्तामणिः कृष्णश्चैतन्यरसविग्रहः । पूर्णः शुद्धो नित्यमुक्तोऽभिन्नत्वान्ना मनामिनोरिति” पद्याच्च । अतएव नामिवन्नाम्नां शक्तिः । “अवशेनापि यन्नाम्नि कीर्त्तिते सर्वपातकैः । पुमान् विमुच्यते सद्यः सिंहस्त्रस्तैर्मृगैरिवेति” वैष्णवात् । “अयं हि कृतनिवेशो जन्मकोट्य हसामपि । यद्याजहार विवशो नाम स्वस्त्ययनं हरेरिति” श्रीभागवताच्च दुःसाध्यैस्तीर्थाटनादिभिर्मुक्ति ब्रुवच्छात्रं तु नामप्र-भावानभिज्ञानधिकृत्य सावकाशम् । यत्तु”जपस्तु सर्वधर्मेभ्यः परमो धर्म उच्यते । अहिंसया च भूतानां जपयज्ञःप्रवर्तत” इति भारतवचनाद्धिसावैधुर्यान्नाम सङ्कीर्तनस्य महत्तमाहुस्तदपि तदनभिज्ञवचनानुवादतया नेयम् ॥८॥ ।
द्वितीयस्योत्तरमाह परममिति - यः पुरुषोत्तमः परमं महत् । पारम्येण पूज्यं वस्तु, यः परमं तेजः तेजस्विनां सुर्यादीनां तेजः प्रदं वस्तु, यो महत्तपः तादृशानां तेषां प्रशास्तवस्तु । “यद्भीषा वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चन्द्रश्च मृत्युर्धावति पञ्चम” इति श्रवणात् । यः परमं महत् विभुरस्त्वित्यर्थः । यः परमं ब्रह्म यः परमयनं सर्वाश्रयभूतं वस्तु ॥९॥
हिंसावलोकेन प्रथमस्य पुनरुत्तरमाह पवित्राणामिति । अत्रापि परममित्यनुवर्तते । पवित्राणां पापहन्तृणां गङ्गादितीर्थानां यः परमं पवित्रं वस्तु, तदपहर्त्तत्वशक्तिप्रदमित्यर्थः । मङ्गलानां विघ्ननाशकानां गणेशादीनां यः परमं मङ्गलं तन्नाशकत्वशक्तिप्रदं वस्त्वित्यर्थः । देवतानां सर्वाराध्यानां विरिञ्च्यादिनां यः परमदैवतं पारम्येणाराध्यं वस्तु । यत् सम्बन्धाद्यदाराधनाच्च तेषां तत्तदितिभावः । यो भूतानां सर्वेषां पिता जनकः पालकश्च । अव्यय इत्याधुनिकपितृभ्यो विशेषः ॥१०॥
तस्यासाधरणधर्ममाह यत इति - आदियुगागमे सर्वकाले युगक्षये प्रलयकाले च शब्दामध्ये येन तानि पाल्यन्त इत्युक्तम् ॥ जगज्जन्मादिहेतुत्वमीश्वरस्य लक्षणमित्याह भगवान् सूत्रकारः – “जन्माद्यस्य यत” इति ॥११॥
तस्योक्तलक्षणस्य विष्णोर्नाम सहस्र मे मत्तः शृणु । भूपते हे युधिष्ठिर ! कीदृशमित्याह पापेति पापं भयं च यद्धेतुकमपहन्यादित्याशंसनीयं, आशिषि हन इति सूत्राड्डः । तस्य कीदृशस्येत्याह लोके ति वेदादिशस्त्रे प्रधानस्य प्राधान्येन सर्वेश्वरत्वेन निरूप्यस्य अतो जगन्नाथस्य जगद्वर्त्तिभिर्देवमानवाद्यैः पुरुषार्थदातृत्वेन याचनीयस्य इत्यर्थः ॥१२॥
विष्णुनाम्नां साकल्येन कथनं न सम्भवेदिति भावेनाह-यानीति, गौणानि गुणेभ्य अगितानि तत आगत इति सूत्रादण् कर्मोलक्षणमेतत् गुणकर्मप्रवृत्तिनिमित्तकानि न तु डित्थादिशब्दवत्सञ्ज्ञामात्रानीत्यर्थः । तेषु यानि विख्यातान्यतिप्रसिद्धानि महात्मनो विष्णोः । ऋषिभिर्मन्त्रैस्तद्रष्टृभिश्च परिगीतानि पारमार्थिकतया कथितानि । भूतये पुरुषार्थचतुष्टयलाभाय । एतदत्र बोध्यं स्वयं भगवान् श्रीकृष्णः परब्रह्मशब्दितो वैदूर्यवदनादिसिद्धनारायणवासुदेवादिरूपश्चकास्ति । ‘‘एको वशी सर्वगः कृष्ण ईड्य एकोऽपि सन् बहुधा योऽवभातीत्यादि” श्रुतेः । “कृष्णस्तु भगवान् स्वयमिति” स्मृतेश्च । अ विर्भूतसर्वशक्तिः स्वयं रूपः, प्रायस्तत् समो विलासो
नारायणः । अनाविर्भूतसर्वशक्तिव्यूहः स्वांशः कला चेत्युच्यते । वासुदेवः प्रकृत्यस्पर्शी सङ्कर्षणप्रद्युम्नानिरुद्धास्त्रयः क्रमात् कारणोदगर्भोदक्षीरोदनिलयाः पुरुषावताराः प्रकृत्यनुग्राहिणः । गर्भादशयादेव मत्स्यकूर्मादयो लीलावतारा भवन्त्येवं मन्वन्तरावतारा युगावताराश्च पुराणेषु प्रसिद्धाः । तत्तु सर्वात्मा कृष्ण एवेति तत्त्वम् । तद्वराद्विद्वान् भीष्मस्तत्तद्धाम-परिकर-विशिष्टस्य तत्तद्रूपस्य तस्य नामान्युपदिष्टवान् । स्फुट-कर्म निमित्तानि स्फुटार्थतया रहस्य-कर्मनिमित्तानि तु रहस्यार्थतयैवावोचत् येषां ब्रह्मादि-शब्दानां चतुर्मुखादिषु योगेन मुख्यवृत्तिस्तेषामिह भगवति महायोगेन परममुख्यवृत्तिः । यथा भूपादिशब्दानां मण्डलाधिपादिषु सार्वभौमादिषु च मुख्यवृत्तिः परममुख्यवृत्तिश्च । तेन तेनेति केषाञ्चित्वन्यत्र रूढानामपि विद्वद्रूढ्या हरौ वृत्तिः । नाम्नां निरुक्तिश्च द्वेधावैयाकरण्यार्षि चेति इह त्याभ्यो निरुक्तिभ्योऽन्याश्च निरुक्तयः केषाञ्चिन्नाम्नां भारतदिषु दृश्यन्ते ता अपि ग्राह्या ग्रन्थविस्तरभयान्नादत्ताः । विष्णवादिनाम्नां पुनरुक्तानामप्पर्थभेदान्न पुनरुक्तिः । श्रीधरमाधवादि नाम्नामन्थैक्येऽपि स्वरूपभेदान्न सा इत्यर्थ । पुनरुक्तिस्तु न दोषाय सर्वेषां नाम्नां पृष्टै कदैवतविषयत्वादित्युपोद्घातः ॥१३॥
अथ पूर्णत्वपारमैश्वर्ययोर्धर्मयोर्धम्म तृष्णावर्द्धकत्वात्तद्बोधकान्यादौ कतिचिन्नामान्याह ओंविश्वमित्यादिना । अदावन्ते च भगवदात्मकेन प्रणवेनसम्पुटितत्वादस्य स्तोत्रस्यमन्त्रात्मकत्वम् । अन्ते नमः शब्दाच्चतुर्थ्यन्तेने प्रत्येकनाम्ना विष्णौ तुलस्यर्पणपूर्वकप्रणतिलक्षणं पुरश्चरणमनेन भवतीति च सूच्यते । विश्वादि-शब्दानां सञ्ज्ञात्वेन सर्वनामत्वाभावाच्चतुर्थ्यं विश्वायेत्यादीनि रूपाणि बोधानि अत्र स्त्री-पुं-नपुंसकलिङ्गाः शब्दाः पठ्यन्ते तः क्रमेण देवतादेव दैवतानि विशेषणीयानीति बोध्यम् । विशति स्वेतरेषु सर्वेषु तत्त्वेष्विति विश्व विशेः क्वणिम् । वेवेष्टि व्याप्नोति तानीति विष्णुः विषेः किच्चति नुप्रत्ययः कित्सञ्ज्ञः यस्मिन् षट्क्रियते । यमुद्दिश्य हविस्त्यजते स वषट्कारः सर्वयज्ञाराध्य इत्यर्थः । बाहुल्यकात् प्रत्याहारशब्दवदधिकरणेऽर्थे घज्ञ् । यतो भूतभव्येति भूतानां भव्यानां भवताञ्च प्रभुः । त्रैकालिकानां प्राणिनां स्वामीत्यर्थः । भूतादिभावेनत्रिविधस्थकालस्य प्रभुनयन्तेत्येके । भूतानि खादीनि करोत्युत्पादयतीति भूतकृत् । भूतानि तानि विभत्ति सङ्कल्पेनैव धारयतीति भूतभृत् । चिदचिच्छक्तिमान् प्रपञ्चात्मना भवतीति भावः । भवतोश्चति वृत्तिर्णः ‘‘सोकामयत बहुस्यां प्रजायेयेति” श्रुतेः । भूतानां चिजडात्मकानां स्वांशेन प्रवर्तकत्वाद्भुतात्मा । भूतानि तानि भावयति शक्त्या सम्पदा च भावितानि करोतीति भूतभावनः ॥१४॥
पूतो भूतकर्त्तृत्वेपि तत्सङ्गशून्य आत्मा यस्य स पूतात्मा । परमो नित्यश्रीक आत्मा यस्य स परमात्मा । मुक्तानां नित्यनिवृत्ततमसामुपायनिवृत्ततमसाञ्च जीवानां परमा गतिः
प्राप्यभूतः । परमेति विशेषणेन तद्विभूत्यपेक्षया तत्स्वरूपे रुचिनिर्भरः । अत्र परे शान्मुक्तानाञ्च मिथोऽन्यत्वाभिधानादात्मैक्यवादो निरस्तः । न व्येति मुक्तवत्सल्यादित्यव्ययः । पचाद्य च । पुरूणि फलानि सनोति ददाति मुक्तेभ्यः पुरुषः । अन्येष्वपि दृश्यते इति डः । साक्षात्करस्थवत्सर्वं पश्यतीति साक्षी । क्षेत्राणि सर्वजीवशरीराणि जानाति युगपदिति क्षेत्रज्ञः । “क्षेत्राणि हि शरीराणि वीजं चापि शुभाशुभे । तानि वेत्ति स योगात्मा ततः क्षेत्रज्ञ उच्यते” इति स्मरणात्स्वरूपतः स्वभावतश्च न क्षरति च्यवत इत्यक्षरः ॥१५॥
युज्यते मनोऽस्मिन्निति योगः समाधेः शुभाश्रयः । अकर्तरि च कारके सञ्ज्ञायामिति अधिकारहनश्चेति घञ् । योगं चित्तवृत्तिनिरोधं ये विन्दते विचारयन्ति ते योगविदस्तेषां नेता योगप्रापकः । प्रधानं प्रकृतिः पुरुषाः क्षेत्रज्ञा जीवास्तानीष्टे नियमती ति प्रधानपुरुषेश्वरः । नारसिहं वपुर्यस्य स नारसिंहवपुः भक्तत्राणाय दिव्यनृसिंहः। मिथो दुर्घटापूर्वभयङ्कररूपवत्वेऽपि श्रीमानतिमनोज्ञकान्तिकः । “श्रीर्वेशरचनाशोभेति” विश्वः । केशयोर्विधिरुद्रयोजनकत्वात्केशवः । “क इति ब्रह्मणो नाम ईशोऽहं सर्वदेहिनाम् । आवां तवाङ्गसम्भुतौ तस्मात्केशवनामभागिति” रुद्रवचनात् । पुरुषेषु वद्वमुक्तावस्थेषु जीवेषत्कृष्टतमत्वात्पुरुषोत्तमः । यथा “यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तम” इति स्मरणात् ॥१६॥
सरति गच्छति व्याप्नोतीति सर्वः सरतेर्वन् । “सर्वं समाप्नोषि ततोऽसि सर्वं” इत्यजुर्नोक्तः । शृणोति हिनस्त्यशुभानि स्मृतः सन्निति शर्वः पूर्ववद्धन् । अतः शिवः कल्याणात्मा शीङो वन् ह्रस्वत्वं गुणाभावश्च निपातनात् । मङ्गलानाञ्च मङ्गलमित्युक्तम् । अनुकम्पायां स्थिरत्वात्स्थाणुः । अतो भूतादिः भूतैः प्राणिभिरादीयते शुभदत्वेन गृह्यते । उपसर्गेद्योः किः, अनर्ध्यरत्नवञ्चित्ते निधीयते इति निधिः । सर्वैनित्यमुपजीवमानत्वेऽपि कलयाप्यर्नुनत्वादव्यय
इति निधिविशेषणम् । साधुत्राणाय सम्यगप्रच्युतस्वरूपस्वभावतया मत्स्यादिरूपेण भवः प्राक
ट्य यस्येति सम्भवः । “परित्राणाय साधूनां विनाशाय च दुष्कृताम् । धर्मसंस्थापनार्थाय सम्भवामि युगे युगे” इति स्मरणात् । भावयति चिन्तयति साधूनेवमेतान् रक्षिष्यामीति भावनः । यतो निरन्ध्रवरमपि हिरण्यकशिपु रन्ध्रमनुसन्धाय निजघान, नानोपायैः पाण्डवान् वर्द्धयामास । विभर्त्ति पूष्णाति तान स्वानन्ददानेनेति भर्ता । प्रकृष्टः स्वभक्तानां स्वेन रूपेणाभिव्यक्तीलक्षणो भवो यस्मात् स प्रभव “स एष सम्प्रसादोऽस्माच्छरीरात्समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत” इति श्रतः ॥ कर्मतन्त्रमनुष्यादिसाम्येनावतरन्नपि देवाद्यशक्यकार्यकरणात्प्रभुः । यथा गुरुपुत्र-विप्रपुत्राणां तथैवानयनं परीक्षितो ब्रह्मास्त्रदग्धस्योपजीवनं घण्टाकर्ण-जरादीनां कुत्सितानां दिव्यपदार्पणं, युधि निहतानां मोक्षार्पणं चेति मनुष्यादि-वेशोऽपि ब्रह्मादिनियमनादीश्वरः “ईशस्त्वं सर्वभूतानामीश्वरोऽसि सदा स्मृत” इति शिवोक्तेः ॥१७॥
स्वयं निजेच्छयैव भवति प्राकट्यमेतीति स्वयम्भूः । भुवः सञ्ज्ञातरयोरिति क्विपि ।“कविर्मनीषीपरिभुः स्वयम्भूरि”ति मन्त्रवर्णश्च । शं सुखं भावयति जनयति कल्याणगुणप्रकाशेनेति शम्भुः मिताद्व्रादित्याड्डुः । आदित्यो निवासोऽस्येत्यादित्यः । दित्यदित्यादित्येत्यादि न्यः । “य एषोऽन्तरादित्ये हिरण्मयः पुरुषो दृश्य” इतिश्रुतेः । पुष्करमाकाशमक्ष्णोति व्याप्नोती ति पूष्कराक्षः । “व्योमपुष्करमम्बरमित्यमरः ।“ “आकाशात्मे”ति श्रुतेश्च । महान्पूज्यो वेदलक्षणः स्वनोऽस्येति महास्वनः । “तस्य वा एतस्य महतो भूतस्य निश्वसितमेतद्द्यदृग्वेदो यजुर्वेद” इत्यादिश्रुतेः । उत्पत्तिविनाशविरहादनादि
निधनः कारणत्वे विरिञ्च्यादिभ्यो विशेषमाह धातेति । अचित् समष्टौ प्रकृतियौनौचित् समष्टेविरिञ्चिगर्भस्य धारणादित्यर्थः। तं गर्भ परिणमय्याविर्भावयतीति विधाता । “यो ब्रह्माणं विदधाति पूर्वं यो विद्यास्तस्मै ज्ञापयति स्म कृष्ण” इत्यादि श्रुतेः । “मम योनिर्महद्ब्रह्म तस्मिन् गर्भ दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारते”त्यादि स्मृतेश्च । अतो धातुरुत्तमः धातुर्विरिञ्च्यादपि जनकत्वादिनोत्कृष्टतम इत्यर्थः ॥१८॥
ब्रह्मादीनामिन्द्रियैः प्रमातुमशक्यत्वादप्रमेयः । “न ह्यादिमध्यान्तमजस्य यस्य विझो वयं सर्वमयस्य धातुरिति” ब्रह्मवाक्यात् । यतो हृषीकेशः हृषीकाणि तेषामिन्द्रियाणि ईष्टेनियमयतीति तथा । स चेतानि प्रेरयति तदा तेऽपि तं कथञ्चिद्विदन्तीति भाव उक्तं व्यञ्जयति पद्मनाभ इति ब्रह्म-प्रभवं पद्मं नाभावस्येति अच्प्रत्ययन्निति सूत्रेऽजितियोगविभागानाभेरच् । ब्रह्मादीनाममराणां सृष्ट्याद्यधिकारदानादमरप्रभुः । ब्रह्मादीनां स्रष्ट्रणामन्त स्थः सन् सहकारीति विश्वकर्म। स एवेदं सर्वमसृजदिति श्रुतेः । तत्तत्सर्वविषयकज्ञानवत्वान्मनुः । मन ज्ञाने तस्मादुः । त्वेषति नामरूपयोगं कुर्वन् दीप्यते तेन व्यक्तीकरोति भूतानी ति त्वष्टा त्विषकान्तावित्यतो नप्तृनेष्ट्र-इत्यादिना तृन् प्रत्यय̮उपधाया अत्यञ्च निपात्वते । “सर्वाणि रूपाणि विचित्य धीरो नामानि कृत्वाभिर्वदन्यदास्ते” इत्यादि श्रुतेः । शक्तिद्वारानेकब्रह्माण्डाकारत्वात् स्थविष्टः । “निस्तारः सर्वभूतस्य विष्णोविश्वमिदं जगदिति” स्मृतेः । मृत्तिकादिकारणवैलक्षण्यमाह-स्थविर इति त्रिशक्तिवत्वविशेषेण सर्वं कालं स्थाष्णुरित्यर्थः । अजिर शिशिरेत्यादिना तिष्ठतेः किरचि निपातोऽयम् । अनन्त - परिणामेति तद्वेशादच्य बाद्ब्रुवः ध्रुवगतिस्थैय्ययोः तस्मात्कः । “व्यतिरिक्त न यस्यास्ति व्यतिरिक्तोऽखिलस्य य” इति स्मृतेः । त्रिशक्तिकत्वञ्च - ‘‘परास्य शक्तिविविधैव श्रुयते स्वाभाविकी-ज्ञान-वल-क्रिया च । प्रधान-क्षेत्रज्ञपेतिर्गुणेश” इति श्रुतेः ॥१९॥
उपादानभूतोऽपि मृत्तिकादिरिवाधिष्टेयो नेत्यग्राह्यः । ऋहलोर्न्यत् । जगद्व्यापारप्रवाहात्मना नित्यत्वात् शाश्वतः । “अव्युच्छिन्नास्ततस्त्वेते सर्वस्थित्यन्तसंयमा” इति स्मृतेः । चिदानन्दात्मविग्रहत्वादतसीपुष्पप्रभत्वाच्च कृष्णः । ‘‘कृषिभूर्वाचकः शब्दो णश्च निर्वृतिसञ्ज्ञकः । तयोरैक परं ब्रह्म कृष्ण इत्यभिधीयते” इति “कृष्णोऽहमर्ज्जुनेति च” स्मृतेः । सर्वेषु नामसु मुख्यमिदं नाम “नाम्नां मुख्यतमं नाभ कृष्णाख्यं मे परन्तपेति” स्मरणात् ॥ आनन्दपूर्णतां द्योतयति ताम्र-राजीवपत्रनेत्रत्वात् लोहिताक्षः । समावृषभो लोहिताक्ष इति मन्त्रवर्णात् । “मदविघृणितलोचन ईषन्मानदः स्वसुहृदां वनमाली”ति स्मरणाच्च । भक्तवैमनस्यापहन्तृत्वात् प्रतर्द्दनः । तर्दहिंसायां ततो ल्युः । अथ परमव्योमाधिपतां सूचयन्नाह चतुर्दशभिः-परमद्धिनिषेवितत्वात् प्रभूतः । यतस्त्रिककुद्धाम “पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवीति” मन्त्रवर्णात्त्रिपद्विभूतिः । परमव्योमत्रिककृदुच्यते तद्धाम स्थानमस्येत्यर्थः । पूनाति स्मतृनिति पवित्रम् । पूञ्पावने इत्यस्मात् कर्तरि - चर्षिदेवतयोरिति सूत्रात्त्रः । परममङ्गलमिति सविशेषणं नाम मगिगतौ तस्मादनच् “अशुभानि निराचष्टे तनोति शुभसन्ततिम् । स्मृतिमात्रेण यत्पुंसां ब्रह्म तन्मङ्गलं विदुरिति” स्मरणात् । मङ्गलाय परस्मै नम इति चतुर्थ्यन्तं वोध्यं मङ्गलविशेषणत्वात् ॥२०॥
स्वेतर समस्तवस्तु व्यवस्थापनशीलत्वादीशानः । ईशेस्ताच्छल्येऽर्थेचानश् । पुमर्थसाधकान् प्राणानिन्द्रियाणि ददाति प्रथमपुरुषरूपेऐति प्राणदः । “बुद्धीन्द्रियमनः प्राणान् जनानाभसृजत् प्रभुरित्यादि” स्मरणात् । प्राणित्युपजीवयति द्वितीयपुरुषद्वारेति प्राणः । ‘‘को ह्य वान्यात्कः प्राणायदेष आकाश आनन्दो न स्यादिति” श्रुतेः । सर्वेभ्यः प्राग्वर्त्तित्वेनातिवृद्धत्वाज्येष्ठः । वृद्धस्य ज्यः । महागुणत्वेनातिप्रशस्तत्वाच्छेष्टः प्रशस्यस्य श्रः । साधनसिद्धेभ्यश्च जीवेभ्यः प्रकटतया जायन्त इति निरुक्तर्नित्यमुक्ता गरुडादयः प्रजास्तासां पतिः स्वामी नित्यं तदभ्यर्च्य इत्यर्थः । “यदक्षरे परमे प्रजा” इति श्रुतेः । हिरण्यवदभिलषनीयत्वात् त्रिपादविभूतिर्हिरण्यं तत्र गर्भवन्निवासद्धिरण्यगर्भः, “हिरण्मये पुरे कोशे विरजं ब्रह्म निष्कलमित्यादि” श्रुतेः । तत्र तस्य नित्यं महिषीनिषेवितत्वमाह-भूगर्भो माधव इति । लीलाया उपलक्षणमेतत् भूर्द्रीक्षमाद्य परनाम्नी भूदेवी सा गर्भवदनुभवेन भरणीयास्येति भूगर्भः । मा लक्ष्मीस्तस्या धवः पतिरिति माधवः । “श्रीश्च ते लक्ष्मीश्व पत्न्यावि”ति श्रुतेः । मधुं स्मर्त्तृनां संसारं निसूदयति मधुसूदनः । “मधुः संसारनामेति ततो मधुनिसूदन” इति शिवोक्तेरिति ॥२१॥
तत्तद्विहारेष्वप्रतिहतेच्छुत्वादीश्वरः, सत्यकामः सत्यसङ्कल्प इति श्रवणात् । इच्छाविद्यातर्कविमर्द्दिस्वभावत्वाद्विक्रमी, तादृग्बिक्रमानुरूपं दिव्यः धनुरस्यास्तीति धन्वी, ब्रीह्यादित्वादिनिः । तत्तद्विहारानुगुणस्थिर प्रज्ञत्वान्मेधावी । अस्मायामेधास्रजो विनिः । विना पतङ्गेन्द्रेण गरुडेन क्रमोऽभिमतदेशेषु गतिरस्येति विक्रमः । तत्तद्भोग्यगन्धरसादिसंयोजनपरिपाटीतत्तन्निखिलभोगशक्तिश्च क्रमः, स नित्यमस्यास्तीत्यर्श आद्यच् । “क्रमः शक्तौ परिपाट्यामि”ति विश्वः ॥ अतोऽनुत्तमः सर्वोत्तमः “न तत्समश्चाभ्यधिकश्च दृश्यत” इतिश्रुतेः । “मत्तः परतरं नान्यदिति” स्मृतेश्च । अतो दुराधर्षः स्वैतरैः सर्वेराधर्षयितुमज्ञातुमशक्यः । अत्र दुरिति निषेधे । दुर्भाग्यस्य दरिद्रतेत्यादिवत् । कृतं पत्रपुष्पाद्यर्पणं जानातीति कृतज्ञः । “पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति । तदहं भक्त्युपहृतमश्नामि प्रयतात्मन” इति वचनात् । करोति जीवनकर्मप्रवृत्ता निति कृतिः । ति च क्तौ च सञ्ज्ञायामिति सूत्रात् कर्तरि क्तिच । प्रकरोतीति प्रकृतिवत् । श्रुतिश्चैवमाह-“एष ह्येव साधु कर्म कारयत्या”द्या । आत्मानो जीवा नित्यं प्रवर्तनीयाः सन्त्यस्येत्यात्मवान् ॥२२॥
सुष्ठु राति ददातीति सुराः सत्पात्रदानिनस्तेषामीशस्तथा दाने प्रवर्तकः । शीर्थ्यन्ते दुःखानीति शरणं करणाधिकरणयोश्चेति ल्युट् । अविशेषेण सर्वाश्रय इत्यर्थः । सर्वस्य शरणं सुहृदिति मन्त्रवर्णात् । आनन्दरूपत्वात् शर्म “आनन्दो ब्रह्मेति श्रुतेः ।“ विश्व चित्परमाणुवृन्दं रेतो वीर्यं यस्य स विश्वरेताः । अतः प्रजाभवः, भवन्त्यस्मादिति भवः । ऋदोरम् मम योनिर्महद्ब्रह्मत्यादिवाक्यात् । न जहाति स्वभावं स्वभक्तान वेत्यहः । नञि जहातेरिति सूत्रात् । यद्वा अनाद्यविद्यानिद्रायां निमग्नानां जागरहेतुत्वादहरिवेत्यहः । तत्तो ज्ञानं हि जीवानमित्युद्धववाक्यात् । लब्धजागराणां तेषामुद्धाराय संवसतीति सम्बत्सरः । सम्पूर्वाद्वसेः सरः, सस्य तः । “तेषामहं समुद्धत्त मृत्युसंसारसागरादिति” स्मृतेः । विशेषेणानातितानात्मसात् करोतीति व्यालः । अतश्चोपसर्गे इति कः । प्रतीयते विश्वस्य तेनेति प्रत्ययः । बाहुल्यत् करणेप्येरच् । “ददामि बुद्धियोगं तं येन मामुपयान्ति त” इति स्मृतेः । यथा तैः शास्त्राद् गुरुमुखाच्च प्रतीतिस्तथैव सर्वं स्वरूपगुणादिकं दर्शयतीति सर्वदर्शनः । “पश्यन्ति मे रुचिराण्यङ्ग सन्तः प्रसन्नवक्त्रारुणलोचनानि । रूपाणि दिव्यानि वरप्रदानि साकं वाचं स्पृहनीयां वदन्तीति” स्मरणात् ॥२३॥
तेषां स्वप्राप्तिप्रतिकूलान् क्षिपतीत्यजः । जगतिक्षेपनयोस्तस्मादच् । बाहुल्यकाद्वीभावो । न तेषां सर्वणि चक्षुरादीनि करणान्याश्वश्नुते व्याप्नोतीति सर्वेश्वरः अश्नुतेरान्तकर्मणि वरच् । उपधाया इत्यञ्च तेषु परि निष्पन्नस्यात्मनोऽभिव्यञ्जनात् सिद्धः । निःसीमातिशयफलरूपत्वात् सिद्धिरूपायैस्तस्याभिव्यक्तीकरणाद्वा । भवत्याहमेकया ग्राह्य इत्यादिस्मृतेः । सर्वेषां भक्तवाञ्छितानां मूलत्वात् सर्वादिः । ‘‘स्वगपिवर्गयोः पुंसां रसायां भूवि सम्पदाम् । सर्वसामपि सिद्धीनां मूलं तच्चरणाच्चर्नमिति” स्मरणात् ॥
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्नि
प्रथमं नाम-शतक व्याख्यातम् ॥
स्वभक्तेभ्यो न च्यवते स्म नापगतो भवतीत्यच्युतः । च्युङ्गतावित्यस्मात् कर्तरि क्तः । “तस्याहं न प्रणश्यामि स च मे न प्रणश्यतीति” स्मरणात् । वर्षति साधूनामभीष्टानीति वृषः । इगुपधत्वात्कः । प्राकम्पयत्यसाधूनित्याकपिः कुरिडकुम्प्योर्न लोपश्चेति सूत्रादाकम्पे रि प्रत्ययः । ततः कर्मधारये वृषाकपिः । अमेय इत्यानिति परिच्छेत्तुमशक्य आत्मा बुद्धिर्यस्य सोऽमेयात्मा । सर्वैः प्राकृतैर्वस्तुभिर्योगः सम्पर्कस्ततो विनिःसृतस्तदसम्पृक्त इत्यर्थः ॥२४॥
वसति भक्तेष्विति वसुः । वसिशृ इत्यादि सूत्रादुः, “मद्भक्ता यत्र गायन्ति तत्र तिष्ठामि नारदेति” स्मृतेः । वसुष्वकिञ्चनभक्तधनेषु मनो यस्य स वसुमनाः । अग्निधनरस्मिरत्न त्रिदशविशेषु भवति वसुशब्द इति हलायुधः । “नमोऽकिञ्चनवित्तायेति” स्मृतेश्च । सत्सु भक्तेषु साधुः सत्यः । पाण्डित्यादिभिर्गुणविषमेष्वपि भक्तेषु तुल्यमनस्कत्वात् समात्मा, करस्थवत् तैः परिमितत्वात् सम्मितः, हस्ते गृहीत्वाभिषयन्त्य वागुरदित्यादि स्मरणात् । यथाधिकारं स श्रीकतया तेष्वभिव्यक्तेः समः, सर्वेभ्योप्यभीष्टप्रदानादमेयः, “अमोघा भगवद्भक्तिर्नेतरेति मतिर्ममेति” स्मरणात् । देहराख्यं तेषां हृत्पुराडरीकमक्ष्णोति व्याप्नोतीति पुराडरोकाक्षः । वृषाणि भक्ताभीष्टवर्षीणि कर्माण्येस्येति वृषकम्म । वृषु सेचने । वृषा सौन्दर्येण दृगाप्यायिकाकृतिरस्येति वृषाकृतिः”विभ्रद्वपुः सकलसुन्दरसन्निवेशं कर्माचरन् भुवि सुमङ्गलमाप्तकाम” इत्युभयत्र स्मृतेः ॥२५॥
प्राणिरुजां निराकरणाद्रुद्रः । रुजं द्रावयते यस्माद्रुद्रस्तस्माजजनार्द्द न इति स्मरणात् । सहस्रमूर्द्धत्वाद्वहुशिराः । सहस्रशीर्षा पुरुष इति श्रुतेः । जगद्विभर्तीति वभ्रुः भ्रुज्ञ् कुर्द्धित्यञ्च, विश्वेषां भक्तानां स्वेन सह मिश्रणाद्विश्वयोनिः । मिश्रणार्थाद्घौतेनिः, पवित्रभक्तोक्तिश्रवणात् शुचिश्रवाः ‘‘शुचीनि श्रवणीयानि शृणोमसीह धनञ्जय । न च पापानि गृह्णामि ततोऽहं वे शुचिश्रवा” इति स्मृतेः । जरामरणनिवारकत्वादतृप्तिकरणत्वाच्चामृतः । समुद्रसारादमृताद्विशेषमाह - शाश्वतः स्थाणुरिति । स्वयं नित्यः स्वसेविनं सर्वदा भोग्यश्चेत्यर्थः । तद्धयनित्यं सकृद्भोग्यञ्च । अतो वरारोहः, वरः पुनरावृत्त्यभावादुत्कृष्टः प्राप्तिलक्षण आरोहो यस्य सः न च पुनरावर्त्तनश्रवणात् । अथ कारणोदशायितां व्यञ्जयन्नाह द्वाभ्याम् । महत प्रकृतिक्षोभक्षमं तपो यस्य स महातपाः । तप आलोचने ॥२६॥
सर्वां चतुर्विंशतिविधां प्रकृति गच्छति व्याप्नोतीति सर्वगः । गर्भोदशायितां सूचयन्नाह द्वाभ्याम् । सर्वाणि सृज्यानि विन्दति सृष्ट्या लभते इति सर्ववित् । सर्वं निर्मिमाणेप्यविकृतो भातीति भानुः । अथ क्षीरोदशयितां सूचयन्नाह सप्तभिः । विष्वक् सर्वत्र सेनास्य विष्वक् सेनः । इनेन प्रभुना सहिताः सेनाः पार्षदः पालनार्थं । यस्य सर्वत्र सन्तोत्यर्थः । पालनविरोधिनो जनानर्द्द यति मारयतीति जनाईनः अर्द्द -हिंसायां । जनैरर्द्दते याच्यते सौख्यमयमिति वा । अर्द्द गतौ याचने च । वेद ऋगादिरूपः वेदो नारायणः साक्षादित्यादि स्मृतेः । वेदमक्षरतोऽर्थतश्च वेत्तीति वेदवित् । “वेदान्तकृद्व दविदेव चाहमि”ति स्मरणात् । शिक्षाद्यङ्गैरहीनत्वादेव्यङ्गः । वेदोऽङ्ग ज्ञापकमस्य वेदाङ्गः । “नावेद-विन्मनुते तं वृहन्तमिति” श्रुतेः । वेदवित्तं विचारयति उर्द्ध्ववाहुर्वेदमावर्त्ततीति नारायणीये प्रस्तावात् । क्रान्तदर्शित्वात् कवि, क्रान्तदर्शितामाह त्रिभिः ॥२७॥
लोकधर्मष्ठा ब्राह्मणादयः सुरा धर्माराध्या देवाः धर्मा अग्निहोत्रादयः तेषां सर्वोषाध्यक्षः । धर्माननुष्ठाप्य तदचितैः सुरैर्धर्मानुष्टातृभ्यः फलदायी ति भावः । अथ वासुदेवतां सूचयन्नाह-केन कृताकृतः कृतेन कार्येण सहाकृतो न जातः प्रकृत्यस्पर्शीत्यर्थः । एवं चतुरात्मा सङ्कर्षणादि चतुर्विधवपुः । ननु कथमेकस्य चतुरात्म्यं तत्राह चतुर्व्यूहः । तत्तत्कार्याय प्रकटितैः समस्तैयस्तैश्च षḏह् भिरैश्वर्यैश्चातुर्विध्येन व्यूह्यते ज्ञायते इत्यर्थः । हलश्वेति ककर्मणि घञ्। चतास्रो दंष्ट्रा अस्येति चतुर्द्दंष्ट्र । चतुर्द्दंष्ट्रत्वं महापुरुषलक्षणं “चतुर्द्दश समद्वन्धश्चतुर्द्दंष्ट्रश्चतुर्गतिरिति” स्मरणात् । अथ त्रिमूर्त्तिमध्ये विष्णुरूपतां सूचयन्नाह-चतुर्भुज इत्यादिभिरेकादशभिः ॥ २८॥
भ्राजिष्णुरतिदीप्रः । भुज्यतेऽनेनेति भोजनं जीविकाप्रद इत्यर्थः । भुनक्ति पालयति शिष्टानिति भोक्ता । दुष्टान्न सहत इत्यसहिष्णुः । जगदादिषु त्रिष्वन्यतमत्वेन जायते इति जगदादिजः । सप्तम्यां जनोर्डः । “यस्य प्रसादादहमच्यूतस्य भृतः प्रजासष्टिकरोऽन्तकारी। क्रोधाच्च रुद्रः स्थितिहेतुभूतो यम्माचे मध्ये पुरुषः परस्तादिति” स्मृतेः । एवं प्रपञ्चमध्ये जनित्वाप्यनघः पापविनाशी । गुणावतारत्वेन ब्रह्मरुद्रतुल्योपि विजयस्तदभ्यधिकतया विराजमानः । अतो जेता स्वाभिमते कर्मणि तयोः स्थापकः । “एतौ तो विवुधश्रेष्ठावि” त्यादि स्मरणात् । स्त्रांशिरूपेण विश्वस्योपादानमिति विश्वयोनिः । पुनः पुनर्देवकार्याय वसतीति पुनर्वसुः ॥२९॥
अथ वामनरूपतां सूचयन्नाह द्वादशभिः-अनुजत्वेपि गुणैरिन्द्राधिक्यादुपेन्द्रः । “द्वादशैवादिते पुत्राः शक्रमुख्या नराधिप । तेषामवरजो विष्णुर्यत्र लोकाः प्रतिष्ठिता” इति स्मृतेः । इन्द्रोपकृतिफलाय वलिछलायातिविचित्रह्रस्ववटुवेषत्वाद्वामनः । त्रिलोकीनाक्रमयितुमत्युच्चत्वात् प्रांशुः । “तोये तु पतिते हस्ते वामनोऽभूदवामनः । सर्वदेवमयं रूपं दर्शयामास वै भूरिति” स्मरणात् । नास्त्यमोघो व्यर्थोंस्तेत्यमोघः । वलिशक्रयोरुभयोः साम्येनार्थार्पणात् । तादृशेप्युपकारि प्रत्युपकारैरपेक्ष्यात्शुचिः । वामनमभिभवितुमुद्यते वलिसन्न्ये शौर्याविष्कारादूर्जितः । शक्त्या शत्रुमतिक्रम्य स्थितत्वाततीन्द्रः । शक्रेण भक्तिमता सम्यग् गृह्यते इति सङ्ग्रहः । गृहवृध इत्यादि सूत्रादप् । सृज्यते आदित्यास्वविधेयः क्रियते इति सर्गः, हलश्चेतिघञ् । धृतः सुखदानेन वशीतात्मा शक्रादेमनो येन स धृतात्मा। नियमयनि स्वस्वाधिकारेषु देवानिति नियमः । तानन्तः प्रविश्य यच्छतीति य मः ॥३०॥
क्षीरधिमथनाविर्भूततां सूचयन्नाहाष्टादशभिः । शक्रादिभिः स्वदरिद्रापहर्त्तृतया वेदितुमर्ह्यो वेद्यः । सुधामादाय धन्वन्तरिवपुषाविभवाद्वैद्यः । देवहिताय नित्यमुपायित्वात् सदायोगी । अनृतय युध्यमानान् वोरान् सुरान् हतवानिति वीरहा । अत्र हन्तेः किवार्षः । ब्रह्मभ्रणवृत्तेषु क्विविति सूत्रे ब्रह्मादिष्वेव हन्तेरेवभूते एव क्विवेवेति चतुर्विधनियमेन वीरोपपदाद्धन्तेः किपोप्राप्तेः। एवमग्ने कामहादयोऽपि वोध्याः । वेर्गरुडस्येरैः पचैर्हन्त्यसुरानिति वा वीरहा “सुपर्णपक्षाभिहता निपेतुर्दानवर्षभा” इति स्यरणात् । सर्वविद्यास्वामित्वामाधवः । “मा विद्या च हरे प्रोक्ता तस्यामीशो यतो भवान् । तस्मान्माधव नामासि पूर्वमसीतिशब्दित” इति शिवोक्तेः। क्षोरोदमथनादाविर्भूतया मा लक्ष्मीपतित्वेन वृतत्वादित्येके । तत् सौन्दर्यलावण्ययोः लक्ष्म्यादिभिः स्वादितत्वान्मधुः । मन ज्ञान इत्यस्मात् स्वाद्वर्थात् फलपाटित्यादिसूत्रेण उप्रत्ययोधश्चान्तादेशः । सुरेभ्यः सुधां पाययित्वातिरोधनादतीन्द्रियः । महती दैत्य मोहिका मायाऽस्य मोहिनीवेषस्येति महामायः । देवकार्यसिद्धये महानुत्साहोऽस्येति महोत्साहः । महद्बलं मोहनसामर्थ्यमस्येति महाबलः ॥३१॥
महतोदमेव साधयिष्यामीति निश्चयरूपाबुद्धिरस्येति महाबुद्धिः । महत् सुरकार्यनिष्पादकममृतोत्थापकं वीर्यं शौर्यमस्येति महावीर्यः । महती दैत्यधीवशोकरणक्षमाशक्तिरस्येति महाशक्तिः । क्षीराब्धिमथने सुरासुराणामवसादे सति स्वयमेव तं निमथ्नन् महाद्युतिः । यथा वर्णितं श्रीशुकेन-“मेघश्यामः कनकपरिधिः कर्णविद्योतिविद्युत् मूर्द्ध्नि भ्राजद्विलुलितकचः स्रग्धरो रक्तनेत्रः । जैत्रैर्दोभिर्जगदुभयदै दशुकं गृहित्वा मन्थमथ्नन् प्रतिगिरिरवा शोभताथो धृताद्रिरिति ।” अनिर्द्देश्यं कथमेतदेवमिति निर्देष्टुमश्यकं वपुरस्येत्यनिर्देश्यवपुः । श्रोर्वेषरचना मतिर्वास्ति प्रशस्तस्येति श्रीमान् । “शोर्वेषरचना-शोभा-भारती-सरलद्रुमे । लक्ष्म्यां त्रिवर्गसम्पत्तौ वेषोपकरणे मताविति” विश्वः । अमेयः सर्वैः प्राणिभिर्देवादिभिरपि मातुं परिच्छेतुमशक्य आत्मा यतोऽस्येत्यमेयात्मा । “आत्मा पुंसि स्वभावेऽपि प्रयत्नमनोसोरपि । धृतावपि मनीषायां शरीरब्रह्मणोरपीति” मेदिनिकरः। एतदेवाह महाद्रिधृगिति । महान्तमद्रिं मन्दराचलं धर्जत्यधः कूर्मवपुषेति तथा। ऋजिर्गत्यर्थोप्यत्र धारणार्थो वोघ्यः । धातुणामनेकार्थत्वस्वीकारात् ॥३२॥
खण्डपाल कतां सूचयन्नाह चतुर्भिः । महानिष्वासश्चापोस्येति महेष्वासः । दाशरथिवपुषा किं पुरुषवर्षं पालयंस्तद्वासिभिरुपास्य इत्यर्थः । मह्या भूमेर्भत्ता पतिरिति वराहमूर्त्तिरुत्तरकुरुवर्षं पालयंस्तद्वासिभिरुपास्य इत्यर्थः । श्रिया रतिनाम्न्या प्रियया सह केतुमालवर्षे निवसति कामदेववपुरिति श्रीनिवासः । तद्वर्षं पालयंस्तद्वासिभिरुपास्य इत्यर्थः । एवं सतां वर्षान्न्तरवत्तिनां भक्तानां पतिस्तत पालकस्तैरुपास्य इति तत्तन्नामानि पञ्चमादिभिरवगम्यानि । अथ श्वेतद्वीपपतित्वं सूचयन्नाह षोडशभिः । न केनाप्येकान्तभक्तिहीनेन निरुध्यते वशी क्रियते इत्यनिरुद्धः । सुरन्त्येकान्तभक्तितेजसा दीप्यन्त इति सुरास्तदेकान्तिनश्चन्द्रादित्यवर्च्च सस्तानानन्दयति सर्वदात्मसाक्षात्कारेणेति सुरानन्दः । सुर-ऐश्वर्य-दीप्त्योस्तौदादिकः । गावस्तेषां स्तुतिवाचस्ता विन्दतीति गोविन्दः । ‘‘दिगृष्टिदीधिति स्वर्ग-वज्रवाग्वाण-वारिषु । भूमौ पशौ च गोशब्दो विद्वद्भिः दर्शसु स्मृत” इति हलायुधः । गावस्तदङ्गकिरणास्तान् विन्दत्युपासत इति गोविन्दस्तेषां पतिस्तदापि विघ्ननिवारकतया पालक इति गोविदां पतिः ॥३३॥
प्रकाशमयत्वान्मरीचिः, मृक्लिभ्यामीचिः । दमयति विच्छेदतापं स्वध्यातृणां कान्तिकन्दलीभिरिति दमनः । सनकादिभिः सारासारविवेके पृष्टे अप्राप्ततदुत्तरेण ब्रह्मणा चिन्तितस्तद्विवेकाय हंसवपुषा। विर्भावाङ्गं सः । हन्ति तत्सन्देहमिति व्युत्पत्तिः । हन्ति गच्छति मनोहरमिति हंस इत्यन्ये । सुपर्णश्छन्दोमयो गरुडः, सोऽस्य वाहनतया नित्यमस्तीति सुपर्णः । अर्शश्राद्यच् । भुजगस्य शेषनागस्योत्तमः स्वामीति भुजगोत्तमः । शेषपर्यशायीत्यर्थः । हिरण्यवत् स्पृहनीयतया दर्शनीया नाभिरस्येति हिरण्यनाभः । पूर्ववदच् समासान्तः । शोभनानि तपांसि यस्य यस्मै वा स सुतपाः । पद्मनाश्वरणविदस्तदेकान्तिनो भक्तास्तराभातीति पद्मनाभः । प्रजा विधिशिवादयस्तासामापत्सु पालकत्वात् प्रजापतिः ॥३४॥
उपासितः सन् मृत्युं निवारयतीत्यमृत्युः । स्वोपासकानां सर्वानुपायन् पश्यतीति सर्वदृक् । “यः सर्वज्ञ” इति श्रुतेः । सिञ्चत्युपासकानन्तिकागतान् कृपाकटाक्षसुधयेति सिंहः । सिञ्चेः सञ्ज्ञायां हनुमौकश्चेति सूत्रात्सिचेः कः स्याथकारोन्ता देशोनुमागमेश्वेति तदर्थः । नारायणीयमन्त्रोदाहरणं मृग्यम् ॥
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्नि
द्वितीयं शतकं व्याख्यातम् ॥
अथ श्रीदाशरथितां सूचयन्नाहाष्टादशभिः । विश्वामित्रेण मिथिला नीतः सीतया सह पाणिग्रहणलक्षणात् संश्लेषात् सन्धाता । पितुराज्ञयारण्यं गतो रावणापहृतसीतार्थी सुग्रीवेण सह सङ्ख्यात् सन्धिमान् । स्वीयैर्निवार्यमाणोऽपि शरणागतविभीषणवात्सल्यताऽचलनातू स्थिरः । तदेवाह विभीषण-त्याग-फलकानि स्वकीयानां वचांसि क्षिपति गच्छति च तं मित्रत्वेनेत्यजः । “मित्रभावेन सम्प्राप्तं न त्यजेयं कशञ्चन । दोषो यद्यपि तस्मिन् स्यात् सतामेतद्विगर्हितम् । सकृदेव प्रपन्नो यस्तवास्मीति च याचते । अभयं सर्वदा तस्मै ददाम्येतब्रतं ममेति”तान् प्रति श्रीरामचन्द्रवाक्यात् । सेतुं निर्माथलङ्कां दग्ध्वा रावणं निहत्य सीतामानेष्यामीत्येव दुःशकं मर्षणं यस्य स दुर्मर्षणः । एवं प्रतिज्ञाय रावणं सगणं दण्डयोमासेति शास्ता । एवं चरितैः प्रख्यातमूर्त्तित्वात् विश्रुतात्मा । सुरारीन् रावणादीन हतवानिति सुरारिहा ॥३५॥
जगद्धितोपदेष्ट्रवाद्गुरुः । जगद् - गुरुणां विरिञ्च्यादीनामपि शिक्षकत्वाद्गुरुतमः । निखिलाश्रयत्वात् प्रभावमयत्वाद्वा धामः । सद्भयो विश्वामित्रादिभ्योहित इति सत्यः, उगवादिभ्यो यत् । सत्यः पारमार्थिकः पारमाक्रमोऽस्येति सत्यपराक्रमः । निमिषति वेदविरुद्धेषु कर्मस्विति निमिषः । तेषु निमीलितदृष्टिरित्यर्थः । वेदोक्तेषु कर्मसु न निमिषति किन्तु जागर्त्येवेत्यनिमिषः । वेदमर्यादानिवद्धाचार इत्यर्थः । स्रग्वैजयन्ती नित्यमस्यास्तीति स्रग्वी । स्रजो विनिः । सरस्वत्याः पालकत्वाद्वाचस्पतिः । गुहजटायुशवरीप्रभृतिभ्योऽवरेभ्योपि देवदुर्लभपदार्पणादुदारधीः । एषुदाहरणानि तु श्रीश्रीरामायणभारतभागवतवचांसि मृग्याणि ॥३६॥
। अथ मत्स्याकृतितां व्यञ्जयन्नाह षḏह्भिः । शृङ्गेन नावं वद्ध्वा तस्यां मन्वादीन् निधाय तामग्रं नयतीत्यग्रणीः । मन्वादीनां ग्रामं समूहं नयति नावि निधाय तेन सह क्रीडतीति ग्रामणीः । श्रीर्वेदलक्षणा भारती रक्ष्यतया यस्य विद्यते स श्रीमान् । युक्तकारित्वान्यायः । परियोनणोरित्यादि सूत्राघञ् । निर्वाहिकत्वान्नेता। एवं सम्यक् शोभमोरणं चेष्टितं यस्य समीरण ईरगतौ कम्पने च ततो ल्युः । एषुदाहरणानि त्वष्टमादिषु तदुपाख्यानानि मृग्यानि । अथ विश्वरूपतां सूचयन्नाह द्वादशभिः । सहस्राणि मुद्धणोऽस्येति सहस्रमूर्द्धा । विश्वव्यापीत्वाद्विश्वात्मा । सहस्राक्षः सहस्रपादिति स्फुटार्थं एषु सहस्र-शब्दोऽसङ्ख्येयवचः “सर्वतः पाणिपादं तदि” त्यादि ज्ञापकात् ॥३७॥
घटियन्त्रवत् संसारचक्रानावर्त्तयतीत्यावर्तनः । “तेनेदं भ्राम्यते ब्रह्मचक्रमिति” श्रुते । निवृत्त एकपादविभूतिरुद्गत आत्मा त्रिपाद्विभूतिलक्षणो यस्य निवृत्तात्मा “त्रिपादूर्द्ध्व̮उदैत पुरुष” इति श्रुतेः ॥ विषयासक्तान् प्रति गूढत्वात् संवृत्तः । स्वपथविमुखानसुरान् विहिसन् सम्प्रतर्द्दनः । अहः शब्दलक्षितस्य कालस्य अपि ग्रसकत्वादहः । “सम्बर्तकः यः कालकालो भवत्” इति श्रुतेः । वहति देशरूपेण विश्वमिति वह्निः । वहि श्रीत्यादिना वहेनिः । “पाणेदस्येहाभवत् पुनरि”तिश्रुतेः । ईला प्रेरणा यस्य नास्ति सोऽनिलः । स्वयमेव शिष्टहिताय तथा प्रवृत्तः । सर्वधारिराया भुवो धरणाद्धरणीधरः । “स दधार पृथिवीमुतेमामिति” श्रुतेः । विश्वरूपप्रकरणं चात्रोदाहरणं मृग्यम् । विश्वरूपप्रदर्शक इत्यष्टोत्तरशतनाम्नि ॥३८॥
वटपत्रशयितां सूचयन्नाह चतुर्भिः । शोभनः प्रसादोऽस्येति सुप्रसादः । प्रलयाम्भः परिक्लिष्टं मार्कण्डेयमन्तः प्रवेश्य तत्क्लेशमपनीतवामित्यर्थः । प्रसन्नात्मा पूर्णकामत्वाद्रागाद्यनाविलचितः । श्वासेनान्तराकृष्टस्य मार्कण्डेयस्य विस्मयाय विश्वानि ब्रह्माण्डानि धर्जति सृष्ट्वा धत्ते इति विश्वधृक् । तानि विश्वानि व्याप्नुवन् भुनक्ति पालयतीति विश्वभुग्विभुः । इहोदाहरणं तत्प्रकरणं मृग्यम् । अथ वदरीपतित्वं द्योतयत्येकादशभिः । देवान् पितृश्च स्वात्मकान् तथा विप्रांश्च सत् कुर्वन् सत्कर्ता । तैः स्वयमर्च्चित्वात् सत्कृतः । साध्नोति भरतखण्डस्थानां हितानि तपसोऽन्ते साधुः । जहाति स्वोक्तप्रतिकूलानि जह्णः । जाहातेर्द्धऽन्तलोपश्चे ति सूत्रान्नु प्रत्यये साधुः । इन्द्रप्रेषितान् कामवसन्तादीन स्वतेजसा जयन् युध्यमानं रुद्रं चाभिभवन् जह्णरिति श्रीभागवतनारायणीयादि प्रस्तावादपरे व्याचक्षते । शब्दसिद्धिस्तु पृषोदरादित्यादित्याहुः “नराजातानि तत्त्वानि नाराणोति विदुर्बुधाः । तस्य तान्ययनं पूर्वं तेन नारायणः स्मृत” इति च स्मरणात् । नारा जीवगणास्तेषामयनं प्रवृत्तिर्यस्मात् स तथेत्यन्तर्यामिब्राह्मणादित्येके । अवतारिणा सहाभेदादिदं वोध्यम् । न रीयते न क्षीयते इति नरः । अन्येष्वपि दृश्यते इति डः । परिखेतिवच्छब्दसिद्धिः । निविकारनराख्य तद्द्वितीयरूप इत्यर्थः ॥३९॥
तपस्वि-विप्रवेशोप्यसङ्ख्येयो गुणतो सङ्ख्यातुमसङ्ख्यः । अनवच्छेद्य धृतिकवादप्रमेयात्मा। विशिष्टो परिमितविभूतिमान् । अज्ञात-तद् गुणगणैरिन्द्रभृत्यैः कामादिभिरखण्डितधैर्या दिव्यरूपवतीरङ्गनाः प्रदर्थ्य यस्तान् विस्मापयामास तेभ्यो ददौ चोर्वशीमित्यर्थः । शिष्टान् वेद-तदर्थानुष्ठान निष्टान् जनान् करोतीतिर्शिष्टकृत् । ध्यातः श्रुतः सन् पुनातीति शुचिः, शोचति लोकमङ्गलमिति वा। अथ मन्वन्तरावतारतां द्योतयन्नाह नवभिः । सिद्धा अर्थाः सङ्कल्पाश्च यस्य स । सिद्धार्थः । सिद्धसङ्कल्पश्च अतः सिद्धिदः । देवमानवादि-वाञ्छितार्पकः । सिद्धि निर्विघ्न क्रियासमाप्तिं साधयतीति सिद्धिसाधनः । अनुष्ठानकालेऽपि साहाय्यकृदित्यर्थः ॥४०॥
वृषणमिन्द्रं चोपकृत्याह्रोति व्याप्नोतीति वृषाही । वासवो वृत्तहा वृषेत्यमरः । वृषेण जगद्रक्षणेन धर्मेण भातीति वृषभः । विशति सर्वेषु कार्यभारेष्विति विष्णुः । “व्याप्य सर्वानिमांल्लोकास्थितः सर्वत्र केशवः । ततश्च विष्णुनामासि विशेर्धातोः प्रदशनादि”ति शिवोक्तेः। वृष्ण इन्द्रस्य पर्व उत्सवो यस्मात् स वृषपर्वा वृषा इन्द्र उदरो यस्य स वृषोदरः । गर्भस्थवदिन्द्रो यस्य पालनीय इत्यर्थः । मन्वन्तरकथाष्टमोक्तोदाहृतिर्मृग्या। हयग्रीवरूपतां द्योतयन्नाह चतुर्विशत्या । वर्द्धयति प्रजापतीमिति वर्द्धनः । भक्तदत्तं स्वल्पमपि भूरि करोतीति तथेत्यन्ये । लोकात्मकविग्रहप्रकाशाद्वर्द्धमानः । सर्वगतोऽपि सर्वास्पर्शाद्विविक्तः । श्रुतिसरितामाधारच्छ्रुतिसागरः ॥४१॥
शोभनाः श्रुतिसंरक्षणक्षमा भुजा यस्य स सुभुजः । बालकनिर्मितैः सैकतसेतुभिर्महासरिद्वेग इव मधुकैटभादिभिर्दुर्धरः । श्लाघ्यवाक्त्वाद्वाग्मी। अनवधिकातिशयपारमैश्वर्यवत्वान्महेन्द्रः । वसूनि द्यति दुष्टानामिति वसुदः । वस्ते निजमाहात्म्यमज्ञेष्विति वसुः । बहुरूपशालित्वान्नैकरूपः । वृहत्प्रांशुरूपं यस्य स वृहद्रूपः । शिपिषु रश्मिषु प्रविष्टत्वात् शिपिविष्टः ।“शैत्याच्छयनयोगाच्च शिपिवारि प्रचक्ष्यते । तत्पानाद्रक्षणाच्चैव शिपिविष्ट इहोच्यत” इति स्मृतेः । प्रकाशयति मधुकैटभनीतान्वेदाननीय ब्रह्मणीति प्रकाशनः ॥४२॥
पुनस्तयोर्मधुकैटभयोरागतौ स्वापादुत्थायोजस्तेजोद्युतिधरः । ओजः प्राणबलं तेजस्तदभिभवसामर्थ्य द्युतिर्दुःसहा विग्रहकान्तिः । प्रकाशात्मा चिद्धनः । तयोः सन्तापकत्वात् प्रतापनः । सर्वसम्पन्निषेवितत्वादृद्धः। वेदार्थप्राकट्यात् स्पष्टाक्षरः । स्वरहस्यस्य गुप्ततयोपदेशान्मत्रः । चन्द्रवदुज्ज्वलत्वाच्चन्द्रांशुः । श्वेतं चन्द्रविशुद्धाभमिति स्मृतेः । मधुकैटभपरिभाविप्रभावत्वाद्भास्कर द्युतिः ॥४३॥
अमृतांशोश्चन्द्रस्योद्भवो यस्मात् सोऽमृतांशूद्भवः । “चन्द्रमा मनसो जात” इति श्रुतेः । समुद्रमथनेन तस्याविर्भावाद्वेति केचित् । मधुकैटभमारके न तेजसः भ्राजमाणत्वाद्भानुः । नारायणीयमन्त्रोदाहरणम् । अथ दत्तात्रेयतां व्यञ्जयन्नाह नवभिः । शशन्ति कुटिलं गच्छन्तीति शशाः, शशप्लुतगतौ पचाद्यच् , कपिलादयो निरीश्वरास्तान वेत्ति निरस्यतयेति शशविन्दुः । विन्दुरिच्छुरिति सूत्राद्धत्ते रुप्रत्ययेनुमानिपात्यते । सुरन्ति वैदिकेश्वरस्वीकारेण दीप्यते इति सुरा वशिष्टादयस्तानाश्वश्नुते व्याप्नोतीति सुरेश्वरः । सेश्वरमुनिमान्य इत्यर्थः । भगवद्धर्मपीयूषेण संसृतिविषापहरणादौषधम् । धर्मसङ्करविरोधित्वज्जगतः सेतुः । सत्यैः पारमार्थिकैर्धर्मैः परान्निधर्मकात्मवादिकुबुद्धीनाक्रमतेऽभिभवतीति सत्यधर्मपराक्रमः ॥४४॥
न चायमस्य महिमा कादाचित्कः किन्तु त्रैकालिक इत्याह भूतेतित्रिष्वपि कालेषु जनैनथनीय इत्यर्थः । पवते गच्छति कृपाकटाक्षेण जतानुद्धर्त्तुमिति पवनः । पुनानान् प्रयोजयति पावनः । स्वसम्बन्धिभिमु निभिर्लोकशुद्धिकृदित्यर्थः । एवं बहुभिरुपकारैर्नालति न पर्याप्रोतीत्यनलः । अलं भूषणपर्याप्तिवारणेषु । अथर्षभतां सूचयन्नाह षḏह्भिः । कामं जनाभिलाषं हतवान् वाञ्छितदानेनेति कामहा । चक्रवर्ती सन् कामं भोगाभिलाषं कृन्ततीति कामकृत् । परमहंसः सन् तादृग्वेशोऽपि कान्तः कमनीयः । काम्यतेऽर्हदादिभिः पाषण्डिभिरिति कामः । मुमुक्षुणां कामं भोगाभिलाषं प्रद्यतीति कामप्रदः ॥ तत्तत्सर्वकर्मसु समर्थत्वात् प्रभुः । ऋयभचरित्रोदाहरणं मृग्यम् ॥४५॥
अथ युगावतारतां सूचयन्नाह चतुभिः । स्वाविर्भावेन युगानां सत्यादीनामादिमारम्भं करोतीति युगादिकृत् ॥
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्नि
तृतीयं नाम शतकं व्याख्यातम् ।
युगं सत्यादिकमावर्त्तयतीति पूर्ववृत्तमानयतीति युगावर्त्तः । नैकमायो बहुज्ञ नः तत्तयुगधम्मज्ञानवांस्तत्तत् प्रचारक इत्यर्थः । मायावयुनं ज्ञानमिति निघण्टकोषात् । महदशनं ज्ञानवैराग्यैश्वर्यानुभवलक्षणं यस्य स महाशनः । कृते शुक्लश्चतुर्बाहुरित्यादितत्प्रकरणमत्रोदाहरणम् । अथ कल्कितां व्यञ्जयन्नाह चतुर्भिः । अदृश्यो महाप्रभावपुञ्जत्वात्तदानीन्तनै र्म्लेच्छगणैर्द्रष्टुमशक्यः । व्यक्तरूपो महाकायोऽतिप्रगल्भः । सहस्रजिद्बहुम्लेच्छव्यूहक्षयकरः । अनन्तजिन्निखिलम्लेच्छ। क्षयकरः । तत्र प्रकरणमत्रोदाहरणम् ॥४६॥
एवं विलासव्यूहपुरुषलीलावतारतायां नामान्यभिधाय पुनः स्वयंरूपतायां नामान्यभिधत्ते इष्ट इत्यादिभिः । चरितान्यत्र क्रमिकप्रापयाण्यसकृदुपादीयन्ते ब्रह्मरुद्रादिसर्वदेवेच्छाविषयत्वादिष्टः । चक्रादिभिरायुधैः कौस्तुभादि भिर्विभूषणैश्च शोभिततया मधुपुर्यामाविर्भावाद्विशिष्टः । “तमद्भुतं बालकमम्बुजेक्षणं चतु र्भुजं शङ्खगदार्यु दायुधम् । श्रीवत्सलक्ष्मं गलशोभिकौस्तुभं पीताम्बरं सान्द्रपयोदसौभ” मित्यादि श्रीशुकोक्तेः । शिष्टैर्वैदिकैरिष्टोऽभ्यर्चितः । ततो ब्रजं गतः शिखण्डी शिखिपिञ्छशेखरः । बर्हिबर्हावतंसक इत्यष्टोत्तरशतनाम्नि । नह्यति वध्नाति ब्रजवासिनां मनांसि लावण्यरसनयेति नहुषः पृनहि कलिउषच् । वर्षति तेषु सुखानीति वृषः । नन्दब्रजजनानन्दीत्यष्टोत्तरशतनाम्नि । प्रतिवेशिनीभिर्निवेदितात् स्ववाल्यचापल्यनिर्भरादुदितं मातुः कोपं साधुमुद्रया हन्तीति क्रोधहा । इत्थं स्त्रीभिः सभयनयनश्रीमुखालोकिनी भिव्यख्यातार्था प्रहसितमुखी नह्य पालब्धु मैच्छत्” इति श्रीशुकोक्तेः। उत्सितं दुग्धं रक्षितुं मातरि गतायां क्रोधं करोतीति कोधकृत् । ‘‘सजातकोपः स्फुरितारुणाधरं सन्दश्य दद्भिर्दधिमन्थभाजनं । भित्त्वामृषाश्रुर्द्दषदश्मना रहो जघास हैयङ्गवमन्तरं गत” इति श्रीशुकोक्तेः । लीलापोषकृदेष कोपः। सुखचिद्घनात् स्वरूपात् कुन्तलादिवद्वैलक्षण्येन विभातोऽपि ततोऽनतिरेको मन्तव्यो न तु रजोजन्यो मायातीते तस्मिंस्तस्यासम्भवात् । कंसप्रेषितानां दुष्टानां प्राणापहारकरणात् कर्ता । पूतनाजीवितहर इत्यादीन्यष्टोत्तरशतनाम्नि । विश्वरक्षाथै बाहू यस्य स विश्वबाहुः । महीधरो गिरिः सोऽस्य ब्रजरक्षादीक्षितस्यास्ति धार्यतयेति महीधरः। अश आद्यच्। गोवर्द्धनाचलोद्धर्त्तेत्यष्टोत्तरशतनाम्नि ॥४७॥
न चोतते ब्रजपालनादित्यच्युतः । तत्र ख्यातत्वात् प्रथितः । प्रणिति प्रेम्ना ब्रजजनानिति प्राणः । प्राणान् बलानि ददातीति प्राणदः । “प्राणोस्मि प्रज्ञात्मानं मामायुरमृतमुपास्येति” श्रुतेः । सागसमागतं वासवमनु तत् संविधानाय सुमुखः सन् जायते प्रादुर्भावतीति वासवानुजः । अनौ कर्मणि ड इति सूत्रात् । गवामिन्द्रतयाभिषिक्ते तदापां कान्तीनामाश्रयोऽभूदित्यपान्निधिः। “अहं किलेन्द्रो देवानां त्वं गवामिन्द्रतां गत” इति शक्रोक्तेः ‘‘पायान्न इन्द्रो गवामि”ति श्रीशुकोक्तश्चे । मथुरादि धामरूपत्वादधिष्ठानम् । “साक्षाद्ब्रह्मगोपालपुरो होति” श्रुतेः। “पञ्चयोजनमेवास्ति वनं मे देहरूपकमित्यादि” स्मृतेश्च । ब्रजप्रजापालने सावधानत्वादप्रमत्तः । “तस्मामच्छरणं गोष्ठं मन्नाथं मत्परिग्रहम् । गोपाये स्वात्मायोगेन सोऽयं मे ब्रत अहित” इति । तद्वाक्याद्ब्रजराजकुमारत्वेन सर्वमान्यत्वात् प्रतिष्ठितः ॥४८॥
स्कन्धति शोषयति कंसपक्षीयानिति स्कन्दः । स्कन्दस्य देवसेनापतेर्धारणात स्वशक्त्या पोषणात् स्कन्दधरः । धुरो जगद्गारस्य वहनाद्भुय्यः धुरोयट्काविति सूत्राद्यत् । मालाकारादिभ्यो वाञ्छितदानाद्वरदः । वायुं जगत्प्राणं वाहयति वहने शक्तं करोतीति वायुवाहनः, वायुवेगं वाहनं रथोऽस्येत्येके । वसुदेवस्यापत्यं वासुदेवः ।
तस्यापत्यमित्यन् । वृहन्तो भानवो दीप्त्योऽस्येति वृहद्भानुः । आदिः कारणभूतो देव आदिदेवः । अहमादिर्हि देवानमिति स्मृतेः । रिपुपुराणां विदारणात् पुरन्दरः, वाचंयमपुरन्दरौ चेति सूत्रान्निपातोऽयम् ॥ ४९॥
भूशोकविनाशकत्वादशोकः । चौरादिभयतारकत्वात्तारणः । गर्भजन्मजरादिभयतारकत्वात्तारः । विक्रमित्वाच्छूरः । शूरवीरविक्रान्तौ चौरादिकौ । शूरस्य गोत्रापत्यं शौरिः । वाह्लादित्वादिञ् । जनान् माथुरानाश्वश्नुते जनेश्वरः स्वतेजसा तच्चित्तव्यापोत्यर्थः । तेषामानुकूल्ये स्थितत्वादनुकूलः । शतमावर्ताः पारमैश्वर्थविजृम्भणलक्षणा वार्षिकसरिदम्भःसभ्रमसमा यस्य स शतावर्त्तः । स्यादावर्त्तोऽम्भसां भ्रम इत्यमरः । अवर्त्ताः कंसादिभ्रामका नारदादयो यस्य शतमित्यन्ये । नित्यं लीलाकमलधारित्वात् पद्मी । बहुपद्मधनवान् वेत्यन्ये । पद्मनिभे गोकुले ईक्षणं यस्य पद्मेक्षणः । “सहस्रपत्रं कमलं गोकुलाख्यं महत्पदम् । तत्कर्णिकारं तद्धाम तदनन्तांशसम्भवमिति” स्मृतेः ॥५०॥
पद्माकारा नाभिरस्येति पद्मनाभः । विकचाम्बुजनेत्रत्वादरविन्दाक्षः । पद्मेन दहराख्येन स्वभक्तहृत्कमलेन गीर्यतेऽन्तःस्थाप्यत इति पद्मगर्भः । अर्त्तिगभ्याम्भन् । हृत्पद्मस्थं स्वध्यायतां भक्तानां शरीराणि विभर्त्ति पुष्णातीति शरीरभृत् । “दर्शनध्यानसंस्पर्शैमत्स्यकूर्मविहङ्गमाः । स्वान्यपत्यानि पुष्णन्ति तथाहमपि पद्म
जेति” स्मृतेः । महाविभूतित्वान्महर्द्धः सार्वज्ञादिगुणवृन्दसस्पन्नत्वादृद्धः । बृद्धो विश्वव्यापी विलासव्यूहादिपूर्णो वा आत्मा विग्रहोऽस्येति बृद्धात्मा । महान्ति ज्ञानात्मकत्वाद्युत्कृष्टान्यक्षाणीन्द्रियाणि यस्य स महाक्षः । विशालनेत्रो बेत्यपरे । गरुḏहेनाङ्कितो ध्वजोऽस्येति गरुडध्वजः ॥५१॥
नैरूपम्यादतुलः “न तस्य प्रतिमा अस्तीति” श्रुतेः । शृणाति हिनस्ति दैत्यादीनिति शरभः। शृकृशलीत्यादि सूत्रादच् । अतोभामः विभेत्यस्मादिति तद्व्युत्पत्तिः । स्वभक्तानां समयास्तत्तत्साधनपरिपाककालान् जानाति तान् ज्ञात्वा तत्फलान्यर्पयतीति समयज्ञः । देवान्तर्यामी सन् साक्षाच्च यज्ञेषु हवींषि हरति गृह्णातीति हविर्हरिः । सर्वधातुभ्य इन् । गुणोत्थान्योत्थानि चेति श्रीविग्रहे परमात्मनि द्विविधानि लक्षणानि । तत्र रक्तवतुङ्गत्वादिगुणयोगीनिर्गुणोत्थानि । यदुक्तं सामुद्रके-“पञ्चसूक्ष्मः पञ्चदीर्घः सप्तरक्तः षड्Qन्नुतः । त्रिह्णस्व पृथुगम्भीरो द्वात्रिंशल्लक्षणो महानिति” करादौ रेखामयान्यङ्कोत्थानि तत्र करयो रथाङ्गाब्जादीनि चरणयोस्तु ध्वजबज्रान्यूनविंशतिरिति पुराणेषु प्रसिद्धम् । तैरेतैः सर्वैर्लक्षणंर्यलक्षणं महापुरुषोऽयमिति ज्ञानं तत्र साधुरिति सर्वलक्षणलक्षण्यः । लक्ष्मीदिव्यरसगन्धाद्या सम्पद्वा नित्यं विद्यतेऽस्येति लक्ष्मीवान् । समितिं सङ्ग्रामं जयतीति समितिञ्जयः । तृणावर्तादिवधे उक्त इत्यर्थः ॥५२॥
स्वाश्रितस्नेहाक्षरणाद्विक्षरः । स्वाश्रितद्रोहि-विषयकोषावेशे
नारूप्योदयाद्रोहितः । नित्यनूतनत्वात् स्वाश्रितैनित्यं मार्यत इति मार्गः । मार्गान्वेषणे चौरादिकः । स्वलीलापोषकानां स्वभक्तभावानामुद्गमने स्वयमेवोपायत्वाद्धेतुः । हि गतौ तस्मात्तुः । यशोदया जनन्या दाम्नोदरे निवद्धत्वाद्दामोदरः । “स च तेनैव नाम्नात्र कृष्णो वै दाम-बन्धनात् । गोष्ठे दामोदर इति गोपीभिः परिगीयते” इति स्मरणात् । तत्कृतानि तर्जनादोनि तत्प्रेमयन्त्रितः सन् सहतीति सहः । जन्मक्षदि-नित्योत्सववत्त्वान्मही । “मह उद्धव उत्सव” इत्यमरः । वालक्रीडन कादेर्धारणाद्धरः । महान् सर्वोत्कृष्टो भागो भजनमस्य महाभागः । गोपकुमारैः सह क्रीडन्नतिजवत्वाद्वेगवान् । गोवर्द्धनोत्सवे गोपैर्निवेदितानि पूपपायसादीनि अमितान्यशनानि भोजनान्यस्येति महाशनः ॥५३॥
उद्गतो भवः कुवेरसुतयोः तरुजन्मलक्षणो यस्मात् स उद्भवः । क्षोभयति स्वगुणश्रवणेन जनानां मनांसीति क्षोभणः । सर्गकाले प्रकृतिक्षोभकत्वात्तथेत्यन्ये । दीव्यति क्रीडति सिंहादीन्निवध्य तैः सहेति देवः । विश्वसम्पत्तिलक्षणश्रीर्गर्भ यस्य स श्रीगर्भेः । जुम्भणोमृद्भक्षणे च जनन्या तद्गर्भ तस्य। दर्शनात् । परा चासौ मा च गोकुलमहालक्ष्मीस्तस्या ईश्वरः स्वामीति परमेश्वरः । स्वभक्तानां स्वप्राप्तिकारीषु क्रियासु प्रकृष्टोपकारित्वात् करणम् । त्रिशक्तिकतेन प्रपञ्चनिमित्तोपादानत्वात् कारणम् । प्रधानादि-तत्त्व-सर्गकरत्वात् कर्ता । विञ्चिन्तस्थो लोकरचनात्मकं विसर्गं करोतीति विकर्ता । गाहते वाधते सूक्ष्मधियामपि धीवृत्तोरिति गहनः गाहु विलोडएने इत्यस्माद्वहुलमन्यत्रापतिषु च । कृच्छगहनयोः कष इति निर्द्देशसामर्थ्याद्धस्वः। ईदृशं महिमानं गूहति ब्रजजनेष्विति गुहः । ईगुपधत्वात्कः । यद्यप्येते जानन्त्येव तथापि माधुर्य-प्रवाहेन तमन्तद्धपियति केलिरसलिप्सुः सन्निति बोध्यम् ॥५४॥
व्यवसीयते निश्चीयते परतत्वभावेनेति व्यवसायः । “कृष्णस्तु भगवान् स्वयमिति” स्मरणात् । विशेषेणावतिष्ठन्ते तत्त्वान्यत्रेति व्यवस्थानः । सन्तिष्ठन्ते प्रलीयन्ते तत्त्वान्यत्रेति संस्थानः । अधिकरणे रायुच् । स्थानं स्वोपासकाय युधिष्ठिराय ददातीति स्थानदः । “युधिष्ठिरप्रतिष्ठाते”त्यष्टोत्तरशतनाभ्नि” । ध्रुवत्यनुगच्छत्येकान्तिभक्तानिति ध्रुवः । “निरपेक्षं मुनिं शान्तं निर्वैरं समदर्शनम् । अनुब्रजाम्यहं नित्यं पूयेयेत्यङ्घ्रिरेणुभि” रिति स्मरणात् । परात्मिका ऋद्धयोऽस्येति परर्द्धिः । परर्द्धितया वेदान्तैरुद्गीयमानत्वात् परमस्पष्टः । आनन्दमयत्वात्तुष्टः । स्वरूपानुवन्धिभिर्गन्धादिभोगैरुपेतत्वात्पुष्टः । शुभं कल्याणकरमीक्षणं कृपाकटाक्षोऽस्येति शुभेक्षणः ॥५५॥
रमन्ते योगिनोऽत्रेति रामः । हलश्चेत्यधिकरणे घञ् । सर्वविधित्वाद्विरामः । भावे घञ् । विरजो निष्पांशुलो निर्दोषो मार्गः साधनपद्धतिरस्येति विरजो मार्गः । अहिंस्त्रेण जपादिनाप्राप्य इत्यर्थः । सुहृन्नियोगाधेयत्वान्नेयः । अचो यच् । “यजस्वाभीस्पितं यज्ञं मयि श्रेयस्यवस्थिते । नियुङ्क्ष चापि मां कृत्ये सर्वं कर्ताऽस्मि ते वच” इत्यादि स्मरणात् । यतो यज्ञे पादधावनेप्यधिकारः । “कृष्णः पादावने जने” इति स्मरणात् । नीयते सुहृद्भिः स्वनि योगे इति नयः । एरच्। “पाण्डवानां भवान्नाथो भवन्तं चाश्रिता वयमिति” स्मरणात् ॥
इति वैशस्पायननोक्ते विष्णुसहस्रनाम्नि
चतुर्थ नामशतकं व्याख्यातम् ।
नास्त्ययः शुभावहो विधिरन्यो यदपेक्षयेत्यनयः । विशिष्टमीरणं यस्य सः इङ्गितेनैव चैद्यस्य शिरश्छेतेत्यर्थः । शिशुपालशिरच्छेत्तेत्वष्टोत्तरशतनाम्नि । यतः शक्तिमतामिन्द्रादोनां श्रेष्ठः । लोकधारकत्वार्द्धर्मः । पुञ्मन् ।“ये च वेदविदो विप्रा ये चाध्यात्मविदो जनाः । ते वदन्ति महात्मानं कृष्णं धर्मं सनातनमितिऽऽ स्मृतेः । मन्वादिधर्मविद्यां तदाचारे उपजीव्यत्वाद्धर्मविदुत्तमः ॥५६॥
विकुण्ठायां शुभ्रपत्न्यां जातत्वाद्वैकुण्ठः । शिवाद्यण् “पत्नी विकुराठा शुभ्रस्य तस्यां जातः पुरः पुमानिति” स्मरणात् भूम्यादितत्त्वसंश्लेषकत्वाद्वैकुराठः इति नारायणीयप्रस्तावात् । सर्वाग्रणीत्वात् पुरुषः पुरः वसन् पुर अग्रगमने धातुः । स्वभक्तप्राणतुल्यत्वात् प्राणः । “मनोमयः प्राणशरीरो भारूप” इति श्रुतेः । प्राणानिन्द्रियाणि दायति स्वभक्तानामिति प्राणदः । दैप् शोधने धातुः । नित्यनूतनत्वात् प्रणवः प्रणम्यत्वाद्वा, “प्रणमन्तीह यं वेदास्तस्मात् प्रणव उच्यते” इति स्मरणात् । नूतनत्वां प्रथयति स्वात्मयाथात्म्यं पार्थे इति पृथुः । प्रथ प्रख्याने प्रथेः कुः सम्प्रसारणञ्च । हिरण्येन ज्ञानेन गोर्च्यते क्रियते इति हिरण्यगर्भः । “ज्ञानं ज्ञेयः ज्ञानगम्यमिति” स्मृतेः । शत्रून् कामादीन् भक्तानां हन्तीति शत्रुघ्नः । अमनुष्यकर्त्तृके चेति हन्तेष्टक् । स्नेहा-विशेषण-भक्तेषु स्थितत्वात् व्याप्तः । वाति सूचयति मागधामेवमेतं जहीति वायुः । वातेरुण, । वागति गन्धनयोरित्यत्र गन्धनं सूचनं हिंसा चेत्यर्थः । अक्षस्य शकटस्याधः पुनर्जात इत्यधोक्षजः । “अक्षस्तु पाशके चक्रे शकटे च विभीषके” इति श्रीधरः । “अधोऽनेन शयानेन शकटान्तरचारिणा । राक्षसी निहता रौद्रा शकुनीवेशधारिणी ॥ पूतना नाम घोरा सा महाकाया महावला। विषदिग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दाने” ‘‘ददृर्शुनिहत। तत्र राक्षसीं वनगोचराः । पुनर्जातोऽयमित्याहुरुक्तस्तस्मादधोक्षज” इति स्मृतेः । अधः कृतमक्षजमिन्द्रियं सुखं येन से तथेत्यन्ये । अक्षं स्यादिन्द्रिये क्लीवमिति श्रीधरः ॥५७॥
ऋच्छति गच्छति विचित्रैर्गुणैः स्वभक्तमनांसीति ऋतुः अर्तेश्चतुरिति सूत्रात्तुः । गुणानभिज्ञानामप्याकृतिमात्रेण मनोज्ञत्वात् सुदर्शनः । “य द्धर्मसूनोर्वत राजसूये निरीक्षदृक् स्वस्त्ययनं त्रिलोकः । कात्स्येन्न चाद्येह गतं विधातुरर्वाक् सृतौ कौशलमित्यमन्यत” इति स्मरणात् । कालयति विक्षिपतीति कालः । कलवलविक्षेपे चौरादिकौ रुद्रदेहजौ भूतौ विचक्र हंस-डिम्वकां श्चेत्येदं हरिवंशाद्वोघ्यम् । भूमारमपनीय परमे पदे तिष्टतीति परमेष्ठी । परमे किदिति सूत्रेण परमे उपपदे तिष्ठतेरिन् सच कित् । अम्बावेति सूत्रेण षत्वम् । परित्यज्य देवतान्तराणि गृह्यते परदेवतात्वेनायमिति परिग्रहः । यद्वा होरिकोत्सवे क्रीḏहेऽन्तमनुस्मृत्याह परितो ग्रहः कान्ताभिर्ग्रहणं यस्य स परिग्रहः । परितो ग्राहिकास्ता उच्यते समवैतीति उग्रः । उच समवाये धातुः । तस्मादृगेन्द्रेत्वादि सूत्राद्र चस्यगः । तासु सम्यग्वसतीति सम्बत्सरः । ताभिः समवेतादक्षते लावण्यातिशयेन बर्द्धत इति दक्षः । दक्षबृद्धौ शीघ्रार्थे च धातुः । पचाद्यच् । श्रम एव प्रज्ञाद्यनिश्रामः स विगतो येन स
विश्रामः । विहारजनितस्य तासां श्रमस्यापनेतेत्यर्थः । विश्व स्वपर्यन्तं सर्वं दक्षिणादेयमस्येति विश्वदक्षिणः । द्रुद्रक्षिश्यामिन्च । ‘‘ददात्यात्मानमप्यज” इति स्मृतेश्च ॥५८॥
स्नेहपद्धर्तेविस्तारणाद्विस्तारः । प्रथमे वावशब्द इति सूत्रेण विपूर्वात् स्तृतेर्घञ् क्रियायाः । कर्त्तृ तादात्म्यं तदावेशादुपचर्यते । भूभारमपनीय शमे स्थास्यतीति स्थावरः । कलेरन्ते शास्त्रमर्यादां पुनः स्थापयिष्यतीति स्थाणुः । स्थोरिति गुः “स्थापयित्वा स्वमर्यादां स्वयम्भूविहितां हितामि”ति स्मरणात् । सत्यभाषित्वात् प्रमाणम् । ‘‘प्रमाणं नित्यमर्यादा-सत्यवादिप्रमातृष्विति”विश्वः । अव्ययं वीजमिति विशिष्टं नाम, विशेषेण जायतेऽनेनेतिवीजं उपसर्गे च सञ्ज्ञायामिति डः । अन्येषामपति ने दीर्घत्वम् । यद्वा व्रजति कार्याणि प्रविशतीति बीजम् । पृषोदरादिः निष्कामैर्भक्तैरेकान्तमर्थ्यत इत्यर्थः । अर्त्तेस्थन् । सकामैरेकान्तं नार्थ्यत इत्यर्थः । “चतुर्विधा भम जना भक्ता एव हि ते स्मृताः । एषामेकान्तिनः श्रेष्टास्ते वै वानन्यदेवताः । अहमेव गतिस्तेषां निराशीः सर्वकर्मणाम् । ये तु शिष्टायो भक्ताः फलकामा हि ते मता” इति स्मरणात् । महान्तः कोशा भाण्डारागाराणि यस्य स महाकोशः । येष्वनन्ता नानाविध। सम्पदः समवयन्ति अतो महाभोगः । निखिलतत्सम्पदनुभवसम्पन्नः । महान्ति धनानि यस्मात् म महाधनः । “किमलभ्यं भगवति प्रसन्ने श्रीनिकेतने” इति स्मरणात् ॥५९॥
स्वपराङ्मुखानामपि जीवानामजस्रपालनेन लसत्वादनिर्विण्णः । अथ शिशुमाररूपतां सूचयन्नाह नवभिः । शिशुमारवपुषातिस्थूलत्वात् स्थविष्ठः “तारामयं भगवतः शिशुमाराकृतिः प्रभोरिति” स्मरणात् । ध्रुवानुवन्धेन सर्वाधारो भवतीति भूः । भूवः सञ्ज्ञान्तरयोरिति क्विप् । “पुच्छदेशे ध्रुवः स्थित” इति स्मरणात्। नक्षत्रतारादिसहितं चन्द्रसूर्यादि-ज्योतिश्चक्र वायुना शिशुमारे निवद्धं तत् पुच्छे स्थितो भ्रमयतीति तत्सर्वाधारत्वं ध्रुवस्येत्यर्थः । धर्मं शिरोवयवतया यौति मिश्रयतीति धर्मयूपः । यौतेः पः स च किद्दीर्घश्च । धर्मो मुर्द्धानमाश्रित” इति स्मृतेः । महान्तो मखा यस्मै स महामखः । तदुद्देशेन ते प्रवर्त्तन्त इत्यर्थः । शिशुमारे निवद्धानि नक्षत्राणि तदन्तर्यामी सन्नयति भ्रमयतीति नक्षत्रनेमिः । नियोमिः “अलातचक्रवद्द्यान्ति वातचक्रेरितानि तु । यस्माज्ज्योतीर्षि वहति प्रवहस्तेन संस्मृत” इति स्मृतेः । नक्षत्राणि सन्त्यस्य नियम्यतयेति नक्षत्री प्रशस्त नक्षत्री प्रशस्त-नक्षत्राभिव्यक्तत्वात्तथेत्येके । नक्षत्राणां नियमने वहने च शक्तत्वात् क्षमः । अवान्तरक्षयैर्नक्षत्रान्तरैः सह क्षोणस्तिष्ठता ति क्षामः । क्षै क्षये धातुस्तस्मान्निष्ठा तकारस्य मकारः । तारका-शिशुमारस्य नास्तमेति चतुष्टयमिति । ‘‘यावन्मात्र प्रदेशे तु मैत्रेयावस्थितो ध्रुवः । क्षयमायाति तावत्तु भूमेराभूतसम्प्लव” इति चे स्मृतेः । सम्यक् ईहनं वाञ्छितं यस्मिन् पुण्यवतां समीहन् ॥६०॥
रुचिपत्न्यामाकूत्यां यज्ञनाम्नाविर्भूतत्वाद् यज्ञः । “जातो रुचेरजनयत् सुयमान् स यज्ञ प्राकृतिसूनुरमरानथ दक्षिणायामिति” श्रीशुकोक्तेः। यष्टुमर्ह इज्यः । कर्मणि यजेः क्यवार्षः। महती षोḏहशोपचारलक्षणा इज्यास्येति महेज्येः । ब्रजयज्योर्भावे क्यप् । वेदोक्तैः कर्मभिराराध्यः क्रियते इति क्रतुः कृञः क्रतुः । सतः साधून त्रायत इति सत्रम् । भक्तगृहरूपत्वाद्भक्तधनरूपत्वाच्च सत्रम् । सत्रं गृहं धनं सत्रमित्यनेकार्थकोषादित्येके । सतां प्राप्यत्वात् सतां गतिः । सर्वान् स्वभक्तान युगपद्द्रष्टुं शीलमस्येति सर्वदर्शी । “दर्शनध्यानसंस्पर्शे” रित्यादि स्मृतेः । विमुक्तः प्रपञ्चास्पृष्ट आत्मा यस्य स विमुक्तात्मा। सर्वात्मनात्मानं जानातीति सर्वज्ञः । उत्कृष्टतमं विभु यज्ज्ञानं तत्स्वरूप इति सविशेषणं नाम । “सत्यं ज्ञानमनन्तं ब्रह्मोत” श्रुतेः ॥६१॥
सुष्ठु ब्रत अतितृप्तोपि प्रोत्यार्पितं भुङ्क्ते प्रीत्यार्पितात्तु निवर्ततेति तृप्तत्वादिति सुब्रतः । “ब्रतोद्भोजन-तन्निवृत्त्योरिति” स्मृतेः । आनन्दपूर्णत्वेन स्मितशोभित्वात् सुमुखः । चित्सुख-विग्रहत्वात्। सूक्ष्मः । शोभनो ब्रह्मादिरञ्जको घोषो वेणुनादोऽस्येति सुघोषः । “शवनसस्तदुपधार्य सुरेशाः शक्रशर्वपरमेष्ठिपुरोगाः । कवय आनतकन्धरचित्ताः कश्मलं ययुरनिश्चिततत्त्वा” इत्यादि-स्मरणात् । वेणुवाद्यविशारद इत्यष्टोत्तरशतनाम्नि । सुखं ददाति वेणुनादेनेति सुखदः । निर्निमित्तहितकृत्त्वात् सुहृत् । भङ्गीत्रयरुचिरेण करेण भक्तचित्तहारित्वान्मनोहरः । त्रिभङ्गी मधुराकृतिरित्यष्टोत्तर शतनाम्नि । न जितः कालियविषयकः क्रोधो येन सोऽजितक्रोधः । क्रोधोऽपि तेऽनुग्रह एव सम्मत इति तत्पत्नीवाक्यात् । इत्थञ्चारोषणो ह्यसौ देव इति सङ्गतम् । वीरावगाधह्रदविक्षोभकौ बाहू यस्य स वीरबाहुः । बकासुरस्य गिरिसन्निभस्यापि वीरणतृणवत् शकलितत्वाद्विदारणः ॥६२॥
स्वापयति स्वाग्रजं तद्भक्तियन्त्रितः सन्निति स्वापनः । “स्वयं विश्रामयत्यार्यं पादसंवाहनादिभिरि”ति श्रीशुकवाक्यात् । गोवर्द्धनोत्सवाय स्वातन्त्र्येण प्रवृत्तत्वात् स्ववशः । प्रतिगृहं युगपत् सत्त्वाद्वयापी । एवं नैकात्मा । “एकत्वमजहदेव बहुरूपः एकोपि सन् बहुधायोऽवभातीति” श्रुतेः । भक्तभावानुविधायि-विचित्रचेष्टत्वान्नैककर्मकृत् । वत्सान्रायत्याह्वयतीति वत्सरः । वत्सान् लाति गृह्णातीति वत्सलः । वत्सान् स्वस्मिन्नुत्सुकन् कामयत इति वा वत्सलः । वत्सांशाभ्यां कामवले इति लच् । वत्सबाढचर इत्यष्टोत्तरशतनाम्नि । असङ्ख्यप्रशस्त- वत्सवत्वाद्वत्सी । रत्नभूतो गर्भो रत्नगर्भः, यशोदाखनिमाणिक्यत्वेनोत्प्रेक्ष्यमाण इत्यर्थः । धनानां कामधेनुनं स्वामीति धनेश्वरः ॥६३॥
अथ द्वारावतीपतित्वं द्योतयन्नाह । धर्मान् वेदोक्तान गोपायतीति धर्मगुप् । “धर्म-संस्थापनार्थाय सम्भवामि युगे युगे” इति स्मृतेः । लोकसङ्ग्रहाय धर्मानुष्ठानाद्धर्मकृत् । “न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किं पुनः । नानवाप्तमवाप्तव्यं वर्त्त एव च कर्मणी” त्यादि स्मृतेः । हरिवंशे धर्माचरणं ख्यातम् । यतः स्वयन्धर्मो नतु निर्द्धर्मकः । ‘‘यः कालकालो गुणी सर्वविद्य” इति श्रुतेः । त्रैकालिकसत्तायोगात् सत् । “सदेव सौम्येति” श्रवणात् । न सीदत्यवसादं यातीत्यसत् । क्षरति दुष्टरक्षणादिति क्षरम् । प्रणवरूपत्वादक्षरम् । “ओमित्यात्मानं ध्यायथेति” श्रुतेः । प्रपन्नदोषापरि ज्ञानादविज्ञाता तद्दोषेष्वता त्पर्यात्तदुपेक्षा ह्यत्राविज्ञानमुच्यचे । “अपि चेत् सुदुराचारो भजतो मामनन्यभाक् । साधुरेव स मन्तव्यः सम्यग्ब्यवसितो हि स” इति स्मृतेः । अविरुद्धज्ञातृत्वातथेत्यन्ये । सहस्राणि असङ्ख्याता अंशवो ज्ञानान्यस्येति सहस्रांशुः । सर्वविषयकज्ञानवानित्यर्थः । प्रपन्नदोषविनिवृत्तिकरणात् विधाता । “स्वपादमूलं भजतः प्रियस्य त्यक्तान्यभावस्य हरिः परेशः । विकर्म यच्चोत्पतितं कथञ्चिद्धुनोति सर्वं हृदि सन्निविष्ट” इति स्मृतेः । ननु सदाचारिभ्यो दुराचारिणां प्रपन्नानां को भेद को धर्मस्तत्राह । कृतेतिकृतं लक्षणं तद्भेदानुमापकं येन से कृतलक्षणः । तच्च भजते मामनन्यभागिति त्यक्तान्यभावस्येति च ॥६४॥
उक्तलक्षणानां प्रपन्नानां यमादिभ्यो धर्षणं वर्जयतीत्याशयेनाह । गभस्तयः किरणमालास्तयुक्ता नेमिरस्येति गभस्तिनेमिः । सुदर्शनस्तद्रूप इत्यर्थः । सुदर्शनभयात्तान् प्रधर्षयितुं तं तेनेच्छन्तीति भावः । ननु तदासङ्कास्ते तत्राह । सत्वस्थः तेषां चित्ते स्थित इत्यर्थः । सुपिस्थ इति कः । एवं भावमजानतो यमकिङ्करान् हिनस्तीति वर्णविपर्येयेण सिंहः । भूतेश्वराणां यमदीनाभपीश्वर इति भूतमहेश्वरः । अदीयते प्रशास्तृत्वेन यमादिभिरित्यादिः । दीव्यति जिगीषति स्वभक्तजिघांसुंस्तानिति देवः । ततः कर्मधारयादिदेवः । एषूदाहरणम् । “वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते । तव गतिरथवा ममास्ति चक्रप्रतिहतवीर्य-बलस्य सोऽन्यलोक्य” इति । “प्रभवति संयम ने ममापि विष्णुरिति” च यमवाक्यम् । महांश्चासौ देवश्च कन्दुकादिभिरिव स्वाधीनैस्तैः कीडापरश्चेति महादेवः । ‘‘बालः क्रीडनकैर्यद्वक्रीडतेऽस्माभिरच्युत” इति स्मृतेः । तेषां यथोचिते विनियोगे क्षमत्वाद्देवेशः । देवभृतोर्ब्रह्मरुद्रयोरपि स्वाधिकारविधिज्ञापनाद्देवभृगुरुः । कृग्रोरुचेति कुप्रत्ययः ॥६५॥
विचित्रानन्तशक्तिसम्पन्नत्वेन सर्वप्रवरत्वादुत्तरः । “उत्तरं प्रतिवाक्ये स्यादृर्द्धोदीच्योत्तमेन्यवदतिविश्वः। “विश्वस्मादिन्द्र उत्तर” इति श्रुतेः । गोः सूर्यस्यापि पतिरिति गोपतिः । गौनदित्ये वलीवर्द्धे इत्यादि नानार्थात् । सर्वरक्षकत्वाद्गोप्ता । ज्ञानेनैव नतु कर्मणा ज्ञान-कर्माभ्यां वासमुच्चिताभ्यां गम्य इति ज्ञानगम्यः । पुरानि क्षत्रज्ञवपुंष्यातनोतीति काल कलितत्वाभावात् पुरापि भवतीति वा पुरातनः ।
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्नि
पञ्चमं नाम शतकं व्याख्यातम् ।
शरीरभूतं वृन्दारण्यं विभर्तीति शरीरभूतभृत् । “पञ्चयोजनमेवास्ति वनं मे देहरूपक” मिति वचनात् । भुङ्क्तेऽनुभवति नित्यं तदिति भोक्ता । ततः कर्मधारयदैकं नाम । कपीनां स्वक्रीडोपकरणानां स्वामीति कपीन्द्रः । जन्मर्क्षोत्सवादिषु विप्रेभ्यो बहुदानाद्भूरिदक्षिणः ॥६६॥
सोमं रुद्रं पातीति सोमपः । अमृतान दैवतान् पातीत्यमृतपः । उमा कीर्त्तिः कान्तिर्वा तया सहितः सोमः । “उमातसीहैमवतीहरिद्राकीर्त्तिकान्तिष्विति” विश्वः । पुरून महाबलान् बहून शत्रून् जयन्तीति पुरुजितस्तेषु पुरुषु बहुषु रुद्रादिषु महावीर्येषु श्रेष्ठत्वात्। पुरुजित पुरुसत्तमः । एतच्च हरिवंशे त्रिपुरवधे स्वांशतेजसा रुद्रादेराप्यायनाम्भूमौ पतितस्य रुद्ररथस्योत्थापनाच्च गम्यम् । विशेषेण नीयते यदुभिः सेव्यतामयमिति विनयः । जीयते विधेयः क्रियते तैरिति जयः । एरच् । सत्या यथार्था सन्धा तेषां रक्षण प्रतिज्ञाऽस्येति सत्यसन्धः । दानपात्रत्वाद्दाशार्हः । “अतः पात्रतरः कोऽन्यस्त्रिषु लोकेषु विद्यते । कृष्णात्कमलपत्राक्षाद्देवदेवाज्जनार्द्दनादिति” स्मरणात् । दाशार्हवंशोद्भूतत्वाद्वा । सात्वतां यदूनां पालकत्वात् सात्वतां पतिः। “पतिर्गतिश्चान्धकवृष्णिसात्वतामिति” श्रीशुकवाक्यात् । सद्ब्रह्मकृष्णाख्यं येषां स्वामित्वेनास्ति ते सत्वन्तः । तेषामिदं कमसात्वतं तत्करोत्याचष्टेवेति निच् । नाविष्टवद्भवाट्टिलोपः, ततः क्विपि निलोपे च सति सात्वदिति सिद्धः । ततः सात्वतां वैष्णवधर्मप्रचारकानां पतिरित्येके ॥६७॥
जीवयति स्वविश्लोष-विदूनानु भक्तान् स्वदर्शनामृतेने ति जीवः । विनयति पालयति तान् स्वात्मजवल्लाल नेनेति विनयिता । “आनन्दमूर्त्तिर्भगवान् हरिस्त्रैलोक्यपूजितः । द्रष्टुं न सहते देवि किलैतान् स्वपरिचारकानिति” स्मरणात् । नयगतौ रक्षणे च धातुः । दृग्गोचरः सन्ननुगामीति वा विश्लेषात्ति तेषां साक्षात्पश्यतीति साक्षी । मुखे कुन्दवद्धासो यस्य तेषु प्रादुर्भूतस्येति मुकुन्दः । पृषोदरादिः । स्वात्मन्येव तेषां धारणादमितविक्रमः । उक्तं कैमुत्येनाह । पातालसमुद्राम्भसां विश्वाधारकर्मात्मना समाश्रयत्वादम्भोनिधिः । तदुपरि विश्वाधारस्तम्भस्य शेषस्यान्तर्यामी भवन्ननन्तात्मा । प्रलयशेषपर्यङ्केमहोदधौ शेते स्वांशेनेति महोदधिशयः। अधिकरणे शेतरित्यच् । तत्रापि रम्यत्वादन्तकः । “अन्तः प्रान्तेन्तिके नाशे स्वरूपेऽतिमनोहरे” इति विश्वः । महोदधिशयोऽन्तक इति सविशेषणमेकं नाम ॥६८ ॥
अथ कपिलतां दर्शयति द्वादशभिः । न जायते जीयते जीववद्धातुयोगेनेत्यजः । कार्द्दमं वीर्यमापन्न इत्यत्र तु कर्द्दमस्य भक्तिबलं प्राप्त इत्यर्थः । महं पूजामर्हति महार्हः । स्वैर्भक्तैरासमन्तात्परेशत्वेन भाव्यत्वात् स्वाभाव्यः । जितानि स्वभक्ताभित्राणि कामादिरूपाणि येन स जितामित्रः । प्रमोदते स्वैकान्तिनं कर्द्दमं वीक्ष्य हर्षश्रु कलिलो भवतीति प्रमोदनः । आनन्दति स्वैकान्तिनीं देवहूतिं मातरमुपदिश्येत्यानन्दः । नन्दयति तां पुत्रभावेनेति नन्दनः । नन्दति तत् पुत्रभावेनेति नन्दः । सत्याः स्वानुवन्धित्वेन वास्तवा धर्माज्ञानादयो यस्य स सत्यधर्मा । अग्नेयस्य कपिलस्य त ते प्राकृता एव त्रिषु वेदेषु क्रमो गतिरस्येति त्रिविक्रमः । “त्रिरित्येवं तत्र वेदाः कीर्त्तिताः मुनिसत्तमैः । क्रमते तांस्तथा सर्वांस्त्रिविक्रम इति” शिवोक्तेः ॥६९॥
सर्ववेददर्शित्वान्महर्षिः । पिङ्गलवर्णत्वात् कपिलः । कवृवर्णेमिथिलादित्वादिलच् पान्तादेशः । शुद्धात्मोपदेशकत्वादाचार्यः । ततः कर्मधारयः । महर्षि कपिलाचार्य इति सविशेषणमेकं नाम । सगरपौत्रस्यांशुमतः स्वप्रणवत्वं कृतं जानातीति कृतज्ञः । इहोदाहरणं तु कपिलदेवचरितं मृग्यम् । अथ वराहतां दर्शयति पञ्च
विंशत्या। मेदिन्या भूवो भर्त्तेति मेदिनीपतिः । प्रणवगतानि त्रीणि पदानि वाचकान्यस्येति त्रिपदः । देवानामापत्सखत्वात् त्रिदशाध्यक्षः । भूमण्डलाधारदंष्ट्राग्रत्वान्महाशृङ्गः । नारायणीय इत्येकशृङ्गशब्देन एतदुक्तम् । अतिप्रभुत्ववत्वाद्वा। “शृङ्गं प्रभुत्वे शिखरे” इति विश्वः । कृतान्तं काल निभं हिरण्याक्षं कृन्ततीति कृतान्तकृत् ॥७०॥
महाद्रितुल्यशूकरत्वान्महावराहः। रसातलगतां गां भूमिं विन्दतीति गोविन्दः । शोभनानाद्यविद्याविनाशनक्षमा स्वधाम-श्रीमथुरायात्म्यावेदिका वागेव देवव्यूहरूपा वा सेना यस्य स सुषेणः । कनकजटितानि रत्नमयान्यङ्गदादि अस्येति कनकाङ्गदी । उपलक्षणमेतन्मुकुटादेः । तादृग्विग्रहस्यात्मत्वेन ज्ञातुमशक्यत्वाद्गुह्यः । गुहेर्यत् सञ्ज्ञापूर्वक-विधेरनित्यत्वान्नगुणः । गन्तुं प्रवेष्टुमशक्यत्वाद्गभीरः । गमेरीरन् भश्चान्तादेशः । तत्त्वं च गुणानन्त्यादेव बोध्यम् हिरण्याक्षेण गाढं प्रतिहन्तुमशक्यत्वाद्गहनः । पदसिद्धिः पूर्ववत् स्वशक्तिभिरक्षितत्वाद्गुप्तः । चक्रगदयोः धारणाचक्रगदाधरः ॥७१॥
विदधाति करोति देवकार्यमिति वेधाः । स्वानू इङ्गयति वोधयति स्वधर्ममिति स्वाङ्गः । अगि गतौ धातुः । हिरण्याक्षेणापराभवादजितः । नीलोत्पलाभत्वात् कृष्णः । अतिबलत्वादृढः । दृढस्थूल बलयोरिति सूत्रात् । हिरण्याक्षं सम्यक् कर्षतीति सङ्कर्षणः । ततो न च्यवते स्मेत्यच्युतः । सङ्कर्षणोऽच्युत इति सविशेषणमेकं नाम । वृणुते स्वलाभे भक्तार्निति वरुणः । “यमेवैष वृणुते तेन लभ्यः” इति श्रुतेः । कृवृदारिभ्य उनन् । वरुणानां तं स्वामित्वेन वृण्वनानां भक्तानामदूरभवत्वाद्वरुणः । वरुणादागतत्वाद्वेत्यन्ये ॥ वृक्षते स्वीकरोति पत्नीत्वेन भूमिमिति वृक्षः । वृक्ष वरणे भवादिस्तस्मात् पचाद्यच् । वृश्चत्यविद्यामिति वेत्येके । पुष्करं समुद्राम्भोऽक्ष्णोतीति पुष्कराक्षः । “कवन्धमुदकं पाथः पुष्करं सर्वतोमुख” मित्यमरः । महन्मोक्षदातृमनोऽस्येति महामनाः । वराहचरितमत्रोदाहरणं मृग्यम् ॥७२॥
भगवच्छब्दवाच्यत्वाद्भगवान् । तथाहि वैष्णवे-“शुद्धे महाविभूत्याख्ये परब्रह्मणि शब्द्यते । मैत्रेय भगवच्छब्दः सर्वकारणकारणे । सम्भर्त्तेति तथा भर्ता भकारार्थों द्वयान्वितः । नेता गतयिता स्रष्टा गकारार्थस्तथा मुने । ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसः श्रियः ॥ ज्ञानवैराग्ययोश्चापि षण्णां भग इतीङ्गना । स च भूतेष्वशेषेषु वकारार्थस्ततोऽव्ययः । ज्ञानशक्तिवलैश्वर्यवीर्यतेजांस्यशेषतः । भगवच्छब्दवाच्यानि विनाहेयैर्गुणादिभि” रिति । भगमुत्पथगानां हतवानिति भगहा। नन्दो ब्रजनाथोस्त्यस्य नित्यं पितृत्वे नन्दो । नन्दगोपप्रियात्मज इत्यष्टोत्तरशतनाम्नि । सखिभिरर्पिता वनमाला नित्यमस्यास्तीति वनमाली । बलभद्ररूपत्वाद्धलायुधः । अदित्यां वामनरूपेणाविर्भावादादित्यः । दित्यदित्येत्यादिनाण्यः । ज्योतिषादित्यतुल्यवाज्ज्योतिरादित्यः । ईदृशोऽप्याश्रितापराधक्षमाश्रोलत्वात् सहिणुः । गत्या गमनेन सत्तमोऽतिशोभनः । गतिषु समाश्रयनीयेषु श्रेष्ठत्वाद्वा तथेत्येके ॥ ७३ ॥
परशुरामतां सुचयन्नाह चतुर्भिः । शोभनं वैष्णवं धनुरस्येति सुधन्वा । खराडः सर्वक्षत्रच्छेत्ता परशुर्यस्य सः । क्षत्रियकुले निर्द्दयत्वाद्दारुणः । क्षत्रहत्या विनिवृत्ति-फले यज्ञे स्वनिर्जिताया भूमे ऋत्विग्भ्यः प्रदानाद्द्रविणप्रदः । अथ व्यासतां सूचयन्नाह दशभिः । दिवः परमव्योम्नो याथात्म्यविमर्शनाद्दिवः स्पृक् । अलूक् समासः । सर्वदृक् ज्ञानं यस्मात्तस्य वेदस्य चातुर्विध्येन व्यसनाद्विभागात् सर्वदृग्व्यासः । इतिहास-पुराण-रूपाश्चतुर्लक्षण्याश्च वाचः, प्रादुर्भावकत्वाद्वाचस्पतिः । सारस्वतावतारत्वे भगवद्वाक्सम्भूतत्वादयोनिजः । “अथ भूयो जगत्स्रष्टा भोशब्देनानुनादयन् । सरस्वतीमुच्चचार तत्र सारस्वतोऽभवदिति” स्मरणात् ॥ ७४ ॥
त्रीणि वेद-व्रत-समाख्या नि सामानि सन्त्यस्येति त्रिसामा । निखिलानि सामान्यतिप्रीत्या गायतीति सामगः । गापोष्टक् । सत्यविद्यां शिष्याणामिति साम । योऽन्तकर्मणि ततोमनन् । एवमविद्यां विनाश्य मुक्तेर्विधानान्निर्वाणम् । अविद्यारोगनिवर्तकत्वाद्भेषजं । तन्निदानदर्शकत्वाद्भिषक् । अथ कृष्णचैतन्यतां द्योतयन्नाहष ḏह्भिः सन्न्यासं परिव्रज्यं करोतीति सन्न्यासकृत् । शमयत्यालोचयति रहस्यं हरेरिति शमः । शम आलोचने चुरादिर्भत् । शाम्यत्युपरमति कृष्णान्यविषयादिति शान्तः । नितिष्ठन्त्यस्यां हरिकीर्तनप्रधाना भक्तियज्ञा इति निष्ठा । “कृष्णवर्णन्त्विषाकृष्णं साक्षोपाङ्गास्त्रपार्षदम् । यज्ञैः सङ्कीर्तनप्रायैर्यजन्ति हि सुमेधस” इति । स्मरणात् । साम्यन्त्यनया भक्तिविरोधिनः केवलाद्वैतप्रमुखा इति शान्तः । महाभावान्तानां भावभेदानां परममयनमिति परायणम् ॥ ७५ ॥
पुनः स्वयंरूपतां सूचयन्नाह । शुभाङ्गानि मङ्गलात्मकानि स्वैकान्तिनां गोकुलवासिनां मनोहराण्यङ्गानि चरणादीन्यस्येति शुभाङ्गः । शान्तिमानिनी भ्यो मानोपशमं ददाति मन्दस्मितेन विनयवतेति शान्तिदः । सृजति प्रमोदसम्पदं तासमिति स्रष्टा । कौ वृन्दावनधरण्यां मोदत इति कुमुदः । इगुपधत्वात् कः । “वृन्दावनं गोवर्द्धनं यमुनापुलिनानि च । वीक्ष्यासीदुत्तमा प्रीति राममाधवयोर्नृपेति” श्रीशुकवाक्यात् । कौ पृथिव्यां चलते भवति सर्वमोहकनादमाधुर्येणेति कुवलः वेणुस्तस्मिन्शयः पाणिरस्येति कुवलेशयः । वेणुगीतमत्रोदाहरणं मृग्यम् । शयवशिवासिष्वकालादिति सूत्रात् सप्तम्या अलुक् । “पञ्चशाखाः शयपाणिरि”त्यमरः । गोभ्यो हितत्वाद्गोहितः । गवां स्वामित्वाद् गोपतिः । तासां रक्षकत्वाद्गोप्ता । एतदेवाह ब्रजहिंसार्थमागते वृषभेबलीवद्धकृतौ दानवेऽक्षिणी यस्य स वृषभाक्षः । ब्रजशत्रु तं दृष्टवानित्यर्थः । यतो वृषप्रियः स्वकीया वृषाः प्रिया यस्य सः । स्ववृषरक्षायै यस्य वृषासुरो हन्तव्य इत्यर्थः ॥७६॥
वृषासुरसाम्मुख्यान्न निवर्त्तितुं शीलमस्येत्यनिवर्ती । सख्युरंशे भुजं निधाय तमवजानन् संहित इत्यर्थः । वृषासुरे साम्मुखीने सति सख्युरपि निवृत्त आत्मा यस्य स निवृत्तात्मा । सर्वानेकतः कृत्वा तेन सह योद्धुं प्रवृत्त इत्यर्थः । ततः शृङ्गग्राहं तस्य मारणात् सङ्क्षेप्ता। वृषभासुरविध्वंसीत्यष्टोत्तरशतनाम्नि । एवं व्रजस्य कल्याणविधानात् क्षेमकृत् । ततः प्रियाभिर्गोवधदोषेऽभ्युदीरिते गङ्गादितीर्थान्याकार्य तद्धाराभिर्विशुद्धोऽभूदिति शिवः । एषु दशमादिकीर्त्तितानि बृषासुराहवचरितान्युदाहरणानि मृग्यानि । क्षेमकृच्छिव इति सविशेषणमेकं नाम। वृषासुरं निहत्य निःसपत्नः शेते इति शिवः
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्नि
षष्ठं नाम शतके व्याख्यातम् ।
दक्षिणावर्तातिसूक्ष्मपीतरोमकुण्डली-वपुषा श्रीवत्सेनाङ्कितं वक्षो यस्य सः श्रीवत्सवक्षाः । परेशस्यसाधारणं चिन्हमिदम् । विना श्रीवत्सकौस्तुभाविति स्मरणात् । श्रीषु गिरिराजकटकसानुशोभासु वसति समासक्तः सन्निति श्रीवासः । श्रीणां तासां कुपितादिन्द्रात्ः पालनात् श्रीपतिः । श्रीमतां मतिमतां वाग्मिनां वा स्वमित्राणां बरणीयत्वात् श्रीमताम्बरः ॥७७॥
श्रियं स्वमिन्त्राणां वेषरचनां दयते पालयतीति श्रीदः । श्रीणां स्वभक्त-त्रिवर्ग-सम्पत्तीनामीशनान्नियमनात् श्रीशः । तत्सर्वाधिष्ठात्र्यां स्वाशैः सर्वाविर्भावानुगामियां श्रियि गोकुल महालक्ष्म्यां नित्यं वसतीति श्रीनिवासः । श्रीः सा निधियतेऽस्मिन् रत्नमञ्जरीवेन्द्रनीलसम्पुट इति श्रीनिधिः । यच्छयनादियं श्रीरिति निरुच्यते । श्रियं तां विभावयति सौरभ्यधारयेवं स्वगुणसम्पदेति श्रीविभावनः । आत्मभूतां तां श्रियं धरति वन्हिरिवोष्णगमिति श्रीधरः । श्रियि तस्यां करौ यस्य तां परिष्वजत इति श्रीकरः । श्रेयोभूता सा श्रीर्नित्यमस्यास्तीयि श्रेयः । श्रीमान् । श्रीनिवासादिषु षट्सुदाहृतिस्तु गोकुलाख्ये माथुर मण्डले इत्यारभ्य “द्वेपार्श्वे चन्दावली राधिके”त्युक्त्वा “यस्यांशेन लक्ष्मीदुर्गादिका शक्तिरिति” पुरुषवोधनी-श्रुतिः। “राधया माधवो देवो माधवेनैव राधिका । विभ्राजन्ते, जनेष्वेत्यु” क्परिशिष्टश्रुतिः । “सत्त्वं तत्त्वं परत्वञ्च तत्त्वत्रयमहं किल । त्रितत्त्वरूपिणी सा च राधिका मम वल्लभा । प्रकृतेः पर एवाहं सापि मच्छक्तिरूपिणी”ति । “देवी कृष्णमयी प्रोक्ता राधिका परदेवता । सर्वलक्ष्मीमयी सर्वकान्तिः सम्मोहिनी परा” इति गौतमीयोक्तेश्च नित्यश्रीकतया गोकुलादेर्लोकत्रयस्याश्रयत्वालोकत्रयाश्रयः ॥७८॥
श्री-माधुर्व्य-लावण्य - मार्द्दव-सौरभ्यादि-सुधासिन्धुभोगात्। शोभनान्यक्षाणीन्द्रियाणि यस्य स स्वक्षः । श्रीस्पृहणीयदिव्यावयवत्वात् स्वङ्गः । एवं तां श्रियमानन्दयंस्तदाविर्भावानांशतानि नन्दयतीति शतानन्दः । “चिन्तामणिप्रकरसद्मसु कल्पवृक्षलक्षावृतेषु सुरभीरभिपालयन्तम् । लक्ष्मीसहस्रशतसम्भ्रम-सेव्यमानं गोविन्दमादिपुरुषं तमहं भजामीति” ब्रह्मोक्तेः । एवं सर्वदा तत्र तत्र तया ताभिश्च नन्दतीति नन्दिः । सर्वधातुभ्य इन् । ज्योतिर्गणानां तत्तत्परिचर्योपकरण-च्छत्रचामरादि-वैशिष्टेन वपुषा च दिव्येन भ्राजमानानां नित्यपार्षद-वृन्दानां स्वामित्वाज्ज्योतिर्गेणेश्वरः। ईदृशोऽपि सौशिल्यार्णवत्वेन प्रमाणाधीनमनस्कत्वाद्विजितात्मा । शयनासनगमनादिषु स्वभक्ताय तत्त्वाद्विधेयात्मा । एवम्बिध्येन मनोज्ञ-यशस्कत्वात् सत्कीर्त्तिः । सर्वविषयकस्वभक्तसन्देहनिवारकत्वाच्छिन्नसंशयः । “तदन्यः संशयस्यास्य च्छेत्ता न ह्युपपद्यत” इत्यादिस्मृतेः ॥ ७९ ॥
ईदृशतया शास्त्रेषुदित्वरत्वादुदीर्णः । सर्वान् भक्तान् सानुरागः पश्यतीति सर्वतश्चक्षुः । “दर्शनध्यान-संस्पशैरि”त्यादि स्मरणात् । स्वभक्ताधीन- सर्वर्वृत्तित्वादनीशः । “अहं भक्तपराधीन” इत्यादि स्मरणात् । शाश्वते नित्ये स्वभक्तसमाजे स्थैर्यात शाश्वत स्थिरः । वृन्दाटवी-पृथिव्यां शयनाद्भूशयः । “कचित्पल्लवतल्पेषु नियुद्धश्रमकर्षितः । वृक्षमुलाश्रयः शेते गोपोन्मङ्गोपवर्हण” इति श्रीशुकवाक्यात् । वृन्दावनान्तःसञ्चारीत्यष्टोत्तरशतनाम्नि । रहोमिलितया कयाचिद्भामिन्या सहोत्तरीयास्तृतायां कुञ्जभूवि शयनाद्वा भूशयः । भूषयति तां च स्वपादचिह्नैः कुसुमभूषणेश्चेति भूषणः । भवतात् तस्यास्तस्याश्च वाञ्छितपूरक इति भूतिः । क्तिच्क्तौ चेति कर्तरि । क्तिच । अथ मथुरामकूरेण नीयमानस्त्वरयैवायास्यामीति स्वप्रेयसीनां शोकापहरणत्वादशोकः । स्वागमनवार्तया पित्रोः शोकं नाशयन् शोकनाशनः ॥८०॥
कंसात् पित्रोरवज्ञया जाज्वल्यमानत्वात् अर्च्चिष्मान् । ज्वालाभासोर्नपुंस्यर्च्चिरिति नानार्थवर्गः । मालाकारेण कुब्जया च सत्कृतत्वादर्च्चितः । काम्यते तद्रूपगुणमोहितया कुब्जयेति कुम्भः । कमे कुम्भश्चेति कुमादेश प्रत्ययौ । कुब्जा-कृष्णाम्बरधर इत्यष्टोत्तरशतनाम्नि । गुण-यौवन-पूर्णत्वात् कुम्भ इत्यन्ये । सखिगोष्ठयामेव त्वद्गेहमायास्यामीत्यच्छद्मधोत्वाद्विशुद्धात्मा । विशोधयति हस्तिपकं हस्तिनञ्च निहत्य मोक्षं दददिति विशोधनः । हस्तिना रङ्गद्वारि निरुद्धोनाभूदित्यनिरुद्धः । प्रतियोद्धरभावादप्रतिरथः । यतः प्रद्युम्नः । प्रकृष्टमनन्तं बलमस्येत्यर्थः । अतिविक्रमिणामपि चानूरादोनां हेलैव विनाशनादमितविक्रमः ॥८१॥
पुरा कालनेमिमधुना तु कंसमसूरं निहतवानिति कालनेमिनिहा । सकचग्रहं सानुजञ्च जघानेति नेरर्थः । विशेषेरयतिस्म तमाकृष्टवानिति वीरः । “हरिर्यथेभं विचकर्ष स्योऽव्यय” इति श्रीशुकोक्तेः । अतः कंसारिरित्यष्टोत्तरशतनाम्नि । यतः शौरिः शूरस्य वसुदेवस्य पुत्रः। पितृद्रोहिणि तस्मिन्नेवभेवौचित्यादिभावः । एवमिति विक्रमं कसं निहत्य शूरजनानाश्वश्नुते व्याप्नोतीति शुरजनेश्वरः । शूरैः प्रभुत्वेन सम्मत इत्यर्थः । कंसवधोपकारेण त्रयानां लोकाणां प्रेमास्पदत्वात्त्रिलोकात्मा । “हते कंसे त्रयो लोकाः प्राप्नुवन्निर्वृति परा”मिति स्मृतेः । स्व स्व- कर्मसूत्रत्रयाणां लोकानां नियम्य प्रवर्तनात्त्रिलोकेशः । सूर्यादि-सङ्क्रान्तांशुमत्त्वात् केशवः । “सूर्यस्य तपसो लोकानग्नेः सोमस्य चाप्युत । अंशवो ये प्रकाशन्ते मम ते केशसङ्गिताः । सर्वाङ्गाः केशवं तस्मान्मामाहुर्मुनिसत्तमा” इति स्मृतेः । प्रशान्तनीलकुन्तलत्वाद्वा केशवः । केशाद्वोन्यतरस्यामिति । सूत्रात् । केशिनमश्वाकृति दानवं हतवानिति केशिहा । केशिवधेन देवादीनां गोपानाञ्च मनोहरणाद्धरिः । अच इति सूत्रादि ॥ ८२ ॥
कामं यथेष्टऽ दीव्यति केशिनं निहत्य माद्यतीति कामदेवः । केहि वधेन तेषां काममभिलाषं पालयति पूरयतीति कामपालः । केशिस्वमिनः कंसस्य वधे साभिलाषत्वात्कामी। केन सुखेनान्तति वध्नाति देवादीनिति कान्तः । अतिवन्धने धातुः । केशिनं निहत्य स्वबन्धुगोष्ठयां प्रवेशकरणात् कृतागमः । केशिवधप्रकरणमत्रोदाहरणम् । अनिर्द्देश्यं परब्रह्मभावेन निर्द्देष्टुमशक्यं वपुरस्येत्यनिर्द्देश्यवपुः । अतसीपुष्पप्रभवस्य ग्राम्यवद्गोपकुमारैः सह क्रीडतः परब्रह्मत्वं दुर्वोधमित्यर्थः । तद्द्याथात्म्यज्ञानात्तु सुवोधं तत्त्वमित्याह विष्णुरिति । द्यावापृथिव्यौ व्याप्नोति तत्र कान्तिमान् क्रामतीति विष्णुः । “व्याप्त मेरोदसी पार्थ कान्तिश्चाभ्यधिका मम । अधिभूतानि चान्तेषु तदिच्छंश्चास्मि भारत । क्रमाणाच्चाप्यहं पार्थ विष्णुरित्यभिसञ्ज्ञित” इति स्मरणात् । विशिष्टा परब्रह्मत्ववोधिका इरा वाक् यस्मिन् स वीरः । “मनोमयः प्राणशरीरो भारूपः सत्यकामः सत्यसङ्कल्प आकाशात्मे”त्यादिका वेदान्तवाक् यद्विषय इत्यर्थः । अविशुद्धमनसामनिकटत्वादनन्तः । अन्त प्रान्तेऽन्तिके नाशे इत्यादि विश्वकोषात् । धनानि कंससम्पदो जयति जित्वोग्रसेनाय ददातीति। धनञ्जयः ॥८३॥
ब्रह्मणे गर्गाय हितो ब्रह्मण्यः, गवादित्वाद्यत् तेनोपनीतस्तत्सेवीत्यर्थः । ब्रह्म करोति ब्रह्मचर्य्य-लक्षणं तपश्चरतीति ब्रह्मकृत् । ब्रह्मतत्त्वं तपो वेदो ब्रह्म विप्रः प्रजापतिरिति नानार्थवर्गः । निखिल-ब्राह्मण-तत्कर्ममूलभूतो ब्रह्मापि स्वयमेव भवतीति ब्रह्मा । “भवेत्कचिन्महाकल्पे ब्रह्मा जीवोप्युपासनैः । कचिदत्र महाविष्णु ब्रह्मत्वं प्रतिपद्यत” इति स्मृतेः । यतो ब्रह्मसमष्टिव्यष्टिभूतान् पुरुषान् वृंहयन्ति स्वयञ्च निःसीमातिशय - स्वरूपगुणविभूतिभिर्वृंहति चेति निरुक्तेः । सर्वतत्त्वसमाश्रयं वेदान्तवेद्यं परं तत्त्वमित्यर्थः ॥
बृहत्वाद्वृंहणत्वाच्च तस्माद्ब्रह्मेति शब्दित” इति शिववचनात् । ब्रह्मणो विप्रान् ब्रह्म च तदनुष्टेयं तपो विवर्द्धयतीति ब्रह्मविवर्द्धनः । गायत्रीलक्षणं ब्रह्म वेत्ति गर्गादिति ब्रह्मवित् । “गर्गायदुकुलाचार्याद्गायत्रं ब्रतमास्थिताविति” श्रीशुकवाक्यात् । वेदार्थ-प्रचारायात्रिगोत्रादिषु दत्तात्रेयादि-रूपेणाविर्भवन् ब्राह्मणः । ब्रह्माणि प्रधानादितत्त्वानि नियम्यतया नित्यं सन्त्यस्येति ब्रह्मी । अवन्तीगतः सान्दीपनेः सकाशाद्वेदलक्षणं ब्रह्म जानाति वर्णतोऽर्थतश्च वेत्तीति ब्रह्मज्ञः । ब्रह्मणस्य सान्दीपनेर्गुरोर्मृतपुत्रानयनेन प्रीतिकर्त्तृत्वाद्ब्राह्मणप्रियः । ततो गुरुकुले वासमिच्छन्तावुपजग्मतुरित्यादि चात्रोदाहरणम् ॥८४॥
अवन्त्या मथुरामागतस्य कालयवनं दिधक्षोर्महान्तः क्रमाः पादविक्षेप यस्य मुचुकुन्दगुहान्तगामिनः स महाक्रमः । महत् पूजार्हं श्लाघनीयं कर्म यस्य स महाकर्मा । यदुभिरवध्य यादवेनैव स्वयं धीवलेन भस्मीभावविधानादित्याशयः । महद्दुःसहं तेजोऽस्येति महातेजाः । “किं स्वित्तेजस्विनां तेजो भगवान् वा विभावसुरिति” मुचुकुन्दवाक्यात् । महता उरसा हृदयेन गच्छति स्वभक्तं मुचुकुन्दमिति महोरगः । मुचुकुन्दप्रसादकृदित्यष्टोत्तरशतनाम्नि । तत्राह उरः शब्देन हृदयमत्र लक्षणीयं सज्जात्याद्यनपेक्षो निव्यजितया स्वभक्तप्रणयीत्यर्थः । यतो रामत्वेनावतारे निषादराजं गुहमालिलिङ्ग । गृध्रस्य जटायुष उर्द्ध्वदैहिकं कर्म चकार । शवगृहे तद्दत्तानि फल्यान्यतिप्रीत्या बुभुजे इति । उक्तं निर्व्याजभक्तप्रणयित्वं व्यञ्जयति चतुर्भिः । सुशकत्वेनाक्षयफलत्वेन चान्यक्रतोर्महान् क्रतुस्तुलस्यर्पणादिलक्षणोऽस्येति महाक्रतुः । तादृश क्रतुकारित्वेनान्ययाजिभ्यो महान्तो यज्वानोऽस्येति महायज्वा । हिंसादि-दोषवैधुर्येणान्ययज्ञेभ्यो महान् जपलक्षणो यज्ञोऽस्येति महायज्ञः । नमस्कार-स्वाध्यायौषधिरूपत्वेनातिपवित्रत्वादन्यहविभ्यो महान्ति हवींषि यस्य स महाहविः । एषूदाहरणानि विष्णुधर्मे–“तुलसीदलमात्रेण जलस्य चुलुकेन च । विक्रीणीते स्वमात्मानं भक्तेभ्यो भक्तवत्सलः ।“ मोक्षधर्मे-“याः क्रियाः सम्प्रयुक्ताः स्युरेकान्तगतवुद्धिर्भिः । ताः सर्वाः शिरसा देवः प्रतिगृह्णाति वै स्वयम् । जप्येनैव च संशुद्ध्येद् द्ब्राह्मणो नात्र संशयः । कुर्यादन्यन्न वा कुर्यान्भैत्रो ब्राह्मण उच्यते।“ “कीर्तनादेव कृष्णस्य मुक्तवन्धः परं व्रजेत् ।“ “कृष्ण-प्रणामी न पुनर्भवाय ।“ “यदेतत् सुकृतं हव्यं तेन तुष्यन्ति देवताः । नमस्कारेण हविषा स्वाध्यायैरपी” त्यादीनि स्मृतिवचनानि मृग्यानि । औषधैर्व्रीहियवादिभिरित्यर्थः । इत्थञ्च कायवाङ्मनो-व्यापारेण सुकरेण समाराध्यत्वात्तथात्वमागतम् ॥८५॥
अथ वाग्व्यापारेणैव समाराध्यत्वात्तदाह-नित्यानन्तकल्याणगुणकतया स्तोतुमर्हः स्तव्यः । बाहुलकादचो यत् । नामकीर्तनलक्षणः स्तवः प्रियः प्रीतिकर्ताऽस्येति स्तवप्रियः । स्तूयतेऽनेनेति स्तोत्रं स्तुतिकरणभूतोऽप्ययमिति ध्रुवचरिते व्यक्तमेतत् । भगवता कम्बुनास्पृष्टचिवुकोध्रुवस्तवमस्तौषीत् स्तूयते थमिति स्तुतिः । यद्यपि स्तौतेःकरणेक्तिन् श्रुयजीषि स्तुभ्यः करेण इति सूत्रात् तथापि बाहुलकात् कर्मण्या श्रीयते स्वभक्तं स्तोतुं शीलमस्येति स्तोता । “वन्दितो हि स वन्देत मानितो मानयति चे”त्यादि स्मरणात् । दुष्टसंहारलक्षणो रणत्रियोऽस्येति रणप्रियः । यतो राजन्यवेशान् दुष्टान् । भूपान असुरांश्च दुर्वृर्त्तान् जघान । दुर्योधनकुलान्तक इति दानवेन्द्रविनाशन इति चाष्टोत्तरशननाम्नि । ननु कथमनन्तान् दुष्टानेको जघान तत्राह पूर्णः । अनन्तैः पराक्रमैरिति शेषः । एवं दुर्वृत्तान्निहत्य पूनाति विशुद्धान् करोतीति पुरयः । पूञोयन्नुक्द्ध्रस्वश्च । स्वरूपवत् कोर्तिरूपजनपावनीति पुण्यकार्तिः एवं कीर्तिरूपमहौषधेन संस्मृतिरोगविरोधित्वादनामयः ॥८६॥
त्वरैवानामयत्वकरणान्मनोजवः । कीर्तनादेव” कृष्णस्येत्यादिस्मृतिभ्यः । स्वप्राप्त्युपायगीतादि-शास्त्र-प्रवर्तनात्तीर्थकरः । तीर्थं शास्त्रावतारयोरिति श्रीधरः । वक्ष्यति च । योगज्ञानं तथासङ्ख्यमित्यादि । अगाधे स्वतत्वे प्रवेशयितुं चरित्रसोपानकरणातथेत्येके । वसन्ति महादादीनि प्रतिसर्गेऽत्रेति वसुप्रधानं, तस्मिन् रेतश्चित्परमाणुवृन्दं यस्य स वसुरेताः । “मम योनिर्महद्ब्रह्मे”त्यादि स्मृतेः । वसूनष्टौ प्रकर्षणादयते पालयतीति वसुप्रदः । देङ्पालने धातुः । वसूनि धनानि प्रदायति परिशोधयति सत्पात्रदानेन स्वसम्मुखानामिति पुनर्वसुप्रदः । वादेषु वेद्यतया निवासाद्वासुदेवः । “वसनादेव वादे च वासुदेवेति शब्दित” इति शिववचनात् । वसति नित्थे धाम्नि नित्यमिति वसुः । वसौ भीष्मे मनो यस्य स वसुमनाः । “शरतल्पो गतो भीष्मः शाम्यन्निवहुतासनः । मां ध्यायति पुरुषव्याघ्र ततो मे तद्गतं मन” इति तद्वाक्यात् । हूयते भीष्मेण दीयते स्वनियणे स्वदृष्टिविषयतया गृह्यत इति हविः । हू दानादानयोरादाने चेत्येके । प्रीणते प्रीति भाष्यमिति व्याख्यातारः । हूयते तेन प्रीतं क्रियते इति तथेत्येके । भीष्ममुक्तिप्रदायक इत्यष्टोत्तरशतनाम्नि । भीष्मे मुक्ते तत्पूर्वपदव्यां जीवान्तरमभिषिक्तमिति बोध्यम् ॥८७॥
सतां भीष्मादीनां प्राप्यत्वात् सद्गतिः । सती शोभना कृतिर्निर्याणसमये भक्तसाचिव्यरूपा क्रियाऽस्येति सत्कृतिः । “यदि वातादिदोषेण मद्भक्तो मां न च स्मरेत् । अहं स्मरामि मद्भक्तं नयामि परमां गति” मिति वाराहवचनात् । पाण्डवान् व्रजजनांश्च सत्तुं गन्तुं शीलमस्येति सत्ता । “यर्ह्यम्वुजाक्षापससार भो भवान् कुरून मधुन्वाथ सुहृद्दिदृक्षया” इत्यादि द्वारावतीप्रजावचनात् ।
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्नि
सप्तमं नाम शतकं व्याख्यातम् ।
सतो युधिष्ठिरस्योग्रसेनस्य बलेश्च स्वभक्तस्य दूतं प्रतीहारश्च भवन् सद्भूतिः। सन्तं परममयनमस्येति सत्यपरायणः । ‘‘साधवो हृदयं मह्य साधूनां हृदयन्त्वम् । मदन्यं ते न जानन्ति नाहं तेभ्यो मनागपीत्यादि” स्मृतिभ्यः । शूरा विक्रान्ता सेनास्येति शूरसेनः । यदुराजमान्यत्वाद् यदुश्रेष्ठः । यादवेन्द्र यदुद्वह इति द्वयमष्टोत्तरशतनाम्नि । सन्नतिमनोज्ञो निवासो द्वारकास्येति सन्निवासः । यमुनाया अदूरभवो बृहद्वनादिर्यामुनः सुशोभनोऽस्येति सुयमुनः । अदूरभवश्चेत्यण्॥८८॥
भूतान्याभिमुख्येनास्मिन् वसन्तीति भूतावासः । “वसन्ति त्वयि भूतानि भूतावासस्ततो भवानिति शिदोक्तेः। वस्ते प्रेम्नाच्छादयति पाण्डवान् यदूश्चेति वासुः, दीव्यति क्रीडति तैः सहेति देवः । ततः कर्मधारयाद्वासुदेवः । तेषां सर्वेषां प्राणावलम्बत्वात् सर्वासु
निलयः । तेषां सर्वार्थसाधकोऽनलः । न किञ्चित् कृतं मयैषामित्यपर्याप्ति मन्वानः स्वभक्तापराधक्षमने पर्याप्तो वा भक्तविद्विषामनलं कर्ता वा भक्ताधिकाराणामनिवारको वेत्यर्थः । अतिदृप्तानां दुर्योधनादीनां दर्पं हतवान् राजसूयं युधिष्ठिरस्य सम्पाद्येति दर्पहा । ईदृशकर्मापि स्वयमहतो निरभिमानः । मागधवधतन्निरुद्धनिखिलनुपविमोक्षणकर्मणाप्यात्मना स भावनारहित इत्यर्थः । पाण्डवदूत्याय गतो दुर्मन्त्रिभिर्दुर्योधनादिभिश्चतुर्भिर्धत्तं निगृहीतुमशक्यत्वाद्दुर्द्धरः । “इमं हि पुण्डरीकाक्षं जिघृक्षन्त्यल्पमेधसः । पटेनाग्निप्रज्वलन्तं यथा बाला यथा जडा” इत्यादिस्मरणात् । अथेति ग्रन्थमध्ये मङ्गलम् । अपराजितस्तैः पराजेतुं निगृहीतुमशक्यः ॥८९॥
ननु कुतस्तैर्वहुभिरेको न पराजितस्तत्राह विश्वमूर्त्तिरित्यादि देवगन्धर्वमानवादि-सर्वशरीर इत्यर्थः । अतो महाभूर्त्तिः । नहि तदङ्गभूतैश्चतुभिस्तैस्तादृशः स धर्त्तु पराजेतुं वा शक्य इति भावः । दीप्ता बहुसूर्याग्निसङ्काशा मूर्त्तिरस्येति दीप्तमूर्त्तिः । न केवलं विश्वमूर्त्तिरपित्वमूर्त्तिमान् । विश्वोपादानभूती ये प्रधानमहदादयो मूर्तयोऽर्थस्तेपि यस्य शरीरभूता नित्यं सन्तीत्यर्थः । यस्याव्यक्तं शरीरमित्यादि श्रुतेः । मूर्त्तत्वप्रतिषेधे ह्यमूर्त्तिरित्येव ब्रूयात् । अष्टोत्तरशतोतरेषु षोडशसहस्त्रेषु गृहेषु युगपदवस्थिते रनेकमूर्त्तिः । षोडशस्त्रीसहस्त्रेश इत्यष्टोत्तरशतनाम्नि । एकत्वमञ्जहदेव सर्वेषु गृहेषु कथमस्तीति नारदेनापि ज्ञातुमशक्यत्वादव्यक्तः । “चित्रं वतैतदेकेन वपुषा युगपत् पृथक् । गृहेषु द्वयष्टसाहस्त्रं स्त्रिय एक उदावहदिति” स्मरणात् । अतोऽयं शतमूर्त्तिः । शतानि मूर्तयोऽस्येति एव शतानन इति चोक्तम् ॥९०॥
एवं बहुरूपत्वेप्यद्वैतमेतीत्येकः । इनगतावित्यतः कन् । बहुरूपताया अपि तात्त्विकत्वान्नैकः । न शब्देन समासान्नलोपो नः । एवं तर्हि द्वैताश्रयणमिति चेत्तत्राह सव इति । स्यन्ति द्वैताद्वैतभ्रान्तिमिति सा । अन्येष्वपि दृश्यते इति डः । एकत्र वाचिन्त्यशक्त्या बहुमूर्त्तिर्भवतीति सिद्धान्तिन इत्यर्थः । तेषु वसति नतु द्वैताद्वैताश्रयिप्विति सवः । पूर्ववड्डः । तेषु कनति दीप्यते तान् गच्छति नतु द्वैताद्वैताश्रयानिति कः । कनीदीप्तिकान्तिगतिष्विति धातुपाठः । पूर्ववड्डः । तेषां प्रष्टव्यत्वत् किम् । प्रच्छेरिम् प्रत्ययः । कादेशश्च सोन्वेष्टव्यः । “स विजिज्ञासितव्य” इति श्रुतेः ॥ यतते तेषां सौख्यानीति तत् किए चेति तनोतेः क्विपि गमादीनामपि वक्तव्यमित्यनुनासिकलोपः । ततस्तुक् तेषां परमाश्रयत्वादुत्तमं पदम् । लोकान् । भक्तजनान् वघ्नाति स्वविषयकप्रेमरसनयेति लोकबन्धुः । बन्ध बन्धने धातुः । शृस्वृ इत्याति सूत्रादुः । तन्मूलमसाधारणं सम्वन्धमाह लोकनाथ इति तेषां लोकानां स्वामीत्यर्थः । ननु प्रतिवादिनोऽन्यान् रुद्रादीनु लोकेश्वरानाहः, कथमेले तमेव लोकेश्वरं मन्येरन् तत्रह माधव इति तेषां मां ज्ञानं धुनोति भ्रान्तितया खराडयति स्वगीतोपनिषदेति माधवः । रुद्रादीनां लोकेश्वरत्वं तदाराधनादेव महादेवः । सर्वमेधे महात्मेत्यादि स्मरणात् । अस्यत्वौत्पत्तिकं तत्त्वम् । “तमीश्वराणां परमं महेश्वरमि”त्यादि-श्रवणात् । यतो भक्तवत्सलः सर्वदा भक्तेच्छुरित्यर्थः । वत्सात्काभेलच् रुदादयस्तु स्वभक्तेषुकुप्यन्ति तान् भ्रशयन्ति च ॥९१॥
सुवर्णरयेव वर्णे रूपमस्येति सुवर्णवर्णः । “यदा पश्यः पश्यते रुक्मवर्ण कर्तारमीशं पुरुषं ब्रह्मयोनिमिति” श्रुतेः । हेमवत् स्पृहणीयानि वर्णाधिष्ठानान्यङ्गानि यस्य स हेमाङ्गः । वराणि सौन्दर्यवन्त्यङ्गानि अस्येति वराङ्गः । चन्दने भक्तचित्ताह्लादके अङ्गदे अस्येति चन्दनाङ्गदी । सुवर्णवर्णादि-चतुष्टयं केचित् कृष्णचैतन्यतायां योजयन्ति । तदा सुवर्णवर्णशब्देन लक्षणा वीरविक्षेपकाः, कामादयस्तान् हतवान् भक्तानामिति वोरहा । सर्वविलक्षणत्वात्। विषमः । “न तत्समश्चाभ्यधिकश्च दृश्यते” इति श्रुतेः । भक्तपक्षपातित्वाद्वा। दैत्यादीनां शमूनयन् शून्यः । ‘‘शमूनं कुरुते विष्णुरदृश्यः सन्परः स्वयम् । तस्माच्छून्य इति प्रोक्तस्तोदनात्तूच्छ उच्यते” इति स्मृतेः । दोषशून्यत्वाद्वा तथे त्येके । धृता भक्तानां दीपिता भक्तानां रक्षिता चाशीर्येन स धृताशीः । घृक्षरेण दीप्न्योश्छन्दसः । पाण्डवरक्षणतोऽचलनादचलः । तमहं शस्त्रं ग्राहयिष्यामि स्वभक्तभीष्मप्रतिज्ञां सत्यां कुर्वन् शस्त्रं मया न ग्राह्यमिति स्वप्रतिज्ञायाश्चलति धृतरथाङ्गः सन्निति चलः ॥ ९२॥
मानशून्यतया भक्तकार्याणि स्वसाधयन्नमानी । यतः स्वयं सर्वेश्वरोपि निहीनकर्मसु प्रातीहारत्वदूत्य-सारथित्वादिष्वधिकारतत्तस्य कैङ्कर्यमलं भृतान्नो विलापयत्यङ्ग यदुग्नसेनम् । तिष्ठान्निघराणं परमेष्ठिधिराये न्यबोध यद्देव निवोधयेति । “सारथ्यपारिषदसेवनसख्यदौत्यवीरसहानुगमनस्तवनप्रणामम् । स्निग्धेषु पाण्डुषु जगत् प्रणतिञ्च विष्णो भक्तिं करोति नृपतिश्चरणारणारविन्दे ।” कृष्णः पादावने जने इत्यादि स्मरणात् । एवं तेभ्यो भानदानान्मानदः । तत्प्रतिपक्षमानावखण्डनाद्वा प्रतीहारत्वादिषु तैर्मन्तव्यत्वान्मान्यः । एवं कुतश्चकार तत्राह । लोकस्वामीति सर्वजगन्निर्वाहक इत्यर्थः । त्रिलोकधृगिति धारकतया पालकतयाच त्रिलोकीं धर्जति गच्छनीति तस्य स्वाभाविकोऽयं धर्मः । स्वभक्तसम्वन्धेन तु कैमुत्यं तत्र सिद्धं तदेवव्यञ्जयति स्वयं प्रभुत्वेऽपि भक्तवश्यत्वेन गुणेन शोभना मेधा धारणवतो धीरस्येति सुमेधाः । मेधृ सङ्गमे च । चान्मेधाहिंसनयोरिति व्याख्यातारः । मेधभक्तसङ्गमे जायते प्रादुर्भवतीति मेधजः । एकान्तिनो भक्तान् धनानि लब्धोतिधन्यः । “नमोऽकिञ्चन वित्ताय” इति स्मरणात् । वल्लवादिषु भक्तेषु तत्तत्सम्वन्धात्मिका मेधा सत्यैव न मनुष्यनाट्यरूपास्येति सत्यमेधाः । “यदि वोऽस्तिमयि प्रीतिः श्लाघ्याऽहं भवतां यदि । तदात्मबन्धुसदृशी बुद्धिर्वः क्रियतां मयि । नाहं देवो नगन्धर्वो न यक्षो न च राक्षसः । अहं वो बान्धवो जातो नातश्चिन्त्यमतोऽन्यथेति ।“ “अनुकम्प्याः प्रजा हि व” इति स्मरणात् । अतो बन्धुभावोचितं कर्म चकारेत्याह । धरस्य गोवर्द्धनस्य गिरेर्धरणाद्धराधरः ॥ ९३ ॥
स्वबन्धु रक्षायै शक्रादि- दुःसहानि तेजांसि वर्षतीति तेजो वृषः । तद्रक्षोत्साहोत्सलितां द्युति धरतीति द्युतिघरः । मागधशाल्वादियुद्धेषु सर्वेषु शस्त्रभृताम्वरः । तेष्वभिनिविश्य तान्निजघानेत्यर्थः । प्रगृह्यते सारथ्येनाथमर्ज्जुनेनेति प्रग्रहः । ग्रहवृह निश्चिगमश्चेत्यप् । निवृह्यन्ते पार्थशत्रवः कालदृष्टिनानेनेति निग्रहः । पार्थशत्रुविनाशे सत्वरत्वाद्वयग्नः । ऋज्रेन्द्रेत्यादि सूत्रादङ्गेर नलोपश्च । तद्विनाशायानेकानि शृङ्गान्युपाया यस्य स नैकशृङ्गः । ते चोपाया। भारते प्रसिद्धाः । शृहिंसायां धातुस्तस्माद्गन् द्घ्रस्वत्वं नुट्च। गदः । स्वकनिष्ठस्ततः प्राक्प्रादुर्भावागदाग्रजः ॥ ९४ ॥
चत्वारो नरनारायण-हरिकृष्णा-धर्मपुत्रा मूर्तयोऽस्येति चतुर्मूर्त्तिः । चत्वारो भीमार्ज्जुनसात्यक्युद्धवावाहवोऽस्येति चतुर्बाहुः । चतुर्भिर्वेदैर्व्यूह्यते परेशत्वेन वृध्यते यमिति चतुर्व्यूहः । हलश्चेति कर्मणि घञ् । चतुर्णामात्तदीनां भक्तानां यथाभावमाश्रयत्वाच्चतुर्गतिः । चतुर्षु तेषु धामसु गतिः क्रीडा सेति वा च तुर्णांसिंहशार्दुलगजबृषभानाभिव गति रस्येति वा चतुर्षु भक्ते रुपार्जनीयेषु वर्गेष्वात्मा प्रयत्नोऽस्येति चतुरात्मा । चतुरो वर्गान् भावयत्युत्पादयति भजतामिति चतुर्भावः । चतुरो वेदान् वेदयति भक्तानिति चतुर्वेदवित् । असङ्ख्येयज्यादण्डलक्षणः प्रपञ्च एकः पादो विभूत्यंशोऽस्येति एकपात् । “पादोऽस्य विश्वभूतानोति” श्रुतेः । “अण्डानां तु सहस्रानां सहस्रन्ययुतानि च । ईदृशानां तथा तत्र कोटि कोटि शतानि चेति” स्मृतेश्च ॥ ९५ ॥
सम्यक् तान्यावर्त्तयति पुनः पुनः सृजतोति समावर्त्तः । अव्युच्छिन्नास्ततस्त्वेते इत्यादि स्मृतेः । प्रलये जगद्वयापारान्निवृत्त आत्मा मनोऽस्येति निवृत्तात्मा । “स्व-सृष्टमिदमापीय शयानं सह शक्तिभि” रिति स्मृतेः । तेष्वनुवृत्तत्वादनिवृत्तात्मेत्येके । दुःसाधेन समाधिना जीयले हृदि वशीक्रियते इति दुर्जयः । दुःखदोऽतिक्रमः शासनोल्लङ्घनमस्येति दुरतिक्रमः । दुःसाधया भक्त्या लभ्यते इति दुर्लभः ।
“जन्मान्तरसहस्त्रेषु तपोदानसमाधिभिः । नरानां क्षीणपापानां कृष्ण भक्तिः प्रजायते ।“ इति स्मृतेः । दुःसाधेनोपनिषद्विचारेणगम्यते बुध्यते इति दुर्गमः । दुःसाधेने साम्ना गीयते इत दुर्गः । बाहुलकात् कर्मणि कः । दुःसाधया प्रपत्त्या वास्यते हृदीति दुरावासः । नन्वतिकष्टं तद्भजनं तत्राह । दुरारिहेति । दुष्टारिं प्रतिगच्छन्तीति दुरारिणः कामादयस्तान् हतवानिति तत्र साहायकारित्वान्नातिकष्टमित्यर्थः ॥ ९६ ॥
शुभानि गुरुशास्त्रोक्ति-विश्वास-स्वप्नाश्वासन-लक्षणान्यङ्गयत्युपलम्भयतीति शुभाङ्गः । तदुक्त-साहाय्यादपि नातिकष्टं तद्भजनमित्याह लोकसारङ्ग इति । लोका हरिभक्तजनाः सारङ्गा मनोद्वतद्गुणगायका यस्य स इत्यर्थः । शोभनास्तन्तरः स्वसम्मुखजनमनोहरिणग्राहिगुणकर्म-वागुरा यस्य स सुतन्तुः । तल्लक्षणांस्तम्भून् वर्द्धयति मनोज्ञैरवतारैरिति तन्तुवर्द्धनः । इन्द्रार्थ कर्म यस्य स इन्द्रककर्मा । तदेव विसदयन्नाह । महान्ति भौमवधमणिपर्वछत्रादिति कुराडलानयनानि कर्माणि यस्य स महाकर्मा । कृतानि षोडशसाहस्रराजकन्याहरणपारिजातानयन-तिखिलदेव-निर्जय-लक्षणानि कर्माणि रुद्रजय-वाणबाहुच्छेदानिरुद्धोषानययनलक्षणानि वा येन सकृतकर्मा । कृतस्तत्तच्चरितानि प्रकाश्य द्वारकायामागमो येन स कृतागमः ॥ ९७ ॥
उत्कृष्टो भवस्तत् कर्महेतुककोत्ति-प्राप्तिर्नृपकन्या-परिजातप्राप्तिर्वायस्य स उद्भवः । भूप्राप्तौ धातुः । यथोचिताङ्गसन्निवेशत्वात् सुन्दरः । सुष्ठुन्दति कृपावृष्ट्यार्द्रीकरोति स्वांश्रितनिति सुन्दः । पृषोदरादिः । उन्दोकेलदने धातुः । रत्नवत् पद्मरागवदरुनिम्ना शोभमाना नाभिरस्येति रत्ननाभः । अरुणान्ततया दैर्येन च शोभमाने लोचने नेत्रेऽस्येति सुलोचनः । अयन्ते स्तूयतेऽसावित्यकः ॥ अर्कस्तवने धातुः । राजमन्नं सनोति ददातीति राजसनः । “अन्नादोवसुदान” इति श्रुतेः । शृङ्ग महिषादिवादनसाधनमस्येति शृङ्गी गोपलीलः । “प्रवोधयन शृङ्गरवेनेति” श्रीशुकोक्तिः । जयति सखोन् बाहुयुद्धेवायुद्धे वेति जयन्तः । जेरन्त- प्रत्ययः । सर्ववित्सु वशिष्ठवामदेवादिषु जयो महोत्कर्षोऽस्य नित्यमस्तीति सर्वविजयी ॥ ९८ ॥
सुवर्णा रम्या विन्दवोऽवयवा अस्येति सुवर्णविन्दुः । विन्दुर्नवेप्यवयव इति मेदिनीकरः । सुवर्णे ललाटस्थो विन्दुरस्येति अपरे । प्रेमासम्पृक्तैभमिनीनां कृत्रिमैः स्मितादिभिः क्षोभयितुमशक्यत्वादक्षोभ्यः । “यस्येन्द्रियं विमथितं कुहकैर्नशेकुरि”ति सूतवाक्यात् ।
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्न्यष्टमं ।
नामशतकं व्याख्यातम् ।
सर्वाः श्रुत्यादिलक्षणा वाचो यत्र स सर्ववाक् । निखिलशास्त्रप्रतिपाद्य इत्यर्थः । यत ईश्वरेश्वर विधिरुद्रादिनियामकः । “तमीश्वराणां परमं महेश्वर” मित्यादि श्रुतेः । “स्वयत्त्वसाम्यातिशयस्त्र्यधीश” इत्यादि स्मृतिश्च । संसृतितापतप्तानां मुमुक्षुनां सर्वेषां तत्तापनिवर्त्तकत्वान्महाह्रदः । “संसारवैरीत्यष्टोत्तरशतनाम्नि” । ब्रह्माण्डकोटीनामेकदेशसमावेशान्महागर्तः । “इहैकस्थं जगत्कृस्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसीति” स्मृतेः । महान्ति भूतानि यस्मात् स महाभूतः । महान्तो निधयो यस्मात् स महानिधिः । “विसृजति हृदयं न यस्य साक्षाद्धरिरवशाभिहितौप्यघौघनाशः। प्रणयरसनयाधृताङ्घ्रिपद्मः स भवति भागवतप्रधान उक्त” इत्यादि-स्मरणात् ॥ ९९ ॥
कुन्दं निधिभेदं राति ददाति तल्लिप्सुभ्य इति कुन्दरः । महापद्यादीनां निधीनामुपलक्षणमेतत् । कुन्दकुसुमधारणात् कुन्दः । अर्शश्राद्यच् । “कुन्ददामकृतकौतुकवेशऽऽ इति श्रीशुकवाक्यात् । यद्वा कुं स्वतत्त्वज्ञानभावितां चित्तभूमिं ददाति भक्तेभ्य इति कुन्दः । नुमार्षः । “ददामि बुद्धियोगं तं येन मामुपयान्ति त” इति स्मरणात् । तस्यां चित्तभूमौ वर्षति निजरूपामृतमिति पर्जन्यः । पृषु सेचने ततोऽन्यप्रत्यये निपातोऽयम् । दैवाद्दुष्कर्मदूषितां तां चित्तभूमिं पवते पुनातीति पवनः । “स्वपादमूल” मित्यादि स्मृतेः ॥ नितरां लाति गृह्णात्येकान्तिनो भक्तानित्यनिलः । यद्वा कंसवधनिर्ज्जिताया इलाया भूमेरुग्रसेनाय दानादनिलः । “क्षितिरिलाक्षौणीक्षमाक्ष्माचलेति” हलायुधः । रुक्मिणीस्पृहया निद्रापरित्यागाद्वा । इल स्वप्न-विक्षेपयोधातुः । “तथाहमपि तच्चित्तो निद्राञ्च न लभे निशीति” तदुक्तेः । अमृतमयाचितं मोक्षमाशयति भोजयति भक्तानित्यमृताशः । अमृतं वपुर्यस्य सोऽमृतवपुर्नित्यविग्रह इत्यर्थः । सर्वामवस्थां जानाति भक्तानामिति सर्वज्ञः । दर्शनध्यानेत्यादेः । निरपेक्षं मुनिमित्यादेश्च । अतः सर्वतोमुखः सर्वदिग्देशवर्त्तिषु भक्तेषु मुखमस्येति ॥१०० ॥
अथ मिथिलास्थिततां द्योतयन्नाह- श्रुतदेव-बहुलाश्वाभ्यां स्ववेइमस्थाभ्यां लब्धत्वात् सुलभः । शोभनानि परमोत्सवरूपाणि जन्माष्टमी-कार्त्तिक-नियमादीनि ब्रतानि यस्य सः सुव्रतः । स्वाभीष्टाचोत्सवानुरोधेन द्वारकां गन्तुमशक्तयोस्तयोः स्वयमेव व्यासादिसहितो दृक्पथं गत इत्यर्थः । ननु कुतस्तौ तां नाजग्मतुस्तत्राह सिद्ध इति । तदच्चर्यां स्वयमेव नित्यं स्फुरन्नित्यर्थः । तावर्च्चामेव साक्षात् प्रभुमनुभवन्तावतस्तत्र नागताविति भावः । तद्भक्तिनियन्त्रितस्तद्भक्तिप्रतिकूलान्निरस्यन्नर्च्चात्मना तद्गृहे नित्यं निवसतीति भावेनाह । शत्रून् कामादीन् । श्रुतदेवस्य ब्रह्मर्षेर्जयति हृदि स्थितः सन्निति शत्रुजित् । शत्रून् बहुलाश्वराजर्षे राज्यविरोधिनस्तापयतीति शत्रुतापनः । न्यक्कृत्य रुणद्धि निरये निक्षिपति स्वभक्तद्रोहिण इति न्यग्रोधः । पचाद्यच् । उद्गतं सर्वैर्गुणैरुत्कृष्टं प्रकृतिमण्डलस्योपरि वर्तमानं वा । वरं परमव्योम यस्य-स उḏहुम्बरः । पृषोदरादिः सन्धिर्षः । भक्तान्नित्ये स्वपदे यो नयतीत्यर्थः । श्वस्तादूपेण न, स्थातेति निरुक्तेरश्वत्थः प्रपञ्चः सोऽस्यास्ति नित्यं नियम्यतयेत्यर्थः । आद्यच् । चराचरनिखिलनियामकस्य स्वभक्तवैरनिर्यातनं स्वभक्तसुखार्पणं न दुष्करमिति भावः । इह दृष्टान्तभावेनाह चाणूरं तन्नामानमान्ध्रमन्ध्रदेशोद्भवं निसूदितवानिति चाणूरान्ध्रनिसूदनः । अथ यथा माथुरभक्तानां वैरनिर्यातनं तेभ्यः सुखार्पणञ्च तं निहत्य कृत्यं तद्वदिति ॥१०१॥
तत्सेवकैरपि सुकरमेतत् । किमुत सर्वेश्वरेण तेनेति भावेनाह । सहस्रमर्च्चिंषि सूर्यवर्तीनि येन स सहस्रार्चिः । “येन सूर्यस्तपति तेजसेद्ध” इति श्रुतेः । “यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामक”मिति स्मृतेश्च । सप्तकालीकराल्याद्या वह्णेर्जिह्वा येन स सप्तजिह्वः । सप्तभुवनान्येधांसि काष्ठवद्दाह्यानि यस्य स सप्तैधाः । सङ्कर्षणः कालाग्निः । “पातालतलमारभ्य सङ्कर्षण-मुखानलः । दहन्नुर्द्ध्वशिखो विश्वग्वर्द्धते वायुनेरित” इत्यादि स्मरणात् । सप्तभुवनानि वाहयति प्रापयत्यभ्युदयमिति सप्तवाहनः । पालयितृविष्णुरूप इत्यर्थः । अथात्मविग्रहतां सूचयति । नास्ति स्वरूपभिन्ना मूर्त्तिरस्येत्यमूर्त्तिः । आत्ममूर्त्तिरित्यर्थः । एवमाह श्रुतिः-“आत्मेत्येवोपासीते”ति स्मृतिश्च-“सत्यज्ञानानन्तानन्दमात्रैकरसमूर्तय” इति एवमाह सूत्रकारः-अरूपवदेव तत्प्रधानत्वादित्यादिना समान एवञ्चाभेदादित्यनेन च अतोऽनघः परमपावनः । “पवित्राणां पवित्रं य” इत्युक्तम् । ननु कथमात्मनो विज्ञानानन्दस्य मूर्त्तत्वं तत्राह-अचिन्त्यस्तर्कागोचरः श्रुत्येकगम्य इत्यर्थः । “नैषा तर्केण मतिरापनेयेति” श्रुतेः । “तकप्रतिष्ठानादपी”ति सूत्रखण्डाछ । तर्कगम्यत्ववादिना नैयायिकादिना भयं शृगालयोनिलाभलक्षणं करोतीति भयकृत् । “अन्विक्षिकीं तर्कविद्यामनुरक्तो निरथिकाम् । तस्यैव फलनिर्वृत्तिः शृगालत्वं वने ममेति” स्मरणात् तद्वादं निराकुर्वतां तेभ्यो भयं नाशयतीति भयनाशनः ॥१०२॥
अचिन्त्यतां प्रपञ्चयति षḏह्भिः । जीवेन सह सुषुम्नयागमनादणुः । ब्रह्माण्डेऽप्यसमावेशाद्बृहत् । ‘‘स भूमिं सर्वतस्स्पृष्ट्वा अत्यतिष्ठद्दशाङ्गुल”मिति श्रुतेः । शिलास्वप्यप्रतिहतप्रेवेशत्वात् कृशः । कोटिब्रह्माण्डविग्रहत्वात् स्थूलः । गुणान् सत्वादीन् विभर्तीति गुणभृत् । भृतैस्तैरस्पर्शान्निर्गुणः । “एतदीशनमीशस्य प्रकृतिस्थोऽपितद्गुणैः । न युज्यते सदात्मस्थैर्यथा वुद्धिस्तदाश्रयेति” स्मरणात् । ईदृशतया सर्वैरभ्यर्च्चत्वान्महान् । केनापि धत्तुर्मशक्यत्वादधृतः । “मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थित” इति स्मरणात् । स्वे महिम्नि धृतत्वात् स्वधृतः । स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिम्नीति” श्रुतेः । चन्द्रारविन्दतोऽपि शोभनमास्यमस्येति स्वास्यः । निखिलवेदभूषितमुखत्वात्तथेत्येके । स्वेषु स्वमात्रजीवातृषु भक्तेष्वासितुं योग्यत्वाद्वत्यन्ये । प्राक्पूर्वसिद्धो वंशः प्रद्युम्नादि । यस्य स प्राग्वंशः । वंशं यदोर्वर्द्धयतीति वंशवर्द्धनः यत्र षट् पञ्चाशत् कोटयः प्रधानभूता बभूवुः ॥१०३॥
अथ भक्तपोषणदीक्षिततां सूचयति । भावं स्वभक्तानां देहयात्रानिर्वहं विभर्त्ति धत्ते इति भारभृत् । भर्त्ता सन् भ्रियमानो विभातीति श्रुत्या । दर्शनध्यानसंस्पर्शैरित्यादि स्मृत्या च तथात्वेन निगदितत्वात् कथितः । ननु कथमेकोऽनन्तान् भक्तान् भर्त्तुं क्षमस्तत्राह योगीति । नित्यं सत्यसङ्कल्पता लक्षणधर्मयोगवन्नित्यर्थः । सत्यसङ्कल्प इत्यष्टोत्तरशतनाम्नि । तथाच सङ्कल्पेनैव तद्भृदीत । अतो योगीशः । सनकादीनां योगिनां स्वामी तेषां तद्योगद इत्यर्थः । अथ वासनाविभ्रष्टभक्तनिर्वाहकतां सूचयति । भोगवाञ्छया योगविभ्रष्टभ्यः स्वर्गेषु सर्वान् कामान् ददातीति सर्वकामदः । स्वर्गभोगानन्तरं तान् स्वभक्तगृहेषुत्पाद्याश्रमयत्या श्रमभाजः करोत्याश्रमः । द्वये “प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः” । शुचीनां श्रीमत गेहे योग भ्रष्टोऽभिजायते । अथवा योगिनामेव कुले भवति धीमता” मिति स्मरणात् । स्वर्गादिभोगजन्मभ्यामप्यक्षीणेन पूर्वसंस्कारेण श्रमयत्यभ्यासयति त्वरैव योगमिति श्रमणः । “तत्र तं वुद्धिसंयोगं लभते पौर्वदैहिक” मित्यादि स्मरणात् । योगभ्रष्टा अपि योगाभिमुख्यमात्रेण तत्पदमाप्तुं क्षमन्तेऽस्मात् सहायकादितिक्षमः । हलश्चेति क्षमेर्घञ् । नोदात्तोपदेशे तुपधा- वृद्धिनिषेधः प्रज्ञाद्यणिक्षामः । “नहि कल्याणकृतः कश्चिद्गति तात गच्छतीति” स्मृतेः । शोभनानि पर्णानि तुलसीपत्रान्येव नतु कनकरत्नानि यस्मिन् स सुपर्णः । अत्र विष्णुदासचोलोन्द्रचरितं पाद्मीयमूदाहरणं मृग्यम् । महर्षिशापाभूविवरं प्रविष्टं निजैकान्तिनं वसुं वायुवेगेन गरुडेन वाह्यति पुनरुपरिचरं करोतीति वायुवाहमः । नारायणीये प्रसिद्धमेतत् ॥१०४॥
अथ लक्षणापतित्वं सूचयन्नाह । स्वयम्वरे मत्स्यवेधनाय धनुषो धरणाद्धनुर्द्धरः । तद्वेधनञ्च तदेकसाध्यमिति भावेनाह । धनुर्लक्षस्यमत्यस्य वेदो ज्ञानं यस्य स धनुर्वेदः । “पार्थोयतोऽसृजद्वाणं नाच्छिनत् पस्पृशे परम् । भगवान् धनुरादाय सज्जोकृत्य च लीलया ॥ तस्मिन् सन्धाय विशिखं मत्यं वीक्ष्य सकृज्जले । छित्वेषुणा पातयत्तं । मुहूर्तेऽभिजिति स्थिते” इति श्रीशुकोक्तेः । तत्र प्रतीपानर्ज्जुनेन दाम्यतीति दण्डः । ञमन्ताड्डः । नाग्नजिती स्वयम्वरे सप्तानामुक्ष्णां दमनाद्दमयिता। ते त्वस्य दमककोऽपि नाभूदित्यदमः । अथ रुक्ष्मिणीपतित्वं स्मरन्नाह । रुक्मिसैनिकैः पराजितो नाभूदित्यपराजितः । सर्वाणि रुक्म्यवज्ञावचांसि सहत इति सर्वसहः । नुमभाव आर्षः । ततोऽतिकटूक्तेस्तस्य रुक्मिणो नियन्ता तद्वन्धन-तच्छिरोमुण्डनकर्तेत्यर्थः । जाम्बवती-पतित्वं सूचयन्नाह । नियच्छति जाम्बवन्तमहावनेन नियमः यमः । समुपनिविषुचेत्यप् । जाम्बवतीं स्यमन्तकञ्च नीत्वा पुरातने भक्ते यस्मिन् प्रसीदन् यच्छत्युपरमति युद्धादिति यमः । पचाद्यच् ॥१०५॥
अथ भामापतित्वं द्योतयन्नाह-सत्वं भामार्थको व्यवसायोऽतिशयितोस्त्यस्येति सत्ववान् । “सत्वं गुणे पिशाचादौ बले द्रव्य-स्वभावयोः । आत्मत्वे व्यवसाये च चित्ते प्राणेषु जन्तुष्विति” विश्वः । सत्वं धीबलं देहबलं प्राणबलं चार्हितीति सात्विकः । तदर्हतीति ठञ्च । मदपतलाञ्छनः सत्राजित्मणिमानीय ददानाय मह्यं त्रपाभयसिन्धुनिमग्नः स्वापराधक्षमायै तामसाधारणरूपगुणां भामां मणिना सहैव स्वयमेव दास्यतीति तत्तद्वलविशिष्ट इत्यर्थः । ततः सत्यः सत्यास्त्यस्यप्रेयसीत्वेनेत्यर्श अद्यच् । सत्यो निष्कपटो यो धर्मः पातिव्रत्यातिप्रेमलक्षणस्तत्परमयनं यस्य स सत्यधर्मपरायणः । सत्यं शपथतथ्ययोरिति नानार्थवर्गः । तं धर्ममुपजीवन्नवस्थित इत्यर्थः । अतः सत्यममारत इत्यष्टोत्तरशतनाम्नि । अभितः प्रेयते प्राप्यते भक्तानुरक्तिस्वभावेन शैत्येनेव चन्द्र इत्यभिप्रायः । कर्मण्येरच् । अतः प्रियार्हः । एकान्तिभक्त्या प्रीतिकर्तृन् स्वरूपज्ञान भक्तान् इति लक्ष्मीमप्यनिच्छन् सत्करोतीति तथैत्यर्थः । अतोर्हः । तदितरत् सर्वं विहाय सर्वात्मभावेन तैराराध्य इत्यर्थः । बाहुलकात् कर्मणि पचाद्यच् । तेषामेव तात्पर्येण प्रियं करोतीति प्रियकृत् । लक्ष्मीनैरपेक्ष्ये प्रीति वर्द्धयतीति प्रीतिवर्द्धनः । अत्रोदाहरणम् । “चतुर्विधा भजन्ते मामि”त्यारभ्य ‘‘तेषां ज्ञानी नित्ययुक्तं एकभक्तिर्विशिष्यते । प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रिय” इत्यादिकं मृग्यम् । आर्तादीनां प्रियकरणं त्वौदार्यवलादेतत् तात्पर्यमिति बोध्यम् । स्वभक्तानुरक्तस्य तन्नैरपेक्ष्यं श्रीभागगतादिषु प्रसिद्धम् ॥१०६॥
अथ तेषां भक्तानां स्वपादप्रापणे स्ययमेव हेतुरिति द्योतयन्नाह द्वादशभिः । विहायसि परव्योम्नि गतिर्येन स विहायसगतिः । पृषोदरादिः कथं तस्मिंस्तेषां गतिरिति चेत्तत्राह द्योतते मुषुम्नया निर्गत-स्तद्भक्तोऽर्चिः प्राप्य यस्मात् स ज्योतिः । द्यूतेर्वित्यन्वादेश्च जः । शोभनो रुचिर्दिवसो यस्मात् स सुरुचिः । इगुपधात् कित् । यदनुग्रहादह्रायातीत्यर्थः । हुतभुक चन्द्रो विभुः पूर्णो यत्र स हुतभुग्विभः शुक्लपक्षः इहागत्या प्रकाशयोगादीश्वरस्य शुक्लपक्षत्वं लक्ष्यम् । देवदत्तस्येव शौर्य्ययोगात् सिंहत्वम् । तथाच यत्कृपया शुक्लपक्षेण यातीति । रवते गच्छत्युत्तरायणेन यस्मात् स रविः । रुगतिरेषगयोः अचईः । यदनुकम्पयोत्तरायणेन यातीत्यर्थः । विरोचयति संवत्सरेण गच्छन्तं स्वोम्पासकमभिप्रौत दीप्रञ्च करोतीति विरोचनः । यदनुग्रहात् सम्बत्सरेण गच्छतीत्यर्थः । वायुं सरति स्वोपासकं नीत्वेति सूर्यः । राजसूयेत्यादिसूत्रेण निपातोऽयं यदनुकम्पितो वायुना व्रजतीत्यर्थः । सुते जनयत्यादित्यलाभमिति सविता । यदनुकम्पयादित्येन प्रयातीत्यर्थः । रविणा तत्प्रकाशेन लोचयति दर्शयति चन्द्रमिति रविलोचनः । यदनुगृहीतश्चन्द्रेन गच्छतीत्यर्थः ॥१०७॥
न अन्तति गतिस्थगणरूपवन्धनं करोत्यपि तु विद्युता गमयति स्वभक्तमित्यनन्तः । ततो हुतभुग्भिरमृतपरिणामरूपं हुतं भुञ्जानेर्विद्युतपर्यन्तागतेनामानवेन पुरुषेण सहितैर्वरुणेन्द्रप्रजापतिभिः स्वपदगामिनं स्वभक्तं भुनक्ति पालयतीति हुतभुग्भोक्ता । तत्र तत्र
हरेहेतुत्वं तु तेषामहं समुद्धर्त्त मृत्युसंसारसागरा”दित्यादि तद्वाक्यान्न सङ्गतं सर्वप्रवृत्तेस्तादधीन्याच्च । ततो मानवेन स्वपार्षदेनानीताय विध्वस्तलिङ्गदेद्वाय स्वभक्ताय स्वपार्षदतनुलाभरूपं सुखं ददातीति सुखदः । यद्वा निरपेक्षविशेषाय परमार्त्तार्च्चिरादिनैरपेक्ष्येण स्वयमागत्यानीताय तद्रूपं सुखं ददातीति तथा । “नयामि परमं स्थानमचिरादिगति विना । गरुडस्कन्धमारोप्य यथेष्टमनिवारित” इति वाराहवचनात् , पार्षदतनुरियं हरिसङ्कल्पसिद्धेस्तदात्मिका चित्सुखमयीति मन्तव्यं “यत्र त्वस्य सर्वमात्मैवाभूदिति” श्रुतेः, “वसन्ति यत्र पुरुषाः सर्वे वैकुण्ठमूर्तय” इतिस्मृतेश्च । ततोऽनैकदः । न एकं वस्तु ददात्यर्पितु स्वपर्यन्तानि सर्वाणि वस्तुनि ददातीत्यर्थः । श्रिया विभूतिभिश्च विशिष्टस्तस्याग्रे पुरो जायते प्रादुर्भवतीत्यग्रजः । कदाचिदपि तद्वियोगी न भवतीत्यर्थः । “एते ह्यर्च्चिदियो द्वादशदेवताः स्वोपासकानयनाय देवयाने पथि परेशेन स्थापिता” इति मन्तव्यम् । “अर्च्चिरादिना तत् प्रथिते”रित्याद्यधिकरणेभ्यः” एवमुक्तं निर्णेतृभिः। “अर्च्चिर्दिनसितपक्षै रिहोत्तरायणशरन्मरुद्रबिभिः। विधुविद्युद्वरुणेन्द्रदुहिनैश्चागात् पदं हरेर्मुक्त” इति । एवमतिप्रयत्नाद्बहून् स्वभक्तानतिदुर्ल्लभस्वपदं प्रापय्यान्येषामपक्वसाधनानां स्वभक्तानां सदेवामृषति तेषां हितमिति सदामर्षी । लोकानां स्वान्तिकमागतानां स्वजनानां नित्यमाश्रयत्वाल्लोकाधिष्ठानं विचित्रैः प्रतिक्षणं नूतनैर्गुणरूपचरितैस्तैस्तेषां विस्मयकरणादद्भूतः । आदिभुवो डुत् च ॥१०८॥
सनं तद्दत्तं रसगन्धादि अत्तीति सनात् । सनातनानां नित्यमुक्तानामयमतिशयेन सनातनतमः । सनातनत्वेऽपि तेषां तदातनत्ववत् प्रतीय इत्यर्थः। तेभ्यस्तस्यायमुत्कर्षस्तमरर्थः कामयते तानिति कपिलः । कमेः पश्चेति सूत्रेण कमेरिलचपोन्तादेशः । तत्सेवा-रूपं कं पिवतीति कपिः । इप कृष्यादिभ्यः । अतोलोपः । न व्येति तेषां समाजादित्यव्ययः । स्वस्ति कल्याणं सोरसेरितेतिः । बाहुलकाद्भ्वादेशो न स्वरादि पाठदव्ययत्वं तद्ददातीति स्वस्तिदः । स्वस्ति कृन्तत्यभक्तानामिति स्वस्तिकृत् ॥
इति श्री वैशम्पायनोक्ते विष्णुसहस्रनाम्नि
नवमं शतकं व्याख्यातम् ॥
परमकल्याणत्वात् स्वयमेव स्वस्ति । स्वस्ति कल्याणं भुनक्ति पालयति स्मर्त्तृणामिति स्वयं स्वस्ति भुङ्क्तेऽनुभवतीति वा स्वस्तिभुक् । स्वनित्यं धामादिकं कल्याणरूपत्वात् स्वस्तीत्युच्यते । सा दक्षिणा स्वभक्तिसत्रर्त्विग्भ्यो देयमस्येति स्वस्तिदक्षिणः ॥१०९॥
आनन्दपूर्णत्वादरौद्रः प्रसन्नमूर्त्तिः । “अरोषणोऽह्यसौ देवेति” स्मृतेः । मकराकारकुण्डलवत्वात् कुण्डली । मुकुटे केयूरहारादेरुपलक्षणमेतत् । चक्रमपरिमितं सैन्यमस्यास्तीति चक्री । असङ्ख्येयदुर्वृत्तदैत्य-दानव-विमद्दैकक्षम-शौर्यशालित्वाद्विक्रमी । विधिरुद्राद्यलङ्क्याज्ञत्वादूर्जितशासनः । शब्दानेति गच्छति शब्दातिगः । अन्यत्रापि दृश्यत इति डः । सहस्रवक्त्रेण गीर्देव्या चागण्यगुणगण इत्यर्थः । अथ दुर्वासः परिक्लिष्ट-पाण्डवक्लेश-हारितां द्योतयन्नाशब्दं द्रौपद्या कारुण्यवाक्यं सहते शृणोती ति शब्दसहः । सञ्ज्ञायां भृतृ इत्यादि-सूत्रात् खन् । बाहुलकात्मुमभावः । कृष्णाव्यसनकर्षक इत्यष्टोत्तरशतनाम्नि । दृष्टमात्रस्तेषां सन्तापं निवर्तयतीति शिशिरः । सर्वासः क्षुद्विहिंस्रा शाककणिक-शर्वरी सा करे यस्य स शर्वरीकरः । शृणातेः ष्वरच् । चरुलग्न-शाक-कणिकया विश्वात्मनि यस्मिन्तृप्तेति तृप्तो दुर्वासाभयात् पलायित इति भावः ॥११०॥
पाण्डवक्लेशकारकं दुर्वाससं ब्रह्मण्यदेवत्वान्नकृत्तवानित्यक्रूरः । कृतेश्च रक् चेति सूत्रादृक् आदेशः । उभय समाधानेन कर्मणा रमणीयत्वात्तस्मिन् कुशलत्वाद्वा पेशलः । पेशलो रुचिरे दक्षे इति विश्वः । स्मृतमात्रस्त्वरया गतवानिति दक्षः । दंशति दुर्योधनोद्यममिति दक्षिणः । दंशे रौणादिकः किन् । दुर्वाससस्तादृशमपराधं क्षान्तवानिति क्षमिणाम्बरः । अथ गजेन्द्रोद्धारकतां सूचयन्नाहस्वैकशरण्यस्य गजेन्द्रस्य विपद्विनाशेऽतिनिपुणत्वाद्विद्वत्तमः । वीतं विनष्ट गजेन्द्रस्य ग्राहोद्भयं येन स वीतभयः । गजेन्द्र ग्राहञ्च जलाशयात्तटमानीय ग्राहं विदार्य यो गजेन्द्र निर्भयं चकार इत्यर्थः । “ग्राहग्रस्तं गजेन्द्रञ्च तं ग्राहञ्च जलाशयात् । उजहाराप्रेमेयात्मा तरसा मधुसूदन” इत्यादिस्मरणात् । पापहारि-गजेन्द्र- सम्बन्धिश्रवणादित्वात् पुण्यश्रवणकीर्तनः । “श्रुतेन हि कुरुश्रेष्ठ स्मृतेन कथितेन वा। गजेन्द्रमोक्षणेनैव सद्य पापात् प्रमुच्यत” इति स्मरणात् ॥१११॥
सरोवराद्गजेन्द्रमुत्तारयामासेत्युत्तारणः । दुष्कृतिं ग्राहं हतवानिति दुष्कृतिहा। “स्थलस्थं दारयामास ग्राहं चक्रेण माधवः । मोचयामास नागेन्द्रं पाशेभ्यः शरणागत”मिति स्मरणात् । गजेन्द्रोद्धारचरितेनाधूनिकानपि पूनातीति पुण्यः । गजेन्द्रं कृष्णं सरश्च स्मरतां दुःस्वप्नदोषां नाशयतीति दुःस्वप्ननाशनः । “तदहं श्रोतुमिच्छामि नृणां दुःस्वप्ननाशन”मिति । “दुःस्वप्नदर्शनं घोरमवेक्ष्य भरतर्षभ । प्रयतः किं जपेज्जाप्यं विबुधः किमनुस्मरे” दितिरादौप्रश्नः । “येमां त्वाञ्च सरश्चैव ग्राहस्य च विमोक्षणं” इत्यारभ्य”ये स्मरिष्यन्ति मनुजाः प्रयताः स्थिरबुद्धयः । दुःस्वप्नो नश्यते तेषां सुस्वप्नश्च भविष्यती” त्यन्ते तदुत्तरञ्च । वीरं विक्रान्तं ग्राहं हतवानिति वोरहा । स्थलस्थं दारयामासेत्यादि स्मरणात् । स्पर्शनपरिरम्भणादिभिर्गजेन्द्रं रक्षितवानिति रक्षणः । “एवमुक्त्वा महाराज गजेन्द्रं मधुसूदनः । स्पर्शयामास हस्तेन गजं गन्धर्वमेव चे” त्यादि स्मरणात् । एवं गजेन्द्रं शरणागतं सन्तनोतीति सन्तः । सम्पूर्वात्तनोतेरन्येभ्योऽपि दृश्यत इति डः । ग्राहमपि गन्धर्वत्वेन जीवतीति जीवनः । “स हि देवलशापेन हुहूर्गन्धर्वसत्तमः। ग्राहोत्तमोऽगमत् कृष्णाद्वधं प्राप्य दिवं गत” इति स्मरणात् । वात्सल्यभरेण गजेन्द्रस्य परीतः स्थितत्वात् पर्यवस्थितः । ‘‘भक्ति तस्य तु सञ्चिन्त्य नागस्यामोघसंस्तवात् । प्रीतिमान भगवान् राजन श्रुत्वा चक्रगदाधरः । आरुह्य गरुḏहं विष्णुराजगाम सुरोत्तमः । सान्निध्यं कल्पया मास तस्मिन् सरसि लोकधुगि”ति स्मरणात् ॥११२॥
अथ ब्रह्ममोहकतां व्यञ्जयन्नाह - अनन्तान्यसङ्ख्येयानि रुपाण्यस्येत्यनन्तरूपः । ‘‘यावद्वत्सक-वत्सपाल्पकवपुर्यावत्-कराḏह्घ्र्यादिकं, यावद्द्यष्टिविषाण- वेणुदलशिग्यावद्विभूषाम्बरम् । यावच्छोलः गुणाभिधाकृतिवयो यावद्विहारादिकं, सर्वं विष्णुमयं गिरोऽङ्गवदजः सर्वस्वरूपो वभौ” इत्यादि स्मृतेश्च । वत्साश्चासङ्ख्याती एव ‘‘कृष्ण वत्सैरसङ्ख्यातैर्यूथीकृत्य स्ववत्सकानिति” श्रीशुकवाक्यात् अनन्ताः
श्रियो विभूतयोऽस्येत्यनन्तश्रीः सर्वसमृद्धि-निषेविततयाविर्भावात् । कोपोचितायाऽपि ब्रह्मणे कोपं न कृतवानिति जितमन्युः । सागसेऽपि मह्यमयमभयं दद्यादिति ब्रह्माशंसार्हो भयापहः । आशिषि हन् इति डः । सखिमातृप्रभृतीनां समाधाने न्यूनत्वाच्चतुरस्रः । ब्रह्मणावगाह्याभित्रायत्वाद्गभीरात्मा । विशेषेण व्यापारेन न दिशत्याज्ञापयोत्यविदिशः । इगुपधत्वात् कः । सर्ववेदविदप्येष ब्रह्मा सखिभिः सग्धिं मम राधितवानित्यप्रसन्नत्वाद् यो वाचा किञ्चिन्नादिदेश किन्त्विङ्गितेनैव याहीत्युवाचेत्यर्थः । यतो व्यादिशः । विविधानधिकारांस्तस्यादिशत्याज्ञापयतीत्यधिकारिणि तस्मिन्नेवमेवोचितमितिभावः । यतश्च स्वयमदिशः । नास्ति दिश प्रज्ञाप्रदोऽस्येति सर्वेश्वर इत्यर्थः । “तमीश्वराणां परमं महेश्वरं तं दैवतानां परमञ्च दैवतम् । पतिं पतनां परमं परस्ताद्विदाम देवं भुवनेशमीड्य”मिति मन्त्रवर्णात् । “स्वयन्त्वसाम्यातिशयस्त्र्यधीशः स्वाराज्यलक्ष्म्याप्तसमस्तकामः । बलिं हरद्भिश्चिरलोकपालैः किरीटकोटोडितपादपीठ” इति स्मृतिश्च ॥११३॥
अतोऽनादिः । नादीयते विधेय गृह्यते ब्रह्माद्यधिकृतैरित्यर्थः । भवति सापराधेऽपि ब्रह्मणि दयालुरिति भुः । भुवः सञ्ज्ञान्तरयोरिति क्विप् । भुवो ब्रजावनेरलङ्करणत्वाद्भुवोलक्ष्मीः । ततः समागतेषु सखिषु सुवीरः शोभनाः श्रीदामसुभद्रादयः स्वतुल्या वीरा यस्य स इत्यर्थः । ततो रुचिराङ्गदः । रुचिरामङ्गं तेभ्यो ददातीति तद्विधेयस्तानालिङ्गितवानित्यर्थः । अथ शङ्खचूडनिहन्तृतां द्योतयन्नाहगोवर्द्धनोपप्रान्ते जनयति वासन्तिकरासोत्सवं प्रेयसीभिर्वृतः सह बलदेवेन सप्रियागणेनेति जननः । ननु जननोक्तेरनित्येयं लीलेति
चेत्तत्राह - अजनं जन्मशून्यं जन्मादि यस्य सोऽजन-जन्मादिः ॥ “एको देवो नित्यलीलानुरक्तो भक्तव्यापी भक्तहृद्यन्तरात्मेति” श्रवणात् । “जन्म कर्म च मे दिव्य”मिति स्मरणाच्च । प्रकाशान्तरेषु विद्यमानैव सा लीलास्मिन् प्रकाशे प्रादुर्भवतीति लीलानित्यत्वमन्यत्र विस्तृतम् । प्रेयसीः कालयति शङ्खचूडे घोरत्वाद्भीमः । तासां संरक्षणे बलदेवं निरूप्य तमभिद्रुत्य निजघान । स्यमन्तकं चानिञायेति भीमपराक्रमः ॥११४॥
ततो गुणाधारभूतानां तासामाश्रयोऽभूदित्याधारनिलयः । यद्वा, अथ रासरसिकतां व्यञ्जयन्नाह-सौन्दर्य-लावण्य-सङ्गीत-नाट्यसाहित्यनैपुण्यादि-गुणाधारभूतानां शरद्राकायां वेणुवादनेनाहूतानां स्वप्रेयसीनां वल्लवीनां तत्तद्गुणग्राहकतया समाश्रयो भवं वाक्चातुर्थ्यस्मितकटाक्षादि-सुधापानाद्धाता। धेट् पाने तस्माच्छोलार्थस्तृन् । ताभिः सह स्मर-विलासोचित-परिहासाचरणात् पुष्पहासः । “उदारहास-द्विजकुन्ददीधितिर्व्यरोचतैनाङ्क इवोड भिर्वृत” इति श्रीशुकोक्तेः। प्रवेशित–ब्रह्मरात्रिं कृत्स्ना राकां ताभिः सह जागरणात् प्रजागरः । कोटि-सङ्ख्यानां तासामनन्तविचित्राश्च ते गुणास्तादृशाज्जागराद्विना नानुभूयेरन्निति तथोक्तम् । एवमाह शुकः । ब्रह्मरात्र उपावृत्त इति । शोभाविशेषेण कन्दर्पस्यापि न्यग्भावाद्दूर्द्धगः । ‘‘चकास गोपी-परिषद्गतोऽर्च्चितस्त्रैलोक्यलक्ष्म्यैकपदं वपुर्दधदित्यादि” श्रीशुकोक्तेः । सन्तं निर्हेतुकत्वेन स्तुभ्यं पन्थानं प्रीतिमार्गमाचरतीति सत्पथाचारः । ताभिस्तदा त्वत्सुखाय परित्यक्तलोकादीनां त्वन्निवेशितात्मनां त्वदेकजीवातूनां नः परित्यागः किं हेतुक इति । भजतोऽनुभजन्त्येक इत्यादिर्वाग्भङ्ग्या पृष्टे न तेन मत् प्रेमवृद्धिहेतुः स इति नाहं त्वित्यादिभ्यां प्रदश्यऽपि । “न पारयेऽहं निरवद्य-संयुजां स्वसाधुकृत्यं विवुधायुषापि वः । या माभजन् दुर्जरगेह-शृङ्खलाः संवृश्च्य तद्वः प्रतियातु साधुने”त्येतत् प्रवदता भवतीनामृण्येवाहमस्मीति पक्षस्याभिधानात् । ताः संवृश्च्य या माभजन्निति । या अहं नाभजमिति तत्रार्थः प्राणः सर्वोपिजीवनहेतुरात्मानं ददाति ताभ्य इति प्राणदः । तदेकविधेय इत्यर्थः । ततः प्रणवः ॥ ताद्दृक् प्रीति-रीति-वित्तमत्त्वेन नूयत इत्यर्थः । ऋदोरम् । पणनि व्यवहरति तथैव ताभिरिति पणः ॥११५॥
तादृशेन व्यवहारेण प्रीतिमार्गप्रभातृत्वात् प्रमाणम् । प्राणन्ति तत् स्नेहामृतेन सम्बन्धवतेति प्राणास्तत्प्रेयसीजनास्ते निलीयन्तेऽस्मिन शकुन्ता इव नीडे इति प्राणनिलयः। पुंसि सञ्ज्ञायां प्रायेनधः । प्राणांस्तान् विभर्त्ति शुचिरसानन्देनेति प्राणभृत् । प्राणास्ते जीवनमस्येति प्राणजीवनः । नच योषित्प्रसङ्गप्रचुरं विष्णोरेतत् कर्म मायिकमित्याह-तत्त्वमिति । “तत्त्वं वाद्यप्रभेदे स्यात् स्वस्वरूपे परमात्मनी”ति विश्वः । परमात्मनः पराख्य- स्वरूपशक्तिविलासभूततत्तद्धाम -विभूति-परिकर-कर्म-विशिष्ट-वस्तुत्वान्न तस्य तत्कर्म मायिकमित्यर्थः । तत्त्वं तादृशं स्वरूपं नित्यं विन्दतीति तत्त्ववित् । तद्वस्तुत्वादेकात्मा । एको निखिलात्ममुख्य आत्मेति पुरुषोत्तमः सर्वेश्वर इत्यर्थः । “एके मुख्यान्य-केवला” इत्यमरः । तत एव जन्ममृत्युजवातिगः जन्मादीन् षḏह् विकारानतिक्रान्त इत्यर्थः ॥११६॥
रासरसिकस्यैव पारमैश्वर्यमाह । भूर्भुवः स्वरात्मकैस्त्रिर्भिलोकैस्तवर्त्ति-प्राणि- पक्षिभिरुपजीव्यछायादित्वाद्भूर्भुवः स्वस्तरुः । एवमपि स्वयं विशुद्धमौक्तिकप्रख्यत्वातारः । तारमुक्तादि-संशुद्धोतरणे शुद्धमौक्तिके इति विश्वः । एवं भावेन प्रसिद्धत्वात्स्वः नामत्वे सर्वनामकार्यमार्षत्वाद्वोध्यं तेषां जनकत्वात् पिता पोषकत्वाच्च प्रपिता । प्रकाशात्मकत्वान्महः । महश्चोत्सवतेजसोरिति नानार्थवर्गः । भक्तिमार्ग-प्रवर्तकतां सूचयन्नाह षḏह्भिः। अकिञ्चनानां तत्तदाराधनोपकरणत्वाद्यज्ञः । तत्तदाराधनसंरक्षकत्वाद्यज्ञपतिः । असक्तमकिञ्चनमाविश्य तत्तदाराधनं निवर्तयन् स्वयमेव यज्वासूयजोङ्वनिम् । तदाराधनलक्षणो यज्ञोऽङ्गं वोधकमस्येति यज्ञाङ्गः । तं यज्ञं वाहयतिश्रद्धामुत्पाद्य ग्राहयतीति यज्ञवाहनः ॥११७ ॥
व्यङ्गं तं यज्ञं साङ्गं कुर्वन् विभर्त्ति पुष्णातीति यज्ञभृत् । अथ निष्कामकर्ममार्ग-प्रवर्तकतामाह षḏह्भिः-लोकान् शिक्षयितुं यज्ञं करोतीति यज्ञकृत् । हरिवंशे विप्रपुत्रानयने ख्यातमेतत् । स यज्ञोस्त्यस्मिन्नुपायतयेति यज्ञी । तं यज्ञं भुङ्क्तेऽनुभवतीति यज्ञभुक् ॥ ज्ञान-दानेन यज्ञोपकारित्वाद्यज्ञसाधनः । यज्ञस्यान्तं फलनिश्वयं करोतीति यज्ञान्तकृत् । तेन यज्ञेन तस्यैव मुख्योद्देश्यत्वाद्यज्ञगुह्यम् । यज्ञलभ्ये परमे व्योम्नि यद्दिव्यरसगन्धादिकमदनीयं भोग्यम् । तदपि सङ्कल्पशक्त्या स्वयमेव भवतीत्यन्नं तदन्नमादयतीत्यन्नादः । नह्येताहगन्योऽस्तीति वोधयितुमेवकारः । निखिलभोग्यसमुच्चयचकारः ॥ ११८॥
आत्मानं स्वं यौति मिश्रयति भक्त ः सहावासादिभोगे इत्यास्मयोनिः । “सोश्नुते सर्वान् कामान् सह ब्रह्मणा-विपश्चितेति” श्रवणात् । अथ मथुरामण्डलाविर्भूततां व्यञ्जयन्नाह । स्वयं निजेच्छयैव सर्वैरङ्गैर्गुणैश्च परिपूर्णो जायते प्रादुर्भवतीति स्वयम्भगवानित्यर्थः । “स्वशान्तरूपेष्वितरैः स्वरूपैरभ्यर्द्दमानेष्वनुकम्पितात्मा। परावरेशो महदंशयुक्तो ह्यजोऽपि जातो भगवान् यथाग्नि”रिति स्मरणात् । जनित्वा च स्वभक्तदुःखविखनाद्वैखानः । खनोघचेति चद्-घञ् भावेपीति विखानः प्रज्ञाद्यनिवैखानः । निखिलदैत्यदानवदुष्टराजन्य-विनाशक इत्यर्थः । समगायनमाश्रयो यस्य स सामगायनस्तेषु गेयतया स्थित इत्यर्थः । स्वयं क्व जातस्तत्राह देवकीनन्दनः । अत्राहुः देवकी नन्दपत्नी वसुदेवपत्नी च । “द्वेनाम्नी नन्दभार्याया यशोदा देवकीति” चेत्यादि-पुराणात् प्रसिद्धेश्च तस्यां तस्याञ्च जातः । एवमेव श्रीशुकेनाऽपि वोधितम् । “निशीथे तम उद्भूते जायमाने जनार्द्दने। देवक्यां देवरूपिण्यां विष्णुः सर्वगुहाशयः । अविरासीद् यथा प्राच्यां दिशीन्दुरिव पुष्कल” इति । “यशोदा नन्दपत्नी च जातं परमवुध्यत । न तल्लिङ्गं परिश्रान्ता निद्रयापगतस्मृति”रिति । अस्यार्थः-वसुदेवपत्नी नन्दपत्नी च, परं परेशमेव स्वगर्भाजातमवुध्यत, तस्य वसुदेवागमनादिलिङ्गं चिह्रं नाबुध्यत, यतः परीत्यादि । “इत्थञ्चादृश्यतानुजाविष्णोर्नन्दस्त्वामजे, गोपिकासुत”इत्यादिकं सुपपन्नं उपगुह्यात्मजामित्यादाविव गौणात्मजत्वशङ्काप्युत्सारिता । यशोदा- सूनुना सह देवकीसुनोरैक्यात्तदैक्यवतस्तस्य मथुरादौ गमनादनन्तरागमनात् स्फुटार्थेऽपि न सन्देहः । अतो यशोदावत्सले ति देवकीनन्दनेति चाष्टोत्तरशतनाम्नि तस्यास्तस्याश्च निःकण्टकतासर्जनात् स्रष्टा । क्षितेर्भारमपनीयतां पालयन् क्षितीशः । पवित्रैश्चरित्रैः श्रोतृणां निखिलकर्मरूपं पापं विवर्तयन्नसुरानामपि निहतानामविद्यां निवत्यै मुक्तिं तेभ्यो यच्छन् ।
पापनाशनः ॥११९॥
सर्वधारकतां सर्वरक्षकताञ्च द्योतयलाह-अपां तत्त्वं पाञ्चतत्त्वं पाञ्चजन्यं विध्रच्छखमभृत् । विज्ञानात्मको नन्दको सिरस्यास्तीति नन्दकी । तेजस्तत्त्वं सुदर्शनचक्रमस्यास्तीति चक्री । क्रिया तत्त्वं शार्ङ्गं धनुरस्येति शार्ङ्गं धन्वा । धनुष श्चेत्यनङ् । वायुतत्त्वं गदां कौमोदकीं धारयन् गदाधरः । भक्तप्रतिज्ञा–प्रतिपालकतामतिश्लाघ्यत्वात् पुनराह रथाङ्गपाणिरिति भीष्मं प्रति प्रदर्शितमेतत् । त्यक्तशस्त्रोऽपि क्षोभयितुं धर्षितुमशक्यत्वादक्षोभ्यः। यतः सर्वेति सर्वेषां प्रहरणान्यायूधान्यस्येति तेषामप्यन्तर्यामीत्यर्थः । सर्वान्तिमिश्रुतेः ॥१२०॥
ओन्नम इत्यन्तिमं मङ्गलाचरणम् । “प्राप्यन्ते प्रति नामार्थं प्रमाणान्यत्र यद्यपि । तथाऽपि तानि बाहुल्यभीत्या नो लिखितानि हि ।“
इति श्रीवैशम्पायनोक्ते विष्णुसहस्रनाम्नि ।
दशम शतकं व्याख्यातम् ॥
विष्णोनम सहस्त्रं मे शृन्वति वक्तुं प्रतिज्ञातं नाम सहस्रमुपसंहरति । इतीदमिति कीर्तयितं योग्यस्य कीर्तनीयस्य केशवस्य केशिहन्तुः कृष्णस्य । “यस्मात्त्वयैव दुष्टात्मा हतः केशी जनार्दन । तस्मात् केशव-नामा त्वं लोके गेयो भविष्यसीति” स्मरणात् ॥ महात्मनो विष्णोः दिव्यानरमप्राकृतानां कीर्त्तितं मया भीष्मेण । अशेषेण कार्त्स्न्येन ।१२१॥
। सकामान् प्रवर्तयितुमानुषङ्गिकफलमाह-य इति त्रिभिः । इदं स्तोत्रं नारददेवस्थानवात्स्य-सुमन्त्वादिभिः सर्ववेदोपदेष्ट्रभिः परावरतत्त्वदृग्भिर्देवब्रह्मर्षिभिः स्वयं भगवता च श्रोतृ-कोटि-निविष्टेन पुरुषोत्तमेनानुमोदितं यो मानवो नित्यं प्रतिदिनं शृणुयात् स्त्रीशूद्रादिः । यश्च परिकीर्तये ब्राह्मणादिः शृणुयाच स इहलोकेऽधिभूतादितापरूपममुत्र परलोके निरयनि पात-रूपं चाशुभं नाप्नुयात् ॥१२२॥
ब्राह्मणो वेदानामन्तं निर्णयं गच्छतीति तथा । शूद्रः परतन्त्र एतच्छ्रवणेन तत्त्वज्ञानोदयात् पारतन्त्र्यहीनः सुखीभवेत् ॥१२३॥
कामान् विहितान् विषयाने रूपरसादीन् ॥१२४॥
पुनस्तदाह भक्ती ति त्रिभिः । भक्तिमान् सद्गुरुसेवानिष्ठः शुचिः पवित्रः कृतस्नानादिः । तद्गतमानसो वासुदेवनिहितचित्तः । वासुदेवस्य वसुसूनोभगवतः प्रकीर्तयेत् शृणुयाच यथाधिकारमिति वोध्यम् ॥१२५॥
वैश्यशूद्रयोः फलमाह यश इत्येकेन ॥१२६॥
क्षत्रियस्याह न भयमित्येकेन । वीर्यं पराक्रमं तेजः प्रभवम् ॥१२७ ॥
सर्वेषां साधारणफलमाह रोगार्त इति द्वाभ्याम् । बन्धो निगडादिना भयाद्वैरिदुष्टसत्वहेतुकात् । आपन्नो विपद्ग्रस्तः ॥१२८ ॥
दुगण्यतिघोराणि पापाणि ॥१२९॥
मुख्यं फलमाह-वासुदेवेति द्वाभ्याम् । विशुद्धस्त्यक्तः कृष्णसेवी कृष्णैकान्ती च मनुष्यो निखिलदोषशून्यः साक्षात्कृतस्वरूपः सनातनं ब्रह्म कृष्णाख्यं प्राप्नोतीत्यर्थः ॥१३० ॥
साधननैर्विध्न्यं चैतत् पाठादित्याह-अशुभमारब्धे कर्मण्यङ्गवैकल्येन फलवैकल्यं न भवति । जन्मादिभ्यश्चतुर्भ्यश्च भयं नोपजायते तच्छवणादिना तद्वैकल्पे परिक्षयान्मुक्तेरवश्यम्भावित्वाच्च ॥१३१॥
दृढतार्थं पुनरप्याहेममेति द्वाभ्याम् । श्रद्धा दृढविश्वासः । भक्ति रत्वादर आत्मसुखेन स्वानुभवेन क्षान्त्याद्वन्ध-सहनेन श्रिया वैराग्यसम्पदा । निःस्पृहतया धृत्या कामदि-वेगधारणया ॥ स्मृत्या वासुदेव-ध्यानेन कीर्त्या तदुत्थया एताभिर्युज्यते सम्पन्नो भवतीत्यर्थः॥१३२॥
सिंहरवात् करीवैतत् पाठादेः क्रोधादिः पालय एवेत्याशयेनाह। न क्रोध इति । अशुभा पापाक्रान्तमतिः कृतपुण्यानामनुष्ठितनामपाठादीनाम् । पुरापं तु चार्वतीत्यमरः ॥१३३॥
स्तुत्यस्य हरेः प्रभावं कथयति-द्यौरिति त्रिभिः । वीर्येण सङ्कल्पलक्षणेन नितरां महानात्मा स्वरूपमस्येति विभोरित्यर्थः ॥१३४ ॥
अतः स चराचरेति वर्तत इदमिति वाच्ये सन्धिर्षः ॥१३५॥
इन्द्रियादीनि क्षेत्रज्ञान्तानि वासुदेवात्मकान्याहुर्यस्य पृथिवीवमित्यद्याः श्रुतयः । वासुदेव आत्मा प्रवर्तको येषां तानि ॥१३६॥
ननु मनुष्यकर्माण मन्मातुलेयं कृष्णं किमेवं वदसीति चेत्तत्राह सर्वेति । सर्वेषामागामानां प्रथममाचारः स्नानसन्ध्योपासनादिः प्रतिपाद्यतया कल्पते । तत आचारात् प्रभवो यस्य स आचारमूलको धर्मोऽग्निहोत्रदर्शपौर्णमासादि परिकल्पते तस्य धर्मस्य प्रभुः पालकोऽच्युतः कृष्णो भवतीति । धर्म-संस्थापनाय तस्य मनुष्यवत् कर्माचरणं नतु तत्फलायेति भावः ॥१३७ ॥
कृष्णपराङ्मुखानां दुष्कुलीनत्वमनुपासितगुरुत्वं च दर्शयितुं तस्य जगत्पितृत्वं जगद्गुरुत्वञ्च दर्शयति ऋषय इति द्वाभ्याम् ॥ नारायणान्निमित्तादुपादानाचोद्भवो यस्य तत् । नारायणोपनिषदत्रोदाहरणम् ॥१३८॥
योगोऽष्टाङ्गो वैष्णवः । ज्ञानं शमादिज्ञानसाधनम् । साङ्ख्यं चिदचिद्विवेचनम् । विद्या रहस्यमन्त्री शिल्पादि-कर्म चित्रादिनिर्माणं वेदा ऋगादयः शास्त्राणि तदर्थनिर्णोतृनि मीमांसा-सूत्राणि । विज्ञानं तदर्थानुभवः । एतत्सर्वं जनार्दनात् कृष्णादेव देवकीसुनोर्हितोर्भवति ॥१३९॥
हरेर्निखिलव्याप्तिमाहैक इति सर्वकारणत्वान्महत् । पूर्वसिद्धवाद्भूतञ्च प्रधानं पृथग्भूतान्यनेकशोऽनेकानि महादिनि पृथिव्यन्तानि त्रींश्च लोकान् तद्रचितान् व्याप्य स्थितः । एकः सर्वोत्तमविष्णुर्वसुदेवसुतस्तव मातुलेयः । स्वभक्तार्पितमेव भुङ्क्ते नत्वन्यत् ।
पत्र-पुष्पमित्यादेः भूतात्माऽनादिसिद्धेः । न केवलं तान्व्याप्यैवास्ति अपितु विश्वभुक् । व्याप्यानां विश्वेषां पालकश्चाव्ययस्तदवस्थगुणस्वभावः ॥१४०॥
यः पुरुषः सुखानि च प्राप्तुमिच्छेत् । इमं स्तवं पठेत् एतत् पाठेन तेषां सौलभ्यात् अत्रेच्छायाः पुरुषधर्मत्वमुक्तम् । कमिः सङ्कल्पो विचिकित्सेत्यादि श्रुताविच्छादिनां मनोरूपत्वम् । तदुक्तं तत्तु तद्द्वारा तेषामभिव्यक्तेर्बोध्यं व्यासेन कीर्त्तितभित्युक्तेः । स्तवस्य परमोपादेयत्वञ्च व्यञ्जितम् ॥१४१॥
विश्वेति एतत्पाठ–श्रवणाभ्यां ये पुष्कराक्षं कृष्णं भजन्ति ते पराभवं संसारव्यथां न यान्त्यपितु कृष्णलोकं गतास्तस्मिन् प्रमोदिनो नित्यं निवसन्तीति । इमानि हंस-मत्स्यादिवद्भगवदाविर्भावभूतान्येव मन्तव्यानि । साक्षान्मुक्तिदते सति चिद्रूपत्वात् । “तस्योदिति नाम । स एष सर्वेभ्यः पाप्मभ्य उदित̮उदिति हवै सर्वेभ्यो य एवं वेद ओं अस्य जानन्तो नाम चिदित्यादि” श्रवणात् । “मधुरमधुरमेतन्मङ्गलं मङ्गलानां, सकलनिगमवल्ली-सत्फलं चित्स्वरूपम् । स कुदपि परिगीतं श्रद्धया हेलया वा, भृगुवर नरमात्रं तारयेत् कृष्णनामे” त्यादि स्मरणाच्च । कण्ठतोऽप्येवमुक्तम् । “नामचिन्तामणिः कृष्ण” इत्यादौ । अतो यथा-भूतेषु नाममाहात्म्येष्वर्थान्तरकल्पकानां दोषः स्मर्त्यते । “श्रुतिस्मृतिपुराणेषु नाम माहात्म्य-वाचिषु । येऽर्थवाद इति ब्रूयुस्तेषां न निरयक्षयः । अर्थवादं हरेर्नाम्नि सद्भावयति यो नरः । स पाषिष्ठो मनुष्यानां निरये पतति स्फुट” मित्यादिषु महाकारुणिकानि चैतानि यतः स्ववाच्य विषयान् द्वात्रिंशत् स्वविषयांश्च दशापराधान् जप्तानि विनाशयति । ‘‘तमपि देववरं करुणाकरं स्थावरजङ्गममुक्तिकरं परम् । अतिचरन्त्यपराधपराजयाय इहतानवनिध्रुवनाम हि” । “जाते नामापराधे तु प्रभादेन कथञ्चन । सदा सङ्कीर्तयन्नाम तदेकशरणो भवेत् । नामापराधयुक्तानां नामान्येव हरन्त्यघम् । अविश्रान्ति-प्रयुक्तानि तान्येवार्थ-कराणि यदिति” पाद्म सनत्कुमारवाक्यात् । तस्मान्नैरपराध्येनैव तादृशानि तानि जप्यान्युक्तफलेप्सुभिः, सुधीभिः । “अपराधविमुक्तो हि नाम्नि यत्नं समाचर। नाम्नैव तव देवर्षे सर्वं सेत्स्यति नान्यत” इति तत्रैव तद्वाक्यात् ॥१४२॥
“स्तोत्रेऽस्मिन् कथिताः श्लोकाः पक्षवेदेन्दुसम्मिताः ।
अधिकास्तु वुधैवुद्ध्याः प्रक्षिमा मुनिभाषिताः ॥१॥
कीटं यः क्षत्रियं कृत्वा ब्राह्मणञ्च दयाम्बुधिः ।
विष्णुलोकमदात्तस्मै स व्यासोऽस्तु ममाश्रयः ॥२॥
ये ये धर्मा वासुदेवस्य विष्णोर्वेदोद्गीताश्चित्तपदेऽधिरुढः ।
तैस्तैर्नामान्यभ्यधात् सद्युनद्याः पुत्रस्तस्मान्नास्ति लीलाक्रमोऽस्मिन् ॥३॥
नामाभ्यासेनाऽपि तैर्योगिमृग्या मुक्तिः स्यादित्याहुम्नायवाचः ।
त्वद्व्याख्यात्र मह्यमीश प्रपद्या स्वस्मिन् भक्तिं नाधिकं तत्प्रयाचे ॥४॥
विद्याभूषणभणितं नामार्थसुधाभिधं भाष्यम् ।
सद्भिर्नाम-पुमर्थैः कृपया परिशोध्यतामेतत् ॥५॥
इति श्रीवैशम्पायनोक्तस्य विष्णुसहस्रनाम्नो भाष्यं ।
नामार्थसुधाख्यं पूर्त्तिमगात् ॥