+१४९ श्रीविष्णुसहस्रनामस्तोत्रम्

प्रस्तावः

भागसूचना

एकोनपञ्चाशदधिकशततमोऽध्यायः

सूचना (हिन्दी)

श्रीविष्णुसहस्रनामस्तोत्रम्

विश्वास-प्रस्तुतिः

(यस्य स्मरणमात्रेण
जन्म-संसार-बन्धनात् ।
विमुच्यते नमस् तस्मै
विष्णवे प्रभविष्णवे॥)

मूलम्

(यस्य स्मरणमात्रेण जन्मसंसारबन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे॥)

अनुवाद (हिन्दी)

जिनके स्मरण करनेमात्रसे मनुष्य जन्म-मृत्यु-रूप संसारबन्धनसे मुक्त हो जाता है, सबकी उत्पत्तिके कारणभूत उन भगवान् विष्णुको नमस्कार है॥

विश्वास-प्रस्तुतिः

(ॐ नमो विष्णवे प्रभविष्णवे ।)

मूलम्

(ॐ नमो विष्णवे प्रभविष्णवे ।)

विश्वास-प्रस्तुतिः

(नमः समस्त-भूतानाम्
आदिभूताय भूभृते ।
अनेक-रूप-रूपाय
विष्णवे प्रभविष्णवे ॥)

मूलम्

(नमः समस्तभूतानामादिभूताय भूभृते ।
अनेकरूपरूपाय विष्णवे प्रभविष्णवे ॥)

अनुवाद (हिन्दी)

सम्पूर्ण प्राणियोंके आदिभूत, पृथ्वीको धारण करनेवाले, अनेक रूपधारी और सर्वसमर्थ भगवान् विष्णुको प्रणाम है॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

श्रुत्वा धर्मान् अशेषेण
पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं
पुनर् एवाभ्यभाषत ॥ १ ॥

मूलम्

श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः।
युधिष्ठिरः शान्तनवं पुनरेवाभ्यभाषत ॥ १ ॥

अनुवाद (हिन्दी)

वैशम्पायनजी कहते हैं— राजन्! धर्मपुत्र राजा युधिष्ठिरने सम्पूर्ण विधिरूप धर्म तथा पापोंका क्षय करनेवाले धर्म-रहस्योंको सब प्रकार सुनकर शान्तनुपुत्र भीष्मसे फिर पूछा॥१॥

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

किम् एकं दैवतं लोके
किं वाप्य् एकं परायणम् ।
स्तुवन्तः कं कम् अर्चन्तः
प्राप्नुयुर् मानवाः शुभम् ॥ २ ॥

मूलम्

किमेकं दैवतं लोके किं वाप्येकं परायणम्।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्मानवाः शुभम् ॥ २ ॥

अनुवाद (हिन्दी)

युधिष्ठिर बोले— दादाजी! समस्त जगत्‌में एक ही देव कौन है तथा इस लोकमें एक ही परम आश्रयस्थान कौन है? किस देवकी स्तुति—गुण-कीर्तन करनेसे तथा किस देवका नाना प्रकारसे बाह्य और आन्तरिक पूजन करनेसे मनुष्य कल्याणकी प्राप्ति कर सकते हैं?॥२॥

विश्वास-प्रस्तुतिः

को धर्मः सर्वधर्माणां
भवतः परमो मतः ।
किं **जपन् मुच्यते जन्तुर्
जन्म-संसारबन्धनात् ॥ ३ ॥

मूलम्

को धर्मः सर्वधर्माणां भवतः परमो मतः।
किं जपन् मुच्यते जन्तुर्जन्मसंसारबन्धनात् ॥ ३ ॥

अनुवाद (हिन्दी)

आप समस्त धर्मोंमें किस धर्मको परम श्रेष्ठ मानते हैं? तथा किसका जप करनेसे जीव जन्म-मरणरूप संसार-बन्धनसे मुक्त हो जाता है?॥३॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

जगत्प्रभुं देव-देवम्
अनन्तं पुरुषोत्तमम् ।
स्तुवन् नाम-सहस्रेण
पुरुषः सततोत्थितः ॥ ४ ॥

मूलम्

जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— बेटा! स्थावर-जंगमरूप संसारके स्वामी, ब्रह्मादि देवोंके देव, देश-काल और वस्तुसे अपरिच्छिन्न, क्षर-अक्षरसे श्रेष्ठ पुरुषोत्तमका सहस्रनामोंके द्वारा निरन्तर तत्पर रहकर गुण-संकीर्तन करनेसे पुरुष सब दुःखोंसे पार हो जाता है॥४॥

विश्वास-प्रस्तुतिः

तम् एव चार्चयन् नित्यं
भक्त्या पुरुषम् अव्ययम् ।
ध्यायन् स्तुवन् नमस्यंश् च
यजमानस् तमेव च ॥ ५ ॥

मूलम्

तमेव चार्चयन् नित्यं भक्त्या पुरुषमव्ययम्।
ध्यायन् स्तुवन् नमस्यंश्च यजमानस्तमेव च ॥ ५ ॥

अनुवाद (हिन्दी)

तथा उसी विनाशरहित पुरुषका सब समय भक्तिसे युक्त होकर पूजन करनेसे, उसीका ध्यान करनेसे तथा स्तवन एवं नमस्कार करनेसे पूजा करनेवाला सब दुःखोंसे छूट जाता है॥५॥

विश्वास-प्रस्तुतिः

अनादिनिधनं विष्णुं
सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन् नित्यं
सर्वदुःखातिगो भवेत् ॥ ६ ॥

मूलम्

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन् नित्यं सर्वदुःखातिगो भवेत् ॥ ६ ॥

अनुवाद (हिन्दी)

उस जन्म-मृत्यु आदि छः भाव-विकारोंसे रहित, सर्वव्यापक, सम्पूर्ण लोकोंके महेश्वर, लोकाध्यक्ष देवकी निरन्तर स्तुति करनेसे मनुष्य सब दुःखोंसे पार हो जाता है॥६॥

विश्वास-प्रस्तुतिः

ब्रह्मण्यं सर्व-धर्मज्ञं
लोकानां कीर्ति-वर्धनम् ।
लोकनाथं महद्-भूतं
सर्वभूत-भवोद्भवम् ॥ ७ ॥

मूलम्

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम्।
लोकनाथं महद्‌भूतं सर्वभूतभवोद्भवम् ॥ ७ ॥

अनुवाद (हिन्दी)

ब्राह्मणोंके हितकारी, सब धर्मोंको जाननेवाले, प्राणियोंकी कीर्तिको बढ़ानेवाले, सम्पूर्ण लोकोंके स्वामी, समस्त भूतोंके उत्पत्ति-स्थान एवं संसारके कारणरूप परमेश्वरका स्तवन करनेसे मनुष्य सब दुःखोंसे छूट जाता है॥७॥

विश्वास-प्रस्तुतिः

एष मे सर्वधर्माणां
धर्मोऽधिकतमो मतः ।
यद्-भक्त्या पुण्डरीकाक्षं
स्तवैर् अर्चेन् नरः सदा ॥ ८ ॥

मूलम्

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः।
यद्भक्त्या पुण्डरीकाक्षं स्तवैरर्चेन्नरः सदा ॥ ८ ॥

अनुवाद (हिन्दी)

सम्पूर्ण धर्मोंमें मैं इसी धर्मको सबसे बड़ा मानता हूँ कि मनुष्य कमलनयन भगवान् वासुदेवका भक्तिपूर्वक गुण-संकीर्तनरूप स्तुतियोंसे सदा अर्चन करे॥८॥

विश्वास-प्रस्तुतिः

परमं यो महत् तेजः
परमं यो महत् तपः
परमं यो महद् ब्रह्म
परमं यः परायणम् ॥ ९ ॥

पवित्राणां पवित्रं यो
मङ्गलानां च मङ्गलम्
दैवतं दैवतानां च
भूतानां योऽव्ययः पिता ॥ १० ॥

यतः सर्वाणि भूतानि
भवन्त्य् आदि-युगागमे ।
यस्मिंश् च प्रलयं यान्ति
पुनर् एव युगक्षये ॥ ११ ॥

तस्य लोक-प्रधानस्य
जगन्नाथस्य भूपते ।
विष्णोर् नामसहस्रं मे
शृणु पापभयापहम् ॥ १२ ॥

मूलम्

परमं यो महत्तेजः परमं यो महत्तपः।
परमं यो महद्ब्रह्म परमं यः परायणम् ॥ ९ ॥
पवित्राणां पवित्रं यो मङ्गलानां च मङ्गलम्।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ १० ॥
यतः सर्वाणि भूतानि भवन्त्यादियुगागमे।
यस्मिंश्च प्रलयं यान्ति पुनरेव युगक्षये ॥ ११ ॥
तस्य लोकप्रधानस्य जगन्नाथस्य भूपते।
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ १२ ॥

अनुवाद (हिन्दी)

पृथ्वीपते! जो परम महान् तेजःस्वरूप है, जो परम महान् तपःस्वरूप है, जो परम महान् ब्रह्म है, जो सबका परम आश्रय है, जो पवित्र करनेवाले तीर्थादिकोंमें परम पवित्र है, मंगलोंका भी मंगल है, देवोंका भी देव है तथा जो भूतप्राणियोंका अविनाशी पिता है, कल्पके आदिमें जिससे सम्पूर्ण भूत उत्पन्न होते हैं और फिर युगका क्षय होनेपर महाप्रलयमें जिसमें वे विलीन हो जाते हैं, उस लोकप्रधान, संसारके स्वामी, भगवान् विष्णुके हजार नामोंको मुझसे सुनो, जो पाप और संसार-भयको दूर करनेवाले हैं॥९—१२॥

विश्वास-प्रस्तुतिः

यानि नामानि गौणानि
विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि
तानि वक्ष्यामि भूतये ॥ १३ ॥

मूलम्

यानि नामानि गौणानि विख्यातानि महात्मनः।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ १३ ॥

अनुवाद (हिन्दी)

महान् आत्मस्वरूप विष्णुके जो नाम गुणके कारण प्रवृत्त हुए हैं, उनमेंसे जो-जो प्रसिद्ध हैं और मन्त्रद्रष्टा मुनियोंद्वारा जो सर्वत्र गाये गये हैं, उन समस्त नामोंको पुरुषार्थ-सिद्धिके लिये वर्णन करता हूँ॥१३॥

न्यासः

न्यासः

न्यासश्लोकः

ऋषिर् नाम्नां सहस्रस्य
वेदव्यासो महामुनिः ॥
छन्दोऽनुष्टुप् तथा देवो
भगवान् देवकीसुतः ॥ २०॥

अमृतांशूद्भवो बीजं
शक्तिर् देवकिनन्दनः ।
त्रिसामा हृदयं तस्य
शान्त्यर्थे विनियोज्यते ॥ २१॥

विष्णुं जिष्णुं महाविष्णुं
प्रभविष्णुं महेश्वरम् ॥
अनेकरूप दैत्यान्तं
नमामि पुरुषोत्तमं ॥ २२ ॥

पूर्वन्यासः ।

श्रीवेदव्यास उवाच —
ॐ अस्य श्रीविष्णोर् दिव्यसहस्रनामस्तोत्रमहामन्त्रस्य ।
श्री वेदव्यासो भगवान् ऋषिः ।
अनुष्टुप् छन्दः ।
श्रीमहाविष्णुः परमात्मा श्रीमन्नारायणो देवता ।
अमृतांशूद्भवो भानुर् इति बीजम् ।
देवकी-नन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
शङ्खभृन् नन्दकी चक्रीति कीलकम् ।
शार्ङ्गधन्वा गदाधर इत्यस्त्रम् ।
रथाङ्गपाणिर् अक्षोभ्य इति नेत्रम् ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं पर-ब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ॥

श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णु-प्रीत्यर्थे सहस्र-नामस्तोत्र-पाठे विनियोगः ॥

न्यासः ।

ॐ शिरसि वेदव्यासऋषये नमः ।
मुखे अनुष्टुप्छन्दसे नमः ।
हृदि श्रीकृष्ण-परमात्म-देवतायै नमः ।
गुह्ये अमृतांशूद्भवो भानुरिति बीजाय नमः ।
पादयोर् देवकीनन्दनः स्रष्टेति शक्तये नमः ।
सर्वाङ्गे शङ्खभृन् नन्दकी चक्रीति कीलकाय नमः ।
करसम्पूटे मम श्रीकृष्णप्रीत्यर्थे जपे विनियोगाय नमः ॥

इति ऋषयादिन्यासः ॥

करन्यासः ।


विश्वं विष्णुर्वषट्कार इत्यङ्गुष्ठाभ्यां नमः ।
अमृतांशूद्भवो भानुरिति तर्जनीभ्यां नमः ।
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मेति मध्यमाभ्यां नमः ।
सुवर्णबिन्दुर् अक्षोभ्य इत्यनामिकाभ्यां नमः ।
निमिषोऽनिमिषः स्रग्वीति कनिष्ठिकाभ्यां नमः ।
रथाङ्गपाणिरक्षोभ्य इति करतलकरपृष्ठाभ्यां नमः ।
इति करन्यासः ।

अथ षडङ्गन्यासः ।

ॐ विश्वं विष्णुर् वषट्कार इति हृदयाय नमः ।
अमृतांशूद्भवो भानुर् इति शिरसे स्वाहा ।
ब्रह्मण्यो ब्रह्मकृद् ब्रह्मेति शिखायै वषट् ।
सुवर्णबिन्दुर् अक्षोभ्य इति कवचाय हुम् ।
निमिषोऽनिमिषः स्रग्वीति नेत्रत्रयाय वौषट् ।
रथाङ्गपाणिर् अक्षोभ्य इत्य् अस्त्राय फट् ।
इति षडङ्गन्यासः ॥

श्रीकृष्णप्रीत्यर्थे विष्णोर्दिव्यसहस्रनाम-जपम् अहं करिष्ये इति सङ्कल्पः ।

ध्यानम् ## ध्यानम्

क्षीरोदन्वत्-प्रदेशे शुचि-मणि-विलसत्-सैकते मौक्तिकानां
माला-कॢप्तासनस्थः स्फटिक-मणिनिभैर् मौक्तिकैर् मण्डिताङ्गः ।
शुभ्रैर् अभ्रैर् अदभ्रैर्+++(=बहुलैः)+++ उपरि-विरचितैर् मुक्त-पीयूष-वर्षैः
आनन्दी नः पुनीयाद् अरि+++(=चक्र)+++-नलिन-गदा-शङ्खपाणिर् मुकुन्दः ॥ १॥

भूः पादौ यस्य नाभिर्, वियद् असुर्, अनिलश् चन्द्र-सूर्यौ च नेत्रे
कर्णाव् आशाः, शिरो द्यौर्, मुखम् अपि दहनो, यस्य वास्तेयम्+++(=उदरदेशो)+++ अब्धिः ।
अन्तःस्थं यस्य विश्वं, सुर-नर-खग-गो-भोगि-गन्धर्व-दैत्यैश्
चित्रं रंरम्यते तं, त्रिभुवन-वपुषं, विष्णुम् ईशं नमामि ॥ २॥


शान्ताकारं भुजग-शयनं पद्म-नाभं सुरेशं
विश्वाधारं गगन-सदृशं मेघ-वर्णं शुभाङ्गम् ।
लक्ष्मी-कान्तं कमल-नयनं योगिभिर् ध्यानगम्यं+++(~योगिहृद्ध्यानगम्यं)+++
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ३॥

मेघ-श्यामं पीत-कौशेय-वासं
श्रीवत्साङ्कं कौस्तुभोद्भासिताङ्गम् ।
पुण्योपेतं पुण्डरीकायताक्षं
विष्णुं वन्दे सर्व-लोकैक-नाथम् ॥ ४॥

नमः समस्त-भूतानाम्
आदिभूताय भूभृते ।
अनेकरूप-रूपाय
विष्णवे प्रभविष्णवे ॥ ५॥

स-शङ्ख-चक्रं सकिरीट-कुण्डलं
सपीत-वस्त्रं सरसी-रुहेक्षणम् ।
सहारवक्षःस्थल-कौस्तुभश्रियं +++(~ स्थलशोभिकौस्तुभं)+++
नमामि विष्णुं शिरसा चतुर्-भुजम् ॥ ६॥

छायायां पारिजातस्य हेम-सिंहासनोपरि
आसीनम् अम्बुद-श्यामम् आयताक्षम् अलंकृतम् ।
चन्द्राननं चतुर्-बाहुं श्रीवत्साङ्कित-वक्षसं
रुक्मिणी-सत्यभामाभ्यां सहितं कृष्णम् आश्रये ॥ ७॥

स्तोत्रम्

विश्वास-प्रस्तुतिः

(हरिः।) ॐ।
विश्वं विष्णुर् वषट्कारो
भूत-भव्य-भवत्-प्रभुः।
भूत-कृद् भूत-भृद् भावो
भूतात्मा भूतभावनः ॥ १४ ॥

मूलम्

ॐ विश्वं विष्णुर्वषट्कारो भूतभव्यभवत्प्रभुः।
भूतकृद् भूतभृद् भावो भूतात्मा भूतभावनः ॥ १४ ॥

अनुवाद (हिन्दी)

ॐ सच्चिदानन्दस्वरूप, १ विश्वम् -विराट्स्वरूप, २ विष्णुः -सर्वव्यापी, ३ वषट्‌कारः -जिनके उद्देश्यसे यज्ञमें वषट् क्रिया की जाती है, ऐसे यज्ञस्वरूप, ४ भूतभव्यभवत्प्रभुः -भूत, भविष्यत् और वर्तमानके स्वामी, ५ भूतकृत् -रजोगुणको स्वीकार करके ब्रह्मारूपसे सम्पूर्ण भूतोंकी रचना करनेवाले, ६ भूतभृत् -सत्त्वगुणको स्वीकार करके सम्पूर्ण भूतोंका पालन-पोषण करनेवाले, ७ भावः -नित्यस्वरूप होते हुए भी स्वतः उत्पन्न होनेवाले, ८ भूतात्मा -सम्पूर्ण भूतोंके आत्मा, ९ भूतभावनः -भूतोंकी उत्पत्ति और वृद्धि करनेवाले॥१४॥

विश्वास-प्रस्तुतिः

पूतात्मा परमात्मा च
मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी
क्षेत्रज्ञोऽक्षर एव च ॥ १५ ॥

मूलम्

पूतात्मा परमात्मा च मुक्तानां परमा गतिः।
अव्ययः पुरुषः साक्षी क्षेत्रज्ञोऽक्षर एव च ॥ १५ ॥

अनुवाद (हिन्दी)

१० पूतात्मा -पवित्रात्मा, ११ परमात्मा -परमश्रेष्ठ नित्यशुद्ध-बुद्ध-मुक्तस्वभाव, १२ मुक्तानां परमा गतिः -मुक्त पुरुषोंकी सर्वश्रेष्ठ गतिस्वरूप, १३ अव्ययः -कभी विनाशको प्राप्त न होनेवाले, १४ पुरुषः -पुर अर्थात शरीरमें शयन करनेवाले, १५ साक्षी -बिना किसी व्यवधानके सब कुछ देखनेवाले, १६ क्षेत्रज्ञः -क्षेत्र अर्थात् समस्त प्रकृतिरूप शरीरको पूर्णतया जाननेवाले, १७ अक्षरः -कभी क्षीण न होनेवाले॥१५॥

विश्वास-प्रस्तुतिः

योगो योगविदां नेता
प्रधान-पुरुषेश्वरः।
नार-सिंह-वपुः श्रीमान्
केशवः+++(←को ब्रह्मा ईशः रुद्रः तौ वयति)+++ पुरुषोत्तमः ॥ १६ ॥

मूलम्

योगो योगविदां नेता प्रधानपुरुषेश्वरः।
नारसिंहवपुः श्रीमान् केशवः पुरुषोत्तमः ॥ १६ ॥

अनुवाद (हिन्दी)

१८ योगः -मनसहित सम्पूर्ण ज्ञानेन्द्रियोंके निरोधरूप योगसे प्राप्त होनेवाले, १९ योगविदां नेता -योगको जाननेवाले भक्तोंके स्वामी, २० प्रधानपुरुषेश्वरः -प्रकृति और पुरुषके स्वामी, २१ नारसिंहवपुः -मनुष्य और सिंह दोनोंके-जैसा शरीर धारण करनेवाले नरसिंहरूप, २२ श्रीमान् -वक्षःस्थलमें सदा श्रीको धारण करनेवाले, २३ केशवः -(क) ब्रह्मा, (अ) विष्णु और (ईश) महादेव—इस प्रकार त्रिमूर्तिस्वरूप, २४ पुरुषोत्तमः -क्षर और अक्षर—इन दोनोंसे सर्वथा उत्तम॥१६॥

विश्वास-प्रस्तुतिः

सर्वः शर्वः शिवः स्थाणुर्
भूतादिर्, निधिर् अव्ययः ।
सम्भवो भावनो भर्ता
प्रभवः प्रभुर् ईश्वरः ॥ १७ ॥

मूलम्

सर्वः शर्वः शिवः स्थाणुर्भूतादिर्निधिरव्ययः।
सम्भवो भावनो भर्ता प्रभवः प्रभुरीश्वरः ॥ १७ ॥

अनुवाद (हिन्दी)

२५ सर्वः -सर्वरूप, २६ शर्वः -सारी प्रजाका प्रलयकालमें संहार करनेवाले, २७ शिवः -तीनों गुणोंसे परे कल्याणस्वरूप, २८ स्थाणुः -स्थिर, २९ भूतादिः -भूतोंके आदिकारण, ३० निधिरव्ययः -प्रलयकालमें सब प्राणियोंके लीन होनेके लिये अविनाशी स्थानरूप, ३१ सम्भवः -अपनी इच्छासे भली प्रकार प्रकट होनेवाले, ३२ भावनः -समस्त भोक्ताओंके फलोंको उत्पन्न करनेवाले, ३३ भर्ता -सबका भरण करनेवाले, ३४ प्रभवः -उत्कृष्ट (दिव्य) जन्मवाले, ३५ प्रभुः -सबके स्वामी, ३६ ईश्वरः - उपाधिरहित ऐश्वर्यवाले॥१७॥

विश्वास-प्रस्तुतिः

स्वयम्भूः शम्भुर् आदित्यः
पुष्कराक्षो महास्वनः ।
अनादिनिधनो धाता
विधाता, धातुर् उत्तमः ॥ १८ ॥

मूलम्

स्वयम्भूः शम्भुरादित्यः पुष्कराक्षो महास्वनः।
अनादिनिधनो धाता विधाता धातुरुत्तमः ॥ १८ ॥

अनुवाद (हिन्दी)

३७ स्वयम्भूः -स्वयं उत्पन्न होनेवाले, ३८ शम्भुः -भक्तोंके लिये सुख उत्पन्न करनेवाले, ३९ आदित्यः -द्वादश आदित्योंमें विष्णुनामक आदित्य, ४० पुष्कराक्षः -कमलके समान नेत्रवाले, ४१ महास्वनः -वेदरूप अत्यन्त महान् घोषवाले, ४२ अनादिनिधनः -जन्म-मृत्युसे रहित, ४३ धाता -विश्वको धारण करनेवाले, ४४ विधाता -कर्म और उसके फलोंकी रचना करनेवाले, ४५ धातुरुत्तमः -कार्य-कारणरूप सम्पूर्ण प्रपंचको धारण करनेवाले एवं सर्वश्रेष्ठ॥१८॥

विश्वास-प्रस्तुतिः

अप्रमेयो हृषीकेशः
पद्मनाभो ऽमरप्रभुः ।
विश्वकर्मा मनुस् त्वष्टा
स्थविष्ठः+++(=स्थूलतमः)+++, स्थविरो ध्रुवः ॥ १९ ॥

मूलम्

अप्रमेयो हृषीकेशः पद्मनाभोऽमरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥ १९ ॥

अनुवाद (हिन्दी)

४६ अप्रमेयः -प्रमाणादिसे जाननेमें न आ सकनेवाले, ४७ हृषीकेशः -इन्द्रियोंके स्वामी, ४८ पद्मनाभः -जगत्‌के कारणरूप कमलको अपनी नाभिमें स्थान देनेवाले, ४९ अमरप्रभुः -देवताओंके स्वामी, ५० विश्वकर्मा-सारे जगत्‌की रचना करनेवाले, ५१ मनुः -प्रजापति मनुरूप, ५२ त्वष्टा -संहारके समय सम्पूर्ण प्राणियोंको क्षीण करनेवाले, ५३ स्थविष्ठः -अत्यन्त स्थूल, ५४ स्थविरो ध्रुवः -अति प्राचीन एवं अत्यन्त स्थिर॥१९॥

विश्वास-प्रस्तुतिः

अग्राह्यः शाश्वतः कृष्णो
लोहिताक्षः प्रतर्दनः+++(←तृदिँर् (हिंसानादरयोः))+++ ।
प्रभूतस् त्रिककुब्-धाम
पवित्रं, मङ्गलं परम् ॥ २० ॥

मूलम्

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः।
प्रभूतस्त्रिककुब्धाम पवित्रं मङ्गलं परम् ॥ २० ॥

अनुवाद (हिन्दी)

५५ अग्राह्यः -मनसे भी ग्रहण न किये जा सकनेवाले, ५६ शाश्वतः -सब कालमें स्थित रहनेवाले, ५७ कृष्णः -सबके चित्तको बलात् अपनी ओर आकर्षित करनेवाले परमानन्दस्वरूप, ५८ लोहिताक्षः -लाल नेत्रोंवाले, ५९ प्रतर्दनः -प्रलयकालमें प्राणियोंका संहार करनेवाले, ६० प्रभूतः -ज्ञान, ऐश्वर्य आदि गुणोंसे सम्पन्न, ६१ त्रिककुब्धाम -ऊपर-नीचे और मध्यभेदवाली तीनों दिशाओंके आश्रयरूप, ६२ पवित्रम् -सबको पवित्र करनेवाले, ६३ मङ्गलं परम् -परम मंगलस्वरूप॥२०॥

विश्वास-प्रस्तुतिः

ईशानः प्राणदः प्राणो
ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्यगर्भो भूगर्भो
माधवो मधुसूदनः ॥ २१ ॥

मूलम्

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः।
हिरण्यगर्भो भूगर्भो माधवो मधुसूदनः ॥ २१ ॥

अनुवाद (हिन्दी)

६४ ईशानः -सर्वभूतोंके नियन्ता, ६५ प्राणदः -सबके प्राणदाता, ६६ प्राणः -प्राणस्वरूप, ६७ ज्येष्ठः -सबके कारण होनेसे सबसे बड़े, ६८ श्रेष्ठः -सबमें उत्कृष्ट होनेसे परम श्रेष्ठ, ६९ प्रजापतिः - ईश्वररूपसे सारी प्रजाओंके स्वामी, ७० हिरण्यगर्भः -ब्रह्माण्डरूप हिरण्यमय अण्डके भीतर ब्रह्मारूपसे व्याप्त होनेवाले, ७१ भूगर्भः -पृथ्वीको गर्भमें रखनेवाले, ७२ माधवः -लक्ष्मीके पति, ७३ मधुसूदनः -मधुनामक दैत्यको मारनेवाले॥२१॥

विश्वास-प्रस्तुतिः

ईश्वरो विक्रमी धन्वी
मेधावी वि+++(=पक्षि)+++-क्रमः क्रमः ।
अनुत्तमो दुराधर्षः
कृतज्ञः कृतिर् आत्मवान् ॥ २२ ॥

मूलम्

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिरात्मवान् ॥ २२ ॥

अनुवाद (हिन्दी)

७४ ईश्वरः -सर्वशक्तिमान् ईश्वर, ७५ विक्रमी -शूरवीरतासे युक्त, ७६ धन्वी -शार्ङ्गधनुष रखनेवाले, ७७ मेधावी -अतिशय बुद्धिमान्, ७८ विक्रमः -गरुड़ पक्षीद्वारा गमन करनेवाले, ७९ क्रमः -क्रमविस्तारके कारण, ८० अनुत्तमः -सर्वोत्कृष्ट, ८१ दुराधर्षः -किसीसे भी तिरस्कृत न हो सकनेवाले, ८२ कृतज्ञः -अपने निमित्तसे थोड़ा-सा भी त्याग किये जानेपर उसे बहुत माननेवाले यानि पत्र-पुष्पादि थोड़ी-सी वस्तु समर्पण करनेवालोंको भी मोक्ष दे देनेवाले, ८३ कृतिः -पुरुष-प्रयत्नके आधाररूप, ८४ आत्मवान् -अपनी ही महिमामें स्थित॥२२॥

विश्वास-प्रस्तुतिः

सुरेशः शरणं शर्म
विश्वरेताः प्रजाभवः ।
अहः संवत्सरो व्यालः
प्रत्ययः सर्वदर्शनः ॥ २३ ॥

मूलम्

सुरेशः शरणं शर्म विश्वरेताः प्रजाभवः।
अहः संवत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥ २३ ॥

अनुवाद (हिन्दी)

८५ सुरेशः -देवताओंके स्वामी, ८६ शरणम् -दीन-दुखियोंके परम आश्रय, ८७ शर्म -परमानन्दस्वरूप, ८८ विश्वरेताः -विश्वके कारण, ८९ प्रजाभवः -सारी प्रजाको उत्पन्न करनेवाले, ९० अहः -प्रकाशरूप, ९१ संवत्सरः -कालरूपसे स्थित, ९२ व्यालः -शेषनागस्वरूप, ९३ प्रत्ययः -उत्तम बुद्धिसे जाननेमें आनेवाले, ९४ सर्वदर्शनः -सबके द्रष्टा॥२३॥

विश्वास-प्रस्तुतिः

अजः सर्वेश्वरः सिद्धः
सिद्धिः सर्वादिर् अच्युतः ।
वृषाकपिर् अमेयात्मा
सर्व-योग-विनिःसृतः ॥ २४ ॥

मूलम्

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिरच्युतः।
वृषाकपिरमेयात्मा सर्वयोगविनिःसृतः ॥ २४ ॥

अनुवाद (हिन्दी)

९५ अजः -जन्मरहित, ९६ सर्वेश्वरः -समस्त ईश्वरोंके भी ईश्वर, ९७ सिद्धः -नित्यसिद्ध, ९८ सिद्धिः -सबके फलस्वरूप, ९९ सर्वादिः -सब भूतोंके आदि कारण, १०० अच्युतः -अपनी स्वरूप-स्थितिसे कभी त्रिकालमें भी च्युत न होनेवाले, १०१ वृषाकपिः -धर्म और वराहरूप, १०२ अमेयात्मा -अप्रमेयस्वरूप, १०३ सर्वयोगविनिःसृतः -नाना प्रकारके शास्त्रोक्त साधनोंसे जाननेमें आनेवाले॥२४॥

विश्वास-प्रस्तुतिः

वसुर् वसुमनाः सत्यः
समात्मा ऽसम्मितः समः ।
अमोघः पुण्डरीकाक्षो
वृषकर्मा वृषाकृतिः ॥ २५ ॥

मूलम्

वसुर्वसुमनाः सत्यः समात्मासम्मितः समः।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥ २५ ॥

अनुवाद (हिन्दी)

१०४ वसुः -सब भूतोंके वासस्थान, १०५ वसुमनाः -उदार मनवाले, १०६ सत्यः -सत्यस्वरूप, १०७ समात्मा -सम्पूर्ण प्राणियोंमें एक आत्मारूपसे विराजनेवाले, १०८ असम्मितः -समस्त पदार्थोंसे मापे न जा सकनेवाले, १०९ समः -सब समय समस्त विकारोंसे रहित, ११० अमोघः -भक्तोंके द्वारा पूजन, स्तवन अथवा स्मरण किये जानेपर उन्हें वृथा न करके पूर्णरूपसे उनका फल प्रदान करनेवाले, १११ पुण्डरीकाक्षः -कमलके समान नेत्रोंवाले, ११२ वृषकर्मा -धर्ममय कर्म करनेवाले, ११३ वृषाकृतिः -धर्मकी स्थापना करनेके लिये विग्रह धारण करनेवाले॥२५॥

विश्वास-प्रस्तुतिः

रुद्रो बहुशिरा बभ्रुर्
विश्वयोनिः शुचिश्रवाः ।
अमृतः शाश्वत-स्थाणुर्
वरारोहो महातपाः ॥ २६ ॥

मूलम्

रुद्रो बहुशिरा बभ्रुर्विश्वयोनिः शुचिश्रवाः।
अमृतः शाश्वतस्थाणुर्वसरोहो महातपाः ॥ २६ ॥

अनुवाद (हिन्दी)

११४ रुद्रः -दुःखके कारणको दूर भगा देनेवाले, ११५ बहुशिराः -बहुत-से सिरोंवाले, ११६ बभ्रुः -लोकोंका भरण करनेवाले, ११७ विश्वयोनिः -विश्वको उत्पन्न करनेवाले, ११८ शुचिश्रवाः -पवित्र कीर्तिवाले, ११९ अमृतः -कभी न मरनेवाले, १२० शाश्वतस्थाणुः -नित्य सदा एकरस रहनेवाले एवं स्थिर, १२१ वरारोहः -आरूढ़ होनेके लिये परम उत्तम अपुनरावृत्तिस्थानरूप, १२२ महातपाः -प्रताप (प्रभाव) रूप महान् तपवाले॥२६॥

विश्वास-प्रस्तुतिः

सर्वगः सर्वविद् भानुर्
विष्वक्सेनो जनार्दनः ।
वेदो वेदविद् अव्यङ्गो+++(=अविकृताङ्गो)+++
वेदाङ्गो वेदवित् कविः ॥ २७ ॥

मूलम्

सर्वगः सर्वविद्भानुर्विष्वक्सेनो जनार्दनः ।
वेदो वेदविदव्यङ्गो वेदाङ्गो वेदवित् कविः ॥ २७ ॥

अनुवाद (हिन्दी)

१२३ सर्वगः -कारणरूपसे सर्वत्र व्याप्त रहनेवाले, १२४ सर्वविद्भानुः -सब कुछ जाननेवाले प्रकाशरूप, १२५ विष्वक्सेनः -युद्धके लिये की हुई तैयारीमात्रसे ही दैत्यसेनाको तितर-बितर कर डालनेवाले, १२६ जनार्दनः -भक्तोंके द्वारा अभ्युदयनिःश्रेयसरूप परम पुरुषार्थकी याचना किये जानेवाले, १२७ वेदः -वेदरूप, १२८ वेदवित् -वेद तथा वेदके अर्थको यथावत् जाननेवाले, १२९ अव्यङ्गः -ज्ञानादिसे परिपूर्ण अर्थात् किसी प्रकार अधूरे न रहनेवाले सर्वांगपूर्ण, १३० वेदाङ्गः -वेदरूप अंगोंवाले, १३१ वेदवित् -वेदोंको विचारनेवाले, १३२ कविः -सर्वज्ञ॥२७॥

विश्वास-प्रस्तुतिः

लोकाध्यक्षः सुराध्यक्षो
धर्माध्यक्षः कृताकृतः ।
चतुर्-आत्मा चतुर्-व्यूहश्
+++(नृसिंहरूपेण)+++ चतुर्-दंष्ट्रश् चतुर्भुजः ॥ २८ ॥

मूलम्

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृताकृतः।
चतुरात्मा चतुर्व्यूहश्चतुर्दंष्ट्रश्चतुर्भुजः ॥ २८ ॥

अनुवाद (हिन्दी)

१३३ लोकाध्यक्षः -समस्त लोकोंके अधिपति, १३४ सुराध्यक्षः -देवताओंके अध्यक्ष, १३५ धर्माध्यक्षः -अनुरूप फल देनेके लिये धर्म और अधर्मका निर्णय करनेवाले, १३६ कृताकृतः -कार्यरूपसे कृत और कारणरूपसे अकृत, १३७ चतुरात्मा -ब्रह्मा, विष्णु, महेश और निराकार ब्रह्म—इन चार स्वरूपोंवाले, १३८ चतुर्व्यूहः -उत्पत्ति, स्थिति, नाश और रक्षारूप चार व्यूहवाले, १३९ चतुर्दंष्ट्रः -चार दाढ़ोंवाले नरसिंहरूप, १४० चतुर्भुजः -चार भुजाओंवाले, वैकुण्ठवासी भगवान् विष्णु॥२८॥

विश्वास-प्रस्तुतिः

भ्राजिष्णुर् भोजनं भोक्ता
सहिष्णुर् जगद्-आदिजः ।
अनघो विजयो जेता
विश्वयोनिः पुनर्वसुः ॥ २९ ॥

मूलम्

भ्राजिष्णुर्भोजनं भोक्ता सहिष्णुर्जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥ २९ ॥

अनुवाद (हिन्दी)

१४१ भ्राजिष्णुः -एकरस प्रकाशस्वरूप, १४२ भोजनम् -ज्ञानियोंद्वारा भोगनेयोग्य अमृतस्वरूप, १४३ भोक्ता -पुरुषरूपसे भोक्ता, १४४ सहिष्णुः -सहनशील, १४५ जगदादिजः -जगत्‌के आदिमें हिरण्यगर्भ रूपसे स्वयं उत्पन्न होनेवाले, १४६ अनघः -पापरहित, १४७ विजयः -ज्ञान, वैराग्य और ऐश्वर्य आदि गुणोंमें सबसे बढ़कर, १४८ जेता -स्वभावसे ही समस्त भूतोंको जीतनेवाले, १४९ विश्वयोनिः -सबके कारणरूप, १५० पुनर्वसुः -पुनः-पुनः अवतार-शरीरोंमें निवास करनेवाले॥२९॥

विश्वास-प्रस्तुतिः

उपेन्द्रो वामनः प्रांशुर्
अमोघः शुचिर् ऊर्जितः ।
अतीन्द्रः सङ्ग्रहः सर्गो
धृतात्मा नियमो यमः ॥ ३० ॥

मूलम्

उपेन्द्रो वामनः प्रांशुरमोघः शुचिरूर्जितः।
अतीन्द्रः संग्रहः सर्गो धृतात्मा नियमो यमः ॥ ३० ॥

अनुवाद (हिन्दी)

१५१ उपेन्द्रः -इन्द्रके छोटे भाई, १५२ वामनः -वामनरूपसे अवतार लेनेवाले, १५३ प्रांसुः -तीनों लोकोंको लाँघनेके लिये त्रिविक्रमरूपसे ऊँचे होनेवाले, १५४ अमोघः -अव्यर्थ चेष्टावाले, १५५ शुचिः -स्मरण, स्तुति और पूजन करनेवालोंको पवित्र कर देनेवाले, १५६ ऊर्जितः -अत्यन्त बलशाली, १५७ अतीन्द्रः -स्वयंसिद्ध ज्ञान-ऐश्वर्यादिके कारण इन्द्रसे भी बढ़े-चढ़े हुए, १५८ संग्रहः -प्रलयके समय सबको समेट लेनेवाले, १५९ सर्गः -सृष्टिके कारणरूप, १६० धृतात्मा -जन्मादिसे रहित रहकर स्वेच्छासे स्वरूप धारण करनेवाले, १६१ नियमः -प्रजाको अपने-अपने अधिकारोंमें नियमित करनेवाले, १६२ यमः -अन्तःकरणमें स्थित होकर नियमन करनेवाले॥३०॥

विश्वास-प्रस्तुतिः

वेद्यो वैद्यः सदायोगी
वीरहा माधवो मधुः ।
अतीन्द्रियो महामायो
महोत्साहो महाबलः ॥ ३१ ॥

मूलम्

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः।
अतीन्द्रियो महामायो महोत्साहो महाबलः ॥ ३१ ॥

अनुवाद (हिन्दी)

१६३ वेद्यः -कल्याणकी इच्छावालोंके द्वारा जानने योग्य, १६४ वैद्यः -सब विद्याओंके जाननेवाले, १६५ सदायोगी -सदा योगमें स्थित रहनेवाले, १६६ वीरहा -धर्मकी रक्षाके लिये असुर योद्धाओंको मार डालनेवाले, १६७ माधवः -विद्याके स्वामी, १६८ मधुः -अमृतकी तरह सबको प्रसन्न करनेवाले, १६९ अतीन्द्रियः -इन्द्रियोंसे सर्वथा अतीत, १७० महामायः -मायावियोंपर भी माया डालनेवाले, महान् मायावी, १७१ महोत्साहः -जगत्‌की उत्पत्ति, स्थिति और प्रलयके लिये तत्पर रहनेवाले परम उत्साही, १७२ महाबलः -महान् बलशाली॥३१॥

विश्वास-प्रस्तुतिः

महाबुद्धिर् महावीर्यो
महाशक्तिर् महाद्युतिः ।
अनिर्देश्य-वपुः श्रीमान्
अमेयात्मा, +++(समुद्रमन्थने गोवर्धनोद्धारणे च)+++ महाद्रि-धृक् ॥ ३२ ॥

मूलम्

महाबुद्धिर्महावीर्यो महाशक्तिर्महाद्युतिः ।
अनिर्देश्यवपुः श्रीमानमेयात्मा महाद्रिधृक् ॥ ३२ ॥

अनुवाद (हिन्दी)

१७३ महाबुद्धिः -महान् बुद्धिमान्, १७४ महावीर्यः -महान् पराक्रमी, १७५ महाशक्तिः -महान् सामर्थ्यवान्, १७६ महाद्युतिः -महान् कान्तिमान्, १७७ अनिर्देश्यवपुः -वर्णन करनेमें न आने योग्य स्वरूप, १७८ श्रीमान् -ऐश्वर्यवान्, १७९ अमेयात्मा -जिसका अनुमान न किया जा सके ऐसे आत्मावाले, १८० महाद्रिधृक् -अमृतमन्थन और गोरक्षणके समय मन्दराचल और गोवर्धन नामक महान् पर्वतोंको धारण करनेवाले॥३२॥

विश्वास-प्रस्तुतिः

महेष्वासो महीभर्ता
श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो
गोविन्दो गो+++(=वेद)+++-विदां पतिः ॥ ३३ ॥

मूलम्

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां पतिः ॥ ३३ ॥

अनुवाद (हिन्दी)

१८१ महेष्वासः -महान् धनुषवाले, १८२ महीभर्ता -पृथ्वीको धारण करनेवाले, १८३ श्रीनिवासः -अपने वक्षःस्थलमें श्रीको निवास देनेवाले, १८४ सतां गतिः -सत्पुरुषोंके परम आश्रय, १८५ अनिरुद्धः -किसीके भी द्वारा न रुकनेवाले, १८६ सुरानन्दः -देवताओंको आनन्दित करनेवाले, १८७ गोविन्दः -वेदवाणीके द्वारा अपनेको प्राप्त करा देनेवाले, १८८ गोविदां पतिः -वेदवाणीको जाननेवालोंके स्वामी॥३३॥

विश्वास-प्रस्तुतिः

मरीचिर् दमनो, +++(ब्रह्म-बोधन-लीला-रूपेण)+++ हंसः
+++(विभूतिमत्-सत्त्वेषु वर्तित्वात्)+++ सुपर्णो भुजगोत्तमः ।
हिरण्य-नाभः सुतपाः
पद्मनाभः प्रजापतिः ॥ ३४ ॥

मूलम्

मरीचिर्दमनो हंसः सुपर्णो भुजगोत्तमः।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥ ३४ ॥

अनुवाद (हिन्दी)

१८९ मरीचिः -तेजस्वियोंके भी परम तेजरूप, १९० दमनः -प्रमाद करनेवाली प्रजाको यम आदिके रूपसे दमन करनेवाले, १९१ हंसः -पितामह ब्रह्माको वेदका ज्ञान करानेके लिये हंसरूप धारण करनेवाले, १९२ सुपर्णः -सुन्दर पंखवाले गरुडस्वरूप, १९३ भुजगोत्तमः -सर्पोंमें श्रेष्ठ शेषनागरूप, १९४ हिरण्यनाभः -सुवर्णके समान रमणीय नाभिवाले, १९५ सुतपाः -बदरिकाश्रममें नर-नारायणरूपसे सुन्दर तप करनेवाले, १९६ पद्मनाभः -कमलके समान सुन्दर नाभिवाले, १९७ प्रजापतिः -सम्पूर्ण प्रजाओंके पालनकर्ता॥३४॥

विश्वास-प्रस्तुतिः

अमृत्युः सर्वदृक् सिंहः
सन्धाता सन्धिमान् स्थिरः ।
अजो दुर्-मर्षणः शास्ता
विश्रुतात्मा सुरारि-हा ॥ ३५ ॥

मूलम्

अमृत्युः सर्वदृक् सिंहः संधाता सन्धिमान्स्थिरः।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिहा ॥ ३५ ॥

अनुवाद (हिन्दी)

१९८ अमृत्युः -मृत्युसे रहित, १९९ सर्वदृक् -सब कुछ देखनेवाले, २०० सिंहः -दुष्टोंका विनाश करनेवाले, २०१ संधाता -प्राणियोंको उनके कर्मोंके फलोंसे संयुक्त करनेवाले, २०२ सन्धिमान् -सम्पूर्ण यज्ञ और तपोंके फलोंको भोगनेवाले, २०३ स्थिरः -सदा एक रूप, २०४ अजः -दुर्गुणोंको दूर हटा देनेवाले, २०५ दुर्मर्षणः -किसीसे भी सहन नहीं किये जा सकनेवाले, २०६ शास्ता -सबपर शासन करनेवाले, २०७ विश्रुतात्मा -वेदशास्त्रोंमें प्रसिद्ध स्वरूपवाले, २०८ सुरारिहा -देवताओंके शत्रुओंको मारनेवाले॥३५॥

विश्वास-प्रस्तुतिः

गुरुर् गुरुतमो धाम
सत्यः सत्य-पराक्रमः ।
निमिषोऽनिमिषः स्रग्वी
वाचस्-पतिर् उदारधीः ॥ ३६ ॥

मूलम्

गुरुर्गुरुतमो धाम सत्यः सत्यपराक्रमः।
निमिषोऽनिमिषः स्रग्वी वाचस्पतिरुदारधीः ॥ ३६ ॥

अनुवाद (हिन्दी)

२०९ गुरुः -सब विद्याओंका उपदेश करनेवाले, २१० गुरुतमः -ब्रह्मा आदिको भी ब्रह्मविद्या प्रदान करनेवाले, २११ धाम -सम्पूर्ण जगत्‌के आश्रय, २१२ सत्यः -सत्यस्वरूप, २१३ सत्यपराक्रमः -अमोघ पराक्रमवाले, २१४ निमिषः -योगनिद्रासे मुँदे हुए नेत्रोंवाले, २१५ अनिमिषः -मत्स्यरूपसे अवतार लेनेवाले, २१६ स्रग्वी -वैजयन्तीमाला धारण करनेवाले, २१७ वाचस्पतिरुदारधीः -सारे पदार्थोंको प्रत्यक्ष करनेवाली बुद्धिसे युक्त समस्त विद्याओंके पति॥३६॥

विश्वास-प्रस्तुतिः

अग्रणीर् ग्रामणीः श्रीमान्
न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा
सहस्राक्षः सहस्रपात् ॥ ३७ ॥

मूलम्

अग्रणीर्ग्रामणीः श्रीमान् न्यायो नेता समीरणः।
सहस्रमूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥ ३७ ॥

अनुवाद (हिन्दी)

२१८ अग्रणीः -४ मुमुक्षुओंको उत्तम पदपर ले जानेवाले, २१९ ग्रामणीः -भूतसमुदायके नेता, २२० श्रीमान् -सबसे बढ़ी-चढ़ी कान्तिवाले, २२१ न्यायः -प्रमाणोंके आश्रयभूत तर्ककी मूर्ति, २२२ नेता -जगत्-रूप यन्त्रको चलानेवाले, २२३ समीरणः -श्वासरूपसे प्राणियोंसे चेष्टा करानेवाले, २२४ सहस्रमूर्धा -हजार सिरवाले, २२५ विश्वात्मा -विश्वके आत्मा, २२६ सहस्राक्षः -हजार आँखोंवाले, २२७ सहस्रपात् -हजार पैरोंवाले॥३७॥

विश्वास-प्रस्तुतिः

आवर्तनो निवृत्तात्मा
संवृतः सम्प्रमर्दनः ।
अहः संवर्तको वह्निर्
अनिलो धरणीधरः ॥ ३८ ॥

मूलम्

आवर्तनो निवृत्तात्मा संवृतः सम्प्रमर्दनः।
अहःसंवर्तको वह्निरनिलो धरणीधरः ॥ ३८ ॥

अनुवाद (हिन्दी)

२२८ आवर्तनः -संसारचक्रको चलानेके स्वभाववाले, २२९ निवृत्तात्मा -संसारबन्धनसे नित्य मुक्तस्वरूप, २३० संवृतः -अपनी योगमायासे ढके हुए, २३१ सम्प्रमर्दनः -अपने रुद्र आदि स्वरूपसे सबका मर्दन करनेवाले, २३२ अहःसंवर्तकः -सूर्यरूपसे सम्यक्तया दिनके प्रवर्तक, २३३ वह्निः -हविको वहन करनेवाले अग्निदेव, २३४ अनिलः -प्राणरूपसे वायुस्वरूप, २३५ धरणीधरः -वराह और शेषरूपसे पृथ्वीको धारण करनेवाले॥३८॥

विश्वास-प्रस्तुतिः

सुप्रसादः प्रसन्नात्मा
विश्वधृग् विश्वभुग् विभुः ।
सत्कर्ता सत्कृतः साधुर्
जह्नुर् नारायणो नरः ॥ ३९ ॥

मूलम्

सुप्रसादः प्रसन्नात्मा विश्वधृग् विश्वभुग् विभुः।
सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ ३९ ॥

अनुवाद (हिन्दी)

२३६ सुप्रसादः -शिशुपालादि अपराधियोंपर भी कृपा करनेवाले, २३७ प्रसन्नात्मा -प्रसन्न स्वभाववाले, २३८ विश्वधृक् -जगत्‌को धारण करनेवाले, २३९ विश्वभुक् -विश्वका पालन करनेवाले, २४० विश्वः -सर्वव्यापी, २४१ सत्कर्ता -भक्तोंका सत्कार करनेवाले, २४२ सत्कृतः -पूजितोंसे भी पूजित, २४३ साधुः -भक्तोंके कार्य साधनेवाले, २४४ जह्नुः -संहारके समय जीवोंका लय करनेवाले, २४५ नारायणः -जलमें शयन करनेवाले, २४६ नरः -भक्तोंको परमधाममें ले जानेवाले॥३९॥

विश्वास-प्रस्तुतिः

असङ्ख्येयो ऽप्रमेयात्मा
विशिष्टः शिष्टकृच् छुचिः ।
सिद्धार्थः सिद्ध-सङ्कल्पः
सिद्धि-दः सिद्धि-साधनः ॥ ४० ॥

मूलम्

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।
सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥ ४० ॥

अनुवाद (हिन्दी)

२४७ असंख्येयः -जिसके नाम और गुणोंकी संख्या न की जा सके, २४८ अप्रमेयात्मा -किसीसे भी मापे न जा सकनेवाले, २४९ विशिष्टः -सबसे उत्कृष्ट, २५० शिष्टकृत् -श्रेष्ठ बनानेवाले, २५१ शुचिः -परम शुद्ध, २५२ सिद्धार्थः -इच्छित अर्थको सर्वथा सिद्ध कर चुकनेवाले, २५३ सिद्धसंकल्पः -सत्य-संकल्पवाले, २५४ सिद्धिदः -कर्म करनेवालोंको उनके अधिकारके अनुसार फल देनेवाले, २५५ सिद्धिसाधनः -सिद्धिरूप क्रियाके साधक॥४०॥

विश्वास-प्रस्तुतिः

वृषाही+++(←वृषाण्य् अहानि यस्य स)+++ वृषभो विष्णुर्
वृष-पर्वा वृषोदरः ।
वर्धनो वर्धमानश् च
विविक्तः श्रुतिसागरः ॥ ४१ ॥

मूलम्

वृषाही वृषभो विष्णुर्वृषपर्वा वृषोदरः।
वर्धनो वर्धमानश्च विविक्तः श्रुतिसागरः ॥ ४१ ॥

अनुवाद (हिन्दी)

२५६ वृषाही -द्वादशाहादि यज्ञोंको अपनेमें स्थित रखनेवाले, २५७ वृषभः -भक्तोंके लिये इच्छित वस्तुओंकी वर्षा करनेवाले, २५८ विष्णुः -शुद्ध सत्त्वमूर्ति, २५९ वृषपर्वा -परमधाममें आरूढ़ होनेकी इच्छावालोंके लिये धर्मरूप सीढ़ियोंवाले, २६० वृषोदरः -अपने उदरमें धर्मको धारण करनेवाले, २६१ वर्धनः -भक्तोंको बढ़ानेवाले, २६२ वर्धमानः -संसाररूपसे बढ़नेवाले, २६३ विविक्तः -संसारसे पृथक् रहनेवाले, २६४ श्रुतिसागरः -वेदरूप जलके समुद्र॥४१॥

विश्वास-प्रस्तुतिः

सुभुजो दुर्धरो वाग्मी
महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्-रूपः
शिपि+++(=रश्मि)+++-विष्टः प्रकाशनः ॥ ४२ ॥

मूलम्

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः।
नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ ४२ ॥

अनुवाद (हिन्दी)

२६५ सुभुजः जगत्‌की रक्षा करनेवाली अति सुन्दर भुजाओंवाले, २६६ दुर्धरः -ध्यानद्वारा कठिनतासे धारण किये जा सकनेवाले, २६७ वाग्मी -वेदमयी वाणीको उत्पन्न करनेवाले, २६८ महेन्द्रः -ईश्वरोंके भी ईश्वर, २६९ वसुदः -धन देनेवाले, २७० वसुः -धनरूप, २७१ नैकरूपः -अनेक रूपधारी, २७२ बृहद्रूपः -विश्वरूपधारी, २७३ शिपिविष्टः -सूर्यकिरणोंमें स्थित रहनेवाले, २७४ प्रकाशनः -सबको प्रकाशित करनेवाले॥४२॥

विश्वास-प्रस्तुतिः

ओजस् तेजो-द्युति-धरः
प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्
चन्द्रांशुर् भास्कर-द्युतिः ॥ ४३ ॥

मूलम्

ओजस्तेजोद्युतिधरः प्रकाशात्मा प्रतापनः ।
ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ४३ ॥

अनुवाद (हिन्दी)

२७५ ओजस्तेजोद्युतिधरः -प्राण और बल, शूरवीरता आदि गुण तथा ज्ञानकी दीप्तिको धारण करनेवाले, २७६ प्रकाशात्मा -प्रकाशरूप, २७७ प्रतापनः -सूर्य आदि अपनी विभूतियोंसे विश्वको तप्त करनेवाले, २७८ ऋद्धः -धर्म, ज्ञान और वैराग्यादिसे सम्पन्न, २७९ स्पष्टाक्षरः -ओंकाररूप स्पष्ट अक्षरवाले, २८० मन्त्रः -ऋक्, साम और यजुके मन्त्रस्वरूप, २८१ चन्द्रांशुः -संसारतापसे संतप्तचित्त पुरुषोंको चन्द्रमाकी किरणोंके समान आह्लादित करनेवाले, २८२ भास्करद्युतिः -सूर्यके समान प्रकाशस्वरूप॥४३॥

विश्वास-प्रस्तुतिः

+++(समुद्रमन्थनेन)+++ अमृतांशूद्भवो भानुः
शशबिन्दुः+++(→चन्द्रः)+++ सुरेश्वरः ।
औषधं, जगतः सेतुः
सत्य-धर्म-पराक्रमः ॥ ४४ ॥

मूलम्

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः।
औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ४४ ॥

अनुवाद (हिन्दी)

२८३ अमृतांशूद्भवः -समुद्रमन्थन करते समय चन्द्रमाको उत्पन्न करनेवाले, २८४ भानुः -भासनेवाले, २८५ शशबिन्दुः -खरगोशके समान चिह्नवाले चन्द्रस्वरूप, २८६ सुरेश्वरः -देवताओंके ईश्वर, २८७ औषधम् -संसाररोगको मिटानेके लिये औषधरूप, २८८ जगतः सेतुः -संसार-सागरको पार करानेके लिये सेतुरूप, २८९ सत्यधर्मपराक्रमः -सत्यस्वरूप धर्म और पराक्रमवाले॥४४॥

विश्वास-प्रस्तुतिः

भूत-भव्य-भवन्-नाथः
पवनः पावनो ऽनलः ।
काम-हा काम-कृत् कान्तः
कामः कामप्रदः प्रभुः ॥ ४५ ॥

मूलम्

भूतभव्यभवन्नाथः पवनः पावनोऽनलः ।
कामहा कामकृत् कान्तः कामः कामप्रदः प्रभुः ॥ ४५ ॥

अनुवाद (हिन्दी)

२९० भूतभव्यभवन्नाथः -भूत, भविष्य और वर्तमानके स्वामी, २९१ पवनः -वायुरूप, २९२ पावनः -जगत्‌को पवित्र करनेवाले, २९३ अनलः -अग्निस्वरूप, २९४ कामहा -अपने भक्तजनोंके सकामभावको नष्ट करनेवाले, २९५ कामकृत् -भक्तोंकी कामनाओंको पूर्ण करनेवाले, २९६ कान्तः -कमनीयरूप, २९७ कामः -(क) ब्रह्मा, (अ) विष्णु, (म) महादेव—इस प्रकार त्रिदेवरूप, २९८ कामप्रदः -भक्तोंको उनकी कामना की हुई वस्तुएँ प्रदान करनेवाले, २९९ प्रभुः -सर्वसामर्थ्यवान्॥४५॥

विश्वास-प्रस्तुतिः

युगादि-कृद् युगावर्तो
नैक-मायो महाशनः ।
अदृश्यो व्यक्त-रूपश् च
सहस्र-जिद् अनन्तजित् ॥ ४६ ॥

मूलम्

युगादिकृद् युगावर्तो नैकमायो महाशनः।
अदृश्योऽव्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ४६ ॥

अनुवाद (हिन्दी)

३०० युगादिकृत् -युगादिका आरम्भ करनेवाले, ३०१ युगावर्तः -चारों युगोंको चक्रके समान घुमानेवाले, ३०२ नैकमायः -अनेक मायाओंको धारण करनेवाले, ३०३ महाशनः -कल्पके अन्तमें सबको ग्रसन करनेवाले, ३०४ अदृश्यः -समस्त ज्ञानेन्द्रियोंके अविषय, ३०५ अव्यक्तरूपः -निराकार स्वरूपवाले, ३०६ सहस्रजित् -युद्धमें हजारों देवशत्रुओंको जीतनेवाले, ३०७ अनन्तजित् -युद्ध और क्रीड़ा आदिमें सर्वत्र समस्त भूतोंको जीतनेवाले॥४६॥

विश्वास-प्रस्तुतिः

इष्टोऽविशिष्टः शिष्टेष्टः
शिखण्डी नहुषो वृषः ।
क्रोध-हा क्रोध-कृत् कर्ता
विश्व-बाहुर् महीधरः ॥ ४७ ॥

मूलम्

इष्टोऽविशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः।
क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ४७ ॥

अनुवाद (हिन्दी)

३०८ इष्टः -परमानन्दरूप होनेसे सर्वप्रिय, ३०९ अविशिष्टः -सम्पूर्ण विशेषणोंसे रहित, ३१० शिष्टेष्टः -शिष्ट पुरुषोंके इष्टदेव, ३११ शिखण्डी -मयूरपिच्छको अपना शिरोभूषण बना लेनेवाले, ३१२ नहुषः -भूतोंको मायासे बाँधनेवाले, ३१३ वृषः -कामनाओंको पूर्ण करनेवाले धर्मस्वरूप, ३१४ क्रोधहा -क्रोधका नाश करनेवाले, ३१५ क्रोधकृत्कर्त्ता -क्रोध करनेवाले दैत्यादिके विनाशक, ३१६ विश्वबाहुः -सब ओर बाहुओंवाले, ३१७ महीधरः -पृथ्वीको धारण करनेवाले॥४७॥

विश्वास-प्रस्तुतिः

अच्युतः प्रथितः प्राणः
प्राणदो वासवानुजः ।
अपां-निधिर् अधिष्ठानम्
अप्रमत्तः प्रतिष्ठितः ॥ ४८ ॥

मूलम्

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः।
अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ४८ ॥

अनुवाद (हिन्दी)

३१८ अच्युतः -छः भावविकारोंसे रहित, ३१९ प्रथितः -जगत्‌की उत्पत्ति आदि कर्मोंके कारण विख्यात, ३२० प्राणः -हिरण्यगर्भरूपसे प्रजाको जीवित रखनेवाले, ३२१ प्राणदः -सबका भरण-पोषण करनेवाले, ३२२ वासवानुजः -वामनावतारमें इन्द्रके अनुजरूपमें उत्पन्न होनेवाले, ३२३ अपां निधिः -जलको एकत्र रखनेवाले समुद्ररूप, ३२४ अधिष्ठानम् -उपादान कारणरूपसे सब भूतोंके आश्रय, ३२५ अप्रमत्तः -कभी प्रमाद न करनेवाले, ३२६ प्रतिष्ठितः -अपनी महिमामें स्थित॥४८॥

विश्वास-प्रस्तुतिः

स्कन्दः स्कन्द-धरो धुर्यो
वरदो वायु-वाहनः।
वासु-देवो बृहद्-भानुर्
आदि-देवः पुरन्-दरः ॥ ४९ ॥

मूलम्

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः।
वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ॥ ४९ ॥

अनुवाद (हिन्दी)

३२७ स्कन्दः -स्वामिकार्तिकेयरूप, ३२८ स्कन्दधरः -धर्मपथको धारण करनेवाले, ३२९ धुर्यः -समस्त भूतोंके जन्मादिरूप धुरको धारण करनेवाले, ३३० वरदः -इच्छित वर देनेवाले, ३३१ वायुवाहनः -सारे वायुभेदोंको चलानेवाले, ३३२ वासुदेवः -सब भूतोंमें सर्वात्मारूपसे बसनेवाले, ३३३ बृहद्भानुः -महान् किरणोंसे युक्त एवं सम्पूर्ण जगत्‌को प्रकाशित करनेवाले सूर्यरूप, ३३४ आदिदेवः -सबके आदिकारण देव, ३३५ पुरंदरः -असुरोंके नगरोंका ध्वंस करनेवाले॥४९॥

विश्वास-प्रस्तुतिः

अशोकस् तारणस् तारः
शूरः शौरिर् जनेश्वरः ।
अनुकूलः शतावर्तः
पद्मी पद्मनिभेक्षणः ॥ ५० ॥

मूलम्

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ५० ॥

अनुवाद (हिन्दी)

३३६ अशोकः -सब प्रकारके शोकसे रहित, ३३७ तारणः -संसारसागरसे तारनेवाले, ३३८ तारः -जन्म-जरा मृत्युरूप भयसे तारनेवाले, ३३९ शूरः -पराक्रमी, ३४० शौरिः -शूरवीर श्रीवसुदेवजीके पुत्र, ३४१ जनेश्वरः -समस्त जीवोंके स्वामी, ३४२ अनुकूलः -आत्मारूप होनेसे सबके अनुकूल, ३४३ शतावर्तः -धर्मरक्षाके लिये सैकड़ों अवतार लेनेवाले, ३४४ पद्मी -अपने हाथमें कमल धारण करनेवाले, ३४५ पद्मनिभेक्षणः -कमलके समान कोमल दृष्टिवाले॥५०॥

विश्वास-प्रस्तुतिः

पद्मनाभो ऽरविन्दाक्षः
पद्मगर्भः शरीरभृत् ।
मह-र्द्धिर् ऋद्धो वृद्धात्मा
महाक्षो गरुड-ध्वजः ॥ ५१ ॥

मूलम्

पद्मनाभोऽरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्द्धिर्ऋद्धो वृद्धात्मा महाक्षो गरुडध्वजः ॥ ५१ ॥

अनुवाद (हिन्दी)

३४६ पद्मनाभः -हृदय-कमलके मध्य निवास करनेवाले, ३४७ अरविन्दाक्षः -कमलके समान आँखोंवाले, ३४८ पद्मगर्भः -हृदयकमलमें ध्यान करनेयोग्य, ३४९ शरीरभृत् -अन्नरूपसे सबके शरीरोंका भरण करनेवाले, ३५० महर्द्धिः -महान् विभूतिवाले, ३५१ ऋद्धः -सबमें बढ़े-चढ़े, ३५२ वृद्धात्मा -पुरातन स्वरूप, ३५३ महाक्षः -विशाल नेत्रोंवाले, ३५४ गरुडध्वजः -गरुडके चिह्नसे युक्त ध्वजावाले॥५१॥

विश्वास-प्रस्तुतिः

अतुलः शरभो भीमः
सम-यज्ञो हविर् हरिः ।
सर्व-लक्षण-लक्षण्यो
लक्ष्मीवान् समितिञ्-जयः ॥ ५२ ॥

मूलम्

अतुलः शरभो भीमः समयज्ञो हविर्हरिः।
सर्वलक्षणलक्षण्यो लक्ष्मीवान् समितिञ्जयः ॥ ५२ ॥

अनुवाद (हिन्दी)

३५५ अतुलः -तुलनारहित, ३५६ शरभः -शरीरोंको प्रत्यगात्मरूपसे प्रकाशित करनेवाले, ३५७ भीमः -जिससे पापियोंको भय हो ऐसे भयानक, ३५८ समयज्ञः -समभावरूप यज्ञसे सम्पन्न, ३५९ हविर्हरिः -यज्ञोंमें हविर्भागको और अपना स्मरण करनेवालोंके पापोंको हरण करनेवाले, ३६० सर्वलक्षणलक्षण्यः -समस्त लक्षणोंसे लक्षित होनेवाले, ३६१ लक्ष्मीवान् -अपने वक्षःस्थलमें लक्ष्मीजीको सदा बसानेवाले, ३६२ समितिञ्जयः संग्रामविजयी॥५२॥

विश्वास-प्रस्तुतिः

विक्षरो रोहितो मार्गो
हेतुर् दामोदरः सहः ।
मही-धरो महा-भागो
वेगवान् अमिताशनः ॥५३ ॥

मूलम्

विक्षरो रोहितो मार्गो हेतुर्दामोदरः सहः।
महीधरो महाभागो वेगवानमिताशनः ॥ ५३ ॥

अनुवाद (हिन्दी)

३६३ विक्षरः -नाशरहित, ३६४ रोहितः -मत्स्यविशेषका स्वरूप धारण करके अवतार लेनेवाले, ३६५ मार्गः -परमानन्दप्राप्तिके साधन-स्वरूप, ३६६ हेतुः -संसारके निमित्त और उपादान कारण, ३६७ दामोदरः -यशोदाजीद्वारा रस्सीसे बँधे हुए उदरवाले, ३६८ सहः -भक्तजनोंके अपराधोंको सहन करनेवाले, ३६९ महीधरः -पृथ्वीको धारण करनेवाले, ३७० महाभागः -महान् भाग्यशाली, ३७१ वेगवान्-तीव्रगतिवाले, ३७२ अमिताशनः -प्रलयकालमें सारे विश्वको भक्षण करनेवाले॥५३॥

विश्वास-प्रस्तुतिः

उद्भवः क्षोभणो देवः
श्री-गर्भः परमेश्वरः ।
करणं कारणं कर्ता
विकर्ता गहनो गुहः ॥ ५४ ॥

मूलम्

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः।
करणं कारणं कर्ता विकर्ता गहनो गृहः ॥ ५४ ॥

अनुवाद (हिन्दी)

३७३ उद्भवः -जगत्‌की उत्पत्तिके उपादानकारण, ३७४ क्षोभणः -जगत्‌की उत्पत्तिके समय प्रकृति और पुरुषमें प्रविष्ट होकर उन्हें क्षुब्ध करनेवाले, ३७५ देवः -प्रकाशस्वरूप, ३७६ श्रीगर्भः -सम्पूर्ण ऐश्वर्यको अपने उदरमें रखनेवाले, ३७७ परमेश्वरः -सर्वश्रेष्ठ शासन करनेवाले, ३७८ करणम् -संसारकी उत्पत्तिके सबसे बड़े साधन, ३७९ कारणम् -जगत्‌के उपादान और निमित्तकारण, ३८० कर्ता -सबके रचयिता, ३८१ विकर्ता -विचित्र भुवनोंकी रचना करनेवाले, ३८२ गहनः -अपने विलक्षण स्वरूप, सामर्थ्य और लीलादिके कारण पहचाने न जा सकनेवाले, ३८३ गुहः -मायासे अपने स्वरूपको ढक लेनेवाले॥५४॥

विश्वास-प्रस्तुतिः

व्यवसायो व्यवस्थानः संस्थानः स्थानदो ध्रुवः।
परर्द्धिः परमस्पष्टस्तुष्टः पुष्टः शुभेक्षणः ॥ ५५ ॥

मूलम्

व्यवसायो व्यवस्थानः
संस्थानः स्थान-दो ध्रुवः ।
पर-र्द्धिः परम-स्पष्टस्
तुष्टः पुष्टः शुभेक्षणः ॥ ५५ ॥

अनुवाद (हिन्दी)

३८४ व्यवसायः -ज्ञानस्वरूप, ३८५ व्यवस्थानः -लोकपालादिकोंको, समस्त जीवोंको, चारों वर्णाश्रमोंको एवं उनके धर्मोंको व्यवस्थापूर्वक रचनेवाले, ३८६ संस्थानः -प्रलयके सम्यक् स्थान, ३८७ स्थानदः -ध्रुवादि भक्तोंको स्थान देनेवाले, ३८८ ध्रुवः -अचल स्वरूप, ३८९ परर्द्धिः -श्रेष्ठ विभूतिवाले, ३९० परमस्पष्टः -ज्ञानस्वरूप होनेसे परम स्पष्टरूप, ३९१ तुष्टः -एकमात्र परमानन्दस्वरूप, ३९२ पुष्टः -एकमात्र सर्वत्र परिपूर्ण, ३९३ शुभेक्षणः -दर्शनमात्रसे कल्याण करनेवाले॥५५॥

विश्वास-प्रस्तुतिः

रामो विरामो विरजो मार्गो नेयो नयोऽनयः।
वीरः शक्तिमतां श्रेष्ठो धर्मो धर्मविदुत्तमः ॥ ५६ ॥

मूलम्

रामो विरामो विरजो+++(~विरतो)+++
मार्गो नेयो नयोऽनयः ।
वीरः, शक्तिमतां श्रेष्ठो,
धर्मो, धर्मविद् उत्तमः ॥ ५६ ॥

अनुवाद (हिन्दी)

३९४ रामः -योगीजनोंके रमण करनेके लिये नित्यानन्दस्वरूप, ३९५ विरामः -प्रलयके समय प्राणियोंको अपनेमें विराम देनेवाले, ३९६ विरजः -रजोगुण तथा तमोगुणसे सर्वथा शून्य, ३९७ मार्गः -मुमुक्षुजनोंके अमर होनेके साधनस्वरूप, ३९८ नेयः -उत्तम ज्ञानसे ग्रहण करनेयोग्य, ३९९ नयः -सबको नियममें रखनेवाले, ४०० अनयः -स्वतन्त्र, ४०१ वीरः -पराक्रमशाली, ४०२ शक्तिमतां श्रेष्ठः -शक्तिमानोंमें भी अतिशय शक्तिमान्, ४०३ धर्मः -धर्मस्वरूप, ४०४ धर्मविदुत्तमः -समस्त धर्मवेत्ताओंमें उत्तम॥५६॥

विश्वास-प्रस्तुतिः

वैकुण्ठः पुरुषः प्राणः
प्राणदः प्रणवः पृथुः ।
हिरण्य-गर्भः शत्रु-घ्नो
व्याप्तो वायुर् अधो+++(कृत)+++ऽक्ष+++(=इन्द्रिय)+++-जः+++(=→ज्ञानः)+++ ॥ ५७ ॥

मूलम्

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः।
हिरण्यगर्भः शत्रुघ्नो व्याप्तो वायुरधोक्षजः ॥ ५७ ॥

अनुवाद (हिन्दी)

४०५ वैकुण्ठः -परमधामस्वरूप, ४०६ पुरुषः -विश्वरूप शरीरमें शयन करनेवाले, ४०७ प्राणः -प्राणवायुरूपसे चेष्टा करनेवाले, ४०८ प्राणदः -सर्गके आदिमें प्राण प्रदान करनेवाले, ४०९ प्रणवः -ओंकार-स्वरूप, ४१० पृथुः -विराट्‌रूपसे विस्तृत होनेवाले, ४११ हिरण्यगर्भः -ब्रह्मारूपसे प्रकट होनेवाले, ४१२ शत्रुघ्नः -देवताओंके शत्रुओंको मारनेवाले, ४१३ व्याप्तः -कारणरूपसे सब कार्योंमें व्याप्त, ४१४ वायुः -पवनरूप, ४१५ अधोक्षजः -अपने स्वरूपसे क्षीण न होनेवाले॥५७॥

विश्वास-प्रस्तुतिः

ऋतुः सु-दर्शनः कालः
परमेष्ठी परिग्रहः ।
उग्रः संवत्सरो दक्षो
विश्रामो विश्व-दक्षिणः ॥ ५८ ॥

मूलम्

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः।
उग्रः संवत्सरो दक्षो विश्रामो विश्वदक्षिणः ॥ ५८ ॥

अनुवाद (हिन्दी)

४१६ ऋतुः -ऋतुस्वरूप, ४१७ सुदर्शनः -भक्तोंको सुगमतासे ही दर्शन दे देनेवाले, ४१८ कालः -सबकी गणना करनेवाले, ४१९ परमेष्ठी -अपनी प्रकृष्ट महिमामें स्थित रहनेके स्वभाववाले, ४२० परिग्रहः -शरणार्थियोंके द्वारा सब ओरसे ग्रहण किये जानेवाले, ४२१ उग्रः -सूर्यादिके भी भयके कारण, ४२२ संवत्सरः -सम्पूर्ण भूतोंके वासस्थान, ४२३ दक्षः -सब कार्योंको बड़ी कुशलतासे करनेवाले, ४२४ विश्रामः -विश्रामकी इच्छावाले मुमुक्षुओंको मोक्ष देनेवाले, ४२५ विश्वदक्षिणः -बलिके यज्ञमें समस्त विश्वको दक्षिणारूपमें प्राप्त करनेवाले॥५८॥

विश्वास-प्रस्तुतिः

विस्तारः +++(पृथित्व्यादि-)+++स्थावर-स्थाणुः
प्रमाणं बीजम् अव्ययम् ।
अर्थो ऽनर्थो महा-कोशो
महा-भोगो महा-धनः ॥ ५९ ॥

मूलम्

विस्तारः स्थावरस्थाणुः प्रमाणं बीजमव्ययम्।
अर्थोऽनर्थो महाकोशो महाभोगो महाधनः ॥ ५९ ॥

अनुवाद (हिन्दी)

४२६ विस्तारः -समस्त लोकोंके विस्तारके स्थान, ४२७ स्थावरस्थाणुः -स्वयं स्थितिशील रहकर पृथ्वी आदि, स्थितिशील पदार्थोंको अपनेमें स्थित रखनेवाले, ४२८ प्रमाणम् -ज्ञानस्वरूप होनेके कारण स्वयं प्रमाणरूप, ४२९ बीजमव्ययम् -संसारके अविनाशी कारण, ४३० अर्थः -सुखस्वरूप होनेके कारण सबके द्वारा प्रार्थनीय, ४३१ अनर्थः -पूर्णकाम होनेके कारण प्रयोजनरहित, ४३२ महाकोशः -बड़े खजानेवाले, ४३३ महाभोगः -यथार्थ सुखरूप महान् भोगवाले, ४३४ महाधनः -अतिशय यथार्थ धनस्वरूप॥५९॥

विश्वास-प्रस्तुतिः

अनिर्विण्णः स्थविष्ठोऽभूर्
धर्म-यूपो महा-मखः ।
नक्षत्र-नेमिर् नक्षत्री
क्षमः क्षामः+++(←क्षै+कर्तरि क्त)+++ समीहनः ॥ ६० ॥

मूलम्

अनिर्विण्णः स्थविष्ठोऽभूर्धर्मयूपो महामखः ।
नक्षत्रनेमिर्नक्षत्री क्षमः क्षामः समीहनः ॥ ६० ॥

अनुवाद (हिन्दी)

४३५ अनिर्विण्णः -उकताहटरूप विकारसे रहित, ४३६ स्थविष्ठः -विराट्‌रूपसे स्थित, ४३७ अभूः -अजन्मा, ४३८ धर्मयूपः -धर्मके स्तम्भरूप, ४३९ महामखः -महान् यज्ञस्वरूप, ४४० नक्षत्रनेमिः -समस्त नक्षत्रोंके केन्द्रस्वरूप, ४४१ नक्षत्री -चन्द्ररूप, ४४२ क्षमः -समस्त कार्योंमें समर्थ, ४४३ क्षामः -समस्त जगत्‌के निवासस्थान, ४४४ समीहनः -सृष्टि आदिके लिये भलीभाँति चेष्टा करनेवाले॥६०॥

विश्वास-प्रस्तुतिः

यज्ञ इज्यो महेज्यश् च
क्रतुः सत्रं, सतां गतिः ।
सर्व-दर्शी विमुक्तात्मा,
सर्वज्ञो, ज्ञानम् उत्तमम् ॥ ६१ ॥

मूलम्

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥ ६१ ॥

अनुवाद (हिन्दी)

४४५ यज्ञः -भगवान् विष्णु, ४४६ इज्यः -पूजनीय, ४४७ महेज्यः -सबसे अधिक उपासनीय, ४४८ क्रतुः -स्तम्भयुक्त यज्ञस्वरूप, ४४९ सत्रम् -सत्पुरुषोंकी रक्षा करनेवाले, ४५० सतां गतिः -सत्पुरुषोंकी परम गति, ४५१ सर्वदर्शी -समस्त प्राणियोंको और उनके कार्योंको देखनेवाले, ४५२ विमुक्तात्मा -सांसारिक बन्धनसे नित्यमुक्त आत्मस्वरूप, ४५३ सर्वज्ञः -सबको जाननेवाले, ४५४ ज्ञानमुत्तमम् -सर्वोत्कृष्ट ज्ञानस्वरूप॥६१॥

विश्वास-प्रस्तुतिः

सुव्रतः सुमुखः सूक्ष्मः
सुघोषः सुखदः सुहृत् ।
मनो-हरो जित-क्रोधो
वीर-बाहुर् विदारणः ॥ ६२ ॥

मूलम्

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत्।
मनोहरो जितक्रोधो वीरबाहुर्विदारणः ॥ ६२ ॥

अनुवाद (हिन्दी)

४५५ सुव्रतः -प्रणतपालनादि श्रेष्ठ व्रतोंवाले, ४५६ सुमुखः -सुन्दर और प्रसन्न मुखवाले, ४५७ सूक्ष्मः -अणुसे भी अणु, ४५८ सुघोषः -सुन्दर और गम्भीर वाणी बोलनेवाले, ४५९ सुखदः -अपने भक्तोंको सब प्रकारसे सुख देनेवाले, ४६० सुहृत् -प्राणिमात्रपर अहैतुकी दया करनेवाले परम मित्र, ४६१ मनोहरः -अपने रूप-लावण्य और मधुर भाषणादिसे सबके मनको हरनेवाले, ४६२ जितक्रोधः -क्रोधपर विजय करनेवाले अर्थात् अपने साथ अत्यन्त अनुचित व्यवहार करनेवालेपर भी क्रोध न करनेवाले, ४६३ वीरबाहुः -अत्यन्त पराक्रमशील भुजाओंसे युक्त, ४६४ विदारणः -अधर्मियोंको नष्ट करनेवाले॥६२॥

विश्वास-प्रस्तुतिः

स्वापनः स्ववशो व्यापी
नैकात्मा नैक-कर्म-कृत् ।
वत्सरो वत्सलो वत्सी
रत्न-गर्भो धनेश्वरः ॥ ६३ ॥

मूलम्

स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत्।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥ ६३ ॥

अनुवाद (हिन्दी)

४६५ स्वापनः -प्रलयकालमें समस्त प्राणियोंको अज्ञाननिद्रामें शयन करानेवाले, ४६६ स्ववशः -स्वतन्त्र, ४६७ व्यापी -आकाशकी भाँति सर्वव्यापी, ४६८ नैकात्मा -प्रत्येक युगमें लोकोद्धारके लिये अनेक रूप धारण करनेवाले, ४६९ नैककर्मकृत् -जगत्‌की उत्पत्ति, स्थिति और प्रलयरूप तथा भिन्न-भिन्न अवतारोंमें मनोहर लीलारूप अनेक कर्म करनेवाले, ४७० वत्सरः -सबके निवास-स्थान, ४७१ वत्सलः -भक्तोंके परम स्नेही, ४७२ वत्सी -वृन्दावनमें बछड़ोंका पालन करनेवाले, ४७३ रत्नगर्भः -रत्नोंको अपने गर्भमें धारण करनेवाले समुद्ररूप, ४७४ धनेश्वरः -सब प्रकारके धनोंके स्वामी॥६३॥

विश्वास-प्रस्तुतिः

धर्मगुब् धर्मकृद् धर्मी
सद् असत् क्षरम् अक्षरम् ।
अविज्ञाता सहस्रांशुर्
विधाता कृत-लक्षणः ॥ ६४ ॥

मूलम्

धर्मगुब् धर्मकृद् धर्मी सदसत्क्षरमक्षरम्।
अविज्ञाता सहस्रांशुर्विधाता कृतलक्षणः ॥ ६४ ॥

अनुवाद (हिन्दी)

४७५ धर्मगुप् -धर्मकी रक्षा करनेवाले, ४७६ धर्म-कृत् -धर्मकी स्थापना करनेके लिये स्वयं धर्मका आचरण करनेवाले, ४७७ धर्मी -सम्पूर्ण धर्मोंके आधार, ४७८ सत् -सत्यस्वरूप, ४७९ असत् -स्थूल जगत्स्वरूप, ४८० क्षरम् -सर्वभूतमय, ४८१ अक्षरम् -अविनाशी, ४८२ अविज्ञाता -क्षेत्रज्ञ जीवात्माको विज्ञाता कहते हैं, उनसे विलक्षण भगवान् विष्णु, ४८३ सहस्रांशुः -हजारों किरणोंवाले सूर्यस्वरूप, ४८४ विधाता -सबको अच्छी प्रकार धारण करनेवाले, ४८५ कृतलक्षणः -श्रीवत्स आदि चिह्नोंको धारण करनेवाले॥६४॥

विश्वास-प्रस्तुतिः

गभस्ति-नेमिः सत्त्वस्थः
सिंहो भूत-महेश्वरः ।
आदि-देवो महादेवो
देवेशो देवभृद् गुरुः ॥ ६५ ॥

मूलम्

गभस्तिनेमिः सत्त्वस्थः सिंहो भूतमहेश्वरः।
आदिदेवो महादेवो देवेशो देवभृद्‌गुरुः ॥ ६५ ॥

अनुवाद (हिन्दी)

४८६ गभस्तिनेमिः -किरणोंके बीचमें सूर्यरूपसे स्थित, ४८७ सत्त्वस्थः -अन्तर्यामीरूपसे समस्त प्राणियोंके अन्तःकरणमें स्थित रहनेवाले, ४८८ सिंहः -भक्त प्रह्लादके लिये नृसिंहरूप धारण करनेवाले, ४८९ भूतमहेश्वरः -सम्पूर्ण प्राणियोंके महान् ईश्वर, ४९० आदिदेवः -सबके आदि कारण और दिव्यस्वरूप, ४९१ महादेवः -ज्ञानयोग और ऐश्वर्य आदि महिमाओंसे युक्त, ४९२ देवेशः -समस्त देवोंके स्वामी, ४९३ देवभृद्‌गुरुः -देवोंका विशेषरूपसे भरण-पोषण करनेवाले उनके परम गुरु॥६५॥

विश्वास-प्रस्तुतिः

उत्तरो गोपतिर् गोप्ता
ज्ञान-गम्यः पुरातनः ।
शरीर-भूत-भृद् भोक्ता
+++(रामावतारे)+++ कपीन्द्रो भूरि-दक्षिणः ॥ ६६ ॥

मूलम्

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः।
शरीरभूतभृद् भोक्ता कपीन्द्रो भूरिदक्षिणः ॥ ६६ ॥

अनुवाद (हिन्दी)

४९४ उत्तरः -संसार-समुद्रसे उद्धार करनेवाले और सर्वश्रेष्ठ, ४९५ गोपतिः -गोपालरूपसे गायोंकी रक्षा करनेवाले, ४९६ गोप्ता -समस्त प्राणियोंका पालन और रक्षा करनेवाले, ४९७ ज्ञानगम्यः -ज्ञानके द्वारा जाननेमें आनेवाले, ४९८ पुरातनः -सदा एकरस रहनेवाले, सबके आदि पुराणपुरुष, ४९९ शरीरभूतभृत् -शरीरके उत्पादक पञ्चभूतोंका प्राणरूपसे पालन करनेवाले, ५०० भोक्ता -निरतिशय आनन्दपुंजको भोगनेवाले, ५०१ कपीन्द्रः -बंदरोंके स्वामी श्रीराम, ५०२ भूरिदक्षिणः -श्रीरामादि अवतारोंमें यज्ञ करते समय बहुत-सी दक्षिणा प्रदान करनेवाले॥६६॥

विश्वास-प्रस्तुतिः

सोमपोऽमृत-पः सोमः
पुरु-जित् पुरु-सत्-तमः ।
विनयो जयः सत्य-सन्धो
+++(कुलेन)+++ दाशार्हः, सात्वताम् पतिः ॥ ६७ ॥

मूलम्

सोमपोऽमृतपः सोमः पुरुजित् पुरुसत्तमः।
विनयो जयः सत्यसंधो दाशार्हः सात्वतां पतिः ॥ ६७ ॥

अनुवाद (हिन्दी)

५०३ सोमपः -यज्ञोंमें देवरूपसे और यजमानरूपसे सोमरसका पान करनेवाले, ५०४ अमृतपः -समुद्रमन्थनसे निकाला हुआ अमृत देवोंको पिलाकर स्वयं पीनेवाले, ५०५ सोमः -ओषधियोंका पोषण करनेवाले चन्द्रमारूप, ५०६ पुरुजित् -बहुतोंको विजय लाभ करनेवाले, ५०७ पुरुसत्तमः -विश्वरूप और अत्यन्त श्रेष्ठ, ५०८ विनयः -दुष्टोंको दण्ड देनेवाले, ५०९ जयः -सबपर विजय प्राप्त करनेवाले, ५१० सत्यसंधः -सच्ची प्रतिज्ञा करनेवाले, ५११ दाशार्हः -दाशार्हकुलमें प्रकट होनेवाले, ५१२ सात्वतां पतिः -यादवोंके और अपने भक्तोंके स्वामी॥६७॥

विश्वास-प्रस्तुतिः

जीवो +++(शरणागतादि-)+++विनयिता-साक्षी
मुकुन्दो ऽमित-विक्रमः ।
अम्भो-निधिर् अनन्तात्मा
महोदधि-शयो ऽन्तकः ॥ ६८ ॥

मूलम्

जीवो विनयितासाक्षी मुकुन्दोऽमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयोऽन्तकः ॥ ६८ ॥

अनुवाद (हिन्दी)

५१३ जीवः -क्षेत्रज्ञरूपसे प्राणोंको धारण करनेवाले, ५१४ विनयितासाक्षी -अपने शरणापन्न भक्तोंके विनय-भावको तत्काल प्रत्यक्ष अनुभव करनेवाले, ५१५ मुकुन्दः -मुक्तिदाता, ५१६ अमितविक्रमः -वामनावतारमें पृथ्वी नापते समय अत्यन्त विस्तृत पैर रखनेवाले, ५१७ अम्भोनिधिः -जलके निधान समुद्रस्वरूप, ५१८ अनन्तात्मा -अनन्तमूर्ति, ५१९ महोदधिशयः -प्रलयकालके महान् समुद्रमें शयन करनेवाले, ५२० अन्तकः -प्राणियोंका संहार करनेवाले मृत्युस्वरूप॥६८॥

विश्वास-प्रस्तुतिः

अजो महार्हः स्वाभाव्यो
जितामित्रः प्र-मोदनः ।
आनन्दो नन्दनो नन्दः
सत्यधर्मा त्रि-विक्रमः ॥ ६९ ॥

मूलम्

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥ ६९ ॥

अनुवाद (हिन्दी)

५२१ अजः -अकार भगवान् विष्णुका वाचक है, उससे उत्पन्न होनेवाले ब्रह्मास्वरूप, ५२२ महार्हः -पूजनीय, ५२३ स्वाभाव्यः -नित्य सिद्ध होनेके कारण स्वभावसे ही उत्पन्न न होनेवाले, ५२४ जितामित्रः -रावण-शिशुपालादि शत्रुओंको जीतनेवाले, ५२५ प्रमोदनः -स्मरणमात्रसे नित्य प्रमुदित करनेवाले, ५२६ आनन्दः -आनन्दस्वरूप, ५२७ नन्दनः -सबको प्रसन्न करनेवाले, ५२८ नन्दः -सम्पूर्ण ऐश्वर्योंसे सम्पन्न, ५२९ सत्यधर्मा -धर्मज्ञानादि सब गुणोंसे युक्त, ५३० त्रिविक्रमः -तीन डगमें तीनों लोकोंको नापनेवाले॥६९॥

विश्वास-प्रस्तुतिः

मह-र्षिः कपिलाचार्यः
कृतज्ञो मेदिनी-पतिः ।
त्रि-पदस् त्रि-दशाध्यक्षो
महा-शृङ्गः कृत+अन्त-कृत् ॥ ७० ॥

मूलम्

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः।
त्रिपदस्रिदशाध्यक्षो महाशृङ्गः कृतान्तकृत् ॥ ७० ॥

अनुवाद (हिन्दी)

५३१ महर्षिः कपिलाचार्यः -सांख्यशास्त्रके प्रणेता भगवान् कपिलाचार्य, ५३२ कृतज्ञः -अपने भक्तोंकी सेवाको बहुत मानकर अपनेको उनका ऋणी समझनेवाले, ५३३ मेदिनीपतिः -पृथ्वीके स्वामी, ५३४ त्रिपदः -त्रिलोकीरूप तीन पैरोंवाले विश्वरूप, ५३५ त्रिदशाध्यक्षः -देवताओंके स्वामी, ५३६ महाशृङ्गः -मत्स्यावतारमें महान् सींग धारण करनेवाले, ५३७ कृतान्तकृत् -स्मरण करनेवालोंके समस्त कर्मोंका अन्त करनेवाले॥७०॥

विश्वास-प्रस्तुतिः

महावराहो गोविन्दः
सुषेणः कनकाङ्गदी ।
गुह्यो गभीरो गहनो
गुप्तश् चक्र-गदा-धरः ॥ ७१ ॥

मूलम्

महावराहो गोविन्दः सुषेणः कनकाङ्गदी।
गुह्यो गभीरो गहनो गुप्तश्चक्रगदाधरः ॥ ७१ ॥

अनुवाद (हिन्दी)

५३८ महावराहः -हिरण्याक्षका वध करनेके लिये महावराहरूप धारण करनेवाले, ५३९ गोविन्दः -नष्ट हुई पृथ्वीको पुनः प्राप्त कर लेनेवाले, ५४० सुषेणः -पार्षदोंके समुदायरूप सुन्दर सेनासे सुसज्जित, ५४१ कनकाङ्गदी -सुवर्णका बाजूबंद धारण करनेवाले, ५४२ गुह्यः -हृदयाकाशमें छिपे रहनेवाले, ५४३ गभीरः -अतिशय गम्भीर स्वभाववाले, ५४४ गहनः -जिनके स्वरूपमें प्रविष्ट होना अत्यन्त कठिन हो—ऐसे, ५४५ गुप्तः -वाणी और मनसे जाननेमें न आनेवाले, ५४६ चक्रगदाधरः -भक्तोंकी रक्षा करनेके लिये चक्र और गदा आदि दिव्य आयुधोंको धारण करनेवाले॥७१॥

विश्वास-प्रस्तुतिः

वेधाः स्वाङ्गो ऽजितः कृष्णो
दृढः, सङ्कर्षणो ऽच्युतः ।
वरुणो +++(वसिष्ठात्मना)+++ वारुणो +++(अश्वत्थ-)+++वृक्षः
पुष्कराक्षो महामनाः ॥ ७२ ॥

मूलम्

वेधाः स्वाङ्गोऽजितः कृष्णो दृढः सङ्कर्षणोऽच्युतः।
वरुणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥ ७२ ॥

अनुवाद (हिन्दी)

५४७ वेधाः -सब कुछ विधान करनेवाले, ५४८ स्वाङ्गः -कार्य करनेमें स्वयं ही सहकारी, ५४९ अजितः -किसीके द्वारा न जीते जानेवाले, ५५० कृष्णः -श्यामसुन्दर श्रीकृष्ण, ५५१ दृढः -अपने स्वरूप और सामर्थ्यसे कभी भी च्युत न होनेवाले, ५५२ सङ्कर्षणोऽच्युतः -प्रलयकालमें एक साथ सबका संहार करनेवाले और जिनका कभी किसी भी कारणसे पतन न हो सके—ऐसे अविनाशी, ५५३ वरुणः -जलके स्वामी वरुणदेवता, ५५४ वारुणः -वरुणके पुत्र वशिष्ठस्वरूप, ५५५ वृक्षः -अश्वत्थवृक्षरूप, ५५६ पुष्कराक्षः -कमलके समान नेत्रवाले, ५५७ महामनाः -संकल्पमात्रसे उत्पत्ति, पालन और संहार आदि समस्त लीला करनेकी शक्तिवाले॥७२॥

विश्वास-प्रस्तुतिः

भगवान् भग-हा ऽऽनन्दी
वन-माली हलायुधः ।
आदित्यो ज्योतिर् आदित्यः
सहिष्णुर् गति-सत्तमः ॥ ७३ ॥

मूलम्

भगवान् भगहानन्दी वनमाली हलायुधः।
आदित्यो ज्योतिरादित्यः सहिष्णुर्गतिसत्तमः ॥ ७३ ॥

अनुवाद (हिन्दी)

५५८ भगवान् -उत्पत्ति और प्रलय, आना और जाना तथा विद्या और अविद्याको जाननेवाले एवं सर्वैश्वर्यादि छहों भगोंसे युक्त, ५५९ भगहा -अपने भक्तोंका प्रेम बढ़ानेके लिये उनके ऐश्वर्यका हरण करनेवाले, ५६० आनन्दी -परम सुखस्वरूप, ५६१ वनमाली -वैजयन्ती वनमाला धारण करनेवाले, ५६२ हलायुधः -हलरूप शस्त्रको धारण करनेवाले बलभद्रस्वरूप, ५६३ आदित्यः -अदितिपुत्र वामन-भगवान्, ५६४ ज्योतिरादित्यः -सूर्यमण्डलमें विराजमान ज्योतिःस्वरूप, ५६५ सहिष्णुः -समस्त द्वन्द्वोंको सहन करनेमें समर्थ, ५६६ गतिसत्तमः -सर्वश्रेष्ठ गतिस्वरूप॥७३॥

विश्वास-प्रस्तुतिः

सुधन्वा खण्ड+++(क)+++-परशुर्
दारुणो द्रविण-प्रदः ।
दिवि-स्पृक् सर्वदृग् व्यासो
वाचस्पतिर् अयोनिजः ॥ ७४ ॥

मूलम्

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविस्पृक् सर्वदृग् व्यासो वाचस्पतिरयोनिजः ॥ ७४ ॥

अनुवाद (हिन्दी)

५६७ सुधन्वा -अतिशय सुन्दर शार्ङ्गधनुष धारण करनेवाले, ५६८ खण्डपरशुः -शत्रुओंका खण्डन करनेवाले फरसेको धारण करनेवाले परशुरामस्वरूप, ५६९ दारुणः -सन्मार्गविरोधियोंके लिये महान् भयंकर, ५७० द्रविणप्रदः -अर्थार्थी भक्तोंको धन-सम्पत्ति प्रदान करनेवाले, ५७१ दिविस्पृक् -स्वर्गलोकतक व्याप्त, ५७२ सर्वदृग् व्यासः -सबके द्रष्टा एवं वेदका विभाग करनेवाले श्रीकृष्णद्वैपायन व्यासस्वरूप, ५७३ वाचस्पतिरयोनिजः -विद्याके स्वामी तथा बिना योनिके स्वयं ही प्रकट होनेवाले॥७४॥

विश्वास-प्रस्तुतिः

त्रिसामा सामगः साम
निर्वाणं भेषजं भिषक् ।
संन्यास-कृच् छमः शान्तो
निष्ठा शान्तिः परायणम् ॥ ७५ ॥

मूलम्

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक्।
संन्यासकृच्छमः शान्तो निष्ठा शान्तिः परायणम् ॥ ७५ ॥

अनुवाद (हिन्दी)

५७४ त्रिसामा -देवव्रत आदि तीन साम श्रुतियोंद्वारा जिनकी स्तुति की जाती है—ऐसे परमेश्वर, ५७५ सामगः -सामवेदका गान करनेवाले, ५७६ साम -सामवेदस्वरूप, ५७७ निर्वाणम् -परमशान्तिके निधान परमानन्दस्वरूप, ५७८ भेषजम् -संसार-रोगकी ओषधि, ५७९ भिषक् -संसाररोगका नाश करनेके लिये गीतारूप उपदेशामृतका पान करानेवाले परम वैद्य, ५८० संन्यासकृत् -मोक्षके लिये संन्यासाश्रम और संन्यासयोगका निर्माण करनेवाले, ५८१ शमः -उपशमताका उपदेश देनेवाले, ५८२ शान्तः -परम शान्तस्वरूप, ५८३ निष्ठा -सबकी स्थितिके आधार अधिष्ठानस्वरूप, ५८४ शान्तिः -परम शान्तिस्वरूप, ५८५ परायणम् -मुमुक्षु पुरुषोंके परम प्राप्य-स्थान॥७५॥

विश्वास-प्रस्तुतिः

शुभाङ्गः शान्तिदः स्रष्टा
कुमुदः कुवले+++(=जले)+++शयः ।
गोहितो गोपतिर् गोप्ता
वृषभाक्षो वृषप्रियः ॥ ७६ ॥

मूलम्

शुभाङ्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥ ७६ ॥

अनुवाद (हिन्दी)

५८६ शुभाङ्गः -अति मनोहर परम सुन्दर अंगोंवाले, ५८७ शान्तिदः -परम शान्ति देनेवाले, ५८८ स्रष्टा -सर्गके आदिमें सबकी रचना करनेवाले, ५८९ कुमुदः -पृथ्वीपर प्रसन्नतापूर्वक लीला करनेवाले, ५९० कुवलेशयः -जलमें शेषनागकी शय्यापर शयन करनेवाले, ५९१ गोहितः -गोपालरूपसे गायोंका और अवतार धारण करके भार उतारकर पृथ्वीका हित करनेवाले, ५९२ गोपतिः -पृथ्वीके और गायोंके स्वामी, ५९३ गोप्ता -अवतार धारण करके सबके सम्मुख प्रकट होते समय अपनी मायासे अपने स्वरूपको आच्छादित करनेवाले, ५९४ वृषभाक्षः -समस्त कामनाओंकी वर्षा करनेवाली कृपादृष्टिसे युक्त, ५९५ वृषप्रियः -धर्मसे प्यार करनेवाले॥७६॥

विश्वास-प्रस्तुतिः

अनिवर्ती निवृत्तात्मा
सङ्क्षेप्ता क्षेम-कृच् छिवः ।
श्रीवत्स-वक्षाः श्रीवासः
श्री-पतिः, श्रीमतां वरः ॥ ७७ ॥

मूलम्

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृच्छिवः।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥ ७७ ॥

अनुवाद (हिन्दी)

५९६ अनिवर्ती -रणभूमिमें और धर्मपालनमें पीछे न हटनेवाले, ५९७ निवृत्तात्मा -स्वभावसे ही विषय-वासनारहित नित्य शुद्ध मनवाले, ५९८ संक्षेप्ता -विस्तृत जगत्‌को संहारकालमें संक्षिप्त यानी सूक्ष्म करनेवाले, ५९९ क्षेमकृत् -शरणागतकी रक्षा करनेवाले, ६०० शिवः -स्मरणमात्रसे पवित्र करनेवाले कल्याणस्वरूप, ६०१ श्रीवत्सवक्षाः -श्रीवत्स नामक चिह्नको वक्षःस्थलमें धारण करनेवाले, ६०२ श्रीवासः -श्रीलक्ष्मीजीके वासस्थान, ६०३ श्रीपतिः -परमशक्तिरूपा श्रीलक्ष्मीजीके स्वामी, ६०४ श्रीमतां वरः -सब प्रकारकी सम्पत्ति और ऐश्वर्यसे युक्त ब्रह्मादि समस्त लोकपालोंसे श्रेष्ठ॥७७॥

विश्वास-प्रस्तुतिः

श्रीदः श्रीशः श्रीनिवासः
श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः
श्रीमाल्ँ लोक-त्रयाश्रयः ॥ ७८ ॥

मूलम्

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः।
श्रीधरः श्रीकरः श्रेयः श्रीमाल्ँलोकत्रयाश्रयः ॥ ७८ ॥

अनुवाद (हिन्दी)

६०५ श्रीदः -भक्तोंको श्री प्रदान करनेवाले, ६०६ श्रीशः -लक्ष्मीके नाथ, ६०७ श्रीनिवासः -श्रीलक्ष्मीजीके अन्तःकरणमें नित्य निवास करनेवाले, ६०८ श्रीनिधिः -समस्त श्रियोंके आधार, ६०९ श्रीविभावनः -सब मनुष्योंके लिये उनके कर्मानुसार नाना प्रकारके ऐश्वर्य प्रदान करनेवाले, ६१० श्रीधरः -जगज्जननी श्रीको वक्षःस्थलमें धारण करनेवाले, ६११ श्रीकरः -स्मरण, स्तवन और अर्चन आदि करनेवाले भक्तोंके लिये श्रीका विस्तार करनेवाले, ६१२ श्रेयः -कल्याणस्वरूप, ६१३ श्रीमान् -सब प्रकारकी श्रियोंसे युक्त, ६१४ लोकत्रयाश्रयः -तीनों लोकोंके आधार॥७८॥

विश्वास-प्रस्तुतिः

स्वक्षः स्वङ्गः शतानन्दो
नन्दिर् ज्योतिर् गणेश्वरः ।
विजितात्मा ऽविधेयात्मा
सत्कीर्तिश् छिन्न-संशयः ॥ ७९ ॥

मूलम्

स्वक्षः स्वङ्गः शतानन्दो नन्दिर्ज्योतिर्गणेश्वरः।
विजितात्माविधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥ ७९ ॥

अनुवाद (हिन्दी)

६१५ स्वक्षः -मनोहर कृपाकटाक्षसे युक्त परम सुन्दर आँखोंवाले, ६१६ स्वङ्गः -अतिशय कोमल, परम सुन्दर, मनोहर अंगोंवाले, ६१७ शतानन्दः -लीलाभेदसे सैकड़ों विभागोंमें विभक्त आनन्दस्वरूप, ६१८ नन्दिः -परमानन्दस्वरूप, ६१९ ज्योतिर्गणेश्वरः -नक्षत्रसमुदायोंके ईश्वर, ६२० विजितात्मा -जिते हुए मनवाले, ६२१ अविधेयात्मा -जिनके असली स्वरूपका किसी प्रकार भी वर्णन नहीं किया जा सके—ऐसे अनिर्वचनीयस्वरूप, ६२२ सत्कीर्तिः -सच्ची कीर्तिवाले, ६२३ छिन्नसंशयः -सब प्रकारके संशयोंसे रहित॥७९॥

विश्वास-प्रस्तुतिः

उदीर्णः सर्वतश्-चक्षुर्
अनीशः शाश्वत-स्थिरः ।
भू-शयो भूषणो भूतिर्
विशोकः शोक-नाशनः ॥ ८० ॥

मूलम्

उदीर्णः सर्वतश्चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥ ८० ॥

अनुवाद (हिन्दी)

६२४ उदीर्णः -सब प्राणियोंसे श्रेष्ठ, ६२५ सर्वतश्चक्षुः -समस्त वस्तुओंको सब दिशाओंमें सदा-सर्वदा देखनेकी शक्तिवाले, ६२६ अनीशः -जिनका दूसरा कोई शासक न हो—ऐसे स्वतन्त्र, ६२७ शाश्वतस्थिरः -सदा एकरस स्थिर रहनेवाले, निर्विकार, ६२८ भूशयः -लंकागमनके लिये मार्गकी याचना करते समय समुद्रतटकी भूमिपर शयन करनेवाले, ६२९ भूषणः -स्वेच्छासे नाना अवतार लेकर अपने चरण-चिह्नोंसे भूमिकी शोभा बढ़ानेवाले, ६३० भूतिः -समस्त विभूतियोंके आधारस्वरूप, ६३१ विशोकः -सब प्रकारसे शोकरहित, ६३२ शोकनाशनः -स्मृतिमात्रसे भक्तोंके शोकका समूल नाश करनेवाले॥८०॥

विश्वास-प्रस्तुतिः

अर्चिष्मान् अर्चितः +++(सर्व-निवास-भूत इति)+++ कुम्भो
विशुद्धात्मा विशोधनः ।
अनिरुद्धो ऽप्रति-रथः
प्रद्युम्नो ऽमित-विक्रमः ॥ ८१ ॥

मूलम्

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥ ८१ ॥

अनुवाद (हिन्दी)

६३३ अर्चिष्मान् -चन्द्र-सूर्य आदि समस्त ज्योतियोंको देदीप्यमान करनेवाली अतिशय प्रकाशमय अनन्त किरणोंसे युक्त, ६३४ अर्चितः -ब्रह्मादि समस्त लोकोंसे पूजे जानेवाले, ६३५ कुम्भः -घटकी भाँति सबके निवासस्थान, ६३६ विशुद्धात्मा -परम शुद्ध निर्मल आत्मस्वरूप, ६३७ विशोधनः -स्मरणमात्रसे समस्त पापोंका नाश करके भक्तोंके अन्तःकरणको परम शुद्ध कर देनेवाले, ६३८ अनिरुद्धः -जिनको कोई बाँधकर नहीं रख सके—ऐसे चतुर्व्यूहमें अनिरुद्धस्वरूप, ६३९ अप्रतिरथः -प्रतिपक्षसे रहित, ६४० प्रद्युम्नः -परम श्रेष्ठ अपार धनसे युक्त चतुर्व्यूहमें प्रद्युम्नस्वरूप, ६४१ अमितविक्रमः -अपार पराक्रमी॥८१॥

विश्वास-प्रस्तुतिः

कालनेमि-निहा वीरः
शौरिः शूर-जनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः
केशवः केशिहा हरिः ॥ ८२ ॥

मूलम्

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥ ८२ ॥

अनुवाद (हिन्दी)

६४२ कालनेमिनिहा -कालनेमि नामक असुरको मारनेवाले, ६४३ वीरः -परम शूरवीर, ६४४ शौरिः -शूरकुलमें उत्पन्न होनेवाले श्रीकृष्णस्वरूप, ६४५ शूरजनेश्वरः -अतिशय शूरवीरताके कारण इन्द्रादि शूरवीरोंके भी इष्ट, ६४६ त्रिलोकात्मा -अन्तर्यामीरूपसे तीनों लोकोंके आत्मा, ६४७ त्रिलोकेशः -तीनों लोकोंके स्वामी, ६४८ केशवः -ब्रह्मा, विष्णु और शिव-स्वरूप, ६४९ केशिहा -केशी नामके असुरको मारनेवाले, ६५० हरिः -स्मरणमात्रसे समस्त पापोंका हरण करनेवाले॥८२॥

विश्वास-प्रस्तुतिः

कामदेवः कामपालः
कामी कान्तः कृतागमः ।
अनिर्देश्य-वपुर् विष्णुर्
वीरोऽनन्तो धनञ्जयः ॥ ८३ ॥

मूलम्

कामदेवः कामपालः कामी कान्तः कृतागमः।
अनिर्देश्यवपुर्विष्णुर्वीरोऽनन्तो धनंजयः ॥ ८३ ॥

अनुवाद (हिन्दी)

६५१ कामदेवः -धर्म, अर्थ, काम और मोक्ष—इन चारों पुरुषार्थोंको चाहनेवाले मनुष्योंद्वारा अभिलषित समस्त कामनाओंके अधिष्ठाता परमदेव, ६५२ कामपालः -सकामी भक्तोंकी कामनाओंकी पूर्ति करनेवाले, ६५३ कामी -अपने प्रियतमोंको चाहनेवाले, ६५४ कान्तः -परम मनोहर स्वरूप, ६५५ कृतागमः -समस्त वेद और शास्त्रोंको रचनेवाले, ६५६ अनिर्देश्यवपुः -जिनके दिव्य स्वरूपका किसी प्रकार भी वर्णन नहीं किया जा सके—ऐसे अनिर्वचनीय शरीरवाले, ६५७ विष्णुः -शेषशायी भगवान् विष्णु, ६५८ वीरः -बिना ही पैरोंके गमन करनेकी दिव्य शक्तिसे युक्त, ६५९ अनन्तः -जिनके स्वरूप, शक्ति, ऐश्वर्य, सामर्थ्य और गुणोंका कोई भी पार नहीं पा सकता—ऐसे अविनाशी गुण, प्रभाव और शक्तियोंसे युक्त, ६६० धनञ्जयः -अर्जुनरूपसे दिग्‌विजयके समय बहुत-सा धन जीतकर लानेवाले॥८३॥

विश्वास-प्रस्तुतिः

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा
ब्रह्म ब्रह्म-विवर्धनः ।
ब्रह्म-विद् ब्राह्मणो ब्रह्मी
ब्रह्मज्ञो ब्राह्मण-प्रियः ॥ ८४ ॥

मूलम्

ब्रह्मण्यो ब्रह्मकृद् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥ ८४ ॥

अनुवाद (हिन्दी)

६६१ ब्रह्मण्यः -तप, वेद, ब्राह्मण और ज्ञानकी रक्षा करनेवाले, ६६२ ब्रह्मकृत् -पूर्वोक्त तप आदिकी रचना करनेवाले, ६६३ ब्रह्मा -ब्रह्मारूपसे जगत्‌को उत्पन्न करनेवाले, ६६४ ब्रह्म -सच्चिदानन्दस्वरूप, ६६५ ब्रह्मविवर्धनः -पूर्वाक्त ब्रह्मशब्दवाची तप आदिकी वृद्धि करनेवाले, ६६६ ब्रह्मवित् -वेद और वेदार्थको पूर्णतया जाननेवाले, ६६७ ब्राह्मणः -समस्त वस्तुओंको ब्रह्मरूपसे देखनेवाले, ६६८ ब्रह्मी -ब्रह्मशब्दवाची तपादि समस्त पदार्थोंके अधिष्ठान, ६६९ ब्रह्मज्ञः -अपने आत्मस्वरूप ब्रह्मशब्दवाची वेदको पूर्णतया यथार्थ जाननेवाले, ६७० ब्राह्मणप्रियः -ब्राह्मणोंको अतिशय प्रिय माननेवाले॥८४॥

विश्वास-प्रस्तुतिः

महाक्रमो महाकर्मा
महातेजा महोरगः ।
महाक्रतुर् महायज्वा
महायज्ञो महाहविः ॥ ८५ ॥

मूलम्

महाक्रमो महाकर्मा महातेजा महोरगः।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥ ८५ ॥

अनुवाद (हिन्दी)

६७१ महाक्रमः -बड़े वेगसे चलनेवाले, ६७२ महाकर्मा -भिन्न-भिन्न अवतारोंमें नाना प्रकारके महान् कर्म करनेवाले, ६७३ महातेजाः -जिसके तेजसे समस्त सूर्य आदि तेजस्वी देदीप्यमान होते हैं—ऐसे महान् तेजस्वी, ६७४ महोरगः -बड़े भारी सर्प यानी वासुकिस्वरूप, ६७५ महाक्रतुः -महान् यज्ञस्वरूप, ६७६ महायज्वा -लोकसंग्रहके लिये बड़े-बड़े यज्ञोंका अनुष्ठान करनेवाले, ६७७ महायज्ञः -जपयज्ञ आदि भगवत्प्राप्तिके साधनरूप समस्त यज्ञ जिनकी विभूतियाँ हैं—ऐसे महान् यज्ञस्वरूप, ६७८ महाहविः -ब्रह्मरूप अग्निमें हवन किये जाने योग्य प्रपञ्चरूप हवि जिनका स्वरूप है—ऐसे महान् हविःस्वरूप॥८५॥

विश्वास-प्रस्तुतिः

स्तव्यः स्तवप्रियः स्तोत्रं
स्तुतिः स्तोता रण-प्रियः ।
पूर्णः पूरयिता पुण्यः
पुण्यकीर्तिर् अनामयः ८६ ॥

मूलम्

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥ ८६ ॥

अनुवाद (हिन्दी)

६७९ स्तव्यः -सबके द्वारा स्तुति किये जाने योग्य, ६८० स्तवप्रियः -स्तुतिसे प्रसन्न होनेवाले, ६८१ स्तोत्रम् -जिनके द्वारा भगवान्‌के गुण-प्रभावका कीर्तन किया जाता है, वह स्तोत्र, ६८२ स्तुतिः -स्तवनक्रियास्वरूप, ६८३ स्तोता -स्तुति करनेवाले, ६८४ रणप्रियः -युद्धमें प्रेम करनेवाले, ६८५ पूर्णः -समस्त ज्ञान, शक्ति, ऐश्वर्य और गुणोंसे परिपूर्ण, ६८६ पूरयिता -अपने भक्तोंको सब प्रकारसे परिपूर्ण करनेवाले, ६८७ पुण्यः -स्मरणमात्रसे पापोंका नाश करनेवाले पुण्यस्वरूप, ६८८ पुण्यकीर्तिः -परमपावन कीर्तिवाले, ६८९ अनामयः -आन्तरिक और बाह्य सब प्रकारकी व्याधियोंसे रहित॥८६॥

विश्वास-प्रस्तुतिः

मनोजवस् तीर्थकरो
वसु-रेता वसु-प्रदः ।
वसु+++(=देवविशेष)+++-प्रदो वासुदेवो
वसुर् वसुमना हविः ॥ ८७ ॥

मूलम्

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥ ८७ ॥

अनुवाद (हिन्दी)

६९० मनोजवः -मनकी भाँति वेगवाले, ६९१ तीर्थकरः -समस्त विद्याओंके रचयिता और उपदेशकर्ता, ६९२ वसुरेताः -हिरण्यमय पुरुष (प्रथम पुरुषसृष्टिका बीज) जिनका वीर्य है—ऐसे सुवर्णवीर्य, ६९३ वसुप्रदः -प्रचुर धन प्रदान करनेवाले, ६९४ वसुप्रदः -अपने भक्तोंको मोक्षरूप महान् धन देनेवाले, ६९५ वासुदेवः -वसुदेवपुत्र श्रीकृष्ण, ६९६ वसुः -सबके अन्तःकरणमें निवास करनेवाले, ६९७ वसुमनाः -समानभावसे सबमें निवास करनेकी शक्तिसे युक्त मनवाले, ६९८ हविः -यज्ञमें हवन किये जाने योग्य हविःस्वरूप॥८७॥

विश्वास-प्रस्तुतिः

सद्गतिः सत्कृतिः सत्ता
सद्-भूतिः सत्-परायणः ।
शूर-सेनो यदु-श्रेष्ठः
सन्-निवासः सुयामुनः ॥ ८८ ॥

मूलम्

सद्‌गतिः सत्कृतिः सत्ता सद्‌भूतिः सत्परायणः।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥ ८८ ॥

अनुवाद (हिन्दी)

६९९ सद्‌गतिः -सत्पुरुषोंद्वारा प्राप्त किये जाने योग्य गतिस्वरूप, ७०० सत्कृतिः -जगत्‌की रक्षा आदि सत्कार्य करनेवाले, ७०१ सत्ता -सदा-सर्वदा विद्यमान सत्तास्वरूप, ७०२ सद्‌भूतिः -बहुत प्रकारसे बहुत रूपोंमें भासित होनेवाले, ७०३ सत्परायणः -सत्पुरुषोंके परम प्रापणीय स्थान, ७०४ शूरसेनः -हनुमानादि श्रेष्ठ शूरवीर योद्धाओंसे युक्त सेनावाले, ७०५ यदुश्रेष्ठः -यदुवंशियोंमें सर्वश्रेष्ठ, ७०६ सन्निवासः -सत्पुरुषोंके आश्रय, ७०७ सुयामुनः -जिनके परिकर यमुना-तट निवासी गोपालबाल आदि अति सुन्दर हैं, ऐसे श्रीकृष्ण॥८८॥

विश्वास-प्रस्तुतिः

भूतावासो वासुदेवः
सर्वाऽसु-निलयो ऽनलः ।
दर्पहा दर्पदो दृप्तो
दुर्धरो ऽथापराजितः ॥ ८९ ॥

मूलम्

भूतावासो वासुदेवः सर्वासुनिलयोऽनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरोऽथापराजितः ॥ ८९ ॥

अनुवाद (हिन्दी)

७०८ भूतावासः -समस्त प्राणियोंके मुख्य निवास-स्थान, ७०९ वासुदेवः -अपनी मायासे जगत्‌को आच्छादित करनेवाले परमदेव, ७१० सर्वासुनिलयः -समस्त प्राणियोंके आधार, ७११ अनलः -अपार शक्ति और सम्पत्तिसे युक्त, ७१२ दर्पहा -धर्मविरुद्ध मार्गमें चलनेवालोंके घमण्डको नष्ट करनेवाले, ७१३ दर्पदः -अपने भक्तोंको विशुद्ध उत्साह प्रदान करनेवाले, ७१४ दृप्तः -नित्यानन्दमग्न, ७१५ दुर्धरः -बड़ी कठिनतासे हृदयमें धारित होनेवाले, ७१६ अपराजितः -दूसरोंसे अजित॥८९॥

विश्वास-प्रस्तुतिः

विश्वमूर्तिर् महामूर्तिर्
दीप्तमूर्तिर् अमूर्तिमान् ।
अनेकमूर्तिर् अव्यक्तः
शतमूर्तिः शताननः ॥ ९० ॥

मूलम्

विश्वमूर्तिर्महामूर्तिर्दीप्तमूर्तिरमूर्तिमान् ।
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥ ९० ॥

अनुवाद (हिन्दी)

७१७ विश्वमूर्तिः -समस्त विश्व ही जिनकी मूर्ति है—ऐसे विराट्‌स्वरूप, ७१८ महामूर्तिः -बड़े रूपवाले, ७१९ दीप्तमूर्तिः -स्वेच्छासे धारण किये हुए देदीप्यमान स्वरूपसे युक्त, ७२० अमूर्तिमान् -जिनकी कोई मूर्ति नहीं—ऐसे निराकार, ७२१ अनेकमूर्तिः -नाना अवतारोंमें स्वेच्छासे लोगोंका उपकार करनेके लिये बहुत मूर्तियोंको धारण करनेवाले, ७२२ अव्यक्तः -अनेक मूर्ति होते हुए भी जिनका स्वरूप किसी प्रकार व्यक्त न किया जा सके—ऐसे अप्रकटस्वरूप, ७२३ शतमूर्तिः -सैकड़ों मूर्तियोंवाले, ७२४ शताननः -सैकड़ों मुखोंवाले॥९०॥

विश्वास-प्रस्तुतिः

एको नैकः सवः कः, किं
यत्, तत्, पदम् अनुत्तमम् ।+++(५)+++
लोकबन्धुर् लोकनाथो
माधवो भक्तवत्सलः ॥ ९१ ॥

मूलम्

एको नैकः सवः कः किं यत् तत् पदमनुत्तमम्।
लोकबन्धुर्लोकनाथो माधवो भक्तवत्सलः ॥ ९१ ॥

अनुवाद (हिन्दी)

७२५ एकः -सब प्रकारके भेद-भावोंसे रहित अद्वितीय, ७२६ नैकः -अवतार-भेदसे अनेक, ७२७ सवः -जिनमें सोमनामकी ओषधिका रस निकाला जाता है—ऐसे यज्ञ-स्वरूप, ७२८ कः -सुखस्वरूप, ७२९ किम् -विचारणीय ब्रह्मस्वरूप, ७३० यत् -स्वतःसिद्ध, ७३१ तत् -विस्तार करनेवाले, ७३२ पदमनुत्तमम् -मुमुक्षु पुरुषोंद्वारा प्राप्त किये जाने योग्य अत्युत्तम परमपदस्वरूप, ७३३ लोकबन्धुः -समस्त प्राणियोंके हित करनेवाले परम मित्र, ७३४ लोकनाथः -सबके द्वारा याचना किये जानेयोग्य लोकस्वामी, ७३५ माधवः -मधुकुलमें उत्पन्न होनेवाले, ७३६ भक्तवत्सलः -भक्तोंसे प्रेम करनेवाले॥९१॥

विश्वास-प्रस्तुतिः

सुवर्णवर्णो हेमाङ्गो
वराङ्गश् चन्दनाङ्गदी ।
वीरहा विषमः शून्यो
घृताशीर् अचलश् चलः ॥ ९२ ॥

मूलम्

सुवर्णवर्णो हेमाङ्गो वराङ्गश्चन्दनाङ्गदी ।
वीरहा विषमः शून्यो घृताशीरचलश्चलः ॥ ९२ ॥

अनुवाद (हिन्दी)

७३७ सुवर्णवर्णः -सोनेके समान पीतवर्णवाले, ७३८ हेमाङ्गः -सोनेके समान चमकीले अङ्गोंवाले, ७३९ वराङ्गः -परम श्रेष्ठ अंग-प्रत्यंगोंवाले, ७४० चन्दनाङ्गदी -चन्दनके लेप और बाजूबंदसे सुशोभित, ७४१ वीरहा -शूरवीर असुरोंका नाश करनेवाले, ७४२ विषमः -जिनके समान दूसरा कोई नहीं—ऐसे अनुपम, ७४३ शून्यः -समस्त विशेषणोंसे रहित, ७४४ घृताशीः -अपने आश्रित जनोंके लिये कृपासे सने हुए द्रवित संकल्प करनेवाले, ७४५ अचलः -किसी प्रकार भी विचलित न होनेवाले—अविचल, ७४६ चलः -वायुरूपसे सर्वत्र गमन करनेवाले॥९२॥

विश्वास-प्रस्तुतिः

अमानी मानदो मान्यो
लोक-स्वामी त्रिलोक-धृक् ।
सु-मेधा मेध-जो धन्यः
सत्य-मेधा धरा-धरः ॥ ९३ ॥

मूलम्

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक्।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥ ९३ ॥

अनुवाद (हिन्दी)

७४७ अमानी -स्वयं मान न चाहनेवाले, ७४८ मानदः -दूसरोंको मान देनेवाले, ७४९ मान्यः -सबके पूजनेयोग्य माननीय, ७५० लोकस्वामी -चौदह भुवनोंके स्वामी, ७५१ त्रिलोकधृक् -तीनों लोकोंको धारण करनेवाले, ७५२ सुमेधाः -अति उत्तम सुन्दर बुद्धिवाले, ७५३ मेधजः -यज्ञमें प्रकट होनेवाले, ७५४ धन्यः -नित्य कृतकृत्य होनेके कारण सर्वथा धन्यवादके पात्र, ७५५ सत्यमेधाः -सच्ची और श्रेष्ठ बुद्धिवाले, ७५६ धराधरः -अनन्त भगवान्‌के रूपसे पृथ्वीको धारण करनेवाले॥९३॥

विश्वास-प्रस्तुतिः

तेजो-वृषो द्युति-धरः
सर्व-शस्त्र-भृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो
नैक-शृङ्गो गदाग्रजः ॥ ९४ ॥

मूलम्

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः।
प्रग्रहो निग्रहो व्यग्रो नैकशृङ्गो गदाग्रजः ॥ ९४ ॥

अनुवाद (हिन्दी)

७५७ तेजोवृषः -अपने भक्तोंपर आनन्दमय तेजकी वर्षा करनेवाले, ७५८ द्युतिधरः -परम कान्तिको धारण करनेवाले, ७५९ सर्वशस्त्रभृतां वरः -समस्त शस्त्रधारियोंमें श्रेष्ठ, ७६० प्रग्रहः -भक्तोंके द्वारा अर्पित पत्र-पुष्पादिको ग्रहण करनेवाले, ७६१ निग्रहः -सबका निग्रह करनेवाले, ७६२ व्यग्रः -अपने भक्तोंको अभीष्ट फल देनेमें लगे हुए, ७६३ नैकशृङ्गः -नाम, आख्यात, उपसर्ग और निपातरूप चार सींगोंको धारण करनेवाले शब्दब्रह्मस्वरूप, ७६४ गदाग्रजः -गदसे पहले जन्म लेनेवाले श्रीकृष्ण॥९४॥

विश्वास-प्रस्तुतिः

चतुर्-मूर्तिश् चतुर्-बाहुश्
चतुर्-व्यूहश् चतुर्-गतिः ।
चतुर्-आत्मा चतुर्-भावश्
चतुर्-वेद-विद् +++(पुरुषसूक्तानुसारेण विश्वव्याप्तौ)+++ एक-पात् ॥ ९५ ॥

मूलम्

चतुर्मूर्तिश्चतुर्बाहुश्चतुर्व्यूहश्चतुर्गतिः ।
चतुरात्मा चतुर्भावश्चतुर्वेदविदेकपात् ॥ ९५ ॥

अनुवाद (हिन्दी)

७६५ चतुर्मूर्तिः -राम, लक्ष्मण, भरत, शत्रुघ्नरूप चार मूर्तियोंवाले, ७६६ चतुर्बाहुः -चार भुजाओंवाले, ७६७ चतुर्व्यूहः -वासुदेव, संकर्षण, प्रद्युम्न और अनिरुद्ध—इन चार व्यूहोंसे युक्त, ७६८ चतुर्गतिः -सालोक्य, सामीप्य, सारूप्य, सायुज्यरूप चार परम गतिस्वरूप, ७६९ चतुरात्मा -मन, बुद्धि, अहंकार और चित्तरूप चार अन्तःकरणवाले, ७७० चतुर्भावः -धर्म, अर्थ, काम और मोक्ष—इन चारों पुरुषार्थोंके उत्पत्तिस्थान, ७७१ चतुर्वेदवित् -चारों वेदोंके अर्थको भलीभाँति जाननेवाले, ७७२ एकपात् -एक पादवाले यानी एक पाद (अंश)-से समस्त विश्वको व्याप्त करनेवाले॥९५॥

विश्वास-प्रस्तुतिः

समावर्तो ऽनिवृत्तात्मा
दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो
दुरावासो दुरारिहा ॥ ९६ ॥

मूलम्

समावर्तोऽनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
दुर्लभो दुर्गमो दुर्गो दुरावासो दुरारिहा ॥ ९६ ॥

अनुवाद (हिन्दी)

७७३ समावर्तः -संसारचक्रको भलीभाँति घुमानेवाले, ७७४ अनिवृत्तात्मा -सर्वत्र विद्यमान होनेके कारण जिनका आत्मा कहींसे भी हटा हुआ नहीं है, ऐसे, ७७५ दुर्जयः -किसीसे भी जीतनेमें न आनेवाले, ७७६ दुरतिक्रमः -जिनकी आज्ञाका कोई उल्लंघन नहीं कर सके, ऐसे, ७७७ दुर्लभः -बिना भक्तिके प्राप्त न होनेवाले, ७७८ दुर्गमः -कठिनतासे जाननेमें आनेवाले, ७७९ दुर्गः -कठिनतासे प्राप्त होनेवाले, ७८० दुरावासः -बड़ी कठिनतासे योगीजनोंद्वारा हृदयमें बसाये जानेवाले, ७८१ दुरारिहा -दुष्ट मार्गमें चलनेवाले दैत्योंका वध करनेवाले॥९६॥

विश्वास-प्रस्तुतिः

शुभाङ्गो लोक-सारङ्-गः
सुतन्तुस् तन्तु-वर्धनः ।
इन्द्र-कर्मा महा-कर्मा
कृत-कर्मा कृतागमः ॥ ९७ ॥

मूलम्

शुभाङ्गो लोकसारङ्गः सुतन्तुस्तन्तुवर्धनः ।
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥ ९७ ॥

अनुवाद (हिन्दी)

७८२ शुभाङ्गः -कल्याणकारक सुन्दर अंगोंवाले, ७८३ लोकसारङ्गः -लोकोंके सारको ग्रहण करनेवाले, ७८४ सु तन्तुः -सुन्दर विस्तृत जगत्‌रूप तन्तुवाले, ७८५ तन्तु वर्धनः -पूर्वोक्त जगत्-तन्तुको बढ़ानेवाले, ७८६ इन्द्रकर्मा -इन्द्रके समान कर्मवाले, ७८७ महाकर्मा -बड़े-बड़े कर्म करनेवाले, ७८८ कृतकर्मा -जो समस्त कर्तव्य कर्म कर चुके हों, जिनका कोई कर्तव्य शेष न रहा हो—ऐसे कृतकृत्य, ७८९ कृतागमः -स्वोचित अनेक कार्योंको पूर्ण करनेके लिये अवतार धारण करके आनेवाले॥९७॥

विश्वास-प्रस्तुतिः

उद्भवः सुन्दरः सुन्दो+++(=करुणाशीलः)+++
रत्न-नाभः सु-लोचनः ।
अर्को वाज-सनः शृङ्गी
जयन्तः सर्व-विज् जयी ॥ ९८ ॥

मूलम्

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः।
अर्को वाजसनः शृङ्गी जयन्तः सर्वविज्जयी ॥ ९८ ॥

अनुवाद (हिन्दी)

७९० उद्भवः -स्वेच्छासे श्रेष्ठ जन्म धारण करनेवाले, ७९१ सुन्दरः -परम सुन्दर, ७९२ सुन्दः -परम करुणाशील, ७९३ रत्ननाभः -रत्नके समान सुन्दर नाभिवाले, ७९४ सुलोचनः -सुन्दर नेत्रोंवाले, ७९५ अर्कः -ब्रह्मादि पूज्य पुरुषोंके भी पूजनीय, ७९६ वाजसनः -याचकोंको अन्न प्रदान करनेवाले, ७९७ शृङ्गी -प्रलयकालमें सींगयुक्त मत्स्यविशेषका रूप धारण करनेवाले, ७९८ जयन्तः -शत्रुओंको पूर्णतया जीतनेवाले, ७९९ सर्वविज्जयी -सब कुछ जाननेवाले और सबको जीतनेवाले॥९८॥

विश्वास-प्रस्तुतिः

सुवर्ण-बिन्दुर् अक्षोभ्यः
सर्व-वागीश्वरेश्वरः ।
महा-ह्रदो महा-गर्तो
महा-भूतो महा-निधिः ॥ ९९ ॥

मूलम्

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
महाह्रदो महागर्तो महाभूतो महानिधिः ॥ ९९ ॥

अनुवाद (हिन्दी)

८०० सुवर्णबिन्दुः -सुन्दर अक्षर और बिन्दुसे युक्त ओंकारस्वरूप, ८०१ अक्षोभ्यः -किसीके द्वारा भी क्षुभित न किये जा सकनेवाले, ८०२ सर्ववागीश्वरेवरः -समस्त वाणीपतियोंके यानी ब्रह्मादिके भी स्वामी, ८०३ महाह्रदः -ध्यान करनेवाले जिसमें गोता लगाकर आनन्दमें मग्न होते हैं, ऐसे परमानन्दके महान् सरोवर, ८०४ महागर्तः -महान् रथवाले, ८०५ महाभूतः -त्रिकालमें कभी नष्ट न होनेवाले महाभूतस्वरूप, ८०६ महानिधिः -सबके महान् निवास-स्थान॥९९॥

विश्वास-प्रस्तुतिः

कुमुदः कुन्+++(=भूमिन्)+++दरः
कुन्दः पर्जन्यः पावनोऽनिलः ।
अमृताशो ऽमृतवपुः
सर्व-ज्ञः सर्वतो-मुखः ॥ १०० ॥

मूलम्

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनोऽनिलः।
अमृताशोऽमृतवपुः सर्वज्ञः सर्वतोमुखः ॥ १०० ॥

अनुवाद (हिन्दी)

८०७ कुमुदः -कु अर्थात् पृथ्वीको उसका भार उतारकर प्रसन्न करनेवाले, ८०८ कुन्दरः -हिरण्याक्षको मारनेके लिये पृथ्वीको विदीर्ण करनेवाले, ८०९ कुन्दः -परशुराम-अवतारमें पृथ्वी प्रदान करनेवाले, ८१० पर्जन्यः -बादलकी भाँति समस्त इष्ट वस्तुओंकी वर्षा करनेवाले, ८११ पावनः -स्मरणमात्रसे पवित्र करनेवाले, ८१२ अनिलः -सदा प्रबुद्ध रहनेवाले, ८१३ अमृताशः -जिनकी आशा कभी विफल न हो—ऐसे अमोघसंकल्प, ८१४ अमृतवपुः -जिनका कलेवर कभी नष्ट न हो—ऐसे नित्य विग्रह, ८१५ सर्वज्ञः -सदा-सर्वदा सब कुछ जाननेवाले, ८१६ सर्वतोमुखः -सब ओर मुखवाले यानी जहाँ कहीं भी उनके भक्त भक्तिपूर्वक पत्र-पुष्पादि जो कुछ भी अर्पण करें, उसे भक्षण करनेवाले॥१००॥

विश्वास-प्रस्तुतिः

सुलभः सुव्रतः सिद्धः
शत्रु-जिच् छत्रु-तापनः ।
न्यग्रोध+उदुम्बरोऽश्वत्थश्
चाणूरान्ध्र-निषूदनः ॥ १०१ ॥

मूलम्

सुलभः सुव्रतः सिद्धः शत्रुजिच्छत्रुतापनः।
न्यग्रोधोदुम्बरोऽश्वत्थश्चाणूरान्ध्रनिषूदनः ॥ १०१ ॥

अनुवाद (हिन्दी)

८१७ सुलभः -नित्य-निरन्तर चिन्तन करनेवालेको और एकनिष्ठ श्रद्धालु भक्तको बिना ही परिश्रमके सुगमतासे प्राप्त होनेवाले, ८१८ सुव्रतः -सुन्दर भोजन करनेवाले यानी अपने भक्तोंद्वारा प्रेमपूर्वक अर्पण किये हुए पत्र-पुष्पादि मामूली भोजनको भी परम श्रेष्ठ मानकर खानेवाले, ८१९ सिद्धः -स्वभावसे ही समस्त सिद्धियोंसे युक्त, ८२० शत्रुजित् -देवता और सत्पुरुषोंके शत्रुओंको जीतनेवाले, ८२१ शत्रुतापनः -देव-शत्रुओंको तपानेवाले, ८२२ न्यग्रोधः -वटवृक्षरूप, ८२३ उदुम्बरः -कारणरूपसे आकाशके भी ऊपर रहनेवाले, ८२४ अश्वत्थः -पीपल वृक्षस्वरूप, ८२५ चाणूरान्ध्रनिषूदनः -चाणूर नामक अन्ध्रजातिके वीर मल्लको मारनेवाले॥१०१॥

विश्वास-प्रस्तुतिः

सहस्रार्चिः सप्त-जिह्वः
सप्तैधाः सप्त-वाहनः ।
अमूर्तिर् अनघो ऽचिन्त्यो
भय-कृद् भय-नाशनः ॥ १०२ ॥

मूलम्

सहस्रार्चिः सप्तजिह्वः सप्तैधाः सप्तवाहनः।
अमूर्तिरनघोऽचिन्त्यो भयकृद् भयनाशनः ॥ १०२ ॥

अनुवाद (हिन्दी)

८२६ सहस्रार्चिः -अनन्त किरणोंवाले सूर्यरूप, ८२७ सप्तजिह्वः -काली, कराली, मनोजवा, सुलोहिता, धूम्रवर्णा, स्फुलिंगिनी और विश्वरुचि—इन सात जिह्वाओंवाले अग्निस्वरूप, ८२८ सप्तैधाः -सात दीप्तिवाले अग्निस्वरूप, ८२९ सप्तवाहनः -सात घोड़ोंवाले सूर्यरूप, ८३० अमूर्तिः -मूर्तिरहित निराकार, ८३१ अनघः -सब प्रकारसे निष्पाप, ८३२ अचिन्त्यः -किसी प्रकार भी चिन्तन करनेमें न आनेवाले अव्यक्तस्वरूप, ८३३ भयकृत् -दुष्टोंको भयभीत करनेवाले, ८३४ भयनाशनः -स्मरण करनेवालोंके और सत्पुरुषोंके भयका नाश करनेवाले॥१०२॥

विश्वास-प्रस्तुतिः

अणुर् बृहत् कृशः स्थूलो
गुण-भृन् निर्गुणो महान् ।
अ-धृतः स्व-धृतः स्व्-आस्यः
प्राग्-वंशो वंश-वर्धनः ॥ १०३ ॥

मूलम्

अणुर्बृहत्कृशः स्थूलो गुणभृन्निर्गुणो महान्।
अधृतः स्वधृतः स्वास्यः प्राग्वंशो वंशवर्धनः ॥ १०३ ॥

अनुवाद (हिन्दी)

८३५ अणुः -अत्यन्त सूक्ष्म, ८३६ बृहत् -सबसे बड़े, ८३७ कृशः -अत्यन्त पतले और हलके, ८३८ स्थूलः -अत्यन्त मोटे और भारी, ८३९ गुणभृत् -समस्त गुणोंको धारण करनेवाले, ८४० निर्गुणः -सत्त्व, रज और तम—इन तीनों गुणोंसे अतीत, ८४१ महान् -गुण, प्रभाव, ऐश्वर्य और ज्ञान आदिकी अतिशयताके कारण परम महत्त्वसम्पन्न, ८४२ अधृतः -जिनको कोई भी धारण नहीं कर सकता—ऐसे निराधार, ८४३ स्वधृतः -अपने-आपसे धारित यानी अपनी ही महिमामें स्थित, ८४४ स्वास्यः -सुन्दर मुखवाले, ८४५ प्राग्वंशः -जिनसे समस्त वंश-परम्परा आरम्भ हुई है—ऐसे समस्त पूर्वजोंके भी पूर्वज आदिपुरुष, ८४६ वंशवर्धनः -जगत्-प्रपंचरूप वंशको और यादव वंशको बढ़ानेवाले॥१०३॥

विश्वास-प्रस्तुतिः

भारभृत् कथितो योगी
योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः
सु-+++(वेद-)+++पर्णो वायु-वाहनः ॥ १०४ ॥

मूलम्

भारभृत् कथितो योगी योगीशः सर्वकामदः।
आश्रमः श्रमणः क्षामः सुपर्णो वायुवाहनः ॥ १०४ ॥

अनुवाद (हिन्दी)

८४७ भारभृत् -शेषनाग आदिके रूपमें पृथ्वीका भार उठानेवाले और अपने भक्तोंके योगक्षेमरूप भारको वहन करनेवाले, ८४८ कथितः -वेद-शास्त्र और महापुरुषोंद्वारा जिनके गुण, प्रभाव, ऐश्वर्य और स्वरूपका बारंबार कथन किया गया है, ऐसे सबके द्वारा वर्णित, ८४९ योगी -नित्य समाधियुक्त, ८५० योगीशः -समस्त योगियोंके स्वामी, ८५१ सर्वकामदः -समस्त कामनाओंको पूर्ण करनेवाले, ८५२ आश्रमः -सबको विश्राम देनेवाले, ८५३ श्रमणः -दुष्टोंको संतप्त करनेवाले, ८५४ क्षामः -प्रलयकालमें सब प्रजाका क्षय करनेवाले, ८५५ सुपर्णः -वेदरूप सुन्दर पत्तोंवाले (संसारवृक्षस्वरूप), ८५६ वायुवाहनः -वायुको गमन करनेके लिये शक्ति देनेवाले॥१०४॥

विश्वास-प्रस्तुतिः

धनुर्धरो धनुर्वेदो
दण्डो दमयिता दमः ।
अपराजितः सर्वसहो
नियन्ता ऽनियमो ऽयमः ॥ १०५ ॥

मूलम्

धनुर्धरो धनुर्वेदो दण्डो दमयिता दमः।
अपराजितः सर्वसहो नियन्ता नियमोऽयमः ॥ १०५ ॥

अनुवाद (हिन्दी)

८५७ धनुर्धरः -धनुषधारी श्रीराम, ८५८ धनुर्वेदः -धनुर्विद्याको जाननेवाले श्रीराम, ८५९ दण्डः -दमन करनेवालोंकी दमनशक्ति, ८६० दमयिता -यम और राजा आदिके रूपमें दमन करनेवाले, ८६१ दमः -दण्डका कार्य यानी जिनको दण्ड दिया जाता है, उनका सुधार, ८६२ अपराजितः -शत्रुओंद्वारा पराजित न होनेवाले, ८६३ सर्वसहः -सब कुछ सहन करनेकी सामर्थ्यसे युक्त, अतिशय तितिक्षु, ८६४ नियन्ता -सबको अपने-अपने कर्तव्यमें नियुक्त करनेवाले, ८६५ अनियमः -नियमोंसे न बँधे हुए, जिनका कोई भी नियन्त्रण करनेवाला नहीं, ऐसे परमस्वतन्त्र, ८६६ अयमः -जिनका कोई शासक नहीं॥१०५॥

विश्वास-प्रस्तुतिः

सत्त्ववान् सात्त्विकः सत्यः
सत्य-धर्म-परायणः ।
अभिप्रायः प्रियार्हो ऽर्हः
प्रियकृत् प्रीति-वर्धनः ॥ १०६ ॥

मूलम्

सत्त्ववान् सात्त्विकः सत्यः सत्यधर्मपरायणः।
अभिप्रायः प्रियार्होऽर्हः प्रियकृत् प्रीतिवर्धनः ॥ १०६ ॥

अनुवाद (हिन्दी)

८६७ सत्त्ववान् -बल, वीर्य, सामर्थ्य आदि समस्त तत्त्वोंसे सम्पन्न, ८६८ सात्त्विकः -सत्त्वगुणप्रधानविग्रह, ८६९ सत्यः -सत्यभाषणस्वरूप, ८७० सत्यधर्मपरायणः -यथार्थ भाषण और धर्मके परम आधार, ८७१ अभिप्रायः -प्रेमीजन जिनको चाहते हैं—ऐसे परम इष्ट, ८७२ प्रियार्हः -अत्यन्त प्रिय वस्तु समर्पण करनेके लिये योग्य पात्र, ८७३ अर्हः -सबके परम पूज्य, ८७४ प्रियकृत् -भजनेवालोंका प्रिय करनेवाले, ८७५ प्रीतिवर्धनः -अपने प्रेमियोंके प्रेमको बढ़ानेवाले॥१०६॥

विश्वास-प्रस्तुतिः

विहायस-गतिर् ज्योतिः
सुरुचिर् हुत-भुग् विभुः ।
रविर् विरोचनः सूर्यः
सविता रवि-लोचनः ॥ १०७ ॥

मूलम्

विहायसगतिर्ज्योतिः सुरुचिर्हुतभुग् विभुः ।
रविर्विरोचनः सूर्यः सविता रविलोचनः ॥ १०७ ॥

अनुवाद (हिन्दी)

८७६ विहायसगतिः -आकाशमें गमन करनेवाले, ८७७ ज्योतिः –स्वयंप्रकाशस्वरूप, ८७८ सुरुचिः -सुन्दर रुचि और कान्तिवाले, ८७९ हुतभुक् -यज्ञमें हवन की हुई समस्त हविको अग्निरूपसे भक्षण करनेवाले, ८८० विभुः -सर्वव्यापी, ८८१ रविः -समस्त रसोंका शोषण करनेवाले सूर्य, ८८२ विरोचनः -विविध प्रकारसे प्रकाश फैलानेवाले, ८८३ सूर्यः -शोभाको प्रकट करनेवाले, ८८४ सविता -समस्त जगत्‌को उत्पन्न करनेवाले, ८८५ रविलोचनः -सूर्यरूप नेत्रोंवाले॥१०७॥

विश्वास-प्रस्तुतिः

अनन्तो हुतभुग् भोक्ता
सुखदो नैकजोऽग्रजः ।
अनिर्विण्णः सदामर्षी
लोकाधिष्ठानम् अद्भुतः ॥ १०८ ॥

मूलम्

अनन्तो हुतभुग् भोक्ता सुखदो नैकजोऽग्रजः।
अनिर्विण्णः सदामर्षी लोकाधिष्ठानमद्‌भुतः ॥ १०८ ॥

अनुवाद (हिन्दी)

८८६ अनन्तः -सब प्रकारसे अन्तरहित, ८८७ हुतभुक् -यज्ञमें हवन की हुई सामग्रीको उन-उन देवताओंके रूपमें भक्षण करनेवाले, ८८८ भोक्ता -जगत्‌का पालन करनेवाले, ८८९ सुखदः -भक्तोंको दर्शनरूप परम सुख देनेवाले, ८९० नैकजः -धर्मरक्षा, साधुरक्षा आदि परम विशुद्ध हेतुओंसे स्वेच्छापूर्वक अनेक जन्म धारण करनेवाले, ८९१ अग्रजः -सबसे पहले जन्मनेवाले आदिपुरुष, ८९२ अनिर्विण्णः -पूर्णकाम होनेके कारण उकताहटसे रहित, ८९३ सदामर्षी -सत्पुरुषोंपर क्षमा करनेवाले, ८९४ लोकाधिष्ठानम् -समस्त लोकोंके आधार, ८९५ अद्‌भूतः -अत्यन्त आश्चर्यमय॥१०८॥

विश्वास-प्रस्तुतिः

सनात्+++(=सर्वदा)+++, सनातन-तमः
कपिलः कपिर्+++(=कम्पनशीलः)+++ अव्ययः ।
स्वस्तिदः स्वस्तिकृत् स्वस्ति
स्वस्ति-भुक् स्वस्ति-दक्षिणः ॥ १०९ ॥

मूलम्

सनात् सनातनतमः कपिलः कपिरप्ययः।
स्वस्तिदः स्वस्तिकृत् स्वस्ति स्वस्तिभुक् स्वस्तिदक्षिणः ॥ १०९ ॥

अनुवाद (हिन्दी)

८९६ सनात् -अनन्तकालस्वरूप, ८९७ सनातनतमः -सबके कारण होनेसे ब्रह्मादि पुरुषोंकी अपेक्षा भी परम पुराणपुरुष, ८९८ कपिलः -महर्षि कपिलावतार, ८९९ कपिः -सूर्यदेव, ९०० अप्ययः -सम्पूर्ण जगत्‌के लयस्थान, ९०१ स्वस्तिदः -परमानन्दरूप मंगल देनेवाले, ९०२ स्वस्तिकृत् -आश्रितजनोंका कल्याण करनेवाले, ९०३ स्वस्ति -कल्याणस्वरूप, ९०४ स्वस्तिभुक् -भक्तोंके परम कल्याणकी रक्षा करनेवाले, ९०५ स्वस्तिदक्षिणः -कल्याण करनेमें समर्थ और शीघ्र कल्याण करनेवाले॥१०९॥

विश्वास-प्रस्तुतिः

अरौद्रः कुण्डली चक्री
विक्रम्य् ऊर्जित-शासनः ।
शब्दाति-गः शब्द-सहः
शिशिरः शर्वरी-करः ॥ ११० ॥

मूलम्

अरौद्रः कुण्डली चक्री विक्रम्यूर्जितशासनः।
शब्दातिगः शब्दसहः शिशिरः शर्वरीकरः ॥ ११० ॥

अनुवाद (हिन्दी)

९०६ अरौद्रः -सब प्रकारके रुद्र (क्रूर) भावोंसे रहित शान्तिमूर्ति, ९०७ कुण्डली -सूर्यके समान प्रकाशमान मकराकृति कुण्डलोंको धारण करनेवाले, ९०८ चक्री -सुदर्शनचक्रको धारण करनेवाले, ९०९ विक्रमी -सबसे विलक्षण पराक्रमशील, ९१० ऊर्जितशासनः -जिनका श्रुति-स्मृतिरूप शासन अत्यन्त श्रेष्ठ है—ऐसे अतिश्रेष्ठ शासन करनेवाले, ९११ शब्दातिगः -शब्दकी जहाँ पहुँच नहीं, ऐसे वाणीके अविषय, ९१२ शब्दसहः -कठोर शब्दोंको सहन करनेवाले, ९१३ शिशिरः -त्रितापपीड़ितोंको शान्ति देनेवाले शीतलमूर्ति, ९१४ शर्वरीकरः -ज्ञानियोंकी रात्रि संसार और अज्ञानियोंकी रात्रि ज्ञान—इन दोनोंको उत्पन्न करनेवाले॥११०॥

विश्वास-प्रस्तुतिः

अक्रूरः पेशलो दक्षो
दक्षिणः क्षमिणां वरः ।
विद्वत्तमो वीतभयः
पुण्य-श्रवण-कीर्तनः ॥ १११ ॥

मूलम्

अक्रूरः पेशलो दक्षो दक्षिणः क्षमिणां वरः।
विद्वत्तमो वीतभयः पुण्यश्रवणकीर्तनः ॥ १११ ॥

अनुवाद (हिन्दी)

९१५ अक्रूरः -सब प्रकारके क्रूरभावोंसे रहित, ९१६ पेशलः -मन, वाणी और कर्म—सभी दृष्टियोंसे सुन्दर होनेके कारण परम सुन्दर, ९१७ दक्षः -सब प्रकारसे समृद्ध, परमशक्तिशाली और क्षणमात्रमें बड़े-से-बड़ा कार्य कर देनेवाले महान् कार्यकुशल, ९१८ दक्षिणः -संहारकारी, ९१९ क्षमिणां वरः -क्षमा करनेवालोंमें सर्वश्रेष्ठ, ९२० विद्वत्तमः -विद्वानोंमें सर्वश्रेष्ठ परम विद्वान्, ९२१ वीतभयः -सब प्रकारके भयसे रहित, ९२२ पुण्यश्रवणकीर्तनः -जिनके नाम, गुण, महिमा और स्वरूपका श्रवण और कीर्तन परम पावन हैं; ऐसे॥१११॥

विश्वास-प्रस्तुतिः

उत्तारणो दुष्कृतिहा
पुण्यो दुःस्वप्ननाशनः ।
वीरहा रक्षणः सन्तो
जीवनः पर्यवस्थितः ॥ ११२ ॥

मूलम्

उत्तारणो दुष्कृतिहा पुण्यो दुःस्वप्ननाशनः।
वीरहा रक्षणः सन्तो जीवनः पर्यवस्थितः ॥ ११२ ॥

अनुवाद (हिन्दी)

९२३ उत्तारणः -संसार-सागरसे पार करनेवाले, ९२४ दुष्कृतिहा -पापोंका और पापियोंका नाश करनेवाले, ९२५ पुण्यः -स्मरण आदि करनेवाले समस्त पुरुषोंको पवित्र कर देनेवाले, ९२६ दुःस्वप्ननाशनः -ध्यान, स्मरण, कीर्तन और पूजन करनेसे बुरे स्वप्नोंका नाश करनेवाले, ९२७ वीरहा -शरणागतोंकी विविध गतियोंका यानी संसार-चक्रका नाश करनेवाले, ९२८ रक्षणः -सब प्रकारसे रक्षा करनेवाले, ९२९ सन्तः -विद्या, विनय और धर्म आदिका प्रचार करनेके लिये संतोंके रूपमें प्रकट होनेवाले, ९३० जीवनः -समस्त प्रजाको प्राणरूपसे जीवित रखनेवाले, ९३१ पर्यवस्थितः -समस्त विश्वको व्याप्त करके स्थित रहनेवाले॥११२॥

विश्वास-प्रस्तुतिः

अनन्तरूपो ऽनन्तश्रीर्
जितमन्युर् भयापहः ।
चतुरश्रो गभीरात्मा
वि-दिशो व्या-दिशो दिशः ॥ ११३ ॥

मूलम्

अनन्तरूपोऽनन्तश्रीर्जितमन्युर्भयापहः ।
चतुरस्रो गभीरात्मा विदिशो व्यादिशो दिशः ॥ ११३ ॥

अनुवाद (हिन्दी)

९३२ अनन्तरूपः -अमितरूपवाले, ९३३ अनन्तश्रीः -अपरिमित शोभासम्पन्न, ९३४ जितमन्युः -सब प्रकारसे क्रोधको जीत लेनेवाले, ९३५ भयापहः -भक्तभयहारी, ९३६ चतुरस्रः -मंगलमूर्ति, ९३७ गभीरात्मा -गम्भीर मनवाले, ९३८ विदिशः -अधिकारियोंको उनके कर्मानुसार विभागपूर्वक नाना प्रकारके फल देनेवाले, ९३९ व्यादिशः -सबको यथायोग्य विविध आज्ञा देनेवाले, ९४० दिशः -वेदरूपसे समस्त कर्मोंका फल बतलानेवाले॥११३॥

विश्वास-प्रस्तुतिः

अनादिर् भूर् भुवो लक्ष्मीः
सुवीरो रुचिराङ्गदः ।
जननो जन-जन्मादिर्
भीमो भीम-पराक्रमः ॥ ११४ ॥

मूलम्

अनादिर्भूर्भुवो लक्ष्मीः सुवीरो रुचिराङ्गदः।
जननो जनजन्मादिर्भीमो भीमपराक्रमः ॥ ११४ ॥

अनुवाद (हिन्दी)

९४१ अनादिः -जिसका आदि कोई न हो ऐसे सबके कारणस्वरूप, ९४२ भूर्भुवः -पृथ्वीके भी आधार, ९४३ लक्ष्मीः -समस्त शोभायमान वस्तुओंकी शोभास्वरूप, ९४४ सुवीरः -उत्तम योधा, ९४५ रुचिराङ्गदः -परम रुचिकर कल्याणमय बाजूबंदोंको धारण करनेवाले, ९४६ जननः -प्राणिमात्रको उत्पन्न करनेवाले, ९४७ जनजन्मादिः -जन्म लेनेवालोंके जन्मके मूल कारण, ९४८ भीमः -दुष्टोंको भय देनेवाले, ९४९ भीमपराक्रमः -अतिशय भय उत्पन्न करनेवाले, पराक्रमसे युक्त॥११४॥

विश्वास-प्रस्तुतिः

आधारनिलयो ऽधाता
पुष्पहासः प्रजागरः ।
ऊर्ध्व-गः सत्-पथाचारः
प्राणदः प्रणवः पणः ॥ ११५ ॥

मूलम्

आधारनिलयोऽधाता पुष्पहासः प्रजागरः ।
ऊर्ध्वगः सत्पथाचारः प्राणदः प्रणवः पणः ॥ ११५ ॥

अनुवाद (हिन्दी)

९५० आधारनिलयः -आधारस्वरूप पृथ्वी आदि समस्त भूतोंके स्थान, ९५१ अधाता -जिसका कोई भी बनानेवाला न हो ऐसे स्वयं स्थित, ९५२ पुष्पहासः -पुष्पकी भाँति विकसित हास्यवाले, ९५३ प्रजागरः -भली प्रकार जाग्रत् रहनेवाले नित्यप्रबुद्ध, ९५४ ऊर्ध्वगः -सबसे ऊपर रहनेवाले, ९५५ सत्पथाचारः -सत्पुरुषोंके मार्गका आचरण करनेवाले मर्यादापुरुषोत्तम, ९५६ प्राणदः -परीक्षित् आदि मरे हुओंको भी जीवन देनेवाले, ९५७ प्रणवः -ॐकारस्वरूप, ९५८ पणः -यथायोग्य व्यवहार करनेवाले॥११५॥

विश्वास-प्रस्तुतिः

प्रमाणं प्राणनिलयः
प्राणभृत् प्राणजीवनः ।
तत्त्वं तत्त्वविद् एकात्मा
जन्ममृत्यु-जरातिगः ॥ ११६ ॥

मूलम्

प्रमाणं प्राणनिलयः प्राणभृत् प्राणजीवनः।
तत्त्वं तत्त्वविदेकात्मा जन्ममृत्युजरातिगः ॥ ११६ ॥

अनुवाद (हिन्दी)

९५९ प्रमाणम् -स्वतःसिद्ध होनेसे स्वयं प्रमाणस्वरूप, ९६० प्राणनिलयः -प्राणोंके आधारभूत, ९६१ प्राणभृत् -समस्त प्राणोंका पोषण करनेवाले, ९६२ प्राणजीवनः -प्राणवायुके संचारसे प्राणियोंको जीवित रखनेवाले, ९६३ तत्त्वम् -यथार्थ तत्त्वरूप, ९६४ तत्त्ववित् -यथार्थ तत्त्वको पूर्णतया जाननेवाले, ९६५ एकात्मा -अद्वितीयस्वरूप, ९६६ जन्ममृत्युजरातिगः -जन्म, मृत्यु और बुढ़ापा आदि शरीरके धर्मोंसे सर्वथा अतीत॥११६॥

विश्वास-प्रस्तुतिः

भूर्-भुवः-स्वस्-तरुस् तारः
सविता प्रपितामहः ।
यज्ञो यज्ञ-पतिर् यज्वा
यज्ञाङ्गो यज्ञ-वाहनः ॥ ११७ ॥

मूलम्

भूर्भुवःस्वस्तरुस्तारः सविता प्रपितामहः ।
यज्ञो यज्ञपतिर्यज्वा यज्ञाङ्गो यज्ञवाहनः ॥ ११७ ॥

अनुवाद (हिन्दी)

९६७ भूर्भुवःस्वस्तरुः -‘भूः भुवः स्वः’ तीनों लोकोंवाले, संसारवृक्षस्वरूप, ९६८ तारः -संसार-सागरसे पार उतारनेवाले, ९६९ सविता -सबको उत्पन्न करनेवाले, ९७० प्रपितामहः -पितामह ब्रह्माके भी पिता, ९७१ यज्ञः -यज्ञस्वरूप, ९७२ यज्ञपतिः -समस्त यज्ञोंके अधिष्ठाता, ९७३ यज्वा -यजमानरूपसे यज्ञ करनेवाले, ९७४ यज्ञाङ्गः -समस्त यज्ञरूप अंगोंवाले, वाराहस्वरूप, ९७५ यज्ञवाहनः -यज्ञोंको चलानेवाले॥११७॥

विश्वास-प्रस्तुतिः

यज्ञभृद् यज्ञकृद् यज्ञी
यज्ञभुग् यज्ञसाधनः ।
यज्ञान्तकृद् यज्ञगुह्यम्
अन्नम् अन्नाद एव च ॥ ११८ ॥

मूलम्

यज्ञभृद् यज्ञकृद् यज्ञी यज्ञभुग् यज्ञसाधनः।
यज्ञान्तकृद् यज्ञगुह्यमन्नमन्नाद एव च ॥ ११८ ॥

अनुवाद (हिन्दी)

९७६ यज्ञभृत् -यज्ञोंको धारण करनेवाले, ९७७ यज्ञकृत् -यज्ञोंके रचयिता, ९७८ यज्ञी -समस्त यज्ञ जिसमें समाप्त होते हैं—ऐसे यज्ञशेषी, ९७९ यज्ञभुक् -समस्त यज्ञोंके भोक्ता, ९८० यज्ञसाधनः -ब्रह्मयज्ञ, जपयज्ञ आदि बहुत-से यज्ञ जिनकी प्राप्तिके साधन हैं ऐसे, ९८१ यज्ञान्तकृत् -यज्ञोंका फल देनेवाले, ९८२ यज्ञगुह्यम् -यज्ञोंमें गुप्त निष्काम यज्ञस्वरूप, ९८३ अन्नम् -समस्त प्राणियोंके अन्न यानी अन्नकी भाँति उनकी सब प्रकारसे तुष्टि-पुष्टि करनेवाले, ९८४ अन्नादः -समस्त अन्नोंके भोक्ता॥११८॥

विश्वास-प्रस्तुतिः

आत्म-योनिः स्वयञ्-जातो
+++(पातालवर्ति-हिरण्याक्ष-हनने)+++ वैखानः साम-गायनः ।
देवकी-नन्दनः स्रष्टा
क्षितीशः पापनाशनः ॥ ११९ ॥

मूलम्

आत्मयोनिः स्वयंजातो वैखानः सामगायनः।
देवकीनन्दनः स्रष्टा क्षितीशः पापनाशनः ॥ ११९ ॥

अनुवाद (हिन्दी)

९८५ आत्मयोनिः -जिनका कारण दूसरा कोई नहीं ऐसे स्वयं योनिस्वरूप, ९८६ स्वयंजातः -स्वयं अपने-आप स्वेच्छापूर्वक प्रकट होनेवाले, ९८७ वैखानः -पातालवासी हिरण्याक्षका वध करनेके लिये पृथ्वीको खोदनेवाले, वाराह-अवतारधारी, ९८८ सामगायनः -सामवेदका गान करनेवाले, ९८९ देवकीनन्दनः -देवकीपुत्र, ९९० स्रष्टा -समस्त लोकोंके रचयिता, ९९१ क्षितीशः -पृथ्वीपति, ९९२ पापनाशनः -स्मरण, कीर्तन, पूजन और ध्यान आदि करनेसे समस्त पापसमुदायका नाश करनेवाले॥११९॥

विश्वास-प्रस्तुतिः

शङ्खभृन् नन्दकी चक्री
शार्ङ्गधन्वा गदाधरः ।
रथाङ्गपाणिर् अक्षोभ्यः
सर्व-प्रहरणायुधः ॥ १२० ॥

मूलम्

शङ्खभृन्नन्दकी चक्री शार्ङ्गधन्वा गदाधरः।
रथाङ्गपाणिरक्षोभ्यः सर्वप्रहरणायुधः ॥ १२० ॥

अनुवाद (हिन्दी)

९९३ शङ्खभृत् -पाञ्चजन्यशंखको धारण करनेवाले, ९९४ नन्दकी -नन्दक नामक खड्‌ग धारण करनेवाले, ९९५ चक्री -सुदर्शन चक्र धारण करनेवाले, ९९६ शार्ङ्गधन्वा -शार्ङ्गधनुषधारी, ९९७ गदाधरः -कौमोदकी नामकी गदा धारण करनेवाले, ९९८ रथाङ्गपाणिः -भीष्मकी प्रतिज्ञा रखनेके लिये सुदर्शन चक्रको हाथमें धारण करनेवाले श्रीकृष्ण, ९९९ अक्षोभ्यः -जो किसी प्रकार भी विचलित नहीं किये जा सके, ऐसे, १००० सर्वप्रहरणायुधः -ज्ञात और अज्ञात जितने भी युद्धादिमें काम आनेवाले अस्त्र-शस्त्र हैं, उन सबको धारण करनेवाले॥१२०॥

समाप्तिः

सर्वप्रहरणायुध ॐ नम इति।
(वनमाली गदी शार्ङ्गी
शङ्खी चक्री च नन्दकी ।
श्रीमान् नारायणो विष्णुर्
वासुदेवोऽभिरक्षतु ॥)

अनुवाद (हिन्दी)

यहाँ हजार नामोंकी समाप्ति दिखलानेके लिये अन्तिम नामको दुबारा लिखा गया है। मंगलवाची होनेसे ॐकारका स्मरण किया गया है। अन्तमें नमस्कार करके भगवान्‌की पूजा की गयी है।

फलस्तुतिः

विश्वास-प्रस्तुतिः

इतीदं कीर्तनीयस्य
केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानाम्
अशेषेण प्रकीर्तितम् ॥ १२१ ॥

मूलम्

इतीदं कीर्तनीयस्य केशवस्य महात्मनः।
नाम्नां सहस्रं दिव्यानामशेषेण प्रकीर्तितम् ॥ १२१ ॥

अनुवाद (हिन्दी)

इस प्रकार यह कीर्तन करने योग्य महात्मा केशवके दिव्य एक हजार नामोंका पूर्णरूपसे वर्णन कर दिया॥१२१॥

विश्वास-प्रस्तुतिः

य इदं शृणुयान् नित्यं
यश्चापि परिकीर्तयेत् ।
नाशुभं प्राप्नुयात् किञ्चित्
सोऽमुत्रेह च मानवः ॥ १२२ ॥

मूलम्

य इदं शृणुयान्नित्यं यश्चापि परिकीर्तयेत्।
नाशुभं प्राप्नुयात् किंचित्‌ सोऽमुत्रेह च मानवः ॥ १२२ ॥

अनुवाद (हिन्दी)

जो मनुष्य इस विष्णुसहस्रनामका सदा श्रवण करता है और जो प्रतिदिन इसका कीर्तन या पाठ करता है, उसका इस लोकमें तथा परलोकमें कहीं भी कुछ अशुभ नहीं होता॥१२२॥

विश्वास-प्रस्तुतिः

वेदान्तगो ब्राह्मणः स्यात्
क्षत्रियो विजयी भवेत् ।
वैश्यो धनसमृद्धः स्याच्
छूद्रः सुखम् अवाप्नुयात् ॥ १२३ ॥

मूलम्

वेदान्तगो ब्राह्मणः स्यात् क्षत्रियो विजयी भवेत्।
वैश्यो धनसमृद्धः स्याच्छूद्रः सुखमवाप्नुयात् ॥ १२३ ॥

अनुवाद (हिन्दी)

इस विष्णुसहस्रनामका श्रवण, पठन और कीर्तन करनेसे ब्राह्मण वेदान्त-पारगामी हो जाता है, क्षत्रिय युद्धमें विजय पाता है, वैश्य धनसे सम्पन्न होता है और शूद्र सुख पाता है॥१२३॥

विश्वास-प्रस्तुतिः

धर्मार्थी प्राप्नुयाद् धर्मम्
अर्थार्थी चार्थम् आप्नुयात् ।
कामान् अवाप्नुयात् कामी
प्रजार्थी प्राप्नुयात् प्रजाम् ॥ १२४ ॥

मूलम्

धर्मार्थी प्राप्नुयाद् धर्ममर्थार्थी चार्थमाप्नुयात्।
कामानवाप्नुयात् कामी प्रजार्थी प्राप्नुयात् प्रजाम् ॥ १२४ ॥

अनुवाद (हिन्दी)

धर्मकी इच्छावाला धर्मको पाता है, अर्थकी इच्छावाला अर्थ पाता है, भोगोंकी इच्छावाला भोग पाता है और संतानकी इच्छावाला संतान पाता है॥१२४॥

विश्वास-प्रस्तुतिः

भक्तिमान् यः सदोत्थाय
शुचिस् तद्-गत-मानसः ।
सहस्रं वासुदेवस्य
नाम्नाम् एतत् प्रकीर्तयेत् ॥ १२५ ॥

यशः प्राप्नोति विपुलं
ज्ञाति-प्राधान्यम् एव च ।+++(५)+++
अचलां श्रियम् आप्नोति
श्रेयः प्राप्नोत्य् अनुत्तमम् ॥ १२६ ॥

न भयं क्वचिद् आप्नोति
वीर्यं तेजश् च विन्दति ।
भवत्य् अरोगो द्युतिमान्
बल-रूप-गुणान्वितः ॥ १२७ ॥

मूलम्

भक्तिमान्‌ यः सदोत्थाय शुचिस्तद्‌गतमानसः।
सहस्रं वासुदेवस्य नाम्नामेतत् प्रकीर्तयेत् ॥ १२५ ॥
यशः प्राप्नोति विपुलं ज्ञातिप्राधान्यमेव च।
अचलां श्रियमाप्नोति श्रेयः प्राप्नोत्यनुत्तमम् ॥ १२६ ॥
न भयं क्वचिदाप्नोति वीर्यं तेजश्च विन्दति।
भवत्यरोगो द्युतिमान् बलरूपगुणान्वितः ॥ १२७ ॥

अनुवाद (हिन्दी)

जो भक्तिमान् पुरुष सदा प्रातःकालमें उठकर स्नान करके पवित्र हो मनमें विष्णुका ध्यान करता हुआ इस वासुदेव-सहस्रनामका भली प्रकार पाठ करता है, वह महान् यश पाता है, जातिमें महत्त्व पाता है, अचल सम्पत्ति पाता है और अति उत्तम कल्याण पाता है तथा उसको कहीं भय नहीं होता। वह वीर्य और तेजको पाता है तथा आरोग्यवान्, कान्तिमान्, बलवान्, रूपवान् और सर्वगुणसम्पन्न हो जाता है॥१२५—१२७॥

विश्वास-प्रस्तुतिः

रोगार्तो मुच्यते रोगाद्
बद्धो मुच्येत बन्धनात् ।
भयान् मुच्येत भीतस् तु
मुच्येतापन्न आपदः ॥ १२८ ॥

मूलम्

रोगार्तो मुच्यते रोगाद् बद्धो मुच्येत बन्धनात्।
भयान्मुच्येत भीतस्तु मुच्येतापन्न आपदः ॥ १२८ ॥

अनुवाद (हिन्दी)

रोगातुर पुरुष रोगसे छूट जाता है, बन्धनमें पड़ा हुआ पुरुष बन्धनसे छूट जाता है, भयभीत भयसे छूट जाता है और आपत्तिमें पड़ा हुआ आपत्तिसे छूट जाता है॥१२८॥

विश्वास-प्रस्तुतिः

दुर्गाण्य् अतितरत्य् आशु
पुरुषः पुरुषोत्तमम् ।
स्तुवन् नाम-सहस्रेण
नित्यं भक्ति-समन्वितः ॥ १२९ ॥

मूलम्

दुर्गाण्यतितरत्याशु पुरुषः पुरुषोत्तमम् ।
स्तुवन् नामसहस्रेण नित्यं भक्तिसमन्वितः ॥ १२९ ॥

अनुवाद (हिन्दी)

जो पुरुष भक्तिसम्पन्न होकर इस विष्णुसहस्रनामसे पुरुषोत्तम भगवान्‌की प्रतिदिन स्तुति करता है, वह शीघ्र ही समस्त संकटोंसे पार हो जाता है॥१२९॥

विश्वास-प्रस्तुतिः

वासुदेवाश्रयो मर्त्यो
वासुदेवपरायणः ।
सर्व-पाप-विशुद्धात्मा
याति ब्रह्म सनातनम् ॥ १३० ॥

मूलम्

वासुदेवाश्रयो मर्त्यो वासुदेवपरायणः ।
सर्वपापविशुद्धात्मा याति ब्रह्म सनातनम् ॥ १३० ॥

अनुवाद (हिन्दी)

जो मनुष्य वासुदेवके आश्रित और उनके परायण है, वह समस्त पापोंसे छूटकर विशुद्ध अन्तःकरणवाला हो सनातन परब्रह्मको पाता है॥१३०॥

विश्वास-प्रस्तुतिः

न वासुदेवभक्तानाम्
अशुभं विद्यते क्वचित् ।
जन्म-मृत्यु-जरा-व्याधि-
भयं नैवोपजायते ॥ १३१ ॥

मूलम्

न वासुदेवभक्तानामशुभं विद्यते क्वचित्।
जन्ममृत्युजराव्याधिभयं नैवोपजायते ॥ १३१ ॥

अनुवाद (हिन्दी)

वासुदेवके भक्तोंका कहीं कभी भी अशुभ नहीं होता है तथा उनको जन्म, मृत्यु, जरा और व्याधिका भी भय नहीं रहता है॥१३१॥

विश्वास-प्रस्तुतिः

इमं स्तवम् अधीयानः
श्रद्धा-भक्ति-समन्वितः ।
युज्येतात्म-सुख-क्षान्ति–
श्री-धृति-स्मृति-कीर्तिभिः ॥ १३२ ॥

मूलम्

इमं स्तवमधीयानः श्रद्धाभक्तिसमन्वितः ।
युज्येतात्मसुखक्षान्तिश्रीधृतिस्मृतिकीर्तिभिः ॥ १३२ ॥

अनुवाद (हिन्दी)

जो पुरुष श्रद्धापूर्वक भक्तिभावसे इस विष्णुसहस्रनामका पाठ करता है, वह आत्मसुख, क्षमा, लक्ष्मी, धैर्य, स्मृति और कीर्तिको पाता है॥१३२॥

विश्वास-प्रस्तुतिः

न क्रोधो न च मात्सर्यं
न लोभो नाशुभा मतिः ।
भवन्ति कृत-पुण्यानां
भक्तानां पुरुषोत्तमे ॥ १३३ ॥

मूलम्

न क्रोधो न च मात्सर्यं न लोभो नाशुभा मतिः।
भवन्ति कृतपुण्यानां भक्तानां पुरुषोत्तमे ॥ १३३ ॥

अनुवाद (हिन्दी)

पुरुषोत्तमके पुण्यात्मा भक्तोंको किसी दिन क्रोध नहीं आता, ईर्ष्या उत्पन्न नहीं होती, लोभ नहीं होता और उनकी बुद्धि कभी अशुद्ध नहीं होती॥१३३॥

विश्वास-प्रस्तुतिः

द्यौः सचन्द्रार्क-नक्षत्रा
खं दिशो भूर्–महोद-धिः ।
वासुदेवस्य वीर्येण
विधृतानि महात्मनः ॥ १३४ ॥

मूलम्

द्यौः सचन्द्रार्कनक्षत्रा खं दिशो भूर्महोदधिः।
वासुदेवस्य वीर्येण विधृतानि महात्मनः ॥ १३४ ॥

अनुवाद (हिन्दी)

स्वर्ग, सूर्य, चन्द्रमा तथा नक्षत्रसहित आकाश, दस दिशाएँ, पृथ्वी और महासागर—ये सब महात्मा वासुदेवके प्रभावसे धारण किये गये हैं॥१३४॥

विश्वास-प्रस्तुतिः

ससुरासुर-गन्धर्वं
सयक्षोरग-राक्षसम् ।
जगद्-वशे वर्ततेदं
कृष्णस्य सचराचरम् ॥ १३५ ॥

मूलम्

ससुरासुरगन्धर्वं सयक्षोरगराक्षसम् ।
जगद् वशे वर्ततेदं कृष्णस्य सचराचरम् ॥ १३५ ॥

अनुवाद (हिन्दी)

देवता, दैत्य, गन्धर्व, यक्ष, सर्प और राक्षससहित यह स्थावर-जंगमरूप सम्पूर्ण जगत् श्रीकृष्णके अधीन रहकर यथायोग्य बरत रहे हैं॥१३५॥

विश्वास-प्रस्तुतिः

इन्द्रियाणि मनो बुद्धिः
सत्त्वं तेजो बलं धृतिः ।
वासुदेवात्मकान्य् आहुः
क्षेत्रं क्षेत्रज्ञ एव च ॥ १३६ ॥

मूलम्

इन्द्रियाणि मनो बुद्धिः सत्त्वं तेजो बलं धृतिः।
वासुदेवात्मकान्याहुः क्षेत्रं क्षेत्रज्ञ एव च ॥ १३६ ॥

अनुवाद (हिन्दी)

इन्द्रियाँ, मन, बुद्धि, सत्त्व, तेज, बल, धीरज, क्षेत्र, (शरीर) और क्षेत्रज्ञ (आत्मा)—ये सब-के-सब श्रीवासुदेवके रूप हैं, ऐसा वेद कहते हैं॥१३६॥

विश्वास-प्रस्तुतिः

सर्वागमानाम् आचारः
प्रथमं परिकल्प्यते+++(~कल्पते)+++ ।
आचार-प्रभवो धर्मो
धर्मस्य प्रभुरच्युतः ॥ १३७ ॥+++(५)+++

मूलम्

सर्वागमानामाचारः प्रथमं परिकल्पते ।
आचारप्रभवो धर्मो धर्मस्य प्रभुरच्युतः ॥ १३७ ॥

अनुवाद (हिन्दी)

सब शास्त्रोंमें आचार प्रथम माना जाता है, आचारसे ही धर्मकी उत्पत्ति होती है और धर्मके स्वामी भगवान् अच्युत हैं॥१३७॥

विश्वास-प्रस्तुतिः

ऋषयः पितरो देवा
महाभूतानि धातवः ।
जङ्गमाजङ्गमं चेदं
जगन् नारायणोद्भवम् ॥ १३८ ॥

मूलम्

ऋषयः पितरो देवा महाभूतानि धातवः।
जङ्गमाजङ्गमं चेदं जगन्नारायणोद्भवम् ॥ १३८ ॥

अनुवाद (हिन्दी)

ऋषि, पितर, देवता, पञ्च महाभूत, धातुएँ और स्थावर-जंगमात्मक सम्पूर्ण जगत्—ये सब नारायणसे ही उत्पन्न हुए हैं॥१३८॥

विश्वास-प्रस्तुतिः

योगो ज्ञानं तथा साङ्ख्यं
विद्याः शिल्पादि कर्म च ।
वेदाः शास्त्राणि विज्ञानम्
एतत् सर्वं जनार्दनात् ॥ १३९ ॥

मूलम्

योगो ज्ञानं तथा सांख्यं विद्या शिल्पादि कर्म च।
वेदाः शास्त्राणि विज्ञानमेतत्‌ सर्वं जनार्दनात् ॥ १३९ ॥

अनुवाद (हिन्दी)

योग, ज्ञान, सांख्य, विद्याएँ, शिल्प आदि कर्म, वेद, शास्त्र और विज्ञान—ये सब विष्णुसे उत्पन्न हुए हैं॥१३९॥

विश्वास-प्रस्तुतिः

एको विष्णुर् महद्भूतं
पृथग् भूतान्य् अनेकशः ।
त्रील्ँ लोकान् व्याप्य भूतात्मा
भुङ्क्ते विश्वभुग् अव्ययः ॥ १४० ॥

मूलम्

एको विष्णुर्महद्‌भूतं पृथग्भूतान्यनेकशः ।
त्रींल्लोकान् व्याप्य भूतात्मा भुङ्‌क्ते विश्वभुगव्ययः ॥ १४० ॥

अनुवाद (हिन्दी)

वे समस्त विश्वके भोक्ता और अविनाशी विष्णु ही एक ऐसे हैं, जो अनेक रूपोंमें विभक्त होकर भिन्न-भिन्न भूतविशेषोंके अनेक रूपोंको धारण कर रहे हैं तथा त्रिलोकीमें व्याप्त होकर सबको भोग रहे हैं॥१४०॥

विश्वास-प्रस्तुतिः

इमं स्तवं भगवतो
विष्णोर् व्यासेन कीर्तितम् ।
पठेद् य इच्छेत् पुरुषः
श्रेयः प्राप्तुं सुखानि च ॥१४१॥

मूलम्

इमं स्तवं भगवतो विष्णोर्व्यासेन कीर्तितम्।
पठेद् य इच्छेत्‌ पुरुषः श्रेयः प्राप्तुं सुखानि च॥१४१॥

अनुवाद (हिन्दी)

जो पुरुष परम श्रेय और सुख पाना चाहता हो, वह भगवान् व्यासजीके कहे हुए इस विष्णुसहस्रनामस्तोत्रका पाठ करे॥१४१॥

विश्वास-प्रस्तुतिः

विश्वेश्वरम् अजं देवं
जगतः प्रभुम् अव्ययम् ।
भजन्ति ये पुष्कराक्षं
न ते यान्ति पराभवम् ॥ १४२ ॥

मूलम्

विश्वेश्वरमजं देवं जगतः प्रभवाप्ययम्।
भजन्ति ये पुष्कराक्षं न ते यान्ति पराभवम् ॥ १४२ ॥

अनुवाद (हिन्दी)

जो विश्वके ईश्वर जगत्‌की उत्पत्ति, स्थिति और विनाश करनेवाले जन्मरहित कमललोचन भगवान् विष्णुका भजन करते हैं, वे कभी पराभव नहीं पाते हैं॥१४२॥

समाप्तिः

न ते यान्ति पराभवम् ॐ नम इति ।

मूलम् (समाप्तिः)

इति श्रीमहाभारते शतसाहस्र्यां संहितायां वैयासिक्यामनुशासनपर्वणि दानधर्मपर्वणि विष्णुसहस्रनामकथने एकोनपञ्चाशदधिकशततमोऽध्यायः॥१४९॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत व्यासनिर्मित शतसाहस्रीय संहितासम्बन्धी अनुशासनपर्वके अन्तर्गत दानधर्मपर्वमें विष्णुसहस्रनामकथनविषयक एक सौ उनचासवाँ अध्याय पूरा हुआ॥१४९॥

सूचना (हिन्दी)

(दाक्षिणात्य अधिक पाठके २ श्लोक मिलाकर कुल १४४ श्लोक हैं)