३३९ जीवोत्पत्ति-लयौ

सिद्धान्तः - जीवः सत्

लभ्यमान-पाञ्चरात्र-निबन्धेषु प्राचीन-तरे
महाभारतान्तर्गते नारायणीये षष्ठाध्याये
(यस्य कालो 200 CE इत्य् आहुर् आधुनिकाः)-

3 सर्व-भूतात्म-भूतो हि
वासुदेवो महा-बलः ॥ ३२ ॥ …
ते +++(५ भूताः)+++ समेता महात्मनः
शरीरम् इति संज्ञितम् ॥
तद् आविशति यो ब्रह्मन्न्
अ-दृश्यो लघु-विक्रमः ।
उत्पन्न एव भवति
शरीरं चेष्टयन् प्रभुः ॥ ३४ ॥ …
न च जीवं विना ब्रह्मन्1
वायवश् चेष्टयन्त्य् उत ॥ ३५ ॥
जीवः परिसंख्यातः
शेषः सङ्कर्षणः प्रभुः ।
यस्मिंश् च सर्वभूतानि
प्रलयं यान्ति संक्षयम् ॥ ३६ ॥
मनः सर्वभूतानां
प्रद्युम्नः परिपठ्यते ।
तस्मात् प्रसूतो यः2 कर्ता
कारणं कार्यम् एव च ॥ ३७ ॥
तस्मात् सर्वं सम्भवति
जगत् स्थावर-जङ्गमम् ।
सो ऽनिरुद्धः स ईशानो+++(→अहङ्कारः)+++
व्यक्तिस् सा सर्व-कर्मसु ॥ ३८ ॥

यो वासुदेवो भगवान्
क्षेत्र-ज्ञो निर्गुणात्मकः ।
3 ज्ञेयस् स एव राजेन्द्र
जीवः सङ्कर्षणः प्रभुः ॥ ३९ ॥
सङ्कर्षणाच् च प्रद्युम्नो
मनो-भूतः स उच्यते ।
प्रद्युम्नाद् अनिरुद्धस् तु
सोऽहंकारस् स ईश्वरः ॥ ४० ॥ …

अत्र जीवाभिमानिनो जीव-संज्ञस्य सङ्कर्षणस्य +उत्पत्तिर् गृह्येत,
न जीवसाधारणस्य।
अभिनव-रङ्गनाथ-यतिर् अप्य् आह हयशीर्षोपाख्यान-भूषण-दीधितौ -

जीव-मनो-ऽहंकाराणां संकर्षणाद्य्-अ-भेदोक्तिर्
धारण-नियमन-विशेष-निबन्धनेत्य् उक्तं भवति ।

जीवस्य पार्थक्यम् उक्तं तत्रैव -

मत्तस् सर्वं सम्भवति
जगत् स्थावर-जङ्गमम् ।
अक्षरं च क्षरं चैव
सच् चाऽसच् च वै नारद ॥ ४१ ॥
मां प्रविश्य भवन्तीह
मुक्ता भक्तास् तु ये मम ॥ ४२ ॥…
ईशोऽहं जगतो गुरुः ।…
अहं +++(=वासुदेवः)+++ हि जीव-संज्ञो वै
+++(यतः - )+++ मयि जीवः समाहितः +++(- न जीवाभेदतः)+++।
+++(मां दृष्ट्वा)+++ मैवं ते बुद्धिर् अत्राभूद्
दृष्टो जीवो मयेति वै ॥ ४६ ॥

अत्र अक्षरस्य सतो जीवात्मनो सङ्कर्षादिरूपवतो वासुदेवात् पार्थक्यम् उक्तम्।
“माम् प्रविशन्ति” इत्य् अनुक्त्वा
“माम् प्रविश्य भवन्ति
इति वचनेन
मुक्ता वासुदेवम् प्रविश्यापि पृथग् एव तिष्ठन्तीति ज्ञायते।
“अक्षरः”, “सत्” इति शब्दाभ्यां च जीवस्य नित्यत्वम् एव प्रतीयते।
वासुदेवे प्रवेशतः, तत उद्गमाच्च,
एकविधम् ऐक्यम् अपि वक्तुं शक्यम्।

“सर्व-भूतात्म-भूतो हि” इत्यादिना
सृष्टेः प्राक् सूक्ष्मावस्थायां जीवात्मा
ऽचिता सह शरीर-कोटौ परिगण्यते ।
सृष्टेः पश्चाद् अपि स्थूलावस्थायां जीवात्मा ऽचिता सह शरीर-कोटौ परिगण्यते -

अहं सर्वत्र-गो ब्रह्मन्
भूत-ग्रामान्तरात्मकः ।
भूतग्राम-शरीरेषु नश्यत्सु
न नशाम्य् अहम् ॥

अखिल-पाञ्चरात्रे जीवोत्पत्तिः?

शङ्करः

उत्पत्त्य्-असम्भवाधिकरणे -

तत्र भागवता मन्यते —
भगवान् एवैको वासुदेवो निरञ्जन-ज्ञान-स्वरूपः परमार्थ-तत्त्वम्।
स चतुर्धा ऽऽत्मानं प्रविभज्य प्रतिष्ठितः — वासु-देव-व्यूहरूपेण, सङ्कर्षण-व्यूह-रूपेण, प्रद्युम्न-व्यूह-रूपेण, अनिरुद्ध-व्यूह-रूपेण च।
वासुदेवो नाम परमात्मा उच्यते;
सङ्कर्षणो नाम जीवः;
प्रद्युम्नो नाम मनः;
अनिरुद्धो नाम अहंकारः।

अथापि स्यात् —

न चैते सङ्कर्षणादयो जीवादि-भावेनाभिप्रेयन्ते ,
किं तर्हि ?
ईश्वरा एवैते सर्वे
ज्ञानैश्वर्य-शक्ति-बल-वीर्य-तेजोभिर् ऐश्वरैर् धर्मैर् अन्विता अभ्युपगम्यन्ते —
वासुदेवा एवैते सर्वे
निर्दोषा निरधिष्ठाना निरवद्याश्च

+इति।
न च पञ्च-रात्र-सिद्धान्तिभिर् वासुदेवादिषु एकस्मिन् सर्वेषु वा ज्ञानैश्वर्यादि-तारतम्य-कृतः
कश्चिद् भेदो ऽभ्युपगम्यते।
वासुदेवा एव हि
सर्वे व्यूहा निर्विशेषा इष्यन्ते।

एवं प्रकरणवशात् तयोर् भागवत-पाञ्चरात्रिकयोर् मिथः सम्बन्धे ऽपि सूचिते,
भेदः कश्चन मूल-भूत-जीव-तत्त्व-गत एव प्रतिपादितः। सर्वं तु भ्रान्तम्।
तथा-कथित-भागवतेषु पाञ्चरात्रिकम् एव पञ्च-काल-कर्म दर्शयति।

Most shAnkara-s have uncritically followed suit. तद्-अनुयायिन एतद्-आधारेण +अखिलं पाञ्चरात्रं तिरस्कुर्वन्ति।

Some have adjusted for it in various ways.

रामकण्ठः

सद्योज्योतिषः कृतेर् व्याख्याने रामकण्ठः -

परिणति-वेदान्त-विदः संहिता-पाञ्चरात्राश् चाहुः-

सत्यं भिन्ना एव जीवात्मानः,
ते तु परम-कारणाद् अनश्वराद् ब्रह्म-पद-वाच्यात्,
यदि वा नाराणाख्याद्
अव्यापका एव घटादिवत्
स्वकारण-लय-स्वभावाश् चोत्पद्यन्ते

इति ।

न हि स्वयं सद्योज्योतिर्
जीवोत्पत्ति-वादः पाञ्चरात्रिकाणाम् इत्य् आह।
राम-कण्ठस् तु शङ्करात् पश्चाद् उवास - यामुन-काले प्रायेण।
यामुनेन च तादृशं किमपि पाञ्चरात्रे नोक्तम् इति प्रतिज्ञातम्।
तेन रामकण्ठस्यापी पाञ्चरात्रिक-जीवोत्पत्ति-लय-वाद-प्रतिक्षेपो ऽवर्तमानस्यैवाभ्यासस् स्यात्।
अथवा यथातथं गृहीते ऽपि
पाञ्चरात्रिकैकदेशीयानाम् एवायम् अभिप्राय
इति तद्-आशयः स्पष्टः - “संहिता"-विशेषणप्रयोगेण।

“मनो-बुद्ध्य्-अहङ्कारात्मकम् अन्तःकरणम् एवात्मे"ति वदतां तत्रोक्तानां साङ्कर्षण-पाञ्चरात्राणाम् अभिप्राये
तस्यान्तःकरणस्य का मुक्तिर् इति नैव किम् अप्य् उक्तम्।
किञ्च तत्र भगवद्-अपेक्षया नारायणीयाद्य्-उक्तः शरीरि-शरीर-भावः शाश्वतः स्पष्ट एव -
ततो नात्राप्य् अन्तःकरणोत्पत्ति-लय-प्रसङ्गौ।
अन्यथा तत्रैवोक्तया रीत्या तेषाम् मूढत्वं सिद्धम् -

मूढानां ज्येष्ठ-मल्लास्
ते येषां स्वात्मा विनश्यति ।

No rule that mano-buddhy-ahankAra combo should be accidental. Likely to be karma-bound. Moreover likely eternal (as evolutes of eternal prakRti).

भास्करः

भास्करोऽपि शङ्करम् एवानुसरति -

पञ्चरात्र-सिद्धान्तः परीक्ष्यते …

वासुदेवः परा प्रकृतिः परमात्मा,
ततः सङ्कर्षणो नाम जीवो जायते,
सङ्कर्षणात् प्रद्युम्नः सृज्यमानो जायते,
ततो ऽनिरुद्धो नामाहङ्कारो जायते

इति भागवता मन्यन्ते ।

प्रत्याख्यानम्

अत्र मुख्यपक्षस् तु नारायणीयस्य समीचीनावगत्यैव प्रत्याख्यातः।
किञ्च, तद्-अन्तरा ऽपि यामुन आगम-प्रामाण्ये -

अ-विद्यमान-जीवोत्पत्ति-प्रतिपादनाध्यारोपेण
तन्-निराकरण-परतया सूत्रं व्याख्यायमानं
व्याख्यातॄणाम् एवाख्यातिं ख्यापयतीत्यलं प्रबन्धेन ।

आपाततो ऽसम्भाव्यम्

This seems obvious-

yajurveda says “विष्णोः परमं पदम्”, and describes it’s attainment (which was not dissolution of the jIva). pAncharAtra continues shukla-yajurveda (MT). So, PN had such a notion.

By contrast this is ridiculous -

Early pAncharAtra vaiShNavism had no non-dissolution-type mukti,
despite predecessor YV and successor traditions having it -
because some shaivas don’t mention it.

Leach too notes the oddity of these claims-

That distinct groups within the Pāñcarātra should have held opposing views (as per rAmakaNTha) on the ontology of individual selves seems somewhat surprising given that in the Pāñcarātra literature that is currently available, such concerns do not figure prominently.

He further notes:

in the Vaikhānasa literature and, as we will see presently, in the Pāñcarātra scriptures, different types of Pāñcarātrika are distinguished from one another not on account of opposing philosophical positions, but rather because of such factors as their different religious goals, liturgical practices, social class ( varṇa), customs, everyday habits, and religious insignia.

Notice by others

shankara’s mischaracterization was supposedly later admitted by madhusUdana sarasvatI.

दोष-मात्रा-मूले

These authors were likely mistaken and prejudiced,
if not deliberately fraudulent.
Or, in the best case, they were referring to some obscure non-mainstream cult unclearly;
which still amounts to a misrepresentation of pAncharAtra.

पूर्वपक्ष-ग्रन्थ-मात्रस्याश्रद्धेयता

Relying on pUrvapaxa-s alone is risky.

Example - You can go by early shrIvaiShNava-s and “deduce” that shaivas are anti-varNa. They (eg. yAmuna) discussed pAshupatas, kAlAmukhas and kApAlikas; and some of their tenets (similar to what one sees in kAshmIri shaiva texts). Yet, reading that would give you no clue about the sadyojyotiSh type varNa-conforming sect.