३०१ सांख्यकथने

भागसूचना

एकाधिकत्रिशततमोऽध्यायः

सूचना (हिन्दी)

सांख्ययोगके अनुसार साधन और उसके फलका वर्णन

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

सम्यक् त्वयाऽयं नृपते वर्णितः शिष्टसम्मतः।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ १ ॥

मूलम्

सम्यक् त्वयाऽयं नृपते वर्णितः शिष्टसम्मतः।
योगमार्गो यथान्यायं शिष्यायेह हितैषिणा ॥ १ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने कहा— महाराज! आप मेरे हितैषी हैं, आपने मुझ शिष्यके प्रति शिष्ट पुरुषोंके मतके अनुसार इस योगमार्गका यथोचितरूपसे वर्णन किया॥१॥

विश्वास-प्रस्तुतिः

सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद् विदितं हि ते॥२॥

मूलम्

सांख्ये त्विदानीं कार्त्स्न्येन विधिं प्रब्रूहि पृच्छते।
त्रिषु लोकेषु यज्ज्ञानं सर्वं तद् विदितं हि ते॥२॥

अनुवाद (हिन्दी)

अब मैं सांख्यविषयक सम्पूर्ण विधि पूछ रहा हूँ। आप मुझे उसे बतानेकी कृपा करें; क्योंकि तीनों लोकोंमें जो ज्ञान है, वह सब आपको विदित है॥२॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

शृणु मे त्वमिदं सूक्ष्मं सांख्यानां विदितात्मनाम्।
विहितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः ॥ ३ ॥

मूलम्

शृणु मे त्वमिदं सूक्ष्मं सांख्यानां विदितात्मनाम्।
विहितं यतिभिः सर्वैः कपिलादिभिरीश्वरैः ॥ ३ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— युधिष्ठिर! आत्मतत्त्वके जाननेवाले सांख्यशास्त्रके विद्वानोंका यह सूक्ष्म ज्ञान तुम मुझसे सुनो। इसे ईश्वरकोटिके कपिल आदि सम्पूर्ण यतियोंने प्रकाशित किया है॥३॥

विश्वास-प्रस्तुतिः

यस्मिन् न विभ्रमाः केचिद् दृश्यन्ते मनुजर्षभ।
गुणाश्च यस्मिन् बहवो दोषहानिश्च केवला ॥ ४ ॥

मूलम्

यस्मिन् न विभ्रमाः केचिद् दृश्यन्ते मनुजर्षभ।
गुणाश्च यस्मिन् बहवो दोषहानिश्च केवला ॥ ४ ॥

अनुवाद (हिन्दी)

नरश्रेष्ठ! इस मतमें किसी प्रकारकी भूल नहीं दिखायी देती। इसमें गुण तो बहुत-से हैं; किंतु दोषोंका सर्वथा अभाव है॥४॥

विश्वास-प्रस्तुतिः

ज्ञानेन परिसंख्याय सदोषान् विषयान् नृप।
मानुषान् दुर्जयान् कृत्स्नान् पैशाचान्‌ विषयांस्तथा ॥ ५ ॥
राक्षसान् विषयान् ज्ञात्वा यक्षाणां विषयांस्तथा।
विषयानौरगान् ज्ञात्वा गान्धर्वविषयांस्तथा ॥ ६ ॥
पितॄणां विषयान् ज्ञात्वा तिर्यक्षु चरतां नृप।
सुपर्णविषयान् ज्ञात्वा मरुतां विषयांस्तथा ॥ ७ ॥
राजर्षिविषयान् ज्ञात्वा ब्रह्मर्षिविषयांस्तथा ।
आसुरान् विषयान् ज्ञात्वा वैश्वदेवांस्तथैव च ॥ ८ ॥
देवर्षिविषयान् ज्ञात्वा योगानामपि चेश्वरान्।
प्रजापतीनां विषयान् ब्रह्मणो विषयांस्तथा ॥ ९ ॥
आयुषश्च परं कालं लोके विज्ञाय तत्त्वतः।
सुखस्य च परं तत्त्वं विज्ञाय वदतां वर ॥ १० ॥
प्राप्ते काले च यद् दुःखं सततं विषयैषिणाम्।
तिर्यक्षु पततां दुःखं पततां नरके च यत् ॥ ११ ॥
स्वर्गस्य च गुणान् कृत्स्नान् दोषान् सर्वांश्च भारत।
वेदवादेऽपि ये दोषा गुणा ये चापि वैदिकाः ॥ १२ ॥
ज्ञानयोगे च ये दोषा गुणा योगे च ये नृप।
सांख्यज्ञाने च ये दोषास्तथैव च गुणा नृप ॥ १३ ॥
सत्त्वं दशगुणं ज्ञात्वा रजो नवगुणं तथा।
तमश्चाष्टगुणं ज्ञात्वा बुद्धिं सप्तगुणां तथा ॥ १४ ॥
षड्‌गुणं च मनो ज्ञात्वा नभः पञ्चगुणं तथा।
बुद्धिं चतुर्गुणां ज्ञात्वा तमश्च त्रिगुणं तथा ॥ १५ ॥
द्विगुणं च रजो ज्ञात्वा सत्त्वमेकगुणं पुनः।
मार्गं विज्ञाय तत्त्वेन प्रलये प्रेक्षणे तथा ॥ १६ ॥
ज्ञानविज्ञानसम्पन्नाः कारणैर्भाविताः शुभाः ।
प्राप्नुवन्ति शुभं मोक्षं सूक्ष्मा इव नभः परम् ॥ १७ ॥

वक्ताओंमें श्रेष्ठ नरेश्वर! जो ज्ञानके द्वारा मनुष्य, पिशाच, राक्षस, यक्ष, सर्प, गन्धर्व, पितर, तिर्यग्योनि, गरुड़, मरुद्‌ण, राजर्षि, ब्रह्मर्षि, असुर, विश्वेदेव, देवर्षि, योगी, प्रजापति तथा ब्रह्माजीके भी सम्पूर्ण दुर्जय विषयोंको सदोष जानकर, संसारके मनुष्योंका परमायुकाल तथा सुखके परमतत्त्वका ठीक-ठीक ज्ञान प्राप्त कर लेते हैं और विषयोंकी इच्छा रखनेवाले पुरुषोंको समय-समयपर जो दुःख प्राप्त होता है, उसको, तिर्यग्योनि और नरकमें पड़नेवाले जीवोंके दुःखको, स्वर्ग तथा वेदकी फल-श्रुतियोंके सम्पूर्ण गुण-दोषोंको जानकर ज्ञानयोग, सांख्यज्ञान और योगमार्गके गुण-दोषोंको भी समझ लेते हैं तथा भरतनन्दन! सत्त्वगुणके दस1, रजोगुणके नौ[^२], तमोगुणके आठ[^३], बुद्धिके सात[^४], मनके छः1 और आकाशके पाँच[^२] गुणोंका ज्ञान प्राप्त करके बुद्धिके दूसरे चार[^३], तमोगुणके दूसरे तीन[^४], रजोगुणके दूसरे दो[^५] और सत्त्वगुणके पुनः एक[^६] गुणको जानकर आत्माकी प्राप्ति करानेवाले मार्ग—प्राकृत प्रलय तथा आत्मविचारको ठीक-ठीक जान लेते हैं, वे ज्ञान-विज्ञानसे सम्पन्न तथा मोक्षोपयोगी साधनोंके अनुष्ठानसे शुद्धचित्त हुए कल्याणमय सांख्ययोगी परम आकाशको प्राप्त होनेवाले सूक्ष्म भूतोंके समान मंगलमय मोक्षको प्राप्त कर लेते हैं॥५-१७॥

विश्वास-प्रस्तुतिः

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च।
शब्दे सक्तं तथा श्रीत्रं जिह्वा रसगुणेषु च ॥ १८ ॥

मूलम्

रूपेण दृष्टिं संयुक्तां घ्राणं गन्धगुणेन च।
शब्दे सक्तं तथा श्रीत्रं जिह्वा रसगुणेषु च ॥ १८ ॥

अनुवाद (हिन्दी)

नेत्र रूप-गुणसे संयुक्त हैं। घ्राणेन्द्रिय ग्रन्ध नामक गुणसे सम्बन्ध रखती है। श्रोत्रेन्द्रिय शब्दमें आसक्त है और रसना रसगुणमें॥१८॥

विश्वास-प्रस्तुतिः

तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम् ॥ १९ ॥

मूलम्

तनुं स्पर्शे तथा सक्तां वायुं नभसि चाश्रितम्।
मोहं तमसि संयुक्तं लोभमर्थेषु संश्रितम् ॥ १९ ॥

अनुवाद (हिन्दी)

त्वचा स्पर्शनामक गुणमें आसक्त है। इसी प्रकार वायुका आश्रय आकाश, मोहका आश्रय तमोगुण और लोभका आश्रय इन्द्रियोंके विषय हैं॥१९॥

विश्वास-प्रस्तुतिः

विष्णुं क्रान्ते बले शक्रं कोष्ठे सक्तं तथानलम्।
अप्सु देवीं समासक्तामपस्तेजसि संश्रिताः ॥ २० ॥
तेजो वायौ तु संसक्तं वायुं नभसि चाश्रितम्।
नभो महति संयुक्तं महद् बुद्धौ च संश्रितम् ॥ २१ ॥

गतिका आधार विष्णु, बलका इन्द्र, उदरका अग्नि तथा पृथ्वीदेवीका आधार जल है। झलका तेज, तेजका वायु, वायुका आकाश, आकाशका आश्रय महत्तत्त्व अर्थात् महत्तत्त्वका कार्य अहंकार है और अहंकारका अधिष्ठान समष्टि बुद्धि है॥२०-२१॥

विश्वास-प्रस्तुतिः

बुद्धिं तमसि संसक्तां तमो रजसि संश्रितम्।
रजः सत्त्वे तथा सक्तं सत्त्वं सक्तं तथाऽऽत्मनि ॥ २२ ॥
सक्तमात्मानमीशे च देवे नारायणो तथा।
देवं मोक्षे च संसक्तं मोक्षं सक्तं तु न क्वचित्॥२३॥

बुद्धिका आश्रय तमोगुण, तमोगुणका आश्रय रजोगुण और रजोगुणका आश्रय सत्त्वगुण है। सत्त्वगुण जीवात्माके आश्रित है। जीवात्माको भगवान् नारायण-देवके आश्रित समझो। भगवान् नारायणका आश्रय है मोक्ष (परब्रह्म), परंतु मोक्षका कोई भी आश्रय नहीं है (वह अपनी ही महिमामें प्रतिष्ठित है)॥२२-२३॥

विश्वास-प्रस्तुतिः

ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते ॥ २४ ॥
मध्यस्थमेकमात्मानं पापं यस्मिन् न विद्यते।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥ २५ ॥

मूलम्

ज्ञात्वा सत्त्वगुणं देहं वृतं षोडशभिर्गुणैः।
स्वभावं चेतनां चैव ज्ञात्वा देहसमाश्रिते ॥ २४ ॥
मध्यस्थमेकमात्मानं पापं यस्मिन् न विद्यते।
द्वितीयं कर्म विज्ञाय नृपते विषयैषिणाम् ॥ २५ ॥

अनुवाद (हिन्दी)

इन बातोंको भलीभाँति जानकर तथा सत्त्वगुणको, मनसहित ग्यारह इन्द्रिय, पाँच प्राण-इन सोलह गुणोंसे घिरे हुए सूक्ष्म शरीरको, शरीरके आश्रित रहनेवाले स्वभाव और चेतनाको जाने। नरेश्वर! जिसमें पापका लेश भी नहीं है, वह एकमात्र जीवात्मा शरीरके भीतर हृदयरूपी गुफामें उदासीन-भावसे विद्यमान है, इस बातको जाने। विषयकी अभिलाषा रखनेवाले मनुष्योंका जो कर्म है, वह शरीरके भीतर आत्माके अतिरिक्त दूसरा तत्त्व है। यह भी अच्छी तरह जान ले॥२५॥

विश्वास-प्रस्तुतिः

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥ २६ ॥

मूलम्

इन्द्रियाणीन्द्रियार्थांश्च सर्वानात्मनि संश्रितान् ।
दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम् ॥ २६ ॥

अनुवाद (हिन्दी)

इन्द्रिय और इन्द्रियोंके विषय—ये सब-के-सब शरीरके भीतर स्थित हैं। मोक्ष परम दुर्लभ वस्तु है। इन सब बातोंको वेदोंके स्वाध्यायपूर्वक भलीभाँति समझ ले॥

विश्वास-प्रस्तुतिः

प्राणापानौ समानं च व्यानोदानौ च तत्त्वतः।
अधश्चैवानिलं ज्ञात्वा प्रवहं चानिलं पुनः ॥ २७ ॥
सप्त वातांस्तथा ज्ञात्वा सप्तधा विहितान् पुनः।
प्रजापतीनृषींश्चैव मार्गांश्चैव बहून् वरान् ॥ २८ ॥

प्राण, अपान, समान, व्यान और उदान—से पाँच प्राणवायु हैं। अधोगामी वायु छठा और ऊर्ध्वगामी प्रवह नामक वायु सातवाँ है। ये वायुके जो सात भेद हैं, इनमेंसे प्रत्येकके सात-सात भेद और हो जाते हैं। इस प्रकार कुल उन्‌चास वायु होते हैं। अनेक प्रजापति, अनेक ऋषि तथा मुक्तिके अनेकानेक उत्तम मार्ग हैं। इन सबकी जानकारी प्राप्त करनी चाहिये॥२७-२८॥

विश्वास-प्रस्तुतिः

सप्तर्षींश्च बहून् ज्ञात्वा राजर्षींश्च परंतप।
सुरर्षीन् महतश्चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् ॥ २९ ॥

मूलम्

सप्तर्षींश्च बहून् ज्ञात्वा राजर्षींश्च परंतप।
सुरर्षीन् महतश्चान्यान् ब्रह्मर्षीन् सूर्यसंनिभान् ॥ २९ ॥

अनुवाद (हिन्दी)

परंतप! सप्तर्षियों, बहुसंख्यक राजर्षियों, देवर्षियों, अन्यान्य महापुरुषों तथा सूर्यके समान तेजस्वी ब्रह्मर्षियोंका भी ज्ञान प्राप्त करे॥२९॥

विश्वास-प्रस्तुतिः

ऐश्वर्याच्च्यावितान् दृष्ट्वा कालेन महता नृप।
महतां भूतसंघानां श्रुत्वा नाशं च पार्थिव ॥ ३० ॥
गतिं चाप्यशुभां ज्ञात्वा नृपते पापकर्मिणाम्।
वैतरण्यां च यद् दुःखं पतितानां यमक्षये ॥ ३१ ॥

पृथ्वीनाथ! महान् कालकी प्रेरणासे मनुष्य ऐश्वर्यसे भ्रष्ट कर दिये जाते हैं। बड़े-बड़े जो भूत-समुदाय हैं, उनका भी कालके द्वारा नाश हो जाता है। यह सब देख-सुनकर पापकर्मी मनुष्योंको जो अशुभ गति प्राप्त होती है तथा यमलोकमें जाकर वैतरणी नदीमें गिरे हुए प्राणियोंको जो दुःख होता है, उसको भी जाने॥३१॥

विश्वास-प्रस्तुतिः

योनीषु च विचित्रासु संसारानशुभांस्तथा।
जठरे चाशुभे वासं शोणितोदकभाजने ॥ ३२ ॥
श्लेष्ममूत्रपुरीषे च तीव्रगन्धसमन्विते ।
शुक्रशोणितसंघाते मज्जास्नायुपरिग्रहे ॥ ३३ ॥
शिराशतसमाकीर्णे नवद्वारे पुरेऽशुचौ ।
विज्ञाय हितमात्मानं योगांश्च विविधान् नृप ॥ ३४ ॥

प्राणियोंको विचित्र-विचित्र योनियोंमें अशुभ जन्म धारण करने पड़ते हैं। रक्त और मूत्रके पात्ररूप अपवित्र गर्भाशयमें निवास करना पड़ता है, जहाँ कफ, मूत्र और मल भरा होता है तथा तीव्र दुर्गन्ध व्याप्त रहती है, जो रज और वीर्यका समुदायमात्र है, मज्जा एवं स्नायुका संग्रह है, सैकड़ों नस-नाड़ियोंमें व्याप्त है तथा जिसमें नौ द्वार हैं; उस अपवित्र पुर अर्थात् शरीरमें जीवको रहना पड़ता है। नरेश्वर! इन सब बातोंको जानकर अपने परम हितस्वरूप आत्माको और उसकी प्राप्तिके लिये शास्त्रोंद्वारा बताये हुए नाना प्रकारके योगों (साधनों) की जानकारी प्राप्त करनी चाहिये॥३२—३४॥

विश्वास-प्रस्तुतिः

तामसानां च जन्तूनां रमणीयावृतात्मनाम्।
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ ॥ ३५ ॥
गर्हितं महतामर्थे सांख्यानां विदितात्मनाम्।

मूलम्

तामसानां च जन्तूनां रमणीयावृतात्मनाम्।
सात्त्विकानां च जन्तूनां कुत्सितं भरतर्षभ ॥ ३५ ॥
गर्हितं महतामर्थे सांख्यानां विदितात्मनाम्।

अनुवाद (हिन्दी)

भरतश्रेष्ठ! तामस, राजस और सात्त्विक—इन तीन प्रकारके प्राणियोंके जो तत्त्वज्ञानी महात्मा पुरुषोंद्वारा निन्दित मोक्षविरोधी व्यवहार हैं, उनको भी जानना चाहिये॥

विश्वास-प्रस्तुतिः

उपप्लवांस्तथा घोरान् शशिनस्तेजसस्तथा ॥ ३६ ॥
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं नृप ॥ ३७ ॥

मूलम्

उपप्लवांस्तथा घोरान् शशिनस्तेजसस्तथा ॥ ३६ ॥
ताराणां पतनं दृष्ट्वा नक्षत्राणां च पर्ययम्।
द्वन्द्वानां विप्रयोगं च विज्ञाय कृपणं नृप ॥ ३७ ॥

अनुवाद (हिन्दी)

नरेश्वर! घोर उत्पात, चन्द्रग्रहण, सूर्यग्रहण, ताराओंका टूटकर गिरना, नक्षत्रोंकी गतिमें उलट-फेर होना तथा पति-पत्नियोंका दुःखदायक वियोग होना आदि बातें, जो इस जगत्‌में घटित होती हैं, उनको भी जानकर अपने कल्याणका उपाय करना चाहिये॥३६-३७॥

विश्वास-प्रस्तुतिः

अन्योन्यभक्षणं दृष्ट्वा भूतानामपि चाशुभम्।
बाल्ये मोहं च विज्ञाय क्षयं देहस्य चाशुभम् ॥ ३८ ॥
रागे मोहे च सम्प्राप्ते क्वचित् सत्त्वं समाश्रितम्।
सहस्रेषु नरः कश्चिन्मोक्षबुद्धिं समाश्रितः ॥ ३९ ॥

संसारके प्राणी एक-दूसरेको खा जाते हैं, यह कैसी अशुभ घटना है। इसपर दृष्टिपात करो। बाल्यावस्थामें मनपर मोह छाया रहता है और वृद्धावस्थामें शरीरका अमंगलकारी विनाश उपस्थित होता है। राग और मोह प्राप्त होनेपर अनेक दोष उत्पन्न होते हैं, इन सबको जानकर कहीं किसी-किसीको ही सत्त्वगुणसे युक्त देखा जाता है। सहस्रों मनुष्योंमेंसे कोई बिरला ही मोक्षविषयक बुद्धिका आश्रय लेता है॥३८-३९॥

विश्वास-प्रस्तुतिः

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ॥ ४० ॥

मूलम्

दुर्लभत्वं च मोक्षस्य विज्ञाय श्रुतिपूर्वकम्।
बहुमानमलब्धेषु लब्धे मध्यस्थतां पुनः ॥ ४० ॥

अनुवाद (हिन्दी)

वेद-वाक्योंके श्रवणद्वारा मुक्तिकी दुर्लभताको जानकर अभीष्ट वस्तुकी प्राप्ति न होनेपर भी उस परिस्थितिके प्रति अधिक आदर-बुद्धि रखे और मनोवांछित वस्तु प्राप्त हो जाय, तो भी उसकी ओरसे उदासीन ही रहे॥४०॥

विश्वास-प्रस्तुतिः

विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः।
गतासूनां च कौन्तेय देहान् दृष्ट्‌वा तथाशुभान् ॥ ४१ ॥

मूलम्

विषयाणां च दौरात्म्यं विज्ञाय नृपते पुनः।
गतासूनां च कौन्तेय देहान् दृष्ट्‌वा तथाशुभान् ॥ ४१ ॥

अनुवाद (हिन्दी)

नरेश्वर! शब्द-स्पर्श आदि विषय दुःखरूप ही हैं, इस बातको जाने। कुन्तीनन्दन! जिनके प्राण चले जाते हैं, उन मनुष्योंके शरीरोंकी जो अशुभ एवं बीभत्स दशा होती है, उसपर भी दृष्टिपात करे॥४१॥

विश्वास-प्रस्तुतिः

वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ ४२ ॥

मूलम्

वासं कुलेषु जन्तूनां दुःखं विज्ञाय भारत।
ब्रह्मघ्नानां गतिं ज्ञात्वा पतितानां सुदारुणाम् ॥ ४२ ॥

अनुवाद (हिन्दी)

भरतनन्दन प्राणियोंका घरोंमें निवास करना भी दुःखरूप ही है, इस बातको अच्छी तरह समझे तथा ब्रह्मघाती और पतित मनुष्योंकी जो अत्यन्त भयंकर दुर्गति होती है, उसको भी जाने॥४२॥

विश्वास-प्रस्तुतिः

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ ४३ ॥

मूलम्

सुरापाने च सक्तानां ब्राह्मणानां दुरात्मनाम्।
गुरुदारप्रसक्तानां गतिं विज्ञाय चाशुभाम् ॥ ४३ ॥

अनुवाद (हिन्दी)

मदिरापानमें आसक्त दुरात्मा ब्राह्मणोंकी तथा गुरुपत्नीगामी मनुष्योंकी जो अशुभ गति होती है, उसका भी विचार करे॥४३॥

विश्वास-प्रस्तुतिः

जननीषु च वर्तन्ते ये न सम्यग् युधिष्ठिर।
सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः ॥ ४४ ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्।
तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ॥ ४५ ॥

मूलम्

जननीषु च वर्तन्ते ये न सम्यग् युधिष्ठिर।
सदेवकेषु लोकेषु ये न वर्तन्ति मानवाः ॥ ४४ ॥
तेन ज्ञानेन विज्ञाय गतिं चाशुभकर्मणाम्।
तिर्यग्योनिगतानां च विज्ञाय गतयः पृथक् ॥ ४५ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! जो मनुष्य माताओं, देवताओं तथा सम्पूर्ण लोकोंके प्रति उत्तम बर्ताव नहीं करते हैं, उनकी दुर्गतिका ज्ञान जिससे होता है, उसी ज्ञानसे पापाचारी पुरुषोंकी अधोगतिका ज्ञान प्राप्त करे तथा तिर्यग्योनिमें पड़े हुए प्राणियोंकी जो विभिन्न गतियाँ होती हैं, उनको भी जान ले॥४४-४५॥

विश्वास-प्रस्तुतिः

वेदवादांस्तथा चित्रानृतूनां पर्ययांस्तथा ।
क्षयं संवत्सराणां च मासानां च क्षयं तथा ॥ ४६ ॥
पक्षक्षयं तथा दृष्ट्‌वा दिवसानां च संक्षयम्।
क्षयं वृद्धिं च चन्द्रस्य दृष्ट्वा प्रत्यक्षतस्तथा ॥ ४७ ॥
वृद्धिं दृष्ट्‌वा समुद्राणां क्षयं तेषां तथा पुनः।
क्षयं धनानां दृष्ट्‌वा च पुनर्वृद्धिं तथैव च ॥ ४८ ॥

वेदोंके भाँति-भाँतिके विचित्र वचन, ऋतुओंके परिवर्तन तथा दिन, पक्ष, मास और संवत्सर आदि काल जो प्रतिक्षण बीत रहा है, उसकी ओर भी ध्यान दे। चन्द्रमाकी ह्रासवृद्धि तो प्रत्यक्ष दिखायी देती है। समुद्रोंका ज्वारभाटा भी प्रत्यक्ष ही है। धनवानोंके धनका नाश और नाशके बाद पुनः वृद्धिका क्रम भी दृष्टिगोचर होता ही रहता है। इन सबको देखकर अपने कर्तव्यका निश्चय करे॥४६—४८॥

विश्वास-प्रस्तुतिः

संयोगानां क्षयं दृष्ट्वा युगानां च विशेषतः।
क्षयं च दृष्ट्‌वा शैलानां क्षयं च सरितां तथा॥४९॥
वर्णानां च क्षयं दृष्ट्वा क्षयान्तं च पुनः पुनः।
जरामृत्युं तथा जन्म दृष्ट्‌वा दुःखानि चैव ह ॥ ५० ॥

संयोगोंका, युगोंका, पर्वतोंका और सरिताओंका जो क्षय होता है, उसपर दृष्टि डाले। वर्णोंका क्षय और क्षयका अन्त भी बारंबार देखे। जन्म, मृत्यु और जरावस्थाके दुःखोंपर दृष्टिपात करे॥४९-५ ०॥

विश्वास-प्रस्तुतिः

देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः।
देहविक्लवतां चैव सम्यग् विज्ञाय तत्त्वतः ॥ ५१ ॥

मूलम्

देहदोषांस्तथा ज्ञात्वा तेषां दुःखं च तत्त्वतः।
देहविक्लवतां चैव सम्यग् विज्ञाय तत्त्वतः ॥ ५१ ॥

अनुवाद (हिन्दी)

देहके दोषोंको जानकर उनसे मिलनेवाले दुःखका भी यथार्थ ज्ञान प्राप्त करे। शरीरकी व्याकुलताको भी ठीक-ठीक जाननेका प्रयत्न करे॥५१॥

विश्वास-प्रस्तुतिः

आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्।
स्वदेहादुत्थितान् गन्धांस्तथा विज्ञाय चाशुभान् ॥ ५२ ॥

मूलम्

आत्मदोषांश्च विज्ञाय सर्वानात्मनि संश्रितान्।
स्वदेहादुत्थितान् गन्धांस्तथा विज्ञाय चाशुभान् ॥ ५२ ॥

अनुवाद (हिन्दी)

अपने शरीरमें स्थित जो अपने ही दोष हैं, उन सबको जानकर शरीरसे जो निरन्तर दुर्गन्ध उठती रहती है, उसकी ओर भी ध्यान दे (तथा विरक्त होकर परमात्माका चिन्तन करते हुए भवबन्धनसे मुक्त होनेका प्रयत्न करे)॥५२॥

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

कान् स्वगात्रोद्भवान् दोषान् पश्यस्यमितविक्रम।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥ ५३ ॥

मूलम्

कान् स्वगात्रोद्भवान् दोषान् पश्यस्यमितविक्रम।
एतन्मे संशयं कृत्स्नं वक्तुमर्हसि तत्त्वतः ॥ ५३ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा— अमितपराक्रमी पितामह! आपके देखनेमें कौन-कौन-से दोष ऐसे हैं, जो अपने ही शरीरसे उत्पन्न होते हैं? आप मेरे इस सम्पूर्ण संदेहका यथार्थरूपसे समाधान करनेकी कृपा करें॥५३॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः।
मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन ॥ ५४ ॥

मूलम्

पञ्च दोषान् प्रभो देहे प्रवदन्ति मनीषिणः।
मार्गज्ञाः कापिलाः सांख्याः शृणु तानरिसूदन ॥ ५४ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— प्रभो! शत्रुसूदन! कपिल सांख्यमतके अनुसार चलनेवाले उत्तम मार्गोंके ज्ञाता मनीषी पुरुष इस देहके भीतर पाँच दोष बतलाते हैं, उन्हें बताता हूँ, सुनो॥५४॥

विश्वास-प्रस्तुतिः

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ ५५ ॥

मूलम्

कामक्रोधौ भयं निद्रा पञ्चमः श्वास उच्यते।
एते दोषाः शरीरेषु दृश्यन्ते सर्वदेहिनाम् ॥ ५५ ॥

अनुवाद (हिन्दी)

काम, क्रोध, भय, निद्रा और श्वास—ये पाँच दोष समस्त देहधारियोंके शरीरोंमें देखे जाते हैं॥५५॥

विश्वास-प्रस्तुतिः

छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्।
सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा ॥ ५६ ॥
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥ ५७ ॥

मूलम्

छिन्दन्ति क्षमया क्रोधं कामं संकल्पवर्जनात्।
सत्त्वसंसेवनान्निद्रामप्रमादाद् भयं तथा ॥ ५६ ॥
छिन्दन्ति पञ्चमं श्वासमल्पाहारतया नृप ॥ ५७ ॥

अनुवाद (हिन्दी)

सत्पुरुष क्षमासे क्रोधका, संकल्पके त्यागसे कामका, सत्त्वगुणके सेवनसे निद्राका, प्रमादके त्यागसे भयका तथा अल्पाहारके सेवनद्वारा पाँचवें श्वास-दोषका नाश करते हैं॥५६-५७॥

विश्वास-प्रस्तुतिः

गुणान् गुणशतैर्ज्ञात्वा दोषान् दोषशतैरपि।
हेतून् हेतुशतैश्चित्रैछित्रान् विज्ञाय तत्त्वतः ॥ ५८ ॥
अपां फेनोपमं लोकं विष्णोर्मायाशतैर्वृतम्।
चित्रभित्तिप्रतीकाशं नलसारमनर्थकम् ॥ ५९ ॥
तमः श्वभ्रनिभं दृष्ट्वा वर्षबुद्‌बुदसंनिभम्।
नाशप्रायं सुखाद्धीनं नाशोत्तरमिहावशम् ॥ ६० ॥
रजस्तमसि सम्मग्नं पङ्के द्विपमिवावशम्।
सांख्या राजन् महाप्राज्ञास्त्यक्त्वा स्नेहं प्रजाकृतम् ॥ ६१ ॥
ज्ञानयोगेन सांख्येन व्यापिना महता नृप।
राजसानशुभान् गन्धांस्तामसांश्च तथाविधान् ॥ ६२ ॥
पुण्यांश्च सात्त्विकान् गन्धान् स्पर्शजान् देहसंश्रितान्।
छित्त्वाऽऽशु ज्ञानशस्त्रेण तपोदण्डेन भारत ॥ ६३ ॥

राजन्! भरतनन्दन! महाबुद्धिमान् सांख्यके विद्वान् सैकड़ों गुणोंके द्वारा गुणोंको, सैकड़ों दोषोंके द्वारा दोषोंको तथा सैकड़ों विचित्र हेतुओंसे विचित्र हेतुओंको तत्त्वतः जानकर व्यापक ज्ञानके प्रभावसे संसारको पानीके फेनके समान नश्वर, विष्णुकी सैकड़ों मायाओंसे ढँका हुआ, दीवारपर बने हुए चित्रके समान, नरकुलके समान सारहीन, अन्धकारसे भरे हुए गड्‌ढेकी भाँति भयंकर, वर्षाकालके पानीके बुलबुलोंके समान क्षणभंगुर, सुखहीन, पराधीन, नष्टप्राय तथा कीचड़में फँसे हुए हाथीकी तरह रजोगुण और तमोगुणमें मग्न समझते हैं। इसलिये वे संतान आदिकी आसक्तिको दूर करके तपरूप दण्डसे युक्त विवेकरूपी शस्त्रसे राजस-तामस अशुभ गन्धोंको और सुन्दर शोभनीय सात्त्विक गन्धोंको तथा स्पर्शेन्द्रियके देहाश्रित भोगोंकी आसक्तिको शीघ्र ही काट डालते हैं॥५८—६३॥

विश्वास-प्रस्तुतिः

ततो दुःखोदकं घोरं चिन्ताशोकमहाह्रदम्।
व्याधिमृत्युमहाग्राहं महाभयमहोरगम् ॥ ६४ ॥
तमःकूर्मं रजोमीनं प्रज्ञया संतरन्त्युत।
स्नेहपङ्कं जरादुर्गं ज्ञानद्वीपमरिंदम ॥ ६५ ॥
कर्मागाधं सत्यतीरं स्थितव्रतमरिंदम ।
हिंसाशीघ्रमहावेगं नानारससमाकरम् ॥ ६६ ॥
नानाप्रीतिमहारत्नं दुःखज्वरसमीरणम् ।
शोकतृष्णामहावर्तं तीक्ष्णव्याधिमहागजम् ॥ ६७ ॥
अस्थिसंघातसंघट्टं श्लेष्मफेनमरिंदम ।
दानमुक्ताकरं घोरं शोणितह्रदविद्रुमम् ॥ ६८ ॥
हसितोत्क्रुष्टनिर्घोषं नानाज्ञानसुदुस्तरम् ।
रोदनाश्रुमलक्षारं संगत्यागपरायणम् ॥ ६९ ॥
पुत्रदारजलौकौघं मित्रबान्धवपत्तनम् ।
अहिंसासत्यमर्यादं प्राणत्यागमहोर्मिणम् ॥ ७० ॥
वेदान्तगमनद्वीपं सर्वभूतदयोदधिम् ।
मोक्षदुर्लाभविषयं वडवामुखसागरम् ॥ ७१ ॥
तरन्ति यतयः सिद्धा ज्ञानयानेन भारत।
तीर्त्वातिदुस्तरं जन्म विशन्ति विमलं नभः ॥ ७२ ॥

शत्रुसूदन! तदनन्तर वे सिद्ध यति प्रज्ञारूपी नौकाके द्वारा उस संसाररूपी घोर सागरको तर जाते हैं, जिसमें दुःखरूपी जल भरा है। चिन्ता और शोकके बड़े-बड़े कुण्ड हैं। नाना प्रकारके रोग और मृत्यु विशाल ग्राहोंके समान हैं। महान् भय ही महानागोंके समान हैं। तमोगुण कछुए और रजोगुण मछलियाँ हैं। स्नेह ही कीचड़ है। बुढ़ापा ही उससे पार होनेमें कठिनाई है। ज्ञान ही उसका द्वीप है। नाना प्रकारके कर्मोंद्वारा वह अगाध बना हुआ है। सत्य ही उसका तीर है। नियम-व्रत आदि स्थिरता है। हिंसा ही उसका शीघ्रगामी महान् वेग है। वह नाना प्रकारके रसोंका भण्डार है। अनेक प्रकारकी प्रीतियाँ ही उस भवसागरके महारत्न हैं। दुःख और संताप ही वहाँकी वायु है। शोक और तृष्णाकी बड़ी-बड़ी भँवरें उठती रहती हैं। तीव्र व्याधियाँ उसके भीतर रहनेवाले महान् जलहस्ती हैं। हड्डियाँ ही उसके घाट हैं। कफ फेन हैं। दान मोतियोंकी राशि हैं। रक्त उसके कुण्डमें रहनेवाले मूँगा हैं। हँसना और चिल्लाना ही उस सागरकी गम्भीर गर्जना है। अनेक प्रकारके अज्ञान ही इसे अत्यन्त दुस्तर बनाये हुए हैं। रोदनजनित आँसू ही उसमें मलिन खारे जलके समान हैं। आसक्तियोंका त्याग ही उसमें परम आश्रय या दूसरा तट है। स्त्री-पुत्र जोंकके समान हैं। मित्र और बन्धु-बान्धव तटवर्ती नगर हैं। अहिंसा और सत्य उसकी सीमा हैं। प्राणोंका परित्याग ही उसकी उत्ताल तरंगें हैं। वेदान्तज्ञान द्वीप है। समस्त प्राणियोंके प्रति दयाभाव इसकी जलराशि हैं। मोक्ष उसमें दुर्लभ विषय है और नाना प्रकारके संताप उस संसारसागरके बड़वानल हैं। भरतनन्दन! उससे पार होकर वे आकाशस्वरूप निर्मल परब्रह्ममें प्रवेश कर जाते हैं॥६४—७२॥

विश्वास-प्रस्तुतिः

तत्र तान् सुकृतीन् सांख्यान् सूर्यो बहति रश्मिभिः।
पद्मतन्तुवदाविश्य प्रवहन् विषयान् नृप ॥ ७३ ॥

मूलम्

तत्र तान् सुकृतीन् सांख्यान् सूर्यो बहति रश्मिभिः।
पद्मतन्तुवदाविश्य प्रवहन् विषयान् नृप ॥ ७३ ॥

अनुवाद (हिन्दी)

राजन्! उन पुण्यात्मा सांख्ययोगी सिद्ध पुरुषोंको अपनी रश्मियोंद्वारा उनमें प्रविष्ट हुआ सूर्य अर्चिर्मार्गसे उस ब्रह्मलोकमें ले जानेके लिये ऊपरके लोकोंमें उसी प्रकार वहन करता है, जैसे कमलकी नाल सरोवरके जलको खींच लेती है॥७३॥

विश्वास-प्रस्तुतिः

तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत।
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस्तपोधनान् ॥ ७४ ॥

मूलम्

तत्र तान् प्रवहो वायुः प्रतिगृह्णाति भारत।
वीतरागान् यतीन् सिद्धान् वीर्ययुक्तांस्तपोधनान् ॥ ७४ ॥

अनुवाद (हिन्दी)

वहाँ प्रवहनामक वायु-अभिमानी देवता उन वीतराग शक्तिसम्पन्न सिद्ध तपोधन महापुरुषोंको सूर्य-अभिमानी देवतासे अपने अधिकारमें ले लेता है॥७४॥

विश्वास-प्रस्तुतिः

सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत।
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान्।
स तान् वहति कौन्तेय नभसः परमां गतिम् ॥ ७५ ॥

मूलम्

सूक्ष्मः शीतः सुगन्धी च सुखस्पर्शश्च भारत।
सप्तानां मरुतां श्रेष्ठो लोकान् गच्छति यः शुभान्।
स तान् वहति कौन्तेय नभसः परमां गतिम् ॥ ७५ ॥

अनुवाद (हिन्दी)

भरतनन्दन! कुन्तीकुमार! सूक्ष्म, शीतल, सुगन्धित, सुखस्पर्श एवं सातों वायुओंमें श्रेष्ठ जो वायुदेव शुभ लोकोंमें जाते हैं, वे फिर उन कल्याणमय सांख्ययोगियोंको आकाशकी ऊँची स्थितिमें पहुँचा देते हैं॥७५॥

विश्वास-प्रस्तुतिः

नभो वहति लोकेश रजसः परमां गतिम्।
रजो वहति राजेन्द्र सत्त्वस्य परमां गतिम् ॥ ७६ ॥
सत्त्वं वहति शुद्धात्मन् परं नारायणं प्रभुम्।
प्रभुर्वहति शुद्धात्मा परमात्मानमात्मना ॥ ७७ ॥
परमात्मानमासाद्य तद्भूतायतनामलाः ।
अमृतत्वाय कल्पन्ते न निवर्तन्ति वा विभो ॥ ७८ ॥

लोकेश्वर! आकाशाभिमानी देवता उन योगियोंको रजोगुणकी परमागतितक वहन करता है। अर्थात् तेजोमय विद्युत्-अभिमानी देवताओंके पास पहुँचा देता है। राजेन्द्र! वह रजोगुण अर्थात् विद्युदभिमानी देवता उनको सत्यकी परमगतितक अर्थात् जहाँ श्रीनारायणके पार्षदगण उनको लेनेके लिये प्रस्तुत रहते हैं, वहाँतक वहन करता है। शुद्धात्मन्! वहाँसे सत्त्वगुणयुक्त वे भगवान्‌के पार्षद उनको परम प्रभु श्रीनारायणके पास पहुँचा देते हैं। समर्थ राजन्! भगवान् नारायण स्वयं उनको विशुद्ध आत्मा परब्रह्म परमात्मामें प्रविष्ट कर देते हैं। परमात्माको पाकर तद्रूप हुए वे निर्मल योगीजन अमृतभावसम्पन्न हो जाते हैं, फिर नहीं लौटते॥७६—७८॥

विश्वास-प्रस्तुतिः

परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम्।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ ७९ ॥

मूलम्

परमा सा गतिः पार्थ निर्द्वन्द्वानां महात्मनाम्।
सत्यार्जवरतानां वै सर्वभूतदयावताम् ॥ ७९ ॥

अनुवाद (हिन्दी)

कुन्तीकुमार! जो सब प्रकारके द्वन्द्वोंसे रहित, सत्यवादी, सरल तथा सम्पूर्ण प्राणियोंपर दया करनेवाले हैं, उन महात्माओंको वही परमगति मिलती है॥७९॥

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते स्मरन्त्युत न वानघ ॥ ८० ॥
यदत्र तथ्यं तन्मे त्वं यथावद् वक्तुमर्हसि।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव ॥ ८१ ॥

मूलम्

स्थानमुत्तममासाद्य भगवन्तं स्थिरव्रताः ।
आजन्ममरणं वा ते स्मरन्त्युत न वानघ ॥ ८० ॥
यदत्र तथ्यं तन्मे त्वं यथावद् वक्तुमर्हसि।
त्वदृते पुरुषं नान्यं प्रष्टुमर्हामि कौरव ॥ ८१ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा— निष्पाप पितामह! स्थिरतापूर्वक श्रेष्ठ व्रतका पालन करनेवाले वे सांख्ययोगी महात्मा भगवान् नारायणको एवं उत्तम परमात्मपद (मोक्ष) को प्राप्त कर लेनेपर अपने जन्मसे लेकर मृत्युतकके बीते हुए वृत्तान्तको फिर कभी याद करते हैं या नहीं? (मोक्षावस्थामें विशेष-विशेष बातोंका ज्ञान रहता है या नहीं? यही मेरा प्रश्न है।) इस विषयमें जो तथ्य बात है, उसे आप यथार्थरूपसे बतानेकी कृपा करें। कुरुनन्दन! आपके सिवा दूसरे किसी पुरुषसे मैं ऐसा प्रश्न नहीं कर सकता॥८०-८१॥

विश्वास-प्रस्तुतिः

मोक्षे दोषो महानेष प्राप्य सिद्धिं गतानृषीन्।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ ८२ ॥
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप।
मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत्॥८३॥

मूलम्

मोक्षे दोषो महानेष प्राप्य सिद्धिं गतानृषीन्।
यदि तत्रैव विज्ञाने वर्तन्ते यतयः परे ॥ ८२ ॥
प्रवृत्तिलक्षणं धर्मं पश्यामि परमं नृप।
मग्नस्य हि परे ज्ञाने किं नु दुःखतरं भवेत्॥८३॥

अनुवाद (हिन्दी)

सिद्धावस्थाको प्राप्त ऋषियोंके लिये मोक्षमें यह एक बड़ा दोष प्रतीत होता है। वह यह कि यदि मोक्ष प्राप्त होनेपर भी वे यतिलोग विशेष ज्ञानमें ही विचरण करते हैं अर्थात् उनको पहलेकी स्मृति रहती है, तब तो मैं प्रवृत्तिरूप धर्मको ही सर्वश्रेष्ठ समझता हूँ। यदि कहें, मुक्तावस्थामें विशेष विज्ञानका अनुभव नहीं होता तब तो उस परम ज्ञानमें डूब जानेपर विशेष जानकारीका अभाव हो जाता है, इससे बढ़कर दुःख और क्या हो सकता सकता है?॥८२-८३॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः।
बुधानामपि सम्मोहः प्रश्नेऽस्मिन् भरतर्षभ ॥ ८४ ॥

मूलम्

यथान्यायं त्वया तात प्रश्नः पृष्टः सुसंकटः।
बुधानामपि सम्मोहः प्रश्नेऽस्मिन् भरतर्षभ ॥ ८४ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— तात! भरतश्रेष्ठ! तुमने यथोचित रीतिसे यह बहुत ही जटिल प्रश्न उपस्थित किया। इस प्रश्नपर विचार करते समय बड़े-बड़े विद्वान् भी मोहित हो जाते हैं॥८४॥

विश्वास-प्रस्तुतिः

अत्रापि तत्त्वं परमं शृणु सम्यङ् मयेरितम्।
बुद्धिश्व परमा यत्र कापिलानां महात्मनाम् ॥ ८५ ॥

मूलम्

अत्रापि तत्त्वं परमं शृणु सम्यङ् मयेरितम्।
बुद्धिश्व परमा यत्र कापिलानां महात्मनाम् ॥ ८५ ॥

अनुवाद (हिन्दी)

इस विषयमें भी जो परम तत्त्व है, उसे मैं भलीभाँति बता रहा हूँ, सुनो। यहाँ कपिलजीके द्वारा प्रतिपादित सांख्यमतका अनुसरण करनेवाले महात्मा पुरुषोंका जो उत्तम विचार है, वही प्रस्तुत किया जाता है॥८५॥

विश्वास-प्रस्तुतिः

इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥ ८६ ॥

मूलम्

इन्द्रियाण्येव बुध्यन्ते स्वदेहे देहिनां नृप।
कारणान्यात्मनस्तानि सूक्ष्मः पश्यति तैस्तु सः ॥ ८६ ॥

अनुवाद (हिन्दी)

नरेश्वर! देहधारियोंके अपने-अपने शरीरमें जो इन्द्रियाँ हैं, वे ही विशेष-विशेष विषयोंको देखती या अनुभव करती हैं; वे ही आत्माको विभिन्न ज्ञान करानेमें कारण हैं; क्योंकि वह सूक्ष्म आत्मा उन इन्द्रियोंद्वारा ही बाह्य विषयोंका दर्शन या प्रकाशन करता है (मुक्तावस्थामें मन और इन्द्रियोंसे सम्बन्ध न रहनेके कारण ही उसमें इन्द्रियजनित विशेष ज्ञानका अभाव देखा जाता है)॥८६॥

विश्वास-प्रस्तुतिः

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु।
विनश्यन्ति न संदेहः फेना इव महार्णवे ॥ ८७ ॥

मूलम्

आत्मना विप्रहीणानि काष्ठकुड्यसमानि तु।
विनश्यन्ति न संदेहः फेना इव महार्णवे ॥ ८७ ॥

अनुवाद (हिन्दी)

जैसे महासागरमें उठे हुए फेन नष्ट हो जाते हैं, उसी प्रकार जीवात्मासे परित्यक्त होनेपर मनुष्यकी काठ और दीवारकी भाँति जड इन्द्रियाँ प्रकृतिमें विलीन हो जाती हैं, इसमें संदेह नहीं है॥८७॥

विश्वास-प्रस्तुतिः

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ ८८ ॥

मूलम्

इन्द्रियैः सह सुप्तस्य देहिनः शत्रुतापन।
सूक्ष्मश्चरति सर्वत्र नभसीव समीरणः ॥ ८८ ॥

अनुवाद (हिन्दी)

शत्रुओंको ताप देनेवाले नरेश! जब शरीरधारी प्राणी इन्द्रियोंसहित निद्रित हो जाता है, तब उसका सूक्ष्मशरीर आकाशमें वायुके समान सर्वत्र विचरण करने लगता है अर्थात् स्वप्न देखने लगता है॥८८॥

विश्वास-प्रस्तुतिः

स पश्यति यथान्यायं स्पर्शान् स्पृशति वा विभो।
बुध्यमानो यथापूर्वमखिलेनेह भारत ॥ ८९ ॥

मूलम्

स पश्यति यथान्यायं स्पर्शान् स्पृशति वा विभो।
बुध्यमानो यथापूर्वमखिलेनेह भारत ॥ ८९ ॥

अनुवाद (हिन्दी)

प्रभो! भरतनन्दन! वह जाग्रत्-अवस्थाकी भाँति स्वप्नमें भी यथोचित रीतिसे दृश्य वस्तुओंको देखता है तथा स्पृश्य पदार्थोंका स्पर्श करता है। सारांश यह कि सम्पूर्ण विषयोंका वह जाग्रत्‌के समान ही अनुभव करता है॥८९॥

विश्वास-प्रस्तुतिः

इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि।
अनीशत्वात् प्रलीयन्ते सर्पा हतविषा इव ॥ ९० ॥

मूलम्

इन्द्रियाणीह सर्वाणि स्वे स्वे स्थाने यथाविधि।
अनीशत्वात् प्रलीयन्ते सर्पा हतविषा इव ॥ ९० ॥

अनुवाद (हिन्दी)

फिर सुषुप्ति-अवस्था होनेपर विषय-ज्ञानमें असमर्थ हुई सम्पूर्ण इन्द्रियाँ अपने-अपने स्थानमें उसी प्रकार विधिवत् लीन हो जाती हैं, जैसे विषहीन सर्प (भयसे) छिपे रहते हैं॥९०॥

विश्वास-प्रस्तुतिः

इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥ ९१ ॥

मूलम्

इन्द्रियाणां तु सर्वेषां स्वस्थानेष्वेव सर्वशः।
आक्रम्य गतयः सूक्ष्माश्चरत्यात्मा न संशयः ॥ ९१ ॥

अनुवाद (हिन्दी)

स्वप्नावस्थामें अपने-अपने स्थानोंमें स्थित हुई सम्पूर्ण इन्द्रियोंकी समस्त गतियोंको आक्रान्त करके जीवात्मा सूक्ष्म विषयोंमें विचरण करता है, इसमें संदेह नहीं है॥९१॥

विश्वास-प्रस्तुतिः

सत्त्वस्य च गुणान् कृत्स्नान् रजसश्च गुणान् पुनः।
गुणांश्च तमसः सर्वान् गुणान् बुद्धेश्च भारत ॥ ९२ ॥
गुणांश्च मनसश्चापि नभसश्च गुणांश्च सः।
गुणान् वायोश्च धर्मात्मंस्तेजसश्च गुणान् पुनः ॥ ९३ ॥
अपां गुणांस्तथा पार्थ पार्थिवांश्च गुणानपि।
सर्वाण्येव गुणैर्व्याप्य क्षेत्रज्ञेषु युधिष्ठिर ॥ ९४ ॥
मनोऽनु याति क्षेत्रज्ञं कर्मणी च शुभाशुभे।
शिष्या इव महात्मानमिन्द्रियाणि च तं प्रभो ॥ ९५ ॥
प्रकृतिं चाप्यतिक्रम्य गच्छत्यात्मानमव्ययम् ।
परं नारायणात्मानं निर्द्वद्वं प्रकृतेः परम् ॥ ९६ ॥

भरतनन्दन! धर्मात्मा राजा युधिष्ठिर! परब्रह्म परमात्मा सात्त्विक, राजस और तामस गुणोंको एवं बुद्धि, मन, आकाश, वायु, तेज, जल, और पृथ्वी-इन सबके सम्पूर्ण गुणोंको तथा अन्य सब वस्तुओंको भी अपने गुणोंद्वारा व्याप्त करके सभी क्षेत्रज्ञों (जीवात्माओं) में स्थित हैं, प्रभो! जैसे शिष्य अपने गुरुके पीछे चलते हैं, उसी प्रकार मन, इन्द्रियाँ और शुभाशुभ कर्म भी उस जीवात्माके पीछे-पीछे चलते हैं। जब जीवात्मा इन्द्रियों और प्रकृतिको भी लाँघकर जाता है, तब उस नारायणस्वरूप अविनाशी परमात्माको प्राप्त हो जाता है, जो द्वन्द्वरहित और मायासे अतीत है॥९२—९६॥

विश्वास-प्रस्तुतिः

विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् ।
परमात्मानमगुणं न निवर्तति भारत ॥ ९७ ॥

मूलम्

विमुक्तः पुण्यपापेभ्यः प्रविष्टस्तमनामयम् ।
परमात्मानमगुणं न निवर्तति भारत ॥ ९७ ॥

अनुवाद (हिन्दी)

भारत! पुण्य-पापसे रहित हुआ सांख्ययोगी मुक्त होकर जब उन्हीं निर्गुण-निर्विकार नारायणस्वरूप परमात्मामें प्रविष्ट हो जाता है, फिर वह इस संसारमें नहीं लौटता है॥९७॥

विश्वास-प्रस्तुतिः

शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ ९८ ॥

मूलम्

शिष्टं तत्र मनस्तात इन्द्रियाणि च भारत।
आगच्छन्ति यथाकालं गुरोः संदेशकारिणः ॥ ९८ ॥

अनुवाद (हिन्दी)

भरतनन्दन! इस प्रकार जीवन्मुक्त पुरुषका आत्मा तो परमात्मामें मिल जाता है, परंतु प्रारब्धवश जबतक शरीर रहता है, तबतक उसके मन और इन्द्रियाँ शेष रहते हैं और गुरुके आदेश पालन करनेवाले शिष्योंके समान यथासमय यहाँ गमनागमन करते हैं॥९८॥

विश्वास-प्रस्तुतिः

शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥ ९९ ॥

मूलम्

शक्यं चाल्पेन कालेन शान्तिं प्राप्तुं गुणार्थिना।
एवमुक्तेन कौन्तेय युक्तज्ञानेन मोक्षिणा ॥ ९९ ॥

अनुवाद (हिन्दी)

कुन्तीनन्दन! इस प्रकार बताये हुए ज्ञानसे सम्पन्न मोक्षाधिकारी तथा आध्यात्मिक उन्नतिकी अभिलाषा रखनेवाला पुरुष थोड़े ही समयमें परम शान्ति प्राप्त कर सकता है॥९९॥

विश्वास-प्रस्तुतिः

सांख्या राजन् महाप्राज्ञा गच्छन्ति परमां गतिम्।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥ १०० ॥

मूलम्

सांख्या राजन् महाप्राज्ञा गच्छन्ति परमां गतिम्।
ज्ञानेनानेन कौन्तेय तुल्यं ज्ञानं न विद्यते ॥ १०० ॥

अनुवाद (हिन्दी)

राजन्! कुन्तीकुमार! महाज्ञानी सांख्ययोगी ऊपर बताए हुए इसी परमगतिको प्राप्त होते हैं। इस ज्ञानके समान दूसरा कोई ज्ञान नहीं है॥१००॥

विश्वास-प्रस्तुतिः

अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम्।
अक्षरं ध्रुवमेवोक्तं पूर्णं ब्रह्म सनातनम् ॥ १०१ ॥

मूलम्

अत्र ते संशयो मा भूज्ज्ञानं सांख्यं परं मतम्।
अक्षरं ध्रुवमेवोक्तं पूर्णं ब्रह्म सनातनम् ॥ १०१ ॥

अनुवाद (हिन्दी)

सांख्यज्ञान सबसे उत्कृष्ट माना गया है। इस विषयमें तुम्हें तनिक भी संशय नहीं होना चाहिये। इसमें अक्षर, ध्रुव एवं पूर्ण सनातन ब्रह्मका ही प्रतिपादन हुआ है॥१०१॥

विश्वास-प्रस्तुतिः

अनादिमध्यनिधनं निर्द्वद्धं कर्तृ शाश्वतम्।
कूटस्थं चैव नित्यं च यद् वदन्ति मनीषिणः ॥ १०२ ॥

मूलम्

अनादिमध्यनिधनं निर्द्वद्धं कर्तृ शाश्वतम्।
कूटस्थं चैव नित्यं च यद् वदन्ति मनीषिणः ॥ १०२ ॥

अनुवाद (हिन्दी)

वह ब्रह्म आदि, मध्य और अन्तसे रहित, निर्द्वन्द्व, जगत्‌की उत्पत्तिका हेतुभूत, शाश्वत, कूटस्थ और नित्य है, ऐसा मनीषी पुरुष कहते हैं॥१०२॥

विश्वास-प्रस्तुतिः

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ १०३ ॥

मूलम्

यतः सर्वाः प्रवर्तन्ते सर्गप्रलयविक्रियाः।
यच्च शंसन्ति शास्त्रेषु वदन्ति परमर्षयः ॥ १०३ ॥

अनुवाद (हिन्दी)

संसारकी सृष्टि और प्रलयरूप सारे विकार उसीसे सम्भव होते हैं। महर्षि अपने शास्त्रोंमें उसीकी प्रशंसा करते हैं॥१०३॥

विश्वास-प्रस्तुतिः

सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः।
ब्रह्माणं परमं देवमनन्तं परमच्युतम् ॥ १०४ ॥
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः।
सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ १०५ ॥

मूलम्

सर्वे विप्राश्च देवाश्च तथा शमविदो जनाः।
ब्रह्माणं परमं देवमनन्तं परमच्युतम् ॥ १०४ ॥
प्रार्थयन्तश्च तं विप्रा वदन्ति गुणबुद्धयः।
सम्यग्युक्तास्तथा योगाः सांख्याश्चामितदर्शनाः ॥ १०५ ॥

अनुवाद (हिन्दी)

समस्त ब्राह्मण, देवता और शान्तिका अनुभव करनेवाले लोग उसी अनन्त, अच्युत, ब्राह्मणहितैषी तथा परमदेव परमात्माकी स्तुति-प्रार्थना करते हैं। उनके गुणोंका चिन्तन करते हुए उनकी महिमाका गान करते हैं। योगमें उत्तम सिद्धिको प्राप्त हुए योगी तथा अपार ज्ञानवाले सांख्यवेत्ता पुरुष भी उसीके गुण गाते हैं॥

विश्वास-प्रस्तुतिः

अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥ १०६ ॥

मूलम्

अमूर्तेस्तस्य कौन्तेय सांख्यं मूर्तिरिति श्रुतिः।
अभिज्ञानानि तस्याहुर्मतं हि भरतर्षभ ॥ १०६ ॥

अनुवाद (हिन्दी)

कुन्तीनन्दन! ऐसी प्रसिद्धि है कि यह सांख्यशास्त्र ही उस निराकार परमात्माका आकार है। भरतश्रेष्ठ! जितने ज्ञान हैं, वे सब सांख्यकी ही मान्यताका प्रतिपादन करते हैं॥१०६॥

विश्वास-प्रस्तुतिः

द्विविधानीह भूतानि पृथिव्यां पृथिवीपते।
जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते ॥ १०७ ॥

मूलम्

द्विविधानीह भूतानि पृथिव्यां पृथिवीपते।
जङ्गमागमसंज्ञानि जङ्गमं तु विशिष्यते ॥ १०७ ॥

अनुवाद (हिन्दी)

पृथ्वीनाथ! इस भूतलपर स्थावर और जंगम—दो प्रकारके प्राणी उपलब्ध होते हैं। उनमें भी जंगम ही श्रेष्ठ है॥१०७॥

विश्वास-प्रस्तुतिः

ज्ञानं महद् यद्धि महत्सु राजन्
वेदेषु सांख्येषु तथैव योगे।
यच्चापि दृष्टं विविधं पुराणे
सांख्यागतं तन्निखिलं नरेन्द्र ॥ १०८ ॥

मूलम्

ज्ञानं महद् यद्धि महत्सु राजन्
वेदेषु सांख्येषु तथैव योगे।
यच्चापि दृष्टं विविधं पुराणे
सांख्यागतं तन्निखिलं नरेन्द्र ॥ १०८ ॥

अनुवाद (हिन्दी)

राजन्! नरेश्वर! महात्मा पुरुषोंमें, वेदोंमें, सांख्यों (दर्शनों) में, योगशास्त्रमें तथा पुराणोंमें जो नाना प्रकारका उत्तम ज्ञान देखा जाता है, वह सब सांख्यसे ही आया हुआ है॥१०८॥

विश्वास-प्रस्तुतिः

यच्चेतिहासेषु महत्सु दृष्टं
यच्चार्थशास्त्रे नृप शिष्टजुष्टे ।
ज्ञानं च लोके यदिहास्ति किंचित्
सांख्यागतं तच्च महन्महात्मन् ॥ १०९ ॥

मूलम्

यच्चेतिहासेषु महत्सु दृष्टं
यच्चार्थशास्त्रे नृप शिष्टजुष्टे ।
ज्ञानं च लोके यदिहास्ति किंचित्
सांख्यागतं तच्च महन्महात्मन् ॥ १०९ ॥

अनुवाद (हिन्दी)

नरेश! महात्मन्! बड़े-बड़े इतिहासोंमें, सत्पुरुषों-द्वारा सेवित अर्थशास्त्रमें तथा इस संसारमें जो कुछ भी महान् ज्ञान देखा गया है, वह सब सांख्यसे ही प्राप्त हुआ है॥१०९॥

विश्वास-प्रस्तुतिः

शमश्च दृष्टः परमं बलं च
ज्ञानं च सूक्ष्मं च यथावदुक्तम्।
तपांसि सूक्ष्माणि सुखानि चैव
सांख्ये यथावद् विहितानि राजन् ॥ ११० ॥

मूलम्

शमश्च दृष्टः परमं बलं च
ज्ञानं च सूक्ष्मं च यथावदुक्तम्।
तपांसि सूक्ष्माणि सुखानि चैव
सांख्ये यथावद् विहितानि राजन् ॥ ११० ॥

अनुवाद (हिन्दी)

राजन्! प्रत्यक्ष प्राप्त मन और इन्द्रियोंका संयम, उत्तम बल, सूक्ष्मज्ञान तथा परिणाममें सुख देनेवाले जो सूक्ष्म तप बतलाये गये हैं, उन सबका सांख्यशास्त्रमें यथावत् वर्णन किया गया है॥११०॥

विश्वास-प्रस्तुतिः

विपर्यये तस्य हि पार्थ देवान्
गच्छन्ति सांख्याः सततं सुखेन।
तांश्चानुसंचार्य ततः कृतार्थाः
पतन्ति विप्रेषु यतेषु भूखः ॥ १११ ॥

मूलम्

विपर्यये तस्य हि पार्थ देवान्
गच्छन्ति सांख्याः सततं सुखेन।
तांश्चानुसंचार्य ततः कृतार्थाः
पतन्ति विप्रेषु यतेषु भूखः ॥ १११ ॥

अनुवाद (हिन्दी)

कुन्तीकुमार! यदि साधनमें कुछ त्रुटि रह जानेके कारण सांख्यका सम्यक् ज्ञान प्राप्त नहीं हुआ हो तो भी सांख्ययोगके साधक देवलोकमें अवश्य जाते हैं और वहाँ निरन्तर सुखसे रहते हुए देवताओंका आधिपत्य पाकर कृतार्थ हो जाते हैं। तदनन्तर पुण्यक्षयके पश्चात् वे इस लोकमें आकर पुनः साधनके लिये यत्नशील ब्राह्मणोंके यहाँ जन्म ग्रहण करते हैं॥१११॥

विश्वास-प्रस्तुतिः

हित्वा च देहं प्रविशन्ति देवं
दिवौकसो द्यामिव पार्थ सांख्याः।
अतोऽधिकं तेऽभिरता महार्हे
सांख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥ ११२ ॥

मूलम्

हित्वा च देहं प्रविशन्ति देवं
दिवौकसो द्यामिव पार्थ सांख्याः।
अतोऽधिकं तेऽभिरता महार्हे
सांख्ये द्विजाः पार्थिव शिष्टजुष्टे ॥ ११२ ॥

अनुवाद (हिन्दी)

पार्थ! सांख्यज्ञानी शरीर-त्यागके पश्चात् परमदेव परमात्मामें उसी प्रकार प्रवेश कर जाते हैं, जैसे देवता स्वर्गमें। पृथ्वीनाथ! अतः शिष्ट पुरुषोंद्वारा सेवित परम पूजनीय सांख्यशास्त्रमें वे सभी द्विज अधिक अनुरक्त रहते हैं॥११२॥

विश्वास-प्रस्तुतिः

तेषां न तिर्यग्गमनं हि दृष्टं
नार्वाग्गतिः पापकृताधिवासः ।
न वा प्रधाना अपि ते द्विजातयो
ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥ ११३ ॥

मूलम्

तेषां न तिर्यग्गमनं हि दृष्टं
नार्वाग्गतिः पापकृताधिवासः ।
न वा प्रधाना अपि ते द्विजातयो
ये ज्ञानमेतन्नृपतेऽनुरक्ताः ॥ ११३ ॥

अनुवाद (हिन्दी)

राजन्! जो इस सांख्य-ज्ञानमें अनुरक्त हैं, वे ही ब्राह्मण प्रधान हैं, अतः उन्हें मृत्युके पश्चात् कभी पशु पक्षी आदिकी योनिमें जाना पड़ा हो, ऐसा नहीं देखा गया है। वे कभी नरकादि अधोगतिको भी नहीं प्राप्त होते हैं तथा उन्हें पापाचारियोंके बीचमें भी नहीं रहना पड़ता है॥११३॥

विश्वास-प्रस्तुतिः

सांख्यं विशालं परमं पुराणं
महार्णवं विमलमुदारकान्तम् ।
कृत्स्नं च सांख्यं नृपते महात्मा
नारायणो धारयतेऽप्रमेयम् ॥ ११४ ॥

मूलम्

सांख्यं विशालं परमं पुराणं
महार्णवं विमलमुदारकान्तम् ।
कृत्स्नं च सांख्यं नृपते महात्मा
नारायणो धारयतेऽप्रमेयम् ॥ ११४ ॥

अनुवाद (हिन्दी)

सांख्यका ज्ञान अत्यन्त विशाल और परम प्राचीन है। यह महासागरके समान अगाध, निर्मल, उदार भावोंसे परिपूर्ण और अतिसुन्दर है। नरनाथ! परमात्मा भगवान् नारायण इस सम्पूर्ण अप्रमेय सांख्य-ज्ञानको पूर्णरूपसे धारण करते हैं॥११४॥

विश्वास-प्रस्तुतिः

एतन्मयोक्तं नरदेव तत्त्वं
नारायणो विश्वमिदं पुराणम् ।
स सर्गकाले च करोति सर्गं
संहारकाले च तदत्ति भूयः ॥ ११५ ॥
संहृत्य सर्वं निजदेहसंस्थं
कृत्वाप्सु शेते जगदन्तरात्मा ॥ ११६ ॥

मूलम्

एतन्मयोक्तं नरदेव तत्त्वं
नारायणो विश्वमिदं पुराणम् ।
स सर्गकाले च करोति सर्गं
संहारकाले च तदत्ति भूयः ॥ ११५ ॥
संहृत्य सर्वं निजदेहसंस्थं
कृत्वाप्सु शेते जगदन्तरात्मा ॥ ११६ ॥

अनुवाद (हिन्दी)

नरदेव! यह मैंने तुमसे सांख्यका तत्त्व बतलाया है। इस पुरातन विश्वके रूपमें साक्षात् भगवान् नारायण ही सर्वत्र विराजमान हैं। वे ही सृष्टिके समय जगत्‌की सृष्टि और संहारकालमें उसको अपनेमें विलीन कर लेते हैं। इस प्रकार जगत्‌को अपने शरीरके भीतर ही स्थापित करके वे जगत्‌के अन्तरात्मा भगवान् नारायण एकार्णवके जलमें शयन करते हैं॥११५-११६॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सांख्यकथने एकाधिकत्रिशततमोऽध्यायः ॥ ३०१ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत मोक्षधर्मपर्वमें सांख्यतत्त्वका वर्णनविषयक तीन सौ एकवाँ अध्याय पूरा हुआ॥३०१॥

  1. ज्ञानशक्ति, वैराग्य, स्वामिभाव, तप, सत्य, क्षमा, धैर्य, स्वच्छता, आत्माका बोध और अधिष्ठातृत्व—ये दस सात्त्विक गुण बताये गये हैं। [^२]:असंतोष, पश्चात्ताप, शोक, लोभ, अक्षमा, दमन करनेकी प्रवृत्ति, काम, क्रोध और ईर्ष्या-ये नौ राजस गुण बताये गये हैं। [^३]:अविवेक, मोह, प्रमाद, स्वप्न, निद्रा, अभिमान, विषाद और प्रीतिका अभाव-ये आठ तामस गुण हैं। [^४]:महत्, अहंकार, शब्दतन्मात्रा, स्पर्शतन्मात्रा, रूपतन्मात्रा, रसतन्मात्रा और गन्धतन्मात्रा-ये सात गुण बुद्धिके हैं। ↩︎ ↩︎