२०८ दिशास्वस्तिकम्

भागसूचना

अष्टाधिकद्विशततमोऽध्यायः

सूचना (हिन्दी)

ब्रह्माके पुत्र मरीचि आदि प्रजापतियोंके वंशका तथा प्रत्येक दिशामें निवास करनेवाले महर्षियोंका वर्णन

मूलम् (वचनम्)

युधिष्ठिर उवाच

विश्वास-प्रस्तुतिः

के पूर्वमासन् पतयः प्रजानां भरतर्षभ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥ १ ॥

मूलम्

के पूर्वमासन् पतयः प्रजानां भरतर्षभ।
के चर्षयो महाभागा दिक्षु प्रत्येकशः स्मृताः ॥ १ ॥

अनुवाद (हिन्दी)

युधिष्ठिरने पूछा— भरतश्रेष्ठ! पूर्वकालमें कौन-कौन-से लोग प्रजापति थे और प्रत्येक दिशामें किन-किन महाभाग महर्षियोंकी स्थिति मानी गयी है॥१॥

मूलम् (वचनम्)

भीष्म उवाच

विश्वास-प्रस्तुतिः

श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि।
प्रजानां पतयो येऽस्मिन् दिक्षु ये चर्षयः स्मृताः ॥ २ ॥

मूलम्

श्रूयतां भरतश्रेष्ठ यन्मां त्वं परिपृच्छसि।
प्रजानां पतयो येऽस्मिन् दिक्षु ये चर्षयः स्मृताः ॥ २ ॥

अनुवाद (हिन्दी)

भीष्मजीने कहा— भरतश्रेष्ठ! इस जगत्‌में जो प्रजापति रहे हैं तथा सम्पूर्ण दिशाओंमें जिन-जिन ऋषियोंकी स्थिति मानी गयी है, उन सबको जिनके विषयमें तुम मुझसे पूछते हो; मैं बताता हूँ, सुनो॥२॥

विश्वास-प्रस्तुतिः

एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः।
ब्रह्मणः सप्त वै पुत्रा महात्मानः स्वयम्भुवः ॥ ३ ॥

मूलम्

एकः स्वयम्भूर्भगवानाद्यो ब्रह्मा सनातनः।
ब्रह्मणः सप्त वै पुत्रा महात्मानः स्वयम्भुवः ॥ ३ ॥

अनुवाद (हिन्दी)

एकमात्र सनातन भगवान् स्वयम्भू ब्रह्मा सबके आदि हैं। स्वयम्भू ब्रह्माके सात महात्मा पुत्र बताये गये हैं॥३॥

विश्वास-प्रस्तुतिः

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
वसिष्ठश्च महाभागः सदृशो वै स्वयम्भुवा ॥ ४ ॥

मूलम्

मरीचिरत्र्यङ्गिरसौ पुलस्त्यः पुलहः क्रतुः।
वसिष्ठश्च महाभागः सदृशो वै स्वयम्भुवा ॥ ४ ॥

अनुवाद (हिन्दी)

उनके नाम इस प्रकार हैं—मरीचि, अत्रि, अंगिरा, पुलस्त्य, पुलह, क्रतु तथा महाभाग वसिष्ठ। ये सभी स्वयम्भू ब्रह्माके समान ही शक्तिशाली हैं॥४॥

विश्वास-प्रस्तुतिः

सप्तब्रह्माण इत्येते पुराणे निश्चयं गताः।
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥ ५ ॥

मूलम्

सप्तब्रह्माण इत्येते पुराणे निश्चयं गताः।
अत ऊर्ध्वं प्रवक्ष्यामि सर्वानेव प्रजापतीन् ॥ ५ ॥

अनुवाद (हिन्दी)

पुराणमें ये सात ब्रह्मा निश्चित किये गये हैं। अब मैं समस्त प्रजापतियोंका वर्णन आरम्भ करता हूँ॥५॥

विश्वास-प्रस्तुतिः

अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः ।
प्राचीनबर्हिर्भगवांस्तस्मात् प्राचेतसो दश ॥ ६ ॥

मूलम्

अत्रिवंशसमुत्पन्नो ब्रह्मयोनिः सनातनः ।
प्राचीनबर्हिर्भगवांस्तस्मात् प्राचेतसो दश ॥ ६ ॥

अनुवाद (हिन्दी)

अत्रिकुलमें उत्पन्न जो सनातन ब्रह्मयोनि भगवान् प्राचीनबर्हि हैं, उनसे प्राचेतस नामवाले दस प्रजापति उत्पन्न हुए॥६॥

विश्वास-प्रस्तुतिः

दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः।
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते॥७॥

मूलम्

दशानां तनयस्त्वेको दक्षो नाम प्रजापतिः।
तस्य द्वे नामनी लोके दक्षः क इति चोच्यते॥७॥

अनुवाद (हिन्दी)

उन दसोंके एकमात्र पुत्र दक्ष नामसे प्रसिद्ध प्रजापति हैं। उनके दो नाम बताये जाते हैं—‘दक्ष’ और ‘क’॥७॥

विश्वास-प्रस्तुतिः

मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते।
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः ॥ ८ ॥

मूलम्

मरीचेः कश्यपः पुत्रस्तस्य द्वे नामनी स्मृते।
अरिष्टनेमिरित्येके कश्यपेत्यपरे विदुः ॥ ८ ॥

अनुवाद (हिन्दी)

मरीचिके पुत्र जो कश्यप हैं, उनके भी दो नाम माने गये हैं। कुछ लोग उन्हें अरिष्टनेमि कहते हैं और दूसरे लोग उन्हें कश्यपके नामसे जानते हैं॥८॥

विश्वास-प्रस्तुतिः

अत्रेश्चैवौरसः श्रीमान् राजा सोमश्च वीर्यवान्।
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥ ९ ॥

मूलम्

अत्रेश्चैवौरसः श्रीमान् राजा सोमश्च वीर्यवान्।
सहस्रं यश्च दिव्यानां युगानां पर्युपासिता ॥ ९ ॥

अनुवाद (हिन्दी)

अत्रिके औरस पुत्र श्रीमान् और बलवान् राजा सोम हुए, जिन्होंने सहस्र दिव्य युगोंतक भगवान्‌की उपासना की थी॥९॥

विश्वास-प्रस्तुतिः

अर्यमा चैव भगवान् ये चास्य तनया विभो।
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥ १० ॥

मूलम्

अर्यमा चैव भगवान् ये चास्य तनया विभो।
एते प्रदेशाः कथिता भुवनानां प्रभावनाः ॥ १० ॥

अनुवाद (हिन्दी)

प्रभो! भगवान् अर्यमा और उनके सभी पुत्र—ये प्रदेश (आदेश देनेवाले शासक) तथा प्रभावन (उत्तम स्रष्टा) कहे गये हैं॥१०॥

विश्वास-प्रस्तुतिः

शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत।
एकैकस्यां सहस्रं तु तनयानामभूत् तदा ॥ ११ ॥
एवं शतसहस्राणां शतं तस्य महात्मनः।
पुत्राणां च न ते कंचिदिच्छन्त्यन्यं प्रजापतिम् ॥ १२ ॥

मूलम्

शशबिन्दोश्च भार्याणां सहस्राणि दशाच्युत।
एकैकस्यां सहस्रं तु तनयानामभूत् तदा ॥ ११ ॥
एवं शतसहस्राणां शतं तस्य महात्मनः।
पुत्राणां च न ते कंचिदिच्छन्त्यन्यं प्रजापतिम् ॥ १२ ॥

अनुवाद (हिन्दी)

धर्मसे विचलित न होनेवाले युधिष्ठिर! शशबिन्दुके दस हजार स्त्रियाँ थीं। उनमेंसे प्रत्येकके गर्भसे एक-एक हजार पुत्र उत्पन्न हुए। इस प्रकार उन महात्माके एक करोड़ पुत्र थे। वे उनके सिवा किसी दूसरे प्रजापतिकी इच्छा नहीं करते थे॥११-१२॥

विश्वास-प्रस्तुतिः

प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम्।
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः ॥ १३ ॥

मूलम्

प्रजामाचक्षते विप्राः पुराणाः शाशबिन्दवीम्।
स वृष्णिवंशप्रभवो महावंशः प्रजापतेः ॥ १३ ॥

अनुवाद (हिन्दी)

प्राचीनकालके ब्राह्मण अधिकांश प्रजाकी उत्पत्ति शशबिन्दुसे ही बताते हैं। प्रजापतिका वह महान् वंश ही वृष्णिवंशका उत्पादक हुआ॥१३॥

विश्वास-प्रस्तुतिः

एते प्रजानां पतयः समुद्‌दिष्टा यशस्विनः।
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥ १४ ॥

मूलम्

एते प्रजानां पतयः समुद्‌दिष्टा यशस्विनः।
अतः परं प्रवक्ष्यामि देवांस्त्रिभुवनेश्वरान् ॥ १४ ॥

अनुवाद (हिन्दी)

युधिष्ठिर! ये सब यशस्वी प्रजापति बताये गये हैं। अब मैं तीनों लोकोंपर शासन करनेवाले देवताओंका परिचय दूँगा॥१४॥

विश्वास-प्रस्तुतिः

भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा।
सविता चैव धाता च विवस्वांश्च महाबलः ॥ १५ ॥
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
इत्येते द्वादशादित्याः कश्यपस्यात्मसम्भवाः ॥ १६ ॥

मूलम्

भगोंऽशश्चार्यमा चैव मित्रोऽथ वरुणस्तथा।
सविता चैव धाता च विवस्वांश्च महाबलः ॥ १५ ॥
त्वष्टा पूषा तथैवेन्द्रो द्वादशो विष्णुरुच्यते।
इत्येते द्वादशादित्याः कश्यपस्यात्मसम्भवाः ॥ १६ ॥

अनुवाद (हिन्दी)

भग, अंश, अर्यमा, मित्र, वरुण, सविता, धाता, महाबली विवस्वान्, त्वष्टा, पूषा, इन्द्र और बारहवें विष्णु कहे गये हैं। ये बारह आदित्य हैं, जो कश्यप और अदितिके पुत्र हैं॥१५-१६॥

विश्वास-प्रस्तुतिः

नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि।
मार्तण्डस्यात्मजावेतावष्टमस्य महात्मनः ॥ १७ ॥

मूलम्

नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनावपि।
मार्तण्डस्यात्मजावेतावष्टमस्य महात्मनः ॥ १७ ॥

अनुवाद (हिन्दी)

नासत्य और दस्र—ये दोनों अश्विनीकुमार बताये गये हैं। ये दोनों अष्टम आदित्य महात्मा सूर्यके पुत्र हैं॥

विश्वास-प्रस्तुतिः

ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः।
त्वष्टुश्चैवात्मजः श्रीमान् विश्वरूपो महायशाः ॥ १८ ॥

मूलम्

ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः।
त्वष्टुश्चैवात्मजः श्रीमान् विश्वरूपो महायशाः ॥ १८ ॥

अनुवाद (हिन्दी)

ये तथा पूर्वोक्त देवता—दो प्रकारके पितर माने गये हैं। त्वष्टाके पुत्र महायशस्वी श्रीमान् विश्वरूप हुए॥

विश्वास-प्रस्तुतिः

अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ १९ ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥ २० ॥

मूलम्

अजैकपादहिर्बुध्न्यो विरूपाक्षोऽथ रैवतः ।
हरश्च बहुरूपश्च त्र्यम्बकश्च सुरेश्वरः ॥ १९ ॥
सावित्रश्च जयन्तश्च पिनाकी चापराजितः।
पूर्वमेव महाभागा वसवोऽष्टौ प्रकीर्तिताः ॥ २० ॥

अनुवाद (हिन्दी)

अजैकपाद, अहिर्बुध्न्य, विरूपाक्ष, रैवत, हर, बहुरूप, त्र्यम्बक, सुरेश्वर, सावित्र, जयन्त, पिनाकी और अपराजित—ये ग्यारह रुद्र हैं। महाभाग आठ वसुओंके नाम पहले ही बताये गये हैं॥१९-२०॥

विश्वास-प्रस्तुतिः

एत एवंविधा देवा मनोरेव प्रजापतेः।
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः ॥ २१ ॥

मूलम्

एत एवंविधा देवा मनोरेव प्रजापतेः।
ते च पूर्वं सुराश्चेति द्विविधाः पितरः स्मृताः ॥ २१ ॥

अनुवाद (हिन्दी)

इस प्रकार ये देवता प्रजापति मनुकी ही संतान हैं। वे तथा पूर्वोक्त देवता—ये दो प्रकारके पितर माने गये हैं॥२१॥

विश्वास-प्रस्तुतिः

शीलयौवनतस्त्वन्यस्तथान्यः सिद्धसाध्ययोः ।
ऋभवो मरुतश्चैव देवानां चोदितो गणः ॥ २२ ॥

मूलम्

शीलयौवनतस्त्वन्यस्तथान्यः सिद्धसाध्ययोः ।
ऋभवो मरुतश्चैव देवानां चोदितो गणः ॥ २२ ॥

अनुवाद (हिन्दी)

देवताओंमें एक वर्ग ऐसा है, जो सुन्दर शील-स्वभाव और अक्षय यौवनसे सम्पन्न है। दूसरा वर्ग सिद्धों और साध्योंका है। ऋभु और मरुत्—ये देवताओंके समुदायोंके नाम हैं॥२२॥

विश्वास-प्रस्तुतिः

एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ ।
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा ॥ २३ ॥

मूलम्

एवमेते समाम्नाता विश्वेदेवास्तथाश्विनौ ।
आदित्याः क्षत्रियास्तेषां विशश्च मरुतस्तथा ॥ २३ ॥

अनुवाद (हिन्दी)

इसी प्रकार ये विश्वेदेव और अश्विनीकुमार भी देवताओंके गण माने गये हैं। इन देवताओंमें आदित्यगण क्षत्रिय और मरुद्‌गण वैश्य माने जाते हैं॥२३॥

विश्वास-प्रस्तुतिः

अश्विनौ तु स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ।
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ॥ २४ ॥

मूलम्

अश्विनौ तु स्मृतौ शूद्रौ तपस्युग्रे समास्थितौ।
स्मृतास्त्वङ्गिरसो देवा ब्राह्मणा इति निश्चयः ॥ २४ ॥

अनुवाद (हिन्दी)

उग्र तपस्यामें लगे हुए दोनों अश्विनीकुमारोंको शूद्र कहा जाता है। अंगिरा गोत्रवाले सम्पूर्ण देवता ब्राह्मण माने गये हैं। यही विद्वानोंका निश्चय है॥२४॥

विश्वास-प्रस्तुतिः

इत्येतत् सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्।
एतान् वै प्रातरुत्थाय देवान् यस्तु प्रकीर्तयेत् ॥ २५ ॥
स्वजादन्यकृताच्चैव सर्वपापात् प्रमुच्यते ।

मूलम्

इत्येतत् सर्वदेवानां चातुर्वर्ण्यं प्रकीर्तितम्।
एतान् वै प्रातरुत्थाय देवान् यस्तु प्रकीर्तयेत् ॥ २५ ॥
स्वजादन्यकृताच्चैव सर्वपापात् प्रमुच्यते ।

अनुवाद (हिन्दी)

इस प्रकार सम्पूर्ण देवताओंमें जो चार वर्ण हैं, उनका वर्णन किया गया। जो सबेरे उठकर इन देवताओंका कीर्तन करता है, वह स्वयं किये हुए तथा दूसरोंके संसर्गसे प्राप्त हुए सम्पूर्ण पापसमूहसे मुक्त हो जाता है॥२५॥

विश्वास-प्रस्तुतिः

यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू ॥ २६ ॥
औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः।

मूलम्

यवक्रीतोऽथ रैभ्यश्च अर्वावसुपरावसू ॥ २६ ॥
औशिजश्चैव कक्षीवान् बलश्चाङ्गिरसः सुताः।

अनुवाद (हिन्दी)

यवक्रीत, रैभ्य, अर्वावसु, परावसु, औशिज, कक्षीवान् और बल—ये अंगिराके पुत्र हैं॥२६॥

विश्वास-प्रस्तुतिः

ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ॥ २७ ॥
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ।

मूलम्

ऋषिर्मेधातिथेः पुत्रः कण्वो बर्हिषदस्तथा ॥ २७ ॥
त्रैलोक्यभावनास्तात प्राच्यां सप्तर्षयस्तथा ।

अनुवाद (हिन्दी)

तात! मेधातिथिके पुत्र कण्वमुनि, बर्हिषद तथा त्रिलोकीको उत्पन्न करनेमें समर्थ सप्तर्षिगण हैं, जो पूर्व दिशामें स्थित होते हैं॥२७॥

विश्वास-प्रस्तुतिः

उन्मुचो विमुचश्चैव स्वस्त्यात्रेयश्च वीर्यवान् ॥ २८ ॥
प्रमुचश्चेध्मवाहश्च भगवांश्च दृढव्रतः ।
मित्रावरुणयोः पुत्रस्तथागस्त्यः प्रतापवान् ॥ २९ ॥
एते ब्रह्मर्षयो नित्यमास्थिता दक्षिणां दिशम्।

उन्मुच, विमुच, बलवान् स्वस्त्यात्रेय, प्रमुच, इध्मवाह, दृढ़तापूर्वक उत्तम व्रतका पालन करनेवाले मित्रावरुणके प्रतापी पुत्र भगवान् अगस्त्य—ये ब्रह्मर्षि सदा दक्षिण दिशामें रहते हैं॥२८-२९॥

विश्वास-प्रस्तुतिः

उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् ॥ ३० ॥
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः।
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः ॥ ३१ ॥
एते चैव महात्मानः पश्चिमामाश्रिता दिशम्।

मूलम्

उषङ्गुः कवषो धौम्यः परिव्याधश्च वीर्यवान् ॥ ३० ॥
एकतश्च द्वितश्चैव त्रितश्चैव महर्षयः।
अत्रेः पुत्रश्च भगवांस्तथा सारस्वतः प्रभुः ॥ ३१ ॥
एते चैव महात्मानः पश्चिमामाश्रिता दिशम्।

अनुवाद (हिन्दी)

उषंगु, कवष, धौम्य, शक्तिशाली परिव्याध, एकत, द्वित, त्रित तथा अत्रिके प्रभावशाली पुत्र भगवान् सारस्वत—ये महात्मा महर्षि पश्चिम दिशामें निवास करते हैं॥३०-३१॥

विश्वास-प्रस्तुतिः

आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः ॥ ३२ ॥
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः।
तथैव पुत्रो भगवानृचीकस्य महात्मनः ॥ ३३ ॥
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम्।

मूलम्

आत्रेयश्च वसिष्ठश्च कश्यपश्च महानृषिः ॥ ३२ ॥
गौतमोऽथ भरद्वाजो विश्वामित्रोऽथ कौशिकः।
तथैव पुत्रो भगवानृचीकस्य महात्मनः ॥ ३३ ॥
जमदग्निश्च सप्तैते उदीचीमाश्रिता दिशम्।

अनुवाद (हिन्दी)

आत्रेय, वसिष्ठ, महर्षि कश्यप, गौतम, भरद्वाज, कुशिकवंशी विश्वामित्र तथा महात्मा ऋचीकके पुत्र भगवान् जमदग्नि—ये सात उत्तर दिशामें रहते हैं॥

विश्वास-प्रस्तुतिः

एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः ॥ ३४ ॥
साक्षिभूता महात्मानो भुवनानां प्रभावनाः।
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम् ॥ ३५ ॥

मूलम्

एते प्रतिदिशं सर्वे कीर्तितास्तिग्मतेजसः ॥ ३४ ॥
साक्षिभूता महात्मानो भुवनानां प्रभावनाः।
एवमेते महात्मानः स्थिताः प्रत्येकशो दिशम् ॥ ३५ ॥

अनुवाद (हिन्दी)

इस प्रकार प्रत्येक दिशामें रहनेवाले सम्पूर्ण तेजस्वी महर्षियोंका वर्णन किया गया। ये महात्मा सम्पूर्ण लोकोंकी सृष्टि करनेमें समर्थ एवं सबके साक्षी हैं। इनका हृदय बड़ा विशाल है। इस तरह ये प्रत्येक दिशामें निवास करते हैं॥३४-३५॥

विश्वास-प्रस्तुतिः

एतेषां कीर्तनं कृत्वा सर्वपापात् प्रमुच्यते।
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान् व्रजेत् ॥ ३६ ॥

मूलम्

एतेषां कीर्तनं कृत्वा सर्वपापात् प्रमुच्यते।
यस्यां यस्यां दिशि ह्येते तां दिशं शरणं गतः।
मुच्यते सर्वपापेभ्यः स्वस्तिमांश्च गृहान् व्रजेत् ॥ ३६ ॥

अनुवाद (हिन्दी)

इन सबका गुणगान करनेसे मनुष्य सम्पूर्ण पापोंसे मुक्त हो जाता है। जिस-जिस दिशामें ये महर्षि रहते हैं, उस-उस दिशामें जानेपर जो मनुष्य इनकी शरण लेता है, वह सब पापोंसे मुक्त हो जाता है और कुशलपूर्वक अपने घरको पहुँच जाता है॥३६॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि दिशास्वस्तिकं नाम अष्टाधिकद्विशततमोऽध्यायः ॥ २०८ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत शान्तिपर्वके अन्तर्गत मोक्षधर्मपर्वमें दिशास्वस्तिक नामक दो सौ आठवाँ अध्याय पूरा हुआ॥२०८॥