भागसूचना
पञ्चत्रिंशोऽध्यायः
सूचना (हिन्दी)
बलदेवजीकी तीर्थयात्रा तथा प्रभास-क्षेत्रके प्रभावका वर्णनके प्रसंगमें चन्द्रमाके शापमोचनकी कथा
मूलम् (वचनम्)
जनमेजय उवाच
विश्वास-प्रस्तुतिः
पूर्वमेव यदा रामस्तस्मिन् युद्ध उपस्थिते।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥ १ ॥
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥ २ ॥
मूलम्
पूर्वमेव यदा रामस्तस्मिन् युद्ध उपस्थिते।
आमन्त्र्य केशवं यातो वृष्णिभिः सहितः प्रभुः ॥ १ ॥
साहाय्यं धार्तराष्ट्रस्य न च कर्तास्मि केशव।
न चैव पाण्डुपुत्राणां गमिष्यामि यथागतम् ॥ २ ॥
अनुवाद (हिन्दी)
जनमेजयने कहा— ब्रह्मन्! जब महाभारतयुद्ध आरम्भ होनेका समय निकट आ गया, उस समय युद्ध प्रारम्भ होनेसे पहले ही भगवान् बलराम श्रीकृष्णकी सम्मति ले, अन्य वृष्णिवंशियोंके साथ तीर्थयात्राके लिये चले गये और जाते समय यह कह गये कि ‘केशव! मैं न तो धृतराष्ट्रपुत्र दुर्योधनकी सहायता करूँगा और न पाण्डवोंकी ही’॥१-२॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा तदा रामो यातः क्षत्रनिबर्हणः।
तस्य चागमनं भूयो ब्रह्मन् शंसितुमर्हसि ॥ ३ ॥
मूलम्
एवमुक्त्वा तदा रामो यातः क्षत्रनिबर्हणः।
तस्य चागमनं भूयो ब्रह्मन् शंसितुमर्हसि ॥ ३ ॥
अनुवाद (हिन्दी)
विप्रवर! उन दिनों ऐसी बात कहकर जब क्षत्रियसंहारक बलरामजी चले गये, तब उनका पुनः आगमन कैसे हुआ, यह बतानेकी कृपा करें॥३॥
विश्वास-प्रस्तुतिः
आख्याहि मे विस्तरशः कथं राम उपस्थितः।
कथं च दृष्टवान् युद्धं कुशलो ह्यसि सत्तम ॥ ४ ॥
मूलम्
आख्याहि मे विस्तरशः कथं राम उपस्थितः।
कथं च दृष्टवान् युद्धं कुशलो ह्यसि सत्तम ॥ ४ ॥
अनुवाद (हिन्दी)
साधुशिरोमणे! आप कथा कहनेमें कुशल हैं; अतः मुझे विस्तारपूर्वक बताइये कि बलरामजी कैसे वहाँ उपस्थित हुए और किस प्रकार उन्होंने युद्ध देखा?॥४॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ॥ ५ ॥
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्।
मूलम्
उपप्लव्ये निविष्टेषु पाण्डवेषु महात्मसु।
प्रेषितो धृतराष्ट्रस्य समीपं मधुसूदनः ॥ ५ ॥
शमं प्रति महाबाहो हितार्थं सर्वदेहिनाम्।
अनुवाद (हिन्दी)
वैशम्पायनजीने कहा— राजन्! जिन दिनों महामनस्वी पाण्डव उपप्लव्य नामक स्थानमें छावनी डालकर ठहरे हुए थे, उन्हीं दिनोंकी बात है। महाबाहो! पाण्डवोंने समस्त प्राणियोंके हितके लिये सन्धिके उद्देश्यसे भगवान् श्रीकृष्णको धृतराष्ट्रके पास भेजा॥५॥
विश्वास-प्रस्तुतिः
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च ॥ ६ ॥
उक्तवान् वचनं तथ्यं हितं चैव विशेषतः।
मूलम्
स गत्वा हास्तिनपुरं धृतराष्ट्रं समेत्य च ॥ ६ ॥
उक्तवान् वचनं तथ्यं हितं चैव विशेषतः।
अनुवाद (हिन्दी)
भगवान्ने हस्तिनापुर जाकर धृतराष्ट्रसे भेंट की और उनसे सबके लिये विशेष हितकारक एवं यथार्थ बातें कहीं॥६॥
विश्वास-प्रस्तुतिः
न च तत् कृतवान् राजा यथा ख्यातं हि तत् पुरा॥७॥
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः।
आगच्छत महाबाहुरुपप्लव्यं जनाधिप ॥ ८ ॥
मूलम्
न च तत् कृतवान् राजा यथा ख्यातं हि तत् पुरा॥७॥
अनवाप्य शमं तत्र कृष्णः पुरुषसत्तमः।
आगच्छत महाबाहुरुपप्लव्यं जनाधिप ॥ ८ ॥
अनुवाद (हिन्दी)
नरेश्वर! किंतु राजा धृतराष्ट्रने भगवान्का कहना नहीं माना। यह सब बात पहले यथार्थरूपसे बतायी गयी है। महाबाहु पुरुषोत्तम भगवान् श्रीकृष्ण वहाँ संधि करानेमें सफलता न मिलनेपर पुनः उपप्लव्यमें ही लौट आये॥७-८॥
विश्वास-प्रस्तुतिः
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः।
अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् ॥ ९ ॥
मूलम्
ततः प्रत्यागतः कृष्णो धार्तराष्ट्रविसर्जितः।
अक्रियायां नरव्याघ्र पाण्डवानिदमब्रवीत् ॥ ९ ॥
अनुवाद (हिन्दी)
नरव्याघ्र! कार्य न होनेपर धृतराष्ट्रसे विदा ले वहाँसे लौटे हुए श्रीकृष्णने पाण्डवोंसे इस प्रकार कहा—॥९॥
विश्वास-प्रस्तुतिः
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः।
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ॥ १० ॥
मूलम्
न कुर्वन्ति वचो मह्यं कुरवः कालनोदिताः।
निर्गच्छध्वं पाण्डवेयाः पुष्येण सहिता मया ॥ १० ॥
अनुवाद (हिन्दी)
‘कौरव कालके अधीन हो रहे हैं, इसलिये वे मेरा कहना नहीं मानते हैं। पाण्डवो! अब तुमलोग मेरे साथ पुष्य नक्षत्रमें युद्धके लिये निकल पड़ो,॥१०॥
विश्वास-प्रस्तुतिः
ततो विभज्यमानेषु बलेषु बलिनां वरः।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥ ११ ॥
मूलम्
ततो विभज्यमानेषु बलेषु बलिनां वरः।
प्रोवाच भ्रातरं कृष्णं रौहिणेयो महामनाः ॥ ११ ॥
अनुवाद (हिन्दी)
इसके बाद जब सेनाका बँटवारा होने लगा, तब बलवानोंमें श्रेष्ठ महामना बलदेवजीने अपने भाई श्रीकृष्णसे कहा—॥११॥
विश्वास-प्रस्तुतिः
तेषामपि महाबाहो साहाय्यं मधुसूदन।
क्रियतामिति तत् कृष्णो नास्य चक्रे वचस्तदा ॥ १२ ॥
मूलम्
तेषामपि महाबाहो साहाय्यं मधुसूदन।
क्रियतामिति तत् कृष्णो नास्य चक्रे वचस्तदा ॥ १२ ॥
अनुवाद (हिन्दी)
‘महाबाहु मधुसूदन! उन कौरवोंकी भी सहायता करना। परंतु श्रीकृष्णने उस समय उनकी यह बात नहीं मानी’॥१२॥
विश्वास-प्रस्तुतिः
ततो मन्युपरीतात्मा जगाम यदुनन्दनः।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः ॥ १३ ॥
मूलम्
ततो मन्युपरीतात्मा जगाम यदुनन्दनः।
तीर्थयात्रां हलधरः सरस्वत्यां महायशाः ॥ १३ ॥
अनुवाद (हिन्दी)
इससे मन-ही-मन कुपित और खिन्न होकर महायशस्वी यदुनन्दन हलधर सरस्वतीके तटपर तीर्थयात्राके लिये चल दिये॥१३॥
विश्वास-प्रस्तुतिः
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः।
आश्रयामास भोजस्तु दुर्योधनमरिंदमः ॥ १४ ॥
मूलम्
मैत्रनक्षत्रयोगे स्म सहितः सर्वयादवैः।
आश्रयामास भोजस्तु दुर्योधनमरिंदमः ॥ १४ ॥
अनुवाद (हिन्दी)
इसके बाद शत्रुओंका दमन करनेवाले कृतवर्माने सम्पूर्ण यादवोंके साथ अनुराधानक्षत्रमें दुर्योधनका पक्ष ग्रहण किया॥१४॥
विश्वास-प्रस्तुतिः
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्।
रौहिणेये गते शूरे पुष्येण मधुसूदनः ॥ १५ ॥
पाण्डवेयान् पुरस्कृत्य ययावभिमुखः कुरून्।
मूलम्
युयुधानेन सहितो वासुदेवस्तु पाण्डवान्।
रौहिणेये गते शूरे पुष्येण मधुसूदनः ॥ १५ ॥
पाण्डवेयान् पुरस्कृत्य ययावभिमुखः कुरून्।
अनुवाद (हिन्दी)
सात्यकिसहित भगवान् श्रीकृष्णने पाण्डवोंका पक्ष लिया। रोहिणीनन्दन शूरवीर बलरामजीके चले जानेपर मधुसूदन भगवान् श्रीकृष्णने पाण्डवोंको आगे करके पुष्यनक्षत्रमें कुरुक्षेत्रकी ओर प्रस्थान किया॥१५॥
विश्वास-प्रस्तुतिः
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह ॥ १६ ॥
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ।
आनयध्वं द्वारकायामग्नीन् वै याजकांस्तथा ॥ १७ ॥
मूलम्
गच्छन्नेव पथिस्थस्तु रामः प्रेष्यानुवाच ह ॥ १६ ॥
सम्भारांस्तीर्थयात्रायां सर्वोपकरणानि च ।
आनयध्वं द्वारकायामग्नीन् वै याजकांस्तथा ॥ १७ ॥
अनुवाद (हिन्दी)
यात्रा करते हुए बलरामजीने स्वयं मार्गमें ही रहकर अपने सेवकोंसे कहा—‘तुमलोग शीघ्र ही द्वारका जाकर वहाँसे तीर्थयात्रामें काम आनेवाली सब सामग्री, समस्त आवश्यक उपकरण, अग्निहोत्रकी अग्नि तथा पुरोहितोंको ले आओ॥१६-१७॥
विश्वास-प्रस्तुतिः
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः।
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ॥ १८ ॥
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्।
मूलम्
सुवर्णं रजतं चैव धेनूर्वासांसि वाजिनः।
कुञ्जरांश्च रथांश्चैव खरोष्ट्रं वाहनानि च ॥ १८ ॥
क्षिप्रमानीयतां सर्वं तीर्थहेतोः परिच्छदम्।
अनुवाद (हिन्दी)
‘सोना, चाँदी, दूध देनेवाली गायें, वस्त्र, घोड़े, हाथी, रथ, गदहा और ऊँट आदि वाहन एवं तीर्थोपयोगी सब सामान शीघ्र ले आओ॥१८॥
विश्वास-प्रस्तुतिः
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः ॥ १९ ॥
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्।
मूलम्
प्रतिस्रोतः सरस्वत्या गच्छध्वं शीघ्रगामिनः ॥ १९ ॥
ऋत्विजश्चानयध्वं वै शतशश्च द्विजर्षभान्।
अनुवाद (हिन्दी)
‘शीघ्रगामी सेवको! तुम सरस्वतीके स्रोतकी ओर चलो और सैकड़ों श्रेष्ठ ब्राह्मणों तथा ऋत्विजोंको ले आओ’॥
विश्वास-प्रस्तुतिः
एवं संदिश्य तु प्रेष्यान् बलदेवो महाबलः ॥ २० ॥
तीर्थयात्रां ययौ राजन् कुरूणां वैशसे तदा।
सरस्वतीं प्रतिस्रोतः समन्तादभिजग्मिवान् ॥ २१ ॥
ऋत्विग्भिश्च सुहृद्भिश्च तथान्यैर्द्विजसत्तमैः ।
रथैर्गजैस्तथाश्वैश्च प्रेष्यैश्च भरतर्षभ ॥ २२ ॥
गोखरोष्ट्रप्रयुक्तैश्च यानैश्च बहुभिर्वृतः ।

राजन्! महाबली बलदेवजीने सेवकोंको ऐसी आज्ञा देकर उस समय कुरुक्षेत्रमें ही तीर्थयात्रा आरम्भ कर दी। भरतश्रेष्ठ! वे सरस्वतीके स्रोतकी ओर चलकर उसके दोनों तटोंपर गये। उनके साथ ऋत्विज, सुहृद्, अन्यान्य श्रेष्ठ ब्राह्मण, रथ, हाथी, घोड़े और सेवक भी थे। बैल, गदहा और ऊँटोंसे जुते हुए बहुसंख्यक रथोंसे बलरामजी घिरे हुए थे॥२०—२२॥
विश्वास-प्रस्तुतिः
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् ॥ २३ ॥
देशे देशे तु देयानि दानानि विविधानि च।
अर्चायै चार्थिनां राजन् क्लृप्तानि बहुशस्तथा ॥ २४ ॥
मूलम्
श्रान्तानां क्लान्तवपुषां शिशूनां विपुलायुषाम् ॥ २३ ॥
देशे देशे तु देयानि दानानि विविधानि च।
अर्चायै चार्थिनां राजन् क्लृप्तानि बहुशस्तथा ॥ २४ ॥
अनुवाद (हिन्दी)
राजन्! उस समय उन्होंने देश-देशमें थके-माँदे रोगी, बालक और वृद्धोंका सत्कार करनेके लिये नाना प्रकारकी देनेयोग्य वस्तुएँ प्रचुर मात्रामें तैयार करा रखी थीं॥
विश्वास-प्रस्तुतिः
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत।
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः ॥ २५ ॥
मूलम्
तानि यानीह देशेषु प्रतीक्षन्ति स्म भारत।
बुभुक्षितानामर्थाय क्लृप्तमन्नं समन्ततः ॥ २५ ॥
अनुवाद (हिन्दी)
भारत! विभिन्न देशोंमें लोग जिन वस्तुओंकी इच्छा रखते थे, उन्हें वे ही दी जाती थीं। भूखोंको भोजन करानेके लिये सर्वत्र अन्नका प्रबन्ध किया गया था॥
विश्वास-प्रस्तुतिः
यो यो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा।
तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ॥ २६ ॥
मूलम्
यो यो यत्र द्विजो भोज्यं भोक्तुं कामयते तदा।
तस्य तस्य तु तत्रैवमुपजह्रुस्तदा नृप ॥ २६ ॥
अनुवाद (हिन्दी)
नरेश्वर! जिस किसी देशमें जो-जो ब्राह्मण जब कभी भोजनकी इच्छा प्रकट करता, बलरामजीके सेवक उसे वहीं तत्काल खाने-पीनेकी वस्तुएँ अर्पित करते थे॥२६॥
विश्वास-प्रस्तुतिः
तत्र तत्र स्थिता राजन् रौहिणेयस्य शासनात्।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥ २७ ॥
मूलम्
तत्र तत्र स्थिता राजन् रौहिणेयस्य शासनात्।
भक्ष्यपेयस्य कुर्वन्ति राशींस्तत्र समन्ततः ॥ २७ ॥
अनुवाद (हिन्दी)
राजन्! रोहिणीकुमार बलरामजीकी आज्ञासे उनके सेवक विभिन्न तीर्थस्थानोंमें खाने-पीनेकी वस्तुओंके ढेर लगाये रखते थे॥२७॥
विश्वास-प्रस्तुतिः
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च।
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम् ॥ २८ ॥
मूलम्
वासांसि च महार्हाणि पर्यङ्कास्तरणानि च।
पूजार्थं तत्र क्लृप्तानि विप्राणां सुखमिच्छताम् ॥ २८ ॥
अनुवाद (हिन्दी)
सुख चाहनेवाले ब्राह्मणोंके सत्कारके लिये बहुमूल्य वस्त्र, पलंग और बिछौने तैयार रखे जाते थे॥२८॥
विश्वास-प्रस्तुतिः
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत।
तत्र तत्र तु तस्यैव सर्वं क्लृप्तमदृश्यत ॥ २९ ॥
मूलम्
यत्र यः स्वपते विप्रो यो वा जागर्ति भारत।
तत्र तत्र तु तस्यैव सर्वं क्लृप्तमदृश्यत ॥ २९ ॥
अनुवाद (हिन्दी)
भारत! जो ब्राह्मण जहाँ भी सोता या जागता था, वहाँ-वहाँ उसके लिये सारी आवश्यक वस्तुएँ सदा प्रस्तुत दिखायी देती थीं॥२९॥
विश्वास-प्रस्तुतिः
यथासुखं जनः सर्वो याति तिष्ठति वै तदा।
यातुकामस्य यानानि पानानि तृषितस्य च ॥ ३० ॥
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥ ३१ ॥
मूलम्
यथासुखं जनः सर्वो याति तिष्ठति वै तदा।
यातुकामस्य यानानि पानानि तृषितस्य च ॥ ३० ॥
बुभुक्षितस्य चान्नानि स्वादूनि भरतर्षभ।
उपजह्रुर्नरास्तत्र वस्त्राण्याभरणानि च ॥ ३१ ॥
अनुवाद (हिन्दी)
भरतश्रेष्ठ! इस यात्रामें सब लोग सुखपूर्वक चलते और विश्राम करते थे। यात्रीकी इच्छा हो तो उसे सवारियाँ दी जाती थीं, प्यासेको पानी और भूखेको स्वादिष्ट अन्न दिये जाते थे। साथ ही वहाँ बलरामजीके सेवक वस्त्र और आभूषण भी भेंट करते थे॥३०-३१॥
विश्वास-प्रस्तुतिः
स पन्थाः प्रबभौ राजन् सर्वस्यैव सुखावहः।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्।
नित्यप्रमुदितोपेतः स्वादुभक्ष्यः शुभान्वितः ॥ ३२ ॥
मूलम्
स पन्थाः प्रबभौ राजन् सर्वस्यैव सुखावहः।
स्वर्गोपमस्तदा वीर नराणां तत्र गच्छताम्।
नित्यप्रमुदितोपेतः स्वादुभक्ष्यः शुभान्वितः ॥ ३२ ॥
अनुवाद (हिन्दी)
वीर नरेश! वहाँ यात्रा करनेवाले सब लोगोंको वह मार्ग स्वर्गके समान सुखदायक प्रतीत होता था। उस मार्गमें सदा आनन्द रहता, स्वादिष्ट भोजन मिलता और शुभकी ही प्राप्ति होती थी॥३२॥
विश्वास-प्रस्तुतिः
विपण्यापणपण्यानां नानाजनशतैर्वृतः ।
नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥ ३३ ॥
मूलम्
विपण्यापणपण्यानां नानाजनशतैर्वृतः ।
नानाद्रुमलतोपेतो नानारत्नविभूषितः ॥ ३३ ॥
अनुवाद (हिन्दी)
उस पथपर खरीदने-बेचनेकी वस्तुओंका बाजार भी साथ-साथ चलता था, जिसमें नाना प्रकारके सैकड़ों मनुष्य भरे रहते थे। वह हाट भाँति-भाँतिके वृक्षों और लताओंसे सुशोभित तथा अनेकानेक रत्नोंसे विभूषित दिखायी देता था॥३३॥
विश्वास-प्रस्तुतिः
ततो महात्मा नियमे स्थितात्मा
पुण्येषु तीर्थेषु वसूनि राजन्।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
यदुप्रवीरो हलभृत् प्रतीतः ॥ ३४ ॥
मूलम्
ततो महात्मा नियमे स्थितात्मा
पुण्येषु तीर्थेषु वसूनि राजन्।
ददौ द्विजेभ्यः क्रतुदक्षिणाश्च
यदुप्रवीरो हलभृत् प्रतीतः ॥ ३४ ॥
अनुवाद (हिन्दी)
राजन्! यदुकुलके प्रमुख वीर हलधारी महात्मा बलराम नियमपूर्वक रहकर प्रसन्नताके साथ पुण्यतीर्थोंमें ब्राह्मणोंको धन और यज्ञकी दक्षिणाएँ देते थे॥३४॥
विश्वास-प्रस्तुतिः
दोग्ध्रीश्च धेनूश्च सहस्रशो वै
सुवाससः काञ्चनबद्धशृङ्गीः ।
हयांश्च नानाविधदेशजातान्
यानानि दासांश्च शुभान् द्विजेभ्यः ॥ ३५ ॥
रत्नानि मुक्तामणिविद्रुमं चा-
प्यग्र्यं सुवर्णं रजतं सुशुद्धम्।
अयस्मयं ताम्रमयं च भाण्डं
ददौ द्विजातिप्रवरेषु रामः ॥ ३६ ॥

बलरामने श्रेष्ठ ब्राह्मणोंको सहस्रों दूध देनेवाली गौएँ दान कीं, जिन्हें सुन्दर वस्त्रोंसे सुसज्जित करके उनके सींगोंमें सोनेके पत्र जड़े गये थे। साथ ही उन्होंने अनेक देशोंमें उत्पन्न घोड़े, रथ और सुन्दर वेश-भूषावाले दास भी ब्राह्मणोंकी सेवामें अर्पित किये। इतना ही नहीं, बलरामने भाँति-भाँतिके रत्न, मोती, मणि, मूँगा, उत्तम सुवर्ण, विशुद्ध चाँदी तथा लोहे और ताँबेके बर्तन भी बाँटे थे॥३५-३६॥
विश्वास-प्रस्तुतिः
एवं स वित्तं प्रददौ महात्मा
सरस्वतीतीर्थवरेषु भूरि ।
ययौ क्रमेणाप्रतिमप्रभाव-
स्ततः कुरुक्षेत्रमुदारवृत्तिः ॥ ३७ ॥
मूलम्
एवं स वित्तं प्रददौ महात्मा
सरस्वतीतीर्थवरेषु भूरि ।
ययौ क्रमेणाप्रतिमप्रभाव-
स्ततः कुरुक्षेत्रमुदारवृत्तिः ॥ ३७ ॥
अनुवाद (हिन्दी)
इस प्रकार उदार वृत्तिवाले अनुपम प्रभावशाली महात्मा बलरामने सरस्वतीके श्रेष्ठ तीर्थोंमें बहुत धन दान किया और क्रमशः यात्रा करते हुए वे कुरुक्षेत्रमें आये॥
मूलम् (वचनम्)
जनमेजय उवाच
विश्वास-प्रस्तुतिः
सारस्वतानां तीर्थानां गुणोत्पत्तिं वदस्व मे।
फलं च द्विपदां श्रेष्ठ कर्मनिर्वृत्तिमेव च ॥ ३८ ॥
यथाक्रमेण भगवंस्तीर्थानामनुपूर्वशः ।
ब्रह्मन् ब्रह्मविदां श्रेष्ठ परं कौतूहलं हि मे ॥ ३९ ॥

जनमेजय बोले— ब्रह्मवेत्ताओंमें श्रेष्ठ और मनुष्योंमें उत्तम ब्राह्मणदेव! अब आप मुझे सरस्वती-तटवर्ती तीर्थोंके गुण, प्रभाव और उत्पत्तिकी कथा सुनाइये। भगवन्! क्रमशः उन तीर्थोंके सेवनका फल और जिस कर्मसे वहाँ सिद्धि प्राप्त होती है, उसका अनुष्ठान भी बताइये, मेरे मनमें यह सब सुननेके लिये बड़ी उत्कण्ठा हो रही है॥३८-३९॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
तीर्थानां च फलं राजन् गुणोत्पत्तिं च सर्वशः।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः ॥ ४० ॥
मूलम्
तीर्थानां च फलं राजन् गुणोत्पत्तिं च सर्वशः।
मयोच्यमानं वै पुण्यं शृणु राजेन्द्र कृत्स्नशः ॥ ४० ॥
अनुवाद (हिन्दी)
वैशम्पायनजीने कहा— राजेन्द्र! मैं तुम्हें तीर्थोंके गुण, प्रभाव, उत्पत्ति तथा उनके सेवनका पुण्य-फल बता रहा हूँ। वह सब तुम ध्यानसे सुनो॥४०॥
विश्वास-प्रस्तुतिः
पूर्वं महाराज यदुप्रवीर
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् ।
पुण्यं प्रभासं समुपाजगाम
यत्रोडुराड् यक्ष्मणा क्लिश्यमानः ॥ ४१ ॥
विमुक्तशापः पुनराप्य तेजः
सर्वं जगद् भासयते नरेन्द्र।
एवं तु तीर्थप्रवरं पृथिव्यां
प्रभासनात् तस्य ततः प्रभासः ॥ ४२ ॥
मूलम्
पूर्वं महाराज यदुप्रवीर
ऋत्विक्सुहृद्विप्रगणैश्च सार्धम् ।
पुण्यं प्रभासं समुपाजगाम
यत्रोडुराड् यक्ष्मणा क्लिश्यमानः ॥ ४१ ॥
विमुक्तशापः पुनराप्य तेजः
सर्वं जगद् भासयते नरेन्द्र।
एवं तु तीर्थप्रवरं पृथिव्यां
प्रभासनात् तस्य ततः प्रभासः ॥ ४२ ॥
अनुवाद (हिन्दी)
महाराज! यदुकुलके प्रमुख वीर बलरामजी सबसे पहले ऋत्विजों, सुहृदों और ब्राह्मणोंके साथ पुण्यमय प्रभासक्षेत्रमें गये, जहाँ राजयक्ष्मासे कष्ट पाते हुए चन्द्रमाको शापसे छुटकारा मिला था। नरेन्द्र! वे वहीं पुनः अपना तेज प्राप्त करके सम्पूर्ण जगत्को प्रकाशित करते हैं। इस प्रकार चन्द्रमाको प्रभासित करनेके कारण ही वह प्रधान तीर्थ इस पृथ्वीपर प्रभास नामसे विख्यात हुआ॥४१-४२॥
मूलम् (वचनम्)
जनमेजय उवाच
विश्वास-प्रस्तुतिः
कथं तु भगवन् सोमो यक्ष्मणा समगृह्यत।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥ ४३ ॥
मूलम्
कथं तु भगवन् सोमो यक्ष्मणा समगृह्यत।
कथं च तीर्थप्रवरे तस्मिंश्चन्द्रो न्यमज्जत ॥ ४३ ॥
अनुवाद (हिन्दी)
जनमेजयने पूछा— भगवन्! चन्द्रमा कैसे राजयक्ष्मासे ग्रस्त हो गये और उस उत्तम तीर्थमें किस प्रकार उन्होंने स्नान किया?॥४३॥
विश्वास-प्रस्तुतिः
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ ४४ ॥
मूलम्
कथमाप्लुत्य तस्मिंस्तु पुनराप्यायितः शशी।
एतन्मे सर्वमाचक्ष्व विस्तरेण महामुने ॥ ४४ ॥
अनुवाद (हिन्दी)
महामुने! उस तीर्थमें गोता लगाकर चन्द्रमा पुनः किस प्रकार हृष्ट-पुष्ट हुए? यह सब प्रसंग मुझे विस्तारपूर्वक बताइये॥४४॥
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
दक्षस्य तनयास्तात प्रादुरासन् विशाम्पते।
स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ ॥ ४५ ॥
मूलम्
दक्षस्य तनयास्तात प्रादुरासन् विशाम्पते।
स सप्तविंशतिं कन्या दक्षः सोमाय वै ददौ ॥ ४५ ॥
अनुवाद (हिन्दी)
वैशम्पायनजीने कहा— तात! प्रजानाथ! प्रजापति दक्षके बहुत-सी संतानें उत्पन्न हुई थीं। उनमेंसे अपनी सत्ताईस कन्याओंका विवाह उन्होंने चन्द्रमाके साथ कर दिया था॥४५॥
विश्वास-प्रस्तुतिः
नक्षत्रयोगनिरताः संख्यानार्थं च ताभवन्।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः ॥ ४६ ॥
मूलम्
नक्षत्रयोगनिरताः संख्यानार्थं च ताभवन्।
पत्न्यो वै तस्य राजेन्द्र सोमस्य शुभकर्मणः ॥ ४६ ॥
अनुवाद (हिन्दी)
राजेन्द्र! शुभ कर्म करनेवाले सोमकी वे पत्नियाँ समयकी गणनाके लिये नक्षत्रोंसे सम्बन्ध रखनेके कारण उसी नामसे विख्यात हुईं॥४६॥
विश्वास-प्रस्तुतिः
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि।
अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा ॥ ४७ ॥
मूलम्
तास्तु सर्वा विशालाक्ष्यो रूपेणाप्रतिमा भुवि।
अत्यरिच्यत तासां तु रोहिणी रूपसम्पदा ॥ ४७ ॥
अनुवाद (हिन्दी)
वे सब-की-सब विशाल नेत्रोंसे सुशोभित होती थीं। इस भूतलपर उनके रूपकी समानता करनेवाली कोई स्त्री नहीं थी। उनमें भी रोहिणी अपने रूप-वैभवकी दृष्टिसे सबकी अपेक्षा बढ़ी-चढ़ी थी॥४७॥
विश्वास-प्रस्तुतिः
ततस्तस्यां स भगवान् प्रीतिं चक्रे निशाकरः।
सास्य हृद्या बभूवाथ तस्मात् तां बुभुजे सदा ॥ ४८ ॥
मूलम्
ततस्तस्यां स भगवान् प्रीतिं चक्रे निशाकरः।
सास्य हृद्या बभूवाथ तस्मात् तां बुभुजे सदा ॥ ४८ ॥
अनुवाद (हिन्दी)
इसलिये भगवान् चन्द्रमा उससे अधिक प्रेम करने लगे, वही उनकी हृदयवल्लभा हुई; अतः वे सदा उसीका उपभोग करते थे॥४८॥
विश्वास-प्रस्तुतिः
पुरा हि सोमो राजेन्द्र रोहिण्यामवसत् परम्।
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः ॥ ४९ ॥
मूलम्
पुरा हि सोमो राजेन्द्र रोहिण्यामवसत् परम्।
ततस्ताः कुपिताः सर्वा नक्षत्राख्या महात्मनः ॥ ४९ ॥
अनुवाद (हिन्दी)
राजेन्द्र! पूर्वकालमें चन्द्रमा सदा रोहिणीके ही समीप रहते थे; अतः नक्षत्रनामसे प्रसिद्ध हुईं महात्मा सोमकी वे सारी पत्नियाँ उनपर कुपित हो उठीं॥४९॥
विश्वास-प्रस्तुतिः
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः।
सोमो वसति नास्मासु रोहिणीं भजते सदा ॥ ५० ॥
मूलम्
ता गत्वा पितरं प्राहुः प्रजापतिमतन्द्रिताः।
सोमो वसति नास्मासु रोहिणीं भजते सदा ॥ ५० ॥
अनुवाद (हिन्दी)
और आलस्य छोड़कर अपने पिताके पास जाकर बोलीं—‘प्रभो! चन्द्रमा हमारे पास नहीं आते। वे सदा रोहिणीका ही सेवन करते हैं॥५०॥
विश्वास-प्रस्तुतिः
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥ ५१ ॥
मूलम्
ता वयं सहिताः सर्वास्त्वत्सकाशे प्रजेश्वर।
वत्स्यामो नियताहारास्तपश्चरणतत्पराः ॥ ५१ ॥
अनुवाद (हिन्दी)
‘अतः प्रजेश्वर! हम सब बहिनें एक साथ नियमित आहार करके तपस्यामें संलग्न हो आपके ही पास रहेंगी’॥
विश्वास-प्रस्तुतिः
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्।
समं वर्तस्व भार्यासु मा त्वाधर्मो महान् स्पृशेत् ॥ ५२ ॥
मूलम्
श्रुत्वा तासां तु वचनं दक्षः सोममथाब्रवीत्।
समं वर्तस्व भार्यासु मा त्वाधर्मो महान् स्पृशेत् ॥ ५२ ॥
अनुवाद (हिन्दी)
उनकी यह बात सुनकर प्रजापति दक्षने चन्द्रमासे कहा—‘सोम! तुम अपनी सभी पत्नियोंके साथ समानतापूर्ण बर्ताव करो, जिससे तुम्हें महान् पाप न लगे’॥५२॥
विश्वास-प्रस्तुतिः
तास्तु सर्वाब्रवीद् दक्षो गच्छध्वं शशिनोऽन्तिकम्।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥ ५३ ॥
मूलम्
तास्तु सर्वाब्रवीद् दक्षो गच्छध्वं शशिनोऽन्तिकम्।
समं वत्स्यति सर्वासु चन्द्रमा मम शासनात् ॥ ५३ ॥
अनुवाद (हिन्दी)
फिर दक्षने उन सभी कन्याओंसे कहा—‘अब तुमलोग चन्द्रमाके पास ही जाओ। वे मेरी आज्ञासे तुम सब लोगोंके प्रति समानभाव रखेंगे’॥५३॥
विश्वास-प्रस्तुतिः
विसृष्टास्तास्तथा जग्मुः शीतांशुभवनं तदा।
तथापि सोमो भगवान् पुनरेव महीपते ॥ ५४ ॥
रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः।
मूलम्
विसृष्टास्तास्तथा जग्मुः शीतांशुभवनं तदा।
तथापि सोमो भगवान् पुनरेव महीपते ॥ ५४ ॥
रोहिणीं निवसत्येव प्रीयमाणो मुहुर्मुहुः।
अनुवाद (हिन्दी)
पृथ्वीनाथ! पिताके विदा करनेपर वे पुनः चन्द्रमाके घरमें लौट गयीं, तथापि भगवान् सोम फिर रोहिणीके पास ही अधिकाधिक प्रेमपूर्वक रहने लगे॥५४॥
विश्वास-प्रस्तुतिः
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ॥ ५५ ॥
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके।
सोमो वसति नास्मासु नाकरोद् वचनं तव ॥ ५६ ॥
मूलम्
ततस्ताः सहिताः सर्वा भूयः पितरमब्रुवन् ॥ ५५ ॥
तव शुश्रूषणे युक्ता वत्स्यामो हि तवान्तिके।
सोमो वसति नास्मासु नाकरोद् वचनं तव ॥ ५६ ॥
अनुवाद (हिन्दी)
तब वे सब कन्याएँ पुनः एक साथ अपने पिताके पास जाकर बोलीं—‘हम सब लोग आपकी सेवामें तत्पर रहकर आपके ही समीप रहेंगी। चन्द्रमा हमारे साथ नहीं रहते। उन्होंने आपकी बात नहीं मानी’॥५५-५६॥
विश्वास-प्रस्तुतिः
तासां तद् वचनं श्रुत्वा दक्षः सोममथाब्रवीत्।
समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन ॥ ५७ ॥
मूलम्
तासां तद् वचनं श्रुत्वा दक्षः सोममथाब्रवीत्।
समं वर्तस्व भार्यासु मा त्वां शप्स्ये विरोचन ॥ ५७ ॥
अनुवाद (हिन्दी)
उनकी बात सुनकर दक्षने पुनः सोमसे कहा—‘प्रकाशमान चन्द्रदेव! तुम अपनी सभी पत्नियोंके साथ समान बर्ताव करो, नहीं तो तुम्हें शाप दे दूँगा’॥५७॥
विश्वास-प्रस्तुतिः
अनादृत्य तु तद् वाक्यं दक्षस्य भगवान् शशी।
रोहिण्या सार्धमवसत् ततस्ताः कुपिताः पुनः ॥ ५८ ॥
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा।
सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥ ५९ ॥
मूलम्
अनादृत्य तु तद् वाक्यं दक्षस्य भगवान् शशी।
रोहिण्या सार्धमवसत् ततस्ताः कुपिताः पुनः ॥ ५८ ॥
गत्वा च पितरं प्राहुः प्रणम्य शिरसा तदा।
सोमो वसति नास्मासु तस्मान्नः शरणं भव ॥ ५९ ॥
अनुवाद (हिन्दी)
दक्षके इतना कहनेपर भी भगवान् चन्द्रमा उनकी बातकी अवहेलना करके केवल रोहिणीके ही साथ रहने लगे। यह देख दूसरी स्त्रियाँ पुनः क्रोधसे जल उठीं और पिताके पास जा उनके चरणोंमें मस्तक नवाकर प्रणाम करनेके अनन्तर बोलीं—‘भगवन्! सोम हमारे पास नहीं रहते। अतः आप हमें शरण दें॥
विश्वास-प्रस्तुतिः
रोहिण्यामेव भगवान् सदा वसति चन्द्रमाः।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति ॥ ६० ॥
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्।
मूलम्
रोहिण्यामेव भगवान् सदा वसति चन्द्रमाः।
न त्वद्वचो गणयति नास्मासु स्नेहमिच्छति ॥ ६० ॥
तस्मान्नस्त्राहि सर्वा वै यथा नः सोम आविशेत्।
अनुवाद (हिन्दी)
‘भगवान् चन्द्रमा सदा रोहिणीके ही समीप रहते हैं। वे आपकी बातको कुछ गिनते ही नहीं हैं। हमलोगोंपर स्नेह रखना नहीं चाहते हैं, अतः आप हम सब लोगोंकी रक्षा करें, जिससे चन्द्रमा हमारे साथ भी सम्बन्ध रखें’॥६०॥
विश्वास-प्रस्तुतिः
तच्छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणं पृथिवीपते ॥ ६१ ॥
ससर्ज रोषात् सोमाय स चोडुपतिमाविशत्।
मूलम्
तच्छ्रुत्वा भगवान् क्रुद्धो यक्ष्माणं पृथिवीपते ॥ ६१ ॥
ससर्ज रोषात् सोमाय स चोडुपतिमाविशत्।
अनुवाद (हिन्दी)
पृथ्वीनाथ! यह सुनकर भगवान् दक्ष कुपित हो उठे। उन्होंने चन्द्रमाके लिये रोषपूर्वक राजयक्ष्माकी सृष्टि की। वह चन्द्रमाके भीतर प्रविष्ट हो गया॥६१॥
विश्वास-प्रस्तुतिः
स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी ॥ ६२ ॥
यत्नं चाप्यकरोद् राजन् मोक्षार्थं तस्य यक्ष्मणः।
मूलम्
स यक्ष्मणाभिभूतात्माक्षीयताहरहः शशी ॥ ६२ ॥
यत्नं चाप्यकरोद् राजन् मोक्षार्थं तस्य यक्ष्मणः।
अनुवाद (हिन्दी)
यक्ष्मासे शरीर ग्रस्त हो जानेके कारण चन्द्रमा प्रतिदिन क्षीण होने लगे। राजन्! उस यक्ष्मासे छूटनेके लिये उन्होंने बड़ा यत्न किया॥६२॥
विश्वास-प्रस्तुतिः
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ॥ ६३ ॥
न चामुच्यत शापाद् वै क्षयं चैवाभ्यगच्छत।
मूलम्
इष्ट्वेष्टिभिर्महाराज विविधाभिर्निशाकरः ॥ ६३ ॥
न चामुच्यत शापाद् वै क्षयं चैवाभ्यगच्छत।
अनुवाद (हिन्दी)
महाराज! नाना प्रकारके यज्ञ-यागोंका अनुष्ठान करके भी चन्द्रमा उस शापसे मुक्त न हो सके और धीरे-धीरे क्षीण होते चले गये॥६३॥
विश्वास-प्रस्तुतिः
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ॥ ६४ ॥
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
मूलम्
क्षीयमाणे ततः सोमे ओषध्यो न प्रजज्ञिरे ॥ ६४ ॥
निरास्वादरसाः सर्वा हतवीर्याश्च सर्वशः।
अनुवाद (हिन्दी)
चन्द्रमाके क्षीण होनेसे अन्न आदि ओषधियाँ उत्पन्न नहीं होती थीं। उन सबके स्वाद, रस और प्रभाव नष्ट हो गये॥६४॥
विश्वास-प्रस्तुतिः
ओषधीनां क्षये जाते प्राणिनामपि संक्षयः ॥ ६५ ॥
कृशाश्चासन् प्रजाः सर्वाः क्षीयमाणे निशाकरे।
मूलम्
ओषधीनां क्षये जाते प्राणिनामपि संक्षयः ॥ ६५ ॥
कृशाश्चासन् प्रजाः सर्वाः क्षीयमाणे निशाकरे।
अनुवाद (हिन्दी)
ओषधियोंके क्षीण होनेसे समस्त प्राणियोंका भी क्षय होने लगा। इस प्रकार चन्द्रमाके क्षयके साथ-साथ सारी प्रजा अत्यन्त दुर्बल हो गयी॥६५॥
विश्वास-प्रस्तुतिः
ततो देवाः समागम्य सोममूचुर्महीपते ॥ ६६ ॥
किमिदं भवतो रूपमीदृशं न प्रकाशते।
कारणं ब्रूहि नः सर्वं येनेदं ते महद् भयम्॥६७॥
श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्।
मूलम्
ततो देवाः समागम्य सोममूचुर्महीपते ॥ ६६ ॥
किमिदं भवतो रूपमीदृशं न प्रकाशते।
कारणं ब्रूहि नः सर्वं येनेदं ते महद् भयम्॥६७॥
श्रुत्वा तु वचनं त्वत्तो विधास्यामस्ततो वयम्।
अनुवाद (हिन्दी)
पृथ्वीनाथ! उस समय देवताओंने चन्द्रमासे मिलकर पूछा—‘आपका रूप ऐसा कैसे हो गया? यह प्रकाशित क्यों नहीं होता है? हमलोगोंसे सारा कारण बताइये, जिससे आपको महान् भय प्राप्त हुआ। आपकी बात सुनकर हमलोग इस संकटके निवारणका कोई उपाय करेंगे’॥६६-६७॥
विश्वास-प्रस्तुतिः
एवमुक्तः प्रत्युवाच सर्वांस्तान् शशलक्षणः ॥ ६८ ॥
शापस्य लक्षणं चैव यक्ष्माणं च तथाऽऽत्मनः।
मूलम्
एवमुक्तः प्रत्युवाच सर्वांस्तान् शशलक्षणः ॥ ६८ ॥
शापस्य लक्षणं चैव यक्ष्माणं च तथाऽऽत्मनः।
अनुवाद (हिन्दी)
उनके इस प्रकार पूछनेपर चन्द्रमाने उन सबको उत्तर देते हुए अपनेको प्राप्त हुए शापके कारण राजयक्ष्माकी उत्पत्ति बतलायी॥६८॥
विश्वास-प्रस्तुतिः
देवास्तथा वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् ॥ ६९ ॥
प्रसीद भगवन् सोमे शापोऽयं विनिवर्त्यताम्।
मूलम्
देवास्तथा वचः श्रुत्वा गत्वा दक्षमथाब्रुवन् ॥ ६९ ॥
प्रसीद भगवन् सोमे शापोऽयं विनिवर्त्यताम्।
अनुवाद (हिन्दी)
उनका वचन सुनकर देवता दक्षके पास जाकर बोले—‘भगवन्! आप चन्द्रमापर प्रसन्न होइये और यह शाप हटा लीजिये॥६९॥
विश्वास-प्रस्तुतिः
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते ॥ ७० ॥
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्।
वीरुदोषधयश्चैव बीजानि विविधानि च ॥ ७१ ॥
मूलम्
असौ हि चन्द्रमाः क्षीणः किञ्चिच्छेषो हि लक्ष्यते ॥ ७० ॥
क्षयाच्चैवास्य देवेश प्रजाश्चैव गताः क्षयम्।
वीरुदोषधयश्चैव बीजानि विविधानि च ॥ ७१ ॥
अनुवाद (हिन्दी)
‘चन्द्रमा क्षीण हो चुके हैं और उनका कुछ ही अंश शेष दिखायी देता है। देवेश्वर! उनके क्षयसे लता, वीरुत्, ओषधियाँ भाँति-भाँतिके बीज और सम्पूर्ण प्रजा भी क्षीण हो गयी है॥७०-७१॥
विश्वास-प्रस्तुतिः
तेषां क्षये क्षयोऽस्माकं विनास्माभिर्जगच्च किम्।
इति ज्ञात्वा लोकगुरो प्रसादं कर्तुमर्हसि ॥ ७२ ॥
मूलम्
तेषां क्षये क्षयोऽस्माकं विनास्माभिर्जगच्च किम्।
इति ज्ञात्वा लोकगुरो प्रसादं कर्तुमर्हसि ॥ ७२ ॥
अनुवाद (हिन्दी)
‘उन सबके क्षीण होनेपर हमारा भी क्षय हो जायगा। फिर हमारे बिना संसार कैसे रह सकता है? लोकगुरो! ऐसा जानकर आपको चन्द्रदेवपर अवश्य कृपा करनी चाहिये’॥७२॥
विश्वास-प्रस्तुतिः
एवमुक्तस्ततो देवान् प्राह वाक्यं प्रजापतिः।
नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा ॥ ७३ ॥
हेतुना तु महाभागा निवर्तिष्यति केनचित्।
मूलम्
एवमुक्तस्ततो देवान् प्राह वाक्यं प्रजापतिः।
नैतच्छक्यं मम वचो व्यावर्तयितुमन्यथा ॥ ७३ ॥
हेतुना तु महाभागा निवर्तिष्यति केनचित्।
अनुवाद (हिन्दी)
उनके ऐसा कहनेपर प्रजापति दक्ष देवताओंसे इस प्रकार बोले—‘महाभाग देवगण! मेरी बात पलटी नहीं जा सकती। किसी विशेष कारणसे वह स्वतः निवृत्त हो जायगी॥७३॥
विश्वास-प्रस्तुतिः
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ॥ ७४ ॥
सरस्वत्या वरे तीर्थे उन्मज्जन् शशलक्षणः।
पुनर्वर्धिष्यते देवास्तद् वै सत्यं वचो मम ॥ ७५ ॥
मूलम्
समं वर्ततु सर्वासु शशी भार्यासु नित्यशः ॥ ७४ ॥
सरस्वत्या वरे तीर्थे उन्मज्जन् शशलक्षणः।
पुनर्वर्धिष्यते देवास्तद् वै सत्यं वचो मम ॥ ७५ ॥
अनुवाद (हिन्दी)
‘यदि चन्द्रमा अपनी सभी पत्नियोंके प्रति सदा समान बर्ताव करें और सरस्वतीके श्रेष्ठ तीर्थमें गोता लगायें तो वे पुनः बढ़कर पुष्ट हो जायँगे। देवताओ! मेरी यह बात अवश्य सच होगी॥७४-७५॥
विश्वास-प्रस्तुतिः
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति।
मासार्धं तु सदा वृद्धिं सत्यमेतद् वचो मम ॥ ७६ ॥
मूलम्
मासार्धं च क्षयं सोमो नित्यमेव गमिष्यति।
मासार्धं तु सदा वृद्धिं सत्यमेतद् वचो मम ॥ ७६ ॥
अनुवाद (हिन्दी)
‘सोम आधे मासतक प्रतिदिन क्षीण होंगे और आधे मासतक निरन्तर बढ़ते रहेंगे। मेरी यह बात अवश्य सत्य होगी॥७६॥
विश्वास-प्रस्तुतिः
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति ॥ ७७ ॥
मूलम्
समुद्रं पश्चिमं गत्वा सरस्वत्यब्धिसङ्गमम्।
आराधयतु देवेशं ततः कान्तिमवाप्स्यति ॥ ७७ ॥
अनुवाद (हिन्दी)
‘पश्चिमी समुद्रके तटपर जहाँ सरस्वती और समुद्रका संगम हुआ है, वहाँ जाकर चन्द्रमा देवेश्वर महादेवजीकी आराधना करें तो पुनः वे अपनी कान्ति प्राप्त कर लेंगे’॥७७॥
विश्वास-प्रस्तुतिः
सरस्वतीं ततः सोमः स जगामर्षिशासनात्।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह ॥ ७८ ॥
मूलम्
सरस्वतीं ततः सोमः स जगामर्षिशासनात्।
प्रभासं प्रथमं तीर्थं सरस्वत्या जगाम ह ॥ ७८ ॥
अनुवाद (हिन्दी)
ऋषि (दक्ष प्रजापति)-के इस आदेशसे सोम सरस्वतीके प्रथम तीर्थ प्रभासक्षेत्रमें गये॥७८॥
विश्वास-प्रस्तुतिः
अमावास्यां महातेजास्तत्रोन्मज्जन् महाद्युतिः ।
लोकान् प्रभासयामास शीतांशुत्वमवाप च ॥ ७९ ॥
मूलम्
अमावास्यां महातेजास्तत्रोन्मज्जन् महाद्युतिः ।
लोकान् प्रभासयामास शीतांशुत्वमवाप च ॥ ७९ ॥
अनुवाद (हिन्दी)
महातेजस्वी महाकान्तिमान् चन्द्रमाने अमावास्याको उस तीर्थमें गोता लगाया। इससे उन्हें शीतल किरणें प्राप्त हुईं और वे सम्पूर्ण जगत्को प्रकाशित करने लगे॥७९॥
विश्वास-प्रस्तुतिः
देवास्तु सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥ ८० ॥
मूलम्
देवास्तु सर्वे राजेन्द्र प्रभासं प्राप्य पुष्कलम्।
सोमेन सहिता भूत्वा दक्षस्य प्रमुखेऽभवन् ॥ ८० ॥
अनुवाद (हिन्दी)
राजेन्द्र! फिर सम्पूर्ण देवता सोमके साथ महान् प्रकाश प्राप्त करके पुनः दक्षप्रजापतिके सामने उपस्थित हुए॥८०॥
विश्वास-प्रस्तुतिः
ततः प्रजापतिः सर्वा विससर्जाथ देवताः।
सोमं च भगवान् प्रीतो भूयो वचनमब्रवीत् ॥ ८१ ॥
मूलम्
ततः प्रजापतिः सर्वा विससर्जाथ देवताः।
सोमं च भगवान् प्रीतो भूयो वचनमब्रवीत् ॥ ८१ ॥
अनुवाद (हिन्दी)
तब भगवान् प्रजापतिने समस्त देवताओंको विदा कर दिया और सोमसे पुनः प्रसन्नतापूर्वक कहा—॥८१॥
विश्वास-प्रस्तुतिः
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदाचन।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम॥८२॥
मूलम्
मावमंस्थाः स्त्रियः पुत्र मा च विप्रान् कदाचन।
गच्छ युक्तः सदा भूत्वा कुरु वै शासनं मम॥८२॥
अनुवाद (हिन्दी)
‘बेटा! अपनी स्त्रियों तथा ब्राह्मणोंकी कभी अवहेलना न करना। जाओ, सदा सावधान रहकर मेरी आज्ञाका पालन करते रहो’॥८२॥
विश्वास-प्रस्तुतिः
स विसृष्टो महाराज जगामाथ स्वमालयम्।
प्रजाश्च मुदिता भूत्वा पुनस्तस्थुर्यथा पुरा ॥ ८३ ॥
मूलम्
स विसृष्टो महाराज जगामाथ स्वमालयम्।
प्रजाश्च मुदिता भूत्वा पुनस्तस्थुर्यथा पुरा ॥ ८३ ॥
अनुवाद (हिन्दी)
महाराज! ऐसा कहकर प्रजापतिने उन्हें विदा कर दिया। चन्द्रमा अपने स्थानको चले गये और सारी प्रजा पूर्ववत् प्रसन्न रहने लगी॥८३॥
विश्वास-प्रस्तुतिः
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् ॥ ८४ ॥
मूलम्
एवं ते सर्वमाख्यातं यथा शप्तो निशाकरः।
प्रभासं च यथा तीर्थं तीर्थानां प्रवरं महत् ॥ ८४ ॥
अनुवाद (हिन्दी)
इस प्रकार चन्द्रमाको जैसे शाप प्राप्त हुआ था और महान् प्रभासतीर्थ जिस प्रकार सब तीर्थोंमें श्रेष्ठ माना गया, वह सारा प्रसंग मैंने तुमसे कह सुनाया॥८४॥
विश्वास-प्रस्तुतिः
अमावास्यां महाराज नित्यशः शशलक्षणः।
स्नात्वा ह्याप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे ॥ ८५ ॥
मूलम्
अमावास्यां महाराज नित्यशः शशलक्षणः।
स्नात्वा ह्याप्यायते श्रीमान् प्रभासे तीर्थ उत्तमे ॥ ८५ ॥
अनुवाद (हिन्दी)
महाराज! चन्द्रमा उत्तम प्रभासतीर्थमें प्रत्येक अमावास्याको स्नान करके कान्तिमान् एवं पुष्ट होते हैं॥
विश्वास-प्रस्तुतिः
अतश्चैतत् प्रजानन्ति प्रभासमिति भूमिप।
प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः ॥ ८६ ॥
मूलम्
अतश्चैतत् प्रजानन्ति प्रभासमिति भूमिप।
प्रभां हि परमां लेभे तस्मिन्नुन्मज्ज्य चन्द्रमाः ॥ ८६ ॥
अनुवाद (हिन्दी)
भूमिपाल! इसीलिये सब लोग इसे प्रभासतीर्थके नामसे जानते हैं; क्योंकि उसमें गोता लगाकर चन्द्रमाने उत्कृष्ट प्रभा प्राप्त की थी॥८६॥
विश्वास-प्रस्तुतिः
ततस्तु चमसोद्भेदमच्युतस्त्वगमद् बली ।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥ ८७ ॥
मूलम्
ततस्तु चमसोद्भेदमच्युतस्त्वगमद् बली ।
चमसोद्भेद इत्येवं यं जनाः कथयन्त्युत ॥ ८७ ॥
अनुवाद (हिन्दी)
तदनन्तर भगवान् बलराम चमसोद्भेद नामक तीर्थमें गये। उस तीर्थको सब लोग चमसोद्भेदके नामसे ही पुकारते हैं॥८७॥
विश्वास-प्रस्तुतिः
तत्र दत्त्वा च दानानि विशिष्टानि हलायुधः।
उषित्वा रजनीमेकां स्नात्वा च विधिवत्तदा ॥ ८८ ॥
उदपानमथागच्छत्त्वरावान् केशवाग्रजः ।
आद्यं स्वस्त्ययनं चैव यत्रावाप्य महत् फलम् ॥ ८९ ॥
स्निग्धत्वादोषधीनां च भूमेश्च जनमेजय।
जानन्ति सिद्धा राजेन्द्र नष्टामपि सरस्वतीम् ॥ ९० ॥

श्रीकृष्णके बड़े भाई हलधारी बलरामने वहाँ विधिपूर्वक स्नान करके उत्तम दान दे एक रात रहकर बड़ी उतावलीके साथ वहाँसे उदपानतीर्थको प्रस्थान किया, जो मंगलकारी आदि तीर्थ है। राजेन्द्र जनमेजय! उदपान वह तीर्थ है, जहाँ उपस्थित होनेमात्रसे महान् फलकी प्राप्ति होती है। सिद्ध पुरुष वहाँ ओषधियों (वृक्षों और लताओं)-की स्निग्धता और भूमिकी आर्द्रता देखकर अदृश्य हुई सरस्वतीको भी जान लेते हैं॥८८—९०॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते शल्यपर्वणि गदापर्वणि बलदेवतीर्थयात्रायां प्रभासोत्पत्तिकथने पञ्चत्रिंशोऽध्यायः ॥ ३५ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत शल्यपर्वके अन्तर्गत गदापर्वमें बलदेवजीकी तीर्थयात्राके प्रसंगमें प्रभासतीर्थका वर्णनविषयक पैंतीसवाँ अध्याय पूरा हुआ॥३५॥