श्रावणम् (द्युगङ्गा)
भागसूचना
चतुर्थोऽध्यायः
सूचना (हिन्दी)
मयद्वारा निर्मित सभाभवनमें धर्मराज युधिष्ठिरका प्रवेश तथा सभामें स्थित महर्षियों और राजाओं आदिका वर्णन
मूलम् (वचनम्)
(वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत्।
मूलम्
तां तु कृत्वा सभां श्रेष्ठां मयश्चार्जुनमब्रवीत्।
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! उस श्रेष्ठ सभाभवनका निर्माण करके मयासुरने अर्जुनसे कहा।
मूलम् (वचनम्)
मय उवाच
विश्वास-प्रस्तुतिः
एषा सभा सव्यसाचिन् ध्वजो ह्यत्र भविष्यति॥
मूलम्
एषा सभा सव्यसाचिन् ध्वजो ह्यत्र भविष्यति॥
अनुवाद (हिन्दी)
मयासुर बोला— सव्यसाचिन्! यह है आपकी सभा, इसमें एक ध्वजा होगी।
विश्वास-प्रस्तुतिः
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः।
तव विस्फारघोषेण मेघवन्निनदिष्यति ॥
मूलम्
भूतानां च महावीर्यो ध्वजाग्रे किङ्करो गणः।
तव विस्फारघोषेण मेघवन्निनदिष्यति ॥
अनुवाद (हिन्दी)
उसके अग्रभागमें भूतोंका महापराक्रमी किंकर नामक गण निवास करेगा। जिस समय तुम्हारे धनुषकी टंकारध्वनि होगी, उस समय उस ध्वनिके साथ ये भूत भी मेघोंके समान गर्जना करेंगे।
विश्वास-प्रस्तुतिः
अयं हि सूर्यसंकाशो ज्वलनस्य रथोत्तमः।
इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः॥
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः।
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः ॥
मूलम्
अयं हि सूर्यसंकाशो ज्वलनस्य रथोत्तमः।
इमे च दिविजाः श्वेता वीर्यवन्तो हयोत्तमाः॥
मायामयः कृतो ह्येष ध्वजो वानरलक्षणः।
असज्जमानो वृक्षेषु धूमकेतुरिवोच्छ्रितः ॥
अनुवाद (हिन्दी)
यह जो सूर्यके समान तेजस्वी अग्निदेवका उत्तम रथ है और ये जो श्वेत वर्णवाले दिव्य एवं बलवान् अश्वरत्न हैं तथा यह जो वानरचिह्नसे उपलक्षित ध्वज है, इन सबका निर्माण मायासे ही हुआ है। यह ध्वज वृक्षोंमें कहीं अटकता नहीं है तथा अग्निकी लपटोंके समान सदा ऊपरकी ओर ही उठा रहता है।
विश्वास-प्रस्तुतिः
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम्।
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम्॥
मूलम्
बहुवर्णं हि लक्ष्येत ध्वजं वानरलक्षणम्।
ध्वजोत्कटं ह्यनवमं युद्धे द्रक्ष्यसि विष्ठितम्॥
अनुवाद (हिन्दी)
आपका यह वानरचिह्नित ध्वज अनेक रंगका दिखायी देता है। आप युद्धमें इस उत्कट एवं स्थिर ध्वजको कभी झुकता नहीं देखेंगे।
विश्वास-प्रस्तुतिः
इत्युक्त्वाऽऽलिङ्ग्य बीभत्सुं विसृष्टः प्रययौ मयः।)
मूलम्
इत्युक्त्वाऽऽलिङ्ग्य बीभत्सुं विसृष्टः प्रययौ मयः।)
अनुवाद (हिन्दी)
ऐसा कहकर मयासुरने अर्जुनको हृदयसे लगा लिया और उनसे विदा लेकर (अभीष्ट स्थानको) चला गया।
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
ततः प्रवेशनं तस्यां चक्रे राजा युधिष्ठिरः।
अयुतं भोजयित्वा तु ब्राह्मणानां नराधिपः ॥ १ ॥
साज्येन पायसेनैव मधुना मिश्रितेन च।
कृसरेणाथ जीवन्त्या हविष्येण च सर्वशः ॥ २ ॥
भक्ष्यप्रकारैर्विविधैः फलैश्चापि तथा नृप।
चोष्यैश्च विविधै राजन् पेयैश्च बहुविस्तरैः ॥ ३ ॥

वैशम्पायनजी कहते हैं— जनमेजय! तदनन्तर राजा युधिष्ठिरने घी और मधु मिलायी हुई खीर, खिचड़ी, जीवन्तिकाके साग, सब प्रकारके हविष्य, भाँति-भाँतिके भक्ष्य तथा फल, ईख आदि नाना प्रकारके चोष्य और बहुत अधिक पेय (शर्बत) आदि सामग्रियों-द्वारा दस हजार ब्राह्मणोंको भोजन कराकर उस सभा-भवनमें प्रवेश किया॥१—३॥
विश्वास-प्रस्तुतिः
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ।
तर्पयामास विप्रेन्द्रान् नानादिग्भ्यः समागतान् ॥ ४ ॥
मूलम्
अहतैश्चैव वासोभिर्माल्यैरुच्चावचैरपि ।
तर्पयामास विप्रेन्द्रान् नानादिग्भ्यः समागतान् ॥ ४ ॥
अनुवाद (हिन्दी)
उन्होंने नये-नये वस्त्र और छोटे-बड़े अनेक प्रकारके हार आदिके उपहार देकर अनेक दिशाओंसे आये हुए श्रेष्ठ ब्राह्मणोंको तृप्त किया॥४॥
विश्वास-प्रस्तुतिः
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः।
पुण्याहघोषस्तत्रासीद् दिवस्पृगिव भारत ॥ ५ ॥
मूलम्
ददौ तेभ्यः सहस्राणि गवां प्रत्येकशः पुनः।
पुण्याहघोषस्तत्रासीद् दिवस्पृगिव भारत ॥ ५ ॥
अनुवाद (हिन्दी)
भारत! तत्पश्चात् उन्होंने प्रत्येक ब्राह्मणको एक-एक हजार गौएँ दीं। उस समय वहाँ ब्राह्मणोंके पुण्याह-वाचनका गम्भीर घोष मानो स्वर्गलोकतक गूँज उठा॥५॥
विश्वास-प्रस्तुतिः
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि ।
पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ॥ ६ ॥
मूलम्
वादित्रैर्विविधैर्दिव्यैर्गन्धैरुच्चावचैरपि ।
पूजयित्वा कुरुश्रेष्ठो दैवतानि निवेश्य च ॥ ६ ॥
अनुवाद (हिन्दी)
कुरुश्रेष्ठ युधिष्ठिरने अनेक प्रकारके बाजे तथा भाँति-भाँतिके दिव्य सुगन्धित पदार्थोंद्वारा उस भवनमें देवताओंकी स्थापना एवं पूजा की। इसके बाद वे उस भवनमें प्रविष्ट हुए॥६॥
विश्वास-प्रस्तुतिः
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥ ७ ॥
मूलम्
तत्र मल्ला नटा झल्लाः सूता वैतालिकास्तथा।
उपतस्थुर्महात्मानं धर्मपुत्रं युधिष्ठिरम् ॥ ७ ॥
अनुवाद (हिन्दी)
वहाँ धर्मपुत्र महात्मा युधिष्ठिरकी सेवामें कितने ही मल्ल (बाहुयुद्ध करनेवाले), नट, झल्ल (लकुटियोंसे युद्ध करनेवाले), सूत और वैतालिक उपस्थित हुए॥७॥
विश्वास-प्रस्तुतिः
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ ८ ॥
मूलम्
तथा स कृत्वा पूजां तां भ्रातृभिः सह पाण्डवः।
तस्यां सभायां रम्यायां रेमे शक्रो यथा दिवि ॥ ८ ॥
अनुवाद (हिन्दी)
इस प्रकार पूजनका कार्य सम्पन्न करके भाइयोंसहित पाण्डुनन्दन युधिष्ठिर स्वर्गमें इन्द्रकी भाँति उस रमणीय सभामें आनन्दपूर्वक रहने लगे॥८॥
विश्वास-प्रस्तुतिः
सभायामृषयस्तस्यां पाण्डवैः सह आसते।
आसांचक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥ ९ ॥
मूलम्
सभायामृषयस्तस्यां पाण्डवैः सह आसते।
आसांचक्रुर्नरेन्द्राश्च नानादेशसमागताः ॥ ९ ॥
अनुवाद (हिन्दी)
उस सभामें ऋषि तथा विभिन्न देशोंसे आये हुए नरेश पाण्डवोंके साथ बैठा करते थे॥९॥
विश्वास-प्रस्तुतिः
असितो देवलः सत्यः सर्पिर्माली महाशिराः।
अर्वावसुः सुमित्रश्च मैत्रेयः शुनको बलिः ॥ १० ॥
बको दाल्भ्यः स्थूलशिराः कृष्णद्वैपायनः शुकः।
सुमन्तुर्जैमिनिः पैलो व्यासशिष्यास्तथा वयम् ॥ ११ ॥
तित्तिरिर्याज्ञवल्क्यश्च ससुतो लोमहर्षणः ।
अप्सुहोम्यश्च धौम्यश्च अणीमाण्डव्यकौशिकौ ॥ १२ ॥
दामोष्णीषस्त्रैबलिश्च पर्णादो घटजानुकः ।
मौञ्जायनो वायुभक्षः पाराशर्यश्च सारिकः ॥ १३ ॥
बलिवाकः सिनीवाकः सत्यपालः कृतश्रमः।
जातूकर्णः शिखावांश्च आलम्बः पारिजातकः ॥ १४ ॥
पर्वतश्च महाभागो मार्कण्डेयो महामुनिः।
पवित्रपाणिः सावर्णो भालुकिर्गालवस्तथा ॥ १५ ॥
जङ्घाबन्धुश्च रैभ्यश्च कोपवेगस्तथा भृगुः।
हरिबभ्रुश्च कौण्डिन्यो बभ्रुमाली सनातनः ॥ १६ ॥
काक्षीवानौशिजश्चैव नाचिकेतोऽथ गौतमः ।
पैङ्ग्यो वराहः शुनकः शाण्डिल्यश्च महातपाः ॥ १७ ॥
कुक्कुरो वेणुजङ्घोऽथ कालापः कठ एव च।
मुनयो धर्मविद्वांसो धृतात्मानो जितेन्द्रियाः ॥ १८ ॥

असित, देवल, सत्य, सर्पिर्माली, महाशिरा, अर्वावसु, सुमित्र, मैत्रेय, शुनक, बलि, बक, दाल्भ्य, स्थूलशिरा, कृष्णद्वैपायन, शुकदेव, व्यासजीके शिष्य सुमन्तु, जैमिनि, पैल तथा हमलोग, तित्तिरि, याज्ञवल्क्य, पुत्रसहित लोमहर्षण, अप्सुहोम्य, धौम्य, अणीमाण्डव्य, कौशिक, दामोष्णीष, त्रैबलि, पर्णाद, घटजानुक, मौंजायन, वायुभक्ष, पाराशर्य, सारिक, बलिवाक, सिनीवाक, सत्यपाल, कृतश्रम, जातूकर्ण, शिखावान्, आलम्ब, पारिजातक, महाभाग पर्वत, महामुनि मार्कण्डेय, पवित्रपाणि, सावर्ण, भालुकि, गालव, जंघाबन्धु, रैभ्य, कोपवेग, भृगु, हरिबभ्रु, कौण्डिन्य, बभ्रुमाली, सनातन, काक्षीवान्, औशिज, नाचिकेत, गौतम, पैंग्य, वराह, शुनक (द्वितीय), महातपस्वी शाण्डिल्य, कुक्कुर, वेणुजंघ, कालाप तथा कठ आदि धर्मज्ञ, जितात्मा और जितेन्द्रिय मुनि उस सभामें विराजते थे॥१०—१८॥
विश्वास-प्रस्तुतिः
एते चान्ये च बहवो वेदवेदाङ्गपारगाः।
उपासते महात्मानं सभायामृषिसत्तमाः ॥ १९ ॥
मूलम्
एते चान्ये च बहवो वेदवेदाङ्गपारगाः।
उपासते महात्मानं सभायामृषिसत्तमाः ॥ १९ ॥
अनुवाद (हिन्दी)
ये तथा और भी वेद-वेदांगोंके पारंगत बहुत-से मुनिश्रेष्ठ उस सभामें महात्मा युधिष्ठिरके पास बैठा करते थे॥१९॥
विश्वास-प्रस्तुतिः
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयो््ऽमलाः।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ॥ २० ॥
मूलम्
कथयन्तः कथाः पुण्या धर्मज्ञाः शुचयो््ऽमलाः।
तथैव क्षत्रियश्रेष्ठा धर्मराजमुपासते ॥ २० ॥
अनुवाद (हिन्दी)
वे धर्मज्ञ, पवित्रात्मा और निर्मल महर्षि राजा युधिष्ठिरको पवित्र कथाएँ सुनाया करते थे। इसी प्रकार क्षत्रियोंमें श्रेष्ठ नरेश भी वहाँ धर्मराज युधिष्ठिरकी उपासना करते थे॥२०॥
विश्वास-प्रस्तुतिः
श्रीमान् महात्मा धर्मात्मा मुञ्जकेतुर्विवर्धनः।
संग्रामजिद् दुर्मुखश्च उग्रसेनश्च वीर्यवान् ॥ २१ ॥
कक्षसेनः क्षितिपतिः क्षेमकश्चापराजितः ।
कम्बोजराजः कमठः कम्पनश्च महाबलः ॥ २२ ॥
सततं कम्पयामास यवनानेक एव यः।
बलपौरुषसम्पन्नान् कृतास्त्रानमितौजसः ।
यथासुरान् कालकेयान् देवो वज्रधरस्तथा ॥ २३ ॥

श्रीमान् महामना धर्मात्मा मुंजकेतु, विवर्धन, संग्रामजित्, दुर्मुख, पराक्रमी उग्रसेन, राजा कक्षसेन, अपराजित क्षेमक, कम्बोजराज कमठ और महाबली कम्पन, जो अकेले ही बल-पौरुषसम्पन्न, अस्त्रविद्याके ज्ञाता तथा अमिततेजस्वी यवनोंको सदा उसी प्रकार कँपाते रहते थे, जैसे वज्रधारी इन्द्रने कालकेय नामक असुरोंको कम्पित किया था। (ये सभी नरेश धर्मराज युधिष्ठिरकी उपासना करते रहते थे)॥२१—२३॥
विश्वास-प्रस्तुतिः
जटासुरो मद्रकाणां च राजा
कुन्तिः पुलिन्दश्च किरातराजः ।
तथाऽऽङ्गवाङ्गौ सह पुण्ड्रकेण
पाण्ड्योड्रराजौ च सहान्ध्रकेण ॥ २४ ॥
अङ्गो वङ्गः सुमित्रश्च शैब्यश्चामित्रकर्शनः।
किरातराजः सुमना यवनाधिपतिस्तथा ॥ २५ ॥
चाणूरो देवरातश्च भोजो भीमरथश्च यः।
श्रुतायुधश्च कालिङ्गो जयसेनश्च मागधः ॥ २६ ॥
सुकर्मा चेकितानश्च पुरुश्चामित्रकर्शनः ।
केतुमान् वसुदानश्च वैदेहोऽथ कृतक्षणः ॥ २७ ॥
सुधर्मा चानिरुद्धश्च श्रुतायुश्च महाबलः।
अनूपराजो दुर्धर्षः क्रमजिच्च सुदर्शनः ॥ २८ ॥
शिशुपालः सहसुतः करूषाधिपतिस्तथा ।
वृष्णीनां चैव दुर्धर्षाः कुमारा देवरूपिणः ॥ २९ ॥
आहुको विपृथुश्चैव गदः सारण एव च।
अक्रूरः कृतवर्मा च सत्यकश्च शिनेः सुतः ॥ ३० ॥
भीष्मकोऽथाकृतिश्चैव द्युमत्सेनश्च वीर्यवान् ।
केकयाश्च महेष्वासा यज्ञसेनश्च सौमकिः ॥ ३१ ॥
केतुमान् वसुमांश्चैव कृतास्त्रश्च महाबलः।
एते चान्ये च बहवः क्षत्रिया मुख्यसम्मताः ॥ ३२ ॥
उपासते सभायां स्म कुन्तीपुत्रं युधिष्ठिरम्।

इनके सिवा जटासुर, मद्रराज शल्य, राजा कुन्तिभोज, किरातराज पुलिन्द, अंगराज, वंगराज, पुण्ड्रक, पाण्ड्य, उड्रराज, आन्ध्रनरेश, अंग, वंग, सुमित्र, शत्रुसूदन शैब्य, किरातराज सुमना, यवननरेश, चाणूर, देवरात, भोज, भीमरथ, कलिंगराज श्रुतायुध, मगधदेशीय जयसेन, सुकर्मा, चेकितान, शत्रुसंहारक पुरु, केतुमान्, वसुदान, विदेहराज कृतक्षण, सुधर्मा, अनिरुद्ध, महाबली श्रुतायु, दुर्धर्ष वीर अनूपराज, क्रमजित्, सुदर्शन, पुत्रसहित शिशुपाल, करूषराज दन्तवक्त्र, वृष्णिवंशियोंके देवस्वरूप दुर्धर्ष राजकुमार, आहुक, विपृथु, गद, सारण, अक्रूर, कृतवर्मा, शिनिपुत्र सत्यक, भीष्मक, आकृति, पराक्रमी द्युमत्सेन, महान् धनुर्धर केकयराजकुमार, सोमक-पौत्र द्रुपद, केतुमान् (द्वितीय) तथा अस्त्रविद्यामें निपुण महाबली वसुमान्—ये तथा और भी बहुत-से प्रधान क्षत्रिय उस सभामें कुन्तीनन्दन युधिष्ठिरकी सेवामें बैठते थे॥२४—३२॥
विश्वास-प्रस्तुतिः
अर्जुनं ये च संश्रित्य राजपुत्रा महाबलाः ॥ ३३ ॥
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ।
तत्रैव शिक्षिता राजन् कुमारा वृष्णिनन्दनाः ॥ ३४ ॥
मूलम्
अर्जुनं ये च संश्रित्य राजपुत्रा महाबलाः ॥ ३३ ॥
अशिक्षन्त धनुर्वेदं रौरवाजिनवाससः ।
तत्रैव शिक्षिता राजन् कुमारा वृष्णिनन्दनाः ॥ ३४ ॥
अनुवाद (हिन्दी)
जो महाबली राजकुमार अर्जुनके पास रहकर कृष्णमृगचर्म धारण किये धनुर्वेदकी शिक्षा लेते थे (वे भी उस सभाभवनमें बैठकर राजा युधिष्ठिरकी उपासना करते थे)। राजन्! वृष्णिवंशको आनन्दित करनेवाले राजकुमारोंको वहीं शिक्षा मिली थी॥३३-३४॥
विश्वास-प्रस्तुतिः
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः।
सुधर्मा चानिरुद्धश्च शैब्यश्च नरपुङ्गवः ॥ ३५ ॥
एते चान्ये च बहवो राजानः पृथिवीपते।
धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥ ३६ ॥
मूलम्
रौक्मिणेयश्च साम्बश्च युयुधानश्च सात्यकिः।
सुधर्मा चानिरुद्धश्च शैब्यश्च नरपुङ्गवः ॥ ३५ ॥
एते चान्ये च बहवो राजानः पृथिवीपते।
धनंजयसखा चात्र नित्यमास्ते स्म तुम्बुरुः ॥ ३६ ॥
अनुवाद (हिन्दी)
रुक्मिणीनन्दन प्रद्युम्न, जाम्बवतीकुमार साम्ब, सत्यकपुत्र (सात्यकि) युयुधान, सुधर्मा, अनिरुद्ध, नरश्रेष्ठ शैब्य—ये और दूसरे भी बहुत-से राजा उस सभामें बैठते थे। पृथ्वीपते! अर्जुनके सखा तुम्बुरु गन्धर्व भी उस सभामें नित्य विराजमान होते थे॥३५-३६॥
विश्वास-प्रस्तुतिः
उपासते महात्मानमासीनं सप्तविंशतिः ।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ॥ ३७ ॥
मूलम्
उपासते महात्मानमासीनं सप्तविंशतिः ।
चित्रसेनः सहामात्यो गन्धर्वाप्सरसस्तथा ॥ ३७ ॥
अनुवाद (हिन्दी)
मन्त्रीसहित चित्रसेन आदि सत्ताईस गन्धर्व और अप्सराएँ सभामें बैठे हुए महात्मा युाधिष्ठिरकी उपासना करती थीं॥३७॥
विश्वास-प्रस्तुतिः
गीतवादित्रकुशलाः साम्यतालविशारदाः ।
प्रमाणेऽथ लये स्थाने किन्नराः कृतनिश्रमाः ॥ ३८ ॥
संचोदितास्तुम्बुरुणा गन्धर्वसहितास्तदा ।
गायन्ति दिव्यतानैस्ते यथान्यायं मनस्विनः।
पाण्डुपुत्रानृषींश्चैव रमयन्त उपासते ॥ ३९ ॥

गाने-बजानेमें कुशल, साम्य1 और तालके2 विशेषज्ञ तथा प्रमाण, लय और स्थानकी जानकारीके लिये विशेष परिश्रम किये हुए मनस्वी किन्नर तुम्बुरुकी आज्ञासे वहाँ अन्य गन्धर्वोंके साथ दिव्य तान छेड़ते हुए यथोचित रीतिसे गाते और पाण्डवों तथा महर्षियोंका मनोरंजन करते हुए धर्मराजकी उपासना करते थे॥३८-३९॥
विश्वास-प्रस्तुतिः
तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः।
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ ४० ॥
मूलम्
तस्यां सभायामासीनाः सुव्रताः सत्यसंगराः।
दिवीव देवा ब्रह्माणं युधिष्ठिरमुपासते ॥ ४० ॥
अनुवाद (हिन्दी)
जैसे देवतालोग दिव्यलोककी सभामें ब्रह्माजीकी उपासना करते हैं, उसी प्रकार कितने ही सत्यप्रतिज्ञ और उत्तम व्रतका पालन करनेवाले महापुरुष उस सभामें बैठकर महाराज युधिष्ठिरकी आराधना करते थे॥४०॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते सभापर्वणि सभाक्रियापर्वणि सभाप्रवेशो नाम चतुर्थोऽध्यायः ॥ ४ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत सभापर्वके अन्तर्गत सभाक्रियापर्वमें सभाप्रवेश नामक चौथा अध्याय पूरा हुआ॥४॥
सूचना (हिन्दी)
(दाक्षिणात्य अधिक पाठके ५ श्लोक मिलाकर कुल ४५ श्लोक हैं)