श्रावणम् (द्युगङ्गा)
भागसूचना
अष्टषष्ट्यधिकशततमोऽध्यायः
सूचना (हिन्दी)
व्यासजीका पाण्डवोंको द्रौपदीके पूर्वजन्मका वृत्तान्त सुनाना
मूलम् (वचनम्)
वैशम्पायन उवाच
विश्वास-प्रस्तुतिः
वसत्सु तेषु प्रच्छन्नं
पाण्डवेषु महात्मसु।
आजगामाथ तान् द्रष्टुं
व्यासः सत्यवतीसुतः ॥ १ ॥
मूलम्
वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु।
आजगामाथ तान् द्रष्टुं व्यासः सत्यवतीसुतः ॥ १ ॥
अनुवाद (हिन्दी)
वैशम्पायनजी कहते हैं— जनमेजय! महात्मा पाण्डव जब गुप्तरूपसे वहाँ निवास कर रहे थे, उसी समय सत्यवतीनन्दन व्यासजी उनसे मिलनेके लिये वहाँ आये॥१॥
विश्वास-प्रस्तुतिः
तमागतमभिप्रेक्ष्य
प्रत्युद्गम्य परंतपाः ।
प्रणिपत्याभिवाद्यैनं
तस्थुः प्राञ्चलयस्तदा ॥ २ ॥
समनुज्ञाप्य तान् सर्वान्
आसीनान् मुनिरब्रवीत्।
प्रच्छन्नं पूजितः पार्थैः
प्रीतिपूर्वमिदं वचः ॥ ३ ॥
मूलम्
तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परंतपाः ।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्चलयस्तदा ॥ २ ॥
समनुज्ञाप्य तान् सर्वानासीनान् मुनिरब्रवीत्।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः ॥ ३ ॥
अनुवाद (हिन्दी)
उन्हें आया देख शत्रुसंतापन पाण्डवोंने आगे बढ़कर उनकी अगवानी की और प्रणामपूर्वक उनका अभिवादन करके वे सब उनके आगे हाथ जोड़कर खड़े हो गये। कुन्तीपुत्रोंद्वारा गुप्तरूपसे पूजित हो मुनिवर व्यासने उन सबको आज्ञा देकर बिठाया और जब वे बैठ गये, तब उनसे प्रसन्नतापूर्वक इस प्रकार पूछा—॥२-३॥
विश्वास-प्रस्तुतिः
अपि धर्मेण वर्तेध्वं
शास्त्रेण च परंतपाः।
अपि विप्रेषु पूजा वः
पूजार्हेषु न हीयते ॥ ४ ॥
मूलम्
अपि धर्मेण वर्तेध्वं शास्त्रेण च परंतपाः।
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते ॥ ४ ॥
अनुवाद (हिन्दी)
‘शत्रुओंको संतप्त करनेवाले वीरो! तुमलोग शास्त्रकी आज्ञा और धर्मके अनुसार चलते हो न? पूजनीय ब्राह्मणोंकी पूजा करनेमें तो तुम्हारी ओरसे कभी भूल नहीं होती?’॥४॥
विश्वास-प्रस्तुतिः
अथ धर्मार्थवद् वाक्यम्
उक्त्वा स भगवानृषिः।
विचित्राश्च कथास्तास्ताः
पुनरेवेदमब्रवीत् ॥ ५ ॥
मूलम्
अथ धर्मार्थवद् वाक्यमुक्त्वा स भगवानृषिः।
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत् ॥ ५ ॥
अनुवाद (हिन्दी)
तदनन्तर महर्षि भगवान् व्यासने उनसे धर्म और अर्थयुक्त बातें कहीं। फिर विचित्र-विचित्र कथाएँ सुनाकर वे पुनः उनसे इस प्रकार बोले॥५॥
मूलम् (वचनम्)
व्यास उवाच
विश्वास-प्रस्तुतिः
आसीत् तपोवने काचिद्
ऋषेः कन्या महात्मनः।
विलग्नमध्या सुश्रोणी
सुभ्रूः सर्वगुणान्विता ॥ ६ ॥
मूलम्
आसीत् तपोवने काचिदृषेः कन्या महात्मनः।
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता ॥ ६ ॥
अनुवाद (हिन्दी)
व्यासजीने कहा— पहलेकी बात है, तपोवनमें किसी महात्मा ऋषिकी कोई कन्या रहती थी, जिसकी कटि कृश तथा नितम्ब और भौंहें सुन्दर थीं। वह कन्या समस्त सद्गुणोंसे सम्पन्न थी॥६॥
विश्वास-प्रस्तुतिः
कर्मभिः स्वकृतैः सा तु
दुर्भगा समपद्यत।
नाध्यगच्छत् पतिं सा तु
कन्या रूपवती सती ॥ ७ ॥
मूलम्
कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत।
नाध्यगच्छत् पतिं सा तु कन्या रूपवती सती ॥ ७ ॥
अनुवाद (हिन्दी)
परंतु अपने ही किये हुए कर्मोंके कारण वह कन्या दुर्भाग्यके वश हो गयी, इसलिये वह रूपवती और सदाचारिणी होनेपर भी कोई पति न पा सकी॥७॥
विश्वास-प्रस्तुतिः
ततस्तप्तुमथारेभे
पत्य्-अर्थमसुखा ततः ।
तोषयामास तपसा
सा किलोग्रेण शंकरम् ॥ ८ ॥
मूलम्
ततस्तप्तुमथारेभे पत्यर्थमसुखा ततः ।
तोषयामास तपसा सा किलोग्रेण शंकरम् ॥ ८ ॥
अनुवाद (हिन्दी)
तब पतिके लिये दुःखी होकर उसने तपस्या प्रारम्भ की और कहते हैं उग्र तपस्याके द्वारा उसने भगवान् शंकरको प्रसन्न कर लिया॥८॥
विश्वास-प्रस्तुतिः
तस्याः स भगवांस्तुष्टस्
तामुवाच यशस्विनीम्।
वरं वरय भद्रं ते
वरदोऽस्मीति शङ्करः ॥ ९ ॥
मूलम्
तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम्।
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः ॥ ९ ॥
अनुवाद (हिन्दी)
उसपर संतुष्ट हो भगवान् शंकरने उस यशस्विनी कन्यासे कहा—‘शुभे! तुम्हारा कल्याण हो। तुम कोई वर माँगो। मैं तुम्हें वर देनेके लिये आया हूँ’॥९॥
विश्वास-प्रस्तुतिः
अथेश्वरमुवाचेदम्
आत्मनः सा वचो हितम्।
पतिं सर्वगुणोपेतम्
इच्छामीति पुनः पुनः ॥ १० ॥
मूलम्
अथेश्वरमुवाचेदमात्मनः सा वचो हितम्।
पतिं सर्वगुणोपेतमिच्छामीति पुनः पुनः ॥ १० ॥
अनुवाद (हिन्दी)
तब उसने भगवान् शंकरसे अपने लिये हितकर वचन कहा—‘प्रभो! मैं सर्वगुणसम्पन्न पति चाहती हूँ।’ इस वाक्यको उसने बार-बार दुहराया॥१०॥
विश्वास-प्रस्तुतिः
तामथ प्रत्युवाचेदम्
ईशानो वदतां वरः।
पञ्च ते पतयो भद्रे
भविष्यन्तीति भारताः ॥ ११ ॥
मूलम्
तामथ प्रत्युवाचेदमीशानो वदतां वरः।
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः ॥ ११ ॥
अनुवाद (हिन्दी)
तब वक्ताओंमें श्रेष्ठ भगवान् शिवने उससे कहा—‘भद्रे! तुम्हारे पाँच भरतवंशी पति होंगे’॥११॥
विश्वास-प्रस्तुतिः
एवमुक्ता ततः कन्या देवं वरदमब्रवीत्।
एकमिच्छाम्यहं देव
त्वत्प्रसादात् पतिं प्रभो ॥ १२ ॥
मूलम्
एवमुक्ता ततः कन्या देवं वरदमब्रवीत्।
एकमिच्छाम्यहं देव त्वत्प्रसादात् पतिं प्रभो ॥ १२ ॥
अनुवाद (हिन्दी)
उनके ऐसा कहनेपर वह कन्या उन वरदायक देवता भगवान् शिवसे इस प्रकार बोली—‘देव! प्रभो! मैं आपकी कृपासे एक ही पति चाहती हूँ’॥१२॥
विश्वास-प्रस्तुतिः
पुनरेवाब्रवीद् देव
इदं वचनमुत्तमम्।
पञ्चकृत्वस्त्वया ह्युक्तः
पतिं देहीत्यहं पुनः ॥ १३ ॥
मूलम्
पुनरेवाब्रवीद् देव इदं वचनमुत्तमम्।
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः ॥ १३ ॥
अनुवाद (हिन्दी)
तब भगवान्ने पुनः उससे यह उत्तम बात कही—‘भद्रे! तुमने मुझसे पाँच बार कहा है कि मुझे पति दीजिये॥१३॥
विश्वास-प्रस्तुतिः
देहमन्यं गतायास्ते
यथोक्तं तद् भविष्यति।
द्रुपदस्य कुले जज्ञे
सा कन्या देवरूपिणी ॥ १४ ॥
मूलम्
देहमन्यं गतायास्ते यथोक्तं तद् भविष्यति।
द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी ॥ १४ ॥
अनुवाद (हिन्दी)
‘अतः दूसरा शरीर धारण करनेपर तुम्हें जैसा मैंने कहा है, वह वरदान प्राप्त होगा।’ वही देवरूपिणी कन्या राजा द्रुपदके कुलमें उत्पन्न हुई है॥१४॥
विश्वास-प्रस्तुतिः
निर्दिष्टा भवतां पत्नी
कृष्णा पार्षत्यनिन्दिता।
पाञ्चालनगरे तस्मान्
निवसध्वं महाबलाः ।
सुखिनस्तामनुप्राप्य
भविष्यथ न संशयः ॥ १५ ॥
मूलम्
निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता।
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः ।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः ॥ १५ ॥
अनुवाद (हिन्दी)
वह महाराज पृषतकी पौत्री सती-साध्वी कृष्णा तुमलोगोंकी पत्नी नियत की गयी है; अतः महाबली वीरो! अब तुम पंचालनगरमें जाकर रहो। द्रौपदीको पाकर तुम सब लोग सुखी होओगे, इसमें संशय नहीं है॥१५॥
विश्वास-प्रस्तुतिः
एवमुक्त्वा महाभागः
पाण्डवान् स पितामहः।
पार्थानामन्त्र्य कुन्तीं च
प्रातिष्ठत महातपाः ॥ १६ ॥
मूलम्
एवमुक्त्वा महाभागः पाण्डवान् स पितामहः।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः ॥ १६ ॥
अनुवाद (हिन्दी)
महान् सौभाग्यशाली और महातपस्वी पितामह व्यासजी पाण्डवोंसे ऐसा कहकर उन सबसे और कुन्तीसे विदा ले वहाँसे चल दिये॥१६॥
मूलम् (समाप्तिः)
इति श्रीमहाभारते आदिपर्वणि चैत्ररथपर्वणि द्रौपदीजन्मान्तरकथने अष्टषष्ट्यधिकशततमोऽध्यायः ॥ १६८ ॥
मूलम् (वचनम्)
इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत चैत्ररथपर्वमें द्रौपदीजन्मान्तरकथनविषयक एक सौ अड़सठवाँ अध्याय पूरा हुआ॥१६८॥