०६७ अंशावतरणम्

श्रावणम् (द्युगङ्गा)
भागसूचना

सप्तषष्टितमोऽध्यायः

सूचना (हिन्दी)

देवता और दैत्य आदिके अंशावतारोंका दिग्दर्शन

मूलम् (वचनम्)

जनमेजय उवाच

विश्वास-प्रस्तुतिः

देवानां दानवानां च गन्धर्वोरगरक्षसाम्।
सिंहव्याघ्रमृदगाणां च पन्नगानां पतत्त्रिणाम् ॥ १ ॥
सर्वेषां चैव भूतानां सम्भवं भगवन्नहम्।
श्रोतुमिच्छामि तत्त्वेन मानुषेषु महात्मनाम्।
जन्म कर्म च भूतानामेतेषामनुपूर्वशः ॥ २ ॥

मूलम्

अनुवाद (हिन्दी)

जनमेजयने कहा— भगवन्! मैं मनुष्य-योनिमें अंशतः उत्पन्न हुए देवता, दानव, गन्धर्व, नाग, राक्षस, सिंह, व्याघ्र, हरिण, सर्प, पक्षी एवं सम्पूर्ण भूतोंके जन्मका वृत्तान्त यथार्थरूपसे सुनना चाहता हूँ। मनुष्योंमें जो महात्मा पुरुष हैं, उनके तथा इन सभी प्राणियोंके जन्म-कर्मका क्रमशः वर्णन सुनना चाहता हूँ॥१२॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

मानुषेषु मनुष्येन्द्र सम्भूता ये दिवौकसः।
प्रथमं दानवांश्चैव तांस्ते वक्ष्यामि सर्वशः ॥ ३ ॥
विप्रचित्तिरिति ख्यातो य आसीद् दानवर्षभः।
जरासन्ध इति ख्यातः स आसीन्मनुजर्षभः ॥ ४ ॥
दितेः पुत्रस्तु यो राजन् हिरण्यकशिपुः स्मृतः।
स जज्ञे मानुषे लोके शिशुपालो नरर्षभः ॥ ५ ॥

वैशम्पायनजी बोले— नरेन्द्र! मनुष्योंमें जो देवता और दानव प्रकट हुए थे, उन सबके जन्मका ही पहले तुम्हें परिचय दे रहा हूँ। विप्रचित्ति नामसे विख्यात जो दानवोंका राजा था, वही मनुष्योंमें श्रेष्ठ जरासन्ध नामसे विख्यात हुआ। राजन्! हिरण्यकशिपु नामसे प्रसिद्ध जो दितिका पुत्र था, वही मनुष्यलोकमें नरश्रेष्ठ शिशुपालके रूपमें उत्पन्न हुआ॥३-५॥

विश्वास-प्रस्तुतिः

संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः।
स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥ ६ ॥
अनुह्रादस्तु तेजस्वी योऽभूत् ख्यातो जघन्यजः।
धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः ॥ ७ ॥

मूलम्

संह्राद इति विख्यातः प्रह्रादस्यानुजस्तु यः।
स शल्य इति विख्यातो जज्ञे बाह्लीकपुङ्गवः ॥ ६ ॥
अनुह्रादस्तु तेजस्वी योऽभूत् ख्यातो जघन्यजः।
धृष्टकेतुरिति ख्यातः स बभूव नरेश्वरः ॥ ७ ॥

अनुवाद (हिन्दी)

प्रह्रादका छोटा भाई जो संह्रादके नामसे विख्यात था, वही बाह्लीक देशका सुप्रसिद्ध राजा शल्य हुआ। प्रह्रादका ही दूसरा छोटा भाई जिसका नाम अनुह्राद था, धृष्टकेतु नामक राजा हुआ॥६-७॥

विश्वास-प्रस्तुतिः

यस्तु राजञ्छिबिर्नाम दैतेयः परिकीर्तितः।
द्रुम इत्यभिविख्यातः स आसीद् भुवि पार्थिवः ॥ ८ ॥

मूलम्

यस्तु राजञ्छिबिर्नाम दैतेयः परिकीर्तितः।
द्रुम इत्यभिविख्यातः स आसीद् भुवि पार्थिवः ॥ ८ ॥

अनुवाद (हिन्दी)

राजन्! जो शिबि नामका दैत्य कहा गया है, वही इस पृथ्वीपर द्रुम नामसे विख्यात राजा हुआ॥८॥

विश्वास-प्रस्तुतिः

बाष्कलो नाम यस्तेषामासीदसुरसत्तमः ।
भगदत्त इति ख्यातः स जज्ञे पुरुषर्षभः ॥ ९ ॥

मूलम्

बाष्कलो नाम यस्तेषामासीदसुरसत्तमः ।
भगदत्त इति ख्यातः स जज्ञे पुरुषर्षभः ॥ ९ ॥

अनुवाद (हिन्दी)

असुरोंमें श्रेष्ठ जो बाष्कल था, वही नरश्रेष्ठ भगदत्तके नामसे उत्पन्न हुआ॥९॥

विश्वास-प्रस्तुतिः

अयःशिरा अश्वशिरा अयःशङ्कुश्च वीर्यवान्।
तथा गगनमूर्धा च वेगवांश्चात्र पञ्चमः ॥ १० ॥
पञ्चैते जज्ञिरे राजन् वीर्यवन्तो महासुराः।
केकयेषु महात्मानः पार्थिवर्षभसत्तमाः ।
केतुमानिति विख्यातो यस्ततोऽन्यः प्रतापवान् ॥ ११ ॥
अमितौजा इति ख्यातः सोग्रकर्मा नराधिपः।
स्वर्भानुरिति विख्यातः श्रीमान् यस्तु महासुरः ॥ १२ ॥
उग्रसेन इति ख्यात उग्रकर्मा नराधिपः।
यस्त्वश्व इति विख्यातः श्रीमानासीन्महासुरः ॥ १३ ॥
अशोको नाम राजाभून्महावीर्योऽपराजितः ।
तस्मादवरजो यस्तु राजन्नश्वपतिः स्मृतः ॥ १४ ॥
दैतेयः सोऽभवद् राजा हार्दिक्यो मनुजर्षभः।
वृषपर्वेति विख्यातः श्रीमान् यस्तु महासुरः ॥ १५ ॥
दीर्घप्रज्ञ इति ख्यातः पृथिव्यां सोऽभवन्नृपः।
अजकस्त्ववरो राजन् य आसीद् वृषपर्वणः ॥ १६ ॥
स शाल्व इति विख्यातः पृथिव्यामभवन्नृपः।
अश्वग्रीव इति ख्यातः सत्त्ववान् यो महासुरः ॥ १७ ॥
रोचमान इति ख्यातः पृथिव्यां सोऽभवन्नृपः।
सूक्ष्मस्तु मतिमान् राजन् कीर्तिमान्‌ यः प्रकीर्तितः ॥ १८ ॥
बृहद्रथ इति ख्यातः क्षितावासीत् स पार्थिवः।
तुहुण्ड इति विख्यातो य आसीदसुरोत्तमः ॥ १९ ॥
सेनाबिन्दुरिति ख्यातः स बभूव नराधिपः।
इषुपान्नाम यस्तेषामसुराणां बलाधिकः ॥ २० ॥
नग्नजिन्नाम राजासीद् भुवि विख्यातविक्रमः।
एकचक्र इति ख्यात आसीद् यस्तु महासुरः ॥ २१ ॥
प्रतिविन्ध्य इति ख्यातो बभूव प्रथितः क्षितौ।
विरूपाक्षस्तु दैतेयश्चित्रयोधी महासुरः ॥ २२ ॥
चित्रधर्मेति विख्यातः क्षितावासीत् स पार्थिवः।
हरस्त्वरिहरो वीर आसीद् यो दानवोत्तमः ॥ २३ ॥
सुबाहुरिति विख्यातः श्रीमानासीत् स पार्थिवः।
अहरस्तु महातेजाः शत्रुपक्षक्षयंकरः ॥ २४ ॥
बाह्लीको नाम राजा स बभूव प्रथितः क्षितौ।
निचन्द्रश्चन्द्रवक्त्रस्तु य आसीदसुरोत्तमः ॥ २५ ॥
मुञ्जकेश इति ख्यातः श्रीमानासीत्‌ स पार्थिवः।
निकुम्भस्त्वजितः संख्ये महामतिरजायत ॥ २६ ॥
भूमौ भूमिपतिः क्षेष्ठो देवाधिप इति स्मृतः।
शरभो नाम यस्तेषां दैतेयानां महासुरः ॥ २७ ॥
पौरवो नाम राजर्षिः स बभूव नरोत्तमः।
कुपटस्तु महावीर्यः श्रीमान् राजन् महासुरः ॥ २८ ॥
सुपार्श्व इति विख्यातः क्षितौ जज्ञे महीपतिः।
क्रथस्तु राजन् राजर्षिः क्षितौ जज्ञे महासुरः ॥ २९ ॥
पार्वतेय इति ख्यातः काञ्चनाचलसंनिभः।
द्वितीयः शलभस्तेषामसुराणां बभूव ह ॥ ३० ॥
प्रह्रादो नाम बाह्लीकः स बभूव नराधिपः।
चन्द्रस्तु दितिजश्रेष्ठो लोके ताराधिपोपमः ॥ ३१ ॥
चन्द्रवर्मेति विख्यातः काम्बोजानां नराधिपः।
अर्क इत्यभिविख्यातो यस्तु दानवपुङ्गवः ॥ ३२ ॥
ऋषिको नाम राजर्षिर्बभूव नृपसत्तमः।
मृतपा इति विख्यातो य आसीदसुरोत्तमः ॥ ३३ ॥
पश्चिमानूपकं विद्धि तं नृपं नृपसत्तम।
गविष्ठस्तु महातेजा यः प्रख्यातो महासुरः ॥ ३४ ॥
द्रुमसेन इति ख्यातः पृथिव्यां सोऽभवन्नृपः।
मयूर इति विख्यातः श्रीमान् यस्तु महासुरः ॥ ३५ ॥
स विश्व इति विख्यातो बभूव पृथिवीपतिः।
सुपर्ण इति विख्यातस्तस्मादवरजस्तु यः ॥ ३६ ॥
कालकीर्तिरिति ख्यातः पृथिव्यां सोऽभवन्नृपः।
चन्द्रहन्तेति यस्तेषां कीर्तितः प्रवरोऽसुरः ॥ ३७ ॥
शुनको नाम राजर्षिः स बभूव नराधिपः।
विनाशनस्तु चन्द्रस्य य आख्यातो महासुरः ॥ ३८ ॥
जानकिर्नाम विख्यातः सोऽभवन्मनुजाधिपः ।
दीर्घजिह्वस्तु कौरव्य य उक्तो दानवर्षभः ॥ ३९ ॥
काशिराजः स विख्यातः पृथिव्यां पृथिवीपते।
ग्रहं तु सुषुवे यं तु सिंहिकार्केन्दुमर्दनम्।
स क्राथ इति विख्यातो बभूव मनुजाधिपः ॥ ४० ॥

अयःशिरा, अश्वशिरा, वीर्यवान् अयःशंकु, गगनमूर्धा और वेगवान्—राजन्! ये पाँच पराक्रमी महादैत्य केकय देशके प्रधान-प्रधान महात्मा राजाओंके रूपमें उत्पन्न हुए। उनसे भिन्न केतुमान् नामसे प्रसिद्ध प्रतापी महान् असुर अमितौजा नामसे विख्यात राजा हुआ, जो भयानक कर्म करनेवाला था। स्वर्भानु नामवाला जो श्रीसम्पन्न महान् असुर था, वही भयंकर कर्म करनेवाला राजा उग्रसेन कहलाया। अश्व नामसे विख्यात जो श्रीसम्पन्न महान् असुर था, वही किसीसे परास्त न होनेवाला महापराक्रमी राजा अशोक हुआ। राजन्! उसका छोटा भाई जो अश्वपति नामक दैत्य था, वही मनुष्योंमें श्रेष्ठ हार्दिक्य नामवाला राजा हुआ। वृषपर्वा नामसे प्रसिद्ध जो श्रीमान् महादैत्य था, वह पृथ्वीपर दीर्घप्रज्ञ नामक राजा हुआ। राजन्! वृषपर्वाका छोटा भाई जो अजक था, वही इस भूमण्डलमें शाल्व नामसे प्रसिद्ध राजा हुआ। अश्वग्रीव नामवाला जो धैर्यवान् महादैत्य था, वह पृथ्वीपर रोचमान नामसे विख्यात राजा हुआ। राजन्! बुद्धिमान् और यशस्वी सूक्ष्म नामसे प्रसिद्ध जो दैत्य कहा गया है, वह इस पृथ्वीपर बृहद्रथ नामसे विख्यात राजा हुआ है। असुरोंमें श्रेष्ठ जो तुहुण्ड नामक दैत्य था, वही यहाँ सेनाबिन्दु नामसे विख्यात राजा हुआ। असुरोंके समाजमें जो सबसे अधिक बलवान् था, वह इषुपाद नामक दैत्य इस पृथ्वीपर विख्यात पराक्रमी नग्नजित् नामक राजा हुआ। एकचक्र नामसे प्रसिद्ध जो महान् असुर था, वही इस पृथ्वीपर प्रतिविन्ध्य नामसे विख्यात राजा हुआ। विचित्र युद्ध करनेवाला महादैत्य विरूपाक्ष इस पृथ्वीपर चित्रधर्मा नामसे प्रसिद्ध राजा हुआ। शत्रुओंका संहार करनेवाला जो वीर दानवश्रेष्ठ हर था, वही सुबाहु नामक श्रीसम्पन्न राजा हुआ। शत्रुपक्षका विनाश करनेवाला महातेजस्वी अहर इस भूमण्डलमें बाह्लिक नामसे विख्यात राजा हुआ। चन्द्रमाके समान सुन्दर मुखवाला जो असुरश्रेष्ठ निचन्द्र था, वही मुंजकेश नामसे विख्यात श्रीसम्पन्न राजा हुआ। परम बुद्धिमान् निकुम्भ जो युद्धमें अजेय था, वह इस भूमिपर भूपालोंमें श्रेष्ठ देवाधिप कहलाया। दैत्योंमें जो शरभ नामसे प्रसिद्ध महान् असुर था, वही मनुष्योंमें श्रेष्ठ राजर्षि पौरव हुआ। राजन्! महापराक्रमी महान् असुर कुपट ही इस पृथ्वीपर राजा सुपार्श्वके रूपमें उत्पन्न हुआ। महाराज! महादैत्य क्रथ इस पृथ्वीपर राजर्षि पार्वतेयके नामसे उत्पन्न हुआ, उसका शरीर मेरु पर्वतके समान विशाल था। असुरोंमें शलभ नामसे प्रसिद्ध जो दूसरा दैत्य था, वह बाह्लीकवंशी राजा प्रह्राद हुआ। दैत्यश्रेष्ठ चन्द्र इस लोकमें चन्द्रमाके समान सुन्दर और चन्द्रवर्मा नामसे विख्यात काम्बोज देशका राजा हुआ। अर्क नामसे विख्यात जो दानवोंका सरदार था, वही नरपतियोंमें श्रेष्ठ राजर्षि ऋषिक हुआ। नृपशिरोमणे! मृतपा नामसे प्रसिद्ध जो श्रेष्ठ असुर था, उसे पश्चिम अनूप देशका राजा समझो। गविष्ठ नामसे प्रसिद्ध जो महातेजस्वी असुर था, वही इस पृथ्वीपर द्रुमसेन नामक राजा हुआ। मयूर नामसे प्रसिद्ध जो श्रीमान् एवं महान् असुर था, वही विश्व नामसे विख्यात राजा हुआ। मयूरका छोटा भाई सुपर्ण ही भूमण्डलमें कालकीर्ति नामसे प्रसिद्ध राजा हुआ। दैत्योंमें जो चन्द्रहन्ता नामसे प्रसिद्ध श्रेष्ठ असुर कहा गया है, वही मनुष्योंका स्वामी राजर्षि शुनक हुआ। इसी प्रकार जो चन्द्रविनाशन नामक महान् असुर बताया गया है, वही जानकि नामसे प्रसिद्ध राजा हुआ। कुरुश्रेष्ठ जनमेजय! दीर्घजिह्व नामसे प्रसिद्ध दानवराज ही इस पृथ्वीपर काशिराजके नामसे विख्यात था। सिंहिकाने सूर्य और चन्द्रमाका मान मर्दन करनेवाले जिस राहु नामक ग्रहको जन्म दिया था, वही यहाँ क्राथ नामसे प्रसिद्ध राजा हुआ॥१०-४०॥

विश्वास-प्रस्तुतिः

दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः।
विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः ॥ ४१ ॥

मूलम्

दनायुषस्तु पुत्राणां चतुर्णां प्रवरोऽसुरः।
विक्षरो नाम तेजस्वी वसुमित्रो नृपः स्मृतः ॥ ४१ ॥

अनुवाद (हिन्दी)

दनायुके चार पुत्रोंमें जो सबसे बड़ा है, वह विक्षर नामक तेजस्वी असुर यहाँ राजा वसुमित्र बताया गया है॥४१॥

विश्वास-प्रस्तुतिः

द्वितीयो विक्षराद् यस्तु नराधिप महासुरः।
पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः ॥ ४२ ॥

मूलम्

द्वितीयो विक्षराद् यस्तु नराधिप महासुरः।
पाण्ड्यराष्ट्राधिप इति विख्यातः सोऽभवन्नृपः ॥ ४२ ॥

अनुवाद (हिन्दी)

नराधिप! विक्षरसे छोटा उसका दूसरा भाई बल, जो असुरोंका राजा था, पाण्ड्य देशका सुविख्यात राजा हुआ॥४२॥

विश्वास-प्रस्तुतिः

बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः।
पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः ॥ ४३ ॥

मूलम्

बली वीर इति ख्यातो यस्त्वासीदसुरोत्तमः।
पौण्ड्रमात्स्यक इत्येवं बभूव स नराधिपः ॥ ४३ ॥

अनुवाद (हिन्दी)

महाबली वीर नामसे विख्यात जो श्रेष्ठ असुर (विक्षरका तीसरा भाई) था, पौण्ड्रमात्स्यक नामसे प्रसिद्ध राजा हुआ॥४३॥

विश्वास-प्रस्तुतिः

वृत्र इत्यभिविख्यातो यस्तु राजन् महासुरः।
मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥ ४४ ॥

मूलम्

वृत्र इत्यभिविख्यातो यस्तु राजन् महासुरः।
मणिमान्नाम राजर्षिः स बभूव नराधिपः ॥ ४४ ॥

अनुवाद (हिन्दी)

राजन्! जो वृत्र नामसे विख्यात (और विक्षरका चौथा भाई) महान् असुर था, वही पृथ्वीपर राजर्षि मणिमान्‌के नामसे प्रसिद्ध भूपाल हुआ॥४४॥

विश्वास-प्रस्तुतिः

क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥ ४५ ॥

मूलम्

क्रोधहन्तेति यस्तस्य बभूवावरजोऽसुरः ।
दण्ड इत्यभिविख्यातः स आसीन्नृपतिः क्षितौ ॥ ४५ ॥

अनुवाद (हिन्दी)

क्रोधहन्ता नामक असुर जो उसका छोटा भाई (कालाके पुत्रोंमें तीसरा) था, वह इस पृथ्वीपर दण्ड नामसे विख्यात नरेश हुआ॥४५॥

विश्वास-प्रस्तुतिः

क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः।
दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः ॥ ४६ ॥

मूलम्

क्रोधवर्धन इत्येवं यस्त्वन्यः परिकीर्तितः।
दण्डधार इति ख्यातः सोऽभवन्मनुजर्षभः ॥ ४६ ॥

अनुवाद (हिन्दी)

क्रोधवर्धन नामक जो दूसरा दैत्य कहा गया है, वह मनुष्योंमें श्रेष्ठ दण्डधार नामसे विख्यात हुआ॥४६॥

विश्वास-प्रस्तुतिः

कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ ४७ ॥

मूलम्

कालेयानां तु ये पुत्रास्तेषामष्टौ नराधिपाः।
जज्ञिरे राजशार्दूल शार्दूलसमविक्रमाः ॥ ४७ ॥

अनुवाद (हिन्दी)

नृपश्रेष्ठ! कालेय नामक दैत्योंके जो पुत्र थे, उनमेंसे आठ इस पृथ्वीपर सिंहके समान पराक्रमी राजा हुए॥४७॥

विश्वास-प्रस्तुतिः

मगधेषु जयत्सेनस्तेषामासीत् स पार्थिवः।
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥ ४८ ॥

मूलम्

मगधेषु जयत्सेनस्तेषामासीत् स पार्थिवः।
अष्टानां प्रवरस्तेषां कालेयानां महासुरः ॥ ४८ ॥

अनुवाद (हिन्दी)

उन आठों कालेयोंमें श्रेष्ठ जो महान् असुर था, वही मगध देशमें जयत्सेन नामक राजा हुआ॥४८॥

विश्वास-प्रस्तुतिः

द्वितीयस्तु ततस्तेषां श्रीमान् हरिहयोपमः।
अपराजित इत्येवं स बभूव नराधिपः ॥ ४९ ॥

मूलम्

द्वितीयस्तु ततस्तेषां श्रीमान् हरिहयोपमः।
अपराजित इत्येवं स बभूव नराधिपः ॥ ४९ ॥

अनुवाद (हिन्दी)

उन कालेयोंमेंसे जो दूसरा इन्द्रके समान श्रीसम्पन्न था, वही अपराजित नामक राजा हुआ॥४९॥

विश्वास-प्रस्तुतिः

तृतीयस्तु महातेजा महामायो महासुरः।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥ ५० ॥

मूलम्

तृतीयस्तु महातेजा महामायो महासुरः।
निषादाधिपतिर्जज्ञे भुवि भीमपराक्रमः ॥ ५० ॥

अनुवाद (हिन्दी)

तीसरा जो महान् तेजस्वी और महामायावी महादैत्य था, वह इस पृथ्वीपर भयंकर पराक्रमी निषादनरेशके रूपमें उत्पन्न हुआ॥५०॥

विश्वास-प्रस्तुतिः

तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः।
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ५१ ॥

मूलम्

तेषामन्यतमो यस्तु चतुर्थः परिकीर्तितः।
श्रेणिमानिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ५१ ॥

अनुवाद (हिन्दी)

कालेयोंमेंसे ही एक जो चौथा बताया गया है, वह इस भूमण्डलमें राजर्षिप्रवर श्रेणिमान्‌के नामसे विख्यात हुआ॥५१॥

विश्वास-प्रस्तुतिः

पञ्चमस्त्वभवत् तेषां प्रवरो यो महासुरः।
महौजा इति विख्यातो बभूवेह परंतपः ॥ ५२ ॥

मूलम्

पञ्चमस्त्वभवत् तेषां प्रवरो यो महासुरः।
महौजा इति विख्यातो बभूवेह परंतपः ॥ ५२ ॥

अनुवाद (हिन्दी)

कालेयोंमें जो पाँचवाँ श्रेष्ठ महादैत्य था, वही इस लोकमें शत्रुतापन महौजाके नामसे विख्यात हुआ॥५२॥

विश्वास-प्रस्तुतिः

षष्ठस्तु मतिमान् यो वै तेषामासीन्महासुरः।
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ५३ ॥

मूलम्

षष्ठस्तु मतिमान् यो वै तेषामासीन्महासुरः।
अभीरुरिति विख्यातः क्षितौ राजर्षिसत्तमः ॥ ५३ ॥

अनुवाद (हिन्दी)

उन कालेयोंमें जो छठा महान् असुर था, वह भूमण्डलमें राजर्षिशिरोमणि अभीरुके नामसे प्रसिद्ध हुआ॥५३॥

विश्वास-प्रस्तुतिः

समुद्रसेनस्तु नृपस्तेषामेवाभवद् गणात् ।
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥ ५४ ॥

मूलम्

समुद्रसेनस्तु नृपस्तेषामेवाभवद् गणात् ।
विश्रुतः सागरान्तायां क्षितौ धर्मार्थतत्त्ववित् ॥ ५४ ॥

अनुवाद (हिन्दी)

उन्हींमेंसे सातवाँ असुर राजा समुद्रसेन हुआ, जो समुद्रपर्यन्त पृथ्वीपर सब ओर विख्यात और धर्म एवं अर्थतत्त्वका ज्ञाता था॥५४॥

विश्वास-प्रस्तुतिः

बृहन्नामाष्टमस्तेषां कालेयानां नराधिप ।
बभूव राजा धर्मात्मा सर्वभूतहिते रतः ॥ ५५ ॥

मूलम्

बृहन्नामाष्टमस्तेषां कालेयानां नराधिप ।
बभूव राजा धर्मात्मा सर्वभूतहिते रतः ॥ ५५ ॥

अनुवाद (हिन्दी)

राजन्! कालेयोंमें जो आठवाँ था, वह बृहत् नामसे प्रसिद्ध सर्वभूतहितकारी धर्मात्मा राजा हुआ॥५५॥

विश्वास-प्रस्तुतिः

कुक्षिस्तु राजन् विख्यातो दानवानां महाबलः।
पार्वतीय इति ख्यातः काञ्चनाचलसंनिभः ॥ ५६ ॥

मूलम्

कुक्षिस्तु राजन् विख्यातो दानवानां महाबलः।
पार्वतीय इति ख्यातः काञ्चनाचलसंनिभः ॥ ५६ ॥

अनुवाद (हिन्दी)

महाराज! दानवोंमें कुक्षि नामसे प्रसिद्ध जो महाबली राजा था, वह पार्वतीय नामक राजा हुआ; जो मेरुगिरिके समान तेजस्वी एवं विशाल था॥५६॥

विश्वास-प्रस्तुतिः

क्रथनश्च महावीर्यः श्रीमान् राजा महासुरः।
सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः ॥ ५७ ॥

मूलम्

क्रथनश्च महावीर्यः श्रीमान् राजा महासुरः।
सूर्याक्ष इति विख्यातः क्षितौ जज्ञे महीपतिः ॥ ५७ ॥

अनुवाद (हिन्दी)

महापराक्रमी क्रथन नामक जो श्रीसम्पन्न महान् असुर था, वह भूमण्डलमें पृथ्वीपति राजा सूर्याक्ष नामसे उत्पन्न हुआ॥५७॥

विश्वास-प्रस्तुतिः

असुराणां तु यः सूर्यः श्रीमांश्चैव महासुरः।
दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् ॥ ५८ ॥

मूलम्

असुराणां तु यः सूर्यः श्रीमांश्चैव महासुरः।
दरदो नाम बाह्लीको वरः सर्वमहीक्षिताम् ॥ ५८ ॥

अनुवाद (हिन्दी)

असुरोंमें जो सूर्य नामक श्रीसम्पन्न महान् असुर था, वही पृथ्वीपर सब राजाओंमें श्रेष्ठ दरद नामक बाह्लीकराज हुआ॥५८॥

विश्वास-प्रस्तुतिः

गणः क्रोधवशो नाम यस्ते राजन् प्रकीर्तितः।
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥ ५९ ॥

मूलम्

गणः क्रोधवशो नाम यस्ते राजन् प्रकीर्तितः।
ततः संजज्ञिरे वीराः क्षिताविह नराधिपाः ॥ ५९ ॥

अनुवाद (हिन्दी)

राजन्! क्रोधवश नामक जिन असुरगणोंका तुम्हें परिचय दिया है, उन्हींमेंसे कुछ लोग इस पृथ्वीपर निम्नांकित वीर राजाओंके रूपमें उत्पन्न हुए॥५९॥

विश्वास-प्रस्तुतिः

मद्रकः कर्णवेष्टश्च सिद्धार्थः कीटकस्तथा।
सुवीरश्च सुबाहुश्च महावीरोऽथ बाह्लिकः ॥ ६० ॥
क्रथो विचित्रः सुरथः श्रीमान् नीलश्च भूमिपः।
चीरवासाश्च कौरव्य भूमिपालश्च नामतः ॥ ६१ ॥
दन्तवक्त्रश्च नामासीद् दुर्जयश्चैव दानवः।
रुक्मी च नृपशार्दूलो राजा च जनमेजयः ॥ ६२ ॥
आषाढो वायुवेगश्च भूरितेजास्तथैव च।
एकलव्यः सुमित्रश्च वाटधानोऽथ गोमुखः ॥ ६३ ॥
कारूषकाश्च राजानः क्षेमधूर्तिस्तथैव च।
श्रुतायुरुद्वहश्चैव बृहत्सेनस्तथैव च ॥ ६४ ॥
क्षेमोग्रतीर्थः कुहरः कलिङ्गेषु नराधिपः।
मतिमांश्च मनुष्येन्द्र ईश्वरश्चेति विश्रुतः ॥ ६५ ॥

मद्रक, कर्णवेष्ट, सिद्धार्थ, कीटक, सुवीर, सुबाहु, महावीर, बाह्लिक, क्रथ, विचित्र, सुरथ, श्रीमान् नील नरेश, चीरवासा, भूमिपाल, दन्तवक्त्र, दानव दुर्जय, नृपश्रेष्ठ रुक्मी, राजा जनमेजय, आषाढ, वायुवेग, भूरितेजा, एकलव्य, सुमित्र, वाटधान, गोमुख, करूषदेशके अनेक राजा, क्षेमधूर्ति, श्रुतायु, उद्वह, बृहत्सेन, क्षेम, उग्रतीर्थ, कलिंग-नरेश कुहर तथा परम बुद्धिमान् मनुष्योंका राजा ईश्वर॥६०—६५॥

विश्वास-प्रस्तुतिः

गणात् क्रोधवशादेष राजपूगोऽभवत् क्षितौ।
जातः पुरा महाभागो महाकीर्तिर्महाबलः ॥ ६६ ॥

मूलम्

गणात् क्रोधवशादेष राजपूगोऽभवत् क्षितौ।
जातः पुरा महाभागो महाकीर्तिर्महाबलः ॥ ६६ ॥

अनुवाद (हिन्दी)

इतने राजाओंका समुदाय पहले इस पृथ्वीपर क्रोधवश नामक दैत्यगणसे उत्पन्न हुआ था। ये सब राजा परम सौभाग्यशाली, महान् यशस्वी और अत्यन्त बलशाली थे॥६६॥

विश्वास-प्रस्तुतिः

कालनेमिरिति ख्यातो दानवानां महाबलः।
स कंस इति विख्यात उग्रसेनसुतो बली ॥ ६७ ॥

मूलम्

कालनेमिरिति ख्यातो दानवानां महाबलः।
स कंस इति विख्यात उग्रसेनसुतो बली ॥ ६७ ॥

अनुवाद (हिन्दी)

दानवोंमें जो महाबली कालनेमि था, वही राजा उग्रसेनके पुत्र बलवान् कंसके नामसे विख्यात हुआ॥६७॥

विश्वास-प्रस्तुतिः

यस्त्वासीद् देवको नाम देवराजसमद्युतिः।
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥ ६८ ॥

मूलम्

यस्त्वासीद् देवको नाम देवराजसमद्युतिः।
स गन्धर्वपतिर्मुख्यः क्षितौ जज्ञे नराधिपः ॥ ६८ ॥

अनुवाद (हिन्दी)

इन्द्रके समान कान्तिमान् राजा देवकके रूपमें इस पृथ्वीपर श्रेष्ठ गन्धर्वराज ही उत्पन्न हुआ था॥६८॥

विश्वास-प्रस्तुतिः

बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत ।
अंशाद् द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥ ६९ ॥

मूलम्

बृहस्पतेर्बृहत्कीर्तेर्देवर्षेर्विद्धि भारत ।
अंशाद् द्रोणं समुत्पन्नं भारद्वाजमयोनिजम् ॥ ६९ ॥

अनुवाद (हिन्दी)

भारत! महान् कीर्तिशाली देवर्षि बृहस्पतिके अंशसे अयोनिज भरद्वाजनन्दन द्रोण उत्पन्न हुए, यह जान लो॥६९॥

विश्वास-प्रस्तुतिः

धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः।
महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर ॥ ७० ॥

मूलम्

धन्विनां नृपशार्दूल यः सर्वास्त्रविदुत्तमः।
महाकीर्तिर्महातेजाः स जज्ञे मनुजेश्वर ॥ ७० ॥

अनुवाद (हिन्दी)

नृपश्रेष्ठ राजा जनमेजय! आचार्य द्रोण समस्त धनुर्धर वीरोंमें उत्तम और सम्पूर्ण अस्त्रोंके ज्ञाता थे। उनकी कीर्ति बहुत दूरतक फैली हुई थी। वे महान् तेजस्वी थे॥७०॥

विश्वास-प्रस्तुतिः

धनुर्वेदे च वेदे च यं तं वेदविदो विदुः।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ ७१ ॥

मूलम्

धनुर्वेदे च वेदे च यं तं वेदविदो विदुः।
वरिष्ठं चित्रकर्माणं द्रोणं स्वकुलवर्धनम् ॥ ७१ ॥

अनुवाद (हिन्दी)

वेदवेत्ता विद्वान् द्रोणको धनुर्वेद और वेद दोनोंमें सर्वश्रेष्ठ मानते थे। वे विचित्र कर्म करनेवाले तथा अपने कुलकी मर्यादाको बढ़ानेवाले थे॥७१॥

विश्वास-प्रस्तुतिः

महादेवान्तकाभ्यां च कामात् क्रोधाच्च भारत।
एकत्वमुपपन्नानां जज्ञे शूरः परंतपः ॥ ७२ ॥
अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः ।
वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥ ७३ ॥

मूलम्

महादेवान्तकाभ्यां च कामात् क्रोधाच्च भारत।
एकत्वमुपपन्नानां जज्ञे शूरः परंतपः ॥ ७२ ॥
अश्वत्थामा महावीर्यः शत्रुपक्षभयावहः ।
वीरः कमलपत्राक्षः क्षितावासीन्नराधिप ॥ ७३ ॥

अनुवाद (हिन्दी)

भारत! उनके यहाँ महादेव, यम, काम और क्रोधके सम्मिलित अंशसे शत्रुसंतापी शूरवीर अश्वत्थामाका जन्म हुआ, जो इस पृथ्वीपर महापराक्रमी और शत्रुपक्षका संहार करनेवाला वीर था। राजन्! उसके नेत्र कमलदलके समान विशाल थे॥७२-७३॥

विश्वास-प्रस्तुतिः

जज्ञिरे वसवस्त्वष्टौ गङ्गायां शान्तनोः सुताः।
वसिष्ठस्य च शापेन नियोगाद् वासवस्य च ॥ ७४ ॥

मूलम्

जज्ञिरे वसवस्त्वष्टौ गङ्गायां शान्तनोः सुताः।
वसिष्ठस्य च शापेन नियोगाद् वासवस्य च ॥ ७४ ॥

अनुवाद (हिन्दी)

महर्षि वसिष्ठके शाप और इन्द्रके आदेशसे आठों वसु गंगाजीके गर्भसे राजा शान्तनुके पुत्ररूपमें उत्पन्न हुए॥७४॥

विश्वास-प्रस्तुतिः

तेषामवरजो भीष्मः कुरूणामभयंकरः ।
मतिमान् वेदविद् वाग्मी शत्रुपक्षक्षयंकरः ॥ ७५ ॥

मूलम्

तेषामवरजो भीष्मः कुरूणामभयंकरः ।
मतिमान् वेदविद् वाग्मी शत्रुपक्षक्षयंकरः ॥ ७५ ॥

अनुवाद (हिन्दी)

उनमें सबसे छोटे भीष्म थे, जिन्होंने कौरववंशको निर्भय बना दिया था। वे परम बुद्धिमान्, वेदवेत्ता, वक्ता तथा शत्रुपक्षका संहार करनेवाले थे॥७५॥

विश्वास-प्रस्तुतिः

जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः।
योऽयुध्यत महातेजा भार्गवेण महात्मना ॥ ७६ ॥

मूलम्

जामदग्न्येन रामेण सर्वास्त्रविदुषां वरः।
योऽयुध्यत महातेजा भार्गवेण महात्मना ॥ ७६ ॥

अनुवाद (हिन्दी)

सम्पूर्ण अस्त्र-शस्त्रोंके विद्वानोंमें श्रेष्ठ महातेजस्वी भीष्मने भृगुवंशी महात्मा जमदग्निनन्दन परशुरामजीके साथ युद्ध किया था॥७६॥

विश्वास-प्रस्तुतिः

यस्तु राजन् कृपो नाम ब्रह्मर्षिरभवत् क्षितौ।
रुद्राणां तु गणाद् विद्धि सम्भूतमतिपौरुषम् ॥ ७७ ॥

मूलम्

यस्तु राजन् कृपो नाम ब्रह्मर्षिरभवत् क्षितौ।
रुद्राणां तु गणाद् विद्धि सम्भूतमतिपौरुषम् ॥ ७७ ॥

अनुवाद (हिन्दी)

महाराज! जो कृप नामसे प्रसिद्ध ब्रह्मर्षि इस पृथ्वीपर प्रकट हुए थे, उनका पुरुषार्थ असीम था। उन्हें रुद्रगणके अंशसे उत्पन्न हुआ समझो॥७७॥

विश्वास-प्रस्तुतिः

शकुनिर्नाम यस्त्वासीद् राजा लोके महारथः।
द्वापरं विद्धि तं राजन् सम्भूतमरिमर्दनम् ॥ ७८ ॥

मूलम्

शकुनिर्नाम यस्त्वासीद् राजा लोके महारथः।
द्वापरं विद्धि तं राजन् सम्भूतमरिमर्दनम् ॥ ७८ ॥

अनुवाद (हिन्दी)

राजन्! जो इस जगत्‌में महारथी राजा शकुनिके नामसे विख्यात था, उसे तुम द्वापरके अंशसे उत्पन्न हुआ मानो। वह शत्रुओंका मान-मर्दन करनेवाला था॥७८॥

विश्वास-प्रस्तुतिः

सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः।
पक्षात् स जज्ञे मरुतां देवानामरिमर्दनः ॥ ७९ ॥

मूलम्

सात्यकिः सत्यसन्धश्च योऽसौ वृष्णिकुलोद्वहः।
पक्षात् स जज्ञे मरुतां देवानामरिमर्दनः ॥ ७९ ॥

अनुवाद (हिन्दी)

वृष्णिवंशका भार वहन करनेवाले जो सत्यप्रतिज्ञ शत्रुमर्दन सात्यकि थे, वे मरुत्-देवताओंके अंशसे उत्पन्न हुए थे॥७९॥

विश्वास-प्रस्तुतिः

द्रुपदश्चैव राजर्षिस्तत एवाभवद् गणात्।
मानुषे नृप लोकेऽस्मिन् सर्वशस्त्रभृतां वरः ॥ ८० ॥

मूलम्

द्रुपदश्चैव राजर्षिस्तत एवाभवद् गणात्।
मानुषे नृप लोकेऽस्मिन् सर्वशस्त्रभृतां वरः ॥ ८० ॥

अनुवाद (हिन्दी)

राजा जनमेजय! सम्पूर्ण शस्त्रधारियोंमें श्रेष्ठ राजर्षि द्रुपद भी इस मनुष्यलोकमें उस मरुद्‌गणसे ही उत्पन्न हुए थे॥८०॥

विश्वास-प्रस्तुतिः

ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्।
तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम् ॥ ८१ ॥

मूलम्

ततश्च कृतवर्माणं विद्धि राजञ्जनाधिपम्।
तमप्रतिमकर्माणं क्षत्रियर्षभसत्तमम् ॥ ८१ ॥

अनुवाद (हिन्दी)

महाराज! अनुपम कर्म करनेवाले, क्षत्रियोंमें श्रेष्ठ राजा कृतवर्माको भी तुम मरुद्‌गणोंसे ही उत्पन्न मानो॥८१॥

विश्वास-प्रस्तुतिः

मरुतां तु गणाद् विद्धि संजातमरिमर्दनम्।
विराटं नाम राजानं परराष्ट्रप्रतापनम् ॥ ८२ ॥

मूलम्

मरुतां तु गणाद् विद्धि संजातमरिमर्दनम्।
विराटं नाम राजानं परराष्ट्रप्रतापनम् ॥ ८२ ॥

अनुवाद (हिन्दी)

शत्रुराष्ट्रको संताप देनेवाले शत्रुमर्दन राजा विराटको भी मरुद्‌गणोंसे ही उत्पन्न समझो॥८२॥

विश्वास-प्रस्तुतिः

अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः।
स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥ ८३ ॥
धृतराष्ट्र इति ख्यातः कृष्णद्वैपायनात्मजः।
दीर्घबाहुर्महातेजाः प्रज्ञाचक्षुर्नराधिपः ॥ ८४ ॥
मातुर्दोषादृषेः कोपादन्ध एव व्यजायत।

अरिष्टाका पुत्र जो हंस नामसे विख्यात गन्धर्वराज था, वही कुरुवंशकी वृद्धि करनेवाले व्यासनन्दन धृतराष्ट्रके नामसे प्रसिद्ध हुआ। धृतराष्ट्रकी बाँहें बहुत बड़ी थीं। वे महातेजस्वी नरेश प्रज्ञाचक्षु (अन्धे) थे। वे माताके दोष और महर्षिके क्रोधसे अन्धे ही उत्पन्न हुए॥८३-८४॥

विश्वास-प्रस्तुतिः

तस्यैवावरजो भ्राता महासत्त्वो महाबलः ॥ ८५ ॥
स पाण्डुरिति विख्यातः सत्यधर्मरतः शुचिः।

मूलम्

तस्यैवावरजो भ्राता महासत्त्वो महाबलः ॥ ८५ ॥
स पाण्डुरिति विख्यातः सत्यधर्मरतः शुचिः।

Misc Detail

अत्रेस्तु 1_ सुमहाभागं पुत्रं पुत्रवतां वरम्।_

विश्वास-प्रस्तुतिः

विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम् ॥ ८६ ॥

मूलम्

विदुरं विद्धि तं लोके जातं बुद्धिमतां वरम् ॥ ८६ ॥

अनुवाद (हिन्दी)

उन्हींके छोटे भाई महान् शक्तिशाली महाबली पाण्डुके नामसे विख्यात हुए। वे सत्य-धर्ममें तत्पर और पवित्र थे। पुत्रवानोंमें श्रेष्ठ और बुद्धिमानोंमें उत्तम परम सौभाग्यशाली विदुरको तुम इस लोकमें सूर्यपुत्र धर्मके अंशसे उत्पन्न हुआ समझो॥८५-८६॥

विश्वास-प्रस्तुतिः

कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः।
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥ ८७ ॥

मूलम्

कलेरंशस्तु संजज्ञे भुवि दुर्योधनो नृपः।
दुर्बुद्धिर्दुर्मतिश्चैव कुरूणामयशस्करः ॥ ८७ ॥

अनुवाद (हिन्दी)

खोटी बुद्धि और दूषित विचारवाले कुरुकुलकलंक राजा दुर्योधनके रूपमें इस पृथ्वीपर कलिका अंश ही उत्पन्न हुआ था॥८७॥

विश्वास-प्रस्तुतिः

जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः।
यः सर्वां घातयामास पृथिवीं पृथिवीपते ॥ ८८ ॥

मूलम्

जगतो यस्तु सर्वस्य विद्विष्टः कलिपूरुषः।
यः सर्वां घातयामास पृथिवीं पृथिवीपते ॥ ८८ ॥

अनुवाद (हिन्दी)

राजन्! वह कलिस्वरूप पुरुष सबका द्वेषपात्र था। उसने सारी पृथ्वीके वीरोंको लड़ाकर मरवा दिया था॥८८॥

विश्वास-प्रस्तुतिः

उद्दीपितं येन वैरं भूतान्तकरणं महत्।
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह ॥ ८९ ॥

मूलम्

उद्दीपितं येन वैरं भूतान्तकरणं महत्।
पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह ॥ ८९ ॥

अनुवाद (हिन्दी)

उसके द्वारा प्रज्वलित की हुई वैरकी भारी आग असंख्य प्राणियोंके विनाशका कारण बन गयी। पुलस्त्य-कुलके राक्षस भी मनुष्योंमें दुर्योधनके भाइयोंके रूपमें उत्पन्न हुए थे॥८९॥

विश्वास-प्रस्तुतिः

शतं दुःशासनादीनां सर्वेषां क्रूरकर्मणाम्।
दुर्मुखो दुःसहश्चैव ये चान्ये नानुकीर्तिताः ॥ ९० ॥
दुर्योधनसहायास्ते पौलस्त्या भरतर्षभ ।
वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः ॥ ९१ ॥

उसके दुःशासन आदि सौ भाई थे। वे सभी क्रूरतापूर्ण कर्म किया करते थे। दुर्मुख, दुःसह तथा अन्य कौरव जिनका नाम यहाँ नहीं लिया गया है, दुर्योधनके सहायक थे। भरतश्रेष्ठ! धृतराष्ट्रके वे सब पुत्र पूर्वजन्मके राक्षस थे। धृतराष्ट्रपुत्र युयुत्सु वैश्य-जातीय स्त्रीसे उत्पन्न हुआ था। वह दुर्योधन आदि सौ भाइयोंके अतिरिक्त था॥९०-९१॥

मूलम् (वचनम्)

जनमेजय उवाच

विश्वास-प्रस्तुतिः

ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥ ९२ ॥

मूलम्

ज्येष्ठानुज्येष्ठतामेषां नामधेयानि वा विभो।
धृतराष्ट्रस्य पुत्राणामानुपूर्व्येण कीर्तय ॥ ९२ ॥

अनुवाद (हिन्दी)

जनमेजयने कहा— प्रभो! धृतराष्ट्रके जो सौ पुत्र थे, उनके नाम मुझे बड़े-छोटेके क्रमसे एक-एक करके बताइये॥९२॥

मूलम् (वचनम्)

वैशम्पायन उवाच

विश्वास-प्रस्तुतिः

दुर्योधनो युयुत्सुश्च राजन् दुःशासनस्तथा।
दुःसहो दुःशलश्चैव दुर्मुखश्च तथापरः ॥ ९३ ॥
विविंशतिर्विकर्णश्च जलसन्धः सुलोचनः ।
विन्दानुविन्दौ दुर्धर्षः सुबाहुर्दुष्प्रधर्षणः ॥ ९४ ॥
दुर्मर्षणो दुर्मुखश्च दुष्कर्णः कर्ण एव च।
चित्रोपचित्रौ चित्राक्षश्चारुश्चित्राङ्गदश्च ह ॥ ९५ ॥
दुर्मदो दुष्प्रधर्षश्च विवित्सुर्विकटः समः।
ऊर्णनाभः पद्मनाभस्तथा नन्दोपनन्दकौ ॥ ९६ ॥
सेनापतिः सुषेणश्च कुण्डोदरमहोदरौ ।
चित्रबाहुश्चित्रवर्मा सुवर्मा दुर्विरोचनः ॥ ९७ ॥
अयोबाहुर्महाबाहुश्चित्रचापसुकुण्डलौ ।
भीमवेगो भीमबलो बलाकी भीमविक्रमौ ॥ ९८ ॥
उग्रायुधो भीमशरः कनकायुर्दृढायुधः ।
दृढवर्मा दृढक्षत्रः सोमकीर्तिरनूदरः ॥ ९९ ॥
जरासन्धो दृढसन्धः सत्यसन्धः सहस्रवाक्।
उग्रश्रवा उग्रसेनः क्षेममूर्तिस्तथैव च ॥ १०० ॥
अपराजितः पण्डितको विशालाक्षो दुराधनः ॥ १०१ ॥
दृढहस्तः सुहस्तश्च वातवेगसुवर्चसौ ।
आदित्यकेतुर्बह्वाशी नागदत्तानुयायिनौ ॥ १०२ ॥
कवची निषङ्गी दण्डी दण्डधारो धनुर्ग्रहः।
उग्रो भीमरथो वीरो वीरबाहुरलोलुपः ॥ १०३ ॥
अभयो रौद्रकर्मा च तथा दृढरथश्च यः।
अनाधृष्यः कुण्डभेदी विरावी दीर्घलोचनः ॥ १०४ ॥
दीर्घबाहुर्महाबाहुर्व्यूढोरुः कनकाङ्गदः ।
कुण्डजश्चित्रकश्चैव दुःशला च शताधिका ॥ १०५ ॥

वैशम्पायनजी बोले— राजन्! सुनो—१ दुर्योधन, २ युयुत्सु, ३ दुःशासन, ४ दुःसह, ५ दुःशल, ६ दुर्मुख, ७ विविंशति, ८ विकर्ण, ९ जलसन्ध, १० सुलोचन, ११ विन्द, १२ अनुविन्द, १३ दुर्धर्ष, १४ सुबाहु, १५ दुष्प्रधर्षण, १६ दुर्मर्षण, १७ दुर्मुख, १८ दुष्कर्ण, १९ कर्ण, २० चित्र, २१ उपचित्र, २२ चित्राक्ष, २३ चारु, २४ चित्रांगद, २५ दुर्मद, २६ दुष्प्रधर्ष, २७ विवित्सु, २८ विकट, २९ सम, ३० ऊर्णनाभ, ३१ पद्मनाभ, ३२ नन्द, ३३ उपनन्द, ३४ सेनापति, ३५ सुषेण, ३६ कुण्डोदर, ३७ महोदर, ३८ चित्रबाहु, ३९ चित्रवर्मा, ४० सुवर्मा, ४१ दुर्विरोचन, ४२ अयोबाहु, ४३ महाबाहु, ४४ चित्रचाप, ४५ सुकुण्डल, ४६ भीमवेग, ४७ भीमबल, ४८ बलाकी, ४९ भीम, ५० विक्रम, ५१ उग्रायुध, ५२ भीमशर, ५३ कनकायु, ५४ दृढायुध, ५५ दृढवर्मा, ५६ दृढक्षत्र, ५७ सोमकीर्ति, ५८ अनूदर, ५९ जरासन्ध, ६० दृढसन्ध, ६१ सत्यसन्ध, ६२ सहस्रवाक्, ६३ उग्रश्रवा, ६४ उग्रसेन, ६५ क्षेममूर्ति, ६६ अपराजित, ६७ पण्डितक, ६८ विशालाक्ष, ६९ दुराधन, ७० दृढहस्त, ७१ सुहस्त, ७२ वातवेग, ७३ सुवर्चा, ७४ आदित्यकेतु, ७५ बह्वाशी, ७६ नागदत्त, ७७ अनुयायी, ७८ कवची, ७९ निषंगी, ८० दण्डी, ८१ दण्डधार, ८२ धनुर्ग्रह, ८३ उग्र, ८४ भीमरथ, ८५ वीर, ८६ वीरबाहु, ८७ अलोलुप, ८८ अभय, ८९ रौद्रकर्मा, ९० दृढरथ, ९१ अनाधृष्य, ९२ कुण्डभेदी, ९३ विरावी, ९४ दीर्घलोचन, ९५ दीर्घबाहु, ९६ महाबाहु, ९७ व्यूढोरु, ९८ कनकांगद, ९९ कुण्डज और १०० चित्रक—ये धृतराष्ट्रके सौ पुत्र थे। इनके सिवा दुःशला नामकी एक कन्या थी॥९३—१०५॥

विश्वास-प्रस्तुतिः

वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः।
एतदेकशतं राजन् कन्या चैका प्रकीर्तिता ॥ १०६ ॥

मूलम्

वैश्यापुत्रो युयुत्सुश्च धार्तराष्ट्रः शताधिकः।
एतदेकशतं राजन् कन्या चैका प्रकीर्तिता ॥ १०६ ॥

अनुवाद (हिन्दी)

धृतराष्ट्रका वह पुत्र जिसका नाम युयुत्सु था, वैश्याके गर्भसे उत्पन्न हुआ था। वह दुर्योधन आदि सौ पुत्रोंसे अतिरिक्त था। राजन्! इस प्रकार धृतराष्ट्रके एक सौ एक पुत्र तथा एक कन्या बतायी गयी है॥१०६॥

विश्वास-प्रस्तुतिः

नामधेयानुपूर्व्या च ज्येष्ठानुज्जेष्ठतां विदुः।
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥ १०७ ॥

मूलम्

नामधेयानुपूर्व्या च ज्येष्ठानुज्जेष्ठतां विदुः।
सर्वे त्वतिरथाः शूराः सर्वे युद्धविशारदाः ॥ १०७ ॥

अनुवाद (हिन्दी)

इनके नामोंका जो क्रम दिया गया है, उसीके अनुसार विद्वान् पुरुष इन्हें जेठा और छोटा समझते हैं। धृतराष्ट्रके सभी पुत्र उत्कृष्ट रथी, शूरवीर और युद्धकी कलामें कुशल थे॥१०७॥

विश्वास-प्रस्तुतिः

सर्वे वेदविदश्चैव राजच्छास्त्रे च पारगाः।
सर्वे संग्रामविद्यासु विद्याभिजनशोभिनः ॥ १०८ ॥

मूलम्

सर्वे वेदविदश्चैव राजच्छास्त्रे च पारगाः।
सर्वे संग्रामविद्यासु विद्याभिजनशोभिनः ॥ १०८ ॥

अनुवाद (हिन्दी)

राजन्! वे सब-के-सब वेदवेत्ता, शास्त्रोंके पारंगत विद्वान्, संग्राम-विद्यामें प्रवीण तथा उत्तम विद्या और उत्तम कुलसे सुशोभित थे॥१०८॥

विश्वास-प्रस्तुतिः

सर्वेषामनुरूपाश्च कृता दारा महीपते।
दुःशलां समये राजन् सिन्धुराजाय कौरवः ॥ १०९ ॥
जयद्रथाय प्रददौ सौबलानुमते तदा।
धर्मस्यांशं तु राजानं विद्धि राजन् युधिष्ठिरम् ॥ ११० ॥

मूलम्

सर्वेषामनुरूपाश्च कृता दारा महीपते।
दुःशलां समये राजन् सिन्धुराजाय कौरवः ॥ १०९ ॥
जयद्रथाय प्रददौ सौबलानुमते तदा।
धर्मस्यांशं तु राजानं विद्धि राजन् युधिष्ठिरम् ॥ ११० ॥

अनुवाद (हिन्दी)

भूपाल! उन सबका सुयोग्य स्त्रियोंके साथ विवाह हुआ था। महाराज! कुरुराज दुर्योधनने समय आनेपर शकुनिकी सलाहसे अपनी बहिन दुःशलाका विवाह सिन्धुदेशके राजा जयद्रथके साथ कर दिया। जनमेजय! राजा युधिष्ठिरको तो तुम धर्मका अंश जानो॥१०९-११०॥

विश्वास-प्रस्तुतिः

भीमसेनं तु वातस्य देवराजस्य चार्जुनम्।
अश्विनोस्तु तथैवांशौ रूपेणाप्रतिमौ भुवि ॥ १११ ॥
नकुलः सहदेवश्च सर्वभूतमनोहरौ ।
यस्तु वर्चा इति ख्यातः सोमपुत्रः प्रतापवान् ॥ ११२ ॥
सोऽभिमन्युर्बृहत्कीर्तिरर्जुनस्य सुतोऽभवत् ।
यस्यावतरणे राजन् सुरान् सोमोऽब्रवीदिदम् ॥ ११३ ॥

भीमसेनको वायुका और अर्जुनको देवराज इन्द्रका अंश जानो। रूप-सौन्दर्यकी दृष्टिसे इस पृथ्वीपर जिनकी समानता करनेवाला कोई नहीं था, वे समस्त प्राणियोंका मन मोह लेनेवाले नकुल और सहदेव अश्विनीकुमारोंके अंशसे उत्पन्न हुए थे। वर्चा नामसे विख्यात जो चन्द्रमाका प्रतापी पुत्र था, वही महायशस्वी अर्जुनकुमार अभिमन्यु हुआ। जनमेजय! उसके अवतार-कालमें चन्द्रमाने देवताओंसे इस प्रकार कहा—॥१११—११३॥

विश्वास-प्रस्तुतिः

नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम्।
समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥ ११४ ॥

मूलम्

नाहं दद्यां प्रियं पुत्रं मम प्राणैर्गरीयसम्।
समयः क्रियतामेष न शक्यमतिवर्तितुम् ॥ ११४ ॥

अनुवाद (हिन्दी)

‘मेरा पुत्र मुझे अपने प्राणोंसे भी अधिक प्रिय है, अतः मैं इसे अधिक दिनोंके लिये नहीं दे सकता। इसलिये मृत्युलोकमें इसके रहनेकी कोई अवधि निश्चित कर दी जाय। फिर उस अवधिका उल्लंघन नहीं किया जा सकता॥११४॥

विश्वास-प्रस्तुतिः

सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः।
तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम्॥११५॥

मूलम्

सुरकार्यं हि नः कार्यमसुराणां क्षितौ वधः।
तत्र यास्यत्ययं वर्चा न च स्थास्यति वै चिरम्॥११५॥

अनुवाद (हिन्दी)

‘पृथ्वीपर असुरोंका वध करना देवताओंका कार्य है और वह हम सबके लिये करनेयोग्य है। अतः उस कार्यकी सिद्धिके लिये यह वर्चा भी वहाँ अवश्य जायगा। परंतु दीर्घकालतक वहाँ नहीं रह सकेगा॥११५॥

विश्वास-प्रस्तुतिः

ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा।
सोऽर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान् ॥ ११६ ॥

मूलम्

ऐन्द्रिर्नरस्तु भविता यस्य नारायणः सखा।
सोऽर्जुनेत्यभिविख्यातः पाण्डोः पुत्रः प्रतापवान् ॥ ११६ ॥

अनुवाद (हिन्दी)

‘भगवान् नर, जिनके सखा भगवान् नारायण हैं, इन्द्रके अंशसे भूतलमें अवतीर्ण होंगे। वहाँ उनका नाम अर्जुन होगा और वे पाण्डुके प्रतापी पुत्र माने जायँगे॥११६॥

विश्वास-प्रस्तुतिः

तस्यायं भविता पुत्रो बालो भुवि महारथः।
ततः षोडश वर्षाणि स्थास्यत्यमरसत्तमाः ॥ ११७ ॥

मूलम्

तस्यायं भविता पुत्रो बालो भुवि महारथः।
ततः षोडश वर्षाणि स्थास्यत्यमरसत्तमाः ॥ ११७ ॥

अनुवाद (हिन्दी)

‘श्रेष्ठ देवगण! पृथ्वीपर यह वर्चा उन्हीं अर्जुनका पुत्र होगा, जो बाल्यावस्थामें ही महारथी माना जायगा। जन्म लेनेके बाद सोलह वर्षकी अवस्थातक यह वहाँ रहेगा॥११७॥

विश्वास-प्रस्तुतिः

अस्य षोडशवर्षस्य स संग्रामो भविष्यति।
यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥ ११८ ॥

मूलम्

अस्य षोडशवर्षस्य स संग्रामो भविष्यति।
यत्रांशा वः करिष्यन्ति कर्म वीरनिषूदनम् ॥ ११८ ॥

अनुवाद (हिन्दी)

‘इसके सोलहवें वर्षमें वह महाभारत-युद्ध होगा, जिसमें आपलोगोंके अंशसे उत्पन्न हुए वीर-पुरुष शत्रुवीरोंका संहार करनेवाला अद्‌भुत पराक्रम कर दिखायेंगे॥११८॥

विश्वास-प्रस्तुतिः

नरनारायणाभ्यां तु स संग्रामो विना कृतः।
चक्रव्यूहं समास्थाय योधयिष्यन्ति वः सुराः ॥ ११९ ॥
विमुखाञ्छात्रवान् सर्वान् कारयिष्यति मे सुतः।
बालः प्रविश्य च व्यूहमभेद्यं विचरिष्यति ॥ १२० ॥

‘देवताओ! एक दिन जब कि उस युद्धमें नर और नारायण (अर्जुन और श्रीकृष्ण) उपस्थित न रहेंगे, उस समय शत्रुपक्षके लोग चक्रव्यूहकी रचना करके आप-लोगोंके साथ युद्ध करेंगे। उस युद्धमें मेरा यह पुत्र समस्त शत्रु-सैनिकोंको युद्धसे मार भगायेगा और बालक होनेपर भी उस अभेद्य व्यूहमें घुसकर निर्भय विचरण करेगा॥११९-१२०॥

विश्वास-प्रस्तुतिः

महारथानां वीराणां कदनं च करिष्यति।
सर्वेषामेव शत्रूणां चतुर्थांशं नयिष्यति ॥ १२१ ॥
दिनार्धेन महाबाहुः प्रेतराजपुरं प्रति।
ततो महारथैर्वीरैः समेत्य बहुशो रणे ॥ १२२ ॥
दिनक्षये महाबाहुर्मया भूयः समेष्यति।
एकं वंशकरं पुत्रं वीरं वै जनयिष्यति ॥ १२३ ॥
प्रणष्टं भारतं वंशं स भूयो धारयिष्यति।
एतत् सोमवचः श्रुत्वा तथास्त्विति दिवौकसः ॥ १२४ ॥
प्रत्यूचुः सहिताः सर्वे ताराधिपमपूजयन्।
एवं ते कथितं राजंस्तव जन्म पितुः पितुः ॥ १२५ ॥

‘तथा बड़े-बड़े महारथी वीरोंका संहार कर डालेगा। आधे दिनमें ही महाबाहु अभिमन्यु समस्त शत्रुओंके एक चौथाई भागको यमलोक पहुँचा देगा। तदनन्तर बहुत-से महारथी एक साथ ही उसपर टूट पड़ेंगे और वह महाबाहु उन सबका सामना करते हुए संध्या होते-होते पुनः मुझसे आ मिलेगा। वह एक ही वंशप्रवर्तक वीर पुत्रको जन्म देगा, जो नष्ट हुए भरतकुलको पुनः धारण करेगा।’ सोमका यह वचन सुनकर समस्त देवताओंने ‘तथास्तु’ कहकर उनकी बात मान ली और सबने चन्द्रमाका पूजन किया। राजा जनमेजय! इस प्रकार मैंने तुम्हारे पिताके पिताका जन्म-रहस्य बताया है॥१२१—१२५॥

विश्वास-प्रस्तुतिः

अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथम्।
शिखण्डिनमथो राजन् स्त्रीपूर्वं विद्धि राक्षसम् ॥ १२६ ॥

मूलम्

अग्नेर्भागं तु विद्धि त्वं धृष्टद्युम्नं महारथम्।
शिखण्डिनमथो राजन् स्त्रीपूर्वं विद्धि राक्षसम् ॥ १२६ ॥

अनुवाद (हिन्दी)

महाराज! महारथी धृष्टद्युम्नको तुम अग्निका भाग समझो। शिखण्डी राक्षसके अंशसे उत्पन्न हुआ था। वह पहले कन्यारूपमें उत्पन्न होकर पुनः पुरुष हो गया था॥१२६॥

विश्वास-प्रस्तुतिः

द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ।
विश्वान् देवगणान् विद्धि संजातान् भरतर्षभ ॥ १२७ ॥

मूलम्

द्रौपदेयाश्च ये पञ्च बभूवुर्भरतर्षभ।
विश्वान् देवगणान् विद्धि संजातान् भरतर्षभ ॥ १२७ ॥

अनुवाद (हिन्दी)

भरतर्षभ! तुम्हें मालूम होना चाहिये कि द्रौपदीके जो पाँच पुत्र थे, उनके रूपमें पाँच विश्वेदेवगण ही प्रकट हुए थे॥१२७॥

विश्वास-प्रस्तुतिः

प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः ।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान् ॥ १२८ ॥

मूलम्

प्रतिविन्ध्यः सुतसोमः श्रुतकीर्तिस्तथापरः ।
नाकुलिस्तु शतानीकः श्रुतसेनश्च वीर्यवान् ॥ १२८ ॥

अनुवाद (हिन्दी)

उनके नाम क्रमशः इस प्रकार हैं—प्रतिविन्ध्य, सुतसोम, श्रुतकीर्ति, नकुलनन्दन शतानीक तथा पराक्रमी श्रुतसेन॥१२८॥

विश्वास-प्रस्तुतिः

शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्।
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥ १२९ ॥

मूलम्

शूरो नाम यदुश्रेष्ठो वसुदेवपिताभवत्।
तस्य कन्या पृथा नाम रूपेणासदृशी भुवि ॥ १२९ ॥

अनुवाद (हिन्दी)

वसुदेवजीके पिताका नाम था शूरसेन। वे यदुवंशके एक श्रेष्ठ पुरुष थे। उनके पृथा नामवाली एक कन्या हुई, जिसके समान रूपवती स्त्री इस पृथ्वीपर दूसरी नहीं थी॥१२९॥

विश्वास-प्रस्तुतिः

पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान्।
अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा ॥ १३० ॥

मूलम्

पितुः स्वस्रीयपुत्राय सोऽनपत्याय वीर्यवान्।
अग्रमग्रे प्रतिज्ञाय स्वस्यापत्यस्य वै तदा ॥ १३० ॥

अनुवाद (हिन्दी)

उग्रसेनके फुफेरे भाई कुन्तिभोज संतानहीन थे। पराक्रमी शूरसेनने पहले कभी उनके सामने यह प्रतिज्ञा की थी कि ‘मैं अपनी पहली संतान आपको दे दूँगा’॥१३०॥

विश्वास-प्रस्तुतिः

अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया।
अददात् कुन्तिभोजाय स तां दुहितरं तदा ॥ १३१ ॥

मूलम्

अग्रजातेति तां कन्यां शूरोऽनुग्रहकाङ्क्षया।
अददात् कुन्तिभोजाय स तां दुहितरं तदा ॥ १३१ ॥

अनुवाद (हिन्दी)

तदनन्तर सबसे पहले उनके यहाँ कन्या ही उत्पन्न हुई। शूरसेनने अनुग्रहकी इच्छासे राजा कुन्तिभोजको अपनी वह पुत्री पृथा प्रथम संतान होनेके कारण गोद दे दी॥१३१॥

विश्वास-प्रस्तुतिः

सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने।
उग्रं पर्यचरद् घोरं ब्राह्मणं संशितव्रतम् ॥ १३२ ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।
तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् ॥ १३३ ॥

मूलम्

सा नियुक्ता पितुर्गेहे ब्राह्मणातिथिपूजने।
उग्रं पर्यचरद् घोरं ब्राह्मणं संशितव्रतम् ॥ १३२ ॥
निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः।
तमुग्रं शंसितात्मानं सर्वयत्नैरतोषयत् ॥ १३३ ॥

अनुवाद (हिन्दी)

पिताके घरपर रहते समय पृथाको ब्राह्मणों और अतिथियोंके स्वागत-सत्कारका कार्य सौंपा गया था। एक दिन उसने कठोर व्रतका पालन करनेवाले भयंकर क्रोधी तथा उग्र प्रकृतिवाले एक ब्राह्मण महर्षिकी, जो धर्मके विषयमें अपने निश्चयको छिपाये रखते थे और लोग जिन्हें दुर्वासाके नामसे जानते हैं, सेवा की। वे ऊपरसे तो उग्र स्वभावके थे, परंतु उनका हृदय महान् होनेके कारण सबके द्वारा प्रशंसित था। पृथाने पूरा प्रयत्न करके अपनी सेवाओंद्वारा मुनिको संतुष्ट किया॥१३२-१३३॥

विश्वास-प्रस्तुतिः

तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि ।
उवाच चैनां भगवान् प्रीतोऽस्मि सुभगे तव ॥ १३४ ॥

मूलम्

तुष्टोऽभिचारसंयुक्तमाचचक्षे यथाविधि ।
उवाच चैनां भगवान् प्रीतोऽस्मि सुभगे तव ॥ १३४ ॥

अनुवाद (हिन्दी)

भगवान् दुर्वासाने संतुष्ट होकर पृथाको प्रयोग-विधिसहित एक मन्त्रका विधिपूर्वक उपदेश किया और कहा—‘सुभगे! मैं तुमपर बहुत प्रसन्न हूँ॥१३४॥

विश्वास-प्रस्तुतिः

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
तस्य तस्य प्रसादात् त्वं देवि पुत्राञ्जनिष्यसि ॥ १३५ ॥

मूलम्

यं यं देवं त्वमेतेन मन्त्रेणावाहयिष्यसि।
तस्य तस्य प्रसादात् त्वं देवि पुत्राञ्जनिष्यसि ॥ १३५ ॥

अनुवाद (हिन्दी)

‘देवि! तुम इस मन्त्रद्वारा जिस-जिस देवताका आवाहन करोगी, उसी-उसीके कृपाप्रसादसे पुत्र उत्पन्न करोगी’॥१३५॥

विश्वास-प्रस्तुतिः

एवमुक्ता च सा बाला तदा कौतूहलान्विता।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ १३६ ॥

मूलम्

एवमुक्ता च सा बाला तदा कौतूहलान्विता।
कन्या सती देवमर्कमाजुहाव यशस्विनी ॥ १३६ ॥

अनुवाद (हिन्दी)

दुर्वासाके ऐसा कहनेपर वह सती-साध्वी यशस्विनी बाला यद्यपि अभी कुमारी कन्या थी, तो भी कौतूहलवश उसने भगवान् सूर्यका आवाहन किया॥१३६॥

विश्वास-प्रस्तुतिः

प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा।
अजीजनत् सुतं चास्यां सर्वशस्त्रभृतां वरम् ॥ १३७ ॥

मूलम्

प्रकाशकर्ता भगवांस्तस्यां गर्भं दधौ तदा।
अजीजनत् सुतं चास्यां सर्वशस्त्रभृतां वरम् ॥ १३७ ॥

अनुवाद (हिन्दी)

तब सम्पूर्ण जगत्‌में प्रकाश फैलानेवाले भगवान् सूर्यने कुन्तीके उदरमें गर्भ स्थापित किया और उस गर्भसे एक ऐसे पुत्रको जन्म दिया, जो समस्त शस्त्रधारियोंमें श्रेष्ठ था॥१३७॥

विश्वास-प्रस्तुतिः

सकुण्डलं सकवचं देवगर्भश्रियान्वितम् ।
दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम् ॥ १३८ ॥

मूलम्

सकुण्डलं सकवचं देवगर्भश्रियान्वितम् ।
दिवाकरसमं दीप्त्या चारुसर्वाङ्गभूषितम् ॥ १३८ ॥

अनुवाद (हिन्दी)

वह कुण्डल और कवचके साथ ही प्रकट हुआ था। देवताओंके बालकोंमें जो सहज कान्ति होती है, उसीसे वह सुशोभित था। अपने तेजसे वह सूर्यके समान जान पड़ता था। उसके सभी अंग मनोहर थे, जो उसके सम्पूर्ण शरीरकी शोभा बढ़ा रहे थे॥१३८॥

विश्वास-प्रस्तुतिः

निगूहमाना जातं वै बन्धुपक्षभयात् तदा।
उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम् ॥ १३९ ॥

मूलम्

निगूहमाना जातं वै बन्धुपक्षभयात् तदा।
उत्ससर्ज जले कुन्ती तं कुमारं यशस्विनम् ॥ १३९ ॥

अनुवाद (हिन्दी)

उस समय कुन्तीने पिता-माता आदि बान्धव-पक्षके भयसे उस यशस्वी कुमारको छिपाकर एक पेटीमें रखकर जलमें छोड़ दिया॥१३९॥

विश्वास-प्रस्तुतिः

तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः।
राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा ॥ १४० ॥

मूलम्

तमुत्सृष्टं जले गर्भं राधाभर्ता महायशाः।
राधायाः कल्पयामास पुत्रं सोऽधिरथस्तदा ॥ १४० ॥

अनुवाद (हिन्दी)

जलमें छोड़े हुए उस बालकको राधाके पति महायशस्वी अधिरथ सूतने लेकर राधाकी गोदमें दे दिया और उसे राधाका पुत्र बना लिया॥१४०॥

विश्वास-प्रस्तुतिः

चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ।
दम्पती वसुषेणेति दिक्षु सर्वासु विश्रुतम् ॥ १४१ ॥

मूलम्

चक्रतुर्नामधेयं च तस्य बालस्य तावुभौ।
दम्पती वसुषेणेति दिक्षु सर्वासु विश्रुतम् ॥ १४१ ॥

अनुवाद (हिन्दी)

उन दोनों दम्पतिने उस बालकका नाम वसुषेण रखा। वह सम्पूर्ण दिशाओंमें भलीभाँति विख्यात था॥१४१॥

विश्वास-प्रस्तुतिः

संवर्धमानो बलवान् सर्वास्त्रेषूत्तमोऽभवत् ।
वेदाङ्गानि च सर्वाणि जजाप जयतां वरः ॥ १४२ ॥

मूलम्

संवर्धमानो बलवान् सर्वास्त्रेषूत्तमोऽभवत् ।
वेदाङ्गानि च सर्वाणि जजाप जयतां वरः ॥ १४२ ॥

अनुवाद (हिन्दी)

बड़ा होनेपर वह बलवान् बालक सम्पूर्ण अस्त्र-शस्त्रोंको चलानेकी कलामें उत्तम हुआ। उस विजयी वीरने सम्पूर्ण वेदांगोंका अध्ययन कर लिया॥१४२॥

विश्वास-प्रस्तुतिः

यस्मिन् काले जपन्नास्ते धीमान् सत्यपराक्रमः।
नादेयं ब्राह्मणेष्वासीत् तस्मिन् काले महात्मनः ॥ १४३ ॥

मूलम्

यस्मिन् काले जपन्नास्ते धीमान् सत्यपराक्रमः।
नादेयं ब्राह्मणेष्वासीत् तस्मिन् काले महात्मनः ॥ १४३ ॥

अनुवाद (हिन्दी)

वसुषेण (कर्ण) बड़ा बुद्धिमान् और सत्यपराक्रमी था। जिस समय वह जपमें लगा होता, उस समय उस महात्माके पास ऐसी कोई वस्तु नहीं थी, जिसे वह ब्राह्मणोंके माँगनेपर न दे डाले॥१४३॥

विश्वास-प्रस्तुतिः

तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः।
ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् ॥ १४४ ॥

मूलम्

तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थे भूतभावनः।
ययाचे कुण्डले वीरं कवचं च सहाङ्गजम् ॥ १४४ ॥

अनुवाद (हिन्दी)

भूतभावन इन्द्रने अपने पुत्र अर्जुनके हितके लिये ब्राह्मणका रूप धारण करके वीर कर्णसे दोनों कुण्डल तथा उसके शरीरके साथ ही उत्पन्न हुआ कवच माँगा॥१४४॥

विश्वास-प्रस्तुतिः

उत्कृत्य कर्णो ह्यददात् कवचं कुण्डले तथा।
शक्तिं शक्रो ददौ तस्मै विस्मितश्चेदमब्रवीत् ॥ १४५ ॥
देवासुरमनुष्याणां गन्धर्वोरगरक्षसाम् ।
यस्मिन् क्षेप्स्यसि दुर्धर्ष स एको न भविष्यति ॥ १४६ ॥

कर्णने अपने शरीरमें चिपके हुए कवच और कुण्डलोंको उधेड़कर दे दिया। इन्द्रने विस्मित होकर कर्णको एक शक्ति प्रदान की और कहा—‘दुर्धर्ष वीर! तुम देवता, असुर, मनुष्य, गन्धर्व, नाग और राक्षसोंमेंसे जिसपर भी इस शक्तिको चलाओगे, वह एक व्यक्ति निश्चय ही अपने प्राणोंसे हाथ धो बैठेगा’॥१४५-१४६॥

विश्वास-प्रस्तुतिः

पुरा नाम च तस्यासीद् वसुषेण इति क्षितौ।
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥ १४७ ॥

मूलम्

पुरा नाम च तस्यासीद् वसुषेण इति क्षितौ।
ततो वैकर्तनः कर्णः कर्मणा तेन सोऽभवत् ॥ १४७ ॥

अनुवाद (हिन्दी)

पहले कर्णका नाम इस पृथ्वीपर वसुषेण था। फिर कवच और कुण्डल काटनेके कारण वह वैकर्तन नामसे प्रसिद्ध हुआ॥१४७॥

विश्वास-प्रस्तुतिः

आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः।
स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः ॥ १४८ ॥

मूलम्

आमुक्तकवचो वीरो यस्तु जज्ञे महायशाः।
स कर्ण इति विख्यातः पृथायाः प्रथमः सुतः ॥ १४८ ॥

अनुवाद (हिन्दी)

जो महायशस्वी वीर कवच धारण किये हुए ही उत्पन्न हुआ, वह पृथाका प्रथम पुत्र कर्ण नामसे ही सर्वत्र विख्यात था॥१४८॥

विश्वास-प्रस्तुतिः

स तु सूतकुले वीरो ववृधे राजसत्तम।
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ १४९ ॥

मूलम्

स तु सूतकुले वीरो ववृधे राजसत्तम।
कर्णं नरवरश्रेष्ठं सर्वशस्त्रभृतां वरम् ॥ १४९ ॥

अनुवाद (हिन्दी)

महाराज! वह वीर सूतकुलमें पाला-पोसा जाकर बड़ा हुआ था। नरश्रेष्ठ कर्ण सम्पूर्ण शस्त्रधारियोंमें श्रेष्ठ था॥१४९॥

विश्वास-प्रस्तुतिः

दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्।
दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम् ॥ १५० ॥

मूलम्

दुर्योधनस्य सचिवं मित्रं शत्रुविनाशनम्।
दिवाकरस्य तं विद्धि राजन्नंशमनुत्तमम् ॥ १५० ॥

अनुवाद (हिन्दी)

वह दुर्योधनका मन्त्री और मित्र होनेके साथ ही उसके शत्रुओंका नाश करनेवाला था। राजन्! तुम कर्णको साक्षात् सूर्यदेवका सर्वोत्तम अंश जानो॥१५०॥

विश्वास-प्रस्तुतिः

यस्तु नारायणो नाम देवदेवः सनातनः।
तस्यांशो मानुषेष्वासीद् वासुदेवः प्रतापवान् ॥ १५१ ॥

मूलम्

यस्तु नारायणो नाम देवदेवः सनातनः।
तस्यांशो मानुषेष्वासीद् वासुदेवः प्रतापवान् ॥ १५१ ॥

अनुवाद (हिन्दी)

देवताओंके भी देवता जो सनातन पुरुष भगवान् नारायण हैं, उन्हींके अंशस्वरूप प्रतापी वसुदेवनन्दन श्रीकृष्ण मनुष्योंमें अवतीर्ण हुए थे॥१५१॥

विश्वास-प्रस्तुतिः

शेषस्यांशश्च नागस्य बलदेवो महाबलः।
सनत्कुमारं प्रद्युम्नं विद्धि राजन् महौजसम् ॥ १५२ ॥

मूलम्

शेषस्यांशश्च नागस्य बलदेवो महाबलः।
सनत्कुमारं प्रद्युम्नं विद्धि राजन् महौजसम् ॥ १५२ ॥

अनुवाद (हिन्दी)

महाबली बलदेवजी शेषनागके अंश थे। राजन्! महातेजस्वी प्रद्युम्नको तुम सनत्कुमारका अंश जानो॥१५२॥

विश्वास-प्रस्तुतिः

एवमन्ये मनुष्येन्द्रा बहवोंऽशा दिवौकसाम्।
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥ १५३ ॥

मूलम्

एवमन्ये मनुष्येन्द्रा बहवोंऽशा दिवौकसाम्।
जज्ञिरे वसुदेवस्य कुले कुलविवर्धनाः ॥ १५३ ॥

अनुवाद (हिन्दी)

इस प्रकार वसुदेवजीके कुलमें बहुत-से दूसरे-दूसरे नरेन्द्र उत्पन्न हुए, जो देवताओंके अंश थे। वे सभी अपने कुलकी वृद्धि करनेवाले थे॥१५३॥

विश्वास-प्रस्तुतिः

गणस्त्वप्सरसां यो वै मया राजन् प्रकीर्तितः।
तस्य भागः क्षितौ जज्ञे नियोगाद् वासवस्य ह ॥ १५४ ॥

मूलम्

गणस्त्वप्सरसां यो वै मया राजन् प्रकीर्तितः।
तस्य भागः क्षितौ जज्ञे नियोगाद् वासवस्य ह ॥ १५४ ॥

अनुवाद (हिन्दी)

महाराज! मैंने अप्सराओंके जिस समुदायका वर्णन किया है, उसका अंश भी इन्द्रके आदेशसे इस पृथ्वीपर उत्पन्न हुआ था॥१५४॥

विश्वास-प्रस्तुतिः

तानि षोडश देवीनां सहस्राणि नराधिप।
बभूवुर्मानुषे लोके वासुदेवपरिग्रहः ॥ १५५ ॥

मूलम्

तानि षोडश देवीनां सहस्राणि नराधिप।
बभूवुर्मानुषे लोके वासुदेवपरिग्रहः ॥ १५५ ॥

अनुवाद (हिन्दी)

नरेश्वर! वे अप्सराएँ मनुष्यलोकमें सोलह हजार देवियोंके रूपमें उत्पन्न हुई थीं, जो सब-की-सब भगवान् श्रीकृष्णकी पत्नियाँ हुईं॥१५५॥

विश्वास-प्रस्तुतिः

श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले।
भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः ॥ १५६ ॥

मूलम्

श्रियस्तु भागः संजज्ञे रत्यर्थं पृथिवीतले।
भीष्मकस्य कुले साध्वी रुक्मिणी नाम नामतः ॥ १५६ ॥

अनुवाद (हिन्दी)

नारायणस्वरूप भगवान् श्रीकृष्णको आनन्द प्रदान करनेके लिये भूतलपर विदर्भराज भीष्मकके कुलमें सती-साध्वी रुक्मिणीदेवीके नामसे लक्ष्मीजीका ही अंश प्रकट हुआ था॥१५६॥

विश्वास-प्रस्तुतिः

द्रौपदी त्वथ संजज्ञे शचीभागादनिन्दिता।
द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥ १५७ ॥

मूलम्

द्रौपदी त्वथ संजज्ञे शचीभागादनिन्दिता।
द्रुपदस्य कुले कन्या वेदिमध्यादनिन्दिता ॥ १५७ ॥

अनुवाद (हिन्दी)

सती-साध्वी द्रौपदी शचीके अंशसे उत्पन्न हुई थी। वह राजा द्रुपदके कुलमें यज्ञकी वेदीके मध्यभागसे एक अनिन्द्य सुन्दरी कुमारी कन्याके रूपमें प्रकट हुई थी॥१५७॥

विश्वास-प्रस्तुतिः

नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी।
पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा ॥ १५८ ॥

मूलम्

नातिह्रस्वा न महती नीलोत्पलसुगन्धिनी।
पद्मायताक्षी सुश्रोणी स्वसिताञ्चितमूर्धजा ॥ १५८ ॥

अनुवाद (हिन्दी)

वह न तो बहुत छोटी थी और न बहुत बड़ी ही। उसके अंगोंसे नीलकमलकी सुगन्ध फैलती रहती थी। उसके नेत्र कमलदलके समान सुन्दर और विशाल थे, नितम्बभाग बड़ा ही मनोहर था और उसके काले-काले घुँघराले बालोंका सौन्दर्य भी अद्‌भुत था॥१५८॥

विश्वास-प्रस्तुतिः

सर्वलक्षणसम्पूर्णा वैदूर्यमणिसंनिभा ।
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः ॥ १५९ ॥

मूलम्

सर्वलक्षणसम्पूर्णा वैदूर्यमणिसंनिभा ।
पञ्चानां पुरुषेन्द्राणां चित्तप्रमथनी रहः ॥ १५९ ॥

अनुवाद (हिन्दी)

वह समस्त शुभ लक्षणोंसे सम्पन्न तथा वैदूर्य मणिके समान कान्तिमती थी। एकान्तमें रहकर वह पाँचों पुरुषप्रवर पाण्डवोंके मनको मुग्ध किये रहती थी॥१५९॥

विश्वास-प्रस्तुतिः

सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते।
कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥ १६० ॥

मूलम्

सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते।
कुन्ती माद्री च जज्ञाते मतिस्तु सुबलात्मजा ॥ १६० ॥

अनुवाद (हिन्दी)

सिद्धि और धृति नामवाली जो दो देवियाँ हैं, वे ही पाँचों पाण्डवोंकी दोनों माताओं—कुन्ती और माद्रीके रूपमें उत्पन्न हुई थीं। सुबल-नरेशकी पुत्री गान्धारीके रूपमें साक्षात् मतिदेवी ही प्रकट हुई थीं॥१६०॥

विश्वास-प्रस्तुतिः

इति देवासुराणां ते गन्धर्वाप्सरसां तथा।
अंशावतरणं राजन् राक्षसानां च कीर्तितम् ॥ १६१ ॥
ये पृथिव्यां समुद्‌भूता राजानो युद्ध दुर्मदाः।
महात्मानो यदूनां च ये जाता विपुले कुले ॥ १६२ ॥
ब्राह्मणाः क्षत्रिया वैश्या मया ते परिकीर्तिताः।
धन्यं यशस्यं पुत्रीयमायुष्यं विजयावहम्।
इदमंशावतरणं श्रोतव्यमनसूयता ॥ १६३ ॥

राजन्! इस प्रकार तुम्हें देवताओं, असुरों, गन्धर्वों, अप्सराओं तथा राक्षसोंके अंशोंका अवतरण बताया गया। युद्धमें उन्मत्त रहनेवाले जो-जो राजा इस पृथ्वीपर उत्पन्न हुए थे और जो-जो महात्मा क्षत्रिय यादवोंके विशाल कुलमें प्रकट हुए थे, वे ब्राह्मण, क्षत्रिय अथवा वैश्य जो भी रहे हैं, उन सबके स्वरूपका परिचय मैंने तुम्हें दे दिया है। मनुष्यको चाहिये कि वह दोष-दृष्टिका त्याग करके इस अंशावतरणके प्रसंगको सुने। यह धन, यश, पुत्र, आयु तथा विजयकी प्राप्ति करानेवाला है॥१६१—१६३॥

विश्वास-प्रस्तुतिः

अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ।
प्रभवाप्ययवित् प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ १६४ ॥

मूलम्

अंशावतरणं श्रुत्वा देवगन्धर्वरक्षसाम् ।
प्रभवाप्ययवित् प्राज्ञो न कृच्छ्रेष्ववसीदति ॥ १६४ ॥

अनुवाद (हिन्दी)

देवता, गन्धर्व तथा राक्षसोंके इस अंशावतरणको सुनकर विश्वकी उत्पत्ति और प्रलयके अधिष्ठान परमात्माके स्वरूपको जाननेवाला प्राज्ञ पुरुष बड़ी-बड़ी विपत्तियोंमें भी दुःखी नहीं होता॥१६४॥

मूलम् (समाप्तिः)

इति श्रीमहाभारते आदिपर्वणि सम्भवपर्वणि अंशावतरणसमाप्तौ सप्तषष्टितमोऽध्यायः ॥ ६७ ॥

मूलम् (वचनम्)

इस प्रकार श्रीमहाभारत आदिपर्वके अन्तर्गत सम्भवपर्वमें अंशावतरणसमाप्तिविषयक सड़सठवाँ अध्याय पूरा हुआ॥६७॥

  1. ‘अत्रि’ शब्दसे यहाँ सूर्यको ग्रहण किया गया है। नीलकण्ठने भी यही अर्थ लिया है। ↩︎