श्री रुक्मणी सत्यभामा समेत मूलगोपालकृष्णो विजयते ।। श्रीमन्मध्वसिद्धान्तानुसारेण श्री श्रीपरमहंसेत्यादि बिरुदावली विभूषितानां कर्णाटकसिंहासनाधीश्वराणां श्री व्यासराज शिष्येण श्री श्रीरघुनाथतीर्थेन कृतासनत्सुजातीय व्याख्या विद्यावाचस्पति स.रा. रघूत्तमार्येण श्री श्रीव्यासराजमठ आस्थानविदुषा संशोध्यसमालिखितम् श्री श्रीरघुनाथतीर्थकृता ।। श्रीमत्सनत्सुजातीयव्याख्या ।। ।। श्री मदानन्दतीर्थ भगवत्पाद गुरुभ्यो नमः ।। ।। सनत्सुजातीयव्याख्या आरभ्यते ।। अनुक्तं यदि ते किञ्चिद्वाचा विद्यते तन्मे शुश्रूषवे ब्रूहीत्यन्वयः । अत्र तात्पर्यं विदुरं पप्रच्छ । सैऽवदद्धर्मं पार्थानां राज्यदापनम् । ऐहिकस्य सुखस्यापि कारणं तदनिन्दितम् । अन्यथा सर्वपुत्राणां नाशं धर्मादिलङ्घनम् । तत्र भावमकृत्वा तु ज्ञानादिच्छन्नघक्षयम् । विष्णोः स्वरूपं पप्रच्छ सोऽस्मरच्च सनातनम् । स आगत्यावदद्धर्मं तत्वं विष्णोर्मायाविनाश्शुभा न गतिश्चेत्यन्यथेति । धृतराष्ट्रकुमारो वै यः पुराणस्सनातनः । सनत्कुमारः प्रोवाच मृत्युर्नास्तीति भारत । इत्यत्र पुराणः पुरातनः वृद्ध इत्यर्थः । कुमारः पञ्चवर्षकुमारवद्दृश्यमानः । ‘तान् वीक्ष्य वातरशनान् चतुरः कुमारान् वृद्धान् दशार्धवयसो विदितात्मतत्वा’ निति भागवते ।। सनत्कुमारः सनातनः चतुर्मुखस्य कुमारः । सनच्छब्दः सनातनवाची । बहुकालावस्थानात् चतुर्मुखः सनदित्युच्यते । ‘मानसा ये सुता युष्मत्पूर्वे वै सनकादयः’ इति च भागवते । तत्रैव स सनातनः ऋषिः मृत्युर्नास्तीति प्रोवाच । ब्रह्मज्ञानिनामति शेषः । न तेन गर्ह्य इत्यत्र ब्राह्मणत्वेन एतदब्रवीति न वदामीति ब्रबीमि ।। इति चत्वारिंशोऽध्यायः ।। सनत्सुजातं सनत्कुमारं रहिते जनरहिते एकान्ते बुभूषन् भू प्राप्ताविति धातोः बुभूषन् प्राप्नुम्छिन्, ज्ञानं प्राप्नुमिच्छन्नित्यर्थः । सनत्सुजात यदिमं शृृणोमि मृत्युर्नास्तीति तवोपदेशं शृणोमि हि । मृत्युर्नास्तीति शिष्यान् प्रत्युपदिष्टमिति विदुरो मे प्राहेति भावः । देवासुरः अमृत्यवे मृत्योरभाव अमृतत्वप्राप्तये ब्रह्मचर्यमाचरन्तः गुरौ वासं कृतवन्तः श्रूयन्ते, तदुक्तं छान्दोग्योपनिषदि - ‘तद्धोभये देवासुरा अनुबुबुधिरे’ इत्यारभ्य ‘तौ ह द्वात्रिंशतं वर्षाणि ब्रह्मचर्यमूषतुः’ इत्यनेन एक शतं वै वर्षाणि मघवान् प्रजापतौ ब्रह्मचर्यमुवासेति च । यदि मृत्युर्नास्तीति तव पक्षः कथं तर्हि देवासुरणां अमृत्येव ब्रह्मचर्याचरणं तत्तयोर्मृत्युसद्भावासद्भावयोः कतरन्नु सत्यमिति त्वां पृच्छामि । यत्सत्यं तद्वक्तुमर्हसि । अध्याहारेण योजन । ‘देवासुराभ्यन्तरचारिणो वै कथं ह्यभाव कतरन्नु सत्यामित्यपि पाठः । अस्मिन् पाठे मृत्युर्नास्तीति तवोपदेशं शृृणोमि । देवासुराभ्यन्तरचारिण देवासुराणामभ्यन्तरे अन्तर्हृदि कामक्रोधरूपेण चारणिः । ‘काम एष क्रोध एष रजोगुणसमुद्भवः । महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् ।।’ इति वचनात् । मृत्योः कथं ह्यभावः तस्मात्कतरन्नु सत्यम् । शेषं पूर्ववत् । मृत्युर्नास्ति चेत् मृत्युपरिहारार्थं अमृतमथनं क्लेशेन कृत्वा अमृतप्राशनं देवानां कुतः दैत्यादीनाराध्य अवध्यवरस्वीकारः कुत इति भावः ।। १ ।। अमृत्युः कर्मणा केन मृत्युर्नास्तीति चापरे । शृृणु मे ब्रुवतो राजन् यथैतन्मा विशङ्कथाः ।। २ ।। केचित् अस्ति मृत्युः कर्मणा पुण्यकर्मणा अमृत्युः मृत्युपरिहारे भवतीति वदन्ति । केचन मृत्युर्नास्तीति वर्णयन्ति । हे राजन् यथैअतत्पक्षयोरविरोधः सम्भवति तथा ब्रुवतो मे मम वाक्यं शृृणु । मा विशङ्कथाः मयोक्ते शङ्कां माकृथाः ।। २ ।।
कथमविरोध इत्यत आह - उभे सत्ये क्षत्रियाद्य प्रवृत्ते मोहो मृत्युः सम्मतो यः कवीनाम् । प्रमादं वै मृत्युमहं ब्रवीमि सदाप्रमादममृतत्वं ब्रवीमि ।। ३ ।। उभे सत्ये इति ये पूर्वोक्ते मृत्योरस्तित्वनास्तित्वे ते उभये मृत्युरस्ति नास्तीति चोभे वाक्ये वा सत्ये । हेक्षत्रिय, आद्यप्रवृत्ते आदि सर्गमारभ्य प्रवृत्ते । अथवा क्षत्रियाद्य क्षत्रियप्रधान प्रवृत्ते प्रवर्तमाने कथं पुनरुभयोः परस्परं विरुद्धयोः सत्यत्वमिति तत्राहि मोहो मृत्युरिति । यो मोहः स मृत्युरिति केषाञ्चित्कवीनां सम्मतः । अमोहश्चामृत्युरिति शेषः । अहं तु प्रमादं मृत्युं ब्रवीमि । सदाप्रमादमृतत्वं च ब्रवीमि । कथमेतदवगम्यते प्रमादो मृत्युः अप्रमादोऽमृतत्वमिति तत्राह - ।। ३ ।। प्रमादाद्वै असुराः पराभवन्नप्रमादाद्ब्रह्मभूताः सुराश्च । न वै मृत्युव्याघ्र इवात्तिं जन्तून्नान्यस्य रूपमुपलक्ष्यते हि ।। ४ ।। प्रमादाद्वै असुराः पराभवन् । ब्रह्मणि भूताः ब्रह्मभूताः मुक्ता इत्यर्थः । बृह बृहि वृद्धाविति धातो । मृत्युं पराभव्य वृद्धिमन्तो जाता इति वा । अप्रमादलक्षणमुक्तं छान्दोग्यभाष्ये - ‘अविस्मृतिस्सदा विष्णोरन्यथाज्ञानर्जनम् । शास्त्राभ्यासः सदोद्योगात् श्रवणाच्च विरागतः ।। निषिद्धकर्मणां त्यागः स्वधर्मस्य कृतिस्सदा । अप्रमाद इति प्रोक्तः शास्त्रं वेदाश्च पञ्च च ।।’ इति । अनेन विष्णोर्विस्मृतिरन्यथाज्ञानं सच्छास्त्राभ्यासाभाव निषिद्धकर्मकरणं धर्मस्य परित्यागः प्रमाद इति ज्ञायते । अनेन कथं विरोधपरिहार इत्यत आह न वै मृत्युरिति । प्रमादरूपो मृत्युः व्याघ्र इव प्रत्यक्षस्सन् जन्तून्न भक्षयति । नान्यस्य रूपमुपलक्ष्यते हि यस्मात्तस्मात् मृत्युः प्रत्यक्षतो नास्तीत्याहु । न तु सर्वात्मना मृत्युनास्तीति । तस्मात्पक्षद्वयमपि प्रामाणिकम् । अतो न विरोध इति भावः । न तु मृत्युदेवता प्रसिद्धा सा । नानाविधनिमित्तैः लोकं मारयति । तदुक्तम् - ‘मृत्युर्देवो मम भ्राता वेन मातामहोऽसुर’ । सा कुतो नोक्तेति चेत्, सत्यम् । तस्या अपि मूलभूत्वात् प्रमादाख्यो मृत्युः प्रबल इति स एवास्माभिरुक्तः । प्रसिद्धा मृत्युर्देवता तु प्रमादाय मृत्यौ सत्येन मावयमिति मयापि विदुरं प्रति स्वप्रमादमन्तरा मृत्युर्नास्तीतित्युक्तमिति भावः । अज्ञानस्य विनाशकत्वं श्रूयते - ‘न चेदिहावेदीन्महती विनष्टिः’ । बृहदारण्यके च ‘मृत्युर्वै तमोज्योतिरमृत’ इति अज्ञानस्य मृत्युत्वमुक्तम् ।। ४ ।। अवान्तरोऽपि मृत्युरस्तीत्याह - यमं त्वेके मृत्युमतोऽन्यमाहुरात्मैवासीदमृतं ब्रह्मचर्यम् ।। ५ ।। पितृलोके राजयमनुशास्ति देवश्शिवश्शिवानामशिवोऽशिवानाम् ।। यमं त्वेक इति ।। अतः यमादन्यं यमभ्रातरं मृत्युमाहुः अस्माभिस्तु प्राधान्येनैव प्रमादस्य मृत्युत्वमभिहितमिति भावः । तर्हि उक्तैर्नानाविधैर्मृत्युभिः अस्पृष्टं वस्तु किमित्यत आह अत्यैवेति । ‘आत्मा वा इदमेक एवाग्र आसीत्’ इति श्रुत्युक्तं ब्रह्मैवामुतमासीन्मृत्युविवर्जितं नित्यमुक्तमित्यर्थः । ब्रह्मवेदः, तेन, चरगतिभक्षणयोरिति धातोः चर्यमवगमनयोग्यं नारायणाख्यं वस्त्त्वेव मृतरहितमिति भावः । मृत्युना यमेन पूज्यत्वात्तस्यात्मन मृत्युराहित्यं युक्तमित्याह पितृलोक इति । देवः रामावतारः नारायणः शिवानां शुभजीवानां मङ्गलः । अशिवानामशुभजीवानां अशिवः अमङ्गलस्सन् पितृपतियमलोके यमेन पूज्यः सन् राज्यमनुशास्ति । ‘रामो यमसभातले’ इति तात्पर्यनिर्णयोक्तेः । तस्मान्मृत्युना सर्वमारकयमेनापि पूज्यत्वात् आत्मैव मृत्युः अन्ये सर्वे मृत्युग्रस्ता इति भावः ।। ५ ।। नारायस्य क्रोधप्रमादमृत्युरहितत्वे युक्त्यन्तरं चाह - अस्यादेशान्निस्सरते नराणां क्रोधः प्रमादो मोहरूपश्च मृत्युः । अहं गतेनैव चरन्विमार्गात्र चात्मनो योगमुपैति देही ।। ६ ।। अस्येति । अस्य नारायणस्यादेशात् आज्ञाशक्तेः । आस्यादेव निस्सरते इति पाठे एवं मृत्योः स्वरूपं निर्धारितम् । अथ इदानीं तस्य स्थानमाह आस्यादिति । आस्यात् मुखात् । मुखशब्देन तज्जन्यं पुरुषवचनादिकं लक्ष्यते । आस्यात् पुरुषवचनादेः निस्सरते निर्गच्छति । यद्वा आस्यात् अहङ्कारात् सर्वार्थापेक्षसंयोगात् , असुधातुसमन्वयात् आस्य इत्युच्यते । ‘घोरोह्यहङ्कारो महानि’ इति वैशम्पायनोक्तेः । सर्वस्याप्यहङ्कारादेव क्रोधादिरूपो मृत्युर्निस्सरते । अहङ्कारस्य अभिमानोत्पादकत्वात् । ‘अभिमाव त्वहङ्कारश्चित्तं स्मरणकारणम्’ इति तृतीयस्कन्धतात्पर्योक्तेः क्रोधादीनामभिमानमूलकत्वात् अहङ्कारान्निस्सरतीत्युक्तम् । न मृत्युरन्यस्मादायाति किन्तु स्वस्मादेव प्रादुर्भवतीति भावः । तर्हि मृत्युतरणोपायः क इत्यतः परमात्मनो भक्तियोग एव मृत्युतरणोपायः । स चाविवेकिना न लभ्यत इत्यत आह अहङ्गतेनैवेति । अहमिति गमनं राजसभायां बिद्वत्सभायां च गमनं येन सोऽहङ्गतः । अहङ्कार इत्यर्थः । तेन विमार्गान् विरुद्धमार्गानेव चरन् । श्रौतस्मार्तविपरीतमार्गान् गुरुदेवताद्यवज्ञामेव कुर्वन्नित्यर्थः । आत्मनः परमात्मनः कञ्चिद्योगं कर्मयोगज्ञानयोगभक्तियोगेषु एवमपि योगं नोपैति ।। ६ ।। तर्हि तेषां का गतिरित्यतः संसारचक्रे पौनःपुन्येन भ्रमणमेव गतिरित्याह - ते मोहितास्तद्वशे वर्तमानाः इतःप्रेतस्तत्र पुनः पतन्ति । ततस्तं देवा अनुपरिप्लवन्ते अतो मृत्युर्मरणादभ्युपैति ।। ७ ।। ते मोहिता इति । तद्वशे मोहवशे । इतः प्रेताः अस्माल्लोकात्प्रेताः मृत्वा गत्वा गताः तत्र स्वर्गादिलोककर्मफलं भुक्त्वा इत्यध्याहारः । पुनः इहैव पतन्ति । पुरुषस्य मरणकाले पत्त्वाभिमानिनो देवाः क्व गच्छन्तीत्यत आह- ततस्तमिति ।। ततः मरणानन्तरं शरीरान्तरगतं देवास्तत्वाभिमानिनः तमनु परिप्लवन्ते अनुसृत्य गच्छन्ति, अनुव्रजन्तीत्यर्थः । ‘देहादुत्क्राम्य याताना देवा भागत एव तु । स्वाधिदेवं व्रजन्त्यद्धा भागतोऽनुव्रजन्ति तान् ।।’ इति बृहद्भाष्यम् । एतमागमनेऽपि न भागेन सहैवायान्ति । इहलोके परलोकात् पतितः नानाविधकर्माणि कृत्वा अतः इतो लोकात् पुनर्मरणान्मृत्युं उपैति । एवमेव पुनः पुनः संसारे भ्रमतीत्यर्थः । उक्तमेवार्थं विशदयन्नाह - कर्मोदये कर्मफलानुरागाः तत्रानुयान्ति न तरन्ति मृत्युम् । सदर्थयोगानवगमात्समन्तात्प्रवर्तते भोगयोगेन देही ।। ८ ।। कर्मोदय इति । कर्मोदये कर्मणामुत्पत्तौ कर्मफलानुरागाः स्रक्चन्दवनितादिग्राम्यफलानुरागा असन्तः तत्र तस्मिन् कर्मफले अनुयान्ति आसक्ता भवन्ति । अतो न तरन्ति मृत्युं एवं विषयभोगासहत्वादेव सदर्थयोगानवगमात् तत्प्राप्तिलक्षणज्ञानभक्त्याद्युपायानवगमात् भोगायोगेन प्रवर्तते । पुनः पुनर्जननमरणात्मके संसारे परिवर्तत इति भावः ।। ८ ।। तद्वै महामोहनमिन्द्रियाणां मिथ्याभियोगेऽस्य गतिर्हि नित्या । मिथ्यार्थयोगाभिहतान्तरात्मा स्मरन्नुपास्ते विषयान् समस्तान् ।। ९ ।। तद्रागाभिभूतस्येन्द्रियाणां विषयेषु प्रवर्तनं तन्महामोहनं पुनर्विषयेषु प्रवृत्तिः । ‘न जातु कामः कामानुमुपभोगेन शाम्यति । हविषा कृष्णवर्त्मेव भूय एवाभिवर्धते ।।’ इति वचनात् । ततः ‘मिथ्यैषव्यवसायस्ते’ इति वचनात् मिथ्यार्थो व्यर्थः । पदं मिथ्याकारयते स्वरादिदोषदुष्टमसकृदुच्चारयतीति वैयाकरणवचनाद्दुष्टार्थो वा मिथ्यार्थः । ‘मृषा मिथ्या च वितथ’ इत्यमरः । वितथार्थः मिथ्यार्थः अनित्या वा मिथ्यार्थः शब्दादिविषयः । तस्य योगे सम्बन्धे सम्बन्धार्थमस्य मोहितस्य गतिर्मतिः नित्या नियता । मिथ्याभूतविषयसंयोगाभिहतान्तरात्मावशीकृतान्तः करणः शब्दादिविषयान् तानेवोपास्ते न परमात्मानम् ।। ९ ।। ततः किमित्यत आह- अभिध्यावै प्रथमं हन्ति चैनं कामक्रोधौ गृह्य चैनं तु पश्चात् । एतेऽबलान्मृत्यवे प्रापयन्ति धीरास्तु धैर्येण तरन्ति मृत्युम् ।। १० ।। अभिध्येति । सर्वानर्थमूलकारणं चाह- अभिध्या विषयध्यानं अभितो दुर्विषयचिन्तेति यावत् । प्रथमं हन्ति विनाशयति । विनाशं प्रति विषयध्यानं मूलकारणत्यिर्थः । तदुक्तं गीतायाम् - ‘ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते । सङ्गात्सञ्जायते कामः कामात् क्रोधोऽभिजायते ।। क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः । स्मृति भ्रंशाद्बुद्धिनाशो बुद्धिनाशात्प्रणश्यति ।।’ इति । ततो विषयाभिध्याहतं एनं जात्येकवचनम् । विषयसन्निधौ शीघ्रं प्रतिगृह्य कामः हन्ति । ततः कामाभिहतमेनं प्रतिगृह्य क्रोधश्च हन्ति । तत एते अभिध्यादयः अबलान् अविवेकिनः मृत्यवे प्रापयन्ति । धीराः परमात्मचिन्तारताः जितेन्द्रिया वा धैर्येण इन्द्रियाणां विषयभोगार्थमवकाशमदत्त्वा परमात्मानमवगमन् मृत्युं तरन्ति इति । बलात् बलात्कारेण वा ।। १० ।। योऽभिध्यायन्नुत्पतिष्णून्निहन्यादनादरेण प्रतिबुध्यमानः । सवै मृत्युर्मृत्युरिवात्ति भूत्वात्त्येवं विद्वान् सोऽभिनिहन्ति कामान् योऽभिध्यायन्निति । यः प्रबुध्यमानः सद्गुरुशुश्रूषया श्रुतवेदान्तशास्त्रजनितब्रह्मज्ञानः अभिध्यायन् विषयसंसर्गादनर्थं चिन्तयन् । विषयसंसर्गं ब्रह्मज्ञानविरोधित्वेन चिन्तयन्नित्यर्थः । तदुक्तमनु व्याख्याने भगवत्पादैः - ‘विषयेषु च संसर्गाच्छाश्वतस्य च संशयात् । मनसा चान्यदाकाङ्क्षात्परं न प्रतिपद्यते ।।’ इति । उत्पतिष्णून् उत्पत्योत्पत्य पतन्तीत्युत्पतिष्णवः विषयाः । तान् अनादरेण आदरविरोधिना अशुद्धदर्शन इव हेयताज्ञानेन निहन्यात् परित्यजेत् । सः पूर्वोक्तकामादिमृत्युं स्वयं मृत्युरिव भूत्वा अत्ति हि मृत्योरपि मृत्युर्भवतीत्यर्थः । ‘योऽभिध्यायन् प्रत्यभीक्षणं निहन्यात्’ इति पाठे सवैमृत्युर्मृत्युरिवाति भूतानीति पाठः । अस्मिन् पाठे एवं योजना । निहन्यात्पशूनिति शेषः । विषयभोगमभिध्यायन् प्रतिविषयभोगं प्रति अविधिना अभीक्षणं पशून्निहन्यात् । ‘प्रेत्य खादन्ति चेतनात्’ इति वचनात् । सवै मृत्युः पशुमारणाख्यः मृत्युः मृत्युभूतानीव एनं पशुमारकं अत्ति । एवं विद्वान्यः स इह कामान्निहन्तीति ।। ११ ।। यः अनादरेण कामान्न निहन्ति स किह भवतीत्यत आह- कामानुसारी पुरुषः कामाननु विनश्यति । कामान् व्युदस्य धुनुते यत्किञ्चित्पुरुषो रजः ।। १२ ।। कामानुसारीति । कामाः अनित्याः कालतो नष्टा भवन्ति , तदनु अयमपि कामी नश्यतीत्यर्थः । व्युदस्य निराकृत्य, रजः पापम् । कथं पुनरस्य रत्न््नयादिदेहस्य रमणीयतया दृश्यमानस्य काम्यमानस्य देहत्वमित्याशङ्क्याह- ।। १२ ।। देहाऽप्रकाशो भूतानां नारकोऽयं प्रदृश्यते । गृह्यन्त इव धावन्ति गच्छन्ति श्वभ्रमुन्मुखाः ।। १३ ।। देहा इति । देहो वनितादिदेहः अप्रकाशो नरकः आच्छादितनरकः भूतानामज्ञानां भूतानां रमणीयतया दृश्यते । न तु विवेकिनाम् । श्लेष्मासृक्पूयकृमिविण्मूत्रपरिपूर्णत्वान्नरकः । मूर्खाः गृध्यन्तः गृध = आकाङ्क्षायामिति धातोः । गृध्यन्त एव तादृशविषयाभिलाषां कुर्वन्त एव धावन्ति इतस्ततो धावन्ति तेन तन्नरकं गच्छन्ति स्म । तथा च मनुः - ‘अस्थिथूणं स्नायुबन्धं मांसशोणितलेपनम् । चर्मोपबद्धं दुर्गन्धि पूर्णं मूत्रपुरीषयोः ।। जराशोकसमाविष्टं रोगायतनमातुरम् । रजस्वलमनित्यं च भूतावासमिमं त्यजेत्’ ।। इति । एवमत्यन्तं जुगुप्सितं स्त्र्यादिदेहं कमनीयबुद्ध्या काङ्क्षन्तो धावन्तीत्यर्थः । यथान्धाः कूपादिकं विवेक्तुमशक्ताः कूपादिषून्मुखाः पतन्ति एवं पतन्ति । तस्मात् स्त्रियं दृष्ट्वा न मुह्येदिति भावः । तमोऽप्रकाशं भूतानामिति पाठे वनितादिशरीरं अप्रकाशं तम एव । न विद्यते प्रकाशो यस्मिंस्तदप्रकाशं तम एव । यथा तमसि अन्धकारे स्थिता जनाः किमपि न पश्यन्ति एवं वनितामोहिताश्च कर्तव्याकर्तव्यं किमपि न जानन्ति ततो नरकं गच्छन्तीति योजना ।। १३ ।। अमन्यमानः क्षत्रिय कश्चिदन्यं नाधीयते तार्ण इवास्य व्याघ्रः । क्रोधाल्लोभान्मोह भयादिकात्मा सवै मृत्युस्त्वच्छरीरे य एषः ।। यः विषयाभिलाषी धावति स कश्चित् कुत्सितचेतनः अन्यं स्मस्माद्विलक्षणं सर्वप्रपञ्चाद्विलक्षणं जीवभिन्नं परमात्मानं अमन्यमानः अप्रतिबुध्यमानः नाधीयते । तद्विषयमध्यात्मशास्त्रं नाधिगच्छति । तस्यास्य । विषयान्धस्य षडङ्गवेदविदुषोऽपि देहः तृणमयः व्याघ्रः इव निरर्थको भवति । तथाचाह भगवान्वसिष्ठः - ‘चतुर्वेदोऽपि यो विप्रः सूक्ष्मं ब्रह्म न विन्दति । वेदभार भराक्रान्तः सवै ब्राह्मणगर्दभः ।।’ इति । तं क्रोधाल्लोभात् क्रोधलोभाभ्यां निमित्ताभ्यां, मोहश्च भयं च मोहभये आदी येषां ते मोहभयादिकाः मोहभयमदाः त एव आत्मा स्वरूपं यस्य सः मोहभयादिकात्मा । मृत्युः सवैपूर्वोक्तः ग्रसतीति शेषः । य एष मृत्युस्त्वच्छरीरे वर्तते ।। ‘अमृढवृत्तेः पुरुषस्येह कुर्यात्किं वै मृत्युस्तार्ण इवास्य व्याघ्रः । अमन्यमानः क्षत्रिय किञ्चिदन्यं नाधीयीत निर्णुदमिवास्य वायुः ।।’ इति पाठमनुसृत्य वादिराजस्वामिभिर्लक्षालङ्कारे व्याख्यातम् - अमूढवृत्तेः पुरुषस्य विवेकिनः मृत्युस्तार्णस्तृणमयो व्याध्र इवाकिञ्चित्कर इत्यर्थः । हे क्षत्रिय यः कश्चित्कामादन्यत् किञ्चित्पुरुषार्थममन्यमानः नाधीयीत वेदान्ताध्ययनादिकं न कुर्वीत निर्णुत् नितरां नुत् । नुद प्रेरण इति धातोः रजस्तृणादिकं प्रैरयन् अभीत्यस्य वायुरित्यनेन सम्बन्धः । अभितो विद्यमानो वायुरभिवायुः । चक्रवायुरित्यर्थः । अस्य पुरुषस्य वा उपमा, ‘वा विकल्पोपमानयोः’ इत्यमरः । विषयान्धोऽसौ संसारं एव भ्राम्यतीति भावः । अयं पाठः एतद्देशीयकोशेषु प्रायो न दृश्यते ।। १४ ।। उक्तमुपसंहरति - एवं मृत्युं जायमानं विदित्वा ज्ञानेन तिष्ठन्न बिभेति मृत्योः । विनश्यते विषये तस्य मृत्युर्मुत्योर्यथा विषयं प्राप्य मर्त्यः ।। १५ ।। एवमिति । मृत्योविषयं प्राप्य मर्त्यः यथा विनश्यते तथास्य ज्ञानिनो विषये मृत्युर्विनश्यते ।। १५ ।। काम्यकर्मणोऽपि स्वर्गादिफलश्रवणात् कथं निन्दितत्वमित्यत आह ।। यानेवाहूरिज्यया साधुलोकान् द्विजातीनां पुण्यतमान् सनातनान् । तेशमपार्थान् कथयन्ति वेदाश्चैतद्विद्वानेति कथं नु कर्म ।। १६ ।। यानेवेति । यान् साधुलोकान् द्विजातीनां त्रैवर्णिकानां इज्यया यज्ञेन ज्योतिष्टोमादिना प्राप्यान् कथयन्ति । तेषामेव लोकान् काम्यकर्मफलभूतान् लोकान् सनातनात् । वेदाः ‘नान्यः पन्था अयनाय विद्यते’ ‘नास्त्यकृतः कृतेन’ ‘तद्विज्ञानार्थं स गुरुमेवाभि गच्छेत्’ ‘क्षीणे पुण्ये मर्त्यलोकं विशन्ति’ इत्याद्याः अपार्थान् व्यर्थान् कथयन्ति । अनित्यफलस्य अप्रयोजकत्वादिति भावः । एवं विद्वान् पूर्वोक्तप्रकारेण काम्यकर्मणां लोका अपार्था इति विद्वान् काम्यं कर्मं कथं नु एति करोति न करोतीत्यर्थः ।। १६ ।। एवं हि विद्वान् प्रतियाति तत्र तथार्थजातं च वदन्ति वेदाः । स नेह आयाति परम्परात्मा प्रयाति मार्गेण निहत्य मार्गान् ।। एवं विद्वान् पूर्वोक्तप्रकारेण विद्वान् तत्र निष्कामकर्मस्वेन प्रतियाति । तथा प्रतियाताना, वेदाः ‘अपाम सोमममृता अभूम ‘कर्मणा ज्ञानमातनोति’ इत्याद्या वेदाः अर्थजातं ज्ञानमोक्षादि पुरुषार्थसमूहं च वदन्ति । स पुनरिह काम्यकर्मसुनायाति । सर्वथा काम्यकर्मसम्बन्धाभावं सूचयितुं विसन्धिकरणम् । परात्परे परमात्मनि चित्तं यस्य स तथा । मार्गेण ज्ञानभक्त्यादिमार्गेर मार्गान् दुष्टमार्गान् निहत्य परिहृत्य प्रयाति मोक्षमिति शेषः ।। १७ ।। एवं नारायणः निवृत्तकर्माणमनुगृह्य मोक्षं ददाति । प्रवृत्तकर्माणं संसारे पुनः पुनः जननमरणसहितं करोतीति श्रुत्वा धृतराष्ट्रः पृच्छति कोऽसाविति- कोऽसौ नियुङ्क्ते तमजं पुराणं स चेदिदं सर्वमनुक्रमेत । किं वास्य कार्यमथवा सुखं च तन्मे तत्वं ब्रूहि सर्वं यथा तत् । तं अजं पुराणं परमपुणषम् । मोक्षादिदाने इदमुपलक्षणम् । इह सृष्ट्या …. कोऽसौ नियुङ्क्ते यः प्रेरयति असौ कः । न कोऽपि प्रेरकः । स्वयमेव इदं सर्वमनुक्रमेत चेत् स परमात्मा इदं सर्वं कर्तुमारभते अस्य परमात्मनः जगत्करणेन कार्यं प्रयोजनं किं अथवा सुखं किं तन्मे ब्रूहीति योजना ।। १८ ।। ।। इति सनत्सुजातीयव्याख्यायां त्रिचत्वारिंशोऽध्यायः ।। दोषो महानत्र न भेदयोगो ह्यनादियोगेन भवन्ति नित्याः । ततोऽस्य नाधिक्यमुपैति किञ्चिदनादियोगेन भवन्ति पुंसः ।। १ ।। भेदयोगः भेदेन भिन्नेन अन्येनेति यावत् । धर्मेण धर्माभेदवान् नश्यते योगो नियोगः प्रेरणम् । महद्दोषः पारतन्त्र्यलक्षणो दोषः स चात्र परमात्मनि निर्दुष्टे न युज्यते । किं तु अनादियोगेन अनादिलीलायोगेन सृष्ट्यादिक्रियाः प्रवाहतो नित्याः भवन्ति । सृष्ट्यादौ लीलया प्रवर्तत इत्यर्थः । अनादियोगेन अनाद्यनन्दयोगेनेति वा । नित्याः स्वरूपतो नित्याः जीवाश्च अनादियोगेन अनादिनः स्वहृदिस्थितपरमात्मन सन्निधानयोगेन भवन्तिसन्ति । ‘द्रव्यं कर्म च कालश्च स्वभावो जीव एव च । यदनुग्रहतस्सति न सन्ति यदुपेक्षया ।।’ इत्युक्तेः । ततस्तस्मात्तेषां जीवानां मध्ये किञ्चिदपि जीवचैतन्यं अस्य पुंसस्सकाशात् आधिक्यमिदमुपलक्षणं साम्यं च नोपैति । ‘अयं महानत्र बिभेदयोगैः’ इति पाठमनुसृत्य लक्षालङ्कारे व्याख्यातम् । महान् सर्वोत्तमः अवाप्तसकलकाम इत्यर्थः । अयं परमात्मा योगैर्लीलाख्योपायैः अत्र जगति बिभेद जीवादीन् पञ्चधा भिन्नानकरोत् । शेषं पूर्ववत् ।। १ ।। प्राधान्येन सङ्क्षेपतश्चेतनसृष्टिमुक्त्वा जडसृष्टिमाह - यदेतदाह भगवान् स नित्यं विकारयोगेन करोति विश्वम् । तथा च तच्छक्तिरिति स्म मन्ये तथार्थयोगे च भवन्ति वेदाः ।। यदेतद्दृश्यमानं जडं जगत् आह ‘विश्वं सत्यं मघवानायुवौरिदा यश्चन प्रनिनन्ति व्रतं वा’मित्यादि वेदः सत्यतया आह तद्विश्वं भगवान् नित्यं अनाद्यनन्तकालेषु विकारयोगेन प्रकृतेर्विकाराख्योपायेन करोति न तु मायया करोति । तथा तस्य परमात्मनः शक्तिश्च तथा यथार्थजगन्निर्मातृतयैवेति मन्ये । अशक्तो हि मिथ्यासृष्टिं करोति न तु शक्त इति भावः । तथा अर्थयोगे हरेर्विचित्रशक्त्याख्यपदार्थयोगे वेदाः ‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इत्यादि वेदाः भवन्ति प्रमाणं भवन्ति ।। २ ।। धृतराष्ट्रः र्कमस्वभावं परिज्ञाय पृच्छति- ये वै धर्मानाचरन्तीह केचित्तथाधर्मानाचरन्तीह केचित् । धर्मः पापेन प्रतिहन्यते वा उताहो धर्मः प्रतिहन्ति पापम् ।। ३ ।। ये केचिदिह लोके धर्मानाचरन्ति ये केचिदिह लोके अधर्मानाचरन्ति वै प्रसिद्धं उताहोस्वित् धर्मः प्रतिहन्ति पापं अथवा तुल्यबलेन अन्यतरेण अन्यतरस्य नाशः अविदुषे उभयोरनुभवेनान्यतरेणान्यस्य विनाशः । तत्रापीषत्प्राबल्यधर्मस्य विदुषः पुनरुभयोरपि ज्ञानाग्निना विनाश इत्याह- ।। ३ ।। तस्मिन् स्थिता वाप्युभयं हि नित्यं ज्ञानेन विद्वान् प्रतिहन्ति सिद्धम् । अतोऽन्यथा पुण्यमुपैति देही तथागतं पापमुपैति सिद्धम् ।। ४ ।। तथा तस्मिन् पुण्यपापात्मके कर्मणि स्थितोऽपि कुर्वन्नपि उभयं पुण्यपापलक्षणं कर्म नितयं नियमेन विद्वान् ज्ञानेन प्रतिहन्ति । विनाशयतिम् । यद्वा तस्मिन् परमात्मनि स्थितः स्थैर्यबान् भगवन्निष्ठ इत्यर्थः । विद्वान् परोक्षज्ञानी । उभयं पुण्यपापलक्षणाख्यमुभयम् । कथमेतदवगम्यते ज्ञानेन विद्वान् प्रतिहन्तीहि तत्राह । सिद्धं ह्येतत् श्रुतिस्मृतीतिहासपुराणेषु । तथा च श्रुतिः ‘क्षीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे’ इति । ‘यथा पुष्करपलाश’ इति । ‘यथैषीकात्तूलमग्रा’विति च । ‘ज्ञानाग्निस्सर्वकर्माणि भस्मसात्कुतोऽर्जुन’ इति । अतोऽन्यथा ज्ञानी न भवति चेत् देही देहाभिमानवान् जीवः पुण्यमुपैति तथा आगतं पापं चोपैति । कथमवगम्यत इति चेत्तत्राह सिद्धमिति । एतदति श्रुत्यादिषु प्रसिद्धम् । तथा च श्रुतिः - ‘इष्टापूर्तं मन्यमाना वरिष्ठ’मिति । ‘असुर्या नाम ते लोका अन्धेन तमसा वृताः । तास्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः । ‘त्रैविद्या मा’मिति च ।। ४ ।। धर्मस्य प्राबल्यं प्रतिपादयति - स्थित्वोभयं कर्मणि, भोक्ष्यते स्थिरं शुभस्य पापस्य सचापि कर्मणा । धर्मेण पापं प्रणुदतीह विद्वान् धर्मो बलीयानिति तत्र विद्धि ।। सः अविद्वान् एवंविधे कर्मणि स्थिरं यथा भवति तथा स्थित्वा शुभस्य पापस्य चकर्मणः उभयं फलं भोक्ष्यते । देवदूतैर्यमदूतैश्च बलाद्भोक्ष्यते । इदं लोके विद्वान् कर्मकौशलं जानन् धर्मेण अत्युत्कृष्ट धर्मेण पापं प्रणुदति । प्रायश्चित्तधर्मेण वा । एवमत्युत्कृष्टपापेन अल्पपुण्यस्यापि हानिर्नास्तीति योजना ।। ५ ।। येषां धर्मेषु विस्पर्धा बले बलवतामिव । ते ब्राह्मणा इतः प्रेत्यः स्वर्गे यान्ति प्रकाशताम् ।। ६ ।। धर्मेषु प्रवृत्तिधर्मेषु विशेषेण स्पर्धा विस्पर्धा तत्कृतपुण्यादपि मया अधिकं पुण्यं कर्तव्यमिति स्पर्धेत्यर्थः । शेषः सुबोधः ।। ६ ।। येषा धर्मे न च स्पर्धा तेषां तज्ज्ञानसाधनम् । ते ब्राह्मणा इतो मुक्ताः स्वर्गं यान्ति त्रिविष्टपम् ।। ७ ।। येषां ज्ञानिनां धर्मे प्रवृत्तिधर्मे स्पर्धान न च । किन्तु तमपि धर्मं फलाशां विहाय विष्णुप्रीत्यर्थमेव कुर्वन्ति । तेषां तद्धर्माचरणं ज्ञानसाधनम् । इतः प्रवृत्तिकर्मफलात् स्वर्गान्मुक्तास्ते ब्राह्मणास्त्रिविष्टपं त्रयो विष्टपाः वैकुण्ठादिलोकाः यस्मिन् तं स्वर्गं यान्वि ।। ७ ।। तस्य सम्यक्समाचारमाहुर्वेदविदो जनाः । नैनं मन्येत भूयिष्ठं बाह्यमभ्यन्तरं जनः ।। ८ ।। तस्य ज्ञानिनः समाचारं निष्कामनया विष्ण्वर्पणबुद्ध्याक्रियमाणं कर्म वेदविदो जनाः वेदार्थज्ञानिनो जनाः सम्यगित्याहुः । अभ्यन्तरं स्थितिमात्रेण जनान्तर्विद्यमानं बाह्यं चरित्रेण लोकबाह्यमेनं ज्ञानिनं जनः सज्जनः सूयिष्ठमुत्तमं न मन्येत भूयिष्ठं बहुशो न मन्येतेति वा ।। ९ ।। यत्र मन्येत भूयिष्ठं प्रावृषीव तृणोदकम् । अन्नपानं ब्राह्मणस्य तज्जीवन्नानुसञ्ज्वरेत् ।। ९ ।। विद्वांस्तु यत्र ज्ञानी ज्ञानिनि दृष्टे सति तं प्रावृषि तृणोदकमिव तृणान्तर्लीनोदकमिव भूयिष्ठं उत्तमं मन्येत । तृणोलपमिति पाठे तृणोलपं मुनीनां तदन्नं वनसमुद्भव’मिति वागुरिः । यस्मादन्नं पानं च ब्राह्मणस्य ज्ञानिनो भागः ‘स्वीयं वेदविदां सर्व’मित्युक्तेः । अनुअन्नादिक मनुसृत्य न सञ्ज्वरेत् क्लेशं न कुर्यात् । ईश्वर एव तस्यान्नं कल्पयतीत्यर्थः । तस्मै विवेकिनो गृहस्था अन्नादिकं प्रयच्छन्तीति भावः ।। ९ ।। ज्ञानिने अन्नाद्यदातुः अनिष्टमाह सार्धश्लोकेन - यत्राकथयमानस्य प्रयच्छत्यशिवं भयम् । अतिरिक्तमिवाकुर्वन् स श्रेयान्नेतरो जनः ।। १० ।। यो वा कथयमानस्य ह्यात्मानं नानुसञ्ज्वरेत् । यत्र ज्ञानिनःअकथयमानस्य आह्वानमकुर्वतः पुंसः अशिवं पापं तु भयं नरकभयं प्रयच्छति तस्मात् ज्ञानिनमाहूयान्नपानादिकं देयमिति भावः । ज्ञानिनो धर्ममाह । य आत्मानमकथयमानस्य भोजनानाहूतवतः अदातुरित्यर्थः । न तु सञ्ज्वरेत् किन्त्वतिरिक्तमिव कोपाद्व्यतिरेकमिव आत्मानमकुर्वन् तिष्ठति स ज्ञानी श्रेयान् नेतरो जनः अज्ञानिजनः ।। १० ।। ज्ञानी च येन केनापि भोजनार्थमहूतः न गच्छेत् किं ? सज्जनगृहमेव गच्छेदित्याह - ब्रह्मस्वं नोपहन्याद्वा तस्यान्नं सम्मतं सताम् ।। ११ ।। यः ब्रह्मस्वं नोपहन्यात् ब्राह्मणभूम्यादिकं द्रव्यं नापहरेत् ब्रह्मणः परब्रह्मणः स्वं ज्ञानानन्दादिकं नोपहन्यान्नापहरेत् ब्रह्म निर्गुणं आकाररहितं जीवाभिन्नं न वदेदित्यर्थः ।। ब्रह्मस्वं ब्रह्मणः सृष्ट्यादिकार्यं वा नोपहन्यात् मिथ्येत् नवदेत् । तस्यान्नं तद्गृहे भोजनं सं वा सम्मतं हरिदास एव सज्जनः नेतर इति भावः ।। ११ ।। ज्ञान्यपि अधिकं नापेक्षेदित्याह- कुशवल्कलचेलाद्यं ब्रह्मस्वं योगिनो विदुः । कुशवल्कलचेलाद्यं ब्रह्मवेदश्च योगिनः स्वं द्रव्यं विदुः । नाधिकं तेनापेक्षणीयमित्यर्थः । यतिश्चेद्धर्ममाह - नित्यमज्ञाचर्या म इति मन्येत ब्राह्मणः । ज्ञातीनां तु वसन्मध्ये नैव विन्देत किञ्चन ।। १२ ।। मे नित्यमज्ञातचर्या कैरप्यज्ञाततया चर्या सञ्चरणं अस्तु इति ब्रह्मणो मन्येत । ब्रह्मज्ञानी यतिः मन्येत । सः ज्ञातीनां मध्ये वसन् ज्ञातिभ्यः किञ्चन अन्नवस्त्रादिकं नैवविन्देत नैवलभेत् ।। ज्ञानी दुर्लभ इत्याह - को ह्येवमन्तरात्मानं ब्राह्मणो मन्तुमर्हति । निलिङ्गमचलं शुद्धं सर्वद्वन्दवविवर्जितम् ।। १३ ।। अन्तरात्मानं सर्वान्तर्यामिणं निर्लिङ्ग प्राकृतस्थूलसूक्ष्मदेहरहितं अचलं व्याप्तं नित्यं च शुद्धं पारतन्त्र्याद्यशेषदोषरहितं अशनायापिपासादि धर्मरहितं ब्रह्म एवमुक्तप्रकारेण विष्ण्वर्पणबुद्ध्या निवृत्तिकर्मानुष्ठाता को वा ब्राह्मणः मन्तुमर्हति ज्ञातुमर्हति न कोऽपीत्यर्थः । एतादृशब्रह्मणः ब्रह्मज्ञानी दुर्लभ इत्यर्थः । वक्ष्यति ‘य एवसत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वये’ति ।। १३ ।। नारायणः स्वतन्त्र्यः जगज्जन्मादिकर्ता अन्तकल्याणगुणः श्री ब्रह्माद्यास्तद्भिन्नाः तदधीनाः तरतमभावापन्ना इति यो जानाति स ज्ञानी यस्त्वन्यथा जानाति स चोर इत्याह - योऽन्यता सन्तमात्मानमन्यथा प्रतिभाषते । किं तेन न कृतं पापं चोरेणात्मापहारिणा ।। २४ ।। यः अन्यथा सन्तं जीवविलक्षणत्वेन सन्तं अन्यथा प्रतिपद्यते जीवैक्येन प्रतिपद्यते जानाति यस्तु जीवैक्यं ब्रह्मणो वक्ति स तु ब्रह्मापहारी चोरः जीवव्यतिरिक्तः आत्मैव नास्तीति वादी आत्मापहारकश्चोरः तेन आत्मापहारिणा चोरेण किं पापं न कृतं सर्वपापं कृतमेव । स तु ब्रह्मज्ञानी न किं तु ब्रह्मचोरः ।। सम्यग्ज्ञानि लक्षणमाह - शिष्टो नाशिष्टवत् स स्याद्ब्राह्मणो ब्रह्मवित्कविः ।। १५ ।। अश्रान्तः स्यात् संसारिक्लेशयुक्तो न स्यात् । अनादाता दुष्टविषयानिन्द्रियैरनादाता स्वीकर्ता न भवति । सम्मतः सर्वसज्जनानां सम्मतः । निरुपद्रवः क्रोधाद्युपद्रवरहितः शिष्टः सदाचारसम्पन्नः सः अशिष्टवत् आपद्यपि न स्यात् स ब्राह्मणः ब्रह्मवित् ब्रह्मज्ञानी कविर्विवेकी ।। १५ ।। ज्ञानाढ्य एवाढ्यो ज्ञानदरिद्रो दरिद्र इत्याह - अनाढ्यामानुषे वित्ते आढ्यो वेदेषु ये द्विजाः । ते दुष्कम्प्या दुराधर्षाः विद्यात्तान् ब्रह्मणस्तनुम् ।। १६ ।। मानुषे विषये वेदेषु वेदान्तविचारेषु ज्ञानिन इत्यर्थः । वेदेषु ज्ञानेषु वा । विषयसप्तमी । ब्रह्मणः परब्रह्मणसतनुं मुख्याधिष्ठानम् । शेषः सुबोधः ।। २६ ।। इदानीं अगूढचारिणं ज्ञानिनं कुत्सयन्नाह- ये यथा वान्तमश्नन्ति श्वानो नित्यमभूतये । एवं ते वान्तमश्नन्ति स्ववीर्यस्योपभोजनात् ।। १७ ।। ‘मूढाः श्वानः इति प्रोक्ताः श्वाच श्वा न उदाहृत’ इत्यभिधानम् । यथा स्वाना श्वानो वा मूढा वा । मूढाः उन्मादिनः । वान्तमुद्गीर्णं अश्नन्ति । एवं वयं शिष्टाः ब्रह्मविद इति माहात्म्यं ख्यापयन्तः अगूढचारिणो वर्तन्ते ते वान्तमश्नन्ति स्ववीर्यस्योपभोजनात् । स्वं ज्ञानादि तद्वीर्यस्य तत्सामर्थ्यलब्धान्नपानादेः उपभोजनात् । तस्मात् स्वमाहात्म्यप्रकटनं मूढलक्षणमिति भावः । यद्वा सन्यासिनो धर्ममाह ये यथेति । सन्यासी स्ववीर्यस्पभोजनात् पूर्वं गृहस्थाश्रमे सम्पादिपं स्वं द्रव्यं सन्याससमये त्यक्तं पुनस्तस्योपभोजनात् वान्ताशी भवति ।। १७ ।। सर्वान् स्विष्टकृतो देवान्विन्यद्याद्य इह कश्चन । न समानो ब्राह्मणस्य यस्मिन् प्रयतते स्वयम् ।। १८ ।। इह लोकेः यः कश्चन पुरुषः ब्राह्मणस्य ब्रह्मज्ञानिनः न समानः । यस्मिन् ब्रह्मज्ञानिनि स्वयं नारायणः अभीष्टं दातुं प्रयतते तस्मात् स उत्तम इत्यर्थः । यद्वा अहङ्कारो न कर्तव्य इत्याह सर्वान् स्विष्टकृत इति । यः ब्रह्मणः सर्वान् देवान् स्विष्टकृतः सुष्टु इष्टं कुर्वन्तीति विन्द्यात् झनाति स ब्राह्मणः समानः मानेन अहङ्कारेण सहितो न स्यात् । यस्मिन् माने सति स्वस्य अन्नाद्यर्थं स्वयं प्रयतते गृहे गृहे गच्छति । अहङ्काररहितस्य यथा बहुमानं कुर्वन्ति एवमहङ्कारिणः न बहुमन्यन्ते इति भावः । अस्मिन् व्याख्याने न समानो ब्राह्मणः स्यादिति पाठः ।। १८ ।। यमप्रयतमानं तु मानयन्ति समाहिताः । न मान्यमानो मन्येत नावमानेन सञ्ज्वरेत् ।। १९ ।। अप्रयतमानं स्वबहुमानार्थं प्रयत्नरहितं यं ज्ञानिनं समाहिता ज्ञानिलक्षणज्ञाः मानयन्ति सः ज्ञानी अन्यैर्मान्यमानः न मन्येत नाहङ्कारं कुर्यात् । शेषः सुबोधः ।। १९ ।। लोकस्वभाव एषो हि निमेषोन्मेषवत्सदा । विद्वासो मानयन्तीह इति मन्येत मानितः ।। २० ।। अधर्मविदुषो मूढा लोकशास्त्रविवर्जिताः । न मान्यं मानयिष्यन्तीत्येवं मन्येमानितः ।। २१ ।। कथं तर्हि मानितेन वा अमानितेन वा मन्तव्यमित्याहश्लोकद्वयेन । एषः बहुमानाय मानलक्षणो धर्मः लोकस्वभावो हि विद्वदविद्वल्लोकस्वभावो हि । शेषः सुबोधः । यद्वा इषु इच्छायामिति धातोः भावे पचाद्यचि कृते गुणे च एषः इच्छाविष्टदारेषणमित्यर्थः । वित्तादेरीषणं लोकस्वभावः । वित्ताद्यर्थं मानमपेक्षते । अमाने कुप्यति अज्ञः । ज्ञानी तु मानितः । विद्वांसः ‘परगुणपरमाणून् पर्वतीकृत्य नित्यं निजहृदि विलसन्तः सन्ति सन्तः कियन्तः’ इत्यादिनीतिं विद्वास एव मानयन्ति । न तु मायिगुणोऽस्तीति मन्येत । धर्मविदुषो न भवन्तीति अधर्मविदुषः । न मान्यं मानयिष्यन्तीति मन्येत जानीयात् ।। २१ ।। नैव मानं च मौनं च सहितौ चरतस्सदा । अयं मानस्य विषयः असौ मौनस्य तद्विदुः ।। २२ ।। मानः अभिमानः मौनं तूष्णीभावश्च । इत्येतौ धर्मौ सहितौ सन्तौ न चरतः अतः मानवता अवमाने कृते सति मौनं कर्तुं न शक्यमिति भावः । अयं प्रत्यक्षगोचरो लोको मानस्य विषयः स्थानम् । असौ मोक्षाख्यो लोकः मौनस्य विषयः स्थानम् । तदेतभ्ज्ञानिनो विदुः । मोक्षार्थिनां मौनमेव प्रियं संसारिणस्तु मानो न मुञ्चतीति भावः ।। २२ ।। श्रीर्हि मानार्थसञ्जाता सा चापि परिपन्थिनी । ब्राह्मी हि दुर्लभा श्रीर्विद्याहीनेन क्षत्रिय ।। २३ ।। श्रीः सम्पत् अविवेकिनां मानार्थं सञ्जाता अहङ्कारजननाय निर्मिता । परिपन्थिनी विरोधिनी । मोक्षमार्गस्येति शेषः । ब्राह्मी ब्रह्मज्ञानलक्षणा विद्याहीनेन वेदान्तविचारहीनेन ।। २३ ।। द्वाराणि तस्याः प्रवदन्ति सन्तो बहुप्रकाणाणि दुराचराणि । सत्यर्जवेह्रीर्दमशौचविद्याः षण्मानमोहप्रतिबन्धकानि ।। २४ ।। तस्याः ब्राह्म्याः श्रियः ब्रह्मज्ञानसम्पदः द्वाराणि साधनानि दुराचराणि आचरितुमशक्यानि । सत्यं यथार्थं सम्भाषणं भूतहितं च । आर्जवमकौटिल्यम् । ह्रीरकार्यकरणे लज्जा । दम इन्द्रियनिग्रहः विषयवैराग्यमिति यावत् । शौचं मलकल्मषप्रक्षालनं अन्तश्शुद्धिश्च । विद्या सच्छास्त्राभ्यासः । मानमोहयोः प्रतिबन्धकानि ।। २४ ।। ।। इति सन्त्सुजातीये चत्वारिंशेऽध्यायः ।। न वै मानं च मौनं चेत्यादिना प्रकृतमौनस्वरूपं विविदिषुः धृतराष्ट्रः पृच्छति- कश्चैष मानः कतरन्नु मौनं प्रब्रूहि विद्वन्निह मौनभावम् । मानेन निद्वानुत याति मौनं कथं मुने मौनमिहाचरन्ति ।। १ ।। हे मने सनातन एषः मौनः प्राप्यत्वेन प्रकृतः परमो मौनः मुनिप्रियः कः कीदृशः । परमात्म स्वरूपं ब्रूहीत्यर्थः । मौनं कतरत् किं वागुपरम एव मौनं अन्यद्वा । मौनभावं मौनलक्षणं प्रब्रूहि । मानेन वेदादिप्रमाणेन विद्वान् मौनं मुनिप्रियं ब्रह्म याति उत तूष्णीम्भावेन मौनेन याति । तदेतत् निश्चित्य ब्रूहीति शेषः ।। मौनाचरणप्रकारवाक्यं किं गुणविशिष्टस्सन् मौनमाचरेत् ।। १ ।। उत्तरमाह सनातनः- यतो न वेदा मनसा सहैनमनुप्रविश्यन्ति ततोऽथ मौनम् । यत्रोत्थितो वेदशब्दस्तथायं स तन्मयत्वेन विभाति राजन् ।। २ ।। वेदा ऋगाद्याः मनसा सह एनं परमात्मानं नानुपविशन्ति । तथा हि श्रुतिः ‘यतो वाचो निवर्तन्ते अप्राप्य मनसा सहे’ति । यतस्ते वेदा मौनमित्युच्यन्ते अथ तस्मात्परमपि मौनं वेदानां मौनता यस्मात्सापि मौनमित्यर्थः । अनेन साकल्येन वेदार्थप्रतिपाद्यत्वं परमात्मनो लक्षणमुक्तं भवति । तूष्णीम्भावो मौनमित्येकं लक्षणं साकल्येन ब्रह्मप्रतिपादकत्वं चापरं लक्षणं मौनस्येत्युक्तम् । प्रकृतपरमात्मप्राप्तिसाधनं मौनं वेदा एवेत्याह । यत्रोत्थितः तथा अयं वेदशब्दः यत्र परमात्मविषये उत्थितः निष्पन्नः ‘वेदा ह्येवैनं वेदयन्ती’ति वेदा इति वेदशब्दप्रवृत्ति निमित्तम् वेद एवोक्तम् । श्रुतौ एवशब्देन इन्द्रियादीना तूष्णीम्भावस्यापि व्यावृत्तिः । अनेन वेदैकसमधिगम्यत्वं परमात्मनो लक्षणान्तरं सूचितम् । वेदेनैव मौनेन परमात्मप्राप्तिलक्षणो मोक्षः तत्तु तूष्णीम्भावमात्रेणेत्यर्थः । यतः स परमात्मा तन्मयत्वेन तत्प्राधान्येन विभाति । स्वज्ञप्तिकारणेषु वेदं प्रधानकारणं चकारेत्यर्थः । अनेन वेदान्तार्थविचाररूपगुणसम्पन्नाः मौनमाचरन्तीति कथं मुने मौनमिहाचरन्तीत्यस्याप्युत्तरं ज्ञातव्यम् । एवं निष्कामकर्मणा वैराग्यादिसाधनसम्पन्नस्य ज्ञानद्वारा पापनिवृत्तिः ततो मोक्ष इति श्रुत्वा एवं वैराग्यादिकं कर्तृमशक्यमिति मत्वा वेदाध्ययनेन पापं परिहर्तुकामः पृच्छति- ऋचो यजूंषि योऽधीते सामवेदमयो द्विजः । पापानि कुर्वन् पापेन लिप्यते न स लिप्यते ।। ३ ।। यः पापानि कुर्वन् ऋगादिवेदमधीते स वेदाध्ययनेन पूयते न वा तद्वक्तुमर्हसीत्यर्थः ।। ३ ।। एवं पृष्टः प्राह सन्तानः- नैनं साम ऋचो वापि यजींषि च विचक्षण । त्रायन्ते कर्मणः पापान् न ते मिथ्या ब्रवीम्यहम् ।। ४ ।। पापकारिणां तेनाधीता वेदाः पापकर्मणः न त्रायन्ते न मिथ्या ब्रवीमि नासत्यं ब्रवीमि ।। ४ ।। न च्छन्दांसि वृजिनात्तारयन्ति मायाविनं मायया वर्तमानम् । छन्दांस्येनं प्रजहत्यन्तकाले नीडं शकुन्ता इव जातपक्षाः ।। ५ ।। एनं नास्तिकं मायाविनं कपटिनं वञ्चकमित्यर्थः । मायया वर्तमानं मिथ्याकारिणं रहसि पापकारिणमित्यर्थः । ‘मनस्येकं वचस्येकं कर्मण्येकं दुरात्मना’मित्युक्तप्रकारेण दुरात्मनमिति यावत् । छन्दांसि वेदाः वृजिनान्न तारयन्ति । पुनः किं करिष्यन्तीत्यत आह । यथा शकुन्ताः पक्षिणः जातपक्षाः नीडं स्वाश्रयं परित्यजन्ति एवं छन्दांसि अन्तकाले मरणकाले एनं स्वाश्रयभूतं प्रजहति परित्यजन्ति ।। ५ ।। धृताराष्टः पृच्छति- न चेद्वदविदं वेदाश्शक्तास्त्रातुं विचक्षण । अथ कस्मात्प्रलापोऽयं ब्रह्मणानां सनातन ।। ६ ।। प्रलापः व्यर्थपाठः । शेषस्सुबोधः ।। ६ ।। उत्तरमाह- तस्यैव नामादि विशेषरूपैरिदं जगद्भाति महानुभाव । निर्दिश्य सम्यक्प्रवदन्तिवेदास्तद्विश्ववैरूप्यमुदाहरन्ति ।। ७ ।। तस्य परमात्मनः नामादिविशेषरूपैः नामवाक्यादिविशेषरूपैः वेदवाक्यैः इदं जगदपि भाति । भगवतः समाकृष्य जगदपि सन्तो वेदैर्व्यवहरन्तीति भावः ।निर्दिश्य भगवन्तं सम्यक् निर्दिश्य जगदपि प्रवदन्ति । तत् तस्मान्मुख्यतः सकलवेदप्रतिपाद्यत्वात् विश्वस्माद्वैरूप्यं वैलक्षण्यं भगवत उदाहरन्ति ।। ७ ।। तदर्थमुक्तं तप एतदिज्य ताभ्यामसौ पुण्यमुपैति विद्वान् । पुण्येन पापं विनिहत्य पश्चात्सञ्जायते ज्ञानविदीपितात्मा ।। ८ ।। तदर्थं भगवत्प्रीत्यर्थं एतत्तप उक्तं ‘तपांसि सर्वाणि च यद्वदन्ती’ति च श्रुतेः । इज्या चोक्ता । ज्योतिष्टोमादिकं च तत्प्रीत्यर्थमुक्तम् । ताभ्यां भगवद्विषयकतपोयज्ञाभ्यां केवलं वेदपाठेन पापं न गच्छति । वेदोक्तकर्मानुष्ठानजनितपुण्यात्पापं नश्यतीति समुदायार्थः । शेषः सुबोधः ।। ८ ।। ज्ञानेन चात्मानमुपैति विद्वानतोऽन्यथा वर्गफलानुकाङ्क्षी । अस्मिन् कृतं तत्परिगृह्य सर्वं अमुत्र भुङ्क्ते पुनरेति मार्गम् ।। ९ ।। ज्ञानेन आत्मानं परमात्मानं अतोऽन्यथा ईश्वरार्पणबुद्ध्या कर्मानुष्ठानेन विना वर्गफलानुकाङ्क्षी धर्मार्थकामानभिकाङ्क्षी अस्मिन् कृतं यज्ञादिजन्यादृष्टं सर्वं परिगृह्य अमुत्र परलोके भुङ्क्ते । पुनः क्षीणो पुण्ये मार्गं संसारमार्गं । काम्यकर्मिणः मोक्षोनास्तीति भावः ।। अस्मिन् लोके तपस्तप्तं फलमन्यत्र भुज्यते । ब्राह्मणानां त्विमे लोका वृद्धे तपसि संयताः ।। १० ।। अस्मिन् लोके तपस्तप्तं फलमन्यत्र भुज्यत इति सर्वेषां समानम् । ब्राह्मणानां ब्रह्मज्ञानिनां विशेषोऽस्ति । इमे लोकाः स्वर्गादिलोकाः ब्राह्मणानां वृद्धे तपसि संयताः सम्बद्धाः । अतिशयेन सम्बद्धा इत्यर्थः ।। ब्राह्मणानां तपस्त्वृद्धमन्येषां तावदेव तत् । एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ।। ११ ।। ब्राह्मणानां ब्रह्मविदामयं विशेषः । तेषां तपस्त्वृद्धं अभिवृद्धं वीर्यवत्तरं । तथा च श्रुतिः ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ । अन्येषामनात्मविदां वैषयिकाणां तावदेव तत् तत्तपः समृद्धं भवति । यस्य कर्मणो यत्फलं श्रुतं भवति तावन्मात्रफलसाधनम् । ज्ञानिनां तपस्तु वाञ्छितं फलं सर्वं ददातीत्यर्थः । एतत् ज्ञानिकृतं तपः समृद्धं अत्यृद्धमित्युच्यते । केवलं पुण्यजनकम् ।। ११ ।। धृतराष्ट्रः पृच्छति - कथं समृद्धमत्यृद्धं तेषां भवति केवलम् । सनातनैतन्मे ब्रूहि कथं विन्द्यामहं मुने ।। १२ ।। अर्थः सुबोधः । एवं पृष्टः प्राह सनातनः - निष्कल्मषं तपस्त्वेतत्केवलं परिचक्षते । एतत्समृद्धमत्यृद्धं तपो भवति नान्यथा ।। १३ ।। निष्कल्मषं तपः केवलं पुण्यसाधनं तदेव तपः समृद्धमत्यृद्धमित्युच्यते ।। १३ ।। तपोमूलमिदं सर्वं यन्मां पृच्छसि क्षत्रिय । तपसा वेदविद्वांसः परं चामृतमाप्युयुः ।। १४ ।। अयं सुबोधः । श्रुत्वैतद्राजा पृच्छति- कल्मषं तपसो ब्रूहि श्रुतं निष्कल्मषं तपः । सनत्सुजात येनेदं विन्द्यां गुह्यं सनातनम् ।। १५ ।। येन त्वदुपदेशेन गुह्यं रहस्यं तपसः किल्बिषम्, एवं पृष्टः प्राह । क्रोधादयो द्वादश यस्य दोषास्तथा नृशंसानि च सप्त राजन् । ज्ञानादयो द्वादश चाततानाः शास्त्रे गुणा ये विदिता द्विजानाम् । दोषाः कल्मषाः नृशंसानि च सप्त यस्य तपसो दोषाः । ज्ञानादयो द्वादश चाततानाः विस्तार्यमाणाः विदिताः ज्ञाताः ।। १६ ।। क्रोधः कामो लोभमोहौ विवित्साकृपासूया मानशोको स्पृहा च । ईर्षा जुगुप्साच महागुणेन सदा वर्ज्या द्वादशैते नरेण ।। १७ ।। ते तपसः कल्मषाः क्रोधः प्रसिद्धः । कामः विषयाभिलाषा । लोभः त्यक्तव्यद्रव्ये त्यागेच्छाभावः । मोहः कृत्याकृत्यविवेकशून्यता । विवित्सा विषयरसान् विशेषतो वक्तुमिच्छा । विद्लृ लाभे इति धातोः धनादिलाभेच्छा । अकृपा इति पदच्छेदः । अकृपा निष्ठुरता । असूया दोषाविष्करणम् । मानः आत्मबहुमानः स्पृहा परद्रव्येच्छा । ईर्षा परश्रियामसहिष्णुता । जुगुप्सा परगुणानपह्नोतुमिच्छा । ज्ञानादिमहागुणकुक्तेन । उक्तं नाममहोदधौ - ‘महद्ब्रह्मेति सम्प्रोक्तं महत्वान्महतामपि । तत् प्राप्तिगुणसंयुक्तो महागुण इति स्मृतः ।।’ इति ।। एकैकमेते राजेन्द्र मनुष्यं पुर्युपासते । लिप्समानोऽन्तरं तेषां मृगाणामिव लुब्धकः ।। १८ ।। यथा मृगाणामन्तरं छिद्रं लिप्समानः रन्ध्रान्वेषणतत्परः लुब्धकोमृगयुः अनुवर्तते यथा छिद्रं लब्ध्वा तानूहन्ति तथा तेषां मनुष्याणां रन्ध्रान्वेषणतत्पराः एते क्रोधादयः एकैकं मनुष्यं पुर्युपासते । मनुष्यान् पर्युपासते इति वा पाठः । तस्मिन् एकैकं पृथक् मनुष्यान् पुर्युपासत इति योजना । तथा छिद्रं लब्ध्वा तान् हन्ति । तस्मादेतेष्वेकोऽपि दोषो विनाशकारणं यस्मादेवं तस्मात्ते वर्ज्या इत्यर्थः । ‘यथा पान्थस्य कान्तारे सिंहव्याघ्रमृगादयः । उपद्रवकरा ह्यत्र क्रोधाद्य दुर्गुण्णा नृणाम् ।।’ इति हैरण्यगर्भे ।। १८ ।। प्रसङ्गात् क्रोधादिदुर्गुणानामाश्रयानाह - विकत्थनः स्पृहयालुर्भनस्वी बिभ्रत्क्रोधं चपलो मानवांश्च । एते प्रोक्ताः षण्पराः पापशीलाः प्रकुर्वते नोत धर्मं सुधर्मम् ।। १९ ।। विकत्थनः स्वकृतदानपुण्यादि बहुशः कथयति यस्स विकत्थनः । स्पृहयालुः स्पृहापूर्णः । मनस्वी मनसि स्वं वृत्तं वर्तत इति मनस्वी । वित्ताकाङ्क्षावान् स्वेच्छानुसारी वा मनस्वी । मानवान् अहङ्कारी । धर्मं प्रवृत्तधर्मं सुधर्मं निवृत्तधर्मम् ।। १९ ।। अधुना सप्तनृशंसानाह - सम्भोगसंविद्विषमेधमानः दत्तानुतापी कृपणोऽबलीयान् । वर्गप्रशंसी वनितां च द्वेष्टा एते परे सप्त नृशंसरूपाः ।। २० ।। सम्भोगे दुष्टाविषयसम्भोगे संवित् बुद्धिर्यस्य वर्तते स सम्भोगसंवित् । विषमेधमानः विषमिव परेषामुपद्रवं कृत्वा एधमानः । अथवा द्विषमिति पाठः । द्विषं द्वेषं कृत्वा एधमानः । यत्किञ्चिदर्थमात्रं लोभात्सर्वामानं सहते यः स कृपणः । अबलीयान् ज्ञानबलवर्जितः । वर्गप्रशंसी विषयवर्गप्रशंसी । वनितां च द्वेष्टा अनन्यशरणां भार्यां यो द्वेष्टि । ये ते परे पूर्वोक्तादिभ्यः विकत्थमानादिभ्यः सप्त नृशंसरूपाः ।। २० ।। इदानीं ज्ञानादिद्वादशगुणान् दर्शयति - ज्ञानं च सत्यं च दमः श्रुतं च अमात्सर्यं ह्रीस्तितिक्षानसूया । यज्ञश्च दानं च धृतिश्शमश्च महाव्रता द्वादश ब्राह्मणस्य ।। २१ ।। ज्ञानं परब्रह्मणः सर्वोत्तमत्वेन ब्रह्मादीनां तदधीनत्वेन तरतमभावापन्नत्वेन च ज्ञानम् । सत्यं यथार्थवचनम् । भूतहितं वा । ‘यद्भूतहितमत्यन्तं तत्सत्यं सम्प्रकीर्तित’मिति वचनात् । दम इन्द्रियनिग्रहः । श्रुतं मध्वशास्त्रश्रवणम् । मात्सर्यं सर्वभूतेष्यसहमानता तदभावः अमात्सर्यम् । ह्रीरकार्यकरणे लज्जा । तितिक्षा द्वन्द्वसहिष्णुता । अनसूया परदोषानाविष्करणम् । यज्ञोऽग्निष्टोमादिः । पञ्चमहायज्ञो वा । दानं पात्रेभ्यो द्रव्यत्यागः । धृतिर्विषयसन्निधाविन्द्रियनिग्रहः । शमः बुद्धेर्हरिनिष्ठता । एते ज्ञानादयो महाव्रताः परमपुरुषार्यसाधनभूताः ।। २१ ।। यस्त्वेतेभ्यः पवसेद्द्वादशभ्यस्सर्वामपीमां पृथिव्यां प्रशिष्यात् । त्रिभिर्द्वाभ्यामेकतो वापि शिष्टो यः स्यात्तरस्वीति स वेदितव्यः यः एतेभ्यो गुणेभ्यः प्रवसेत् । तादर्थ्ये चतुर्थी - एतद्गुणलाभाय प्रवसेत् । स्वगृहं विहाय गुरुकुले निवसेत् । प्रशिष्यात् प्रशास्ति सर्वेषां गुरुर्भवति पूज्यो भवतीत्यर्थः । उक्तगुणानां मध्ये त्रिभिर्गुणैर्वा गुणाभ्यां वा एकतो वा यः विशिष्टः । त्रिभिर्द्वाभ्यामेकतो वा विमुक्ताः क्रमाद्विशिष्टा मौनभूता भवन्तीति पाठे त्रिभिर्द्वाभ्यामेकतमेव वापि अविमुक्ता युक्ताः इत्यर्थः । त एते क्रमेण विशिष्टा ज्ञानिनो भूत्वा मौने ब्रह्मणि भूता भवन्ति । युकता भवन्तीत्यर्थः ।। २२ ।। मोक्षसाधनं निष्कृष्याह दमस्त्याग इति - दमस्त्त्यागोऽथाप्रमाद एतेष्वमृतमाहितम् । तानि सत्यमुखान्याहुः ब्राह्मणा वै मानीषिणः ।। २३ ।। त्यागः कर्मणा विष्ण्वर्पणं काम्यर्मत्यागो वा । ‘काम्यानां कर्मणां न्यासं सन्यासं कवयो विदु’रिति भगवद्वचनात् । अप्रमादलक्षणमुक्तं छान्दोग्यभाष्ये - ‘अविस्मृतिस्सदा विष्णोरन्यथाज्ञानवर्जनम् । शास्त्राभ्यासः सदोद्वेगाच्छ्रवणाच्च विरागतः । निषिद्धकर्मणां त्यागः स्वधर्मस्य कृतिस्सदा । अप्रमाद इति प्रोक्तं शास्त्रं वेदाश्च पञ्च च ।’ इति । यद्वा वक्ष्यते चात्रैव ‘सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च । अस्तेयो ब्रह्मचर्यं च कथासङ्ग्रह एव च ।।’ इति अप्रमादस्वरूपम् । एतेषु साधनेषु अमृतं मोक्षः फलत्वेनाहितम् । तर्ह्यहं दमादिभिर्मोक्षं सम्पादयामि न तु पाण्डवेभ्यो राज्यं दास्यामीति धृतराष्ट्रहार्दाभिप्रायं ज्ञात्वा सनातन आह तानि सत्यमुखान्याहुरिति । यस्मिन् पुरुषे सत्यं नास्ति तस्मिंस्तानि दमादीनि व्यर्थानीत्यर्थः । त्वं तु राज्यलोभात्पाण्हवान् प्रति असत्यं वदसि । अतस्त्वां किमपि सुकृतं न तारयतीति भावः । इति मनीषिणः ब्राह्मणाः आहुरिति योजना ।। २३ ।। दमादीनां मोक्षं प्रति प्रधानसाधनत्वात्ते च निर्दुष्टाः फलहेतवो भवन्तीति तेषां निर्दुष्टतयानुष्ठानार्थं दमादीनां दोषमाह - दमोऽष्टादशदोषः स्यात्त्यागो भवति षड्गुणः । दोषत्यागोऽप्रमादः स्यात्स चाप्यष्टगुणो मतः ।। २४ ।। अष्टादश दोषश यस्येति स दमः । शेषः सुबोधः ।। २४ ।। उक्तमनूद्य तेषां दोषत्वं प्रतिपाद्य तान् दोषानाह - दमोऽष्टादशदोषः स्यात्प्रतिकूलं कृते भवेत् । अनृतं पैशुनं तृष्णा प्रातिकूल्यं तमोऽरतिः ।। २५ ।। लोकद्वेषोऽतिमानश्च विवादः प्राणिपीडनम् । परिवादोऽतिवादश्च परितापोऽक्षमाधृतिः ।। २६ ।। असन्धिः पापकृत्यं च हिंसा चेति प्रकीर्तिताः । एतैर्विमुक्तो दोषैर्यः स दमः सद्भिरुच्यते ।। २७ ।। विपर्ययात् स्मृता एते दमदोषा उदाहृताः । दोषा दमस्य ये प्रोक्तास्तान् दोषान् परिवर्जयेत् ।। २८ ।। दमोऽष्टादशदोषः स्यात् अष्टादशदोषसमन्वितो भवति । किमिति तेषां दोषत्वमिति चेत् प्रतिकूलं कृते भवेत् । एतेषामन्यतमे कृते दोषस्य प्रतिकूलं भवेत् । कृते अनृतं अयथार्थवचनम् पैशुनं परदोषसूचकवचनम् । तृष्णा विषयेच्छा । प्रातिकूल्यं सज्जनानां प्रतिकूलता । तमः अज्ञानम् । अरतिः यथालाभासन्तुष्टिः । लोकद्वेषः लोकानामुद्वेगाचरणम् । अतिमानः गुर्वादिष्वप्यप्रणतिः । विवादः व्यर्थकलहाचरणम् । स्वोदरपूरणाय प्राणि हिंसनम् । परिवादः वृथादुःखचिन्तनम् । अधृतिः इन्द्रियार्थेषु चपलता । असिन्धः भगवद्दासैरसङ्गः । पापकृत्यं निषिद्धभक्षणाचरणम् हिंसा अविहितहिंसा । इत्थं दमदोषाः प्रकीर्तिताः । एतैरनृतादिभिर्मुक्तो यः इन्द्रियनिग्रहः स दम इत्युच्यते । एते अनृतादि हिंसान्ताः दमदोषः । त एते विषयान् सत्यादिरूपत्वेन दम दोषाः प्रकीर्तिताः । दमनाशकराः उदाहृताः । शेषः सुबोधः ।। २५-२८ ।। त्यागो भवति षड्गुण इत्युक्तं त्यागषाड्विध्यामाह - श्रेयांस्तु षड्विधस्तयागस्तृतीयस्त्रत्र दुष्करः । तेन दुःखं तरत्येव तस्मिंस्त्यक्ते जितं भवेत् ।। २९ ।। तेन तृतीयत्यागेन । तस्मिंस्त्यक्ते तृतीयत्यागे कृते इत्यर्थः । जितं भवेत् निर्वाणमिति शेषः । मोक्षस्तेन जित इत्यर्थः ।। २९ ।। तांस्त्यागानाह- अर्हते याचमानाय पुत्रान् वित्तं ददाति यः । इष्टापूर्तं द्वितीयं तु नित्यं वैराग्ययोग्यतः ।। ३० ।। काम्यत्यागश्च राजेन्द्र स तृतीय इति स्मृतः । अर्हते योग्याय । शेषः सुबोधः ।। ३० ।। काम्यत्यागदुष्करत्वमुपपादयति- त्यक्ते दुःखं भवेद्भूयश्चोपभुङ्क्ते स कामतः ।। ३१ ।। अप्रिये तु समुत्पन्ने त्यक्तं जातु न वाञ्छति । त्यक्ते कामे विषयैः स्त्र्यादिविषयैस्त्यक्ते सति शुद्धमनसः दुःखं भवति । स कामत्यागी भूयः पुनः कामतः इच्छातः उपभुङ्क्ते विषयानिति शषः । अप्रिये दुःखे । शेषः सुबोधः ।। ३१ ।। अप्रमादी भवेदेतैः स चाप्यष्टगुणो महान् ।। ३२ ।। सत्यं ध्यानं समाधानं चोद्यं वैराग्यमेव च । अस्तेयो ब्रह्मचर्यं च कथासङ्ग्रह एव च ।। ३३ ।। सत्यं यथार्थभाषणम् । ध्यानं परमात्मध्यानम् । समाधानं मनस्समाधानम् । चोद्यं महत्यु परत्वविषयः प्रश्नः । कथासङ्ग्रहः भगवत्कथासङ्ग्रहः ।। ३२ ।। ३३ ।। तास्तु सत्यमुखानाहुः सत्ये ह्यमृतमाहितम् । सत्यात्मा भव राजेन्द्र सत्ये लोकाः प्रतिष्ठिताः ।। ३४ ।। तान् दानेष्टापूर्तादीन् धर्मान् । अमृतं मोक्षः । सत्ये आत्ममनो यस्य सः सत्यात्मा । लोकाः अन्यपुण्यलोकाश्च ।। ३४ ।। निवृत्तेन तु दोषेण तपोव्रतमिहाचरेत् । एतद्धातृकृतं वृत्तं सत्यमेव सतां वरम् ।। ३५ ।। निवृत्तेन दोषेण दोषान्निवृत्तेन मनसा धातृकृतं चतुर्मुखकृतं वृत्तं सतां चरितं आचार इत्यर्थः । तत्किमाचार इत्यत आह सत्यमेवेति ।। ३५ ।। दोषैरेतैर्निवृत्तं यद्गुणैरेतैस्समन्वितम् । एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ।। ३६ ।। यन्मां पृच्छसि राजेन्द सङ्क्षेपात्प्रब्रवीमिते । एतत्पापहरं शुद्धं जन्ममृत्युभयापहम् ।। ३७ ।। इन्द्रियेभ्यश्च पञ्चभ्यो मनसश्चैव भारत । अतीतानागतेभ्यश्च मुक्तश्चेत्स सुखी भवेत् ।। ३८ ।। पूर्वोक्तैरनृतपैशुनादिभिर्दोषैर्गुणैर्दानादिभिः यदेतत्तपः । अतीतानि नष्टद्रव्यमुद्दिश्य क्रियमाणदुःखानि अनागतानि अनागत द्रव्यलाभाय क्रिमाणदुःखानि । तेभ्य इन्द्रियेभ्यः । मुक्तत्वं तदवशत्वम् ।। ३८ ।। धृतराष्ट्रः पृच्छति- आख्यानपञ्चकैर्वेदैर्भूयिष्ठः कथ्यते जनः । तथैवान्ये चतुर्वेदास्त्रिवेदाश्च तथापरे ।। ३९ ।। द्विवेदाश्चैकवेदाश्च अनृचश्च तथापरे । एतेषु मेऽधिकं ब्रूहि यमहं वेद ब्राह्मणम् ।। ४० ।। आख्यानानि इतिहासः पुराणः पञ्चमः पञ्चत्वसङ्ख्यापूरकः येषां ते तथोक्ताः । वेदैः पठितैः जनः भूयिष्ठः अधिक उत्तमः कथ्यते । अन्ये चतुर्वेदाः भूयिष्ठाः कथ्यन्ते । एवं त्रिवेदा द्विवेदा एकवेदाश्च भूयिष्ठाः कथ्यन्ते । अनृचः न विद्यन्ते ऋचः वेदाः येषां ते अनृचः । वेदापाठं त्यक्त्वा अपरे यतमः ध्यानादिपरायणा इत्यर्थः । एतेषु पञ्चवेदादिषु पञ्चमे अधिकं ब्रूहि अहं यः ब्राह्मणमधिकं वेद जानीयाम् ।। ४० ।। उत्तरमाह सनातनः - एकवेदस्य चाज्ञानाद्वेदास्ते बहवोऽभवन् । सत्यस्यैकस्य राजेन्द्र सत्ये कश्चिदवस्थितः ।। ४१ ।। वेद्यत इति वेदः नारायणः एकः मुख्यः सर्वोत्तमः । एकश्चासौ वेदश्च एकवेदस्तस्य । ते वेदा ऋगादयः बहवः पूज्या अभवत् । ‘बहुः पूज्ये तथादभ्रे’ इत्यभिधाननाममहोदधौ ।वेदशब्देन तत्पाठका लक्ष्यन्ते । वेदपाठकाः पूज्या आसन् । ब्रह्मज्ञानिनां तु वेदपाठकादपि ब्रह्मज्ञानी पूज्यः । ब्रह्मज्ञानिनमेव त्वमुत्तमं जानीहीति भावः । एकवेदः क इत्यत आह सत्यस्येति । एकस्य मुख्यस्य उत्तमज्ञानानन्दपूर्णस्य । ‘सत्यं ज्ञानमनन्तं ब्रह्मे’ति श्रुतेः । ज्ञानात्सर्वपूज्यो भवतीति शेषः । सत्यज्ञानी दुर्लभ इत्याह सत्ये कश्चिदवस्थितः । कश्चिन्मुख्यवायुः ।‘मारुते वेधसि ब्रध्ने पुंसि कः कं शिरेऽम्बुनो’रित्यभिधानम् । चिद्ज्ञानी, सत्ये ब्रह्मणि सम्यगवस्थितः । न तथान्ये सत्यज्ञाः । तस्मान्मुख्यप्राण एव ब्रह्मज्ञानिमुख्यः । अतः स एव पूज्यः । अन्येऽपि ब्रह्मज्ञानिनः तारतम्यानुसारेण पूज्या इत्याह ।। ४१ ।। य एव वेद तत्सत्यं प्राज्ञो भवति नित्यदा । ज्ञानमध्ययनं यज्ञो लोभादेव प्रवर्तते ।। ४२ ।। यः अन्यं तत्सत्यं एवं वायुवद्यथाधिकारं स प्राज्ञो भवति । पूज्यो भवतीत्यर्थः । सत्यात्प्रच्यवमानानामित्युत्तरत्र वर्तते । सत्यस्वरूपमजानतां लोभाद्दानादिकं स्वर्गादिलेभात्प्रवर्तते ।। ४२ ।। सत्यात्प्रच्यवमानानां सङ्कल्पो वितथो भवेत् । ततः कर्मव्रता ये तु सत्यस्यानवधारणात् ।। ४३ ।। सत्यात्प्रच्यवमानानां ब्रह्मज्ञानशून्यानां सङ्कल्पः चिन्तिताभीष्टः वितथो भवेत् । ब्रह्मस्वरूपं ज्ञात्वा ब्रह्मणि कर्मणामनर्पितत्वात् कर्मफलं स्वर्गादिकं च न स्यादित्यर्थः । ईषद्भक्तो भगवति सुकर्मा स्वर्गमेष्यति । अभक्तो नरकं याति सुकर्मापि न संशयः ।।’ इति वामने तृतीयस्क्धतात्पर्ये । ततस्तस्मात् सत्यस्यानवधारणात् कर्मव्रता येन संसारहेतुभूतं कर्म विस्तार्येत् । ब्रह्मज्ञानानभावे वेदानां बहुपाठकः पुनः पुनः संसार एव पतति । न मुक्तिः कदापि तस्य स्यात् । अतस्तदपेक्षया ज्ञानी उत्तम इति भावः । उपसंहरति - विद्याद्बहु पठन्तन्तं बहुवागिति ब्राह्मणम् । य एव सत्यान्नापैति स ज्ञेयो ब्राह्मणस्त्वया ।। ४४ ।। विद्यात् जानीयात् । बहुवेदान् पठन्तं तं बहुवागिति बहुवागिति बहुपाठीति । ब्राह्मणः ब्रह्मज्ञानी ब्राह्मणः त्वया वेदपाठकः उत्तमोज्ञेयः । छन्दांसि नाम द्विपदां वरिष्ठ स्वच्छन्दयोगेन भवन्ति तत्र । छन्दोविदस्तेन च तानधीत्य गता हि वेदस्य न वेद्यमार्याः ।। ४५ ।। हे दिवपदां वरिष्ठ स्वच्छन्दयोगेन स्वेच्छानुसारतः पठनेन छन्दांसि नाम इन्द्राग्न्यादीनां नामैव भवन्ति नामैव पठितानि भवन्तीत्यर्थः । तत्र न मुख्यार्थं, गुरुमुखाच्छ्रवणाभावे कोऽपि न जानातीति भावः । तेन अभ्यासेन तान् वेदानधीत्य वेद्यं वेदस्य मुख्यप्रतिपाद्यं न गताः नावगतवन्तः । आर्याः सत्कुलोत्पन्नत्वादिना श्रेष्ठाः छन्दोविदः वेदमात्रविदः ।। ४५ ।। इन्द्रादिनाम्नामपि विष्णुनामत्वमेवेत्याह- छन्दांसि नाम द्विपदां वरिष्ठ सुरैः पुरस्तदृषिभिर्गतानि । छन्दोविदस्तेन च तानधीत्य नामैव वेदस्य विदुर्न वेद्यम् ।। ४६ ।। हे द्विपदां वरिष्ठ छन्दांसि नामैव । वेदाक्षराणि यावन्ति पठितानि द्विजातिभिः । तावन्ति हरिनामानि कीर्तितानि न संशयः । इति वचनात् । छन्दासि भगवन्नामत्वेन पुरस्तात् स्वर्गे दैवैश्च ऋषिभिश्च गतानि ज्ञातानि निर्णीतानि । छन्दोविदस्तेनाभ्यासेन तानधीत्य वेदस्य नामैव विदुः न वेद्यम् ।। ४६ ।। न वेदानां वेदिताकश्चिदस्ति यो वेदवेद्यं न विदुर्न वेदम् । यो वेदवेदं न विदुर्न वेद्यां यो वेदवेद्यं न स वेद सत्यम् ।। ४७ ।। वेदानां सकाशाद्भगवतः साकल्येन वेदिता न कश्चिदस्ति । तथापि स्वस्वयोग्यतानुसारेण । वेदवेद्यं परमात्मानं ये न विदुः ते वेदं च न विदुः । ज्ञातोऽपि वेदः अर्थज्ञानाभावे अज्ञात एवेत्यर्थः । यः वेदं पाठमात्रेण वेद सः वेद्यं न वदे । सः वेद्यं च वेद सः सत्यं च न वेद । सत्यं ज्ञानं दुर्लभमित्यर्थः । ब्रह्मज्ञानसद्भावेऽपि सत्यभाषाणाभावे सति प्रतिबन्धके ज्ञानफलं न भवति । अतः पाण्डवान् प्रति सत्यं ब्रूहि । अतीतानागतवासान् ज्ञात्वापि अज्ञातवासो न गत इति यावत् । असितत्स्थानं वक्तव्यमिति भावः ।। ४७ ।। यो वेदवेदान्न स वेदवेद्यं न तं विदुर्वेदविदो न वेदाः । तथापि वेदेन विदन्ति वेद्यं ये ब्राह्मणा वेदविदो भवन्ति ।। ४८ ।। यः विद्वान् वेदान् उपक्रमादितात्पर्यलिङ्गैः सम्यगर्थवतः वेद सोऽपि वेद्यं साकल्येन वेद । कुत इत्यत आह न तं विदुरिति । वेदाः तं परमात्मानं साकल्येन न विदुः ‘यतो वाचो निवर्तन्ते’ इति श्रुतेः । उपसंहरति । अतः वेदविदः तं न विदुः साकल्येन ब्रह्माप्रतिपादकत्वेऽपि वेद्यं वेदेनैव विदन्ति । स्वस्वयोग्यतानुसारेण ब्रह्मज्ञानं वेदेनैव सम्पाद्यमिति भावः । ये ब्राह्मणा वेदविदो भवन्ति ते वेदेनैव विदन्तीत्यन्वयः ।। ४८ ।। वेदानां परमात्मप्रतिपादकत्वे धर्मादिप्रतिपत्तौ प्रमाणाभावात् धर्मादिज्ञानं केनेत्यत आह - धर्मांशभाजोऽस्य तथा हि वेदाः यथा च शाखाश्च महीरुहस्य । संवेदने चैवमथामनन्ति तस्मिन् हि नित्ये परमात्मनोऽर्थे ।। ४९ ।। महीरुहस्य वृक्षस्य शाखा यथा वेदवृक्षस्य शाखा ऋगाद्या वेदाः अस्य परमात्मनः अर्थे परमात्मप्रीत्यर्थ इति यावत् । सृष्टिस्थितिकालयोः धर्मांशभाजोऽपि भवन्ति । यज्ञादिधर्मम्प्रतिपादका अपि भवन्ति । क्वचित् ‘अजयात्मनानुचरतोऽनु चरेन्निगम’ इत्युक्तेः । अस्मिन्नेव नित्ये अस्य परमात्मनः संवेदने च सम्यक्पदम्वयेन वाक्यसमन्वयेन ज्ञापने च आमनन्ति । सृष्ट्यादि काले अमुख्यवृत्त्या धर्मादीन् प्रतिपादयन्ति । मुख्यवृत्त्या परमात्मानं प्रतिपादयन्ति । प्रलये तु केवलं परमात्मानमेव स्तुवन्ति । तदा धर्मादीनामभावात् नैरर्थक्यं प्रसज्येत इति सूचनाय नित्य इत्युक्तम् । तत्रापि प्रवचनं महाफलमित्याह - अभिजानामि ब्राह्मणमाख्यातारं विचक्षण । एवं यो हि विजानाति स जानाति परं हि तत् ।। ५० ।। आख्यातारं व्याख्यातारं ब्राह्मणमभिजानामि उत्तममिति शेषः । एवं वेदान् परब्रह्मपरत्वेन व्याख्यातुं यो विजानाति सः परं तद्ब्रह्म सम्यग्जानातीति ।। ५० ।। यश्छिन्नविचिकित्सः स्याच्छिनत्त्यपि च संशयान् । तस्याः पर्येषणं गच्छेत्प्रत्यर्थिषु कथञ्चन ।। ५१ ।। छिन्ना विचिकित्सा यस्य स छिन्नविचिकित्सः । ‘विचिकित्सा तु संशय’ इत्यमरः । यः परेषां संशयांश्छिनत्ति स व्याख्याता गुरुरुक्तः अस्याः एतादृशगुरुनिकटे अभ्यस्यमानाया विद्यायाः प्रत्यर्थिषु प्रतिबन्धकेषु विषयेषु कथञ्चनापि पर्येषणं इच्छां न गच्छेत् । न कुर्यात् । यद्वा ना पुरुषः प्रत्यर्थिषु प्रतिवाक्यं भगवानर्थो येषु तेषु ज्ञानिषु छिन्नविचिकित्सादिगुणयुक्तेषु कथञ्चन गुरुशुश्रूषणविद्यया धनेन वा अस्य परमात्मनः पर्येषणं श्रवण मननध्यानादिरूपं विचारं गच्छेत् ।। ५१ ।। अविचिन्वन्निमं वेदे न च पश्यति तं प्रभुम् । नास्य पर्येषणं गच्छेत्प्रतिपद्येच्छ साक्षिणम् ।। ५२ ।। इमं प्रभुं तं परमात्मानं वेदे अविचिन्वन् उपक्रमादिभिरविचारयन् न पश्यति अतः वा पुरुषः अस्य परमात्मनः पर्येणं श्रवणादिविचारं गच्छेत् कुर्यात् । ततः साक्षिणं सर्वसाक्षिणं परमात्मानं प्रतिपद्येत् सम्यग्जानाति ।। ५२ ।। अविचिन्वन्निमं वेदे ततः पश्यति तं प्रभुम् । अविचिन्वन् विषय सञ्चय मुकुर्वन् इमं परमात्मानं वेदे उपनिषत्सु पश्यति । शेषं पूर्ववत् ।। अविचिन्वन् कुतः पश्येदशक्तश्च कुतश्चन ।। ५३ ।। तूष्णीं भूत उपासीत न चेच्छेन्मनसा अभि । अभ्यावर्तेत ब्रह्मास्मै त्वन्तरात्मनि वै श्रुतम् ।। ५४ ।। कुतश्चनाप्यशक्तः कुत्रापि विषयेष्वप्यशक्तः सन् परमात्मानं वेदे अविचिन्वत् कुतः कारणात् पश्येत् । अत उपनिषत्सु परब्रह्मविचारः कर्तव्य इति भावः । तस्मात् सर्वविषयपरित्याग एव ज्ञानसाधनम् । तस्मात्तूष्णीं भूतः सर्वं परित्यज्य स्थितः मनसा अपि विषयान्न चेच्छेत् । सन्ध्यभावश्छान्दसः । अस्मै तूष्णीम्भूतोपासकाय ब्रह्म परं ब्रह्म अभ्यावर्तेत अभिमुखं भवेदित्यर्थः । अन्तरात्मनि हृदये श्रुतं गुरुमुखात् । यद्वा अन्तरात्मनि अन्तः आत्मा परमात्मा यस्य स तथा अपरोक्षज्ञानी परोक्षज्ञानी वा आगते सति अस्य हरेः श्रुतं वेदप्रतिपादितमाहात्म्यं बुध्द्वातन्मुखात् श्रवणेन ज्ञात्मवा अन्यद्वा तूष्णीं भूतः व्यर्थभाषणं त्वक्त्वा ब्रह्म परब्रह्म उपासीस अस्मै परोक्षज्ञानाय ब्रह्म वेदं ब्रह्मेत्यस्यावृत्तिः अभ्यावर्तते । आवृत्तिरसकृदुपदेशादिति सूत्रम् ।। ५४ ।। उक्तमनूद्य फलमाह- तूष्णीम्भूत उपासीत न चेच्छेन्मनसा अपि । अभ्यावर्तेत ब्रह्मास्मै बह्वनन्तरमाप्नुयात् ।। ५५ ।। अनन्तरं व्याप्तं बहुमानं आप्नुयात् मुक्तो भवति । शेष उक्तार्थः । मौनात्स मुनिर्भवति नारण्यवसनान्मुनिः । अक्षरं तत्तु यो वेद स मुनिश्रेष्ठ उच्यते । मौनात्पूर्वोक्तात्तूष्णीम्भावात् विषयवैराग्यादित्यर्थः । अक्षरं अविनाशि परब्रह्म ।। ५३ ।। सर्वार्थानां व्याकरणद्वैयाकरण उच्यते । तन्मूलतो व्याकरणं व्याकरोतीति तत्तथा ।। ५७ ।। सर्वार्थानां समस्तब्रह्मादिपदार्थानां व्याकरणात् विशेषेण सृष्टेः असौ परमात्मा वैयाकरण इत्युच्यते । ‘अनेन जीवेनात्मननानुप्रविश्य नारूपे व्याकरवाणि’ इति श्रुतेः । ननु जगतःब्रह्मादिभिः सृष्टत्वात् कथं परमात्मनः वैयाकरणत्वमित्यत आह तन्मूलतो व्याकरणम् । तत् परब्रह्म मूलतः व्याकरणं मूलकारणं ब्रह्मादि त्ववान्तरकारणम् । अथवा ब्रह्मादिभिर्व्याकरणं सृष्टिः तन्मूलतः तदनुग्रहतः । अतः स एव वैयाकरणः तत् ब्रह्म यथा स्थितं तथा व्याकरोतीति व्याकरणस्य व्याकरणत्वम् । अनेन व्याकरणस्य वेदाङ्गस्य कथं व्याकरणत्वमिति शङ्का परास्ता । प्रत्यक्षदर्शी लोकानां सर्वदर्शी भवेन्नरः । सत्ये वै ब्रह्मणस्तिष्ठन् तद्विद्वान् सर्वविद्भवेत् ।। ५८ ।। लोकानां भूरादीनां प्रत्यक्षदर्शी यः स सर्वदर्शी न भवेत् । ब्रह्मणः गुणपूर्णस्य परमात्मनः सत्ये अबाधिते रूपे तिष्ठन् परब्रह्मजानन्नित्यर्थः । तद्विद्वान् ब्रह्ममज्ञानी सर्वविद्भर्वत् । ‘स सर्वविद्भजति मां’ इत्युक्तं भगवता कृष्णेन ।। ५८ ।। ज्ञानादिषु स्थितोऽप्येवं क्षत्रिय ब्रह्म पश्यति । वेदानां चानुपूर्वेण चैतद्विद्वान् ब्रवीमि ते ।। ५९ ।। ज्ञानादिषु ज्ञानं च सत्यं च दमः श्रुतं चेत्याद्युक्तेषु द्वादशसु वेदानां चानुपूर्वेण उपक्रमादितात्पर्यलिङ्गेनाभिप्रायं बुद्ध्वा ज्ञानादिषु स्थितः एतद्विद्वानहं तुभ्यं ब्रवीमि ।। ५९ ।। इति सनत्सुजातीये पञ्चचत्वारिंशोऽध्यायः ।। सनत्सुजात यदिमां परार्थां ब्राह्मीं वाचं वदसि हि विश्वरूपाम् । परा च कार्येषु सुदुर्लभा कथा प्रब्रूहि मे वाक्यमेवं कुमारः ।। १ ।। सनत्सुजात सनातन यत् यस्मात् इमां परार्थां उत्कृष्टां ब्रह्मप्रतिपादिकां वाचं वदसि विश्वरूपां नानारूपां वदसि तस्मादेवं परा अन्यामपि कथा कार्येषु सुदुर्लभां कार्यवर्गेषु प्रपञ्चेषु सुदुर्लभां रहस्यां प्रतिवाक्यं प्रब्रूहि भूयोऽपि ब्रह्मणः स्वरूपं मे ब्रूहीत्यर्थः । कुत्सितः मारो येन सः कुमारः तस्य सम्बोधनं कुमारेति ।। १ ।। नैतद्ब्रह्म त्वरमाणेन लभ्यं यन्मां पृच्छस्यभिषङ्गेण राजन् । बुद्धौ प्रलीने मनसि प्रचिन्त्य विद्या हि सा ब्रह्मचर्येण लभ्या ।। अभिषङ्गेण स्नेहेन मनसि विषयेभ्यः परावृत्य बुद्धौ वैराग्याय निश्चितबुद्धौ प्रलीने सति सा विद्या चिन्त्या विचार्या ब्रह्मचर्येण लभ्या च वैराग्यब्रह्मचर्याद्यभावे ब्रह्मज्ञानं दुर्लभमिति भावः । आद्यां विद्यां वदसि हि सत्यरूपां या प्राप्यते ब्रह्मचर्येण सद्भिः । यां प्राप्यैतन्मर्त्यभावं त्यजन्ति या वै विद्या गुरुवृद्धेषु नित्या । आद्यां सर्वादिभूतब्रह्मणो विद्यां ब्रह्मविषयकविद्यामिति यावत् । सत्यं ब्रह्म रूप्यते विषयीक्रियते यया सा तां वदसि ह ब्रूहीति हेतो हर्षे । मर्त्यभावं संसारम् ।। ३ ।। ब्रह्मचर्येण या विद्या शक्त्या वेदितुमञ्जसा । तत्कथं ब्रह्मचर्यं स्यादेतद्विद्वन् ब्रवीमि मे ।। ४ ।। अर्थ सुबोधः । एवं पृष्टः प्राह सनातनः- आचार्ययोनिमिह ये प्रविश्य भूत्वागर्भं ब्रह्मचर्यं चरन्ति । इहैव ते शास्त्रकरा भवन्ति विहाय ते परमं यान्ति सत्यम् ।। ५ ।। अचार्ययोनिं प्रविश्य आचार्यसमीपं गत्वेत्यर्थः । भूत्वागर्भं तच्छिष्यो भूत्वा ब्रह्मचर्यं गुरुशुश्रूषादिकं कुर्वन्ति इहैवास्मिन् लोके शास्त्रकराः शास्त्रकर्तारः पण्डिताः भवन्ति विहाय देहमिति शेषः । सत्यं ब्रह्मा ।। ५ ।। ये तस्मिन् लोके विजयन्तीह कामान् ब्राह्मीं स्थितिं तामनुतिष्ठमानाः । ते तमात्मानं निर्वहन्तीह देहान्मुञ्जादिषीकादिव धीरभावात् ।। ये अधिकारिणः अस्मिन् लोके कामान् विजयन्ति गुरुकुले वसन्ति तां गुरुपदिष्टां ब्राह्मीं स्थितिं मनोनिवेशलक्षणां अनुतिष्ठमानाः कुर्वाणाः ते तमात्मानं परमात्मानं देहात् देहं हृदयमधिकृत्य वर्तमानम् । ल्यब्लोपनिमित्ता पञ्चमी । हृदयकमलकर्णिकायां स्थितं अङ्गुष्ठमात्र मुञ्जात् तृणविशेषात् इषक्षकामिव अन्तस्थं गर्भतृणमिव निष्कृष्य जीवजगद्भिन्नं निर्वहन्ति जानन्ति धीरभावाद्धैर्येण । तथा च श्रुतिः ‘अङ्गुष्ठमात्रं प्रवहे मुञ्जादिषीकाद्धैर्येण तं विन्द्याच्छुक्रममृत’मिति ।। ६ ।। आचार्ययेनिमिह ये इत्यनेन आचार्यस्य योनित्वमुक्तं तत्कथं मातापितृव्यतिरेकेण आचार्यस्य योनित्वमित्यत आह- शरीरमेतौ कुरुतः पिता माता च भारत । आचार्यतस्तु यज्जन्म तत्सत्यं वै तथामृतम् ।। ७ ।। शरीरमेवास्यैतौ मातापितरौ कुरुतः आत्मानं स्वरूपेण जनयतः यन्मातापितृभ्यां जन्मतदसत्यम् । आचार्यतस्तु यज्जन्म ज्ञानद्वारा स्वरूपाविर्भावलीरजन्म तत्सत्यं कुत इत्यत आह अमृतमिति तथा तदमृतं मरणरहितं मुक्तिरित्यर्थः । तथा तस्मादिति वा । आचार्य एव माता पितेत्यर्थः । तथा च षट्प्रश्नोपनिषदि ‘त्वं हि नः पिता योऽस्माकमविद्यायाः परं पारं तारयसी’ति । तथा च ह्यापस्तम्ब - ‘स हि विद्यातस्तं जनयति तच्छ्रेष्ठं जन्मशरीरमेव मातापितरौ जनयत’ इति ।। ७ ।। य आस्तृणोत्यवितथेन कर्मणा दुःखं विवर्धन्नमृतं सम्प्रयच्छन् । तं मन्ये पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य यो गुरुः ।। ८ ।। अवितथेन कर्मणां शुश्रूषया परितुष्टः दुखं सांसारिकं वर्धयन् छेदयन् ‘वर्धनं छेदनं मत’मिति नानार्थमञ्जरी । शेषं पूर्ववत् । अस्य अनेन गुरुणा कृतमुपकारम् ।। ८ ।। गुरं शिष्यो नित्यमभिवादयीत स्वाध्यायमिच्छेत सदाप्रमत्तः । भानान्न माद्येन्नदधीत रोषमेष प्रथमो ब्रह्मचर्यस्य पादः ।। ९ ।। स्वाध्यायमिच्छेत श्रवणादिपरो भवेत् । मानात् कदाचित् तुष्टगुरुबहुमानात् न माद्येत् मदं न प्राप्नुयात् । गुरुकृतशिक्षशतः शेषं न दधीत न धारयेत् ।। ९ ।। प्रकारान्तरेण ब्रह्मचर्यस्य प्रतमपादमाह- शिष्यवृत्तिक्रमेणैव विद्यामाप्नोति यच्छुचिः । ब्रह्मचर्यव्रतस्यास्य प्रर्थमः पाद उच्यते ।। १० ।। शिष्यवृत्तिक्रमेणैव आचार्ययोनिमिहेत्यादिनोक्तक्रमेण विद्यामाप्नोतीति यत् तद्ब्रह्यचर्यस्य प्रथमः पाद उच्यते ।। १० ।। यथा नित्यं गुरौ वृत्तिर्गुरुपत्न््नयां तथाचरेत् । तत्पुत्रे च तथा कुर्वन् द्वितीयः पाद उच्यते ।। ११ ।। तथाचोक्तमापस्तम्बेन ‘आचार्यदारेषु वृत्तिः, आचार्यवदाचार्य पुत्रेषु वृत्ति’रिति ।। ११ ।। अमायया गुरौ वृत्तिर्गुरुपत्न््नयां तथाचरेत् । यथोक्तकारी प्रियकृद्द्वितीयः पाद उच्यते ।। १२ ।। स्पष्टार्थोऽयं श्लोकः ।। १२ ।। ये आचार्येणात्मकृतं विजानन् ज्ञात्वा चार्थं भावितोऽस्मीत्यनेन । यन्मन्यते तं प्रतिहृष्टबुद्धिः स वअ तृतीयो ब्रह्मचर्यस्य पादः ।। १३ ।। आचार्येणात्मनः कृतमुपकारं जानन् ज्ञात्वाचार्थं वेदार्थपरं ब्रह्म ज्ञात्वा अवगम्य अनेन गुरुणा भावितोऽस्मि स्वरूपानन्दाविर्भावलक्षणमोक्षस्य प्राप्तास्मि इति तं प्रति गुरुं प्रति हृष्टबुद्धिः यन्मन्यते आत्मनः कृतार्थत्वं मन्यते स वै तृतीयो ब्रह्मचर्यस्य पादः ।। १३ ।। नाचार्याय कृतमित्यभिमानात्प्राज्ञो मन्येन्नैतदहं करोमि । अतीव कुर्वीत न भावयेत स वै चतुर्थो ब्रह्मचर्यस्य पादः ।। १४ ।। प्राज्ञः पुरुषः आचार्याय मयेदं कृतमिति प्रयोजनं अभिमानान्न मन्येत् । पुनस्सेवामतीव कुर्वीत । परं तु न भावयेन् अहङ्कारं न कुर्यात् । शेषः सुबोधः ।। १४ ।। आचार्याय प्रियं कुर्यात्प्राणैरपि धनैरपि । कर्मणा मनसा वाचा चतुर्थः पाद उच्यते ।। १५ ।। सुबोधोऽयं श्लोकः । विद्याप्राप्ति प्रकारमाह- कालेन पादं लभते तथायं तथा च पादं गुरुयोगतश्च । उत्साहयोगेन च पादमृच्छेच्छास्त्रेण पादं च तथाभियाति ।। १६ ।। कालेन स्वतो बुद्ध्या इत्यर्थः । गुरुयोगतः श्रवणादित्यर्थः । उत्साहयोगेन अभ्यासेन ऋच्छेत् प्राप्नोति । शास्त्रेण प्रवचनेनेत्यर्थः ।। १६ ।। एवं वसन्तं यदुपप्लवेद्धनं आचार्याय तदनुप्रयच्छेत् । सतां वृत्तिं बहुगुणामेवमेति गुरोः पुत्रे भवति च वृत्तिरेषा ।। १७ ।। एवं धर्मेण वसन्तं यद्धनमुपप्लवेत् उपपन्नतया प्राप्नोति आचार्याय गुरवे तदनुप्रयच्छेत् । एवं चेत्सतां वृत्तिं बहुगुणामधिकामिति । शेष सुबोधः । आचर्यया तदनुप्रयच्छेदिति पाठे सम्यक् चर्यया गुरुसपर्ययेत्यर्थः ।। १७ ।। एवं वसन् सर्वतो वर्धते च बहून् पुत्रान् लभते च प्रतिष्ठाम् । प्राप्य प्रतिष्ठेत्प्रदिशो दिशश्च धीरस्ततो ब्रह्मचर्य चरते ।। १८ ।। प्रतिष्ठां प्राप्य प्रदिशः दिशश्च प्रतिष्ठेत् । प्रदिशः दिशश्च प्रकाशात् प्रतिष्ठां लभेत धीरस्ततः कारणात् ब्रह्मचर्यस्य सर्वपुरुषार्थमूलत्वात् ब्रह्मचर्यं चरेत् ।। १८ ।। ज्ञानादयो द्वादश यस्य रूपं अन्यानि चाङ्गानि तथा बलं च । आचार्यंयोगे फलतीति चाहुः ब्रह्मार्थयोगेन च ब्रह्मचर्यम् ।। १९ ।। ज्ञानादयः ज्ञानं चेत्यादिना पूर्वोक्ता द्वादशगुणाः यस्य पुरुषस्य रूपं अन्यानि चाङ्गानि ‘श्रेयास्तु षड्विधत्यागः सत्यं ध्यान’मिति श्लोकद्वयोक्तानि । बलं तद्धर्मप्रतिपादनसामर्थ्यं च देवताबलं युक्तिबलं च सर्वमाचार्ययोग एव ब्रह्मार्तयोग एव ब्रह्मार्थयोगेन परब्रह्मार्तयोगेन परब्रह्मार्थज्ञानेन ब्रह्मचर्यं फलतीत्याहुः । श्रूयते च ‘आचार्यवान् पुरुषो वेदे’ति ।। १९ ।। ब्रह्मचर्यस्तुतिं करोति- एतेन ब्रह्मचर्येण देवा देवत्पवमाप्नुवन् । ऋषयश्च महाभागाः ब्रह्मचर्यान्मनीषिणः ।। २० ।। एतेन ब्रह्मचर्यादिना मनीषिणः सन्तः ऋषित्वमाप्नुवन् ।। एतेनैव सगन्धर्वा रूपमप्सरसोऽजयन् । एतेन ब्रह्मचर्येण सूर्ये अह्नाय जायते ।। २१ ।। स गन्धर्वा अप्सरसः रूपं सौन्दर्यमजयन् जि प्राप्ताविति धातोः प्राप्नुवन् । अह्नाय जगतां द्योतनाय । अव्ययानामनेकार्थत्वात् । य आशंसेत्तक्षयंश्चापि राजन् सर्वं शरीरं तपसा तप्यमानः । एतेनैव बाल्यमत्येति विद्वान् मृत्युं तथा रन्धयत्यन्तकाले ।। २२ ।। यः सर्वं शरीरं तपसा तप्यमानः तापयानः तक्षयन् तक्षतनूकरणे इति धातोः । तनूकुर्वन् सन् आशंसेत्तत्फलमाशंसेत् तत्तत्फलं एतेनैव लभते ब्रह्मचर्येणैव लभते । विद्वान् एतेनैव ब्रह्मचर्येण बाल्यमज्ञत्वं अत्येति अतिक्रामति । ज्ञानी भवतीत्यर्थः । अन्तकाले प्राप्तं मृत्युं च रन्धयति दीपयति । रन्धिदीप्ताविति धातोः ।। २२ ।। आकाङ्क्षार्तस्य सम्योगाद्रसभेदार्थिनामिव । एवं ह्येतत्समाज्ञाय तादृग्भावं गता इमे ।। २३ ।। यथा चिन्तामण्यादयः रसभेदार्थितामिव आकाङ्क्षार्थस्य सम्योगात् तत्तदाकाङ्क्षितं प्रयच्यन्ति । समाज्ञाय ज्ञात्वा आकाङ्क्षितपदार्थं ब्रह्मचर्यं चरित्वा तादृशभावं गताश्चेमे देवादयः यस्मादाचार्यसन्निध्यनुष्ठितात् ब्रह्मचर्यात् परमपुरुषार्थप्राप्तिः तस्मादाचार्ययोनिं प्रविश्य शिष्यो भूत्वा ब्रह्मचर्यं चरेदित्यर्थः । अन्तवन्तः क्षत्रिय ते जयन्ति लोकान् जनाः कर्मणा निर्मितेन । ज्ञानेन विद्वान् तेज अभ्येति नित्यं न विद्यते ह्यन्यथा तस्य पन्थाः । हे क्षत्रिया धृतराष्ट्र ते जनाः ब्रह्मचर्याद्यनुष्ठातारः अन्तवन्तः निश्चयवन्तः न तु सन्दिग्धाः । कर्मणा निर्मितेन लोकान् वैकुण्ठादीन् जयन्ति प्राप्नुवन्ति । अतः विद्वानेवं नित्यं तेजः तेजोमयं ब्रह्म अभ्येति । अन्यथा ज्ञानेन विना तस्य ब्रह्मप्रप्तिलक्षणमोक्षस्य पन्थाः मार्गः न विद्यते । श्रूयते च तमेवं विद्वानतिमृत्युयेति नान्यः पन्था विद्यतेऽयानय इति ।। २४ ।। ज्ञानेन विद्वान् यद्ब्रह्म पश्यति तत्किमिवाभाति इति पृच्छति धृतराष्टः - आभाति शुक्लमिव लोहितमिवाथो कृष्णमर्जुनं काद्रवं वा । यद्ब्रह्मणः पश्यति यत्र विद्वान् कथं रूपं तदमृतमक्षरं परम् ।। २५ ।। यद्ब्रह्म विद्वान् पश्यति तत्किं शुक्लमिवाभाति लोहितमिवाभाति अर्जुनं धवलवर्णं ‘वलक्षो धवलोऽर्जुन’ इत्यमरः । काद्रवं चित्रवर्णम् । यत्र देशे भवति कथं रूपं तदमृतमक्षरं परम् ।। २५ ।। एवं पृष्टः प्राह सनातनः - आभाति शुक्लमिव लोहितमिवाथो कृष्णमर्जुनं काद्रवं वा । न पृथिव्यां तिष्ठति नान्तरिक्षे नैतत्समुद्रे सलिलं बिभर्ति ।। २६ ।। अप्राकृतत्वेन अनन्तसूर्यप्रतिमत्वेन च प्राकृतादिरूपतो विलक्षणं तद्रूपं स्वतन्त्रतया अन्याधीनानपेक्षत्वात् न कुत्रापि तत्तिष्ठतीत्याह नाभातीत्यतादिना । प्राकृतशुक्लमिव लोहितमिव नाभाति । अप्राकृत्वात्तद्रूपस्य प्राकृतं रूपं दृष्टान्ततया नास्ति । तद्ब्रह्मरूपं पृथिव्यां न तिष्ठति नैतत्समुद्रे तिष्ठति । पृथिव्यादिकं ब्रह्मणः आश्रयं च न भवति । तथा च श्रुतिः ‘स भगवः कस्मिन् प्रतिष्ठित इति स्वे महिमि्न’ इति कस्मात् कारणात् पृथिव्यादिषु न तिष्ठति इति तत्राह नैतत्सलिलं विभर्तीति । एतद्ब्रह्म सलिलं पञ्चभूतात्मकं देहं न बिभर्ति । सलिलशब्दोऽत्र भूतपञ्चकोपलक्षणार्थः । श्रूयते च ‘इति तु पञ्चम्यामाहुता वा आपः पुरुषवचसो भवन्ती’ति ।। २६ ।। न तारकासु न च विद्युदाश्रितं न चाभ्रेषु दृश्यते रपूमस्य । न चापि वायौ न च देवतासु न चन्द्रे वा दृश्यते नोत सूर्ये ।। तारकासु अस्य ब्रह्मणं रूपं न तद्रूपं न विद्युदाश्रितं न अभ्रेषु मेघेषु । मेघश्याम इत्यादिकं बुद्ध्यारोहार्थमुच्यते । न चापि वायौ । पञ्चीकरणविवक्षया वायौ रूपमस्ति वायौ देवे वा । शेषः सुबोधः ।। २७ ।। नैवर्क्षु तन्न यजुस्स्वथर्वसु न चापि दृश्यत्यमलेषु सामसु । रथन्तरे बार्हते चापि राजन् महाव्रतस्यात्मनि दृश्यते तत् ।। २८ ।। तद्ब्रह्मणः रूपं स्वरूपं नीलपीतादिकं च ऋक्षु ऋग्वेदेषु न दृश्यते स्वरूपं साकल्येन न दृश्यते । नीलपीतादिकं चाप्राकृतं प्राकृतरूपवन्न दृश्यते । वेदोक्तं न दूश्यत इत्यर्थः । रथन्तरे सामविशेषे । तथा बार्हते सामविशेषे । दृश्यतीति छान्दसः प्रयोगः । तदेव ब्रह्मरूपं महाव्रतस्यात्मनि हृदये दृश्यते । ज्ञानं च सत्यं चेत्युपक्रम्य महाव्रता द्वादश ब्राह्मणस्येति ये गुणाः उक्ताः तत्सम्युक्तस्य ।। २८ ।। आवरणीयं तमसः परस्तात्तदन्तकोऽन्वेति विनाशकाले । आणीयरूपं च तथाप्यणीयसां महच्च रूपं तदु पर्वतेभ्यः ।। २९ ।। तद्ब्रह्म अवारणीयं व्याप्तं तमसः तमोभिमानिन्याः दुर्गात्मिकायाः श्रियः परस्तात् उत्तमं तद्ब्रह्म अन्तकः अन्ते पृथिव्यादितत्वानामन्ते अवसाने विद्यमाने कः महत्तत्त्वाभिमानी ब्रह्मा विनाशकाले प्रलये अन्वेति । अणीयरूपं चेत्यादि स्पष्टार्थम् । तथाहि श्रुतिः ‘अणोरणीयान्महतो महीया’निति ।। २९ ।। सा प्रतिष्ठा तदमृतं लोकास्तद्ब्रह्म तद्यशः । भूतानि जज्ञिरे तस्मान्प्रलयं यान्ति तत्र च ।। ३० ।। तद्ब्रह्म जगतः प्रतिष्ठा प्रसिद्धा श्रेयः सा तद्ब्रह्मेति वा । प्रतिष्ठाशब्दस्य स्त्रीलिङ्गत्वात् सेत्युक्तम् । लोकाः तत् तदधीनाः तद्व्याप्ताः । भूतानि पञ्चमहाभूतानि प्राणिनो वा ।। ३० ।। अनामयं तत्स्वयमुद्यतं यशः वाचो विकारात्कवयो वदन्ति । अस्मिन् जगत्सर्वमिदं प्रतिष्ठितं य एतद्विदुरमृतास्ते भवन्ति ।। अनामयं निर्दुष्टम् । स्वयमुद्यतं स्वातन्त्र्येण जगत्सृष्ट्यादौ उद्युक्तं यशः यशोरूपम् । तद्ब्रह्म कवयो ज्ञानिनः वाचरोविकारात् शास्त्रात् शास्त्रमनुसृत्य वदन्ति । ल्यब्लोपनिमित्ता पञ्चमो । अमृता मुक्ताः । तदेतदह्ना संस्थितं भाति सर्वं यदात्मना वित् पश्यति ज्ञान योगात् । तस्मिन् जगत्सर्वमिदं प्रतिष्ठितं तदेवं विदुरमृतास्ते भवन्ति ।। तदेतद्ब्रह्म अह्ना प्रकाशरूपेण सूर्ये संस्थितं सत् भाति । शेषः सुबोधः ।। ३२ ।। इति षट्चत्वारिंशोऽघ्यायः ।। एवं क्रोधादयो दोषस्त्याज्या इत्युक्तम् । तत्रावश्यकद्योतनार्थं पुनरप्याह - शोकः क्रोधश्च दम्भश्च कामो लोभः परासुता । ईर्षा मोहो विवित्सा चाकृपासूयाजुगुप्सता ।। १ ।। द्वादशैते महादोषाः मनुष्यप्राणनाशनाः । एकैकमेते राजेन्द्र मनुष्यं पुर्युपासते ।। २ ।। शोकः विषयालाभजं दुःखम् । क्रोधः स्पष्टः । दम्भः अविद्यमानमाहात्म्यप्रकटनम् । कामः विषयेच्छा । लोभः विषयेषु स्नेहः । परासुता परद्रव्यापहारेच्छा । ईर्षा पराभ्युदायासहिष्णुता । विवित्सा परगुह्यं वेत्तुमिच्छा । अविवित्सेति वा पदम् । धर्माधर्मस्वरूपं ब्रह्मस्वरूपं वा वेत्तुमिच्छाभावः । बहुविधविषयभोगे रसविशेषं वेत्तुमिच्छा वा । असूया गुणवत्सु द्वेषः । अजुगुप्सता निन्दितकरणे मनसो हेयताभावः । एतेषु एकैकं वा मनुष्यं पर्युपासते । आश्रयन्ते । तदा मनुष्यप्राणनाशना भवेयुः ।। २ ।। सद्वासद्वा परिवादो ब्राह्मणे न प्रशस्यते । नरकप्रतिष्ठास्ते च स्युर्य एवं कुर्वते नराः ।। ३ ।। सद्वा असद्वा सत्यो वा मिथ्या वा परीवादः अपवादः । ये नरा एवं कुर्वते अपवादप्रापकं कर्म कुर्वते ते नरकप्रतिष्ठा भवन्ति । तस्माद्येनापवादः स्यात्तं न कुर्यादित्यर्थः ।। ३ ।। मनुष्यैर्मदा न कार्य इत्याह - मदोऽष्टादशदोषः स्याल्लोमशेन प्रकीर्तिताः । लोकद्वेषं प्रातिकूल्यं अभ्यसूयां मूषावचः ।। ४ ।। कामक्रोधौ पराधीन्यं परिवादोऽथ पैशुनम् । अर्थहानिर्विवित्सा च मात्सर्यं प्राणिपीडनम् ।। ५ ।। ईर्षा मोहोऽभिमानश्च सञ्ज्ञानाशोऽप्यनार्यता । तस्मात्प्राज्ञो न माद्येत सतामेताद्विगर्हितम् ।। ६ ।। अष्टादश दोषाः यस्मिन् सः अष्टादशदोषः । लोकद्वेष्यं लोकद्वेषित्वम् । प्रातिकूल्यं धर्मस्य । अभ्यसूया व्याख्यातमेतत् । पराधीन्यं पराधीनत्वं जगवत् सञ्ज्ञानाशः स्मृतिनाशः । एतन्मदकारणम् ।। ६ ।। प्रसङ्गात्सौहृदलक्षणमाह- सौहृदे वै षड्गुणा वेदितव्याः प्रिये प्रहृष्यन्त्यप्रिये च व्याथन्ते । स्यादात्मन समता याचितौ यो ददात्ययाच्यमपि देयं खलु स्यात् ।। इष्टापूर्तं स्वां स्वदारानपत्यं अभ्यार्थितश्चारुहते शुद्धभावः । त्यक्तद्रव्यैः संवदते न कामाद्युङ्क्ते कर्म स्वाशिषं बाधते च ।। ८ ।। द्रव्यवान् गुणवान् यश्च त्यागी भवति तादृशः । एतत्समृद्धमत्यृद्धं तपो भवति केवलम् ।। ९ ।। समृद्धं द्रव्यं प्रात्रे त्यक्तं चेदत्यृद्धं भवति । नो चेन्नष्टप्रायमिति भावः ।। ९ ।। एतद्दानमेव तपो भवति । सत्यात्प्रच्यवमानानां सङ्कल्पो न समाहितः । ततो यज्ञः प्रवर्तेत सत्यस्यानवधारणात् ।। १० ।। न समाहितः वितथः व्यर्थः । पूर्वं ख्याख्यातोऽयं श्लोकः ।। १० ।। दुरात्मना स्थितिमाह - मनसान्यस्य भवति वाचान्यस्याथ कर्मणा । सङ्कल्पसिद्धं पुरुमसङ्कल्पोऽधितिष्ठति ।। ११ ।। मनसान्यस्य कार्यस्य चिन्तको भवति । वाचान्यद्वदति कर्मणा न्यत्करोति । तस्मान्मनोवाक्कायकर्मणामैकरूप्याभावादसङ्कल्पो भवति सङ्कल्पसिद्धो न भवति । तथापि सङ्कल्पसिद्धं पुरुषमधितिष्ठति अधिकतया तिष्ठति । अहमेव कुशल इति मन्यत इत्यर्थः । ब्राह्मणस्य अत्यावश्यकं धर्ममाह- ब्राह्मणस्य विशेषेण किं चान्यदपि मे शृणु ।। १२ ।। अध्यापयति महदेतद्यशस्यं वाचो विकारं कवयो वदन्ति । अस्मिन्योगे सर्वमिदं प्रतिष्ठितं य एतद्विदुरमृतास्ते भवन्ति ।। वाचोविकारं अध्यात्मशास्त्रं अध्यापयीत प्रवचनं कुर्यात् । एतत् प्रवचनं महन्मोक्षादिफलदं यशस्यं इहामुत्र कीर्तिदम् । अस्मिन्योगे प्रवचनोपाये सर्वं मोक्षोपायजातं प्रतिष्ठितं अन्तर्गतम् । तथा च श्रुतिः ‘स्वाध्याय प्रवचन एवेति नाको मौद्गल्यः, तद्धि तपस्तद्धितपः’ इति । शेषः सुबोधः ।। १३ ।। न कर्मणा सुकृतेनेह राजन् सत्यं वदेज्जुहायाद्वा यजेद्वा । नैतेन बालो मृत्युमत्येति राजन् धृतिं चासौ न लभत्यन्तकाले ।। यः सत्यं न वदेत् सुकृतेन कर्मणा । तदेवाह जुहुयादिति । एतेन सुकृतेन कर्मणा बाल अज्ञानी मृत्युं नात्येति नातिक्रामति । अन्तकाले अधैर्यबुद्धेरिति शेषः ।। १४ ।। तूष्णीमेक उपासीत न चेच्छेन्मनसा अपि । समः संस्तुतिनिन्दाभ्यां प्रीतिर्द्वेष्यैर्विवर्जयेत् ।। १५ ।। तूष्णी असत्प्रलापं विना । एकः दुस्सङ्गरहितः । न चेच्छेद्दुविषयान् ।। अत्रैव तिष्ठन् वसतौ क्षत्रिय ब्रह्म पश्यते । वेदेषु चानुपूर्व्येण चैतद्विद्वान् ब्रवोमि ते ।। १६ ।। अत्रैव वसतो गृहस्थाश्रमे । वेदेषु विचार्यं ।। १६ ।। इति सनत्सुजातीये सप्तचत्वारिंशोऽध्यायः ।। अवारणीयं तमसः परस्तादित्यादिना परमात्मस्वरूपमुक्त्वा तदात्मवित् पश्यति ज्ञानयोगादिति ज्ञानयोगेन परमात्ममदर्शनमुक्तम् । पुनरपि तस्य स्वरूपं दर्शयित्वा योगिनस्तं प्रपश्यन्तीत्याह - यत्तच्छुक्रं महज्ज्योतिर्दीप्यमानं महद्यशः । यद्वै देवा उपासते यस्मादर्को विरोजते ।। १ ।। योगिनस्तं प्रपश्यन्ति भगवन्तं सन्तनम् । यत् परमात्मनो रूपं शोकरहितं शुक्रम् । ‘शुक्रं तच्छोकराहित्या’दिति ईशावास्यभाष्यम् । महज्ज्योतिः सर्वावभासकत्वात् । तथा च श्रुतिः ‘तस्य भासा सर्वमिदं विभाती’ति अत एव दीप्यमानं भ्राजमानं महद्यशः ‘तस्य नाम महद्यश’ इति श्रुतेः । तत्परमात्मनो रूपमुपासते ‘तं देवाः ज्योतिषां ज्योतिरायुर्होपासतेऽमृत’मिति श्रुतिः । यस्माज्ज्योतिषः परमात्मनः अर्को विराजते ‘येन सूर्यस्तपति तेजसेद्ध’ इति श्रुतेः । ‘यदादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामक’मिति भगवद्वचनात् । एवम्भूतं परमात्मानं भगवन्तं सनातनं योगिनः पश्यन्ति न पुनर्ज्ञानयोगरहिता इत्यर्थः ।। १ ।। इदानीं परमात्मन एव चतुर्मुखस्योत्पत्ति दर्शयति - शुक्राद्ब्रह्म प्रभवति ब्रह्म शुक्रेण वर्धते । तच्छुक्रं ज्योतिषां मध्ये तत्सम्भवति तापनम् ।। २ ।। योगिनस्तं प्रपश्यन्ति………..। शुक्रात्पूर्वोक्तात्परमात्मनः सकाशात् ब्रह्म चतुर्मुकः प्रभवति उध्यद्यते । ‘तस्मादेतद्ब्रह्म नाम रूपमन्नं च जायते’ इत्यत्र ‘एतद्ब्रह्मचतुर्मुखः’ इत्यथर्वणभाष्ये व्याख्यातत्वात् नपुंसकलिङ्गब्रह्मशब्दवाच्यत्वं चतुर्मुखस्याप्यस्तीति ज्ञायते । तस्य वृद्धिकरः अनय्नास्तीत्याह ब्रह्म चतुर्मुखः तस्माज्जः तेनैव शुक्रेण तदनुग्रहात् वर्धते । तच्छुक्रं ज्योतिषां मध्ये आदित्यानां मध्ये स्थितः सन् तैरादित्यादिभिः अतप्तं अप्रकाशितं सत् स्वयमेव प्रकाशितं भवति प्रत्युत तेषामेव तापनं प्रकाशनं येनेत्याह तापनमिति । तेषामपि तापनं प्रकाशकं भवति । स्वयमन्यानभासः । सर्वावभासकश्चेत्यर्थः ।। २ ।। पूर्णात्पूर्णमुद्धरति पूर्णात्पूर्णं प्रचक्षते । हरति पूर्णात्पूर्णं च पूर्णमेवावशिष्यते ।। ३ ।। योगिनस्तं पूर्णान्मूलरूपात् पूर्णं तदभिन्नमेव रूपं अवताररूपमुद्धरति । पूर्णान्मूलरूपस्य देशतः कालतः वस्तुतश्च पूर्णत्वात् अवताररूपं पूर्णमाचक्षते विद्वांसः । पूर्णान्मूलरूपादेव पूर्णमवताररूपं हरति उपसंहरति । एकीभूतं करोति । प्रलये पूर्णमेव मूलरूपमेवावशिष्यते । प्रकाशते नावताररूपम् ।। ३ ।। आपोऽथाभ्द्यः सलिलस्य मध्ये उभौ देवी शिश्रियातेऽन्तरिक्षे । स सघ्रीचीः स विषूचीर्वसान उभौ बिभर्ति पृथिवीं दिवं च ।। स परमात्मा अथ तेजस्सृष्ट्यनन्तरं अपः ससर्जेति शेषः । अद्भ्यः तदुपलक्षित पञ्चभूतेभ्यः सलिलं सलिलोपलक्षित पञ्चभूतात्मकं देहं ससर्ज । तस्य सलिलस्य मध्ये देहमध्ये अन्तरिक्षे हृदयाकाशे उभौ देवौ आत्मान्तरात्मनौ शिश्रियाते आश्रित्य वर्तेते । ‘आत्मान्तरात्मेति हरिरेक एव द्विधास्थितः । निविष्टो हृदये नित्यं रसं पिबति कर्मज ।।’ मित्युक्तेः । ससध्रीचीः समीचीनतासहिताः कर्मफलभूताः । कर्मजं शुभमिति यावत् । विषूचीः वायुना अर्पिता ‘विषूचीः स तु विज्ञेयः यस्तिर्यग्जातिमान्नरै’रिति व्यासनिघण्टुः । तेनार्पिता विषूचीः ‘तस्मिन्नपोमातरिश्वा दधाती’ति श्रुतेः । वसानः आच्छादकः भक्षयितेत्यर्थः । द्विरूपी परमात्मा पृथिवीं दिवं चैतौ बिभर्ति । इदमुपलक्षणम् । सर्वाधार इत्यर्थः । उभौ देवौ द्योतमानौ जीवेशौ । असमीचीनतया सहिताः कर्मफानि ससध्रीचीः कृत्वा स्वादुतया कृत्वेति यावत् । ‘द्वा सुपर्णे’त्यादिश्रुतेः । वसानः स्वीकुर्वाणः । उभौ उभयोः तयोरेकं पृथिवीं पार्थिवंशरीरं बिभर्ति । अन्यः परमात्मा दिवं प्रकाशमानं स्वप्रकाशचिदानन्दरूपं बिभर्ति ।। ४ ।। न सन्दृशे तिष्ठति रूपमस्य नचक्षुषा पश्यति कश्चनैनम् । मनीषयाथो मनसा हृदा च य एनं विदुरमृतास्ते भवन्ति ।। ५ ।। मनीषया निश्चयरूपया । मनसा अन्तःकरणेन हृदा भक्त्या च । हृदा स्नेहेनेति व्याख्यातं ‘हृदा य आदिकवये’ इत्यत्र । शेषः सुबोधः ।। ५ ।। चक्रेणावृत्य तिष्ठन्तं ध्रुवस्याव्ययकर्मणः । केतुमन्तं वहन्त्यश्वाः तं दिव्यमजरामरम् ।। ६ ।। योगि अव्ययकर्मणः अव्ययः नारायणः तस्मिन्नर्पितकर्मणः ध्रुवस्य ध्रुवमेडलस्य सम्बन्दिना चक्रेण ज्योतिश्चक्रेणावृत्य ग्रहनीत्रादीन् परितो भ्रमयित्वा तिष्ठन्तं केतुमन्तं ध्वजसहितं सूर्यरथनियामकं परमात्मानमश्वाः सप्ताश्वाः वहन्ति । शेषः सुबोधः ।। ६ ।। उभौ दिव्यौ पृथिवीं दिवं च दिशश्च शुक्रं भुवनं विभर्ति । तस्माद्दिशः सरितश्च स्रवन्ति तस्मात्समुदा विहिता महान्तः योगि ।। शुक्रं शोकरहितं परं ब्रह्म उभे देव्यौ ते के इत्यत आह पृथिवीं दिवं चेति । किं बहुना समस्तं भुवनं च बिभर्ति । तस्मादेव ब्रह्मणः दिशो जाताः सरितः गङ्गादिनद्यः समुद्रा विहिताः कृताः ।। ७ ।। द्वादशपूगाः सरितो देवनद्यः रक्षिताः मध्वीशते तान् स्ववशे नयित्वा । योगिनस्तं प्रपश्यन्ति ।। ७ ।। द्वादशपूगाः पञ्च ज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि एकादशं मनः द्वादशी बुद्धिः । तेषामनेकपुरुषापेया पूगत्वम् । सरितः सरणशीलाः । देवेन परमात्मना रक्षिताः प्रेरिताश्च मधु स्वस्वविषयं ईशते विषयीकर्तुं समर्था भवन्ति । तानिन्द्रियपूगान् स्ववशान् स्ववशे परमात्मवशे नयित्वा योगिनस्तं प्रपाश्यन्ति ।। तदर्प्यमाणमपिबन् सञ्चितं भ्रमरा मधु । योगिनस्तं प्रपश्यन्ति ………. ।। ९ ।। तदर्प्यमाणं तेन परमात्मना अनुग्रहादर्प्यमाणं दीयमानं सञ्चितं स्वस्वकर्मणा आर्जितं मधु मदी हर्षे इति धातोः । ‘तृतीयेऽतिशय’ इति वचनाच्च आनन्दकरत्वात् मधुस्थानीयं सूर्यमण्डलं देवा आदित्या रुद्रा वसवो मरुतश्चेति चतुर्दिक्षु विद्यमाना भ्रमरोपमा अपिबन् । तत्रस्थ परमात्मानमाराधयन्नित्यर्थः । एवं देवसेव्यं यो० ।। १ ।। ईशानस्सर्वभूतेषु हविर्भूतमकल्पयत् । योगिनस्तं प्रपश्यन्ति ….. ।। १० ।। किं च ईशानः सर्वसमर्थः सर्वभूतानां हविर्भूतं प्राणाग्निहोत्रे हविर्भूतमन्नमकल्पयत् । एवम्भूतान्नकल्पकं योगिनस्तं प्र० ।। १० ।। त्रयमेकं त्रयस्त्रिंशत्पञ्च चास्मात् प्रजायते । योगिनस्तं प्रपश्यन्ति………. ।। ११ ।। त्रयं गुणत्रयम् । एकं महत्तत्वं त्रयस्त्रिंशत् अहङ्कारबुद्धिमनसः ज्ञानकर्मेन्द्रियाणि दश मात्राभूतानि दश दशप्राणाः पञ्च शब्दादयः ।। ११ ।। यस्याधिगमतः पूर्वमुत्तरं च प्रगृह्णते । सुहृदोऽसुहृदश्चैव मतं यन्न भवेद्धि तत् ।। १२ ।। यो० यस्य अधिगमतः अपरोक्षज्ञानात् अनन्तरं पूर्वं कृतं पुण्यापुण्यं कर्म उत्तरं च ज्ञानोत्तरं कृतं पुण्यापुण्यलक्षणं कर्म च तस्य ज्ञानिनः सुहृदः असुहृदश्च प्रगृह्णते ।‘सुहृदस्साधुकृत्यां द्विषन्तः पापकृत्या’मिति श्रुतेः । ‘ॐ तदधिगम उत्तरपूर्वाधयोरश्लेषविनाशौ तद्व्यपदेशा’दिति सूत्रम् । यत् सुलभतः मतं न भवेत्तद्ब्रह्म ।। १२ ।। हिरण्यवर्णमश्वत्थमभिपत्य सपक्षकः । तत्र ते पक्षिणो भूत्वा प्रभवन्ति यथासुखम् ।। १३ ।। यो० सपक्षकाः पक्षसहिताः ज्ञानाख्यसहायवन्त इत्यर्थः । ते मुक्ताः पक्षिणो भूत्वा अश्वत्थं श्वेतद्वीपगतममृतस्रवणं अश्वत्थमभिपत्य अभितो गत्वा यथासुखं भवन्ति । हिरण्यवर्णं चित्सुवर्णमयम् । तदुक्तं छान्दोग्यभाष्ये ‘तत्राश्वत्थाः सुधास्रवाः । चित्सुवर्णमयं दिव्यं लक्ष्मीस्तत्र स्वरूपिणी’ इति । तत्र विद्यमानं भगवन्तम् । यस्माच्च वायुरायातो यस्माच्च प्राण आगतः । सर्वमेव स वै विद्वास्तं तु वक्तुं न शक्नुमः ।। १४ ।। यो आजातः जातः पचते प्राण आगतः मुख्यप्राणो जातः । स वै परमात्मा सर्वं विद्वार्नव जनात्येव । तं तु वक्तुं न शक्नुमः साकल्येन ।। १४ ।। यस्माच्च वायुरायातो यस्माच्च प्रलयस्तथा । तस्मादग्निश्च सोमश्च तस्माच्च प्राण आगतः ।। १५ ।। वायुः प्रवहः पूर्वं भूतवायुः प्राण आहङ्कारिकः ।। १५ ।। अपानं गिरति प्राणः प्राणं गिरति चन्द्रमः । आदित्यो गिरते चन्द्रे आदित्यं गिरते परः ।। १६ ।। यो० संहारक्रमः कथ्यते ।अपानं वायुं प्राणो गिरति प्राणं चन्द्रमाः । चन्द्रं आदित्यः रुद्रः आदित्यं महत्तत्वद्वारा परः परमात्मा गिरति ।। १६ ।। एकं पादं सक्षिपति सलिलार्धं समुच्चरन् । तं चेद्वेति सुसम्पन्नं न मृत्युर्नामृतो भवेत् ।। १७ ।। सः परमात्मा त्रिविक्रमावतारे सलिलार्धं सलिलं गर्भोदकं अर्धं यथा भवति तथा कृत्वा समुच्चरन् सम्यगूर्ध्वं चरन् एकं पादमूर्ध्वं क्षिपति ऊर्ध्वाण्डखर्परपर्यन्तं क्षिपति । तं नारायणं सुसम्पन्नं सर्वैश्वर्यसम्पन्नं यः ना पुरुषः वेत्ति चेत् मुक्तो भवेत् ।। एवं देवो महात्मासौ सावृतिं पुरुषोऽगिरत् । यो वै तं पुरुषं वेद तस्येहात्मा न रिष्यते ।। १८ ।। पुरुषः पूर्णषड्गुणः सावृतिं आवरणसहितं ब्रह्माण्डं अगिरत् उद्गिरत् उत्पादितवान् । एवं ब्रह्माण्डोत्पादकं यो वेद न रिष्यते न नश्यति ।। १८ ।। अदर्शने तिष्ठति रूपमस्य पश्यन्ति चैनं सु समृद्धसत्वाः । हीनो मनीषीन्मनसाभिपश्येद्य एतद्विदुरमृतास्ते भवन्ति ।। १९ ।। साधनसम्पत्त्यभावे अस्य परमात्मनः रूपं अदर्शने तिष्ठति । परोक्षे तिष्ठति । सुसमिद्धसत्वाः सम्पूर्णसाधनाः । हीनः विषयकामनया ।। १९ ।। यस्सहस्रं सहस्राणां पक्षान् सम्भृत्य सम्पतेत् । मा तं गच्छेत्कारणस्य अपि वा स्यान्मनोजवः ।। २० ।। अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा लिङ्गस्य योगेन स याति नित्यम् । तमीशमीड्यमनुकल्पमाद्यं पश्यन्ति मूढा न विराजमानम् ।। २१ ।। लिङ्गस्य लिङ्गदेहस्य योगने सम्बन्धेन सहितं जीवं नित्यं याति यापयति नित्यं निद्राकाले अङ्गुष्ठमात्रं अन्तरात्मानं प्राज्ञं स्वात्मानं प्रवेशयतीत्यर्थः । अनुकल्पं अवान्तरसृष्टिकर्तारं मूढा न पश्यन्तीत्यन्वयः ।। २१ ।। गहन्ति सर्पा इव गह्वरेषु क्षयं नीत्वा स्वेन वृत्तेन मर्त्याः । ये चाप्रमुह्यन्ति जनाविमूढाः तैर्दत्तं वै गूहयन्ते भवाय ।। २२ ।। मर्त्याः वृत्तेन श्रवणादिना अवर्तनेन यं परमात्मानं क्षयं हृदयं गुहाख्यमन्दिरं नीत्वा गूहन्ति । आच्छादयन्ति । गह्वरेषु गुहासु सर्पाः मण्डलीभूय शयानाः स्वशिरोरत्नमिव ये जनाः अप्रमुह्यन्ति मोहवाशान भवन्ति ते ये अविमूढाः गुरवः तैर्दत्तमुपदिष्टं भवाय मोक्षाय गूहयन्ते ।। २२ ।। तत्पृष्ठादमृतं लोकाः तथा तद्ब्रह्म नित्यशः । भूतानि जज्ञिरे तस्मात्प्रलयं यान्ति तत्र च ।। २३ ।। तत्पृष्ठात्तदनुसरणात् अमृतं प्राप्नुवन्तीति शेषः । तथा तथ् अमृतं नित्यशः ब्रह्म गुणपूर्णम् । शेषः सुबोधः ।। २३ ।। सतासता सत्कृतः स्यान्न मृत्युरमृतं तयोः । सत्यानृते तस्य च मानबन्धने सतश्च योनिरसतश्चैक एव ।। स परमात्मा सता सज्जनेन सत्कृतः पूजितः स्यात् असता असज्जनेन असत्कृतः स्यात् । तयोः पूजकापूजकयोः अमृत्युरमृतं पूजकस्यामृतं अपूजकस्य मृत्युरिति योजना । सत्यानृते तस्य परमात्मनः मानबन्धने सत्यं तस्य मानः पूजा अनृतं तस्य बन्धनम् । अप्रतिसाधनम् । अतस्सत्यं वदेन्नानृतम् । सतः सज्जनस्य असतः असज्जनस्य एक एव परमात्मायोनिः कारणम् ।। असाधना वापि ससाधनावा समानमेतद्दृश्यते मानुषेषु । समानमेतदमृतस्येतरस्य चैवं युक्ता मध्वनुत्तं समापुः ।। २५ ।। असाधनाः मोक्षसाधनरहिताः स साधना मोक्षसाधनसहिताः ये मानुषास्तेषु मानुषेषु एतद्ब्रह्म समानं दृश्यते योगिभिः । एतद्ब्रह्म स साधनानां अमृतस्य दाने असाधनानां इतरस्य संरस्य दानसमानं तत्तद्योग्यतानुसारेण फलदत्वात्समानं एवं ज्ञात्वा युक्ताः ज्ञानभक्तयादियुक्ताः मध्वनुत्तं मध्वरूपेण वायुना पे्ररितं एतस्मिन्ननुग्रहः कर्तव्य इति प्रार्थितं ब्रह्म समापुः । ‘नुत्तनुन्नास्तनिष्ठ्यूतविद्धक्षिप्रेरिताः समा’ इत्यमरः । उभौ लोकौ विद्याया व्याप्य याति तथा हुतं चाहुतमग्निहोत्रम् । माते ब्राह्मी लघुतामादधीत प्रज्ञानस्य नाम धीरा लभन्ते ।। २६ ।। उभौ लोकौ विद्यया ब्रह्मज्ञानेन व्याप्य प्रसाध्यस्वाधीनं कृत्वेत्यर्थः । यान्ति प्राप्नुवन्ति । तेन ज्ञानिना आहुतमग्रिहोत्रं हुत भवतिं । ज्ञानेनैव यज्ञफलं भवतीत्यर्थः । तस्मात्ते ब्राह्मी ब्रह्मविषयिणी बुद्धिः लघुतां मा दधीत न धारयेत् । किं तु सुदुढं भूयात् । प्रज्ञानस्य परमात्मनः नाम धीराः लभन्ते ।। २६ ।। इमं यस्सर्वभूतेषु आत्मानमनुपश्यति । तथात्मनि च भूतानि किं सशोचेत्तत्तः परम् ।। २७ ।। अर्थः स्पष्टः ।। २७ ।। यथोदपाने महति सर्वतः सम्लुतोदके एवं वेदेषु सर्वेषु ब्राह्मणस्य विपश्चितः ।। २८ ।। उदपाने कूपे कृत्यं सर्वतः सम्प्लुतोदके समुद्रे यथा एवं वेदेषु विपश्चितः ज्ञानिनः यज्ञादिफलं सर्वं भवतीत्यर्थः । तस्मात्तत् ज्ञानमेव सम्पादनीयम् ।। २८ ।। अङ्गुष्ठमात्रः पुरुषोऽन्तरात्मा न दृश्यतेऽसौ हृदये निविष्टः । इमं हि दृष्ट्वा च दिवा च रात्रं अतन्द्रितः कविरास्ते प्रसन्नः ।। दिवा च रात्रं च प्रसन्नः सन्नास्ते ।। २९ ।। अहमेवास्मि वो माता पिता पुत्रोऽस्म्यहं पुनः । आत्माहमस्मि सर्वस्य यस्य नास्ति तदस्मि च ।। ३० ।। ममैव यूयमात्मस्थाः न मे यूयं न चाप्यहम् ।। ३१ ।। आत्मैव स्थानं मम जन्मचात्मा वेदप्रोक्तोऽहमजरः प्रतिष्ठः । अणोरणीयान् सुमाहान् सर्वभूतेष्ववस्थितः ।। ३२ ।। पितरं सर्वभूतानां पुष्करे निहितं विदुः ।। अहमेवास्मि तें मातेत्यादिकं यज्जीवं प्रति परमात्मनोे वचनम् । सनातनस्तु तदनुवादकः इति लक्षालङ्कारे वादिराजस्वामिभिव्याख्यातम् । ‘नत्सुजात आह – हे धृतराष्ट्र अहमेवास्मि वा युष्माकं जनयित्री माता पिता विचित्रवीर्योऽप्यहमेव । पुत्रोऽस्मि दुर्योधनादिरस्मीऽत्यादि परेषां व्याख्यानं पूर्वोत्तरविरुद्धत्वादनुपादेयम् । पुत्रोऽस्मि पुन्नाम्नो नरकात् त्रातास्मि । अन्तर्यामी यस्य पुरुषस्य यत् स्वातन्त्र्यादिकं तन्ममास्ति । मामैवात्मस्थाः ममस्वरूपे आधारे तिष्ठतीति मामैवात्मस्थाः । ‘असङ्गो ह्ययं पुरुष’ इति श्रुतेः अर्थसूचनाय न मे यूयं न चाप्यहत्यिाह । मामात्मा देह एव, स्थीयते अत्रेति व्युत्पत्त्या स्थानम् । आत्मैव जायते अस्मादिति जन्म पुष्करे हृदयकमले निहितं सन्निहितं विदुः ।। ३२ ।। अािध्यायपञ्चके केचन श्लोकाः प्रक्षिप्ताः । प्रायः कोशेष्वदर्शनात्ते न व्याख्याताः । इति श्रीमच्छतसहस्रसंहितायां वैयासिक्यां श्रीमद्भारते उद्योगपर्वणि सनत्सुजातव्याख्यायां अष्टचत्वारिंशोध्यायः। श्री श्रीपरमहंसेत्यादिबिरुदावी समालङ्कृतवतां कर्णाटकसिंहासनादीश्वराणा महानुभावानां श्रीश्रीव्यासतीर्थ शिष्य श्रीश्रीरघुनाथतीर्तपरमहंसैकृता सनत्सुजातीयवयाख्या ।।