22-33

तस्मात् कार्यतः तत्कार्यवशात् मे विप्रकर्षात् वियोगात् ।।५३।। अत्र वन एव स्थिताश्च श्रीकृष्णागमनपर्यन्तमिति शेषः ।।५४।। समनुज्ञातः कृष्णेन पाण्डवैश्च ।।५५-६।। अत्र नाम्ना पार्वती । पूर्वोक्ते मद्रमगधराजसुते च पार्वती च कुन्त्यैव (वारिताः) ।।५७-९।। स्वकृतेन देवनेन निर्विण्णः धर्मराजः ततः परं देवनात् परम् ।।६०-२।। तत्प्रापणं तस्मै समर्पणम् । एवं संवत्सरः प्रयातः ।।६३।। अतिमार्दवयुक्तत्वात् कारणात् गुरुभयात् । प्रस्तावहेतवे स्वविवक्षितं वक्तुं प्रसङ्गमुत्पादयितुम् ।।६४।। इति एतमर्थं संस्थाप्य धर्मजं प्रति समर्थयित्वा अग्रजेन इति सत्यशफथं कारयन् कारयिष्यन् भीमः प्रथमं कृष्णामादिशत् । संस्थाप्य स्वयं निश्चित्येति वा ।।६५-६७।। नृपस्य सामर्थ्ययुक्तस्येति शेषः । सार्वकालं सर्वकालमसम्बन्धि यथा सम्भवति तथा । सर्वत्र कुजनतासु सुजनतासु च । तद्विधृतं तया क्षमया (वि)धृतं रक्षितम् ।।६८।। सर्वत्र क्षमा कर्तव्येत्येतदुपपादयति - कर्ता चेति ।। चशब्द एवार्थे । इह लोके अस्य चेतनजातस्य (सर्वं) सुखदुःख•शनं तदनुदत्तम् । तेन नारायणेन अनुदत्तं कर्मानुसारेण दत्तं हि यस्मात् तस्मात् नारायण एव सर्वजगतः सुखदुःखयोः कर्ता । तस्मात् नारायणस्यैव सर्वकर्तृत्वात् कुतश्च कारणात् कश्चित् अपि जन्तुः कोपविषयो नास्ति इति । क्षमैव सर्वत्र परमेत्युक्तमुपपाद्योपसंहरति- तस्मादिति ।। तस्मात् अन्यस्य कारणत्वाभावात् , अस्य पुरुषस्य सकलेषु सदसत्सु च क्षमैव परो धर्मः ।।६९।। लोकयात्रा लोकप्रवृत्तिः । कापुरुषैः दुर्जनैः ।।७०।। सर्वकर्ता विष्णुरिति यदुक्तं तदङ्गीकृत्याह- सत्यं चेति ।। चोवधारणे काष्ठादिवत् काष्ठादिकं यथास्मदादिचेतननियतं तद्वत् । सकलप्रवर्तकत्वं विष्णोरङ्गीकृतं चेत् न कोपि कोपविषय इत्यागतमित्यत आह- तथापि विष्णोः सकलप्रवर्तकत्वेपि ।। पौरुषस्य पुरुषप्रयत्नस्य व्यर्थता अफलता नेति सम्बन्धः ।।७१।। पौरुषस्याव्यर्थत्वमुपपादयति- तदित्यादिना ।। शुभाशुभस्येति द्वन्द्वैकवद्भावः । तच्चेष्टितं जीवचेष्टितम् । अन्यथा अफलं न भवेत् । चेष्टानुसारेणैव भोक्ता (अतः) तच्चेष्टितमफलं नेति भावः । एवं कर्तृत्वमुपपाद्योपसंहरति- कर्ता तस्मादिति ।। तस्मात् पुरुषः कर्ता । अत्रायं प्रयोगः- जीवः कर्ता भोक्तृत्वात् । यः कर्ता न भवति स भोक्ता न भवति यथा घट इति । ईश्वरस्यापि कर्तृत्वेन सपक्षत्वात् तत्र भोक्तृत्वाभावादसाधारणानैकान्तिको हेतुरिति नाशङ्कनीयम् । अस्वतन्त्रकर्तृत्वसाधनादित्याह- अपीति । अपि कर्तापि अस्य ईश्वरस्य वश्यः ।।७२।। ननु भोक्तृत्वादिति हेतुरस्तु कर्तृत्वसाध्यं मा भूत् किं विपक्षे बाधकमिति तत्राह- वृथेति ।। यदि पौरुषं वृथा अकर्तव्यं स्यात् । यदि पुरुषः कर्ता न स्यादित्यर्थः । तर्हि समस्तवेदगः प्रमाणतमसमस्तवेदगतः विधिः ‘प्रातरुत्थाय सन्ध्यमुपासीत’ इत्यादिविधिः, निषेधश्च ‘न सुरां पिबेत् न पलाण्डुं भक्षयीत’ इत्यादिनिषेधश्च कस्य हेतो प्रवृत्ताविति शेषः । जीवस्य कर्तृत्वाभावे विधिनिषेधकशास्त्रवैयर्थ्यं स्यात् । न च तद्युक्तम् । विधिनिषेधगोचरश्च (अ) कर्तैवेति चेत् न ह्यकर्तारमुद्दिश्य विधिनिषेधौ भवतः । तस्माद् विधिनिषेधगोचरतया जीवः कर्तैवेति भावः । न जीवो विधिनिषेधगोचरोतः कर्तापि नेति चेत् तत्राह- विधेरिति ।। पुमान् यदि विधेर्निषेधस्य च गोचरो न स्यात् तर्हि पुरुषस्य विधिनिषेधात्मकशास्त्रगोचरत्वाभावात् शास्त्रस्य निर्विषयत्वं स्यात् । न च निर्विषयत्वं युक्तम् । अतः परिशेषात् विधिनिषेधौ हरेरेव भवतः ।।७३।। अस्तु हरेरेव विधिनिषेधयगोचरत्वं किं नश्छिन्नमित्यत आह- तेनैवेति ।। तेनैव विधिनिषेधगोचरत्वेनैव अमुष्य विष्णोः पुण्येन विहितकरणात् पुण्येन पापेन विहिताकरणात् प्रत्यवायाद्येन निषिद्धकरणात् पापेन च लेपो भवेत् । (तन्निबन्धनं) सुखदुःखभोक्तृत्वं च स्यादिति भावः । अस्तु पुण्यपापलेपस्तस्य कोक दोष इत्यत आह- नैवेति । असौ हरिः ताभ्यां पुण्यपापाभ्यां नैव लिप्येत नैव लिप्यते । चशब्दात् तन्निबन्धनसुखदुःखभोक्ता च नेत्यर्थः । तस्य पुण्यपापलेपाभावे तन्नइभन्धनसुखदुःखाभावे (च) हेतुमाह- परमस्वतन्त्र इति ।। तस्माज्जडेश्वरयोः विधिनिषेधगोचरत्वानुपपत्तेः पारिशेष्यात् विधिनिषेधगोचरत्वेन पुण्यपापलेपवत्वात् एतन्निबन्धनसुखदुःखभोक्तृत्वात् पुरुषः कर्तैवेति भावः । उपसंहरति- कर्तेति ।।७४।। अभत्सयत् कृष्णामिति शेषः ।।७५।। तेन धर्मजेन ।।७६।। ‘कर्ता च सर्वजगतः’ इत्यादिना युधिष्ठिरस्य यत् सर्वकर्तृत्वमुक्तं स्वातन्त्र्यं चोक्तं भगवतस्तदङ्गीकृत्य जीवस्यापि कर्तृत्वमस्वातन्त्र्यं च साधयति- राजन्नित्यादिना ।। ‘तस्मात् कार्यं तेन क्लृप्तं स्वकर्म’ इत्यन्तेन ग्रन्थसन्दर्भेण । विहितं स्वकर्म कार्यमत्यन्तयत्नात् । अन्यत् निषिद्धं अत्यन्तयत्नात् त्याज्यं चेति सम्बन्धः ।।७७।। पुरुषस्य एतत् कर्म गमनागमनादिरूपं कर्म प्रत्यक्षम् । एतत् पुरुषनिष्ठतया प्रत्यक्षसिद्धम् । स्वगतकर्मणश्च स्वस्वकर्तृत्वमहं करोमीति स्वस्वसाक्षिप्रत्यक्षसिद्धम् । तेन प्रत्यक्षसिद्धेन क्वचिच्च प्रतिहतेन कर्तृत्वेन केशवस्य प्रेरणाः, कर्तृत्वस्थेति शेषः अनुमेया । विप्रतिपन्नं कर्तृत्वमीश्वराधीनं क्वचित् क्वचित् प्रतिहतत्वात् राजपुरुषकर्तृत्ववदित्यनुमानेन ज्ञातव्या । कर्तृत्वं (तस्य) केशवप्रेरितत्वं (च) ज्ञानिप्रत्यक्षसिद्धमेवेत्याह- स्वकर्मेति ।। विष्णुना विहितं विष्ण्वाज्ञारूपश्रुतिस्मृतिविहितम् ।।७८।। तेन एवं ज्ञात्वा कर्मक(करणेन) विष्णोः सकाशात् तदनुग्रहेणेति यावत् सम्यग् गतिं समीचीनां गतिं एति । दैवमेव करोतीति मतावा । तस्मात् कर्तृत्वसद्भावात् स्वकर्माकरणेनर्थसद्भावाच्च ।।७९।। (कार्यमेव स्वक) मेत्युक्तम् । तत्रेतिकर्तव्यतामाह- ज्ञातव्यमिति । अस्य कर्तृजीवस्य विष्णोर्वशत्वं च ज्ञातव्यमेव । परतन्त्रत्वात् । नाहं कर्तेति मत्वा स्वकर्म न त्याज्यं चेत्याह- कर्तव्यमिति ।। आत्मनः कार्यं कर्म च कर्तव्यमेव । जीवस्य कर्तृत्वं विष्ण्वधीनत्वं च पुनः सप्रमाणकं दर्शयति- प्रत्यक्षेत्यादिना ।। यथा जीवसंस्थास्वतन्त्रजीवसङ्गता एषा कर्तृता प्रत्यक्षाहं कर्तेति प्रत्यक्षसिद्धा । तथा ‘कुर्वन्नेह कर्माणि जिजीविषेत्’ इत्यागमात् , विप्रतिपन्नः कर्ता भोक्तृत्वात् व्यतिरेकेण घटवदित्यनुमानाच्च सिद्धा । सर्व जीवगतकर्तृत्वादिकं विष्णोर्वशे, वर्तत इति शेषः । तद् द्वयं च जीवस्य कर्तृत्वादिकं तस्येश्वराधीनत्वं च न हेयं जानन् कार्यकर्म विहितं कर्म कुरुते । विद्वान् ममेश्वराधीनं कर्तृत्वमिति विद्वान् । एवं जीवगतं कर्तृत्वमीश्वराधीनमिति ज्ञात्वैव ज्ञानी कर्म कुरुत इत्युक्तम् । इदानीं स एव प्रत्यक्षादिप्रमाणानुसारी नान्य इत्याह- तत्प्रेरकमिति ।। यः तत्प्रेरकं जीवकर्तृत्वे प्रेरकं विष्णुमभिजानन् सम्यग्जानन्नेव कर्म कुरुत इति शेषः । (सः) प्रमाणत्रितयानुगामी प्रत्यक्षादिप्रमाणत्रयसिद्ध(त)त्वाङ्गीकारवान् भवेदिति । जीवस्य कर्तृत्वाभावं वा स्वातन्त्र्यं वा मन्यमानो न प्रमाणत्रितयानुगामीत्यर्थः ।।८०-८१।। ननु प्रमाणत्रितयानुगामित्वं किमर्थम् ? जीवेशवरकर्तृत्वग्राहकप्रमाणानां भिन्नविषयत्वं वा एकविषयत्वे(प्य)न्यतम(स्या)प्रामाण्यं वा किं न स्यादित्यतः प्रमाणानामविरोधेनैकविषयतानभ्युपगमे सत्यङ्गीकृतप्रमेयस्य पूर्णप्रमाणतया न स्यादिति भावेनाह- पूर्णं प्रमाणमिति ।। तत्त्रयं (च) अविरोधेन परस्परविरोधाभावेन एकत्रस्थं एकार्थप्रतिपादकत्वेन प्रवृत्तम् चेत् तर्हीति शेषः । तस्मिन्नर्थे पूर्णं प्रमाणम् । भवेदिति शेषः । तत्त्रयं तु अविरोधि परस्परविरोधरहितं पृथक् भिन्नार्थविषयं चेत् तर्हि (मध्य) प्रमाणं भवेत् । बाहुल्यलक्षणप्राबल्याभावात् । प्रमाणान्तरविरोधाभावेनाप्रामाण्यशङ्का(या अ)विषयत्वाच्चेति भावः । तत्त्रयं च विरोधि एकस्मिन्नर्थे परस्परविरोधयुक्तं चेत् तर्हि अप्रमाणं स्यात् । परस्परविरोधेनैकस्यापि निःशङ्कतया स्वार्थानिश्चायकत्वादिति भावः। तस्मात् एवान्त्यात् तत्त्रयं प्रमाणत्रयं एकत्र अविरोधेनैकार्थविषयतया कार्यं योज्यम् ।।८२।। एवं तिस्रोवस्थाः प्रदर्शिताः । ततः कः कामवस्थामङ्गीकरोतीत्यत आह- अज्ञ इति ।। अज्ञस्तु विपरीतज्ञानी प्रत्यक्षं प्रत्यक्षसिद्धं जीवकर्तृत्वं अपहाय दैवमेव कर्तृ मत्वा स्वात्मकर्म प्रजह्यात् । न करोतीत्यर्थः । विद्वान् सम्यग्ज्ञानी जीवं तत्कर्तृत्वं च विष्णुवशं विदित्वा करोत्येव ।।८३।। विद्वदविदुषोरपि (प्रवृत्तिभेदे) किं कारणमित्यत आह- स्वभावेति ।। स्वभावाख्या हठाख्या स्वभावहठापरपर्यायवाच्या या योग्यता जीवानामिति शेषः । या योग्यता सर्वजीवेषु अनादि(सिद्धा) नित्या अनादिनित्येत्यर्थः । सा प्रथमं मुख्यं कारणम्, जीवानां विचित्रप्रवृत्ताविति शेषः । अनादिकर्म तु अनाद्यदृष्टं द्वितीयं योग्यतापेक्षयानन्तरं कारणम् । पौरुषाख्यः जीवप्रयत्नः तृतीयकारणम् । तथाशब्दः समुच्चये । ननु योग्यतादीनामेव जीवप्रवृत्तिकारणत्वे विष्णोः स्वातन्त्र्यं गतमित्यत आह- तदेतदिति ।। तदेतत् त्रयं उक्तस्वरूपयोग्यतादित्रयम् । ननु योग्यतादीनां यथेश्वराधीनत्वं तथेश्वरस्यापि किमन्याधीनत्वमित्यशङ्क्य सयुक्तिकं परिहरति- स कस्यचिदिति ।। असौ परात् परः उत्तमादप्युत्तमः । परमः स्वतन्त्रः मुख्यस्वतन्त्रः । नहि परमात् परमस्य परमस्वतन्त्रस्य अपरमास्वातन्त्राधीनत्वं घटत इत्यर्थः ।।८४-५।। यो हठः स्वभावयोग्यतापरपर्यायवाच्यः प्रथमकारणत्वेनोक्तः स किं सकलजीवेष्वेकप्रकारोवतिष्ठते उत तारतम्येनेत्याशङ्क्य परिहरति- हठश्चासाविति ।। उपलक्षणम् । अनादिकर्मापीति भावः । स्थितो हि स्थित एव । चेतनस्वरूपाद्यभिप्रायेण योग्यतादीनां प्राथम्यादिकमाह- हठाच्चेत्यादिना ।। कर्माणि अनादिकर्माणि । यत्नः तात्कालिकः पुरुषप्रयत्नः कर्मजः अनादिकर्मजः । उत्पत्यपेक्षया हठादेः प्राथम्यादिकमुक्त्वा हठकर्मणोरभिव्यञ्जकत्वेन यत्नस्य प्राथम्यमाह- यत्नो हठकर्र्मप्रयोक्तेति ।। हठकर्मप्रयोक्ता योग्यातकर्मणोः प्रयोक्ताभिव्यञ्जकः । पुरुषप्रयत्नानुसारेण हि योग्यातकर्मणी अभिव्यज्येते । तस्मात् यत्नः तयोः व्यक्तौ प्रयोजक इति भावः ।।८६।। कुतो यत्नस्तत्प्रयोजक इत्यत आह- विनेति ।। यत्नं विना हठो न । कर्मापि न । नाभिव्यज्येते इत्यर्थः । अत्राभव्यक्तिर्नाम फलदानोन्मुखत्वम् । ननु यत्नादेव योग्यतादेः फलसम्भवात् किमीश्वरेणेत्यत आह- फलप्रद इति ।। अखिलस्य इत्यर्थः । कुतो वासुदेवः फलप्रद इत्यत आह- विनियामक इति ।। विनियामक हठादेः प्रेरको हि यस्मात् तस्मात् फलप्रद इति पूर्वेण सम्बन्धः । कुतो नियामक इत्यत उक्तम् - स्वातन्त्र्यशक्तेरिति ।। स्वातन्त्र्येण फलप्रदत्वे वैषम्यादिकं स्यादित्यत आह- (तथापीति) । तथापि स्वातन्त्र्येण सर्वस्य नियामकोपि सोपि एतान् हठादीन् अपेक्ष्येणैव अनुसृत्यैव युञ्जेत् फलेन योजयेत् । फलं ददातित्यर्थः ।।८७।। हठादिकमपेक्ष्य फलदश्चेन्न स्वा४तन्त्रयशक्तिरित्यत आह- एतानिति ।। इति एवं अस्यैव सङ्कल्पः । अस्य विष्णोरेव सङ्कल्प इति यस्मात् तस्मात् अस्य स्वातन्त्र्यं नापगच्छेत् । स्वाधीनहठादिकमपेक्ष्येव फलं ददानीति स्वसङ्कल्पानुसारेण फलदत्वात् स स्वातन्त्र्यहानिरिति भावः । हठादिकमनपेक्ष्य फलदानेसमर्थत्वात् हठादिकमपेक्षत इति किं नस्यात् इत्यत आह- सहीति ।। सः सर्वशक्तिः सर्वविषयशक्तिः हि यस्मात् तस्मात् प्रभुत्वात् एवमतिसमर्थत्वात् अस्य क्वचित् कस्मिंश्चिदपि विषये अशक्तता असमर्थता न ।।८८।। ‘तथापि पुंसा विहितं स्वकर्म’ इत्यादिना जीवस्य भगवदधीनकर्तृत्वमुपपाद्योपसंहरति- तस्मादित्यादिना । तस्मात् जीवस्य कर्तृत्वसद्भावात् तेन विष्णुना क्लृप्तं वर्णाश्रमविशेषनिष्ठतया क्लृप्तं स्ववर्णाश्रमोचित(कर्म तस्य विष्णोः) पूजार्थं करोमीति सङ्कल्पपूर्वकं कार्यम् । एवं कर्तुः फलमाह- तेनेति ।। तेन एवं कर्मकरणेनैव तत्प्राप्तिः । नान्यथेत्यर्थः । (अतः) अन्यथा विहितकरणादन्यथा विहिताकरणात् निषिद्धकरणाच्चेत्यर्थः । स्वकर्म सर्वथा कार्यमित्युक्तम् । तत्र कस्य किं स्वकर्म इत्यतो विभागेन कर्मस्वरूपं तदधीनकारणं च निरूपयति- स्वकर्मेत्यादिना ।। जपः अध्ययनम् । उपदेशोध्यापनम् ।।८९।। तेन अस्य क्षत्रियस्य पापप्रतिवारणं साधुधर्मस्य प्रवर्तनं च बाह्वोः कर्मैव, बाहुवीर्यसाध्यमेवेत्यर्थः । स्वकर्म हि । क्षत्रियस्यानुषङ्गिककर्माण्याह- मुखस्येति ।। अस्य क्षत्रियस्यापि । विप्रस्याप्यनुषङ्गिकं कर्माह- यज्ञकर्मेति ।। मुखस्य बाहुसामीप्यात् मुखजे विप्रे बाहुजं यज्ञकर्मापि धर्म चक्रे ।।९०-९१।। विष्णोरूरुजऋ । तज्जकर्मैव ऊरुजकर्मैव प्रजावृद्धिः धर्मः । वैश्यस्यानुषङ्गिककर्मान्तराण्यप्याह- तत्सादृश्यादित्यादिना ।। तत्सादृश्याद् उत्पाद्य(त्व) पाल्यत्वलक्षणप्रजा(वृद्धि)सादृश्यात् । वार्तात्मकं कृषिवाज्यादिरूपं तस्यैव वैश्यस्यैव विष्णुर्धर्मं चकार । अङ्घ्रिजः विष्वङ्घ्रिजः तेन गतिप्रधानं कर्म दूतत्वादिकर्म धर्मं चकार । हस्तपदोः सादृश्यतः अङ्गुलिमत्वसादृश्यात् तद्भवं कर्म शुश्रूषणादिरूपम् । न तु यज्ञादिकम् । समीपगत्वात् (सन्तानवृद्धिश्च) । बाहुजा (तस्य) क्षत्रियस्य बाहुबलरूपं कर्म धर्मं इत्युक्तम् । तदेवोपपादयन् धर्मान्तरमप्याह- भुजावित्यादिना ।। भुजौ उरश्च (बलस्य) तदनु ज्ञान(स्य च) स्थानं यस्मात् अतः बलं ज्ञानमिति उभयं च नृपाणां धर्म इत्युक्तम् । बाह्वोर्हृदयसामीप्यात् हृदयकर्म ज्ञानं धर्मः । उरःसामीप्याच्च प्रागुक्तं बलं धर्म इति भावः । विट्शूद्रयोर्हस्तजन्यं कर्मान्तरं (चाह) - पाणावित्यादिना । कृतीनां कर्मणां कौशलं चातुर्यं केवलं (पाणौ) अवतिष्ठते इति यस्मात् तस्मात् विट्शूद्रकौ कर्मणां कौशलेतौ चातुर्ययुक्तौ । पाण्योरूर्वोश्च सामीप्यात् ऊरुजस्य पाणिजं च केवलं धर्मः । ऊर्वोः पदोश्च सामीप्यात् पदोः पाणिसादृश्याच्च पादजस्यापि कर्मकौशलं धर्म इति भावः ।।९२-९५।। एषः ‘स्वकर्म(विप्रस्य) जपोपदेशौ’ इत्यादिनोक्तः धर्मविशेषः विप्रादीनां धर्मभेदः प्राधान्यतः असाधारणधर्माभिप्रायेण प्रागुक्त इति शेषः । सामान्यतः साधारण्यात् उक्ताः सर्व एव अखिलानां विप्रादीनां धर्माः । वयं देवा हि यस्मात् तेन सर्व कर्म नः अस्माकं प्रायेण शश्वत् सर्वदा धर्मतामेति । देवानामपि मानुषेष्वतीर्णानां तत्तत्कुलवर्णाश्रमाणामनुसेव्यत्वात् प्रायेण इत्युक्तिः ।।९६।। हरिपूजार्थं स्वकर्म कर्तव्यमित्युक्तं विशदयति- एतैरित्यादिना ।। धर्मैः करणभूतैः वर्णैः कर्तृभिः । सर्वसाधारणधर्मानप्याह- तद्भक्तिरित्यादिना ।। भक्तिज्ञानपूजानां यथायोग्यत्वमपेक्षितम् ।।९७।। तेषु हरिभक्तेषु येत्यन्तभक्ताः ते विशेषतः पूज्याः ।।९८-१००।। तस्य निस्सीमत्वात् दोषास्पृष्टौ सर्वसद्गुणपूर्तौ च शक्तिः विद्यते यस्मात् एवं अस्माद्धेतोः अखिलैर्गुणैः पूर्णो नारायणः स्वधर्मैः पूज्यतमः ।।१०१।। यदर्थं ‘नैव क्षमा कुजनतासु’ इत्यादिना कृष्णाभीमभ्यामुक्तं तदाह- अस्माकमित्यादिना ।। तेन स्वकर्मणा भगवत्पूजायाः कर्तव्यत्वेन कारणेन अस्माकम् क्षत्रियाणामिति भावः । अतिक्षमा कुजनास्विति शेषः । धर्मो नैव यत् यस्मात् तस्मात् दुष्टानां दुर्योधनतदनुबन्धिनां वारणं निधनमिति भावः कार्यमेवेति सम्बन्धः । क्षत्रियस्य दुष्टनिवारणे फलमाह- (हन्यादिति) यः क्षत्रियः दुष्टान् क्षत्रियान् युद्धगतान् स्वबाहुवीर्येण तनुच्छेदादिनेति भावः । (हरिं स्मरन् तत्पूजात्वेनेदं कृ)तमिति स्मरन्निति भावः । विशेषतो हन्यात् यागादीतरधर्मेभ्योपि दुष्टहननमेव प्रथमत कुरुत इति भावः । तस्य बाहू सदेहौ चैतन्यमात्रौ केवलं चिदात्मकौ भवतः ।।१०२।। दुष्टहननेपि विशेषमाह- पाफाधिकानित्यादिना ।।१०३-४।। घातनीयः परैरिति शेषः । घातनीय इत्येतद् विवृणोति- न स्वयमिति ।। स्वयमेव न वध्यः ।।१०५।। क्रूरं स्त्रीबालवधादिकम् धर्मयुक्तं च धर्मसाधनमपि । स्वकार्यं स्वयं कर्तव्यम् ।।१०६।। निकृतिः व्याजात्मकम् । अत एव (पापं) पापसाधनम् । तस्मादेव गर्हितम् । सौबलेन सहेति शेषः । तेन द्यूतहृतं तद् दत्तं न वदन्ति ।।१०७।। न केवलं द्यूतहृतं तद् दत्तं न । ततोन्यदपीत्याह- भीतेनेति ।। द्यूते स्त्रियां च दत्तमिति शेषः ।।१०८-९।। धर्मनित्यः धर्मे स्थिरः ।।११०।। ते अस्माकमतीता मासाः । वेदप्रामाण्यात् प्रमाणतमवेदोक्तत्वादिति भावः । वत्सरा हि । सहस्राब्दं सहस्राब्दनिर्वर्त्यं सत्रं नराणां मासैः सहस्रमासैः निर्वर्त्यमुक्तम् वेद इति शेषः । नराणामल्पायुष्यादिति भावः ।।१११-२।। कादिवरैः ब्रह्मादीनां वरैः ।।११३।। सर्वलोके सर्वलोकविषये ।।११४।। तस्मात् स्वातन्त्र्यादिगुणविशिष्टस्य हरेः पूजार्थमस्माकं दुष्टनिग्रहस्य कर्तव्यत्वात् । राजन् याहि वनवासान्निर्गत्याभिगच्छ ।।११५-६।। कुर्यामेव त्वदीरितमित्येतद्वचः सत्यम् । सत्येन वचनेन आत्मानमालभे स्पृशामि । सत्यशपथार्थमिति (भावः)।।११७।। हे भीम यदि एवं एवमपि मया सत्यशपथे कृतेपि मां वदेः पुनःपुनरिदानीमेव गन्तव्यमित्यादिनिर्बन्धरूपवचो वदेः, तर्हि मां अतिवाचा क्रूररूपवचसा तुदसे । तदैव मत्तो(क)रणसमय एव मेत्ययः कार्यः शत्रवश्च हन्तव्या एव । नात्राहं प्रष्टव्य इति भावः ।।११८-२०।। तदैव गन्तव्यमित्युक्ते कदेत्याकाङ्क्षायामाह- विज्ञातास्त्रे धनञ्जये इति ।।१२१।। त्रयोदशे वर्षे अतीते सतीति शेषः । राज्यार्थं निश्चयेन गमनार्थे युधिष्ठिरस्य प्रतिश्रवः भीमस्याभिप्रायो हि । प्रतिश्रवस्य कारयितुर्भीमस्याभिप्रायमाह-अन्यथेति ।। अतिमृदुत्वात् अतिमृदुचित्तत्वात् परैः शत्रुभिः भिन्नधीः भीमचिकीर्षितप्रतिकूलमनाः स अन्यथा प्रतिश्रवाभावे सति न गच्छेत् राजाभिमुखे नगच्छेदित्यर्थः । तस्मात् प्रतिश्रवं तेन कारयामासेति भावः ।।१२२-३३।। फल्गुनस्य वधार्थं च वधार्थमेव आयातं आगच्छन्तम् । फल्गुनस्येति परोक्षनिर्देशः ।।१३४।। तं आत्मनो वधार्थमायातं ज्ञात्वा ।।१३५।। तं वराहं अनु गच्छन्निति शेषः ।।१३६-४१।। ननु ‘धरातलस्थिते न मय्यमुं कश्चन जेष्यति’ इति कृष्णदत्ताजेयत्ववरसद्भावात् कथमर्जुनः पराजित इत्यत आह- पूर्वमिति ।। अजेयत्वं वरमिति सम्बन्धः ।।१४२-३।। ननु ‘शङ्करस्थं हरिं स्मरन् तपश्चकार’ इति हरिध्यानपूर्वकं तपश्चरणमुक्तम् । ‘ततः प्रादादस्त्रं पाशुपतं शिवः’ इति शिवादस्त्रप्राप्तिर्वक्ष्यते । तस्माद्धरिं ध्यात्वा तपसि (कृते) रुद्राद्वरलाभोनुपपन्न इत्यातस्तदुभयं घटयितुमाह- केवलानिति ।। व्यासः केवलान् वैष्णवान् विष्ण्वेकदेवताकान् मन्त्रान् नो ददौ । किन्तु विष्णुरुद्रोभयदेवताकानेव ददावित्यर्थः । अत एव ‘शिवः प्रादात्’ इति च शिवगतो विष्णुः प्रादादित्यर्थोङ्गीकरणीयः । प्रागपि ‘शङ्करस्थं हरिं स्मरन्’ इत्येतेन तपश्चरणकालविषयो विरोधोपि वारितो वेदितव्यः ।।१४४।। एतावता केवलवैष्णवत्वरहितेन मन्त्रेण अलमिति अभिप्रायवानिति शेषः । अभिप्रायान्तरं चाह- केवलैरिति ।।१४५-७।। उभयदेवता(क)मन्त्रस्य कथं पाशुपतनामत्वमित्यत (आह-अस्त्रमिति । अस्त्रस्य देवता) विष्णुः । तस्मात् विष्णुदैवत्यम् । तत्साधकत्वेनाभिमानिदेवता पशुपतिः । तस्मात् पाशुपतं नामेत्यर्थः । तदैव सुराः स्वान्यस्त्राणि ददुः ।।१४८-९।। त्वया ब्रह्म तोषितं यतः तेन प्रीतोस्मि ।।१५०-३।। मानुषेण भावेन स्वस्य मानुष्यजन्मापेक्षया कुलस्य मातेति निराकृता निषिद्धा अभूत् । उर्वश्याः पुरूरवसो भार्यात्वात् । स्वस्यापि पुरूरवसो वंशे जातत्वात् त्वमस्मत्कुलमाता । अतो नाङ्गसङ्गयोग्येति न्यषेधदिति भावः ।।१५४।। संवत्सरं च ते षण्डता न भवतीति अनुग्रहं चादात् ।।१५५।। गान्धर्वं वेदं (गान)विद्याम् ।।१५६।। ‘सुभद्रामभिन्युं च रथमारोप्य केशवः’ इत्यत्र कृष्णः ‘पाण्डवानभ्यनुज्ञाय’ द्वारकामगमदित्युक्तम् । ततः किमकरोदित्यतस्तत्प्रवृत्तिमाह- सुभद्रयेत्यादिना ।। असुरान् विमोहयन् अहं ते सकाशतः वरं ग्रहीष्ये । ततस्त्वं मत्तः श्रेष्ठः पूज्यो भविष्यसि इति पूर्वतः पूर्वं शम्भवे वरः प्रदत्तः आस हि यस्माद् तस्मान्मयेदानीं शम्भोर्वरं आदातव्यः । इत्थमैक्षत अचिन्तयत् ।।१५७-८।। ‘वरं ग्रहीष्ये’ इत्युक्तमर्थं पद्मपुराणगतवाक्येन विवृण्वन्नाह- त्वामिति।। ‘त्वामाराध्य’ इत्यस्यापि पूर्वार्धे ‘मां चोवाच यथा मत्तः पूज्यः श्रेष्ठो भविष्यसि’ इति । अस्यार्थः विष्णोः सकाशादाधिक्यमिच्छता मया सम्यगाराधितो हरिः मां चोवाच , शम्भो त्वं मत्तः श्रेष्ठः मत्तोपि पूज्यः अज्ञलोकप्रवादत इति भावः यथा भविष्यसि तथा अहं द्वापरादौ युगे कलया अंशेन मानुषादिषु भूत्वा त्वामाराध्य वरं ग्रहीष्यामि इति हरिणोक्तमिति पार्वतीं प्रति रुद्रवचनम् ।।१५९।। इति वाक्यं ‘त्वामाराध्य’ इत्यादिना रुद्रायोक्तं स्ववाक्यं ऋतं कर्तुं चिन्तयतो वासुदेवस्य अभिप्रायं पुत्रं देहीति मया प्रार्थनं कार्यमित्यभिप्रायं विजज्ञुषी रुक्मिणी, वासुदेवस्य प्रीत्यर्थं पुत्रे जातेपि पुत्रार्थं वाक्यमब्रवीत् (इति) ‘अभिप्रायं विजज्ञुषी’ इत्येतद् विवृणोति ।।१६०-२।। असुराणां सम्मोहाय ययावित्युक्तार्थे वराहपुराणगतवाक्यं सम्मतित्वेनोदाहरति- एष इति ।। मोहं मोहकं शास्त्रम् । यः मोहकग्रन्थः । त्वं कुरु कारय च ।।१६३।। अतथ्यानि कुत्राप्यविद्यमानानि । वितथ्यानि व्यधिकरणत्वेन विद्यमानानि । मयि दर्शयस्व ।।१६४।। मोहसृष्ट्यादैः प्रयोजनमाह- तमोसुरा इति ।। एतन्मतं ममेति । मम एतत् मतं अभिप्राय इति (अतः) असुरा मोहयित्वा इति शेषः ।।१६५।। केशवेन शिवस्य पूर्वं यत् इत्युक्तवचनं (तत्) सत्यं कर्तुम् ।।१६६।। कृष्णं द्रष्टुं गिरिशेन प्रदिष्टौ अत एव द्वारकां गन्तुकामौ समायाताम् , बदरिकाश्रममिति शेषः ।।१६७-७०।। अत्र च शैवं तपश्चकारेव अदर्शयत् ।।१७१।। इवेत्युक्तस्याभिप्रायमाह- स्वीयानिति ।।१७२।। तेन हरिणा सुराः गतज्वरा सन्त्विति अभिप्रायेण असुराणां मोहाय अहं द्वादशवत्सरं तव तपः कुर्यामिति शर्वं प्रति तपश्चरणं पूर्वमुदितं यद् यस्माद् तस्माद् द्वादशवत्सरं तपसः कर्तव्यत्वात् एकमेवाहो द्वादशवत्सरं कर्तुं कृष्णः तदा बृहस्पतिं आज्ञया स्वाज्ञया क्षिप्रं द्वादशराशिषु चारयामासेत्यन्वयः । तेन द्वादशराशिषु बृहस्पतिसञ्चारेण ।।१७३-७।। तत्र तस्मिन् काले । स्वात्मानं प्रत्येव होमादिकाः क्रियाञ्चक्रे ।।१७८।। योगिवराः सनकाद्याः । प्रजेशाः दक्षाद्याः ।।१७९।। आशु अभ्याययौ । निजगणैः निजप्रमथगणैः ।।१८०-८१।। रुद्रहृदि गतं निजं रूपम् । रुद्रहृदि गतत्वाद् रुद्राभिधायकानेकश्दाभिधेयमिति भावः । तत् स्तुतिवाक्यं निशम्य ।।१८२।। विष्णुः समस्तसुजनैः परमः सर्वोत्तम इति अभ्युपेयः ज्ञेयः । तत्प्राप्तये तज्ज्ञानाय । अभ्युपेयाः समीचीनोपायाः । तज्ज्ञानसाधनसामग्रीसम्पादकत्वात् तज्ज्ञानेभ्युपायाः । ‘मुक्तास्तु मानुषाः देवान् देवा इन्द्रं स शङ्करम् । स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् ।।’ इति प्रवेशे द्वारत्वाच्चेति भावः । अशेषनिगमार्थविनिर्णयः निखिलवेदार्थ (विनिर्णयः । तेन उत्थः स्थापितः । मम सकाशात्)अब्जयोनेः अव्यक्ततः लक्ष्म्याःसकलजीवगणआच्च नित्यं संसारे मुक्तौ च विष्णुरेव परमः उत्तमः यत् यस्मात् तस्मात् ‘विष्णुः समस्तसुजनैः परमोभ्युपेयः’ इति पूर्वेण सम्बन्धः । इत्येव उक्तप्रमकारेणैव (निश्चयः उत तस्मात् एतदनु) स्मरध्वम् । अन्वनु निरन्तरं स्मरध्वम् ।।१८३-८५।। ‘पुरापि ज्ञानिनोधिकम्’ इत्युक्तं विवृणोति- सर्वेति ।।१८६।। तथापि सर्वदेवोत्तमत्वज्ञाने सत्यपि । तत्प्रमाणानां तदुत्तमत्वप्रतिपादकप्रमाणानां बहुत्वात् नानाविधत्वात् । अत्र प्रमाणेषु युक्तिमात्रे विरोधपरिहारयुक्तिमात्रे ये संशयाः तेपि तदा रुद्रवाक्यादपगताः । एवं च युक्तिभिः प्रमाणैः तत्सर्वोत्तमत्वावधारणात् ‘ज्ञानाभिवृद्धिमगमन्’ इत्युक्तमिति भावः ।।१८७।। ततः रुद्रागमनानन्तरं । तत् सत्यं कर्तुम् , पुत्रं देहीति शिवमब्रवीत् ।।१८८-९।। प्रवादतो मद्दत्त इत्युक्तमेव विवृणोति- पुरेत्यादिना ।। तदा अहं तामित्यब्रवमिति सम्बन्धः । एवं वचनेपि न मे स्वातन्त्र्यमित्याह- त्वदाज्ञयेति ।।१९०-५।। ज्वलामालाकरालेेन (दावानल) ज्वालामालाकरालेन स्वतेजोवर्धितेन च स्वतेजसा उपचितेन च ।।१९६-७।। एतत् वक्रासुरहननदिकम् ।।१९८-९।। तृतीयेह्नि द्वारकानिर्गमनात् तृतीये दिवसे ।।२००।। पुरद्विषः पुरारेः ।।२०१-२।। नप्त्रा पौत्रेण , सात्यकिनेत्यर्थः ।।२०३-८।। अदीनसत्वः (अहीनपौरुषः) ।।२०९।। अतीत्यैव पश्चात् पृष्ठतः ।।२१०-११।। पुनः स्वपुरीगमनानन्तरम् । एकः अद्वितीयः । अहमेव वासुदेवो नान्यः इत्यभिप्रायः ।।२१२।। मां शरणं समागच्छेथाः इत्युक्त्वा दूतं प्रस्थापयामास इति सम्बन्धः । दूतोक्तं तत् एतत् वाक्यम् ।।२१३।। हरिश्च अभ्यगात् ।।२१४-२१।। कृष्णाभावम् वरमिति शेषः ।।२२२।। दक्षिणाग्नौ कृत्याम् उत्पाद्येति शेषः । दैत्यावेशात् कारणात् आवृतात्मा मिथ्याज्ञानेनावृतमनाः ।।२२३-६।। क्वचित् कदाचित् । विडम्बयन्नेव ।।२२७।। आत्मनः सदा कृष्णेन अवियोगमेव वेत्त्री अपि ।।२२८।। अदुःखामपि ।।२२९-३०।। क्षीबः मत्तः ।।२३१-३२।। दानवावेशयुक्तौ अत एव वासुदेवप्रतीपौ (मैन्दो विवि)दश्च सखायौ । भौमे हते । निमित्तसप्तमीयम् ।।२३३।। व्रजेति ऊचे राममिति शेषः ।।२३४-५।। राममाहात्म्यप्रसङ्गात् साम्बमोचनादिराममहिमानम वक्तुं तदुपयुक्तां स्वयंवरकथामाह- दुर्योधनस्येत्यादिना ।। पूर्वं रतिः अत्र नाम्ना लक्षणा दुर्योधनस्य या पुत्री आस ।।२३६-७।। एकं च असहायं च ।।२३८।। शमार्थी सन्धानार्थी बलभद्रः ।।२३९-४०।। तत् पुरं (हस्तिनपुरम्) ।।२४३-४।। भीमोपि यस्य अलमच्युतावेशिनः अस्य रामस्य अच्युतावेशविशेषकालं ज्ञात्वा युद्धे क्रीडायुद्धे नोदेति ।।२४५।। नोदेतीत्येतद् विवृणोति- क्रीडायुद्ध इत्यादिना ।। तात्कालिकीं व्यक्तिं तत्कालीनमावेशविशेषाविर्भावम् ।।२४६-७।। द्वार्वत्यामेव निवसति । स्वप्ने (रता) । तमानयेत्युवाच ।।२४८-५१।। निहत्य (ताडयि)त्वा ।।२५२-३।। तान् अग्नीनङ्गिरसं च ।।२५४।। ततः ज्वरमाससाद । तेन ज्वरेण कर्त्रा भस्मप्रहारेण करणेन ।।२५५-६।। अन्यं ज्वरं वैष्णवज्वरमिति भावः । तदा तु गिरिशभृत्यं ज्वरम्, स्वयं आत्मना जित्वापि नालम् मदाधिक्यस्येति शेषः ।।२५७-९।। अजः प्रभुः व्यथां दुःखं विना स्थितः । दुःखरहित इत्यर्थः ।।२६०।। विजृम्भणास्त्रतः स्तम्भनास्त्रतः । विजृम्भयामास स्तम्भयामास ।।२६१।। स्थाणूपमे निष्प्रयत्ने स्थाणुवन्निष्प्रयत्ने स्थिते सम्बोधयामास ।।२६२।। तत्र विष्णूदरे बिल्वनामि्न वने गिरीशेन अच्युतात् शैवं पदं प्राप्तुमेव यद् येन रूपेण तपः कृतं शिवस्य तद् रूपं स्तम्भितं दर्शयामास च ।।२६३।। तच्छिरोर्थे तच्छिरश्चेदनार्थम् ।।२६४।। स्वभक्तं कृत्वा गतासुरावेशं कृत्वेति भावः ।।२६५-६६।। ‘क्रीडार्थमत्यल्पजनेषु’ इत्यतः ज्वरातिशयो नाश्चर्य इत्युक्तम् । तत् कैमुत्येनोपपादयति- येनेति ।। किं कथ्यते, अशक्य इ(ती)ति शेषः ।।२६७।। सर्वद(प्यधिकानां ब्रह्मणामपि रमाया अपि) चलितुं बलं न । भावाः धर्माः ।।२६८-७२।। शक्रधनञ्जयोक्तः इन्द्रेण दिवि स्थितेन धनञ्जयेन चोक्तः । सः प्रसिद्धः ।।२७३।। पृथ्वीमिति । भारतवर्षान्तर्गताम् ।।२७४-५।। भीमेतिस्नेहात् कारणात् ।।२७६।। यावत् पाण्डवाः पुरं यास्यन्ति तावत् (स्थाप)यामः । ततः स्वपुरप्राप्त्यनन्तरम् ।।२७७-८०।। शैशिरं हिमवन्तम् । सुदुर्गे स्थले ।।२८१-२।। (शर्वश्वशुरं) गिरिं हिमवन्तम् । सुवर्णकूटं हेमकूटं गिरिम् , निषधं गिरिं च । मेरोः प्राच्यां पूर्वस्य दिशि ।।२८३।। प्रतिपादयन्तः मुन्यादिभ्यः ।।२८४-९।। विशेषाद् दिव्यशक्तेः अनादानं स्वत एव विद्यमानशक्तिं विना अधिकानादानं परमो धर्मः । भीमः हनुमांश्च एक एव सन्, तस्मादत्र ज्यायःकनीयोवृत्तिमभिपेदे ।।२९०।। देवानां मानुषत्वेपि दिव्यशक्तेः सत्वाद् विशेषाद् दिव्यशक्त्यनादानं धर्म इति कथमुच्यत इति तत्राह- सर्व इति ।। सुराणां मानुषत्वे युगानुसारात् कृतादियुगक्रमानुसारात् मूलरूपेषु उत्तमत्वाधमत्वानुसारेण सर्वे गुणाः बलज्ञानादयः आवृताः भवन्तीति शेषः । किं सर्वात्मना आवृता भवन्तीति ? नेत्याह- भागत इति ।। उरूणां उत्तमानां आदानतः इदानीमेव दिव्यगुणाविर्भावो भवेदिति पूर्वमादानतः आदानेच्छातः व्यक्तिं अभिव्यक्तिं आयान्ति ।।२९१।। अतिसुव्यक्तशक्तेः विष्णोः प्रादुर्भावेपि इह बलज्ञानादिविषये काचिदव्यक्तिः नास्ति । ‘आदानतो व्यक्तिमायान्त्युरूणाम्’ इति यदुक्तं तत्र विशेषमाह- इच्छाव्यक्तिरिति ।। तदन्येषां मारुतादन्येषां कारणेन सत्यामप्यादानेच्छायां कारणेन कारणविशेषेण ।। २९३-३।। रामस्य कथाः त(था) राम(स्य) दिव्यं तच्चातुरात्म्यं चतूरूपत्वम् । वासुदेवरूपेणैव रामत्वम् । सङ्कर्षणादिरूपाणां लक्ष्मणादिष्वाविष्टत्वम् । एवं चतूरूप(त्वम्) ।।२९४-७।। परैः शत्रुभिः ।।२९८-९९।। शिववरादजेयान् कथं जिग्य इत्यतस्तत्स्वरूपं निरूपयति- वातेनेति ।।३००।। विष्णोः गुणान् ख्यापयन् । अत एव विष्णुं सर्वतः भिन्नं सर्वतोधिकं ब्रुवन् । ब्रुवाणान् बहूंश्च वादतः अजैत् । ‘जघ्नेखिलान् गदया तेषु वीरान्’ इत्युक्तम् । तत्र कति हता इत्याकाङ्क्षायामाह- वीरान् लक्षमेषां निजघ्ने इति ।। ते हतावशिष्टाः बलं शरीरसत्वम् । विद्याबलं बाहुबलं इति द्विविधं बलमिति ।।३०१-२।। अमृताम्भः अमृतसदृशाम्भः ।।३०३-५९।। शक्येप्यनभिव्यक्तताकर्तुः ।।३६०।। (तत्) तदर्थं धर्मवृद्ध्यर्थं हरिप्रीत्यर्थं (च) ।।३६१।। दैवं बलं व्यक्तं न चक्रे । न व्याजहार न (परिज)हार ।।३६२।। तत्प्रश्नपरिहारं जानन्नपि ।।३६३।। ‘वारि (तवत् स्थिते’ इति) यदुक्तं (तत्) विवृणोति- अयतन्तमित्यादिना ।।३६४।। परं अन्यन्निगरणादिकं क(र्तुम्) ।।३६५-६।। इह बन्धने ।।३६७-८।। स्वभावात् हरिं ध्यायन् । तदिच्छया बन्धमोचनेच्छया ।।३६९।। ‘शक्तोपि नात्मानमभिप्रमोचयेत्’ इत्यादिब्रह्मवचनात् ।।३७०-२।। अन्वपृच्छत् अजगररूपं नहुषमिति शेषः ।।३७३-९।। ‘सम्भाषणं चक्रतुः’ इत्येतद् विवृणोति- परीक्षन्त्येत्यादिना ।। स्त्रीधर्माः क इति चोदिता ।।३८०।। अखिलान् स्त्रीधर्मान् प्राह ।।३८१।। कुशलप्रश्नरूपं अन्यद् वचनं च क्रीडार्थमेव सत्यासमीरितं ज्ञात्वा । तत्प्रीत्यै सत्यभामाप्रीत्यै ।।३८२।। अत्र पाण्डवसमीपे ।।३८३-४।। कोटिं काश्यं कोटिकाश्यमित्यर्थः । प्रेषयित्वैव तन्मुखेन मामायाहि इत्यवदत् । जगृहे स्वयमेवेति शेषः ।।३८५।। असहायत्वत एव पत्यादिसहायरहितत्वत एव साग्निः (मा) मां अन्वेहीति धौम्यायोक्त्वा ।।३८६।। निमित्तानि अशुभशंसीनीति शेषः ।।३८७।। आक्रोशमानं आह्वयन्तम् । रुदन्तमिति वा । क्रुश आह्वाने रोदने चेति धातुः ।।३८८-९३।। बह्व्यः बह्वीः वैदिकप्रयोगोयम् ।।३९४।। भाषात्रयसमन्विताः कथाः किमर्थमवददित्यत आह- लोकेति ।। लोकदर्शन(भाषा स्वदर्शनभाषा परदर्शनभाषेति) दर्शनभाषायास्त्रैविध्यम् । (लोकदर्शनमिति) समाधिगुह्यभाषयोरुपलक्षणम् । एवं त्रिविधदर्शनभाषायां लोकदर्शनभाषा(माश्रित्य) कथाः ब्रूयुः । रामस्य पिता मृतः, रामो जनकाय जलाञ्जलिं ददावित्यादिरूपः । तदा तत्र तासु कथासु शिक्षाः ‘पुत्रेण पित्रे जलाञ्जलिर्दातव्या’ इत्यादिरूपाः ग्राह्याः । अर्थः रामस्य पिता मृत इत्यादिरूपः कथञ्चन न ग्राह्यः ।।३९५।। तत्र यदा समाधिभाषामाश्रित्य कथा ब्रूयुः । ‘अष्टादशपुराणानां कर्ता सत्यवतीसुतः’ इत्यादौ यथावत्स्थितकथनपराः तदा समाधिभाषासु उक्त इति शेषः । अर्थः सर्वोप्य(संश)यं ग्राह्यः । तत्र यदा परदर्शनमाश्रित्य कथा ब्रूयुः शिवसूर्यस्कन्दविनायकशक्तीनां प्रत्येकं सर्वोत्तमत्वकथनपराः । तदा परदर्शनभाषासु प्रवृत्तास्विति शेषः । तद्दर्शनं तेषान्तेषां दर्शनं तथा तथाविधमिति ज्ञेयम् । भारतादिषु यदा शिवादीनां सर्वोत्तमत्वं सर्वसृष्ट्यादिकर्तृत्वमुच्यते तदा ‘इयं परदर्शनभाषा शैवादय एवं ब्रूयुः’ इति ज्ञातव्यमिति भावः । अर्थः वस्तुतः तेषामेव सर्वोत्तमत्वादिनोपास्यत्वलक्षणः न ग्राह्यः । शैवादिदर्शनानां वेदविरुद्धत्वात् परदर्शनत्वम् । तत्र यदा वैदिकदर्शनमाश्रित्य कथा ब्रूयुः विष्णुसर्वोत्तमत्वादिरूपाः तदा एवंरूपं वैदिकं दर्शनं तु ग्राह्यम् ।।३९६-९९।। तत्र तस्मिन् काले । आह्वानस्य तात्पर्यमाह- अवमानायेति ।। भीमस्तु तं (दूतं) रणयज्ञं स्वगम्यं (ब्रूहि) इति अवादीत् ।।४००।। ततः आह्वानानन्तरम् ते धार्तराष्ट्रा विविर्ययुः इत्यन्वयः ।।४०१-२।। तान् गवां दृष्टिच्छद्मना ।(पाण्डवान् अवमन्तुं निर्गतान्) तत्सामर्थ्यं दुर्योधनतेजोभङ्गसामर्थ्यम् ।।४०३-५।। अल्पसारस्य दुर्बलस्य ।।४०६-७।। पुरां भिन्दोः पुरन्दरस्य ।।४०८।। पार्थार्थं पाण्डवानामर्थे ।।४०९-१२।। तदा स धार्तराष्ट्रः महाबलोपि शक्रवराद् विष्णोराज्ञया च अभिवृद्धे चित्रसेनस्य बले इति शेषः । चित्रसेनेन (धृतः) गृहीतः इन्द्रदत्तैः वैद्युतैः पाशैः बद्धः आसीत् ।।४१३-५।। अयं विमर्दः यादृशं तादृशं जाने इति । तेजसः अस्मत्तेजसः ।।४१६-७।। एकाहयज्ञे एकाहनिर्वर्त्ययज्ञे ।।४१८।। पार्थस्य अर्जुनस्य ।।४१९।। उत्सृज्य गमयित्वा ।।४२०-२१।। राजन् जयसि दिष्ट्या एतत् साधु ।।४२२-६।। दिव्यः पुरुषः न यादृशतादृश इत्यर्थः ।।४२७-३१।। इदं अस्माभिरुक्तं भूतिवर्धनं श्रेयोवर्धनं भवेत् ।।४३२।। सः नृपः ।।४३३-४।। स्थिरो भव स्थिरबुद्धिर्भव, मे वचन इति शेषः ।।४३५-६।। इत्युक्तः कर्णेन ।।४३७-८।। स्वप्ने उक्त्वा इन्द्रचिकीर्षितमुक्त्वा ।।४३९-४२।। अदृश्येनैव धर्मेण वारिताः मत्प्रश्नमपरिहृत्य पानीयं न पीयतामिति वारिताः । वारिपायिनः प्रसभमिति शेषः । धर्ममायया सुप्ताः ।।४४३-६।। क्रमेण तारतम्पयक्रमेण ।।४४७-५५।। आनृशंस्यात् अक्रौर्यात् ।।४५६-५८।। ।। इति द्वाविंशोध्यायः ।।

।। अथ त्रयोविंशोध्यायः ।। ।।१।। हेतीः शम्यां निधाय विराटस्य पुरीं गत्वा छन्नरूपा बभूवुः । पुरीं गत्वा पुरसमीपं गत्वेति वा । कथं छन्नरूपा इत्यतस्तद् विविच्याह- यतिरित्यादिना ।। एवं जाता बभूवुः ।।२।। ननु क्षत्रियाः सन्तस्ते भीमादयः कथमन्यसेवां चक्रुरित्यत आह- युधिष्ठिरस्येति ।। ते भीमादयः सूदादिकर्मभिः युधिष्टिरस्यैव शुश्रूषणं चक्रुः । अन्यत् अन्यसेवनम् ।।३।। भीमादीनां सूदादिवेषाङ्गीकाराभिप्रायमाह- परपाक इत्यादिना ।।४।। सूदत्वेपि शूद्रवेषाभिप्रायमाह- वैदिकव्यवहारेष्विति ।। भीम इति जानीयुरेव यतः ततः ।।५।। इतश्च तेन्याश्रयं न चक्रुरित्याह- स्वीयमिति ।। वेदवित्वात् देवेशत्वात् स्वबलसंश्रयत्वाच्च अन्याश्रयं न चक्रुरिति भावः ।।६।। शापात् उर्वशीशापात् । नकुलः तथा स्वजातेरनन्तरसूतजातिमाप । सहदेवः तथा सूतजात्यनन्तरवैश्यजातिरभवत् । तेषु वैश्येषु ।।७-८।। पश्चात् अज्ञातवासानन्तरं स्वशिष्टतां स्वस्य अक्षगतिज्ञतां दर्शयिष्यन् ।।९-१०।। शिवस्य वरेण अजितः, स्वयं जयी च ।।११-१३।। हरेः प्रसादतो निसूदय इत्यवददित्युपलक्षणम् । महादेवादेः प्रसादतोपि निसूदय इत्यवददित्यर्थः ।।१४।। ननु महादेवादेरप्युत्तमो भीमः महादेवादेः प्रसादतो निसूदय इति कथमवददित्यतो महादेवादिशब्दानां हरौ प्रवृत्तिमुपपादयति- समस्तेत्यादिना ।। यः केशवः समस्तदेववृन्दतो महान् क्रीडादिगुणरूपत्वाद् देवश्च स एव महांश्चासौ देवश्चेति निरुक्त्या महादेव इत्युक्त इति भावः । न केवलं महादेवशब्दवाच्यः । किन्तर्हिः समस्तदेवनामवाच्यश्चेत्याह- समस्तेति ।। यः केशवः महादेवादिसर्वदेवनामवान् तदीयभक्तितः बलम् , सर्वेषामिति शेषः । तस्मात् भीमो महादेवानुग्रहतो निसूदय इत्याहेत्यभिप्रायः ।।१५।। विष्णोः सर्वदेवनामवत्वाभिधायिकां ‘यो देवानां नामधा एक एव’ इत्येतां श्रुतिमर्थतोनुवदति- य इति ।। एषः महांश्च देवश्च तत् तस्मादेव निरुक्त्या महादेवनामवानपि हरित्याभि(प्रेत्य स महादेवः मे जयं वि) धास्यति इति भीम आहेति शेषः ।।१६।। युधिष्ठिरप्रसादात् त्वत्प्रसादाच्च निसूदय इत्युक्तेर्भावमाह- युधिष्ठिरेति ।। त्वयीति पुरोवर्त्युपलक्षणार्थः । पुरोवर्तिस्थितः त्वमित्युच्यते । स्वगतः अहमित्युच्यते । विप्रकृष्टगतः असावित्युच्यते । ‘सर्वान्तर्यामको विष्णुः सर्वनामाभिधीयते । एषोहं त्वमसौ चेति न तु सर्वस्वरूपतः ।।’ इत्युक्तेः ।।१७।। सर्वान्तर्गतत्वेन सर्वनामवन्तं हरिमभिप्रेत्य महादेवयुधिष्ठिरादिप्रसादतः मल्लं निसूदय इति ब्रुवाणः ।।१८-९।। प्रार्थनया द्रौपदीनिरसनेन च मासे गते सति ।।२०।। तया सुदेष्णया । मदर्थं सुरां समानय, कीचकगृहादिति शेेेेेेेेेेेेेेेेेेषः । भीता कीचकदौरात्म्यात् भीता ।।२१-३१।। तेन तद्वार्ताश्रवणेन ।।३२-९।। विराटमभिगच्छतां कौरवाणामभिप्रायमाह- यदीति ।।४०-१।। द्वयोः रथयोः समाहारो द्वैरथम् ।।४२-६।। उत्तरः तान् पाण्डवान् ऊचिवान् । उक्त्वा गोग्रहणे वृत्तं च ऊचिवान् ।।४७-५४।। अज्ञातवासोतीत इति वदतां भीष्मादीनां नातीत इति वदतां दुर्योधनादीनां चाभिप्रायमाह- सौरेति ।। रविसङ्क्रमणावधिः सौरमासः । पौर्णम्यवधिश्चान्द्रमासः । दर्शावधिश्चान्द्रमास इति वा । गोदावर्या उत्तरत पौर्णम्यवधिश्चान्द्रमास इति व्यवहरन्ति । दक्षिणे दर्शावधिश्चान्द्रमास इति व्यवहरन्ति ।।५५-९।। ।। इति त्रयोविंशोध्यायः ।।

।। अथ चतुर्विंशोध्यायः ।। शान्तये पाण्डवकौरवविरोधस्य ।।१-२।। कुत इत्यत आह- यस्येति ।। किमत इत्यत आह- श्रुता इत्यादिना ।। भीमेन यथा निसूदिताः तथा श्रुताः ।।३-४।। लोकानां सर्वजनानाम् ।।५-८।। यथा सञ्चूर्णितशिराः तमो जगाम तथा त्वया श्रुतः ।।९-१०।। वशे, स्थितमिति शेषः ।।११।। तस्मात् कृष्णभीमार्जुनबलस्यैव ज्ञातत्वात् ।।१२-४।। राजराजोहं पादयोः उप समीपे नास्ये नोपविशामि इति दर्पात् ।।१५-६।। सुयोधनं जानन्नपि, प्रथममागतमिति शेषः ।।१७-८।। समं करिष्य इत्युक्तम् । तत्समकरणप्रकारमाह- एकत्रेति ।।१९-२०।। अभक्तिमत्वात् द्वेषित्वात् ।।२१-३४।। लीनः सभायामिति शेषः । सभाः कारितवतः अभीष्टं करोमीति तद्वचः श्रुत्वा । सत्यमेव कुर्याम्, तत्र किं कार्यमिति शल्येन पृष्टः दुर्योधनः मे युद्धसाहाय्यं देहीति अभाषतेति योज्यम् ।।३५-९।। प्रामाण्यं प्रमाणविषयत्वम् ।।४०-१।। धर्मं पप्रच्छ । सः राज्यदापनं धर्ममवदत् ।।४२।। नाशं धर्मातिलङ्घनं चावदत् । भावं मनः ।।४३-६।। विदुरो वा आगच्छतु ।।४७-८।। (सर्वस्य लोक)स्य सम्मत्या ।।४९।। आत्मोत्थं आत्मनिर्मितम् । (आत्मनिर्मित)त्वेन ज्ञा (तम्) । प्रहापयन् मोचयन् इति वच अब्रवीत् इति सम्बन्धः ।।५०।। अधश्चराः सेवकाः ।।५१।। दृढात्मना हन्तुमिच्छतापि ।।५२-५।। अक्रताम् अकुरुताम् ।।५६।। (अनुनीय न) युद्धमधर्म इति स्वमतमङ्गीकारयित्वेति भावः । ततः अच्युतो जगत्पतिः कृष्णः अर्जुनमनुनीय नकुलेन सुनीतिवत् उत्तमनीतिवत् युद्धं योजयतात् योजयतु (इति मानुषया बु) द्ध्या उक्तः, सहदेवेन युयुधानेन (च) शौर्यप्रकाशनायैव भवान् युद्धं योजयतादित्युक्तः तानोमित्युक्त्वा विनिर्ययौ । पार्षती इति जगाद । स एनामपि ओमित्युक्त्वा विनिययौ ।।५७-६१।। स विष्णुः एकोपि भार्गवात्मा, सशिष्यो व्यासः व्यासात्मेति भावः, एवं द्विरूपः ययौ । कृष्णेन सहेति शेषः ।।६२।। अब्जजादिभिः सुरैः ।।६३।। सरसाभियातः सस्नेहमभियातः ।।६४-५।। तेषु यथोचितम्, नमनादिकमिति शेषः विधाय ।।६६।। शीघ्रं जगामेत्युक्त्या विदुरेनुग्रहाधिक्यं सूचयति ।।६७-८।। परमार्थो भगवान् ।।६९।। विवक्षितकथनोचितकाले ।।७०-७१।। उपैषि यतः अत प्रदेहि इति पूर्वेण सम्बन्धः । ममातिवर्तिनं मम आज्ञातिवर्तिनम् ।।७२-३।। अतोपि अस्मदपराधादपि विकर्णप्रमुखाः धार्तराष्ट्राः वध्यत्वमायन् ।।७४।। भावतः मनसा ।।७५-६।। राज्यं देहीति अनुशिष्टोपि तदकृत्वा मन्त्रयते मन्त्रयामास । बन्धनमुद्दिश्य ।।७७-८।। पश्य मामित्यवदत् दिव्यदृशं दत्वेति भावः । जानन् इत्यस्योपपादकं सर्वगमिति ।।७९।। आहुते आहूते ।।८०।। तद् रूपम् । कालः प्रलयकालः ।।८१-२।। अथ विश्वरूपप्रदर्शनानन्तरमपि ।।८३।। ‘पुनश्च कुन्तीगृहमेत्य’ इत्युक्त्या पूर्वमपि कुन्तीगृहं गत इत्यवगम्यते । तया शिष्टं शिक्षितम् । आत्मजन्म अवदत् पाण्डूनायाह ति च अवदत् ।।८४-८६।। मम सूनुरसि यतः ।।८७।। ततः राजपुरात् कृष्णगमनानन्तरम् ।।८८।। ।। इति चतुर्विंशोध्यायः ।।

।। अथ पञ्चविंशोध्यायः ।। समरे आरम्भः ययोस्ते समरारम्भे । समेते उभयभागे मिलिते । भीमभीष्मौ मुखे नेतारौ ययोस्ते भीमभीष्ममुखे ।।१-४।। निधनेक्षया निधनसन्दर्शनेन ।।५।। शोकः कुतो न कार्य इत्यत आह- देहस्येति ।।६।। अक्षरप्रकृतेः लक्ष्म्याः । सृष्ट्यादिषु ये सन्तो विद्यमानाः स्थिति(प्रवृत्ति)प्रकाशाः नियमनं चेति ते मत्त एव । प्राकृतदेहाभावात् नित्यमुक्तत्वात् सर्वज्ञत्वात् सृष्ट्यप्ययाज्ञानबन्धमोक्षाणामभावात् सन्त इत्युक्तम् ।।७-९।। मयि सन्न्यस्य समर्प्य । नाहं स्वतन्त्रकर्ता, भगवत्प्रेरणया कृतं च तत्पूजार्थमस्त्विति समर्प्य । अहमेव परः सर्वोत्तम इति बुद्धिः येषां ते मत्पराः । भगवति यादृशो भक्तियोगस्तादृशोन्यत्र नास्ति चेत् सोनन्ययोगः । तेन अनन्ययोगेन ।।१०-१।। अहं तेषु भूतेषु नावस्थितः, तदाधारकत्वेनेति भावः ।।१२-३।। ते, रूपमिति शेषः ।।१४।। अर्जुनयोग्यता यावती तदनुसारेण ।।१५।। लोकमानतः लोकप्रत्यक्षानुसारेण । पुनश्च रूपदर्शनानन्तरम(पि)।।१६-७।। अ(नी)केषु (यौधे)षु । अथ विगतमोहेर्जुने युद्धार्थं सन्नद्धे सति ।।१८-२८।। उदीर्णास्त्रं अतिवीर्यवदस्त्रयुक्तम् ।।२९।। अतीत्य अनादृत्य ।।३०-२।। (एवं उत)रत्र वक्ष्यमाणप्रकारेण ।।३३।। (यावद् योत्स्यसे) तावत् पर्यन्तम् ।।३४।। पुनश्च प्रतिज्ञातादधिकं च जघ्ने ।।३५-८।। चक्रमुद्दधार । बाहुं तथा सचक्रं भीष्माय उद्यम्य ।।३९-५०।। देवानां धरणीगतत्वे कः प्रसङ्ग इत्यत आह- (मानसेत्यादि) ।।५१-९।। (दुर्योधनस्यावर)जैः दुयोधनस्यानुजैः प्रयुद्ध्यन् । विकर्णपूर्वान् दुर्योधनावरजान् ।।६०-२।। जत्रुदेशे कण्ठोरःसन्धौ ।।६३-७४।। स्वमायया हस्तिचतुष्टयस्थः । स्वयमेव हस्तिचतुष्टयो भूत्वा तत्र स्थितः ।।७५-८४।। (सादिनोश्वारोहाः) अहनन् अघ्नन् ।।८५-९।। प्रयुद्धौ युद्ध्यन्तौ दृष्ट्वेति शेषः । अमित्रसाहाः अमित्रपराक्रमं सोढुमीशाः । अरिन्दमा इत्यर्थः ।।९०।। सः घटोत्कचः ।।९१-९४।। भीमसेनः घटोत्कचश्च तान् सर्वान् शिबिरं प्रापयित्वा ।।९५-११०।। (सर्वामपि पाण्डुसेनामिति मत्यैक्यादे)कवद्भावः ।।१११-२०।। बाणैर्हत्वा सगजं द्रावयित्वा ।।१२१-७।। (तत्) पार्थस्य दुःशासनेन युद्धं सममासीत् ।।१२८-९।। आर्च्छत् विव्याध । धार्तराष्ट्रान् दुर्मर्षणात् विमुच्य मोचयित्वा ।।१३०-४।। सर्वे युधिष्ठिराद्याश्च (विव्यधुः) । (स्वच्छन्दमृत्युत्वात्) स पतित एव प्राणान् दधारापीत्याह ।।१३५।। पूर्वमन्यत्र युद्ध्यन् मारुतिरपि ।।१३६-७।। तदापि कुरुपाण्डवागमनसमयेपि ।।१३८।। तत् तद्वचनाभिप्रायम् ।।१३९-४४।। ।। इति पञ्चविंशोध्यायः ।।

।। अथ षडि्वंशोध्यायः ।। अथ भीष्मपतनानन्तरम् ।।१।। तस्मिन् भीष्मे स्थिते योद्धरि स्थिते ।।२-३।। दुधाव कम्पयामास ।।४।। तं द्रोणं यान्तं भीमसेनं मद्रपतिर्ववार ।।५-६।। अभिनर्दमानौ गर्जन्तौ । तावेव स्थितौ ।।७।। जानुं सहसा निधाय क्षणादुत्थितः ।।८-१६।। गजेन राजसु निहन्यमानेषु विद्राव्यमाणेषु धार्तराष्ट्रार्थितः ।।१७-२९।। इति स्म अस्माद्धेतोः । एतदस्त्रं तेनैव अस्त्रस्य दात्रा अस्त्रावध्येन मया धृतम् ।।३०-३१।। महेन्द्रवज्राभिहतौ पर्वताविव ।।३२।। नाशाय चक्रे नाशाभिमुखं चक्रे । नाशयामासेत्यर्थः ।।३३-७।। अथ विष्णोर्वरात् तस्य भेदनस्य मन्त्र अजप्त्वा परैः शत्रुभिः अभेद्यं पद्मव्यूहं व्यूह्य,तस्थाविति शेषः ।।३८-४५।। प्रत्यक्षतः साक्षात् ।।४६-८।। विजित्य पुनश्च योत्स्यन्अथ युद्धात् प्रयोजनाभावात् युद्धं न कार्यमिति युधिष्ठिरस्यानुमते न्यषीदत् । युद्धादुपरत इति भावः ।।४९-५२।। उल्बणं वीर्यवत् । तदर्थमेव उल्बण(त्वा)र्थमेव । तदात्मिकां अस्त्रात्मिकाम् ।।५३-७९।। परं लोकं निनाय ।।८०-११८।। तौ केशवार्जुनौ यत्र तत्र प्रयाहि ।।११९-२६।। इति तदस्य(सु)ज्ञापयितुमेव ।।१२७-९।। भीमो भयङ्करः द्रुपदात्मजः ।।१३०-१४७।। तयोः परस्परं स विमर्दः सुघोर आसीत् ।।१४८-५१।। बुद्धिः त्थिं बभूव । अयं कृच्छ्रगो हि । कृच्छ्रगतो ननु ।।१५२-४।। भीमः कर्णस्य रथं क्षणात् समास्थितः ।।१५५।। भीमः भयङ्करः वृकोदर इति वा । कर्णरथारोहावरोहौ किमर्थमकरोदित्यकाङ्क्षायामाह- ज्ञापयितुमिति ।।१५६।। गृहीतुं जीवग्राहं गृहीतंु विनिहन्तुं वा कर्णमिति शेषः । नैच्छदेव ।।१५७।। रथादवप्लुतः किमकरोदित्यत आह- दातुमिति ।।१५८-६३।। इयं शक्तिः हैडिम्बमृत्यवे भवेदिति केशव(स्या)भिप्रायं जानन् ।।१६४-५।। युगपन्नेतुं भयाकुलः । इति मत्वा रथादिकं एकत्र नाकरोत् ।।१६६-७।। यस्मिन् दिने रथादिकं युगपदादायागात् ततः पूर्वं मृते कालं न मन्यते ।।१६८-७१।। धनुर्विद्यापुराकृता धनुर्विद्यायाः प्रथमकर्त्रा ।।१७२।। तद् व्रतं पूर्वासिद्धं पूर्वं केनाप्यकृतम् । इत्यादिरूपं कार्यम् ।।१७२।। स्फुटं सुश्मश्रुं मां कश्चित् तथा न ब्रूयात् इति मत्वा सुव्यञ्जच्छ्मश्रुमण्डलः भीमः (लोकस्य) अनुपद्रवाय तूबरेत्युक्ते हन्याम् तथोक्तबन्तमिति शेषः । (प्रभुः) साधयितुमिति शेषः । रहः चकार इति व्रतमिति शेषः ।।१७४-९।। त्वत्प्रतिज्ञां (अहं जानामि) ।।१८०-८।। (तमोव्याप्ते गगने) कृष्णेन लोकनाथेनेति शेषः ।।१८९-९२।। इति वरो दत्तः । (यत्) यस्मात् तेन कारणेन अस्य स पिता(पि) वध्यः । सन्ध्याक्रियस्य । सन्ध्यायां क्रिया यस्य स तथोक्तः ।।१९३-२२०।। (भीमस्यातिमानुषं बलं कर्माणि) चाह- साश्वसूतध्वजरथ इति ।।२२१-५।। सा च कर्णरक्षणकाङ्क्षिणा दक्षभुजे मुक्ताभूत् । विदार्य दक्षभुजं विदार्य धरणीं भित्वा विवेश,धरणीमिति शेषः ।।२२६-४८।। स्ववीर्यमास्थाय (अवलम्ब्य) ।।२४९-७२।। अक्षोहिणी समस्ता सम्पूर्णा निसूदिता ।।२७३-९४।। तौ अर्जुनसात्यकी ।।२९५-९।। सः भीमः अग्नौ अग्निरिव संस्थितः । ओणावृतस्तेनादह्यमानः स्थितः ।।३००।। अदह्यमाने ओणेति शेषः । स्थिते अस्त्रावृतत्वेेनेति शेषः । आत्मप्रपत्तये (ज्येष्ठभ्रातृ)निमित्तं स्वकर्तव्याय ।।३०१।। भीमहितार्थं कुतो नेत्यत आह- नेति ।।३०२-३।। बहिरस्त्रत्वात् । नरत्वात् नरावेशत्वात् ।।३०४।। आच्छिन्नहेतौ आकृष्टायुधे ।।३०५।। ईश्वरैः अविषह्यमपि अस्त्रमयुध्यत् ।।३०६-७।। नमस्कार्यं नमस्कारयोग्यम् । तत् नमनम् ।।३०८-१७।। प्रातर्युद्धमस्तु इति ब्रुवाणः शिबिरं ययाविति सम्बन्धः ।।३१८-९।। ।। इति षडि्वंशोध्यायः ।।

।। अथ सप्तविंशोध्यायः ।। ।।१-६।। वायुं शिवं (तथा) तथाशब्दार्थः ।ऋते । एतादृशी ज्ञानसम्पत् एतादृशं बलं वा न अन्यस्येति शेषः । द्वयं मिलितं कुतः ।।७।। दिशो निरन्तराः गगनं (च) निरन्तरं चक्रतुः ।।८-१८।। कृतश्रमौ कृताभ्यासौ ।।१९-२३।। यादृशो हरिः पार्थस्येति शेषः ।।२४।। रथिनः सारथेरुत्तमताम् ।।२५।। यो रथिनः सकाशात् बुद्ध्याद्यैः अधिकः सः ।।२६-३६।। मुधा व्यर्थम् ।।३७-८।। अन्ते प्रलये । आत्तसमस्तविश्वं हरं ग्रसतः कृतान्तनरसिंहतनोर्विष्णोः रूपं यथा भयङ्करमिति शेषः । आस कर्णमभिगच्छतः भीमस्य रूपं तथा भयङ्करमासेति सम्बन्धः ।।३९-६३।। अह्नश्चत्वारो यामाः । तत्राष्टमभागः यामार्धम् ।।६४-१०६।। रवेः सुतमप्राप्यान्यत्र युध्यन् अर्जुनः ।।१०७-२०।। ग्रामजनः वणिक् ।।१२१-३०।। तत् अर्जुनहार्दं अर्जुनाभिप्रायम् ।।१३१-३।। विफलः अप्रयोजकः ।।१३४-६।। तेन परिरम्भितः आशीर्भिरभिनन्दितश्च ।।१३७-८।। तदा नृपं द्रष्टुमर्जुनगमनानन्तरम् ।।१३९-४१।। धर्मराजप्रवृत्तिं क्षेमवार्तां श्रुत्वा प्रीतः ।।१४२।। सिंहो मृगमिव ।।१४३-५।। तृषितः अमृतोपमं अमृतमिव तच्छोणिताम्भः पपौ पपाविव ।।१४६-७।। स ईश्वरं नृसिंहं भगवन्तं मन्युसूक्तप्रतिपाद्यं भक्त्या स्मरन् । यस्ते मन्यो इति ‘यस्ते मन्योविधद्वज्र सायक’ इत्यादिकं मन्युसूक्तं मन्युनाम्नो नृसिंहस्य प्रतिपादकं मन्त्रं ददर्श । अतः तत्सूक्तदर्शनानन्तरं इहेति साम्ना मन्त्रेण गदाकरेण अरिवक्षः सोमबुद्ध्या सोमं भि(नद्मि) इति बुद्ध्या बिभिन्दन् नारसिंहं नरसिंहदेवताकं शोणिताख्यं सोमं तस्मै नृसिंहाय प्रार्पयत् ।।१४८-९।। ‘दुःशासनस्यास्य विदार्य वक्षः पिबामि रक्तं जगतः समक्षं’ इति प्रतिज्ञाम् । याः धार्तराष्ट्रपत्न््नयः सपतयः पूर्वमिति शेषः । ताः अपतयः जाताः इदानीमिति शेषः । या सा द्रौपदी अपतिः ‘अपतिर्ह्यसि कल्याणि’ इत्युक्ता सा सपतिर्जाता ।।१५०।। पूर्वं ये धार्तराष्ट्राः तिलाः वीर्यन्तौ स्वयमभिमता इदानीं षण्डतिला निर्वीर्या बभूवुः । पूर्वं ये पाण्डवाः षण्डतिलाः इदानीं ते तिलाः बभूवुः । परमस्य चित्रां शक्तिं पश्यन्तु इति योजना । इह सेनायां यदि कश्चित् पुमान् पुंस्त्ववानिति भावः । तर्हि एनं स्ववीर्यान्मोचयतु । स्ववीर्यादित्युक्त्या न मच्छरणाप्त्येत्युक्तं भवति ।।१५१।। सप्राणममुं विसृज्य (अवज्ञा)येत्यर्थः ।।१५२-३।। अजोहवीत् आह्वयत् ।।१५४।। पार्थभागः हननविषयः इति भावः । सः मद्रराजेन सम्बोधितः युद्धे कथञ्चित् स्थितः ।।१५५।। हरये हरिप्रीत्यर्थम् ।।१५६।। मृतं शत्रुसमुत्सृज्य (दुर्योधनं प्रत्यभिदुद्रुवे) ।।१५७।। व्याघ्रपदेन पदद्वयवद् हस्तावपि भूमौ निधायेत्यर्थः ।।१५८-६१।। अनन्यौपयिकानि अन्येन कर्तुमशक्यानि ।।१६२-७१।। रणे विशेषयन् (अर्जुनतोपि) विशेषं कुर्वन् ।।१७२।। पोथयामि प्रहरामि ।।१७३।। ‘तं शङ्कितं कर्णजये’ इत्यत्र नरावेशाभिव्यञ्जनस्य पूर्व(मुक्तत्वात् भूय एवेत्युक्तम्) ।।१७४-६।। तथा शान्तमनसौ ।।१७७-८२।। दिव्ये किरीटम् ।।१८३-४।। ‘खाण्डवदाहे तव पूर्ववैरी तक्षकपुत्रः गगने गच्छति, तं पातय’ इति प्रभुणोदितः ।।१८५।। ननु ब्रह्मास्त्रयुक्तनागबाणविसर्गानन्तरमेव तमखण्डयित्वा स्वकिरीतभङ्गानन्तरं कुतोखण्डयदित्याशङ्कायामाह- (ब्रह्मास्त्रस्येति । ब्रह्मास्त्रस्या) तिवेगित्वेन तन्मोक्षानन्तरमेव तत्खण्डनावसराभावात् पश्चादखण्डयदिति भावः ।।१८६।। ग्रसति (स्म) अग्रसत् । शापात् ‘प्रमादी त्वं भविता चास्त्रसङ्घे’ इति रामशापात् ।।१८७-९।। अपराह्णस्य वृद्धस्य । सोत्सेधं सोत्प्लवनम् । सशरीरमिति वा । अस्मिन्नर्थे (शिरसा सह कबन्धश्च युगपदपत)दित्यर्थः ।।१९०-९१।। ।। इति सप्तविंशोध्यायः ।।

।। अथ अष्टाविंशोध्यायः ।। ।।१-११।। सहदेवाद्याश्चत्वारः शकुन्त्यादींश्चतुरो न्यवारयन् इति क्रमेणोत्तरत्रापि योज्यम् । चित्रम् आश्चर्यम् । लघु हस्तलाघवोपेतम् । सुष्ठु (द्रष्टॄणां मनोहरम् ) ।।१२-१४।। देवासुरोपमं देवासुरयुद्धोपमम् ।।१५-२६।। रुरोज बभञ्ज ।।२७-३१।। इन्द्रस्यातिथितामगादिति ।। मध्याह्नसमये युधिष्ठिरेण युधि पातितः इन्द्रालोकमगादिति भावः ।।३२-६।। एकः असहायः ।।३७-४१।। प्राप्ते च निकृत्ते ।।४२।। पञ्च अक्षोहिण्य इति शेषः । ननु कौरवसेनायामर्धं पार्थेनार्धं भीमेन निहतमिति ग्रन्थान्तरोक्तम् । (तत्) कथं भीमेनाक्षोहिणीषट्कं निहतं पार्थेन पञ्चाक्षोहिण्यो निहता इत्युक्तिर्घटत इत्यत आह- अर्धमिति ।। एकाक्षोहिणीसङ्ख्याकान् भीमनिहतान् कालिङ्गकानृते अर्धं भीमनिहतमर्जुननिहतमिति ग्रन्थान्तरोक्तेर्न विरोध इति भावः । अत्र तु कालिङ्गकैः सह भीमेनाक्षोहिणीषट्कं निहतमित्युक्तिः ।।४३-६।। मन्त्रा केन दत्ताः किम्फलदा इत्यत आह- मन्त्रा इति ।।मृतसञ्जीवनप्रदाः वह्न्यादिस्तम्भादिदा इत्यपि गृह्यते । ‘वीर्यदा विजयदाः’ इत्यादिनोक्तत्वात् । तान् मन्त्रानिति शेषः ।।४७-५१।। तदासौ धृतराष्ट्रपुत्रः दण्डहतोहिर्यथा तथा श्वसन् शाठ्यादुवाच ।।५२-५।। आशीविषो यथा तथा श्वसन् ।।५६-६१।। तत् तदा । राज्ञः गदायाः अध्यर्धभाराधिकाम् ।।६२-६३।। धार्तराष्ट्रश्च कृती गदाशिक्षाबलवान् ।।६४।। अतो भीमः अव्याजेनापि हन्तुं शक्त यद्यपि तथा(पि) कृष्णः (तत्) तस्मात् लोकनिन्दानिवृत्तये आपद्धर्मं दर्शयितुं, भीमस्य इति शेषः । अव्याजेनाप्यस्य हननशक्तिं सूचयितुमिति भावः । भीमस्य शिक्षां गदाशिक्षां अनूनामाह । दुर्योधनेधिकं यत्नमाह । भीमादिति शेषः । अतिप्रयत्नं, कृतं दुयोधनेन गदाशिक्षायामिति शेषः । कार्योपयोगिप्रयत्नादाधिकं न कुर्यादिति तु अयं गुणो हि । स्वरूपसामर्थ्यवत इति भावः ।।६५-७०।। ततः गदामादायोत्थानानन्तरम् ।।७१।। तदा स भीमः जनार्थे दिदृक्षुजनार्थे अग््रयप्रकृतिं प्रकृष्टशिक्षां विधित्सुः प्रदर्शयितुमिच्छन्निति भावः । मन्दः अव्यग्रः आजौ व्यचरत् ।।७२।। तदा बलभद्रोपि तौ निवारयितुं आजगाम, तीर्थयात्रां कृत्वेति शेषः ।।७३-६।। तदा वृकोदरः तं नाभेः अधस्तात् न निजघ्ने नाताडयत् । नाभेरुपरि अपि न निजघ्ने इति वाक्यशेषः । तर्हि कुत्राताडयदित्यत आह- मध्य एव नाभेर्मध्य एवेति ।। नार्भेरुपर्यधो वा कुतो न निजघ्ने मध्य एव कुतो निजघ्न इत्यतस्तदभिप्रायमाह- प्रतिज्ञेति ।। प्रतिज्ञापालनार्थाय ऊरू भेत्स्य इति प्रतिज्ञां साधयितुं नाभेरुपरि न निजज्ञे । नाभेरुपरि हनने ऊरुभङ्गासम्भवादिति भावः । गदायुद्धस्य मर्यादां यशश्चाभिरक्षितुं नाभेरधस्तान्न निजघ्ने ।।७७-७८।। यद् यदा सुयोधनः कृष्णं द्यूते निधेहीत्यवादीत् तत्प्रतिज्ञानुसारेण तस्मिन् काले कृतप्रतिज्ञायाः ‘भूतले निपात्य शिरो मृदिश्ये’ इति प्रतिज्ञाया अनुसारेण, भीमः प्रतिज्ञायुग्मार्थं एवं उक्तरीत्या भिन्नसक्थियुगं दुर्योधनं मूर्धानमक्रमीत् । पदाताडयदिति भावः । तमसि पततां तामसानां सुकृतं (असुहृत्) जनो गृह्णाति । संसारान्मुच्यमानानां सतां सुकृतं सुहृत्सज्जनः संसारी प्राप्नोति । दुष्कृतं द्विषन् पापीयान् प्राप्नोति । (अ)यम(स्य) द्विडसुहृत् तेषां सुयोधनादीनां पुण्यानि विद्याश्च समादाय तान् तमोगन्तॄन् चकार । विद्याः फलसहिता इति शेषः ।।७९-८०।। तानि तस्य स्मारयामास । (पुनः) पुनः अहनत् इति सम्बन्धः ।।८१-५।। संश्रावयानेन दुर्योधनं संश्रावया(नेन) । दुर्योधनसमक्षमेवेति भावः ।।८६-९।। उपाधिना व्याजेन ।।९०-१।। गदायोरुभेदनप्रतिज्ञाया अधर्मत्वात् ‘तवोरुमेनं गदयोरुवेगया विभेत्स्ये’ इति प्रतिज्ञा पूर्वं भीमेन कथं कृतेत्यत आह- धर्मत इति ।। इयं प्रतिज्ञा गदयोरुभेदप्रतिज्ञा धर्मतश्च धर्मत एव तेन कृता । कुतः ? अनुरूपतः । कृष्णाया ऊरुसन्दर्शनसमये ऊरुभेदनप्रतिज्ञाया एवानुरूपत्वादिति भावः ।।९२-१०३।। शोभनः अन्तः मरणं स्वन्तः । तेनोत्तमः स्वन्तोत्तमः ।।१०४।। मया यज्ञैरिष्टं इत्यादि योज्यम् । अन्यत् अतोन्यत् किम्, परलोकार्थं कार्यमिति शेषः ।।१०५-६।। अत एव (केवला) धनरहिता मही ।।१०७-९।। अखिलं (इष्टं च यज्ञैरित्याद्युक्तम्) ।।११०-३।। (अपा)पो व्यसनं पापमिति यावत् ।।११४।। ततः कृष्णः तैः प्राप्तजयत्वादत एव हृषितैः । युद्धदिदृक्षार्थमागतैः विरिञ्चेशसुरेन्द्रमुख्यैश्च सम्पूजितः ।।११५।। श्रुत्वा, पुत्रादिवधमिति शेषः ।।११६-२०।। (पांस्वभिषे)कं कुर्वतोभिप्रायमाह- उच्छिद्येति ।। तथेति (तव क्षेत्रे पुत्रमुत्पादयामीत्युक्त्वा) ।।१२१-३।। (परमात्मना कर्त्रा) एतेन निर्दशनेन करणेन प्रेरितः सन् । पाण्डुसुतान् हन्तुं पाण्डवानां शिबिरं प्रति यामि, युवामप्यभिगच्छतमिति वाक्यशेषः । (तौ) कृपसात्वतौ प्राह, शिबिरं जगाम चेति वाक्यशेषः ।।१२४-२८।। हरिशक्तेरचिन्त्य(त्वे लिङ्गमाह- दृश्यन्त इति) आत्महनः ।।१२९।। (विष्णवे विष्णुप्रीत्य) र्थं ।।१३०।। यज्ञे मानसयज्ञे ।।१३१-६।। शस्त्रेण जहि वीरोसि । (शस्त्रेण वधस्य वीरस्वभा)वत्वादिति भावः । अथ तस्मात् शस्त्रपाणित्वेन हतत्वात् लोकाः (पुण्यलोकाः) इत्यर्थः ।।१३७-८।। धृष्टद्युम्नः मृत्युं अवश्यम्भाविनं अपरिहार्यं विचिन्त्य निश्चित्य तूष्णीं बभूव । कुतोस्य निश्चय इत्यत आह- स्वप्नेपीति ।। (पश्यति अ) पश्यत् यस्मादित्यर्थः ।।१३९।। स्वप्नेपीत्युक्तमेव विवृणोति- द्रौणिं चेति ।। द्रौणिं विशसन्तम्, कालरात्रिं महाकालीं (कृषन्तीम्) आत्मानमिति शेषः । हिशब्दो हेतौ ।।१४०।। द्रोणसुतः अस्य कण्ठे धनुषः मौर्वीं समाक्षिपत् । उरस्थः निबध्य ममन्थ, कण्ठमिति शेषः ।।१४१-२।। (खड्गे)न सव्यापसव्येन सव्यापसव्यताडनेन ।।१४३-६।। अपाण्डवाय अपाण्डवत्वाय । अभिसन्धितं अभिप्रेतमपि ब्रह्मशिरः अस्त्रं रुद्रेण एनं विनेति चिन्तितं एनं न जघान । चेकितानादिकांश्चान्यान् सर्वशः जघान, द्रौणिरिति शेषः ।।१४७-५३।। पृथक् पृथक् ।।१५४-६।। तदस्त्रमव्यर्थतां अमोघतां नयन्, भीमं च अवध्यतां नयन्निति योजना ।।१५७।। तयोरव्यर्थता कुतो नेत्यत आह- अवध्य इति ।। यद् यस्मात् तस्मात् उभयमपि अव्यर्थतां नयन् इति सम्बन्धः । उभयोरवध्यतादिकं कुत इत्यत आह- विष्णुनेति ।। उभयं भीमस्यावध्यत्वमस्त्रस्यामोघत्वं चेत्युभयम् । यस्मात् तस्मात् अवध्यत्वमोघत्वं च नियतमुभयोरिति वाक्यशेषः । प्रकारान्तरेणावध्यत्वादिकं वक्तुं प्रकृतास्त्रस्वरूपमाह- भीम इत्यादिना।। तदस्त्रं भीम एव भीमेनाभिमन्यमानभावात् परस्परं न वध्यघातकभाव इति भावः ।।१५८-६१।। स्वमु स्वमेव ।।१६२-३।। भीमार्जुनयोरस्त्रज्ञत्वे सत्यपि युधिष्ठिरादीनामनस्त्रज्ञत्वात् सामान्यतस्तद्विषयेपि मुक्तमसत्रमुचं द्रौणिं हन्याद् यतः ततः ।।१६४।। भवेत् यतः ततः करुणात्मना पार्थेन भूतानामपि स्वस्ति काङ्क्षिता यद्यपि तथापि युक्तं तदस्त्रद्वयं भूतानां नाशकृत् भवेत् ।यस्मात् तस्मात् तयोर्योगं निवारयन् कृष्णः तयोर्मध्य क्षणा(दभवत्) ।।१६५-७।। अस्त्रविदः त्वदस्त्रसंयोगात् पूर्वमभवत्, इदानीं सन्तीति योज्यम् ।। १६८-७०।। द्रौणिम्, दृष्ट्वेति शेषः ।।१७१।। अयमश्वत्थामा द्रोणात्मजः सन्नपि अब्रह्मचर्यात् न, अस्त्रनिवर्तने प्रभुरिति शेषः ।।१७२-५।। अस्त्रात् पञ्च पाण्डवा एव मुक्ता इति, अब्रवीदिति शेषः ।।१७६।। अर्जुनः तत् अस्त्रमपि सञ्जहार ।।१७७-८।। उत्तरागर्भकृन्तने उत्तरागर्भकृन्तनार्थम् ।।१७९।। यदि ते गर्भः हन्तव्यः एव इत्यभिप्रायः तथापि अस्मिन् गर्भे अस्त्रं कथञ्चन न पातय, मदाज्ञयेति शेषः ।।१८०।। यदि पञ्च पाण्डवा एवास्त्रान्मुक्ता इति वदतस्तव पाण्डवेभ्योन्यत्रास्त्रं पातनीयमिति निर्बन्धस्तर्हि हे मानद मृतस्याभिमन्योः देहे पातय इति परिहासोक्तिरियम् । एवं गर्भं पातयामीति निर्बन्धात् त्वयं गर्भे ओ मुक्तेपि ।।१८१-२।। शक्तितः यततोपि ते सकाशात् ।।१८३-८५।। मदाज्ञया तव सा वाञ्छा विफला भवित्री । विष्णोर्विमुखस्य मुमुक्षा मोक्षेच्छा यथा तथैवेति योजना । तेनैव मन्मतविरुद्धपाण्डवसन्ततिलोपादिकामनेनैव ।।१८६।। सदा व्रणसञ्चिताङ्गः अत एव दुर्गन्धयुक्तः । मन्दः निःस(त्व) । विपिनेषु चरः । तथेति । यथा कृष्णेनोक्तं तथेति ।।१८७-२००।। अन्तररीन् हत्वेत्युपलक्षणम् । भगवदपरोेक्षेण चेति ग्राह्यम् ।।२०१।। धात् अधात् ।।२०२-१०।। अग्रे प्रथमतः ।।२११-२२।। धर्मसंहितः धर्मसम्बद्धः यथा भवति तथा ब्रुवाणम् ।।२२३-७।। गान्धार्याः दिव्यं चक्षुर्ददौ । दिव्यचक्षुरभावे युगपत् साकल्येन सर्वमृतकदर्शनानुपपत्तेः दिव्यचक्षुर्ददाविति ।।२२८-३१।। तपोनाशनमेकं कारणम् । कारणान्तरमाह- हीनेति ।। अतो हि (तेन हरये) शापेन तपोनाशादेवेत्यर्थः । भर्तृतो हीना । अयं भावः । पूर्वं स्वयोग्यातिरिक्ततपोबलेन भर्तुरधिका सती स्वयोग्यातिरिक्ततपोनाशेनेदानीं हीनासीदिति ।।२३२-४।। अन्येषां असताम् । प्रसिद्धानां कांश्चन, देहानिति शेषः ।।२३५-६।। दत्तेति पार्थानाह । तं चाग्रजमाह ।।२३७।। ततः राजा युधिष्ठिरः परमदुःखितः हा हा इति विलपन् ।।२३८-४१।। इति अष्टाविंशोध्यायः ।।

।। अथ एकोनत्रिंशोध्यायः ।। ।।१।। प्रसिद्धं रक्षः । तत एव च (यतिर्भूत्वा) ।।२-७।। धर्मशासनम् (धर्मैकपरं वचनम् । न वेत्सि) धर्मानिति शेषः ।।८-१६।। भागवता धर्मा उच्यन्त इति शेषः ।।१७-२६।। सुरविप्रयोः वित्तात् अन्यत्र सर्ववित्तेन स्वप्रयोजनोपयुक्तसर्ववित्तेन वर्तेत जीवेत् । एतान् वैश्यादीन् ।।२७-९।। अन्ये वर्णबाह्याः । कार्वादयः ।।३०-५।। गुणोत्तमानां दाराणां स्मृत्यैव भोग्यत्वस्मृत्यैव । अन्धं तमः (व्रजेत्) पुमानिति शेषः । अत्र पुरुषेषु ।।३६-५४।। मोक्षयोग्यानां सतामपि कामा(नाम)धमत्ववर्णनमसहमानो भीमः (स्व)मतमाहेत्याह- अथेत्यादिना ।। स्वविवक्षितप्रमेयस्यैव प्रामाणिकत्वं मन्यमान आहेति सूचितम्- हर्षादिति ।। अत एव स्मयन् इति चोक्तम् । (स) कामः (अवरतां क्व यायात्) ।।५५।। कामशब्दार्थकथनपूर्वकं कामस्योत्तमत्वं साधयति- काम्यमिति ।। आर्याः वर्याः । काम्यं कामविषयं कामाभिधं कामशब्दवाच्यं आहुः । हीति प्रसिद्धं द्योतयति । पुमर्थाः पुरुषार्थाः धर्मादयः साधनैः तदुचितसाधनैः सह काम्या (इति यत् तस्मात् काम्य)स्यैव कामत्वात् ‘क्वावरतां स यायात्’ इति पूर्वेणान्वयः । काम्यन्त इति कामा इति निरुक्त्या धर्मादीनामेव कामत्वात् कामावरत्ववचनमनुपपन्नमिति भावः । तर्ह्यकाम्यं किमित्यपेक्षायामाह- अकाम्यतामिति ।। अपुमर्थ एव दुःखा(द्यपुरुषार्थ एव अकाम्यतां) अकाम्यमेतदति बुद्ध्या गोचरतां याति । धर्मादीनां काम्यत्वात् कामत्वं कथमित्यतस्तदभिधायकपुमर्थशब्दनिरुक्त्या सिद्धमित्यतस्तं निर्वक्ति- पुमर्थितत्वादिति ।। पुम्भिरर्थितत्वात् धर्मादिकं तत्साधनं च पुमर्थ इत्युक्तमिति । (हि यस्मात् तस्मात् का)म्यत्वात् धर्मादि(कं तत्साधनं च) काम इ(त्युच्यते) । (अ)पुमर्थितत्वात् दुःखं तत्साधनं चापुमर्थ इति वाक्यशेषः ।।५६।। न केवलं पुमर्थानामेव कामत्वम् । तत्साधनानामपि कामत्वमस्तीत्याह- विज्ञाने(त्यादि) ।। तत्साधनं मुख्यं धर्मादिसाधनं विज्ञानभक्त्यादिकमपि कामबहिष्कृतं चेत् अकामितं चेत् साधनं धर्मादिसाधनं न स्यात् । यत् तस्मात् विज्ञानभक्त्यादिकमपि काम्यत्वात् कामनामकमिति वाक्यशेषः । अनेन पुमर्थाः साधनैः सह काम्या इत्युक्तमुपपादितं भवति । कामात् मोक्षविषयकामात् विना परमः पुरुषार्थोत्तमः मोक्षोपि साध्यतां न याति । (हि) यतस्तस्मात् सोपि कामविषयत्वात् काम एवेति वाक्यशेषः ।।५७।। न केवलं धर्मादयः काम्याः । किन्तु तत्सम्पादको हरिरपि काम्य इत्याह- परात् पर इति ।। इतरेषां पुरुषा(र्थि)नाम् । इतरेषां कुतः काम्य इत्यत आह- अकामित इति ।। तस्मात् सोपि काम्यत्वात् काम इति भावः । तेन काम्यस्यैव कामशब्दवाच्यत्वेन अखिलः पुमर्थः तत्साधनं तत्सम्पादको हरिश्च काम एव ।।५८।। (काम)विषयस्य कामत्वमभिप्रेत्य तस्योत्तमत्वमुपपाद्य इदानीं कामनं काम इतीच्छा वा कामशब्द•भिधीयत इत्यभिप्रेत्यापि कामस्योत्तमत्वमाह- इच्छैवेति ।। इच्छैव (कामः) कामशब्दवाच्यः अस्तु । तथापि काम एवोत्तम इति शेषः । कथमित्यतस्तदुपपादयति- नेत्यादिना ।। एतां इच्छां ऋते चित्तवं चेतनत्वं न सम्भवति । जीवस्येति शेषः । किन्तु घटकुड्यवत् अचेतन(त्व)मिति शेषः । स्यात् । ततः इच्छाभावे जीवस्याप्यचेतनत्वापत्तेरिच्छायाश्च सर्वपुरुषार्थमूलत्वात् सैव इच्छैव सा(रः) उत्तमा । तामिच्छां विभजति- चिदात्मिका चेतनस्वरूपा । अपिशभ्दादचेतनान्तःकरणरूपा चेति द्विविधेति भावः । तत्र चेतनेच्छास्वरूपमाह- (सेति) स्वरूपभूता सा इच्छा सदैव आमुक्तैः गूढतनुः अविद्यावृतस्वरूपा मुक्तावाविर्भूता चेतना । अचेतना अन्तःकरणरूपा सदैव मोक्षात् पूर्वं संसारदशायां सा गूढतनुः अभिभूतरूपा । मुक्तिदशायां नास्त्येवेति तत्वम् ।।५९।। एषः निरूपितस्वरूपः कामः तेनैव कस्यापि पुरुषस्य क एव धर्मादिषूत्तम इति विभज्य प्रश्नयोग्यो न । तेनैव इच्छायाः कामत्वेनैव । इच्छाभावे प्र(श्नादेर)प्यसम्भवात् इच्छाया उत्तमत्वं सिद्ध(मिति) एषः कामः पृथक् प्रश्नयोग्यो नेति च योजना । हे राजन् ते त्वया अयं कामः त्रिविधो वेद्यः । धर्मार्थानुकूलः, धर्मार्थयोरन्यतराविरोधी, उभयविरोधी चेति । यदि अत्र त्रिविधकामे तारतम्यमिच्छसि ज्ञातुमिति शेषः । तर्हि धर्मार्थयुक्तः धर्मार्थाविरोधी अनुकूलश्चेति ग्राह्यम् । परम उत्तमः ।।६०।। यद्यसौ एकाविरोधी धर्मार्थयोरन्यतराविरोधी अनुकूलः अन्यतरविरोधी च तर्हि असौ मध्यमः मतः । यद्यसौ द्वयोर्विरोधी तु विरोध्येव न तूदासीनः (तदा नीच एव) मत इति योजना । तस्मात् उक्तप्रकारेण कामस्यैवोत्तमत्वात् स्वबुद्धिप्रमादाभिरेव कामं रमेथाः । स्वेच्छानुसारेण च रमस्वेति भावः । अनुरूपकामः धर्माद्यनुरूपेच्छः ।।६१।। कामादपरं शुभं उत्तमं नहि । कुतः ? येन ज्ञानका(मानां हरिरेव परः कामः) कामेषूत्तमः । हीति श्रुत्यादिप्रसिद्धं द्योतयति । तस्य कामत्वमुपपादयति- प्राज्ञ इत्यादिना ।। व्याससमासयुक्तम् । व्यासो विस्तारः । समासः सङ्क्षेपः । ‘न कामादरतिरिक्त(मस्ति इत्यारभ्य कामं रमे)था अनुरूपकामः’ इत्यन्तं विस्तरोक्तिः । ‘राजन्न कामादपरं शुभं हि’ इत्यादिसङ्क्षेपोक्तिरिति भावः ।।६२-३।। ।। इति एकोनत्रिंशोध्यायः ।।

।। अथ त्रिंशोध्यायः ।। अथ युधिष्ठिरस्य सर्वधर्म(कथनानन्तरं स्वर्गारो)हणे स्वमूलरूपं स्मृत्वा स्वां वसुतां गते सति ।।१-४।। योग्यः (अर्थस्य) । अर्थविमुखः ।।५।। पञ्चपाण्डवानां प्रवृत्तिप्रकारं यथाक्रममाह- प्रष्टा चेत्यादिना ।।६-८।। विज्ञानयुजा प्रीत्यैव ।।९-११।। वासुदेव्यः वसुदेवपुत्र्यः । पूर्वं दिशः दिग्देवताः । आपश्च अब्देवताश्च ।।१२।। अनुशास्य शिक्षयित्वा । युक्तान् धर्मशिक्षोपपन्नान् ।।१३।। यथा व्यधात् यथावदकरोत् । वर्णाश्रमस्थैर्यथा वर्तितव्यं तथाकरोदित्यर्थः ।।१४।। ‘यथा व्यधात्’ इत्येतद् विवृणोति- नेत्यादिना ।।१५-७।। अग्रभुवः अग्रजस्य ।।१८-२०।। सः माद्रेयः ।।२१-२।। युयुत्सुः सः प्रसिद्धः सञ्जयः विदुरश्च पार्थेरिताः ।।२३-५।। गावो धेनवः । ससरस्वतीकाः सवेदाः । वेदानां च कामदोहत्वं नाम वेदोक्तानुष्ठानवतां सम्पूर्णफलवत्वम् । जङ्गमाः गजादयः ।।२६-३०।। बलिः वैरोचनिः ।।३१-३।। दुर्योधननिपात(न)मारभ्य यः कालः अयं (मम) मदीयः ।।३४-५।। कालभवमपि कालप्राप्तमपि त्वदीयं राष्ट्रं बलिभिः नृपैः ।।३६-४०।। वक्षि वदसि । तत् (त्वा) त्वां ऋतवचनात् सत्यवचनात् (निमित्तात्) मोचये । अस्मत्सन्ततेः परं क्षेमकात् परम् ।।४१।। तत्रापि तदापि (सीमा, आधिः, बहूनां वाक्यं, तुला मानं च मे) दीय(मान) इति शेषः करः ।।४२।। क्वचित् व्याजे(नापि व्यवस्थायाम)सत्यामपि एतेषामतिक्रमं सर्वात्म(ना) नैव कुरु ।।४३।। क्षेमकपर्यन्तं (क्रम)वर्धिता पाण्डवसन्ततिः (इति) शेषः ।।४४-६।। पारे तीरान्तरे ।।४७-८।। गीतोक्तं ज्ञानं विस्तरोवददित्येतद् विवृणोति- वाणीत्यादिना ।। वाणी सरस्वती । प्राणः मुख्यप्राणः । अखिलं चराचरं ततं व्याप्तम् ।।४९।। एतेषां सर्वोत्तमत्वं सकलचेतनोत्तमत्वं अस्तीति शेषः । वशे, स्थितमिति शेषः । सर्वमेतद्वशे जगत् इत्युक्त्वा तद्वशेपरे इति पुनरुक्तिस्तात्पर्यद्योतनार्था । तद्वशे स्थि(ता इ) ति शेषः ।।५०।। इत्थं प्राणवाण्यादिक्रमेण हरेर्वशे, सर्वं जगत् स्थितमिति शेषः । स प्रभुः सर्वगुणपूर्णः स्वातन्त्र्यादिसर्वगुणपूर्णश्च । रमा प्राणोच्चा प्राणादुत्तमा । तदधः भगवतोधमा ।।५१।। हुताश इत्युपलक्षणम् । सर्वनामवाच्य इत्यपि द्रष्टव्यम् ।।५२-५।। तदीक्षणम् तदीक्षणं ज्ञानम् ।।५६।। इयं निष्ठा समीचीना ।।५७-६४।। तत्स्नेहात् शचीपतिस्नेहात् ।।६५।। अधः अधोभागे मूत्रस्रोतसि ।।६६-७।। वञ्चयितुरभिप्रायमाह- असाधारणमिति ।।६८।। स्वापराधाच्च स्वापराधादेव आत्मदत्तप्रसादात् प्रचालिते ।।६९।। युक्तमित्येव मन्यते अमन्यत । अमृतपानायोग्यत्वादिति भावः ।।७०-३।। अञ्जसा उत्तमकल्पेन अनुष्ठातुम् । नैच्छत् , आदातुमिति शेषः ।।७४।। न गतं च न प्रवृत्तम् । विज्ञाय तदखिलमिति शेषः ।।७५।। आविर्भूतः (इत्या)ह ति सम्बन्धः ।।७६-८३।। तं कृष्णद्वैपायनम् ।।८४-८।। मृतं मृतकम् । मृतं बालमिति वा ।।८९-९६।। साधनानि उपकरणानि हिरण्मयानि ।।९७।। कृष्णसारङ्गं कृष्णसारङ्गनामकम् ।।९८-१०२।। यत् गुरोः प्रीत्यै तत् उपायनं कार्यम् ।।१०३-४।। योधयति अयुध्यत् ।।१०५-१२।। तेन पार्थेन ।।११३-२७।। अतः उक्तादप्यन्यत् दुर्लक्षणमर्जुने ।।१२८-३५।। आविः प्रत्यक्षभूतैः अधिकमलङ्कृतः ।।१३६।। स्वधर्मस्थितमर्त्यादिकेषु योत्र नास नागतः स नास । ओकः यज्ञस्थानम् ।।१३७-८।। प्रगीतगन्धर्ववरः प्रनृत्तसदप्सरा इति कर्तरि क्तः । विवेचयन् देवनृपौघः तत्वविवेकं कुर्वन् देवनृपौघः (यस्मिन्) ।।१३९।। सहवासुदेव्यः वासुदेवभार्याभिः सहिताः ।।१४०।। अत्र अध्वरे प्राज्ञवरेनिलात्मजे प्रदातरि (केपि) असत्यकामा नाभवन् । तदेव स्पष्टमाह- न वै मुमुक्षुरिति ।। मुमुक्षुः अस्त्यकामो नाभवत् । न वै बुभूषुः ऐश्वर्यादिकमिच्छन्, (प्रपित्सुः प्रपदनमाश्रयणमिच्छन् वा) असत्यकामो नाभवदिति शेषः ।।१४१-६२।। तत्ववेदिभिः ‘तदर्थमेव हैरण्यः पार्श्वस्तस्याभवत् पुरा’ इति वक्ष्यमाणप्रकारेण तत्स्वरूपं जानद्भिः ।।१६३-४।। तदर्थमेव पाण्डवानां यज्ञं विनिन्द्य तमः प्रापयितुमेव ।।१६५।। तच्च (तत्) मतं च तन्मतम् । (तस्य निन्दा कार्येति त)न्मतमित्यर्थः ।।१६६-७७।। पृष्टः धर्ममिति शेषः ।।१७८-९।। ।। इति त्रिंशोध्यायः ।।

।। अथ एकत्रिंशोध्यायः ।। भक्त्या (अभियुक्तेषु) यज्ञेश्वरेण सह महीं प्रशासत्सु ।।१-६।। अस्य धृतराष्ट्रस्य (अमुष्य) लोकाप्तिः निजलोकाप्तिः । वैराग्यकराणि कर्माणीति शेषः ।।७।। तदेव विवृणोति- आज्ञामित्यादिना ।। परैः अन्यैः अस्य आज्ञां निहन्ति । तन्नियुक्तान् तदाज्ञां कर्तुमुद्य(तान्) वारयतीत्यर्थः ।।८।। परिचक्रुरेव ।।९-१३।। उत्पन्नश्चासौ निर्वेदश्चेति ।।१४-३१।। इतरार्थतः स्वपित्रोरर्थतः ।।३२-७।। जोषं तूष्णीम् ।।३८-४३।। निर्ऋणत्वधीः । न विद्यते ऋणं यस्यासौ निर्ऋणः । तस्य भावः निर्ऋणत्वम् । तद् भवेन्ममेति धीर्यस्यासौ तथोक्तः ।।४४-५।। यूयं युष्मत्पूर्वजाश्च ।।४६।। अरक्षिता अयं प्रजारक्षणकर्ता न भवति (इति) ।।४७-५५।। पर्यश्रुनयनैः । पर्यश्रूणि पूर्णाश्रूणि नयनानि येषां तैः तथोक्ताः ।।५६।। वनाय गन्तुमिति शेषः ।।५७-९।। तेन तद्वचनेन ।।६०-४।। निःशेषरणेहतानां इत्यलुक्समासः, निःशेषाश्च ते रणेहताश्चेति तेषाम् ।।६५-७२।। भर्त्रा सह अवरैः प्रतिपूज्यमानाम् ।।७३-५।। अरिक्तं सम्पूर्णम् ।।७६।। ।। इति एकत्रिंशोध्यायः ।।

।। अथ द्वात्रिंशोध्यायः ।। द्विषडब्दसत्रे द्विषडब्दनिर्वर्त्यसत्रे ।।१-२।। सनागा इत्यनेन अधरस्था अप्यागता इत्युक्तं भवति ।।३।। इह यज्ञे ।।४।। तदर्थिनः धर्माद्यर्थिनः । अखिलान् सम्पूर्णान् धर्मार्थकामान् मुक्तिमपि कृष्णादवापुः ।।५।। युतिं सम्मेलनम् ।।६-१०।। पुनः कलियुगारम्भानन्तरम् ।।११।। कालात् कालस्वभावात् ।।१२-४।। अनयत् स्वकुलमिति शेषः ।।१५।। अल्पमपि क्षेत्रं गत्वा, स्वगृहादिति शेषः ।।१६-२१।। साम्बगर्भजातमुसलेन यदुकुलनाशो भवत्विति विप्रशापं मानयानः । अमुना व्याधेन कारयित्वा, साम्बगर्भजातमुसलनिर्मितशरेण स्ववेषमिति शेषः ।।२२।। कोसौ व्याध इत्यतस्तत्स्वरूपमाह- पादप्रहारेत्यादिना ।।२३।। नीचा योनिः (प्राप्ता) कर्म च प्राप्तम्, भृगुणेति शेषः । भृगोः मनसः अदुष्टत्वादेव भक्तिलोपश्च नाभूत् । अत्रापि व्याधजन्मन्यपि । अबुद्धिपूर्वं भगवानित्यविज्ञाय कृतं अतिदोषकरं नाभूत् ।।२४-३३।। कृष्णस्त्यक्तदेहो दिवमगादिति दुष्टान् मोहयित्वा ।।३४-५।। प्रधानतः प्रधानानां रोहिणेयादीनाम् ।।३६-८।। काश्चित् हुताशने देहं, काश्चित् तपसा देहं त्यक्त्वा ।।३९-४३।। एकस्मिन् असहाये पार्थे म्लेच्छवशं गच्छन्त्विति शापात् ।।४४।। दर्पनिमित्ततः कृष्णशापात् ।।४५-६।। शेषं धनादिकम् ।।४७।। तमेव युद्धकाले कृष्णात्मना विजयादिप्रदमेव ।।४८-९।। गोविन्दैकादशीं आषाढशुक्लैकादशीम् । कृत्वा, उपवासमिति शेषः । चैत्रादिशुक्लैकादशीद्वादशीनां केशवादिद्वादशमूर्तीनां (देवतात्वेन) आषाढशुक्लैकादश्या गोविन्ददेवताकत्वेन गोविन्दैकादशीत्वम् ।।५०-३।। अवियोगसमयम्, कृष्णवियोगानन्तरं राज्यपालनादिकं न कुर्मः, तमेवानुगमिष्याम इति सङ्केतम् ।।५४-५।। (पै)तामहमर्जुनसम्बन्धीत्यर्थः । पार्थेनैव कुतो न कृतमित्यत आह- समयमिति ।।५६।। कौसौ समय इत्यत आह- वासुदेवपदा वासुदेवपादेन स्पृष्टा च सा भूश्च स्पृष्टभूः । तस्याः कण्टकसमुद्धृतिः । परं समुद्धृतेः ।।५७-६३।। सप्तभिरहोभिः प्रदक्षिणं कृत्वा ।।६४-६।। तेषां द्रौपद्यादीनाम् ।।६७।। तस्मात् दोषमुक्तवतः । उक्तो दोषो यस्य (तस्य उक्तदोषस्य) ।।६८।। स राजापि कार्यमकारणं न हि यस्मात् तस्मात् एवं स्यादपि भवितुमर्हत्यपि इति सम्भावनामात्रं यथा भवति तथा दोषान् प्राह ।।६९-७०।। विद्यमाना एव दोषास्तदुक्ताः किं न स्युरित्यतस्तेषां दोषाभावं श्रुत्योपपादयति- स्वच्छन्देति ।।७१-३।। अतस्तदुक्तदोषान् वदन्नेव तेषां तदुक्तदोषाभावं कुत्रचिद् भावेपि तस्य देहपाते हेतु(त्वाभाव)माह- भीमादृत इत्यादिना ।।७४-६।। एषु अर्जुनादिषु त्रिषु । कदाचिदतिमानः यथास्वरूपमतिक्रम्य ज्ञानम्, अहङ्कार इति यावत् । तथापि अतिमाने सत्यपि । एतत् देहपातं तत्फलं न । कुतः ? गुणदोषाधिकाल्पत्वात् । अपरोक्षज्ञानोत्तरकृतगुणानामधिकत्वात्, दोषाणामशुभानामल्पत्वात् निमित्तात् । अत्रस्थमपि मुक्तेः प्राक् भोग्यत्वेन प्राप्तमपि । तारतम्यं सुखतारतम्यम् । अपरोक्षज्ञानोत्तरं शुभाशुभकृतं यत्सुखतारतम्यं भवतीत्यर्थः । शुभकृत आनन्दो वर्धते । अशुभकृतस्त्वशुभफलं प्राप्तानन्दह्रास एव । न दुःखभोगः । एतादृशं शुभाशुभफलं मुक्तावेव भवति । (तस्मान्नातिमानफलं देहपात इति) । (देहपा)ते (किं) तर्हि कारणमित्यत आह- प्रारब्धेति ।। अपापिनोपि पापाकृतोपि देहः प्रारब्धकर्मनाशे देहारम्भककर्मनाशे पतेद्धि पतेदेव । तथा चैतेषां देहपातः पापफलान्न भवति । किन्तु प्रारब्धकर्मनासादेवेत्युक्तं भवति । प्रारब्धकर्मनाशाभावे देहपाताभा(वात्) । युधिष्ठिरोपि तत्तनुः प्रारब्धकर्मनाशाभावादपतितयुधिष्ठिरतनुः स्वर्गं गतोपि स्वर्गं स्वर्गभोगं न बुभुजे हि । स्वर्गं गतस्यापि युधिष्ठिरस्य प्रारब्धकर्मनाशाभावात् देहोपतित इति भावः ।।७७-८३।। मुच्यतां मोक्षं प्राप्नुवताम् ।।८४-५।। (श्व)रूपधारिणा आत्मना यमेन, दैवादागतेनेति भावः । ययौ स्वर्गमिति शेषः ।।८६-९५।। तद्भुवाम् । तस्मिन् भवन्तीति तद्भुवः । तद्भक्ता इत्यर्थः ।।९६-१०६।। (तदा देवानामागमनेपि) अभ्रान्तचेताः स युधिष्ठिरः । एतत् स्थानमिति शेषः । स्वर्गोत्तमं देङमपश्यत् । परं केवलम् । स्वमात्मानम् ।।१०७।। धर्मात् अनृशंसता कृपालुता । यक्षप्रश्नसमये ‘यद्यकः स्यान्नकुलोस्तु’ इति नकुले कृपालुता । ‘नारुहेयं विना श्वानम्’ इत्यत्र शुनि कृपालुता । ‘स्वानां वाच इवाशृणोत् । श्रुत्वा तत् कृपयाविष्टः’ इत्यादौ स्वजनकृपालुतेति (त्रिशः) । द्रोणकृते द्रोणार्थम् । ब्रूहि सत्यमित्युक्तवतो द्रोणस्य अश्वत्थामवधनिश्चयार्थं ‘सत्यमेव’ इत्युक्त्वापि असत्यभयात् उपांशु कुञ्जरो हत इति मृषागिरः व्यर्था गिरः । कुञ्जर इत्यनुक्तत्वेपि असत्यतादोषाभाव इत्यर्थः । असत्यभयजनितकृच्छ्रात् । इदं अश्वत्थामा हत इति वचनम्, श्रीकृष्णवचस्यविस्रम्भदोषात्, इदं दुःखसाधनं तमआदिकं प्रदर्शितमित्यर्थः ।।१०८-९।। अपरोक्षज्ञानोत्तरं कृतपुण्यपापा(नामले)पात् परमात्मनोपरोक्षज्ञा(ने)न (पूर्वतन)कर्म(नाशे) जातेपि अपरोक्षज्ञानिनो युधिष्ठिरस्य इदानीन्तनदोषलेपः कथमित्यत आह- ब्रह्मेति ।। ब्रह्मापरोक्षेपि ब्रह्मण आपरोक्षेपि अपरोक्षज्ञानेपि जातेपि विकर्म अपरोक्षज्ञानानन्तरं कृतं पापकर्म प्रारब्धपापस्य ब्रह्मापरोक्षसमये प्रारब्धस्य भोक्तुमुपक्रान्तस्य पापस्य सूचकम्, भवतीति शेषः । तस्मादिदं तमआदिदर्शननिमित्तदुःखं पूर्वप्रारब्धपापफलमेव । न कृष्णवाक्याविस्रम्भदोषफलम् । किन्त्वयं दोषस्तस्य सूचक इत्यर्थः । तत्र दृष्टान्तमाह- विषाशनमिति ।। प्रारब्धस्य पाप(स्य) फलभावात् म्रियमाणस्य विषादनं विषभक्षणम्, उपलक्षणमेतत् विषभक्षणादि यथा प्रारब्धकर्मफलस्य सूचकं भवति तद्वदस्यापीत्यर्थः ।।११०-१।। तद्भावितबुद्धिकर्मभिः ईशं प्रतोष्य ।।११२।। तत् तस्मात् । देवभावं देवस्वभावम् ।।११३।। अपुनर्निवृत्ताः पुनर्निवृत्तिरहिताः ।।११४-२२।। मानुषजन्मनः दिवौकसां स्पर्शे सुपूतता यथा नालम् ।।१२३-५।। पुरेव स्वर्गारोहणात् प्रागिव, पाण्डवादिभिः यथा तद्वत् ।।१२६।। कर्मक्षयादेव स्वमूलरूपैक्यमापुः ।।१२७।। पुण्यक्षयावधिमाह- चतुःसहस्रमिति ।।१२८।। (वि)शेषः अयं दुःखविशेषः हरिद्वेषकृतः हरिद्वेषतारतम्यकृतः ।।१२९।। अवरत्वे सर्वेषामवरत्वप्राप्तिशङ्कां निराकरोति- केचिदिति ।।१३०।। दैत्यैः मायिभिः निगूढं निर्गुणत्ववाचोयुक्त्या ।।१३१-२।। (स)हनूमदंशः हनूमदाख्यांशयुतः । हनुमतैकीकृत (इति) यावत् ।।१३३।। भुवि भूलोके हनुमदाद्यवतारदशायामित्यर्थः । द्युलोके यत्र भार(ती) ।।१३४-७।। धर्मः पूर्वं पाण्डवैः पालितो धर्मः ।।१३८।। गते, कलियुग इति शेषः ।।१३९-४०।। तत्सम्प्रदायस्य दुरागमसम्प्रदायस्य ।।१४१।। वेदश्रुतिं वेदश्रवणम् ।।१४२।। तत् तस्मात् ।।१४३-४।। पुरुभिः ब्रह्मादिभिः स्तुतत्वात् पुरुष्टुतनामा रमापतिः ।।१४५।। गयाख्ये क्षेत्रे गयायाम् ।।१४६।। शिशुं (हरिं निजं शिशुं) मेनिरे ।।१४७।। पृष्टः कस्त्वं किमर्थं हससीति पृष्टः । अहं बुद्ध इति वदतो भगवतोभिप्रायमाह- सुनित्यबोधादिति ।।१४८-९।। दैत्यातिमोहाय विष्णोरप्यधिकोयमिति दैत्यादीनामतिमोहमुत्पादयितुम् ।।१५०-३।। समस्तं क्षणिकं क्षणविनाशि ज्ञानं (न सच्च) इत्याद्यात्मोक्तशब्दार्थमाह- क्षणा(दय) इत्यादिना ।। क्षणादयः क्षणलवनिमेषमुहूर्तादयः तद्विशेषाः । कालस्य साक्षिसिद्धत्वेन नित्यसन्निहितत्वेन प्रकृतत्वात् तदिति परामर्शः । क्षणिकाः (आशुतरविनाशिनः, निसर्गतः) स्वभावतः प्रयान्त्येव यतः ततः क्षणादिकालविशेषस्याशुविनाशित्वात्, स्थिरत्वेपि सकलपदार्थजातस्य स्थायित्वेपि, क्षणिकत्वाभावेपीत्यर्थः, विशेषसंश्रयात्, आशुतरविनाशिकालसम्बन्ध(रूपविशेषबलात् क्षण)स्थायीति शते पञ्चाशन्न्यायेन क्षणेपि तिष्ठतीति क्षणस्थायीत्यभिप्रायेण क्षणिकमित्युक्तमिति योजना ।।१५४।। ननु क्षणस्थायित्वविशेषस्य क्षणस्थायिनो विशेषात् परम्परयानवस्था (स्यादित्यत आह- तद्वा)निति ।। तद्वान् विशेषवान् विशेषश्च न भिन्नौ परस्परभेदरहितौ यतः अतः नानवस्थेति वाक्यशेषः । ननु तर्हि विशेषा विशेषवानिति शब्दयोः पर्यायत्वं स्यादित्यत आह- सदेति ।। सदा सर्वकालं स्वनिर्वाहकशक्तियुक्तौ । अभेदनिमित्तापर्यायत्वादिव्यवहारनिर्वाहकत्वाख्यविशेषसहितौ । सदेत्यनेन विशेषस्य वस्तुतः स्वरूपत्वमुक्तं भवति । अतः क्षणिककालविशेषस्य सम्बन्धात् एतत् सर्वं क्षणस्थायि क्षणिकमपि स्थिरात्मकमिति भेदः विरोधः नास्ति हि यस्मात् तस्मात् स्थाय्यपि जगत् क्षणिकमिति मयोक्तमिति भावः ।।१५५।। अहमेव ज्ञः ज्ञानस्वरूपत्वात् ज्ञ इत्युक्तः । परमः उत्तमः । स्वामीति यावत् । एतत् चेतनाचेतनात्मकं अस्वतन्त्रम् । अतः सदा मया ज्ञनाम्ना अननीयं चेष्टनीयं हि यस्मात् अतः ज्ञेन मया अननीयत्वात् जडस्वरूपं विश्वं ज्ञानात्मकमित्युक्तम् । ज्ञेन अन्यते चेष्टयते रूपमस्येति ज्ञानात्मकमित्युक्तमिति भावः । चेतनं चेतनात्मकं जगत् ज्ञानात्मकमिति किमु वक्तव्यम् । चेतनस्य ज्ञानात्मकत्वं प्रसिद्धमिति भावः ।।१५६।। अहं शंशीलको यतः अतः शुः शुनामा । उच्चः उत्तमः यतः अत एव उश्च । उत्तमत्वादुरित्यर्थः । शुश्चासावुश्चेति शूनामकः । शु उ इत्येतयोः सवर्णदीर्घ कृते शू इति (पदं) अस्य नामेति शूनामकः । तद् विश्वं मया शूनाम्ना निधेयं स्थापनीयं (हि) यस्मात् तस्मात् विश्वं शून्याभिधं शून्यनामकम्, मयोक्तमिति शेषः । शूना नीयत इति शून्यमित्यर्थमभिप्रेत्ये(त्य)र्थः । अनामा, अ इति नाम यस्यासावनामेत्यर्थः । कुतः ? अशब्दस्य तदभावतदन्यतद्विरुद्धवाचकत्वात् । अहं (अः) विरुद्धः । तत्र गुणविरुद्धत्वाङ्गीकारे सर्वप्रमाणविरोधात् दोषविरुद्धरूप इत्याह । तदभावविवक्षायां दोषाभावोर्थः । अन्यत्वविवक्षायामखिलादन्यत्वमित्यर्थः । दोषविरुद्धगुणरूपत्वात् अखिलजगतोन्यत्वादनामेत्यर्थः ।।१५७।। एन भवेत् उत्पद्यते यतः तस्मात् अभावः । आद् भवतीति विश्वमभावः इत्युच्यत इत्यर्थः । इदं समस्तं विश्वं शून्यम्, विश्वमभावः विश्वमसत्, विश्वं विज्ञानमित्यादि मयोदितं वाक्यं इत्यादि एवमुक्तार्थवविशिष्टं बोद्धव्यम् । न प्रतीतार्थमिति भावः । मयोदितं हेयं विरुद्धत्वधियानुपादेयं नास्ति ।।१५८-५९।। अन्यत् भगवन्मतात् । प्रतीतार्थपरमिति भावः ।।१६०।। अन्यत् बुद्धोक्तशास्त्रम् । बुद्धोक्तं च तच्छास्त्रं चेति बुद्धोक्तशास्त्रम् । बुद्धोक्तशास्त्रमन्यत् । भगवदभिप्रेतार्थविरुद्धतया असुरप्रतीतमन्यदित्यर्थः । यां भगवदुक्तप्रशान्तविद्याम् ।।१६१-२।। अभिदां (भे)दा(भावम्) ।।१६३।। प्रपाताय, तमसीति शेषः । अत्र अस्मिन् ग्रन्थे ‘जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्वमाह’ इति यदुक्तं तत् जन्मासेत्यर्थः ।।१६४-६।। ज्ञानं कलं कलशब्दवाच्यम् । सुखं कं कशब्दवाच्यम् । तद्वान् (कल्कीति वा) इति सम्बन्धः । (कलं ज्ञानं कं चास्यास्तीति) कल्कीति निरुक्तिः ।।१६७-८।। ‘आनन्दतीर्थवरनामवती तृतीया भौमी तनुर्मरुत आह कथा परस्य’ इति प्रतिज्ञातभगवदतावतारकथा उक्त्वोपसंहरति- इत्यादीति ।। इत्यादीनि च तानि अनन्तानि च । येन कारणेन अनन्तकर्मरूपगुणवत्वेन ब्रह्मेति अनन्तेति च नाम ।।१६९।। अस्य ग्रन्थस्य स्वोक्तत्वज्ञापनार्थं च ग्रन्थकर्तुः स्वस्य रूपमाह- आनन्दतीर्थेत्यादिना ।।१७०।। सरहस्यसङ्ग्रहान् उपनिषत्सङ्ग्रहसहितान् ।।१७१।। (आत्म)गामिप्रयोजनमाह- समस्तेति ।। (अमुनैव) आनन्दतीर्थपूर्णप्रज्ञाचार्यनाम्नैव ।।१७२।। वेदपञ्चरात्रादिषु विप्रस्थितानां कुत्रचिदन्योन्यविरुद्धत्वेनेव स्थितानमत एव संशयहेतूनां सर्ववाचां अमुना ग्रन्थेन विना विनिर्णयः मुख्यनिर्णयः नास्ति यत् (तत्) तस्मात् इमं ग्रन्थं चकारेति योजना । ननु ब्रह्मसूत्रैरेव सर्वनिर्णयसम्भवात् किमर्थमेतन्निर्माणमित्यत आह- ब्रह्मसूत्राणीति ।। सत्यं सर्वनिर्ण(याय कृष्णः ब्रह्मसूत्राणि चका)रेति । तथापि अन्यैः मायावाद्यादिभिः तेषां ब्रह्मसूत्राणां व्याख्या अयथा व्याससिद्धान्तविरुद्धा कृता । तस्मादमुना विना निर्णयो नास्तीति सम्बन्धः ।।१७३।। तर्हि ब्रह्मसूत्राणि न व्याख्या(तानि किमित्यत आह-) निगूहितमिति ।। पुरुषोत्तमत्वम् भगवत इति शेषः ।।१७४।। व्याख्याय सूत्राणि चकार चाविरित्युक्तं विवृण्वन्नाह- व्यासाज्ञयेत्यादिना ।। उपनिषत्सुभाष्यम् । जातावेकवचनम् । उपनिषदां भाष्याणीत्यर्थः । भाष्यवरं सुभाष्यमित्युक्त्या अन्यानि दुर्वादिकृतानि दुर्भाष्याणीत्युक्तं भवति । हरिं अखिलान्यं सर्वस्माद् भिन्नं पुरुषोत्तमं वदन्तीति साधयित्वा ।।१७५।। अनन्तरं सद्भारतार्थप्रतिपादनाय प्राधान्येनेति शेषः । भारतार्थ(प्रतिपादनद्वारा) सर्वशास्त्रनिर्णयाय चेत्यर्थः । इमं ग्रन्थं चकार । (यस्मिन् ग्रन्थे) उदीर्ण(विद्या हरि)पाद(भक्ता रमन्ते तादृशम्) । इयं तृतीया तनुरिति सम्बन्धः ।।१७६-७।। इदं समस्तम् । वायोस्त्रयोवताराः तत् तृतीयो मध्व इत्यादीदं समस्तम् ।।१७८।। अतः अस्माद् ग्रन्थात् श्रवणादिनावर्तितादिति शेषः । अयं नारायणः प्रीतिमुपैति । यतस्ततः तस्मात् अन्यै उदितैः अन्यगुणैः किम्? उदितेभ्योन्यैः अस्यागण्यगुणैरुदितैः किं प्रयोजनम् ? मन्दमतिभिर्दुरवबोधत्वादिति भावः । उदितानुदिताशेषगुणानां फलं ग्रन्थस्य (नारायणप्रीतिविषयत्वम्) । सद्गुणानां नारायणप्रीत्यैकफलत्वादिति सर्वमतिमङ्गलम् ।।१७९-८०।। महाभारततात्पर्यनिर्णयार्थः सुरैरपि । न सुज्ञेयः कथं चाहं जानीयामल्पचेतनः ।। तथाप्यस्य महार्थस्य टीकानिर्माणसम्भवम् । ममापराधं क्षाम्यन्तु सन्तः सद्गुणभूषणाः ।। इति श्रीमन्महाभारततात्पर्यनिर्णयटीकायां श्रीवेदाङ्गतीर्थभट्टारकविरचितायां तात्पर्यदीपिकायां द्वात्रिंशोध्यायः ।।