10-19

।। श्रीगुरुभ्यो नमः ।। परमगुरुभ्यो नमः।। श्रीवेदाङ्गतीर्थेभ्यो नमः।। श्रीजयतीर्थादिगुरुभ्यो नमः।। ।। श्रीमदानन्दतीर्थभगवत्पादाचार्यगुरुभ्यो नमः।। श्रीवेदव्यासाय नमः।। श्रीवेदाङ्गतीर्थविरचिता तात्पर्यदीपिका ।। अथ दशमोध्यायः।। अवतारान्तरकथां वक्तुमुपक्रमते- द्वापर इत्यादिना।। कथान्तरद्योतकोथशब्दः। अष्टाविंशतिमे वैवस्वतमन्वन्तरे। पूर्वमपि भगवदवतारन्तरं() देवैः प््र•र्थनायाः प््राकृतत्वात् पुनरिति ।।१-३।। स्वदत्तमालां भुविपातकोपत इत्यत्र गृहीत्वा चरता दुर्वाससा ऐरावतारूढ इन्द्रो दृष्टः इन्द्रेण प््राणतः सन् तां मालां इन्द्रायादात्। इन्द्रस्तां मालामैरावतमस्तके न्यधात्। स्वमस्तकमवधून्वता ऐरावतेन सा माला भूमौ पातिता। स्वदत्तमालां भूमौ पतितां दृष्ट्वा कुपितेन दूर्वाससा गतश्रीः भवेदिति इन्द्रं शप्त इति पौराणिकी कथानुसन्धेया।।४।। बलिना सन्दधानाः बलिना सह सन्धिं कुर्वाणाः।।५।। अं गरुडे अनन्तनामप््रावृत्तेः निमित्तमुक्तम्- नित्यबलत्वहेतुत इति ।। अनेन च अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरे । अमृतार्थं सुपर्णोढो रैवतस्यान्तरे मनोः ।। इति ब््राह्माण्डपुराणवचनविरोधः परिहृतः। तत्रापि अनन्तशब्देन गरुडस्यैव ……. इति भावः।।६-८।। नेत्रं पाशम् । दिव्यपयः विकाररहितत्वात् दिव्यक्षीरमब्धिरूपं क्षीराब्धिमिति यावत् ।।९-११।। ।। क्षोभितनक्रचक्रम्।। क्षोभितजलचरसमूहं यथा भवति तथा । नक्रशब्दः सर्वजलचरोपलक्षितः(लक्षकः)।।१२-१४।। ।। तत्पिबत्कण्ठगतेन ।। तत्पिबत् कण्ठगतेन विषेण । पिबदिति शत्रन्तभिन्नं वा पदं नुमभावः छान्दसः।।१५।। ।। तदुत।। तस्मिन् काले तच्च अस्य जीर्णं उत जीर्णमेव ।।१६।। अस्य रुद्रस्य करावशिष्टं विषं कलिरभूत् कलिदेहोभूत्। स च कलिः सर्वजगत्सु व्याप्त इति शेषः। वायोः पूर्णं पीत्वा विकारो न बभूव।।१७-२९।। भूयः तपः प््रातप्य स्वयम्भुवः विरिञ्चात् वर आरितः प््र•प्तः। बिन्दुं बिन्दुमात्रम् ।।३०-३२।। ।। धाता कौस्तुभं ।। धात्राभिमन्यमानं कौस्तुभं त्वत्कण्ठगमास ।।३३-३५।। अयं कलिस्तु ब््राह्मवरात् अज्ञानमिथ्यामतिरूपतः अस्मान् सकलाः प््राजाः प््राविश्य इदानीं विबाधते । सः कः स्वरूपः असौ सज्ज्ञानविरुद्धरूपः । असावयं कलिरित्यादिरूपा एकैवयोजना ।।३६।। तस्य कलेः कुयुक्तिबाधां कुत्सितयुक्तीनां दूषणानि ।।३७-३८।। अदृश्यं च दृषा अज्ञेयम्। अत्र स्थितोयमिति ज्ञातुमशक्यम्। अतर्क्यरूपं एतादृशोयमिति तर्कितुमशक्यरूपम्।।३९-४०।। अमृतभूः अमृततया मरणरहिततया भवति प््र•दुर्भवतीति अमृतभूः। अप््र•कृतदेह इति भावः। अमृतभूरित्येतदेव विवृणोति- विशुद्धेति ।।४१।। कुत्र प््र•दुर्भाव इत्यत्र तत्पितृमातृवंशं निरूपयति- वसिष्ठेत्यादिना ।।४२।। एनं पराशरम् । मदीयस्य मद्भक्तस्य वसोः वसुनाम्नो राज्ञः।।४३।। तस्यै स्वभार्यायै । अन्येन युध्यतः तद्वीर्यमपतत्। यमस्वसुर्जले इति शेषः। यमस्वसुर्जलस्थं तन्मत्स्यवधूर्जग््र•स ।।४४-४९।। पुंसो योषित्सु जात इत्यज्ञप््रातीतौ कारणमाह- स्त्रीपुम्प््रासङ्गादिति।। स्त्रीपुम्प््रासङ्गात् परतः अनन्तरः।।५०-५२।। रविकरवरगौरं सूर्यरश्मिवत् हरिद्राभम् ।।५३।। कम्बुसमनानकण्ठं रेखात्रयोपेतगलः।।५४।। तयोः पित्रोः ।।५६-६०।। कलिरवशिष्ट एव । विनाश्ये एव इत्यचिन्तयत् ।।६१-६३।। कीटं तं किमर्थं राजानमकरोत् । स च पूर्वं कः । केन वा कारणेन तस्य कीटत्वमित्यत उक्तम्- पुरेत्यादिना ।। कुतो राजानमकरोत् इत्यस्योत्तर- पुरा स्वभक्तमिति ।। पूर्वं कः इत्यस्योत्तरम्- वृषलमिति।। केन कारणेन जात इत्यस्योत्तरम्- लुब्धमिति।।६५।। सीमार्थं स्वभावतश्चतुर्वर्णस्थजीवेषु यः ब््र•ह्मणः तस्य ब््र•ह्मणजन्मन्येव मुक्तिरिति मर्यादार्थम् ।।६६-६८।। स्वयं च तपस्तप्त्वैव रुद्रं सुतमवृणोदिति अयोग्यजनान् विमोहयन् ।।६९-७०।। शुकनामधेयत्वं कुत इत्यत आह- शुकीति।।७१।। अरण्योस्तनयं सृष्ट्वा तया शुकिरूपया घृताच्या प््र•र्थितः शुकीरूपमन्नामधेयोयं भवेदिति प््र•र्थितः । अरण्योः सृष्टं शुकनामधेयं चक्रे।।७२-७३।। वीशः सुमन्तुं वारुणिं मुनिं वरुणपुत्रं भृगुमपि उभावप्यविशत्। तमु वारुणिं च वैशम्पायनमुत इत्युभौ ब््राह्माविशत् ।।७४।। कं कस्य प््रावर्तकमकरोदित्यतो विविच्य दर्शयति- ऋचामित्यादिना।। शाखाभेदात् ऋचामिति बहुवचनम्। एवमुत्तरत्रापि बहुवचनाभिप््र•यः। यजुषां कृष्णत्वशुक्लत्वभेदेन द्वैविध्यम्। कृष्णयजुषां वैशम्पायनं शुक्लयजुषां सूर्यं प््रावर्तकं चक्रे इति विभागः। यजुषां उभयेषां यजुष्ट्वसाम्यात् एकं वैशम्पायनं द्वितीयं सूर्यं चक्रे इत्युक्तिर्घटते ।।७६।। जैमिनिं साम्नां प््रावर्तकं चक्रे। अथर्वाङ्गिरसां अर्थववेदानां सुमन्तुं प््रावर्तकं चक्रे। मनुष्येषु भारतस्य प््रावर्तने वैशम्पायनमादिशत्।।७७।। गन्धर्वादिषु भारतस्य प््रावर्तने आत्मजं शुकं मुनिमाविशत्। देवलोकप््रावृत्तये देवलोके भारतस्य प््रावृत्तये नारदं पाठयित्वा भारतं आदिशत्।।७८-८०।। योगप््रावर्तकान् योगशास्त्रप््रावर्तकान्। कर्मयोगस्य कर्ममीमांसा देवमीमांसा ब््राह्ममीमांसेति मीमांसात्रयम्। तत्र कर्ममीमांसा जैमिनिना कृता । ब््राह्ममीमांसा स्वयमेव कृता () । देवमीमांसिकाद्यन्तं देवमीमांसिकायाः आद्यन्तौ भागौ कृत्वा स्वयमिति शेषः। अथ मध्यकरणे मध्यभागकरणे शेषं पैलमादिशत् ।।८१-८३।। पुराणान्यकरोदित्युक्तम् । तेषां पुराणानां किं किं मूलमित्यत आह- शैवादित्यादिना।। संशयार्थं विपर्ययार्थं च ।।८४-८५।। देवाः सनत्कुमारप््रामुखाश्च ज्ञानं पुनः पुनः पुनः विशेषज्ञानं प््र•पुः । ऋषयो मनुष्योत्तमाश्च गौतमशापात् नष्टज्ञानाः पुनः ज्ञानं प््र•पुरिति भावः।।८६।। व्यासावतारकथामुपसंहरति- समस्तेति ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यायां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां दशमोध्यायः।।

।। अथ एकादशोध्यायः।। अथ भारतकथां विवदिषुः आनन्दतीर्थभगवानाचार्यवर्यः सोमवंशे कृष्णपाण्डवाद्यवतारान् वक्तुं तद्वंशमाह- शशाङ्कपुत्रादित्यादिना ।। ब््राह्मपुत्रो अत्रिः अत्रिपुत्रः शशाङ्कः शशाङ्कपुत्रो बुधः तस्मात् पुरूरवा अभवत् ।।१।। कस्यां के जाता इत्यत तद्विवेकमाह- यदुमित्यादिना ।। देवयानी शुक्रपुत्री व्यजायतजनयामास । वार्षपर्वणी वृषपर्वणः दानवस्य सुता ।।२।। योगवीर्यवान् अणिमाद्यष्टैश्वर्यबलवान् ।।३-५।। शन्तनुर्ज्येष्ठ इति क्वचिदुक्तिसदभिप््र•यमाह- गुणज्येष्ठ इति ।।६-९।। अस्य बाह्लीकस्य सोमदत्तः आत्मजः। स पूर्वं रुद्रेषु पत्रतापाख्यः। रुद्राणां मध्ये अजैकपादादयस्त्रयो रुद्राः सोमदत्तस्य पदियः () आत्मजाः बभूवुरित्यन्वयः।।१०-१४।। तेन रुद्रावेशादित्यादिना कारणेन सोमदत्तसुतः बली जातः ।।१५।। प््रातीपपुत्रः शन्तनुः पूर्वं क इति जिज्ञासायां तत्स्वरूपं उत्पत्तिप््राकारं प््रापञ्चयन्नाह- पूर्वोदधेरित्यादिना।। गङ्गायुतः इत्यादि गङ्गासमुद्रसङ्गमप््रावेशसम्बन्ध्यभिप््रोतः ।।१६-१९।। भूमौ नृपतिर्भवेति नेदं शापान्तरमित्याह- शप्तं यथा त्वं हि पुरा मयेति।। ()…. इदानीन्तनापराधस्य पृथक् फलमनुक्त्वा शप्तो यथेति पुनः शन्तनुनामधेयो जनिष्यसे इति …. क्तमेव कथं फलवत्वेनाप्यत इति …. च न एतदपराधस्य पूर्वापराध … वि कजत्वेन () अपराधान्तराभावात् ।।२१।। शन्तनोर्गङ्गायां भीष्मोत्पत्तिं बह्वब्दतत्कारणं गङ्गागमनं प््राकारं चाह- अथाष्टम इत्यादिना।। सनाम्नीं समाननाम्नीम् ।।२२-२३।। क्वचित् वसिष्ठः शशापेत्युक्तं तद्विरोधं परिहारायोक्तं- वसिष्ठसंस्थ इति ।।२४।। यत्कृते यदर्थे सर्वे अन्येति सप्ता प() अतः मानुष्यात् ।।२५।। तं शपन्तम् ।।२६।। गर्भमाप्नुमः मानुषीं योनिं नाप्नुम आप्नुम इति ईरिता सा तेभ्यो आत्मनः अपापत्वं शिशुवधजपापाभावं तेषामात्मनोपि परस्परं सदा प््रिायत्वं वरमपि वव््रो । अथ तान् असौ शन्तनो सुषुवे। एतेषां मध्ये एकमष्टमं दीर्घायुषं सुषुवे इति सम्बन्धः।।३१।। विडम्बात् स्नुषाभावा……. त्मकविडम्बात्।।३२-३५।। द्युनद्याः वचनात् शन्तनुरेव मे पतिर्भवेत् तं प््रात्येव ब््राूहि गङ्गा वचनात् । द्युनद्याः वचनात् इति तद्विवृणोति- सा हीति।।३६।। ततः एवं शन्तनुप््र•प्त्यनन्तरम् ।।३७।। पतिं विहाय किमर्थं गन्तुं मतिं चकारेत्यतः गमने कारणमाह- अवस्थितिरिति।। माभूदमानुषे देहिनो मानुषेष्वस्थितिरिति । सुखाय …… मित्यत आह- न तस्या इति ।।३८-३९।। राज्ञः स्त्रीत्वं प््रातीतिजनके नृशंसत्वे दृश्यमानेपि कासीति प््राश्ने निमित्तमाह- रूपमिति।। तेन सुरवरस्त्रीरूपत्वेन त्वदीयं कर्म पापकं न तत् तस्मात् अत्र हनने महत्कारणं भवेद्धि भवेदेव इति योज्यम् ।।४०-४१।। स्वस्य रूपशिशुहननकारणनिरूपणानन्तरमेव कस्मात् गतेति जिज्ञासायाह- नृधर्म इति ।। नृषु ज्ञातवासो न धर्मो । न चेत् केवलज्ञाता अपि ….नृषु वासं प््राकुर्वते इत्यत उक्तम्- कारणादेवेति।। धर्मरतानां देवानां कारणवि… षादपि क…म धर्माचरणमित्यत आह- धर्मोप्येषामिति।। येषां देवानां धर्मोपि तथाविधं न यावत् कारणमवस्थान… म इत्येवं विधः देवानां स्वाभाविकः रहस्यधर्ममप्याह- अदृश्यत्वमिति।। अतः नृजातैः सुरैरपि अदृश्यत्वादेर्धर्मत्वात् ।।४३-४६।। ।। अखिलसद्गुणार्णव इति ।। गुर्णाणवत्वे क्यो () अर्णवस्य पारवत्व अस्यापि पारप््रातीतेः तां निरस्यति- अनन्तपार इति।। निरवधिकपूर्णगुण इत्यर्थः। तत्वं भगवत्स्वरूपप््रातिपादकशास्त्रम्।।४७-४९।। अस्य अतोयत्वस्य मार्गयामास न तत्कर्तारमिति शेषः।।५०-५३।। पुरुषायुषोर्धतः पुरुषायुषः नाम शतवर्षाणां तदर्धतःश… तावद्भिः पञ्चविशद्भिः।।५४।। कृपाद्युत्पत्तिं वदिष्यन् उपोद्घातमाह- यदैवेति।।५६।। शरद्वतो जातमि… वुक्तमेव विवृणोति- शरद्वानिति।। शरस्तम्बे चस्कन्द इति सम्बन्धः। ततः रेतसः रुद्राणां मध्ये विष्कम्भो नाम रुद्रः हरेः भूभारहरणे सहायतामाप्तुमभवदिति योजना ।।५७-६३।। द्रोणोत्पत्तिं वक्तुं तत्सङ्गतिमाह- यदाभिजात इति।।बृहस्पतेः भरद्वाजः।।६४-६६।। द्रुपदोत्पत्तिं प््राकारमाह- काले तु तस्मिन्नित्यादिना।।६७।। गुरोर्भरद्वाजस्य पदे पादे दृतत्वात् स्तनत्वात् () ।।७०।। शिलं च उच्चं च शिलोञ्छे ताभ्यां वृत्तिः जीवनम्। शिलोञ्छवृत्यावर्तयन् जीवयारकराद्धर्मं () धर्मनामकं महान्तं विरजं रजोगुणरहितं उपलक्षणमेतत् त्रिगुणरहितमिति यावत्। एवं भूतं हरिं जुषाणः सात्विकं ….. इति वा ।।७१-७२।। पाण्डवोत्पत्तिं वक्तुं उपयुक्तं शन्तनुसत्यवतीसम्बन्धमाह- ततः कदाचिदित्यादिना।। पूर्वसर्गे पूर्वजन्मनिपितृपुत्रिका पितृनाम्नीं देवनां सुता ()।।७४-७६।। जाता हृच्छयः। जातकामःप््रादानाय ……..आत्मने दातुं वव््रो …. तां कथं विवाहयामासेत्यत आह- आत्मेति ।। शन्तनुस्तां दाशगृहे स्थितां स्वयं दृष्ट्वा कथं जगृहेत्यत आह- प््र•य इति।।८०-८२।। बलवद्भिः सर्वान् बधं हननं विना तस्मिन् काले शरीरस्य जीर्णत्वदशायां ….. त्यज्यते हि स्वेच्छया त्यज्यतेहि बुद्धिमद्भिः क्षत्रियैरिति शेषः।।८३-८४।। देहाद् यद्ूर्ध्वं तदौर्ध्वदैहिकं देहत्यागादनन्तरिकं कर्मेति भावः।।८५-९०।। भार्गवं प््राययौ तं प््र•प्य चात्मनो भीष्मस्वीकारम्।।९१।।… तदभावे तस्य वधं च वव््रो इति शेषः। एवं सङ्कटे जाते…. ग््र•हेति यशसाभिपूरयन् तस्य भीष्मस्य वाचं अम्बां न गृह्णीयामिति प््रातिज्ञारूपां वाचम्। अनन्तशक्तित्वाद्युपपत्या रामस्य पराजयाभावं प््रासाध्यागमेनापि साधयति- विद्धवदिति।। केशवः विद्धादिवत् दर्शयतीति शेषः। विष्णुरेवं द…. भवेदिति योजना । भीष्मेण ग््र•हयिष्ये अन्यथा भीष्मं हनिष्ये इति रामप््रातिज्ञा तर्हि भग्नेत्यत आह- सत्य इत्यादिना।। शिष्यं जित्वा नन्तरं भर्तृद्वेषोत्थात् पापादम्बामुन्मुच्य मोचयित्वा तेन देहान्तरं गतेन भीष्मेण शिष्यं जित्वा ….. नन्तरं आश्वविलम्बेनाथोजयत् (इति) सम्बन्धः।। जन्मान्तरं भर्तृसम्बन्धघटनात् न रामप््रातिज्ञा भग्नेत्येतत् श्लोकाभिप््र•यः । तस्मिन् जन्मन्ययोजनात् कथं न प््रातिज्ञाभङ्ग इत्यत उक्तं रामेणास्मिन् जन्येव …… अनुक्तत्वात्। भीष्मेण योजयिष्ये इति सामान्योक्तेश्च । जन्मान्तरविषयत्वाभिप््र•यसम्भवात् … कृतत्वात् न रामप््रातिज्ञाभङ्ग इति भावः।।१००।। मालां च प््र•दात् ।।१०१-१०७।। ते बुद्धिः बालवाक्यतः भिन्ना त्वया अविचार्य वाचं वाक्यं ….. सः कृतः इति यावत्। अत एव नर्मकृत् हास्यकृत्।।१०८-११०।। स्थूणाकर्णो अपश्यदिति निबन्धनानन्ते उक्तं अत उक्तं स्थूणाकर्णेति ।।१११-११२।। प््रासङ्गप््र•प्तां वरादिना स्त्रियोपि किं पुमांसो भविष्यतीति जिज्ञासायां पूरयन् शिववरादम्बा पुमान् जाता किमिति जिज्ञासायां च तव () कथनेन पूरयति- पुंसामिति।। अन्ते स्त्रीत्वप््र•प्तिकारणावसाने पञ्च () ।।११३-११८।। (पश्चात्) गन्धर्वेण स्वदेहदानानन्तरं विलज्जया तन्तुं निरीक्ष्य लीयमानं तन्तु गुल्मेषु लीयमानं ‘तन्तुस्तम्बे तथोर्णायां सत्रे सङ्घेन सन्ततौ’ इत्यभिधानात्।।११९-१२२।। यक्ष्मणा रोगेण अर्दितः पीडितः।।१२४-१२९।। मृषा दृगविद्यमानं पश्यन्ती उवाह () ।।१२९-१३७।। वसिष्ठसाम्यं समभीप्समानं माण्डव्यं प््राच्यावयन् वसिष्ठसाम्यप््र•प्त्यत्यर्थे कृततपसः मोचयन् स्वयं शापग््राहणेन तं तपोबलहीनं कुर्वन्निति भावः।।१३८।। शापप््र•प्तिप््राकारमाह- अयोग्येत्यादिना।। अयोग्यसम्प््र•प्तिकृतप््रायत्नदोषादेव। अयोग्यव्यवच्छेदक एव चकारः । अर्थे धने चोरैर्हृते सत्यपि चोरबुद्ध्या असम्प््राज्ञातसमाधिस्थस्यास्य पुरस्तात् धनं निधाय चोरेषु पलायितेषु धनस्वामिभिः धनमपहृत्येदानीं पलायितुमशक्तो निमीलिताक्षो वर्तते अयमेव चोर इति बुद्ध्या वधार्होयमिति मत्वा शूले समारोपितं कालान्तरे कुतो दोषाः मम शूलप््र•प्तिरिति तेन पृष्ट सन् यमो मक्षिवधात् मक्षिकावधात् दोषात् प््र•… धाम… काग््रां समारोप्य हतः।तन्महद्दोषात् तत शूलप््र•प्तिरित्यवदत् इति सम्बन्धः। एवं शूलप््र•प्त्यनन्तरं कुपितेन माण्डव्येन मिथ्यावादीत्वं शूद्रो भवेति यमं शप्त इति भावः।।१३९।। …… निमित्त….. जानन् यमः मक्षीवधादित्यसत्यं कथमवददित्यत आह- नासत्यतेति।। तस्य एवं वदतो यमस्य तत्र स्ववचनविषये सत्यता न तदपि कारणं भवत्येवेति भावः। ननु निमित्तद्वयं सत्य….. महद्विहा….. उक्तवान् इत्यत आह- हेतुत इति ।। सम्भावितेन बलवत्कारणोक्तौ तस्य कोपानुदयात् यत्किञ्चित् तदल्पकारणोक्तौ कुपितोयं शपेत् ततश्च तपोहानिर्भवेत् इति हेतुतः शापं गृहीतुं तथैवोक्ता मक्षिवधादित्येवोक्ता शूद्रत्वमवाप तेन शप्त….. ।।१४०।। भविष्यतीत्येतत् ज्ञानबलोपपन्नः इत्यनेन सम्बध्यते ।।१४१-१४५।। ।। विचित्रवीर्यस्य सूतपुत्र इति ।। विचित्रवीर्यस्यायं सूतो गवल्गणः। तस्य पुत्र इति भावः। मतिमान् विवेकवान् ।।१४६।। ज्येष्ठो राजा सुबलस्य सुतामुवाह ।….. नास्तिक्यरूपस्य नास्तिक्याभिमानिनः द्वापरस्य पूर्वद्वापराख्यदैत्यस्य कुकर्म हेतोः कुत्सितकर्मणां कारणस्य शकुनेः ज्येष्ठामिति योजना ।।१४७।। सख्युः कुन्तिभोजस्य । तेन तेन कुन्तिभोजस्य दत्तत्वेन निमित्तेन ।।१४७।। वासय चातुर्मास्यमिति शेषः।।१४९-१६०।। बाल्यादेवाधिजगौ बाल्यादेव महाबल इत्युभयत्र सम्बन्धः। नाम्ना वसुषेणतामगमत् कुत इत्यत आह- आसीदिति।। तद्वसुस्वाश्चयं () मञ्जूषागतरत्नजातं अमा सह आसीदिति विद्धि यस्मादिति सम्बन्धः। वसुना सह सम्बन्धत्वात् वसुषेणः। षिञ् सम्बन्ध इति धातुः ल्युडन्तः।।१६१-१६६।। ज्येष्ठापचायी धृतराष्ट्रानुसारी।।१६७-१७२।। क्रमयोगतः क्रमेण परिपक्वमोक्षोपायः।।१७३-१७६।। न्यसिष्णुः स पृथया प््राणामपूर्वं नेत्युतः तथैव गार्हस्थेनैव।।१७७-१७८।। अथ कृष्णावतारं वक्तुं तत्कारणतया ब््राह्मादीनां भगवच्छरणागतिप््राकारमाह- एतस्मिन्नित्यादिना।।१७९-१८०।। सतां नित्यं दुःखं गतिः भारवदेव भवति। असुराणां पाताले स्थितत्वात् कथं भुवो भारः इत्यत आह- अपीति।। तथापीत्यर्थः। भुवि ते अभिजाता इत्युक्त्या असुराणां भुवि जातत्वं भुवो भारकारणमित्युक्तं भवति ।।१८१।। अक्षौहिणीशतमहौघमहौघं अक्षौहिणीशतमहौघमिति सङ्ख्यया उत्तरोत्तरगणने महौघसङ्ख्या परिमितम् । महौघगुणं महौघाधिकं तदेषां देवासुराणाम् ।।१८२।। ‘किष्कुर्हस्ते वितस्तौ च नल्वः किष्कुचतुष्टयम्’ परस्परं ससृपुः ।।१८३।। ओघबलैः वृन्दस्थितबलैः ‘ओघो वृन्दे अम्भसां रये’ इत्यभिधानम्।।१८४-१९१।। पुरेश्वरेणास्थापितविक्रमाः वर्धितविक्रमाः अत एव ऊर्जितपौरुषाः सः असुरः सहस्रशीर्ष इत्यादिरूपकथनम्।।१९२।। कानि च शिरांसि च ।।१९४।। ततः कालनेमिवधानन्तरं ते असुराः अशेषाः अहताः। केन के हता इत्यतस्तद्विभागमाह- वाय्वेत्यादिना।।१९५।। काचनाल्पधर्मादिमतामपि सङ्गताभावेपि।।१९६-१९७।। धर्मस्य मिथ्यात्वभयात् मोघत्वभयात् अथापि धर्मस्य मिथ्यात्वपरिहारार्थं तेषां सद्गतिदाने दैत्यशुभाप्तिभीषा दैत्यासद्गतिर्भवेदिति भिया वा च्यावयितुं मोचयितुम् ।।१९८।। कोसुरः कुत्र जात इत्यत तद्विविच्याह- य उग््रासेन इत्यादिना।। तथाभिधेयः कुत्राप्युग््रासेन नामा () ।।१९९।। परं सम्यक् ।।२००।। औग््रासेने क्षेत्रे असुरेण कंसः कंसनामा जनितः येन कंसेन कन्या …… हृते ……. ।।२०१-२१५।। कालेषु सौभ () तव्य साल्वेन लब्धत्वात् ब््राह्मदत्तःकथं सौभपतिरित्यत आह- यदीयमिति ।। ननु ब््राह्मदत्तस्याभेद्यं विमानमस्ति चेत् कथं तर्हि पूर्वं स्वयंवरावसरे भीष्मेण जित इत्यत आह- यदेति।। तपसि स्थितः सौभार्थमिति शेषः । एवं च तस्य स्वयंवरावसरे सौभं नाभूदित्युक्तं भवति।।२१६-२२६।। शूरतातसुतस्य शूरस्य तातः शूरतातः तस्य पुत्रः शूरः ।।२२७।। वसुदेवोत्पत्तौ निमित्तमनुवर्णयन् उभयत्र कथं स्यामिति शङ्कां पूरयन् आह- ताविति।।२०८-२०९।। वित्तेश्वरः पूर्वं हरेः सुतत्वेपि तदिच्छया भगवदिच्छया भौमासुरात् नरकासुरात्अभूत् ।।२१०।। भगवदिच्छयापि तत्सुतत्वे कारणमाह- पापेनेति ।।२३०-२३२।।
कृष्णपक्षः कृष्णपक्षाभिमानिदेवः।।२३३।। तस्मिन् युयुधाने मरुदंशः विष्णुचक्रांशः च बभूवतुः।।२३४-२३५।। ….. तानां देवादीनां विभागं वदन् मानुषान् अपि विविच्य दर्शयति- येत्यादिना ।। अन्ये हरिपाण्डवप््रातीपाः ये मध्यमाः न प््रातीपाः न चानुकूलाः चलबुद्धिवृत्तय ते मानुषाः ।।२२६।। देवासुरनिश्चायकलिङ्गमाह- लिङ्गमिति।। तद्भरिताः विशेषतः सुराः उत्तमा इति भावः ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यायां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां एकादशोध्यायः।।

।। अथ द्वादशोध्यायः।। प््रासङ्गात् कृष्णस्य पितृवंशमुक्त्वेदानीं मातृवंशमुपक्रमते- बभूवेत्यादिना।। देवकः देवकनामगन्धर्वमुनिः गन्धर्वऋषिः बभूव स्थितः आदाविति शेषः। अस्य नाम तथैव देवक इत्येव।।१-२।। वैवाहिकं रथम्। मातुलं वध्यतां नेति गुरुत्वात्। मातुलवधः कस्यापि न …. तस्मादिति भावः। अतः तस्मात् विष्णोः विधिनिषेधबन्धरहितस्यापि लोकस्य धर्माननुवर्ततःलोकसङ्ग््राहार्थं लोकधर्माननुवर्तमानस्य हेतुगर्भमेतत् विशेषणं लोकधर्माननुवर्तमानत्वात् । ततः मातुलात् गरीयसः अतिशयितगुरोः अपराधं विना वध्यतां नेति मातुल इति शेषः।।३-६।। पुरा दिति काशीप््राभवस्य कन्याम्। पुरा दनुं करवीरेश्वरस्य कन्यामवहत् इति सम्बन्धः।।७-८।। धुन्धोः धुन्धुमाराख्यनृपतिना हतत्वे हरिणा हत इति तदन्तर्गतहर्यपेक्षया युज्यते।।९।। ततः सा () वसुदेवेन स्वमात्रोः परित्यागात् स्वभावतो भगवद्द्वेषित्वात् वृष्णीनां भागवतत्वात् तच्च वसुदेवद्वारा वृष्णिशत्रू बभूवतुः।।१०।। तस्मात् व्यासात् यथा योग्यतया विष्णुं प््र•प्याखिलज्ञाः बभूवुः ।।११।। कृष्णज्येष्ठोत्पत्तिं वक्तुं तत्स्वरूपं तदुत्पत्तिकारणं चाह- मरीचिजा इत्यादिना।। तच्छापतः असुरा भवतेति शापतः अवध्यतार्थ ने… व तथैव अवध्यतार्थः यथा तथैव ।।१२।। हिरण्यः हिरण्यकशिपुः।।१३।। कालनेमिप््रासूतानामवध्यत्वं ब््राह्मवरस्यामोघत्वं क्ष्मातले सम्भवध्वमित्यादि हिरण्यशापस्यामोघत्वं चाविरोधेन घटयन्नाह- दुर्गेत्यादि।। तान् कालनेमिप््रासूतान् प््रास्वपयित्वा कायात् प््राचकर्षेत्यादिनानेन देहहननाभावात् हिरण्यशापात् जातानां न सुतः कालनेमिना कंसेन हतानां पुनः कालनेमिप््रासूतशरीरप््रावेशात् ब््राह्मवरामोघत्वं हिरण्यशापामोघत्वं च जातमित्युक्तं भवति।।१४।। अथ पाण्डवोत्पत्तिं वक्तुं उपोद्घातमाह- तदेति।।१५।। निवारणे निमित्तमाह- यदर्थमिति।।१६-१८।। तदा एव मुनिपाण्ड्वोः विवादकाले गभिया (गर्भगाः) बभूवुः।।१९।। अस्य धृतराष्ट्रस्य अनुजः पाण्डुः तेषां गर्भगतत्वं अशृणोत् । तन्मुनीन्द्रभाषितं पुत्रोत्पादनार्थं जातस्य तव तद्विना न सद्गतिरिति मुनीन्द्रोक्तं विचार्य परामृश्य प््रिायामिदं जगादेति योजना।।२०-२३।। तस्मात् निष्कृतिः प््र•यश्चित्तं नास्ति ।तस्मात् सा भर्तृलोकं न ऋच्छति न प््र•प्नोतीति योजना।।२४।। ननु च स्वकं () पतिं समाश्रितानां सुरस्त्रीणां अवरपतिप््र•प्तिदर्शनात् वरं समाश्रिता इत्यादिना दोषोक्तिः कथमित्यत आह- कृतेति।। पुरा कृते कृतयुगे सुराः सुराङ्गनाश्च केवलं अविमिश्रिताः व्यभिचाररहिताः इति भावः। अनेन कृते व्यभिचार एव नास्तीत्युक्तं भवति। ततः सुराङ्गनाः निमित्ततोपि स्वतो व्यभिचाराभावे कुतश्चिद् कारणादपि तान् स्वपतीन् विहाय न रेमिरे। अन्यानिति शेषः। कृत इति योज्यम्। उपलक्षणमेतत् सुराश्च एवमेवेति।।२५-२७।। तासामप्सरस्त्वमेव विवृणोति- अनावृता इति।। अनावृताः निर्लज्जा इति भावः।।२८।। ननु अनियतस्त्रीणामेव व्यभिचारः न नियतस्त्रीणामित्यत कथं तारादीनां व्यभिचारदर्शनादित्यत आह- सुरस्त्रिय इति ।। अतिकारणैः बलवन्निमित्तैः अन्यथास्थिताः। अनियतभर्तृकाः स्थिताः दुरन्वयाः अतर्कितसम्बन्धाः।।२९-३४।। अतः (ततः)अन्यथावस्थान् विभागशः कृत्वेति शेषः।।३५।। तान् ….. भागान् शतात्मना विभेदिताः विभागाः तत … घटेत्य () शतं दुर्योधनादयः शतं पुत्राः बभूवुः ।।३६-३८।। युगपत् भूतले कल्यादिसर्वासुरोत्पत्तौ निमित्तजिज्ञासायामाह- पुरेत्यादिना।।३९-४४।। शरीरिणः घटगतविभागेभ्यो निष्पन्नशरीराः…. दुर्योधनादयः समस्तदोषरूपिणः समस्तदोषरूपिणः समस्तदोषात्मकाः अभवन्। या पूर्वं नाम्ना मृषेत्यासुरी सा दुःशला बभूव।।४५।। कुहुप््रावेशसंयुता तदभिमानिदेवताप््रावेशसंयुता यया मृषाख्यासुर्या आर्जुनेरभिमन्योः ततः तद्वधार्थं अत्र भुवि जज्ञुषी जाता।।४६।। अभिमन्योः दुःशासनपुत्रेण हतत्वात् कथं तदर्थं दुःशला जाता इत्यतः दुःशलोदितः जयद्रथेन पाण्डवनिरोधात् असहायोसौ दुःशासनपुत्रेण हत इति दुःशलायाः अभिमन्युवधकारणत्वमभिप््रोत्याह- तयोदित इति।। कारणं बभूव व्यूहद्वारिपाण्डवनिरोधादिति भावः। सः जयद्रथः कालकेयदानवः पूर्वमिति शेषः। कालकेयगणेषु कश्चिद् दानवः।।४७।। निर्ऋताभिधः निर्ऋतेरनुजःआस । तथाशब्दश्च अथ स च अभूत् भुव्युत्पन्नः। कीदृशः स नासिकामरुद्युतः। सः कस्य पुत्र इत्यत उक्तम्- स चेति।।४९-५२।। अभवत् सुतः इति सम्बन्धः।।५३।। अत्र भुवि भीमनामेत्यतः तन्निर्वक्ति- भृताः इत्यादिना।। यस्मिन् मरुत्सुते सकलाः माः प््रामाणानि भृताः पूर्णाः तस्मात् भृतमात्मात् (भृतमात्वात्) भीम इति भावः। इनेन सहितः सेनः स च इनः विष्णुरेवेति स विष्णुनेति ततः भीमत्वात् सेनत्वात् अस्मै नाम्ना भीमसेनः भीमश्चासौ सेनश्च इति कर्मधारयः।।५४-५५।। तस्मिन् प््राजाते सति वाहनसैन्यसंयुताः भीताः महासुराः पूर्वं असुराः राक्षसाश्च सन्तः तत्पक्षभवाः महासुरपक्षीयत्वेन जाता नृपाश्च रुधिरं प््रासस्रुवुरिति योजना। एवं अस्मात् भीत्वा() रुधिरस्रावोसुराणां भविष्यद्विनाशसूचक उत्पात इति भावः।।५६-५७।। रोहिणीगर्भं अपवाहितः। देवकीगर्भान्निर्गमय्य रोहिणीगर्भं प््र•पितः।।५८-५९।। अव्यक्ततत्कार्यमयः अव्यक्तं जडप््राकृतिः तत्कार्यमयः तदात्मकम्।।६०-६९।। …… समग््र• सम्पूर्णावयवाः बाल्यं विहायेति भावः। तदेवाह- अत्यद्भुताकारवतीति।। समग््रौः सर्वैः अत्र पुनः देवकीतल्पाशयानां नाज्ञासिषुः।।७०-७६।। लक्षमिताः लक्षसङ्ख्यापरिमिताः।।७७।। बहूनीति कश्चित् सङ्ख्याविशेषः। सुवर्णरत्नाम्बरभूषणानां बहूनि पुञ्जानीति वा ।।७८-८६।। कृष्णावध्यानात् कृष्णनिमित्तात् ।।८७-८८।। उपनिष्क्रामणं प््राथमं गृहात् बहिर्गमनम् ।।८९।। दितिजं निहन्तुं तं शकटं पदा अक्षिपत्।।९०।। विष्णुना क्षिप्तः स इत्वा इत्वेना शक्ध्वे () ।।९१।। सूक्तिभिः आशीर्वचनैरिति यावत् ।।९२।। बालकेलि बालक्रीडा।।९३-९४।। परावमर्दे शत्रुभिः सह युद्धे।।९५-९६।। नरेषु सुतं () सुतदो न सुतदो उत्पादको न । न जायते। ते स्वयं नरेषु नावतरति च ।।९७-९८।। धर्मात् धर्मस्य तु रूपपर्यालोचनात् नेत्याह अतः …….. ।।९९-१०१।। न () युक्तमित्याह ।() मन्त्री सन्धिविग््राहादिस्वरूपतत्प््रायोगादिपरिज्ञानवान् ।।१०२।। चेकितानस्य प््र•गुक्तत्वात् तत्स्वरूपमाह- मरुत्स्विति।। प््रावहो नाम स इति सम्बन्धः।।१०३-१०५।। स भीमः यदा मासतः हरी स द्वितीयः सेवाखिन्नः लक्ष्मणः स एव हरेः कृष्णात् अग््रो प््राथमतः भूत् अभूत् । लक्ष्मणजन्मनि अतिमत्सेवया श्रान्तोयमस्मिन् जन्मनि मदग््राजो भवत्विति हरीच्छया इति भावः।।१०६।। रोहिणी गोकुले बलभद्रं लेभ इति वक्ष्यति तस्या गोकुलेवस्थानं कुत इत्यत आह- यदा हीत्यादिना।।१०७-११०।। शुक्लकेशयुतः शुक्लकेशावेशयुतः।।१११-११२।। आदर्शनाय सम्यक् स्वरूपप््रादर्शनाय ।।११३।। सा महाभूतमनोभिमानमहत्प््राकृत्यावृतं महाभूतानि अबादीनि चत्वारि पृथिव्या अण्डान्तर्गतत्वात् न पृथिवी अण्डावरणत्वेन ग््र•ह्या अबग्नीरनभोहङ्कन्महत्तत्त्वे च गुणत्रयैरित्यत्र पृथिव्याः अण्डावरणे परिगणितत्वात् मनोभिमानः मनोभिमानिना रुद्रेणाभिमन्यमानः अभिमानः मनोभिमानः अहङ्कारतत्त्वमिति यावत् । मनः मनस्तत्त्वं अभिमानोहङ्कारतत्त्वमिति पृथग्ग््राहणे अण्डावरणनवत्वभङ्गात्। अबग्नीरेत्यादिनवावरणेष्वहङ्कार…. गृहीतत्वाच्च। महत्तत्त्वं प््राकृतिरिति गुणत्रयं एवं महाभूतमनोभिमानमहत्प््राकृतिभिर्नवाभिरावरणैरावृतं अन्तश्च एतैः सुरादिभिश्च युतमण्डं अस्य तनौ ददर्शेति श्लोकार्थः।।११४-११६।। शस्तः हतः । ‘शश हिंसायाम्’ इति धातुः ।।११७-११९।। अस्मिन् अब्दे () यस्मिन्नब्दे संवत्सरे भाद्रपदे मासे पौर्णमासी प््रातिपदमारभ्य मासोपक्रमाङ्गीकारे श्रावणबहुलस्यैव भाद्रपदस्यैव विवक्ष्य () भाद्रपदे मासे गुरुरव्योः सिंहस्थयोः सतोः परेशः उदैत् ततः तस्मिन्नब्दे संवत्सरे फाल्गुनमासे फाल्गुनः अभूत्। ततः तस्मिन् संवत्सरे गते सति माद्रवती बभाषे । पाण्डुमिति शेषः।।१२०-१२३।। सदातियुक्तत्वात् नामभेदाभावात् एकभार्यावत्वेनातिप््रिायत्वात् च सकृदावर्तनात््् मन्त्रस्य इति शेषः। द्वौ देवौ आयातः ।।१२४।। इतीक्षन्त्या इति विचारयन्त्या आकारितौ आहूतौ ।।१२५-१२७।। ननु मरुतां रुद्राणां रुद्रा इति सामान्यतो नाम भेदाभावात् तदाह्वानेन बहुसुतलाभे सम्भवति सति किं अश्विनावेवाह्वयत् इत्यत आह- विशेषेति।। भवेदेवं यदि सामान्यनाम्ना आह्वाने सुतान् दद्युः । न चैवं विशेषनाम्नैव विशेषनाम्ना समाहूता एव सुतान् दद्युरिति यत् तस्मात् तावाह्वयदिति वाक्यशेषः। ननु अश्विनीनाम्नोपि द्वयोः साधारणत्वात् कथमेतद्विशेषनामेत्यत आह- अविशेषितमिति।। ययोरविशेषमपि परस्परं साधारणं तयोः प््र•तिस्विकविशेषनामाभावात् तस्मात् तावश्विनावेव समाह्वयत। अस्य आह्वातव्यस्य वस्तुनः नामभेदे प््र•तिस्विकं विशेषनामसद्भावे मन्त्रावृत्तिः । एकमाहूय पुनरन्याह्वाने मन्त्रस्यावृत्तिः कर्तव्यतयोक्तानि तुव्यमिति () मात्र इति भावः।।१२८।। ग््रान्थान्तरे युधिष्ठिरादयः पञ्च वायव इत्युक्तं तदभिप््र•यमाह- युधिष्ठिरेति।।१२९-१३१।। ननु भीमार्जुनयोः सुलक्षणत्वेन सुरूपित्वात् तौ विहायान्यं सुरूपं पुत्रं पाण्डुः कस्मात् चकमे इति … आह- सुपल्लवेति।। रूपशाली सुरूपः जनैः प््र•कृतजनैः तेन सुपल्लवाकारतनुत्वाभावेन ऐच्छत् । कोमलरूपमन्यमिति शेषः। तत् तस्मात् पाण्डुना कोमलरूपस्याभिलाषितत्वात् ।।१३२-१३३।। अत्र श्रीकृष्णावतारप््रासङ्गे पूर्वमिन्द्रा एव कृष्णपाण्डवत्वेन अवतीर्ण इति प््रासिद्धम् । तत्र पूर्वेन्द्राणां क्रमं तत्स्वरूपं चाह- अतीतेन्द्रा इत्यादिना।। रतं () पाण्डवाः विष्णुषष्ठाः प््रातिलोमक्रमेण विष्णुरेव षष्ठः। तदेवाह- पूर्वेन्द्रोसाविति।।१३४।। नासत्यदस्रौ अश्विनौ क्रमादिन्द्रौ चतुर्थपञ्चम… इन्द्रौ। पुरन्दरः षष्ठः अतीतमन्वन्तरापेक्षया अत्र वर्तमानवैवस्वतमन्वन्तरे सप्तम उत स इन्द्रोपि पुरन्दर एकः स एव फाल्गुन एवमनेन क्रमेण एते कृष्णपाण्डवाश्च इन्द्राः पूर्वेन्द्राः ।।१३५।। ते पाण्डवाः क्रमात् स्वतवसः स्वरूपभ…सः महित्वना महिम्ना अत्यन्तयुक्ताः अत्यन्तं हरौ मनोद्योगवन्तः तेवर्धन्त। स्वतवसो महित्वेना नाकं तस्थुरुरु चक्रिर सदास्त्विति श्रुतिरुक्तार्थे सम्मतित्वेनोदाहृता इति वेदितव्या।।
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां द्वादशोध्यायः।।

अथ त्रयोदशाध्यायः।। ऊचे गर्गः ।।१-२।। अथ आद्यः केशवः व््राजन् गोकुले पर्यटन् व््राजोद्देशं व््राजप््रादेशं पुण्यं पवित्रं चक्रे।।३।। आत्मनः स्वस्य शिशुभावं शिशुबुद्धिं कुर्वन्त्याः मातुः शिशुभावं अपनेतुं ।।४।। मात्रा उपलब्धः तत्श्रित (भर्त्सितः) ईशः हे अम्ब अहं मद्भक्षिता न पश्य ममास्यं पश्य इति एवमुक्त्वा मुखविवृतिं अकः अकरोत् । प््राकृतिविकृतियुक् प््राकृतिस्त्रिगुणात्मिका । अत्र प््राकृतिः विकृतिः () महदादिः। प््र•यः प््र•येण ज्ञातात्मतत्वां यशोदयावगतस्वरूपशक्तिं पुनरात्मशक्त्या स्वसामर्थ्या () आवृणोत् ।।५।। जगूह शृतं पक्वं । शृत पाके इति धातुः। पाकेन दुक्थश्रितमिति भावः ()। नवं नीतं नवनीतं जनार्दनः ।।८।। यत्कुले प््राजायते यस्मिन् युग इति योज्यम्। यथा युगं तद्युगानुसारेण यथा कुलमिति योज्यम्। तत्कुलानुसारेण यथावयश्च विडम्बते । किं कुर्वन् दिवौकसां समुद्भवे भुव्यवतारे सति तथा तद्युगानुसारेण तत्कुलानुसारेण यथा वयश्च प््रावर्तमानचरणं भवेत् इति एवं रूपं उत्तमं स्वधर्मं दिवौकसां प््रादर्शयन् इति श्लोकद्वयस्य योजना ।।९-१०।। प््राजायते इत्याद्युक्तमेव विवृणोति- नृतिर्यगादीत्यादिना।। यत् बाल्ययौवनादिवयः तत्प््राकाशयतीति शेषः। तत्तदुद्भवाः बाल्याद्युद्भवाः तथापि सुरशिक्षणार्थं बाल्यादिविडम्बयन्नपि न पुपूरे पूर्णं नाभूत् () ।।१८।। दिविस्पृशौ ….. शा कस्य सुरस्यात्मजौ किं नामधेयौ कुतश्च तरुत्वमाप्तौ किमर्थं भग्नौ काभ्यां आविष्टौ इत्यतस्तत्सर्वं निरूपयति- पुरेत्यादिना।। धनेशपुत्रकौ पुरा नारदान्तिके दिगम्बरौ स्थितौ स नारदः ताविति शशाप।।१९-२३।। ततः तरुभङ्गतः।।२४-२७।। उद्दामतरचेष्टितैः अतिप््र•ैढचेष्टितैः।।२८।। चन्द्रतः चन्द्रं सार्वविभक्तिकः तसिः।।२९।। अप््रामेयः स्कन्धप््रासादकवचः स्कन्दप््रासादरक्षः । तुण्डशिरसा तुण्डाग््रोण।।३०-३२।। वृन्दावनान्तरगसान्द्रलताविताने वृन्दावनमध्यगतनिबिडलतावितानवति प््रादेशे ।।३३।। गाः गोपायन्ति पालयन्तीति गोगोपाः। गुपू रक्षणे इति धातुः। गोगोपानां गवां च गणः गोगोपगोगणः तद्युतः।।३४।। नन्दादीनां दुःखं भविष्यतीति चेत् किमिति यमुना जलेषु रेमे इत्यतः कालियनिग््राहार्थं चेत्यभिप््र•येणाह- तं ब््राह्मण इति।। सः कृष्णः ब््राह्मणः वरबलात् अवध्यं ….. स्थितं विज्ञाय तत्र रन्तुं जगामेति अध्याहृतक्रियया सम्बन्धः।।३५-३६।। सार्पह्रदः सर्पेणाधिष्ठितं सार्पं स चासौ ह्रदश्चेति तथोक्तः। अम्बूनां राशिः अम्बुराशिः पुरुषसारः पुरुषोत्तमः तन्निपातवेगेन सङ्क्षोभितश्चासौ उरगविषोच्छ्वसितश्चेति ….. तादृशं अम्बुराशिर्यस्मिन् स तथोक्तः । पर्यक्प्लुतः परितः प्लुतः उत्प्लुतः ऊर्ध्वङ्गतः विषकषायविभीषणोर्मिभीमः विषकषायेण विषसम्बन्धेन विभीषणोर्मिभिः भयङ्करमिति भावः। विभीषणः उत स … ।।३७।। तमपराधं नागस्य ।।३८।। गोपानां च स्वभक्तत्वेपि गोपानां बहुत्वात् तदनुसारेण स्वभक्तमपि नागं ममर्देत्याशयेनाह- बह्वोः सुदुःखं दृष्ट्वेत्युक्तम् ।।४०।। ताण्डवं ननर्त विरुग्णं …. रक्तं ईशं भुवि नेमुः।।४१।। अभयं दत्वा सुपर्णादिति भावः। उत्सृज्य निर्गमय्य ।।४२।। समेत्य यमुना तटमिति शेषः। व््राजार्थे व््राजरक्षार्थम्।।४३।। अलं विनाशः ।।४४-४५।। तदाकृतिभिः वृक्षाकृतिभिः।।४६-४७।। उक्षणः वृक्षान् …… ।।४८-५१।। निमित्तेन कदनप््रिायः युद्धप््रिायः सुदुष्टदैत्यः विघ्नेशतः वरमवाप्य दीर्घायुः उत्तमबलः अभूत् । (स) बलमभ्यधावत् तद्बलमविज्ञाय इतरानि वेति भावः।।५२।। प््राहारमभिकाङ्क्षतः पृष्टपादाभ्यामिति शेषः। तृणराजशिरः तालवृक्षशिरः ।।५३-५५।। उपदिदेश आविश्चकार । तेनैवाविश्करणेनैव ।।५६-५७।। उदारं प््र•र्थित …. रदान समर्थं मद्वचनात् पत्नीः समर्थयतेति कृष्णेन प््रोषिता वयमागता इति ब््राूतेति मद्वचनात् तत्पत्नी प््र•र्थनमपि ।।५९।। षडि्वधान्नपरिपूर्णकराः षडि्वरसवदन्नपूर्णककराः । विससर्ज प््रोषयामास । पतिप््राविधृता न याहीति पत्या निरुद्धा।।६०-६१।। तस्य इन्द्रस्य अविस्मरणाय स्वस्येति शेषः।।६२।। गिरिमहः गिरिपूजा अस्मदुरुस्वधर्मः गिरिमाश्रित्य जीवतामस्माकं महान् विहितः धर्मः इत्युक्तिः सच्छलतः एवं रूपवचनव्याजात्। आत्ममहे स्वपूजायां अवतार्य प््रावर्तयित्वा सर्वेषां मदाश्रयत्वात् मत्पूजैव सर्वेषां धर्मः …. इति …. मनुक्त्वा सर्वगिरणात् स्वस्यैव मुख्यतो गिरिनाम समभिप््रोत्य गिरिपूजा स्वधर्म इत्युक्तिछलमिति भावः।।६३।। ते रुदर्दुः () ववृषुरिति यावत् ।।६४।। तत्र उद्धृतपर्वताधोभागे ….. कृष्णेन व््राजरक्षणाशुतरे अनु संस्मृतसुरप््रावरावतारः ।।६६।। उरुवेदशिरोगताभिः उरूपनिषद् गताभिः गोभृत् वज््राभृत् हरगुरोरपि ब््राह्मणोपि ….. सुरभ () गोगणेन सहस्राक्षः अगाधगुं अगाधज्ञानं निरवधिकज्ञानं भावः ।।६८।। अभिवन्दितः प््राणतः गोविन्दं गोविन्दनामकं सङ्गतसंशयैः ….. ।।७०-७२।। कात्यायनी गौरी । अन्यैः ऊढाः ।।७३।। हरिभक्तिहेतोः पितेति हरौ स्नेहविशेषाः थन्ताः () । गो () गोपीः पूर्वं वरदानकृतेः संस्कारतः पूर्वमेव युष्माकं मत्सङ्गमो भवत्विति ….. वरस्य दत्तत्वात् रामो द्विजत्वगमनादपि पूर्वमेवारमयत् ।।७५-७६।। अस्य रुद्रस्य सख्युःकुबेरस्य भृत्यः ।।७६-८०।। शीर्णास्यदन्तदशनछदःरुद्धवायुः शीर्णास्यदन्तदशनच्छदश्चासौ रुद्धवायुश्चेति तथोक्तः । दशनच्छदवोष्ठौ कण्ठनाले हस्ताभिवृद्ध्या रुद्धवायुः दीर्णः देहः हस्ताभिवृद्ध्यैव विदारितदेहः।।८१।। विशस्य हन शस हिंसायामिति ।।८२।। ईशपित्रा वसुदेवेन ।।८३।। कोपरभसोच्चलितः कोपसम्भ््रामेण स रथवतः () ।।८४-८६।। तद्रथवरं कृष्णानयनाय स तद्रथवरम् । अन्तरं व्यवधानम्। अन्तरेण विनाशं चिन्तयन्निरन्तरं स्मरन् इति भावः।।८७।। लब्धोच्चयेन लब्धातिशयेन ।।८८-९१।। भुव्यवस्थितं अत्र जले शेषासनं परमपूरुषमैक्षत् ।।९२।। सिद्धमन्त्रः सिद्धाघमर्षणमन्त्रः। तदा अग््रो स्वपुरस्तात् बालतनुं हरिं च ददर्श।।९३-९८।। समलक्तकाद्यैः समीचीनलक्तकाद्यैः । वप्त्रा नापितेन ।।९९।। सुदामतः सुदामनाममालाकारात् ।।१००-१०३।। कांसं कंसस्य विद्यमानम् ।।१०४।। प््राभग्नसारः प््राभग्नबलः।।१०५।। काममुवास इत्यत्र निर्भयत्वं सूचितम् ।।१०६-१०७।। हरिसंयमनं हरिनिग््राहं किलेति अविशेषेच्छासूचितः।।१०८।। अक्षौहिणीगणितं विंशद्बलं विंशदक्षौहिणीबलमित्यर्थः।।१०९-११०।। सकलाचरितोरुशक्तिः सकलाचरणे उरुशक्तिः यस्य स तथोक्तः ।।१११।। आयन् आगच्छत् । रङ्गं तस्य दुष्टजनपूर्णत्वात् दुष्टत्वम्। अग््रो रङ्गाग््रो वासुदेवं प््राति वासुदेवमुद्दिश्य नागं अभियापयते अभिगमयामास।।११२-११३।। अहन् अहनत् ।।११४-११५।। जगद्गुरुतमे रङ्गं प््राविष्टे सति अत्र रङ्गे स्थितः अखिलोपि जनः द्विविध इति शेषः । मुमोद शुशोष च। कस्य मोदादीत्यत () सदृष्टान्तमाह- कञ्जमिति।। सूर्ये उद्यते कञ्जं यथा तथा अजे। अनुभविनो ज्ञानिनः भक्ता इति यावत् । कुमुदः यथा तथा अजे विपरीतकाः विरोधिनः शुशुषुरिति सम्बन्धाः।।११६-११९।। दुर्धरबलः असत्यबलः।।१२०।। भ््राष्टः मृतः।।१२१-१२३।। अनन्तवीर्यं कृष्णं स्वकोष्ठे स्वमध्ये चकार ।।१२४-१२६।। यावत् यदा रङ्गे स्थितमभियातुमियेष तावत् तदैव ।।१२७-१२८।। नरसिंहकराग््रासंस्थः पुरुषोत्तमकराग््रासंस्थः कंसः सुशोच्यरूपः बभूव । सञ्चालितेनेत्यादि इत्थम्भूतलक्षणे तृतीया ।।१२९।। पदयोरिति षष्ठी स्वपदाभ्यां तमप््राहदिति भावः।।१३०।। कंसः सायुज्यमगमदिति ग््रान्थान्तरोक्तेर्गतिमाह- देह इति।। अमुष्य देहे यो वायुरभवत् स कृष्णतनुमाश्रयत् । अनेन कंसः कृष्णं प््र•विशदित्यत्र कंसस्थो वायुः कृष्णं प््र•विशदित्यर्थः इत्युक्तं भवति। अत्र शरीरसंस्थयोरुभयोर्मध्ये अन्यः पापः अन्यश्चासौ पापश्च अन्यपापः तं दैत्यं कालनेम्याख्यं दैत्यं तमः प््राति चकर्ष । अत्र किं प््रामाणमित्यतः ब््राह्मादीनां प््रात्यक्षं प््रामाणमित्याह- पश्यत्स्विति।।१३१।। चकर्षेत्येतत् विवृणोति- द्विषामिति।।() हरिद्विषामपि इत्थं तमोगतिरित्याह- अन्येपीति।।१३२।। अभक्ताः द्वेषिणः ।।१३३।। द्वेषिणः तत्प््र•प्त्युक्तिप््रासङ्गात् मुक्तानां मुक्तिसाधनं ज्ञानप््राकारमाह- यो वेत्तीति।। दैवतगणांश्च हरेर्भक्ता इति विज्ञाय यथा क्रमेण भजेत ।।१३५-१३६।। मुदोक्तिः ()‘हलान्ता या दपि टाबन्ता यथा वाचा निशा दिशा’ इति हलन्तादपि टाप् विधानात् मुत् शब्दस्य टाब्प््रात्ययमिभिप््रोत्यायं प््रायोगः। मुदेति भिन्नं वा पदम् । तत्पक्षे विशिष्य योज्यम् । लौकिकी अज्ञत्व जनानुसारिणी ।।१३७।। सदैव मोदरूपित्वं साधयितुं तत्स्वरूपं निरूपयति- अनन्तेति ।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां त्रयोदशोध्यायः।।

अथ चतुर्दशोध्यायः।। धर्मस्य परिपालनाय पितरावभिवन्द्य राज्यपदवीमुग््रासेने प््राणिधाय द्विजत्वं चोपगम्येति योज्यम्। नन्दं मुमोच नन्दं गोकुलाय प््रोषयामास।।१-३।। तज्ज्ञापनार्थं देवधर्मज्ञापनार्थं भगवांश्च गुराववसत् ।।४।। आत्मपित्रोरन्येषां च ।।५-६।। सध्य््राङ् सम्यक् । तत्र पुर्यां समीचीनतां किं वाच्यम्।।७।। विष्णुः विधातुः सदने अधिवासं विधत्ते येन यस्मात् ततो हि तस्मात् हि वरता विधतृलोकस्य लोकोत्तमता जाता जगत्सकाशात् ।।८-९।। मृत्यूज्झितः जगतः विजयी । चण्डमुनिः दुर्वासाः।।१०।। शैवाखिलागमवित् अखिलशैवागमवित् । अतिकोपवशतः क्षुब्धोसौ।।११।। मार्गविषययोजनसङ्ख्यां योजनेन अर्वाक् पश्चात् । तन्निमित्तमाह- यदिममिति।। मथुरायोजनसङ्ख्यापृष्ठः अत्र अतः जरासन्धनगरात् ।।१२।। भगवतः पुरः मथुरायाः मार्गं मार्गविषये योजनसङ्ख्यां मगधेश पृष्ठः सः मुनिः गदाप््रातिघातने शक्तोपि विष्णोः इदं मदुचितं मया कर्तुं उचितं शुश्रूषणमिति चिन्तयानः योजनोनं मार्गमिति शेषः निजगाद हि ।।१३-१४।। अभिसन्निपात्य मेलयित्वा ।।१५।। अनुजः अनुविन्दः।।१६।। एष्य भवतः भविष्यद्भगवतः।।१७।। तप उद्दिश्येति शेषः।।१८।। ईरितं वचनं इति तदुरुवचः एवमुक्तं उरु सत्यं न मृषा । तदेवोक्तम्- अर्थवदिति।।१९।। इत्यभ्युदीर्य कटकेन समूहेन ।।२०-२१।। भूमयः भूदेवतात्मकः। वेदात्मके वेदाभिमानिदेवतात्मके ।।२२-२५।। बस्तः छागः।।२६।। आक्षिप्तः निन्दितः।।२७-२९।। विवृश्च्य हित्वा ।।३०।। सुशकं स्वयं हन्तुं शक्यं भीमे निजां भक्तिं यशः उच्चधर्मं च प््राथयितुं तेन मागधं घातयित्वेति भावः।।३१-३२।। हरिणा अस्त्रायुधेषु ।।३३-३५।। तत्र तत्समीपे स्थितान् सर्वगिरिवृक्षशिलासमूहान् अपि सञ्चूर्ण्य उरु नियुद्धं चक्रतुः।।३६-३७।। अतिवेलं अत्यर्थम्।।३८।। कृष्णशरैर्विद्धः।।३८-३९।। यः पूर्वं क्रोधतन्त्रगणेषु क्रोधवशगणेषु अधिपः मणिमानिति मणिमान्नामा अंशेन भुवमगात् भुवि जातः स इह निषादः एकलव्य निषादः।।४०।। अभिविनेतुं आवेतुम् (आनेतुम्) ।।४१।। छविरहितं अछविम्। मन्दः अविवेकी दौहित्रमपि ।।४२-४३।। नयज्ञा नीतिज्ञा विवेकवतीत्यभिप््र•यः।।४४।। सहसा स्त्रियायुतः मरिष्यसीति ऋषिशापमविचार्य।।४५।। अशुचित्वावरसरे मृतस्य कथं यमसदनप््र•प्तिरित्यत उक्तम्- हरिपादसङ्गीति।। रतिस्थस्य मरणे किं कारणमित्यतस्तत्कारणमाह- पूर्वमिति।। पूर्वजन्मनि तद्दर्शनोपगतः तस्य दर्शनार्थं उपगतः तेनैव रतिविघ्नकरणेनैव किञ्चिदपराधस्य किमेवं महानर्थहेतुत्वमित्यत आह- स्वात्मोत्तमेष्विति।। शेषः () अपराधः स्वल्पोपि उरुतां फलतः उरुतां उपयाति अथ तत्रापि सुरेषु विशेषतः उरुतामुपयाति यस्मात् तस्मात् इति। विघ्नकरणस्यैतावदे…. हेतुत्वमिति।।४७।। तेषु पार्थेषु सहागतेषु स्वयं निवार्य माद्रवत्या वचनादपि निवार्य अत्र स्वयं चागात् ।।४८।। इतौ अङ्गीकृतौ । स्वतः स्वस्मात् अधिको गुणत इति शेषः।।५२।। अधःकृतं पापं सम्मार्ज्य भर्तृलोकमेवागमत्। अनेन वरं समाश्रिता पतिमित्येतत् अकृतप््र•यश्चित्तमित्युक्तं भवति।।५३।। इन्द्रापराधाख्योरुदोषवत्वात् पाण्डोः कथं विमललोकप््र•प्तिरित्यत उक्त- पुत्रकगुणैरित्यादि।।५४-५५।।
पुरा किल संयोगोत्पत्तेः पूर्वं किल। नियोगमाज्ञां भवाय पितृसन्तत…. ।।५६-।। श्रेष्ठः ।।६३।। सुपूर्णपौंस्यः च पौंस्यं बलम्।।६४।। जगतीं भुवं अनुप््रापन्ने के तत्कारणानि करांसि कर्माणि ।।६५-६६।। विहाय विना ।।६७-६९।। अमुतः शुक्रात् ।।७०।। राजतनयैः सह अखिलभक्ष्यभोज्ये मिश्रं कृत्वा प््रातिसुप्तिमन्तः() इति शेषः।।७१-७३।। अनन्तगुणविष्णुसदातिहार्दः अनन्तगुणविष्णौ सदातिहार्दं मतिर्भक्तिः यस्यासौ तथोक्तः ।।७४।। तत्र बन्धं () जघित्वोन्मज्जनं () पुरः अग््रो ।।७५-७७।। मृषा आसन् व्यर्था आसन् ।।७८।। दृष्टं नासीदिति किमु स्म। प््राह्लादे श्रुतत्वात् कुतः श्रुतपूर्वं नासीदित्यत उक्तम्- तनयेपीति।।तदुपपादयति अपिशब्देन ईदृशं श्रुतपूर्वं नासीदित्यनुकृष्यतेति() उपपादयति- आत्मेत्यादिना आवितः रक्षितः मनुष्यप््राह्लादस्य औरसं नैसर्गिकं न कुतः स प््राह्लादः स्वपितृभृत्यैर्बलात् कृष्यते हि यस्मात् तस्मात् औरसं न । यस्य भीमस्य वीर्यं औरसं नैसर्गिकं नितान्तं () … इदं विप््र•णां वचनं ध््राुवं सत्यं सर्वथा सत्यं तत् तस्मात् स एषा नोर्थः () निश्चितोर्थः।।८१।। वैकुण्ठे स्थितो हरिः कथमुत्पद्यत इत्यत आह- कृष्ण इति।। एषः कृष्णः हरिः किल ।।८५।। जयश्रीः जयश्रीः यस्यासौ तथोक्तः ।।८६।। अन्यां उत्तरां यौ पुरातन दशानन() कुम्भकर्णौ मातृष्वसातनयामुपगतौ च जिगाय तयोः रावणकुम्भकर्णयोः पूर्वं अग््राजः तथान्यं दन्तवक्रं वदन्ति अन्यं मातृष्वसातनयमित्यनेनोभयोरेकोदरत्वं निवारितम्।।८७-९०।। वह्नेः प््राधानवह्नेः तनयस्य नाम्ना शुचेर्भागतः अंशयुक् अस्य सः पिता भीष्मकः मित्रभागः मित्राख्यदेवतांशकः।।९१-९५।। मनःप््रासृतिं मनः प््रावृत्तिम् ।।९६।। अञ्जः अञ्जसा ।।९७-९८।। कार्ष्णं कृष्णेनोक्तम्।।९९-१००।। तव पुत्रा नैव सन्त्येव निश्चितनाशाः इत्यर्थः।।१०१-१०४।। ओ भोः।।१०५-१०६।। विद्याधरः अभूत् इति शेषः ।।१०७-११०।। शमं दुःखशान्तिम्।।१११-११२।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां चतुर्दशोध्यायः।।

अथ पञ्चदशोध्यायः।। सैरन्ध््राी त्रिवक्रा अन्यभवे पूर्वजन्मनि या पिङ्गला पिङ्गलनामवेश्या आत्मनि संस्थितं स्वहृदयस्थं उरुगायं हरिं कान्तं संस्मृत्य सुचित्रा त्रिवक्रा अभूत् । पूर्वजन्मनि कान्तत्वेन भगवच्चिन्तनात् अस्मिन् जन्मनि भगवत्सङ्गः अभूदिति भावः। फल्गुनादिदेवेषु अर्जुनादिदेवावतारेषु परविद्यया भगवत्तत्त्वविद्यया … विजयी सकलदेवादिविजयी । तदेवाह- सर्वेति।। अमितात्मा अमितं अपरिमितं आत्मा स्वरूपं बुद्धिः यस्य सः तथोक्तः। अपरिमितबलस्वरूपत्वात् करप््राभवे युद्धे जिगाय। अपरिमितबुद्धित्वात् वाक् प््राभवे युद्धे जिगाय। ….. अमितात्मेति हेतुगर्भविशेषणम्। ननु नित्यप््राभूतप््रातिभश्चेत् पुनः कस्मात् विष्णुः उपजीवनं () कृतः इत्यत आह- क इति।।उरुक्रमशिक्षितार्था उरुक्रमेण हरिणा शिक्षिता अर्था धर्मादयो येषां ते तथोक्ताः। असङ्ग््राही सङ्ग््राहरहितः भगवन्नियत्यैव प््रोरणया एव आप्तम्। आत्मजस्य स्नेहात् जनार्दनस्य नियत्यैव सम्प््रोरितः रुदन्तं सुतं… दृष्ट्वा आर्तरूपः आर्तमनाः इति भावः। विष्णोः प््रातिग््राहः दोषाय न भवेदितिमन्वान इति शेषः। तदुपपादनम्- पितेत्यादिना।। जामदग्न्यः द्रोणमायान्तमिति शेषः। दृष्ट्वा एवं क्षितिभारापनोदहेतुं … कर्तुं इत्यचिन्तयत् । आशतं शतसन्तानपर्यन्तं पापयोग्याः पापकरणयोग्याः अकारणात् …. पापेन… वधेन वा कारणेन विना। सत् निर्दोषं अमोघं रेतो येषां ते तथोक्ताः। एवं तर्हि कलौ अव्युच्छिन्नास्ते किं अनिष्टं इत्यत आह- अव्युच्छिन्नेति।। सुरयोनिजानां आह- तस्मादिति।। ….. उपसंहरति- तस्मादिति।। आत्मा अहम्। शस्त्रं परश्वधायुधं त्वद्ग्रहणे सेवकत्वेन त्वद् ग््राहणे यस्मात् स अधोलोकान् अलं समर्थः। अनुद्बलानां अनुत्कृष्टबलानाम् । तत्र विद्यादिकाः….. शस्त्रविद्याः सहिताः। पूर्वं गुरुकुलवासकाले कृतां तत्प््रातिज्ञां संस्मृत्य सखायं द्रुपदं ययौ । दैवात् दर्पात् दैवेच्छया () जातदर्पात् इति वाक्यं जगाद। शिष्यस्यार्थः स्वीयमेवेति ….. नेति मत्वेति भावः। अर्थः द्रुपदेर्यहननाख्यप््रायोजनं () धनं च अस्मत् द्रुपदस्य (अस्मत्पदस्य) वीर्यसंश्रयात् इत्यवदन् () सुरपूज्यपौत्रं क्षिप््रां (विप््रां) मन्त्रविदं विज्ञाय ।।२९।। उत्तरोत्तरं सम्प््र•स्य ईषीकानीति …. द्ध वक्ता वक्ष्यति ….। अयं भवद्भिः पृष्टः सदा प््रायोगयोग्यानि आपद्यनापदि च । अतिसमर्थो भीमः कस्मात् न प््रातिजज्ञे इत्यत आह- भीमेति ।। न भवेयं न स्याम् । इन्दिरापतेरन्यत्र अस्मात् …. जिष्णुः गुर्वर्थं प््रातिज्ञां करोतु इत्यभिप््र•यद्वयम् ।।३८-४४।। दौष्यन्तिः भरतः ।।४५-४८।। अस्त्राणि दातुरभिप््र•यमाह- ओति ।। एनं कर्णम्। दृढो भवेत धीरो भवेत। ज्ञात्वैव सूत इति सुरकार्यहेतोः कर्णपराजयम् ….. ।।५०।। सुरकार्यहेतोः शिश्ये तदिति प््रासिद्धं फलम्।।५१।। यः हेतिनाम राक्षसवरः काले स्वसेवायाः नियतकाले महेन्द्रमनुपास्य शापतः कीटः स भृगुपाश्रमे आस ।।५२।। ऊरोरधस्तलतः आरभ्य उपरिगात्वचः उपरिगा त्वक् पर्यन्तम् । शरेण यथा तथा । किरीटिना इन्द्रेण। विद्धः सः उपरिगात्वच इत्यत्र आ यस्य () सर्वणदीर्घः। स्वतो निद्राशून्यत्वात् विगतनिद्र इवेति।।५३।। आद्यस्योत्तरमाह- कोसीति।।५४।। द्वितीयस्योत्तरमाह- जात्येति।।अग््रो त्वदग््रो ते तनयोस्मि सत्यमित्युक्तम्। कथमस्य सत्यतेत्यत आह- न हीति।। मुख्यपितेत्यन्वयः।।५५।। रामे इत्युक्तमात्रवचने।।५७।। अस्त्रसङ्घे अस्त्रयुद्धे।।५८-६२।। विवेद विशेषेण व्यजानात् । एतां शिक्षां धनुविद्याशिक्षाम्।।६३-६४।। उपचिता ऋद्धा। अर्जुनेन समा अर्जुनशिक्षासमा ।।६६।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां पञ्चदशोध्यायः।।

अथ षोडशोध्यायः।। एतस्मिन् काले पाण्डवानां अस्त्राभ्याससमये।।१-२।। नीत्यै ुक्तनीतिप््रादर्शनाय।।३-४।। सञ्ज्ञायै मद्वत् सर्वे सुप्ता इतीव भवन्त्विति सञ्ज्ञां दर्शयितुम्।।५।। तद्भावविदः शयानस्य हरेः स्वमुखाभिप््र•यविदः ()।।६।। ब््राह्मादिभिः सर्वदेवैः समेते नारायणे हासमाने सति ।।७।। तस्य गोमन्ते स्थितस्य कृष्णस्य शीर्ष्णि।।८।। दुग्धाब्धौ नारायणस्य शीर्ष्णि अपि श्रीकृष्णशीष्ण्यपि युगपदासीच्च। कुत एतत् तदिच्छयैव अघटितघटकनारायणेच्छयैव ।।९।। पूर्वप््र•प्तानि इत्युक्तं () जरासन्धयुद्धे प््र•प्तानि।।१०।। ननु कान्तिः सोमस्य भार्या सा कथं रौहिणेयस्य भार्या इति तत्राह- सोमस्येति।। सोमस्य भार्या कान्तिरन्या । द्वयोः कान्तिवारुण्योः ।।११।। ताभिः वारुणीश्रीकान्तिभिः।।१२-१६।। सौमदत्तिः भूरिश्रवाः ।।१७-१८।। त्रिभिरक्षौहिणीबलैः ।।१९-२०।। कथमतिबलो बलभद्रो जरासन्धगदापातात् मूर्च्छित इत्यत उक्तम्- अजेयत्वमिति।। अजेयत्वं तस्य धात्रा दत्तं चेत् कथं बलेन पूर्वं गृहीत इत्यत आह- पूर्वमिति।।जगृहे एनमथो हली स इति पूर्वयुद्धे जत्रौ वक्षसः उपरिकण्ठादधस्तात् । स्थिता स्थितिः ।।२१।। अभिप्लुताङ्गः प््रावतावयवः ()।।२२।। उद्यच्छत् उदयच्छत् उद्यममकरोत् ।।२३।। ते अस्त्रं यद्वदमोघं तद्वत् ते बलमपि अमोघं ….. ते बाहुबलं वृथा न प््रातियोज्यं इति सम्बन्धः।।२६।। पूर्वं युधि जरासन्धेन सहागत्य युद्धे जितेनापि पराजितेनापि तेन च बान्धवादेव बन्धुस्नेहादेव करवीराख्यं पुरं नाम () इत्युक्तोभूत् ।।२८।। आत्मना …. सा प््राीत्या भक्त्या न केवलं बन्धुस्नेहवतः किन्तु मानसभक्त्यापि युक्तस्य मनसेति बाह्यप््रिायेति प््रादर्शनमात्रं न भवतीत्युक्तम्। पुरं प््र•प्ताः सन्दर्शयन््् बलिनां अन्यत्रोक्तनीतिशेषं पूरयन्नध्यायार्थं उपसंहरति- नीतिमिति।। बलिष्ठस्य स्वयमेव बलिष्ठस्य स्वसेनायाः गुप्त्यै सेनां विहाय दूरात् युद्धं दूरं गत्वा युद्धनीतिं दर्शयित्वा ।।३३।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां षोडशोध्यायः।।

अथ सप्तदशोध्यायः।। चेदिपे दमघोषे गते कृष्णेन पृष्टेति शेषः। हरेः प््रादातुमद्यतां पित्रेति शेषः। स्वयंवरं विनैवेति भावः।।१।। न्यवारयत् निवारणं चाशृणोदिति योज्यम्।।२-४।। पतत्रं वायुनेत्यं श्लोकः ग््रान्थकारवचनम् । किमुतेत्यनुवादः तेन पातिता नरेश्वराः ।।५।। जयी एष कृष्णः पयोब्धिमन्दिरः श्रीनारायणः किल । पक्षिवाहनो यतः अतश्च पक्षिवाहनत्वलिङ्गाच्च । कथा पुनः अन्यथा च भक्तेरन्यथा द्वेषेणेति यावत्। कारणं कदाचिद्भक्तेः कदाचिद् द्वेषस्य च । किमत्रेति त्वदुक्तं चोत्तरं व््राजाम इति शेषः।।१६।। पयोब्धिमन्दिर इति त्वयोक्तं तन्न मृषा न भवेत् देवानुजा ह () हरिः स्वयमिति।। जनान् अर्दयतीति जनार्दनः। हरिः स्वयं एषः यादवः प््राजातः ।।१७-२२।। मुखेन मुखकान्त्यादिना … व … बाहुना समस्तलोकजित् ।।२३-।। अतः स्वयंवरे एतद्वर्जनस्यापायान्तराभावात् ।।२७-३१।। शतक्रतोः पुमान् उत शतक्रतोः वचः प््रागृह्य आज्ञया आज्ञापूर्वकं अवदत् इत्युक्त्वा असौ दूतः ययौ।।३२-३९।। इह अस्मासु तदा तर्हि इत्येवं विचार्य निश्चिताः अभिषेक्तुं निश्चिताः ।।४०-।। जरासुतादयः शौरये श्रीकृष्णाय नृपान् कांश्चन नृपान् अपयातयन् अभिषेक्तुमिति भावः। ….. पान शतयन्तः () स्वयं अभिषेक्तुं कुतो न गता इति- त्व नयात्विति।।() सुरेन्द्रवचनादेव ।।४२।। सुरेन्द्रः कस्मात् तथावददित्यतस्तदभिप््र•यमाह- समस्तश इत्यादिना।।४३-४८।। अतः तदनन्तरं सुशातकौम्भकुम्भकैः सौवर्णकुम्भसम्भृत …… ।।४९-५१।। षः तवात्मजा बभूव। पिता तस्याः पिता भवान् तां हरेः मम ददाति न अन्यस्मै ददाति चेत् तदा तर्हि निरिन्दिरः निःश्रीकः श्रीरहितः अधः अधोलोकं व््राजेदिति योजना। अहं ….. ।।५३।। एवं उदीर्य आत्मनो विश्वरूपमाविश्चकार ।।५४।। अनन्ततेज आततं बहुतेजसावाततं () अनेकतेजसा (आ) ततं इति भिन्नं वा पदम्। तां प््रापश्य मनुष्यदृष्टितः मनुष्य….. अधिकां रूपादिगुणैरधिकाम् ।।५७।। तत् त्वयोक्तं तथा करोमीति च वदन्निति शेषः।।५८-५९।। नन्विन्दिरा स्वयंवरः शुभाय न चेत् ना () ज्ञानिनौ वरुणमैथिलौ किमिति स्वयंवरं अकुरुतां…. तर्हि स्वयंवरं किमिति अकुरुतामिति तत्राह- स्वयंवर इति।।६०-६९।। निवेश्यः उवाह्यः ।।७०-७४।। अमुष्य गर्गस्य । परेण चोदित इति शेषः।।७५।। परेण अन्येन अपहसता श्यालेन षण्ड…. ।।७६-७९।। नैष्टिकं व््रातं नैष्ठिकब््राह्मचर्यव््रातम् ।।८०।। असुराप्सरा गोपाङ्गाना समूह मध्यं प््राविश्य तस्य गोपाङ्गना समूहस्य ।।८३।। तत्समीपगमने किं कारणमित्यत आह- स इति।। ईश प््राभो हे ज () रा व््रातवैरिणः () ………. विचित्रं वैरिणं सर्वमपि प््रातीपं कुर्युरिति भावः।।८४।। इति स्म ब््राुवन् अरणं जगाम।। ८५-८६।। कृष्णं अर्दितुं हन्तुं सदा कलकाङ्क्षणात् कालप््रातीक्षणात् कालः । सः यावनाभिषेचितःअभूदिति …… ।।८७-१०२।। तदीयं जरासन्धसम्बन्धिनं साल्वं अपूजयत्।।१०३।। वहन् प््रावह। इत्यस्मरत् अचिन्तयत्। प््रालहत () पराजयतात् ।।१२१।। जयाशया विजेष्ये।।१२२।। यदुपुर्या दौहित्रं…. । इत्य..शा रहितः।। भौवनः विश्वकर्मा ।। स्वकायं स्वेषां विद्यमानम् । अत्र उभयोर्मध्ये निरायुधजयस्य बहुत्वे जयस्य च किं सत्यं भविष्यतीति अहं प््रादर्शयिष्ये …. ।।१२६।। स्वयं न किं तत्र पुरार्थितमिति तत्राह- पुरेति।। यौवनाश्वजे युवनाश्वापत्यं मान्धाता यौवनाश्वः तज्जस्तु मुचुकुन्दः तस्मिन् तद्विषय इति भावः।।१२७।। अनर्थकः….. को भवेदित्यत आह- अरिमिति।।१२८।। तत एव वरबलात् तद्दृष्टिमात्रतः अतः ।।१३४।। कथमेतद् दृष्टफलमभूत् इत्यत आह- अतः हरिविरोधिनिग््राहात् इति।। सुरप््रासादतः सुरप््रासादसं ….. ।।१३९।। ताः () ततः युद्धरङ्गात् पुनर्ययुःकुण्डिनपुरं ययुः । किं चिकीर्षवः अथ रुक्मिणीं चेदिपे प््रादाय हरिं जिगीषवः भीष्मकेण कृष्णाय दातुं निश्चितां चेदिपाय दापयित्वा तन्मानभङ्गात् तं जिगीषवः इति भावः।।१४१-१४२।। ….. याम इति निश्चयात् हलायुधः स्थितः ।।१४७।। पूर्वमप््राकाशतया हलायुधस्थितः बलं प््राकाशमाविशत् प््राकाशो यथा भवति तथा प््र•विशत् आविर्बभूवेति भावः।।१४८।। वरोरुवेषसम्भृतः वरस्योरुवेषः तेन सम्भृतः …… ।।१५०-१५१।। समानभावं साम्यम् ।।१५२-१६१।। पञ्चचूडिनं पञ्चशिखिनम्।।१६२-१६७।। ततो रुक्मिणीहरणात् पुरा । पुरापि वारुणीसमाह्वयां निजां प््रिायां अत्र जन्मनि नाम्ना रेवतीम् ।।१६८।। तदीयः पिता रेवतपुत्रः ककुद्मी तदा यातः वरात् तत्सदोगतः ब््राह्म….. । युगोरुकालपर्ययः बहुयुगकालत्ययः।।१७०।। अयोग्यगीतिका नराणां श्रोतुमयोग्यगानः।।१७१।। ततः उद्बोध्य ते सुतापतिं बहौ युगात्यये तमपृच्छत रेवतपुत्र ककुद्मी।।१७२-१७३।। पुरातनप््रामाणसम्मितां …… पुराणसम्मितां अत्युच्चामिति यावत् । समां परिमाणतः आत्मनः समाम् ।।१७४-१७७।। रमारमेशयोगिनि रमारमेशयोगः पाणिग््राहणसमावस्थानं अस्मिन्नस्तीति रमारमेशयोगी तस्मिन् ।।१७८-१८०।। ……. तया रमन् जनार्दनः पुरातनं मनोभवं पुरं तस्यां पुत्रं अधत्त।।१८१।। वासुदेवादिचतुस्तनस्तृतीयरूपसंयुतः प््राद्युम्नाख्यतां () शमेवयुक् () अब्जजाङ्कजः प््राद्युम्नोत्पत्तेः पुरैव प््राद्युम्न शम्बरस्य मृत्यवे मरण…. अवदत् । कृष्णपुत्रः प््राद्युमन्नामा भविष्यति स त्वां हनिष्यतीति शम्बरमवददिति भावः। प््राजातं तं प््राद्युम्नं तव अन्तकः पूर्वं मयोक्तः तव मृत्युरयं श्रीकृष्णपुत्रो जात इत्यवदत् ।।१८३-१८४।। शम्बरे ददुर्दाशाः।।१८५।। असुरेण भवे …. ततः शापात् । अन्यया तन्वा।।१८९।। सुरे गृहे कुमारकं कुमाररूपं पतिं समीक्ष्य रसायनैः शरीरधातुपुष्टिकरैः आज्यादिभिर्व्यवर्धयत् ।।१९२।। तदखिलं स्वागमनादिकं अस्य जन्म आगतिं च उवाच।।१९५।। न दृश्यते अदृश्योभूदिति भावः।।१९६।। विद्यया मायां विनाश्य ।।१९७-२०४।। उपांशु शशंस ततः अनन्तरम् । वर्त्मना प््रासेन गतमार्गेण।।२०५।। तत्पदं दृष्ट्वा इति भावः। स वने पदैः सिंहप््रासेनपदैः प््रासेनं सिंहसूदितं वृष्णीनामदर्शयत्।।२०६।। तान् यादवान् निधाय बिलाद् बहिः । जाम्बवत्परिग््राहं जाम्बवदाश्रयम् ।।२०७-२०९।। तदाकृतिं रामाकृतिम्। समस्तभेदवर्जितां कृष्णेन गुण…. त्यादितः सम… भेदवर्जिताम् । यदूत्तमे दृष्ट्वा स रामः अयं श्रीकृष्णः इत्यवैत् ।।२१०-२१२।। भक्तवाञ्छितं भक्तजाम्बवतः जाम्बवती कृष्णाय दातव्येति वाञ्छितम् ।।२१३।। स दशष्ट्वा मिथ धादर्यः () स अनूच्य तपन् पश्चात्तपन् ।।२१६-२१८।। ततः उभयोरपि रमावतारत्वात् । ननु रमावतारत्वेप्यधिकप््रिायत्वं कुतः । सदावियोगिनी यतः रमेति शेषः।।२१९-२२४।। कस्य दूतः किं तद्वचः इत्यतः आद्यस्योत्तरमाह- सुतावित्यादिना।।२२८।। तयोर्बलेन अजेयतावध्यतां जयत्वाभावं वध्यत्वाभावं च वरं आपतुः। केवलं जरासुतशिष्यकौ अमरावपि देवयोनित्वात् मरणरहित …. तयोः सहाय एव अजेयतामवापतुः। अन्यथा तयोः सहायत्वाभावे न जेयत्वाभावः वरो न ।।२२९-२३२।। द्वितीयस्योत्तरमाह- समुद्रस्येति।।२३३।। यादवाश्च प््र•हसन् स्म ।।२३४-२३६।। गिरा तौ तृणोपमौ विधाय।।२३७।। सुदुःखवासनामकं …. दुःखवासनामकः। दुर्दुखपर्यायत्वात् । ‘दुर् शोभनदुःखयोः’ इत्यभिधानम् ।।२३८।। दशत्रिकैः शतैः त्रिसहस्रैः ।।२३९-।। ततः स्वयमसमर्थत्वात् । गाण्डीवं गाण्डिवमिति चडि डिभको डिभकश्चेति नाम तस्य न भवति ।।२५१।। () नामतः गदः हरेरवरजो स रोहिणीसुतः सः पुरा चण्डको गणःपार्षदः । स हि स एवगदः। तयोः तातमेव वृक्षदत्तमेव (ब््राह्मदत्तमेव) रणाय समाह्वयत् वै ।।२५२-२५३।। ओजसा महास्त्रशस्त्रवर्षणं विचक्रं हप््राहतुः () हरानुगौ ससार। बलसेनां कस्य साकं …… चतुर्थभागं शेषितं यथा भवति तथा इति क्रियाविशेषणम्। क्षणेन हतम्। मनोः परं वैवस्वतमन्वन्तरानन्तरम्। जिह्वा मूलस्थित सूक्ष्मा जिह्वा।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां सप्तदशोध्यायः।।

अथ अष्टादशोध्यायः।। ।।१-२६।। ऋषिमानुषगन्धर्वाः जन्मजन्मान्तरस्थिता अज्ञानान्यथाज्ञानाः सदा न्य () एव अवजानन्ति। यत् तस्मात् ते ऋष्यादयः छिन्नधर्मा इति वक्तव्याः।।२७।। शुक्लत्रयं भागवतधर्मे व्यभिचाराभावेन शुद्धत्रयम् ।।२८।। स्वसंविदा स्वरूपज्ञानेन व्यासेन सर्वेष्वभ्यधिकोर्जुन इति प््रासङ्गप््र•प्तशङ्कापरिहारत्वेन भीमाधिक्या युक्त्या परिसंहृत्य प््राकृतमनुसरति- यदा त इत्यादिना।।३०-३७।। समभ्यासं () प््रातोदमदात् । सूतजातेस्तव रथनियमनमेव धर्मः । न क्षत्रियैः सह युद्धमिति सञ्ज्ञया ज्ञापयन् अश्वताडनाङ्गं तोत्रमदात् इति भावः। क्षत्रियकन्याजातत्वात् कथमस्य सूतमित्यतः आह- अक्षत्रियेति।। व््राताः उपनयनादिसंस्कारहीनः। द्विजः क्षत्रियादिः तस्मादुत्तमो ब््र•ह्मणः स न भवति ब््र•ह्मणकुले जातोपि ब््र•ह्मणसंस्कारहीनो यथा ब््र•ह्मणो न भवति एवं क्षत्रियकुले जातोपि क्षत्रियसंस्काररहितः क्षत्रियो न भवति इति भावः।।३८-३९।। पक्षपातात् पुत्रपक्षपातात् पुत्रस्यानुकूल्येन वसोधानः () ।।४०।। वृषा समर्थः।।४१-४२।। संरम्भात् कोपात् ।।४३-४४।। काले द्रक्ष्यथ जयपराजयाविति शेषः।।५०-५६।। एतौ कर्णफल्गुनौ ग्लाहावासतुःद्यूतकर्त्रोः जयपराजयौ यथा ग्लाहानुकूल्यप््रातिकूल्यनिमित्तकौ एवं भीमदुर्योधनयोः जयपराजयौ पार्थकर्णजयपराजयनिमित्तकाविति भावः।। ५७-६९।। पुरः पूर्वं शरासनः सन्नद्ध इति भावः।।७०-७२।। सारसेनया प््राबलसेनया ।।७३-७८।। गुर्वर्थं गुरुप््रायोजनतत्संस्थानविषया ()।।७९-८०।। स्वरथे अभिपेदितवान् स्वरथे पुप्लुवानिति भावः।।८१-८३।। अयं नः सम्बन्धयोग्यः ।।८४-९२।। न विप््राधर्मो यद्युद्धमित्युक्तत्वात् द्रोणः कस्मात् युद्धमकार्षीदित्यत आह- ब््र•ह्मण्येति।।९३-९५।। तदर्थतः अर्जुनार्थतः । द्रोणहन्तारं पुत्रं चैच्छत् इत्युभयमिच्छन् याजोपयाजौ विप््र•ै ययौ । अथ तत्प््र•प्त्यनन्तरं गवामर्बुदेन करणेन तावानीय कृता या मयाशो () मदपेक्षास्तीति अहङ्कारात् व्यलम्बयत्। द्रायत () कालक्षेपमकरोत् ।।९६-१०१।। धृष्टद्युम्न इतीदं नामान्वर्थकमित्याह- धृष्टत्वात् इत्यादिना।। धृष्टत्वात् धृष्टः द्योतमानत्वात् द्युम्नः । धृष्टश्चासौ द्युम्नश्चेति धृष्टद्युम्न इत्यन्वर्थकमिति भावः।।१०२।। साक्षात् समुत्थिता प््रात्यक्षतया समुत्थिता। कथं भारतीनामेत्यतः मुख्यप््र•णभार्येति वक्तुं तद्वाव भरतनाम्ननिरुक्तिपूर्वं भारतीशब्दं निर्वक्ति- प््र•णो हीत्यादिना।। नामान्तरं चाह- सरस्वतीति।। कुतः वेदरूपा वेदवाचामभिमानित्वत एव सरस्वतीति भावः। क्वचिद् भारती च श्रीरित्युक्तत्वात् श्रीरित्येतदर्थमाह- शमिति।।१०४।। सा किं विशिष्टेत्यत आह- आवेशेति।। किं केवलं भारती श्रीनाम्नीत्याह() - ताश्चेति ।। भारत्या अवतारनामार्थमाह- सेति।। कृष्णाशब्दस्य उत्कृष्टवाचकत्वात् णशब्दस्यानन्दवाचकत्वात् उत्कृष्टा नन्दिनीत्वात् कृष्णेत्युक्ता । शच्यादिभ्यः अतितरां सर्वव्यवहारेषु भारत्याश्च भारस्थानादिति () भावः ।।१०७।। भारत्यां उमावेशे कारणमाह- पूर्वमित्यादिना।। अधिकं विलासं दर्शयामासुः। तदा ब््राह्मा ताः शशाप।।१०९।। तत्र मानुषजन्मनि । स्वपतेरन्यगा । अन्यगात्वे च कं गच्छाम इति विचार्य वायुमेव गमिष्याम इति निश्चित्य भारत्याः अनुज्ञां गृहीतुं भारतीमेत्य सर्वव्यापारं शापप््राकरं च।।११०-१११।। पूर्वं अन्यत्र इति। शप्ताः स्म। त्रिशः मद्वञ्चना इताः भवत्यः त्रिशः एकदेहाः मानुषमाप्स्यथ। अस्माकं शापद्वयनिमित्ततः एकदेहास्त्रियो (त्रिशो) मानुषत्वमाप्स्यथ इत्येकः शापः। तस्मिन् शाप() जन्मत्रयं मानुषीं योनिमापस्यथ अन्यगाशू भवत इत्येकः शापः। तस्मिन् शापे एकः जन्म । एवं शापद्वयनिमित्तातः भूमौ चतुर्जन्म भवेत् यतः अतः हे देवीति सम्बन्धः।।११४।। एकदेहत्वेन किं प््रायोजनमित्यतः तदाहुरित्याह- त्वामिति।। अन्यगात्वेपि मारुतगामित्वमेवास्माकं त्रयैकदेहत्वप््रायोजनमिति भावः।।११५-११७।। रुद्रदेहस्थितं रुद्रनामानं हरिं कर्मैक्यार्थं रुद्रपरिचर्यादि। तासां कर्मणः स्वकर्मणश्च एकविषयत्वार्थं अन्यथा विरुद्धकर्मत्वेन एकशरीरस्थानां तदुन्मथनादिप््रासङ्ग इति भावः । रुद्रदेहस्थः स हरिः अस्यै इति वरं ददौ।।११९।। किमिति। तत्राह- अनन्तेति।। सर्वेष्वपि जन्मसु स्वभर्त्रा सह विष्णोरनन्ततोषणम् । अन्यासां शङ्कर एवमन्येष्वेवमपि जन्म सर्वभर्तृसंयोगवरं ददौ। भारत्याः काम्यवरप््र•र्थनाभावात् स्वभर्तृसंयोगो नाम स्वभर्त्रा सह विष्णोरनन्तप््राीतियोगः प््र•र्थितः। हरिणा स एव वरो दत्तः। अन्यासां तु केवलं स्वभर्तृसंयोग एव रुद्रेण दत्त इति हृदयम्।।१२१।। देवानां बहुत्वात् बभूवुरिति बहुवचनम् । नलनन्दिनीदेहस्यैकत्वात् नलनन्दिनीत्येकवचनम्। ततः वरप््र•प्त्यनन्तरं तदैव शीघ््रां देहं विसृज्य …..() सुसङ्गताः सम्यग् एककार्यबुद्धयः । देहैक्येन नलनन्दिनी नलस्य पुत्री इन्द्रसेना नाम्नीति बभूवुः।।१२२।। चकमे अकामयत् । कथान्तरे कस्याञ्चित् कथायां तर्हि साध्ये तदित्याशङ्क्य परिहरति- नेति।। भूतये सुखाय न किन्तु पापायेति भावः। अत मुद्गलशापानुग््राहानन्तरं मारुतः एनं मुद्गलमाविशत् । अथ तत्प््रावेशानन्तरं इन्द्रसेनां गृहीत्वा उदूह्य कथं मङ्गलतया () गृही गृहस्थः। ‘मङ्गलानन्तरारम्भप््राश्नकात्स््नर्यष्वथो अथ’ इत्यभिधानम् । स्वभर्त्राप्त्यै वरं पृथक् पृथक् प््र•र्थयामासुः। तद्वचः पञ्चानां स्वस्वपतिप््र•र्थनारूपं वचः पञ्चकृत्वःपञ्चवारं अभवत्हि यस्मात् तस्मात् पतिरास्त्विति () वचोपि पञ्चकृत्वोभवत्इति वाक्यशेषः । तत्रायं प््रायोगः शिवदेहस्थित इत्यादि भारतीवरदानमुक्ताभिप््र•यं चिद्योगात् चिता परस्परं संश्लेषात्।विष्णूक्तं शङ्करोक्तं च पञ्चकृत्वः उपपन्नं वचनं श्रुत्वा अतः तद्वचः श्रवणानन्तरं अस्मिन् देहे अहमेवैकैवेति स्थिताः। एवं मन्वानाः पृथक् पृथक् इति भावः। वरार्थं स्वभर्त्रापि प््रादानार्थं अत्र स्थितान् चतुरः सुरान् वरेण्यं () उत्तमै प््र•प्यम् ।। मृषा असत्यम् । यस्य वै इन्द्राय नरतनो नरेषूत्पन्नात् तस्मात् शक्रात् रुद्रभावं यासि। मया सह अविचार्य मच्छप्तानां पतियोगवरं प््र•दाः यतः। अत मानुषेषु स्थितः। प््रिायां नावाप्स्यसि इति ब््राह्मा तदा शिवं शशाप । ततः पश्चात् उमाया तत्र मानुषत्वनिवृत्यनन्तरं भारतीदेहात् निर्गतां उमां स्वलोके कैलासे रुद्रभूतस्त्वमिति भावः। प््र•प्स्यसि स्वार्थे स्वविषये ते जयं त्वया दत्तवरः उमायाः प््रातियोगवरः मृषा भवेत् । पञ्चदेवीतनुः सैषा त्वया दत्तवरा एषा इन्द्रसेना द्रौपदीनामा भवेत् । येषु यद्विषये मारुतादीनुद्दिश्य इन्द्रं प््रातीति भावः। ते त्वया मृषावागसत्यवाणी प््र•ेक्ता ते अखिलाः धर्माद्यवैति भावः।।१४८।। ननु मदवज्ञातः तेषां जन्म किं न स्यात् । मम मृषावाक्त्वं कुतोवगतमित्यत्र श्रुतेरेवेत्यत आह- एतदिति।। तत्र त्वदवज्ञा कारणं नेत्यत्र श्रुतिरस्ति। अतः अत्र तेषां मानुषजन्मनि तेषां मनुष्यजन्मनि….. कारणं च ततः अनृतोक्तिदोषात् दीर्घकालं मानुषेषु स्थितिमाप्स्यसि। इत्युक्त्वा ब््राह्मा प््राययौ।।१५१-१५२।। उक्तमर्थं प््रामाणेन स्थापयति- वेदेष्वित्यादिना।। सुता च सुतश्च सुतौ। तयोः जातयोः सतोः मातृस्नेहार्थं मातृ …. स्नेहार्थम्। पण्डितानां सकाशमिति शेषः। धृतराष्ट्रः भीमपार्थयोः बलं दृष्ट्वा स्वभावतः देवत्वाच्च सुप््राीत एव धर्मजस्य ज्येष्ठत्वात् तं या…. यौवराज्याभिषेकिणं चक्रे। अथो युधिष्ठिराभिषेकानन्तरं दुर्जयौ भीमार्जुनौ धृतराष्ट्रस्य चक्रतुः। सोपि धृतराष्ट्रोपि तयोरतिमानुषकर्मणोः तयोः प््राीतो अभवदिति सम्बन्धः।। इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितश्रीमन्महाभारततात्पर्यनिर्णयव्याख्यां श्रीवेदाङ्गतीर्थविरचितायां तात्पर्यदीपिकायां अष्टादशोध्यायः।।

अथ एकोनविंशोध्यायः।। गुरुदैवतादिसत्सुगुरुदेवतादिविषये ।।१।। नास्तीक्यनीतौ को गुरुरित्यत आह- नाम्नेति।। यः आसुरकः नाम्ना कलिङ्ग इति द्विजः अभूत् सुरेतरगुरोः शिष्यः शकुनेः स गुरुः सः शकुनेः वचनतः रहः समस्तां कुत्सिततमां नीतिं धृतराष्ट्रपुत्रेषु अधात्।।२।। दुर्नीतिस्वरूपं लेशतो दर्शयति। यत्र तस्यां नीतौ छद्मेव परमं परमतात्पर्यं गोचरं सर्वप््राकारेण छद्म एव प््रातिपाद्यमिति भावः। स्वार्थेन स्वप््रायोजनत्वेन सुराश्च न पूज्याः । जगतः वञ्चनकृते अखिलं अधर्मादिकार्यं () कर्ता वञ्चकस्य पुंसः महोपधिः स्यात् सः महाछद्मवानेव पुरुषः निखिलात् सुरदैत्यसङ्घात् श्रेष्ठः इति योजना ।।३।। अतोपि गुरूक्तादपि।।४-५।। हृदयप््राजाताः औरसाः अन्यै कनीयसे उत कनीयसश्च भ््र•तुः दारजाताः अपि।।६।। धर्मसूनुः त्वत्तः त्वत्प््रासादात् वा अथ अनुजबलात् प््रासभं वा महद् राज्यं च साम््र•ज्यं च समवाप्स्यति। परतोप्यस्मदनन्तरमपि तदन्वयस्य मदन्वयो दासो भवेत्।।७।। तव अस्मन्निमित्तं कीर्तिनाशः इत्येव दुःखम्।।८।। ते अतन्मनः () अनुगुणं श्रेयसे । अनुकूलं न।।९-११।। गदितं पुत्रवचनम्। सुतहार्दपाशैः पुत्रस्नेहपाशैः।।१२।। इह तेषां पुरात् निर्यापणविषये विधिरुपायः इष्टः निरूपितः।।१३।। पिता द्रोणश्च अस्य द्रौणिमातुलेन कृपेण साकं वशं नीतः एषः नदीप््रासूतश्च तमनु द्रोणमनुवर्तते इति शेषः। द्रोणमनुसरतीति भावः।।१४।। अस्त्रबलेपि सुरेन्द्रसूनोरधिक एव सन् एषः कर्णोपि वशङ्गतः। स पार्थं हनिष्यतीति भावः।।१५-१६।। अयातयामैरगतसारैः।।१७।। त्वरुदर्थे () त्वद्वचनकरणेन तव प््रिायार्थे ।।१८-२१।। भेदः द्वैधीभावः।।२२।। अत्र वाराणवते।।२३।। तेषां पुरस्तेषामग््रो तत्र वारणावते बहुगुणा उदिताः। अथ तेषां गमनाभिरुचिश्च जाता तद्गुणान् श्रुत्वेति शेषः।।२४।। पितेति पितृवचनमनुवर्तव्यमिति () नीतिहेतोः न्यायार्थम्।।२५।। तदा भीमः अत्र गमने भैक्षचारः भविता । क्षत्रक्रियायोग्यो भैक्षचारः भविष्यति। निजकर्म न त्याज्यं त () इति सम्यगनुविद्यैव ज्ञात्वैव निजाग््राजाय प््रातिजगाद ह । कथं वयं गृहात् अनुयामः। न स स्वधर्मः ।। नहीति भीमः निजधर्मं प््रादर्श्य अथ इत्यूचिवांसं अमुं अग््राजं अनुवृत्यै ज्येष्ठानुवृत्यै अगुगात् ()। स्वधर्मनिरूपणं च ज्येष्ठानुवृत्तिं च उभयं किमर्थमकरोदित्यत आह- दोषेति।। उभयतः ज्ञात्वा स्वधर्मानिरूपणात् ज्येष्ठानुवत्तेरुभयतो दोषो भवेदेव यतस्तस्मात् ज्ञात्वा…… ।।२७।। दोषपरिहारार्थं स्वधर्मो वाच्यः । ज्येष्ठानुवृत्तेर्दोषसद्भावात् अत्र स्थितिरुत न कार्या तर्हि ज्येष्ठानुवृत्या स्वधर्मत्यागदोषः प््र•प्त इत्यत आह- कीर्त्यर्थमिति।।२९।। वृषसुतज्येष्ठकर्तुरभिप््र•यं तं वरमप्याह()- हन्तव्यतामिति।। वधयोग्यापराधिषु सुयोधनादिषु तदैव हन्तव्यतामुपगतेषु () वधादन्यः वधाभावः निजधर्मो नैव भवेत्। निजधर्मार्थं वध्यतामिति चेत् (हन्यतां) तच्च न युक्तं कुतः पूर्वं वधे प््राथमापराधेनैव वधे तेषां समस्तशो दोषः करिष्यमाणदोषाः विवृतिं लोकप््रासिद्धत्वं न यान्ति अतः पूर्वं न हन्तव्याः । वधयोग्यानां वधस्य स्वधर्मत्वात् त ….. ने स्वधर्महानिः स्यात्। अग््राजवचनात् व्ययाभावेन स्वधर्महानिः न स्यादिति तदर्थतो हरिः ज्येष्ठं चकारेति सम्बन्धः।।३०-३१।। अमुत्र वारणावते विष्णुपद्या गङ्गाजलमार्गेण।।३२।। पूर्वं यः सुपापः प््राहस्त इति प््राहस्तनामा राक्षसः अभवत् तमेवात्र पुरोचननामधेयं स्वामात्यं चाभ्ययात् इति सम्बन्धः। भवत्सकाशं प््रात्यायातः छद्मवाक्यं …. वचनम् ।।३३-३४।। वृषसुतः तद्गन्धतः तद्गृहगतलाक्षवसगन्धतः वसया समेतं जातुषगृहं दृष्ट्वा ज्ञात्वा तं चातिपापं ज्ञात्वा पवमानजातमवदत्।।३५।। नीतिबलतः अखिललोकवृत्तं ज्ञात्वा स्थातव्यमिति शास्त्रबलात् स्वचारमुखतः त्वदीयवचने विश्वासमुत्पाद्य तं पूर्वोक्तं मदीयं वाक्यमुक्त्यैव सः खनकः एवं विदुरोक्तप््राकारेणोक्त्वा वृत्तिछलेन प््र•कारं करोमीति व्याजेन सुदूरं वर्त्म बिलमार्गं चक्रे।।३६-३७।। प््र•क् गृहात् प््र•क् ।।३८।। आह () तप्तमिति।। एतान् गरलेन निहन्तुमागता सा। पूर्वं भुजितः तन्त्रात् भोजनात् पूर्वं विषमिश्रसर्वान् () भोजनात् भीमस्य जीर्णत्वात् एतत् विषेण हननं कर्तुं न शशाकहि। सपुत्रायाः तस्याः हननकारणे सः भीमसेनः इदं सकलं जानन्त्येव सुतैः सह कुबुद्धिमिमां पुरोचनं च जघान (इति) योज्यम् । सहत्वेत्याद्युत्तरवाक्ययोजना । कुतस्तेषां भीतिरित्यत आह- ज्ञात्वेति।। जलप््रायाणं यानं दाशोदिताभिः दाशोदितैः। एषः धृतराष्ट्रः पुरोचनेन पाण्डवान् अदहत् हा कष्टमभूत्। …. धार्तराष्ट्रः कुमतिरिति सम्बन्धः । विषमः प््रातिकूलः ।।४६।। आनीय उदूह्य आनयन्निति शेषः। स्वपतः तांश्च दूराद् ददृशे। हिडिम्बवने स्थितान् तान् हिडिम्बो बाधते किं वेत्यभिप््र•यवानिति भावः। अभियापयत अत्ययापयत्। सा पूर्वं शच्याः अपराधात् शक्रदयितेव सुरेन्द्रलोकालङ्कारभूतैव सती स्पृधा शचीसपर्यया सति शक्रमाप्य शच्याः शापात् राक्षसीतनुमवाप सा एवं राक्षसीभूता सा भीमसेनं मारुतं मरुदवतारं अवगम्य निजां तनुं प््र•प्तुं अयाचत त्वदङ्गसङ्गं देहीत्ययाचत। एतेन भारत्यावेशयुक्तत्वेन मरुदङ्गसङ्गाच्छापमोक्षस्य च भावत्वेन सा पवमानसूनोः भीमस्य निजां तनुं स्वस्वरूपमाप। पवमानसूनोः सकाशात् निजतनुं आप्तुं आह- पतिर्भवेत्याहेति।। वा अनूक्तं अन्वनूक्तमपि यद् यदा यः पुरा देवोपि राक्षसतनुः निर्ऋतिः घटोत्कचो अस्य सूनुः जातः । तस्मिन् घटोत्कचे शब्दप््रावृत्तिनिमित्तमाह- पूर्वमिति।। पूर्वमुत्पत्तिसमये एव । अतो हि अत एव नाम घटोत्कच इति नाम तस्य काले इतोपि गमनकाले अवगमनस्य भीम इति ज्ञानस्य सा शङ्कया ।। पृथिवीसहितं यथा भवति तथा सद्म उधृत्य तदुद्धरणमपि एकदोर्ष्णा । उरुभाण्डप््रातिहुङ्कृतेन प््राति मन्दिरं हुङ्कारेण हेतुतः भिक्षां देहीति वचनरहितः ।। निशम्य जननीं इत्यवदत् स्त्रीबालसंयुतगृहे स्थातुं शिशुलालनादौ प््रावर्तितुं च लज्जेत् भीम न भवेत् । अत्र च लालनादि न ….. च्चायकं … इति स्म इत्यभिप््र•यवान् स्वयं नागात्।।७२।। साक्षात् गिरिसन्निभभक्ष्यभोज्यः अनुपचरितपर्वतसमानभक्ष्यभोज्योपेतः पुंसा सहितान् इहा अनुडुभ्यां सहितेन अनसा सहितेन शकटेन च युक्तः भवान् न यातु सती प््राचरिते पतिव््राताभिः प््र•प्ते लोके अहमत्र यामि।। ‘सखा ह जाया’ इति श्रुत्यनुवादेन जाया क प््रात्ययः।।।। दशके अतीते प््र•तिस्विकं प््राति प््राति दातव्यम् ।। करं चाह । रामायणे श्रीरामविक्रान्तिकाले । अथ रामतिरोधानानन्तरम् ।।। श्रुत्वा ननन्देति सम्बन्धः । किमिति ननन्देत्यत आह- एवमिति।। यास्यामः कीर्तिं च इति मत्वा ननन्द । एत्य निखिलं च भीमे जगाद सः निशम्य महास्वधर्मं महान्तं नारायणं शत्रुनिग््राहरूपं स्वधर्मं प््र•प्त…. उद्धर्ष आस। विघूर्णितनेत्रं हर्षात् विकसितनेत्रं अन्यैः सह अमुं च एतादृशं भीमं निहंसि । प््रासूत्यां प््रासूतिसमये मरुत्स्वयमेव चरात्मकः() एषोभूत् हि । आत्मबलं कृतोरुभोगः शकटेन जगाम ।। अग््रो पुरस्य।। न्यधापयत् न्यदधात् । स्वार्थिके णिच् ।। पूर्वं भीतियुतास्ते भ््र•तरः तदनु तदागमनानन्तरं अस्य परमकर्म श्रुत्वा मात्रा समेताः तुतुषुः। वाक्प््रामुदिताः। तत्राह तस्य विष्णोः वाचा प््रोरिताः केवलेनान्तर्यामिणा विष्णुना प््रोरिता इति भावः।।।। द्रौपदीस्वयंवरं वक्ष्यन् तत्कर्तुर्द्रुपदस्याभिप््र•यमाह- पूर्वमित्यादिना।। श्रुत्वा अतिदुःखितमनाः सन् पुनः एव पार्थाय दातुं कन्या भूयादित्यभिप््र•येण याजोपयाजमुखनिसृतः एषः मन्त्रः असत्यतार्हो न इति निरूप्य एषु जीवनं मेने । स राजा ईशवरादन्ये पार्थादिति शेषः। स इति पृथक् पदं अधार्यमित्यनेन योज्यम्। अधार्यमिति अनारोप्यमिति भावः। शिशुपालादिभिर्वृतत्वात् सुतरां अनारोप्यं (धनुः) चक्रेसम्पादयामास ।।९८।। कृष्णः पार्थान् मृतान् निशम्य सर्वपार्थानां जीवनादिकं जानन्नपि कथं कतिपयतत्कालानन्तरमेव स्वयंवर विघोषणकाल एव कुल्यहेतोः जगाम स्म हस्तिनपुरमिति शेषः। मृतस्य बन्धूनां श्रान्तं कुल्यं हस्तिनपुरं प््र•प्य भीष्मादिभिः परिगतः धृतराष्ट्रपुत्रान् संवञ्चयन् अप््रिायवत् प््रिायं सुखं सुदुःखित इवेति भावः। तस्य हस्तिनानगरद्वारवत्योः गमनस्यागमनस्यान्तरे मध्ये स…. साह्यं साहाय्यमित्यर्थः। तिलजे तैले । अस्य निक्षिप्य।।।। एतन्मङ्गल्यमतुलं सिद्ध्येत् सिद्ध्यति परिचक्रमुः। जग्मुः शृण्वन्त एव परिचक्रमुरित्यवधारणेन एतन्मङ्गल्यमतुलं पाञ्चालकान् शीघ््रां यात परं भोजनं सिद्ध्येदित्युश्रुतिरूपं वाक्यत्रयं श्रुत्वा हृष्टा अविलम्बितं जग्मुरित्युक्तं भवति।।।। इह स्वयंवरे । अर्धरात्रे अर्जुने गङ्गां प््र•प्ते अत एवं प््र•प्ते सत्येवं सह गन्धर्वराज्ञः क्षत्रात्मजाः इति ज्ञात्वा विप््रारहितान् दृष्ट्वा धर्षयितुमगात् हि विप््रारहितान् दृष्ट्वेत्यनेन विप््रोषु सत्सु गन्धर्वयक्षादीनां बाधनसामर्थ्याभावः उक्तः। अस्य रथः दग्धः चशब्दात् स्वयं च दग्ध इत्याह। अग्निना परिगृहीतं तप्ततनुमेव चकर्ष रथस्तु दग्ध एवेति भावः। तप्त () अर्जुनमपि जानन्नपि असावर्जुनः तां स्वविद्याः अस्य गन्धर्वस्यावदत् असावपि गन्धर्वोपि गन्धर्वगाः अदृश्यविद्यां अस्मै अर्जुनाय कालतः कालान्तरे अन्वक् अनुकूलतया अर्जुनेच्छानुसारेणेत्यर्थः। अवदत् तदानीमेव कस्मात् न अवददित्यत आह- पश्चादिति।। कुतो अवददित्यत आह- आधिक्यात् इति।। स्वगतसंविदः स्वगतविद्यायाः आधिक्यात् एवात्र गान्धर्वस्वविद्ययोः साम्ये नियमं दानाद् दानरूपव्यत्यासं नैवेच्छति स्म । स्वविद्यां दत्वा तद्दानमिव गन्धर्वविद्यापरिग््राहे उभयविद्ययोः साम्यं स्यात्। तच्च न स्वविद्यायाः आधिक्यात् तस्मात् तदानीमेव गन्धर्वविद्यां नाग््राहीत् इति भावः। अमुष्य गन्धर्वस्य संविदं पाञ्चालकस्य पुरं विविशुः। मूर्धाभिषिक्तसमितिं राजन्यमण्डलं समस्तराज्ञां विभूतिं कृष्णप््रात्यागतः () पाण्डवांश्च प््रादर्श्य कृष्णायै तरूपरिस्थमत्स्यावभासं वृक्षोपरि तिष्ठत मत्स्यस्य प््रातिबिम्बं कोट्याः माषान्तराय मद्रेशश्चेदीशतो अधिकमेव पर्यासाच्चकर्ष चापमिति (शेषः)। अवकाशे अस्थिरपदं स्थितिमात्रहेतोः अस्थिराभ्यां पदाभ्यां स्थितिरवस्थानं तावन्मात्रादेव निमित्तात् अस्य जानूनी धरणीं ययतुः । स स्वयं निपपातेति भावः । दुर्योधनार्थं न तु स्वार्थं स्वस्य सूतत्वात् अन्तं अग््रो कोटिं भिया धनुरारोपणाशक्तौ मानहानिभिया। अतियुक्तः एतयोरुस्थानामिति शेषः। अधुनोत् विव्याध। एते त्रयः अन्ये पार्थाः। शिनेःपौत्रश्च मुदमाप …..। अस्य कर्माणि । वैरतः विप््रावैरतः क्षत्रस्य विनाशनं न भूयात् तेन धनुषा स्वयंवरे स्वयमारोपितेन धनुषा अस्य तां बाणानां क्षिपतां यो वा कोपि त्वदुक्तेषु यो वा कश्चन आस्मिन् क्षमं शक्यं अन्यथा क्षमं चेत् रणतः इति गच्छ भीमपार्थावपि अनुययतुः । उत अनन्तरं जनितु जनयितुः ।।।। विप््र•दियोग्य पृथक् पृथक् पदार्थजातैः विप््र•दयः ब््र•ह्मणाद्याश्चत्वारो वर्णाः तेषां योग्या अवदन् ।।।। तदानीमेव कस्मान्नावददित्यतः आह। तत्कर्माङ्गभूतां प््र•गुक्ता एव ते ब््र•ह्मणस्य एतैः क्षत्रियस्य योग्या इत्यादि पृथगुदिताः ये पदार्थाः तेषां समूहैः आयुधादिभिः परिपूर्णं गृहं क्षत्रिययोग्यमिति यावत्।चेष्टाक्षत्रिययोग्यामिति व्यापारविशेषैः स्वरगम्भीरत्वादिविशेषयुक्तं आकृतिः क्षत्रियत्वज्ञापकविशेषयुक्ता विवक्षितं वक्तुमिष्टौ वचनाभिप््र•यविशेषः। वीर्यशौर्यप््र•गल्भ्यं प््र•ैढभाव एतत्पूर्वकगुणैः धर्मसूनुमेत्य एषः युधिष्ठिरः पृथगपि सर्वमवदताम्। पृथया सहितं वदेदिति ययाचे इति भावः। एष प््रायत्न त्वं वा गृहाण फाल्गुनो वा गृह्णातु सर्वे गृह्णीम इति अतः सर्वैगर्््राहणे प््रामाणं नोपलभ्यते तथापि प््रामाणताभावेपि मद्हृदि मनसि प््रातिभाति सर्वे गृह्णीम इति मनसि प््रातीतोप्यधर्मः किं न स्यादित्यत आह- धर्माचलेति।। मम मतिः धर्माचला हि यस्मात् तस्मात् तदेव मम प््रातिभानमेव मानं नैतद् विधायकागम इति भावः। समस्तः सर्वे तव सुतया पञ्चदेव्यात्मकत्वात् तत्पतिभूतेभ्यो पञ्चेभ्यः दानं नाधर्म इति वक्तुं युधिष्ठिरादीनां स्वरूपमाह- वृषेत्यादिना।। हरेः पश्चात् यज्ञनाम्नः हरेरनन्तरं ते नासत्यदस्रसहिताः वृषवायुपुरन्दराः पूर्वेन्द्राः यश्च सम्प््रातितनश्च इन्द्रः त एव इमे पाण्डवा हि अत्र पञ्चभ्यो दानविरुद्धत्वात् धर्मविरुद्धता एते देवाः एषा पञ्चदेव्यात्मका इत्येत् कथमहं जानीयान् इति द्रुपदशङ्कां परिहर्तुं कृष्मः किमाहेत्यत आह- इत्युक्तवतीत्यादिना।।