महाभारततात्पर्यनिर्णयव्याख्यानम़्
अथ भावचन्द्रिका दशमोध्यायः ॥
॥ हरिः॥
अथ गौतमशापलक्षणं विशेषमाह श्रीविष्णुपुराणे कृष्णावतारप्रस‘े ‘दुग्धाब्धेस्तटमुत्तमम्’ (5.1.32) इति वचनात् लोकोत्तरप्रज्ञ इत्यादिप्रयोगाच्च उत्तरं उत्तमम्। (षोडशेध्याये -
तदा दुग्धाब्धौ संसृतिस्थैः सुराद्यैः पूजां प्राप्तुं स्थानमेषाञ्च योग्यम् ।
मुक्तस्थानादाप नारायणोऽजः …..॥
इति क्षीराब्धेरुत्तरभागस्थं तीरं (तीरमिव तीरं श्वेतद्वीपं तथैवोच्यतामितिचेन्न) । तीरसामीप्योक्त्या बह्वायामज्ञापनार्थत्वात् शब्दतो व्यवहिततीरशब्दार्थप्रतीतिस्तु मुक्तस्थानव्यवहितामुक्तस्थलगमनसूचनाय ॥ 1-8 ॥???
दिव्यञ्च तत् पयश्च तादृशमब्धिम् । घृताधिकमिति कि‘याविशेषणम् । अधिकं घृतं यथा भवति तथा ममन्थुरिति ।
‘ततस्तस्य समुद्रस्य सञ्जातमुदकं पयः। रसोत्तमैर्विमिश्रं च ततः क्षीरादभूत् घृतम् ॥’ (18-40)
इत्यादिपर्वणि आस्तीके भारतवचनात् ॥ 9-10 ॥
॥ अथेति ॥ पातालमिति समुद्रादधःप्रदेशमेतदुच्यते । तदुक्तं भागवते-
‘मथ्यमानेऽर्णवे सोऽद्रिरनाधारो ह्यपोऽविशत्’ इति (8.7.6)। म‘लाष्टके ‘लक्ष्मीधरापैरपि शम्बरतलालीढम्’ इति शम्बरमुदकम् । पाताले प्रवेशे । विघ्नेश्वरपूजाभावे च ‘विलोक्य विघ्नेशगतिं सुरेश्वरा’ (8.7.8) इत्यादि भागवते त्रिपुरदाहे मयेन रुद्रस्येव अत्रापि पराभव इति ज्ञेयम् ॥ 11 ॥
॥ उपरीति ॥ ‘तथाऽसुरानाविशदासुरेण रूपेण तेषां बलवीर्यमीरयन् । उद्दीपयन् देवगणांश्च विष्णुर्दैवेन नागेन्द्रमथापरेण ॥’
(8.7.11)इति भागवते ॥ 12-21 ॥
भागवते कलशस्योक्तेः विष्णुपुराणे कमण्डस्योक्तेरुभयमपि सुधापूर्णमित्याह- सुधेति ॥22-35 ॥
बाधते दयया चिन्तायुक्तान् करोति । ‘ब‘ह्मादिबुद्धिस’ीर्णतानाम सज्जनानुक‘ोशयुक्तता एव’ इति तत्वप्रकाशिकोक्तेः ॥ 36-41 ॥
॥ कमलेति ॥ ‘ब‘ह्मणो मानसः पुत्रो वसिष्ठोऽरुन्धतीपतिः’ इति भारते(आदि.190.5) । शक्तिमत्वात् शक्तिः । परेण वसिष्ठेन अशरः अहिंसितः पराशरः।
‘परासुः स यतस्तेन वसिष्ठस्स्थापितो । गर्भस्थेन ततो लोके पराशर इति स्मृतः ॥’
इति च (आदि.194.3) ॥ 42 ॥
चेदीनामधिपो इन्द्रदत्तविमानेनान्तरिक्षादिचर इत्युपरिचरवसुः ॥ पपातेति ॥ अयं ऋतुकाल इति गिरिकया भार्याया प्रेषणेपि मृगयासक्त्या गृहनागमनेन॥ 43 ॥
युध्यतः रक्ताशोकपुष्पाच्छादितं मांसबुद्ध्या युद्ध्यतः ।
‘तत्राद्रिकेत्यभिमता ब‘ह्मशापाद्वराप्सराः । मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥’(आदि.64.73-74)
‘पुरोक्ता सा भगवता तिर्यग्योनिर्गता तु वै । मानुषौ जनयित्वा तु मुक्तशापा भविष्यसि॥’ (आदि.64.79-80)
इति भारतवचनात् मत्स्यवधूस्वरूपं ज्ञेयम् । अद्रिका प्रागप्युपरिचरवसुसहचारिणी विमाने । अतो रेतःपात्रत्वम् ॥ जगृहुः ॥ दशमे मासि ॥ 43 ॥
मत्स्यजातित्वात् मत्स्यः स चासौ राजा च ॥ 45 ॥
पितुः वृद्धस्य अनपत्यत्वात् तदर्थं स्वयमुत्तारयन्तीम् । सहस्रनरा नौःर्वाह्या । त्वं तु एक एव इत्युक्ते ‘अहं पञ्चशतायितः कमण्डलुश्च तथा’ इत्युक्ते वाहिते प्लवे कामनायामपि उदयकाले इतस्ततो ऋषिदर्शनेन लज्जितायां ऋषिणा तदैव महत्तम इव सृष्टे नीहारे स्मृतविश्वकर्मणा द्वीपे वितानशोभिते पर्य’े च पर्णशालायां निर्मितायां स्मृतेनागतेनारुन्धतीसहितवसिष्ठेन तादृशैः पितृभिश्च तदाज्ञा प्राप्तवसुना अत्र ब‘ाह्मविवाहे कृते बभूव व्यासः । तस्यै पुनः कन्यात्ववरं ददौ पराशरः । अतः शन्तनोः विवाहे न दोष इति ज्ञेयम् ॥ 47 ॥
सः गर्भाष्टम इव स्थितः । आशु उत्पत्त्यनन्तरमेव॥ 56 ॥
द्वीपायनस्य ऋषेः अपत्यं द्वैपायनः, मरकतश्यामत्वात् कृष्णः, विव्यास वेदान् तस्मात् वेदव्यासः ।
प्रागेव चतुर्धा विभक्तवेदं ऋङ्निगदादिरूपमेकीकृत्य एकस्मादेको भाग इति चतुर्धा व्यभजदिति भावः ॥ 62 ॥
वारुणिरथर्वाि‘रसामासीत् । ‘सुमन्तुर्वारुणो मुनिः’ इति प्रथमस्कन्धे चतुर्थाध्याये ॥ 74 ॥
॥ कृष्णस्येति ॥ एषामृषीणां प्रवर्तनसामर्थ्याभावेन स्वयमाविश्य प्रवर्तनोत्सुकाः ॥ 75 ॥
धर्मस्य वचनेन करणेन च लोकप्रवृत्तिर्भवति । अत्र वक्तृनुकत्वा कर्तृनाह- सनत्कुमारेति ॥ 81 ॥
पैलं तदाविष्टं शेषं च । तथोक्तत्वात् ॥ 82 ॥
॥ एवमिति ॥
‘जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा । पृच्छन्ति साधवो लोका ………॥’ इति वचनात् ।
‘प्राङ्निश्चितस्यैव पुनर्विशेषं युक्त्यादिभिर्धृढीकरणम्। क्वचिदप्राप्तलाभश्च उच्यते । यत आहु ‘ब‘ह्मणस्तु प्रायो नाप्रातिभासितम्’ इति वचनात् विरिञ्चेतरेषां तिरोहितलाभो वा’ । पद्म(नाभ)मूर्त्यादौ अपरोक्षतिरोधानसत्वात् प्राय इत्युक्तम् ।
॥ इति भावचन्द्रिकायां दशमोध्यायः ॥
॥ अथ भावचन्द्रिकायां एकादशोध्यायः ॥
॥ तस्येति ॥
ब‘ाह्मणस्त्रीविवाहेऽपि तव दोषो न क्षत्रिय एवात्र भविष्यतीति विप्रेण शुक‘ेण वरदानात् । ययातिस्तु पुत्रीं देवयानीं उवाह तस्याश्चासवर्णविवाहः । यं बृहस्पतिज्येष्ठपुत्रकचशापात् ॥ 1-3 ॥
इदं भारते ‘अशरीरवाचा एनं भरस्व दुष्यन्त’ इत्युक्त्वात् दौष्यन्तो भरतनामा ॥ 4 ॥
‘प्रतीपस्तु खलु शैब्यामुपयेमे सुनन्दां नाम । तस्यां त्रीन् पुत्रानुत्पादयामास । देवापिं शन्तनुं बाह्लीकञ्च’ इत्यत्र (63.47) कनिष्ठस्य शन्तनोः कथं मध्ये प्रवेश इत्यतः बाह्लीकाद्गुणज्येष्ठ इत्याह ॥ 6 ॥
येन बाह्लीकेन ।
‘वरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तमम् । जायमानेन येनेयं तरसा भूर्विदारिता ॥’
इति भीष्मं प्रति शिशुपालवचनात् ॥ 9 ॥
‘यं यं कराभ्यां स्पृशति जीर्णं स सुखमश्नुते । पुनर्युवा च भवति तस्मात्तं शन्तनुं विदुः ॥’ (63.49)
इति वचनात् ‘शान्तस्य जज्ञे सन्तानः तस्मादासीत्स शन्तनुः’ इति (आदि.103.22) वचनात्- ततश्चेत्याह ॥ शान्तस्य वृद्धस्य। ‘महाभिषक्तु राजर्षिरश’ो दृष्टवान्नदीम्’ (आदि.102.5) इति वचनात् । तदा न वरुणत्वं प्राप ॥ 18-20॥
॥ अवाप्येति ॥ ग‘ायुक्तत्वोक्त्या तस्यापि निमित्तत्वात् तत एव ब‘ह्मणा ‘तत्रापि’ इत्यादिना शप्तत्वात् । द्यौरिति नाम यस्य तस्येति विग‘हे विभक्तिलोपे दिवनामेति स्थिते पदान्तत्वेन दिव उदिति उकारादेशे द्युनामेति युक्तम् ।
‘एवं शप्तास्ततस्तेन मुनिना यामुनेन वै । अष्टौ समस्ता वसवो दिवो दोषेण सत्तम ॥’
(आदि.106.35) इति वाक्यात् अस्मादेव वरुणादेव यमुनायां वरुणाज्जातोऽयं वसिष्ठः । नरेषु स्वयमप्येकाज्जाता अम्बात्वे अभर्तृका शिखण्डित्वेन पुंस्त्वेति । अनेन जन्मद्वयं शापनिमित्तकमिति ज्ञायते । कण्टकशस्त्रादिना गोताडना । गोताडनात् गर्भवासेत्यादि। ब‘ह्मणो लोकशिक्षकत्वात् देवाज्ञया शशापेति ज्ञेयम् । मेरुपार्श्वे स्वाश्रमस्थवसिष्ठेन शप्ता स्वर्गं गच्छतः ब‘ह्मणा महाभिषजि आज्ञप्तेन तदर्थमेव भुवमापतन्तीं ग‘ामन्तरिक्ष एव दैवाद्ययुः प्राप्ताः किं वैवर्ण्यमिति पृष्टा ऊचुः तद्भारते ॥ 31 ॥
पुरा शन्तनूत्पत्तेरपि पुरा । ग‘ाप्राप्त्यनन्तरं कालविलम्बेन शन्तनूत्पत्त्यर्थं दम्पत्योेः तपसश्च उक्तेः भारते । ग‘ातीरे पितृस्तर्पयतः प्रतीपस्य दक्षिणोरौ स्थितायाः ग‘ायाः त्वं पतिर्भवेति बहुधोक्तस्य वचनस्य विरुद्धस्य पुत्रभार्यात्वं तेनैव वाचयितुं प्रवृत्तिरित्याह- दक्षिणोरुमित्यादिना ॥ 32 -34 ॥
॥ अवदत् ॥ अतस्तत्रैवान्तर्दधे इत्युक्तम् । शन्तनौ राज्यभारं निधाय वनगमनसमये । तुशब्दो मृगयां गते ग‘ातीरे रूपवतीं तां दृष्ट्वा तया च प्रतीपवचने स्मारिते च तां प्राप्त इति विशेषमाह-
‘उवाच स धर्मात्मा सप्त राजन् ध‘ुवादिकान् । अनुसंवत्सरान् शापात् मोक्ष्यध्वमिति भारत॥’ (शप्ता यूयं धरादयः। अनुसंवत्सरात्सर्वे शापमोक्षमवाप्स्यथ )भारते (आदि.106.39)सः वसिष्ठः । ‘जातं जातं क्षिपेत्यूचुः स्वयं ग‘े त्वदम्भसि’ इति वचनात् हनने विशेषो द्रष्टव्यः ॥ 35-45 ॥
देवे बृहस्पतौ व‘तवत्वात् देवव‘तः ॥ 46-48 ॥
‘भागीरथीं अल्पजलां ददर्श सरितां वराम्’ इति वचनात् अल्पस्वे निःस्वव्यपदेशवत् अतोयामित्याह ॥ 49-56 ॥
तुशब्देन धनुर्विद्यातिशयार्थं तप इत्याह । तपोविघ्नाय इन्द्रप्रेषितत्वात् तदाह- सेति ॥ पितैव ध्यानबलेन ज्ञात्वा आगत्य उपनयनादिसंस्कारं कृतवान् कृपस्य सः (आदि.140.15-24) ॥ 57-64 ॥
‘तदृषिर्द्रोण आदधे’ इति (आदि.140.38) वचनात् द्रोणे द्रोणनामके कलशे ‘आचार्यः कलशाज्जात’ इति वचनात् ॥ 65-66 ॥ वराप्सरा मेनका । ‘सम्प्राप्ता सहसा राजन् मेनकेति प्रतिश्रुता’(आदि.150.10) इति वचनात् ॥ 67-69 ॥
पदेति समुदायैकवचनम् । पदे इति द्वितीयाद्विवचनम् । दृतत्वात् प्राप्तत्वात् । ‘पद्भ्यां आक‘मतायुष्मन् ततस्तु द्रुपदोऽभवत्’ इति वचनात् (आदि.150.12)॥ 70-72 ॥
तुशब्देन योजनगन्धित्वात् दूरे गन्धमाघ‘ाय ज्ञातुं प्रवृत्तो ददर्शेत्याह ।
‘बर्हिषद इति वि‘याताः पितरः सोमपाश्च ते । तेषां च मानसी कन्या अच्छोदा नाम विश्रुता ॥
अच्छोदं नाम तद्दिव्यं सरो यस्मात्समुत्थितम् ।
इत्येतत् पितृपुत्रिका इत्यनेन सूचयति ॥ 73 ॥
त्रसरेणुसमानान् पितृन् अविचार्य अज्ञानात् उपरिचरं वसुमेव पितृत्वेन वव‘े । स्वपित्रतिरिक्तक‘मणदोषेण पापात् अधोमुखी पतमाना सा दैवात् पितृन् ददर्श । ततो तातेत्युवाच त ऊचुः मा भैषीरनेन दोषेण भूमौ वसुवीर्यजाता तत्रापि पितरमजानती अन्यगृहे वर्धिता कालान्तरे पुनरस्मान् एष्यसीति इदं भारते । इदमाह- या वसोः सुता दाशगृहे विवर्धिता इति ॥ 74-75 ॥
एवकारेण पित्रा श्रुत्वापि स्पष्टमश्रुतेत्याह तद्भारते ॥ 76-77 ॥
उत्पलवर्णत्वात् काळी ॥ 78 -80 ॥
बलवद्वधेऽपि स्वच्छन्दमृत्युत्वम् । अन्यथा तत्काले स्वतःसिद्धस्य दानं न स्यात् ॥ 81-85 ॥
गन्धर्वाणां बलेन उपद्रवे प्राप्ते बली चित्रा‘दो नाम आगत्य स्वं नाम त्यज युद्धं वा कुरु इत्युक्ते ‘नाम’ इत्यादि ‘महारणे’ इत्यन्तेन कुरुक्षेत्रे त्रिवर्षकृतयुद्धमाह ॥ 86-88 ॥
तत्र विचित्रवीर्यस्य विवाहसमये ॥ 89 ॥
भीष्मभार्यैव नत्वन्यभार्या । ततः अन्यगात्वशापाभावाच्च संवादं न चकार । तुशब्देन वसिष्ठापराधो योगविशेषं स्मारयति ॥ नैच्छत् भीष्ममपि ॥ तथोक्तं भारते ॥ 90 ॥
परारामृष्टा क्षत्रियान्तरलब्धा ‘मनोवचश्शरीरतो यतो हि ताः पतिव‘ता’ इत्युक्तत्वेन स्वपतीतरकामनाभावः स्वभावत एव । सल्वादिकामना तु शापादिप्रयुक्ता इति ज्ञेयम् ॥ 91 -92 ॥
असामर्थ्यं नेत्याह- अनन्तेति ॥ शापोऽपि स्वेनैव दापित इत्याह- सकलान्तरात्मा इति ॥ तदिदानीं जानातीत्याह- सर्वेति ॥ अस्यैव स्वतन्त्रत्वेन भीष्मस्य चेष्टायां च सामर्थ्यं नेत्याह- सर्वं वशे यस्य इति ॥ नास्य पराभावोऽपीत्याह- सर्वेति ॥ 93॥
हिशब्देन भीष्मभयात् दृपदेन चागृहीतायां गृहद्वारि न्यस्य गमनसमये अनुगतेन दृपदेन एनां परित्यजामि इत्युक्ते परित्यागेऽपि त्वं भीष्महन्ता इत्युक्ते तस्य भयाद्ररक्ष । सैवास्य पुत्री भूत्वा जनती तां बभ‘े इति भारतप्रसिद्धिं सूचयति । अतो न रुद्रवरस्य मोघता ॥ 101 ॥
एतस्मिन्नेतदन्तरे शिखिण्डिनी चिन्ताकुला ऋचीकं ब‘ाह्मणमपृच्छत् कथं कुर्यामिति । स उवाच । ग‘ाद्वारे गन्धर्वाणां परस्परदेहप्रवेशेन जाते द्वाववशिष्टौ । तत्र तुम्बुरुः स्त्रीबुभूषुः तामपश्यदिति भारते (आदि.110.21-31) । सदृशसमयस्य समुच्चयाय तवेत्याह ॥ 102 ॥
स्त्रीत्वलोपे स्त्रीप्रत्ययलोपात् शिखिण्डिनी ॥ 103 ॥
पितृभेदेऽपि एकमातृप्रसूतत्वात् भ‘ातुः॥ 126 ॥
भीषणाकारस्य सत्यत्वेऽपि तत्र कृशत्वदुर्गन्धत्वादेरसत्वात् मृषेत्याह ।
विरूपो हि जटी चापि दुर्वर्णः परुषः कृषः । सुगन्धेतरगन्धश्च सर्वथा दुष्प्रधर्षणः॥
इति भारते (आदि.115.7)॥ प्रदर्शयेच्च…एतदेव तत्समानं भविष्यतीति भावः ॥ 129 ॥
एतदुक्तं भारते । हंसो नाम गन्धर्वो धृतराष्ट्रो जातः ।
‘अरिष्टायास्तु यः पुत्रो हंस इत्यभिविश्रुतः । स गन्धर्वपतिर्जज्ञे कुरुवंशविवर्धनः ॥
धृतराष्ट्र इति ‘यातः कृष्णद्वैपायनादपि ॥’
(आदि.68.82-83) इति भारते ।
तस्मात् राजा तस्मात् धृतं राष्ट्रं अस्मिन्निति धृतराष्ट्रः ॥ 131 ॥
ज्ञात्वा व्यासवचनादेव रात्रौ अम्बिकया सह शयित्वा प्रातरागमनसमये कीदृशो भविष्यतीति सत्यवत्या पृष्टे अन्धो भविष्यतीति उवाचेति भारते ॥ 132 ॥
विज्ञाय व्यासवचनादेव पूर्ववदुक्तेर्भारते ॥ 134 ॥
अणिमाण्डव्यः शूलादवरोपितः निर्दुखः लोकान् सञ्चरन् संयमनीं प्राप। तेन शूलारोपणं कुतः प्राप्तं इति पृष्टो यम इति भारते ॥ 137 ॥
कुन्तीपाण्डवसंवादे ब‘ाह्मणस्य क्षत्रसन्तानार्थं त्रिवारमेव गमनस्य धर्मत्वेनोक्तत्वात् नैच्छदित्याह- ततस्त्विति ॥ तुशब्देन दशमे मासि तेषां उत्पत्तिलक्षणविशेषमाह ।
‘तस्य पुत्रा महेश्वासा भविष्यन्तीह पञ्च वै । इत्युक्त्वा मातरं तत्र सोऽभिवाद्य जगाम ह ॥’
निर्याते त्वम्बिका पुत्रं महाभागमसूयत् । अनुजाम्बलिका तत्र पुत्रं काले व्यजायत ॥
इति भारते ।(आदि.115.29)तृतीयवरयाचनं धृतराष्ट्रोत्पत्त्यनन्तरम्
‘अन्धं दृष्ट्वाम्बिकापुत्रं जातं सत्यवतीसुतम् । कौसल्यार्थे समाहूय पुत्रमन्यमयाचत ॥’
इति भारते (आदि.115.34) ।
(देवादन्यस्य) सद्योगर्भत्वेऽपि मानुषवदाचरणात् व्यासस्य गर्भविलम्बो न दोषाय । नचाविलम्बप्रार्थनाविरोधः । एकस्मिन् व‘ताचरणं ततो दशमे मासि जननमिति विलम्बापेक्षया दशममासजननस्याविलम्बात् ॥ 142 ॥
आद्यसन्तानं तव ददानीति प्रतिज्ञातत्वेन आद्या पृथा स‘युरनपत्यस्य दत्तेति भारते । गान्धारीकुन्तीमाद्रीस्वरूपं
‘सिद्धिर्धृतिश्च ये देव्यौ पञ्चानां मातरौ तु ते । कुन्ती माद्री च जज्ञाते सुमतिः सुबलात्मजा ॥
इति भारते(आदि.68.160) ॥ 147 ॥
आगतः सूर्य उवाच रतिं करवाणीति । कुन्त्युवाच नाहं रतिमिच्छामि । रमणे च कन्यात्वं भ‘मेष्यति । अयशश्च भविष्यति । एवमजानन्त्या अत्र परीक्षार्थमाहूतः । त्वं गच्छेति । सूर्य उवाच । नच मत्प्रसादात् कन्यात्वं पुनर्यशश्च भ‘ं भविष्यति । रतिमिच्छामि । आगतस्य ममावमानं कर्तुं नार्हसि। अरमणे च तव कुलं धक्ष्यामीति ततोऽ‘ीचकारेति भारते ॥ 153 ॥
भोगान् स्नेहेन धृतराष्ट्रप्रेषितान् ॥ 174 ॥
दिवारमणनिषेधशास्त्रस्य मनुष्याधिकारत्वात् मृगरूपी ऋषिरित्याह- स इति ॥ 175 ॥
सन्न्यासवदेव वानप्रस्थाश्रमः स भूयात्ततो न्यासे च आवयोः परित्यागेन प्राणत्याग एव भवेदित्युक्त्वा नेत्युक्तः गृहस्थाश्रम एव स्थितः ॥ 176 ॥
सर्वेषामपि तत्प्राप्तिः कुत इत्यत आह- देवेति ॥ ब‘ह्मापि तादृश इत्याह- अजेति ॥ तदपि कुत इत्यत आह- पूर्णेति ॥ ब‘ह्मणोऽपि षाड्गुण्यसद्भावात्- पूर्णेति ॥ अजगुुरुत्वोक्त्या स्वगुरुत्वसूचनेन गुरुनामग‘हणमनुचितमिति ज्ञापनाय नारायणपदार्थमाह- क्षीराब्धाविति ॥ शयनं न श्रमपरिहारायेत्याह- अनुपमेति ॥178 ॥
वायोरपीश्वराज्ञया अस्त्रयुद्धस्य धर्मत्वेन वक्ष्यमाणत्वात् उपपन्नमस्त्राणीति ॥ 190 ॥
तवावतारे सामर्थ्यज्ञापनसुखतिरोधानाभावहननोपायान् ज्ञात्वा अनायासेन शत्रून् जहीति भावेनाह- त्वमेवेति ॥218 ॥
न केवलमेतावत् । सकलगुणतिरोधानञ्चेत्याह- उदारेति ॥ देहस्यापि तदात्मकत्वात् ह्रासो मरणञ्च नेत्याह- अक्षोभ्य इति ॥ युद्धं करिष्यामीति प्राप्तेऽपि अयं न मुखवैवर्ण्यवानित्याह- अनन्तेति ॥220 ॥
असवर्णविवाहस्याश्रेष्ठत्वात् शूरस्यान्यक्षेत्रोत्तमत्वात् तस्याश्रैष्ठ्यमनुक्त्वा शूरतातसुतस्येत्युक्तम् ॥ 226 ॥
वराहमूर्तिसुतस्य कथमसुरत्वमित्यतः हरेःसुतत्वेऽपि तदिच्छया । असुराद्भौमादिति ॥ 229 ॥
अन्येत्वित्यत्र तुशब्देन भीष्मादीन् कांश्चिद्विहायेत्याह । अत एव प्राक् ‘सहाया देवा’ इत्येवोक्ताः ॥ 235 ॥
सावधारणं पराभक्तिरेव सुरत्वे लि‘मित्याह- लि‘मिति ॥ विशेषतः सुराः देवश्रष्ठाः ॥ 236 ॥
॥ इति भावचन्द्रिकायां एकादशोध्यायः ॥
॥ अथ भावचन्द्रिकायां द्वादशोध्यायः ॥
॥ 1 ॥
कंसस्य मातुलत्वं वक्तुम्- स्वसेति ॥ गुरुपुत्रवधतुल्यः पितृभगिनीसुतवधः कंसेन कृत इति वक्तुम्- पितृश्वसेति ॥ 2 ॥
इयं न शत्रुः तत्पुत्रान् त्वं जहीति समर्प्य ॥ 5 ॥
(‘व‘पुण्ड्रकिरातेषु राजा बलसमन्वितः । पौण्ड्रको वासुदेवेति योसौ लोकेभिविश्रुतः ॥’
इति स.14.20 )
(‘ततः पुण्ड्राधिपं वीरं वासुदेवं समाययौ’ इति सभा.31.22) पुण्ड्रदेशाधिपतित्वात् पौण्ड्रकः । भारतस्य अध्यात्मपरत्वमुक्तमुपपादयितुं दैत्यवाचकशब्देन तन्नियम्यदोषाः ग‘ाह्या इति ज्ञापयितुं पूर्वत्रोत्तरत्र च दैत्यस्वरूपमुच्यत इति ज्ञेयम् ॥ 8 ॥
यस्माज्जायमानः शृगालध्वनिं चकार तस्मात् सृगालः ॥ 9 ॥
उदारो सङ्‘यातो गुणतश्च । कस्यां कति जाता इत्यस्योत्तरं नवमस्कन्धचरमाध्याये द्रष्टव्यः ॥ 10 ॥
देवल एव देवकः । ‘देवलं जहसुः’ इति भागवतोक्तेः ॥ 12 ॥
प्रचकर्ष अंशेन ॥ 14 ॥
॥ तदा मुनीन्द्रेति ॥ अत्रैवं भारतकथा । पाण्डुना सह स्थिता ऋषयः अमावास्यायां मेरुस्थब‘ह्माणं द्रष्टुं सम्प्रतस्थुः। तान् दृष्ट्वा तैः स्वभार्यः प्रतस्थे । ततो गिरिश्रृ‘ादौ गन्तुं असमर्थे पाण्डुभार्ये बभूवतुः । ते दृष्ट्वा ऋषय ऊचुः । ते विहाय गच्छेति । स उवाच। अप्रजस्य मे लोका न सन्ति तथाप्युग‘ेण तपसा सभार्यो लोकं विन्देयं इति। एवं दुिःखतं पाण्डुं ऋषयो दिव्यदर्शनेन प्रजाधिकारं प्रजावन्तं च विज्ञाय प्रजोत्पत्तये सभार्यस्त्वमत्रैव तिष्ठेति गमनं निवारयामासुः इति सभापर्वणि एकोनषष्ठितमेऽध्याये । (आदि.125.5-18)
अमावास्यां तु सहिता ऋषयः संशितव‘ताः । ब‘ह्माणं द्रष्टुकामास्ते सम्प्रतस्थुर्महर्षयः ॥
तत्रैव-
उत्थाय सहसा पाण्डुं गन्तुकामं महर्षिभिः । समागतं तितीर्षन्तं शतश्रृ‘ादुदुखम् ॥
सम्प्रस्थितं स्वभार्याभ्यां अब‘ुवन् ते च तापसाः। उपर्युपरि गच्छन्तो शैलराजमुखं प्रति ॥
प्रपश्यामो गिरौ तस्मिन् दुर्गान् देशान् बहून् वयम् । यक्षराक्षसगुप्तानि गन्धर्वचरितानि च ॥
आक‘ीडितान्यप्सरोभिः सह देवगणैस्तथा। सदनानि कुबेरस्य हृद्यानि च मृदूनि च॥
देशान् नदीनितम्बाश्च घोराश्च गिरिगह्वराः।सन्ति नित्यं हिमाक‘ान्ताः निवृत्तमृगपक्षिणः॥
सन्ति केचित्सदावर्षाः घोररूपा दुरासदाः। पक्षिणोऽत्र न गच्छन्ति कथमेवापरे मृगाः ॥
वायुरेवात्र संयाति सिद्धयक्षाश्च चारणाः । गच्छन्ति शैलराजेऽस्मिन् राजपुत्र्यौ कथं त्विति ॥
न सीदेतान् दुःखार्ते दुर्मार्गे भरतर्षभम् ।
पाण्डुः -
अप्रजस्य कुतः स्वर्गद्वारं सम्प्रति चक्षते। येन सन्तानतप्तोऽहं अप्रजश्च ब‘वीमि वः ॥
सोऽहमुग‘ेण तपसा सभार्यस्त्यक्तजीवितः। अनपत्योऽपि विन्देयं स्वर्गमुग‘ेण कर्मणा ॥
तापसाः -
अस्ति वै तव धर्मात्मन् दिवि दोवोपमं शुभम् । अपत्यमनुसन्दिष्टं पश्यामो दिव्यचक्षुषा ॥ इति ॥ 15 ॥
॥ यथैवेति ॥ नारदीये रुक्मा‘दचरित्रे इक्ष्वाकुवंशजो रुक्मा‘दो नाम राजा एकादशीव‘तं सर्वथा कार्यं अन्यथा हन्मीति पटहघोषेण स्वदेशजनैः व‘तं कारयामास । स्वयञ्च चकार। तेन सर्वे स्वर्गताः । तदा नरके च शून्ये यमः ब‘ह्माणं गतः । तेन च मोहिनीमुत्पाद्य तस्यां प्रेषितायां रुक्मा‘दो मोहितो धर्मा‘जे सन्ध्यापुत्रे स्वतनये राज्यभारं निधाय एकादशीव‘तञ्च पटहघोषादिना कारयेदित्युक्त्वा च मोहिनीं बहुवर्षं रमयामास। कदाचित् पटहं श्रुत्वा अद्यैकादशीति ज्ञात्वा नियमेन निराहारो भवानीत्युक्ते अद्यैव रमणार्थं भोक्तव्यं इति तयोक्ते राज्ञा च निराकृता गृहान्निर्गता मोहिनी। धर्मा‘दः तां दृष्ट्वा तव यदपेक्षितं तत्सर्वं ददामीति पित्रर्थमुवाच। सन्ध्यावल्या तथैव वाचिते तयोक्ते मोहिनीमात्रं पित्रा छेद्यमानं तव शिरो भूयादित्ययाचत। एकादशीव‘तार्थं तथा धर्मभूषणेन स्वीकृते पित्रा असिना छेद्यमाने शिरसि हरिरागत्य कृपाणं जगृहे। धर्मभूषणस्य लोकांश्च ददौइति कथा॥ 18 ॥
स्वभर्तृगमनस्यैव श्रेष्ठत्वेन अन्यगमनं अमु‘यमित्याह- अयुक्तमिति ॥ नतु सर्वथा अयुक्तमिति। परशुरामेण क्षत्रियहननान्तरं ब‘ाह्मणैः क्षत्रियासु प्रजोत्पत्त्या क्षत्रसन्तानसम्पादनव्यवस्थापि आपद्धर्मत्वेन च व्यवस्थापितत्वस्य भारतोक्तेः॥ 30 ॥
समाहुत इत्यत्र समित्युपसर्गेण तत्पूजादिकमाह ॥ 32 ॥
सद्य एवाहितत्वात् । ‘देवात् पुत्रफलं सद्यो विप्रात् कालान्तरे भवेत्’ इति भारते॥ 33 ॥
घटेषु घृतपूर्णेषु तान् अ‘ुष्ठपर्वमात्रान् उल्बावृतमांसविशेषान् ॥ 35 ॥
देवकार्यसम्पादने ईश्वरः रक्षणे प्रभुः । पुत्रगर्भत्वाच्च रक्षणमित्याह- विचित्रेति॥ 35 ॥
गर्भभारभृतया गान्धार्या पतिसेवार्थं सन्नियोजितया वैश्यकन्याया धृतराष्ट्रस‘ः ॥ 49 ॥
संस्पर्शः संयोगः (सम्भोगमात्रतः)॥ 53 ॥
नात्र च सद्योगर्भमाह- दुर्गयेति ॥ 58 ॥
यथा स्रावे प्रसक्ते स्त्रियो रजस्वला भवन्ति एवं देवकी रजस्वला जाता । तदा दुर्गया मोहिता निद्रामाप। तदा दुर्गा रोहिण्यामदधात् । देवकीवसुदेवप्रत्यक्षं तु अत्र प्रमाणमित्याह- ददृश इति ॥ 65 ॥
सम्पोथयामास सम्पोथनानुकूलव्यापारमकरोत्॥ 69 ॥
शयानमित्युक्त्या निद्राभ‘ान्तिं वारयति- अब्जेति ॥ 76॥
तर्हि श्रमपरिहारार्थमित्यत आह- आनन्देति॥ शयनोक्त्या परिच्छेदप्रतीतौ व्याप्तिः नेति भ‘मवारणायाह- अप्रमेयमिति ॥ तज्ज्ञानजनने समर्थ इत्याह- ईशमिति ॥ तदपि कुत इत्यत आह- स्रष्टारमिति ॥77 ॥
सा पूतना ताटका उर्वशीसम्प्रविष्टा इत्येको योजना । पूतना ताटका च उर्वशी सम्प्रविष्टा इत्येका। ताटकायामुर्वशीप्रवेशोक्त्या पद्मपुराणमनुकूलितं स्यात् ।
‘निहता राघवेणाथ राक्षसी घोरदर्शना। त्यक्त्वा तनुं घोररूपां दिव्यरूपा बभूव सा॥
जाज्वमानवपुषा दिव्याभरणभूषिता। प्रययौ वैष्णवं लोकं प्रणम्य मुनिसत्तमम् ॥’
इति ॥ 87 ॥
॥ जन्मर्क्षमिति ॥ जयोत्तरसंहितायाम्-(जया‘यसंहितायाम्)
‘ऋक्षाणां पूर्वभागे ऋक्षकर्मसमाचरेत्। तिथीनां पश्चिमे भागे तिथिकर्मसमारभेत् ॥
नक्षत्रभेदेनाधिक्ये तिथिभेदे तदन्तिमे ॥’ इति ज्ञेयम्॥ 89 ॥
॥ विवर्धमान इति ॥ अथाभ्यवर्धन् इत्यत्र उक्तमत्रापि ज्ञेयम्॥ 94 ॥
शक‘ः आशु प्रजज्ञे ॥ 98 ॥
धर्मात् त्रिवारमेव न्यय्यम् । चतुर्थे पतिता पञ्चमे गणिका इतिधर्ममधिकृत्येति ल्यब्लोपनिमित्ता पञ्चमी॥ 99 ॥
॥ अश्वत्थामेति ॥ ‘आशु गतौ भोजने शब्दे’ इति धातोः अश्वत्थः अश्वस्य इव थामः शब्दो यस्येति औणादिको मनिन् प्रत्ययः॥ 104 ॥
॥ सेवयाअखिन्न इत्येवार्थः ।
‘वासुदेवकलानन्तः सहस्रवदनः स्वराट्। अग‘तो भविता देवो हरेः प्रियचिकीर्षया॥’
इति भागवतवचनात्(10.1.24)। खेदो अनलम्बुद्धिरिति वा ॥ 106 ॥
॥ वपुरिति॥ यशोदा स्वयं दृष्ट्वा जनान् प्रति वदिष्यति। ततश्च सतां तेषां ज्ञानं भविष्यतीति भावः॥ 115 ॥
‘अमावास्यां परिच्छन्नो मासः स्याद्ब‘ाह्मणस्य तु। स’‘ान्तिपौर्णमासीभ्यां तथैव क्षत्रवैश्ययोः॥’
इति वचनात् यादवानां नृपत्वेन तदनुसारेण (सौरमासानुसारेण) तद्वत्सरस्य मीनादित्वं मेषादित्वं वा इति मतद्वये बोधायनोक्तरीत्या सिंहे स्थिते मीनादित्वे सति माससञ्ज्ञानां चैत्रादित्वेन षष्ठस्य सिंहस्य भाद्रपदत्वेन श्रावणान्त्यभागेपि सिंहस’‘ान्तिसम्भवेन अमावास्यापरिच्छेदेन श्रावणबहुळाष्टम्यामपि भाद्रपदाष्टमीत्वमुपपन्नम्। तौलवदेशे सौरमासप्रवृत्तेश्च तदनुसारेण सौरमासकीर्तनम्। वस्तुतस्तु विश्वामित्रसंहितायां
‘सौरे सर्वसमृद्धिस्स्यात् चान्द्रे सर्वविनाशनम्। देवकार्याणि सर्वाणि सौरमासेषु कारयेत्’
इत्युक्तेः सौरप्राशस्त्यं कृष्णाष्टम्युक्तपूजार्थम्। अत एवोक्तं विष्णुतीर्थीये कृष्णपूजायां
‘सिंहमासे तु रोहिण्या युतकृष्णाष्टमी पुमान्। उपोष्य मध्यरात्रे तु पूजनं कारयेदिदम्॥’
इत्याह ॥ 120 ॥
॥ सदावियोगाविति॥ अत्र वक्तव्यं तृतीयाध्याय एवोक्तम्।
एकामुद्दिष्योभयोरागमने अहं पूर्वं अहं पूर्वं इति विरोधस्स्यदित्यत आह- एकेति ॥ 124 ॥
॥ विशेषनाम्नेति॥ तृतीयाध्यायोक्तनियामकानुसारेणैवात्र विवक्षा द्रष्टव्या। मु‘यवृत्त्या अमु‘यवृत्त्या वा यच्छब्दार्थेषु एकदेशमात्रवृत्तिपर्यवसायि मु‘यामु‘यया वाचिशब्दापेक्षया तदर्थैकदेशमात्रपरः। यद्वा रुद्रादिशब्दापेक्षया तदर्थैकदेशमात्रपरः । मु‘यवृत्त्या दस्रशब्दो यद्यप्यस्ति । तथापि प्रयोगबाहुल्यमात्रेण च एकदेशपरत्वाभावात् । प्रयोगबाहुल्यस्य उभयत्र नासत्यौ दस्रौ च इति विशेषनामैव। ॥ 128 ॥
॥ वायुरिति॥ एतेषामेव नामरूपभेदेन भागवते इन्द्रत्वमुक्तं ज्ञेयम् । षष्ठो मन्द्रद्युम्नः । सप्तमः पुरन्दरः॥ 134-136 ॥
॥ इति भावचन्द्रिकायां द्वादशोध्यायः ॥
॥ अथ भावचन्द्रिकायां त्रयोदशोध्यायः ॥
॥ 1 ॥
विष्ण्वपेक्षया समाधिकयोरप्रसक्तेः अवमो नेत्याह । अवतारे न्यूनता नेति भावेनोच्यते ॥ 2 ॥
हरेः शुभभोक्तृत्वात् मृद्भक्षणस्य मद्यपानसमत्वात् जघासेव न तु जघास॥ 4 ॥
दधिमथनसमये स्तन्यपानार्थं प्रवृत्तः तदा सृतं पयो निधातुं गतायां यशोदायां स्वयं तदा स्तन्यपानेनातृप्तः कोपाद्बभञ्जेति॥ 7 ॥
‘नवो नवो भवति’ इति श्रुतेः नववत् चन्द्रवत् नीतं नवनीतमित्याह- इन्द्विति॥ दधिमथनसमये कृष्णस्तुतिकरणात् स्तुतस्सन् ‘नान्यथा पिबेत्’(नैतदिति) इति वचनाच्च यस्मान्नवं स्तोत्रं नीतं कृतं तस्माज्जघास । हरेरन्यभुक्तशेषभोगाभावात् नवं जघासेति वा॥ 8 ॥
शिष्य शास्यः । नायं शास्य इत्याह - जगद्गुरुरिति ॥14 ॥
अखिलं भरत्वात् पाशधारणमुपपद्यते॥ 18 ॥
आस्फोट्य द्विगुणीकृतहस्तप्रसारं कृत्वा। गाढरशनो बद्धकक्ष्यः॥ 36 ॥
गोवपुषः वज‘कायान् बभञ्ज ददारेति सम्बन्धः॥ 47 ॥
… कुम्भको मिथिलायामास। तस्य असङ्‘या गावश्चासन्। तत्र देवासुरयुद्धे पूर्वं देवेन हताः कालनेमिसुताः पूर्ववैरमनुस्मृत्य गोपालरूपिणं देवं हन्तुं वृषभरूपिणः सप्त आसन्। ते च गाः वत्सांश्च जघ्नुःश्रृ‘ैः । रात्रौ केदारांश्च अभक्षयन्। तदा जनाः कुम्भकं चुक‘ुशुः। भवद्वृषभैरुपद्रुता वयमिति तदा बलिनो गोपानाहूय तान् बध्नीत इत्युवाच। तेच पतन्त एव हताः। तदा विचार्य य एतान् हनिष्यति तस्मै सुतां दास्यामीत्याह। तत् श्रुत्वा गोपः कृष्णः मिथिलां गत्वा तान् एकैकमुष्टिप्रहारेण हत्वा तामलभत् इति हरिवंशे॥ 48 ॥
आद्यस्त्रीस‘े पुरुषस्य आदरातिशय इति नीलाभिप्रायः । तदितरासां तु कृष्णस्य धर्मशिक्षकत्वेन संस्कारे सति यथेच्छाविहारो न स्यादिति॥ 49 ॥
॥ पक्षद्वयेनेति ॥
हरिणा क‘ीडनं नाम बलक‘ीडनकं ततः । प्रक‘ीडिताश्च ते सर्वे द्वौ द्वौ युगपदुत्थितौ ॥
कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना । स’र्षणस्तु प्लुतवान् प्रलम्बेन सहानघ॥
गोपालाश्चापरे द्वन्द्वं गोपालैरपरैस्सह । प्रद्रुता ल‘यन् ते वै अन्योन्यं लघुविक‘माः॥
श्रीदामं चाजयत्कृष्णः प्रलम्बं रोहिणीसुतः । गोपालैः कृष्णपक्षीयैः गोपालास्त्वपरे जिताः॥
इति हरिवंशोक्तं द्रष्टव्यम्॥ 55 ॥
मद्वचनात् मम वचनकथनात्। सरामः कृष्णो अन्नार्थीति ॥ 60 ॥
कृष्णं द्रष्टुं नेत्रद्वयं नालमित्याह- सहस्रगुरिति ॥ 67 ॥
अन्ते अस्तीत्युक्त्या नायमन्तकाल इति पालनमेव कृतम्। अनादि बन्धःअनन्तो मोक्षश्च यदा तन्नियतः तदा सादिःसान्तश्च तन्नियत इति किमु वक्तव्यं इति भावेनाह- त्वयेति ॥68 ॥
॥ गोविन्दमिति॥ ब‘ह्मणा चोदिता सुरभिः गोपकृष्णं स्वपयसा अभ्यषिञ्चत। शक‘ोप्यैरावत करोद्धृताकाशग‘ोदकैरभ्यषिञ्च्य गवामिन्द्रं सन्तं परोक्षेण गोविन्द इति नाम व्यधादिति भावः। गिराम्पतिः वेदपतिः ॥ 70 ॥
कृष्णः मणिं रामाय जहार तस्मै ददौ च॥ 77 ॥
॥ व्योमश्चेति॥ गोपाः बिलायनं क‘ीडां चक‘ुः। तत्र केचन गोपाः मेषायिताः केचन पालकायिताः चोरैर्मेषेषु हृतेषु पालका विचारयन्ति । चोरायितोऽन्यो यः(व्योमः) सर्वान् बिले चकारेति॥ 82 ॥
विधिनाजले शेषशायिध्यानविधिना। तदुक्तं पञ्चसंस्कारस‘‘हे स्नानखण्डे तत्काले जले शेषशायिनं श्रीनारायणं ध्यात्वा तैर्मन्त्रैर्यावच्छक्यं जपेदित्यादि। हारीते पञ्चमाध्याये -
‘अप्स्वग्नौ हृदये सूर्ये स्थण्डिले प्रतिमादिषु। षट्सु तेषु हरेः पूजा नित्यमेव विधीयते॥
स्नानकाले तु सम्प्राप्ते रम्यां पुण्यजले शुभे। ध्यात्वा नारायणं देवं नागपर्य’शायिनम्॥
द्वादशार्णेन मनुना सोऽर्चयित्वाक्षतादिभिः। अष्टोत्तरशतं जप्त्वा ततः स्नानं समाचरेत्॥
एतदप्स्वर्चनं प्रोक्तं ब‘ाह्मणस्य जगत्पतेः॥’ इति
सन्ध्याकाले वपनमकीर्तिकरमित्यत आह- अयशोविहीन इति॥ 99 ॥
पीडकत्वमल्पमिति वक्तुं कुवलयापीडमिति वक्तव्ये अकारलोपेन कुवल्यापीड इत्याह ॥ 108 ॥
ऐभ्यं इभनियन्तारम्॥ 112 ॥
अन्धन्तमो ययौ इत्यत्र पूर्वोक्तं ज्ञेयम्। द्वेषिण इत्युक्तौ नित्यसंसारिणां द्वोषो भक्तिश्चास्तीति तद्व्यावृत्तये अभक्ता इत्याह॥ 132-138 ॥
॥ इति भावचन्द्रिकायां त्रयोदशोध्यायः॥
॥ अथ भावचन्द्रिकायां चतुर्दशोध्यायः॥ ॥ 1-2 ॥ अध्यगीष्ट अहोरात्रैश्चतुःषष्ट्या॥ 3 ॥ ॥ गुर्वर्थमिति ॥ पत्न्या सम्मन्त्र्य प्रभासे समुद्रे मृतपुत्रो देय इत्युक्ते प्रभासं गत्वा समुद्रेण पूजिते पुत्रं देहीत्युक्ते च न मया हतः किन्तु पञ्चजनेन हत इत्युक्ते तं हन्तुं समुद्रं प्रविश्य तज्जठरं विदार्य दृष्ट्वा पाञ्चजन्यं गृहीत्वा संयमिनीं गत्वा यमेन पूजितः तमादाय पूर्ववत्कृत्वा ददाविति॥ 5 ॥ ॥ चण्डमुनिः॥ कक्षीवतः पुत्रः चण्डकौशिको नाम । जरासन्धोत्पत्तेः पूर्वं अनन्तरं च तद्वरोक्तेर्भारते। देवर्षिः नारदः तत्सन्निधानमेति। बृहद्रथो वृद्धो अनपत्य एव वनं पत्नीभ्यां सह जगाम। तदा दैवात् आम‘मूलस्थितं चण्डमुनिमपश्यत्। स्वदुःखमावेदयच्च। तदा दैवात् तस्मादेव चूतात् फलं ऋष्य’े न्यपतत्। अभिमन्त्र्य राज्ञे ददौ। ततस्तुष्टो गृहमागत्य तयोर्ददौ। ते च खण्डित्वा जघसतुः । ततः खण्डद्वये उत्पन्ने …स्त्यक्ते मनुष्यमांसमादाय अनया जरया मांसराशीकरणव्याजेन सन्धिते । तदुक्तं सभापर्वणि- ‘अथ कक्षीवतः पुत्रं गौतमस्य महात्मनः। शुश्राव तपसा श्रान्तं उदारं चण्डकौशिकम् ॥’ इत्यादिना । ॥ द्वारेष्विति॥ वसुदेवनिष्ठकृतवर्माणः पूर्वद्वारे। कंसपितृभिन्नोग‘सेनसुदाम…दक्षिणद्वारो । सात्यकिगदप्रसेनाक‘ूरान् पश्चिमद्वारे। स्वयं रामेण सहितोग‘सेनं राजानमग‘तो निधायोत्तरेणेति ध्येयम्॥ 20 ॥ ॥ तस्येति॥ अवतेरुः वैकुण्ठात्। रथावप्यवतीर्णौ। एतस्मिन्नेव काले तु गगनात् सूर्यवर्चसौ। रथावुपस्थितौ सद्यः ससूतौ सपरिच्छदौ ॥ आयुधानि च नित्यानि पुराणानि यदृच्छया॥’ इति भागवते। दारुको मूलरूपेण वैकुण्ठादागतः । ‘दारुको विष्णुलोकं तु पनराप यथागतम्’ इति वक्ष्यमाणत्वात्। सुग‘ीवपुष्पकनामके रथे ।‘सुग‘ीवं पुष्पकं नाम समादाय महारथम्’ …अश्वैः शैब्यसुग‘ीवमेघबलाहकाद्यैः ॥ 21 ॥ एकं अ‘ुल्या‘यं लव्यं छेद्यं अस्येत्येकलव्यः ॥ 31 ॥ बार्हद्रथं रामरथस्थं अमुचत् अमोचयत्॥ 41॥ ॥ बहुकार्यपरा भाविबहुकार्योद्देशा, भाविश्रेयोर्थनीत्यर्थः। भाविज्ञानञ्च नीतिज्ञत्वादित्याह- नयज्ञेति॥ 44॥ विशेषतश्च सुरेषु देवोत्तमेषु ॥ 47 ॥ पत्न्यनुगमनं तदर्थम् । यद्वा यतः पत्नी यज्ञसंयोगवती नतु भोगार्थं ……संयोग इत्युक्तेः। ॥ सदेति॥ बालकसंरक्षणार्थं कुन्तीं शरणमापुरिति भावः॥ 51 ॥ अधिकैः स्त्रियः पत्यपेक्षया दशावरस्य उत्सर्गतो देवेषूक्तेः॥ 52 ॥ पुत्रापेक्षया हरिभक्त्या । हरिभक्त्यादिः स्वगुण एव प्रधानमित्याह- किमिति॥ 54 ॥ आशु पाण्डुमरणानन्तरं सप्तदशेऽिे। तथोक्तं भारते॥ 55 ॥ गगनस्थ एव नतु भूस्थः॥ 57 ॥ अधिकार्युत्तमत्वात् सुपूर्णेति । …(अजन्यत्वात्)न जन्यत्वात् सुनित्यादिति। प्रतीक्ष्येति सम्बन्धः॥ 63 ॥ ॥ तदिति॥ अधोविधावनसमये भूमिं विदार्य कोटियोजनपर्यन्तं अण्डोदकं ग‘ोदकं गतमिति भावः। नागलोकं गत्वा वासुकिना पूजितः यदेककुण्डपाने सहस्रगजबलं भवति तद्रसपानं कुण्डाष्टकं वासुकिदत्तं पीत्वा तत्र सुखेन स्थित्वा अष्टमदिवसे पुनरागत इत्याह - उत्तीर्येति ॥ 74 ॥ द्वारकानिर्माणात्पूर्वं अनन्तरञ्च युद्धसङ्‘यां निष्कृष्याह- अष्टादशेष्विति॥ 83॥ आ सम्यगित्यर्थः॥ 84 ॥ ‘अष्टादशे तु स‘‘ामे जित्वा यादवसत्तमौ। दृष्टः स्वराष्ट्रे न्यवसत् जितदिण्डलो नृपः॥’ इति भागवतवाक्यस्य भावमाह- कृष्णेनेति॥85 ॥ उत्तमानुत्तमगुरुद्वयप्रसक्तौ उत्तमे बाधकादनुपपत्तौ तदनुग‘हपूर्वकानुज्ञया अनुत्तमरामप्राप्तिः स्यादित्याह- भगवदिति॥ 103॥ गदाभ्याससमये अरीन्द्रधराच्छिक्षितम्। तदुक्तं हरिवंशे- ‘गदापरिघयुक्तेषु सर्वशास्त्रेषु तावुभौ। अचिरान्मु‘यतां प्रप्तौ सर्वलोकधनुर्भृताम्॥ ततः सान्दिपिनेः पुत्रं तद्रूपवयसं तदा ॥’ इति॥ 104 ॥ पररीत्या सगुणब‘ह्मेत्यत्र..आह- निर्मलमिति॥ अन्यत्र प्रमाणाभावादिति भावः॥ 106 ॥ यदा देवदर्शनार्थं गताः वने शिबिरं चक‘ुः तदा प्रवृत्तमाह- पूर्वमिति ॥ नन्दमिति॥ (स’ोच)द्वादश्यामकाले स्नानं कुर्वन्तं वरुणलोके महदाश्चर्यं दृष्ट्वा गतो नन्दः गोपैः सह स्वलोकदर्शनं ययाचे। अक‘ूरो यत्र शेषशायिनं ददर्श ब‘ह्मह्रदे स्नानान्तरं दिव्यदृष्ट्या इहैव स्थितान् सन्दर्शितः॥ 112 ॥ ॥ इति भावचन्द्रिकायां चतुर्दशोध्यायः॥
॥ अथ भावचन्द्रिकायां पञ्चदशोध्यायः॥ ॥ 1 ॥ तं वेणुं नादयन्तं उरुगायं कृष्णम्। (स्वदोषवशात्) त्रिवक‘ा कृष्णोपासनया तेन स‘ता इति भावः॥ 2 ॥ ॥ पञ्चरात्रविदमिति॥ ‘स्त्रीशूद्रब‘ह्मबन्धूनां तन्त्रज्ञानेऽधिकारिता। एकदेशे परोक्ते तु नतु ग‘न्थपुरस्सरम् ॥’ इत्युक्त इति चेन्न। अपशूद्राधिकरणे ‘विदुरादीनामुत्पन्नज्ञानित्वात् कश्चिद्विशेषः’ इत्युक्तत्वेन न विरोध इति ज्ञेयम्॥ 3 ॥ पित्राद्यनुज्ञया पुत्रभृत्यशिष्यभक्तानां पित्रादिव धनस्वीकारे न प्रतिग‘हदोष इत्याह- पिता स्वामी गुरुः परमं दैवतञ्चेति॥11 ॥ (॥ हेतुमिति॥ देवोत्तमपाण्डवसहायत्वेन तस्यैव कृष्णसेवारूपत्वाच्च फलत्वमिति भावः । ननु ज्ञानिमात्रमेव फलं बहुदेववधे तु सुतरां पापमिति चेन्न दैत्यपक्षत्वेन देवहनने च रामावतारे कृतस्य अधिकस्य हानिर्भवतीतिद्वितीयाध्यायोक्तत्वेन अधिकहानार्थमेव रामो द्रोणं हन्तुं कृतवानिति भावः । उद्धवरूपेण सेवकत्वात् प्रायश्चित्तं भविष्यतीति वा हेतुं कृतवान् । इतरेषां तु नार्थमेकवदित्युक्तत्वेन न परलोकबाध इति ज्ञेयम्। अनन्तशक्तित्वात् सज्जनसामर्थ्यं विद्यामपि इतरस्तदीयमीश्वरत्वात् तस्य गृहाण वशीकुरु। चेद्गृहाणेत्यत्र ग‘हणं भृत्यतासम्पादनं न सर्वेशत्वात्, नापि शिष्यत्वं परत्वात्,नापि स्वरूपसत्तादिनियमनं स्वतन्त्रत्वात्,नाप्यभेदः अन्यत्वात्,नापि साम्यापादनं असदृशत्वात्॥ 17 ॥ अत्र कैमुत्यमाह- साम्यमिति ॥18 ॥ तथैवेति उद्धरणमात्रे पूर्वसाम्यं…। इषीकाभिरपि चापं गृहीत्वा कदारेण..अ‘ुलीयकं विध्वा तं शरं शारान्तरेण संयोज्य उद्धृतमिति भारतोक्तेः ॥ 31 ॥ ॥ नेति॥ द्रोणे रामं गते द्वादशवर्षपर्यन्तं मातृपोषणे रतः राजद्वारं क‘ीडार्थमपि नागतः । पितरञ्च विचारयन् पिता …श्रुत्वा मात्रा सह तं प्राप्य तेन सह कुरून् प्रापेति इति । न कदाचित्क‘ीडार्थमागतोऽपि अश्वत्थामो द्वादशवर्षमानागमनात्। कुरुभिर्विस्मृतः अतस्तन्मुखेनापि द्रोणो न ज्ञातः। ‘शिष्यैः परिवृतः श्रीमान् पुत्रेणानुगतस्तदा। जगाम कुरुमु‘यानां नगरं नागसाह्वयम्॥’ इति। ‘सदारः प्राद्रवत् कुरून्’ इति वचनात्॥ 33 ॥ ॥ भीष्मादिभिरिति॥ ‘विष्णुद्विट्तदनुबन्धिनिग‘हः परमो धर्मः’ इति गीताभाष्यवचनेन विरोध (इति)परिहारस्तु अस्त्रज्ञैस्सह अस्त्रज्ञेनैव युद्धं कार्यम्। भीमस्य हर्याज्ञया क्वचिदेवास्त्रयुद्धं धर्म इति वक्ष्यति। नित्यमस्त्रयुद्धमिति प्रसक्तं भविष्यति तदा नाहं गुरुभिः अस्त्रोपदेशकैः अत एवास्त्रज्ञैः नित्ययोद्धा न । अस्त्रज्ञः फल्गुनो निवारकश्चेत् धर्मलाभ इति॥ 37 ॥ विराटपर्वणि- ‘ब‘ाह्मण्यां क्षत्रियाज्जातः सूतो भवति पार्थिव। प्रातिलोम्येन जातानां सात्विको द्विज एव तु॥ रथकारीति तानाहुः कि‘यायुक्तं द्विजन्मनाम्। क्षत्रियादवरो वैश्यात् विशिष्ट इव चक्षते॥’ इति वचने द्विजत्वोक्त्या वेदाधिकारसद्भावेऽपि क्षत्राधिकारशास्त्रानधिकारित्वादेव सूत इत्याहद्रोणः। अत एव अपशूद्राधिकरणे कर्णस्य क्षत्रसंस्काराभावेनैव वेदानधिकारश’ा कृता । यथा प्रणवानधिकारो गृहस्थानाम्॥ 48 ॥ अयोग्योपदेशेऽपि रामस्य न दोष इत्याह- अव्ययात्मेति॥ 48 ॥ द्वादशमासेषु रथपृष्ठं चोदकः। निऋतिपुत्राः द्वादश सन्ति। द्वादशादित्याश्च तत्र यदा इन्द्रः सूर्यः तदा च अयोनामा राक्षसो अस्ति। तथा पितृलोकाधिपतित्वात् इन्द्रस्य यदा स्वाधमं धातारं चैत्रमासे सूर्यपदे नियुङ्क्ते तदा तत्पृष्ठचोदको हेतिनामा राक्षसः स्वकाले महेन्द्राज्ञामकृत्वेत्यर्थः । अथवा स्वकालातिरिक्तकाले इन्द्रसेवानियुक्तः तत्सेवामकृत्वेत्यर्थः॥ 52 ॥ शिष्यस्यापि पुत्रसमत्वं वक्तुं गुरुतर इत्युक्तम्॥ 55 ॥ ॥ तथेति ॥ निषाद इत्युक्त्या प्रेक्षणसमये ‘शिष्योऽसि यम नैषादे प्रयोग बलवत्तर’ इति उक्ते सदनुग‘हादेव प्रतिमार्चनेऽपि कार्यसिद्धिः। ‘तस्य प्रसादोपचितोरुशिक्ष’ इति वचनात् ॥ 59-66 ॥ ॥ इति भावचन्द्रिकायां पञ्चदशोध्यायः॥
॥ अथ भावचन्द्रिकायां षोडषोध्यायः॥ ॥ 1-8 ॥ ॥ किरीटमिति॥ प्रविष्टं निहितम्।बलरामस्य रेवतीवत्अल्पपरिमाणाभिप्रायेण तुल्यमित्युक्तम्। अन्यथा क्षीराब्धि..नोक्त द्विलक्षार्धपरिमाणस्य हरेः किरीटं कृष्णशिरःपरिमितं न भवेत् । अधिकभारस्य कृष्णशिरःप्रवेशाद्वा तुल्यत्वम्। अत एव प्रविष्टमित्युक्तम्। एकस्य रूपद्वयाश्रितित्वं तु ‘देहे देहे हरिः’ इत्युक्तवदेकाण्डस्य अनेकाश्रितत्ववच्च युज्यते॥ 9 ॥ ……स्त्रिदशा नार्यस्तमुपतस्थुः प्रियंवदाः । मदिरारूपिणी भूत्वा कान्तिश्च शशिनः प्रिया। श्रीश्च देवी वरिष्ठा च स्वयमेवाम्बुजप्रजाः ॥’ इति (2.41.)हरिवंशवचनाभिप्रायमाह- रौहिणेयस्येति॥ एका कान्तिः रामस्त्रीप्रेषिता गोमन्ते पर्वते ते तस्मै वारुणीं दत्वा रमस्वेति प्रेषितत्वात्। वरुणापत्यत्वाच्च वारुणी नाम ॥ 10 ॥ …‘अम्बुजध्वजा’ इत्यस्य भावमाह- सेन्दिरावेशमिति॥ द्वयोर्वारुणीकान्त्योः। स्त्रीषु सौन्दर्यातिशयस्य श्रेष्ठप्रयोजकत्वेन उक्तत्वात् कान्त्यपेक्षया वारुणी श्रेष्ठा इत्यर्थः॥ 11 ॥ ‘शशिन’ इत्यस्य भावमाह- शशा’ेति॥ पेयरूपा पेयाभिमता प्रतिमा । ‘कदम्बकोटरे जाता नाम्ना कादम्बरीति या’ इति हरिवंशवचनात् तत्कोटरे कदम्बपुष्परसजन्या कादम्बरी वा पुष्पाभिमन्यमाना वारुणी॥ 22 ॥ न प्राप्ताः किन्तु पुरं हन्तुं प्राप्ता इति मिथ्याज्ञानजक‘ोधात् ॥ 30 ॥ यक्षराट् कुबेरसखा मणिभद्रो नाम इत्यरण्यपर्वणि॥ 32 ॥ ॥ इति भावचन्द्रिकायां षोडषोध्यायः॥
॥ अथ भावचन्द्रिकायां सप्तदशोध्यायः॥
॥ 1-31 ॥
पुमान् चित्रा‘दो नाम गन्धर्व उवाच। तथोक्तं हरिवंशे॥ 32 ॥
समस्तराज्ञां सन्त उत्तमाः पर इति यावत्। तेषां सुराणां पतिः । राज्ञां पतयस्सुराः । सुराणां पतिः हरिरित्यर्थः ॥ 34 ॥
अयमधिराजराजशब्दार्थः। राजानः प्रसिद्धाः अधिराजाः देवाः तेषां राजा इत्ययमर्थो हरिवंशे ॥ सरुग्मीति॥
‘जरासन्धः सुनीथश्च रुक्मी चैव महारथः। साल्वः सौभपतिश्चैव चत्वारो राजसत्तमाः॥
र‘स्याशून्यताहेतोः तिष्ठन्त्विह पार्थिवाः॥’(2.)
इति हरिवंशेषु इन्द्रवचनेक्तेः। सुनीथः शिशुपालः ॥ 45 ॥
केशवाभिप्रायमज्ञात्वा स्वयमन्यथा मन्यत इत्याहुः- यशश्चेति॥ 63 ॥
साल्वः ।….। न तु भार्यसहोदरः॥ 75 ॥
असुरैरित्युक्त्या असुरावेशबाहुल्यात् आग‘हातिशय इत्याहुः ।
‘ब‘ह्मचारी सदा भूत्वा स्वदारा न स विन्दति। तथाच वर्तमानं तं ऊर्ध्वरेतसमव्यम्॥’(2.57.7)
इति हरिवंशवचनात् । अत एव नैष्ठिकमिति वक्ष्यति॥ 80 ॥
यवनो मुन्यभिप्रायं ज्ञात्वा स्वदेशं प्रापयित्वा यवनदेशस्य हेयत्वात् तत्र स्वगोष्ठे स्थापयामास। यवनार्थमेव तदा गोभिकाभिरर्चितः असुराप्सराः यवनभोगा‘ना।
‘सन्तोषयामास च तं यवनेशो ह्यनात्मजः। तद्योषित्स‘माच्चास्य पुत्रोभदूत्कलिसन्निभः॥’(कलिसप्रभः)इति विष्णुपुराणे(5.23.4)॥ 82 ॥
प्रागगृहीतस्य मध्ये अननुसंहितस्य पुनरनुसन्धानं स्मरणम्। एवञ्च अस्मरदिति ज्ञानस्य आगन्तुकत्वं प्रतीयते। अत आह- सदेति॥ ‘तदैक्षत’ इतिवत्भूत्वाभवनपरं तदिति भावः।
‘भक्तानां स्मरणं विष्णोः नित्यज्ञप्तिस्वरूपतः। अनुग‘होन्मुखत्वं वै नान्यत्क्वचित्…॥’
इत्यस्य ईशावास्यभाष्यानुसारात् अर्थोऽवगन्तव्यः। अस्मरदिति विश्वकर्माणं तदनुग‘होन्मुखोऽभवदित्यर्थः॥107 ॥
॥ त्रिषट्केति॥
‘त्रिंशद्योजनविस्तारं ददौ कृष्णस्य सागरः । असृजत्पयसां मध्ये तत्र द्वादशयोजनम्॥’
॥ 113॥
समीरणो मु‘यवायुः। ‘प्राणो यो भूतानां’ ‘मारुतं जगतः प्राणम्’ (हरि.2.58.68-70)इति विशेषणात् ॥114 ॥
॥ निधीनिति॥ कुबेरभृत्याः सकलनिधिनियामकाः। पद्ममहापद्मश’मकरकच्छपमुकुन्दकुन्दनीलखर्वनामानो नव निधयः कृष्णेन स्मृताः। आगत्य वाय्वाज्ञया सर्वयादवगृहेषु निधीन् समर्पयामासुः इति॥ 115 ॥
॥ समस्तेति॥ सुषुप्तान्॥
‘मधुरायां तान् पौरान् तत्र जनार्दनः। उद्धृत्य सहसा रात्रौ द्वारकायां निवेशयत्॥
प्रबुद्धास्ते जनास्तत्र पुत्रदारसमन्विताः। हेमहर्म्यतलाविष्टाः विस्मयं परमं ययुः॥’ इति पाद्मे।
वह्न्यन्तर्गतकाष्ठवत् दहनेत्याह- अव्यय इति॥ 132 ॥
शिववरो‘‘नसामर्थ्यञ्चास्तीत्याह- वरादिति॥ हरेरिति॥
‘यथाभिवाञ्छितान् दिव्यान् गच्छ लोकान् नराधिप। भुङ्क्तवा भोगान् महान् दिव्यान् भविष्यसि महाकुले॥
जातिस्मरो मत्प्रसादात् ततो मोक्षमवाप्स्यसि॥’ इति विष्णुपुराणे(5.24.2-3)॥ 133 ॥
‘अष्टादशे तु सङ्ग‘ामे’ इत्युक्तवाक्याभिप्रायं विशदयितुमाह- स पुप्लुव इति॥ 139 ॥
द्विजोत्तमं स्वपुरोहितसुतं तमिति।
‘श्रुत्वैतत् भगवान् रामो विपक्षाय नृपोत्तमम्। कृष्णं चैकं गतं हर्तुं कन्यां कलहशि’तः॥
बलेन महता सार्धं भ‘ातृस्नेहपरिप्लुतः। त्वरितः कुण्डिनं प्रायात् ……..॥’ इति भागवते॥ 142 ॥
॥ तत्सदः ॥ ब‘ह्मलोके ‘पुत्रीवरं परिप्रष्टुं ब‘ह्मलोकमपावृतम्’इति भागवते। ‘अब्जयोनिं प्रष्टुं ब‘ह्मलोकं जगाम’ इति विष्णुपुराणे(4.1.67)। मेरुस्थले न सदो भवेत्। तदुक्तं ब‘ह्मवैवर्ते-
ऋषयः-
कथं बहुतिथौ काले व्यतीतं सूतनन्दन। न जरा रैवतीं प्राप रैवतं वा ककुद्मिनम्॥
मेरुतस्तस्य वातस्य सञ्जाते सन्ति कथमिति तत्कथं युज्यते अपुनरावृत्तिस्थानात्तस्येति चेत् । उक्तान्तानां अपुनरावृत्त्य‘ीकारात्।
॥ गीतिकाम्॥ हाहाहूहूकृतिरूपां गीतिकामिति। ‘यतस्त्रिनवचतुर्युगविकल्पित’ इति भागवते। ‘साम्प्रतं भूतले वैवस्वते मनो अष्टाविंशतितममनोश्चतुर्युगमतीतप्रायं वर्तते। आसन्नो हि कलिः॥’ इति विष्णुपुराणे (4.1.76-77) ॥ 170 ॥
पुरातनप्रमाणसम्मितां तालप्रामाणामाज्ञाय॥ 174 ॥
॥ जनार्दनश्चेति ॥ राक्षसविवाहस्य कृतत्वात् पुनरुद्वाहे दोष इति चेन्न। अष्टौ विवाहाः। ‘अल’ृत्य दद्यात्स ब‘ाह्मणः। यत् ऋत्विजे ददाति स देवः। गोमिथुनं दत्वा प्रयच्छत् स आर्षः। सहधर्मं युवां चरतु इति दद्यात् स प्राजापत्यः। धनं गृहीत्वा दद्यात् स आसुरः। वधूवरयोः स’ेतो गान्धर्वः। हत्वा भित्वा च शीर्षाणि रुदन्तीं रुदद्भ्यो वा हरेत् स राक्षसः। सुप्तां प्रसुप्तां वा हरेत् स पैशाचः। पूर्वेषां चतुर्णां पृथक्त्वं उत्तरैश्चतुर्भिर्मिता भवति। यदुत्पन्नस्य वंशस्य राज्यमभिप्रेतं तस्या उत्तरचतुष्टयगतविवाहसम्भवे पुनबर्‘ाह्मविवाहः कर्तव्य इत्यादिपर्वणि शाकुन्तलोेपा‘यानोक्तेः पुनबर्‘ाह्मविवाहो न दोष इति ज्ञेयम्॥ 176 ॥
॥ अवाक्षिपत्॥ ‘षष्ठेऽिे जातमात्रं तु प्रद्युम्नं सूतिकागृहात्’ इति विष्णुपुराणे(5.27.3)॥184 ॥
॥ सुरूपिणमिति॥ सुरूपी पोषणीय इति मत्वा ददाविति भावः॥ 186 ॥
व्यवर्धयत् नारदेन ज्ञात्वा। ‘कौतुकाविष्टां तन्वीं प्राहाथ नारदः’ इति पुराणे (वि.पु.5.27.9)॥ 191 ॥
॥ ददाविति॥ ‘स्वावराणां गुरुत्वं तु भवेत्कारणतः क्वचित्’इत्युक्तेऽपि यामग‘हीदित्युक्त्या शिष्यत्वेन स्वीकारवदेव भार्यात्वेन स्वीकारोक्त्या गुरुत्वासम्भवेन लोके यथाप्तः कश्चित् स्वशस्त्रमन्यस्मै ददाति एवमेव मन्त्रनमपि वाचा ददाविति॥ 196 ॥
बहून्यहानि॥ 214 ॥
॥ पुरेति॥ अत्र गदो विश्वक्सेन इति भाति। विश्वक्सेन इति हरेर्निवेदिताशन इति नारायणवर्मटीकायां ‘विश्वक्सेनो यादवत्वान्निवेद्यमपवाहयेत्’ इति योगदीपिकायां ‘दत्वाचमनमुच्छिष्टं विश्वक्सेनाय दापयेत्’इति भागवते। चण्डप्रचण्डादिद्वारपालानां प्रत्येकं गणास्सन्ति। चण्डादयश्च गणाधिपाः हरिपार्षदत्वात्। हरेश्चण्डको गणो निवेदिताशननामा कश्चित्पार्षद इति तत्वं चण्डादिगणनिरूपणे विश्वक्सेनसंहितायां स्फुटमवगम्यते॥ 252 ॥
॥ इति भावचन्द्रिकायां सप्तदशोध्यायः॥
॥ अथ भावचन्द्रिकायां अष्टादशोध्यायः॥ ॥ 1-6 ॥ युद्धादिना प्रतीपाकरणेऽपि अधर्माचरणमेव प्रतीपकरणं इत्यत आह- अनुपस्कारिण इत्यादिना॥ 7 ॥ प्रकारांशेऽपि किञ्चिदयथार्थं संशयरूपज्ञानं नास्ति,किमु वक्तव्यं अयथार्थज्ञानं नास्तीत्याह- नेति॥ 11 ॥ देवासुरयुद्धे वायोरस्त्रयुद्धोक्त्या भीमावतारे नान्यत्रेत्यर्थः॥ 13 ॥ ॥ नहीति॥ साम्याभावे आधिक्याभावे। अर्जुनस्य नरावेशादाधिक्येऽपि साम्यमिति भावः। अन्यथा ततो यातीति वक्ष्यमाणविरोधात्॥ 13 ॥ ॥ नाशपदिति॥ ब‘ह्मणा शापदानात् अनपायिशापो दीयत इत्यधर्मे संस्थिते इत्युक्तेरिति चेन्न। तेनापि स्वोपद्रवपरिहाराय शापादनात्अनयापि न दत्तः । तस्य स्वार्थं ऐहिकफले देवताविनियोगरूपत्वात् वचनमात्रं हन्तृत्वाभावादिति॥ 18 ॥ पुरबाह्यप्रदेशे निर्मिते समस्थले र‘मध्ये ॥ 30 ॥ कुन्ती कर्णं ज्ञात्वापि निजसुतं नावदत्। कन्यावस्थायां जातम्। (तदनुक्तौ कारणं)तदुक्तौ लज्जया ॥ 36 ॥ अतो पार्थो युद्धायाह्वयामास इति योजना॥ 37 ॥ अयं समीचीन इत्यु ………। (अत्र ग‘न्थपातः) (तनुर्येषां ते ईरार्धतनवः । तेषां भावस्तत्वं तस्मात् । कोऽर्थः युधिष्ठिरादिषु सौम्यादिरूपेण प्रविष्टो मरुत् तद्भार्याभिस्साकं स्वीयां स्वभार्यां द्रौपदीं बुभुजे। युधिष्ठिरादयस्तु द्रौपदीदेहगतस्वस्वभार्या एव बुभुजिरे। ननु कथमिदं घटते। द्रौपद्यभिमतदेहस्य युधिनाभिमर्षे तेषां महादोषस्य प्राप्तेः। तथान्यपुरुषपरामर्शे कृष्णाया अपि महादोषस्य प्राप्तेः। एतद्दोषपरिहारार्थमेव ईरार्धतनुत्वादित्युक्तम्। ईरोऽपि तेष्वाविष्टः भारतीविषये तेषां बुद्धिं विमोह्य स्वस्वभार्याविषये बुद्धिं सम्पाद्य तथा द्रौपद्या युधिष्ठिरादिविषये बुद्धिं विमोह्य स्वविषये बुद्धिं सम्पाद्य भोगं कृतवान् । अतो न दोषप्राप्तिः। यदा बुद्धिमोहस्सम्पादितः अन्यदत्तवरादेव जानन्तः । तथाच तत्स्वभार्याभिमतदेहेन तत्तद्दिनक्लप्तेन युधिष्ठिरादीनां भोगः। नतु भारतीदेहेन। तथाच बुद्धिमोहेन न परामर्शदोषः। यथा मुद्गलदेहे मुद्गलस्य तद्बुद्धेर्वायुना मोहितत्वात् बुद्धिरेव दोषनिमित्तम्। यथा दुर्योधनभार्यायां आत्मपत्नीबुद्धिमत्पाद्य दुर्योधनवंशं अविच्छिन्नं करिष्यामीति बुद्ध्यैव अश्वत्थामनाम्नो ब‘ह्मचर्यात् च्युतिः । नन्विदं कस्मात् कल्प्यत इत्यत आह- आदिति॥ आकारेण अकारवाच्यहरिनियमो लक्ष्यते। तथाच आत् हरिनियमात्। अथवा आत् तस्मात् प्रसिद्धात् हरिनियमात्। कीदृशो हरिनियमः वायुं विना भारत्या नान्यो भर्तेति। कीदृशान्नियमान् अपात् न विद्यते वायुं विना पतिर्यस्य भारतीचेतनस्य सः अपः तस्मात्। पुनः कीदृशात् भीमात् अतिभय’रात्। अथवा अपात् न विद्यते पतिः हरिं विना यस्य नियमस्य सोऽपः ततस्तस्मात् केनाप्यन्यथाकर्तुं अशक्तादित्यर्थ इति । तद्रीत्या व्यासतीर्थीये ननु युधिष्ठिरादिदेहेषु युधिष्ठिरो मरुच्चेति द्वौ तिष्ठतः। एवमर्जुनादिदेहेषु कृष्णाशरीरे भारती स्वस्वदिने श्यामलादिष्वेकेतिप्रतिदिनं द्वौ स्त्रियौ तिष्ठतः। तर्हि कथं भारतीमपोद्य युधिष्ठिरादिः स्वस्वस्त्रियं मरुच्च अन्यां भारतीं भुञ्जत इत्यत आह- अन्यादृशा हीति॥ सुरमानुषभुक्त्योर्विलक्षणत्वात् । अतो विचार्यं नास्तीत्यर्थः । इति व्यासतीर्थाद्युक्तरीत्या च द्रौपद्याश्चान्यगामित्वस्य आचार्यैरेवानुक्तेः(रेवोक्तेः) । एवञ्च पूर्वजन्मपरिग‘हस्यावश्यकत्वे त्रयमप्य‘ीकि‘यते। एकस्य च कन्यात्वेनोक्तेः। तदुक्तं मत्स्यपुराणे अलकापुरीमाहात्म्ये द्रौपद्या‘याने- ‘एकदेहास्ततो देव्यः पुनर्वै ब‘ह्मसन्निधौ। विलासं चकि‘रे कामात् पुनबर्‘ह्मा शशाप ह ॥ युष्माकमन्यगामित्वं भवेत्त्रिष्वपि जन्मसु॥’ इति॥ ॥ विचार्य॥ ‘पत्युरुत्तमस‘ेन न दोषो योषितां क्वचित्। तस्माद्देवोत्तमो वायुः तस्य पत्नीं विशामहे ॥ इत्युक्तप्रकारेण॥ 110 ॥ ॥ वञ्चयितुम्॥ जानाति नवेति परीक्षार्थम्। ऋजुत्वान्निर्दोषस्य वायोः कथं परस्त्रीगामित्वमिति चेन्न। स्त्रीणां पतिसमपुरुषगमने दोष उक्तो माद्रीप्रस‘े। नीचपुरुषगमने महान् दोषो वक्ष्यति‘अधोऽध’ इति। एवं पत्युत्तमान्यस्याप्रसक्तेः वायुरेव तादृश इति भारतीद्वारा वायुप्रार्थनमेव चक‘ुः। यद्यपि शच्याद्यपेक्षया रुद्रादिः पत्यधिकोऽस्ति तथापि एकदेहे अन्यगामित्वप्राप्त्यापत्त्या पार्वतीसौकर्यार्थं वायुप्रार्थनमिति। एवञ्चानन्यगतिकाभिः प्रार्थितो अनुग‘हार्थं प्रवृत्त इति परस्त्रीगामित्वकामनापूर्वकप्रवृत्तिरूपदोषो नास्तीति ज्ञेयम्। यथा अनन्यगतिकैः प्रार्थितस्य क्षत्रियसन्ताने प्रवृत्तस्य ब‘ाह्मणस्य दोषो न भवति न वायोर्नकुलस्य वा। एवं प्रकृतेऽपि । अत एव हिडिम्बीसन्तानं वक्ष्यतिआचार्य इति..प्रतिवासरङ्कन्यैव बभूव। ‘नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती’ इति भारतवचनात्(आदि.184.7)। एतत् द्वितीयशापनिमित्तं आद्यं जन्म तत्रान्यगामित्वशापाभावात्। पतियोगवरस्य पूर्वमसम्पादितत्वात् तत्तत्पतीनां भूमौ स्वभावतस्तत्काले अनुत्पत्तेश्च॥ 113 ॥ ॥ कर्मैक्येति॥ अधिष्ठानसंस्पर्शिपूजाकरणे रुद्रस्यापि पूज्यत्वं स्यादिति देहस्य च जडत्वात् न पूज्यत्वं स्यादिति भावेन रुद्रदेहस्थितमित्युक्तम्। कर्मेति….वक्ष्यमाणत्वात्। किन्तु अधिष्ठानान्तरं विना रुद्रदेहे हर्युपासनं भारत्याः कुत इत्यतः पूजारूपकर्मणः एकाधिष्ठानविषयत्वरूप ऐक्यार्थमिति । युगपत् विरुद्धाधिष्ठानविषयत्वायोगात्॥ 119 ॥ जन्मत्रयस्य भावित्वात् जन्मसु इत्युक्तम् ॥ स्वभर्तृसंयोगमिति॥ अस्य स्वपतिसंयोगमिति नार्थः। नालायिन्यां वरस्य मोघापत्तेः। नच द्रौपदीदेहे वरस्य उपपत्तेः। जन्मसु इति बहुवचनात्। पञ्चभर्तृत्वात् बहुवचनोपयोग इति न शरीरस्य इह जन्म शरीरञ्चैकं अतो जन्मनां इति स्यात्। उपचार इति चेत् स एव दोषः। एकेनैव सिद्धे द्वितीयवरवैयर्थ्यापत्तेश्च। नच सिद्धमज्ञात्वा प्रार्थनं तासां निमित्तम्। अज्ञानकल्पनापत्तेः। अतः स्वाभिप्रेतो वायुः भर्ता। तत्संयोगमित्यर्थः। एवञ्च आदौ मारुतसंयोगप्रार्थनं अनन्तरं निजपतिसंयोगप्रार्थनमिति वरद्वयसाफल्यं त्रिष्वपि जन्मसु मारुतसंयोगः । द्रौपदीत्वे स्वपतिसंयोगोऽपि ज्ञायते। ननु भारतीप्रार्थनसमये तस्याः वायुप्राप्तिर्नियम एवेति ज्ञातत्वात् इदानीं वायुसंयोगप्रार्थने नियमाज्ञानं दोष इति चेन्न। ज्ञात्वापि नियमं बलवद्ब‘ह्मशापात् द्रौपदीत्वे वायुसंयोगाविरोधेन स्वपतिसंयोगवत् मुद्गलसंयोगप्राप्तौ तत्रापि वायुसंयोग एव स्यात् । द्रौपदीत्वेऽपि पञ्चभर्तृकवरप्राप्रावपि अन्यसंयोगो माभूत्। स्वपति तदन्तर्गतवायुसंयोग एव स्यादित्येवं प्रकारकहरीच्छयैव वायुसंयोगार्थं रुद्रप्रार्थनं चक‘ुरिति॥ 121 ॥ दमयन्त्यां नलाज्जातत्वात् नलनन्दिनी। नाम्ना इन्द्रसेनेत्यर्थः। ‘इन्द्रसेनेति वि‘याता पुरा नालायनी सुता’ इति सभापर्वणि भारतवचनात्। (तत्रापि पदार्थविपर्यासकारि इति तत्र प्रयोगाच्च???)॥ 122 ॥ ॥ सुस‘ताः॥ ब‘ह्मवरेण। तदुक्तं तत्रैव माहात्म्ये- ‘ततो देव्यस्तपसा ब‘ह्मणो वरम्। ऐकमत्यप्रवृत्त्यर्थं लेभिरे भुवि जन्मसु ॥ इति। सर्वक्षेत्रे ब‘ह्मणा कृष्णाभिप्रायेण वरस्य…उत्पादनाय आदौ सामान्येन अभूदित्युक्तम्। शापानुग‘हकारणादेहसंयोगमात्रेण कृष्णादेहे भविष्यति॥’ इत्युक्तमहामात्स्यवचनात्। (अदृष्टाफलकं) पापं नचेत्यर्थः। ॥ अवज्ञानात्॥ (अनुत्थानपुुरुषादास्त इति)। एतद्वक्ष्यमाणप्रमाणरीत्या मृषावचनप्रकार एव मानुषेषु मध्ये को जातः। पश्य देवतातनुरिति चतुर्जन्मप्रसक्तिमुक्त्वा द्रौपदीत्वपर्यन्तमेवोक्तम्। तन्मात्रस्य प्रकृतस‘तत्वात् । एकजन्म विशिष्य नोक्तमिति ज्ञेयम्। परन्तु चरमाध्यायोक्तरीत्या …मुद्गलवत् वाय्वादेर्नान्यगामित्वं भविष्यति। एतत्कलियोगो मानुषभावः। मनुष्यसमानधर्मत्वं क्षुत्पिपासादीनि। अहं मनुष्य इति मिथ्याभिमाने भवत्येव मनुष्यदेहावच्छिन्नस्यैव मनुष्यत्वेनापि विरोधात्। शुकवदयोनिजत्वेऽपि मानुषत्वात् भारतीं विना विपर्ययराहित्यस्योक्तत्वादिति॥ 154 ॥ ॥ इति भावचन्द्रिकायां अष्टादशोध्यायः॥
॥ अथ भावचन्द्रिकायां एकोनविंशोध्यायः॥ ॥ 1-30 ॥ ॥ क्षत्तेति ॥ अथ पुरान्निर्गमनानन्तरम्। पौराणां पुरान्निर्गमनान्तरं ‘पौरुषेषु निवृत्तेषु विदुरस्सर्वधर्मवित्। अन्वगच्छत्स कौन्तेयं बोधयंश्चेदमब‘वीत्॥’ इति भारते(आदि.157.19)॥ 31 ॥ ॥ धृतराष्ट्रसूनुः अमुत्र च वारणवते। सपदि शीघ‘म्। काञ्चनरत्नगूढं गृहं कृत्वा तान् हन्तुन्तदाऽयम् । ‘निर्यातं सद्बिलम्’ इति भारतोक्तं ज्ञेयम्॥ 32 ॥ जानन्निदं सकलमेव च इत्यस्य पूर्वेण उत्तरेण चान्वयः॥ भ‘ातृंश्चेति॥ ‘स्कन्धमारोप्य जननीं यमाव’े निवेश्य च। पार्थो अगच्छत पाणिभ्यां भ‘ातरौ स महाबलः ॥’ इति भारते॥ 41 ॥ ॥ भीम इति॥ विष्णुतदनुबन्धिनो यदि गुरवः तर्हि निग‘हः कार्यः। नहि स्वमुखेनैव ॥ 43 ॥ ( इदानीं च ते भीता इति भावः॥॥ पुनरपि जलप्रयाणाविश्वासेन जलप्रयाणेऽपि भीमपृष्टमधिरुह्येत्यर्थः।)??? दूरात् गव्यूतिमात्रात् ॥ 47 ॥ गुरुल‘ने दोषः स्यादित्याह- जगद्गुरुरिति॥ अघटितघटकश्चेत्याह- ईश्वर इति॥ तर्हि स्वयमेवाकादित्यताह- इन्दिरेश इति॥ 52 ॥ तयोरिहेत्यत्र हिडिम्बवनसमीपे शालिहोत्रसरसि जातस्य ‘सद्यो हि गर्भं राक्षस्यो लभन्तेप्रसवन्ति च’(आदि.169.11) इति वचनात्॥ 62 ॥ ॥ देव इति ॥ अर्जुनार्थे निहतशस्त्रे त्वयि पातिते सति अर्जुनो जीवेदतः त्वं भूमौ भवेति निऋतिं प्रति इन्द्रेणाज्ञप्तमिति भारतकथा॥ 63 ॥ ॥ नैतदिति॥ इह माता पिता चास्ते जन्मभूमिश्च ममेत्यादिप्रकारेण ॥ 74 ॥ न कन्ययेत्यस्य आदावस्या दानस्यापि परित्यागादिति भावः॥ 75 ॥ रामायणे रामस्यायनमाश्रयः कालः रामायणम् तस्मिन् रामाश्रयकाले, रामेऽपि विद्यमान इति भावः । रामे सति तच्छरतान्तम्। अथ रामतिरोधानन्तरं नृपैर्दत्तकरं श्रुत्वा कुन्ती नन्दनं अश्रावयद्वा कथामिति शेषः । इदानीन्तनविप्रस्य (कथं) बहुयुगान्तरितज्ञानमित्यतः (क‘मे सतीत्याद्युक्तप्रकारेण रामायणेे कथितं श्रुत्वा ननन्द। विप्रो रामायणे श्रुतमाह । तेन सापि ततः श्रुत्वेति॥ 79 ॥)??? पुत्रकं पुत्रं युधिष्ठिरं भीमस्वरूपाज्ञानात् कुत्सयामास ॥ 86 ॥ स्पर्शात् स्वस्य परमपवित्रदेहत्वेन बकस्पर्शसम्भवेऽपि न अन्नस्य (अपवित्रबकस्पर्शायोग्याः) । अतः अन्नस्पर्शात् । भोजनकाले स्पर्शस्य भारतोक्तेः । ‘तथा बलवता भीमः पाणिभ्यां भृशमाहनत्। नैवावलोकयामास राक्षसं भुङ्क्त एव सः ॥ ततः स भूयः स’ुद्धो वृक्षमादाय राक्षसः ॥(आदि.177.38-40) इति ॥ 88 ॥ प्रतिनिधाय रात्रौ ॥ 93 ॥ दृष्ट्वा प्रभाते ॥ 94 ॥ कुन्तीसाहित्येन षण्णां मध्ये मध्यमः कुन्तीपुत्रेषु। विप्रैः पृष्टा कुन्ती स्वसुतास्त्रयः सपत्नीसुतौ द्वावित्युक्ताविति भावः । मध्यमगमनात् मध्यमः। भीमस्य पश्चाद्गमनोक्तेः॥ 107 ॥ अदृश्यं वेदयतीत्यदृश्यविद्या । ‘चाक्षुषी नाम विद्येयं यां सोमाय ददौ मनुः। यच्चक्षुषा द्रष्टुमिच्छेत् त्रिषु लोकेषु किञ्चन॥ तत्पश्येद्यादृशं चेच्छेत् तादृशं द्रष्टुमर्हति॥ इति भारतीकथा(आदि.186.43-45) ॥ 115 ॥ पुरोहितग‘हणेन युक्ताः । वसिष्ठेन संवरणो नाम राजा आस। स सूर्यपुत्रीं तपतीं उपयेमे। तेनैव कल्माषपादस्य राक्षसत्वविमोकः । तस्मादिष्टप्राप्त्यादिकम्। (पुरोहितो देवेत्यादिसङ्ग‘हणमिति)। पुण्याहावाचनपूर्वकं पुरोहितं ववृण इति प्रकारेण॥ 117 ॥ (भीमात्प्रीत्या ‘तमेवैषा वरिष्यति’ इति वचनानाच्च ॥ 131 ॥ प्रियतः कृष्णादपीति वा ॥॥) (पूर्वेन्द्रस्थाने…मीक्ष्यादिरूपा न प्रीतो राजा दृपदो विस्मृतश्चेति वचने पञ्चस्वेषु …वारयितुं इदानीन्तनस्याप्रसक्तं वारयितुमाह- वृथेति॥ ) ॥ दिव्यं हीति॥ ‘देहस्य लक्षणं नैव भूमावप्यन्यथा भवेत्’ इति वचनात् लक्षणसाम्यसत्वेन मूलरूपेण देवास्तत्स्त्रियः दृष्ट्वा तेषां लक्षणं तेषु तासां निश्चयं कुर्वत्याह । ‘चक्षुर्दिव्यं प्रददौ येन सर्वान् राजा अपश्यत् पूर्वदेहे यथावत्’(आदि.214.36) इति ज्ञापकादपि भारतीदेह एवायं शच्यादीनां आवेश इत्युक्तम् । तथापि शच्यादीनामावेशसद्भावात् य‘क्षणं सम्भावितं त‘क्षणञ्च दृष्ट्वा शच्यादींश्च दृष्ट्वा विस्मित इति बोध्यम्॥ 156 ॥ ‘क‘मेण चान्ये च नराधिपात्मजावरस्त्रियास्ते जगृहुः करं तदा। अहन्यहन्युत्तमरूपधारिणो महारथाः कौरववंशवर्धना॥’ इति भारते(1.215.23)। नच विवाहितायाः विवाहे दोषः। ‘महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि’ इति सोपपत्तिवाक्यात् (नीला इत्युपा‘याने कन्यागमनदोषः) प्रतिदिनं गान्धर्वविवाहोपपत्तेः । क्षत्रियाणां गान्धर्वोप्युक्तः शाकुन्तलोपा‘याने ॥ 158 ॥ कदा किमाह…इत्यतः स्वयंवरे पराभूतानां पुरप्रवेशात्पूर्वं वर्धन्त इत्याह । द्वितीयवारं युद्धाय यदा गताः तत एत हीत्याद्याह ॥ 175 ॥ ज्ञात्वेति अदिशत्। कृष्णायै। ‘अथ त्वाज्ञापायमास द्रौपद्या भूषणं बहु’ इति भारते(आदि.219.18)॥ 171 ॥ न तु विदुरो तथेति तर्हि ददाविति तस्मात् ॥॥ ॥ रेम इति ॥ पत्यपेक्षया भिन्नाभिन्नतनूनां अत्यन्ताभिन्नवत एकदेहोपादानकस्य तत्तदभिमानविशिष्टद्वयस्यापि अत्यन्त भेद एवेति न दोषः। पुत्रस्य तद्भार्यगामित्वे पितुः स्नुषागामित्वं स्यात्। तच्छरीरोपादानत्वात् पुत्रशरीरस्य विशिष्टद्वययोः अभेदव्यपदेशः प्रत्यभिज्ञावदेवेति ज्ञातव्यम्॥ 183 ॥ ‘आवेशयुक्ता शच्याश्च’ इत्यादिना यद्यपि आवेशयुक्तः तथापि ग‘हावेशवत् सुप्त्याद्यापादकावेशो नेत्याह- विमोह्येति॥ (स्वभार्यायामप्यन्यस्त्रीभावं) कुर्वन् मानसव्यभिचारीति भावः। मुद्गलदेहस्य ब‘ह्मशापादेवान्यस्त्रीस‘ात् कष्टमिति ज्ञेयम्॥ 185 ॥ समुद्रमथने काले पूर्वोत्पन्नत्वात् प्रथमां साक्षदलक्ष्मीम्। आसुरीषु प्रथमामिति वा॥ 201 ॥ ॥ श्रुण्वन्त एवेति॥ ‘श्रवणादि विना नैव क्षणं तिष्ठेदपि क्वचित्’ इत्युक्तेः ॥ पृथिवीञ्चेति॥ ‘देवादीनामादिराज्ञां महोद्योगेऽपि नो मनः। विष्णोश्चलति……..॥’ इत्युक्तेः(गी.भा.)॥223 ॥ ॥ इति भावचन्द्रिकायां एकोनविंशोध्यायः॥
॥ अथ भावचन्द्रिकायां विंशोध्यायः॥ ॥ तैरिति॥ तारतम्यप्रस‘ात् अहमिति पार्वत्युक्त्या वारुणीसौपर्ण्यौ। द्वयोरपि अविशिष्टत्वात्। मत्समा इति बहुवचनम्। श्रीरित्या‘यमित्युक्तश्रीरूपाभिप्रायम्। यद्वा…इत्युक्तमित्यभिप्रायः। तस्याश्च वारुण्यपेक्षया न्यूनत्वेपि एकपतिभार्यात्वेन साम्यं ज्ञेयम्। द्विवचनार्थबहुवचनं चापोथो इत्यत्र वरुणसाम्यस्योक्तावपि देवता इत्युक्त्या देवतानां स्वाधमानां स्वोत्तमाधीनत्वेक्तिवत् देवीत्वेन समानां स्वोत्तमाधीनत्वं वा सोपीत्यादि। यद्यपि लक्ष्म्या एकत्वात् अनुसन्धानसंश्लेशविशेषयोरप्रयोजकत्वात् परस्परसुखानुसन्धानस्यापि प्राप्तेः सुखानुभवे विशेषाभावात् देहस्याप्राकृतत्वेन स्वरूपत्वात्…त्वात् उत्तमत्वं दुर्निरूपम्। तथाप्येकस्यैव देवदत्तस्योपादाने …अवयवावच्छेदेन चन्दनकर्पूराद्यनुलेपने साधनातिशयात्। सुखातिशयवत् विशेषबलवदवस्थात्वादिव्यवस्थोपेतेषु अ’स्थत्वादिव्यञ्जकातिशयेन सुखाभिव्यक्त्यतिशयमादायोत्तरमादाय उत्तमत्वमुक्तं वेदितव्यम्। स्मरन् स्मारयन् तेन नरकेण नुन्नाः व्यथिताः तुद व्यथन इति धातोः नरकः स्वर्गं गत्वा इन्द्रं जित्वा उर्वशीं कामेन ययाचे। सापि त्वं यदा यायजूकः तदा आगच्छामीत्याह। तदर्थं बदरीं प्राप्य ऋषिस‘ं यजयेति ययाचे। तेपि दैत्यं न याजयाम इत्याहुः। तेन रुषा बाधिताः कृष्णं जग्मुः इति हरिवंशोक्तेः। ॥ स्वेच्छयैव॥ छन्दत उभयाविरोधात् इति मुक्तानां स्वच्छया कर्मकरणोक्तेः। ॥ द्वादशीम्॥ एकादशीम्। उपवासोक्तेः। वैष्णवस्तु दशाविद्धां द्वादशीं परित्यजेत्। इति स्मृतिषु प्रयोगाच्च। वस्तुतो यद्वादश्यां एकस्मिन् घटे कोटिच्छिद्राणि तन्निर्गतजलधाराभिः स्नायादिति भावाद्वादशीमाहात्म्योक्तेः जलस्य कोटिधारा बभ‘ इति युक्तम्। तस्य पानीयदुर्गस्य । गन्धर्वाणाञ्च या कन्याः जहार नरको बली। याश्च देवमनुष्याणां सप्त चाप्सरसां गणाः॥(2.63.12) इति हरिवंशवचनात् देवगन्धर्वकन्याः देवानां गन्धर्वाणां कन्या इत्यर्थः। काश्चित्स्वर्गदेवा जाताः। अपिशब्दादिन्द्रादय रत्नपर्वतं ददौ वरुणाय तदीयं छत्रं ददौ इति ज्ञेयम्। तथा भागवतोक्तेः। लक्ष्म्या गुणस्मरणार्थमाह कन्यकावश..इत्यादि। गजेन्द्रमोक्षे ये मां त्वाञ्च इत्यादिना पुण्यवृक्षज्ञानस्यावश्यकत्वोक्तेः तज्ज्ञापनायाह- सर्वेति॥ हरेरिन्द्रस्य एषां समुद्यमोपि कृष्णबलप्रकाशाय जात..ग‘न्थकारवचनं वा । प्रधानेति हरिर्वायुं वेादीनपि विजित्य विबोध्य च अगादिति योज्यम्। अन्यथा भागवतविरोधात्। संस्पर्धया…योषिता प्राक् पारिजातं हृतवानिति यावत्। प्रवृत्तिनिमित्तमाह वरुणावेशयुक्तमिति। अभिमान्यधिकरणन्यायेन ..पदं इरापदं वरुणपरम्। इरा जलं तद्वानब्जजात ऐरावत इति प्रयोगात्। श्रेष्ठापराधात् श्रेष्ठस्यावरापराधस्येव विग‘हः। अन्यथा वर इत्युत्तरवाक्यानुपपत्तिः स्यात्। एवं सति उत्तमापराधस्यापि सङ्ग‘हो भवति। ब‘ाह्मणब‘ुव इतिवत् बलं बभ‘ुवाः वयं बलिष्ठा इति ब‘ुवाणा एतां न जहाति किन्तु योधय इत्येवेति बभ‘ुवाहः। यद्वा मनोधैर्यबलवन्तो वयमिति ब‘ुवाणानपि…तदयुक्तत्वाच्च बभ‘ुवाहः। प्रभासमुद्दिश्य गच्छन् अयं मार्गे कन्यातीर्थे शापतो ग‘ाहदेहाः अतो जलग‘हाःमकराः युगपत् अव्यवधानेन एतास्तु मम ताः स‘यः चतस्रोन्या जले स्थिताः। एता अपि महाबाहो मुनिशापात् विमोक्षय॥ इति भारते।(1.237.20) आदौ उमाया वचनोक्तेः। समीपे द्वारकायाः। ॥ भार्ययेति॥ त्रिजटारूपस्थिता प्रकृत्याविष्ट..वचनात् अर्जुनभार्येति ज्ञेयम्। विन्ध्यसमत्वात् प्रतिविन्ध्यः स्तुतः अभिष्टुतः सोमलताविशेषो येन काले स सुतः सोमःशृतकर्मेति नाम। कर्मत्वेन शृतत्वलाभे श्रुतशब्दवैयर्थ्यपरिहाराय श्रुतशब्दः कीर्तिपर इत्याह। श्रुता‘यकीर्तिः श्रुतिः..कीर्तिमानिति महत्कर्म कृत्वा कीर्तिमानिति यावत्। शतानीको नाम कश्चित् राजर्षिः तत्समः। श्रुतसेन इति नाम श्रुता कि‘या बहुत्वात् सेनेति यस्येति श्रुतकि‘य इति, अभिमानात् अभिः विषयव्याप्तौ बहुज्ञः शत्रुषु मन्यमानश्च इत्यभिमन्युः। शास्त्रतः प्रतिविन्ध्यं तं ऊचुर्विप्रा युधिष्ठिरम्। श्रुतसोमं महाश्वेतं सोमार्कसमतेजसम्॥ सुतसोमं महेश्वासं सुषुवे भीमसेनतः। श्रुतं कर्म महत्कृत्वा निवृत्तेन किरीटिना॥ जातः पुत्रस्तथेत्येवं श्रुतकर्मा ततोभवत्। शतानीकस्य राजर्षेः कौरव्यस्य महात्मनः॥ चक‘े पुत्रं सनामानं नकुलः कीर्तिवर्धनम्। ततस्त्वजीजनत्कृष्णा नक्षत्रे विेदैवते॥ सहदेवात्सुतं तस्मात् श्रुतसेनेति तं विदुः॥(1.247.77-81) अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम्। अभिमन्युरिति प्राहुः आर्जुनिं ब‘ाह्मणर्षभाः॥ इति भारते।(1.247.63) ॥ दैत्याश्चेति॥ एवञ्च द्रौपद्युपद्रवपरिहारार्थं…इति ज्ञेयम्। पक्षिरूपर्षिणा मन्दपालनाम्ना अहताश्चत्वारः पक्षिरूपाः अप्रजातपक्षाः ऋषयः….द्रोणनामानः॥ ॥ इति भावचन्द्रिकायां विंशोध्यायः॥
॥ अथ भावचन्द्रिकायां एकविंशोध्यायः॥ ॥ जनार्दनेति॥ इन्द्रप्रस्थ एव दशसहस्रपरिमितदेशं चतुरस्रं कृत्वा मयः सभां चकारेति भारते। दीर्घवेणुदण्डतृणान्याबध्य तद्वतः। विडूरथो नाम दन्तवक‘भ‘ाता। एतदिति एतदुक्तं सङ्‘या सर्वं जम्बुज्वीपादिकं लोकनाम एतत्समा पञ्चाश‘क्षाधिककोटित्रयरूपसङ्‘यानात् द्विगुणं द्विगुणसङ्‘योपेतम्। सप्तकोटिसङ्‘यानं तम इत्यर्थः। एतस्मा‘ोकादित्यर्थोर्धो न लक्षपरिमाणजम्बूद्वीपं तर्हि तस्य लोकनामकत्वमुक्तं मेरुं मध्यीकृत्य चतुर्दिक्षु पञ्चविंशत्कोट्यो वक्तव्याः। एवञ्च लोकादित्युक्तेर्मेर्वपरभागस्थपञ्चाशत्सहस्रपरित्यागेन पञ्चश‘क्षोत्तरकोटित्रयसङ्ङ्‘या..तावद्दूरत्वप्राप्त्या द्विगुणत्वोक्तौ तु लक्षोनसप्तकोटित्वं तमसः प्राप्तम्। द्वलक्षोनत्वं घनोदकस्य। एवं त्रिलक्षोने पञ्चविंशत्कोट्य इति स्यात्। वादीन्द्रतीर्थस्वामिनस्तु भूगोलसङ्ग‘हाध्याये त्रिलक्षोनत्वमेवोक्तम्। भूमेरुपरिष्टाच्छतयोजनपरिमितप्रदेशे मेघमण्डलं शतयोजनोच्छ्रिते भूमण्डले मेघमण्डलमध्ये हंसश्येनसुपर्णादयश्चरन्ति। मेघमण्डलादुपरिष्टदशसहस्रयोजनपर्यन्तं विद्याधरसिद्धचारणानां सदनानि तिष्ठन्ति। भूम्यपेक्षया नवतिसहस्रयोजनपरिमितप्रदेशे राहुमण्डलं लक्षयोजनमुच्छ्रितमिति लक्षयोजने सूर्यमण्डलं द्विलक्षयोजने चन्द्रमण्डलं त्रिलक्षयोजने अश्विन्यादिनक्षत्रमण्डलं पञ्चलक्षयोजने शुक‘मण्डलं सप्तलक्षयोजने बुधमण्डलं नवलक्षयोजने अ‘ारकमण्डलं एकादशलक्षयोजने बृहस्पतिमण्डलं त्रयोदशलक्षयोजने शनैश्चरमण्डलं चतुर्विंशतिलक्षयोजने सप्तर्षिमण्डलं सप्तविंश‘क्षयोजने ध‘ुवमण्डलं तदुपरिष्टात् त्रयोदशलक्षयोजनपरिमितप्रदेशः स्वर्गबाह्यप्रदेशः। तस्यैव उपस्वर्ग इति नाम सा’ल्पिकस्वर्ग इति नाम च तदुपरिष्टाद्विमानश्रेणीस’ुलः अर्धकोटिपरिमितप्रदेशः स्वर्ग इत्युच्यते। एवञ्च लक्षयोजनपरिमितप्रदेशो भूलोकः। षड्वि्वंशद्योजनपरिमितं ज्योतिर्मण्डलं त्रयोदशलक्षपरिमितः उपस्वर्गः पञ्चाश‘क्षपरिमितः प्रधानस्वर्गः। एतत्सर्वं मिलित्वा कोटियोजनपरिमितम्। अन्तरिक्षप्रमाणे भागवतोक्तज्योतिर्मण्डलप्रमाणे च विरोधो नास्ति। अन्तरिक्षादुपरितनश्च स्वर्गलोकः। मोक्षः सा’ल्पिकस्वर्गः इत्यादिगीतातात्पर्यवचनात्उपस्वर्गश्च प्रमितः। वक्ष्यमाणरीत्या महरादिपरिमाणं वचनार्थत्वेनावगम्यते। अन्तरिक्षं लक्षयोजनपरिमितम् । एवं सति अवशिष्टा लक्षोनकोटिवक्षक्तव्या। तत्र ज्योतिर्मण्डलपरिमाणं भागवते सिद्धम्। विमानावलिस’ुल इति विशेषणम‘ीकि‘यते। तथा सम्प्रदायात्। तथाच पञ्चाश‘क्षपरिमितप्रधानस्वर्ग अवशिष्टत्रयोदशलक्षपरिमाणस्य स्वरूपतः प्रमिते उपस्वर्गे विनियोगः कल्प्यते। एवञ्च वक्ष्यमाणरीत्या पञ्चविंशत्कोटयो लभ्यन्ते। अन्यथा तदुपपादनमशक्यमेव भाति। महर्लोकः सार्धकोटियोजनपरिमितः द्विकोटियोजनपरिमितो जनोलोकः, सार्धयोजनादिकोटिपरिमितः तपोलोकः, तदेतदुक्तं महर्जनस्तपश्चैव क‘मादध्यर्धयोजनाः इत्युक्तपरिमाणवत्वे सति अर्धाधिकत्वं अस्य वाक्यस्यार्थः। सङ्‘यापूर्तिः लयोक्तप्रकारपरिमाणं कोटिर्गृह्यते। आदावध्यर्धेत्यत्र विशेषस्यानुक्तेः महदादिषु त्रिषु कोट्यर्धाधिकत्वमुच्यत इति। अत एव आर्धकोटीति कोटिसङ्‘यायाश्च ग‘हणं द्विकोट्यौ तु जनोलोक इति विष्णुपुराणवचनं च। षट्कोटियोजनपरिमितः सत्यलोकः। तदेतदुक्तम्। यावन्त एते मिलिताः तत्प्रमाणमितीरितः। सत्या‘य इति। एते महदादयः। द्वादशकोटियोनपरिमितो विष्णुलोकः। तदेतदुक्तं ततस्तु द्विगुणः प्रोक्तो विष्णुलोकः सनातन इति। तत..मेरुमारभ्य ब‘ह्माण्डकटाहपर्यन्तं ऊर्ध्वं पञ्चविंशत्कोटयो भवन्ति। अन्तरिक्षादिलोका..वचनविशेषाज्ज्ञेयः। तदुक्तं पञ्चरात्रे- अन्तरिक्षस्ततो लोकः भूतप्रेताधिपो मतः। ततः स्वर्गो महालोको देवेन्द्राद्यैरधिष्ठितः॥ विराड्रक्षःस्थितावेतौ ..ग‘ीवायाञ्च महामते। अनिरुद्धस्ततः प्राणः तत्र लोकाधिपौ मतौ॥ ललाटगस्तपो लोको मु‘यवायुः प्रभुः स्मृतः। छन्दोमयस्तथा वीन्द्रो रुद्रस्स निटिलोद्भवः॥ अधिपाश्च इमे ज्ञेया ………। इति। अन्यलोकाधिपा भागवतादौ स्फुटा इति नोक्ताः। ॥ दिव्येति॥ सप्ततिस्तु सहस्राणि…कथ्यते इति विष्णुपुराणवचनात् भूलोकपरिमाणं ज्ञेयम्। अतलादिपरिमाणं तु भूमेरधो भूतलं तु लक्षयोजनमात्रकम्। दशसाहस्रसङ्‘याकयोजना..संयुताः॥ द्वसहस्रास्तपोपेता अतलाद्याः प्रकीर्तिताः। तथा षोडशसाहस्रयोजनोच्छ्रयसंयुताः॥ दशकोट्यस्तु विस्तीर्णो नानालयो महान्। नरका‘यो महालोकः पातालादध इष्यते॥ तत्र योजनसाहस्रषोडशेषु चतुष्टयम्। यातनाभूतलं ज्ञेयं तच्च शेषस्य मूर्धनि ॥ इति पञ्चरात्रागमवचनात् ज्ञेयम्। एवञ्च मेरोरध…लक्षं विना….द्वीपेष्विति। अनेन भूलोक उक्तः। ॥ अयोग्यकादिति॥ अयोग्यकगणात् समानयोग्यतागणात् समानयोग्यतागणात् अयोग्यं राजसूयकर्तारमिति शेषः। ननु यदि समं तर्हि श्रैष्ठ्यं स्यादिति चेन्न। सजतीविजातीयव्यावृत्तिः लक्षणस्य प्रयोजनमिति तत्सर्वस्यापि वस्तुत्वेन साजात्ये तदसाधारणधर्मेण वैजात्ये उभयाभाव इत्याशङ्क्य लक्ष्यतावच्छेदकाधिकवृत्तिधर्मेषु न्यूनधर्मेण साजात्यं तदभावे वैजात्यं चा‘ीकृतम्। एवञ्च प्रकृतेपि ये इन्द्राद्याः स्वरूपोत्तमं तन्निष्ठ इन्द्रत्वाद्यतिरिक्तवृत्तिषु देवचोतनोत्तमत्वादिषु देवत्वेन समानानां सकाशात् इन्द्रादीनामुत्तमत्वं भवतीति भावः। नच यत्समानत्वेन पूर्तेर्योग्यतापदवैयर्थ्यमिति वाच्यम्। योग्यतास्वभाववक्ष्यमाणत्वात्। औपाधिकसाम्यव्युदासाय योग्यतापदम्। ननु सिद्धस्वभावस्य किं साधनापेक्ष इति चेत्। अभिव्यक्त्यर्थत्वात्। अत एव वक्ष्यति भवद्भिरिति। अत एवाचार्यैरन्यत्र ..समानानां भवति इति ऐतरेयवाक्यावसरे समुक्तः सजातीनामाश्रयश्च भविष्यति सजातीनां देवत्वादिसमानजातीनां मध्ये उत्तमत्वमेव पदं उत्तमत्वपदं तद्योग्या युक्ताः। दिवमित्युक्त्या यमसभा स्वर्गस्थैरविवक्षिता इति ज्ञायते। ..पश्यतां नाम वृक्षनालेन मूलेनेति व्यासतीर्थीये। यत्र मांसादमृषभं आससाद बृहद्रथः। तं हत्वा माषनालेभ्यः तिस्रो भेर्यश्चकार ह॥ …चर्मणा तेन स्थापयामास…॥ इति भारतवचनविरोध इति चेन्न। वृक्षमूलोनान्तकोटर…विशेषान् कृत्वा..चर्मणा…इत्यर्थसम्भवात्। चैतेयके पर्वते। केशव..इतान् दृष्ट्वा यदा नमश्चकार…इति प्रसस्रुः। क्षत्रियेषु बलाधमस्य शिष्यत्वात् जरासन्धस्य मानिनः शिष्यस्य ज्ञापनाय जरासन्ध भो इति वदन्त इत्यर्थः। आयुष्मान् भव सौम्येति भवेद्विप्राभिवादने। विजयं बाहुजे ब‘ूयात् वैष्येनष्ट इतीरयेत्॥ आरोग्यं पादजे ब‘ूयात् शास्त्रे भोशब्दमीरयेत्॥ इति भारतवचनात् उत्तरत्र विप्रवेशाभिप्रायस्यैव वक्ष्यमाणत्वात् स्नातकवेशाभिप्रायस्यानुक्त्या तथेति पूर्वार्धे माल्यगन्धानुलेपनोक्त्यैव स्नातकवेशेत्युक्तम्। क‘मशः दिनक‘मेण साधनक‘मेण वा बलाधिक्यार्थं कृष्णेन मूलरूपस्मारणे…विद्यमानमेव बलमिच्छादिना अभिव्यक्तमभवदित्यर्थः। तदाज्ञया तस्य कृष्णस्याज्ञया। नतु तेषाम्। न चौर्ध्वदैहिकानुज्ञाम् इत्युक्तत्वात्। ॥ विनेति॥ शुभं पिबत्यसौ इत्युक्तत्वात्। अनश्ननित्यशुभापेक्षया इति भगवत्पादवचनात्कर्मफलाभाव हेतव इति। यथा दैत्यैवेशात् पापहेतुत्वं तथा देवावेशात् दैत्यानां पुण्यहेतुत्व..। भारतवर्षापेक्षया उत्तरदिगुक्त्या तद्दिक्कृताष्टवर्षा अपि गृह्यन्ते। द्वीपान् षट् सप्त अतलादींश्च …तत्राशेषदिक्षु नागादीन् जित्वा पुनरेहीति योजना। नच अधरस्थानित्युक्तत्वात् सप्तेति व्यर्थम्। समस्तस्थानपरत्वेन प्रयाहीति कि‘यान्वयात्। षट्सप्तेत्यद्याहारस्तु पार्थो जित्वेति वक्ष्यमाणज्ञापकात्। पदायोग्यतया पदायोग्ययुधिष्ठरादिवत् अस्य च अवस्थानं स्यादित्यत आह पदायोग्यतया यज्ञपत्नीपदायोग्यतया सवर्णासवर्णसमवाये सवर्णा यज्ञपत्नी सवर्णसमवाये ज्येष्ठैवेति नियमात्। तदुक्तं कात्यायनस्मृतौ- अविष्टादिशुश्रूषां बहुभार्यः सवर्णया। कारयेत् तद्बहुत्व चेत् ज्येष्ठायागर्हिता न चेत्॥ इति ॥ प्राश्निक इति॥ तदुक्तं भगवत्पादैः कथालक्षणे । अशेषसंशयच्छेत्ता निःसंशय उदारधीः। एकश्चेत् प्राश्निको ज्ञेयः सर्वदोषविवर्जित ॥ इति । टीकायां तत्राद्येन विशेषणेन भग्नप्रतिबोधनादौ सामर्थ्यातिशयो दर्शितः। द्वितीयेन सिद्धान्तद्वयरहस्यवेदितत्वाद्यतिशयः, तृतीयेन परोक्तग‘हणादिषट्कत्वातिशयः, चतुर्थेन रागादिनानादोषाभाव इत्युक्तम्। तत्सर्वाभिप्रायेण परिपूर्णचिद्घनः भगवान् इति च उक्तम्। रामोपि यदा प्राश्निकः तदा किमु वक्तव्यमित्यभिप्रायेणाह- बादरायणेति॥ ..पुनरित्युक्त्या पूर्वोक्तविजवदेवेति ज्ञेयम्। ॥ सुयोधनमिति॥ क्षत्रियपूजने सञ्जयः, दक्षिणादाने कृपः, दुर्योधनस्तु अर्हणानि प्रतिजग‘ाहसर्वदा इति भारते। वित्तवदेवेति सौन्दर्यादिना इच्छाविषयत्वात् आदौ नकुलं सूतं प्रति कामनामकं उत्तममध्यमाधमक‘मेणाह- विद्येति॥ सम्भवतः अधममध्यमत्यागो न सम्भवतीत्याह- नेति॥ पुनरत्रेति ततोप्यूर्ध्वं गतं पार्थं प्रीतिकामो युधिष्ठरः। उवाच वचनं राज्ञः धृतरीष्ट्रस्य दुर्मतेः॥ इति भारतवचनात्विशेषो ज्ञेयः। सकलराज्यदानादिकमेकं द्वादशेत्याद्येकं इति पणं चक‘े दुर्योधन इति भारते। व्याघ‘ो हि गां नृत्यतीति सिद्धम्। भीमः पुरुषव्याघ‘ इति सिद्धम्। व्याघ‘समत्वात् वीर्येण सह इदानीं निरासकत्वं मन्वानो दुःशासनः स्वस्य व्याघ‘समत्वं मत्वा भीमं गौरित्याह। ॥ षण्ढतिला इति॥ स्नेहविवर्जिततिलाः दुर्बलत्वात् वायुना नीयमानस्तिलसाम्यमाह। ऐश्वर्यप्रापकः परिहर्ता च स्वयमित्याह- सर्वेति॥ आज्ञादिस्थितत्वेन अज्ञानादि स्यादित्यत आह- नारायणमिति॥ तत्कुतः पूर्णज्ञानादिमत्वात् इत्याशयेन तत्पदस्यार्थान्तरमाह- नित्येति॥ ….उद्देश्यमाह - भवापहमिति॥ अनादिनिवर्तने सामर्थ्यमाह- प्रभुरिति॥ ॥ इति भावचन्द्रिकायां एकविंशोध्याय॥
॥ अथ भावचन्द्रिकायां द्वाविंशोध्याय॥
पिठरं ताम‘मयं पात्रम् इत्यारण्यपर्वणि। ॥ रुदन्तीति॥ तमत्तुं व्यादाय यदा सत्यं तदासौ विरुराव ह इति ब‘ह्मणो रोदनोक्तेः किमु वक्तव्यं भारत्याः। दुःखस्पृष्टत्वेन वायोरपि यदा दुःखं तदा भारत्या अपि रुद्राद्यपेक्षया ईषदधिकदुःखादिकं स्यादेव वा ..अच्छिन्नधर्मत्वात् अस्या एतदभिप्रायेणैव अतिक्लेशादि इत्यादिशब्द इति ज्ञेयम्। दुर्योधनादिनिग‘हे सामर्थ्यमाह- समस्तेति॥ कुत इत्यत आह- आत्मेति॥ तर्हि तथा कुतो न ज्ञायते इत्यत आह- अचिन्त्येति॥ …अन्यप्रभुरित्यत आह- नित्येति॥ जीववन्नित्यो नेत्याह- अव्ययेति॥ असारस्योक्तं सामर्थ्यं नेत्यत आह- पूर्णेति॥ प्राकृतशरीरत्वात् नाश इत्यत आह- अखिलेति॥ उक्तार्थे सम्भावकमाह- रमेति॥ अभिवन्दनेपि तेषां सामर्थ्यं नेत्याह- समस्तेति॥ इदानीं दुर्योधनजीवनमपि त्वयेत्याह- सर्वेति॥ तत्र सामर्थ्यमाह- प्रभो इति॥ न केवलं संसार इत्याह- विमुक्तेति॥ तदपि कुत इत्यत आह- सर्वेति॥ असुरसंहारविज्ञापनाय जगाद अतिक्लेशात् । भीमापेक्षया अखिलस्य योग्यतादेः तस्यैव वासुदेवः फलप्रदः न त्वेकस्यार्थे इति। सुधामन्त्रं प्रतिस्मृतिनामकं प्रादात्। गाण्डीवादिकञ्चेति शेषः। कदाचिदसुरावेशतः घण्टाद्वयं कर्णयोर्बध्वा हरिनाम कर्णे न प्रविशेदिति भावेन .गतः। अन्यस्तूष्णीं घण्टामबध्यैव तदा शप्तो घण्टाकर्णनामनो स्वजातित्वं कः किमर्थमागत इत्याद्युक्त्वा यदा नवभक्षणादिकं कृत्वेत्यर्थः। ॥ उपवासादीति॥ आदिपदेनैकभुक्तनक्तादिकं गृह्यते। मनसैवेति विधिं विना स्वेच्छयैव कल्पितरीत्या समर्थानां व‘तकरणायेत्यर्थः। असमर्थानां मनसा स्मरणाय चेत्यर्थः। ॥ श्रीवत्सार्थ इति॥ श्रीवत्सं रोमावर्तविशेषः। प्रदक्षिणावर्तविशेषनामसद्बिम्बविभूति कान्तिं इति वचनात् एवञ्चावर्ताकारं दक्षवक्षस्थलमित्यर्थः। ॥ स्वप्न इति॥ रुद्रेण रममाणा पार्वतीं दृष्ट्वा स्वस्या अपि रमणेच्छायां सत्यां पार्वत्युवाच अचिरेणैव येन स्वप्ने रंस्यते स पतिर्भविष्यतीति। ततः स्वप्न इत्यादि अनिरुद्धेन तदाकारेण ..मयेन स्वप्नत्वात् चित्रलेखाम्, चित्रलेखाप्सराः शुभा इति हरिवंशे। सखी चित्रलेखा विद्याधरसुता। अथ सप्तरात्रानन्तरं अनयदिति। चित्रलेखा आगच्छमाना मार्गे नारदं दृष्ट्वा मानसमुक्त्वा अनिरुद्धगृहस्थितं युद्धं मया द्रष्टव्यं सर्वमनुकूलयिष्यामीत्युक्त्वा अदृश्यरूपेण अनिरुद्धं गत्वा उषावत्तमुक्त्वा मयापि तया रमणः स्वप्ने जातः अत आगच्छामीत्युक्त्वा अनयत्। तथेति युद्धकाले चित्रलेखया स्मृतो नारद आगत्य दृष्ट्वा कृष्णमेत्याह तदनन्तरमित्याह। ॥ विेभिरिति॥ स्वाहाकाराश्रयाः पञ्च स्वधाकाराश्रयाः पञ्च वषट्काराश्रयो द्वौ इति द्वादश विेभिः प्रधानैरुपविेभिश्च अि‘रसा अि‘रोनामकप्रधानाग्निना अि‘रःपुत्रो यतोग्निः..क्वचित् इति ऋग्भाष्ये। …सन्नागः प्रायेणोक्तत्वात् । उपसंहरति- एवमिति ॥ चिक‘ीड इति॥ मार्गं देहीति भीमेनोक्ते वृद्धोहं नोत्थातुमलमित्याह। कलिस्तर्हि कलिमुद्धरेत्युक्ते अतिलङ्घ्य गच्छेत्याह। तदा भीम आह त्वं रामरूपपूरितदेहः उभयोर्वा पूज्यत्वात् ज्येष्ठभ‘ात्रे आहेत्यर्थः। ज्यायः कनीयोवृत्तित्वात् तनुजभावं तर्हि तर्हि त्वमेव बालमुद्धृत्य गच्छेत्युक्ते तूष्णीं स्थितस्य असामर्थ्यनिरासाय आह- मोहायेति॥ समुद्रल‘नकाले जातरूपवृद्धिं प्रदर्शयेत्युक्ते हनुमता दर्शितेन दृष्ट्वा मारुतेन पूर्ववत् गरुडपक्षपातेन इत्यारण्यपर्वणि। तत्र सौगन्धिकवने वस..राक्षसपरिवृतमणिमत्सहाये स्वस्मिन्नन्तरिक्षचारिणि भूमावागत्य तपश्चरति पुरीषमुत्सर्जतस्तस्य मूर्ध्नि न्यपतत् । तदा शशाप ससखाभृत्यैः सह मानुषेण हतो भविष्यति । तदा दुःखञ्च ते भविष्यतीति अत आवश्यकमिदं प्राप्तमित्यवददिति भावः। यद्देहं वाता अपि न स्पृशन्ति तादृशकौरवाः पुरं भूम्यामेव समुद्रतीरस्थमिति आरण्यपर्वणि। ॥ सपीति ॥ निवातकवचान् हत्वा स्वर्गं गच्छन् अन्तरिक्षमार्गे हिरण्यपुरं ददर्श। तत्किमिति पृष्टो मातलिराह। पुलाोमा कालिका च द्वे स्त्रियौ तपःकृत्वा स्वपुत्राणामवध्यत्वं तत्पुरस्याभेद्यत्वं कामगामित्वं च ब‘ह्मणो वरं सम्पादयामासतुः। अतः पौलोमा कालकेयाश्च अवध्या हि इत्याह अरण्यपर्वणि। जहीमानित्यनुग‘हो अत्रापि बोध्यः। अत एव तथाशब्दः। परमेश्वरसंहितायाम्- अथ द्वादशकालादि यावत्कालत्रयं द्विज। नाडिकानां विभागं तु क‘मेणैवावधारय॥ ब‘ाह्म्या मुहूर्तादारभ्य ..घटिकाद्वयम्। निवर्त्य नित्यकर्म प्राक् स्नानपूर्वं यथाविधि॥ सपादैकोत्तरा नाड्यो दश प्राभातिकेर्चने। ततो नाड्यश्चतुष्कं तु भवेद्यागद्वयस्य तु ॥ ततस्तूत्तरगा नाड्यस्तिस्रत्स्वािेकस्य तु। पश्चादर्वोत्तरा सप्तनाड्यो मध्यन्दिनार्चने॥ भूयस्तु घटिकायुग्मं यागस्य द्विजसत्तमा। ततोपराह्णयागस्य भवेत्तु घटिकात्रयम्॥ स्वाध्यायस्य भवेत्कालः ततस्तु घटिकाद्वयम्। अर्धोत्तरा भवेन्नाडी स्वस्य सायन्तनीकि‘या॥ ततः प्रदोषयागस्य भवेद्द्वे नाडिकात्रयम्। भूयस्तु पूजनं विप्रकुर्याद्वै घटिकाद्वयम्॥ ततस्तु ..पायः अर्धं स्यात् नाडिकाद्वयम्। योगपूर्वं तु विश्रामश्चतस्रो नाडिकास्ततः॥ यत्र द्वादशकाले स्यात् तत्रायं कालनिर्णयः॥ एतदनुसारात् श्रेष्ठे सपादष्टाघटिकानन्तरमित्यर्थः। ॥ प्रश्नमिति ॥ किं लक्षणो ब‘ाह्मणः, किञ्च तद्वेद्यमिति पृष्ट आह धर्मः सत्यशमदमादिमान् ब‘ाह्मणः, परं ब‘ह्म वचनवेद्यमिति। सत्यादि शूद्रादावप्यस्ति। तत्कथं च शूद्रेणापि वेद्यत्वात्तन्मात्रवेद्यमिति। सत्यम्। जात्या न ब‘ह्मणः किन्तु लक्षणेनैव विवक्षितः। वेद्यञ्च उक्तलक्षणाक‘ान्तस्यैव इत्यादिप्रश्नोत्तरजातं बद्धं स्यादारण्यपर्वणि। व‘जन् साल्वदेशं प्रति । हृतं श्रृ‘ाग‘ेण प्रश्नानीति। यक्षः किं स्विदादित्यमुन्नयति के च तस्याभितश्चराः। कश्चैनमस्तं नयति कस्मिंश्च प्रतितिष्ठति॥ युधिष्ठरः- ब‘ह्मा आदित्यमुन्नयति देवास्तस्याभितश्चराः। धर्मः समस्तं नयति स सत्ये प्रतिष्ठितः॥ इत्यादिप्रश्नोत्तरमाह अरण्यपर्वणि। …। कुन्तीपुत्रेषु स्वस्योत्पत्तित्वात् माद्रीपुत्रं वव‘े। ॥ इति भावचन्द्रिकायां द्वविंशोध्यायः॥
॥ अथ भावचन्द्रिकायां त्रयोविंशोध्यायः॥ निर्मानुषवनस्थायां भीतिसम्पादनाय केशादिमानुषाकारेण कृता। हेतोः ॥ यतिरिति॥ पतित्वेपि कं कुत्सितं द्यूतं करोतीति क’नामा त्रिदण्डी यतिः। रूढ्या ..कारत्वात् बृहन्नलेति नामा षण्ढः,..अश्वबन्धनरज्जूनां ग‘न्थिः सन्दर्भोस्यास्तीति दामग‘न्थी नामा सूतः दीर्घा गोबन्धनरज्जुः तन्त्री तस्या गाः बध्वा पालयतीति तन्त्रीुालनामा गोपालः गन्धकरणादिसेवकत्वात् नाम्ना वनचारिणी गन्धकर्त्री इति…क‘मेण च शूद्रस्य पाकाधिकारः। हारीते वर्णत्रयस्य शुश्रूषां कुर्यात् शूद्रः प्रयत्नतः। पाकयज्ञविधानेन यजेद्देवमतन्द्रितम्॥ इति । सर्वं तण्डुलमाषमुद्गादिकं षष्ठांशेन स्वीयम्। तदुक्तं वायुपुराणे माघमाहात्म्ये- आर्जकानां तु षष्ठांशो विप्राणां स्वीयमुच्यते। अन्यथा ज्ञानिनः परद्रव्यापहारदोषो न स्यात्। अथ ..मासे शिवपूजारूपः मासोत्सवो नाम प्रवृत्तः तदा सोप्यागतः ॥ गान्धर्व इति ॥ सुदेष्णा द्रौपदीस्वरक्षकाः पञ्चगन्धर्वा इत्यवदत्। अतः गन्धर्व इत्याह। त्रिगर्ता नाम जाता सुषर्मा नामतः। ॥ ऋते त्विति॥ तस्याश्च…॥ ॥ इति भावचन्द्रिकायां त्रयोविंशोध्यायः॥
॥ अथ भावचन्द्रिकायां चतुर्विंशोध्यायः॥
॥ जरासुत इति॥ एतद्गन्धमादने सौगन्धिकवने निवसन्नित्यारण्यपर्वणि। ॥ सर्वेति ॥ गृहं गत्वा याचने सतीति ज्ञेयम्। वक्तव्यमुक्त्वापि यत् न स्वेन शूद्रेण वक्तव्यं तत्कथनाय सनकादिषु यः सनातनो नाम दृष्टः तमस्मरद्विदुर इत्याह- स्व इति॥ ॥ शौर्येति॥ एवकारेण युद्धमेव नापेक्षितं शौर्यप्रकाशानन्तरं शमश्चेत् भवत्विति॥ ॥ इति भावचन्द्रिकायां चतुर्विंशोध्यायः॥
॥ अथ भावचन्द्रिकायां पञ्चविंशोध्यायः॥
॥ ततो द्रोण इति॥ यद्यपि द्रोणः सम्मोहनास्त्रप्रतीकारं जानाति। तत्प्राप्य अर्जुनकृतप्रयोगविशेषप्रतीकारं न जानाति। अत एव वेदास्त्रघातं स एव इत्युक्तमिति ज्ञेयम्। ॥ इति भावचन्द्रिकायां पञ्चविंशोध्यायः॥
। अथ भावचन्द्रिकायां षड्वि्वंशोध्यायः॥
वैजयन्त्यभवन्माला संसक्ता केशवोरसि। पद्मकोशविचित्रा सा सर्वर्तुकुसुमाकुला॥ इति द्रोणपर्वणि। माहिष्मतीपतिं नीलनामानम्। मुक्तिस्तु तस्य करे स्थिता इति वचनात्। अनया लब्धवरत्वात् अभीप्सितमित्याह- स्वप्न इति॥ स्वप्ने वासनामयपदार्थज्ञानं औत्सर्गिकम्। क्वचित् तेषां क्वचिद्देवांशेन बहिर्गतत्वाद्वा..पदार्थज्ञानं नास्तीति ज्ञेयम्। अत बहिष्कुलायादमृतश्चरित्वा इत्यादि बृहदारण्यके। ॥ निनायेति॥ आदित्यमण्डलाकारं रष्मिज्वालासमाकुलम्। तस्य मध्यगतो विेः प्रज्वलोद्दीपवर्तिवत्॥ दीपशीले तु या मात्रा सा मात्रा परमेष्टिनी। भिन्दन्ति योगिनः सूर्यं योगाभ्यासेन वै पुनः॥ द्वितीयं सुमहाद्वारं परिशुभ‘ं समर्पितम्। …सम्पुटं पीत्वा ततः पतति तत्पथम्॥ इति मन्त्रोपनिशदनुसारेण सूर्यमण्डलभेदो ज्ञेयः। ॥ वर इति॥ दैत्यस्यापि वरादेव वरान्तरादानसामर्थ्यम्। किञ्चिद्वह्वलितः नितरामिति। स्वस्य तु तदेव नितरामित्यर्थः । नितरां प्रयत्नवता त्वयेतिवा। पञ्चमदिने सन्ध्यायां द्रोणपातः। कृष्ण इति। द्रौणिबुद्धिनिवर्तने सामर्थ्यमाह- वेदान्तकृदिति॥ रणर‘सञ्चारे स्वस्यापि वधः स्यादित्यत आह- पूर्णेति॥ ॥ इति भावचन्द्रिकायां षड्वि्वंशोध्यायः॥
॥ अथ भावचन्द्रिकायां सप्तविंशोध्यायः॥
॥ तान्यस्त्रवर्यैरिति॥ अत्र समाधानं द्रौणेरस्त्राण्यस्त्रैरित्यादिना प्रागेव भगवत्पादैरेवोक्तम्। मर्दनांशसामर्थ्यं वक्तुम् - जनार्दन इति॥ मत्तजनमर्दक इत्यर्थः। दोषनाशनसामर्थ्यमाह- हरिरिति॥ दोषपरिहारक इत्यर्थः। एतत्करणं न चित्रमित्याह- जगत्पतिरिति॥ आकाशनिभं दिविप्रतीमान आकाशवत्ईशच्छुक्लतया भासमानया आस पतिरिति भावः। द्वितीदिनापराह्णे कर्णः मृतः॥ ॥ इति भावचन्द्रिकायां सप्तविंशोध्यायः॥ ॥ अथ भावचन्द्रिकायां अष्टाविंशोध्यायः॥ अमोचने शिष्टत्वं दर्शयति- अनन्तशक्तिरिति॥ असमर्थवचनवत् नेदं वचनं किन्तु वक्ष्यमाणवचनाभिप्रायेणैवेति भावेन कृष्णस्य विशेषणद्वयमाह। नारायणः निर्दोषाणामाश्रयः। अद भक्षणे आदिदैत्यभक्षकः सचासौ देवश्चेति पोषणं रक्षणं च क‘ीडयैव इत्युक्तं देव इति। ॥ पृष्ठमूले॥ पृष्ठं तु चरमं तनोः पृष्ठो वंशाधारे त्रिकम् इत्यभिधानात् पृष्ठः त्रिक इत्यर्थः। सक्थिः क्लीबे पुमानूरुः इत्यभिधानादिति। भिदिर् इति धातोः छिन्नसक्थिः विदारितोरुः। मध्योे शल्यो न्यपतत्। सायङ्काले पतितः। ..अष्टादशदिनयुद्धं पुण्यानि करिष्यमाण वैष्णवमन्त्रस्वीकारादीनिति दैत्यावेशोत्थपापवत् देवावेशात् पुण्योपपत्तेः। योगक्षेमं व आदाय इत्यादिवाक्यात् एतदा..क‘मेण तेषां पुण्यञ्च ईश्वरज्ञानात् ज्ञेयम्। ॥ वदन्तमिति॥ नाभेरधोभागं न हन्यात् इति स्थिते स्वतः अधोभागो न हननविषयः। ऊर्ध्वभागोपि स्वव्यापारेण अधःकतो न हन्तव्यः इति वञ्चयन् तं वक्ष्यतीति अर्जुनं प्रत्युपदेशत्वात् तत्समानत्वादयमपि बलायोपदेश एवेति भावः। स्थापने प्रयोजनमाह- निजेति॥ विरचितसामर्थ्यादुत्तमत्वानिवर्तक इत्याह- .शामेति ॥ पमत्वमेवाह- पुरुषोत्तम इति॥ सप्तसु स्वयमप्येको ऋषिः॥ ॥ इति भावचन्दिकायां अष्टाविंशोध्यायः॥
॥ अथ भावचन्द्रिकायां एकोनत्रिंशोध्यायः॥
॥ पप्रच्छेति॥ विदुरार्जुनयोर्ज्ञानित्वात् । यमावस्त्रविदां श्रेष्ठाविति ज्ञनिसम्मतत्वोक्तेः। प्रशस्य भीममन्यांश्चेति सर्वेषां प्रशस्तत्वोक्तेश्च। न मतानां परस्परविरोधः। विदुरेणमानुषार्थे अर्जुनोक्तेः प्रयोगं विना स्वोपभोगमात्रपरस्यैव मध्यमत्वं साम्येनोक्तं अर्जुनेन तद्विवेचनं कृतम्। उभाभ्यां धर्मार्थविरोधि च कामाभिप्रायेणैव कामस्यानीचत्वे सामान्योक्तेः तद्विवेचनं भीमेन कृतमिति सम्भवात्॥ ॥ इति एकोनत्रिंशोध्यायः॥ ॥ अथ त्रिंशोध्यायः॥ प्रत्यक्षमिति कि‘याविशेषणम्। परीक्षत इति शेषः। …आनन्दह्रासाभावात्। ह्रासो नाम नीचता। तत्स्वरूपं तस्यैव व्यञ्जकमित्यर्थः। ॥ अनन्त इति॥ पूर्णेत्युपलक्षणम्। आश्रयोपि ग‘ाह्यः। शतशब्दः शतसहस्रदशसहस्रादिवाची। अत्र मानुषा वर्णभेदेन तथैवाश्रमभेदतः। क्षितिपा मनुष्यगन्धर्वा…..॥ इत्यादिवचनविरोधो नेति ज्ञेयम्। ॥ इति त्रिंशोध्यायः॥
॥ अथ एकत्रिंशोध्यायः॥
॥ नैवेति॥ द्रौपद्याभिज्ञाते सति दुःखपरिहारं कुर्यादिति भावः। ॥ प्रादुर्बभूवेति॥ अमृतेत्यादिना अमृतानयनशक्तिः तद्विरोध्यपसरणतेजः, लोकान्तरस्थानां ज्ञानम्, स्वस्य परमैश्वर्यात् पुत्रादिसम्पद्दानम्, स्वस्य प्रयोजनाभावम्। आदिपदेन परप्रयाजनादानस्वभावं वाह। विरक्तानामपि ईश्वरदत्तभोगानुभवो हरिपूजात्वेनेत्याह- मुक्ता इति॥ अतिरिक्तेति ॥ उत्तमकामो भुङ्क्त इत्यर्थः। एतदेवाह- अनुजातेति॥ ॥ इति एकत्रंशोध्यायः॥ ॥ अथ द्वात्रिंशोध्यायः॥ ुद्विषडब्दसत्र इत्यत्र प्रथमस्कन्धद्वादशाध्यायविरोधपरिहारः एकादशस्कन्धतात्पर्यटीकायां मया कृतोनुसन्धेयः। तत इत्यस्य तु अष्टादशाब्दानन्तरमित्यर्थो …ततः परमाष्टादशाब्दानामवशिष्टत्वेन विरोधतादवस्थ्यात्। किन्तु पूर्वोक्तकृष्णव्यापारानन्तरमित्यर्थः। एवञ्च पाण्डवैर्यज्ञकरण समये च कृष्णेनापि यागः कृत इति ज्ञेयम्। पञ्चमं वपुः पञ्चमं रूपम्। अथवा वासुदेवाद्यपेक्षया पञ्चमं नारायणा‘यं …तेनैकीभवदित्यर्थः। जग‘ाह अन्तपुरं विना उपदेशेन दुःखनिवर्तक इत्याह- जगदिति॥ गुरुत्वोपयुक्तमाह- सुपूर्णेति॥ ..निवारणे सामर्थ्यमाह- बलेति॥ तथापि तत्कृतदुःखाभावात् न करोतीत्याह-..॥ किन्त्विति॥ कर्मक्षयाभावेपि शापादिबलवन्निमित्तानि…देहत्यागो दृष्ट एवेत्यतः सर्वत्रेत्यनुपपन्नं न स्वेच्छया देहं त्यजतां अयं नियमः नचिकेतसः पितृशापादपि स्वेच्छया देहत्यागोक्तेः अतः कर्मक्षयादित्यस्य शापादिना उपशमो…नाशश्चेत्यर्थद्वयं ज्ञेयम्। एवञ्च प्रकृते शापादिनापि कर्मक्षयात् देहत्याग इति भावः। ॥ युज्यत इति ॥ गीतातात्पर्ये द्वितीयाध्याये दुर्योधनादिविषय एव द क्षिणातर्पितानां तु आचार्याणां तु तेजसा। यान्ति क्षिप्रं ततः स्वर्गं तमोन्धं प्राप्नुवन्ति च ॥ इति वचनात् आचार्यतेजसैव स्वर्गः वीरतमत्वं निमित्तमात्रम्। यथा माण्डव्यशूलारोपणे मक्षीव घटत्यत्र स्वर्गमिति सामान्योक्त्या स्वर्गमात्रं स्यात्। न त्वैन्द्रः स्वर्गः। मूलोक्तं सर्वं युधिष्ठिरज्ञानानुवादपरमिति केचित्। तन्न वैष्णवानुग‘हरूपत्वात्। ब‘ह्मादिवरात् हिरण्यकशिप्वादीनां स्वर्गाधिपत्यस्यापि दर्शनात् पराधिपत्ये एकदेशावस्थानमात्रस्य सुतरां सम्भवात्। ॥ ब‘ह्मेति॥ विकर्म महदिति शेषः। महच्चेत् वृत्रहत्यादिवत्’ इत्युक्तेः। श्रेष्ठापरा इत्यर्थो न…विरोधापत्तेः। अतिविस्रम्भो नास्तीत्युक्त्या विस्रम्भोस्तीति ज्ञायते। एवञ्च श्रेष्ठापराधत्वेन प्रसक्तमपि कृष्ठाज्ञाप्रवेशात् महद्विकर्मेति भावः। वैष्णवप्रीतिसम्पादनजन्यपुण्यस्य भोक्तुमारब्धत्वात् आरब्धेत्याह। अन्ये यादवपाण्डवादीन् क्षयं गतात् विना भूमौ विद्यमानः। वरदराजीयव्यासतीर्थीयवेदा‘तीर्थीयानन्तभट्टीयवादिराजीये यदुक्तं तत् तत्रैव बोध्यम्। तैर्यदनुक्तं तत् किञ्चदत्र मयोक्तम्। एवमशेषमतिम‘लम्। ॥ नारायणं पूर्णगुणं ………..। गुरून् विद्यागुरूंश्चापि प्रपद्ये वैष्णवोत्तमान्॥ ॥ रुद्रादीनां गोचरेऽस्मिन् मादृशो यत्नवानपि। हास्यो भवेत् ततो यत्नं क्षन्तमर्हन्तु सज्जनाः॥ ॥ गोविन्दार्यस्य सत्पुत्रेण श्रीनिवासेन निर्मिता। सा भावचन्द्रिका भूयात् प्रीत्यै माधवमध्वयोः॥ ॥ इति श्रीमदानन्दतीर्थभगवत्पादाचार्यनिर्मितस्य श्रीमन्महाभारततात्पर्यनिर्णयस्य टिप्पण्यां श्रीनिवासाचार्यरचितायां भावचन्द्रिकायां द्वात्रिंशोध्यायः॥ ॥ मातृका यादृशी दृष्टा तादृशी लिखिता मया। अतस्स्खलनबाहुल्यं क्षन्तव्यं विबुधैरिह॥ ॥ श्रीवासुदेवार्यान्तर्गतभारतीरमणमु‘यप्राणान्तर्गतश्रीलक्ष्मीहयग‘ीवार्पणमस्तु॥ द