महाभारततात्पर्यनिर्णयव्याख्यानम् -मधुसूदनभिक्षुकृतम्
॥ अथ षड्रिंवशोध्यायः ॥
॥ तस्मिन् स्थितेऽनात्तधनुः ॥ अस्वीकृतधनुष्मानित्यर्थः । तादृशःसन् भीष्मानुमतः युद्ध्योद्यतोऽभूदित्यन्वयः ।
॥ द्रोण इति ॥ द्रोणो धार्तराष्ट्रेण धर्मसुतग्रहे वृतः वरं याचित इत्यर्थः । धर्मसुतं गृहीत्वा पुनर्द्यूतेन तं परिभूय पुनर्द्वादशाब्दान् अरण्यं प्रापयामि इति बुद्ध्या धर्मसुतग्रहणं वरमयाचत । तथाचोक्तम्-
‘सत्यप्रतिज्ञे त्वानीते पुनर्द्यूतेन निर्जिते । तस्मिन् जीवति चायाते उपायैर्बहुभिः कृतैः ॥
पुनर्यास्यन्त्यरण्यानि कौन्तेयास्तमनुव्रताः । सोऽयं मम जयो नित्यं (व्यक्तं) दीर्घकालं भविष्यति ॥
ततो न वधमिच्छामि धर्मराजस्य कर्हिचित् ।
सञ्जय उवाच-
तस्य जिह्ममभिप्रायं ज्ञात्वा द्रोणोऽर्थतत्ववित् । तं वरं सान्तरं तस्मै ददौ सञ्चिन्त्य बुद्धिमान् ॥
न चेत्कुन्तीसुतं पार्थः पालयेदर्जुनं युधि (्रन चेद्युधिष्ठिरं वीरः पालयेदर्जुनो युधि’ इति उपलभ्यमान पाठः)॥
इति इत्यादि द्रोणपर्वणि (12.21-24) इति भावः।
॥ भीमोऽपि कोपादिति ॥ शल्येऽपि म्रुयवाय्वावेशसद्भावात् किञ्चिद्भीमबलसाम्यं इति भावः ॥
॥ शोणितापगाः ॥ प्रवर्तयन् अदृश्यतेति सम्बन्धः । तथा धर्मसुते आपदः सकाशात् आरक्षिते सम्यग्रक्षिते सति स च अर्जुनः तत्र हुताशदिशि गत्वा तान् संशप्तकगणान् अयोधयत् । अत्र द्रोणाधिष्ठितप्रदेशे भीमो गजानीकं अवधीदित्यन्वयः स गजः तेषां रथान् अम्बरे चिक्षेप ॥ वैष्णवास्त्रं तदाऽ’ुशेऽकरोदिति ॥ तथाचोक्तम्-
‘विद्धस्तदासौ व्यतिथो वैष्णवास्त्रमुदीरयन् । अभिमन्त्र्या’ुशं क्रुद्धो व्यसृजत्पाण्डवोरसि ।
तदस्त्रमुद्यतं दृष्ट्वा वासुदेव प्रतापवान् । विसृष्टं भगदत्तेन तदस्त्रं सर्वघाति वै ।
असौ झडिति जग्राह पार्थं सम्बोेध्य माधवः(उरसा प्रतिजग्राह पार्थं सञ्छाद्य केशवः इत्यपि पाठान्तरं)।
वैजयन्त्यभवन्माला तदस्त्रं केशवोरसि । पद्मकोशविचित्रा च सर्वर्तुकुसुमोत्करा ॥
ज्वलनार्केन्दुवर्णाभा पावकोज्वलपल्लवा । तया पद्मपलाशिन्या वातकम्पितपत्रया ॥
शुशुभेऽभ्यधिकं शौरिः अतसीपुष्पसन्निभः’ ।
इति द्रोणपर्वणि (29.17-21)
॥ तदंशदेशेऽस्य तु वैजयन्ती इति वैजयन्तीमाला ॥
नीलमुक्तामणिमाणिक्यवैडूर्य रत्नयुक्ता तुलसीदल संयुक्ता पुष्पैश्चतुर्गुणा माला इत्यर्थः ॥
‘भुवो नीलं अपां मुक्तं माणिक्यं तेजसो हितं । वैडूर्यं वायुजं प्रोक्तं रत्नमाकाशसम्भवम् ॥
अनेक रत्नसंयुक्ता तुलसीदलमिश्रिता । विष्णुवक्षस्थिता माला वैजयन्तीति कथ्यते ॥’
इति वचनात् । ‘पुष्पैश्चतुर्गुणां मालां वैजयन्तीं विदुर्बधाः’ इत्यभिधानाच्च । उक्तञ्च विष्णुपुराणे(1.22.72)
‘पञ्चस्वरूपा या माला वैजयन्ती गदाभृतः । सा भूतहेतुसम्भूता(स्राता)भूतमाला च वै द्विज ॥’ इति
वैजयन्तीस्वरूपं द्रोणपर्वणिवर्णितम् ।
॥ वासुदेवादिचतुः स्वरूपः स्थितोऽनिरुध्दो हृदि चाखिलस्य ॥ इदमुक्तं भवति ॥ मनःपञ्चविधं मनोबुध्दिरह’ारश्चित्तञ्चेतनेति । तत्र चित्तस्य महत्तत्वनियन्तृत्वेन तद्गतो वासुदेवो नियन्ता । अह’ारस्य सूक्ष्मस्थूलप्रभेदविभिन्नाह’ारतत्वनियामकौ स’र्षणप्रद्युम्नौ नियन्तारौ । मनसस्तु अनिरुध्द इति वासुदेवादिरूपचतुष्टयेन सर्वमनःप्रेरकत्वेन सर्वस्य हृदि स्थित इति । तदुक्तम्-
‘यत्तत्सत्वगुणं स्वच्छं शान्तं भगवतःपदम् । यदाहुर्वासुदेव्रायं चित्तं तन्महदात्मकम् ॥’
इत्यादितृतीयस्कन्धे (27.22)।
प्रकृतेः क्षोभकं रूपं दैवं नारायणाभिधम् । प्रकृतौ महतःस्रष्टा परमः पुरुषोत्तमः ॥
तदेव वासुदेव्रायं महत्तत्वनियामकम् । स’र्षण्रायस्तु हरिः सूक्ष्माह’ारयामकः ॥
स्थूलाह’ारनियमी विष्णुः प्रद्युम्ननामकः । अनिरुध्दो मनस्तत्वं नियन्ता भगवान् हरिः ॥
महत्तत्वादिजीवास्तु ब्रह्माशेषोऽ्रजस्तथा । सूक्ष्मस्थूलविभेदेन कामजश्चानिरुध्दकः॥’
(3.27.20)इति कापिलेये । हृदि स्थूलः हृदि च अनिरुध्दः स्थित इत्यर्थः । एतेन स्थूलदेहान्तर्यामी अनिरुध्द इति वेदितव्यम् ॥॥
॥ अस्त्रं मदीयं वरमस्य चादामिति ॥ अस्य भगवतः स्वसूनोः स्वस्य वराहरूपस्य मम सूनोः नरकस्य अस्य मदीयमस्त्रं वैष्णवास्त्रं अस्त्रं यावत्तिष्ठेत्तात्पर्यन्तम् अवध्यतां चादादित्यन्वयः ॥॥
॥ दुर्योधनोऽश्रावयद्दीनवाक्यानिति ॥
तथाहि-
‘नाग्रहीःप्राप्तं समीपेऽद्य युधिष्ठिरम् । जिघृक्षतो रक्ष्यमाणः सामरैरपि पाण्डवैः ॥
वरं दत्वा मम प्रीतः पश्चाद्विकृतवानसि । आशाभ्रं न कुर्वन्ति भक्तस्यार्याः कथञ्चन ॥’
इतिद्रोणपर्वणि(33.8-9) ।
॥ वरेण रुद्रस्य निरुध्यमानेति ॥ तथाचोक्तम्-
‘प्रीतो महेश्वरो राजन् वरञ्चास्मै ददौ तदा । सतु वव्रे वरं तत्र पाण्डवेयानहं युधि ॥
वारयेयं तथा कुर्वे समस्तानिति भारते । एवमुक्तस्तु देवेशो जयद्रथमथाब्रवीत् ॥
ददामि ते वरं सौम्य विना पार्थं धनञ्जयम् । वारयिष्यसि स्र्रामे चतुरःपाण्डुनन्दनान् ॥
तेनोक्तस्तमृते पार्थँ शर्वस्तस्माद्वरं ददौ ॥’
इत्यादिद्रोणपर्वणि (42.17-22)।
॥ शकटाब्जचक्रमिति ॥ शकटाब्जचक्रं शकटचक्रेण युतमब्जचक्रमित्यर्थः । तथाचोक्तम्-
‘व्यूहं स्वचक्रं स्वचये भारद्वजोऽकरोन्नृप । गजाश्वरथपद्याद्यैः द्रोणेन विहितस्वयम् ॥
तस्यार्धे च सपद्मस्तु गर्भव्यूहः पुनः कृतः । सूचीपद्मस्य मध्यञ्च दृढव्यूहो जयद्रथः ॥
एवमेतन्महाव्यूहं व्यूह्य द्रोणो व्यवस्थितः । शकटस्य पनस्तुण्डे भारद्वाजो व्यवस्थितः ॥’
इत्यादिद्रोणपर्वणि (87.22-29) ।
ननु श्रुतायुधस्य भीष्मसेनाधिपत्यदशायां भीमसेनेन खड्गयुध्देन हतत्वात् तत्रार्जुनः श्रुतायुधमाससादेति कथमुच्यते इत्यत आह- नदीजातमिति ॥ स श्रुतायुधः कल्रितनयो अयं वरुणतनयः इति न कश्चिद्विरोध इति भावः ॥॥
॥ यस्यादाद्वरुणो ॥ अवध्यपुत्रकामिन्या तन्मात्रा प्रार्थितस्तस्यावध्यत्वसिद्ध्यर्थं अयुध्यता नेयं क्षेप्तव्या क्षिप्ता चेदियं त्वय्येव पतिष्यति इत्युक्त्वा गदामदादिति भावः । तथाचोक्तम्-
‘तस्य माताब्रवीद्देवं वरुणं पुत्रकारणात् । अवध्यो वै यथा लोके (शत्रूणां तनयो मम)भवेत्तद्वै विधीयताम् ॥’
इत्यादिद्रोणपर्वणि सप्ताशीतितमाध्याये (92.45) ।
॥ माद्रीसुतस्यावजस्येति ॥ सहदेवस्येत्यर्थः। तथाचोक्तम्-
‘ततस्त्वरितमारुह्य सहदेवरथं नृपः । अपायाज्जवनैरश्वैः कुन्तीपुत्रो यधिष्ठिरः॥’
इत्यादिद्रोणपर्वणि द्व्यधिकशततमाध्याये (106.46) ।
॥ अलम्बुस इति ॥ स्वाग्रजबकवधनिमित्तात्कोपादिति भावः । ननु भीमस्याच्छिन्नधर्मत्वेन
‘ततः क्रोधाभिताम्राक्षो निर्दहन्निव भारत । सन्दधे त्वाष्ट्रमस्त्रं स स्वयं त्वष्टेव मारुतिः ॥’
इति द्रोणपर्वणि (108.38) ।
कथं त्वाष्ट्रास्त्रं मुच्यते इत्यतस्तस्यतात्पर्यमाह- अस्त्रज्ञतामात्मनि इति ॥
‘तत्राद्भुतं परं चक्रे कृतवर्मा महारथः । विदीर्यमाणास्समरे हार्दिक्येन तु पाण्डवाः ॥
इतश्चेतश्च धावन्तो नैव चक्रुर्धृतिं रणे । जित्वा पाण्डुसुतान् युद्धे भीमसेनपुरोगमान् ॥
हार्दिक्यस्समरेऽतिष्ठद्विधूम इव पावकः ॥’
इति द्रोणपर्वस्थ (114.99-102) द्वादशशततमाध्यायस्थश्लोकसमुदायस्य तात्पर्यमाह- ददौ वरं तस्य हि पूर्वमच्युत इति ॥
ननु तर्हि कृष्णवरसद्भावे तदुत्तराध्याये ‘शैनेयस्त्वरितो राजन् कृतवर्माणमभ्ययात्’ (115.3)इत्यादिना सात्यकेस्सकाशात् कृतवर्मणः कथं पराजय उच्यत इत्यत आह- विनैव वृष्णीनिति ॥
त्रयोदशशततमाध्यायमारभ्य एकविंशतितमाध्यायान्तेन सात्यकेः द्रोणदुर्योधनदुःशासनादीनां जयोक्तेस्तात्पर्यमाह- बलं विवृद्धञ्च तदास्य सात्यकेरिति ॥ यूपकेतुः भूरिश्रवाः । ननु तर्हि तस्मिन्नेव दिने यूपकेतुना सात्यकेः कथं पराजयोऽभूत् इत्यतो शिनितत्पुत्रपौत्रपारभवार्थं रुद्रवरादन्यूनत्वेन सर्वज्ञानातीतानागतत्वेन कृष्णेन भूरिश्रवसं विहायैव वरो दत्त इति यस्मिन्नेव दिने सात्यकेरजेयत्ववरो दत्तस्तस्मिन्दिने सात्यकेर्भूरिश्रवसा पराजयो युज्यत इति शेषं दर्शयति- तद्वासुदेवस्त्विति ॥ तुशब्देन तथाचोक्तम्-
‘पूर्वमेव हि कृष्णस्य मनोगतमिदं प्रभो । विजेतव्यो यथा वीरः सात्यकिः सौमदत्तिना ॥
अतीतानागते राजन् स हि वेत्ति जनार्दनः॥’
इति द्रोणपर्वणि (145.25-26)।
भूूरिश्रवसःपातनानन्तरं पुनः सात्यकेस्सकाशात् कर्णदुर्योधनादीनां द्विचत्वारिंशच्छततमाध्याये पराजय उच्यते । स कथमित्यत आह- तदा स्वकीयं रथमिति ॥ तथाच भूरिश्रवसःपतनानन्तरं कर्णे कोपेन समागते सति तस्मिन्निन्द्रदत्तशक्तेस्सद्भावात् भयात्तस्मै स्वकीयं रथं दत्वा कर्णं प्रति सात्यकिं प्रेषितवानित्यर्थः । एतत्सर्वं तस्मिन्नेवाध्याये (145.29-31) वेदितव्यम् । षट्त्रिंशच्छततमाध्याये भीमस्य कर्णात्पराजय उच्यते तदुक्तेस्तात्पर्यमाह- ततस्तु भीमस्य बभूव बुद्धिरिति ॥ वचश्चदुष्टमिति ॥
‘उत्स्मयन्निव राधेयो वाक्यञ्चेदमुवाच ह । पुनःपुनः स्तूबरक मूढ औदरिकेति च ॥
अकृतास्त्रक मा योत्सीः बाल स्र्रामकातर ॥’
इत्यादितत्रोक्तं वचनमित्यर्थः (139.93-94)
॥ बाणवरैस्तदार्जुन इति ॥ कृष्णेन प्रेरित इति शेषः । भूरिश्रवसः पतनानन्तरं स कृष्णः स्वकीयं रथं सात्यकये ददौ इत्युक्तम् । तत्र निमित्तमिदानीं वदन् पूर्वोक्तं प्रघसन्यायेन प्रपञ्चयतीति- शक्तिं तु तद्रथगतामित्यादिना ॥ नन्वत्र कर्णो भीमसेनं प्रति तूबर इति किमर्थमुक्तवान् । तूबरेत्युक्तिमात्रेण च भीमः किमर्थं हन्यामीत्युक्तवान् इत्यतः तत्र निमित्तं वक्तुं उपोद्घातमाह- शस्त्रस्र्रहेति ॥ धनुर्विद्यापुराकृताः धनुर्विद्यायाः पुराकृताः प्रथमोपदेष्ट्रा जामदग्न्येन रामेण शस्त्रस्र्रहकाले कुमाराणां व्रतं भवेत् । कुमारैः व्रतं कर्तव्यमित्युक्तमित्यन्वयः । रामेण कीदृशं व्रतं कुमारैः कर्तव्यमित्युक्तमित्यत आह- तच्छत्रुवधरूपञ्चेति ॥ तद्व्रतं शत्रुवधरूपं शत्रुवधं रूपयति कारयति शत्रुवधकारणमित्यर्थः । पूर्वासिद्धं पूर्वैरकृतं भवेत् । अथ च गूहितं च परैरज्ञातं च भवेदित्युक्तमिति पूर्वेणान्वयः । अथवा तद्वधं शत्रुवधरूपं शत्रुवधकारणं पूर्वासिद्धं प्राचीनैरकृतं गूहितं पराज्ञातं अथ धर्मस्याविरुद्धं धर्माविरोधि च रामस्य तुष्टिदं लोकस्य सज्जनस्यानुपद्रवाय कार्यं कर्तव्यमिति यस्मादतोऽस्मात्कारणात् भीमोऽपि रहः तूबरेत्युक्ते हन्यामीति इदं व्रतं चकार । प्रभोरित्यनेन व्रतपालनसामर्थ्यं दर्शयति । तद्व्रतमुक्तलक्षणोपेतमित्याह- अनुपद्रवायेति ॥ सुव्यक्तश्मश्रुमण्डलस्स भीमः सुव्यक्तश्मश्रुं मां कश्चिदपि तथा तूबर इति कश्चित्पुुमान् …न ब्रूयादिति जानन् लोकस्य अनुपद्रवाय तूबरेत्युक्ते हन्यामीति इदं व्रतं रहश्चकारेति पूर्वेणान्वयः ॥॥
पिता वृद्धक्षत्र्रायः॥॥
॥ अक्षौहिण्येति ॥ उभयोः सेनयोः कुरुपाणडवसेनयोर्मध्ये मिलित्वा सप्ताक्षौहिण्यो हताः ॥॥
कैः कैः कियद्धतं इत्यतः तद्विविच्य दर्शयति- तासामिति ॥ तासां हतानां सप्ताक्षौहिणीनां मध्ये भीमेन तिस्रोऽक्षौहिण्यौ हताः । द्वे अक्षोहिणयौ फल्गुनेन हतौ । तन्मध्ये अर्जुनहताक्षौहिण्योर्मध्ये सौभद्रसात्यकिमुखैः षोडशांशकः षोडशोभागः हतः । तथाच त्रयात् भीमहताक्षौहिणीत्रयात् हैडिम्बपार्षदमुखैः दशमांशकः दशमो भागो हतः । तथाच अक्षौहिणीद्वये अर्जुनेन पञ्चदशभागा हताः । अक्षौहिणीत्रये भीमेन नवभागा हता इति भावः । भीष्मद्रोणद्रौणिभिः समं द्वे अक्षौहिण्यौ निहतौ । तदन्यैः भगदत्तादिभिः तच्चतुर्थांशाः भीष्मद्रोणद्रौणिहतापेक्षया चतुर्थभागो हतः । तथाच भीष्मद्रोणद्रौणिभिः अक्षौहिणीद्वये त्रयो भागाः हताः चतुर्थो भागः तदन्यैर्हत इति भावः ॥॥
कल्रिवधप्रस्रात् पुरावृत्तं (केतुमदा) कल्रिवधमाह- केतुमानिति ॥ तस्य कल्रिस्य पिता केतुमान् शक्रदेवश्रुतायुधश्च अक्षौहिण्या सेनया साकं भीमसेनेन पातिताः ॥॥
कस्मिन्युध्ये पातिताः इत्यत आह- खड्गयुद्ध इति ॥ पुरा कल्रिवधात् प्रागित्यर्थः । कल्रिवधात् प्राक् खड्गयुद्धे भीमेन द्रोणसेनापत्यदशायां वा उत भीष्मसेनापत्यदशायां वा केतुमदादयो हता इत्यत आह- भीष्मे सेनापत्यं प्रकुर्वतीति ॥ भीष्मे सेनापत्यं प्रकुर्वति सति पुरा खड्गयुद्धे भीमसेनेन तस्य कल्रिस्य पिता केतुमांश्च शक्रदेवः श्रुतायुधश्च अक्षौहिण्या सेनया साकं पतिता इति पूर्वेणान्वयः । तदेतच्चोक्तम्-
‘तथा प्रतिसमादिष्टः कल्रिो वाहिनीपतिः । कथमश्रुतकर्माणं भीमसेनं महारथिम् ॥’
(54.1)इत्याद्युपक्रम्य
‘अथाब्रवीत् भीमसेनं सात्यकिः परवीरहा । प्रहर्षयन्यदुश्रेष्ठो धृष्टद्युम्नश्च पार्षतः ॥
दिष्ट्या त्वया कल्रिश्च राजपुत्रश्च केतुमान् । शक्रदेवश्च काल्रिः कल्रिाश्च मृधे हताः ॥
स्वबाहुबलवीर्येण गजाश्वरथस’ुलः । महाव्यूहः कल्रिानां एकेन मृदितस्त्वया ॥’
इत्यन्तेन एकोनपञ्चाशदध्याये भीष्मपर्वणि (54.120-123) । वरदराजाचार्यास्तु ‘केतुमदादीनां द्रोणसेनापत्यदशायामेेव भीमेन वधमुक्त्वा भीष्मेण पुरा सेनापत्यं प्रकुर्वति सति कर्णानुजान् धृवाद्यान् निशि खड्गयुद्धे प्रवर्तमाने सति जघ्ने’ इति व्याचक्षते । व्यासतीर्थास्तु ‘सिंहावलोकनन्यायेन पूर्वप्रवृत्तमपि निशायुद्धमाह- खड्गेति॥’ इति व्याचक्षते । अनन्तभट्टारकास्तु रात्रियुद्धात् प्रस्रात् प्रवृत्तं रात्रियुद्धमाह- खड्गेति ॥’ इति व्याचक्षते । तदेतद्व्य्रायानत्रयमपि चिन्त्यम् । तथाहि । खड्गयुद्ध इत्येतदर्थस्य उत्तरेणान्वये केतुमदादीनां द्रोणसेनापत्यदशायामेव वधोक्त्यापत्तेः । नचैतत् सम्भवति। उक्तरीत्या भीष्मसेनापत्यदशायामेव केतुमदादीनां वधोक्त्यवगमेन भीष्मपर्वविरोधापत्तेः । भीष्मपर्वपर्यालोचने दशदिनमध्ये रात्रियुद्धस्य कदाप्यनुक्तत्वात्
‘स हि नायुध्यत तदा दशाहानि महारथः । सामात्यबन्धुः कर्णो वै सेनां स्वां समचूचुदत् ॥’
(तमानत मा चिरम् इत्युपलभ्यमानपाठः)’ इति द्रोणपर्वणि (1.35-36)
‘स्वां सेनां समचूचुदत् । सामात्यबन्धुः कर्णो दशाहानि नोऽयुध्यत्’ इति कर्णानुजानां युद्धाभावकथनात् । भीष्मपर्वण्यपि कर्णानुजानां युद्धाकथनात् । केचित्तु ‘केतुमदादीनां द्रोणसेनापत्यदशायामेव वधमुक्त्वा भीष्मे सेनापत्यं प्रकुर्वति सति खड्गयुद्धे धृवाद्यान् बहून् कर्णानुजान् जघ्ने’ इति व्य्रायाय कर्णो निशि भीमकृतां सञ्ज्ञां ज्ञात्वा अपरां इन्द्रदत्तशक्तिभिन्नां शक्तिं चिक्षेप इति निशीत्येतदुत्तरेण योजयति । तदपि न । भीष्मपर्वपर्यालोचने भीष्मसेनापत्यदशायां कर्णानुजानां युद्धस्यैवानवगमात् । द्रोणपर्वणि कर्णानुजानां भीष्मसेनापत्यदशायां युद्धाभावस्यैवोक्तत्वाच्च । केतुमदादीनां द्रोणसेनापत्यदशायामेव वधोक्तौ भीष्मपर्वविरोधध्रौव्यात् । किञ्च (155.38 )द्रोणपर्वणि
‘रात्रियुद्धे तदा राजन् वर्तमाने सुदारुणे । द्रोणमभ्यद्रवन् सर्वे पाण्डवास्सह सैनिकाः ॥’
इत्यादिना रात्रियुद्धं कियदुक्त्वा केतुमत्पुत्रकल्रिवधानन्तरं
‘कर्णभ्रातरः पञ्च नामृष्यन् कर्ण एव च । ते भीमसेनं नाराचैः जघ्नुराशीविषोपमैः ॥
ततश्चाशु रथं त्यक्त्वा भीमो दृततरं गतः । धृवं चास्यन्तमनिशं मुष्टिना समपोथयत् ॥’
(156.26-27)इत्यादिना द्रोणसेनापत्यदशायामेव निशायुद्धे धृवादिकर्णानुजानां वधोक्तेः ।
‘कल्रिानाञ्च सैन्येन कल्रिस्य सुतो महान् । त्वरन् पितृवधात् कृद्धो भीमसेनमुपाद्रवत् ॥’
इति द्रोणपर्वणि(156.21) भीष्मपर्वकृतकेतुमदादिवधः स्मारित इति भगवत्पादैरपि केतुमदादिवधोप्यत्रोक्त इति ध्येयम् ।
॥ कुत्सयामास बहुश इति ॥
‘तमभिदृत्य राधेयो मुहूर्ताद्भरतर्षभ । अब्रवीत् प्रहसन्वाक्यं सहदेवं विशाम्पते ॥
मा युध्यस्व रणेऽधीर विशिष्टैः रथिभिस्सह । सदृशैर्युद्ध माद्रेय वचो मे मा विशि’थाः ॥’
(द्रोण.168.15-16) इत्यादिप्रकारेण निन्दयामासेत्यर्थः ।
॥ प्रदीपहस्ता ॥
‘गजे गजे सप्तकृताः प्रदीपाः रथे रथे चैव दश प्रदीपाः । द्वावश्वपृष्ठे परिपार्श्वतोऽन्ये ध्वजेषु चान्ये जघनेषु चान्ये ॥’
इत्यादिना प्रदीपग्रहणे विशेषो ज्ञातव्यः ।
॥ यथास्थिताः ॥ यथा येन प्रकारेण स्थिताः । अश्वपृष्टेषु स्थिताः ये च गजेषु स्थिताः ये च रथेषु स्थिताः ये च भूमौ स्थिताः ते सर्वे तथेति शेषः । तथा तेनैव प्रकारेण तत्र तत्र सुषुपुरित्यर्थः । तथाचोक्तम्-
‘अश्वपृष्ठेषु चाप्यन्ये रथनीडेश्वथापरे । गजस्कन्धगताश्चान्ये शेरते स्म तथा क्षितौ ॥
सायुधास्सगदाश्चान्ये सखड्गाः सपरश्वधाः । सप्रासकवचाश्चान्ये प्रसुप्ताश्च पृथक्पृथक् ॥’
इत्यादिद्रोणपर्वणि(185.39-40) ।
॥ उपांशु कुञ्जर इति ॥ उपांशु अव्यक्तं अस्पष्टमिति यावत् ।
‘तमतथ्यभये भग्नो जये सक्तो युधिष्ठिरः । अव्यक्तमब्रवीत् राजन् हतः कुञ्जर इत्युत ॥’
इति द्रोणपर्ववचनात् (191.54)।
॥ मुनय इति ॥ मुनयः वसिष्ठविश्वामित्रादयः ।
‘क्षत्रियाणामभावाय दृष्ट्वा द्रोणमवस्थितम् । ऋषयोभ्यागमंस्तत्र हव्यवाहपुरोगमाः ॥
विश्वामित्रो जामदग्निः भरद्वाजोऽथ गौतमः । वसिष्ठः कश्यपोऽत्रिश्च ब्रह्मलोकं निनीषवः॥’
इतिद्रोणपर्वोक्तेः (191.31-32)।
॥ कृष्णः व्यासः देवकीनन्दनव्यावृत्यर्थं वेदान्तकृदिति विशेषणम् । अष्टनवतिशततमाध्याये एकोननवतिशततमाध्याये द्रौणिं सान्त्वयता व्यासेन यो नारायणः पूर्वं धर्मपुत्रो भूत्वा बदर्यां तपस्तपन् रुद्रे प्रत्यक्षे सति भूदुर्लभाश्वानयाचत। ततो रुद्रेण देवगन्धर्वमनुष्यष्वप्रमेयबलत्वं देवासुरमहोरगगन्धर्वपिशाचनरराक्षससुपर्णनागेभ्यो रणे असमत्वमनधिकत्वञ्च शस्त्रशास्त्राग्निभ्योऽजयत्वं आर्द्रेण शुष्केण स्थास्नुना हस्तेन काष्ठेन लोहेन वा अहिंस्यत्वं सर्वसमरेष्वपि असमाधिकत्वं च इत्याद्या वरा ह्यस्मै दत्ताः । स नारायण एव इह भूमौ कृष्णरूपेण दुष्टसंहारार्थं शिष्टपालनार्थञ्च अवतीर्णः । तथा त्वञ्च रुद्राज्जगद्भारहरणार्थं उत्पन्नोऽसि । तस्मात् कृष्णात्पराजयेऽपि न त्वं शोचितुमर्हसि इत्याद्युक्तम् । तदेतत्सर्वस्य तात्पर्यमाह- पूर्णशाड्गुण्यदेह इति ॥ तथाच
‘ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसःश्रियः । ज्ञानविज्ञानयोश्चैव षण्णां भग इतीरणा ॥’
इति विष्णुपुराणवचनात् समग्रैश्वर्यादिगुणात्मकः देहः । तथाच वरयाचनमसुरमोहनाय ।
‘त्वामाराध्यतथा शम्भो ग्रहीष्यामि वरं सदा । द्वापरादौ युगे भूत्वा कलया मानुषादिषु ॥’
इति पद्मपुराणवचनादित्युक्तं भवतीति वेदितव्यम् ॥
॥ इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येण मधुसूदनभिक्षुणाविरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणस्र्रहे षड्रिंवशोऽध्यायः॥
॥ अथ सप्तविंशोऽध्यायः ॥ ॥ अथेति ॥ 1 ॥ अथ द्रोणपातनानन्तरम्। तत्र पाण्डवानां दुर्योधनादिभिस्साकं गजयुद्धं प्रथमतोऽभूदित्याह- तत्रेति ॥ उदयाद्रिप्रतिमे गजे इति शेषः ॥ 2-10 ॥ ‘तथैव पाण्डवं राजन् विह्वलन्तं मुहुर्मुहुः । अपोवाह रथेनाजौ विशोकः शत्रुतापनः॥’ इति कर्णपर्वस्थवचनस्य तात्पर्यमाह- भीमश्चविह्वलतनुरिति ॥ 11-15 ॥ ॥ उवाच परुषा वाच इति ॥ ‘तमब्रवीत्ततःकर्णो व्यर्थं व्याहृतवानसि । वदेदानीं पुनर्हृष्टो वध्यमानः पुनःपुनः ॥ मा योत्सीः कुरुभिस्सार्धं बलवद्भिश्च पाण्डव । सदृशैस्तात युध्यस्व व्रीडां मा कुरु पाण्डव ॥ गृहं वा गच्छ कौन्तेय यत्र वा केशवार्जुनौ ॥’ इति (15.49-50)कर्णपर्वोक्तप्रकारपरुषा वाच इत्यर्थः ॥ 16-29 ॥ ॥ काकगोमायुधर्मेति ॥ तथाच यथा कश्चन काकः समुद्रप्रान्ते कस्यचिद्वैश्यस्य पुत्रैर्दत्तबलिना दर्पितः सन् कदाचित्तत्रागतान् हंसान् समुद्रोपर्युत्पातनार्थं आह्वयामास । यथा कश्चन जम्बूकः पिशितदृप्तस्सन् सिंहमाहूयामास । तथा त्वमपि दुर्योधनदत्तान्नदर्पितस्सन् अर्जुनमाह्वयन् मायाही इति भावः । तदेतत्सर्वं कर्णपर्वणि द्रष्टव्यम् ॥ 30-49 ॥ ॥ द्रौणिस्तदा स्यन्दनवाजिरोमस्वरोमकूपध्वजकार्मुकेभ्यः। अमोघान् शरान् सृजानस्सन् शरपञ्जरेण पार्थं बबन्ध । अश्वत्थाम्नः स्वस्यन्दनादेस्सकाशात् बाणसर्जनं अस्त्रमहिम्ना युज्यते इति भावः॥ 50-115 ॥ ॥ कश्चिदिति ॥ व्याधः बलाक्रायः मृगश्वापदं ‘ ‘मृगव्याधोऽभवत्कश्चित् बलाको नाम भारत । यात्रार्थं पुत्रदाराणां मृगान्हन्ति न कामतः ॥ अथापश्यत्स पीवानं श्वापदं घ्राणचक्षुषम् । अदृष्टपूर्वमवधीत् संवर्तेन हतं तदा ॥ (्रअदृष्टपूर्वमपि तत्सत्वं तेन हतं तदा’इत्युपलभ्यमानपाठः)इत्यादि कर्णपर्वणि (72.40-43) । तस्मात्त्वं सद्धारक एव धर्म इति निश्चयं कृत्वा नपृं मा जहि । वाचं गाण्डीवं देहीतिवदन्तं हनिष्यामीति प्रतिज्ञात्मिकां वाचं सत्यां कुरु । ननु नृपहननाभावे मद्वाक्यसत्यता कथमित्यत आह- तिरस्कुरु ॥ तथाच गुरूणां तिरस्कार एव वधात्मक इति त्वं नृपं तिरस्कुरु तेन तद्वधोऽपि कृतप्राय इति त्वद्वचनसत्यता भवतीति भावः॥ 116-119 ॥ ॥ आत्मनाशायेति ॥ आत्मनाशाय देहनाशाय असिं खड्गं विकोशं कृतवान् ज्येष्ठनिन्दापापभयादिति भावः । स्वाभिप्रायं मरिष्यामीति स्वाभिप्रायमित्यर्थः । नन्वात्मप्रशंसायाः देहत्यागरूपत्वे तत्करणेन तत्कृतं स्यात् । किञ्च प्रतिज्ञां रक्षता अर्जुनेन धर्मराजस्य तिरस्कारमात्रकरणेन प्रतिज्ञापि कथं रक्षिता इत्यत आह- वध इति ॥ स्वगुणान् दिग्विजयसभार्जनादिगुणान् इत्यर्थः । ननु धर्मबोधयता गुरुहत्या आत्महत्या च त्याजयता भगवता अर्जुनेन गुरुनिन्दाऽत्मप्रशंसापि वा कथं कारयिता इत्यत आह- गुरुनिन्देति ॥ यद्यपि गुरुनिन्दा आत्मपूजा आत्मप्रशंसा च क्वचिदपि धर्माय न भवेत् । तथापि अर्जुनहार्दं अर्जुनहृदयस्थं तत् धर्मजे रोषादिकं दिग्विजयाद्यह’ारादिकं च सम्प्रकाश्य तस्य अर्जुनस्य लज्जां सूक्ष्मधर्मज्ञानाभावप्रयुक्तलज्जां समुत्पाद्य तं मदं च दिग्वजयाद्यह’ारप्रयुक्तं धर्मशास्त्रज्ञत्वप्रयुक्तं च मदं नाशयित्वा ततस्तस्य अर्जुनस्य परं सूक्ष्मं धर्मं नाहं वेद्मि किन्तु कृष्ण एव वेद । मम कृष्ण एव गतिरिति भावं बुद्धिं समुत्पाद्य दोषान् क्रोधादीन्नाशयितुं तत्सर्वं गुरुनिन्दादिकं अर्जुनेन कारयामास । तथा च गुरुनिन्दाऽत्मप्रशंसयोः तथा भगवता कारित्वेन अर्जुनस्य गुरुक्रोधात्माह’ारयोः सदा स्थित्या स नङ्क्ष्येदतः तन्नाशाय …गुरुनिन्दात्मप्रशंसादिकं कारयित्वा ते तत्सर्वं दोषनाशाय ‘नाहं वेद परं धर्मं कृष्ण एव गतिर्मम’ इति बुद्धिमुत्पाद्य दययामास इति समुदायार्थः ॥ 125-126 ॥ ॥ तं वासुदेवेति ॥ हेतुं अवमाने हेतुं अर्जुनप्रतिज्ञापालनम् । तथाचोक्तं ‘इयेष निर्गन्तुमथो वनाय तं वासुदेवप्रणतोऽभ्युवाच । न राजन् विदितं तत्ते यथा गाण्डीवधन्वनः ॥ प्रतिज्ञासत्यसन्धस्य गाण्डीवं प्रतिविश्रुता । ब्रूयाद्य एनं गाण्डीवं देह्यन्यस्मै त्वमित्युत ॥ वध्योस्य स पुमाल्ँलोके त्वया चोक्तोयमीदृशम् । ततस्सत्यां प्रतिज्ञां तां पार्थेन प्रतिरक्षता ॥ मच्छन्दादवमानोऽयं कृतस्तव महीपते । गुरूणां अवमानो हि वध इत्यभिधीयते ॥ तस्मात् क्षम महाबाहो मम पार्थस्य चोभयोः । व्यतिक्रममिमं राजन् सत्यसंरक्षणं प्रति ॥ शरणं त्वां महाराज प्रतिपन्नावुभावपि ॥’ इति कर्णपर्वणि (74.6-12)॥ 127-129 ॥ ॥ तं शि’तमिति ॥ अपशकुनदर्शनादिना इति भावः । तथाचोक्तम्- ‘झषाश्च शतपत्राश्च क्रौञ्चश्चैव जनेश्वर । प्रदक्षिणमकुर्वन्त तदा वै पाण्डुनन्दनम् ॥ बहवः पक्षिणो राजन् पुन्नामानश्शिवाः शुभाः । त्वरयन्तोऽर्जुनं सं्रये सप्रहृष्टा ववाषिरे ॥ क’ागृध्राबकाश्शेनावायसाश्च विशाम्पते । अग्रतस्तस्य गच्छन्ती भक्ष्यहेतोर्भयानकाः ॥ निमित्तानि च धन्यानि पाण्डवस्य शशंसिरे । विनाशमरिसैन्यानां कर्णस्य च वधं तथा ॥ प्रयातस्याथ पार्थस्य महान् स्वेदो व्यजायत् । चिन्ता च विपुला जज्ञे कथं चेदं भविष्यति ॥ विषण्णं तु ततो ज्ञात्वा सव्यसाचिनमच्युतः । सञ्चोदयति तेजस्वी मधुहा वानरध्वजम् ॥’ इति कर्णपर्वणि (76.4-9) ॥ पूर्वकर्माणि ॥ भगदत्तसैन्धववधादीनि कर्माणीत्यर्थः । तथा च एतादृशं असाध्यं कर्म कृतवतस्तव कर्णजयः कियानिति कैमुत्यन्यायद्योतनार्थं तदुक्तेरिति भावः । किञ्च पूर्वकर्माणि कर्णकृतानि ‘विनष्टाः पाण्डवाः कृष्णो शाश्वतं नरकं गतः । पतिमन्यं पृथुश्रोणी वृणीश्व ………….॥’ इत्यादीनि च अर्जुनं प्रति स’ीर्त्य तस्य कोपोत्पादनार्थं इति भावः । तदेतत्सर्वं कर्णपर्वणि द्रष्टव्यम् ॥ 130 ॥ ॥ स्वयन्त्रा ॥ स्वसारथिना स्ववार्तां स्वेषां स्वकीयानां वार्ता वृत्तान्तं कुर्वन् विजानन् इत्यर्थः । तथाचोक्तम्- ‘भीमोऽब्रवीत् सारथिमद्य याहि हतेश्वेवं भविता मे सुशोकः । त्वरत्त्वरं ह्यद्य विशोक शीघ्रं एतान् ध्वजाग्रांश्च रथांश्च पश्य ॥ सूताभिजानीहि परान् स्वकीयान् रथान् चिेैर्ध्वजानापततः समेतान् । संयुध्यतो नाभिजानामि किञ्चत् महत्सैन्यं पारयिष्ये प्रमत्तः॥’ इति भीमवचनं कर्णपर्वणि (80.11) ॥ 131-137 ॥ ॥ पुरा कृतानि ॥ दुर्योधनादिभिरिति शेषः । कालकूटविषभोजनादीनीत्यर्थः । ‘प्रणाणकोट्यां शयनं कालकूटकभोजनम् । दंशनं चाहिभिस्तीक्ष्णैः दाहो जतुगृहे तु यत् ॥ द्यूतेन राज्यहरणं अरण्ये वसतिश्च या । द्रौपद्याः केशपक्षस्य ग्रहणं च सुदारुणम् ॥’ इत्यादि भीमवचनात् दुःशासनं प्रति कर्णपर्वणि (88.4-5) ॥ 138-178 ॥ शापात् कस्यचित् ब्राह्मणस्य शापादित्यर्थः । भूमिः रथस्य चक्रं ग्रसति । तथा शापात् परशुरामशापात् दिव्यान्यस्त्राणि विस्मृतिं ययुः । तथाचोक्तम्- ‘ततो रथो घूर्णितवान्नरेन्द्र शापात्तदा ब्राह्मणसत्तमस्य । प्राप्तं वधं शंसति चाप्यथास्त्रं प्रणश्यमानंं द्विजम्रुयशापात्॥’ इति कर्णपर्वणि (97.77)। उक्तञ्च शान्तिपर्वणि- ‘स कदाचित्समुद्रान्ते चरमाणोऽश्रमान्तिके । एकः खड्गधनुष्पाणिः परिचक्राम सूतजः ॥ सोऽग्निहोत्रप्रसक्तस्य कस्यचिद् ब्रह्मवादिनः । जघानाज्ञानतः पार्थ होमधेनुं यदृच्छया ॥ तदज्ञानकृतं मत्वा ब्राह्मणाय न्यवेदयत् । कर्णः प्रसादयंश्चैनं इदमित्यब्रवीद्वचः ॥ अबुद्धिपूर्वं भगवन् धेनुरेषा हता तव । मया तत्र प्रसादं हि कुरुष्वेति पुनः पुनः ॥ तं स विप्रोऽब्रवीत् क्रुद्धो वाचा निर्भर्त्सयन्निव । दुराचार वधार्हस्त्वं फलं प्राप्स्यसि दुर्मते ॥ येन विस्पर्धते नित्यं भवान् वै वध्यसे तथा (येन विस्पर्धसे नित्यं यदर्थं घटसेऽनिशम्) । युध्यतस्तेन ते पाप चक्रं भूमिग्रसिष्यति । ततश्चक्रे महीग्रस्ते मूर्धानं ते विचेष्टतः ॥ पातयिष्यति विक्रम्य शत्रुर्गच्छ नराधम । यथेयं गौर्हता मूढ प्रमत्तेन त्वया मम ॥ प्रमत्तस्य मे वाचा शिरस्ते पातयिष्यति ॥’ इति (2.19-26) तृतीयाध्याये शापद्वयसूचनाय भगवत्पादैः शापादिति सामान्यत एव उक्तमिति ध्येयम् ॥ 179-181 ॥ ॥ अपराह्णे ॥ दिवसस्य पञ्चकालाः प्रातस्स्रवमध्योापराह्णसायो्रायाः । तत्र चतुर्थकाले अपरोस्य ‘शतायुर्वै पुरुष’ इति श्रुतेः पुरुषायुः शतसंवत्सरकालमध्ये गतचतुर्भागस्य शिष्टचरमभागस्येत्यर्थः । अशीतिसंवत्सरस्येति यावत् ॥ ॥ इति श्रीमद्विद्याधीशतीर्थपू्ज्यपादशिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन् महाभारततात्पय र्निर्णयार्थप्रमाणस्र्रहे सप्तविंशोऽध्यायः ॥
॥ अथ अष्टाविंशोऽध्याय ॥
॥ 1-40॥
अथ कृपादिपलायनानन्तरं शैनेयेन गृहीतः हन्तुमितिशेषः ।
‘धृष्टद्युम्नवचःश्रुत्वा शिनेर्नप्ता महारथः । उद्यन्मे निशितं खड्गं हन्तुमभ्युद्यतस्तथा ॥
तदागम्य महाप्राज्ञः कृष्णद्वैपायनोऽब्रवीत् । मुञ्चैनं सञ्जयो जीव न हन्तव्यो कथञ्चन ॥’
इति सञ्जयवचनात् धृतराष्ट्र प्रति शल्यपर्वणि (29.19-20) ।
‘अक्षौहिण्यस्समेतास्तु तव पुत्रस्य भारत । एकादशहता युद्धे ताः प्रभो पाण्डुसञ्जयैः॥’
इति शल्यपर्वणिस्थसामान्यवचनस्य भारतादिवचनैरेवाभिप्रायमाह- एवमिति ॥ एवं पूर्वोेक्तरीत्या अक्षोहिणीषट्कं भीमेन निहतम् । पञ्चाक्षौहिण्यः पार्थेन निहताः । ननु ग्रन्थान्तरे पार्थेनार्धं हतं अर्धं भीमेन हतमित्युक्तं तत्कथमुच्यते अक्षौहिणीषट्वं भीमेन हतं पञ्चाक्षौहिण्यः पार्थेन हता इत्यतस्तदभिप्रायमाह- अर्धमिति ॥ काल्रिकानृते अर्धं एकादशाक्षौहिण्यर्धं पार्थेन निहतमिति ग्रन्थातराभिप्रायः । अन्यथा महाभारतादिविरोधः । तत्रैव तत्र तत्र कल्रिाक्षौहिणी भीमेन निहता शिष्टाक्षौहिणीदशकं उभाभ्यां समं हतमित्यक्तत्वादितिध्येयम् । शिष्टं अक्षौहिणीसप्तकं कैः कैः पार्थानामक्षौहिणीसप्तके कियत्कियद्धतमित्यत आह- अक्षौहिणीचतुष्कञ्चेति ॥ द्रौणिना इदानीं एकाक्षौहिणी हता उत्तरत्र सौषुप्तिके अक्षौहिणीत्रयं हन्यते इति ध्येयम् ॥ क्रमादिति ॥ भौमसूनुना बह्वी सेना हता, ततोऽपि बह्वी दुर्योधनेन, ततोऽपि बह्वी भीष्मेण, ततोऽपि बह्वी कर्णेन, ततोऽपि बह्वी द्रोणेन हतेत्येवं क्रमादिति भावः । नन्वस्माकं तद्धननशक्त्यभावेपि भीमस्तं हन्यादित्यत आह- भीमसेनः कथञ्चिदिति ॥ किं भीमस्य बलाभावात् तद्धननं कष्टमित्यत आह- नहीति ॥ तर्हि भीमस्य अतुल्यबलत्वे कथञ्चिद्धन्ता इति किमर्थमुच्यत इत्यत आह- धार्तराष्ट्र इति ॥ कृती चेति चशब्दात् बलीचेत्यपि ग्राह्यम् । ततश्च भीमस्य बलित्वेऽपि दुर्योधनस्य बलित्वेन कृतित्वेन चाधिक्यात् कथञ्चिद्धन्तेत्युक्तमिति भावः। तथाचोक्तम्-
‘बली भीमस्समर्थश्च कृती राजा सुयोधनः । बलवांश्च कृती चेति कृती राजन्विशिष्यते ।
वृकोदरं समासाद्य संशयो विजयो मम ॥’
इति शल्यपर्वणि (33.8) । तेन ‘वृकोदरं समासाद्य संशयो विजयो मम’(33.15) इति धर्मजं प्रत्युक्तस्यार्थो भीमसेनः कथञ्चिद्धतेत्युक्तं भवतीति ज्ञेयम् । ननु पुनरपि शल्यपर्वणि अर्जुनं प्रति
‘न्यायतो युद्ध्यमानानां कृती ह्येष महाबलः (33.15)। भीमसेनस्तु धर्मेण युध्यमानो न जेष्यति ॥
अन्यायेन तु युध्यन्वै हन्यादेव सुयोधनम् ॥’ (59.4)
इत्यत्र अन्यायेन सुयोधनं हन्यादित्युच्यते । तत्र अन्यायः कथं इत्यतः तस्याप्यभिप्रायमाह- ऊरू भीमेन इत्यादिना॥ गदायुद्धं किञ्चिद्व्याजेन किञ्चित् शाठ्येन इत्यर्थः । ‘व्याजशाठ्यापदेशयोः’ इति नानार्थरत्नमालायाम् । ‘कपटोस्त्री व्याजदम्भो पतयच्छद्मकैतवे’ इत्यमरः । तेन किञ्चद्व्याजेन इत्यनेन अन्यायेन इत्यस्य अर्थ उक्तो भवतीति ध्येयम् । ततश्च एवं योजना प्रतिज्ञां रक्षता भीमेन रिपोर्दुर्योधनस्य ऊरू भेत्तव्यौ । जनाः गदामृधे नाभेरधस्ताद्धननं अधर्म इत्याहुः यतत्तस्मात् कृष्णो भीमस्य लोकनिन्दापनुत्तये आपद्धर्मं दर्शयितुं किञ्चिद्व्याजेन संयुतस्सन् धार्तराष्ट्रं हन्यादित्यूच इति । तथाच ‘भीमसेनस्त्वधर्मेणेति’ शल्यपर्वस्थश्लोकस्यैवमर्थ उक्तो भवति । तथाहि । भीमसेनस्तु दुर्योधनेन गदायुद्धे कृते धर्मेण गदायुद्धधर्मेण युध्यन्न जेष्यति । कुतः यस्मात् जनाः गदामृधे नाभेरधस्ताद्धननं अधर्म इत्याहुः तस्मात् तर्हि भीमेन दुर्योधनो नाभेरुपर्येव हन्यताम् । एवञ्च गदायुद्धधर्मेण तं जेष्यतीति चेत् । मैवम् । ‘तवोरुमेनं गदया विभेत्स्य’ इति प्रतिज्ञां रक्षता भीमेन रिपोर्दुर्योधनस्य ऊरू भेत्तव्यौ अतो न्यायेन गदायुद्धमर्यादातिक्रमेण किञ्चिद्व्याजेन संयुतस्सन् युध्यन् सुयोधनं हन्यादिति । नन्वेवमस्तु तथापि सर्वसमक्षमेवं कृष्णेन किमर्थमुक्तमित्यतस्तस्याभिप्रायमाह- आपद्धर्मं दर्शयितुं इति ॥ भीमस्य आपद्धर्मप्रदर्शनमपि कुत इत्यत उक्तम्- लोकनिन्दानिवृत्तये इति ॥ तथाचैवं समुदायार्थः । दुर्योधनेन गदायुद्धे कृते सति प्रतिज्ञारक्षणार्थं भीमेन तदूरुभेदनं कर्तव्यम्। एवं सति गदायुद्धे नाभेरधोहननस्याधर्मत्वेन भीमेनाधर्मः कृतः । नाभेरुपरि हनने भीमेन ऊरुभेदनं प्रतिज्ञातम्। तदिदानीं भग्नमिति च जनास्ते निन्दयेयुः । तदर्थमापद्धर्मं अतिकष्टसाध्यप्रतिज्ञातशत्रूरुभेदनरूपधर्मं दर्शयितुं किञ्चिद्व्याजेन संयुतो भीमः तं हन्यादित्यूचे । यद्वा गदायुद्धमर्यादासंरक्षणार्थं नाभेरुपरिहनने प्रतिज्ञाहानिः । प्रतिज्ञासंरक्षणार्थं नाभेरधो हनने गदायुद्धमर्यादाभ्र इत्युभयथाप्युक्तेः धर्मं दर्शयितुं किञ्चद्व्याजेन किञ्चित्कष्टेन हन्यादित्यूच इति । ननु भीमो व्याजेनैव दुर्योधनं हन्यान्नाव्याजेन किमित्यत आह- अव्याजेनापीति ॥ यद्यप्यव्याजेनापि असौ स्फुटं स्पष्टं दुर्योधनं हन्तुं शक्तः तथाप्यूच इति पूर्वेणान्वयः । अव्याजेनापि हन्तुं शक्त इति कथं निरणायीत्यत आह- बलमिति ॥ भीमस्य निस्सीमबलं अनूनां शिक्षां समं गदाभ्यासमप्याह उभयोरपि बलभद्रादभ्यस्तत्वादिति भावः । दुर्योधनेयत्नमधिकमाह । कार्यापेक्षयाधिकं यत्नमाहेत्यर्थः । तथाचोक्तम्-
‘उपदेशोऽनयोस्तुल्यो भीमस्तु बलवत्तरः । कृतयत्नस्ततःश्रेष्ठो धार्तराष्ट्रो वृकोदरात्॥’
इति गदापर्वणि (59.3)। ननु भीमो अन्यायेन दुर्योधनं हन्यादित्युक्तम्। अव्याजेन हन्तुं न समर्थः किमित्यत आह- उपदेश इति ॥ तथाच भीमो दुर्योधनं अव्याजेनापि हन्तुं शक्त इति भाव इति गदापर्वस्थश्लोको व्य्रायेय इत्युक्तं भवतीति ध्येयम् । ननु तर्हि भीमस्य अधिकप्रयत्नाभावो दोषः इत्यत आह- नहीति ॥ भीमोऽतिप्रयत्नं न कुर्यादिति अयं गुणो हि गुण एव। तथाच यावद्यत्नेन कार्यसिद्धिः तावद्यत्नस्यैव कर्तव्यत्वेन तस्य भीमे सत्वेन तदधिकयत्नाभावो दोष इति भावः । व्यासतीर्थास्तु ‘ननु दुर्योधनस्य कृतित्वेऽपि अतुल्यबलत्वात् हन्तुं शक्तं भीमं जानन्नपि किमर्थं ‘कथञ्चिद्धन्ता’ इत्युक्तवान् इत्यतः तस्याभिप्रायमाह- ऊरू भीमेनेत्यादिना ॥’ इति व्याचक्षते । अनन्तभट्टारकास्तु ‘ननु धार्थराष्ट्रस्य कृतित्वेऽपि भीमविनिश्चयाद्दुर्योधनं हन्तुं भीमं जानन् कृष्णः किमर्थं कथञ्चिद्धन्तेत्युक्तवान् इत्यतः तस्याभिप्रायमाह- ऊरू भीमेनेत्यादिना ॥’ इति व्याचक्षते । तदेतद्व्य्रायानद्वयं चिन्त्यम् । तथाहि । कथञ्चिद्धन्तेत्येतद्वचनाभिप्रायस्य धार्तराष्ट्रः कृती चेत् अनेनैवोदितत्वात् । ऊरूभीमेनेत्यादेः्रभीमसेनस्तु धर्मेण’इति शल्यपर्वस्थश्लोकाभिप्रायकथनपूर्वकं भीमसेनस्तु धर्मेणेति श्लोकानुवादरूपत्वेन कथञ्चिद्धन्तेत्येतद्वचनाभिप्रायवाचकत्वाभावादिति । नन्वापद्धर्मं दर्शयितुमित्युक्तम् । आपद्धर्मप्रदर्शनमपि भगवता किमर्थं कर्तव्यमित्यस्तदभिप्रायमाह- प्रतिज्ञापालनमित्यादिना ॥ तद्धर्मरहस्यज्ञातत्वादित्यर्थः । ॥ अनापदि च ॥ आपदभावेऽपि प्रकृते भीमस्य प्राणसन्देहाद्यापदाभावेऽपि लौकिकजनस्य आपदीव भीमो दर्शयामासेति भावः । यद्वा भगवतोऽप्यापद्धर्मप्रदर्शनमपि किमर्थं कृतमित्यतो लोकनिन्दापरिहारार्थं दुष्टेषु तु विशेषतः प्रतिज्ञापालनस्य धर्मत्वसूचनार्थं चेत्याशयेनाह- प्रतिज्ञापालनमित्यादिना ॥ चशब्दो लोकनिन्दां व्यपनेतुमित्यनेन सम्बध्यते । व्यासतीर्थानन्तभट्टारकास्तु
‘आपद्धर्मं दर्शयितुमित्युक्त्वा गदायुद्धे नाभेरधस्ताद्धननं धर्मो न किन्तु ऊर्ध्वहननमिति प्राप्तं अतः सामान्यधर्मोऽयं सति बाधके विशेषधर्म इत्याह । प्रतिज्ञा विशेषतो धर्मो विशेषधर्मव्याजेन हन्तेत्युक्ते भीमः किमर्थं तूष्णीं स्थित इत्याश’ां परिहरन् उपसंहरति- तत इति ॥ ततः लौकिकापेक्षया धर्मत्वादिति नाभेरधस्ताद्धननस्य विशेषधर्मत्वात् अनापदीत्युक्तम्’ इति व्याचक्षते । स भीमः जनार्थे दिदृक्षुजनार्थे अग्र्यप्रकृतिं गम्भीरस्वभावं विधित्सुः विज्ञापयिषुः मन्दस्सन् त्वरारहितस्सन् व्यचरत् ॥॥
॥ बलभद्रोप्याजगामेति ॥ तीर्थयात्रां कृत्वेति शेषः ।
‘यदि कौतूहलं तेद्य व्रज माधव माचिरम् । पश्य युद्धं महारम्भं शिष्यञ्च यदि मन्यसे ॥’
इति नारदवचनादिति भावः (शल्य.55.34) । सुयोधनः कृष्णं द्यूते निधेहीति यदवादीदिति तत्प्रतिज्ञानुसारेण तद्वचनप्रतिज्ञानुसारेण भीमो दुर्योधनस्य मूर्धानमक्रमीत् पदा अताडयदित्यर्थः । ‘क्रमु पादविक्षेप’ इति धातोः
॥ तेषां पुण्यानीति ॥ ‘सुहृदस्साधु कृत्यां द्विषन्तः पापकृत्याम्’ इति श्रुतेरिति भावः । एतेन
‘अभिभूरहमागमं विश्वकर्मेण धाम्ना । आ वश्चित्तमा वो व्रत मावोऽहं समितिं ददे ॥
योगक्षेमं व आदायाहं भूयास उत्तम आ वो मूर्धानमक्रमीम् ॥’
इति सार्धऋग्व्य्रायातेति ध्येयम् (10.166.4-5) । पुण्यानीत्यनेन व्रतसमितिशब्दार्थकथनम् । विद्याशब्देन ‘चिति संविज्ञाने’ इति धातोः चितिशब्देन ज्ञानं ग्राह्यमित्युक्तं भवतीति ध्येयम् ।
॥ कृता प्रतिज्ञा चेति ॥ चशब्देन मैत्रेयशापं समुच्चिनोति । तथाचोक्तम्- कृष्णेनबलभद्रं प्रति
‘मैत्रेयेणाभिशप्तश्च पूर्वमेव महर्षिणा । ऊरू भेत्स्यति ते वीरो गदयेति परन्तप ॥’
इति गदापर्वणि (61.20) ।
स्वन्तोत्तमः शोभनः अन्तो नाशो मरणं एषां ते सुखमरणवन्तः स्वन्ताः तेषामुत्तमः । सुखमरणवदुत्तमत्वं कथमित्यत आह ॥..॥
॥ जगाम चान्वेव जनार्दनश्चेति ॥ प्रथमतः स्वेषामेव गमने पुत्रशोकात् स्वान् पतिव्रता गान्धारी कोपाग्निना दहिष्यतीति भयात् धर्मजेन प्रेषितत्वात् कृष्णः प्रथमतो गान्धारीधृतराष्ट्रौ सान्त्वयितुं ययाविति भावः । तदेतद्गदापर्वणि द्रष्टव्यम् । भूरक्षणहृदा भूरक्षणं कर्तव्यमित्याशयेनेत्यर्थः ॥॥
ध्वाक्षान् काकान् ॥॥
ननु द्रौणेः स्वस्वरूपत्वेन तादृशेन द्रौणिना रुद्रः कथं अयोधयदित्यत आह- अचिन्त्येति ॥ नन्वथापि आत्मनैवात्मनो हननं क्वाप्यदृष्टमित्यत आह- दृश्यन्त इति ॥ आत्महनः आत्महत्याकर्तारोऽपि दृश्यन्ते हि ।
पारावताश्वः पारावतपक्षिवर्णवदश्वमित्यर्थः ।
ननु पाण्डवस्थितिकाले शर्वत्रातः किमिति भुवं नागादित्यत आह- वासुदेवेति ॥ तथाच शर्वत्रातस्य भुवं प्रत्यागमने तस्य भीमज्येष्ठपुत्रत्वेन तस्यैव साम्राज्याभिषेककर्तृत्वापत्तेः तस्य च वासुदेवासम्मतत्वेन शिवोऽमुं भुवं न याहीति वारयामासेति सः भुवं नागादित्यर्थः ।
॥ प्रज्वालयत् ॥ (आवाहयत्) यत्रोपप्लाव्ये पार्षती द्रौपद्यास्ते तत्र प्राद्रवत् ॥॥
॥ सा भीमायेति ॥ उपप्लाव्यादागम्येति शेषः । एतत्सर्वं सौसुप्तिके द्रष्टव्यम् ॥॥
॥ ऊचे चेति ॥ पुरा द्वारकानिवाससमये द्रौणिना यत्कृतं तत्पार्थयोः धर्मराजार्जुनौ प्रत्यूचे । द्रौणिना किं कृतमित्यत आह-स्वायुधानां याचनमिति ॥ स्वस्य कृष्णस्य आयुधानां चक्राद्यायुधानां याचनम्। मयि ब्रह्मशिरोनामकमस्त्रं अस्ति तत्त्वंं गृहीत्वा मम त्वदायुधानि देहीति द्रौणिना कृष्णं प्रत्युक्तमिति भावः । तदुद्धृतौ कृष्णेन आयुधेषु दत्तेषु सत्सु तेषामायुधानां उधृतौ उद्धारे चाशक्तेन त्वया किमर्थं मदायुधयाचनं क्रियते इति स्वेन पृष्टेन द्रौणिना यदुक्तं तदप्यूचे । तेन किमुक्तमित्यतः तदाशयकथनपूर्वकं तदुक्तमाह- त्वया हीनामिति ॥ गां भूमिं त्वया हीनां कृत्वा दुर्योधनाय दातुं त्वदायुधं चक्र्रायायुधं मे देहीति द्रौणिना उक्ते द्वारकायां अब्धेस्तटे स्वमु स्वात्मानमेव ध्यायता । आत्मना स्वेन । एवं मा कार्षीः एतदृशबुद्धिं कदापि माकुर्विति पुनर्यदुक्तं द्रौणिं प्रति तदपि पार्थयोः प्रत्यूचे । तदुक्तम्-
‘अवसत् द्वारकामेत्य वृष्णिभिः परमार्चितः । स कदाचित्समुद्रान्ते वसन् द्वरावतीमनु ॥
एक एव समागम्य मामुवाच हसन्निव । यत्तदुग्रं तपः कृत्वा वीरः सत्यपराक्रमः ॥
अगस्त्याद्भारताचार्यः प्रत्यपद्यत मे पिता । अस्त्रं ब्रह्मशिरो नाम देवगन्धर्वपूजितम् ॥
तदद्य मयि दाशार्ह यथा पितरि मे तथा । अस्मत्तस्तदुपादाय दिव्यमस्त्रं यदूत्तम ॥
ममाप्यस्त्रं प्रयच्छ त्वं चक्रं रिपुहणं रणे । स राजन् प्रीयमाणेन मयाप्युक्तः कृताञ्जलिः ॥
याचमानः प्रयत्नेन मत्तोऽस्त्रं भरतर्षभ । देवदानवगन्धर्वमनुष्यपतगोरगाः ॥
न समा मम वीर्यस्य शतांशेनापि पिण्डिताः । इदं धनुरियं शक्तिः इदं चक्रमियं गदा ॥
यद्यदिच्छसि चेदस्त्रं मत्तस्तत्तद्ददामि ते । यच्छक्नोसि समुद्यन्तुं प्रयोक्तुमपि वा रणे ॥
तद्गृहाण विनास्त्रेण यन्मे दातुमभीप्ससि । स स उ नाभं सहस्राारं वज्रनाभमयस्मयम् ॥
(वव्रे चक्रं महाभागो मत्तस्पर्धन्मया सह)। दस्ये चक्रं महाबाहो मत्तः स्वार्थं मया सह ॥
गृहाण चक्रमित्युक्तो मया तु तदनन्तरम् । जग्राहोत्पत्य सहसा चक्रं सव्येन पाणिना ॥
नचैनमशकत्स्थानात् सञ्चालयितुमप्युत । अथैनं दक्षिणेनापि ग्रहीतुमुपचक्रमे ॥
सर्वयत्नेन तेनापि गृह्य नैनमकम्पयत् । ततः सर्वबलेनापि यदैनं न शशाक ह ॥
उद्यन्तुं वा चालयितुं द्रौणिः परमदुर्मनाः । कृत्वा यत्नं परिश्रान्तः सन्न्यवर्तत भारत ॥
निवृत्तमनसं तस्मात् अभिप्रायाद्विचेतसम् । अहमामन्त्र्य संविग्नं अश्वत्थामानमब्रुवम् ॥
…. चक्रेण रथिनां श्रेष्ठ कं नु तात युयुत्ससे । एवमुक्तो मया द्रौणिः मामिदं प्रत्युवाच ह ॥
प्रयुज्य भवते पूजां योत्स्ये कृष्ण त्वया सह । प्रार्थितं ते मया चक्रं देवदानवपूजितम् ॥
अजेयः स्यामिति विभो सत्यमेतद्ब्रवीमि ते ॥’
इत्यादि सौषुप्तिके (12.12-25/35-37)।
॥ अनस्त्रज्ञेष्विति ॥ प्रकृते अनस्त्रज्ञेषु नकुलसहदेवादिष्वपि मुक्तत्वादिति भावः ॥
॥ स्वस्त्यस्त्विति ॥ द्रौणिना अपाण्डवत्वविधित्सया मुक्तत्वात् मह्यं स्वस्त्यस्त्वित्युक्तमिति स्पष्टत्वात् भगवत्पादैर्नोक्तमिति ध्येयम् ।
॥ द्रौणिरपीति ॥ मयापि भीमभयात् मुक्तमित्याहेति भावः ॥॥
॥ दिव्यगन्धं ॥ अलौकिकामोदकम् । ध्वान्तहरं तमोनाशकम् । अनन्तभट्टारकास्तु ‘गन्धध्वान्तहरं दुर्गन्धान्धकारयोर्नाशकम्’ इति व्याचक्षते । तच्चिन्त्यम् । गन्धशब्दस्य दुर्गन्धवाचकत्वायोगात् । प्रत्युत ‘गन्धो गन्धक आमोदे लेशे सौगन्धिवस्तुषु’ इत्यभिधाने परिमलवाचकत्वोक्तेः । दिव्यगन्धमित्येव पाठत्वात् ॥॥
गवां किरणानां राजेव सूर्य इवेत्यर्थः ।
‘स्वर्गेषु पशु वाग्वज्रदिङ्नेत्रघृणिभूजले । अक्षदृग्दृश्याः स्त्रियां पुंसि गौर्ल्रिं चिेशेफयोः ॥’
इति नानार्थरत्नमालायाम् ॥ 164 ॥
॥ अन्यवदिति ॥ पापहननादन्यत् धार्मिकहननं तद्वदित्यर्थः । धार्मिका यथा शुद्धधर्मेण हन्यते तथा पापानामपि शुद्धधर्मेण हनने पापं स्यादिति भावः । प्रसिद्धानां सतां भीष्मबाह्लीकादीनां देहान् पार्था समदहन् । अन्येषां असतां दुर्येधनादीनां देहान् धृतराष्ट्रादीन् पुरस्कृत्य समदहन् । कांश्चन शवान् पञ्चभिः स्वैः सूतैः सरस्वत्यां विचिक्षिपुः । व्यासतीर्थास्तु ‘सूतैरित्युक्तं विवृणोति- स्नेहादिति ॥ स्वान् सारथीन् आजौ आजिस्थानस्थितदेहविसर्जन’ इत्याहुः। अनन्तभट्टारकास्तु ‘आजौ युद्धस्थान् स्थितदेहविसर्जने यमौ स्वान् सारथीन् । सूतैरित्येतत् विवृतं स्वानित्युत्तया । नृपो धर्मराजः स्नेहात् तस्मिन् सतां मध्येऽपि आजौ युद्धे पतितान् स्वानभिमन्युपूर्वान् प्रति यमौ नकुलसहदेवौ न्ययोजयत् ।
॥ गुणान् कर्णस्येति ॥ गुणान् जरासन्धजयसहजकुण्डलदानादिगुणानित्यर्थः ।
‘एवमुक्तञ्च समुनिर्नारदो वदतां वरः। कथयामास तत्सर्वं यथा शप्तस्स सूतजः ॥’
इत्यादिना द्वितीयाध्यायमारभ्य
‘एवं शप्तस्तवभ्राता बहुभिश्चापि वञ्चितः । नचोनः स नरव्याघ्रो युद्धे हि निधनं गतः’
इति पञ्चमाध्यायपर्यन्तं कर्णसद्गुणकथनात् शान्तिपर्वणि । अनन्तभट्टारकास्तु ‘गुणान् विपरीतलक्षणकार्यात् दुर्गुणान्’ इति व्याचक्षते । तच्चिन्त्यम् । शान्तिपर्वविरोधादिति ॥
इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येण मधुसूदनभिक्षुणाविरचिते
श्रीमन्महाभारततात्पर्यनिर्णयार्थस्र्रहे अष्टाविंशोऽध्यायः॥
॥ अथ एकोऽनत्रिंशोऽध्यायः ॥
॥ तदर्थमिति ॥ भगवद्धर्मपालनार्थं कण्टकोद्धारः दुष्टसंहारः अन्यथा
नियतव्यस्त…सर्वे पाप राज्ञा तु दस्यवः । राजा पापेन युज्येत य एतान्न नियच्छति ॥’
इति शान्तिपर्वणि प्रत्यवायोक्तेरिति भावः । भागवतधर्मा स्वेनापि कर्तव्या इति शेषः । अपिशब्दस्वारस्यात् । तथाचोक्तम्- भीष्मः-
‘दानशीलो भवेद्राजा यज्ञशीलश्च भारत । उपवासतपःशीलः प्रजानां पालने रतः ।
सर्वाश्चैवप्रजानित्यं राज्यञ्च परिपालयेत् । उत्थानेन प्रदानेन पूजयाचापि धार्मिकान् ।
राज्ञा हि पूजितो धर्मः ततः सर्वत्र पूज्यते । यद्यदाचरते राजा तत्प्रजानां च रोचते ।
नित्यमुद्यतदण्डश्च भवेन्मृत्युरिवारिषु । निहन्यात्सर्वतो दस्यून् न राजा दस्युषु क्षमी ।
यं हि धर्मं चरन्तीह प्रजा राज्ञा सुरक्षिताः। चतुर्थं तस्य धर्मस्य राजा भागं तु विन्दति ।
यदधीते यद्यजते यद्ददाति यदर्चति । राजा चतुर्थं भोक्तास्य प्रजा धर्मेण पालयन् ।
यद्राष्ट्रेकुशलं किञ्चित् राज्ञो रक्षयतः प्रजाः । चतुर्थं तस्य पापस्य राजा विन्दति भरत॥’
इति शान्तिपर्वणि
॥ मनोवाक्कर्मभिरिति ॥
‘कर्मणा मनसा वाचा न प्रमाद्ये जनार्दने । भक्तिस्सा सात्विकी ज्ञेया भवेदव्यभिचारिणी ॥ ’
इति हारीतोक्तेरिति भावः । हरेरन्यस्य देवतान्तरस्य पूजा । ननु ‘देवन् भावयतानेन’ इति गीतायां ब्रह्मादिदेवतापूजाविधानात् अन्यदेवता कथं न कार्येत्यत आह- पूजा भागवतत्वेनेति ॥ अन्यथा प्रत्यवायोक्तेरिति भावः । तदाह हारीतः-
देवतान्तरसेवायां देवस्यावरणं विना । देवतान्तरशेषस्य भोजने स्पर्शने तथा ॥
अनर्चितं पद्मनाभेः तस्यानर्पितभोजने । अवैष्णवानां विप्राणां पूजने वन्दने तथा ॥
याजनेऽध्यापने दाने श्राद्धं चैषां च भाजने । अनर्चिते भगवते हरिवासरभोजने ॥
प्रायश्चित्तं प्रकुर्वीत वैवाहिं इष्टिमुत्तमाम् ॥’ इति ।
॥ वृथा कर्मेति ॥ वृथाकर्मणः निष्फलकर्मणः निषिद्धकर्मण इति यावत् । अकृतिरकरणम् । यद्वा वृथा तूष्णीमेव कर्मकरणसामर्थ्ये सत्यपि आपदभावेपि अकर्माकृतिः विहितकर्माकरणाभाव इत्यर्थः । तदाह हारीतः -
अधर्मं मनसा वाचा कर्मणापि त्यजेत्सदा । अकृत्यकरणात् विप्रः कृत्यस्याकरणादपि ।
अनिग्रहाच्चेन्द्रियाणां सद्यः पतनमिच्छति’ ।
इति कर्माकरणेपि इत्थम्भावमाह ।
॥ निराशीस्त्वमिति ॥ ‘निराशीर्निर्ममो भूत्वा’ इति निराशीस्त्वविधानात् । ‘कृपणाः फलहेतवः’ इति फलकामनायाः निन्दितत्वाच्चेति भावः । तथाह हारीतः-
‘श्रुतिस्मृत्युदितं धर्मं नातिक्रम्याचरेत्सदा । स्वशाखोक्तविधानेन वैकुण्ठार्चनपूर्वकम् ॥
कर्तृत्वफलस्रित्वे परित्यज्य समाचरेत् । धर्मस्य कर्ता भोक्ता च परमात्मा सनातन ॥’ इति ।
॥ परस्पर विरोधेत्विति ॥ भागवतानामेव अन्योन्यविरोधे विशिष्टस्य ज्ञानभत्तयादिगुणैरधिकस्य अनुकूलता कर्तव्या । यद्वा परस्पर विरोधे भागवतानां अवैष्णवानाञ्च परस्परविरोधे सति विशिष्टस्य वैष्णवस्य ‘अविशिष्टान्नानुकुर्यात् नात्मानं वासयेद्बुधः’ इति कौर्मोक्तेरिति भावः । ननु ज्ञानादिगुणसाम्ये तु अपराधसाम्ये च कस्यानुकूल्यं कर्तव्यमित्यत आह- साम्येति ॥ साम्ये ज्ञानादिगुणसाम्ये अपराधसाम्ये चेत्यर्थः । बहून्वैष्णवाननुवर्तेत यत्पक्षस्य बहु वैष्णवाः तस्य आनुकूल्यं कर्तव्यम् । ‘बहूनामनुग्रहो न्याय्य’ इति न्यायादिति भावः ॥॥
॥ तत्वविज्ञापनमिति ॥ स्वतन्त्रपरतन्त्रविज्ञापनमित्यर्थः ॥॥
॥ पुत्रभार्यादिकानिति ॥ अत्र आदिशब्देन अनुजशिष्यादयो ग्राह्याः । तथाचोक्तम्-
‘अ्राद्यहानिकृद्दण्डः शिष्येषु ब्राह्मणादिभिः । कार्यो देहेऽपि शिष्यश्च स्वामिना स्वेन वाऽर्पितः ॥
पुत्रानुजादयस्सर्वे शिष्या एव निसर्गतः । गुरवश्चैव मित्राणि सखिसब्रह्मचारिणः ॥
सम्बन्धिनश्च सर्वेऽपि तत्तद्योग्यतयाऽखिलैः । शिक्षणीयेषु भावेषु शिक्षणीयाः प्रयत्नतः ॥
उन्मादे बन्धनाद्यैर्वा ताडनं न गुरोः क्वचित् । पापं चरन्तस्त्वन्येऽपि सर्वैर्दृष्टिपथं गताः ॥
शक्तितो वारणीयास्स्युः देशकालानुसारतः । तदुत्तमविरोद्धारः सन्त्याज्या गुरवोऽपि तु ॥
यथा शत्तयनुशास्यैव कालतोऽपि नचेच्छुभाः । विष्णौ परमभक्तस्तु न त्याज्यः शास्य एव तु ॥
शिक्षयंश्च गुरून् शिष्यो गुरुवन्नैव शिक्षयेत् । महान्तो नानुशास्याश्च विरुद्धाचरिता अपि ॥
यदि च स्वाधिकानां ते विरोधं नैव कुर्वते ॥’ इति गीतातात्पर्यनिर्णये ।
‘न कुर्यात्कस्यचित्पीडां सुतं शिष्यं च ताडयेत्’ इति कौर्मे ॥॥
उक्तधर्मं अन्यत्राप्यतिदिशति- शरीरदण्डेति ॥ विप्रस्य धर्मान्तराण्याह- यथा लब्धेनेत्यादिना ॥
यथालब्धेन अयाचितेनेत्यर्थः । ननु अयाचितेन देहयात्रासम्भवे किं कर्तव्यमित्यत आह- भिक्षयेति ॥ भिक्षया याचितेन ऋतेनेत्यर्थः ।
‘ऋतानृताभ्यां जीवेत जीवेत प्रमृतेन वा । सत्यानृताभ्यामपि वा न श्ववृत्या कदाचन ॥
ऋतं उञ्छशिलं प्रोक्तं प्रमृतं कर्षणं स्मृतम् । सत्यानृतं तु वाणिज्यं तेन चैवाभिजीव्यते ॥
सेवा श्ववृत्तिव्रियाता तस्मात्तां परिवर्जयेत् ॥’ इति ॥॥
॥ शिष्येति ॥ शिष्योपलब्धेर्याज्योपलब्धेश्चेत्यर्थः । अध्यापनयाजनप्रतिग्रहैर्जीवेति भावः ।
‘त्रयो धर्मा निवर्तेरन् ब्राह्मणात् क्षत्रियं प्रति । अध्यापनं याचनं च तृतीयश्च प्रतिग्रहम् ॥
वैश्यं प्रति तथैवेति निवर्तेरन्निति स्थितिः ॥’
इति । आपद्धर्मानाह- क्षत्रधर्मेणेति ॥ आपदि भगवच्छास्त्रश्रवणाद्यनुकूलदेहयात्रासम्भवरूपादीत्यर्थः । क्षत्रधर्मेण वर्तेत । ननु तेनापि भगवच्छास्त्रश्रवणाद्यनुकूलदेहयात्रासम्भवे किं कर्तव्यमित्यत आह- महापदीति ॥ विशान्धर्मैः कृषिवाणिज्यादिभिः इत्यर्थः । तथाचोक्तम्-
‘एष वोऽभिहितः कृत्स्नो गृहस्थाश्रमवासिनः । द्विजातेः परमोधर्मो वर्तनानि निबोधत ॥
द्विविधश्च गृही ज्ञेयः साधकश्चाप्यसाधकः । अध्यापनं याजनं च पूर्वस्याहुर्प्रतिग्रहम् ॥
कुसीदकृषिवणिज्यं प्रकुर्वीत स्वयं कृतम् । कृषेरभावे वाणिज्यं तदभावात्कुसीदकम् ॥
आपत्कल्पो ह्ययं ज्ञेयः पूर्वोक्तो म्रुय इष्यते । स्वयं वा कर्षणं कुर्यात् वाणिज्यं वा कुसीदकम् ॥
कष्टा पापीयसीवृत्तिः कुसीदं तु विवर्जयेत् । क्षात्रवृत्तिं परां प्राहुः यत्स्वयंं कर्षणं द्विजैः ॥
तस्मात् क्षात्रेण वर्तेत वर्तर्तेनापदि द्विजः । तेन चैवाप्य जीवंस्तु वैश्यवृत्तिं कृषिं व्रजेत् ॥
न कथञ्चन कुर्वीत ब्राह्मणः कर्म कर्षणम् । लब्धलाभः पितृन् देवान् ब्राह्मणांश्चाभि पूजयेत् ॥
ते तृप्तास्तस्य तद्दोषं शमयन्ति न संशयः । देवेभ्यश्च पितृभ्यश्च दद्याद्भागं तु विंशकम् ॥
त्रिंशद्भागं ब्राह्मणानां कृषिं कुर्वन्न दुष्यति । वणिक्प्रदद्याद्विगुणं कुसीदी त्रिगुणं पुनः ॥
कृषीवलो न दोषेण युज्यते नात्र संशयः । शिलोञ्छं वाप्याददीत गृहस्थः साधकः पुनः ॥
विद्याशिल्पादयस्त्वन्ये बहवो वृत्तिहेतवः । असाधकस्तु यः प्रोक्तो गृहस्थाश्रमसंस्थितः ॥
शिलोञ्छे तस्य कथिते द्वे वृत्ती परमर्षिभिः । अमृतेनाथवा जीवेत् मृतेनाप्यथवा यदि ॥
अयाचितं स्यादमृतं मृतं भैक्षं तु याचितम् । कुशूलधान्यको वा स्यात् कुम्भी धान्यक एव वा ॥
त्र्यहैहिको वापि भवेत् अश्वस्तनिक एव च । चतुर्णामपि चैतेषां द्विजानां गृहमेधिनाम् ॥’
इति कौर्मे (2भाग.25.1-14) ।
युधिष्ठिरः-
‘व्य्रायाता क्षत्रधर्मेण वृत्तिरापत्सभूरिति । कार्पण्याद्दैन्यवृत्या तु जीवेत ब्राह्मणोऽथवा ॥
स्वकर्मण्यपरे युक्तास्तथैवान्ये विकर्मिणः । तेषां विशेषमाचक्ष्व ब्राह्मणानां पितामह ॥
भीष्मः-
अभावे क्षत्रधर्माणां वैश्यधर्मेण वर्तयन् । कृषिगोरक्षमास्थाय व्यसने वृत्तिसङ्क्षये ॥
विद्यालक्षणसम्पन्नास्सर्वत्राम्नाय दर्शिनः । एते ब्रह्मसमा राजन् ब्राह्मणाः परिकीर्तिताः ॥
ऋत्विगाचार्यसम्पन्ना स्वेषु कर्मस्ववस्थिताः । एतदेव समा राजन् ब्राह्मणानां भवत्युत ॥
अश्वारोहगजारोहरथिनोऽथ पदातयः । एते वैश्यसमा राजन् ब्राह्मणानां भवत्युत ॥
गोजीवमहिषानाञ्च वडवानाञ्च पालकाः । वृत्त्यर्थं प्रतिपद्यन्ते तान् वैश्यान्प्रतिपद्यते ॥’
इत्यादि शान्तिपर्वणि । अत्र ब्राह्मणवाणिज्यकरणेऽपि अयं विशेषो ज्ञतव्यः ।
‘क्षीरं वा दधि वा तैलं तक्रमाज्यं मधूनि च । एतेषां विक्रयी विप्रो रौरवं नरकं व्रजेत् ॥’
इति वचनादिति ।
क्षत्रियस्यासधारणधर्मानाह- क्षत्रिय इति ॥ सुरविप्रयोरन्यत्र सर्ववित्तेन वर्तेत । तथाचोक्तम्-
‘सर्ववर्णैस्सदा रक्ष्यं ब्रह्मस्वं ब्राह्मणैस्तथा । नास्तेयं विषये तस्य यो नकुर्याद्विजातिषु ॥
ब्रह्मस्वे रक्ष्यमाणे हि सर्वं भवति रक्षितम् । तेषां प्रसादे निर्वृत्ते कृतकृत्यो भवेनृप ॥’
इति शान्तिपर्वणि ।
उक्तञ्च गीतातात्पर्यनिर्णये-
आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत् । क्षात्रासिद्धौ न शूूद्रं तु विप्रक्षत्रिययोः क्वचित् ॥
क्षत्रियो ब्राह्ममापत्सु तदापत्सु विशामपि । क्षत्रियो विप्रधर्मापि नैव भैक्ष्यप्रतिग्रही ॥
वैश्य आपत्सु शौद्रं तु धर्ममेकं नचापरम् । शूद्र आपत्सु विट्धर्मा तदापत्सु च कारुकः ॥
शूद्रस्तु वैश्यधर्मापि नैव वेदाक्षरो भवेत् । अत्यापदि क्षत्रियोऽपि पादशुश्रूषणं विना ॥
शौद्रं धर्म चरन् विप्र क्षत्रियेषु न दुष्यति । एषु कर्मसु याच्यः स्यात् स्वामिनाऽपि न याचिता ॥
शौद्राण्यपि स्वधर्मत्वे क्षत्रियस्यापदो यदि । आत्मनश्चेद्बलाधिक्यं सानुबन्धादपि प्रभोः ॥
धर्मार्थं सेवतोऽर्थार्थं विप्रधर्मादिकाद्वरः । प्रभुणा याच्यवृत्तिस्तु विशेषेणापिधर्मभाक् ॥
बाह्वोर्बलाऽधिको यः स्यात् क्षत्रियो विद्ययाधिकः । विप्रो भागवतौ चेतौ सेशा लोकास्तयोरिमे ॥ ’
इति व्यासस्मृताविति । एतेन क्षत्रियस्याप्यापद्धर्मा ज्ञेयाः ॥॥
॥ प्रसह्येति ॥
‘प्रसह्य वित्ताहरणं शारीरो दण्ड एव च । अशिष्याणां शासनञ्च तथैवार्थविनाशनम् ॥
एष ईश्वरभावः स्यात् न कार्यः क्षत्रियेतरैः । सर्वे विधर्मिणः शास्याः क्षत्रियैर्यत्नतस्सदा ॥’
इति गीतातात्पर्यनिर्णये ॥॥
॥ सामादिति ॥ साम प्रियवचनम् । आदिशब्देन दानभेदौ ग्राह्यौ । सामादिनापि धर्मानाचरणे किं कर्तव्यमित्यत आह- अन्तत इति ॥ दण्डतः दण्डलक्षणोपायेनेत्यर्थः । असाधारणधर्मान्तरमाह- अपलायी इति ॥
‘स्र्रामेष्वनिवर्तित्वं प्रजानां चैव पालनम् । शुश्रूषा ब्राह्मणानाञ्च राज्ञां श्रेयस्करं परम् ॥’
मयनुस्मरणात् । ननु युद्धे यदि क्षत्रियाणां अपलायनमसाधारणधर्मः तर्हि कृष्णजरासन्धयुद्धदशायां बहुवारं बाह्लीकादीनां पलायनदर्शनेन तेषां धर्महानिः किमित्यत आह- असतामिति ॥ असत्कार्यविषये पलायनेऽपि न धर्महानिरिति भावः । यद्वा ननु क्षत्रियस्य युद्धे अपलायनस्यैव असाधारणधर्मत्वे कदाचित्क्षत्रियाधिष्ठितः पुर्यां बहु सतां स्थितिदशायां स्ववैरिणामागमने स्वस्याशक्त्या स्वनिमित्तेन सतां बहूपद्रवे प्राप्ते सति पतायने किं धर्महानिः इत्यत आाह- सतामिति ॥ तथाच स्वस्य स्वपुरे स्थित्या तत्पुरस्थानां सतां रक्षणनिमित्तेन स्ववैरिभ्यः द्रव्यादिनाशप्राप्तौ पलायनेऽपि न दोष इति भावः ॥॥
वैश्यधर्मान् आह- कृषीति ॥ कृषिः भूमिकर्षणबीजावापादिः, वाणिज्यं क्रमुकधान्यादिक्रयविक्रयौ । गोरक्षा गवां पालनं तृणोदकप्रदानबन्धनमोचनदोहनादि । कुसीदं वृद्ध्युपजीवनम् । तदाह याज्ञवल्क्यः-्रकुसीदं कृषिवाणिज्यं पाशुपाल्यं विशः स्मृतम्’ इति अनुशासने । विक्रयद्रव्याणि अनुशिष्टानि-
‘तिलञ्चर्म रसाश्चैव विक्रेयाः पशुवाजिनः । वणिक्कोत्थं उपासीनैः वैश्यैर्वैश्यस्थितेरपि । ’ इति ।
शान्तिपर्वण्यपि वैश्यधर्मास्तुलाधारेण साधिताः ।
‘यद्ददामि न तन्न्यूनं यत् गृह्णामि नचाधिकम् । विक्रीणामि रसांश्चाहं अन्नवर्जममायया ॥
क्रीत्वा वै प्रतिविक्रीणे परहस्ताद्दनं बहुः॥’ इति
शूद्रधर्मान् आह- परिचर्यैवेति ॥ विप्रस्यैव इति शेषः । तदाह पराशरः-
शूद्रस्य द्विजशुश्रूषा परमो धर्म उच्यते । अन्यथा कुरुते कञ्चित्तद्भवत्तस्य निष्फलम् ॥’
इति । उक्तञ्च मनुना-
‘विप्राणां वेदविदुषां गृहस्थानां यशस्विनाम् । शुश्रूषैव तु शूद्रस्य धर्मो वै श्रेयसः परा॥’
इति । उक्तञ्चानुशासने-
‘दृष्ट्वा पितामहः शूद्रमभिभूतं तु तामसैः । द्विजशुश्रूषणं धर्मं शूद्राणां तु प्रयुक्तवान् ॥
नश्यन्ति तामसा भावा शूद्रस्य द्विजशक्तितः । द्विजशुश्रूषया शूद्रः परं श्रेयोऽधिगच्छति ॥’
इति । क्षत्रियवैश्यशुश्रूषा तु वृत्त्यर्था न परमो धर्मः । तदाह मनुः -
‘शूद्रस्तु वृत्तिमाकान् क्षत्रमाराधयेद्यदि । धनिनं वाप्युुपाराध्य वैश्यं शूद्रो जिजीविषेत् ॥
स्वर्गार्थमुभयार्थं वा ब्राह्मणानेव धारयेत् । ज्ञातं ब्राह्मणकृत्यस्य न ह्यस्याकृतकृत्यता ॥’
इति शिल्पादेरापद्धर्मत्वात् अस्य परमधर्मत्वात् शुश्रूषैवेत्यवधारणं युज्यत इति ज्ञेयम् । तदुक्तं मनुना-
‘अशक्नुवंस्तु शुश्रूषा शूद्रः कर्तुं द्विजन्मनाम् । पुत्रदारात्यये जीवेत् कारुकस्य कर्मभिः ॥
यैः कर्मभिस्सुचरितैः शुश्रूष्यन्ते द्विजातयः । तानि कारुककर्माणि शिल्पानि विविधानि च ॥’
इति । उक्तञ्च याज्ञवल्क्येन-
‘शूद्रस्तु द्विजशुश्रूषात् यो जीवन् ऋणी भवेत् । शिल्पैर्वा विविधैर्जीवेत् द्विजातिहितमाचरन् ॥’ इति ।
॥ अन्ये वर्णबाह्याः ॥ स्वपूर्ववत् शिष्टानिन्दितस्वकुलवृद्धवत् वर्तेयुः । स्वकुलवृद्धैर्यथा पूर्वमाचरितं तथा वर्णबाह्यैराचरितव्यमिति भावः ॥॥
वर्णचतुष्टयस्य धर्मान्तरमाह- ब्राह्मणाद्या इति ॥
‘विद्याकर्मवयोबन्धुर्वित्तं भवति पञ्चमम् । मान्यस्थानानि पञ्चाहुः पूर्वं पूर्वं गुरूत्तराः ॥
पञ्चापि त्रिषु वर्णेषु भूयांसि बलवन्ति च ॥’
इति कौर्मोक्तेरिति भावः । ब्राह्मणाद्या अपि वैष्णवाश्चेत् पूज्याः नो चेन्न पूज्या इत्याशयेनाह- हरिप्रिया इति ॥॥ हरिभक्ताविति ॥ यथाह हारीतः-
‘श’चक्रोर्ध्वपुण्ड्रादिधारणं स्मरणं हरेः । तन्नामकीर्तनञ्चैव तत्पादाम्बुनिषेवणम् ॥
तत्पादवन्दनञ्चैव तन्निवेदितभोजनम् । एकादश्युपवासश्च तुलस्यैवार्चनं हरेः ॥
तदीयानामर्चनञ्च भक्तिर्नवविधा स्मृता । एतैर्नवविधैर्युक्तो वैष्णवः प्रोच्यते बुधैः ॥
गुणैरेतैर्विहीनस्तु नतु विप्रो न वैष्णवः । भगवद्भक्तिविमुखं ब्राह्मणं वा बहुश्रुतम् ॥
न सम्भाषेत सततं चण्डालमिव सन्त्यजेत् ॥’
इति । उक्तञ्च भृगुसंहितायां
‘न शूद्रा भगवद्भक्तास्ते हि विप्रा इति स्मृताः । चतुर्वेद्यपि यो विप्रो न भक्तः शूद्र एव स ॥’
इति । भागवतेऽपि-
‘श्वपचोऽपि महीपाल विष्णुभक्तो द्विजाधिकः। विष्णुभक्तिविहीनस्तु यतिश्च श्वपचाधमः ॥’
इति । भक्तिस्तु नवविधा-
‘श्रवणं कीर्तनं विष्णोः स्मरणं पादसेवनम् । अर्चनं वन्दनं दास्यं स्रयमात्मनिवेदनम् ॥’
इति पुंसार्पिता विष्णौ भक्तिश्चेन्नवलक्षणा॥’(7.5.23-24)
इति भागवतोक्तेः ॥॥
वर्णहीनः वर्णेन नीच इत्यर्थः । वर्णोच्चेनेति शेषः । प्रणामं विना पूज्य इत्यन्वयः । अन्यथा प्रत्यवायोक्तेः । यथाह शातातपः- ‘अभिवाद्यो नमस्कार्यः शिरसा वन्द्य एव च । ब्राह्मणक्षत्रियाद्यैश्च श्रीकामैस्सादरं तथा ॥
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्या कथञ्चन । ज्ञनकर्मगुणोपेता यद्यप्येता बहुश्रुताः ॥
अभिवाद्य द्विजश्शूद्रं सचैलं स्नानमाचरेत्। ब्राह्मणानां शतं सम्यक् अभिवाद्य विशुध्यति॥’ इति
उक्तञ्च कौर्मे-
नाभिवाद्यास्तु विप्रेण क्षत्रियाद्या कथञ्चन । ज्ञनकर्मगुणोपेता यद्यप्येता बहुश्रुताः ॥
ब्राह्मणस्सर्वभूतानां स्वस्ति कुर्यादिति श्रुतिः । सवर्णेषु सवर्णानां कार्यमेवाभिवादनम् ॥’
इति ॥
निर्मथितमााह- आदर इति ॥ तथाचोक्तम्-
‘शूद्रं वा भगवद्भक्तं निषादं श्वपचं तथा । वीक्षेत जातिसामान्यात् स याति नरकं नरः ॥’
इति इतिहासोत्तमे ।
‘मद्भक्तं शूद्रसामान्यात् अवमन्यन्ति ये नराः । नरकेष्वेव तिष्ठन्ति वर्षकोटीर्नसंशयः ॥
चण्डालमपि मद्भक्तं नावमन्येत बुद्धिमान् । अवमानात्पतत्येव रौरवे नरके नरः॥’
इति च ॥॥
ननु वर्णेष्वप्यज्ञेषु सत्सु वर्णबाह्यस्य किं ज्ञापनं युक्तमित्यत आह- वर्णेष्विति ॥ वर्णबाह्यस्य ज्ञानस्यैवाभावेन तस्य ज्ञापनं दूरापास्तमिति भावः ॥॥
॥ त्रिवर्णस्थैरिति ॥ वैष्णवैरिति शेषः । ‘अवैष्णवस्य वेदेपि ह्यधिकारो न विद्यते’ इति भावः ॥ स्त्रीभिरिति ॥ नतु ग्रन्थपुरस्सरमिति शेषः । स्त्रीणां स्वीयपुन्नियतिर्धर्मः ।
‘पतिव्रतातु या नारी भर्तृशुश्रूणे रता । न तस्य विद्यते पापं इहलोके परत्र च ॥’
इति कौर्मे महाफलसद्भावादिति भावः । नृणां स्वदारनियतिर्धर्मः गुणोत्तमानां स्मृत्यैव महतां स्त्रीणां भोग्यत्वस्मरणेनैवेत्यर्थः।
‘महतां वनिताकामस्तमस्यन्धे पतत्यलम् । तदन्यो निरयं याति दुःखवान्स्याद्विपर्यये ॥’
इति धर्मसंहितावचनादिति भावः । एवं विष्ण्वाद्युत्तमानां भार्यास्मरणे अन्धतम उक्त्वा स्वोत्तमोत्तमभार्याणां भोग्यत्वस्मरणेऽपि तदतिरिक्तस्त्रीणां भोग्यत्वस्मरणेऽपि बाधकमाह- गुणसर्वस्वेति ॥ तथाचोक्तम्-
‘परदारदृशिः प्रोक्ता क्षुद्रपातकसञ्ज्ञिता । उपपातकं तद्गतिश्च वर्णबाह्येषु पातकम् ॥
महापातकसञ्ज्ञं तु पित्रादेर्दारघर्षणम् । दारदृष्टिः स्वोत्तमानां मानुषाणां स्वभावतः ॥
सुमहापातकं प्रोक्तं तद्गतिस्सुमहत्ततः । ऋषिदारेषु मनसो गतिरेव ततोऽधिका ॥
देवदाराभिकामानां स्रिस्रस्ततोऽधिकः । किमु विष्णोस्ततो योषित् स्रस्य व्यत्ययस्थितेः ॥
न समं पातकं क्वापि नहि स्वस्त्र्यभिकामतः । अवज्ञाता माधवादेः तस्मात्तं दूरतस्त्यजेत् ॥
मानुषेषु तु दुःखित्वं क्षुद्रपापफलं स्मृतम् । पापात्तु वर्णबाह्यत्वं तिर्यग्योनिगतिस्तथा ॥
सहस्रवर्षनरकं क्षुद्रपातकजं फलम् । उपपातकतश्चापि नरकं युगमात्रकम् ॥
चतुर्युगावसानं तु पातकस्य फलं स्मृतम् । महापातकजन्यञ्च कल्पावधि समीरितम् ॥
सुमहापातकाच्चापि यावद्ब्रह्मलयो भवेत् । तत्पराणां पातकानां फलमन्धतमः स्मृतम् ॥
अधोऽधो दुःखबहुलं विष्णुदाराभिमर्षनात् । वधादपि हि दाराणां घर्षणं कोपकारणम् ॥
तस्माद्देव्यस्सदा वन्द्या अग्निवन्नाभिकामतः ॥’
इति धर्मतत्वे (भा.ता.11.14.26-30)।
॥ उत्तरोत्तरतः ॥ उत्तमोत्तमपित्रादिदारघर्षस्राद्यधिकाधिकपातकत इत्यर्थः ।
॥ गुणसर्वस्वहानिस्स्यात् ॥ अत्र तदतिरिक्तस्त्रीदर्शनगमनादिपातकेतु चशब्देन मनुष्यजन्मप्राप्यबहुदुःखानुभवः । तथा तिर्यग्योनिप्राप्तिश्चेत्यर्थः इति ज्ञेयम् । केचित्तु ‘अत्युत्तमानां भार्यायाः स्मरणे अन्धन्तमः उक्त्वा अन्यत्राह -गुणेति ॥ अत्रात्युत्तमस्त्रीव्यतिरिक्तासु उत्तरोत्तरतः उत्तमस्त्रीसम्भोगतः गुण एव सर्वस्वहानिः स्यात् तथाचायमर्थः । शूद्रस्त्रीकामने यावतां गुणहानिस्ततोधिकहानिर्वैश्यस्त्री कामने । एवमन्यत्रापि हीनगुणायाः कामनाज्जाताद्गुणहानिः ततोऽधिकायाः स्त्रियःकामने अधिकगुणहानिः’ इत्याहुः॥॥
स्त्रीणामाह- अध इति ॥ स्त्रीणामध्यतः स्वभर्तृसमादधोधः अधमाधमकामात् जात्या गुणैर्वा नीचनीचपुरुषकामनात् । अधिको दोषः स्यात् । अन्यत्र समानकामे मध्यम इत्यर्थः । स्त्रीभिः वेदान्विना अखिलमित्यस्य अपवादमाह- वेदा इति ॥॥
मनुष्यस्त्रीभिः किमित्यत आह- देव्य इति ॥ अवैदिकं वेदाद्यतिरिक्तं भारतपञ्चरात्रादि । अपिशब्देन ब्रह्मबन्धवो ग्राह्याः । अन्यैः वर्णबाह्यैः इत्यर्थः । तथा च उक्तम्-
‘अन्त्यजापि ये भक्ता नामज्ञानाधिकारिणः । स्त्रीशूद्रब्रह्मबन्धूनां तन्त्रज्ञानेऽधिकारता ॥
एकदेशे परोक्ते तु न तु ग्रन्थपुरस्सरे । त्रैवर्णिकानां वेदोक्ते सम्यक्भक्तिमतां हरौ ॥
आहुरप्युत्तमस्त्रीणां अधिकारं तु वैदिके । यथोर्वशी यमी चैव शच्याद्याश्च तथा परा॥’
इति व्योमसंहितायाम् (सू.भा.1.1.1)
एवं सर्वेषां कर्तव्यमुक्त्वा त्याज्यमाह- सर्वथेत्यादिना ॥॥
॥ भक्तिहीना इति ॥ नवविधद्वेषयुक्तत्वादिति भावः ॥॥
॥ यावद्दोषक्षय इति ॥ कियद्दोषक्षय इत्यर्थः । ऊर्ध्वगतिः स्वर्गप्राप्तिरित्यर्थः । क्रमशः यावतां दोषाणां क्षये ऊर्ध्वगतिः स्वर्गप्राप्तिः । ननु पूर्वं बहु पापं कृत्वा मध्ये शुभकर्मकरणे स्वर्गप्राप्तिः कथमित्यत आह- विष्णुवैष्णवेति ॥ यथाह हारीतः-्रअ्रीकृतो महाभागैः महाभागवतैर्द्विजः। सर्वापचारैमुच्येत परां वृत्तिं च विन्दति ॥’
इति । तथाच पूर्वं बहुपापकरणेऽपि तस्य विष्णुवैष्णववाक्येन हानात् मध्ये कृतशुभकर्मणः स्वर्गप्राप्तिर्युज्यत इति भावः ॥॥ ॥ धर्मादिषु सारं पप्रच्छ ॥ क्षत्ता धर्मं सारं श्रेष्ठमाह ॥ अर्थं मध्यममिति ॥ अर्थकामयोर्बहुक्लेशसाध्यत्वात् सुखसाधनत्वाभावात् दुःखहेतुत्वाच्च अर्थकामयोर्मध्यमत्वं नीचत्वञ्चेति भावः । तथाचोक्तम्-
‘आध्यात्मिकादिभिर्दुःखैरविमुक्तस्य कर्हिचित् । मर्त्यस्य कृच्छ्रोपनतैरर्थैः कामैः क्रियेत किम् ॥
अर्थिभ्यः कालतः स्वस्मात् नित्यं प्राणार्थवद्भयम् । शोकमोहभयक्रोधरागक्लैब्यश्रमादयः ॥
यन्मूला स्युर्नृणां जह्यात् स्पृहांं प्राणार्थयोर्बुधः ॥’
इति भागवते (भाग.7.14.31-34)। अर्जुनः अर्थमेव सारमब्रवीत् ॥॥
धर्मस्य मध्यमत्वं अर्थस्योत्तमत्वं च कथमित्यत आह- साध्यमिति ॥ धर्मसाध्यम्। विद्याह्वयोऽर्थः चशब्दान्मानुषोऽर्थश्च धर्मस्य साधनम्। धर्मस्य ज्ञानपूर्वकस्य सत्पात्रदानादिसाध्यत्वात् । धर्मापेक्षया उभयार्थस्योत्तमत्वमिति भावः । मुक्तिसाधनत्वाच्च उत्तमत्वं अर्थस्यैवेत्याह- विद्ययेति ॥॥
ननु दैवरूपार्थस्य मुक्तिहेतुत्वेऽपि मानुषार्थस्य तन्नास्तीत्यतः साक्षाद्धेतुत्वाभावेऽपि तद्वारा तदस्तीत्याशयेनाह- मानुषोऽर्थ इति ॥ विद्याया अपि मुक्तेश्च कारणम् । ननूक्तरीत्या मानुषार्थस्य बहुक्लेषसाध्यत्वात् बहुक्लेशहेतुत्वाच्च कथं विद्याकरणत्वमित्यत आह- सुप्रयोजित इति ॥ सुप्रयोजितस्यार्थस्य कथं विद्यामुक्तिसाधनत्वमित्यत आह- तुष्टेति ॥ यस्मात्कारणात् कैवल्यमपि दातुं अलं समर्थो गुरुरर्थेन तुष्टो भवति तस्मादित्यर्थः । गुरुतुष्टिद्वारा ज्ञनमुक्तिसाधनत्वमिति भावः । यद्वा ननु ‘विद्यया विमुच्यते’ इत्युक्तम्। तत्र विद्यारूपार्थस्य कथं मुक्तिहेतुत्वमित्यत आह- अपीति ॥ अत्र अपिशब्देन देवताग्राह्या । तथाच ‘न तादृशी प्रीतिरीड्यस्य विष्णोः गुणोत्कर्षज्ञातरि यादृशी स्यात्’ इति श्रुतेः कैवल्यं दातुमलं समर्थो हरिः अर्थेन दैवार्थेन तुष्टो भवतीति विद्यारूपार्थस्य मुक्तिहेतुत्वमिति भावः ॥॥
ननु यथा उभयात्मकार्थस्य गुरुदेवतातुष्टिहेतुत्वं एवं धर्मस्यापि तदस्तीति तत्साम्यमेव न ततो न्यूनतेत्यत आह- धर्मार्थतामिति ॥ धर्म्रायोऽर्थः पुरुषार्थो धर्मार्थः । धर्मार्थ एव धर्मार्थता तामित्यर्थः । देवतेत्यत्र च स्वार्थे तल् । धर्मार्थतां धर्म्रायपरुषार्थं विनापि ऋतेऽपि अर्थैरुभयात्मकार्थैः गुरुदेवतास्तुष्येयुरिति धर्मस्यार्थवत् तुष्टिसाधतावश्यकत्वाभावेन नार्थसाम्यम् ।
‘अपि चेत्सुदुराचारो भजते मामनन्यभाक् । साधुरेव स मन्तव्यस्सम्यग्व्यवसितो हि सः॥’
‘न हि ज्ञानेन सदृशं पवित्रमिह विद्यते ॥’
इति भगवद्वचनादिति भावः । ननु
‘निष्कामं ज्ञानपूर्वं तु निवृत्तमिति चोच्यते । निवृत्तं सेवमानस्तु ब्रह्माभ्येति सनातनम् ॥’
इति मानववचनात् । ‘तत्कर्म हरितोषं यत्’ इति भागवतवचनाच्च निवृत्तकर्मणोऽपि मोक्षसाधनत्वमस्तीतित्यतो धर्मस्य अर्थसाम्यमेवेति न ततो न्यूनतेत्यत आह- यदीति ॥ अनुद्देशितः फलानुद्देशेन क्रियमाणो निवृत्तधर्मः अर्थमेवानुसंव्रजेत् । उभायात्मकमर्थमनुसरन्तीत्यर्थ। अयं भावः। निवृत्तकर्मकुर्वता यत्यादेरपि अन्नपानाद्यभावे देहयात्राया एवासम्भवेन तदर्थं अन्नपानात्मकमानुषरूपार्थापेक्षाया आवश्यकत्वेन निवृत्तकर्मणोऽपि मानुषार्थानुकृतित्वं तथा ज्ञानाभावेऽपि कर्मानुष्ठानायोगेन ‘यदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवति’ इति श्रुत्या ज्ञनपूर्वकस्यैव सफलत्वेन तद्रहितस्य निष्फलत्वेन निवृत्तकर्मणो ज्ञनरूपार्थनुवृत्तित्वञ्च । किञ्च अपरोक्षज्ञानात् प्राक्तननिवृत्तकर्मणो मोक्षसाधनत्वमुच्यते उत तदनन्तरभावि कर्मणो वा । नाद्यः । तस्य ज्ञानहेतुत्वात् ‘कर्मणा ज्ञानमातनोति’इति श्रुतेः । तथाच ज्ञनद्वारेणैवापरोक्षज्ञानात् प्राक्तननिवृत्तकर्मणो मोक्षसाधनत्वमित्यर्थसापेक्षत्वम् । द्धितीये तु तदनन्तरभावि कर्मणोऽपि उभयार्थानुसारित्वमस्त्येव तादृक्कर्मकुर्वतां शुकादीनामपि अन्नपानाद्यात्मकमानुषार्थसापेक्षत्वस्य द्वैपायनात् ज्ञनरूपार्थसापेक्षत्वस्य च दर्शनादिति । तथाचोक्तम्-
‘ततो गाण्डीवधन्वाह तत्वज्ञः प्रतिभानवान् । कृषिवाणिज्यगोरक्षाः शिल्पानि विविधानि च ॥
अर्थ इत्येव सर्वेषां धर्माणामप्युपक्रमः । (न ह्येतेऽर्थे )निवृत्तार्थे न वर्तेत धर्मकामाविति श्रुतिः ॥
अथसिद्ध्या विनिर्वृत्तौ उभावेतौ भविष्यतः । उद्गतार्थं हि पुरुषं विशिष्टतरयोनयः ॥
ब्रह्माणमिव भूतानि सततं पर्युपासते । जटाजिनधरा डम्भाः प’दिग्धा जितेन्द्रियाः ।
मुण्डा निस्तन्तवश्चापि वसन्त्यर्थार्थिनः पृथक् । अर्थार्थिन स्सन्ति केचिदपरे स्वर्गकाक्षिणः ॥
कुलप्रत्यागमाश्चैते स्वं स्वं धर्ममनुष्ठिताः ॥’
इत्यादि शान्तिपर्वणि (165.10-18)॥॥
उपसंहरति- गुरुतेति ॥ गुरुता श्रैष्ठ्यमित्यर्थः । अधस्ता अधम इत्यर्थः । निष्फलः फलाहेतुः विरुद्धफलहेतुश्च । तथाचोक्तम्- ‘कामानां हृद्यसंरोहं भवतस्तु वृणे वरम् । इन्द्रियाणि मनः प्राणा आत्मा धर्मो धृतिमर्र्तिः ॥
ह्रीश्रीस्तेजःस्मृतिःसत्वं येषां नश्यन्ति जन्मनः॥’
इति भागवते(7.10.8-9) । उभयात्मकार्थरहितस्येति भावः ॥ अर्जुनोक्तमिति ॥ अर्जुनोक्तमित्युपलक्षणम् । विदुरोक्तमपीति ग्राह्यम् । अनूचतुः अनुसृत्योचतुरित्यर्थः। धर्मं विना अर्थाभावात् अर्थं विना धर्माभावादित्युभयोरपि परस्प रसापेक्षत्वाद्धर्मार्थावुभावपि उत्तमावित्यूचतुरिति भावः । अन्वित्युपसर्गस्वारस्यात् । तथाचोक्तम्-
‘तथा धर्मार्थकुशलौ माद्रीपुत्रौ तदोचतुः । आसीनश्च शयानश्च विचरन्नपि वा स्थितः ॥
अर्थयोगं दृढं कुर्यात् योगैरुच्चावचैरपि । तस्मिंस्तु वै विनिर्वृत्ते दुर्लभे परमप्रिये ॥
इह कामानवाप्नोति प्रत्यक्षं नात्र संशयः । योऽर्थो धर्मेण संयुक्तो धर्मो यश्चार्थसंयुतः ॥
मध्योऽर्थो धर्मसंयुक्तः तस्मादेतौ मताविह । अनर्थस्य न कामोऽस्ति तथाऽर्थोऽधर्मिणः कुतः ॥
तस्मादुद्विजते लोको धर्मार्थाभ्यां बहिष्कृतात् । तस्माद्धर्मप्रधानेन साध्योऽर्थो संयतात्मना ॥
विष्वस्तेषु हि भूतेषु कल्पते सर्वमेव हि । धर्सं समाचरेत्पूर्वं ततोऽर्थं धर्मसंयुतम् ॥
ततः कामं चरेत्पश्चात् सिद्धार्थस्य महत्फलम् ॥’ इति शान्तिपर्वणि (165.21-27) ।
व्यासतीर्थास्तु ‘विद्य्रायार्थस्य धर्मादुत्तमत्वं कुतः इत्यत आह- साध्यमिति ॥ साधिते धर्मे सति विद्याजननादित्यर्थः । ‘साध्यं साधनमेव’ इति साधारणोक्तेः किं साध्यं साधनमिति न ज्ञायतेऽतो विवेकमाह- विद्येति ॥ उत्तमत्वे निमित्तान्तरमुक्तम्-विद्ययैवेति ॥ मानुषार्थस्य उत्तमधर्मादुत्तमत्वं कथमित्यत आह- मानुष इति ॥ कारणं अतिशयितम् । सुप्रयोजितस्यार्थस्य विद्याकारणत्वं कैमुत्यात् साधयति- तुष्ट इति ॥ नन्वर्थो विद्याकारणं सन् धर्ममुत्पाद्यैवातो नार्थो धर्मादधिक इत्यत आह-धर्मार्थतामिति ॥ धर्मार्थतां धर्मप्रयोजनतां धर्मद्वारेण विनेति । ननु साक्षाद्विद्य्रायतत्वज्ञानसाधनत्वं निष्कामधर्मस्याप्यस्ति अतः कथमधिको मानुषोऽर्थो धर्मादित्यत आह- यदिति ॥ अर्थमेव अनुसंव्रजेत् । ग्रासवसनाद्युत्पाद्यैव अर्थानुकूल्येन वर्तते। अधस्तादपकृष्टम् । तत्र हेतुर्निष्फलमिति’ इति व्याचक्षते । अनन्तभट्टारकास्तु ‘विद्य्रायार्थस्य धर्मादुत्तमत्वं कथमित्यत आह- साध्यमिति ॥ विद्याह्वयोऽर्थो धर्मस्य साध्यं फलं धर्मसाधने सति विद्याया जननात् । साध्यमिति सामान्ये नपुंसकम् । साधनञ्च विद्यापूर्वकमनुष्ठितेनैव कर्मणा धर्मजननात् । इतोऽपि विद्योत्तमेत्याह- विद्ययेति ॥ मानुषार्थस्य कथं धर्मादुत्तमत्वमित्यत आह- मानुषेति ॥ सुप्रयोजितार्थस्य विद्याकारणत्वं कैमुतिकन्यायेन दर्शयति- तुष्टेति ॥ अर्थेन तुष्टो गुरुः कैवल्यमपि दातुं अलं समर्थः । किमुत ज्ञानमिति भावः । ननु सुप्रयोजितार्थो धर्मजननेनैव विद्याकारणमतो नार्थो धर्मादधिक इत्यत आह- धर्मार्थतामिति ॥ धर्मप्रयोजनतां विनापि दत्तैरिति शेषः । ननु निष्कामकर्मजधर्मस्यापि विद्यासाधनत्वात् कथं धर्मान्मानुषोऽर्थो अधिक इत्यत आह- यदिति ॥ अनुद्देशितः फलोद्देशेनाकृतकर्मजनितो धर्मोऽप्यर्थमेवानुसंव्रजेत् । ग्रासवसनाद्युत्पाद्यैवार्थानुकूल्येनैव वर्तते’ इति व्यचक्षते ॥॥
काममात्रस्य नीचत्ववर्णनमसहमानो भीम आह- अथाहेति ॥ प्रवरः सुतत्वदृशामित्यनेन भीमशब्दार्थ उक्तो भवति । ‘द्वितीयमा सप्तशिवासु मातृषु’इति श्रुतेरिति ध्येयम् । स्मयन् मन्दस्मितं कुर्वन् कामादतिरिक्तं किञ्चिच्छुभं नास्ति । सः तादृशः कामः अवरतां नीचतां च कुतो यायात् ॥॥
ननु कामातिरिक्तं शुभं कुतो नास्तीत्यत आह- काम्यं हीति ॥ काम्यन्त इति व्युत्पत्त्या सर्वेषामपि पुरुषार्थानां कामशब्दवाच्यत्वेन कामातिरिक्तं शुभमेव नास्ति येन तस्य नीचता स्यादिति भावः । यद्वा ननु ‘कामोऽधस्ताद्धि निष्फलम्’ इति कामस्य नीचत्वं वर्णयतां कामशब्देन काम्यं वा इच्छा वा उच्यते इत्येवं द्विधा विकल्पं स’ल्प्य आद्यं प्रत्याह- काम्यमिति ॥ तथाच कामशब्देन काम्यं स्वीकृत्य तस्य नीचत्ववर्णनं न युक्तम् । साधनैस्सह सर्वपुरुषार्थानामपि काम्यत्वेन तेषामपि नीचत्वापत्तेरिति भावः । ननु काम्यत्वं दुःखस्याप्यस्ति इत्यतस्तस्याधमत्ववर्णनं युक्तमितिमन्दाश’ां आश”्याह- अकाम्यतामिति ॥ अपुमर्थं दुःखं अकाम्यतामेव याति । तथाच तस्य कामशब्दवाच्यत्वमेव नास्तीति भावः । धर्मादिपुरुषार्थचतुष्टयस्य पुरुषार्थशब्दवाच्यत्वपर्यालोचनयापि तस्यैव काम्यत्वमित्याशयेनाह- पुमर्थितत्वादिति ॥॥
किञ्च विज्ञानभक्त्यादेरपि मोक्षसाधनत्वेन हरेरपि मोक्षाद्यशेषपुरुषार्थदातृत्वेन मोक्षस्यापि परमपुरुषार्थत्वेन काम्यत्वात् काम्यमात्रस्याधमत्वे विज्ञानभक्त्यादेरपि काम्यतैव न स्यादित्याह- विज्ञानेत्यादिना ॥॥
ननु भगवतः काम्यत्वमेव नास्तीत्यत आह- अकामित इति ॥ कामादतिरिक्तं शुभं नास्तीत्येवमर्थमुपसंहरति- तेनेति ॥ तेन कारणेन काम एव अखिलपुमर्थः। कामातिरिक्तः पुमर्थ एव नास्तीत्यतः काम्यस्याधमत्ववर्णनं अनुचितमिति भावः॥।
द्वितीयं प्रत्याह- इच्छेति ॥ घटकुड्यवदिति व्यतिरेकदृष्टान्तः ॥ स इति ॥ काम इति शेषः । ननु परमे मुक्ताविच्छाया अभावस्वीकारात् इच्छाया अभावे तु चित्त्वमेव न स्यादिति कथमुच्यते इत्यत आह- चिदात्मिकेति ॥ तथाच जडेच्छाया परममुक्तावभावेऽपि चेतनात्मिकायाः सत्वेन न कश्चिद्दोष इति भावः ॥॥
धर्मार्थयुक्तः विष्णुपञ्चकैकादश्युपवासादिकामः । यद्येका विरोधी तर्हि स मध्यमः धर्माविरोध्यर्थाविरोधीष्टापूर्तादिकामः यथेति भावः । द्वयोर्विरोधि वेश्यागमनाद्यवैष्णवदानादिकाम इति भावः । ननु काम्यते इति व्युत्पत्त्या कामशब्देन भोगो गृह्यते । तस्य चाधमत्वमुच्यते इत्याश’ां उपसंहरन् परिहरति- तस्मादिति ॥
केचित्तु ‘कामोऽधस्ताद्धि’ इत्युक्तं तत्र काम्यं कामः सः अधम इति वा कामनं काम इच्छति वा अथवा स्त्रीभोग इति विकल्पान् हृदि निधाय न तावत्प्रथम इत्याह- अथाहेति ॥ कामात् काम्यात् अतिरिक्तं शुभं उपादेयं नास्ति क्व सर्वस्यापि शुभस्य काम्यत्वेन कथं सोऽवरतां यायात् । उक्तं विवृणोति- काम्यं हीति ॥ साधनै पुरुषार्थसाधनैस्सह यद्यस्मात् पुमर्थाः काम्या अतस्तस्य अधमत्ववर्णनमयुक्तमित्यर्थः । पुमर्थः काम्य इत्युक्तं तद्विवेचयति- अकाम्यतामिति ॥ अपुमर्थः दुःखं तत्साधनञ्च । अपुमर्थत्वं दुःखतत्साधनयोः कथमित्यतः पुमर्थस्वरूपं निरूपयति- पुमर्थत्वादिति ॥ अतो दुःखतत्साधनयोः न पुमर्थत्वमिति शेषः । काम्य्राय कामस्याधमत्वेन ससाधनस्य मोक्षस्य विष्णोरप्यप्युपेक्ष्यत्वप्रस्र इत्याह-विज्ञानेत्यादिना ॥ अथवा न केवलं धर्मार्थकामास्तत्साधनं च कामः किन्तु मोक्षस्तत्साधनं भगवांश्चेत्याह- विज्ञानेति ॥ अतीव काम्यं मोक्षश्चेति शेषः । कुतो ज्ञानादेः काम्यत्वमित्याश”्य साधयति- कामबहिष्कृतमिति ॥ न साधनमिति ॥ अकाम्यस्य साधनत्वायोगादिति भावः । तेन अखिलपुमर्थः काम एवातोऽधमः कामः अर्थश्चाधिकः इत्युक्तिरयुक्तेत्यर्थः । द्वितीयं पक्षं निरस्यति- इच्छेति ॥ तदिच्छयैव कामस्तर्ह्यस्तु तथापि तस्यापकृष्टत्ववर्णनं अयुक्तमित्यर्थः । कुतोऽयुक्तमित्यतः स्वयं पुरुषाथार्जनसाधनहेतुभूतज्ञानव्याप्तत्वादधिकेत्याह- नैतामिति ॥ कथं चिद्व्याप्तत्वं इच्छाया इत्यतोऽन्वयव्याप्तेः स्फुटत्वाद्व्यतिरेकव्याप्त्यन्तरमाह- घटकुड्यवदिति ॥ नन्विच्छा चेतनात्मिका चेत् कथं कदाचिदनुपलब्धिरित्यत आह- चिदात्मिकेति ॥ यद्यपि इच्छा चिदात्मिका तथाप्यचेतना गूढतनुः अविद्यागूढतनुः तेन कदाचिन्नोपलभ्यते इति भावः । तदिच्छात्मककामाधिक्यस्य सिद्धत्वेन धर्मः अर्थः कामो वा श्रेयानिति कामः पृथक्प्रश्नयोग्यो न भवतीत्याह - न प्रश्नेति ॥ एष इच्छालक्षणः कामः। इच्छालक्षणकामतारतम्यमाह- राजन्निति ॥ अयं इच्छात्मककामः ते त्रिविधो वेद्यः धर्मार्थयुक्तः धर्मार्थाविरुद्धः यथैकादश्युपवासादि । एकाविरोधि धर्मार्थयोरन्यतरस्य विरोधीत्यर्थः । यथा दानं अर्थविरोधि धर्माविरोधि अर्थाविरोधि यथा च निन्दितप्रभुसेवनं धर्मविरोधि । द्वयोर्विरोधी यथा विष्णुवैष्णवनिन्दकाय धनादिदानम् । एवमिच्छात्मककामस्य आधिक्यं प्रसाद्य स्त्रीभोग्रायकामो धर्म इति मन्वानः कथं तर्हि तस्याधमत्वे प्रमदास्वीकारविधिरित्यतः तस्य पुत्रार्थत्वात् न विरोधः । अर्थान्तरञ्चाह- पर इति ॥ परो हरिः काम एव । तेन कारणेन कामादपरं शुभं नास्तीत्यर्थः’ इत्याहुः ।
अपरे तु ‘कामोऽधिक इत्युक्तं तत्समर्थयन् तत्र काम्यः कामः पुरुषार्थो अधमः उत कामनं कामः इच्छा वा कामः स्त्रीभोगो अधम इति विकल्पान् हृदि निधाय तावत्प्रथमपक्षं उपपादयति- काम्यमिति ॥ काम्यः कामो अस्तु तथाच किमित्यत उक्तसाधनैः सह पुमर्थः काम्य इति ये पुमर्थसाधनैस्सह काम्या अतः प्रथमपक्षो न युक्तः ‘पुमर्थास्साधनैस्सह काम्या’ इत्युक्तम् । तदेव विशदयति- अकाम्यतामिति ॥ अपुमर्थो दुःखं तत्साधनञ्च । अपुमर्थत्वं दुःखतत्साधनयोरनुभवसिद्धमित्यतः पुमर्थस्वरूपं निरूपयति- पुमर्थत्वादिति ॥ दुःखतत्साधनयोः अपुमर्थत्वादकाम्यत्वमिति शेषः । न केवलं धर्मार्थकामास्तत्साधनानि च कामः किन्तु मोक्षस्तत्साधनं भगवांश्चेत्याह- विज्ञानेति ॥ अतीवकाम्यं मोक्षश्चेति शेषः । कुतो ज्ञानादेः काम्यत्वमित्याश”्य साधयति- कामबहिष्कृतमित्यादिना ॥ अकाम्यत्वे साधनत्वायोगादिति शेषः । काम्यात् कामत्वात् । तेन अखिलोऽपि पुमर्थः काम एव अतो अधमः कामः अधिकोऽर्थ इत्युक्तिरयुक्तेत्यर्थः । कामः कामनमिच्छा अप्रकृष्टेति द्वितीयं पक्षमुत्थाप्य तस्यापकृष्टत्ववर्णनं अयुक्तमित्याह- इच्छेति ॥ यदीच्छैव कामस्तर्ह्यस्तु तथापि तस्यापकृष्टत्ववर्णनमयुक्तमित्यर्थः । कुतो न युक्तमित्यतः स्वयं पुरुषार्थार्जनसाधनत्वेन पुरुषार्थजननहेतुभूतज्ञानव्याप्तत्वादित्याह - नैतामृतेति ॥ कथं चिद्व्याप्तत्वं इच्छाया इत्यतोऽन्वयव्याप्तेः स्फुटत्वाद्व्यतिरेकव्याप्तिस्थलमाह- घटकुड्यवदिति ॥ अथवा कुत इच्छ्रायकामस्य धर्मादिपुरुषार्थ्रायमित्यतो भोक्तृवर्गप्रविष्टत्वादिति भावेन भोक्तृवर्गप्रविष्टत्वमुपपादयति-चित्तमिति ॥ भोजनान्वयव्यतिरेकाभ्यां पूर्ववत् इच्छायाः भोक्तृवर्गप्रवेशादात्मत्वं न । नन्विच्छा चेतनात्मिका चेत् कथं कदाचिदनुपलब्धिरित्यत आह- चिदात्मिकेति ॥ यद्यपि इच्छा चिदात्मिका तथाप्यचेतना गूढतनुः अविद्यागूढतनुः तेन कदाचिन्नोपलभ्यते इत्यर्थः । काम्य इति पक्षे अखिलस्यापि पुरुषार्थस्य कामत्वादर्थस्य आधिक्यवर्णनं कामस्याधमत्ववर्णनञ्चायुक्तमित्युक्तम्। तस्मिन्पक्षे त्रिषु पुरुषार्थेषु कः श्रेयानिति प्रश्नश्चायुक्तमित्याह- तेनेति ॥ तेन सर्वस्य पुरुषार्थस्य काम्यत्वेन अथवा इच्छात्मककामस्याधिक्यस्यसिद्धत्वेन कारणेन धर्मोऽर्थ कामो वा श्रेयानिति पृथक्प्रश्नयोग्यो नैव । नन्विच्छात्मक श्रेष्ठ इति तत्र किं मानमिति जिज्ञासायां विशेषमाह- राजन्निति ॥’ इत्याहुः ।
अन्येतु ‘यथाह’ इत्यादिना स्वविवक्षितप्रमेयस्यैव प्रामाणिकत्वम्मन्यमानाः आहेति सूचितं हर्षादिति अतः स्मयन्निति चोक्तम् । कामादतिरिक्तं किञ्चिच्छुभं उत्तमं नास्ति कामोऽवरतां कथं यायात् । कामशब्दार्थकथनपूर्वकं कामस्योत्तमत्वं साधयति- काम्यमिति ॥ काम्यन्ते इति कामाः इति निरुक्त्या धर्मादीनामेव कामत्वात् कामावरत्ववर्णनमनुपपन्नमिति भावः । तर्ह्यकाम्यं किमित्यपेक्षायामाह- अकाम्यतामिति ॥ धर्मादीनां काम्यत्वात् कामत्वं कथमित्यतः तदभिधायकपुमर्थशब्दनिरुक्त्या सिद्धमित्यभिप्रायेण तन्निर्वक्ति- पुमर्थितत्वादिति ॥ न केवलं पुमर्थानामेव कामत्वं तत्साधनानामपि कामत्वमस्तीत्याह- विज्ञानेति ॥ अनेन ‘पुमर्थास्साधनैस्सह काम्या’ इत्युक्तमुपपादितं भवति । न केवलं धर्मादयः काम्याः किन्तु तत्सम्पादको हरिरपि काम्य इत्याह- परात्पर इति ॥ इतरेषां पुरुषार्थानाम् । इदानीं कामनं काम इच्छा वा कामशब्देनाभिधीयते इत्यभिप्रेत्यापि कामस्योत्तमत्वमाह- इच्छैवेति ॥ तथापि काम एव उत्तम इति शेषः । कथमित्यस्तदुपपादयति- नेत्यादिना ॥ एतामिच्छामृते चित्त्वं चेतनत्वं न सम्भवति जीवस्येति शेषः । किन्तु घटकुड्यवदचेतनत्वमिति शेषः । इच्छाभावे जीवस्याचेतनत्वापत्तेः इच्छायाश्च सर्वपुरुषाथर्र्मूलत्वात् सैवेच्छैवोत्तमतां यायात् । इच्छां विभजते- चिदात्मिकेति ॥ चिदात्मिका चेतनस्वरूपा । अपिशब्दादचेतनान्तःकरणरुपाचेति द्विविधेति भावः । तत्र चेतनेच्छास्वरूपमाह- सेति ॥ स्वरूपभूता सा इच्छा सदैव आमुक्तेः गूढतनुरविद्यावृतस्वरूपा मुक्तौवाविर्भूता। चेतनाचेतनान्तःकरणरूपा सेच्छा सदैव मोक्षात्पूर्वं संसारदशायां सा गूढतनुः अभिभूतरुपा मुक्तिदशायां नास्त्येवेति तत्वम्’ इत्याहुः ।
अत्र स्वबुद्धिप्रमदाभिरित्यनेन कामशब्देन भोगमात्रं स्वीकृत्य तस्य निषेधे स्वबुध्या स्वस्त्रिया च रमणं निषिध्येत । न च तद्युज्यते । धिया रमणस्य विहितकाले स्वस्त्रीरमणस्य च विधायकशास्त्राप्रामाण्यापातादिति बाधकं सूचयति इति ध्येयम् ॥॥
॥ प्राज्ञ इति ॥ चन्दसारलिप्त इत्यनेन विचित्रमाल्याभरणैरुपेत इत्यनेन च निषिद्धभोगस्य त्याज्यत्वेऽपि विहितभोगस्त्वावश्यक एव ‘अनिषिद्धसुखत्यागे पशुरेव न संशयः’ इति वचनात् । अतः कामशब्देन भोगमात्रं स्वीकृत्य तस्याधमत्ववर्णनं अनुचितमिति सूचयति । तथाचोक्तम्-
‘भीमसेनस्ततो वाक्यं इदं वक्तुं प्रचक्रमे । नाकामो कामयत्यर्थं नाकामो धर्ममिच्छति ॥
नाकामः कामयानोऽस्ति तस्मात्कामो विशिष्यते । कामानुयुक्ता ऋषयः तपश्चैव समास्थिताः ॥
स उत्तमो जनिरतः प्रसर्गे विभाव्यमानं परिशेष्यमाणः ।
प्राज्ञस्सुहृच्चन्दनसारलिप्तो विचित्रमाल्याभरणैरुपेतः॥
ततो वचस्स्र्रहविस्तरेण प्रोक्त्वा स भीमो विरराम राजन् ॥’
इति शान्तिपर्वणि (166.28-41) । वीर इत्यनेन विदुरादिवद्गृहीतपक्षसमर्थनासमर्थो नेति सूचयति । आरब्धान्तगामित्वस्यैव वीरत्वादिति ।
इत्यशेषेतिहासादि मन्वादिवचनान्यपि । आलोच्येकोऽनत्रिंशोऽध्यायः सम्प्रकाशितः ।
यद्यप्येवं तत्र तत्र व्य्रायातुं शक्यतेऽथ च । गन्थविस्तभीत्यैव न व्य्रायातमितिस्थितिः ॥
॥
इत्यशेषेतिहासादि मन्वादिवचनान्यपि । आलोच्येकोऽनत्रिंशोऽध्यायः सम्प्रकाशितः ।
यद्यप्येवं तत्र तत्र व्य्रायातुं शक्यतेऽथ च । गन्थविस्तभीत्यैव न व्य्रायातमितिस्थितिः ॥
॥इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येणमधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणस्र्रहे एकोऽनत्रिंशोऽध्यायः॥
॥ अथ त्रिंशोऽध्यायः ॥
॥ गोव्रतादीति ॥ गोमूत्रनिक्षिप्तधान्याद्यन्नभोजनादिलक्षणगौव्रतैरित्यर्थः । यद्वा गोनिगीर्णधान्यकृतान्नभोजनादिगोव्रतैः इत्यर्थः॥॥
कश्चिदर्थी विमुखो न इत्युक्ते सर्वेषामपि दाता इत्युक्तस्स्यात्। नच तद्युज्यते। ‘अवैष्णवाय दातव्यो नोदबिन्दुर्न तण्डुलम्’
इत्याद्यवैष्णवदानस्य निन्दितत्वात् इत्यत आह- योग्य इति॥॥
सुव्यक्तसारस्वतशुद्धभावा सरस्वत्याः भारत्याः सम्बन्धी सारस्वतः। ‘ब्राह्मी तु भारती भाषा गीर्वाग्वाणी सरस्वती’ इत्यमरः। सुव्यक्तः सम्यक् प्रकटितः सारस्वतः शुद्धो भावो यस्याः सा तादृशेत्यर्थः। अनन्ययोगेन धूमसम्बन्धाभावेन वेेः शिखेव ज्वालेव कृष्णा च अनन्ययोगेन धर्मार्जुनाद्यन्यसम्बन्धाभावेन रराज ॥॥
विज्ञानयुजा विज्ञानं नाम धर्मानुकूल्येन चतुर्दशविद्यार्थधारणमित्यर्थः ।
‘चतुर्दशानां विद्यानां धारणं हि यथार्थतः । विज्ञानमिति तद्विद्याद्येन धर्मो विवर्धते ॥’
इति कौर्मोक्तेः (2.15.32)।
‘अ्रानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्येताश्चतुर्दश॥’
इति शान्तिपर्ववचनाच्चतुर्दशविद्या ज्ञेयाः ॥॥
भीमस्य द्रौपदीकाल्यतिरिक्ताः बाह्यः स्त्रियः सन्तीत्याह- सर्वोत्त्रु इत्यादिना ॥ प्राणवायोरंशः अपानो नामतः सर्वोत्त्रुः निशायां गुरुपुत्रसूदितः । अस्य माता देवी देवीसञ्ज्ञा भीमप्रिया भीमभार्या रौहिणेयी रोहिणीपुत्री । सा पूर्वं का इत्यत आह- येति ॥ या पुरा पूर्वमपि राका राकासञ्ज्ञा भीमप्रिया सेति सम्बन्धः ॥॥
वासुदेव्यः वसुदेवपुत्र्यः ॥॥
अग्रभुवः ज्येष्ठस्य ॥॥
सचन्द्रिकाकान्तिः चन्द्रिक्रायकान्त्य्रायभार्याभ्याञ्च सहितः अनूनबिम्बः पूर्णमण्डलः नभस्थितश्चन्द्र इव सुभद्राचित्र्रादसहितोऽर्जुनश्च अत्यरोचत ॥॥
दुर्मर्षणशुभ्रसद्मनि श्रेष्ठगृहे इत्यर्थः ।
‘दुर्मर्षणस्य भवनं दुःशासनगृहाद्वरम् । कुबेरभवनप्र्रयं मणिहेमविभूषितम् ॥’
इति शान्तिपर्वोक्तेः(43-10) ।
॥ अनास्पृष्टसमस्ततापा इति ॥ आध्यात्मिकाधिभौतिकाधिदैविक्रायतापत्रयस्य स्पर्शरहिता इत्यर्थः । तथाचोक्तम्-
‘आध्यात्मिकादि मैत्रेय ज्ञत्वा तापत्रयं बुधः । उत्पन्नज्ञानवैराग्यः प्राप्नोत्यात्यन्तिकं लयम् ॥
आध्यात्मिको वै द्विविधो शारीरो मानसस्तथा । शारीरो बहुभिर्भेदैः भिद्यते श्रूयतां च सः ॥
शिरोरोगप्रतिश्यायज्वरशूलभगन्दरैः । गुल्मार्शः श्वयथुश्वासच्छर्द्यादिभिरनेकधा ॥
तथाक्षिरोगातीसारकुष्ठ्राामयसञ्ज्ञितैः । भिद्यते देहजस्तापो मानसं श्रोतुमर्हसि ॥
कामक्रोधभयद्वेषलोभमोहविषादजः । शोकासूयावमानेर्ष्यामात्सर्यादिमयस्तथा ॥
मानसोऽपि द्विजश्रेष्ठ तापो भवति नैकधा । इत्येवमादिभिर्भेदैः तापो ह्याध्यात्मिकः स्मृतः ॥
मृगपक्षिमनुष्याद्यैः पिशाचोरगराक्षसैः । सरीसृपाद्यैश्च नृणां जायते चाधिभौतिकः ॥
शीतवातोष्णवर्षाम्बु वैद्युतादिसमुद्भवः । तापो द्विजवरश्रेष्ठैः कथ्यते चाधिदैविकः॥’
इति विष्णुपुराणे (6.5.1-8) ।
॥ ससरस्वतीका ॥ सवेदा अब्दाब्धिनद्यः । अब्दाः मेघविशेषाः । अब्धयः समुद्राः । नद्यः ताम्रपर्ण्याद्याः । ‘अब्दस्संवत्सरे मेघे’ इति नानार्थरत्नमालायाम् ॥॥
कृष्णप्रसूता कृष्णाभ्यां व्यासकृष्णाभ्यां जाता ॥॥
॥ कलिर्बलिरिति ॥ कलिर्दुर्योधनपदप्राप्तादन्यः बलिः साल्वपदं प्राप्तादन्यः । वैरोचनादन्यः । नतु दुर्योधनपदं गतः कलिः साल्वपदं गतो बलिश्च । ब्रह्मण एकैकस्मिन्दिने एकैककल्यादीनां तमःप्रवेशस्योक्तत्वेन दुर्योधनादिपदं प्राप्तानां कलिबल्यादीनां तमसिप्रविष्टत्वेन तेषां भूमौ पुनरागमनायोगादिति । ‘बलिः वैरोचनिः’ इति वेद्रातीर्थीयव्य्रायानं चिन्त्यमिति ध्येयम् ॥॥
अस्मत्सन्ततेः परमनन्तरमित्यर्थः ॥॥
अखिलान् धर्मान् विवलुम्पयसि । तत्राप्यस्मत्सन्ततेः परं सकलधर्मलोपदशायामपि नः करं बलिं अर्पय । किं करो अर्पणीय इत्यत आह- सीमाधीति ॥ आधिः सुवर्णादिबन्धकम् । ‘आधिः स्थानेचित्तदुःखे व्यसनं बन्धकेऽपि च’ इति नानार्थरत्नमालायाम् । तुलामाने
‘तुला उन्मानसाधानं मानं प्रस्थादिक्तम्। तुला राशौ पलशते सामेप्युन्मानसाधने ॥
मानं प्रमाणे प्रस्थादौ भक्तेन्नं भक्षिते त्रिषु ॥’
इति नानार्थरत्नमालायाम् ॥॥
समुद्रस्य पारे शुद्धोदकसमुद्रतीर इत्यर्थः ॥॥
॥ त्रिधेति ॥ तथाचोक्तम्-
‘श्रद्धास्वरूपं जीवस्य तस्मात् श्रद्धाविभेदतः । उत्तमाधममध्यास्तु जीवा ज्ञेया पृथक्पृथक् ॥
स्वरूपभूता श्रद्धैव तमोगानां च मोक्षिणाम् । शिष्यते संसृतिस्थानां श्रद्धारूपं मनोऽपरम् ॥
तत्र स्वरूपश्रद्धैव व्यज्यते प्रायशः क्वचित् । सात्विकस्य तमोरूपा श्रद्धान्तःकरणात्मिका ॥
सात्विकी तामसस्यापि भूयस्त्वात्तद्विविच्यते । श्रद्धेत्यास्तिक्यनिष्ठोक्ता सा येषां देवतोत्तमे ॥
विष्णौ तद्भक्तबुद्ध्यैव रमाब्रह्मादिकेषु च । ते सात्विका इति ज्ञेयास्तैरिष्टं विष्णुरेव तु ॥
श्रीश्च साध्यक्षविद्य्राया ब्रह्मेन्द्राद्याश्च देवताः । विबुधत्वात्तु मन्व्राया भुञ्जते प्रीतिपूर्वकम् ॥
व्यामिश्रयाजिनो ये तु विष्ण्वाधिक्ये ससंशयाः । स्वरूपमात्रे देवानां श्रद्धायुक्ताश्च सर्वदा ॥
राजसास्ते तु विज्ञेयास्तैरिष्टं यक्षराक्षसाः। दीनत्वाद्देवनामानो ब्रह्मेन्द्रादिसनामकाः ॥
गृह्णन्ति ये हरिं त्वन्यदेवादिसममेवतु । नीचं ब्रह्माद्यनन्यं वा मन्यन्ते नेति चाखिलम् ॥
तत्तच्छ्रद्धायुतास्ते तु तामसाः परिकीर्तिताः । भूतप्रेतास्तु तैरिष्टं शिवस्कन्दादिनामकाः ॥
साक्षाच्छिवपरीवारा भुञ्जते ह्यतितामसाः । मोक्षः सा’ल्पिकः स्वर्गो भूतादित्वं फलं क्रमात् ॥
त्यक्त्वाऽपि शास्त्रविहितं मिथ्याज्ञनविवर्जिताः । भक्त्या विष्णुं यजन्ते ये निषिद्धचरणोज्झिताः ॥
तेऽपि यान्ति हरिं शास्त्रविधानस्थाः कुतः पुनः । अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः ॥
दम्भाह’ारसंयुक्ताः कामरागबलान्विताः । अकृषानपि लक्ष्म्यादीन् देवान् विष्णु परायणान् ॥
विष्णुञ्च सर्वदेहस्थं कृषत्वेन विजानते । तेषामल्पगुणत्वेन कल्पनात्ते तमो ध्रुवम् ॥
यान्ति ज्ञेयाश्च ते दैत्याः पिशाचा वाथ राक्षसाः । अन्नैश्च वाथ यज्ञाद्यैः प्रायो ज्ञेया इमे नराः ॥
सात्विकाः सात्विकान् कुर्युर्यस्मादन्ये तथेतरान् ॥’
इति गीतातात्पर्यनिर्णये (17अ)।
॥ ल्रिैरिति ॥ ल्रिैश्शमदमादिगुणैरित्यर्थः।
‘अधिकाश्चेद्गुणाः शूद्रे ब्राह्मणादिस्स उच्यते । ब्राह्मणोऽप्यल्पगुणकः शूद्र एवेति कीर्तितः ॥
नरोऽपि यो देवगुणो ज्ञेयो देवो नृतां गतः ॥’
इति गीतातात्पर्यनिर्णयोक्तेः (18अ) ॥॥
पार्थ एवमाद्यनुशास्य पुनर्हस्तिनपुरं प्राप्य पार्थैः सुसत्कृतः ॥॥
॥ वधमन्तरितं सूनोरिति ॥ अन्तरितं अतिक्रान्तं अभिमन्युवधश्रवणेन स्वपितुर्दुःखं मा भूदित्याशयेन कृष्णेनाभिमन्युवधो नोक्त इति भावः । तथाचोक्तम्-
अभिमन्योर्वधं वीर सोत्यक्रमत भारत । अप्रियं वसुदेवस्य माभूदिति महामनाः ॥
मा दौहित्रवधं श्रुत्वा वसुदेवो महात्ययम् । दुःखशोकाभिसन्ततप्तो भवेदिति महामतिः॥’
इत्यादि अश्वमेधपर्वणि (61.2-3)॥॥
मेरुश्र्रुेण स्रतं हिमवतः श्र्रुं यत्रास्ति । यज्ञनाम्ना हरिणा पूर्वं सृष्टं मेरुश्र्रुमुद्धृत्य हिमवति निक्षिप्तमित्यर्थः ॥॥
॥ उदकार्थिन इति ॥ मरुभूमिस्थत्वात्वादुदकार्थित्वम् । तदेतदश्वमेधपर्वणि द्रष्टव्यमिति भावः ॥॥
आत्मना गर्भे रक्षितं प्रसवे प्रसवकाले प्रत्यक्षं सर्वजनसमक्षं हतं मृतं शिशुं केशवः पार्थतन्तवे सन्तत्यै प्रत्यक्षं सर्वजनसमक्षं पुनरुज्जीवयामास । गर्भे उज्जीवनापेक्षया पुनरिति । ननु कृष्णेन गर्भे रक्षितस्य प्रसवकाले मृतिः किमर्थमभूदिति चेत् । उच्यते । गर्भे स्वकृतरक्षणस्य कैरप्यज्ञातत्वेन सर्वेषां गर्भकृतरक्षणस्य सामर्थ्यप्रकटनाय ब्रह्मास्त्रस्यामोघत्वसन्दर्शनाय च कृष्णेनप्रसवकाले उपेक्षितत्वेन शिशोः प्रसवकाले मृतिरभूदिति । तथाचोक्तम्- कृष्णेनाश्वत्थामानं प्रति ।
‘अमोघः परमास्त्रस्य पातस्तस्य भविष्यति । स तु गर्भमृतो जातः दीर्घमायुरवाप्स्यति ॥’
इति सौषुप्तिकपर्वणि (15.40-41) ।
॥ अयुध्यन्तमुलूपिका इति ॥ नागलोकादागत्येति शेषः । तथाचोक्तम्-
‘तमेवमुक्तं भर्त्रा च विदित्वा पन्नगात्मजा । अमृष्यमाणा भित्वोर्वीं उलूपी तमुपागमत् ॥
सा ददर्श ततः पुत्रं विमृशन्तमधोमुखम् । सन्तप्यमानामसकृत्पित्रा युद्धार्थिना विभो ॥
ततः सा चारु सर्व्राी तमुपेत्योरगात्मजा । उलूपी प्राह वचनं क्षत्रधर्मे विशारदम् ॥’
इत्यश्वमेधपर्वणि(79.8-10) ।
तन्माता तस्य बभ्रुवाहनस्य माता चित्र्रादा ।
॥ भीष्माद्या नातिधर्मत इति ॥ ननु भीष्मादयो अर्जुनेन धर्मेणैव निहताः ।्रपापञ्च पापानुगञ्च हत्वा कथञ्चनाप्यस्ति नचैव पापः’ ‘अपापे पापशि’त्वादश्वमेधैर्यजाच्युतम् ’ इति भगवदुक्तेः । अतो भीष्माद्या नातिधर्मतो हताः इति सुरैः कथमुक्तमिति चेत् । उच्यते । भीष्मादिषु स्नेहवशेन तैस्तथोक्तम् । तद्यथा दौर्योधनस्नेहात् बलभद्रद्रौण्यादिभिर्दुर्योधनोऽधर्मेण हतः इत्युक्तमिति ॥॥
॥ भुक्तदोषफल इति ॥ एतत्प्रारब्धकर्मानुभवाभिप्रायेण भुक्तदोषफल इत्युक्तम् । नत्वयं पराजयो भीष्मादिवधजपापनिमित्तकः। उक्तरीत्या भीष्मादिवधस्य पापसाधनत्वाभावात् । नारायणद्विट्तदनुबन्धिनिग्रहो नॄणां परमो धर्म इत्युक्तत्वात् । अपरोक्षज्ञानिनां स्वोत्तमद्रोहं विना अपरोक्षज्ञानानन्तरकृतपुण्यपापलेपाभावाच्च ।
‘यदा पश्यः पश्यते ऋक्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति ॥’
इति श्रुतेः । ‘तदधिगम उत्तरपूर्वाघयोरश्लेषविनाशौ तद्व्यपदेश्च’ इति सूचनाच्च ॥ पुनर्भोक्ष्यति नान्यत इति ॥ एतादृशप्रारब्धं पुनर्न भोक्ष्यति नष्टत्वादिति भावः।
॥ दीर्घपिण्डक इति ॥ दीर्घे पिण्डके देहशिरसि यस्य स तथोक्तः । दीर्घदेहो दीर्घशिरस्कश्च इत्यर्थः । ‘पिण्डो वपुषि निपाते गालेऽप्यथ पिण्डमयसि गर्भशिशौ’ इति नानार्थरत्नमालायाम् ।
‘स्रातग्रासयोः पिण्डो द्वयोः पुंसि कलेवरे । मारुते वेदसि ब्रध्ने पुंसि कः कं शिरोम्बुनोः॥’ इत्यमरः ।
‘परकायं विशन् सिद्ध आत्मानं तत्र भावयेत् । पिण्डं हित्वा विशेत्प्राणो वायुभू षड्रि्रवत् ॥’
इति भागवतेऽपि देहे पिण्डशब्दप्रयोगात् ॥॥
॥ उदरस्य किञ्चिदाधिक्यमिति ॥ किञ्चिदुदराधिक्यस्य देहशिरोदैर्घ्यज्ञापकस्य वक्ष्यमाणत्वाच्च । अनन्तभट्टारकास्तु ‘दीर्घपिण्डिकः दीर्घपार्ष्णिक’ इति व्यचक्षते । तच्चिन्त्यम् । उक्तमानविरोधात् ॥॥
(पुत्रभुवां पौत्राणाम् ।)
ततोऽपि श्रियोऽपि सकाशात् व्यासादिरूपिणो विष्णोः ल्रिं लक्षणं परं उत्तमं अनन्तमिति यावत् । ननु नारायणमारभ्य सरस्वतीपर्यन्तं द्वात्रिंशल्लक्षणानां समत्वेन विष्णोर्लक्ष्म्यपेक्षया लक्षणमधिकमिति कथम् । न चात्र मानाभावः
‘द्वात्रिंशल्लक्षणैः सम्यग्युक्ता वायुत्वयोग्यकाः । नियमेनैव विष्णोस्तु प्रादुर्भावा विशेषतः ॥
सहस्रारेण चक्रेण चििेता दक्षिणे करे । गदयाष्टास्रया चैव शतावर्तेन कम्बुना ॥
वामे करे तथाब्जेन सहस्रदलशोभिना ।अष्टाविंशल्लक्षणाश्च गिरीशपदयोगिनः।
चतुर्विंशतिमारभ्य षोडशादासुरा स्मृताः। आऽष्टकादृषयः प्रोक्तास्तदूनाश्चक्रवर्तिनः ॥’
इति वचनात् (बृहद्.3.उद्गीथब्राह्मणम्)इति चेदुच्यते । भगवतोऽनन्तान्येव लक्षणानि ‘नियमेनैव विष्णोस्तु प्रादुर्भावा विशेषतः’ इति विशेषपदप्रयोगाच्च ॥॥
ननु यज्ञपञ्चकं समाप्येति कथमुच्यते युधिष्ठिरेण कृतस्य अश्वमेधस्य एकत्वात् । न चात्र मानाभावः ‘तुर्रं तं यथा शस्त्रमालभेत द्विजातयः’ इत्यश्वमेधे (अश्वमेधिकपर्व90.1) अश्वस्य एकस्योक्ततया तद्द्रव्यस्य क्रतोरप्येकत्वावगमादित्यत आह- त्रिगुणां सदक्षिणामिति ॥ तथाच एकाश्वमेधस्य यावती दक्षिणा विहिता ततोऽपि पञ्चपाण्डवैः मिलित्वैकैकेन त्रिगुणदक्षिणादानात् एकैकस्य एकैकाश्वमेधलाभात् यज्ञपञ्चकमित्युक्तेः । यदि तर्हि ‘अयाजयद्धर्मसुतं अश्वमेधैस्त्रिभिर्विभुः’ इति तृतीयस्कन्धे ‘तेन सम्भृतसम्भारो लब्धकामो युधिष्ठिरः । वाजिमेधैस्त्रिभिराजा यज्ञेशमयजद्धरिम् ॥’
इति प्रथमस्कन्धेऽपि धर्मजेन अश्वमेधत्रयं कृतमिति कथमुच्यते इत्यत आह- त्रयमेकमेकमिति ॥ एकैकेन त्रिगुणदक्षिणादानादेः वा एकैकेन लब्धस्यापि एकैकस्य अश्वमेधत्रित्वमिति तथोक्तमिति भावः । तथाचोक्तम्-
‘ततस्तृतीये दिवसे सत्यवत्यास्सुतो मुनिः। युधिष्ठिरं समाहूय वाग्मी वचनमब्रवीत् ॥
अद्य प्रभृति कौन्तेय यजस्व समयो हि ते । मुहूर्तो याज्ञियः प्राप्तश्चोदयत्येव याज्ञिकाः ।
अहीनो नाम राजेन्द्र क्रतुस्तेऽयं विकल्पवान् । बहुत्वात्काञ्चनस्यास्य लोको बहुसुवर्णकः॥
एवमेव महाबाहो दक्षिणाभिः बहुं कुरु । त्रित्वं व्रजतु ते राजन् ब्राह्मणा ह्यत्र कारणम् ॥
त्रीनश्वमेधान् अत्र त्वं सम्प्राप्य बहुदक्षिणान् । ज्ञातिहत्याकृतं पापं प्रहास्यसि नराधिप ॥’
इत्याश्वमेधपर्वणि (89.13-17)॥॥
उञ्छवृत्तिर्विप्रो भार्यापुत्रस्नुषायुतस्सन् सुभक्तितः अतिथये धर्माय यमाय सक्तुप्रस्थमदात् ॥॥
जामदग्नेः परशुरामस्य श्राद्धार्थं तन्मातृरेणुकाश्राद्धार्थं नतु तत्पितुःश्राद्धार्थं तत्पितुर्जमदग्नेः सप्तर्षिगणमध्यस्थत्वेन इदानीमपि जीवमानत्वादिति ॥॥
॥ वर्णक्रमादिति ॥ ब्राह्मणादिवर्णक्रमादित्यर्थः । मर्त्यैर्मनुष्योत्तमैर्यत्कृतम् ततः तत्कृतकर्मणः गान्धर्वं मनुष्यगन्धर्वकृतं कर्म शतगुणं ततो गान्धर्वं देवगन्धर्वकृतं शतगुणम् तस्मात् तत्पितृभिः चिरपितृभिः मुनिभिः भृग्वादिभिः। देवशक्रेति देवा बृहस्पत्यादयः ॥
इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येण मधुसूदनभिक्षुणाविरचिते श्रीमनमहाभारततात्पर्यनिर्णयार्थप्रमाणस्र्रहे त्रिंशोऽध्यायः॥
॥ अथ एकत्रिंशोऽध्यायः ॥ ॥ 1-7 ॥ अस्य धृतराष्ट्रस्य आज्ञां परैर्निहन्ति । तदाज्ञाभ्रं परैः कारयतीत्यर्थः । अस्मिन् धृतराष्ट्रे सोदरैर्धर्मादिभिः वधूजनैः द्रौपद्यादिभिः अतिपूजितेऽपि स भीमः स्वयञ्च निष्टनति अवज्ञां करोति । यद्वा धृतराष्ट्रस्य सेवां न कुरुतेत्युच्चैः सर्वान् प्रति प्रवदतीत्यर्थः । एवमपि एवं भीमेन तिरस्कारे कृतेऽपि तदा अस्य धृतराष्ट्रस्य विरागः वैराग्यं नास कुत इत्यत तत्र हेतुमाह- इतरैरिति ॥ इतरैस्सञ्जयादिभिः स्वैः धर्मराजादिभिः सुपूजितो यस्मात्तस्मादस्य विरागो न सञ्जातो ॥॥ जायमानस्यापि प्राणिनः जीविताशा महीयसी । अहो आश्चर्यं भवान् यया जीविताशया भीमापवर्जितं पिण्डं अन्नं गृहपालवत् श्वावदादत्से ॥॥ विदुषोऽपि सर्वधर्मान् नीतिञ्च जानतेऽपि राज्ञे धर्मराजाय केवलस्नेहतो धर्मान् नीतिञ्च शिक्षयामास ॥॥ ॥ विमुखानां मधुद्विष इति ॥ मधुद्विषः विमुखानां पापानां पारलौकिकसाहाय्यं न कार्यम् । यदाह हारीतः-
‘अवैष्णवाय विप्राय
सर्ववेदविदेऽपि वा ।
यत्किञ्चिद्दीयते सर्वं
नितरां राक्षसैर् हृतम् ॥
क्रतुसाहस्रयष्टा वा
सर्वशास्त्रश्रुतोऽपि ।
अवैष्णवो भवेद्विप्रः
स चण्डाल-समो भवेत् ॥’
इति ।
अवैष्णवाय दातव्यो
नोदबिन्दुर्नतण्डुलः ।
षष्टिवर्षसहस्राणि
विष्टायां जायते क्रिमिः ॥ अवैष्णवेभ्यो विप्रेभ्यो
भिक्षां वापि न यच्छत ।
दाता च नरकं याति
स्वर्गस्थैः पितृभिस् सह ॥
विष्णोर् वार्ता विहीनस्य
मम वा वेषधारिणा ।
नोदबिन्दुर् नचैवान्नं
दातव्यं बिन्दुकािभिः ॥’
इत्यादि च ।
किञ्च
‘तिर्यक्पुण्ड्रधरो विप्रो यत्र तिष्ठति दुर्मतिः ।
तं देशं पापसम्भूतं स्मशानसदृशं भवेत् ॥ तिर्यक्पुण्ड्रधरो विप्रो पङ्क्क्तिमध्ये स्थितो यदि ।
स प्रेतः?? ब्रह्महत्याद्यैः युज्यते नात्र संशयः ॥
ब्राह्मणः कुलजो विद्वान् तिर्यक्पुण्ड्रधरो यदि ।
तं गार्दभं समारोप्य स्वराष्ट्राद्विवासयेत् ॥
वैश्वदेवगतान्वापि त्यजेद्विष्णुपराुखान् ॥’
इत्यादिना अवैष्णवनिन्दनाच्च । शुद्धधार्मिकं भीमं प्रति अप्रीत्या जोषं तूष्णीमास्वेति प्रोच्य युधिष्ठिरः प्रोवाच ॥॥ अस्मत्पूर्वैः अस्माकं पूर्वैः कृद्धैरित्यर्थः॥॥ ॥ नचाहमिति ॥ मया यूयं यद्यपि न रक्षिताः तथाप्यहं अरक्षिता अरक्षक इति न कथित इत्यर्थः ॥॥ ॥ क्षत्तैकतामत्रेति ॥ देहं त्यक्त्वेति शेषः। तथाचोक्तम्- ततस्सोऽनिमिषो भूत्वा राजानं समुपैक्षत । संयोज्य विदुरस्तस्मिन् दृष्टिं दृष्ट्या समाहितः ॥ विवेश विदुरो धीमान् गात्रैर्गात्राणि चैव ह । प्राणान् प्राणेषु व्यदधदिन्द्रियाणि इन्द्रियेष्वपि ॥ स योगबलमास्थाय विवेश नृपतेस्तनुम् । विवेश धर्मराजस्य तेजसा प्रज्वलन्निव ॥ विदुरस्य शरीरं तु तदैव स्तब्धलोचनम् । वृक्षाश्रितं तदा राजा ददर्श गतचेतनम् ॥ बलिष्ठमपि चात्मानं मेने बहुगुणं तदा । धर्मराजो महाराजा तञ्च सस्मार पाण्डवः ॥ धर्मराजस्ततस्त्वेनं सुसंस्कारयिषुस्तदा । दग्धुकामोऽभवद्विद्वान् अथ वागभ्यभाषत ॥ भो भो राजन्न दग्धव्यं एतद्विदुरसञ्ज्ञितम् । कलेवरमिहैतत्ते धर्म एषः सनातनः ॥ लोको वैकर्तनो नाम भवितव्यश्च पार्थिव । यतिधर्ममवाप्तोऽसौ न शोच्यो भरतर्षभ ॥’ इत्याद्याश्रमवासपर्वणि (28.25-33) । ‘यावद्भभार शूद्रत्वं शापाद्वर्षशतं यम’ इति भागवतोक्तेर्विदुरस्य वर्षशतपर्यन्तमेव शूद्रत्वं न तदनन्तरम्। तदभावेन वनित्वं युक्तमित्यवगन्तव्यम् ॥॥ स्वर्गलोकात् ग्राजलात्समुन्मज्य समागताः । ‘ततस्ते पार्थिवाः सर्वे भीष्मद्रोण पुरस्सराः । ससैन्यास्सलिलात्तस्मात् समुत्तस्थुः सहस्रशः ॥’ इत्याश्रमवासपर्वोक्तेः (34.7)। ॥ सर्वाः स्त्रिय इति ॥ देहांस्त्यक्त्वेति शेषः । ‘श्वशुरं समनुज्ञाप्य विविशुर्जोवीजलम् । विमुक्ता मानुषैर्देहै ततस्ता भर्तृभिस्सह ॥ समाजग्मुस्तदा साध्व्यः सर्वा एव विशाम्पते ॥’ इत्याश्रमपर्वोक्तेः (35.22-23) ॥॥ तां कथां वैशम्पायनान्नित्यं निशम्य तत्काथायां सन्दिग्धः सन् तातदृष्टिं परिक्षिद्दर्शनम् । वैशम्पायनस्वविवाददशायां समागतं व्यासमयाचत । विकुण्ठलोकादीशेन व्यासेन समाहृतं आनीतं स्वतातं दृष्ट्वा दर्शनानन्तरं पुनर्वैकुण्ठं प्रति समाहृतं प्रेषितं च दृष्ट्वा ईशवन्द्यं कृष्णं व्यासं क्षमापयामास । भारते विस्रम्भं विश्वासं चक्रे ॥॥ एवं प्रास्रिकीं कथां उक्त्वा प्रकृतकथामाह- पार्था इति ॥ पार्था तत्रत्यजनैः तत्रस्थस्वजनैः समेताः सन्तः पुनः स्वकीयं पुरं प्राप्य धर्मेण पृथ्वीं परिपालयन्तः सन्तः अरागात् अत्यासक्तिमन्तरा इत्यर्थः । भोगानजुषन्त । भोगेषु अत्यासक्तिः कुतो नास्तीत्यत उक्तम्- युक्ता इति ॥ तथाच सततं भगवद्योगयुक्तत्वेन भोगेष्वत्यासक्तिर्नास्तीति भावः । यद्वा ननु भगवद्योगयुक्ताः पाण्डवाः कथं भोगानजुषन्त । भोगसेवनस्य निषिद्धत्वादित्य उक्तम्- अरागादिति ॥ अः परमात्मा तस्मिन् रागादिसक्तेरेव भोगानुजुषन्त देवाः । ‘देवादीनां आदिराज्ञां महोद्योगेऽपि नो मनः । विष्णोश्चलति तद्भोगोऽप्यतीव हरितोषणम् ॥’ इति वचनात् (गी.भा.) भगवध्यानपूर्वकविहितभोगोऽपि भगवत्प्रीतिसाधनमेवेति न दोष इति भावः ॥॥ त्यक्त्वाग्निभिः आत्मारोपणं कृत्वा त्यक्त्वाग्निभिः आहवनीयादिभिः ॥॥ वीटामुखं वीटा कन्दुको मुखे यस्य स तथोक्तस्तमित्यर्थः । तथाचोक्तम्- ‘तत्रोग्र तप आस्थाय धृतराष्ट्रो महामनाः । मुखे वीटां समादाय वायुभक्षोऽभवन्मुनिः॥’ इत्याश्रमवासपर्वणि(्रअग्निं मुखे समादाय’ इति उपलभ्यमानपाठः)(39.12) । वीटाशब्दस्य कन्दुकार्थत्वं तु भगवत्पादैरेवोक्तम् । ‘तेषां तु क्रीडमानानामुदवासेऽ्रुलीयकम् ।पपात धर्मराजस्य वीटा तत्रैव चापतत् ॥’ इत्यादिपर्वस्थश्लोकस्थ वीटाशब्दस्य ‘विक्रीडतो धर्मसूनोस्तदैव सह्राुलीयेन च कन्दुकोऽपतत्’ इति कन्दुकार्थत्वेन व्य्रायातत्वात् । अनन्तभट्टारकास्तु ‘वीटीमुखं नतमुखम्’ इति व्याचक्षते । तच्चिन्त्यम् । उक्तमानविरोधात् । केचित्तु ‘व्रीडामुखम्’ इति केचित्तु ‘व्रीडामुखां’ इति च पाठं कल्पयन्ति । तदपि चिन्त्यम् । उक्तमानविरोधादेव ॥॥ ॥ अष्टादशाब्दा इति ॥ धतराष्ट्रमृते प्राक् दुर्योधनपतनमारभ्य अष्टादशाब्दा अगुः । ततो धृतराष्ट्रगमनानन्तरं अष्टादशाब्दा अगुरिति भावः । अरिक्तधर्मार्थसुखोत्तमानां अरिक्ताः युक्ताः पूर्णा धर्मार्थसुखोत्तमा एषां ते तथोक्ताः तेषाम् ॥ इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येणमधुसूदनभिक्षुणाविरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणस्र्रहे एकत्रिंशोऽध्यायः॥
॥ अथ द्वात्रिंऽशोध्यायः ॥ ॥ सादस्यमिति ॥ सादस्यं सभापतित्वम् । ‘ह्रिनिषेधास्सदा दान्ताः सत्यलज्जासमन्विताः । शक्ताः कथयितु ं शान्ताः ते च स्युः सभासदाः’ इति शान्तिपर्वोक्तरीत्या सादस्यं ज्ञेयम् ॥॥ ॥ ॐमित्याह सचाच्युत इति ॥ तदनन्तरं चतुर्मासाधिकसंवत्सद्वयपर्यन्तं स्थित इति शेषः । तथाचोक्तम् । ‘वत्सराणां शतं चैव ऋतूनां पञ्चविंशकम् । अवतीर्णस्य कृष्णस्य तदा प्रागात् तदा हरिम् ॥ स्वस्थानगमनापेक्षा ब्रह्मा तुष्टाव सामरः । संवत्सरद्वयं चैव पश्चात् स्थित्वा जनार्दनः ॥ अभिपेदे परं स्थानं चतुर्मासाधिकं पुनः ॥’ इति भविष्यपुराणे ॥॥ ॥ प्राचुर्ये सज्जनस्येति ॥ इदमुपलक्षणं सतोपि यदुगणस्य कलौ प्राप्ते मनोविकारः स्यात् । तन्माभूदिति तथा स्वात्मना सह याने अधिकपुरुषार्थो भवेदिति बुध्या च स्वकुलसंहृत्यै प्रभासमनयदिति । ‘सतामपि कलौ प्राप्ते विकारो मनसो भवेत् । तस्मात् यदूंश्च सञ्जह्रे नै ते स्युः पापिनस्त्विति ॥ पुनर्लोकविवृध्यर्थं औत्तरेयादिकान् हरिः । आविश्य रक्षामकरोज्जगतः पुरुषोत्तमः ॥ स्वात्मनः सहयानेन पुरुषार्थोधिको भवेत् । इत्यनुग्रहबुध्या च सञ्जह्रे स्वकुलं विभुः॥’ इति च वचनात् । ॥ शापदोषेणेति ॥ गान्धारिविप्रशापं तद्वयदोषेणेत्यर्थः ॥ मैरेयेति ॥ ‘कदम्बरसधारादिमदिरानिर्मिते मधु । मैरेयमिति सम्प्रोक्तं यत्पानात् भ्रश्यते मनः ॥’ इति वचनात् मैरेयशब्दार्थः ज्ञेयः । निपात्य विप्रशापोत्पन्नमुसलचूर्णजनितैरक्रायैः तृणैरिति शेषः ॥ तद्दृष्ट्वा बलदेवोपीति ॥ ननु विप्रशापेन सर्वयदुकुलनाशस्य भवितव्यत्वेन कथं यादवनाशानन्तरमपि श्रीकृष्णरामोद्धवाः उर्वरिता इति चेत् सत्यं रामकृष्णौ विनैव शापात् तौ उर्वरितौ तथाचोक्तम्- ‘वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम् । वासुदेवस्य दायादिः साम्बोयं जनयिष्यति ॥ एन सूतेन दुर्वत्ताः नृशंसाजातमन्यवः । विच्छेत्तारः कुलं सर्वं ऋते रामजनार्दनौ ॥ समुद्रं यास्यति श्रीमान् मुक्त्वा देहं हलायुधः॥’ इति मौसलपर्वणि (2.8-10) । उद्धवस्तु कृष्णाज्ञया उर्वरितः । ‘गच्छ त्वं दिव्यया गत्या मत्प्रसादसमुत्थया । यद् बदर्याश्रमं पुण्यं गन्धमादनपर्वतः ॥’ इति श्रीकृष्णवचनात् उद्धवं प्रति विष्णुपुराणे (5.37.34)॥॥ ॥ ऊरुस्थितं पादतलमिति ॥ दुर्वासवाक्यपालनार्थं ऊरू पादौ निक्षिप्य पादतले शल्येन वेधमकारयत् । ‘प्रायस्तेन प्रलिप्तेषु गात्रेषु मधुसूदनः । तव मृत्युभयं नास्ति यावदिच्छसि वाच्युत । न तु पादतलं लिप्तं तस्मात् ते मृत्युरत्र ते॥’ इति दुर्वासस्योक्तत्वात् कृष्णं प्रति अनुशासने (264.43-44)। उक्तं च ‘सञ्चित्य चतुरावस्थो विदेशे पुरुषोत्तमः (तुर्यावस्थसलीलञ्च शेतेस्म पुरुषोत्तमः )। सम्मानयन् द्विजवचो दुर्वासा यदुवाच तम् । योगयुक्तोऽभवत् पादं कृत्वा जानुनि सत्तम ॥’ इति विष्णुपुराणे (5.37.67) । जर्रायव्याधेन स्वस्य पादताडनकारयितृत्वं तु गान्धारीवाक्यमाननार्थम् । ‘शशाप याादवेशानं त्वयास्मत् कुलनाशनम् । यत्कृतं तत्तवकुलं गच्छत्वन्योन्यसङ्क्षयम् ॥’ इति गान्धार्या शप्तत्वात् । जर्रायव्याधस्य (पादवधीय) यादवत्वाभावेन कथं जर्रायेन स्वस्य पादताडयितृत्वमात्रेण त्वत्कुलं अन्योन्यसङ्क्षयं गच्छत्विति गान्धारीशापमाननमिति चेत् । उच्यते । तस्यापि यादवदायादत्वेन तदुपपत्तेः । तथाचोक्तम्-्रशूद्रायां अवधीद्धीरो वसुदेवान्महाबलः। जरा नाम निषादानां प्रभुः सर्वधनुष्मताम्॥’ इति मौसलपर्वणि । शल्यं मुसलावशेषे अयःखण्डकृतेषुं ‘मुसलावशेषायःखण्डकृतेषुर्लुब्धको जरः । मृगाकारं तच्चरणं विव्याध मृगश’या ॥’ इति भागवतोक्तेः(11.30.33)। कृष्णरामौ विनैव शापदानात् किमर्थं मुसलावशिष्टायःखण्डकृतेषुणा पादवेध इति चेत् । उच्यते । ‘रामजनार्दनौ’ इत्युक्तिस्तु परस्परं यादवै ऋते इत्यभिप्रायेण ‘विच्छेत्तारः कुलं सर्वं ऋते रामजनार्दनौ’ इत्यत्र रामजनार्दनौ ऋते सर्वं कुलं विच्छेत्तारः इत्युक्तत्वात् ‘वृष्ण्यन्धकविनाशाय मुसलं घोरमायसम्’ इत्यादिना वृष्ण्यन्धकविनाशायेति मुसलस्य सामान्यतः सर्ववृष्ण्यन्धनाशकत्वस्य उक्तत्वेन तन्मुसलावशिष्टखण्डेषुणा पादवेधमकारयत् । ‘बलभद्रस्तु समुद्रं यास्यति’ इति पृथगेवशापदानात् न मुसलेन पीडा । साम्बादियादवानां बलभद्रनाशहेतु विप्रशापनिमित्तत्वेन बलभद्रविषयेऽपि गान्धारीशापः सार्थक एवेति द्रष्टव्यम् । ॥ विप्रवाक्यमिति ॥ दुर्वासभृगुकण्वासितविश्वामित्रादिशापरूपवाक्यमित्यर्थः । विश्वामित्रादिशापोत्पन्न मुसुलायःखण्डकृतेषुणा दुर्वाससा पादतले मृत्युर्भविष्यतीत्युक्तपादतले ताडितत्वादिति भावः । तथाचोक्तम्- ‘वने शून्ये व्यचरत् चिन्तयानो भूमौ चाथ संविवेशाग्र्यतेजाः । सर्वं तेन प्राक्तदा वित्तमासीत् गान्धार्या यद्वाक्यमुक्तं स्वधर्मात् ॥ दुर्वाससा पायसोच्छिष्टलिप्ते यच्चाप्युक्तं तच्च सस्मार कृष्णः । यदा च लोकत्रयपालनार्थं दुर्वासवाक्यप्रतिपालनाय ॥ देवोऽपि सन्देहविमोक्षहेतोर्निमित्तमैच्छत्सकलार्थतत्ववित् ॥’ इति मौसलपर्वणि (5.17-21)। ॥ तच्छरीरिणम् ॥ व्याधस्य तद्देहेनैव स्वर्गदानं व्याधोप्येतद्देहेनैव मदनुग्रहेण स्वर्गं गतः किम्वहमिति कैमुत्यद्योतनार्थं दिवं निन्ये । तत्र चाकाशग्रायां देहं त्यक्त्वा स्वर्गं गतः । धर्मजवत् तत्र मनुष्यदेहेन भोगासम्भवात् । तथाचोक्तम्- ‘आश्वासितः पुण्यफलेन भत्तया तथानुतापात्कर्मणो जन्मनश्च । दृष्ट्वा तथा देवमनन्तवीर्यं देवैस्स्वर्गं प्रापितस्त्यक्तदेहः॥’ इति मौसले (5.25) ॥॥ शापात् अष्टावक्रशापात् । तदुक्तम्- ‘स्त्रियश्च ता पुरा शप्ता प्रभासे कुपितेन वै । अष्टावक्रेण मुनिना तदर्थं त्वद्बलक्षयम् ॥’ इति मौसलपर्वणि (9.32)। ‘अष्टावक्रः पुरा विप्रो जलवासरतोऽभवत् । बहून्वर्षगणान् पार्थ गृणन् ब्रह्म सनातनम् ॥ जितेष्वसुरस्रेषु मेरुपृष्ठे महोत्सवः । बभूव तत्र गच्छन्त्यो ददृशुस्तं सुरस्त्रियः ॥ रम्भातिलोत्तमाद्यास्तु शतशोऽथ सहस्रशः । तुष्टुवुस्तं महात्मानं प्रशशंसुश्च पाण्डव ॥ आकण्ठमग्नं सलिले जटाभारवहं मुनिम् । विनयारनताश्चैनं प्रणेमुस्तोत्रतत्पराः ॥ यथायथा प्रसन्नोसौ तुष्टुवुस्तं तथा तथा । सवास्ताः कौरवश्रेष्ठ तं वरिष्ठं द्विजान्मनाम् ॥ अष्टावक्र उवाच- प्रसन्नोऽहं महाभागाः भवतीनां यदिष्यते । मत्तस्तद्व्रियतां सर्वं प्रदास्याम्यतिदुर्लभम् ॥ रम्भातिलोत्तमाद्यास्तं वैदिक्योप्सरसोऽब्रुवन् । प्रसन्ने त्वय्यपर्याप्तं किमस्माकमिति द्विज ॥ इतरास्त्वब्रुवन् विप्रप्रसन्नो भगवान्यदि । तदिच्छामः पतिं प्राप्तुं विप्रेन्द्र पुरुषोत्तमम् ॥ व्यास उवाच- एवं भवीष्यतीत्युत्क्वा ह्युत्ततार जलान्मुनिः । तमुत्तीर्णं च ददृशुर्विरूपं वक्रमष्टधा ॥ तं दृष्ट्वा गूहमानानां यासां हासः स्फुटोऽभवत् । ताश्शशाप मुनिः कोपमवाप्य कुरुनन्दन ॥ यस्मर्द्विङ्कृतरूपं मां मत्वा हासावमानना । भवतीभिः कृता तस्मादेतं शापं ददामि वः ॥ मत्प्रसादेन भर्त्तारं लब्ध्वा तु पुरुषोत्तमम् । मच्छापोऽपहतास्सर्वा दस्युहस्तं गमिष्यथ ॥’ इत्यादि विष्णुपुराणे(5.38.71-82) । वेद्रातीर्थास्तु ‘शापात् पार्थो म्लेच्छवशं गच्छतु’ इति शापादिति व्याचक्षते । अनन्तभट्टारकास्तु ‘शापात् कृष्णः श्रीकर्मकमुनिना शप्त’ इति व्याचक्षते । तदेतद्व्य्रायानद्वयं चिन्त्यम् । उदाहृतप्रमाणविरोधात् ॥॥ गोविन्दैकादशीं फाल्गुने रवेः कुम्भराशिस्थस्य सतःतथा शनिबृहस्पत्याभ्यां मकरराशिस्थितयोः सतोश्च पुष्यर्क्षरविवासरयुता फाल्गुनशुद्धैकादशी या तामित्यर्थः । तथाचोक्तम्- ‘कुम्भे रवौ फाल्गुने स्यान्मकरस्थोऽ्रिराशनिः । द्वादशी शुक्लपक्षस्य पुष्यर्क्षरविवासरा ॥ गोविन्दद्वादशीनाम महापातकनाशनी ॥’ इति ब्रह्माण्डे । ‘द्वादश्यां फाल्गुने मासि गोविन्द्रायमुपोष्य माम् । अर्चयेद्यः समाप्नोति ह्यतिरात्रफलं नृप ॥’ इति कृष्णवचनात् धर्मजं प्रति अश्वमेधपर्वणि (114.20)। अत्रोपोष्येत्युक्तत्वेन द्वादश्युपवासस्य निषिद्धत्वेन द्वादशीशब्देन एकादश्येव ग्राह्या । वेद्रातीर्थास्तु ‘गोविन्दैकादशीं आशाढशुद्धैकादशीं कृत्वा उपवासमिति शेषः । चैत्रादिशुद्धैकादशीनां केशवादिद्वादशमूर्तीनां देवतात्वात् आषाढशुद्धैकादश्या गोविन्ददेवताकत्वेन गोविन्दैकादशीत्वम्’ इति व्याचक्षते । वरदराजाचार्यास्तु ‘गोविन्दैकादशीं मधुसूदनैकादशीं वैशाखशुद्धैकादशीं कृत्वा’ इति व्याचक्षते । तदेतद्वयमपि चिन्त्यम् । उक्तप्रमाणविरुद्धत्वात् । अश्वमेधपर्वणि श्रीकृष्णमार्गशीर्ष मासशुद्धैकादशीमारभ्य कार्तीकशुद्धैकादश्यन्तानां केशवादिदामोदरान्तदेवताकत्वमुक्त्वा फाल्गुनशुद्धैकादश्या एव गोविन्दैकादशीत्वकथनेन तद्विरोधात् । ‘द्वादशैव तु मासास्तु कैशवाद्यैरधिष्ठिताः। आरभ्य मार्गशीर्षं तु यथासङ््रयं द्विजोत्तम ॥’ इति हारीतेनापि मार्गशीर्षमारभ्य कार्तिकान्तानां मासानां केशवादिदामोदरान्तदेवताकत्वस्य उक्तत्वेन फाल्गुनशुद्धैकादश्या एव गोविन्दैकादशीत्वावगमात्। वायुस्कन्धपुराणविरोधाच्च । तत्र हि माघकार्तिकवैशाखशुद्धैकादशीनां माधवदामोदरमधुसूदनदेवताकत्वस्योक्तत्वेन फाल्गुनशुक्लैकादश्या एव गोविन्दैकादशीत्वावगमात् इत्यास्तां विस्तरः ॥॥ ननु तर्हि सर्वेषां पाण्डवानां कदाचिदपि केऽपि दोषा न सन्ति किमित्यत आह- कदाचिदिति ॥ यद्वा ननु सहदेवादयस्त्रयः विद्यमानादधिकं नीतिज्ञत्वादिकं मन्यते । अतस्तत्फलं देहपात इत्यत आह- कदाचिति ॥ एषु पाण्डवेषु मध्ये त्रयाणां अर्जुनत्रयाणां कदाचिदतिमानोऽपि जायते । तथापि एतद्देहपतनं तत्फलं अतिमानफलं न भवति । तर्हि देहपतनस्य अतिमानफलत्वाभावे अतिमानस्य किं फलमित्यत आह- तारतम्यमिति ॥ किन्तु विमुक्तिगं विशिष्टाभोगलक्षणमुक्तिगतं तारतम्यं तत्फलमतिमानफलं अतिमानेन तारतम्योपेतात् स्वरूपसुखह्रासो भवतीति भावः ॥॥ नन्वतिमानस्य मुक्तिगतानन्दह्रासकरत्वं कथमित्यत आह- गुणेति ॥ गुणदोषाणां अधिकत्वाल्पत्वे यस्मातत्तथोक्तम् । तस्मात् गुणदोषाल्पदोषाधिकत्वनिमित्तत्वादेव हेतोरित्यर्थः । तथाचापरोक्षज्ञानानन्तरं कृतानां गुणानां शुभानां आनन्दवृद्धिकरत्वेन दोषाणां अशुभानां आनन्दह्रासकरत्वेन अतिमानस्तादृशगुणानां अल्पत्वं तादृशदोषाणां अधिकत्वं च कुर्वन् मुक्तिगतानन्दह्रासकारणं भवतीति क्लृप्तानन्दानां एतेषां क्प्तानन्दह्रासासम्भवेन स्वयोग्याधिकशुभप्राप्तानन्दह्रासकारणं भविष्यतीति भावः । यद्वा नन्वतिमानस्य दोषत्वे सति हि आनन्दह्रासहेतुत्वं स्यात् । अयथस्वरूपज्ञानस्य दोषत्वात् । एतस्य तद्रूपत्वाभावादित्यत आह- गुणेति ॥ गुणानां ज्ञनबलादिगुणानां दोषाणां अज्ञत्वादिदोषाणां अधिकत्वाल्पत्वज्ञननिमित्तत्वादित्यर्थः । लोके हि अतिमानेन पुमान् स्वस्मिन्विद्यमानान् अल्पानेव ज्ञानबलादिगुणान् अधिकतया बहूनेव दोषांश्चाल्पतया कथयन्तीत्यतिमानस्य अयथास्वरुपज्ञानहेतुत्वात् दोषत्वमिति भावः । न केवलं अतिमानस्य मुक्तिगतानन्दह्रास एव फलं ऐहिकमपि भवतीत्याह- अत्रस्थमिति ॥ यद्वा तथाप्यतिमाने सत्यपि एतद्देहपतनं तत्फलं न तर्हि अतिमानफलं किमित्यत आह- तारतम्यमिति ॥ विमुक्तिगं तारतम्यं एतत्फलं कुत इत्यत आह- गुणेति ॥ देवानां ज्ञानादिगुणानां अधिकत्वात् अतिमानादिदोषाणां अल्पत्वान्निमित्तादित्यर्थः । एतदुक्तं भवति । देवानां क्लृप्तानन्दत्वेन तथा गुणानामधिकत्वेन दोषाणामल्पत्वेन च अतिमानादिदोषैः क्लृप्तानन्दह्रासासम्भवेन स्वयोग्याधिककृतशुभेन मुक्तौ यदधिकं सुखं भवितव्यं तस्यातिमानादिदोषैः ह्रासो भवति । ततश्च तारतम्यविशिष्टं यत्क्लृप्तसुखं तदेवोर्वरितं भवति इति नैतद्देहपतनमतिमानफलमिति । न केवलमधिकह्रास एव अतिमानादिदोषफलं किन्तु ऐहिकमपि भवतीत्याह- अत्रस्थमिति ॥ तथा श्रुतं हि श्रुत्यादिप्रसिद्धमितित्यर्थः। तथाचोक्तम्- ‘देवानां नाशुभाध्रासः शुभात्काचित्सुखोन्नतिः । आधिकारिकजीवानां एवमन्येषु तद्वयम् ॥ अल्पाधिकारिणां तत्र ह्रासोऽपि भवति ध्रुवम् । अशुभाभावजोन्नाहो महाधीकारिणामपि ॥ अशुभे कृते न भवति तारतम्याच्च स स्मृतः । प्रजापाश्च तथा देवा महाधीकारिणः स्मृताः ॥ ऋश्यतीतिस्तथा सप्त पितरोप्सरसां शतम् । गन्धर्वाणां तथा राज्ञां विंशदन्यासु जातिषु ॥ अल्पाधिकारिणः प्रोक्ता अनधीकारिणः परे ॥’ इति ब्रह्माण्डे(भा.ता.5.6.5)। अथवा कदाचित्तेषु पाण्डवेषु मध्ये त्रयाणामप्यर्जुनादीनां अतिमानः तथा स्वरूपमतिक्रम्य ज्ञानं अह’ार इति यावत् । तथाप्यतिमाने सत्यपि एतद्देहपतनं तत्फलं अतिमानदोषफलं न । कुतः गुणदोषाधिकाल्पत्वात् । अपरोक्षज्ञानोत्तरकृतशुभकर्मणामधिकत्वात् । दोषाणां अशुभानां अल्पत्वात् निमित्तात् अत्रस्थमपि मुक्तेः प्राग्भोग्यत्वेन प्राप्तमपि तारतम्यं सुखतारतम्यं विमुक्तिगं हि मोक्षार्थमेव श्रुतं श्रुतिप्रसिद्धम् । अपरोक्षज्ञानोत्तरशुभाशुभकृतं यत्सुखतारतम्यं तन्मोक्षे भवतीत्यर्थः । शुभकृतः शुभफलं आनन्दवृद्धिः अशुभकृतः अशुभफलं आनन्दह्रास एव न दुःखभोगः । एतादृशं शुभाशुभफलं मुक्तावेव भवति । तस्मादतिमानफलं न देहपात इति भावः । तर्हि देहपाते किं कारणं इत्यत आह- प्रारब्धेति ॥ प्रारब्धकर्मनाशे देहारम्भककर्मनाशे सतीत्यर्थः॥। । देहारम्भककर्मनाशस्य देहपातहेतुत्वे दृष्टान्तमाह- युधिष्ठिर इति ॥॥ ॥ पूज्येभ्य इति ॥ तत्क्रामात् धर्मार्जुननकुलसहदेवापेक्षया द्रौपदीदेहगतभारत्यंशस्य स्वरूपत उत्तमत्वेऽपि वयसा देहापेक्षया तत्पत्नीयुतत्वेन च नीचत्वमस्ति इति द्रौपद्यपेक्षया धर्मार्जुननकुलसहदेवानामपि पूज्यत्वमस्तीति पूज्येभ्यः पूर्वं नीचानां देहपातोऽभूदिति वचनं युज्यते इति द्रष्टव्यम् । अनन्तभट्टारकास्तु ‘पूज्येभ्य इत्येतत् द्रौपद्यतिरिक्तविषयम् । तस्यापि भीमापेक्षया द्रष्टव्यम्’ इति व्याचक्षते । तच्चिन्त्यम् । द्रौपद्यपेक्षया भीमस्य पूज्यत्वेन भीमापेक्षया प्रथमतो द्रौपद्या देहपात इत्य्रीकारे भीमस्य धर्मराजापेक्षया प्रथमतो देहपातो न स्यात् । धर्मराजस्य भीमापेक्षया पूज्यत्वाभावात् । एतद्वचनस्य द्रौपदीव्यतिरिक्तविषयकत्वे नियामकाभावात् ॥॥ अविद्यमानं मम किमर्थं प्रदर्शितमित्यत आह- द्रोणकृत इति ॥ मृषा असत्यभूता गीर्वागश्वत्थाम्नि जीवत्येव अश्वत्थामा हत इत्येवं भूता यस्य तत्तथोक्तस्तस्येत्यर्थः ॥॥ ननु कृष्णप्रेरणया मृषा गिरो मे कथं दुःखप्राप्तौ इत्यत आह- कृच्छ्रादिति ॥ इदं अश्वत्थामा हत इति वाक्यं ते त्वया कृच्छ्रात्कथितम् । न केवलं विश्रम्भो विश्वासो नासीदिति किन्तु कृच्छ्रात्कथितञ्चेत्यन्वयः । यद्वा द्रोणकृते द्रोणार्थे मृषा गिरः्रब्रूहि सत्यमित्युक्तवतो द्रोणस्य अश्वत्थामवधनिश्चयार्थं सत्यमेवेत्युक्त्वापि असत्यभयादुपांशु कुञ्जरो हत इति व्यर्थ गिर इत्यर्थः । कुञ्जरेत्यनुक्तेऽपि असत्यवचनदोषाभावादिति भावः । असत्यभयजनितात् कृच्छ्रात् इदं अश्वत्थामा हत इति वचनं कथितमिति कृत्वा कृष्णवाक्ये अतिविश्रम्भो नासीत् । ननु द्रौणो जीवति अश्वत्थामा हत इति कथं वक्तुं विश्रम्भो भवेत् पापप्राप्तेरित्यत आह- न हि इति ॥॥ नन्वपरोक्षज्ञानिनो अपरोक्षानन्तरपापलेपाभावेन कथं धर्मजस्य इदानीं (तन्न)पापलेप इत्युच्यते श्रुतिसूत्रविरोधादित्यत आह- ब्रह्मापरोक्षेति ॥ अन्याः शच्याद्यन्यदेवीः । अतीत्य तत्संयोगं परिहृत्येत्यर्थः ॥ 107 ॥ निजं चक्रं आसनत्वेन समग्रहीत् । चक्रं आसनं कृतवानिति भावः ॥॥ क्षणिकादिशब्दार्थमाह- क्षणादय इति ॥ अखिला क्षणादय क्षणलवनिमेषमुहूर्तादयः । तद्विशेषाः साक्षिसिद्धकालविशेषाः क्षणिका आशुतरविनाशिनस्सन्तः निसर्गतः स्वभावतः प्रयान्त्येव । यतः ततः क्षणादिकालविशेषस्याशुतरविनाशित्वात् स्थिरत्वेऽपि जगतः स्थिरत्वेऽपि क्षणिकत्वाभावेऽपीत्यर्थः । विशेषसंश्रयात् क्षणलवादिकालविशेषसम्बन्धत्वात् समस्तं जगत् मया जगत् क्षणस्थायीत्युक्तम् । ननु क्षणलवादिकालविशेषवान् प्रपञ्चः विशेषः क्षणलवादिकालविशेषश्च यतो न भिन्नौ अभिन्नावित्यर्थः । ततश्च विशेषविशेषिणोरभेदेन विशेषस्य क्षणिकत्वेन विशेषिणोऽपि क्षणिकत्वमिति भावः । ननु विशेषविशेषिणोरभेदे अयं विशेषः अयं विशेषीति भेदव्यवहारः कथमित्यत आह- स्वनिर्वाहकेति ॥ अभेदेऽपि भेदव्यवहारजनकस्वनिर्वाहकशक्तिमद्विशेषयुक्तावित्यर्थः । तथाच विशेषबलाद्भेदव्यवहारो घटत इति भावः । नन्वेवं धर्मधर्मिणोरभेदम्रीकृत्य भेदव्यवहारनिर्वाहार्थं विशेष्राीकारे विशेषस्यापि धर्मत्वेन तस्य तदाश्रयस्यापि धर्मधर्मित्वेन आभेदस्वीकारे विरोधपरिहाराय विशेषान्तरं स्वीकार्यं एवमुत्तरात्रापीत्यनवस्था स्यादित्यत आह- स्वनिर्वाहकेति ॥ स्वपरभेदव्यवहारनिर्वाहकः स्वयं एक एव विशेष इति विशेषान्तरान्रीकारात् नानवस्था इति भावः । भेदः विरोधः॥॥ आविश्चकार विष्णोः पुरुषोत्तमत्वं प्रकटीचकारेत्यर्थः ॥॥ स्वकृतग्रन्थं भगवति समर्पयति- यस्येति ॥ श्रीशस्सत्यानन्तगुणः सखाऽशेषजगत्पतिः । प्रीयतां अनघः सर्वशब्दवाच्यो नृकेसरी ॥ इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्यणमधुसूदनभिक्षुणाविरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणस्र्रहे द्वात्रिंशोऽध्यायः॥ ॥ श्रीकृष्णार्पणमस्तु ॥