21-25

महाभारततात्पर्यनिर्णयव्याख्यानम् -मधुसूदनभिक्षुकृतम् अथ एकविंशोऽध्यायः ॥ ॥ 1 ॥ ॥ स वायुधारितामिति ॥ हिशब्देन अस्मिन्नर्थे प्रमाणप्रसिद्धिं दर्शयति । तथाचोक्तम्- ‘अस्ति बिन्दुसरस्युग्रा गदा च कुरुनन्दन । निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ॥’(3.6-7) । ‘तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च । गदामष्टौ सहस्राणि कि’रा नाम राक्षसा॥’ इति सभापर्वणि (3.31)॥ 2-26 ॥
तत्क्षणादुत्पत्त्यन्यनन्तरक्षणादित्यर्थः । पूर्वमुत्पत्त्यनन्तरं भूमौ कियत्क्षणपर्यन्तं तिष्ठन्ति इदानीं तु उत्पत्त्यव्यवहितक्षण एवादर्शनं यातः शिशुरिति भावः । यादवैस्सह विषण्णस्सन् तेन ब्राह्मणेन अथ आक्षिप्तस्सन् ‘तदाऽऽह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ । मौढ्याद् यस्य तवाहं वै श्रद्दधे क्लीबकत्थनम् ॥ न प्रद्युम्नोऽनिरुद्धो वा न रामो न च केशवः । यस्य शेकुः परित्रातुं कोऽन्यस्तदधिकेश्वरः ॥ धिगर्जुनं वृथा वाचं धिगात्मश्श्लाघिनो धनुः । दैवोपसृष्टयोर्मौढ्यात्……………॥’ इत्यादि भागवते (10.100.47-49 ) । यत्र श्रियः पतिः कृष्णः तत्र पार्थो ययौ ॥ 27 ॥ अग्निं विवक्षन्तं प्रवेष्टुकामं अमुमर्जुनं हरि कृष्णः निवार्य । सविप्रस्सन् सफल्गुनस्सन् उदीचीमाशां ययौ । बृहता रथेन दारुकानीतेन रथेन क्षणेन सप्तवारिधीन् जलस्तम्बं कृत्वेति शेषः । तीर्थ्वा उदीचीं आशां ययाविति पूर्वेण अन्वयः । ‘आरोप्य ब्राह्मणं कृष्णोप्यवरोप्य च दारुकम्’ इत्यादि हरिवंशोक्तेः (2.112.29)। ‘ब्राह्मणार्थेऽस्मदर्थे च कुरु सागर मद्वचः । मदृते न पुमान् कश्चिदन्यस्त्वां धर्षयिष्यति ॥ मया दत्तोे वरः पूर्वं न शोषं यास्यतीति हि । मानुषास्ते न जानीयुः विविधान्रत्नसञ्चयान् ॥ जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी ॥’ इति च हरिवंशवचनात् (2.113.7-10)। ‘समुद्रस्तब्धतोयोऽहं अहं स्तम्भयिता जलम् । अहं ते पर्वता सप्त ये दृष्टा विविधास्त्वया ॥ प’भूतं हि तमिरं दृष्टवानसि यद्धि तत् । अहं तमो घनीभूतं अहमेव च पाटकः ॥’ इति कृष्णवचनात् हरिवंशे (2.116.12-14)। तमश्च मार्गमिति । अन्धं अन्धयतीति अन्धन्तमः। हिमवद्घनीभूतगाढान्धकारम् । तथाचोक्तम्- ‘अथ पर्वतभूतं तत्तिमिरं समपद्यत । तदासाद्य महाराज निष्प्रयत्ना हया स्थिताः ॥ ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तथा ॥’ इत्यादि हरिवंशे (2.113.22-23)। तच्च तमस्त्रिविधम् । ‘महातमस्त्रिधा प्रोक्तं ऊर्ध्वं मध्यं तथाधरम् । श्रवणादेव मूर्छादिरधरस्य यतो भवेत् ॥ तस्मान्न विस्तरेणैतत् कथ्यते राजसत्तम ॥’ (सू.भा.3.1.23)इति कौर्मवचनात् ॥ 28-33 ॥ ॥ सपार्थविप्र इति ॥ अगात् द्वारकामिति शेषः । द्वारकाप्राप्त्यनन्तरं द्विजाय सुतान् ददौ । ‘ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम । स पुत्रं भोजयित्वा तु द्विजं कृष्णो महायशाः । धनेन तर्पयित्वा च गृहं प्रस्थापयत्तथा ॥’ इति च ( हरि.2.113.31-32 ) । ‘विप्राय ददतुः पुत्रान् यथारूपं प्रसूयताम्’ इति चान्यत्र (भाग.10.101.69)॥ 34-36 ॥ ॥ दन्तवक्र इति ॥ सविडूरथ इति शेषः । ‘श्रुत्वा तूर्णं कल्रिेशो दन्तवक्रः सहानुजः’ इति भागवतोक्तेः (10.101.1 ) । ‘भ्रातरं निहतं दृष्ट्वा दन्तवक्रं विडूरथः’ इति च (भाग.10.101.17)॥ 37-40 ॥ ॥ अयं द्वीप इति ॥ अयं द्वीपः जम्बूद्वीपः सागरः लवणसागरश्च लक्षयोजनविस्तृतौ । अयं भावः । मण्डलाकारजम्बूद्वीपमध्ये षोडशसहस्रयोजनविस्तारेण मेरुरस्ति । मेरोः परितो नवसहस्रयोजनविस्तारं चतुरस्रं इलावृतं वर्षम्। मेरोर्दक्षिणभागे ततो द्विसहस्रयोजनविशालो रेखारूपेण लक्षयोजनतः पूर्वपश्चिमसमुद्रावधिः निषध्रायमर्यादागिरिः । ततो नवसहस्रयोजनविस्तारवत् रेखारूपेण लक्षयोजनतः पूर्वपश्चिमसमुद्रावधिः हरिवर्षं ततो द्विसहस्रयोजनविस्तारो रेखारूपेण नवतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः हेमकूटगिरिः । ततो नवसहस्रयोजनविस्तारं रेखारूपेण नवतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः किम्पुरुषवर्षम्। ततो द्विसहस्रयोजनविस्तारो रेखारूपेण अशीसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः हिमवत्पर्वतः। ततो नवसहस्रयोजनविस्तारवत् रेखारूपेण अशीतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः भरतवर्षम्। एवं मेरोरुत्तरभागे रमणकहिरण्मयकुरुसञ्ज्ञकवर्षाणि नवसहस्रयोजनविशालानि क्रमेण रेखारूपेण लक्षनवत्यशीतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिकानि सन्ति । तथा द्विसहस्रयोजनविशालाः क्रमेण रेखारूपेण लक्षनवत्यशीतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधयो नीलश्वेतश्रृाचलाः सन्ति । मेरोः पूर्वभागे रेखारूपेण इलावृताऽनन्तरं द्विसहस्रयोजनविशालो चतुस्त्रिंशत्सहस्रयोजनतो रेखारूपेण नीलनिषधायतो गन्धमादनः । ततो एकत्रिंशत्सहस्रयोजनविशालः भद्राश्व्रायं वर्षमस्ति । मेरोः पश्चिमभागे इलावृतानन्तरं द्रिसहस्रयोजनविशालो रेखारूपेण नीलनिषधायतो मान्यवद्गिरिः । ततः एकत्रिंशत्सहस्रयोजनविशालं केतुमाल्रायं वर्षमस्ति । मेरोर्दक्षिणभागमारभ्य सागरपर्यन्तं चतुर्णामिलावृतादिखण्डानां त्रिंशत्सहस्रयोजनानि त्रयाणां मर्यादागिरीणां षट्सहस्रयोजनानि च मेर्वधिष्ठितषोडशसहस्रयोजनमध्ये अष्टसहस्रयोजनग्रहणात् अष्टसहस्रयोजनानि च इति पञ्चाशत्सहस्रं योजनानि सिध्यन्ति। एवं मेरोरुत्तरप्रदेशेपि द्रष्टव्यम्। मेरोः पूर्वभागमारभ्य सागरपर्यन्तं मेर्वधिष्ठित षोडशसहस्रयोजनमध्ये अष्टसहस्रयोजनग्रहणात् अष्टसहस्रयोजनानि इलावृतस्य नवसहस्रयोजनानि गन्धमादनस्य द्विसहस्रयोजनानि च भद्राश्वखण्डस्य एकत्रिंशत्सहस्रयोजनानि च इति मिलित्वा पञ्चाशत्सहस्रयोजनानि सिध्यन्ति । एवं पश्चिमभागेऽपि द्रष्टव्यम् । एवं मिलित्वा लक्षयोजनविस्तारो जम्बूद्वीप इति । तथाचोक्तम्- यस्मिन्नववर्षाणि नवसहस्रयोजनायामानि अष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति । एषां मध्ये इलावृतानं नाम आभ्यन्तरवर्षं यस्य नाभ्यां अवस्थितः सौवर्णः कुलगिरिराजो मेरुः द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः । उत्तरोत्तरेणेलावृतात् नीलः श्वेतः श्रृावानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरयः प्रागयताः उभयतः क्षारोदावधयो द्विसहस्र पृथवः एकैकशः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरात् दशांंशेन दैर्घ्ये एव ह्रसन्ति। (जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितदैर्घ्ये एव ह्रसन्ति ) । एवं दक्षिणेनेलावृतात् निषधो हेमकूटो हिमाचल इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधाः हरिवर्षकिम्पुरुषभारतानां यथास”्यम्। तथैवेलावृतं अपरेण पूर्वेण च माल्यवद्गन्धमादनौ आनीलनिषधायतौ द्विसहस्रवृद्धौ केतुमालभद्राश्वयोः सीमानं विदधाते।’ (5.16.6-10) इत्यादि भागवते । ‘जम्बूद्वीपस्समस्तानां एतेषां मध्यसंस्थितः । तस्यापि मेरुर्मैत्रेय मध्ये कनपर्वतः । चतुराशीतिसाहस्रो योजनैरस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्तात् द्वात्रिशन्मूर्ध्नि विस्तृतः ॥ मूले षोडशसाहस्रो विस्तारस्तस्य (सर्वशः)भूभृतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥ हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च श्रृी च उत्तरे वर्षपर्वताः ॥ लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायाः तावद्विस्तारिणश्च ते ॥ भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । हरिवर्षं तथैवान्यं मेरोर्दक्षिणतो द्विज ॥ रम्यकं चोत्तरं वर्षं तस्यैवान्ते(वानु) हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥ नवसाहस्रमेकैकमेतेषां द्विजसत्तम । इलावृतं च तन्मध्ये (सौवर्णो)तन्मध्ये मेरुरुच्छ्रितः ॥ मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥ विष्कम्भारचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥ विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । (2.2.7-18) (आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः॥’ 2.37) इत्यादि विष्णुपुराणे च । लक्षप्रमाण इत्यादेरर्थस्तु द्वौ नीलनिषधौ पर्वतौ प्राक्पश्चिमतो दैर्घ्यै लक्षप्रमाणौ एतदुक्तम्- वाराहे(75.28) ‘द्वीपस्य मण्डली भावाद्ध्रासवृद्धी प्रकीर्त्यते’ इति । तथा वै भारतमिति द्वीपमण्डलप्रान्तवर्तित्वात् कुरुवर्षं धनुराकारमित्यर्थः । एतेषां भारतादीनां मध्ये एकैकवर्षं विस्तरतः नवसहस्रयोजनप्रमाणं इलावृतं तथैव च नवसहस्रयोजनविस्तारसाम्येपि इलावृते विशेषमाह । तन्मध्य इति । तदाह वायुः(पूर्वार्ध.34.31) ‘धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्॥’(दीर्घाणि तत्र चत्वारि मध्यमन्तादिलावृतम्) इति । विष्कम्भाः मेरोश्चतुर्दिशं दार्ढ्यार्थं अवष्टम्भपर्वता इति ॥ तदन्ये इति॥ ‘जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज । कुशक्रौञ्चौ तथा शाकः पुष्करश्चैव सप्तमः ॥ एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः । लवणेक्षुसुरासर्पिदधिदुग्धजलैः समम् ॥’ इति विष्णुपुराणोक्ताः(2.2.5-6) सागराः अन्यद्वीपाः क्रमेण द्विगुणेनोत्तरोत्तराः ॥ 41 ॥ ॥ अन्त्याध्यर्धस्थलमिति ॥ अन्त्यस्य चतुः षष्टिलक्षयोजनप्रमाणविशालस्य शुद्धोदकस्य सागरस्य यः अधिकः द्वात्रिंश्रक्षयोजनप्रमाणविशालत्वलक्षणः। स च ततोप्यधिकं चतुष्षष्ठिलक्षयोजनप्रमाणपरिणाहश्चतावत्प्रमाणविस्तीर्णस्थलं षण्णवतिलक्षयोजनविस्तीर्णं हैमस्थलमित्यर्थः । तथाचोक्तम्- ‘लक्षषण्णवतिर्हेमयोजनानां ततः क्षितिः । दशयोजनलक्षं त्वधरोर्ध्वयोः उभयोरपि ॥ नानावर्णैर्महारत्नैः खचिता भूमिरूर्जिता ॥’ इति वाराहे ॥ 43 ॥ ॥ एतत्सर्वमिति ॥ एतत्सर्वं जम्बूद्वीपादिकमारभ्य लोकालोकपर्यन्तस्थलं लोकनाम सूर्यप्रकाशवत्वादिति भावः । जम्बूद्वीपादिमारभ्य लोकालोकपर्यन्तं पञ्चाशल्लक्षोत्तरकोटित्रयं तमः तद्द्विगुणं लोकाद्द्विगुणंसप्तकोटियोजनविस्तीर्णमिति यावत्। घनोदकं तद्द्विगुणं तमोद्विगुणं चतुर्दशकोटियोजनविस्तीर्णमिति यावत् ॥ 44 ॥ लोकालोकप्रदेशः पञ्चाशल्लक्षविस्तृतः सपञ्चाशत्सहस्रश्च । ननु लोकालोकप्रदेशस्य ग्रन्थान्तरे पञ्चाशल्लक्षमात्रविस्तृतत्वोक्तेः कथं सपञ्चाशत्सहस्रपञ्चाशल्लक्षयोजनविस्तृतत्वोक्तिः इत्यत आह- तस्यापीति ॥ तस्यापि पञ्चाशल्लक्षयोजनस्यापि गणनं युज्यते । लक्षयोजनविस्तृतजम्बूद्वीपमध्यस्थितमेरोर्दक्षिणादिभागमारभ्य लोकालोकप्रदेशपर्यन्तं गणने प्रागुक्तसार्धकोटित्रये पञ्चाशत्सहस्रयोजनानि न्यूूनानि भवन्ति । लक्षयोजनविस्तृतसमग्रजम्बूद्वीपमादाय समग्रगणने तु पञ्चाशत्सहस्रयोजनानि पूर्णानि च भवन्ति । तथाच लोकालोकस्य स्वभावतः सपञ्चाशत्सहस्रपञ्चाशल्लक्षयोजनविस्तृतत्वेन लक्षयोजनविस्तृतजम्बूद्वीपार्धमादाय लोकालोकस्य पञ्चाशत्सहस्रयोजनानि लोकालोकादर्वाक् मेलयित्वा गणनं कर्तव्यम् । अन्यथागणने पञ्चाशत्सहस्रयोजनानां आधिक्यापत्तेरिति ग्रन्थान्तरोक्तिरित्यतो न विरोधः । तथाचोक्तम्- आलोकालोकयोेर्मध्ये लोकालोको महाचलः । लक्षद्वयं योजनानां उच्चता तस्य कीर्तिता ॥ उपत्यका तु तस्यास्ति योजनायुतपञ्चकम् । योजनानां तु लक्षाणां पञ्चाशत्तस्य विस्तृतिः॥ इति वाराहे । तस्य लोकालोकाचलस्य योजनायुतपञ्चकम्, पञ्चाशत्सहस्रमित्यर्थः । उपत्यका आसन्नभूमिरित्यर्थः । ‘उपत्यकाद्रेरासन्नभूमिरूर्ध्वमधित्यका’इत्यमरः । शिष्टं स्पष्टमिति वाराहवचनार्थः ॥ मेरुपर्वतादिति ॥ चतुर्षु दिक्ष्वधोभागमादाय गणने मेरुपर्वतादित्यस्य मेरुपर्वतमध्यादित्यर्थः । अन्यथा पञ्चविंशतिकोटौ अष्टसहस्रन्यूनतापत्तेः । मेरुपर्वतादितिसामान्योक्तेस्तु ऊर्ध्वभागमादाय गणने मेरुमादायेति द्योतनायेति बोध्यम् । तदुक्तम्- ‘पञ्चायुतविहीनं तु सार्धकोटित्रयं त्विदम् । योजनानां मेरुमध्यात् गणना परिकीर्तिता॥’ इति वाराहे ॥ 44 ॥ ॥ योजनानामिति ॥ जम्बूद्वीपं लक्षयोजनं प्लक्षं द्विलक्षंशाल्मलं चतुर्लक्षं कुशमष्टलक्षं क्रौञ्चं षोडशलक्षं शाकं द्वात्रिंशल्लक्षं पुष्करं चतुष्षष्टिलक्षं सर्वं मिलित्वा सप्तविंशतिलक्षोत्तरकोटिस”्याकं भवति । एवं समुद्रगणनं द्रष्टव्यम् । सुवर्णभूमिष्षण्णवतिलक्षयोजनविस्तृता । सर्वं मिलित्रा सार्धकोटित्रयम्। ततस्तु द्विगुणं सप्तकोटियोजनं तमः । तद्विगुणं घनोदकं चतुर्दशकोटियोजनम्। लोकालोकस्सपञ्चाशत्सहस्रपञ्चाशल्लक्षयोजनः । एवं मिलित्वा मेरुपर्वतात् मेरुमारभ्य योजनानां पञ्चविंशत्कोटय इति चतसृष्वपि दिक्षूर्ध्वं अधश्चाण्डं प्रकीर्तितम् । समग्रजम्बूद्वीपमादाय गणने सति पञ्चाशत्सहस्रयोजनाधिक्येऽपि जम्बूद्वीपमध्यस्थमेरुमध्यमारभ्य गणने तु आधिक्यं नास्तीति सूचनाय मेरुपर्वतादित्युक्तमिति बोध्यम् ॥ अबग्नीरेति ॥ पञ्चाशत्कोटिविस्तारब्रह्माण्डान्तार्गतभूम्यपेक्षया ब्रह्माण्डखर्परं द्विगुणम् । शतकोटियोजनदलं तद्दशगुणिता आपः एवमुत्तरत्रापि द्रष्टव्यम् । तथाचोक्तम्- ‘सूक्ष्मत्वात् आवृणोत्यण्डं द्विगुणा तु दशोत्तरा । अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृता ॥’ इति तृतीयस्कन्धतात्पर्ये ॥ परतस्तत इति ॥ ततः गुणत्रयाऽनन्तरं विरजानदीति शेषः । ततः विरजाऽनन्तरं अहं व्याप्तः । तथाचोक्तंआवरणप्रस्थाने- ‘प्रधानपरमव्योम्नोरन्तरा विरजानदी । देव्रास्वेदजनिता तोये विद्राविता शुभा ॥ (227अ/58-59)।(विरजापरमव्योम्नोरन्तरं केवलं स्मृतम्’इति उपलभ्यमानपाठः ) विरजायाः परं व्योम्नोरन्ते केवलं स्मृतम् । तत्स्थानमुपभोक्तव्यं अव्यक्तब्रह्मसेविनाम् ॥’ इति पाद्मे (उ.खं.228अ/8)। विरजानद्यनन्तरं किं वर्तत इत्यतः सर्वव्यापकनारायण्रायरूपेणाऽहं वर्तेत्याह- परतस्तत इत्यादिना ॥ अनन्तः महागुणः ‘महद्गुणत्वाद्यनन्तमाहुः’ इति भागवतोक्तेः । यद्वा परिच्छेदत्रयशून्यः। अनन्तरूपः अनन्तसौन्दर्यवान्। ‘ रूपशब्दो पशौ क्लेशे ग्रन्थावृत्तौ हितादिषु । सौन्दर्ये च स्वभावे च…………..॥’ इति यादवः । निरन्तरः स्वावतराभिन्नः । ‘अभेदात् स्वावतारेषु निरन्तर उदाहृतः’ इति वचनात् । एतेन रूपान्तराणां सर्वत्रव्याप्तत्वे विभक्तबुद्ध्यवतारार्थं भगवदचिन्त्यैश्वर्यात् देशतः अव्याप्तत्वं चास्ति । ब्रह्माण्डबहिष्ठनारायणरूपस्य तु नास्तीत्युक्तं भवतीति वेदितव्यम् । तथाचोक्तम्- ‘कालकूटविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशानन्त्यं तथैव च ॥ गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥ तस्य सर्वस्वरूपेषु ह्यानन्त्यन्तु त्रिलक्षणम् । तथाऽपि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥ परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्याववहारार्थमेव च ॥ गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतोऽप्यस्ति सर्वभूतेषु यद्यपि ॥ न च भेदः क्वचित्तेषां अणुमात्रेऽपि विद्यते । अणुत्वं महत्त्वञ्च यस्मादैश्वर्ययोगतः ॥ तस्माद्बुध्यवतारार्थं अव्याप्तत्वं च युज्यते । यत्तस्य व्यापकं रूपं परं नारायणाऽभिधम् ॥ शून्यं ब्रह्मेति तत्प्राहुः द्वितीयं स्रष्टृ यत्ततः । परमः पुरुषो नाम मितं तद्देशतो विभोः ॥ तृतीयं वासुदेव्रायं जगदावरकं मितम् । देशतो जगदाऽविष्टं तुरीयं विष्णुनामकम् ॥’ इति ब्रह्मतर्के तृतीयतात्पर्ये । उक्तं च द्वितीयस्कन्धतात्पर्ये- ‘यदा शेते प्रलये विष्णुः शून्यनामा महाकृतिः । स तु नारायणो नाम नाराऽयणमयनत्वतः ॥’ इति तन्त्रमालायाम् ॥ 46-51 ॥ ॥ अन्तरिक्षमिति ॥ त्वया अन्तरिक्षं अन्तरिक्षलोकः लक्षयोजनमुच्छ्रितं लक्षयोजनोन्नतमिति प्रोक्तमित्यर्थः । विमानावलिस’ुलः स्वर्गः अर्धकोट्युच्छ्रितः पञ्चाशल्लक्षयोजनोन्नतः ॥ 52 ॥ तयोर्विस्तारमाह- भुव इति ॥ भुवः अन्तरिक्षलोकः स्वर्गश्च योजनानां कोट्यैव विस्तृतो कोटियोजनविस्तारवानित्यर्थः । महर्जनतपोलोकोनाम्नां औन्नत्यमाह- महर्जन इत्यादिना ॥ अस्यार्थः महर्लोकः पञ्चसप्ततिसहस्रोत्तराष्टोत्तरषष्ठिलक्षोत्तरकोटियोजनोच्छ्र्रिुतः । एवं त्रयाणामौन्नत्यमुक्त्वा विस्तारमाह- पञ्चाशदिति ॥ समस्तशः महर्जनस्तपःप्रदेशः योजनानां पञ्चाशत्कोटिविस्तारवानित्यर्थः ॥ 53 ॥ सत्यलोकस्यौन्नत्यविस्तारावाह- यावन्त इति ॥ एते स्वर्गान्तरिक्षाद्याः मिलिताः यावन्तः यावत्प्रमाणवन्तः सत्य्रायो ब्रह्मलोकः तावत्प्रमाणः पञ्चविंशतिसहस्रोत्तरष्रक्षोत्तरचतुष्कोटियोजनोन्नतः पञ्चाशत्कोटिविस्तारश्च । विष्णुलोकः वैकुण्ठः ततः सत्यलोकात् द्विगुणः पञ्चाशत्सहस्रोत्तरद्वादशलक्षोत्तराष्टकोटियोजनोन्नत इत्यर्थः । एवं भूलोकमारभ्य गणने पञ्चविंशतिलक्षोत्तरषोडशकोटियोजनानि सम्पन्नानि। तन्न्यूनयोजनानि तु एवं मेलयितव्यानि । स्वर्गभूकन्दं अर्धलक्षम्, महर्लोकभूकन्दं पञ्चविंशतिलक्षोत्तरकोटियोजनम्, जनसत्यतपोलोकानां भूकन्दं प्रत्येकशः पञ्चाशल्लक्षोत्तरकोटियोजनं त्रयाणां लोकानां मिलित्वा पञ्चाशल्लक्षोत्तरचतुष्कोटियोजनानि सम्पन्नानि । वैकुण्ठभूदलं पञ्चाशत्सहस्रोनकोटित्रयम्। सर्वं मिलित्वा पञ्चसप्ततिलक्षोत्तराष्टकोटिस”्याकं सम्पन्नम् । तथा च मेरुमारभ्य वैकुण्ठान्तानां लोकानामुच्चत्वं पञ्चविंशतिलक्षोत्तरषोडशकोटियोजनयुक्तम् । स्वर्गादिवैकुण्ठानां भूदलानि तु पञ्चसप्ततिलक्षोत्तराऽष्टकोटियोजनानि । एवं मिलित्वा पञ्चविंशतिकोटियोजनानि सम्पन्नानीति बोध्यम् । तथाचोक्तम्- ‘एवं चोपरिलोकानां अन्तरा भूर्भुवो भवेत् । पञ्चविंशतिकोट्यश्च तत्स”्यानं वदाम्यहम् ॥ अर्धकोट्युच्छ्रितः स्वर्गो विमानावलिस’ुलः। महर्जनस्तपश्चैव क्रमादध्यर्धयोजनाः॥ तथोच्चाः परिकीर्त्यन्ते तावद्वै ब्रह्मणः पदम् । ब्रह्मलोकाद्विगुणितो वैकुण्ठः परिकीर्तितः ॥ षण्णां चैव तु लोकानां अन्तरालापि या क्षितिः । स्वर्गस्यैव तु भूकन्दं अर्धलक्षेण सम्मितम् ॥ सपादकोटियंयुक्तं महर्लोकस्य भूदलम् । सार्धकोटिजनो लोके भूकन्दं परिकीर्तितम् ॥ एवं वै तपसः प्रोक्तं सत्यस्यापि तथैव च । सार्धद्विकोटिसंयुक्तं ऊनं लक्षार्धतः क्रमात् ॥ वैकुण्ठस्यार्धकोट्या च श्रीलोकः परिकीर्तितः । पञ्चविंशतिकोट्यश्च विज्ञेया मानवादिभिः ॥ सार्धकोट्या च भूकन्दं दुर्गया परिपालितम् । एवं कोट्युच्छ्रितं कन्दं धरया परिपालितम् ॥ लक्ष्म्यात्मको महालोकः त्वर्धकोट्या च सम्मितः । एवं त्रिकोटिसंयुक्तं वैकुण्ठस्य च भूदलम् ॥ लक्ष्म्यात्मकेन लोकेन संयुक्तं लोकपञ्चकम् । पञ्चविंशतिकोट्या च उच्छ्रितं परिकीर्तितम् ॥ दुर्गात्मके च भूभागे अर्धलक्षबिलं भवेत् । सप्ताऽवरणसंयुक्तं विमानाऽवलिराजितम् ॥ गम्यते सृतिगैस्सर्वैर्वैकुण्ठस्याऽपि चोच्यते । अनाप्तल्रिभ्रा ये वैकुण्ठपुरवासिनः ॥ भूम्यात्मके मध्यखण्डे विमानाऽवधिस’ुले । प्राकारसप्तकयुते तावन्मायां पुरे हरेः ॥ तिष्ठन्ति ब्रह्मकल्पान्ते ब्रह्मणा सह मुक्तिगाः । त्यक्तल्रिाश्च ये जीवाः खण्डे चैवान्तिमे स्थिताः ॥ लक्ष्म्यात्मके महालोके सच्चिदानन्दरूपके । न तत्र गमनं क्वापि सृतिस्थानां कथञ्चन ॥ विना ब्रह्माणमेवैकं सोऽपि याति क्वचित्क्वचित् । एवं धामत्रयस्यापि खण्डत्रयमुदाहृतम् ॥ खण्डद्वयस्य वैकुण्ठे लयस्तु ब्रह्मणा सह । अन्त्यखण्डस्य नास्त्येव प्रलयः क्वापि केन हि ॥ सर्वत्राऽप्यन्त्यखण्डस्य लयो नास्ति न संशयः । भस्मीभूते च ब्रह्माण्डे कारणे च लयं गते ॥ जलपूर्णं भवेत्सर्वं तत्र धामत्रयं शुभम् । अन्तर्जले च लक्ष्म्या च विष्णुना चाप्यधिष्ठितम् ॥’
इत्यादि ब्रह्माण्डे । विष्णुलोकस्सनातन इत्येतल्लक्ष्म्य्रायखण्डस्य नाशाभावाभिप्रायेणेति बोध्यम् ॥ 54-56 ॥ ॥ (अधो)ततो पातालसप्तकमिति ॥ एकैकस्य पातालस्य बिलमयुतयोजनम् । मर्यादाभूतभूदलं तु द्विसहस्रयोजनम् । एवं सप्तपातालानां चतुरुत्तराऽशीति सहस्रयोजनानि सम्पन्नानि भवन्ति । सप्तपातालाधोस्थिताऽष्टमस्य नरक्रायलोकस्य द्वादशसहस्रयोजनं बिलं मर्यादाभूतं तद्दलं तु चतुस्सहस्रयोजनम् । ततश्च पातालसप्तकस्य चतुरुत्तराशीतिसहस्रयोजनानि । नरकस्य षोडशसहस्रयोजनानि च मिलित्वा लक्षलक्षयोजनानि सम्पन्नानि इति बोध्यम् । तदधः लक्षयोजनोनपञ्चविंशतिकोटियोजनं जलमिति च बोध्यम् । तथाचोक्तम्- भूमेरधो लक्षमात्रं भूकन्दं परिकीर्तितम् । लोकानामन्तरालं तु भानुस”्यासहस्रकम् ॥ बिलानां सप्तलोकानां अयुतं च पृथक्पृथक् । लोकस्याधो द्विसाहस्रमेकैकस्य दलं भवेत् ॥ एवं द्वादशसाहस्रमेकैकस्योच्छ्रयो भवेत् । एते लोका बिला स्वर्गाः देवदानवसेविताः ॥ अतलं वितलं चैव सुतलं च महातलम् । तलातलं रसातलं पातालमिति सप्तकम् ॥ सप्तलोकादधः प्रोक्तो नरक्रायो महामते । उच्छ्रयं भानुस”्यातः सहस्रं परिकीर्तितम् ॥ चतुस्सहस्रस”्यातं नरकस्य च भूदलम् । पापिभिः सेव्यमानोयं नरकस्तु सुदारुणः ॥ एवं लक्षमिदं प्रोक्तं भूकन्दं जलमध्यगम् । ततो जलेन सम्पूर्णं ब्रह्माण्डं परिकीर्तितम् ॥ पञ्चविंशतिकोट्यश्च लक्षोनाजलमिश्रितम् । अष्टानामपि लोकानां विस्तारो भूमिवद्भवेत् ॥ इति च ब्रह्माण्डे । बलिना बलिचक्रवर्तिना च ‘तत्रासतो मे पाताले भागं ब्रूूहि सुरेश्वर’ (3.72.45)इति बलिवचनात्
‘मुक्तो निवस पाताले सपुत्रजनबान्धवः । इतस्त्वया न गन्तव्यं गव्यूतिमपि दानव ॥’ इति वामनवचनाच्च हरिवंशे (3.72.90-91)। ‘अनन्तेन च संयुक्तं मुचुकुन्देन धीमता । नृपेण बलिना चैव पातालस्वर्गवासिना ॥’ इति कौर्मे च (1भाग.42.17) यद्वा शेषदेवेन समधिष्ठितमित्यत्र शेषदेवेन समधिष्ठितपातालसप्तकं इत्युक्ते वासुकेरपि प्रशेषसञ्ज्ञकत्वेन प्रसिद्धत्वे शेषदेवपदेन वासुकेरपि प्राप्त्या ( कक्षां )निवारयितुं बलिनेति विशेषणम् । तथाच ‘मृृृत्युः सङ्कर्षणः शेषः शेतानन्तस्तथैव च । बलिर्महाविषश्चेति भूधरश्चेति कथ्यते॥’ इत्यभिधानात् (बृ.भा.3.5.)। बलिसञ्ज्ञकशेषः स’र्षण एवेति नान्यः प्रापेति भावः ॥ 57 ॥ सप्तद्वीपेषु जम्बूद्वीपादिसप्तद्वीपेष्वित्यर्थः । यत्तु ‘सप्तद्वीपेषु भूविवरेषु’ इति वरदराजीयव्य्रायानं ‘अधश्च लोकेषु’ इत्यनन्तभट्टीयव्य्रायानञ्च तदुभयमपि चिन्त्यम् । अपदार्थत्वात् । जलान्तरितप्रदेशस्यैव द्वीपशब्दवाच्यत्वेन भूविवराणामुभयपार्श्वयोर्जलान्तरितत्वात् यथावस्थितग्रहणे बाधकभावाच्च ॥ 58-72 ॥ ॥ इतीरित इति ॥ तस्य चोत्तरं दत्वेति शेषः । ‘राज्ञां दूतमुवाचेदं भगवान्प्रेमया गिरा । मा भैष्ट दूत भद्रं वो घातयिष्यामि मागधम् ॥ इत्युक्तः प्रस्थितो दूतो यथावदवदन्नृपान् ॥’ इति सभापर्वोक्तेः ॥ निशम्य तद्वचन इति ॥ तस्येन्द्रसेन्रायसारथेः वचः । ‘धर्मराजो हृषीकेशधौम्यव्यासादिभिस्सह । पाञ्चालमात्स्यसहितैः भ्रातृभिश्चैव सर्वशः । त्वद्दर्शनं महाबाहो काते स युधिष्ठिरः॥ ’ इत्यादि सभापर्वोक्तं वाक्यमित्यर्थः (13.48-49)॥ 73-75 ॥ ॥ क्रतुर्यथाविधानत इति ॥ यथा विधानत इति यथाविधानतः कृतः क्रतुः पारमेष्ठ्यकं पदं ब्रह्मपदं नयेदिति पूर्वेणान्वयः । ननु ब्रह्मपदायोग्येन स्रामाचरितोऽप्ययं क्रतुबर््रह्मपदं न प्रापयति चेत् तर्हि वैफल्यप्रस्र इत्यत आह नयेत् । ननु यैः यैः अयं क्रतुः क्रियते तांस्तान् सर्वानप्ययं क्रतुः ब्रह्मपदं नयेत् किमित्यत आह- तत्पदे सुयोग्यमेवेति ॥ तत्पदे ब्रह्मपदे सुयोग्यमेव पुरुषं पारमेष्ठ्यपदं नयेदिति पूर्वेणाऽन्वयः । ब्रह्मपदयोग्येनैव कृतोऽयं क्रतुस्ताददृशमेव ब्रह्मपदं प्रापयेदिति यावत् । अन्यथा न ब्रह्मपदायोग्येन कृतश्चेत् तं ब्रह्मपदं न प्रापयेदित्यर्थः ॥ 75 ॥ तदेव विवृणोति- अयोग्यकानिति ॥ एषः क्रतुः राजसूयः विधातुः चतुर्मुखस्य महापदे महच्च तत्पदं च उत्कृष्टपदमित्यर्थः। तस्मिन्नयोग्यकान् योग्यतारहितान् पुरुषान् पारमेष्ठ्यकं पदं न नयेदिति पूर्वेणान्वयः । ननु ब्रह्मपदायोग्येन स्रामाचरितोऽप्ययं क्रतुः ब्रह्मपदं न प्रापयति चेत् तर्हि वैफल्यप्रस्र इत्यत आह- समानयोग्यतागणादित्यादिना ॥ एषः क्रतुः मुक्तिगं राजसूयकर्तारं मुक्तिस्थितपुरुषवरं श्रेष्ठं करोति । किमपेक्षयेत्यत आह- समानेति ॥ समानयोग्यतापुरुषवद्गणात् वरं करोतीत्यर्थः ॥ 76 ॥ अयोग्यकमिति पाठे तु ननु स्राानुष्ठितेनापि राजसूयेन ब्रह्मपदप्राप्त्यभावे स्रााद्वैदिककर्मणः फलावश्यम्भावनियमादिति नियमभ्रप्रस्र इत्यत आह- अयोग्यकमिति ॥ एषः क्रतुः विधातुर्महापदे अयोग्यकं योग्यतारहितं मुक्तिगं मुक्तिस्थितं पुरुषं समानयोग्यतागणात् वरं करोति । तथाच पूर्वं सर्वमपि समानमेव तन्मध्ये केनचिद्ब्रह्मपदायोग्येन राजसूयः कृतश्चेत्तत्स्वसमानानां मध्ये मुक्तौ श्रेष्ठं करोतीति भावः । वेद्रातीर्थास्तु ‘अयोग्यकान्महापद इत्यत्र अयोग्यकादिति पदच्छेदः एषः क्रतुः महापदे अयोग्यकं राजसूयकर्तारमिति शेषः । मुक्तिगं विधातुः महापदे अयोग्यकात् समानयोग्यतागणात् परमाधिक्ययुक्तं करोति’ इति व्याचक्षते । तच्चिन्त्यम् । उक्तरीत्या योजनोपपत्तौ कुसृष्टिगौरवात् पदद्वयाऽध्याहारे च गौरवाच्च ॥ 76 ॥ ॥ पुरात्विति ॥ मुक्तितः पुरा मोक्षप्राप्तेः प्राक् स्वजातितः अधिकं करोति । अयं भावः । येन राजसूयः क्रियते तं पुरुषं मुक्तेः प्राक् स्वयं यज्जातीयः तज्जाताऽवधिकं करोति । मुक्त्यनन्तरं तु मुक्तौ स्वसमानेषु श्रेष्ठं करोतीति । उपसंहरति- अत इति ॥ त्रिश’ुपुत्रकः त्रिश’ोः त्रीणि श’ूनि पित्रपरितोषणगुरुगोहननाप्रोक्षितान्नभक्षणलक्षणानि यस्य स तथोक्तः। तस्येत्यर्थः । पुत्रो हरिश्चन्द्रः । तथाच तादृशदोषित्रिश’ुपुत्रत्वेऽपि हरिश्चन्द्रस्य राजसूयकारित्वात् आधिक्यं प्राप्तं इति सूचयितुं त्रिश’ुपुत्र इत्युक्तम्।अतः राजसूयकारित्वादित्यर्थः । तथाचोक्तम्- ‘पितुश्चापरितोषेण गुरोर्दोग्ध्री वधेन च । अप्रोक्षितोपयोगाच्च त्रिविधिस्तेव्यतिक्रमः ॥ एवं त्रीण्यस्य श’ूनि तानि दृष्ट्वा महातपाः । त्रिश’ुरिति होवाच वसिष्ठो मुनिसत्तमः ॥’ इति हरिवंशे (1.13.18-19)॥ 77-78 ॥ अद्य तु यावत्पर्यन्तं राजसूयो न क्रियते तावत्कालपर्यन्तमित्यर्थः । यत्तु ‘अद्य संसारावस्थायां न शक्ष्यति । शक्तो न भविष्यति’ इति वरदराजीयव्य्रायानं तन्न । ‘राजसूयतः त्रिश’ुजाऽधिको भवान् । अवाप्स्यति स्वकां तनुम्’ इत्युत्तरग्रन्थे संसारावस्थायामेव राजसूयकरणे हरिश्चन्द्राऽधिक्यप्राप्तिकथनात् तद्विरोधात् । ननु मानुषत्वेन जातानां देहिनां मरणानन्तरं स्वरूपप्राप्तिः मत्पितुरपि देवांशत्वात् मरणानन्तरं मूलरूपप्राप्तिसम्भवात् । मूलरूपस्य च हरिश्चन्द्रादप्यधिकत्वेन त्रिश’ुजाद्वरत्वं आप्तुं न शक्ष्यति इति कथमुच्यते इत्यतो मूलरूपप्राप्तिरेव नास्तीति वक्तुं तत्र तावन्निमित्तमाह- तपश्चरन्नित्यादिना ॥ दिवं न गच्छतीति शेषः । गतोपि यत्किञ्चित्कारणविशेषादिति शेषः ॥ 79-83 ॥ (वायुवाहनः वायुर्वाहनं यस्य सतथोक्तः। विष्णुवाहनत्वन्तु जीवस्य देहोत्क्रमणकाले प्रसिद्धम् । आरुह्य वायुसुतमित्यादिना। रामावतारेऽपि प्रसिद्धम् । इदं वाक्यं क्वचित् नोपलभ्यते ) यत्तु ‘वायुवाहनः वायोरपि प्रणेता’ इति वरदराजीयव्य्रायानम्। तन्न । षष्ठीतत्पुरुष्राीकारे वाहनशब्दस्य नपुंसकल्रित्वेन वायुवाहनमित्यापातात् । ‘सर्वं स्याद्वाहनं यानं युग्यं पत्रं च धोरणम्। परम्परावाहनं यत्तद्वैनीतकम्…॥’ इत्यमरसिंहाद्यैः वाहनशब्दस्य नपुंसकल्रिे च अभिधानात् ॥ 84 ॥ ॥ तथेति ॥ तथा सतां समाश्रयो भवेत् । सतां सज्जनानां गुणाः ज्ञानभक्तिवैराग्यादयो यदुद्भवाः यत्पुरुषोद्भवाः स एतादृग्गुणविशिष्टः एक एव तादृशः जरासन्धसमः स पुरुषः त्वया विचिन्त्य विचार्य यात्यतां जरासन्धं प्रति प्रेष्यताम् ॥ 85-103 ॥ वः त्रीन् युष्मान् विनाऽहं पुमानिति न स्मृतः । मनश्चक्षुरिन्द्रियाऽभावे जडत्वदर्शनादिति भावः ॥ 104-111 ॥ ॥ मया हीति ॥ स्वयं रिपुः मम रिपुरित्यर्थः । ‘निहत्य कृष्णस्य रिपुं स भीम’ इत्याद्युत्तरवाक्यात् यद्वा मया रिपुः जरासन्धः स्वयं साक्षादव्यवधानेनेति यावत् । न हन्यते । तत्र हेतुमाह- नीतिहेतुत इति ॥ यत्तु ‘स्वयं मयैव न निहन्यत’ इति वरदराजीयव्य्रायानं तन्न । मयेत्यनेनैव स्वयमित्यस्य लाभेन पुनः स्वयमित्यस्य पौनरुक्त्यापातात् ॥ 112-114 ॥ तद्गुणान् तस्य कृष्णस्य गुणान् पूतनानरककंसचाणूरादिवधादिगुणान् ॥ 115-117 ॥ माषस्य माषनाम्नोऽसुरस्य नालेन कण्ठनालेन ‘यत्र मांसादमृषभमाससाद बृहद्रथः । तं हत्वा मांसनालाभिः तिस्रो भेरीरकारयत् ॥ स्वपुरे स्थापयामास तेन चानह्य चर्मणा । यत्र ताः प्रणदन् भेर्यो दिव्यपुुष्पावचूर्णिता ॥’ इत्यादि सभापर्वणि (21.20-21) । व्यासतीर्थास्तु ’माषस्य माषनाम्नो वृक्षस्य नालेन मूलेन’ इति व्याचक्षते । तच्चिन्त्यम् । भेरीकरणयोग्यमाष्रयवृक्षस्याप्रसिद्धेः । उक्तमानविरोधाच्च ॥ 118-147 ॥ ॥ अद्वारत इति ॥ ‘अद्वारेण रिपोर्गेहे द्वारेण सुहृदो गृहान् । प्रविशन्ति नरा धीरा द्वाराण्येतानि धर्मतः॥ ’ इति सभापर्ववचनादिति भावः (21.60)॥ ब्रह्माण्डस्फोटस’ाशै रवैर्युक्ताभिरिति शेषः । मुष्टिभिर्जघ्नतुः ॥ 148 ॥ गिरयः युद्धभूमिस्थिता गिरयः चूर्णिताः अ्रि्रपातादिभिरिति शेषः । यत्तु ‘गिरयः पृथिव्यां विद्यमानाः गिरयश्चूर्णित आसन्’ इति वरदराजीयव्य्रायानम्। तन्न । युद्धभूमिस्थपर्वतानां अ्रिपातादिना कारणेन चूर्णितत्वेपि स्थलान्तरे स्थितगिरीणां अ्रि्रपातादिकारणाभावेन चूर्णितायोगात् । कारणस्य समानदेशीयस्यैैव कार्यजनकतानियमात् ॥ 149 ॥ ॥ क्रमशोे बलं स्वं समदद इति ॥ ‘पाण्डवो भीमसेनोऽहं धर्मराजादनन्तरः । नागायुतसमप्राणः त्वया नीतः कथं वशम् ॥’ इति भारते (वन.181.3) । भीमस्य नागायुतबलवत्वप्रसिद्धेः जरासन्धस्याऽपि भारतादौ नागायुतबलवत्वप्रसिद्धेरुभयोरपि बलसाम्याप्रतीतेर्भीमदेहस्थबलापेक्षयाधिकबलं समादद इति भावः । तथाचोक्तम्- ‘यत्तद्दैवं परं सत्वं यच्च ते मातरिश्वानः । बलं भीम जरासन्धे दर्शयाशु तदद्य वै ॥’ इति कृष्णवचनात् सभापर्वणि (25.4) ॥ 150-158 ॥ असौ सहदेवदत्तो रथः वसुना वसुसञ्ज्ञकराज्ञा वासुदेवादाप्तः प्राप्तः । (ननु साक्षाद्वसवे शक्तिमित्यत आह- शक्रान्तरेति ॥ शक्रव्यवधानेन शक्रेण दापयामास नतु स्वयं दत्तवानिति भावः ॥ रथो ह्यसाविति ॥ शुशुभे रथवर्योऽसौ यो दुर्जयस्सर्वधन्विभिः । शक्रविष्णू हि स्र्रामे चेरतुस्तारकामये ॥ रथेन तेन कृष्णस्तु समारुह्य ययौ तदा ॥ (सभा. 25.27-28) यं लेभे वासवाद्राजावसुस्तस्मात् बृहद्रथः । बृहद्रथात्क्रमेणाऽपि प्राप्तो बार्हद्रथो नृपम् ॥’ इत्यादि सभापर्वणि (25.41)॥ 159-160-168 ॥ ॥ हेतवोऽपि हीति ॥ देवा सुराः प्रायः पापस्य हेतवः कर्तारः अपि पापहेतवोपि पापस्य फलभागिनो नकिन्तु पुण्यस्यैव फलभागिनः । दैत्यास्तु प्रायः पुण्यस्य हेतवोऽपि कर्तारोऽपि पुण्यस्य फलभागिनो न किन्तु पापस्यैव फलभागिनः । मनुष्यास्तु द्विभागिनः । ‘पुण्यफलभागिनः पापद्वेषादिका दोषा अवराणां न संशयः । भक्त्यादिगुणरूपास्तु नराणामाविरञ्चतः ॥ स्वातन्त्र्यात्सर्वदोषेषु स्थितानामपि सर्वशः । स्पृश्यन्ते नैव दोषैस्ते गुणदानैकतत्परा ॥’ इति स्मृतेः । ‘यदु किञ्चेमाः प्रजाः चन्त्यः नैतासां तद्भवति पुण्यमेव गच्छति। नह वै देवान् पापं गच्छति’ इति श्रुतेश्च । देवदैत्यानां पुण्यपापफलानुभवस्तस्मिन्नेव जन्मनि मनुष्याणां तु जन्मान्तर इति ज्ञेयम् । पूर्वदेहकृतं कर्म भुञ्जते तदिह प्रजाः । इहैव यत्कृतं पुंसां तत्परत्र भविष्यति ॥ देवानामसुराणां च अमरत्वात्तपोबलात् । एकेनैव शरीरेण भुज्यते कर्मणां फलम् ॥’ इत्याद्यनुशासनोक्तेः (224.10-11) ॥ 169-179 ॥
पूर्वमेव वा युद्धात्पूर्वमेव युद्धकरणात्प्रागेव जीवग्राहभयात्करं दास्यन्तीति भावः । जिता वा भीमेन साकं युद्धं कृत्वा भीमात् पराजिता वा करं दास्यन्तीति योजना ॥ 180 ॥ अशेषदिक्षु सप्तद्वीपस्थाशेषदिक्ष्वित्यर्थः॥ 181-182 ॥ इतरे उर्वरितौ दिशौ प्रति यमौ याताम् । तदेव विशदयति- दिशं प्रतीचीमित्यादिना ॥ ययुस्त इति ॥ सैन्यसहिता इति शेषः । तथाचोक्तम्- ‘इत्युक्तः प्रययौ पार्थः सैन्येन महता वृतः । अग्निदत्तेन दिव्येन रथेनाद्भुतकर्मणा ॥ तथैव भीमसेनोऽपि यमौ च पुरुषर्षभौ । ससैन्याः प्रययुस्सर्वे धर्मराजेन पूजिता ॥’ इत्यादि सभापर्वणि (26.9-11) ॥ 183-186 ॥ ॥ दिवसान् कतिचित्सुखमिति ॥ कतिचिद्दिवसान् त्रिंशद्दिनानीत्यर्थः । ‘ततो भीमस्तत्र राजन् उषित्वा त्रिदशक्षपाः । सत्कृतश्शिशुपालेन ययौ सबलवाहनः ॥’ इति सभापर्वोक्तेः (30.16) ॥ 187 ॥ ॥ करमादाय सर्वत इति ॥ सर्वतः दशार्णाधिपसुधर्मादिसर्वनृपेभ्यश्च ॥ 188-215 ॥ ॥ पार्थो जित्वाष्टवर्षाणीति ॥ अष्टवर्षाणि किम्पुरुषाद्यष्टवर्षाणि, अपरान् षड्द्वीपान् प्लक्षादिषड्द्वीपान् । तथाचोक्तम्- ‘शाकलद्वीपवासाश्च सप्तद्वीपेषु ये नृपाः । अर्जुनस्य च सैन्यस्थैः स्र्रामस्तुमुलोऽभवत् ॥ स तानपि महेष्वासा विजित्य पुरुषर्षभ ॥’ इत्यादि सभापर्वणि (27.14-15) ॥ 216-221 ॥ ॥ ततो यज्ञः प्रववृते कृष्णद्वैपायनेरित इति ॥ यत्र कृष्णद्वैपायनो ब्रह्मत्वम्, वशिष्ठ आध्वर्यवमित्याद्यूह्यम् । तथाचोक्तम्- ‘स्वयं ब्रह्मत्वमकरोत्तस्मिन् सत्यवतीसुतः । धनञ्जयानामृषभः ससुतः सामगोऽभवत् ॥ याज्ञवल्क्यो बभूवाथ वसिष्ठोऽध्वर्युसत्तमः । पौलोे होता वसोः पुत्रो धौम्येन सहितोऽभवत् ॥’ इत्यादि च सभापर्वणि (36.34-35)॥ 222-228 ॥ प्राश्निक इत्यर्थः । अशेषसंशयच्छेत्ता निस्संशयः सर्वज्ञः सर्वदोषविवर्जितः प्राश्निक इत्यर्थः । ‘अशेषसंशयच्छेत्ता निस्संशय उदारधीः । एकश्चेत्प्राश्निको ज्ञेयः सर्वदोषविवर्जित ॥’ इति वचनात् ॥ 229-247 ॥ इह भूमौ दुर्योधनादयः तत्र अन्तरिक्षे असुराः कल्याद्याः मूलदैत्याः ॥ 248-249 ॥ ॥ जयः प्रविश्य केशवमिति ॥ ‘अथ ब्रुवत एवास्य भगवान् मधुसूदनः । व्यपाहरच्छिरः क्रुद्धः चक्रेणाऽमित्रकर्शनः ॥ ततश्चेदिपतेर्देहात्तेजोऽग्र्यं ददृशुर्नृपाः । उत्पतन्तं महाराज गगनादिव भास्करम् ॥ ततः कमलपत्राक्षं कृष्णं लोकनमस्कृतम् । ववन्दे च तदा तेजो विवेश च नराधिप ॥ तदद्भुतममन्यन्त दृष्ट्वा सर्वे महीक्षितः । यद्विवेश महाबाहुं ………………..॥’ इत्यादि सभापर्वोक्तेः (71.51-53) । तात्पर्यमुक्तमिति बोध्यम् ॥ 250-268 ॥ ॥ तं प्राहसदिति ॥ यद्यपि सभापर्वणि कृष्णगमनानन्तरं पाण्डवैः दुर्योधनपरिहासः कृत इत्युक्तः । तथापि दशमस्कन्धानुसारेणात्र भगवत्पादैरेवमुक्तम्। भारतं तु कालव्यत्यासेन प्रवृत्तमिति न विरोध इति ध्येयम् ॥ 269-326 ॥ ॥ अधमे देहदण्डश्चेति ॥ चशब्देन वचसा शिक्षां अर्थापहरणञ्च समुच्चिनोति ॥ 327-342 ॥ ॥ नोदासानां अस्माद्दासभूतानां एषां पाण्डवानाम् ॥ 343-350 ॥ ॥ शाकुनेयवधं प्रति शाकुनेयस्य शकुनिपुत्रस्योलूकस्य वधं प्रतीत्यर्थः । ‘उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम् । क्रूरं हन्तास्मि समरे भीमसेनाभ्यनुज्ञया॥’ इति सभापर्वोक्तेः (92.77) । यद्यप्युत्तरत्र ‘उलूकं सहदेवोऽथ शाकुनिं चातिपापिनम् । जघान द्रौणिहार्दिक्यकृपान् भीमार्जुनौ ततः ॥’ इत्यत्रोलूकः सहदेवेन हत इत्युच्यते । तथापि ‘त्वत्कृतं मत्कृतं चैवेत्यर्जुनेन भीमं प्रत्युक्तत्वात् अनुजकृतं ज्येष्ठकृतमेवेति न तत्प्रतिज्ञाभ्र इति भावः । यद्वा नकुलः शाकुनेयवधं प्रतिजज्ञे सहदेवस्तथा शाकुनेयं हनिष्यतीति प्रतिज्ञां कृतवानित्यर्थः । हन्तास्मि सहदेवेन हतं करोमीति सभापर्ववाक्यार्थः । ‘नियोगाद्धर्मराजस्य द्रौपद्याः पदवीं चरन् । निर्धार्तराष्ट्रां पृथिवीं कर्तास्मि नचिरादिव’ इत्युत्तरत्र नकुलेन पृथिवीं निर्धार्तराष्ट्रां कर्तास्मि इत्युच्यते। नच तद्युज्यते। भीमेनैव धार्तराष्ट्राणां हन्यमानत्वात् । तस्मात् भीमेन निर्धार्तराष्ट्रां पृथिवीं कारयिष्यामि इत्यभिप्राय इति वक्तव्यम् । एवं उलूकं हन्तास्मीति पूर्ववाक्यस्याप्येवमेवाभिप्राय इति वक्तव्यम् । तत्प्रकरणत्वादिति ॥ 351-352 ॥ ॥ पतितस्येति ॥ पतितस्य प्राणरहितस्येत्यर्थः । काष्ठविष्ठासमस्य प्राणवियोगाऽनन्तरं काष्ठवत् बन्धुभिस्त्यज्यमानत्वात् । काष्ठसाम्यं वियोगानन्तरं विष्ठावत् स्पर्शाद्यनर्हत्वात् विष्ठासाम्यमुक्तमिति ध्येयम् । तथाचोक्तम्- ‘त्रीणि ज्योतींषि पुरुषे त्रीणि वै देवलोऽब्रवीत् । अपत्यं कर्म विद्या च यतस्सृष्टाः प्रजास्ततः ॥ अमेध्ये वै गतप्राणे शून्ये जातिभिरुज्झिते । देहे तृतीयमेवैतत् पुरुषस्योयुज्यते ॥’ इति भीमेनार्जुनं प्रति सभापर्वणि (94.5-6)। ‘मृतं शरीरमुत्सृज्य काष्ठलोष्ठसमं क्षितौ । विमुखा बान्धवा यान्ति धर्मस्तमनुगच्छति ॥’ इतिहाससमुच्चये च ॥ 353-368 ॥ ॥ युधिष्ठिरस्य सभ्रातुरिति ॥ अत्र युधिष्ठिरस्य च विमोक्षणमेकं वरं सराष्ट्रस्य सभ्रातुरित्यनेन सराष्ट्रभीमार्जुनादि विमोक्षणमन्यं वरं याचतेति । वरद्वयमयाचतेति भावः । तथाचोक्तम् । द्रौपद्युवाच- ‘ददासि चेद्वरं मह्यं वृणोमि भरतर्षभ । सर्वधर्मानुगः श्रीमान् न दासोऽस्तु युधिष्ठिरः ॥’ धृतराष्ट्रः- एवं भवतु कल्याणि यथा त्वमभिभाषसे । द्वितीयं वै वरं भद्रे ददानि वरयस्व ह ॥ मनो हि मे वितरति नैकं त्वं वरमर्हसि । द्रौपदी- ‘सरथौ सधनुष्कौ च भीमसेनधनञ्जयौ । नकुलं सहदेवं च द्वितीयं वरये वरम् ॥ धृतराष्ट्रः- तथास्त्विति महाभागे यथा त्वं नन्दिनीच्छसि । तृतीयं वरयास्मत्तो नासीद्वाभ्यां सुसत्कृता॥’ इति सभापर्वणि(93.26-35)॥ 369 ॥ ॥ नावृणोत्परमिति ॥ परं तृतीयं वरमित्यर्थः । लोभस्य सकलधर्मनाशकत्वात् लोभात्तृतीयं वरं नायाचतेति भावः । तदुक्तम् । द्रौपदी- ‘लोभो धर्मविनाशाय भगवन्नाहमुत्सहे । अनर्हा वरमादातुं तृतीयं राजसत्तम ॥ एकमाहुर्वैश्यवरं द्वौ वरौ क्षत्रियस्त्रियः । त्रयस्तु राज्ञो राजेन्द्र ब्राह्मणस्य शतं वराः ॥’ इति सभापर्वणि (93.33-35) ॥ 370-399 ॥ ॥ इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणसङ्ग्रहे एकविंशोऽध्यायः॥ अअअथ.॥॥॥

॥ अथ द्वाविंशोध्यायः॥ ॥ रात्रौ प्रविष्टा इति ॥ गहनं वनं कैरपि दुरवगगम्यं काम्यकवनम् । ‘जग्मुस्त्रिभिरहोरात्रैः काम्यकं नाम तद्वनम्। रात्रौ निशाथे……… ॥’ इत्याद्यारण्यपर्वोक्तेः ॥ 1-2 ॥ ससम्प्रहरणं रणम् ॥ 3-4 ॥ अक्षयान्नं अक्षयमन्नं यस्मात्तादृशं पिठरं ताम्रमयं पिठरम् । तथाचोक्तम् । सूर्य उवाच- ‘यत्तेभिलषितं राजन् सर्वमेतदवाप्स्यसि । अहमन्नं प्रदास्यामि सप्त पञ्च च ते समाः ॥ फलमूलामिषं शाकं संस्कृतं यन्महानसे । गृह्णीष्व पिठरं ताम्रं मया दत्तं नराधिप ॥ यावद्वाञ्छति पाञ्चाली पात्रेणानेन सुव्रत । चतुर्विधं तदन्नाद्यं अक्षय्यं ते भविष्यति ॥ धर्मं तु विविधं तुभ्यं इत्युक्त्वान्तरधीयत ॥’ इत्यरण्यपर्वणि (3.52-54) ॥ 5-15 ॥ ॥ ईरिते इति ॥ पूर्वोक्तप्रकारेण व्यासेनेरिते सति उक्ते सति तेन धृतराष्ट्रेण निवारयेति त्वमेव निवारय ममाशक्यमिति प्रोक्तो हरिर्व्यासः प्राह धृतराष्ट्रं प्रतीति शेषः । किमित्याहेत्यत आह- न संवद इति ॥ तैर्दुर्योधनाद्यैः साकमहं न संवदे सम्भाषणं न करोमि इत्याहेति पूर्वेणान्वयः । दुष्टसम्भाषणस्य निन्दितत्वप्रदर्शनायैवमुक्तमिति भावः । धृतराष्ट्रानतोपि धृतराष्ट्रेण प्रसादितोऽपि त्वं राज्यदः पाण्डवानां राज्यप्रदो न चेत् तथा मया यथोक्तं तथा स्यादित्यूचिवान् सन् ययाविति सम्बन्धः । तथाचोक्तम्- ‘इत्येवमुक्ते वचने धृतराष्ट्रो महीपतिः । प्रसादयामास मुनिं नैतदेवं भवेदिति ॥ शमं यास्यति चेत्पुत्रस्तव राजन्यदा तदा । शापो न भविता तात विपरीते भविष्यति ॥’ इत्यारण्यपर्वणि (10.36-37) ॥ 16-22 ॥ स्वकीयां वार्तां प्रापयामासुः। ब्राह्मणेनेति शेषः । ‘प्रवेशितः प्रणम्याह ब्राह्मणः पुरुषोत्तमम् । धर्मजो धार्तराष्ट्रेण मूढेनाधर्मचारिणा ॥ अक्षैैः पराजितो यातः सभार्यस्सानुजो वनम् ॥’ इत्याद्यारण्यपर्वोक्तेः ॥ 23-35 ॥ भीमादिषु योग्यतानुसारेण धर्मस’्रमणप्रकारं वक्तुं उपोद्घातमाह- गुरुत्वादिति ॥ भीमस्य गुरुत्वात् सर्वजगद्गुरुत्वात् द्यूते क्षमा भीमे निरौपधः निर्व्याज अपि धर्मस्वरूपः गुरूणां शक्तौ सत्यामपि क्षमाया अतिधर्मत्वादिति भावः । अर्जुनादीनां द्यूते क्षमा अतिधर्मस्वरूपो न गुरुनिन्दाश्रवणस्य महादोषहेतुत्वेन दुर्योधनादिकृतभीमनिन्दां श्रुत्वापि तूष्णीं स्थितत्वात् अर्जुनादीनामिति भावः ॥ 36 ॥ ननु तर्हि द्रौपद्याः कथमित्यत आह- द्रौपद्या इति ॥ 37-66 ॥ क्षमानाम परकृतापराधं सहित्वा परस्य प्रत्यपकाराकरणम्। ‘अक्रोध दोषकृच्छत्रोः क्षमावान् स निगद्यते ’ इत्यभिधानात्॥ 39 ॥ तदनु सङ्ग्रहणात्तस्य शरस्य अनुसङ्ग्रहणं सङ्ग्रहः यस्य स तस्मात् सुतात् ॥ 49 ॥ प्रस्तावहेतवे प्रस्रोत्पादनाय ॥ 65 ॥ राज्ञा न कृत्यम् तर्हि राज्ञा किं प्रयोजनमित्यर्थः। राजापि मास्तु इत्यत आह- नेति॥ यदि राजा न स्यात् तर्हि लोकयात्रा लोकव्यावहारो न स्यात् । कुत इत्यत आह- जगदिति ॥ जगच्च कापुरुषैः कुत्सितपुरुषैश्चौरादिभिर्विनश्येत् । रक्षणकाभावादिति भावः ॥ 67 ॥ राज्ञः कर्तृत्व्राीकारे भगवतः कर्तृत्वभ्रप्रस्रः । उभयोः कर्तृत्वायोगात् । तथात्वे जगद्विलोपापत्तेः । न च भगवतः कर्तृत्वमेव मास्त्विति वाच्यम् । तत्कर्तृत्वप्रतिपादकागमविरोधादित्यत आह- सत्यमिति ॥ पौरुषस्य पुरुषसम्बन्धिकृतिमत्वलक्षणकर्तृत्वस्य । भगवतः स्वतन्त्रकर्तृत्वं राज्ञस्तु तदधीनकर्तृत्वं इति न विरोध इति भावः ॥ 68 ॥ तदेव विवृणोति- तदिति ॥ तदाज्ञया भगवदाज्ञया पुरुषो जीवश्चेष्टमानः कर्मकुर्वाण इत्यर्थः । चेष्टाऽनुसारेण कर्माऽनुसारेण शुभाऽशुभस्य सुखदुःखलक्षणस्य भोक्ताऽन्यथा जीवस्य भगवदधीनकर्तृत्वस्याप्यभावे तच्चेष्टितं शुभाऽशुभतत्कर्मफलं अस्य जीवस्य न स्यात् । किन्त्वन्यथा स्यात् । भगवत एव कर्तृत्वेन शुभाऽशुभकर्मफलभोगः स्यादिति भावः । उपसंहरति- तस्मादिति ॥ पुरुषो जीवः अस्य विष्णोः वश्योऽपि वशे विद्यमानोऽपि कर्ता शुभाऽशुभकर्मणोः कर्ता । तथा च जीवस्यैव शुभाऽशुभकर्मफलभोक्तृत्वमिति भावः ॥ 69 ॥ युक्त्यन्तरेणाऽपि जीवस्य कर्तृत्वं साधयति- वृथेति॥ अथवा उक्तमेव प्रपञ्चयति- वृथेेति ॥ यदि जीवस्य पौरुषं कृतिमत्वलक्षणं कर्तृत्वं वृथा स्यात् तस्मादित्यर्थः । विधिश्च कस्य हेतोः स्यात् निषेधश्च कस्य हेतोः स्यात् । जीवस्य कर्तृत्वाभावे विधिनिषेधौ कस्याऽर्थे प्रवृत्तौ स्याताम् । विधिनिषेधगोचरः पुमान्न स्यादित्यर्थः । ननु विधिनिषेधयोः प्रमाणत्वे खलु तद्गोचरत्वं जीवस्य कर्तृत्वं साधयेत् । तदेव कुत इत्यत आह- समस्तवेदग इति ॥ समस्तवेदगो विधिः समस्तवेदगो निषेधश्च । ननु विधिनिषेधयोः प्रामाणिकत्वेपि जीवस्य तद्विषयत्वाभावेऽपि किं बाधकमित्यत आह- विधेरिति ॥ तर्हि तौ विधिनिषेधौ हरेः भवतः स्याताम् । तथाच वैदिकयोर्विधिनिषेधयोर्निर्विषयकत्वायोगेन जीवस्य तद्विषयत्वाऽभावे परिशेषात् भगवत एव तौ स्यातामिति भावः ॥ 70 ॥ तौ स्यातामित्यत आह- तेनैवेति ॥ तेन विधिनिषेधविषयत्वेनामुष्य विष्णोः पुण्येन पापेन च लेपः स्यात् । तदपि स्यादित्यत आह- नैवेति ॥ असौ हरिः ताभ्यां पुण्यपापाभ्यां न लिप्येत लिप्तो न भवेदित्यर्थः । ननु जीववच्चेतनत्वाद्विष्णोः पुण्यपापलेपः किं न स्यादित्यत आह- परम इति ॥ अस्वतन्त्रचेतनत्वमुपाधिरित्यर्थः । उपसंहरति- तत इति ॥ ततः जीवस्यैव विधिनिषेधगोचरत्वेन पुरुषो जीवः अस्य विष्णोः वश्यः सन् कर्ताऽपि । तस्माद्भगवतः स्वतन्त्रकर्तृत्वेऽपि जीवस्य भगवदधीनकर्तृत्वम्रीकर्तव्यमिति भावः । अनन्तभट्टारकास्तु ‘राजाभावे लोकस्य जनस्य यात्रा श्रुत्यादावुक्तव्यवहारो न भवेत् । तर्हि किं भवेदित्यत आह- जगदिति ॥ क्षमैव धर्म इत्यस्य उत्तरमुक्त्वा विष्ण्वितरस्य कर्तृत्वाऽभावेन कोपविषयाभावादपि क्षमा कार्येत्यस्य उत्तरमाह- सत्यमिति ॥ तथापि यद्यपि विष्णुरेव कर्ता तथापि पौरुषस्य पुरुषसम्बन्धिकर्तृत्वस्य व्यर्थता अजागळस्तनसमत्वं नास्तीत्यर्थः । जीवस्य कर्तृत्वभोक्तृत्वे पराधीने एव विवक्षतेत्याह- तदाज्ञयेति ॥ तदाज्ञयेत्यस्य भोक्तेत्यनेन सम्बन्धः । जीवस्य कर्तृत्वे किं प्रमाणमित्यत आह- चेष्टेति ॥ चेष्टाशब्देन कर्तृत्वं लक्ष्यते । तदनुसारेण यादृस्य कर्मणः कर्ता तदनुसारेणेत्यर्थः । कर्तृत्वाऽभावे तन्न स्यादिति भावः । अनेन जीवः पराधीनकर्ता पराधीनभोक्तृत्वात् व्यतिरेकेण घटवदित्यनुमानं उक्तं भवति । नायमसिद्धः पराधीनभोक्तृत्वस्य प्रत्यक्षादिसिद्धत्वात् । नापि विशेषणासिद्धः अनिष्यमाणस्याऽपि दुर्गन्धादेर्भोगात् । नापि विरुद्धः विपक्षाऽवृत्तित्वात् । नाप्युभयविधानैकान्तिकः सपक्षरहितत्वात् । नापि सत्प्रतिपक्षः अनुकूलतर्कससध्रीचीनत्वेन प्रबलत्वात् । नापि कालात्ययापदिष्टः बाधकप्रमाणभावात् । ‘नान्योऽतोऽस्ति कर्ता’ ‘न ऋते त्वत्क्रियत’ इत्यादिना स्वतन्त्रकर्तृनिषेधपरत्वात् । कर्तृत्वमात्रनिषेधपरत्वे ‘आत्मा वाऽरे द्रष्टव्यः’ इत्यादिविहितदर्शनस्याकर्तृत्वप्रस्रेन तद्विधायकवाक्यानां अप्रामाण्यप्रस्रात् । जडस्यायोग्यत्वात् परमात्मनस्तु कर्मत्वेन निर्दिष्टत्वात् । व्यतिरेकव्याप्तिमाह- न तच्चेेष्टितमिति ॥ चेष्टितं कर्तव्यत्वं अन्यथा कर्तृत्वाभाव इत्यर्थः । तद्भोक्तृत्वं न भवेत् । यत्र पराधीनकर्तृत्वाभावः तत्र पराधीनभोक्तृत्वाभाव इत्यर्थः । निगमयति- कर्तेति ॥ विपक्षे बाधकमाह- वृथेति ॥ यदि पौरुषं वृथा स्यात् समस्तवेदगो निषेधश्च कस्य हेतोः स्यात् । यदि पुमान् विधिनिषेधस्य गोचरो न स्यात् तर्हि तौ हरेः भवतः । तेनैवास्य पुण्यपापलेपश्च भवेत्। परमस्वतन्त्रश्चासौ ताभ्यां नैव लिप्येत । ततः पुरुषोप्यस्य वश्यः कर्तेति श्लोकद्वयाऽन्वयः । पौरुषकर्तृत्वं यदि वृथा स्यात् तर्हि विधिनिषेधगोचरो न भवेत् घटवत् । अस्ति च तद्गोचरत्वं तस्मात् कर्तेति वाक्यशेष’ इति व्याचक्षते । तच्चिन्त्यम् । राजाभावे लोकयात्रा न भवेदित्युक्तं कुतो न भवेदित्याश’ोत्थानेपि तर्हि किं भवेदित्याश’ायाः अनुत्थानात् । यत्तु चेष्टाशब्देन कर्तृत्वं लभ्यते इति तदप्यसमञ्जसम् । यथाश्रुतार्थग्रहणेपि प्रकृतार्थलाभात् लक्षणावैयर्थ्यात् । यत्तु पराधीनभोक्तृत्वस्य प्रत्यक्षादिसिद्धत्वादिति तदपि न । भोक्तृत्वमात्रस्य प्रत्यक्षसिद्धत्वेऽपि पराधीनत्वविशिष्टभोक्तृत्वस्य प्रत्यक्षासिद्धत्वात् । भोक्तृत्वस्याऽप्यनुमेयत्वेन प्रत्यक्षासिद्धत्वात् । यत्तु कर्तृत्वमात्रनिषेधपरत्वे ‘आत्मा वाऽरे द्रष्टव्य’ इत्यादिना विहितदर्शनस्य अकर्तृत्वप्रस्रेन तद्विधायकवाक्यानामप्रामाण्यप्रस्रादिति तदपि न। ‘आत्मा वा अरे द्रष्टव्य’ इत्यादिना परमात्मसाक्षात्काराय श्रवणमनननिदिध्यासनात्मकविचारः कर्तव्य इति श्रवणाद्यात्मकविचारमात्रस्यैव विधेयत्वेन दर्शनस्य पुरुषप्रयत्नासाध्यत्वेनाविधेयत्वात् । यदपि अस्ति च तद्गोचरत्वं तस्मात्कर्ता इति वाक्यशेष इति । तदपि न। अध्याहाराभावेऽपि प्रकृतसामञ्जस्यात् ‘कर्ता ततः पुरुषोप्यस्य वश्य’ इत्युपसंहारमूलवैय्यर्थ्यापत्तेश्च । वेद्रातीर्थास्तु ‘परम स्वतन्त्र इति । तस्माज्जीवेश्वरयोः विधिनिषेधगोचरत्वानुपपत्तेः पारिशेष्याद्विधिनिषेधगोचरत्वेन पुष्यपापलिप्तत्वात् तन्निबन्धनसुखदुःखभोक्तृत्वात् पुरुषः कर्तेति भावः’ इति व्याचक्षते । तदप्यसमञ्जसमिव । ‘कर्ता तत ’ इत्युपसंहारमूलस्थतच्छब्देनैवेतदर्थस्य लाभात् । पूर्वग्रन्थस्य अभावत्वेन वर्णनवैय्यर्थ्यादिति । व्यासतीर्थास्तु ‘विष्णोरेव कर्तृत्वम्रीकृतं चेत् कोपविषयाभावात् कं प्रति कोपः कार्यः प्रयत्नवैय्यर्थ्यादित्यत आह- तथापीति ॥ यद्यपि विष्णुरेव कर्तेति तथाऽपि पौरुषं पुरुषप्रयत्नः कर्तृत्वं विष्णुरेकः कर्ता (जीवश्चैक) इति शास्त्रविरुद्धमित्यत आह- तदाज्ञयेति ॥ जीवस्य कर्तृत्वं कुत इत्यत तत्साधनायोक्तम्-चेष्टाऽनुसारेणेति ॥ कर्तृत्वानुसारेण हि शुभाशुभस्य भोक्ता कर्तृत्वाऽभावे तन्न स्यादित्यर्थः । कर्तृत्वसाधनस्य भोक्तृत्वस्य व्यतिरेकमाह- न तच्चेष्टितमिति ॥ तच्चेष्टितं कर्तृत्वं तु अन्यथा ऋते कर्तृत्वाभावे भोक्तृत्वं न भवेत् । यदि कर्ता न भवेत् तर्हि भोक्ता न भवेत् घटवदित्यर्थः । विमतो जीवः कर्ता भोक्तृत्वात् व्यतिरेकेण घटवत् इत्यनुमानमुक्त्वा निगमयति- कर्ता तस्मात्पुरुष इति ॥ अस्वतन्त्रकर्तृत्वसाधनात् न बाधः श’नीयः इति भावेनोक्तम् - अस्य वश्य इति ॥ तथाच कर्तुरीश्वरस्य सपक्षस्याभावात् हेतोस्तत्रावत्त्या असाधारणत्वश’ा परास्ता । भोक्तृत्वमस्तु कर्तृत्वं माभूत् विपक्षे बाधकाभावात् । अप्रयोजको हेतुरित्यत आह- वृथेति ॥ पौरुषं पुरुषः प्रयत्नः यदि वृथा स्यात् पुरुषो यदि कर्ता न भवेत् इत्यर्थः । तर्हि विधिनिषेधश्च कस्य हेतोः स्यात् कस्यार्थे प्रवृत्तौ स्याताम् । विधिनिषेधगोचरः पुमान्न स्यादिति भावः । भवति च तद्गोचरः तस्मात्कर्तेति शेषः । विधिनिषेधयोः प्रमाणत्वे हि तद्गोचरः कर्ता स्यात् नान्यथा इत्यत उक्तम्- समस्त वेदग इति ॥ वेदस्य प्रामाण्यादित्यर्थः । ननु नायं विधिनिषेधगोचरो अत इष्टापादनमित्यत आह - विधेरिति ॥ यदि विधिनिषेधौ पुमधिकारिकौ न भवतः तर्हि जडाधिकारिकत्वायोगात् हर्यधिकारिकौ स्यातामिति॥ तेनेति ॥ विध्यधिगोचरत्वेन यदि गोचरस्स्यात् तर्हि पुण्यपापाभ्यां लिप्येत इति तर्कप्रवृत्तिः विपर्यये पर्यवसानमाह- नैवचासाविति ॥ पुरुषोऽपि कर्ता इत्यस्य विपर्यये पर्यवसानस्य प्रमाणविरोधं परिहरन् आह- अस्य वश्य इति ॥’ इति व्याचक्षते । तदप्यसमञ्जसमिव । तथाहि । यत्तु तच्चेष्टितं कर्तृत्वं अन्यथा ऋते कर्तृत्वाभावे भोक्तृत्वं न भवेत् इति । तन्न । तत्र चेष्टितशब्देन कर्तृत्वस्य रूढ्या ग्रहणायोगात् । तस्य कर्मण्येव रूढत्वात् । लक्षणायाश्च जघन्यत्वात् भोक्तृत्वपदाध्याहामन्तरापि अन्यजीवस्य कर्तृत्वाभावे तच्चेष्टितं कर्मफलं अस्य न स्यादिति, तच्चेष्टितं कर्म अन्यथा ऋते शुभाशुभस्य भोक्ता न भवेत् इति वा योजनायां सर्वसामञ्जस्ये भोक्तृत्वपदाध्याहारवैय्यर्थ्यात् । यत्तु भवति च तद्गोचरः तस्मात्कर्तेति शेषः इति तदप्यसमञ्जसम् । अत्रैवोपसंहारे ‘कर्ता ततः पुरुषोऽप्यस्य वश्यः’ इत्युपसंहारमूलवैय्यर्थ्यात् । वरदराजाचार्यास्तु ‘पुरषश्च भगवन्नियत इत्याह-तदाज्ञयेति॥ तस्य विष्णोः आज्ञया प्रेरणया पुरुषो जीवः चेष्टमानः प्रयतमानो भवति इत्यर्थः। चेष्टानुसारेण ईश्वरप्रेरणया नियतस्वप्रयत्नानुसारेण शुभस्य सुखस्य अशुभस्य दुःखस्य च भोक्ता तस्य पुरुषस्य चेष्टितं अन्यथा ईश्वरमन्तरेण न स्यात् तस्मात् पुरुषप्रयत्नस्यापि शुभाशुभभोगार्थं उपयोगात् तस्य च ईश्वरप्रेरणामन्तरेणानुपपत्तेः अस्य वश्योपि पुरुषः सुखदुःखभोगकारणप्रयत्नादिकारणत्वेन कर्तापि भवतीत्यर्थः । ननु विष्णोरेव स्वातन्त्र्यात् प्रेरणा नियत एव यदि जीवप्रयत्नो अ्रीक्रियते किं तेन अजागलस्तनायमानेन इत्याशङ्क्य जीवस्येश्वराधीनकर्तृत्वाभावे अनिष्टमाह- वृथेति॥ पौरुषः पुरुषप्रयत्नः कर्तृत्वमिति यावत् । यदि वृथा स्यात् अजागलस्तनवत् व्यर्थस्स्यात् । तर्हि समस्तवेदगो विधिनिषेधश्च कस्य हेतोः कमुद्दिश्य प्रवृत्तौ वैदिकप्रमाणयोः विधिनिषेधयोः जीवविषयत्वाभावे निर्विषयत्वमेव स्यादिति भावः । विधिनिषेधयोः वैदिकत्वेन निर्वियषत्वानुपपत्तौ जीवविषयत्वस्यापि अन्रीकारे ईश्वरविषयावेव स्यातामित्याह- विधेरिति॥ तेन विधिविषयत्वेन लिप्यतां को दोषः इत्यत आह- नैवेति॥ ताभ्यां हरिः नैव लिप्यते। यतः परमः सर्वोत्कृष्टः स्वतन्त्रः अपराधीनः पुण्यपापे अस्वातन्त्र्यमेव स्यात् । नचैवम्। तस्य सर्वोत्कृष्टत्वेन स्वतन्त्रत्वादिति भावः। ततः कारणात् विधिनिषेधयोः निर्विषयत्वपरिहारार्थं जीवविषयत्वे सिद्धे विहितादिकर्तृत्वेन पुण्यादिलिप्तत्वात् तत्फलसुखादिभोगकर्तृत्वस्य आवश्यकत्वात् अस्य ईश्वरस्य वश्यो अधीनो पुरुषो जीवः कर्ता इत्यर्थः।’ इति व्याचक्षते। ॥ छलेनेति॥ पुण्यपापलेपे अस्वातन्त्र्यं स्यादित्यादेः तर्कत्वेन दूषणानुमानस्य ‘स विश्वकृत् ’ ‘स हि सर्वस्य कर्ता’ इत्यादि प्रमाणबाधो अल’ार एव। तथापि तस्य विमतः परमात्मा अस्वतन्त्रः पुण्यपापलिप्तत्वात् इति साधनानुमानत्वमारोप्य अस्वातन्त्र्यं साधयसीति च्छलोत्तरेणेत्यर्थः। द्रौपद्युक्तस्य दूषणानुमानस्य परमात्मनः स्वतन्त्रकर्तृत्वं जीवस्य परतन्त्रकर्तृत्वञ्च अभिमतम्। तस्यां अर्थान्तरपरिकल्पनं भगवतः अस्वातन्त्र्यपरिकल्पनमिति भावः। उक्तञ्च छललक्षणं जयतीर्थचरणैः ‘तदभिप्रेतार्थात् अर्थान्तरं परिकल्प्य तद्दूषणेन परोक्तभ्रं छलम्’ प्रमाणपद्धतौ।
‘वरदराजाचार्यास्तु विशेषं वक्तुं द्रौपद्युक्तं तावदनुवदतीत्याह- राजन्निति’ इति व्याचक्षते । तन्न । द्रौपद्युक्तस्य अनुवादत्वे जीवकर्तृत्वस्याप्यनुवादत्वप्रस्रः । तस्यापि तथोक्तत्वात् । अत्र तु भगवत्स्वातन्त्र्यमात्रमनूद्य तथापीत्यनेन जीवकर्तृत्वसाधनात् । ‘कर्ता च सर्वजगत’ इत्यादिना युधिष्ठिरेण यद्भगवतः सर्वकर्तृत्वं स्वतन्त्रकर्तृत्वं च उक्तं तद्रीकृत्य द्रौपद्युक्तं जीवस्यापि कर्तृत्वं अस्वातन्त्र्यं च साधयति- राजन्नित्यादिना ॥ चोवधारणे । स विष्णुरित्यनेन सम्बध्यते । हे राजन् विष्णुरेव सर्वकर्ता । कुत इत्यत आह- असौ स्वतन्त्र इति ॥ अन्यस्मिन्नपि स्वातन्त्र्यमस्तीत्यत आह- अन्य इति ॥ अन्यो रमाब्रह्मादिचेतनसमुदायः स्वतन्त्रो न । कुत इत्यत आह- अन्यदिति ॥ अन्यत् लक्ष्म्यादिचेतनात्मकं अव्यक्ताद्यचेतनात्मकं च जगत् तत्तन्त्रमेव भगवदधीनमेव । अतस्तस्यैैव सर्वकर्तृत्वमिति भावः । एवं धर्मजोक्तमनूद्य जीवकर्तृत्वं साधयति- तथापीति ॥ यद्यपि विष्णुरेव सर्वकर्ता सर्वस्वतन्त्रश्च । तथापि पुंसा जीवेन विहितं विष्णुना विहितं विदितं हि। विष्णुनेत्युत्तरवाक्यात् स्वकर्म स्ववर्णाश्रमोचितं कर्म कार्यं कर्तव्यमित्यर्थः । अन्यत् स्ववर्णाश्रमानुचितं कर्म अत्यन्तयत्नात् अतिप्रयत्नात् त्याज्यं त्यक्तव्यमित्यर्थः । ‘स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः ।’ ‘स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छ्रुणु’ ‘श्रेयान् स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात्’ ‘स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम्’ ‘स्वधर्मे निधनं श्रेयः परधर्मो भयावहः’ इति गीतोक्तेरिति भावः ॥॥ जीवकर्तृत्वे प्रत्यक्षं प्रमाणयति- प्रत्यक्षमिति ॥ पुरुषस्य जीवस्य एतत्कर्म गमनागमनादिनानारूपं कर्म प्रत्यक्षं एतत्पुरुषनिष्ठतया प्रत्यक्षसिद्धं स्वगतकर्मणः स्वकर्तृत्वं अहं करोमीति स्वसाक्षिप्रत्यक्षसिद्धमित्यर्थः । ननु कर्तृत्वस्य प्रत्यक्षसिद्धत्वेऽपि भगवदधीनत्वं कुतः सिद्धमित्यतो अनुमानेन साधयति- तेनानुमेयेति ॥ तेन प्रत्यक्षसिद्धेन क्वचित् प्रतिहतेन कर्तृत्वेन केशवस्य प्रेरणा अनुमेया, स्वकर्तृत्वस्येति शेषः । विप्रतिपन्नं कर्तृत्वं ईश्वराधीनं क्वचित्क्वचित् प्रतिहतत्वात् राजपुरुषनिष्ठकर्तृत्ववत् इत्यनुमानेन ज्ञातव्यम् । जीवस्य ईश्वराधीनकर्तृत्वे ज्ञानिसम्मतिमपि प्रमाणयति- स्वकर्मेति ॥ विष्णुना विहितं ‘श्रुतिस्मृती ममैवाज्ञे’ इति वचनात् विष्ण्वाज्ञारूपश्रुतिस्मृतिविहितं इत्यर्थः । स्वकर्म स्ववर्णाश्रमोचितं कर्म कृत्वा बुधो ज्ञानी जनः तत्प्रेरणेत्येव अत्र कर्म करणे भगवत्प्रेपणैव म्रुयं कारणमिति अमुं मन्यते जानाति॥॥ एवं ज्ञात्वा कर्मकरणस्य फलमाह- तेनेति॥ तेन एवं ज्ञात्वा कर्मकरणेन विष्णोः अनुग्रहात् सम्यग्गतिं समीचीनस्थानं प्राप्नोति। एवं ज्ञानिमतमुक्त्वा अज्ञानिमतमाह- अशुभेति॥ यद्वा यस्तु भगवदधीनकर्तृत्वज्ञानपूर्वकं कर्म करोति तस्यैव सद्गतिः। नतु यस्तु कर्तृत्वं भगवत एव स्वस्य कर्तृत्वं नास्तीति मत्वा कर्म त्यजति तस्य इत्याह- स्वकर्मेति॥ दैवमित्येव मत्वा दैवमेव हेतू नाहं कर्ता इति ज्ञात्वा इत्यर्थः। उपसंहरति- तस्मादिति॥ तस्मात् कर्तृत्वसद्भावात् विहितकर्माकरणे अनर्थप्राप्तिसद्भावाच्चेत्यर्थः ॥॥ तत्र इति कर्तव्यतामाह- ज्ञातव्यमिति॥ अस्य जीवस्य विष्णोः वशत्वं विष्णुवशगत्वं ज्ञातव्यम्। तर्हि स्वस्यास्वातन्त्र्यज्ञाने कर्तृत्वाभावज्ञानात् कर्म किं त्याज्यमित्यतो नेत्याह- कर्तव्यमिति॥ आत्मनः स्वस्य कार्यं कर्म विहितं कर्म कर्तव्यमेव। सर्वजगतो अनुमानागमाभ्यां सिद्धभगवदधीनत्वान्यथानुपपत्त्या च जीवगतकर्तृत्वस्य भगवदधीनत्वमिति साधयति- प्रत्यक्षेति ॥ एषा जीवसंस्था कर्तृता जीवनिष्ठकर्तृता यथा इति शेषः। प्रत्यक्षा प्रत्यक्षप्रमाणसिद्धा। तथा सर्वं जगत् आगमात् ‘स विश्वकृत्’ ‘स हि सर्वस्य कर्ता’ इत्यादेः, अनुमानात् अ’ुरादिकं सकर्तृकं कार्यत्वात् घटवत् इत्याद्यनुमानाच्च । चशब्देन ब्रह्मादिज्ञानिप्रत्यक्षेण च विष्णोः वशे सिद्धम्। तत् तस्मात् कारणात् द्वयञ्च जीवस्य परतन्त्रकर्तृत्वं ईश्वरस्य स्वतन्त्रकर्तृत्वं च न हेयं न त्यक्तव्यमितित्यर्थः, तथाच प्रत्यक्षानुमानागमैः सर्वजगतो भगवदधीनस्य सिद्धत्वात् तदन्तःपातिजीवकर्तृत्वस्यापि भगवदधीन्त्वसिद्धिः अन्यथा सर्वजगतो भगवदधीनत्वं न सिद्ध्येदिति भावः । यद्वा यथा एषा जीवसंस्था कर्तृता प्रत्यक्षा अङं कर्ता इति प्रत्यक्षसिद्धा तथा आगमात् ‘कुर्वन्नेवेह कर्माणि जिजीविशेत् शतं समाः’ इत्याद्यागमात्, विमतो जीवः कर्ता भोक्तृत्वात् इत्याद्यनुमानाच्च सिद्धा। तथा आगमात् अनुमानात् प्रत्यक्षाच्च सर्वं जगत् विष्णोः वशं इति सिद्धं इत्यन्वयः। तत् तस्मात् कारणात् तद्द्वयं जीवस्य परतन्त्रकर्तृत्वं ईश्वरस्य स्वतन्त्रकर्तृत्वं च न हेयं हातुमयोग्यमिति जानन् सन् विद्वान् ज्ञानी कर्म स्वविहितकर्तव्यकर्म कुरुत इत्यन्वयः । द्वयं न हेयं जानन्नित्युक्त्या यत् प्रमाणविरोधशामकं यत् परतन्त्रकर्तृत्वमभिहितं तद्घटयन्नाह- तत्प्रेरकमिति ॥ यद्वा ननु तद्वयं किमिति न हेयमित्यत आह- तत्प्रेरकमिति ॥ तत्प्रेरकं तस्य कर्मकर्तुः जीवस्य प्रेरकमित्यर्थः । तथाच जीवमात्रकर्तृत्वं स्वीकरोति चेत् ईश्वरस्य स्वतन्त्रकर्तृत्वग्राहकप्रत्यक्षानुमानागमादनुगामी न स्यात् । यदि चेश्वरमात्रकर्तृत्वं स्वीकरोति तर्हि जीवकर्तृग्राहकप्रमाणत्रितयानुगामी न स्यात् । ततश्चोभयं यो न जहाति स एवोभयकर्तृत्वग्राहकप्रमाणत्रितयानुगामीति भावः ॥ 80-81 ॥ ननु प्रमाणत्रितयानुसरणस्यावश्यकत्वे तदनुसरणं कर्तव्यं स्यात् । तदेव कुत इत्यतः तदावश्यकतां सामान्यतो दर्शयति- पूर्णं प्रमाणमिति ॥ तत्त्रयं प्रत्यक्षानुमानागम्रायप्रमाणत्रयं अविरोधेन परस्पराऽविरोधेन एकत्रस्थं एकस्मिन्नर्थे प्रवृत्तं च चशब्दश्चेदर्थः । तदुक्तम्- ‘चश्चेदर्थे नकारे स्यादवधारणभेदयोः। पादस्य पूरणे हेतौ तुल्ययुग्विनियोगयोः॥’ इत्यमरशेषे । ‘ चण चेदर्थ’ इति काशिकायां च । उदाहृतञ्च दीक्षितीये ‘यथा त्वं च गच्छसि कार्यं न सिध्यति इत्यर्थ’ इति । एतेन चकारस्यैव चेदर्थकत्वेन ‘चेदिति शेष’ इति व्य्रायानं वेद्रातीर्थानां निरस्तं वेदितव्यम् । एकार्थप्रतिपादकं चेति यावत् । तत्त्रितयं पूर्णं प्रमाणं भवति । उत्तमं प्रमाणं भवतीत्यर्थः । तथाच तद्विषयस्याप्यर्थस्य उत्तमत्वं भवति । तथाच प्रमाणत्रितयसिद्धस्यार्थस्य म्रुयत्वेन सोऽर्थो ग्राह्य इति भावः। तत्त्रितयस्यैकार्थप्रतिपादकत्वमन्तरेण अविरोधभिन्नार्थप्रतिपादकत्वेऽपि उत्तमत्वं किं न स्यादित्यत आह- तत्त्रयं चाविरोधीति ॥ तत्त्रयं प्रमाणत्रयम्। अत्रापि चशब्दश्चेदर्थः । अविरोधि परस्परविरोधरहितं सत् पृथक् चेत् भिन्नार्थप्रतिपादकञ्चेत् । प्रत्यक्षं जीवस्य भोजनादिक्रियायां स्वतन्त्रकर्तृत्वग्राहकम्, आगमाऽनुमाने च ईश्वरस्य जगत्सृष्ट्यादौ स्वतन्त्रकर्तृत्वग्राहके इत्येवं प्रकारेण अविरोधेन भिन्नार्थप्रतिपादकं चेदिति यावत् । तर्हि तत्त्रितयम्। मध्यं मध्यमं प्रमाणम्। ततश्च तद्विषयस्यार्थस्यापि मध्यमत्वं तत्त्रितयं विरोधि च सर्वस्य जीव एव कर्ता सर्वस्य विष्णुरेव कर्ता इति वा परस्परविरुद्धार्थप्रतिपादकं चेदित्यर्थः । तर्हि अप्रमाणं प्रमाणं न भवेत् । तत्त्रितयं अधमप्रमाणं इत्यर्थः । उपसंहरति- तस्मादिति ॥ तत्त्रितयं प्रत्यक्षादित्रितयं एकत्र एकस्मिन्नर्थे कार्यं सम्पादनीयम्। तेन प्रमाणत्रितयप्रतिपादितस्यैवोत्तमत्वेन प्रमाणत्रितयानुसरणमावश्यकमिति भावः । व्यासतीर्थास्तु ‘ननु प्रत्यक्षानुमानागमानां जीवेश्वरकर्तृत्वग्राहकाणां परस्परविरुद्धानां भिन्नविषयत्व्राीकारे एकस्याप्रामाण्य्राीकारे वा विरोधशान्तेः । किं जीवस्य अस्वतन्त्रकर्तृत्व्राीकारेणेत्यतः अकुशलं तद्व्य्रायानमिति भावेनाह- पूर्णमिति ॥ तत्त्रयं जीवेश्वरयोरेकक्रियां प्रति कर्तृत्वसाधकं प्रत्यक्षागमानुमान्रायं अविरोधेन एकत्र विषयस्थमिति व्य्रायानं पूर्णं प्रमाणम् । प्रमाणानां म्रुयव्य्रायानम् । पृथगीश्वरस्य महदादिकर्तृत्वं आगमादिविषयः, जीवस्य भोजनादिकर्तृत्वं प्रत्यक्षविषयमिति भिन्नविषयकमविरोधि इति व्य्रायानं मध्यमं मध्यमव्य्रायानम् । विरोधि त्रयं अन्यतरद्वा अप्रमाणं स्यादिति व्य्रायानं अधमव्य्रायानमिति तस्मात्त्रयं अविरोधेन एकत्र कार्यमित्यर्थ’ इति व्याचक्षते । तदसमञ्जसमिव । प्रमाणत्रितयानुगामी भवेदित्यभिहिते ननु प्रमामत्रितयानुगामित्वेन किं तदनुसरणस्य अनवश्यकत्वात् इत्याश’ायाः पुरस्फूर्तिकोत्थानेन उत्तरग्रन्थस्य तदनुसरणावश्यकतासमर्थकस्य उत्थानसम्भवेन । ननु प्रत्यक्षानुमानागमानां इत्याश’ाया अनुत्थानात् तदाश’ायाश्च अखाण्डताण्डवायित्वाच्च उक्तरीत्या सामञ्जस्ये व्य्रायानपर्यन्तधावनवैयर्थ्याच्च । व्य्रायानपदाध्याहारे दोषाच्च । प्रमाणशब्दस्य च व्य्रायानार्थकत्वे रूढ्यभावात् योगस्य अगतिकस्थले एव ग्राह्यत्वात् कुसृष्टिगौरवाच्च अधमपदाध्याहारदोषाच्च । एतेन अनन्तभट्टीयव्य्रायानमपि निरस्तं वेदितव्यम् । केचित्तु ‘तत्प्रेरकमिति तथाच एकस्यां क्रियायां आगमानुमानप्रामाण्यात् विष्णोः स्वतन्त्रकर्तृत्वं प्रत्यक्षप्रामाण्यात् जीवस्य ईश्वराधीनकर्तृत्वमिति प्रमाणत्रितयस्य एकविषयत्वम्रीकृतमिति भावः। ननु भोजनादिक्रियायां जीवस्यापि स्वातन्त्र्येणैव एककर्तृत्वं जगत्सृष्ट्यादौ ईश्वरस्य स्वातन्त्र्येणैव कर्तृत्वमिति क्रियाभेदेन प्रमाणत्रयस्वीकारः अस्तु । किं एकविषयत्वस्वीकारेण एकविषयत्वेपि वा अविरोधेन प्रत्यक्षादिकमपि त्रयमप्रमाणमिति वा अस्तु । किं तत्स्वीकारेण इत्याशङ्क्योक्तविधया प्रमाणत्रयस्य एकविषयत्व स्वीकार एवोत्तम इत्याह- पूर्णं प्रमाणमित्यादिना ॥ तत्प्रत्यक्षादित्रयं अविरोधेन उभयोः एकक्रियाकर्तृत्वे स्वातन्त्र्यास्वातन्त्र्यविवक्षयेत्याश”्य कर्तृत्वस्वीकारेण विरोधाभावेनेत्यर्थः। एकत्रस्थं एकविषयं चेत् पूर्णं म्रुयं प्रमाणं भवति । तत्त्रयं प्रत्यक्षादिप्रमाणत्रयं पृथग्भिन्नविषयतया क्रियाभेदेन उभयोरपि स्वतन्त्रकर्तृत्वस्वीकारेण इति यावत् । अविरोधी चेत् मध्यमं प्रमाणं स्यात् । एकविषयत्वे परस्परविरुद्धत्वात् अप्रमाणमिति अधममेव प्रत्यक्षादिकं स्यात् । तस्मात् आद्यपक्ष एव श्रेयानित्याह- तस्मादिति ॥ भिन्नविषयत्वे मध्यमत्वापत्तेः । हरेः सर्वकर्तृत्वपरित्यागात् जीवस्य भोजनादौ च स्वातन्त्र्य्राीकाराच्च तथा विरुद्धत्वेन अप्रामाण्ये अधमत्वापत्तेः। बाधं विना प्रत्यक्षादेः अप्रामाण्यस्वीकारायोगात् एकविषयत्वेन स्वातन्त्र्यास्वातन्त्र्यव्यवस्थया ईश्वरजीवयोरपि कर्तृत्व्राीकारे प्रत्यक्षादेः म्रुयत्वं स्वीकृतं स्यादिति भाव’ इत्याहुः । अपरे तु ‘प्रमाणत्रितयानुगामित्वं किमर्थं जीवेश्वरकर्तृत्वग्राहकप्रमाणानां भिन्नविषयत्वं वा एकविषयत्वेपि अन्यतमस्य अप्रामाण्यं किं न स्यादित्यतः प्रमाणानां अविरोधेन एकविषयतानुभ्यपगमे सति अ्रीकृतप्रमेयस्य पूर्णप्रमाणता न स्यादिति भावेनाह- पूर्णमिति ॥ तत्त्रयं अविरोधेन परस्परविरोधाभावेन एकत्रस्थं एकार्थप्रतिपादकत्वेन प्रवृत्तं चेत् तर्हीति शेषः । तस्मिन्नर्थे प्रमाणं पूर्णं भवेदिति शेषः । प्रथमप्रमाणाभिन्नार्थविषयं चेत् तर्ह्येकस्मिन्नर्थे प्रमाणत्रयस्य प्रवृत्तत्वेन प्रमाणं तत् भवेत् बाहुल्यलक्षणप्राबल्यसद्भावात् प्रमाणानान्तरविरोधाभावेन अप्रामाण्यश’ाया विषयत्वाच्चेति भावः । तत्त्रयं अविरोधि परस्परविरोधिरहितं सत् पृथक्चेत् भिन्नार्थप्रतिपादकं चेत् तर्हि मध्यमं मध्यमप्रमाणं बाहुल्यलक्षणप्राबल्याद्यभावादिति भावः । तत्त्रयं च विरोधि एकस्मिन्नर्थे विरोधयुक्तं चेत्तर्हि अप्रमाणं स्यात् । परस्परं विरोधेन एकस्यापि निश्श’तया स्वार्थानिश्चायकत्वादिति भावः । तस्मादेतत्त्रयं एकत्राविरोधेन एकार्थविषयतया कार्यं योज्यम्’ इति आचक्षते ॥ 82 ॥ एवं प्रमाणत्रितयानुसरणस्य आवश्यकतामुपपाद्य पुनरपि यस्तु प्रमाणत्रितयानुगामी तस्यैव स्वविहितकर्तृत्वेन सद्गतिर्नान्यस्येति अनिष्टसद्भावाच्च तदनुसरणमावश्यकमित्याशयेनाह- अज्ञः प्रत्यक्षमिति ॥ अज्ञः विपरीतज्ञानी प्रत्यक्षं प्रत्यक्षसिद्धं जीवकर्तृत्वं अपहाय त्यक्त्वा दैवमेव कर्तृ मत्वा स्वात्मकर्म स्वविहितकर्म प्रजह्यात् इति भावः । ततश्च दुर्गतिं प्राप्नुयात् । ‘गतिश्च तामसीं प्रयाति’ इति प्रागुक्तवचनादिति भावः ॥ विद्वानिति ॥ ततश्च सद्गतिं प्राप्नुयात्। ‘तेनैति सम्यग्गतिमस्य विष्णोः’ इति प्रागुक्तवचनादिति भावः । केचित्तु ‘तृतीय पक्षं लेशतो दर्शयति- अज्ञ इति ॥ ज्ञानी च आद्यपक्षम्रीकरोतीत्याह- विद्वानिति ॥’ इति व्याचक्षते । अपरे तु कामम्रीकरोतीत्यत आह। अज्ञ इति। विद्वान् सम्यग्ज्ञानीति सम्यग्व्याचक्षते। केचिदप्येवमेव श्लोकमवतार्य विद्वान् त्रितयं एकविषयं जानन्नित्यर्थः । द्वितीयव्यवस्थामवलम्ब्य कर्म कुर्वाणस्तु मध्यम इति द्रष्टव्यम्’ ति व्याचक्षते ॥ 83 ॥ ननु उक्तरीत्या विष्णोः सर्वकर्तृत्वं आयातम् । तदयुक्तम् । किमसौ प्राणिककर्माद्यपेक्ष्य फलं ददाति उत तदनपेक्ष्य वा । नाद्यः । अस्वातन्त्र्यापातात् । अस्वतन्त्रस्य सर्वकर्तृत्वानुपपत्तेः । द्वितीये वैषम्यनैर्घृण्यापत्तेः । निर्निमित्तं विभागेन सुखादिप्रदानात् । वैषम्यादिदोषवतश्च सर्वकर्तृत्वानुपपत्तेः । कर्मानपेक्षया सर्वकर्तृत्वे ‘ज्योतिष्टोमेन स्वर्गकामो यजेत’ इत्यादिवेदाप्रामाण्यापत्तेः । अतो हरेः सर्वकर्तृत्वं अयुक्तमित्यत आह- स्वभाव्रायेति ॥ तथाच सर्वकर्तृत्वं विष्णोर्युक्तमेव । न च उक्तदोषप्रस्रः । योग्यताकर्माद्यपेक्षया फलदातृत्व्राीकारेण वैषम्यादिदोषाभावादिति भावः । ननु योग्यताकर्माद्यपेक्षया फलं ददाति ईश्वरः इत्युक्तम् । यदपेक्षया फलं दद्यात् तस्यापेक्षस्य योग्यताकर्मादेः अभावादित्यत उक्तम्- अनादिसिद्धेति ॥ अनादिकर्मेति च ॥ तथाच नापेक्ष्य योग्यताकर्माद्यभावो वक्तव्यः । अनादियोग्यतायाः कर्मणश्च सत्वेन तदपेक्षायास्सम्भवात् ततश्च न वैषम्यनैर्घृण्यादिर्भगवत इति भावः । ननु तथापि नियमेन योग्यताकर्माद्यपेक्षया फलदाने विष्णोेरस्वातन्त्र्यं स्यादेव इत्याद्यं पक्षमपाकरोति- तदेतत्त्रयं विष्णोः वशगमिति ॥ तथाच नेश्वरस्य योग्यताकर्माद्यपेक्षया फलदानेऽस्वातन्त्र्यं किन्तु उपपद्यते चैतत् । अपेक्ष्ययोग्यताकर्मादेरपि स्वाधीनत्वात् ‘स्वभावतः प्रियत्वात्तु सदा देवप्रियो हरिः । अप्रियश्चासुराणां सः स्वभावात्तूभयं नृणाम् ॥ देशकालौ गुणादींश्च भक्त्यादीनप्यपेक्ष्य तु । योग्यतां च तथा कर्म सम इत्यभिधीयते ॥ स्वयं प्रियोऽपि देवानां उत्पद्यैव गुणानिमान् । इतरेषां तथा दोषान् सुखदुःखे ददत्यजः ॥ उभयं तु मनुष्याणां अतस्सम इतीरितः । अनादिनियताश्चैव गुणदोषास्सुरादिषु ॥ इत्यादि ब्रह्मतर्कोक्तेः (भा.ता. 7.1.12) । नहि स्वाधीनसत्तादिमदपेक्षायामस्वातन्त्र्यं भवति । अपेक्षा तु वैषम्याद्यप्राप्तये स्वेच्छानिमित्तैव । यदि कर्मादिसत्तापि तदधीना तर्हि तदपेक्षायामनपेक्षैवार्थाद्भवति । तथाच पुनर्वैषम्याद्यापातस्स्यात्तेन च दोषित्वमिति चेन्न । स्वाधीनकर्माद्यपेक्षया फलदानरूपं वैषम्यादेरदोषतयैव ‘स कारयेत् पुण्यमथापि पापं न तावता दोषवानीशितापि । ईशो यतो गुणदोषादिसत्वे स्वयं परोनादिरादिः प्रजानाम्॥ इति चतुर्वेदशिखायामुपलभ्यमानत्वात् (2.1.37.) । नचैवं कर्मापेक्षापि निष्फला । तदभावेपि दोषाभावसम्भवात् इति वाच्यम् । कर्मानपेक्षत्वे वेदाद्यप्रामाण्यप्रस्रात् । तदुक्तम्- ‘ वैषम्यं निर्घृणत्वं च वेदाप्रामाण्यकारणम्। न्राीकार्यं अतोन्यत्तु न वैषम्यादिनामकम्॥’ इति(अनु.2.1.वैषम्यनैर्घृण्याधिकरणम्) । उक्तञ्च सप्तमस्कन्धतात्पर्ये- विषमत्वं न दोषाय शुभाशुभविपर्यये । अतस्तादृशवैषम्यं ब्रह्मसूत्रे निराकृतम् ॥ शुभाशुभनियन्तृत्वं न दोषो गुण एव सः । अतस्तदिष्टं कृष्णस्य ब्रह्मसूत्रकृतो विभोः॥ इति तन्त्रनिर्णय इति (7.1.12) । एतेन ‘वैषम्यनैर्घृण्ये न सापेक्षत्वात् तथाहि दर्शयति’ ‘न कर्माविभागादिति चेन्नानादित्वात्’ ‘उपपद्यते चाप्युपलभ्यते च’ (2.1.35-36-37)इति सूत्रत्रयार्थो वर्णितो भवतीति बोध्यम् । केचित्तु ‘विद्वदविदुषोः विचित्रप्रवृत्तौ किं कारणमित्यत आह- स्वभावेति॥’ इति व्याचक्षते । अपरे तु ‘जीवस्य कर्तृत्वं भगवदधीनमित्युक्तम् । तस्य कर्तृत्वं नाम किमिति जिज्ञासायामाह- स्वभावेति ॥ पुनः प्रसार्यमाणमपि पूर्वावस्थां प्राप्नुवच्छैवालादिकं हठ इत्युच्यते े। तत्सादृश्यात् योग्यता हठ्राया स्वभाव्राया च स्वभावः स्वरूपं तद्राया च बन्धस्याऽनादित्वेपि नाशदर्शनात् । योग्यताया अप्यनादित्वेऽपि निवृत्तिः किमित्यत आह- नित्येति ॥ अनादिकर्मेति ॥ प्रवाहत इति शेषः । प्रवाहतः अनादिकर्मेति सम्बन्धः । अन्ये तु ‘नन्वेवं जीवप्रयत्नस्य ईश्वराधीनत्वेन सर्वस्य भगवद्वशत्वे सर्वेषां पारलौकिको यत्नः साधारण एव स्यात् । अन्यथा तत्प्रेरकेश्वस्य वैषम्यनैर्घृण्यापत्तेः । तथाच अधिकारिभेदः फलतारतम्यं च न स्यादित्यत आह- स्वभाव्रायेति॥’ व्याचक्षते ॥॥ ननु लोके प्रयोजककर्तुरपि प्रयोजककर्तृदर्शनात् भगवतोऽपि सोऽस्ति किमित्याश’ायां सयुक्तिकं परिहरति- न कस्यचिदिति ॥ न तु हरेर्योग्यतासापेक्षत्वेपि योग्यताया एकविधत्वे एकविध एव प्रयत्नः स्यात् । तथा चाधिकारिभेदः फलतारतम्यं च न स्यादित्यत आह - हठ इति ॥ यद्वा हठादित्रितयात्मकस्य कर्तृत्वस्य साधारणत्वात् कुतः फलवैषम्यमित्यत आह- हठ इति ॥ अथवा तथापि भगवतो योग्यताकर्मापेक्षया फलदानेपि वैषम्यनैर्घृण्यापरिहारः । योग्यतायाः सर्वजीवेषु साधारणत्वात् इत्यत आह- हठ इति ॥ चशब्देनानादिकर्मापि ग्राह्यम् ॥॥ ननु सा कारणं प्रथममित्यनेन योग्यतायाः प्राथम्यमुक्तम्।तत्किं निमित्तेनेत्यत आह- हठादिति ॥ कर्मादिकरणत्वेन योग्यतायाः प्राथम्यमिति भावः । एवमुत्पत्त्यपेक्षया हठादेः प्राथम्यमुक्त्वा इदानी ज्ञप्त्यपेक्षया प्रयत्नस्य प्राथम्यमित्याशयेनाह- यत्नोे यतो हठकर्मप्रयोक्तेति ॥ हठकर्मणोः प्रयोक्ता फलदानाभिमुखत्वलक्षणव्यञ्जनकृदित्यर्थः । पुरुषप्रयत्नानुसारेण हि योग्यताकर्मणी अभिव्यज्येते तस्मात् यत्नस्तयोः प्रयोजक इति भावः । तथा चेत्थं योजना । यतो हठात् कर्मणि भवन्ति कर्मजश्च यत्नः अतो यत्नो हठकर्मप्रयोक्तेति । एवमन्वयेन यत्नस्य प्रयोजकत्वमुक्त्वा व्यतिरेकेणापि योग्यताकर्माभिव्यञ्जकत्वं वक्ति- विना यत्नमिति ॥ यत्नं विना हठः प्रलप्रदो न । कर्मापि यत्नं विना फलप्रदं न । ननु यत्नादेव योग्यतादेः फलसम्भवात् किमीश्वरेणेत्यत आह - फलप्रदो वासुदेव इति ॥॥
वासुदेव एवाखिलस्य हठादेः फलप्रदः कुत इत्यत आह- नियामक इति ॥ हि यस्मादखिलस्य हठादेः विनियामकः तस्मात् स एवाखिलस्य फलप्रद इति सम्बन्धः । अखिलविनियामकत्वमपि कथमित्यत आह- स्वातन्त्र्येति ॥ स्वातन्त्र्येण शक्तेः फलदानसमर्थत्वादित्यर्थः । ननु विष्णोरेव स्वातन्त्र्येण फलदातृत्वे वैषम्यनैघृण्यं स्यादित्यत आह- तथापीति ॥ तथापि स्वातन्त्र्येण फलदानसमर्थत्वेपि युञ्जेत् फलेन योजयत् फलं ददातीत्यर्थः । नन्वेतानपेक्ष्यैवेति नियमेनैतदपेक्षया फलदाने भगवतो अस्वातन्त्र्यप्रस्र इत्यत आह- एतानीति ॥ अस्य जीवस्य एतान् हठकर्मयत्नान् । स’ल्प इच्छा । स’ल्प एव । स्वतन्त्रता इति स्वतन्त्रता इत्येवं स्वतन्त्र्यं नामेत्यर्थः । न हि गमने समर्थस्य स्वाधीनाश्वाद्यारोहणे सति गमनसामर्थ्यं विहन्यते तद्वदिति भावः । यद्वा इति यस्मात् तस्मात् अस्य विष्णोः स्वतन्त्रता नापगच्छेत् स्वधीनहठादिकर्मापेक्षयैव फलं ददाति इति स्वस’ल्पानुसारेण फलदातृत्वात् न स्वातन्त्र्यहानिरिति भावः ॥॥ स्वातन्त्र्यं नापगच्छतीत्युक्तं कुतो नापगच्छतीत्यतः तत्र हेतुमाह- न हीति ॥ सर्वशक्तेः पूर्णशक्तेः । ननु पूर्णशक्तेरपि कदाचित् नाशः स्यादित्यत आह- नाशक्तेति ॥ अशक्तता शक्त्यभावः प्रभुत्वात् परमसमर्थत्वात् ॥ ‘प्रभवत्युत्पद्यते सर्वं जगत्यस्मादिति सर्वजगत्कर्तृत्वात्’ इति केचित् । ‘प्रकर्षेण भवत्यस्तीति वा सर्वदाप्युत्कर्षेण सत्वादित्यर्थ इत्यर्थः’ इत्यपरे । अनेन स्वभाव्रायेति श्लोको विव्रीयत इति न पुनरुक्तिरिति भावः । ननूक्तरीत्या विष्णोः स्वतन्त्रकर्तृत्वं जीवस्य परतन्त्रकर्तृत्वं चास्तु तथापि प्रकृते किमित्यत आह- तस्मादिति ॥ तस्मात् विष्णोः स्वतन्त्रकर्तृत्वात् जीवस्य तदायत्तकर्तृत्वसद्भावाच्च तेन विष्णुना क्लृप्तं निर्णीतं स्वकर्म स्ववर्णाश्रमोचितं कर्म तत्पूजार्थं भगवत्पूजार्थं कार्यं कर्तव्यम् । तेनैव प्रकारेण कर्मकरणेन तत्प्राप्तिः भगवत्प्राप्तिः स्यादित्यर्थः ॥॥ विपक्षे बाधकमाह- अत इति ॥ एवं सामान्यतः स्वस्वविहितकर्मणः कर्तव्यतामुपपाद्याधुना तत्तद्वर्णविहितधर्मान् विशिष्याह - स्वकर्म विप्रस्येत्यादिना ॥ ‘शमो दमस्तत्र शौचं क्षान्तिरार्जवमेव च । ज्ञानविज्ञानमास्तिक्यं ब्राह्मकर्म स्वभावजम्॥’ इति वचनात् । ब्राह्मणस्य बहूनां विहितत्वात् तेपि ग्राह्याः । अत्र जपोपदेशशब्दाभ्यां अध्ययनाध्यापने द्वे ग्राह्ये । यद्वा गुरूपदिष्टमन्त्राभ्यासो वा वेदेतिहाससूत्रादिकमधीत्य तदभ्यासो वा जपः। ‘गुरुणा चोपदिष्टोपि वेदब्राह्मणवर्जितः । विधिनोक्तेन मार्गेण मन्त्राभ्यासो जपः स्मृतः ॥ अधात्य वेदसूत्रे वा पुराणं चेतिहासकम् । पदेष्वध्ययनं तत्तदभ्यासो जपस्मृतः ॥ इति वचनात् । तत्र हेतुमाह- विष्णोर्मुखादिति ॥ अस्य विप्रस्य पापप्रतिवारणमिति ॥ ‘शौर्यं तेजो धृतिर्दाक्ष्यं युध्ये चाप्यपलायनम् । दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् ॥’ इति गीतोक्तेः । बहूनां विहितत्वेपि तेषां ‘आपत्सु विप्रः क्षात्रं तु विशां वा धर्ममाचरेत्’ इति गीतातात्पर्योदितप्रमाणानुसारेण (18.48) विप्रसाधारणत्वेन पापप्रतिवारणशब्दे विवक्षितेश्वरभावस्य क्षत्रियासाधारणत्वात् प्राधान्येन ग्रहणम् । तथाचोक्तम्-्रप्रसह्य वित्ताहरणं शारीरो दण्ड एव च । अशिष्याणां शासनं च तथैवार्थविनाशनम् ॥ एष ईश्वरभावः स्यान्न कार्यः क्षत्रियेतरैः ॥’ इति गीतातात्पर्ये (18.44-48 ) ॥॥ सादृश्यतः दश्राुलित्वसादृश्यादित्यर्थः । कर्मणां कौशलो चित्रलेखनादिकर्मणां चातुर्यम् ॥॥ ननु स्वातन्त्र्यमात्रेण गुणपूर्णत्वं निर्दोषत्वं च कथमित्यत आह- निस्सीमशक्तिरिति ॥ यतः कारणान्निस्सीमशक्तिर्हि निस्सीमशक्तिरेव स्वतन्त्र इत्यर्थः । निस्सीमशक्तित्वं स्वातन्त्र्यशब्दार्थ इत्यर्थः । तेन गुणपूर्णत्वं निर्दोषत्वं च युज्यते इति भावः । तदेव प्रपञ्चयति- दोषेति ॥॥ ॥ एवमिति ॥ यत् यस्मात् एवं प्रकारेण स्वस्वविहितधर्मेण अस्माकं च नारायणः पूज्यः तेन कारणेन अतिक्षमा कुजनेष्विति शेषः । किन्तु दुष्टानां वारणमेव कार्यं कर्तव्यम्॥॥ ॥ तस्येति ॥ तस्य दुष्टहन्तुः पुरुषस्य बाहू मोक्षे चैतन्यमात्रौ केवलचिदात्मकौ भवतः । स्वरूपानन्दाविर्भावलक्षणमोक्षः स्यादिति भावः॥॥ ॥ पापाधिकानिति ॥ अवैष्णवानिति शेषः । इदं वचनमपराोक्षज्ञान्यभिप्रायेण । परोक्षज्ञानिनस्तु एवं करणेन अपरोक्षज्ञानं स्यादिति बोध्यम् । तत्र मुक्तो विष्णोः परमा प्रीतिश्च स्यात् । वरदराजाचार्यस्तु ‘तत्र युद्धे विष्णोः परमा प्रीतिः’ इति व्याचक्षते । तन्न चशब्दवैय्यर्थ्यापत्तेः । मुक्ताविति मुक्तेरव्यवहितत्वेन तत्रेत्यनेन मुक्तपरामर्शस्यैवोचितत्वात् । आनन्दवृद्ध्यपेक्षया समुच्चयोपपत्त्या अस्मत्पक्षे चशब्दसार्थक्याच्च । तत्पक्षे तु युद्धस्य व्यवहितत्वात् समुच्चयाभावाच्च समञ्जसत्वमिति बोध्यम् । ‘तत्र दुष्टहन्तरि’ इत्यपरे। अन्यद्धर्मयुक्तं जीवनार्थी सन् युद्धकाले प्राणभयाज्जलमज्जनवृक्षारोहणाद्यन्यधर्मयुक्तो यः क्षत्रियस्तद्वधात्मकं च यत्क्रूरं निन्दितं कर्म कर्तव्यं तत्परैः प्रसाधनीयं कारयितव्यम् । कृष्णस्य तु जलमग्नहंसवधस्तु सर्वेश्वरत्वादुपपन्नः । अत एवोक्तं ‘वरास्त्रपाणिरीश्वर’ इति भगवत्पादैरिति भावः । ननु दुर्योधनादिभ्यो दत्तराज्यं पुनराहार्यमित्यभिप्रायेणैव तावदुच्यते । तदस्रतम् । दत्तापहारस्य दुष्टत्वादित्यत आह- दत्तमिति ॥ द्यूतहृतं स्त्रियां दत्तं चाल्पं चेत् तन्नाहार्यमित्यर्थः । तत्रापि किञ्चित् विशेषमाह- यदीति ॥ यदि एषां भ्रात्रादीनां भोग्यं भोगार्हं तदीयं स्वकीयेन दत्तत्वात् स्त्रीसम्बन्धि अल्पं च अल्पमपि भोगेन भोगव्याजेन धान्यादानादिनेति यावत् । तद्बन्धुभिः दातृपुरुषबन्धुभिः पुनराहार्यमिति सम्बन्धः । तद्बान्धवो दरिद्राश्चेत् स्त्रीदत्तमल्पमपि आहार्यम्। तद्बन्धुभिरिति भावः । इदानीं स्वाभिप्रायं स्फुटयति- तदिति ॥ द्यूतदत्तस्यापहार्यत्वात् अस्मद्राज्यस्यानल्पत्वाच्च नः अस्माकं राज्यं पुनराहार्यमेव। ॥ वेदप्रामाण्यादिति ॥ ते द्वादशमासाः वत्सरो हि । वत्सरो एव कुत इत्यत आह - वेदप्रामाण्यादिति ॥ ‘ यो मासस्संवत्सर संवत्सरादेवात्मानं पुनीते। मासं दीक्षितो भवति’ इत्यादिश्रुतौ मासस्य वत्सरत्वप्रतिपादनादिति भावः । मासस्य वत्सरत्वं कुतोऽवगम्यते इत्यत आह- मासैरिति ॥ ‘शतायुः पुरुष’ इति श्रुत्या नराणामल्पायुष्यात् सहस्राब्दनिवर्त्यसत्रायोगात्’ (इत्युक्त्यसारेण श्रुत्यसारेण) श्रुत्यन्तरे नराणां सहस्रमासनिवर्त्यसत्राभिप्रायेण सहस्राब्दं सत्रमुक्तमिति भावः ॥॥ ननु त्रयोदशाब्दान्ते मद्वाक्यं करोषि चेदिदानीमेव किमिति त्वया न क्रियत इत्यत आह- लोकेति ॥ द्वादशाब्दपर्यन्तं वनवासः एकाब्दपर्यन्तमज्ञातवासश्च धर्मजेन प्रतिज्ञातः । स इदानीं तत्प्रतिज्ञातं त्यक्तवानित्यज्ञानिजनाः ब्रूयुरिति भावः । हे भीम यदि मा मामित्यर्थः । एवं पूर्वोक्तप्रकारेण । ‘वदेः’ इति पाठे पुनर्वदसि चेदित्यर्थः । तर्हि मां अतिवाचा तुदसे व्यथितं कृतवानसीत्यर्थः । यद्वा हे भीम एवमुक्तप्रकारेण मा वद न वदेत्यर्थः । कुत इत्यत आह- तदिति ॥ यत् यस्मात् अतिवाचा मां तुदसे एवमुक्तौ मम व्यथाया जायमानत्वादिति भावः । अथवा कुतो नान्यद्वक्तव्यमित्यत आह- तुदस इति ॥ अतिवाचा क्रूरवाचा मां तुदसे व्यथयसि । हे भीम यदि एवं पूर्वोक्तप्रकारेण मां मां प्रति वदेः पुनर्वदसि चेदित्यर्थः । तर्हि तदैव द्यूते देवने देवनसमये एव मे मम अत्ययः अतिक्रमः कार्यः कर्तव्यः । शत्रवश्च तदैव हन्तव्याः । एतावत्पर्यन्तं किमिति स्थितमिति भावः । केचित्तु ननु समयावधिपरिसमाप्तावपि मदुक्ताकरणे कथमित्यत आह- तदैवेति ॥ समयावधिपरिसमाप्ता अपि त्वदुक्ताकरणे मे ममात्ययः कार्यः । शत्रवश्च हन्तव्या एवेत्याहुः ॥॥ ननु कृष्णेनार्जुनस्याजेयत्ववरस्य दत्तत्वात् कथं रुद्रात् पराजय इत्यत आह- पूर्वमिति ॥ पूर्वं कृष्णेनार्जुनस्य वरदानात् प्रागित्यर्थः ॥॥ ननु विष्णुमात्रप्रतिपादकमन्त्रो न दत्तत्वात् विष्णुशिवप्रतिपादकमन्त्रान् व्यासः किमर्थमदादित्यत आह- केवलानिति ॥ केवलान् वैष्णवान् विष्णुमात्रदेवताकाः॥॥ आशुतरासल्लोकार्थं यतमाना एषा सृष्टिः असुरसृष्टिः अधरा अधःपातसाधनकर्मकर्त्री स्यात् ॥॥ ॥ सर्वज्ञा मुनय इति ॥ ‘काश्यपो वामदेवश्च रैभ्यो धूम्रस्तथैव च । जाबालिः काश्यपः कण्वो भारद्वाजोऽथ गौतमः ॥ अत्रिरश्वशिरा भद्रः शङ्खश्शखनिधिः कुणिः । पाराशर्य पवित्राक्षो याज्ञयवल्क्यो महामनाः॥ कक्षीवान्रिराश्चैव मुनिर्दीर्घतमास्तथा । असितो देवलस्तात वाल्माकिश्च महामनाः ॥ एते चान्ये च मुनयो द्रष्टुमीश्वरमव्ययम् ॥’ इत्यादि हरिवंशोेक्तिः (3.77.7-9) सर्वज्ञाः कृष्णदर्शनकाणिस्तत्र एयाय द्या) इति सत्वेन सर्वज्ञा इत्युक्तम् ॥॥ ॥ तयोः प्रसन्न इति ॥ ‘पस्पर्शां्रं तथा विष्णुः पिशाचस्य च सर्वशः । करेण मृदुना देवः पापान् निर्मोचयद्धरिः ॥ ततस्तस्याभवद्रूपं कामरूपसमप्रभम् ॥’
इत्यादिहरिवंशोक्त्या (83.15-16) तयोः पिशाचत्वं पापात् प्राप्तं न शापादिनेति बोध्यम् । ॥ कल्पयित्वा इति ॥ अत्रायं भावः एकस्मिन् दिने एकविंशतिसहस्रोत्तरषट्शतश्वासाः पुरुषस्य भवन्ति । तत्राष्टशतोत्तरसहस्रश्वासनिरोधे संवत्सरोपवासव्रतफलं भवति । पञ्चाशदुत्तरशतश्वासनिरोधे मासोपवासव्रतफलं भवति । पञ्चश्वासनिरोधे एकोपवासफलं भवति ॥॥ ॥ गरुत्मा इति ॥ अत्राद्यशब्देन चक्रश’ाद्यभिमानिकामानिरुद्धादयो ग्राह्याः । तथो चोक्तम्- ‘गरुडः कश्यपसुतः इन्धनानि समाचिनोत् । होमार्थं वासुदेवस्य चरतस्तप उत्तमम् ॥ चक्रराजोऽथ पुष्पाणि सञ्चिनोति तदा हरेः । दिक्षु सर्वासु सर्वत्र ररक्ष जलदस्तदा ॥ खड्ग आहृत्य यत्नेन कुशान् सुबहुशस्तथा । कौमोदकीगदा चैव परिचर्यां चकार ह ॥ धनुप्रवरमत्युग्रं शार््रं दानवभीषणम् । स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत् स्वयम् ॥’ इत्यादि हरिवंशे (3.84.20-22)॥॥ ॥ गन्धर्वयक्षवरसिद्धविह्रमाद्या इति ॥ अत्र सृष्टिकाले उदकभक्षकत्वं यक्षपदप्रवृत्तिनिमित्तम् । तथाचोक्तम् ‘ भक्षामेति च यैरुक्तं यक्षा एवं भवन्तु ते’ इति रामायणे(7.4.13) । तत्प्राप्तये तज्ज्ञानाय विष्णुज्ञानाय । वयं तु तद्दातार इति स्वीकार्य इति भावः ॥॥ ॥ गरुत्मा इति ॥ अत्राद्यशब्देन चक्रश’ाद्यभिमानिकामानिरुद्धादयो ग्राह्याः । तथो चोक्तम्- ‘गरुडः कश्यपसुतः इन्धनानि समाचिनोत् । होमार्थं वासुदेवस्य चरतस्तप उत्तमम् ॥ चक्रराजोऽथ पुष्पाणि सञ्चिनोति तदा हरेः । दिक्षु सर्वासु सर्वत्र ररक्ष जलदस्तदा ॥ खड्ग आहृत्य यत्नेन कुशान् सुबहुशस्तथा । कौमोदकीगदा चैव परिचर्यां चकार ह ॥ धनुप्रवरमत्युग्रं शार््रं दानवभीषणम् । स्थितं हि पुरतस्तस्य यथेष्टं भृत्यवत् स्वयम् ॥’ इत्यादि हरिवंशे (3.84.20-22)॥॥ ॥ गन्धर्वयक्षवरसिद्धविह्रमाद्या इति ॥ अत्र सृष्टिकाले उदकभक्षकत्वं यक्षपदप्रवृत्तिनिमित्तम् । तथाचोक्तम् ‘ भक्षामेति च यैरुक्तं यक्षा एवं भवन्तु ते’ इति रामायणे(7.4.13) । तत्प्राप्तये तज्ज्ञानाय विष्णुज्ञानाय । वयं तु तद्दातार इति स्वीकार्य इति भावः ॥॥
॥ यद्विष्णुरेव परम इति ॥ अनेन ‘हिरण्यगर्भः कः प्रोक्तः ईशः शङ्कर एव च । सृष्ट्यादिना वर्तयति तौ भवान् केशवो यत ॥’ इति रुद्रोक्तहरिवंशवचनात् तात्पर्यमुक्तं वेदितव्यम् ॥॥ प्रवादतः संवादेन स प्रद्युम्नो मे मया तुभ्यं दत्त इत्यन्वयः । ननु केन साकं तव संवाद स च किमर्थमभूदित्यत आह- पुरेति ॥ यद्वा मे मया दत्त इति प्रवादतः प्रवादमात्रात् रुद्रेण कृष्णस्य पुत्रो दत्त इति प्रवादमात्रं मम तव पुत्रदाने असमर्थत्वादिति भावः ॥॥ पुरद्विषः त्रिपुरान्तकस्य रुद्रस्य निलयं निवासस्थानं कैलासं प्रति ॥ 204-219 ॥ तेन सायकेन सः कृष्णः काशीश्वरस्य शिरः वाराणस्यां न्यपातयत् । ननु द्वारकास्थकृष्णस्य सायकेन वारणस्यां काशीश्वरशिरः पातनं कथं घटत इत्यत आह- ईश्वर इति ॥220-225॥ कृत्यात्मकविेस्वरूपमाह- कृत्यामिति ॥226-227॥ अथ विद्रावणानन्तरम् ॥ 228 ॥ अकृत कार्यस्सन् असौ कृत्यात्मकविेः सहानुबन्धं सपुत्रभार्यं सुदक्षिणं भस्मीचकार । अथ सुदर्शनं वारणसीपुरीं दग्ध्वा वासुदेवस्य पार्श्वं पुनरगादिति सम्बन्धः । तथाचोक्तम्- ‘कृत्यानलः प्रतिहतः स रथ्रागपाणेरस्त्रौजसा नृप विभग्नमुखो निवृत्तः । वाराणसीं प्रति समेत्य सुदक्षिणं सन्निर्जितं समदहत् स्वकृतोभिचारः ॥ चक्रं च विष्णोस्तदनु प्रविष्टं वाराणसीं साट्टसभालयापणाम् । सगोपुराट्टालककोष्ठतोरणां सकोशहस्त्यश्ववरूथमन्दिराम् ॥ दग्ध्वा वाराणसीं सर्वां विष्णुचक्रः सुदर्शनम् । भूयः पार्श्वमुपातिष्ठत् कृष्णस्याक्लिष्टकर्मणः ॥ ’ इति भागवते (10.69.54-56) । तथैव हरिवंशे च-
‘चक्राग्नितापनिर्दग्धा कृत्या वाराणसीं ययौ’ इत्यादिना कृत्यायाश्चक्रतः पलायनमुक्त्वा ‘यत्रोत्पन्ना अथाकृत्या दह्यमाना भयातुरा। कृत्या साकृतकृत्या तु कृत्याकृत्यमजानती॥ काशिराजं परिष्वज्य सपुरोहितमन्तिके । दिगम्बरा सा पतिता निष्प्रभा स्त्रस्तकूलिनी ॥ पश्यतां सर्वभूतानां तेषामन्तिकमेत्य सा । तां ददाह चिरात् सार्द्धं चक्रेणैव सुदर्शनः ॥ गजाश्वरथशालाश्च गोशालाश्वगृहान् तथा । नवरत्नं समस्तं च वासांसि विविधानि च ॥ सार्द्धं द्वारवती तानि निर्ददाह सुदर्शनम् । शम्भुनेत्रानलः पूर्वं पुराण्याशु यथा महान् ॥ तथैव तत्पुरं सर्वं भस्मसात्कृतवान् नृप ॥’ इति कथनात् । एतेन ‘अथ कृत्यापगमनानन्तरं सुदर्शनं चक्रं सुदक्षिणं भस्मीचकार । पुरीं च दग्ध्वा वासुदेवस्य पार्श्वमगात्’ इत्यनन्तभट्टीयव्य्रायानमपास्तं वेदितव्यम् । उक्तप्रमाणेन सुदक्षिणस्य कृत्याग्निना नाशप्रतिपादनात् ॥ ॥ मासौ तत्रेति ॥ उक्तं च- ‘इत्थं विभूषितं रामेणैतत् तत्र तदा व्रजम् । मासद्वयेन यातश्च पुनः स द्वारकां पुरीम्॥’ इति विष्णुपुराणे (5.25.18)। क्षीबः कादम्बरीमद्यपानायतः । ‘ततः कदम्बात् सहसा मद्यधारां स ल्राली । पतन्तीं वीक्ष्य मैत्रेय प्रययौ परमां मुदम् । पपौ च गोपगोपीभिः समुपेेतो मुदायुत’ इति विष्णुपुराणे (5.25.6)। यमुनां स्नातुमिति शेषः । अह्वयत् । तथाचोक्तम्- ‘स मत्तोत्यन्तघर्माम्भः कणिकामौक्तिकोज्ज्वलः । आगच्छ यमुने स्नातुं इच्छामीत्याह विह्वलः ॥ तस्य वाचं निशम्याथ मत्तोक्तामवत्य वै । नाजगाम नदी क्रुद्धो हलं जग्राह ल्राली ॥ गृहीत्वा तां हलान्तेन चकर्ष मदविह्वलः । सा कृष्टा सहसा तेन मार्गं सन्त्यज्य निम्नगा ॥ यत्रास्ते बलभद्रोऽसौ प्लावयामास तद्वनम् । शरीरिणी ततोऽभ्येत्य त्रासविह्वललोचना ॥ प्रसीदेत्यवद् रामं मुञ्च मां मुसलायुध ॥’ इत्यादि विष्णुपुराणे (5.25.8-12)। ‘रामस्तु यमुनामाह स्नातुमिच्छे महानदी’ इत्यादि हरिवंशे च । एतेन यमुनायास्तटतो दूरस्थत्वात् वनसमीपं प्रति आह्वयदिति सूचितमिति वेदितव्यम् । नन्वथापि ‘साम्बनामकं सुतं च रोहिणी हरेः । चतुर्मुखांशसंयुतं कुमारमेव षण्मुखम् ॥’ इति वचनात् साम्बस्य मन्मथत्वेन चतुर्मुखांशयुक्तत्वेन च कर्णदुर्योधनाद्यपेक्षया बलाधिकत्वेन कथं दुर्योधनादयो जिग्युः इत्यत आह- कृच्छ्रेणेति॥ कृच्छ्रेण अतिकष्टेन। तथाच दुर्योधनस्य प्रधानवाय्वाविष्टत्वात् कर्णस्य च हरिसन्निधानयुक्तत्वात् र्दुर्योधनादीनां बहुत्वाच्च तज्जयो युक्त एवेति भावः ॥॥ ॥ सहोद्धवो कौरवेयान् ॥ सात्यक्यादीन् विहायोद्धवेन सह गमनमुद्धवेन नीतिकथनार्थमिति भावः ॥॥ ॥ क्रीडायुद्ध इत्यादि ॥ अनेन ‘नागायुतबलप्राणो भीमो भीमपराक्रमः । असकृद्बलदेवेन बाहुूयुद्धे पराजितः॥ ’ इत्यादिहरिवंशादिवचनतात्पर्यमुक्तं वेदितव्यम् (2.62.7)॥॥ चित्रवस्त्रं चित्रलेखनसाधनवस्त्रे लोकान् सुरासुरगन्धर्वमनुष्यानित्यर्थः । प्रदर्श्य लिखित्वा प्रदर्श्येत्यर्थः । तथा चोक्तम्- ‘इत्युक्त्वाभ्यन्तरं गत्वा उपायं तत्र साकरोत् । ततः पटेे सुरान् दैत्यान् गन्धर्वांश्च प्रधानतः ॥ मनुष्याश्च विल्रियास्यै चित्रलेखा प्रदर्शयत् ॥ इत्यादि (हरिवंशे)एते श्लोकाः विष्णुपुराणे दृश्यन्ते (5.32.21-22)॥॥ ॥ अथ कृष्णः सानिरुद्धेति ॥ अथ नारदेनानिरुद्धो बाणेन बद्ध इति कथनानन्तरम् । ‘यदूनामाचचक्षे तं बद्धं बाणेन नारद’ इति विष्णुपुराणोक्तेः (5.33.10) । रामसंयुतस्सन् प्रद्युम्नेन संयुतस्सन् गरुडं समारुह्य । तथाचोक्तम्- ‘आस्थितो गरुडं देवस्तस्य चानु हलायुधः । प्रदृतोनु बलस्यपि प्रद्युम्नः शत्रुकर्शन ॥’ इत्यादि (विष्णुपुराणे)(हरि.2.42.) ॥॥ ॥ क्रीडार्थमिति ॥ व्यथां विना । स्वस्य व्यथाभावेपि अत्यल्पजनेष्वपि विषये कथञ्चिदेव व्यथयैव कष्टेनैवेति यावत् । व्यजयदित्यादि क्रीडार्थं स्वस्य क्रीडार्थं मोहायासुरजनमोहाय च दर्शयति ॥॥ ॥ चित्रलेखासमेतोषेति ॥ चित्रलेखा समेतोषान्वितः पौत्रसमन्वितस्सन् सरामस्सन् ससुतस्संश्च वीन्द्रं गरूडमारुह्य द्वारकां गत इति सम्बन्धः । तथाचोक्तम्- ‘ततोऽनिरुद्धमारोप्य सपत्नीकं गरुत्मति । आजग्मुर्द्वारकां रामकार्ष्णिदामोदरा पुरीम्॥’ इत्यादि विष्णुपुराणे (5.33.52)॥॥ ॥ वासुदेवासनग्र्य इति ॥ वासुदेवासनानां रथादीनां मध्ये अग्र्यः श्रेष्ठ इत्यर्थः ॥ 268 ॥ ॥ युगानुसारात् मूलरूपानुसारादिति ॥ तथाचोक्तं यादृग्रूपेण सागरोल्लङ्घनं कृतं तादृग्रूपं प्रदर्शय इति भीमेन पृष्टेन हनूमता ‘एवं कृतयुगे कालः त्रेतायां द्वापरे परः । अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥ भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः । कालं समनुवर्तन्ते यथा भावा युगे युगे ॥ कालं कालं समासाद्य नराणां नरप्रुव । बलवर्ष्मप्रभावा हि प्रभवन्त्युद्भवन्ति (प्रहीयन्त्युद्भवन्ति) च ॥ न त्विदानीं तु तद्रूपं द्रष्टुं कुरुकुलोद्वह । युगं समनुवर्तेऽहं कालो हि दुरतिक्रमः ॥’ (151.7-10) इत्यरण्यपर्वणि ॥॥ ॥ इच्छाव्यक्तिरिति ॥ हनूमता सागरोल्ल्रनसमये यादृग्रूपमास्थितं भीमस्य तादृग्रूपप्रदर्शनादौ तथा भीमस्य जरासन्धादिहिडिम्बवधादौ चेच्छामात्रेण बलव्यक्तेः तदन्येषां शेषादीनामवतारे रावणप्रलम्बग्रहणलक्षणबलवत्कारणेनेच्छया बलव्यक्तेः प्रायश इत्युक्तम् ॥॥ ॥ ध्वाजाद्बीभत्सोरिति ॥ तच्चोेक्तम्- ‘भ्रातृत्वात् सौहृदाच्चापि करिष्यामि तव प्रियम् । चमूं विगाह्य शत्रूणां सर्वशक्तिसमाकुलम् ॥ यदा सिंहरवं वीर करिष्यसि महाबल । तदाहं बृंहयिष्यामि स्वरवेण रवं तव ॥ यं श्रुत्वैव भविष्यन्ति व्यसवस्तेऽरयो रणे । विजयस्य ध्वजस्थश्च नादान् मोक्षयिष्यामि दारुणान् ॥ शत्रूणां ते प्राणहरानित्युक्त्वान्तरधीयत ॥ (153.15-18) इत्यरण्यपर्वणि ॥॥ ॥ रामस्य कथा इति ॥ पूर्वेणान्वयः ॥ तच्चातुरात्म्यमिति ॥ तस्य परात्मनश्चातुरात्म्यं चतुर्युगनियामकशुक्लरक्तपीतकृष्णरूपचतुष्टयमित्यर्थः । तथा चारण्यपर्वणि- भीम उवाच- युगस”्यां समाचक्ष्व आचारं च युगे युगे । धर्मकामार्थभावांश्च कर्मवीर्ये भवाभवौ ॥ (151.11) इति भीमेन युगचतुष्टयधर्मं तन्नियामकभगवद्रूपविषयकप्रश्ने कृते हनूमान् ‘कृतं नाम युगं श्रेष्ठं यत्र धर्मः सनातनः ’। (151.12) इत्यादिना हनूमता कृतयुगधर्ममुक्त्वा ‘त्रेतामपि निबोध त्वं यस्मिन् सर्वं प्रवर्तते । पादेन ग्रसितो धर्मो रक्ततां याति चाच्युतः॥’ (151.25) इत्यादिना त्रेतायुगधर्मं तन्नियामकं भगवता रक्तरूपं चोक्त्वा ‘विष्णुः पीतत्वमायाति चतुर्धा वेद एव च ।’ (151.28) इत्यादिना ‘एवं द्वापरमासाद्य प्रजा क्षीयन्त्यधर्मतः’ इत्यन्तेन द्वापरधर्मं तन्नियामकं भगवतः पीतरूपं चोक्त्वा तदनन्तरं ‘पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः । तामसं युगमासाद्य कृष्णो भवति केशवः॥’ (151.35) इत्यादिना ‘एतत्ते सर्वम्रायातं यन्मां त्वं परिपृच्छसि’(151.41) इत्यन्तेन कलियुगधर्मस्य तन्नियामकस्य कृष्णरूपस्य चोक्ता शताधिकैकपञ्चाशदध्याये । वरदराजाचार्यास्तु ‘तच्चातुरात्म्यं तस्य रामस्य चातुरात्म्यं वासुदेवादिचतुरूपत्वेन प्रादुर्भावम्, रामः स्वयं लक्ष्मणादिषु त्रिषु स’र्षणादित्रयात्मा विवेश आविष्ट इत्येवं तच्चातुरात्म्यमित्यर्थः’ इति व्याचक्षते । अनन्तभट्टारकास्तु ‘तच्चातुरात्म्यं साक्षाद्रामस्वरूपं लक्ष्मणादिस्थितरूपत्रयं चेत्यर्थ’ इति व्याचक्षते । वेद्रातीर्थास्तु ‘तच्चातुरात्म्यं तच्चतुस्वरूपत्वं वासुदेवस्यैव रामत्वं स’र्षणादिरूपाणां लक्ष्मणादिष्वाविष्टत्वम्’ इति व्याचक्षते । तदेतद्व्य्रायानत्रयं चिन्त्यम् । अरण्यपर्वविरोधात् । तत्र भीमं प्रति हनुमता युगनियामकरूपाणामेवोक्तरीत्योदितत्वेन वासुदेवादीनामकथनात् । एतद्ग्रन्थस्य तत्तात्पर्यनिर्णायकत्वात् । एकादशस्कन्धेपि शुक्लादिरूपाणां हंसादीनामेव युगधर्मनियामकत्वेन कथनात् ॥॥ कतिपयैर्दिनैः कतिपयदिनेषु गतेषु सत्सु कृष्णा नृभिरगम्यतः अगम्यात् कुबेरस्य गृहात् मारुतेन वातेन आहृतानि पञ्चवर्णानि पुष्पाणि वीक्ष्य भीमस्य यशोधर्माभिवृद्धये भीमं प्रत्युवाचेति सम्बन्धः ॥॥ पुनरिति सौगन्धिकार्थवचनापेक्षया ॥ अगस्त्यशापमिति ॥ ‘यमुनातीरमाश्रित्य पुण्यब्रह्मनिषेवितम् । अथोर्ध्वबाहुदृष्ट्वा तमगस्त्यमृषिसत्तमम् ॥ राक्षसाधिपतिः श्रीमान् मणिमान्नाम मे सखा । न्यष्ठीवदाकाशगतो महतस्तस्य मूर्धनि ॥ तत क्रुद्धस्स भगवान् उवाचेदं तपोधनः । मामवज्ञाया दुष्टात्मा यस्मादेष सखा तव ॥ धर्षणं कृतवानेतत् पश्यतस्ते धनेश्वर । तस्मात् सहैभिः सैन्यैस्तैर्वधं प्राप्स्यति मानुषात् ॥ त्वमप्येभिर्हतैः सैन्यैः क्लेशं प्राप्नुहि दुर्मते । तमेव मानुषं दृष्ट्वा किल्बिषात् विप्रमोक्ष्यसे ॥ (162.61-64) इत्यरण्यपर्ववचनात् स्वस्य सखायनाशे कारणं निमित्तम्, चशब्देन स्वस्य च क्लेशप्राप्तौ निमित्तं अगस्त्यशापमवददित्यन्वयो द्रष्टव्यः ॥॥ ॥ सुरेन्द्रवचनादिति ॥ अयं भावः । पूर्वं इन्द्रो वृत्रवधे कृते सति ब्रह्महत्यया महादेवभूतैश्च पीडितस्सन् हिमवत उत्तरपार्श्वे सरोवरमध्ये पद्मनालमध्ये प्रविवेश । ततो नहुषो राजा इन्द्रपदे स्थापितः ततः कदाचित्तेन दृष्टा शची तेन मामुपैहीति पीडिता सती पतिव्रतत्वात् सत्येन उपश्रुतिमथाकरोत् । यत्रास्ते देवराजोऽसौ तद्देशं दर्शयस्वेति प्रार्थयामास । तत उपश्रुत्य्रायदेवता शचीमादाय पद्मनालस्थसूक्ष्मरूपमिन्द्रं दर्शयामास । ततः शची नहुषकृत्यमिन्द्रायोक्त्वा त्वं स्वर्गं प्रयाहीत्युवाच । तत इन्द्र इदानीं न समय इत्युक्त्वा तां प्रति तमाह- ‘गुह्यं चैतत् त्वया कार्यं न्रायातव्यं शुभे क्वचित् । गत्वा नहुषमेकान्ते ब्रूहि त्वं तनुमध्यमे ॥ ऋषियानेन दिव्येन मामुपैहि जगत्पते । एवं तव वशे प्रीता भविष्यामीति तं वद ॥’ (15.3-4) इत्युद्योगपर्वणि शच्या महर्षिगणवाहने नियुक्तः ‘ वहतु त्वां महाभाग ऋषयः सङ्गताः विभो । स वै शिबिकया राजन्नेतद्धि मम रोचते॥’ (15.13) इत्युद्योगपर्वोक्तरीत्या प्रेरित इत्यर्थः । वाहयामास शिबिकासंस्थमात्मानमिति शेषः । ‘महर्षीणां सहस्रं तु उवाह शिबिकां मम’ (163.36) इत्यरण्यपर्वस्थनहुषवचनात् शचीप्रतिषेधार्थं नहुषस्य शच्यामिच्छाप्रतिषेधार्थमित्यर्थः ॥॥ ॥ षष्ठे काल इति ॥ षष्ठे काले सायन्तनसमये । अन्यथा षष्ठकालशब्दस्य व्रतपरत्वे ‘न हि मे मुच्यते कश्चित् कथञ्चित् ग्रहणं गतः । गजो वा महिषो वापि षष्ठे काले नरोत्तम ॥’ इत्यादि अरण्यपर्वस्थ (181.16)नहुषवचनानुपपत्तिप्रस्रात् । व्रतवतस्तादृशक्रूरकर्मायोगात् भीमस्यापि तादृशव्रतादृष्टेः । स्वपूर्वे स्वकुलवृद्धे ॥॥ ॥ आयाहि मामित्यवददिति ॥ सैन्धवो मां प्रत्यायाहीति वदतीति कोटिकाश्यो द्रौपदीं प्रत्यवददित्यर्थः । सुपाप इत्येतदावृत्यान्वेतव्यम् । ततश्च सुपापः कोटिकाश्यः तया द्रौपद्या निरस्तः निराकृतोऽभूत् । अथ सुपापः सैन्धवः स्वयमागत्य द्रौपद्या इति शेषः । करे जगृहे । तथाचोक्तम्- ‘जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत् सा । तया समक्षिप्तततनुः स पापः पपात शाखीव निकृत्तमूल॥’(269.25) इत्यरण्यपर्वणि । जयद्रथस्यैव सिन्धुदेशाधिपतित्वात् सैन्धव इति नाम इति द्रष्टव्यम् ॥॥ ॥ समारुहत्सैन्धवस्येति ॥ सैन्धवेन बलाद्गृहीतेति शेषः । यानमारुहदिति सम्बन्धः । तथाचोक्तम्- ‘पदातीनामध्यगतं च धौम्यं विक्रोशमानं भीमसेनेति तत्र’ (270.30) इति अरण्यपर्वणि ॥॥ ॥ बह्व्यश्चैवेति ॥ या कथाः अकथयत् । कीदृश्य इत्यत आह- भाषेति ॥ याः कथा अकथयत् ता इति शेषः । बह्व्यः भाषात्रयसमन्विताः गुह्यदर्शनसमाधिभाषात्रयसमन्विताः । अत एव विचित्राश्चेति योज्यम् । ननु भाषात्रययुक्तकथाः किमर्थमवददित्यत आह- लोकेति ॥ तत्र दर्शनभाषा परदर्शनभाषा चेति द्विविधा । लोकदर्शनं रामस्य पिता मृतः । रामो जनकाय जलाञ्जलिं ददावित्यादिरूपोऽर्थो न ग्राह्यः किन्तु तत्र कथासु शिक्षा पितरि मृते सति पुत्रेण जलाञ्जलिर्दातव्येति इत्यादिरूपाः ग्राह्याः ॥॥ ॥ अर्थसमाधिभाषास्विति ॥ तत्र यदा समाधिभाषामाश्रित्य कथा ब्रूयुः अष्टादशपुराणानां कर्ता सत्यवतीसुत इत्यादिकास्तदा सर्वोप्यर्थो ग्राह्यः । तत्र यदा परदर्शनमाश्रित्य कथाः शिवस्कन्धसूर्यगणपतिशक्त्यादिसर्वोत्मत्तमत्वप्रतिपादकाः ब्रूयुः तदा परदर्शनभाषासु प्रवृत्तासु सतीषु तद्दर्शनं प्रत्येकं शिवादीनां सर्वोत्तमत्वप्रतिपादकं दर्शनं तथा तादृशमिति ज्ञेयम् । तदर्थस्तु न ग्राह्यः । तथा भारतादिषु यत्र कुत्रचित् शिवादीनां सर्वोत्तमत्वं सर्वजगत्सृष्ट्यादिकर्तृत्वं प्रतिपादितं चेत्तत् परदर्शनरीत्या प्रतिपादितमित्येव बोध्यम् । परं तु तन्न ग्राह्यं वेदविरुद्धत्वादिति भावः । तत्र यदा वैदिकदर्शनमाश्रित्य कथा ब्रूयुः विष्णुरेव स्वतन्त्रश्च सर्वकर्तेत्याद्यास्तदा वैदिकं दर्शनं ग्राह्यमेव । गुह्यभाषासु प्रवृत्तासु सतीषु गुह्यभाषामाश्रित्य कथा । ‘उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् । काकविष्टसमुद्भूतं पञ्च पूतानि भारत॥’ इत्यादिरूपाः प्रवृत्ताश्चेत्यर्थः । प्रतीतार्थादन्यार्थः । उच्छिष्टं वत्सोच्छिष्टं पयः । शिवनिर्माल्यं ग्रा । वमनं मधु । मृतकर्पटम् कीटनिर्मितवस्त्रविशेषः । काकविष्टासमुद्भूतं अश्वत्थादीत्याद्यर्थो ग्राह्यः इत्येवं निर्णयो ज्ञातव्य इति शेषः । तथाचोक्तम्- ‘गुह्यदर्शनभाषे च भाषा चैव समाधिगा । तिस्त्रस्तु मूलभाषा स्युरेकेका च त्रिधा पुनः ॥ गुह्यदर्शनसञ्ज्ञा च गुह्यगुह्या तथा परा । एवमादिक्रमेणैवेत्येकाशीतिविभेदतः ॥ भाषास्तत्र च गुह्या च प्रसिद्धार्थोप्यनन्विता । गुह्यार्थतत्परेवान्धोमणिमित्यादिका च सा ॥ दर्शनान्यवलम्ब्यैव पशुपत्यादि तु या । बहुश्रुतिविरुद्धं तु वदेत् सा दर्शनात्मका ॥ अन्ते निषेधसंयुक्ता भस्मस्नानादिका च सा । यथा प्रदृश्यमानार्था समाधिः परिकीर्तिता ॥ विष्णुः परम इत्याद्या सा च विद्वद्भिरीरिता ॥ इति भाषाविवेकः इति एकादशस्कन्धतात्पर्ये ॥॥ ॥ तत्सामार्थ्यपरमिति ॥ तद्भ्रकरणसमर्थत्वरुपपरममित्यर्थः ॥॥ हे गान्धारे हे दुर्योधन ॥॥ ॥ न हन्यां पादौ प्रक्षलये स्वयमिति ॥ यावद्यावत्पर्यन्तं अर्जुनं न हन्यां अर्जुनो न हन्यते तावत्पर्यन्तं स्वयमेव अहमेव पादौ प्रक्षलये । परैः भृत्यादिभिः पादौ न प्रक्षालयेयमित्यर्थः । अयं भावः । राज्ञां पादौ भृत्याः प्रक्षालयन्ति । राज्ञां तथैव धर्मविधानात् । तथैव कर्णस्यापि पादौ भृत्या एव प्रक्षालयन्तीति तदर्जुनवधपर्यन्तं कर्णेन त्यक्तमिति । न तु सर्वथा पादप्रक्षालनमेव त्यक्तम् । तथात्वे ग्रास्नानाद्यनुपपत्तिप्रस्रादिति । तथाचोक्तम्-्रन हन्यामर्जुनं यावत् तावत् पादौ न धावय ’ इति कर्णपर्वणि । नन्वादिपर्वण्यरण्यपर्वणि च ‘कर्णस्य ब्राह्मणेभ्यः किञ्चिन्नादेयम् ’(120.38) इति प्रतिज्ञावर्णनात् शक्तिप्रदानपर्यन्तं कथं कवचकुण्डले न ददावित्यत आह- द्विजरूपिणमिन्द्रं ज्ञात्वेति ॥ शक्तिदातुरिन्द्रस्यभिप्रायमाह- ऋतेऽर्जुनादिति ॥ अर्जुनदृते अनया शक्त्या एकं वधिष्यतीति कण्ठोक्त्या इन्द्रो न दत्तवान् । तथात्वे अर्जुनवधाभिप्रायेण शक्तिं प्रार्थयतः कर्णस्य शक्तिस्वीकारानुपपत्तिप्रस्रात् । किन्तु अर्जुनादृते इत्यभिप्रायेण अनया शक्त्याएकं वधिष्यतीति शक्तिं दत्वा कवचकुण्डले सार्धं शक्रो ययावित्यन्वयः । तथाचोक्तम्- कर्ण उवाच- ‘वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव । अमोघां शत्रुसङ्घानां घातिनीं पृतनामुखे ॥ वैशम्पायनः- ततः सञ्चिन्त्य मनसा मुहूर्तमिव वासवः । शत्तयर्थं पृथिवीपाल कर्णंं वाक्यमथाब्रवीत् ॥ कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् । गृहाण कर्ण शक्तिं त्वमनेन समयेन मे ॥ अमोघां हन्ति शतशः शत्रून् मम करच्युता । पुनश्च पाणिमभ्येति मम दैत्यान् विनिघ्नतः ॥ सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् । गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥ कर्ण उवाच- एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे । इन्द्र उवाच- एकं हनिष्यति रिपुं गर्जन्तं बलिनं रणे । त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ यमाहुर्वेदविद्वांसो वराहमपराजितम् । नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ कर्ण उवाच- एवमप्यस्तु भगवन्नेकवीरवधे मम । अमोघां देहि मे शक्तिं यथा हन्यां प्रतापिनम् ॥ इन्द्र उवाच- विद्यमानेषु शस्त्रेषु यद्यमोघमसंशयम् । प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥ कर्ण उवाच- संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् । यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥ वैशम्पायन उवाच- ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते । शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥ (311.21-36) । इत्यादिना कर्णवासवयोः शक्तिकुण्डलादानविषयकं भावगम्भीरसंवादं निरूप्य ‘ततो देवा मुदिता वज्रपाणिं दृष्ट्वा कर्णं शस्त्रानिकृत्तगात्रम् । मुहुश्चापि प्रहसन् वञ्चयित्वा कर्णं लोके यशसा योजयित्वा ॥’ इति वञ्चयित्वेत्युक्तमरण्यपर्वणि (311.40) भावगर्भितमेव संवादात्मकमादिपर्वणि चोक्तम् । तथाहि- ‘ततः काले तु कस्मिश्चित् स्वप्नान्ते कर्णमब्रवीत् । आदित्यो ब्राह्मणो भूत्वा श्रुणु वीर वचो मम ॥ प्रभातायां रजन्यां त्वामागमिष्यति वासवः । न तस्य भिक्षा दातव्या विप्ररूपी भविष्यति । निश्चयोस्यापहर्तुं ते कवचे कुण्डले तथा । अतस्ते बोधयाम्येष कर्तासि वचनं मम ॥ कर्ण उवाच- शक्रो मां विप्ररूपेण यदि वै याचते द्विजः । कथं तस्मै न दास्यामि यथा चास्म्यवबोधितः ॥ विप्राः पूज्यास्तु देवानां सततं प्रियमिच्छताम् । तं देवदेवं जानन्वै न शक्तोऽस्म्यवमन्त्रणे ॥ सूर्य उवाच- यद्येवं शृणु मे वीर वरं ते सोपि दास्यति । शक्तिं त्वमपि याचेथाः सर्वशत्रुविघातिनीम् ॥ वैशम्पायन उवाच- एवमुत्तवा द्विजः स्वप्ने तत्रैवान्तरधीयत । कर्णः प्रबुध्य तत्स्वप्नं चिन्तयानोऽभवत् तदा ॥ तमिन्द्रो ब्राह्मणो भूत्वा पुत्रार्थं भूतभावनः । कुण्डले प्रार्थयामास कवचं च महाद्युति ॥ उत्कृत्या विमनाः स्व्राात् कवचं रुधिरस्रवम् । कर्णस्य कुण्डले छित्वा प्रायच्छत् स कृताञ्जलिः ॥ अहो साहसमित्याह मनसा वासवो हसन् । देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ न तं पश्यामि यो ह्येतत्कर्मकर्ता भविष्यति । प्रीतोऽस्मि कर्मणा तेन वरं ब्रूहि यदिच्छसि ॥ कर्ण उवाच- इत्युत्तवा (इच्छामि)भगवान् दत्तां शक्तिं शत्रुनिबर्हणीम् । वैशम्पायन उवाच- तस्मै शक्तिं ददौ शक्रो विस्मितो वाक्यमब्रवीत् । देवदानवयक्षाणां गन्धर्वोरगरक्षसाम् ॥ यस्मै क्षेप्स्यसि रुष्टः सन् सोऽनया न भविष्यति । हत्वैकं समरे शत्रुं ततो मामागमिष्यति ॥’ (120.39-52) इत्यादि । अनेन ‘ऋतेऽर्जुनादित्यनेन ‘एकं हनिष्यति रिपुम्’ इत्यारभ्य ‘कृष्णेन रक्ष्यते’ इत्यन्तस्याभिप्रायो वर्णित इति बोध्यम् । एतेन ननु ‘तमाह भगवान् कृष्णो दिष्ट्या जीवसि फाल्गुन । त्वदर्थं निहिता शक्तिर्विमुक्तास्मिन् हि राक्षसे॥’ इत्युत्तरत्र कृष्णवचनास्रात्यम्, ‘ययार्जुनो निहन्तव्यस्तयासौ राक्षसो हत’ इति व्यासवचनास्रात्यं च स्यात् ‘तदा ननर्त केशवः समाश्लिषच्च फल्गुन’ इति कृष्णनर्तनवैय्यर्थ्यं स्यात् । अनिष्टनिवृत्तावेव तादृशवचनस्य वक्तव्यत्वेन नाट्यस्याल्रिनस्य च कर्तव्यत्वात् । प्रकृते तु ‘ऋतेऽर्जुनात्’ इत्यर्जुनं विनैव शक्तेर्दत्तत्वेन अर्जुनस्य तत्कृतानिष्टप्रसक्त्यभावेन तन्निवृत्यभावादिति श’ा परास्ता । ‘ऋतेऽर्जुनात्’ इत्यस्येन्द्रवचनाभिप्रायप्रकाशकत्वेन इन्द्रवचनत्वाभावादित्युक्तत्वात् । एतेन ‘स इन्द्रोऽर्जुनः ऋते एकं पाण्डवपक्षीयं तमप्येकमेव न तु द्वितीयं अनया शक्त्या वधिष्यसीति शक्तिं दत्वा कवचकुण्डलैस्सार्धं ययौ’ इति वरदराजीयव्य्रायानं निरस्तम् । पूर्वोदाहृतश’ायाः दुष्परिहारत्वात् ॥॥ ॥ कुन्तीपुत्रो न मयोत्थापनीय इति ॥ अरण्यपर्वणि धर्मराजेनानृशंस्यस्यैव परमधर्मत्वेन मया नकुल एवोत्थापितः इत्युक्तत्वादिति भावः ॥अत एव धर्मराजोक्तधर्मसूचनायैवानृशंस्यादित्युक्तम् ॥॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे द्वाविंशोऽध्यायः ॥

॥ अथ त्रयोविंशोध्यायः ॥ ॥ ब्राह्मणादीनिति ॥ आदिशब्देन अग्निहोत्रेन्द्रसेनादयो ग्राह्याः । तथाचोक्तम्- युधिष्ठिरेण- ‘पुरोहितोऽयमस्माकमग्निहोत्राणि रक्षतु । सूताः पौरोगवैः सार्धं द्रुपदस्य निवेशने ॥ इन्द्रसेनमुखाश्चैते रथानादाय केवलान् । यान्तु द्वारवतीं शीघ्रमिति मे निश्चिता मतिः ॥ (5.2-3) इत्यादिविराटपर्वणि ॥॥ ॥ शापादिति ॥ उर्वशीशापादित्यर्थः॥॥ ॥ क्षत्रियानन्तरत्वादिति ॥ तथाचोक्तम्- ‘ब्राह्मण्यां क्षत्रियाज्जातः सूतो भवति पार्थिव । प्रातिलोम्येन जातानां स ह्येको द्विज एव तु ॥ रथकारमितीमं हि क्रियायुक्तं द्विजन्मनाम् । क्षत्रियादवरो वैश्याद्विशिष्टमिव चक्षते ॥ सह सूतेन सम्बन्धः कृतः पूर्वैर्नराधिपैः । तेन तु प्रातिलोम्येन राजशब्दो न लभ्यते ॥ तेषां तु सूतविषये सूतानां नामतः कृतः । उपजीव्यं च यत्क्षेत्रं तद्वत्सूतेन यत्पुरा ॥ (21.9-12)इति विराटपर्वणि । ‘क्षत्रियाद्वैश्यकन्यायां जातस्सूतः स उच्यते । क्षत्रियादवरो वैश्यादधिको हि गुणैस्तथा ॥ तस्मात्सारथिमेवैनं चक्रिरे राजसत्तम ॥’ इत्यनुशासने ॥॥ ॥ अभ्यसार्थं सदैव चेति ॥ अनेन प्रथमतः शकुनिना देवनसमये धर्मराजो द्यूतं सम्यक् न जानातीति सूचयति । अत एवारण्यपर्वणि ‘भगवन्नक्षहृदयं ज्ञातुमिच्छामि तत्वतः ’ इति बृहदश्वप्रार्थनपूर्वकं ततोऽक्षहृदयं प्रादात् पाण्डवाय महात्मने । लब्ध्वा च पाण्डवो राजा विशोकः समपद्यत ॥ (77/22-23) इति द्यूतेन पराजयानन्तरमक्षाभ्यासकथनात् । अन्यथा अभ्यासपदवैय्यर्थ्यापत्तेः । लोके तावदज्ञातस्यैव बह्वभ्यासदर्शनात् ज्ञातस्याभ्यासादर्शनात् । ‘शकुनिर्बुद्धिपूर्वेण कुन्तीपुत्रं यथाहुतः । अनक्षज्ञमताक्षस्सन् क्षत्रधर्मे स्थितम् शुचिम् ॥ इत्युद्योगपर्वणि । शकुनिना साकं देवनसमये अक्षानज्ञत्वोक्तेः ॥॥ ॥ जगाद मारुतिर्वच इति ॥ भीमसेनो विराटेन आहूतश्चोेदितस्तथा । योद्धा ततोऽब्रवीद्वाक्यं योद्धुं शक्नोमि भूपते ॥ नरेन्द्र ते प्रभावेन श्रिया शक्त्या च शासनात् । अनेन सह मल्लेन योद्धं राजेन शक्नुयाम् ॥
युधिष्ठिरकृतं ज्ञात्वा श्रेयस्तव विशाम्पते । महादेवस्य भक्त्या च तं मल्लं वारयाम्यहम् ॥ (15.30-32) इति विराटपर्वानुसारेणोक्तं च आहेत्यर्थः ॥॥ तत्र महादेवस्य भक्त्या इत्येतद्वचनस्य तात्पर्यमाह- प्रसादतो हरेरिति ॥ ननु महादेवशब्दस्य महादेवे रूढत्वेन कथं महादेवशब्देन विष्णुग्रहणमित्यतो विद्वदविद्वद्रूढ्योर्मध्ये विद्वद्रूढेः प्रबलत्वेन तस्याज्ञरूढ्यां तच्छब्दवाच्यत्वेपि विष्णौ विद्वद्रूढिसद्भावेन तस्यैव म्रुयतस्तच्छब्दवाच्यत्वं म्रुयमित्याशयेन ‘सा योगादेव लभ्यते ’ इति न्यायेन तस्य योगगम्यत्वेन योगं दर्शयति- समस्तदेववृन्दत इति ॥ ‘देवेषु च महान् देवो महादेव इतीरित’ (पूर्वभाग.4.58) इति कौर्मोक्तेश्च स्मृतिप्रयोगं च दर्शयति- समस्तदेवनामवानिति॥ अनेन ‘सर्वनामा यतो विष्णुस्तदन्यार्थान् न तु स्मरेत्’ इत्याद्याः स्मृतयो सङ्गृहीता इति बोध्यम् । भक्त्या च तं मल्लं वारयाम्यहमित्यस्य तात्पर्यमाह- तदीयभक्तित इत्यादिना ॥ तदीयभक्तितः बलं तद्वारणे सामर्थ्ये भविष्यतीति शेषः । ॥ अत्र ग्रन्थपातः॥ ॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे त्रयोविंशोध्यायः ॥

अथ चतुर्विशोऽध्यायः ॥ ॥ अत्र ग्रन्थपातः ॥ ॥ अक्षौहिण्यो दशाभवन्निति ॥ एको रथो गजश्चैको नराः पञ्चपदातयः । त्रयश्च तुरगास्तज्ज्ञैः पत्तिरित्यभिधीयते ॥ पत्तिं त्रिगुणितामेतां विदुस्सेनामुखं बुधाः । त्रीणि सेनामुखान्येको गुल्म इत्यभिधीयते ॥ त्रयो गुल्मा गणो नाम वाहिनी तु गणास्त्रयः । स्मृतास्तिस्त्रस्तु वाहिन्यः पृतनेति विचक्षणैः ॥ चमूस्तु पृतनास्तिस्त्रस्ताश्च तिस्त्रस्त्वनीकिनी । अनीकिनीं दशगुणामाहुरक्षौहिणी बुधाः ॥ अक्षौहिण्या प्रसं्रयाताः रथानां द्विजसत्तमाः । सं्रयागणितत्वज्ञैः सहस्राण्येकविंशतिः ॥ शतान्युपरि चैवाष्टौ तथा भूयश्च सप्ततिः (21,870)। गजानां तु परीमाणमेतदेव विनिर्दिशेत् (21,870)। ज्ञेयं शतसहस्रं तु सहस्राणि तथा नव । नराणामपि पञ्चाशच्छतानि त्रीणि चानघ ॥ पञ्चषष्ठिसहस्राणि रथाश्वानां शतानि च । दशोत्तराणि षट् प्राहुः यथाविदभिसं्रयया ॥ एतामक्षौहिणीं प्राहुः सं्रयातत्वविदोे जनाः । यावत् कथितवानस्मि विस्तरेण द्विजोत्तमाः ॥ एतया सं्रयया ह्यासन् कुरुपाण्डवसेनयोः ॥ (2.10-28) इत्यादिपर्ववचनानुसारेणाक्षौहिणीशब्दार्थो अवगन्तव्यः ॥॥ ॥ राक्षसोऽलम्बुसस्तथेत्यादि ॥ अलम्बुसः स्वाग्रजबकरिपुभीमद्वेषाद्दुर्योधनं समाययाविति भावः ॥ 28-39 ॥ ॥ सोऽस्मरच्च सनातनमिति ॥ स्वस्य शूद्रत्वेन तत्वोपदेशानधिकारित्वात् सनातनमस्मरदिति भावः । तथाहि उद्योगपर्वणि धृतराष्ट्रं प्रति ‘शूद्रयोनावहं जातो धर्मं वक्तुुं न चोत्सहे। कवेरस्य तु या बुद्धिः वेद तां शाश्वतीमहम्॥’(41.5) इति विदुरवचनात् ॥॥ उद्योगपर्वणि त्रिचत्वारिंशदध्यायमारभ्य सप्तचत्वारिंशादध्यायान्तस्य अध्यायपञ्चकस्य तात्पर्यमेकेन श्लोकेनाह- विष्णोस्स्वरूपमिति ॥ मायाविनः शुभागतिश्च न इत्यवददिति सम्बन्धः॥ ॥ इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येण मधुसूदनभिक्षूणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणस्र्रहे चतुर्विंशोध्यायः॥ ॥ अथ पञ्चविंशोऽध्यायः ॥ ॥ 1 ॥ ॥ पार्थोऽपश्यच्च बान्धवानिति ॥ तथा च पूर्वं महापकारस्मरणेन अनुवर्तमानोऽपि कोपो मृदुमनसां बान्धवेषु अन्तकाले निवर्तते । स्नेहश्चोत्पद्यते । अतो मोह इति प्रसिध्दमिति बान्धवदर्शनेनार्जुनोऽपि तन्मोहजालसमावृतोऽभवदिति भावः । ॥ 2 ॥ ततः किमकरोदित्यत आह- विससर्जेति ॥ पापाश’ी बन्धुस्नेहात् नारायणद्विट्तदनुबन्धिनिग्रहे अधर्मश’ावानित्यर्थः । धनुर्विससर्ज । तथा च अर्जुनस्य सुज्ञानित्वेपि बन्धुस्नेहात् नारायणद्विट्तदनुबन्धिनिग्रहे मे अधर्मत्वेनाश”्य ततो निवृत्तप्रायोऽभूत् । अन्यथा ‘यच्छ्रेयस्स्यात् निश्चितं ब्रूहि तत्’ इति प्रार्थनानुपपत्तिप्रस्रात् इति भावः । तत्र युध्दे तत्र अर्जुने स्वविहितयुध्द्रायधर्मान्निवृत्तप्राये सतीति वा । भगवान् किमित्याहेत्यतः स्वयमाचार्यस्तदुक्तं सङ्क्षिप्याह- स्वधर्म इति ॥ दुष्टधिने नारायणद्विट्तदनुबन्धिनिग्रह े इत्यर्थः । धर्मज्ञानानुपालनं च क्षत्रियस्य स्वधर्मः स्वविहितधर्मः इत्यर्थः । ‘अथ चेत्वमिमं धर्म्यं सङ्ग्रामं न करिष्यसि । ततः स्वधर्मं कार्तिं च हित्वापापमवाप्स्यसि॥’ इत्यादि नारायणद्विट्तदनुबन्धिनिग्रहात्मकयुध्दस्य स्वधर्मत्वेनोवतत्वादिातभावः ॥ 3 ॥ ततश्चोक्तरूपस्य दुष्टनिधनस्य स्वधर्मत्वेनकर्तव्यत्वमावश्यकमितयिीशयेन तदर्थे गीतावाक्यमेवोदाहरति- यतः प्रवृत्तिरिति ॥ 4 ॥ स्वकर्मणा स्वविहितधर्मेण तं परमात्मानं अभ्यर्च्य सम्यक् क्षमादिपूर्वककामक्रोधासूयादिवर्जनपूर्वकं च अभ्यर्च्येत्यर्थः । अन्यथा तस्यैवबह्वनर्थहेतुत्वात् तथाचोक्तम्- ‘यदि क्रोधादिदुष्टात्मा पूजाध्यानपरो भवेत्। न तस्य तुष्यते विष्णुः यतो धर्मपतिः स्मृतः॥ यदि कामादिदुष्टात्मा देवपूजापरो भवेत् । डम्भाचारः स विज्ञेयः स वै पातकिनां वरः॥ तपःपूजाध्यानपरो यस्त्वसूयापरो भवेत् । तत्तपः सा च पूजा च तद्ध्यानञ्च निरर्थकम् ॥ तस्मात्सर्वात्मकं विष्णुं शमादिगुणतत्परः । मुक्त्यर्थमर्चयेत्सम्यक् क्रियायोगपरो नरः ॥ इति बृहन्नारदीये (पूर्वकाण्ड.33.38-41) । उक्तञ्च भगवत्पादैः ‘शमदमादिपूर्वकार्चनान्येव अभ्यर्चनत्वात्’ इति गीतातात्पर्यनिर्णये । शमादिपूर्वकार्चनस्यैवाभ्यर्चनत्वात् । शमादेर्विना कृतार्चनमात्रेण सिध्दिप्राप्त्यभावादिति भावः । एतावत् स्वविहितवृत्या भक्त्या भगवदाराधनमेव नॄणां परमो धर्मः तद्विरुध्दस्सर्वोप्यधर्म इति भगवता गीतायां प्रतिपादितमिति ॥॥ सकलगीतार्थं स्वयं सङ्क्षिप्योक्त्वा भगवान् किमाहेत्यत आह- न च शोक इति ॥॥। बन्धूनां निधनेच्छया बन्धुनिधननिमित्तेच्छया तत्र बन्धुस्नेहनिमित्ततन्नाशभयाध्दि त्वया स्वधर्मनिवृत्तिः क्रियते । तत्र सा किं देहनाशभयात् किं वा चेतननाशभयादिति द्वेधा विकल्पं स’लय्य आद्यं प्रत्याह- देहस्येति ॥ तथा देहस्य सर्वथा विनाशित्वात् न तत्र भयेन प्रयोजनम्।परिहारो हि भयस्यप्रयोजनं न चासौ सम्भवति कौमारादीनामिव देहस्य सर्वथा विनाशित्वात् प्रयोजनाभावेन च भयानुपपत्तौ न तेन स्वधर्मनिवृत्तिर्युक्तेति भावः । द्वितीयं निराचष्टे- अनाशादिति ॥ तथाच चेतनस्याविनाशित्वेन भयप्राप्तेरेवायोगात् भयेन स्वधर्मनिवृत्तिः सुतरामयुक्तेति भावः । अनेन ‘अशोच्यानन्वशोचस्त्वं’ इत्यादेः तात्पर्यमुक्तं भवतीति ध्येयम् ॥॥ किञ्च ममैव सर्वस्वतन्त्रत्वेन प्रवृत्तिनिवृत्तिकारणत्वेन च तव युद्धान्निवर्तितुमशक्तत्वेन मत्पूजार्थं युध्यस्वेत्याशयेनाह- सृष्टिस्थितीत्यादिना ॥ अक्षरप्रकृतेर्महालक्ष्म्याः ॥॥ एषां राजादीनां निधनाद्यं मद्वशं मद्वशस्थं ज्ञात्वा जीवादेरस्वतन्त्रतां हननादौ अस्वातन्त्र्यमित्यर्थः । युध्यस्व मत्पूजार्थं युध्यस्वेत्यर्थः ॥॥ नन्वेवं त्वत्पूजया किमित्यत आह- येत्विति ॥ येतु मत्पराः अहमेव परः सर्वोत्तमः इति बुद्धिर्येषां ते मत्परा इत्यर्थः । तादृशस्सन्तः स्वकृतानि शुभानि कर्माणि मयि सन्यस्य फलानभिसन्धिपूर्वकं भगवत्कर्तृत्वकारयितृत्वानुसन्धानपूर्वकं च कृतानि कर्माणि मयि समर्प्येत्यर्थः॥ अनन्येनैव योगेन ॥ अन्यस्य ब्रह्मरुद्रादेः भगवदधीनत्वं तत्परिवारतां विना उपासनं अन्ययोगः । तद्वर्जितेनाव्यभिचरितभक्तियोगेनेत्यर्थः । ‘विष्णोरन्यं न स्मरेद्यो विना तत्परिवारताम् । तदधीनताञ्चानन्ययोगी स परिकीर्तितः ॥’ इति गीतातात्पर्यवचनात् ॥॥ ननु तद्भजनेन कथं बन्धनिवृत्तिरित्यत आह- मयेति ॥ तथाच सर्वोत्तमत्वाद्युज्यत इति भावः । त्वं सर्वत्र व्याप्तश्चेत् किमितिनोपलभ्यस इत्यत आह- अव्यक्तमूर्तिनेति ॥ अव्यक्ता भक्त्यादिसाधनरहितानां अप्रत्यक्षीभूता मूर्तिः विग्रहो यस्य स तथोक्तः तेनेत्यर्थः । तामेवव्याप्तिं प्रपञ्चयति- मत्स्थानीति ॥ सर्वभूतानि चेतनाचेतनात्मकानि मत्स्थानि मयि विद्यमानानि तेषु चराचरेषु अहं नावस्थितः । तदधिकरणकत्वेन न स्थित इत्यर्थः॥॥ ननु प्रत्यक्षेण तव जन्मादिदर्शनात् कथं पूर्वोक्तं सामर्थ्यं घटते इत्य आह- सुपूर्णेति ॥ तथाच तादृशप्रत्यक्षं बलवच्छृत्यादिप्रमाणबाधितमित्यर्थः ॥ यावत्यर्जुनयोग्यतेति ॥ ‘विश्वरूपं प्रथमतो ब्रह्मापश्यच्चतुर्मखः । तच्छतांशेन रुद्रस्तु तच्छतांशेन वासवः ॥ यथेन्द्रेण पुरा दृष्टं अपश्यत् सोऽर्जुनोऽपि तत् ॥’ इति गीतातत्पर्योदाहृब्रह्माण्डपुराणवचनोक्तरीत्या अर्जुनाय दर्शयामास इति भावः ॥॥ ॥ तद्रूपं लोकमानतः ॥ तद्रूपं यद्विश्वरूपं अर्जुनाय प्रदर्शितं तद्रूपमित्यर्थः । लोकमानतः लोकदृष्ट्यनुसारतः पूर्ववत् विश्वरूपदर्शनात् प्राक् यत् द्विभुजरूपं स्वस्य स्थितं तद्वद्दर्शयामास इत्यर्थः । अन्यथा लोकमानत इत्यस्य अस्रात्यापत्तेः चतुर्भुजत्वस्य लोकमानत्वाभावात् । ‘तेनैव रूपेण चतुर्भुजेन’ इति यत्तवजन्मकाले चतुर्भुजरूपं तद्वा, उत युद्धारम्भसमयस्थित तद्विभुजं वा रूपं प्रदर्शय । नेदं घोरं प्रदर्शयेति ‘तेनैव रूपेण चतुर्भुजेन’ इत्यस्य अर्थत्वात् । (ननु) चतुर्भुजरूपं प्रदर्शयेति प्रर्थितत्वात् द्विभुजरूपप्रदर्शनं कथमित्येतच्चोद्यं निराकृतं वेदितव्यम् । ‘प्रादुर्भावस्वरूपाणां विश्वरूपस्यच प्रभोः । अन्यथा न विशेषोऽस्ति व्यक्तिर्ह्यज्ञव्यपेक्षया ॥’ इति वचनादिति भावः ॥॥ ॥ सौभद्रं तत्र विक्रान्तमिति ॥ स्वश्यालोत्तरवधनिमित्तकोपादभिमन्युः स्वयं विक्रान्त इति भावः। ॥ कर्णोर्द्धरथ इति ॥ ‘एकादशसहस्राणां योधयेद्यस्तु धन्विनाम् । शस्त्रशास्त्रप्रवीणश्च महारथ इति स्मृतः । अमितान्योजयोद्यस्तु सप्रोक्तोऽतिरथस्तथा । रथीचैकेन यो युध्द्येत् तन्न्यूनोऽर्धरथो मत॥’ इति पुराणवचनात् अर्धरथशब्दार्थोऽवगन्तव्यः । यद्यपि कर्णोऽपि महारथिकत्वेन प्रसिध्दः। तथापि अस्त्रयुद्धे प्रमादसद्भावात् सहजकवचकुण्डलाभावात् स्पर्धावस्थायां पराभवप्रापकशापसद्भावाच्च अर्धरथेत्यभिहित इति बोध्यम् । ॥ कर्णोऽर्धरथ इति ॥ ‘परुषः कत्थनो नीचः कर्णो वैकर्तनस्तथा । मन्त्री नेता च बन्धुश्च मानी चात्यन्तमुच्छ्रितः ॥ एष नैव रथः पूर्णो नचाप्यतिरथो नृप । वियुक्तः कवचेनेह सहजेन विचेतनः ॥ कुण्डलाभ्यां च दिव्याभ्यां वियुक्तः सततं घृणिः । अभिशापाच्च रामस्य ब्राह्मणस्य च भाषितात् ॥ करणानां वियोगाच्च तेन मेऽर्धरथो मतः ॥’ इति भीष्मवचनादुद्योगपर्वणि (168.4-7) । तथाचोक्तम्- ‘रथेषु गण्यमानेषु बलविक्रमशालिषु । स”्यातोऽर्धरथः कर्णो दोषानुक्त्वा महारथः॥’ (्रद्विगुणस्सन्नरर्षभः’ इत्यधुना उपलभ्यमानः पाठः)’ इति द्रोणपर्वणि(1.37)। यत्तु ‘कर्णोऽर्धरथः स्वापेक्षया अर्धबल’ इति वरदराजीयव्य्रायानम्। तन्न । अपदार्थत्वात् । ॥ स्वमाययेति ॥ हस्तिचतुष्टयस्थः इति ॥ स्वयमेक एव स्वमायया चतूरूपाणि धृत्वा हस्तिचतुष्टयस्थ इत्यर्थः । चतुर्दिग्भ्यो राक्षसप्रेषितैरावताञ्जनवामनमहापद्म्रायहस्तिचतुष्टयस्थः। तथाचोक्तम्- ‘स कृत्वा दारुणां मायां भीरूणां भयवर्धनाम् । प्रत्यदृश्यन्निमेषार्धात् घोररूपं समास्थितः ॥ ऐरावतं समारुह्य अष्टदन्तं महागजम् । कैलासगिरिस’ाशं वज्रपाणिरिवाभ्ययात् ॥ तथान्ये चैव दिङ्नागास्त्रासयन्तोऽनुयायिनः । अञ्जनोवामनश्चैव महापद्मश्च सुप्रभाः ॥ त्रय एते महानागाः राक्षसैस्समधिष्ठिताः । महाकायात्रिधा राजन् सुस्रवन्तो मदं बहु ॥
तेजोवीर्यबलोपेताः महाबलपराक्रमाः । प्रेषितास्ते महाराज राक्षसैश्च चतुर्दिशम् ॥ …भगदत्तस्य तं नागं विषाणैस्समपीडयन् ॥’ इति भीष्मपर्वणि ॥ 64.56-61॥ स्वनिष्ठराक्षसमायया स्वयं गजचतुष्टयरूपं धृत्वा तद्धस्तिचतुष्टयस्थः चत्वारिरूपाणि सृष्ट्वा तत्र स्थितवानित्यर्थः । अत एवाग्रे ‘चतुर्गजात्मोपरिगात्मगश्च’ इति वक्ष्यति । ननु अस्त्रविज्ञानदशायां भीमः स्वयं न गच्छति चेत् तर्हि घचोत्कचं कथं प्रेषयामासेत्यतः आह- ऋतेऽर्जुनमिति ॥ तथा भीमार्जुनाभ्यामन्यत्र भगदत्तेन वराहास्त्रं न विसृज्यत इति भीमो जानातीति घटोत्कचं प्रेषयामासेति भावः ॥॥ ॥ चतुर्गजात्मेति ॥ चतुरशब्दः उपरिगात्म इत्यनेनापि अन्वेतव्यः । चतुर्गजानां ऐरावतादिचतुर्गजानां आत्मनां देहानामुपरिग आत्मा देहो यस्य स तथोक्तः । चतुर्गजोपरिस्थचतुर्देह इत्यर्थः । ‘आत्मा देहे धृतौ जीवे स्वभावे परमात्मनि’ इत्यभिधानम् । ॥ विद्रावयामास परानवीनिवेति ॥ अवीन् वृक इवेति शेषः । अस्यार्जुनस्य सायकाः तस्मिन् दुःशासने ससज्जिरे स्थिताः । तं विदार्य ततो न गता इति भावः । सायका लोकविलक्षणा इत्याह- पर्वतेष्वपीति ॥ असक्ताः तत्र न स्थिता इत्यर्थः । पर्वतानपि विदार्य ततो निस्सरन्तीति भावः। ॥ प्राणान् दधारापीति ॥ तथापि भूमौ पतितोऽपि उत्तरायणात् उत्तरायणपर्यन्तं प्राणान् दधार । ‘धारयिष्याम्यहं प्राणान् पतितोऽपि महीतले । उत्तरायणमन्विच्छन् सुगति प्रतिकाया॥’ इति भीष्मवचनात् भीष्मपर्वणि (119.99-100) । यद्वा अपि भूमौ पतितोऽपि तथा यथा हंसरूपमुनीन् प्रति ‘तानब्रवीत् शान्तनवो नाहं गन्ता कथञ्चन । दक्षिणावर्त आदित्ये एतन्मे मनसि स्थितम् ॥ गमिष्यामि स्वकं स्थानं आसीद्यन्मे पुरातनम् । उदगायन आदित्ये हंसा सत्यं ब्रवीमि वः ॥ धारयिष्याम्यहं प्राणानुत्तरायणकाया ॥’ इत्युक्तम् (भीष्म.119.107-109) । तथैवोत्तरायणपर्यन्तं प्राणान् दधार । अष्टपञ्चाशद्दिनपर्यन्तं प्राणान् दधारेत्यर्थः। तथाचोक्तम्- ‘अष्टपञ्चाशतं रात्र्यः शयानस्याद्य मे गताः । माघोऽयं समनुप्राप्तो मासः पुण्यो युधिष्ठिर ॥ त्रिभागशेषः पक्षोऽयं शुक्लो भवितुमर्हति ॥’ इत्याद्यनुशासने(273.27-28) । उत्तरायणपर्यन्तं प्राणधारणसामर्थ्यं तु स्वपितृदत्तस्वच्छन्दमृत्युत्ववराद्युज्यते । ‘प्राणानाञ्च समुत्सर्गं ऐश्वर्यं नियतं मम । कश्चिद्दत्तो वरो मह्यं पित्रा तेन महात्मना ॥ छन्दतस्ते भवेन्मृत्युरिति तत्सत्यमस्तु मे ॥’ इति भीष्मवचनात् भीष्मपर्वणीति भावः(119.109-111) ।
॥ पार्थदत्तेति ॥ प्रथमतो शरपञ्जरस्थेन लम्बमानशिरसा भीष्मेणोपबर्हणे पृष्ठे दुर्योधनेन राजयोग्योपबर्हणे आनीते वीरशय्यायां नेदमुपबर्हणं युक्तमिति दुर्योधनं निराकृत्य भीष्मेण पृष्टोऽर्जुनः तदभिप्रायं विज्ञाय आनतपर्वभिः त्रिभिश्शरैः तच्छिर उधृत्य तच्छिरोधोदेशे त्रीन् शरान् उपबर्हणरूपेण स्थापयामास । एतत्सर्वं भीष्मपर्वणि शताधिकषोडशाध्याये द्रष्टव्यमिति भावः । तदा परदिन इत्यर्थः । नतु यदोपबर्हणं पृष्टवान् तदा तस्मिन् दिन इत्यर्थः । भीष्मपर्वणि शताधिके षोडशाध्याये (120.60-61) ‘स्थितिं धर्मे परां दृष्ट्वा भीष्मस्यामिततेजसः । उपधानं ततो दत्वा पितुस्ते मनुजेश्वराः ॥ सहिताः पाण्डवाः सर्वे कुरवश्च महारथाः ॥’ इत्यादिना उपधानदानानन्तरम्- ‘निवेशायाभ्युपागच्छन् सायोे रुधिरोक्षिताः’ इत्यादिना सायोे तेषां स्वशिबिरप्राप्तिमुक्त्वा शताधिके सप्तदशाध्याये(भीष्म.121.1) ‘व्युष्ठायां तु तदा राजन् रजन्यां सर्वपार्थिवाः’ इत्यादिना परदिने कुरुपाण्डवानां भीष्मप्राप्तिमुक्त्वा भीष्मेण जले याचिते दुर्योधनादिभिः शीतलजलकलशेष्वानीतेषु नेदं जलं मम योग्यमिति तन्निराकृत्य भीष्मेण पृष्टेन अर्जुनेन परेऽहनि जलदानकथनात् । ॥ धार्तराष्ट्रैरिति ॥ धार्तराष्ट्रैः भीष्माभिप्रायमविज्ञातं ज्ञात्वेत्यर्थः । ॥ व्यासदत्तोरुविज्ञानादिति ॥ अत्रेदं तात्पर्यम्। सञ्जयः एकैकस्य सेनापतेः पतनपर्यन्तं व्यासप्रसादात् रणे जातं सकलवृत्तान्तं तत्र रणभूमौ स्थित्वा एकैकस्मिन् सेनापतौ पतिते सति रणभूमेस्सकाशात् रात्रौ हस्तिनपुरमागत्य एकैकस्य सेनापतेः युद्धादिकं धृतराष्ट्राय वक्तीति । तथाचोक्तम्- ‘अथ गावद्गणिर्विद्वान् संयुगादेत्य भारत । प्रत्यक्षदर्शी सर्वस्य भूतभव्यभविष्यवित् ॥ ध्यायते धृतराष्ट्राय सहसोपेत्य दुःखितः । आचष्ट निहतं भीष्मं भरतानां पितामहम् ॥’ इत्यादिभीष्मपर्वणि (13.1-2) । ‘तस्य चिन्तयतो नित्यं अनिशं कौरवस्य तु । आदगाम विशुद्धात्मा पुनर्गावल्गणिस्तदा ॥ व्यासप्रसादाद्विज्ञाय सर्वं वृत्तान्तमुत्तमम् । शिबिरात् सञ्जयं प्राप्तं निशि नागाह्वयं पुरम् ॥ आम्बिकेयो महाराज धृतराष्ट्रोऽन्वपृच्छत ॥’ इति द्रोणपर्वणि च (1.6-8) । ‘हते कर्णे महाराज निशि गावल्गणिस्तदा । दीनो ययौ नागपुरं अश्वैर्वातसमैर्जवैः॥’ इति कर्णपर्वणि च (2.1) (अयं श्लोकः टि.आर.कृष्णाचार्यैः मुद्रितपुस्तके प्रक्षिप्ताध्यायेऽस्ति)। ॥ व्यासदत्तोरुविज्ञानादिति ॥ ‘चक्षुषा सञ्जयो राजन् दिव्येनैव समन्वितः । कथयिष्यति ते युध्दं सर्वज्ञश्च भविष्यति॥’ इत्यादिशल्यपर्वाद्युक्तानुसारेण(भीष्मपर्व.2.10) व्यासदत्तोरुविज्ञानवतः इत्यर्थः । एतज्ज्ञानञ्च दुर्योधनवधपर्यन्तमस्ति ततो नश्यतीति ध्येयम् । ‘हते दुर्योधने चैव हते सैन्ये च सर्वशः । सञ्जयो विगतप्रज्ञो धृतराष्ट्रमुपाश्रितः ॥’ इति भारतवचनात् ॥ ॥ इति श्रीमद्विद्याधीशतीर्थपूज्यपादशिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारतनिर्णयार्थप्रमाणस्र्रहे पञ्चविंशाध्यायः ॥