महाभारततात्पर्यनिर्णयव्याख्यानम् -मधुसूदनभिक्षुकृतम्
॥ अथ सप्तदशोऽध्यायः ॥
॥ गतेऽथेति ॥ चेदिपे दमघोषे मथुरायास्सकाशात् स्वपुरं प्रति तदा आजगाम इति ॥ 1-3 ॥
॥ तदा जगामेति ॥ केशवो रथमारुह्य जवेन कुण्डिनपुरं प्रति जगाम ।
‘अस्मिन्दिने मुहूर्ते तु यास्यामः कुण्डिनं पुरम् । रथमानय मे शीघ्रं सारथे दारुकप्रभो ॥
एवमुक्त्वा तु कृष्णोऽपि जगामाशु रथेन वै । भीष्मकस्य गृहं प्राप्तो लोहितायति भास्करे ॥’
इति हरिवंशे । अथ कुण्डिनप्रवेशानन्तरं तेन कृष्णेन स्मृतः पक्षिराट् गरुडः केशवं समाजगाम ।
‘प्राप्ते राजसमाजे तु शिबिराकीर्णभूतले । र्रं सुविपुलं दृष्ट्वा राजसीं तनुमाविशत् ॥
वित्रासनार्थं भूतानां प्रकाशार्थं पुरातनम् । मनसा चिन्तयामास वैनतेयं महाबलम् ॥
ततश्चिन्तितमात्रस्तु विदित्वा विनतात्मजः । सुखलक्ष्यं वपुः कृत्वा निलिल्ये केशवान्तिके ॥’
इति हरिवंशे (2.47.25-28)॥ 4 ॥
॥ पतत्रवायुनेति ॥
‘तस्य पक्षनिपातेन पवनात् भ्रान्तकारिणा । कम्पिता मनुजास्सर्वे न्युब्जाश्च पतिता भुवि ॥
गरुडाभिहतास्सर्वे प्रचेष्टन्तो यथोरगाः ॥’
इति च (हरि.2.47.29) ॥ 5-69 ॥
॥ अयं हि दत्तपुत्रक इति ॥ शिशुपालस्य जरासन्धदत्तपुत्रत्वं च वसुवंसजदमघोषेण जरासन्धाय दत्तत्वात् ।
‘ चेदिराजस्य तु वसोरासीत्पुत्रो बृहद्रथः । वसोरेव तदा वंशे दमघोषोऽपि चेदिराट् ॥
जरासन्धस्तु सुतवद्ददर्शैनं जुगोप च ॥’
इति हरिवंशे (2.59.20-24) । निवेश्यः उद्वाह्यः विवाह्य इति यावत् । ‘निवेशश्शिखरोद्वाहे विन्यासेषु प्रकीर्तितः’ इति विश्वः । वरदराजाचार्यस्तु ‘निवेश्यः निर्वाह्यः पालनीय एवेत्यर्थः’ इति व्याचक्षते । तन्न । प्रमाणविरुद्धत्वात् अप्रामाणिकत्वाच्च । निवेशनस्यैवशब्दार्थत्वेन पालनस्याऽशब्दार्थत्वाच्च ॥ 70-78 ॥
॥ ददर्शचाब्दतश्शिवमिति ॥ नच
‘रुद्रमाराधयामास द्वादशाब्दानपोशनः । पुत्रकामेन मुनिना तोष्य रुद्रात्सुतो वृतः ॥’
इति हरिवंशे (2.52.27) गर्गस्य द्वादशाब्दपर्यन्तं तपश्चरणस्योक्तत्वात् तद्विरोध इति वाच्यम् । द्वादशाब्दस्य द्वादशमासार्थकत्वेन विरोधाभावात् । ‘अविश्वासात् स तु सक्रोध एव । ययौ विदेहानवसत्पञ्चचाब्दान्’ इत्यग्रेतनवाक्येपि (1.39.37)्रषष्टिवर्षगते काले यद्रोषोभून्ममानघ’ इति हरिवंशवाक्यस्थषष्ठिवर्षशब्देन षष्ठिमासा ग्राह्या इत्यभिप्रायेण पञ्चाब्दानित्युक्तम् । नन्वेवमभिप्रायः कुत इति चेत् ‘तथापि मासा द्वादश न प्रयाताः। वेदप्रामाण्याद्वत्सरास्ते हि मासैस्सहस्राब्दं सत्रमुक्तं नराणाम्’ इति हठ वादेपि तथैवोच्यमानत्वात् । यद्वा अब्द इत्यत्यस्य बहुवचनात्तसिप्रत्ययान्त त्वेन वा विरोधाभावादिति भावः ॥ 79-80 ॥
॥ तमार चेति ॥ नन्दगोव्रजभिन्न यावनदेशस्थ आभीरपल्यां स्थितं तं गर्गं गोपवेषधारिणी सती असुराप्सरा आर प्रापेत्यन्वयः । तत्र हेतुमाह- बलिष्ठेति ॥ तथाचोक्तम्-
‘सनृपस्तमुपानीय सान्त्वयित्वा द्विजोत्तमम् । तं घोषमध्ये यवनो गोपस्त्रीषु समासृजत् ॥
गोपाली त्वप्सरास्तत्र गोपस्त्रीवेषधारिणी । धारयामास गर्गस्य गर्भं दुर्धरमच्युतम् ॥’
इति हरिवंशोक्तेः (2.57.13-14) ॥ 81 ॥
॥ यावनेेन भूभृतेति ॥
शकास्तुषारा दरदाः पारदाः श्रृलाः खसाः । पह्लवाः शतशश्चान्ये म्लेच्छा हैमवतास्तथा ॥’
इति (2.57.20) हरिवंशोक्तप्रभेदानां यवनानां राज्ञेत्यर्थः ॥ 82 ॥
ननु गर्गेण कथं असुर्यप्सरस्त्रीगमनं कृतमित्यत आह- किमेतदिति ॥ एतत्तुरुष्कस्त्रीगमनमित्यर्थः । ईशवैरिणः कृष्णवैरिणः ॥ 83-105 ॥
॥ तदन्यदेशमूत्रितम् ॥ तस्याः सकृन्नद्याः सकाशात् अन्यस्मिन्देशे स्थितं मूत्रमित्यर्थः॥ 106 ॥
॥ अस्मरन्विचारं कृतवानित्यर्थः ॥ 107 ॥
किमित्यत आह- युयुत्सुरिति ॥ 108-110 ॥
॥ स भौवन इति ॥ भुवननिर्मातृत्वाद्भौवनो वर्धकीभूतो विश्वकर्मेत्यर्थः । यत्तु ‘भौवनः भवन्रायस्याऽपत्यमिति वरदराजीयानन्तभट्टीयव्य्रायानं तन्न । विश्वकर्मणः द्युनामापरपर्यायप्राधान्रायाष्टवसुजन्यत्वेन भुवन्रायजन्यत्वस्य क्वाप्यप्रसिद्धेः ।
‘बृहस्पतेस्तु भगिनी वरस्त्री ब्रह्मचारिणी । योगसिद्धा जगत् कृत्स्नमसक्ता विचचार ह ॥
प्रभासस्य तु सा भार्या वसूनामष्टमस्य तु । विश्वकर्मा महाभागः तस्यां जज्ञे प्रजापतिः॥’
इति हरिवंशोक्तेः (1.3.45-46) । नच पूर्वजन्मनि भुवन्रायदेवजन्यत्वं सम्भविष्यतीति वाच्यम् ।
‘शिल्पिम्रुयस्तु देवानां प्रजापतिसुतः प्रभुः । विश्वकर्मा स्वमत्या वै पुरीं संस्थापयिष्यति ॥’
इति हरिवंशवचनेन (2.58.20) पूर्वजन्मनि ब्रह्मसुतत्वोक्तेः । भुवन्रायदेवस्य क्वाप्यप्रसिद्धत्वाच्च । भौवनिरित्यापाताच्च ॥ 111-112 ॥
॥ चकार लावणोदकमिति ॥ यद्यपि पूर्वं समुद्रो मधुरोदक एव वडवामुखनारायणशापेन लवणोदको बभूव । तथाचोक्तम्- ‘नारायणो लोकहितार्थं वडवामुखो नाम पुरा महर्षिर्बभूव। तस्य मेरौ तपस्तप्यतः समुद्र आहूतो नागतः । तेन अमर्षितेन आत्मगात्रोष्मणा समुद्रस्तिमितजलः कृतः स्वेदप्रस्यन्दनसदृशश्चास्य लवणभावो जनितः । उक्तश्चाप्यपेयो भविष्यस्येेतच्च ते तोयं वडवामुखसञ्ज्ञितेन पेपीयमानं मधुरं भविष्यति । तदेतदद्यापि वडवामुखसञ्ज्ञितेनाऽनुवर्तिना तोयं समुद्रात्पीयत’ इति मोक्षधर्मे (351.61-62)। तादृशं लवणोदकं अमृतोपमं पीयूषसदृशं चकारेत्यन्वयः । उक्तं च
‘उवाह सर्वगन्धाढ्यं स्वच्छं वारि महोदधिः । तोयं विलवणं मृष्टं वासुदेवस्य शासनात् ॥
गुल्फदध्नं जानुदध्नं ऊरुदध्नमथापि वा । नार्यस्ता स्तनदध्नं वा जलं समभिकातिम् ॥’
इति हरिवंशे (2.88.) ॥ 113-119 ॥
॥ स कृष्णपन्नगमिति ॥ यद्यपि कृष्णः सकलोपायज्ञ एव । तथापि कृष्णेन यादवान् प्रति कालयवनस्समागतः । शीघ्रं द्वारकां प्रति गन्तव्यमित्यभिहितम् । ततस्तैः त्वयि विद्यमाने किमस्माकं भयमित्यभिहितम् । ततः कृष्णोऽपि तेषां विभीषणार्थं कृष्णं घटे प्रक्षिप्य दूतेन प्रेषयित्वा मृतं अहिं प्रदर्शयित्वा एतन्न्यायेन अहमेकः किं कुर्यामिति तेषां भयमुत्पाद्य मधुरापुरात् द्वारकां प्रापयामास । अत एव पूर्वं बृहद्वनाद्वृन्दावनं प्रति गच्छथेत्युक्ते तदनन्तरं तद्वाक्ये तैरनादृते वृकसर्जनं कृतवान् । अतः कृष्णस्य न युक्तिबाधितोपायकरणेनाऽज्ञत्वमाश”्यमिति भावः ॥ 120-122 ॥
॥ स बाहुनैवेति ॥ अस्य कालयवनस्य स्वं रथहस्त्यश्वादिधनं द्वारकां प्रतीति यावत् । प्रेषितवानित्यर्थः । तथोक्तम्-
‘घातयित्वाऽऽत्मनश्शत्रून् तत्सैन्यं प्रत्यपद्यत । प्रभूतरथहस्त्यश्ववर्मशस्त्रायुधध्वजम् ॥
आदायापययौ धीमान् तत्सैन्यं निहतेश्वरम् । निवेदयामास ततो नराधिपे तदुग्रसेने परिपूर्णमानसः ॥
जनार्दनो द्वारवतीं पुरीं च तामशोभयत्तेन धनेन भूरिणा ॥’
इति हरिवंशे (2.57.68-70)।
‘जग्राह मधुरामेत्य हस्त्यश्वस्यन्दनोज्वलम् । आनीय चोग्रसेनाय द्वारवत्यां न्ययोजयत् ॥’
इति विष्णुपुराणे च (5.24.6-7) । ‘यमस्य यापयत् पुरीं’ इति पाठस्त्वप्रामाणिकः । मूलेषु पुस्तकेषु क्वाप्यदर्शनादिति ज्ञेयम् । बाहुनैवेत्येवकारेण शस्त्रास्त्रादिसाधनान्तरं निषेधयति । तथाचोक्तम्-
‘गजेन गजवृन्दानि रथेन रथयोधिनः । सादिनश्चाश्वयोधेन चरणेन पदातिनः ।
जघ्नतुस्तौ महावीर्यौ वसुदेवसुतौ उभौ ॥’ इति हरिवंशे (2.49.54) ॥ 123-129 ॥
॥ नृपं स तं ददर्शहेति ॥ हेत्यनेन तस्य सुप्तिर्बहुकालानुवृत्तेति सूचयति । तथाचोक्तम्-
‘त्रेतायुगे प्रसुप्तोेऽसि विदितो मेऽसि नारदात् । इदं कलियुगं विद्धि किमन्यत्करवाणि ते॥’
इति वचनात् हरिवंशे (2.57.62)॥ 130-143 ॥
॥ सुरेक्षणच्छलादिति ॥
‘इन्द्राणीमर्चयिष्यन्ति कृतकौतुकम्रलाः । केशवो मे भवेद्भर्ता नान्यः कश्चिद्भवेदिति ॥’ च (हरि.2.59.34)॥ 144-168 ॥
॥ स तत्सदो गत इति ॥ रेवतपुत्रः ककुद्मिनामकः तदीयपितेत्यर्थः । रेवतीमादायेति शेषः । तदुक्तं नवमस्कन्धे- ‘आनर्ताद्रैवतोऽभवत् (5.27) ।
‘तस्य पुत्र शतं जज्ञे ककुद्मिज्येष्ठमुत्तमम् । ककुद्मी रेवतीं कन्यां स्वमादाय विभुं गतः ॥
पुत्र्या वरं प्रति प्रष्टुं ब्रह्मलोकमपावृतम् ॥’
इति (5.29-30) । अत एव स रैवतो बलायेत्यत्र रैवतपुत्रत्वात् रैवत इति व्य्रायेयम् । अन्यत्राप्युक्तम्- ‘तस्य रेवतीनाम कन्याभवत् ॥ 66 ॥ स तामादाय कस्येयमर्हतीति भगवन्तमब्जयोनिं प्रष्टुं ब्रह्मलोकञ्जगाम ॥ 67 ॥ तावच्च ब्रह्मणोन्तिके हाहाहूहूसञ्ज्ञाभ्यां गन्धर्वाभ्यामतितानं नाम दिव्यं गान्धार्वं आगीयत’ इत्यादि विष्णुपुराणे चतुर्थेंशे (1.66-67) ‘छाल्रिय्रायगन्धर्वगानम् ॥ युगोरुकालपर्ययम् ॥ बहुयुगातिक्रममित्यर्थः । सप्तविंशमहायुगकालमिति यावत् । तथाचोक्तम् नवमस्कन्धे (5.33)
‘कालोऽभियातस्त्रिनव चतुर्युगविकल्पितः । मुहूर्त्तं श्रुण्वतः श्राव्यं प्रतियातस्य तेऽनघ ॥’ इति ।
‘छाल्रियगान्धर्वमुदारकीर्तिः मेने किलैकं दिवसं सहस्रम् । चतुर्युगाणां नृप रैवत’ इति हरिवंशे ॥ 169-173 ॥
॥ पुरार्यमांशकौ इति ॥ पुरा पूर्वजन्मनि अर्यमाचांशकश्चेति । अर्यमांशकौ तत्स्रयौ सुरौ । नचांश्रायसुरो अप्रसिद्ध इति वाच्यम् ।
‘धातर्यमा च मित्रश्च वरुणांशो भगस्तथा । इन्द्रो विवस्वान् पूषा च सविता ता ।
कथितो विष्णुरित्येष काश्यपेयो गणास्तथा ॥’
इति हरिवंशोक्ते अंश्रायसुरस्य सत्वात् । नत्वर्यमांशकाविति भावः ॥ 174-180 ॥
॥ पुरैवेति ॥ अब्जजा’जो नारदः पुरैव प्रद्युम्नोत्पत्तेः पूर्वमेव तं प्रद्युम्नमेव शम्बरस्य मृत्यवे मरणाय हेतुः उत्पन्न इत्यवदत्। मम मृत्युः केनस्यादिति पृष्टो नारदः प्रद्युम्न्रायः कृष्णपुत्रो भविष्यति । स त्वां हनिष्यतीत्यवददिति भावः । प्रजातं तं प्रद्युम्नं तव भवतः अयमन्तकः मृतिहेतुरुत्पन्न इत्यवदत् । प्रद्युम्नोत्पत्त्यनन्तरं नारदः शम्बरसमीपमागत्य मया यः पूर्वं तवान्तकः उक्तः स इदानीमुत्पन्न इत्यप्याहेत्यर्थः ॥ 182 ॥
॥ सूतिकागृहादिति ॥
‘तं सप्तरात्रं सम्पूर्णे निशीथे सूतिकागृहात् । जहार कृष्णस्य सुतं शिशुं वै कालशम्बरः ॥’
इति हरिवंशे (2.104.3) ।
‘षष्ठेऽिे जातमात्रं तु प्रद्युम्नं सूतिकागृहात् । ममैष हन्तेति मुने हृतवान् कालशम्बर ॥’
इति विष्णुपुराणेऽपि (5.27.3) ॥ 183-185 ॥
॥ अन्रतामुपगत इति ॥ ननु हरेण मन्मथस्याऽन्रत्वे प्रापिते जीवस्य देहमन्तरेणाऽवस्थानायोगात् । स कुत्रावस्थित इति चेत् । सनत्कुमारदेहे अवस्थितः । ‘सनत्कुमारं प्रद्युम्नः प्रविवेश यथागतम्’ इति हरिवंशे । सनत्कुमारं प्रद्युम्नं विद्धि राजन् महौजसम्’ इत्यादिपर्वणि (68.152) च सनत्कुमारे लयस्य सनत्कुमारादुत्पत्तेश्च कथनात् तस्मिन्प्रवेशावगमात् । अत एवाग्रे ‘चतुर्मुखांशसयुतं कुमारमेव षण्मुखम्’ इति षण्मुखस्यापि सनत्कुमारादेव उत्पत्तिकथनात् मन्मथस्य देहनाशाऽनन्तरं तत्र प्रवेश इति मन्तव्यम् ।
॥ पिधाय तां निजां तनुमिति ॥ अन्यथा च रूपान्तरेणैव
‘मायां शरीरजां तस्य मोहनार्थं दुरात्मनः । रतेरुत्पादनार्थाय प्रेषयत्यनिशं तदा ॥’
इति हरिवंशे (2.106.51-52)।
‘शम्बरं मोहयामास मायारूपेण रूपिणी । विहाराद्युपभोगेषु रूपं मायामयं शुभम् ।
दर्शयामास…………………॥’
इत्यादि विष्णुपुराणे च (5.28.28-29)॥ 186-189 ॥
॥ रसायनैरिति ॥ ननुस्तन्यपानमाकारयित्वा रसायनैः किमर्थँ अवर्धयत् । इत्यत उक्तम्- पतिरिति ॥ भर्तुस्तनदानेन पोषणमयुक्तमिति रसायनैरवर्धयदिति भावः । तथाचोक्तम्-
‘भर्तुर्भार्या त्वहं भूत्वा वक्ष्ये वा पुत्र इत्युत । एवं सञ्चिन्त्य मानसा धात्र्यास्तं सा समर्पयत् ॥
रसायनप्रयोगैश्च शीघ्रमेव व्यवर्धयत ॥’
इति हरिवंशे (2.105.12-13) ॥ 190-203 ॥
॥ शशंस सोदरान्तकमिति ॥ उपांशु मन्दं रहसि इत्यर्थः । हरिं कृष्णं सोदरान्तकं शंशसेेत्यन्वयः । ततः तद्वचनश्रवणाऽनन्तरं हरिः कृष्णः सयादवः यादवैस्सहितः सन् वर्त्मना प्रसेनगतमार्गेण ययावित्यन्वयः । यत्तु ‘उपांशुवर्त्मना सूक्ष्ममार्गेण’ इति वरदराजीयं व्य्रायानं तन्न । यादवैस्सह सूक्ष्ममार्गेण गमने पुनरपि कृष्णे चौर्यापरिहारात् । राजमार्गेण गमने खलु सर्वो ज्ञायेत । अत एव-
‘प्रायः कृष्णेन निहतो मणिग्रीवो वनं गतः । भ्राता ममेति तच्छ्रुत्वा कर्णे कर्णेऽजपञ्जनाः ॥’
इति भागवते (10.60.16-17)। कर्णे कर्णे जपन्नित्युक्त्या ‘अनागच्छति तस्मिन्प्रसेने कृष्णो मणिरत्नमभिलषितवान् नैतत्प्राप्तवान् । नूनमेतदस्य कर्मेेत्यखिल एव यदुलोकः परस्परं कर्णाकर्ण्याऽकथयत् । विदितलोकाऽपवादवृत्तान्तश्च भगवान् सर्वयदुसैन्यपरिवारपरिवृतः प्रसेनाश्वपदवीमनुससार’ इति विष्णुपुराणेऽपि (4.13.35-36) कर्णाकर्ण्याऽकथयदित्युक्तत्वाच्च सत्राजिता रहस्युक्तमित्येव ज्ञायते ॥ 204-205 ॥
॥ विवेश तत्र संयुगमिति ॥ अत्र चशब्देन तद्युद्धस्य बहुकालानुवृत्तिं सूचयति ।
‘आसीत् तदष्टविंशाहं इतरेतरमुष्टिभिः । वज्रनिष्पेषपरुषैः अविश्रममहर्निशम् ॥’
इति भागवतवचनाच्च (10.60.24 ) ॥ 206-212 ॥
‘बाहुभ्यामेव गोविन्दो दिवसान् एकविंशति’ इति हरिवंशवचनात्(1.38.39)।
॥ गुहां प्रविष्टमिति ॥ गुहां जाम्बवद्बिलं प्रविष्टं ईश्वरं कृष्णं अनिर्गतं वीक्ष्य गुहामुखादनिर्गतं वीक्ष्य बहून्यहानि द्वादशदिनानि प्रतीक्ष्य यादवा गृहं गता इत्यन्वयः । अदृष्टा गता इत्यन्वयः ।
‘अदृष्ट्वा निर्गमं शौरेः प्रविष्टस्य बिलं जनाः । प्रतीक्ष्य द्वादशाहानि दुःखितास्ते पुरं ययुः॥’
इति भागवतवचनात् (10.0.33)॥ 213-226 ॥
॥ तयोरिति ॥ तयोः हंसडिबिकयोस्सहाये सहायत्वविषये एव शिवस्य वरात् अजेयत्वमापतुः । अमरावपि यद्यप्यमरौ तथापि । अन्यथा हंसडिबिकयोः प्रातिकूल्ये अजेयौ न भवतः । तयोः साहाय्यं यावत् क्रियते तावत्पर्यन्तमेव भूतयोः रुद्रेणाजेयत्वस्य दत्तत्वादिति भावः ॥ 227-250 ॥
॥ ततः पुरैवेति॥ हंसडिभिकाभ्यां श्रीकृष्ण प्रति जनार्दनस्य प्रेषणात् प्रागित्यर्थः।
हरेर्निवेदिताशनः सर्वेषां हरिनिवेदिताशनत्वे समानत्वेपि परमात्मसाहाय्येन इतरपरिवारदेवतानां परमात्मनिवेदिताशनत्वम्। अस्य तु परमात्मभोजनानन्तरं तदुच्छिष्टभोजित्वमिति विशेषः। निवेदितं समर्पितं अश्नातीति निवेदिताशनः । हर्युच्छिष्टभुगित्यर्थः ॥ 251-273 ॥
॥ यमस्वसुस्तटे प्रभुरिति ॥ गोवर्धनगिरिसमीपस्थयमुनातट इत्यर्थः ।
‘उभौ तौ हंसडिभिकौ रात्रावेव महागिरिम् । जग्मतुः सहितौ राजान् गोवर्धनमथो नृप ॥
अथ प्रभाते विमले सूर्ये चाभ्युदिते सति । गोवर्धनं जगामाशु केशवः केशिमर्दनः ॥
निकषा यमुनां राजन् ततो युद्धमवर्त्तत ॥’ इति हरिवंशोक्तेः (3.127.1-2-5)॥ 274-289 ॥
॥ पपात यामुनोदक इति ॥ यामुनोदके कालीयह्रदे पपात ।
‘यत्र कृष्णो हृषीकेशः कालीयं बलशालिनम् । ममर्द च महाघोरं यावत्पातालसंस्थितिः ।
तावद्दीर्घं ह्रदं घोरं कालाञ्जननिभं महत् । तस्मिन् ह्रदे महाघोरे निपपात स हंसकः ॥’
इति हरिवंशोक्तेः (3.128.2-3) ।
ननु पलायिनं जले मज्जन्तं अस्त्ररहितं च न हन्यादिति निषेधात् क्षत्रधर्मस्थेन कृष्णेन पलायमानायुधरहितजलमग्नः हंसः कथं हत इत्यतः पापिनोऽपापवद्धनने प्रत्यवायोक्तेरधर्मेणैव हननं कर्तव्यमिति दर्शयितुं तथा स्वस्य सर्वेश्वरत्वेन विधिबन्धविधुरत्वेन दोेषो नास्तीति दर्शयितुं च तादृशो हंसः कृष्णेन हत इत्याशयेनोक्तम्- ईश्वर इति ॥ ईश्वरः ईशेभ्योः श्रीब्रह्मरुद्रशेषेन्द्रादिभ्यो वर उत्तम इत्यर्थः । तथाचोक्तम् -
‘ईशेभ्यो ब्रह्मरुद्रश्रीशेषादिभ्यो यतो भवान् । वरोऽतो ईश्वर्राया ते म्रुया नान्यस्य कस्यचिदिति ॥’
ब्रह्मवैवर्त इति गीताभाष्ये ॥ 291-293 ॥
॥ व्यपाटयच्च काकुदमिति ॥ काकुदं जिह्वामूलम्।
‘हस्तेन जिह्वामाकृष्य भूयो भूयो विलप्य च । ततस्समूलमाकृष्य जिह्वां साहससकृत्स्वयम् ॥
ममार तज्जले राजन् डिबिको नरकोपमः ॥’
इति हरिवंशवचनात् (3.129.12-13)। एतेन ‘काकुदं ग्रीवाम्’ इति अनन्तभट्टीयं ‘ग्रीवामध्यम्’ इति वरदराजीयञ्च व्य्रायानमपास्तं वेदितव्यम् । अप्रामाणिकत्वात् । अत एव ‘काकुदस्तस्य जिह्वा स्युः’ इत्यत्र (1.8.7)ऋग्भाष्ये काकुदित्यस्य जिह्वार्थकत्वं स्पष्टम् ॥ 294-297 ॥
॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे सप्तदशोऽध्यायः ॥
॥ अथ अष्टादशोऽध्यायः ॥
॥ 1-36 ॥
॥ अक्षत्रसंस्कारेति ॥ द्विजोत्तमः द्विजाभ्यां क्षत्रियवैश्याभ्यामुत्तमः ब्राह्मणः व्रात्यः स्संस्कारहीनश्चेत् यथा द्विजो न भवति एवं क्षत्रियकुले जातोऽपि अक्षत्रसंस्कारयुतः क्षत्रियसंस्कारवर्जितश्चेत् क्षत्रियो न भवतीत्यन्वयः । उक्तञ्च ‘ब्रह्मक्षत्रियविट्शूद्रा वर्णास्वाद्या द्विजातयः’ इति भागवते ।
‘अज्ञानात् प्राश्य विण्मूत्रं सुरासंस्पृष्टमेव च । पुनस्संस्कारमर्हन्ति त्रयो वर्णा द्विजातयः ॥’
इति कौर्मे च (उत्तरभाग.34.30.31)।
‘ब्राह्मणाः क्षत्रिया वैश्या शूद्रवर्णा यथाक्रमम् । आद्यास्त्रयो द्विजाः प्रोक्ताः तेषां वै मन्त्रसत्क्रियाः॥’
इति हारीतोऽपि । ‘व्रात्यस्संस्कारहीनस्स्यात्’ इत्यमरः ॥ 37 ॥
॥ अभ्यषेचयदिति ॥
‘यद्ययं फल्गुनो युद्धे नाराज्ञा योद्धुमिच्छति । तस्मादेषोऽ्रविषये मया राज्येऽभिषिच्यते ॥’
इत्यादिपर्ववचनात् (146.38) अर्जुनभीत्या अभिषिक्तवानिति भावः॥ 38-40 ॥
संरम्भात् क्रोधात् द्वेषोत्कर्षाद्वा ॥ 41-44 ॥
संरब्धं कुपितम् ॥ 45 ॥
॥ स्वकीयायां स्वकीयायामिति ॥ लौकिकापेक्षया सूक्ष्मविद्यासु दुर्योधनसमो नास्ति । उत्तमत्वलक्षणयोग्यतायां भीमसमो नास्ति । अधमत्वलक्षणयोग्यतायां दुर्योधनसमो नास्तीति भावः ॥ 46 ॥
॥ जय भीमेति ॥ हे भीम जयेति हे दुर्योधन जयेति देवासुराः हु’ारान् फट्काारान् कवचाय हुम् अस्त्राय फटिति दिग्बन्धनपूर्वकं जयघोषं चक्रुरित्यर्थः । यद्वा हु’ाराफट्कारांश्च अनुकारशब्दावित्यर्थः ।
‘ फट्कारश्चैव फाट्कारः तथा किलकिलादयः । अनुकारशब्दा विज्ञेया ये चान्ये तादृशा मताः॥’ इत्यभिधानात् ॥ 44-59 ॥
॥ अर्दयामासुरिति ॥ ननु कर्णदुर्योधनादीनां अजेयत्ववरसद्भावेन कथं तानर्दयामासुरित्यत आह- उद्वृत्ता इति ॥ तथाच कर्णदुर्योधनादीनां रामरुद्रादिदत्ताजेयत्ववरसद्भावेऽपि उद्धृत्तत्वेन तत्र प्रयोक्तव्यास्त्रदेवताप्रार्थनपूर्वकं अस्त्रप्रयोगाद्यभावेन सूर्यवरमात्रवद्द्रुपपदात्पलायनं युज्यत एव । अत एव ‘अग्रे कुमारान् सुसुखेधितान्’ ‘सुखसंवर्धितांश्च’ इत्यभ्यासेन ततः पूर्वं कदापि युद्धाऽनभिज्ञत्वकथनेन तेषां पलायनं युज्यत इति सम्प्रदायविदः ॥ 60-61 ॥
॥ द्रुपदस्येति ॥ केचित् ‘ननु कर्णाऽश्वत्थामादीन् कथमर्दयामासुरित्यत आह- द्रुपदस्येति ॥’ इति व्याचक्षते । तच्चिन्त्यम् । पूर्वोत्तरग्रन्थपर्यालोचने अश्वत्थाम्नो गमनादर्शनादिति ॥ 62-89 ॥
॥ याजोपयाजाविति ॥ अथ तत्प्राप्त्यनन्तरं गवामर्बुदेन गवां अर्बुददानेन याज्योपयाज्यावानीयेत्यर्थः । केचित्तु ‘गवामर्बुदेन दक्षिणारूपेण इष्टिं गोसवेष्टिं चकार’ इति व्याचक्षते । तच्चिन्त्यम् । ‘पुत्रकामः पुत्रकामेष्ट्या यजेत’ इति श्रुत्या पुत्रकामेष्टेरेव पुत्रकामकर्तव्यत्वेन गोसवेष्टिकरणायोगात् । ग्रन्थान्तरविरोधाच्च । ‘द्रोणान्तकमहं पुत्रं लभेयम्’ इत्यादिना द्रोणहन्ता पुत्रः कथं स्यात्तथा कुर्वित्युक्त्वा ‘तत्कर्म कुरु मे याज निर्वपाम्यर्बुदं गवाम्’ इत्येत्कर्मणि कृते गवामर्बुदं शुल्कं दास्यामीति द्रुपदेनाऽभिहितेे ‘तथेत्युक्त्वा तु तं याजो याज्यार्थमुपकल्पयत्’ इत्यादिना याजेन तद्रीकृत्य
‘आजह्रे तत्तथा सर्वं द्रुपदः कर्मसिद्धये । ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि ॥
कौलिकी (कौसवीं) नाम तस्यासीद्या वै तां पुत्रगृद्धिनः । सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा ॥’
इत्यादिना (149.40-50) कौलिक्रायसौत्रामणीष्टिद्वयमुक्त्वा पुत्रकामेष्टिकथनात् आदिपर्वणि ॥ 90 ॥
इष्टिं पुत्रकामेष्टिम् ॥ 91-95 ॥
॥ अन्वेनं भारती साक्षादिति ॥ मुद्गलवचनाद्द्रुपदयज्ञकुण्डवेदिमध्यात्समुत्थितेति भावः । तथाचोक्तम्-
‘यस्मात्त्वं मयि निश्श’ा ह्यवक्तव्यं प्रभाषसे । आचरन्ती तपोविघ्नं तस्माच्छ्रुणु वचो मम ॥
भविष्यति नृलोकेऽस्मिन् राजपुत्री यशस्विनी । पाञ्चालराजस्य सुता द्रुपदस्य महात्मनः ॥
भवितारस्तत्र तव पतयः पञ्च विश्रुताः ॥’ इति मुद्गलवचनात् इन्द्रसेनां प्रत्यादिपर्वणि (213.8-10)॥ 96-104 ॥
॥ ब्रह्मणैवेति ॥ पूर्वं एतच्छापात्पूर्वमपि अन्यत्र स्थलान्तरे ब्रह्मणैव शप्ताः । स्थलान्तरे पूर्वं किमर्थं शापमदादित्यत आह- लीलयैकदेहत्वमिति ॥ 105-106 ॥
॥ तत इति ॥ देहं विप्रकन्यादेहं नलनन्दिनी नलपुत्री इन्द्रसेना इन्द्रसेनानाम्नी । अनेन ‘नालायनीन्द्रसेना यथैव कन्या नित्यं मौद्गलस्याजमीढ (वश्या नित्यं मुद्गलस्याजमीढ’इति उपलभ्यमान पाठः) इत्यरण्यपर्ववचनार्थो (114.24)विहित इति ज्ञेयम् । नालायनीत्यस्य ‘नलादिभ्यः फक्’ इत्यनेन फकि कृते ‘ आयनेयीनी’ इत्यनेन फस्याऽयनादेशे ‘टिड्डाण’ इत्यादिना ङीषि कृते नालायिनीत्यस्य नलनन्दिनीत्यर्थ इति सूचितं भवति । इन्द्रसेनया पतिं देहि इति एकवारमुक्ते सति तद्वचः पतिं देहीति सकृदुक्तं वचः पञ्चकृत्वः पञ्चवारमभवत्। यतः यस्मात्कारणात् चतुर्ष्वपि जन्मसु विषये । शापद्वयनिमित्ततः शापद्वयनिमित्तसद्भवात् चतुश्चतुर्वारं भूमौ जन्म भवेत् । अतः देहेऽपि त्रिषु जन्मसु त्वयैकदेहत्वमिच्छमेति पूर्वेणान्वयः । चतुर्ष्वपि जन्मसु विषये शापद्वयनिमित्ततः इत्येतत् अनुवादरूपमित्य्रीकर्तव्यम्। अन्यथा चतुर्ष्वपि जन्मसु एकदेहत्वमिच्छाम इत्यन्वय्राीकारे चतुर्जन्मसु एकदेहत्वस्य कुत्राप्यदर्शनादस्रात्यापत्तेरिति ध्येयम् । तासां चतुर्थजन्मत्वे एवं शच्याः पाण्ड्यपुत्रीत्वम्, शामलायाः शिशुपालपुत्रीत्वम्, उषादेव्याः जरासन्धपुत्रीत्वम्, पार्वत्यास्तु पितृपुत्रीत्वम् । तच्च हरिवंशे आदिपर्वणि च स्पष्टमिति द्रष्टव्यम् ॥ 107-113 ॥
॥ पुत्रिकामिति ॥ पुत्रिकां मनुष्येषु वागभिमानिनीं काञ्चन देवतां स्वपुत्रीत्वेन जातामित्यर्थः । चकमे कातिवानित्यर्थः। नतु पुत्रीभूतां स्वपत्नीं सरस्वतीम्। ‘प्रजापतिस्ततस्तन्वीं तत्याज व्रीळितस्तदा’(3.13.33) इत्युत्तरत्र भागवते तत्त्यागोक्तेः। ‘यां तत्याज विर्भुब्रह्मा मानुषी वाक्तु सा स्मृता । सरस्वती निजा भार्या देवीं च तु तां विदुः॥’
इति वचनाच्च ॥ 114-121 ॥
अभवत् पञ्चवारमुक्तमिति श्रुतमभवत् । पञ्चभिरुक्तमिव श्रुतम् । शिवेनेति यावदित्यर्थः ॥ 122 ॥
॥ ययाचेे ददतुश्च ताविति ॥ अनयोस्सुतयोः द्रुपदपत्न्यै स्वस्यां स्नेहसद्भावलक्षणवरं ददतुरित्यर्थः ।
॥ तथान्येष्वपीति ॥ अन्यान् कारणादाश्रयन्त इत्येतत् आवृत्त्या योज्यम् । अन्ये असुरा अपि कारणवशादन्यान् देवानाश्रयन्तोऽपि अन्येषु असुरेषु आन्तरं स्नेहं न त्यजन्तीत्यन्वयः ॥ 153 ॥
एवं वैपरीत्येन ज्येष्ठत्वाद्दुर्योधनापेक्षया गुणैर्वयसा च ज्येष्ठत्वादित्यर्थः ॥ 154-156 ॥
॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे इत्यष्टादशोऽध्यायः॥
॥ अथ एकोनविंशोऽध्यायः ॥
॥ 1-2 ॥
॥ छद्मैवेति ॥ यत्र यस्मिन्पुरुषे छद्मैव परमं वञ्चनमेव तात्पर्यारूढम् । येन पुंसा सुराः स्वार्थेन पूज्याः न । यः सुरपूजां स्वाभीष्टसिद्धिसाधनं न मन्यत इत्यर्थः । जगतो वञ्चनकृते जगद्वञ्चनार्थमेव । यस्याऽखिलं समस्तं धर्मादिकार्यं कर्तव्यम् । यश्च महोपाधिः महानुपाधिः उत्कृष्टं कैतवं मृषावचनं यस्य स चेत्यर्थः । स एव पुमान् निखिलासुरदैत्यस्रात् श्रेष्ठ इति । वेद्रातीर्थास्तु ‘यत्र नीतौ छद्मैव परमं परमतात्पर्यगोचरं सर्वप्रकारेणैव छद्मैव प्रतिपाद्यमिति भावः’ इति । वरदराजाचार्यस्तु ‘यत्र नीतौ छद्मैव परमं प्रतिपाद्यम् । स्वार्थेन निमित्तेन न सुराः पूज्याश्च न भवन्तीति । प्रतिपाद्यमित्यर्थः’ इति व्याचक्षते । तच्चिन्त्यम् । श्रेष्ठस्स एवेति तच्छब्देन पुरुषस्य परामृष्टत्वेन यच्छब्देन तस्यैव परामृष्टव्यत्वादिति । अध्याहारदोषदुष्टत्वाच्च ॥ 3 ॥
॥ इत्यादि कुत्सिततमामिति ॥ आदिशब्देन
‘भयेन भीषयेद्भीरुं शरमञ्जलिकर्मणा । लुब्धमर्थप्रदानेन स्रयेनैव समौजसम्॥’
इत्यादिपर्वोक्तनीतिगर््राह्या ॥ 4-15 ॥
त्रिंशच्छतं त्रिंशदुत्तरशतं त्रिसहस्रमिति वा ॥ 16 ॥
॥ अयातयामैरिति ॥ अयातयामैस्सारवद्भिः । ‘गतसारं यातयामं यामस्सारमिहोच्यते’ इति नारदीयवचनात् ॥ 17 ॥
ननु त्वयैव वारणावतं प्रति गन्तव्यमित्यत आह- मम नागपुरं त्वदर्थ इति ॥ त्वदर्थे भवन्निमित्तं मम नागपुरं पितरं त्यक्त्वा पुत्रस्यान्यत्र अयुक्तत्वात्तदर्थमेव मया नागपुरमपेक्ष्यत इति भावः ॥ 18-30 ॥
॥ अन्त्यजभाषयेेति ॥ म्लेच्छभाषयेत्यर्थः । ‘प्रच्छन्नं विदुरेणोक्तं पाण्डवं म्लेच्छभाषया’ इत्यादिपर्ववचनात् (159.3)। वरदराजाचार्यास्तु ‘अन्त्यजभाषया अन्यैरपरिचितकृत्रिमभाषया’ इति व्याचक्षते । तच्चिन्त्यम् । अप्रामाणिकत्वात् ॥ 31-34 ॥
वसया मीनमेदसा ॥ 35-40 ॥
॥ भ्रातृन्स्वमातरमुदूह्येति ॥
‘आर्याम’ेन वामेन राजानं दक्षिणेन च । अंसयोर्यमजौ कृत्वा पृष्ठे भत्सुमेव च॥’
इत्यादिपर्वोक्तप्रकारेण (160.27-28) उदूह्येत्यर्थः ॥ 41-43 ॥
॥ सर्वे ययुरिति ॥ ‘रात्र्यामेव गतास्तत्र चतुर्विंशतियोजनम्’ इत्यादि (आदि.163.12)॥ 44-54 ॥
॥ सोदरसम्भ्रममिति ॥ सोदराणां सम्भ्रमं भयम् ॥ 55-56 ॥
तं प्रसिद्धं शर्ववररक्षितराक्षसं हिडिम्बं क्रमेण हत्वा स्वमूलरूपं गतं बलं किञ्चिदादाय हत्वेत्यर्थः ।
‘अर्जुनेनैवमुक्तस्तु भीमो रोषाज्ज्वलन्निव । बलमाहारयामास यद्वायोर्जगतः क्षये॥’ इति च
(आदि.166.30)॥ 57-61 ॥
॥ जातश्च सूनुरिति ॥ ‘सद्योपलब्धिर्गर्भस्य प्रसूतिस्सद्य एव च’ इति (7.4.31) रामायणोक्तेः ‘सद्यो हि गर्भो राक्षस्यो लभन्ते प्रसवन्ति च’ इत्यादिपर्वोक्तेश्च (169.11) सद्य एव हिडिम्ब्याः गर्भधारणप्रसवयोरुपपत्तेरिति भावः ॥ 62 ॥
॥ राक्षसतनुरिति ॥ सृष्टिकाले उदकरक्षकत्वंं राक्षसपदप्रवृत्तिनिमित्तम् । तथाचोक्तम्- ‘रक्षामेति च यैरुक्तं राक्षसास्ते भवन्ति च’ इति रामायणे(7.4.13) ॥ 63-69 ॥
॥ इत्युक्त आशु स चकारेति ॥
‘अर्धं तु भुञ्जते पञ्च सह मात्रा परन्तप । अर्धं भैक्षं च सर्वस्य भीमो भु’्ते महाबलः॥’
इत्यादिपर्ववचनात् (171.14) भिक्षान्नार्धं भीमो भुञ्जत इति ज्ञेयम् ॥ 70-72 ॥
॥ दातव्य एव हीति ॥ हिशब्देन
‘वेतनं तस्य विहितं शालिप्रस्थस्य भोजनम् । महिषौ पुरषश्चैको यस्तमादाय गच्छति ॥’
इत्यादिपर्ववचनं सूचयति । अनो वहतीत्यनडुहः मषिस्तेनेत्यर्थः । जात्यभिप्रायेणेकवचनम् ॥ 73 ॥
॥ नैतत्प्रिये तव मनो गतमासेति ॥ अन्यत्र याम इत्यभिहितेपि तत्र पितृगृहस्य सत्वात् त्वया न गतमिति भावः । तथाचोक्तम्- ‘ इह जाता विवृद्धाऽस्मि पितामाता ममेति वै । उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत् ॥’
इत्यादिपर्वणि (171.44)॥ 74 ॥
॥ लोके सती प्रचरितेति ॥ ‘पतिव्रतानां लोकं च व्रजन्ते सोम पश्यत’ इति गदापर्ववचनात् पातिव्रत्येन महान् लोकोऽस्तीति भावः ॥ 75-78 ॥
रामायणे रामराज्यपालनकाले विष्टं बिलेष्विति पूर्वेणान्वयः । इदानीमेकचक्रायाः क्रोशद्वयव्यहितबिले तिष्ठन्तमित्यर्थः ।
‘इतो गव्यूतिमात्रेऽस्ति यमुनागह्वरे गुहा । ईशो जनपदस्याऽस्य पुरस्य च महाबलः ॥’
इत्यादिपर्वणि (174.4-6)॥ 79-97 ॥
॥ यत्र क्वचित्प्रि वसन्तीति ॥ तुशब्देनोपश्रुतिबलाच्चेति विशेषं सूचयति ।
‘उपश्रुतिर्महाराज पाण्डवाऽर्थे मया श्रुता । यत्र वा तत्र जीवन्ति पाण्डवास्ते न संशयः ॥
मया दृष्टानि ल्रिानि इहैवेष्यन्ति पाण्डवाः ॥’ इत्यादिपर्ववचनात् (182.23-24) ॥ 98-99 ॥
॥ परिवृतोऽप्रियवज्जगामेति ॥ कुल्यनिष्पत्तेः प्रागेव सत्यभामाम्रुयात् सत्राजिद्वधं श्रुत्वा द्वारकां प्रति जगामेत्यर्थः । ‘कुल्यार्थे चापि पाण्डूनां न्ययोजयत सात्यकिम्’ इत्यादि हरिवंशोक्तेः (1.39.8) ॥ 100-103 ॥
श्रुत्वा तदीयवचनं सतयभामावचनं श्रुत्वा स्वां पुरीं द्वारकां आयात एव प्राप्त एव सन् पाञ्चालराजपुरुषोदितं महोत्सवं द्रौैपदीस्वयंवर्रायं निशम्य श्रुत्वा वृष्णिवर्यैः मुसलिना च सह तत्पुरीं द्रुपदपुरीं जगाम । तथाचोक्तम्-
‘तैलद्रोण्यां मृतं प्राश्य जगाम गजसाह्वयम् । कृष्णाय विदितार्थाय सत्याऽच्रयौ पितुर्वधम् ॥
तदाकर्ण्येश्वरो राजन् अनुसृत्य नृलोकताम् । अहो नः परमं कष्टं इत्यास्राक्षौ विलेपतुः ॥
आनम्य भगवांस्तस्मात् भार्यायाः साग्रजः पुरम् । शतधन्वानमारेभे हन्तुं हर्तुं च तन्मणिम् ॥
ततः पाञ्चालनगराद्याज्ञसेन्याः स्वयंवरम् । घुष्यता यज्ञसेनेन प्रेषितो दूत आगतः ॥
आहूतस्तेन गोविन्दो गत्वा पाञ्चालके पुरे ॥’ इत्यादि भागवते (10.61.8-12) ॥ 104-111 ॥
॥ तं चाऽग्निना परिगृहीतमिति ॥ चित्ररथपत्न्या (कुम्भीनस्या) प्रार्थित इति भावः । उक्तञ्च
‘त्रायस्व मां महाभाग पतिं चैव प्रमुञ्च मे । धनञ्जयं महाबाहुं ऊचे शत्रुनिषूदनम्॥’
इत्यादिपर्वणि (186.35) ॥ 112-123 ॥
॥ अन्यत्र फल्गुन इति ॥ एतद्ग्रन्थकारवचनम् । न शिशुपालवचनम् । अन्यथान्यैरागत्य धनुरारोपणाद्ययोगादिति ज्ञेयम् ॥ 124-133 ॥
॥ दृष्टैव योजनदशेति ॥ ‘आरुह्य’ इति पाठे अपहस्तेन भ’्त्वेत्यर्थः । ‘आगृह्य’ इति पाठे स्वीकृत्येत्यर्थः । ‘उत्पाट्य’ इत्यपपाठः । मूलपुस्तकेषु क्वाप्यदर्शनात् ॥ 134-135 ॥
हरिहयात्मजं हरिहयः श्वेेताश्वः इन्द्रः तस्य पुत्रमित्यर्थः ।
‘शुल्कानां तु सहस्रेण वाजिनां रथमुत्तमम् । युक्तं प्रगृह्य भगवान् वासवोऽप्याजगाम तम् ॥’
इत्यनुशासने इन्द्रस्य श्वेताश्वत्वप्रसिद्धेः ॥ 136-151 ॥
ननु पञ्चभिः करग्रहणं कर्तव्यमित्यत्र किं मानमित्यत आह- नात्र प्रमेति ॥ अत्र पञ्चभिः करग्रहणं कर्तव्यमित्यत्र यद्यपि प्रमाणं नास्ति । तथाऽपि मम हृदि प्रतिभाति । कर्तव्यमितीति शेषः । ननु प्रतीतिमात्रेणापि किमर्थं कर्तव्यमित्यत आह- धर्माचलेति ॥ हिशब्देन
‘वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । आचारश्चैव साधूनां आत्मनस्तुष्टिरेव च ॥’
इति (मनु)स्मृतिप्रसिद्धं दर्शयति ॥ 152-157 ॥
॥ क्रमेण जगृहुरिति ॥ क्रमेण अहन्यहनि ज्येष्ठक्रमेण चेत्यर्थः । नन्वथापि धर्मेण प्रथमतो द्रौपद्याः पाणिग्रहणे कृते तदनन्तरं भीमादीनां कथं तत्पाणिग्रहणं युज्यते । तस्याः कन्यात्वाभावात् इत्यतस्तदानीं व्यासदत्तवरमहिम्ना कन्यात्वसद्भावात् तदुपपत्तिरिति विशेषार्थो द्वितीयश्चकारः ।
‘क्रमेण चान्ये च नराधिपात्मजा वरस्त्रियस्ते जगृहुः करं तदा । अहन्यहन्युत्तमरूपचारिणो महारथाः कौरववंशवर्धनाः ॥’ इति ।
‘इदं च तत्राद्भुतरूपमुत्तमं जगाद विप्रर्षिरतीतमानुषम् । महानुभावा किल सा सुमध्यमा बभूव कन्यैव गते गतेऽहनि ॥’ इत्यादिपर्ववचनात् (215.22-24) ॥ 158-162 ॥
॥ सुवर्णभारानिति ॥ विंशतितुलाभारान् इत्यर्थः । तुला नाम पलशतमित्यर्थः । ‘तुला स्त्रियां पलशतं भारः स्याद्विंशतिस्तुला’ इत्यमरः ॥ 163-165 ॥
पुरीं हस्तिनपुरं प्रेत्य प्राप्य तत्समीपं गत्वेत्यर्थः । तत्र ते पाण्डवा वर्तन्त इति श्रुत्वा हस्तिनपुरसमीपात्पुुनरागता इति भावः ॥ 166-170 ॥
॥ ज्ञात्वा समस्तमपीति ॥ चारुमुखत इति शेषः ।
‘विदुरश्चारतः श्रुत्वा द्रौपदीं पाण्डवैर्वृतान् । व्रीडितान् धार्तराष्ट्रांश्च भग्नदर्पानुपागतान्॥’ इत्यादिपर्ववचनात् (219.14) । स्वसुतेन कष्णेति। कृष्णायै दुर्योधनाय च । भूषणवराणि वाससश्च आदिशत् आज्ञापयामासेत्यर्थः ।
‘अथ चाज्ञापयामास द्रौपद्या भूषणं बहु। आनीयतां वै कृष्णेति पुत्रो दुर्योधनस्तथा॥
इत्यादिपर्ववचनात्। एतेन ‘विदुरायेति शेषः’ इत्यनन्तभट्टीयवरदराजीयव्य्रायानं निरस्तम्। अप्रामाणिकत्वात् विदुरापेक्षया तयोरेव अभ्यर्हितत्वात् प्रमाणविरुद्वत्वाच्च ॥ 171-172 ॥
॥ वत्सरमूषरेवमिति ॥ 173-182 ॥
हे नृप एषु पाण्डवेषु दुर्योधनस्य दयितासहिता सौबली कृष्णामपूजयत् ॥॥
॥ ऊषुस्तथैव परिवत्सरपञ्चकमिति ॥ गुर्वावृत्तद्वादशमासाः परिवत्सरम् ।
‘इडावत्सरनामासौ नक्षत्रद्वादशे स्थितः । तिथीनां द्वादशावर्तो यः हरिः सोऽनुवत्सरः ॥
वत्सरो यस्थितस्त्वेां षष्ट्युत्तरशतत्रये । गुर्वावृत्तद्वादशांशे यस्तस्य परिवत्सरः ॥
सौरद्वादशमासेषु यस्तत्संवत्सरो हरिः । एवं सकालनामापि कालस्थः कालनामक इत्यादि ॥’
(भा.ता.3.) ब्रह्मतर्कवचनात् ॥॥
कृष्णायाः पञ्चसु रमणप्रकारमाह- कृष्ण चेत्यादिना ॥ कृष्णा द्रौपदी तेषु पाण्डवेषु पृथगेव पृथग्दिन एव रेमे । ननु एका लोकन्यायमतिक्रम्य पञ्चसु कथं रेम इत्यत आह- चतुःस्वरूपेति ॥ ननु चतुःस्वरूपत्वे शरीरस्येकत्वात् कथं परपरामृष्टेन शरीरेण रेम इत्यत आह- एकतनुरपीति ॥ तथाशब्दोऽपिशब्देन सम्बध्यते । यद्यपि एकतनुः तथाप्यभिमानिभेदात् अभिमानिजीवभेदात् कारणात् विशेषणभेदेन विशिष्टस्य भिन्नत्वात् । अभिमानिभेदेन तद्विशिष्टस्य शरीरस्य भिन्नत्वात् परपरामृष्टशरीरेणैव रेमे इत्यर्थः । ननु प्रतिदिनं अभिमानभेदेऽपि अभिमन्यमानदेहस्यैकत्वात् तस्य परपरामृष्टवात् कथं परपरामृष्टेनैव शरीरेण परेण रमणमित्यतः तदभिप्रायं विवृण्वन्
‘यदि मे पतयः पञ्च रतिमिच्छमि तैर्मिथः । कौमारं च भवेत्सर्वैः स्रमे स्रमे च मे ॥
पतिशुश्रूषया चैव सिद्धिः प्राप्ता मया पुरा । भोगेच्छा च मया प्राप्ता स च भोगश्च मे भवेत् ॥
रुद्रः-
पतिश्च भद्रे सिद्धिश्च न भजेते परस्परम् । अभोगानाप्स्यसे सिद्धिं योगेन च महता तथा ॥
अन्यदेहान्तरे चैव रूपभाग्यगुणान्विता । पञ्चभिः प्राप्य कौमारं महभागा भविष्यसि ॥’
इत्यादिपर्वणि (213.24-27) ॥ 183 ॥
नालायन्य्रायां इन्द्रसेनां प्रति द्रौपदीजन्मनि प्रतिपुरुषस्रमे रुद्रदत्तं कन्यात्वं स्वयं युक्तिभिः साधयति- कन्येत्यादिना ॥ पृथगेकैकस्याः अभिमतेरभिमानस्य प्रतिवासरं प्रतिदिनं नाशात् कारणात् चशब्देन अभिमत्युत्पत्तिरपि ग्राह्या । प्रतिदिनं अन्यस्या अभिमत्युत्पत्तेश्च जन्ममरणं चाऽभवत् । एकैकस्याः प्रतिदिनमभिमानोत्पत्तिनाशाभ्यां जन्ममरणे स्याताम् ।
‘जन्म त्वात्मतया पुंसः सर्वभावेन भूरिद । विषयस्वीकृतिं प्राहुः यथा स्वप्नो मनोरथः ॥
विषयाभिनिवेशेन नात्मानं यत्स्मरेन्मनः। जन्तोर्वै कस्यचिद्धेतोः मृत्युरत्यन्तविस्मृतिः ॥’
इति भागवतोक्तेः (11.22.38-39) । अतः प्रतिदिनमभिमानोत्पत्तेरस्याजन्माभवत् । तस्मात्कारणात्सा कन्यैव। प्रतिदिनमभिमानोत्पत्त्या तद्विशिष्टदेहस्याप्युत्पत्तेः । कन्यैवेत्यतो न देहापेक्षया व्यभिचार इति भावः । ननु भारत्या अपि स्ववासरातिरिक्तवासरेषु अन्यासामिव अभिमतिनाशः किमित्यत आह- प्राय इति ॥ हिशब्दो हेत्वथेर्र् । ननु तर्हि भारत्याः स्ववासरातिरिक्तशच्यादिवासरेष्वप्यभिमानसद्भावे अर्जुनादिदूषितत्वं स्यादित्यत आह- तस्मादिति ॥ तस्मात्प्रतिवारं भारत्याः प्रायो अभिमानत्यागाभावादित्यर्थः । मरुत् सकलेषु धर्मात्मजादिषु अभिनिविष्ट आसीदित्यन्वयः । यद्वा ननु भारत्या अपि शच्यादिवदभिमानाशं ‘अतस्त्वयैकदेहत्वमिच्छामः’ इति भारतीं प्रति पार्वत्यादिप्रार्थितं त्रिजन्मैकदेहत्ववरभ्रः स्यात् देहाभिमाननाशस्यैव देहवियोगापरपर्यायमरणरूपत्वेन अत्रोच्यमानत्वेन शच्यादिदिने भारत्याः देहवियुक्तत्वेन एकदेहत्वाभावात्इत्यत आह- प्राय इति॥ हि यस्मात् पार्वत्यादिदेवीः प्रति भारत्याः स्वात्मना साकमेकदेहत्ववरो दत्तः तस्मात् वाणी अभिमतिनाशं प्रायो न अवाप। चशब्देन पार्वत्यपि प्रायो अभिमतिनाशं न अवाप। अत्र प्रायःशब्देन भारत्याः देहाभिमानसद्भावेऽपि धर्मजादिषु विषये अभिमानाभावं वायुविषयेऽभिमानसद्भावं तथा पार्वत्याः प्रतिदिनं देहाभिमानसद्भावेऽपि भारत्यादीनां स्वपतिभिः साकं सम्भोगदशायां पार्वत्याभिमाननाशं च सूचयति ।
‘तासां पतित्वमास्यन्ति भारत्यैैव तु पार्वती । संयुक्ता व्यवहारेषु प्रवर्तेत न चान्यथा’
इति पूर्वाध्याये ब्रह्मणा कृष्णादेहे शच्यादितिसृणां स्वपतिमात्रयोगवरं दत्वा पार्वत्याः भारत्या साकं व्यवहारमात्रमुक्ता ॥ ‘नचाऽन्यथा’ इति मरुता स्वभर्त्रा च सम्भोगस्य निषिद्धत्वात् । ननु तर्हि भारत्याः प्रतिदिनं अभिमाननाशाऽभावे धर्मार्जुनादीनां कथं भारत्याऽभिमतदेहस्पर्शाधिकार इत्यत आह- तस्मादिति ॥ तस्मादित्येतदावृत्त्या योज्यम् । तथाहि । यस्माद्वाणी प्रायो अभिमतिनाशं नावाप तस्मात् मरुत् सकलेषु धर्मात्मजादिषु अभिविष्ट आसीदिति योज्यम् । तथाच धर्मार्जुनादीनां भारत्यभिमतदेहस्पर्शाधिकारसिद्ध्यर्थं धर्मार्जुनादिषु वायुराविष्ट आसीत् ।
‘यूयं च सर्वे मरुतो विशेषासंयोगहीनाः स्वशरीरसंस्थाः ।
स्पर्शेऽपि नास्याः पवमानपत्न्या सुपूततालं भवतामिदानीम्॥’
इत्युत्तरत्र धर्मार्जुनादिषु विशेषवाय्वावेशस्य तत्स्पर्शहेतुत्वोक्तेरिति भावः ॥ 184 ॥
नन्वितरदिनेषु धर्मात्मजादिषु मरुतः प्रवेशेऽपि तत्र प्रविष्टमरुता तैश्च भारत्या सम्भोगः प्राप्त इत्यत आह- धर्मात्मजादिष्विति ॥ धर्मात्मजादिषु प्रविष्टो मरुदेषां धर्मात्मजादीनां बुद्धिं विमोह्य भारतीविषये मोहयित्वा तथा भारत्याश्च बुद्धिं धर्मात्मजादिषु विषये विमोह्य परिहृत्य तया भारत्या सततं रमत इति यत् ततः सा शुद्धैव परापरामृष्टैव । तथाच धर्मादीनां भरतीविषये बुद्धिं विमोहयित्वा अस्मत्स्त्रीभरेव साकं अस्माभिरनुभुज्यत इति तेषां धियमुत्पाद्य तथा भारत्या अपि धर्मात्मजादिषु विषये बुद्धिं विमोह्य मत्पतिर्भीमसेनः तेनैव साकं मया भुज्यत इति तस्याऽपि बुद्धिमुत्पाद्य भारत्या भीमो रमते । प्रायस्सर्वात्मना भारत्याः युधिष्ठिराद्याविष्टवायुविषये अभिमानो वर्तत इति प्राय इत्युक्तमित्यतः सा शुद्धैवेति समुदायार्थः । अभिमतेः पृथगेवोत्पत्तेः नाशाच्च प्रतिदिनं जन्ममरणे स्यातां यतोऽतः प्रतिवासरं कन्यैवाभवदित्युक्तमर्थं दृष्टान्तमुखेन स्पष्टयति- दिने दिने चेति ॥ मरणवदित्यत्र तत्र तस्यैवेति । मरणावस्थायामिव सम्मोहतः पृथक्पृथक्सर्वात्मना अभिानाभावात् दिने दिने सा कन्यैव भवति । तथाच यथा मरणे सर्वात्मना अभिमानाभावः तथा प्रतिदिनं एकैकस्याः अभिमाननाशेन अभिमानाभावात् मरणवद्भवति। अथ च क्रमशो अभिमानोत्पत्त्या जन्मवद्भवतीति कन्यैव सा इत्युक्तं भवति॥ 185 ॥
ननु देहाभिमानराहित्यं सुप्तिमोहावेशेषु तुल्यं चेन्न मरणवत् । मरणवदभावे प्रतिदिनं कन्यैवेति प्रागुक्तं अयुक्तं स्यात् इत्यत आह- नो सुप्तिवदिति॥ ‘तेन तुल्यं क्रिया चेद्वतिः’ इति वतिः । इति इदं देहाभिमानवर्जनं सुप्तिवत्। सुप्त्या तुल्यं वर्तत इति सुप्तिवत् । सुप्तिसमयाभिमानराहित्यसदृशं नो न भवतीत्यर्थः । कुत इत्यत आह- अन्यवशत्वत इति ॥ देहस्यान्यवशत्वतः जीवान्तरवशगत्वादित्यर्थः । सुप्तशरीरस्य तु जीवान्तरवशगत्वाभावेन एतच्छरीरस्य तु जीवान्तरवशगत्वात् । सौषुप्तिकाभिमानराहित्यसमं नेति भावः । ननु तर्हि मूर्च्छावस्थाकालीनाभिमानवर्जनसमं स्यादित्यत आह- न मोह इति ॥ कुत इत्यत आह- हरेरिति ॥ हरेः संस्मृतितः स्मरन्सद्भावात् मोहः मोहवच्च न भवति । तर्ह्यावेशवत्स्यादित्यत आह- नावेशवच्चेति॥ आवेशवत् पिशाचाद्यावेशवच्च न भवति। आवेशवत्कुतो न इत्यतः तत्र हेतुमाह- तत इति ॥ तत एव हरिस्मृतिसद्भावादेेव । आवेशमूर्च्छावस्थयोेस्तु हरिस्मरणाभावात् अत्रत्यस्य तु हरिस्मृतिसद्भावात् एतद्देहाभिमानवर्जनं तत्कालीनदेहाभिमानवर्जनसमं नेति भावः । नो सुप्तिवदित्यादिना यन्मरणसालक्षण्यं उपपादितं तदुपसंहरति- मृतेः स्वरूपमिति ॥ तत इत्यावृत्त्या योज्यम् । ततः सुप्त्यादिविलक्षणत्वान्मृतेरेव स्वरूपं मरणवदेव भवति । प्रतिदिनं एतत्वतः मरणसदृशाभिमाननाशवत्वात् कारणात् मरणवत्वात् तथा जननात् अभिमानोत्पत्तिमत्वात् कारणात् जन्मवत्वात्कन्या हि कन्यैव । ‘हि हेतौ अवधारणे’ इत्यभिधानात् । तथाच विमतमभिमानवर्जनं मृतिसलक्षणम् । सुप्तिमोहावेशकालीनाभिमानाभावविलक्षणाभिमानाभावत्वात् । मरणानन्तराभिमानावर्जनवत् । नच असम्प्रज्ञातसमाध्यवस्थाकालीनाभिमानाभावे व्यभिचारः । देहस्यान्यवशत्वत इत्यनेन तद्वैलक्षण्यस्यापि उपपादत्वादिति प्रयोगः सूचितो भवति ॥ 186 ॥
धर्मराजादिषु मरुत्प्रविष्ट इत्युक्तमर्थमुपसंहरति- एवमिति ॥ अनुविष्टाः युधिष्ठिरादयो येन सः अनुविष्टयुधिष्ठिरादिः अनुविष्टयुधिष्ठिरादिश्च भीमश्च तावेवात्म स्वरूपं यस्य सः अनुविष्टयुधिष्टिरादिभीमात्मा तेन । युधिष्ठिराद्याविष्टचतु्ःस्वरूपैः भीमरूपेण च एक एव तया भारत्या एव सततं रमत इत्यन्वयः । ननु युधिष्ठिरदेहे युधिष्ठिरस्तदाविष्टो मरुच्च इति द्वौ तिष्ठतः। एवमर्जुनादिदेेहेऽपि द्वौ तिष्ठतः । एवं कृष्णादेहेऽपि भारतीदिने भारती । श्यामलादिदिनेषु भारती श्यामला च इत्यादि प्रकारेण प्रतिदिनं द्वे स्त्रियौ तिष्ठतः । तत्र युधिष्ठिरो भारतीमपोह्य स्वस्त्रियं तत्राविष्टो मरुद्भारतीमेव रमते इत्यादिकं कथं घटत इत्यत आह- अन्यादृशा हीति ॥ सुरभुक्तिः सुरभोगः अन्यादृशा मनुष्यभोगादिलक्षणमानुष्यभुक्तिः । अतः सुरभोगात् अन्यरूपा विलक्षणः इति हेतोः अत्र उक्तार्थो विचार्यं युक्तमयुक्तं वा इति विचारविषयो नास्ति इत्यन्वयः। किन्तु युक्तमेवेति निश्चेतव्यमिति भावः।
अत्र व्यासतीर्थास्तु ‘ननु युधिष्ठिरादिदेहे युधिष्ठिरादिः मरुतश्च इति द्वौ तिष्ठतः। कृष्णादेहे भारती स्वस्वदिने श्यामलादिषु एकैका इति द्वे स्त्रियौ तिष्ठतः। तत्र भारतीमपोह्य युधिष्ठिरादिः स्वस्त्रियं मरुच्च भारतीमन्याञ्च भुङ्क्ते इत्येतत् कथं इत्यत आह- अन्यादृशा हीति॥’ इति व्याचक्षते।
वेद्रातीर्थास्तु ‘ननु युधिष्ठिरादिदेहे युधिष्ठिरो मरुच्चेति द्वौ तिष्ठतः । एवमर्जुनादिदेहेष्वपि तिष्ठतः । कृष्णाहेदेऽपि भारती अन्यदेव्यश्च तिष्ठन्ति। युधिष्ठिरादयस्तु कृष्णादेहगतस्वभार्याः एव रमन्ते। तेष्वाविष्टो वायुस्तु भारत्या अन्याभिश्च रमते इत्येतत् कथं घटते इत्यत आह- अन्यादृशा हीति॥’ इति व्याकुर्वते ।
अनन्तभट्टारकास्तु ‘ननु युधिष्ठिरदेहे युधिष्ठिरो मरुच्चेति द्वौ तिष्ठतः । एवमर्जुनादिदेहेष्वपि तिष्ठतः । कृष्णादेहेऽपि भारती स्वस्वदिनेषु शामलादिष्वन्यतमैवेत्येवं प्रतिदनं द्वे स्त्रियौ तिष्ठतः । एवं सति कथं युधिष्ठिरो भारतीमपोह्य स्वस्त्रियं मरुच्च भारतीमन्यां चानुभवतीत्यत आह- अन्यादृशा हीति’ इति व्याचक्षते ।
वरदराजाचार्यास्तु ‘ननु ‘तत्रापि मारुतादन्यं न स्पृशेम’ इति प्रार्थितत्वाद्युधिष्ठरेण भोगदिवसे पार्वत्या युधिष्ठिरेण भोगः प्राप्त इत्याश”्य युधिष्ठिरादिषु मरुत आविष्टत्वात् तेनैव साकं भोगो न युधिष्ठिरादिना इति वक्तुं मरुतः तत्र प्रवेशकारणमाह- प्रायो हीत्यादिना॥ भारत्या युधिष्ठिरादिविषयेषु अभिमतिनाशः तदाविष्टमरुद्विषये अभिमतिनाशो नास्तीत्यभिप्रायेण प्राय इत्युक्तम्। एवं पार्वत्या अपि। तथाच पार्वत्या अपि मरुता एव भोगो नान्यैः इत्युक्तं भवति॥ धर्मात्मजादिष्विति॥ यस्मात् धर्मादीनां बुद्धिं भारतीविषये विमोह्य कृष्णया वायुरेव रमते तस्मात् भारत्याः युधिष्ठिरादिसंस्पर्शश’ा न कार्या । एवं पार्वत्या अपीति भावः । ननु धर्मराजादिषु मरुदेवाऽविष्टो रमत इत्युक्तमयुक्तम् । शिवेन शच्यादीनां पतियोगवरस्य दत्तत्वेन स्वभर्तृभिः भोगस्य वक्तव्यत्वादित्यतो धर्मात्मजादिष्वित्युक्तं विवृणोति- एवमिति ॥ एवं च विशेषणीभूतानां युधिष्ठिरादीनामपि भोगो अस्त्येवेत्युक्तं भवति । तथाच तेषां बुद्धिं विमोह्येत्यत्र भारतीपार्वतीविषये तेषां बुद्धिं विमोह्येत्यभिप्राय उक्तो भवति । तथाच ब्रह्मणो अन्यगामित्वरूपशापः, स्वपतिप्राप्तिरूपशिववरः, तत्रापि मारुतादन्यं न स्पृशेमेत्यादि शच्यादिप्रार्थनफलं, स्वार्थे पतियोगवरो मृषा भवेदिति रुद्रं प्रति ब्रह्मवचनं चेत्यादि सर्वं घटत इत्याशयः । ननु तथापि युधिष्ठिरादिदेहे युधिष्ठिरो मरुच्चेति द्वौ तिष्ठतः एवमर्जुनादिष्वपि । कृष्णादेहे च भारतीपार्वत्योः स्वस्वदिने शामलादिष्वन्यतमैरेत्येवं प्रतिदिन तिस्रस्तिष्ठन्ति । एवं च सति कथं युधिष्ठिरादिः भारतीं पार्वतीं चापोह्य स्वस्त्रियमेव रमते । मरुत्तु भारतीमन्यां च इत्येतत्कथं घटत इत्यत आह- अन्यादृशा हीति ॥’ इति व्याचक्षते । तदेतद्व्य्रायानचतुष्टयं चिन्त्यम् ।
‘विलासं दर्शयामासुः ब्रह्मणः पश्यतोऽधिकम् । शशाप तास्तदा ब्रह्मा मानुषीं योनिमाप्स्यथ ॥
तत्रान्यगाश्च भवतत्येवं शप्ताः सुर्रानाः ॥’
इति पूर्वाध्याये ‘मानुषीं योनिमाप्स्यथ तत्रान्यगाश्च भवत’ इत्येकवचनेन एकदेह एव अन्यगामित्वशापकथनात् । तस्य चेन्द्रसेनादेहे जातत्वात्, ‘ब्रह्मणैव च शप्ता स्म’ इत्यादेस्तु त्रिष्वपि जन्मसु एकेदहत्वमात्रप्रतिपादकत्वेन जन्मत्रयेऽप्यन्यगामित्वप्रतिपादकत्वाभावात् रमणप्रस्रेऽपि देवीनां वायुसंयोगप्रतिपादकपदादर्शनाच्च कृष्णाजन्मनि अन्यगामित्वे च ‘अभिमतेः पृथगेव नाशात्’ इति सामान्यतो भारतीरमणदिनेप्यभिमतनाशोक्तिवैयर्थ्यात् । न च शच्यादि तिसॄणां दिनेष्वेव शच्यादितिसृणां यथाक्रमं अभिमाननाशोऽनेन उच्यते न तु भारतीदिनेऽपि तासामिति वाच्यम् । विनिगमकाभावात् । भारतीदिने तासां अभिमतिनाशाद्यभावे जन्माद्यभावेन तासां कन्यात्वाभावापत्तेश्च । पञ्चदेवीनामपि रमणोक्तेः अभिप्रेतत्वे पञ्चस्वरूपा रेमे इत्युक्त्यापत्तेश्च । चतुःस्वरूपा इत्युक्त्ययोगाच्च । ‘प्रायो नाभिमतिनाशम्’ इत्यनेन भारत्याः स्ववासातिरिक्तवासरेष्वपि अभिमानसद्भावमुक्त्वा ‘विमोह्य रमते सततं तया यत्’ इति तया इत्येकवचनेन भारत्या एव मरुता साकं भोगस्य उक्तत्वाच्च । ‘अनुविष्टयुधिष्ठिरादिभीमात्मनैव सततं रमते तयैव’ इत्यत्रापि तयैवेत्येकवचनेन भारत्या एव मरुत्सम्भोेगकथनात् ।
‘मृषा वाग्येषु ते प्रोक्ता मारुताद्यास्तु तेऽखिलाः । तासां पतित्वमाप्स्यन्ति भारत्यैव तु पार्वती ॥
संयुक्ता व्यवहारेषु प्रवर्तेत न चान्यथा ॥’
इत्यादिना पूर्वाध्यायेऽपि ‘तासां पतित्वमाप्स्यन्ति’ इति कृष्णादेहे तासां स्वपतिमात्रसम्भोगस्य भारत्या साकं पार्वत्या व्यवहारमात्रस्य च कथितत्वेन पार्वत्या अपि कृष्णादेहे अन्यगामित्वस्य कथनात् । अन्यथा
‘स आज्ञया ब्रह्मण आह कृष्णां क्रमात् कर्तुं भीम एवैकसंस्थाम्।
अन्यादेवी स्वापयित्वा शरीरे तस्या भारत्याः पूर्णभोगार्थमेव॥’
इत्युत्तराध्याये ‘अन्यादेवी स्वापयित्वा’ इति वचनं विरुद्धं स्यात् । किञ्च
‘स्प्रष्टुं च संस्कारवशादियेष निषिध्य तं प्राह सुराधिराजः ।
एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्वरस्य ॥
प्राणप्रिया श्रीरिति नाम यस्याः शमात्मकेऽस्मिन् रमते यदेषा ।
युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव॥
भोगाय सृष्टा पुरुषोत्तमेन युष्मत्प्रियार्थं भवतां च दारैः ॥
प्रीतिस्ततो ह्यभ्यधिका बभूव भीमस्य चास्यास्तदनु स्म पार्थे ॥
ततो भवत्स्वेव यथाक्रमेण गुणानुसारेण समीरणस्य।
एषा हि सा शुद्धतनुः प्रजाता शच्यादियोगापगताग्र्यदेहा ॥
यूयं च सर्वे मरुतो विशेषसंयोगहीनाः स्वशरीरसंस्थाः ।
स्पर्शेऽपि नास्याः पवमानपत्न्यास्सुपूतालं भवतामिदानीम् ॥’
इति द्वात्रिंशाऽध्याये ‘युष्मत्प्रियार्थं भवतां च दारैः साकं सृष्टा’ इत्यनेन शच्यादीनां स्वपतिमात्रभोगस्यैवाऽवगमात् । ‘यूयं च सर्वे मरुतो विशेषसंयोगहीना’ इत्यनेन श्लोकेन भारतीप्रविष्टदेहस्य स्पर्शाधिकारसिद्ध्यर्थमेव धर्मजादिषु मरुदावेशस्य उक्तत्वेन पार्वतीसम्भोगार्थं धर्मजादिषु मरुदावेशस्याकथनाच्च इति सम्प्रदायविदः ॥ 187-191 ॥
ननु जरासन्धः समायास्यतीत्यत आह- एकान्तत इति ॥ बार्हद्रथः जरासन्धः एकान्ततः निश्चयतः जयमवीक्ष्य अनवलोक्य जयनिश्चयमकृत्वेति यावत् । पुरङ्गतस्येति कर्मणि षष्ठी । नानुयाति ननु जयं निश्चित्यैवागमिष्यतीत्यत आह- जय इति ॥ निष्ठा निश्चयो नास्ति । भीष्माश्वत्थामादिभयादिति भावः । यद्वा पुरगतस्य ते जये तस्य निष्ठा च आसक्तिश्च नास्ति ॥ 192-195 ॥
स जरासन्धः एनं कर्णं कर्णश्च जरासन्धमित्यन्योन्यं मुष्टिभिः अभ्युपेतौ मुष्टियु्द्धं चक्रतुरित्यर्थः ॥ 196 ॥
जरया प्रतसिन्धितस्य सन्धौ सन्धिस्थल एव जघान । परत्र अतिरिक्तस्थले न जघान । यदा तदा जरासन्धः तुतोष ॥ 197-217 ॥
भवतामनुगमनादस्मदनुगमनात्। पितुर्धृतराष्ट्रस्य अत्ययेन उल्ल्रनेन नः अस्माकं कीर्तिर्नश्येत् । पाण्डवाः स्वयं पुरान्निर्गच्छन्त सर्वान् पौरानाकृष्य गता इति जना वदेयुः । ततोऽस्माकं कीर्तिनाशः स्यादिति भावः ॥ 218-220 ॥
नातिजनसंवृतं जनशून्यदेशम् ॥ 221-223 ॥
इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे
एकोनविंशोऽध्यायः॥
॥ अथ विंशोऽध्यायः ॥ ॥ 1-7 ॥ ॥ कार्यार्थिन इति ॥ प्रयोजनार्थिनः तु युधिष्ठिरं नैव यान्ति । कुत इत्यत आह- वृकोदरेणेति ॥ यतः कारणात् अखिलानि कार्याणि वृकोदरेणैव सिद्ध्यन्ति । ततः कार्यार्थिनो युधिष्ठिरं नैव यान्तीत्यन्वयः । किन्तु प्रतिग्रहाद्यर्थमेव तं प्राप्नुवन्तीति भावः ॥ 8-32 ॥ ॥ ययौ विदेहानवसदिति ॥ नच ‘षष्ठिवर्षगते काले यद्रोषोऽभून्ममानघ’ इति हरिवंशविरोधः (1.39.37) । ‘भवेद्विश्वसृजां सत्रे संवत्सरपदं दिने’ इति मीमांसकैरपि वत्सरशब्दस्य गौणार्थकत्वस्य स्वीकृतत्वेन ‘यो मासः ससंवत्सरः’ इति श्रुतेश्च । वर्षशब्देनमासग्रहणे विरोधाभावादिति भावः ॥ 33-41 ॥ अन्यैः बलभद्रसत्यभामादिभिः अधार्यः धारयितुमयोग्य इत्यर्थः । तथाच अस्य मणेः शुचिना ब्रह्मचर्यादिगुणवता धारयितुं योग्यत्वेन बलभद्रादीनां मदिरापनाद्यशेषभोगयुक्तत्वेन शुचित्वाद्यभावात् इत्यभिप्रायेण मम च पत्नीधनस्य निन्दितत्वात् इत्यभिप्रायेणाऽयं मणिरक्रूरे तिष्ठत्वित्युक्तमिति भावः । तथाचोक्तम्- ‘एतद्धि मणिरत्नं आत्मसंशोधनायैतेषां यदूनां मया दर्शितम् । एतच्च मम बलभद्रस्य च सामान्यं पितृधनं चैतत्सत्यभामायाः नान्यस्यैतत् । एतच्च सर्वकालं शुचिना ब्रह्मचर्यादिगुणवता ध्रियमाणं अशेषराष्ट्रस्योपकारकं भवति अशुचिना च ध्रियमाणमाधारमेव हन्ति । अतोऽहमस्य षोडशस्त्रीसहस्रपरिग्रहादसमर्थो धारणे कथमेतत् सत्यभामा स्वीकरोति । आर्य बलभद्रेणापि मदिरापानाद्यशेषभोगपरित्यागः कार्यः । तदलं यदुलोकोऽयं बलभद्रः अहञ्च सत्या च त्वां दानपतेः प्रार्थयामः। तद्भवानेव धारयितुं समर्थ’ इति विष्णुपुराणे (4.13.154-159) ॥ 42-64 ॥ ॥ इत्याश्चर्य इति ॥ इत्यभिप्रायेणेत्यर्थः । प्रथमत आगत्य त्वं धन्यस्त्वमाश्चर्य इति कृष्णं प्रति नारदेणोक्तम् । तच्छब्दद्वयस्याऽभिप्रायः ‘सर्वोत्तमस्त्वादृशो नास्ति कश्चित्’ इति भगवत्पादैरुच्यत इति ज्ञेयम् । तत्र ‘आश्चर्य’ इत्यस्य ‘त्वादृशो नास्ति कश्चित्’ इति ‘धन्य’ इत्यस्य ‘सर्वोत्तम’ इति च ज्ञेयम् । ‘अनपेक्षो गुणैः पूर्णो धन्य इत्युच्यते बुधैः’ इति शब्दनिर्णयवचनात् गुणपरिपूर्णत्वस्य धन्यशब्दार्थत्वेऽपि तस्य सर्वोत्तमत्वाभावे असम्भवात् । गुणपूर्ण एव सर्वोत्तम इत्यभिप्रायेण गुणपूर्ण इत्यनुक्त्वा सर्वोत्तम इत्युक्तम्॥ 65-68 ॥ वेदात्मिकाम्प्रकृतिमित्यादि लक्ष्म्या अपि अधिष्ठानभेदात्तारतम्यस्य सत्वात् वेदात्मिकामित्याद्युक्तिर्घटत इति भावः । एकादशस्कन्धतात्पर्ये- ‘सर्ववेदाऽभिमानिन्यो देव्यो लक्ष्मीस्ततोऽधिका । वेदाभिमानिनी साक्षात् सा विष्णोर्दूरवत्स्थिता ॥ यज्ञ्राया सैव विष्णोस्तु या तूरस्थलमाश्रिता । हरिणा रतियोगस्था दक्षिण्रायापि सैव तु ॥ उत्तरोत्तरतस्सापि विशिष्टा दक्षिणा सुखे ॥’ इति वचनात् ॥ 69-77 ॥ अस्य वीर्यं वः युद्धे प्रत्यक्षं कुन्त्या अर्थितः त्वं यदि सर्वेभ्योऽप्यधिकः तर्हि त्वद्बलं प्रदर्शयेति प्रार्थितस्सन् अस्यै कुन्त्यै वीर्यमदर्शयत् । प्रदर्शनप्रकारमेवाह - पाण्डवानित्यादिना ॥ तथाचोक्तम्- ‘तथा गाण्डीवधन्वानं क्रीडन्तं मधुसूदनः । जिगाय भरतश्रेष्ठं कुन्त्याः प्रमुखतो विभुः ॥ द्रोणं द्रौणिं कृपं कर्णं भीष्मं चैव सुयोधनम् । चक्रानुयानैस्सहिताञ्जिगाय पुरुषोत्तम ॥’ इति हरिवंशे (2.102.17-18)॥ 78-87 ॥ ॥ स सत्यमिति॥ सत्यं शपथं तत्सहितं यथा भवति तथा इत्यर्थः। ॥ द्वादशीं भीमसञ्ज्ञामिति ॥ उक्तञ्च- ‘सहैव पुण्डरीकाक्ष द्वादश्यां क्षीरभोजनम् । करिष्यामि यतात्माऽहं निर्विघ्ननेनास्तु तच्च मे ॥’ इति मात्स्ये (69.32-33)। भीमसेनो यस्यां तिथौ उपवासं कृतवान् ततो भीमसञ्ज्ञेत्यर्थः। तथाचोक्तम्- ‘भीमनामा महाबाहुः कौरवाणां यशस्करः । औदरेणाऽग्निना कर्तुं उपवासं तथा क्षमः ॥ सोऽपि चेतां महापुण्यां उपोष्यति महाफलम् । ततः प्रभृति भीमस्य नाम्ना ‘याता भविष्यति ॥’ इति बृहन्नारदीये । सा च माघशुद्धेति मन्तव्यम् ॥ कोटिधाराजलस्येति ॥ जलस्य कोटिधाराः कोटिसं्रयाकधाराः बभ्रे धृतवती। कलशस्य माषमात्रप्रमाणकबृहच्छिद्राणि कृत्वा तत्र जलं प्रपूर्य तद्धाराभिः स्नातवतीत्यर्थः । तथाचोक्तम्- ‘प्रणम्य कलशं तत्र माषमात्रेण संयुतम् । छिद्रेण जलसम्पूर्णं मधु कृष्णाञ्जनस्थितम् ॥ तस्य धारां च शिरसि धारयत्सकलां निशि । धाराभिर्भूरिभिश्चैव फलं वेदविदो विदुः ॥ यस्मात्तस्मात्कुरुश्रेष्ठ धारा धार्या च शक्तितः ॥’ इति मात्स्ये (69.38)। एतेन ‘ कोटिधार्रायतीर्थस्नातवती’ इत्यनन्तभट्टीयव्य्रायानं अपहसितं वेदितव्यम् । अप्रामाणिकत्वात् । प्रमाणविरुद्धत्वाच्च ॥ 88-96 ॥ गरुडः पादं सेनां पक्षपातैः जघ्ने । केशवः सायकौघैः शेषं पादत्रयं जघ्ने ॥ 97-106 ॥ ॥ चतुर्दन्तानिति ॥ पयोब्धिजानित्यनेन पयोब्धिजैः इत्यनेन ऐरावतकुलोत्पन्नत्वं सूचयति । तथाचोक्तम्- ‘ऐरावतकुलेभांश्च चतुर्दन्तान् मदोत्कटान् । भगदत्ताय दत्वेकं सुप्रतीकं ततोऽपरान् ॥ पाण्डुराभाश्चतुःषष्टिं प्रेषयामास केशवः ॥’ इति भागवते (10.64.32-33) (हरिवंशे) ॥ 107-108 ॥ ॥ गजांश्च नारायण इति ॥ ‘तेच विंशतिसाहस्रा द्विस्तावत्यः करेणवः । अष्टादशसहस्राणि देशजाश्चोत्तमा हयाः॥ गवां चापरिमेयानि सहस्राणि जनार्दनः ॥’ इति हरिवंशे(2.64.13) ॥ 109 ॥ ॥ सद्व्रतस्था इति ॥ उपवासादिसद्व्रतस्था इत्यर्थः । ‘परिवव्रुर्महाबाहुं एकवेणीधरास्त्रियः । सर्वाः काषायवासिन्यः सर्वाश्च नियतेन्द्रियाः ॥ व्रतोपवासैः तन्व“्यः कान्त्यः कृष्णदर्शनम् ॥’ इत्यादि हरिवंशोक्तेः (2.64.27-28) ॥ 110 ॥ ॥ पुत्रा अग्नेः पूर्वमासन्निति ॥ तथाचोक्तम्- ‘अग्निपुत्रा महात्मानः तपसास्त्रीत्वमापिरे । भर्तारं च जगद्योनिं वासुदेवमजं विभुम् ॥’ इति महाकौर्मे । ननु - ‘तस्मात्सर्वे सुरा यूयं अनपत्या भविष्यथ । प्रजोच्छेदो मम कृतो यस्माद्युष्माभिरद्य वै ॥ तस्मात्प्रजा वः खगमाः सर्वेषां न भविष्यति ॥’(130.74-75) इत्यनुशासनवचनेन (रुद्र)शापेन देवानां पुत्राभावादग्नेः पुत्राः पूर्वमासमिति कथमुच्यत इति चेत्सत्यम् । शापकाले वे्यभावात्तस्य पुत्रोपपत्तेः । ‘हुताशनो न तत्रासीत् शापकाले सुरोत्तमाः’ इत्यनुशासनोक्तेः (130.76) ॥ 111-126 ॥ दशमस्कन्धमनुसृत्य सत्यभामायुद्धमाह- निरायुधमिति ॥ सत्यभामायुद्धमुक्त्वा गरुडयुद्धमाह - चिक्षेपेति ॥ कृष्णयुद्धमाह- प्रधानवायोरित्यादिना ॥ हरिः कृष्णः असुरावेशितानामाविष्टानां मध्ये प्रधानवायोस्तनयं कोणाधिपं प्रवह्रायं वायुं विेयमादिकानपि प्रति शार््रोत्थरवैः शार््रधनुष्ट’ारैः स्वकां तनुं स्वस्वरूपं विबोध्य ज्ञापयित्वा हरिरगात् । यद्वा असुरावेशितानां कियतां सुराणां शार््रोत्थरवैः स्वकां तनुं विबोध्य प्रधानवायोस्तनयं कोणाधिपं वायुं विेयमादिकादिकानपि प्रति हरिः अगादिति । ते वायुवह्न्याद्या तेन कृष्णेन बोधिताः अयं परब्रह्म इति ज्ञापिताः सन्त इत्यर्थः। एतत्सर्वकथा दशमस्कन्धे पञ्चषष्ठ्यध्यायादौ द्रष्टव्या। एतेन ‘गरुडो जलेशं प्रदानवायोस्तनयं कोणाधिपं वायुं विेयमादिकानपि अब्धौ चिक्षेप’ इति वरदराजीयव्य्रायानं निरस्तं वेदितव्यम् । दशमस्कन्धादिविरोधात् ॥ 128-132 ॥ ॥ जगाद कृष्णोऽपीति ॥ उक्तञ्च- ‘नार्जुनस्य रिपुः कश्चिन्ममाग्रे प्रभविष्यति’ इति हरिवंशे (2.19.99)। भारावतरणं साह्यं सते वीरः करिष्यति’ इति ‘संरक्षणीयो भवता यथात्मा मधुसूदन । जानामि भारते वंशे जातं पार्थं तवांशतः ॥ तमहं पालयिष्यामि यावत्स्थास्यामि भूतले ॥’ इति विष्णुपुराणे च (5.13.18-19) ॥ 133-138 ॥ ॥ तेषां नितरामिति ॥ ‘तेषामुद्दामवीर्याणां अष्टादशमहारथाः । आसन्नुदारयशसः तेषां नामानि मे श्रुणु ॥ प्रद्युम्नश्चारुदेष्णष्च दीप्तिमान् भानुरेव च । साम्बमित्रो बृहद्भानुः विन्दो वृकोऽरुणः ॥ पुष्करो देवभानुश्च शुभदेवस्सुनन्दनः । चित्रभानुर्वीरुधश्च कविर्न्यग्रोध एव च ॥ त्रिवक्राया विशोकश्च ॥’ इत्यादि हरिवंशे (भागवत.10.103.18-21)। तथाच कृष्णपुत्राणां मध्ये अष्टादश प्रधानाः । तेषामपि प्रद्युम्नसाम्बभानुचारुदेष्णाः प्रधाना इति भावः । 139-149 ॥ ॥ सुन्दोपसुन्दाविति ॥ वरदराजाचार्यास्तु ‘ब्रह्मवाक्याद्वररूपात् परस्परादन्योन्यतः अन्यतः अन्यस्मात् पुरुषादपि वध्यौ नैव’ इति व्याचक्षते । तच्चिन्त्यम् ‘निहतौ परस्परम्’ इत्युत्तरवचनविरोधात् । सुन्दोपसुन्दौ । ‘आवयोस्तु महाभाग शत्रुभागात्परस्परम् । परमेष्ठिन्ननो मृत्युरन्यदा तु भविष्यति ॥ परस्परकृताद्भेदात् मृत्युरेवास्तु नौ प्रभो। त्रिषु लोकेषु यद्भूतं सर्वं स्थावरज्रमम्॥ सर्वस्मान्नो भयं न स्यात् ऋतेऽन्योन्यं पितामह । ब्रह्मोवाच- यत्प्रार्थितं यथोक्तञ्च नूनमेतद्ददामि वाम्। मृत्योर्विधानमेतच्च यथावद्वां भविष्यति॥’ इति आदिपर्वविरोधाच्च (229.24-25) । तस्मादयमर्थः । सुन्दोपसुन्दौ भ्रातरौ ब्रह्मवाक्यात् अन्यतः अन्यस्मात् पुरुषात् नैव वध्यौ परस्परादन्योन्यं वध्यौ तिलोत्तमार्थे परस्परं निहतौ । यद्वा परस्परादन्यतः अन्योन्यातिरिक्तपुरुषात् नैव वध्यौ इत्यन्वयः । अन्योन्यं वध्यत्वेऽपि अन्येन वध्यौ न भवत इति भावः । तयोः सुन्दोपसुन्दयोः वधार्थे तेन ब्रह्मणा सृष्टया तिलोत्तमया मोहितौ दैत्यौ दैत्यात्मकौ सुन्दोपसुन्दौ तिलोत्तमार्थे परस्परं अन्योन्यं निहतावित्यन्वयः ॥ 150-156 ॥ अस्य अर्जुनस्य तनयः इरावान् मात्रा सह भुजगैस्त्यक्तः विधवायां समुत्पन्नः । विधवा त्वन्माता पुत्रं असूत इति तं तन्मातरं च भुजगा निष्कासितवन्त इति भावः ॥ 157-177 ॥ एषां पाण्डवानां अनामयं आरोग्यं प्रति च पृष्टः स पार्थः एषां अनामयं आरोग्यञ्चाह । पाण्डवा क्षेमेण आसते इत्यनुक्त्वा अनामयेनासते.. किमित्यतो अनामयशब्देन क्षत्रियाणां क्षेमं प्रष्टव्यमिति सूचनाय अनामयशब्दः प्रयुक्त इति बोध्यम् । तथाचोक्तम्- ‘ब्राह्मणं कुशलं पृच्छेत् क्षत्रबन्धूननामयम् । वैश्यं क्षेमं समागम्य शूद्रमारोग्यमेव च ॥’ इति कौर्मे (2.12.25) ॥ 178-200 ॥ कन्यां च समक्षं अस्मत्समक्षं नो हृता नापहृता । अस्मत्समक्षं कन्याहरणे खलु अस्माकं मानहानिः स्यात्। नचास्मत्समक्षं सा हृता अस्माभिः पिण्डोद्धारकं प्रति गतत्वात् इति भावः । तस्य चौर्येण कन्यां हृतवतोऽर्जुनस्यैव सा मानहानिः । नन्वयमर्जुन इति कथं ज्ञातव्यमित्यत आह- ज्ञातेति ॥ मया (तमागच्छता) अर्जुनमिति शेषः ॥ 201-204 ॥ अस्य कृष्णस्य चित्तं विदितं ज्ञातं कृष्ण एव एतावत्कपटं कृत्वाऽर्जुनाय सुभद्रां दत्तवानित्यूच इति भावः ॥ 205 ॥ यत्र कृष्णदत्तरथे तिष्ठन् कश्चिदपि तिष्ठन् सन् पराभवं न याति । ततः अर्जुनोऽपि यत्र रथे तिष्ठन् पराभवं न याति ॥ 206-216 ॥ देवतानां हविर्दाने निमित्ते देवान् शुल्कं वेतनमयाचिषम्। किं वेतनं याचितमित्यत आह- प्रयाजानिति ॥ प्रयाजाननुयाजांश्च (प्रयाजानयाजतः) हविर्भागान् शुल्कमयाचिषमिति सम्बन्धः । ततस्ते देवाः तव बलह्रासो भूयादिति मां शप्त्वैव मम तान् प्रयाजाऽनुयाजान् ददुः ॥ 217-223 ॥ ॥ धनुश्च गाण्डीवमिति ॥ ब्रह्मणि वर्षसहस्रम्, रुद्रे चतुःषष्टिवर्षपर्यन्तंशक्रे पञ्चोत्तराऽशीतिवर्षपर्यन्तं सोमे पञ्चशतवर्षपर्यन्तं वरुणे शतवर्षपर्यन्तम्, अग्नौ चतुश्शतवर्षपर्यन्तम्, पार्थे पञ्चषष्टिवर्षपर्यन्तं गाण्डीवं स्थितमिति ज्ञातव्यम् । तथाचोक्तमर्जुनेनोत्तरं प्रति ‘एतद्वर्षसहस्रं तु ब्रह्मा पूर्वमधारयत् । ततोऽनन्तरमेवैतद्धनुरत्नमधारयत् ॥ प्रजापतिः चतुष्षष्टिं शक्रोऽशीतिं च पञ्च च । समाः पञ्चशतं (पञ्चसहस्राणि) सोमो वर्षाणि वरुणश्शतम् ॥ तस्माच्च वरुणादग्निः प्रेम्णा चारु चतुश्शतम् । अधाच्च गाण्डिवं दिव्यं पार्थायाद्भुतकर्मणे॥ (अग्निना प्रातिभाव्येन दत्तं पार्थाय गाण्डिवम्) । पार्थः पञ्च च षष्ठिञ्च कौन्तेयो धारयिष्यति ॥ एवं दिव्यं धनुः पार्थो दारुणं चाप्यदर्शनम् ॥’ इत्यादि विराटपर्वणि (42.5-8)। ॥ ध्वजं च रामस्य इति॥ हनूमद’ं हनुमत्प्रतिमा’ं ‘स वानरवरो राजन् विश्वकर्मकृतो महान् । ननाद सुमहानादं भीषमाणेन ननाद च ॥’ इति कर्णपर्वणि । हनूमतो विश्वकर्मकृतत्त्वस्योक्तत्वेन तस्य प्रतिमात्वे एव सम्भवात् । अन्यथा तदसम्भवात्॥ सर्वं चेति ॥ सर्वं तद्धनुरथाश्वादिकं अभेद्यम्। ननु गाण्डीवस्य ज्यापि किं अभेद्येत्यतो नेत्याशयेनाह- विद्युत्प्रभेति ॥ तेनोत्तरत्र आश्वत्थाम्ना गाण्डीवस्य ज्याखण्डनेऽपि नैतद्विरोध इति ज्ञेयम् ॥ 226 ॥ (॥ ज्या चेति ॥ पृथग्जयाग्रहणेन धनुरादेरेव अभेद्यत्वं नतु ज्याया अपीति सूचयति । अत उत्तरत्र अश्वत्थाम्ना गाण्डीवस्य ज्याखण्डनेऽपि न विरोधः इति भावः ॥ 227-229 ॥) ॥ प्रभक्षयामास समुद्धतार्चिरिति ॥ एकविंशतिदिनपर्यन्तं इति शेषः । ‘अहोभिरेकविंशद्भिर्विरराम दृढव्रतः’ इत्यादिपर्वोक्तेः (260.15) (***तद्वनं पावको धीमान् दिनानि दशपञ्च च । ददाह कृष्णपार्थाभ्यां रक्षितः पाकशासनात्’254.46इति तत्रैव पञ्चदशदिनपर्यन्तं खाण्डववनदाहोक्तेः कथमेतत् घटनीयम् )॥ 230 ॥ अक्षौपमाभिः अक्षः शकटरथयोः चक्ररथयोर्मद्यस्थदारुिुवशेषः तत्सदृशाभिः ॥ 231 ॥ ॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणसङ्ग्रहे विंशोध्यायः ॥
॥ अथ एकविंशोऽध्यायः ॥
॥ 1 ॥
॥ स वायुधारितामिति ॥ हिशब्देन अस्मिन्नर्थे प्रमाणप्रसिद्धिं दर्शयति । तथाचोक्तम्-
‘अस्ति बिन्दुसरस्युग्रा गदा च कुरुनन्दन । निहिता यौवनाश्वेन राज्ञा हत्वा रणे रिपून् ॥’(3.6-7) ।
‘तां स्म तत्र मयेनोक्ता रक्षन्ति च वहन्ति च । गदामष्टौ सहस्राणि कि’रा नाम राक्षसा॥’
इति सभापर्वणि (3.31)॥ 2-26 ॥
तत्क्षणादुत्पत्त्यन्यनन्तरक्षणादित्यर्थः । पूर्वमुत्पत्त्यनन्तरं भूमौ कियत्क्षणपर्यन्तं तिष्ठन्ति इदानीं तु उत्पत्त्यव्यवहितक्षण एवादर्शनं यातः शिशुरिति भावः । यादवैस्सह विषण्णस्सन् तेन ब्राह्मणेन अथ आक्षिप्तस्सन्
‘तदाऽऽह विप्रो विजयं विनिन्दन् कृष्णसन्निधौ । मौढ्याद् यस्य तवाहं वै श्रद्दधे क्लीबकत्थनम् ॥
न प्रद्युम्नोऽनिरुद्धो वा न रामो न च केशवः । यस्य शेकुः परित्रातुं कोऽन्यस्तदधिकेश्वरः ॥
धिगर्जुनं वृथा वाचं धिगात्मश्श्लाघिनो धनुः । दैवोपसृष्टयोर्मौढ्यात्……………॥’
इत्यादि भागवते (10.100.47-49 ) । यत्र श्रियः पतिः कृष्णः तत्र पार्थो ययौ ॥ 27 ॥
अग्निं विवक्षन्तं प्रवेष्टुकामं अमुमर्जुनं हरि कृष्णः निवार्य । सविप्रस्सन् सफल्गुनस्सन् उदीचीमाशां ययौ । बृहता रथेन दारुकानीतेन रथेन क्षणेन सप्तवारिधीन् जलस्तम्बं कृत्वेति शेषः । तीर्थ्वा उदीचीं आशां ययाविति पूर्वेण अन्वयः ।
‘आरोप्य ब्राह्मणं कृष्णोप्यवरोप्य च दारुकम्’ इत्यादि हरिवंशोक्तेः (2.112.29)।
‘ब्राह्मणार्थेऽस्मदर्थे च कुरु सागर मद्वचः । मदृते न पुमान् कश्चिदन्यस्त्वां धर्षयिष्यति ॥
मया दत्तोे वरः पूर्वं न शोषं यास्यतीति हि । मानुषास्ते न जानीयुः विविधान्रत्नसञ्चयान् ॥
जलं स्तम्भय साधो त्वं ततो यास्याम्यहं रथी ॥’ इति च हरिवंशवचनात् (2.113.7-10)।
‘समुद्रस्तब्धतोयोऽहं अहं स्तम्भयिता जलम् । अहं ते पर्वता सप्त ये दृष्टा विविधास्त्वया ॥
प’भूतं हि तमिरं दृष्टवानसि यद्धि तत् । अहं तमो घनीभूतं अहमेव च पाटकः ॥’
इति कृष्णवचनात् हरिवंशे (2.116.12-14)। तमश्च मार्गमिति । अन्धं अन्धयतीति अन्धन्तमः। हिमवद्घनीभूतगाढान्धकारम् । तथाचोक्तम्-
‘अथ पर्वतभूतं तत्तिमिरं समपद्यत । तदासाद्य महाराज निष्प्रयत्ना हया स्थिताः ॥
ततश्चक्रेण गोविन्दः पाटयित्वा तमस्तथा ॥’
इत्यादि हरिवंशे (2.113.22-23)। तच्च तमस्त्रिविधम् ।
‘महातमस्त्रिधा प्रोक्तं ऊर्ध्वं मध्यं तथाधरम् । श्रवणादेव मूर्छादिरधरस्य यतो भवेत् ॥
तस्मान्न विस्तरेणैतत् कथ्यते राजसत्तम ॥’ (सू.भा.3.1.23)इति कौर्मवचनात् ॥ 28-33 ॥
॥ सपार्थविप्र इति ॥ अगात् द्वारकामिति शेषः । द्वारकाप्राप्त्यनन्तरं द्विजाय सुतान् ददौ ।
‘ततः स्म द्वारकां प्राप्ताः क्षणेन नृपसत्तम । स पुत्रं भोजयित्वा तु द्विजं कृष्णो महायशाः ।
धनेन तर्पयित्वा च गृहं प्रस्थापयत्तथा ॥’ इति च ( हरि.2.113.31-32 ) ।
‘विप्राय ददतुः पुत्रान् यथारूपं प्रसूयताम्’ इति चान्यत्र (भाग.10.101.69)॥ 34-36 ॥
॥ दन्तवक्र इति ॥ सविडूरथ इति शेषः । ‘श्रुत्वा तूर्णं कल्रिेशो दन्तवक्रः सहानुजः’ इति भागवतोक्तेः (10.101.1 ) । ‘भ्रातरं निहतं दृष्ट्वा दन्तवक्रं विडूरथः’ इति च (भाग.10.101.17)॥ 37-40 ॥
॥ अयं द्वीप इति ॥ अयं द्वीपः जम्बूद्वीपः सागरः लवणसागरश्च लक्षयोजनविस्तृतौ । अयं भावः । मण्डलाकारजम्बूद्वीपमध्ये षोडशसहस्रयोजनविस्तारेण मेरुरस्ति । मेरोः परितो नवसहस्रयोजनविस्तारं चतुरस्रं इलावृतं वर्षम्। मेरोर्दक्षिणभागे ततो द्विसहस्रयोजनविशालो रेखारूपेण लक्षयोजनतः पूर्वपश्चिमसमुद्रावधिः निषध्रायमर्यादागिरिः । ततो नवसहस्रयोजनविस्तारवत् रेखारूपेण लक्षयोजनतः पूर्वपश्चिमसमुद्रावधिः हरिवर्षं ततो द्विसहस्रयोजनविस्तारो रेखारूपेण नवतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः हेमकूटगिरिः । ततो नवसहस्रयोजनविस्तारं रेखारूपेण नवतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः किम्पुरुषवर्षम्। ततो द्विसहस्रयोजनविस्तारो रेखारूपेण अशीसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः हिमवत्पर्वतः। ततो नवसहस्रयोजनविस्तारवत् रेखारूपेण अशीतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिः भरतवर्षम्। एवं मेरोरुत्तरभागे रमणकहिरण्मयकुरुसञ्ज्ञकवर्षाणि नवसहस्रयोजनविशालानि क्रमेण रेखारूपेण लक्षनवत्यशीतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधिकानि सन्ति । तथा द्विसहस्रयोजनविशालाः क्रमेण रेखारूपेण लक्षनवत्यशीतिसहस्रयोजनतः पूर्वपश्चिमसमुद्रावधयो नीलश्वेतश्रृाचलाः सन्ति । मेरोः पूर्वभागे रेखारूपेण इलावृताऽनन्तरं द्विसहस्रयोजनविशालो चतुस्त्रिंशत्सहस्रयोजनतो रेखारूपेण नीलनिषधायतो गन्धमादनः । ततो एकत्रिंशत्सहस्रयोजनविशालः भद्राश्व्रायं वर्षमस्ति । मेरोः पश्चिमभागे इलावृतानन्तरं द्रिसहस्रयोजनविशालो रेखारूपेण नीलनिषधायतो मान्यवद्गिरिः । ततः एकत्रिंशत्सहस्रयोजनविशालं केतुमाल्रायं वर्षमस्ति । मेरोर्दक्षिणभागमारभ्य सागरपर्यन्तं चतुर्णामिलावृतादिखण्डानां त्रिंशत्सहस्रयोजनानि त्रयाणां मर्यादागिरीणां षट्सहस्रयोजनानि च मेर्वधिष्ठितषोडशसहस्रयोजनमध्ये अष्टसहस्रयोजनग्रहणात् अष्टसहस्रयोजनानि च इति पञ्चाशत्सहस्रं योजनानि सिध्यन्ति। एवं मेरोरुत्तरप्रदेशेपि द्रष्टव्यम्। मेरोः पूर्वभागमारभ्य सागरपर्यन्तं मेर्वधिष्ठित षोडशसहस्रयोजनमध्ये अष्टसहस्रयोजनग्रहणात् अष्टसहस्रयोजनानि इलावृतस्य नवसहस्रयोजनानि गन्धमादनस्य द्विसहस्रयोजनानि च भद्राश्वखण्डस्य एकत्रिंशत्सहस्रयोजनानि च इति मिलित्वा पञ्चाशत्सहस्रयोजनानि सिध्यन्ति । एवं पश्चिमभागेऽपि द्रष्टव्यम् । एवं मिलित्वा लक्षयोजनविस्तारो जम्बूद्वीप इति । तथाचोक्तम्- यस्मिन्नववर्षाणि नवसहस्रयोजनायामानि अष्टभिर्मर्यादागिरिभिः सुविभक्तानि भवन्ति । एषां मध्ये इलावृतानं नाम आभ्यन्तरवर्षं यस्य नाभ्यां अवस्थितः सौवर्णः कुलगिरिराजो मेरुः द्वीपायामसमुन्नाहः कर्णिकाभूतः कुवलयकमलस्य मूर्धनि द्वात्रिंशत्सहस्रयोजनविततो मूले षोडशसहस्रं तावतान्तर्भूम्यां प्रविष्टः । उत्तरोत्तरेणेलावृतात् नीलः श्वेतः श्रृावानिति त्रयो रम्यकहिरण्मयकुरूणां वर्षाणां मर्यादागिरयः प्रागयताः उभयतः क्षारोदावधयो द्विसहस्र पृथवः एकैकशः पूर्वस्मात्पूर्वस्मादुत्तरोत्तरात् दशांंशेन दैर्घ्ये एव ह्रसन्ति। (जम्बूद्वीपस्य विस्तारः शतसाहस्रसम्मितदैर्घ्ये एव ह्रसन्ति ) । एवं दक्षिणेनेलावृतात् निषधो हेमकूटो हिमाचल इति प्रागायता यथा नीलादयोऽयुतयोजनोत्सेधाः हरिवर्षकिम्पुरुषभारतानां यथास”्यम्। तथैवेलावृतं अपरेण पूर्वेण च माल्यवद्गन्धमादनौ आनीलनिषधायतौ द्विसहस्रवृद्धौ केतुमालभद्राश्वयोः सीमानं विदधाते।’ (5.16.6-10) इत्यादि भागवते ।
‘जम्बूद्वीपस्समस्तानां एतेषां मध्यसंस्थितः । तस्यापि मेरुर्मैत्रेय मध्ये कनपर्वतः ।
चतुराशीतिसाहस्रो योजनैरस्य चोच्छ्रयः । प्रविष्टः षोडशाधस्तात् द्वात्रिशन्मूर्ध्नि विस्तृतः ॥
मूले षोडशसाहस्रो विस्तारस्तस्य (सर्वशः)भूभृतः । भूपद्मस्यास्य शैलोऽसौ कर्णिकाकारसंस्थितः ॥
हिमवान् हेमकूटश्च निषधश्चास्य दक्षिणे । नीलः श्वेतश्च श्रृी च उत्तरे वर्षपर्वताः ॥
लक्षप्रमाणौ द्वौ मध्यौ दशहीनास्तथा परे । सहस्रद्वितयोच्छ्रायाः तावद्विस्तारिणश्च ते ॥
भारतं प्रथमं वर्षं ततः किम्पुरुषं स्मृतम् । हरिवर्षं तथैवान्यं मेरोर्दक्षिणतो द्विज ॥
रम्यकं चोत्तरं वर्षं तस्यैवान्ते(वानु) हिरण्मयम् । उत्तराः कुरवश्चैव यथा वै भारतं तथा ॥
नवसाहस्रमेकैकमेतेषां द्विजसत्तम । इलावृतं च तन्मध्ये (सौवर्णो)तन्मध्ये मेरुरुच्छ्रितः ॥
मेरोश्चतुर्दिशं तत्र नवसाहस्रविस्तृतम् । इलावृतं महाभाग चत्वारश्चात्र पर्वताः ॥
विष्कम्भारचिता मेरोर्योजनायुतमुच्छ्रिताः । पूर्वेण मन्दरो नाम दक्षिणे गन्धमादनः ॥
विपुलः पश्चिमे पार्श्वे सुपार्श्वश्चोत्तरे स्थितः । (2.2.7-18)
(आनीलनिषधायामौ माल्यवद्गन्धमादनौ । तयोर्मध्यगतो मेरुः कर्णिकाकारसंस्थितः॥’ 2.37) इत्यादि विष्णुपुराणे च । लक्षप्रमाण इत्यादेरर्थस्तु द्वौ नीलनिषधौ पर्वतौ प्राक्पश्चिमतो दैर्घ्यै लक्षप्रमाणौ एतदुक्तम्- वाराहे(75.28) ‘द्वीपस्य मण्डली भावाद्ध्रासवृद्धी प्रकीर्त्यते’ इति । तथा वै भारतमिति द्वीपमण्डलप्रान्तवर्तित्वात् कुरुवर्षं धनुराकारमित्यर्थः । एतेषां भारतादीनां मध्ये एकैकवर्षं विस्तरतः नवसहस्रयोजनप्रमाणं इलावृतं तथैव च नवसहस्रयोजनविस्तारसाम्येपि इलावृते विशेषमाह । तन्मध्य इति । तदाह वायुः(पूर्वार्ध.34.31)
‘धनुःसंस्थे च विज्ञेये द्वे वर्षे दक्षिणोत्तरे । दीर्घाणि तत्र चत्वारि चतुरस्रमिलावृतम्॥’(दीर्घाणि तत्र चत्वारि मध्यमन्तादिलावृतम्) इति । विष्कम्भाः मेरोश्चतुर्दिशं दार्ढ्यार्थं अवष्टम्भपर्वता इति ॥ तदन्ये इति॥
‘जम्बूप्लक्षाह्वयौ द्वीपौ शाल्मलिश्चापरो द्विज । कुशक्रौञ्चौ तथा शाकः पुष्करश्चैव सप्तमः ॥
एते द्वीपाः समुद्रैस्तु सप्तसप्तभिरावृताः । लवणेक्षुसुरासर्पिदधिदुग्धजलैः समम् ॥’
इति विष्णुपुराणोक्ताः(2.2.5-6) सागराः अन्यद्वीपाः क्रमेण द्विगुणेनोत्तरोत्तराः ॥ 41 ॥
॥ अन्त्याध्यर्धस्थलमिति ॥ अन्त्यस्य चतुः षष्टिलक्षयोजनप्रमाणविशालस्य शुद्धोदकस्य सागरस्य यः अधिकः द्वात्रिंश्रक्षयोजनप्रमाणविशालत्वलक्षणः। स च ततोप्यधिकं चतुष्षष्ठिलक्षयोजनप्रमाणपरिणाहश्चतावत्प्रमाणविस्तीर्णस्थलं षण्णवतिलक्षयोजनविस्तीर्णं हैमस्थलमित्यर्थः । तथाचोक्तम्-
‘लक्षषण्णवतिर्हेमयोजनानां ततः क्षितिः । दशयोजनलक्षं त्वधरोर्ध्वयोः उभयोरपि ॥
नानावर्णैर्महारत्नैः खचिता भूमिरूर्जिता ॥’
इति वाराहे ॥ 43 ॥
॥ एतत्सर्वमिति ॥ एतत्सर्वं जम्बूद्वीपादिकमारभ्य लोकालोकपर्यन्तस्थलं लोकनाम सूर्यप्रकाशवत्वादिति भावः । जम्बूद्वीपादिमारभ्य लोकालोकपर्यन्तं पञ्चाशल्लक्षोत्तरकोटित्रयं तमः तद्द्विगुणं लोकाद्द्विगुणंसप्तकोटियोजनविस्तीर्णमिति यावत्। घनोदकं तद्द्विगुणं तमोद्विगुणं चतुर्दशकोटियोजनविस्तीर्णमिति यावत् ॥ 44 ॥
लोकालोकप्रदेशः पञ्चाशल्लक्षविस्तृतः सपञ्चाशत्सहस्रश्च । ननु लोकालोकप्रदेशस्य ग्रन्थान्तरे पञ्चाशल्लक्षमात्रविस्तृतत्वोक्तेः कथं सपञ्चाशत्सहस्रपञ्चाशल्लक्षयोजनविस्तृतत्वोक्तिः इत्यत आह- तस्यापीति ॥ तस्यापि पञ्चाशल्लक्षयोजनस्यापि गणनं युज्यते । लक्षयोजनविस्तृतजम्बूद्वीपमध्यस्थितमेरोर्दक्षिणादिभागमारभ्य लोकालोकप्रदेशपर्यन्तं गणने प्रागुक्तसार्धकोटित्रये पञ्चाशत्सहस्रयोजनानि न्यूूनानि भवन्ति । लक्षयोजनविस्तृतसमग्रजम्बूद्वीपमादाय समग्रगणने तु पञ्चाशत्सहस्रयोजनानि पूर्णानि च भवन्ति । तथाच लोकालोकस्य स्वभावतः सपञ्चाशत्सहस्रपञ्चाशल्लक्षयोजनविस्तृतत्वेन लक्षयोजनविस्तृतजम्बूद्वीपार्धमादाय लोकालोकस्य पञ्चाशत्सहस्रयोजनानि लोकालोकादर्वाक् मेलयित्वा गणनं कर्तव्यम् । अन्यथागणने पञ्चाशत्सहस्रयोजनानां आधिक्यापत्तेरिति ग्रन्थान्तरोक्तिरित्यतो न विरोधः । तथाचोक्तम्-
आलोकालोकयोेर्मध्ये लोकालोको महाचलः । लक्षद्वयं योजनानां उच्चता तस्य कीर्तिता ॥
उपत्यका तु तस्यास्ति योजनायुतपञ्चकम् । योजनानां तु लक्षाणां पञ्चाशत्तस्य विस्तृतिः॥
इति वाराहे । तस्य लोकालोकाचलस्य योजनायुतपञ्चकम्, पञ्चाशत्सहस्रमित्यर्थः । उपत्यका आसन्नभूमिरित्यर्थः । ‘उपत्यकाद्रेरासन्नभूमिरूर्ध्वमधित्यका’इत्यमरः । शिष्टं स्पष्टमिति वाराहवचनार्थः ॥ मेरुपर्वतादिति ॥ चतुर्षु दिक्ष्वधोभागमादाय गणने मेरुपर्वतादित्यस्य मेरुपर्वतमध्यादित्यर्थः । अन्यथा पञ्चविंशतिकोटौ अष्टसहस्रन्यूनतापत्तेः । मेरुपर्वतादितिसामान्योक्तेस्तु ऊर्ध्वभागमादाय गणने मेरुमादायेति द्योतनायेति बोध्यम् । तदुक्तम्-
‘पञ्चायुतविहीनं तु सार्धकोटित्रयं त्विदम् । योजनानां मेरुमध्यात् गणना परिकीर्तिता॥’
इति वाराहे ॥ 44 ॥
॥ योजनानामिति ॥ जम्बूद्वीपं लक्षयोजनं प्लक्षं द्विलक्षंशाल्मलं चतुर्लक्षं कुशमष्टलक्षं क्रौञ्चं षोडशलक्षं शाकं द्वात्रिंशल्लक्षं पुष्करं चतुष्षष्टिलक्षं सर्वं मिलित्वा सप्तविंशतिलक्षोत्तरकोटिस”्याकं भवति । एवं समुद्रगणनं द्रष्टव्यम् । सुवर्णभूमिष्षण्णवतिलक्षयोजनविस्तृता । सर्वं मिलित्रा सार्धकोटित्रयम्। ततस्तु द्विगुणं सप्तकोटियोजनं तमः । तद्विगुणं घनोदकं चतुर्दशकोटियोजनम्। लोकालोकस्सपञ्चाशत्सहस्रपञ्चाशल्लक्षयोजनः । एवं मिलित्वा मेरुपर्वतात् मेरुमारभ्य योजनानां पञ्चविंशत्कोटय इति चतसृष्वपि दिक्षूर्ध्वं अधश्चाण्डं प्रकीर्तितम् । समग्रजम्बूद्वीपमादाय गणने सति पञ्चाशत्सहस्रयोजनाधिक्येऽपि जम्बूद्वीपमध्यस्थमेरुमध्यमारभ्य गणने तु आधिक्यं नास्तीति सूचनाय मेरुपर्वतादित्युक्तमिति बोध्यम् ॥ अबग्नीरेति ॥ पञ्चाशत्कोटिविस्तारब्रह्माण्डान्तार्गतभूम्यपेक्षया ब्रह्माण्डखर्परं द्विगुणम् । शतकोटियोजनदलं तद्दशगुणिता आपः एवमुत्तरत्रापि द्रष्टव्यम् । तथाचोक्तम्-
‘सूक्ष्मत्वात् आवृणोत्यण्डं द्विगुणा तु दशोत्तरा । अबादयः प्रकृत्यन्ता अष्टप्रकृतयः स्मृता ॥’
इति तृतीयस्कन्धतात्पर्ये ॥ परतस्तत इति ॥ ततः गुणत्रयाऽनन्तरं विरजानदीति शेषः । ततः विरजाऽनन्तरं अहं व्याप्तः । तथाचोक्तंआवरणप्रस्थाने-
‘प्रधानपरमव्योम्नोरन्तरा विरजानदी । देव्रास्वेदजनिता तोये विद्राविता शुभा ॥
(227अ/58-59)।(विरजापरमव्योम्नोरन्तरं केवलं स्मृतम्’इति उपलभ्यमानपाठः )
विरजायाः परं व्योम्नोरन्ते केवलं स्मृतम् । तत्स्थानमुपभोक्तव्यं अव्यक्तब्रह्मसेविनाम् ॥’ इति पाद्मे (उ.खं.228अ/8)। विरजानद्यनन्तरं किं वर्तत इत्यतः सर्वव्यापकनारायण्रायरूपेणाऽहं वर्तेत्याह- परतस्तत इत्यादिना ॥ अनन्तः महागुणः ‘महद्गुणत्वाद्यनन्तमाहुः’ इति भागवतोक्तेः । यद्वा परिच्छेदत्रयशून्यः। अनन्तरूपः अनन्तसौन्दर्यवान्।
‘ रूपशब्दो पशौ क्लेशे ग्रन्थावृत्तौ हितादिषु । सौन्दर्ये च स्वभावे च…………..॥’
इति यादवः । निरन्तरः स्वावतराभिन्नः । ‘अभेदात् स्वावतारेषु निरन्तर उदाहृतः’ इति वचनात् । एतेन रूपान्तराणां सर्वत्रव्याप्तत्वे विभक्तबुद्ध्यवतारार्थं भगवदचिन्त्यैश्वर्यात् देशतः अव्याप्तत्वं चास्ति । ब्रह्माण्डबहिष्ठनारायणरूपस्य तु नास्तीत्युक्तं भवतीति वेदितव्यम् । तथाचोक्तम्-
‘कालकूटविहीनत्वं कालानन्त्यं विदुर्बुधाः । देशकोटिविहीनत्वं देशानन्त्यं तथैव च ॥
गुणानामप्रमेयत्वं वस्त्वानन्त्यं विदो विदुः । आनन्त्यं त्रिविधं नित्यं हरेर्नान्यस्य कस्यचित् ॥
तस्य सर्वस्वरूपेषु ह्यानन्त्यन्तु त्रिलक्षणम् । तथाऽपि देशतस्तस्य परिच्छेदोऽपि विद्यते ॥
परिच्छेदस्तथा व्याप्तिरेकरूपेऽपि युज्यते । तस्याचिन्त्याद्भुतैश्वर्याववहारार्थमेव च ॥
गुणतः कालतश्चैव परिच्छेदो न कुत्रचित् । व्याप्तत्वं देशतोऽप्यस्ति सर्वभूतेषु यद्यपि ॥
न च भेदः क्वचित्तेषां अणुमात्रेऽपि विद्यते । अणुत्वं महत्त्वञ्च यस्मादैश्वर्ययोगतः ॥
तस्माद्बुध्यवतारार्थं अव्याप्तत्वं च युज्यते । यत्तस्य व्यापकं रूपं परं नारायणाऽभिधम् ॥
शून्यं ब्रह्मेति तत्प्राहुः द्वितीयं स्रष्टृ यत्ततः । परमः पुरुषो नाम मितं तद्देशतो विभोः ॥
तृतीयं वासुदेव्रायं जगदावरकं मितम् । देशतो जगदाऽविष्टं तुरीयं विष्णुनामकम् ॥’
इति ब्रह्मतर्के तृतीयतात्पर्ये । उक्तं च द्वितीयस्कन्धतात्पर्ये-
‘यदा शेते प्रलये विष्णुः शून्यनामा महाकृतिः । स तु नारायणो नाम नाराऽयणमयनत्वतः ॥’
इति तन्त्रमालायाम् ॥ 46-51 ॥
॥ अन्तरिक्षमिति ॥ त्वया अन्तरिक्षं अन्तरिक्षलोकः लक्षयोजनमुच्छ्रितं लक्षयोजनोन्नतमिति प्रोक्तमित्यर्थः । विमानावलिस’ुलः स्वर्गः अर्धकोट्युच्छ्रितः पञ्चाशल्लक्षयोजनोन्नतः ॥ 52 ॥
तयोर्विस्तारमाह- भुव इति ॥ भुवः अन्तरिक्षलोकः स्वर्गश्च योजनानां कोट्यैव विस्तृतो कोटियोजनविस्तारवानित्यर्थः । महर्जनतपोलोकोनाम्नां औन्नत्यमाह- महर्जन इत्यादिना ॥ अस्यार्थः महर्लोकः पञ्चसप्ततिसहस्रोत्तराष्टोत्तरषष्ठिलक्षोत्तरकोटियोजनोच्छ्र्रिुतः । एवं त्रयाणामौन्नत्यमुक्त्वा विस्तारमाह- पञ्चाशदिति ॥ समस्तशः महर्जनस्तपःप्रदेशः योजनानां पञ्चाशत्कोटिविस्तारवानित्यर्थः ॥ 53 ॥
सत्यलोकस्यौन्नत्यविस्तारावाह- यावन्त इति ॥ एते स्वर्गान्तरिक्षाद्याः मिलिताः यावन्तः यावत्प्रमाणवन्तः सत्य्रायो ब्रह्मलोकः तावत्प्रमाणः पञ्चविंशतिसहस्रोत्तरष्रक्षोत्तरचतुष्कोटियोजनोन्नतः पञ्चाशत्कोटिविस्तारश्च । विष्णुलोकः वैकुण्ठः ततः सत्यलोकात् द्विगुणः पञ्चाशत्सहस्रोत्तरद्वादशलक्षोत्तराष्टकोटियोजनोन्नत इत्यर्थः । एवं भूलोकमारभ्य गणने पञ्चविंशतिलक्षोत्तरषोडशकोटियोजनानि सम्पन्नानि। तन्न्यूनयोजनानि तु एवं मेलयितव्यानि । स्वर्गभूकन्दं अर्धलक्षम्, महर्लोकभूकन्दं पञ्चविंशतिलक्षोत्तरकोटियोजनम्, जनसत्यतपोलोकानां भूकन्दं प्रत्येकशः पञ्चाशल्लक्षोत्तरकोटियोजनं त्रयाणां लोकानां मिलित्वा पञ्चाशल्लक्षोत्तरचतुष्कोटियोजनानि सम्पन्नानि । वैकुण्ठभूदलं पञ्चाशत्सहस्रोनकोटित्रयम्। सर्वं मिलित्वा पञ्चसप्ततिलक्षोत्तराष्टकोटिस”्याकं सम्पन्नम् । तथा च मेरुमारभ्य वैकुण्ठान्तानां लोकानामुच्चत्वं पञ्चविंशतिलक्षोत्तरषोडशकोटियोजनयुक्तम् । स्वर्गादिवैकुण्ठानां भूदलानि तु पञ्चसप्ततिलक्षोत्तराऽष्टकोटियोजनानि । एवं मिलित्वा पञ्चविंशतिकोटियोजनानि सम्पन्नानीति बोध्यम् । तथाचोक्तम्-
‘एवं चोपरिलोकानां अन्तरा भूर्भुवो भवेत् । पञ्चविंशतिकोट्यश्च तत्स”्यानं वदाम्यहम् ॥
अर्धकोट्युच्छ्रितः स्वर्गो विमानावलिस’ुलः। महर्जनस्तपश्चैव क्रमादध्यर्धयोजनाः॥
तथोच्चाः परिकीर्त्यन्ते तावद्वै ब्रह्मणः पदम् । ब्रह्मलोकाद्विगुणितो वैकुण्ठः परिकीर्तितः ॥
षण्णां चैव तु लोकानां अन्तरालापि या क्षितिः । स्वर्गस्यैव तु भूकन्दं अर्धलक्षेण सम्मितम् ॥
सपादकोटियंयुक्तं महर्लोकस्य भूदलम् । सार्धकोटिजनो लोके भूकन्दं परिकीर्तितम् ॥
एवं वै तपसः प्रोक्तं सत्यस्यापि तथैव च । सार्धद्विकोटिसंयुक्तं ऊनं लक्षार्धतः क्रमात् ॥
वैकुण्ठस्यार्धकोट्या च श्रीलोकः परिकीर्तितः । पञ्चविंशतिकोट्यश्च विज्ञेया मानवादिभिः ॥
सार्धकोट्या च भूकन्दं दुर्गया परिपालितम् । एवं कोट्युच्छ्रितं कन्दं धरया परिपालितम् ॥
लक्ष्म्यात्मको महालोकः त्वर्धकोट्या च सम्मितः । एवं त्रिकोटिसंयुक्तं वैकुण्ठस्य च भूदलम् ॥
लक्ष्म्यात्मकेन लोकेन संयुक्तं लोकपञ्चकम् । पञ्चविंशतिकोट्या च उच्छ्रितं परिकीर्तितम् ॥
दुर्गात्मके च भूभागे अर्धलक्षबिलं भवेत् । सप्ताऽवरणसंयुक्तं विमानाऽवलिराजितम् ॥
गम्यते सृतिगैस्सर्वैर्वैकुण्ठस्याऽपि चोच्यते । अनाप्तल्रिभ्रा ये वैकुण्ठपुरवासिनः ॥
भूम्यात्मके मध्यखण्डे विमानाऽवधिस’ुले । प्राकारसप्तकयुते तावन्मायां पुरे हरेः ॥
तिष्ठन्ति ब्रह्मकल्पान्ते ब्रह्मणा सह मुक्तिगाः । त्यक्तल्रिाश्च ये जीवाः खण्डे चैवान्तिमे स्थिताः ॥
लक्ष्म्यात्मके महालोके सच्चिदानन्दरूपके । न तत्र गमनं क्वापि सृतिस्थानां कथञ्चन ॥
विना ब्रह्माणमेवैकं सोऽपि याति क्वचित्क्वचित् । एवं धामत्रयस्यापि खण्डत्रयमुदाहृतम् ॥
खण्डद्वयस्य वैकुण्ठे लयस्तु ब्रह्मणा सह । अन्त्यखण्डस्य नास्त्येव प्रलयः क्वापि केन हि ॥
सर्वत्राऽप्यन्त्यखण्डस्य लयो नास्ति न संशयः । भस्मीभूते च ब्रह्माण्डे कारणे च लयं गते ॥
जलपूर्णं भवेत्सर्वं तत्र धामत्रयं शुभम् । अन्तर्जले च लक्ष्म्या च विष्णुना चाप्यधिष्ठितम् ॥’
इत्यादि ब्रह्माण्डे । विष्णुलोकस्सनातन इत्येतल्लक्ष्म्य्रायखण्डस्य नाशाभावाभिप्रायेणेति बोध्यम् ॥ 54-56 ॥
॥ (अधो)ततो पातालसप्तकमिति ॥ एकैकस्य पातालस्य बिलमयुतयोजनम् । मर्यादाभूतभूदलं तु द्विसहस्रयोजनम् । एवं सप्तपातालानां चतुरुत्तराऽशीति सहस्रयोजनानि सम्पन्नानि भवन्ति । सप्तपातालाधोस्थिताऽष्टमस्य नरक्रायलोकस्य द्वादशसहस्रयोजनं बिलं मर्यादाभूतं तद्दलं तु चतुस्सहस्रयोजनम् । ततश्च पातालसप्तकस्य चतुरुत्तराशीतिसहस्रयोजनानि । नरकस्य षोडशसहस्रयोजनानि च मिलित्वा लक्षलक्षयोजनानि सम्पन्नानि इति बोध्यम