10-16

॥ श्री गुरुभ्यो नमः ॥ ॥ अथ दशमोऽध्यायः ॥ ॥ द्वापर इति ॥ अष्टाविंशतितमे द्वापरे युगे प्राप्ते अष्टाविंशतिद्वापरयुगान्त्यभागे प्राप्ते सतीत्यर्थः । तथाचोक्तम्- ‘व्यासः षट्शतवर्षीयो धृतराष्ट्रमजीजनत्’ इति स्कान्दे । अत एवोक्तमाचार्यैः । अधीतवान्द्वापरादावित्यत्र ‘द्वापरे आदौ च । कृष्णावतारापेक्षया’ इति । द्वापरान्त एव भारतकथाप्रवृत्तिकथनाच्च पुनश्शब्दोऽत्र तृतीयसप्तमषोडशपञ्चविंशद्वापरयुगव्यासावतारापेक्षया । तथाचोक्तम्- ‘तृतीयसप्तमे चैव षोहशे पञ्चविंशके । अष्टाविंशे युगे कृष्णः सत्यवत्यामजायत ॥’ इति तृतीयस्कन्धतात्पर्ये । यत्तु ‘रामावतारार्थं पूर्वं क्षीराब्धिमागत्य देवैः प्रार्थितत्वात् तदपेक्षया पुनरित्युक्तम्’ इति ‘रामार्थनापेक्षया पुनः’ इति च तद्द्वयमपि चिन्त्यम् । सजातीयस्यैव परामृष्टव्यत्वात् रामावतारापेक्षया पूर्वमपि व्यासावतारसत्वेन तदपेक्षया पुनश्शब्दोपपत्तेः । नच तत्र मानाभावः । आचार्यैरेव प्रथमस्कन्धतात्पर्ये ‘रामावतारात्पूर्वमप्यस्ति व्यासावतारः’ । ‘तृतीयं युगमारभ्य व्यासो बहुषु जज्ञिवान्’ इति कौर्मे इत्युक्तत्वात् । पयोब्धिस्थव्यासप्रार्थनापेक्षयैव पुनश्शब्द इत्यत्र ‘सुपर्णं ऋषयो व्यासं नाथमाना ययुस्तदा । ध्वान्तं निवर्तयास्माकं ……………॥’ इत्यादिभागवततात्पर्यान्तरस्य गमकस्य सत्वाच्च । तस्यैव रूपस्य सत्यवत्यामभिव्यक्तिसम्भवाच्च इति ज्ञेयम् ॥ 1-3 ॥ ॥ स्वदत्तमालेति ॥ हिशब्देन अस्मिन्नर्थे प्रमाणप्रसिद्धिं द्योतयति । ‘मया दत्तामिमां मालां यस्मान्न बहु मन्यसे । (तस्मात् पुनश्च …………)। त्रैलोक्यश्रीरतो मूढ विनाशमुपयास्यति । मां मन्यसे त्वं सदृशं नूनं शक्रेतरद्विजैः ॥ अतोऽवमानमस्मासु मानिना भवता कृतम् । मद्दत्ता भवता यस्मात् क्षिप्ता माला महीतले ॥ तस्मात् प्रणष्टलक्ष्मीकं त्रैलोक्यं ते भविष्यति ॥’ इति विष्णुपुराणे(1.9.14-16)। सा माला दूर्वासः कुत्रत्येति श’ानिरासस्तु ‘याचिता तेन तन्व्री मालां विद्याधर्राना । ददौ तस्मै विशालाक्षी सादरं प्रणिपत्य तम् ॥’(1.9.5) इत्यादिविष्णुपुराणवाक्येन कर्तव्यः ॥ 4-5 ॥ ॥ अनन्तनामा गरुड इति ॥ ‘अनन्तोढो मन्दरस्तु यदा वैवस्वतान्तरे’ इति ब्रह्माण्डपुराणे(भा.ता.8स्कं) । अनन्तेन मन्दरो धृत इत्युक्तम् । तत्स्र्रहायाऽनन्तनामा गरुड इत्युक्तम् ॥ 6-11 ॥ ॥ उपर्यधश्चेति ॥ नेत्रगोत्रयोः उपर्यधश्चेति - नेत्रगोत्रयोः उपर्यधश्च आत्मन मध्यभागे तथाच देवदैत्यानां आत्मनि मध्ये च विशता । तदुक्तम्- ‘देवानां मध्यतः स्थित्वा ममन्थ पुरुषोत्तम’ इति रामायणे (बाल.45.31)॥ 12 ॥ ॥ तदा जगद्ग्रासि विषमिति ॥ ‘महाविषं महाघोरं संवर्ताग्निसमप्रभम् । दृष्ट्वा प्रदुद्रुवुस्सर्वे भयार्ता देवदानवाः ॥ ततस्तान्विद्रुतान्दृष्ट्वा ब्रह्मा लोकपितामहः । जगाद वायुं तरसा हरेराज्ञापुरस्कृतः ॥ निश्शेषं कुरु वायो त्वं लोकसंहारकं विषम् । त्वदन्यो नास्ति तत् ग्रस्तुं सर्वभूतहित’र ॥ इति धातुर्वचः श्रुत्वा दशप्रमतिरब्रवीत्। (वायुस्तद्वाक्यमाकर्ण्य प्रहृष्टमतिरब्रवीत् ।) भक्ष्यामि हरेराज्ञां पुरस्कृत्य विधेर्वचः । हरेर्नामोच्चारणेन तद्भक्त्या च विशेषतः ॥ सर्वव्यापिविषं घोरं पात्रे न्यस्य करे दधत् । बिन्दुमात्रं पृथग्गृह्य तद्विषं मर्दयन्ततः ॥ परीक्षणार्थं चान्येषां देवादीनां च पार्वति । मम हस्ते ददौ किञ्चित् भक्षस्वेति समादृतः ॥ नामत्रयेण सहितं मन्त्रानुग्रहमादिकृत् । तद्विषप्राशनादेव मम दाहोऽभ्यवर्धत । जिह्वाग्रधारणादेव मम प्राणा हि निर्गताः । कृपया पवमानस्य तथा नामत्रयेण च ॥ अच्युतानन्तगोविन्दनाममाहात्म्यतश्शुभे । जीवितोऽस्मि तदा काले विष्णोर्नामत्रयादहो ॥ पश्चात्तु तद्विषं सर्वं एकीकृत्य सुपात्रके । अनायासात्पपौ वायुः सर्वेषां रक्षणाय च ॥ हरेस्सम्प्रीतये देवि ब्रह्मणो वचनात्तथा । ऋचो ब्रुवन्ति वेदस्य केशीति ब्रह्मवादिनः ॥ इत्थं प्रायो महत्वं हि विष्णुभक्तस्य पार्वति ॥’ इति पद्मपुराणे उत्तरकाण्डे(232.10-21)(उपलभ्यमानपद्मपुराणे तु वायुकर्तृकविषपानप्रतिपादकश्लोका नोपलभ्यन्ते ) अनेन अत्यल्पपानाच्च बभूव शूला शिवस्येत्यन्तं विवृतं भवति ॥ 13-20 ॥ ॥ धन्वन्तरिर्नामेति ॥ पुरुराजवंशेऽपि भिषग्धन्वन्तरिरवतीर्णः । अयं च धन्वन्तरिर्भिन्न इति विशेषोऽत्र द्रष्टव्यः । तदुक्तम् । ‘तस्य वंशे समुत्पन्नो देवो धन्वन्तरिस्तथा’ इत्यादि हरिवंशे(1.29.26) ॥ 21-43 ॥ ॥ जग्राह तन्मत्स्यवधूरिति ॥ मत्स्यवधू पूर्वं अद्रिकेति ज्ञेयम् । तदुक्तम्- ‘तत्राद्रिकेति व्रियाता ब्रह्मशापाद्वराप्सरा । मीनभावमनुप्राप्ता बभूव यमुनाचरी ॥ मानुषो जनयित्वा त्वं शापमोक्षमवाप्स्यसि॥’ इति हरिवंशे (एतत्समानानुपूर्वीकश्लोकाः महाभारते.1.64.111. उपलभ्यन्ते न तु हरिवंशे ) ॥ दाशा इति ॥ निषादायां ब्राह्मणाज्जाताः दारूपजीविनो दाशा इति अर्थ । तदुक्तम्- ‘निषादायां ब्रह्मजातं दाशं दारूपजीविनम् । भृतचेतः प्रतिच्छन्नं हीनभाजनभोजनम्॥’ इत्याद्यनुशासनपर्वणि ॥ 44-53 ॥ ॥ कम्बुसमानकण्ठ इति ॥ वलित्रयाि’तग्रीव इत्यर्थः। ‘ रेखात्रयाि’तग्रीवा कम्बुग्रीवेति कथ्यते’ इत्यभिधानात् ॥ 54-55 ॥ ॥ द्विजत्वमाप्येति ॥ लोकधर्माऽभिरिरक्षयैव वेदं स्रामधीत्य च । तथाचोक्तम्- ‘कृतोपनयनो व्यासो याज्ञवल्क्येन भारत । वेदानधिजगौ स्राानो’ारेण समन्वितान् ॥’ इत्यादिपर्वणि ॥ 56-57 ॥
॥ तच्छुश्रुवुबर््रह्मगिरीशम्रुया इति ॥ अत्र ब्रह्मणः श्रवणादिकं विष्णोः प्रीत्यर्थमेव । किञ्चिदप्राप्तलाभार्थं वा विद्यमानस्यैव ज्ञानस्य दृढीकरणार्थं वा । ‘यावद्ब्रह्मा ब्रह्मणस्तु प्रायो नाप्रतिभासितम् । विष्णोः प्रीत्यर्थमेवास्य श्रोतव्यं प्रायशो हरेः ॥ अन्येषां श्रवणात् ज्ञानं क्रमशो मानुषोत्तरम् ॥’ इति गीतातात्पर्योदाहृतप्रमाणवचनात् ‘जानन्तोऽपि विशेषार्थज्ञानाय स्थापनाय वा । पृच्छन्ति साधवो यस्मात् तेन पृच्छसि पार्थिव ॥’ इत्याग्नेयवचनाच्च । एवं ज्ञानं पुनः प्रापुः इत्यादेश्चायमर्थः । विरिञ्चेतरेषां तिरोहितलाभो वा । ‘ब्रह्मरुद्रादिदेवेषु मनुष्यपितृपक्षिषु । ज्ञानंं संस्थाप्य’ इत्यादि भाष्योदाहृतप्रमाणस्याप्ययमेवार्थ इति न तद्विवोध इति ध्येयम् ॥ 58-70 ॥ ॥ ततस्त्वरण्योरिति ॥ शिवोऽस्य पुत्रो बभूवेति कुत्र प्रसिद्धमित्येतच्छ’ापरिहाररूपविशेषार्थस्तुशब्दः । तथाचोक्तम्- ‘पराशरकुलोद्भूतश्शुको नाम महायशाः । भविष्यति युगे तस्मिन् महायोगी द्विजर्षभः ॥ व्यासादरण्यां सम्भूतो विधूमोग्निरिव ज्वलन् । स तस्यां पितृकन्यायां पीवर्यां जनयिष्यति ॥ कन्यां पुत्रांश्च चतुरो योगवीर्यान्महाव्रतान् । श्रुत्वा स्वजनकाद्धर्मं व्यासादमितबुद्धिमान् ॥ महायोगी तदा गन्ता न पुनरावर्तनीं गतिम्॥’ इति हरिवंशे (1.18.50-55) । उक्तं च मोक्षधर्मे (341.23-25) । ‘ततो हरिजटस्स्थाणुः वेशधारपतिश्शिवः । ततश्शुकेति दीर्घेण शब्देनाक्रन्दितस्तदा ॥ स्वयं पित्रा स्वरेणोच्चैः त्रिलोकाननुनाद्य वै । शुकस्सर्वगतो भूत्वा सर्वात्मा सर्वतोमुखः ॥ प्रत्यभाषत सर्वात्मा भोशब्देनाऽनुनादयन् । तत एकाक्षरं नाम भोरित्येव समीरयन् ॥ प्रत्याहरज्जगत्सर्वं उच्चैः स्थावरज्रमम् ॥’ इति । ‘शक्तिः पराशरः श्रीमान् सर्वज्ञस्तपतां वरः । आराध्य देवदेवेशमीशानं त्रिपुरान्तकम् ॥ लेभे त्वप्रतिमं पुत्रं कृष्णद्वैपायनं प्रभुम् । द्वैपायनसुतो जज्ञे भगवानेव श’रः ॥ अंशांशेनावतीर्योर्व्यां स्वम्प्राप परमं पदम् । शुकस्याप्यभवन्पुत्राः पञ्चात्यन्ततपस्विनः ॥’ इकि कौर्मे च (पूर्वभागे.18.23-26 ) । तत्रैव- ‘व्यासः स्वयं हृषीकेशो येन वेदाः पृथक्कृताः । यस्य देवो महादेवः साक्षादेव पिनाकधृक् ॥ अंशांशेनाऽभवत्पुत्रो नाम्ना शुक इतीरितः॥’ इति कौर्म एव (पूर्वभागे.32.11-12) ॥ 71-76 ॥ ॥ भारतस्यापि वैशम्पायनमिति ॥ मानुषेषु भारतस्यापि एकशतसहस्रस्य भारतस्य प्रवर्तने वैशम्पायनमादिशत् ॥ 77 ॥ ॥ गन्धर्वादिषु ॥ आदिशब्देन पितृमाणिभद्रादियक्षनिर्ऋत्यादिराक्षसाश्च ग्राह्याः । चशब्देनासितदेवतल्रायऋषी ग्राह्यौ । गन्धर्वेषु चतुर्दशसहस्रस्य भारतस्य प्रवर्तने आत्मजं शुकंआदिशत् । आदिशब्दगृहीतपित्रादिलोके पञ्चदशसहस्रस्य भारतस्य प्रवर्तने असितदेवलौ प्रादिशत् । पाठयित्वा त्रिंशच्छतं भारतं पाठयित्वा नारदं देवलोकप्रवर्तये आदिशत् । तथाचोक्तम्- ‘उत्पाद्य धृतराष्ट्रं च पाण्डुं विदुरमेव च । जगाम तपसा धीमान् पुनरेवाश्रमं प्रति ॥
तेषु जातेषु नृपेषु स्वगतिं परमां गतिम् । अब्रवीद्भारतं लोके मानुषेऽस्मिन्महानृषिः ॥ जनमेजयेन पृष्टस्सन् ब्राह्मणैश्च सहस्रशः ।(1.1.71-73) इदं शतसहस्र्रायं श्लोकानां पुण्यकर्मणाम् । उप्रायानैस्सह ज्ञेयं श्राव्यं भारतमुत्तमम् ॥ चतुर्विंशतिसाहस्रं चक्रे भारतसंहिताम् । उप्रायानैर्विना तावद्भारतं प्रोच्यते बुधैः । ततोऽप्यर्धशतं भूयः सङ्क्षेपं कृतवानृषिः ।(1.1.77-79)
षष्टिं शतसहस्राणि चकाराऽन्यां तु संहिताम् । त्रिंशच्छतसहस्रं च देवलोके प्रतिष्ठितम् ॥ पितृलोके पञ्चदशं गन्धर्वेषु चतुर्दश । एकं शतसहस्रं च मानुषेषु प्रतिष्ठितम् ॥ नारदोऽश्रावयद्देवान् असितो देवलः पितृन् । गन्धर्वयक्षरक्षांसि श्रावयामास वै शुकः ॥ अस्मिंस्तु मानुषे लोके वैशम्पायनमादिशत्॥ इत्यादिपर्वणि (1.1.122-127)॥ 78-83 ॥ ॥ ससृजे सोऽथ रोमाञ्चाद्रोमहर्षणम् ॥ सूतमसृजदित्यर्थः । तथाचोक्तम्- ‘तस्य ते सर्वरोमाणि वचसा हृषितानि यत् । द्वैपायनस्य भगवान् सूतो वै रोमहर्षणः ॥’ इति कौर्मे(पूर्वभागे.1.3-4)॥ 84 ॥ ॥ एवं ज्ञानमिति ॥ देवाः रुद्रादयः ॥ 84-86 ॥ ॥ इति श्रीमद्विद्याधीशतीर्थश्रीपादशिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारतातात्पर्यनिर्णयार्थप्रमाणसङ्ग्रहे दशमोऽध्यायः ॥ ॥ अथ एकादशोऽध्यायः ॥ ॥ शशा’पुत्रादिति ॥ शशो लोकच्छायैवा’ं लक्ष्म यस्य सः शशा’श्चन्द्रः । तस्य पुत्रो बुधः तस्मादित्यर्थः । तथाचोक्तम्- ‘लोकच्छायामयं लक्ष्म तवा’े शशसञ्ज्ञितम्’ इत्यादि हरिवंशे(1.45.5)। तथाच शशा’पुत्रादित्यारभ्य नहुष इत्यन्तेन ‘प्रथितः पञ्चमस्सोमयदोर्वंशकरस्मृतः’ इति आरण्यपर्ववचनाभिप्रायोऽपि सूचित इति ज्ञेयम् ॥ 1 ॥ ॥ यदुञ्चेति ॥ ननु देवयान्याः शुक्रपुत्रीत्वेन कथं क्षत्रपत्नीत्वं इत्यत उक्तम्- चेति ॥ विशेषार्थकतुशब्दार्थेन द्वितीयचशब्देन कचशापस्तत्र निमित्तमिति सूचयति तच्चोक्तम् । ‘ऋषिपुत्रो न ते कश्चिज्जातु पाणिं ग्रहीष्यति’ इत्यादिपर्वणि(71.19) । यद्वा देवयानीति नामग्रहणेन विप्रपुत्र्या अपि शापवशात् क्षत्रपत्नीत्वं उक्तमिति सूचयति ॥ 2 ॥ ॥ दत्तात्रयेनाम्नः प्रसादादिति ॥ तच्चोक्तम्- ‘एतद्बाहुद्वयं यत्ते मृधे मम कृतेऽनघ । शतानि दश बाहूनां भविष्यन्ति न संशयः ॥’ इति हरिवंशे (1.41.108) ॥ 3-6 ॥ ॥ पुत्रिकामिति ॥ पुत्रिकापुत्रत्वलक्षणमुच्यते । ‘अपुत्रेण मया कन्या दीयते तव भो वर । यस्यां तु जायते पुत्रः स मे पुत्रो भविष्यति ॥’ इति भारते । ‘वरदं स्तुहि बाह्लीकमिमं पार्थिवसत्तम । जायमानेन येनेयं अभवद्दारिता मही ॥’ इति सभापर्वणि ॥ 7-11 ॥ ॥ तत्प्रतीपाभिभूतिकृदिति ॥ तत्प्रतीपस्य तद्विरोधिनः शिनेस्तद्वंशजस्य चाभिभूतिकृत् पराभवकृदित्यर्थः । नतु तत्प्रतीपानां तद्विरोधिनां सर्वेषां तिरस्कारकृदित्यर्थः । तथात्वे ‘ससोमदत्तः सौमदत्तिर्विराटः पाञ्चालराजश्च जरासुतस्य । भयात् कृष्णं शरवर्षैरवर्षन् कारागृहे वासिता मागधेन॥’ इति षोडशाऽध्याये सोमदत्ततत्सुतभूरिश्रवसोः जरासन्धात्पराभवोक्तिविरोधात् । नच जरासन्धं विना तद्विरोधिनां सर्वेषां तिरस्कारकृदिति वाच्यम् । विनिगमकाभावात् । न चाऽस्मदुक्तार्थे मानाभावः । कर्णदुर्योधनादिभिरजेयस्य सात्यकेर्भूरिश्रवसः सकाशात्कथं पराजयोऽभूदिति धृतराष्ट्रेन पृष्टेन सञ्जयेन भूरिश्रवसः शिनितत्पुत्रपौत्रपराभवार्थं रुद्ववरादुत्पन्नत्वेन तत्सकाशात्सात्यकेः पराजयोऽभूदित्युक्तत्वात् । तथाचोक्तम्- ‘तदवस्थः कृतस्तेन सोमदत्तो(ऽथ मारिष) नरर्षभः । प्रसादयन्महादेवं अमर्षवशमास्थितः ॥ तस्य तुष्टो महादेवो वरदानां वरः प्रभुः । वरेण छन्दयामास स तु वव्रे वरं तदा ॥ भगवन्पुत्रमिच्छामि शिनेर्हन्तारमाहवे । मध्ये राजसहस्राणांं पदा हन्याच्च संयुगे ॥ तस्य तद्वचनं श्रुत्वा सोवदत्तस्य पार्थिव । एवमस्त्विति देवेशः तत्रैवान्तरधीयत ॥ स तेन वरदानेन लब्धवान् भूरिदक्षिणाम् । अपातयच्च समरे सौमदत्तिश्शिनेस्सुतम् ॥’ इति द्रोणपर्वणि (144.15-19)। ननु रुद्रवरापेक्षया कृष्णवरस्योत्तमत्वेन कृष्णवरतस्सात्यकेः भूरिश्रवसः सकाशात्कथं पराजय इति सत्यम् । कृष्णेन भूरिश्रवसं विनैव अजेयत्ववरदानादुपपत्तेः । तत्र मानं तु उत्तरत्र वक्ष्यते ॥ 12-13 ॥ ॥ घूर्णित इति ॥ ‘दशोत्तराणि पञ्चैव त्व्रुलानां शतानि वै । अपां वृद्धिक्षयौ दृष्टौ सामुद्रीणां महामुने ॥’ इति विष्णुपुराणे (2.4.91) ॥ 14 ॥ ॥ महाभिषगिति ॥ मम त्वया अभिषेकः(महाभिषेकः इति क्वचित्) कृत इत्युक्तत्वात् महाभिषगिति राजाऽभवत् । शान्तो भवेति च ब्रह्मणोक्तत्वात् शन्तनुश्चाऽऽसेति भावः ॥ 15-26 ॥ ॥ न मानुषीमिति ॥ मानुषी योनिं न चाप्नुमः । किन्तु गर्भमवाप्नुमः । देवतायोनौ जायेमेति भावः । ‘त्वमस्मान्मानुषी भूत्वा सूष्व पुत्रान् वसून् भुवि । न मानुषीणां जठरं प्रविशेम कथञ्चन ॥’ इत्यादिपर्वोक्तेः। (102.15-16) ॥ 27-29 ॥ ॥ पुरा प्रतीपस्येति ॥ पुरा शन्तनूत्पत्तेः पूर्वमित्यर्थः । ‘प्रतीपस्तु महाराजा सर्वभूतहिते रतः । निषसाद महाबाहुः ग्रातीरे जितेन्द्रियः॥’ इत्यादिना ग्राप्रतीपयोः संवादमुक्त्वा ‘तथेत्युक्त्वा तु सा राजन् तत्रैवान्तरधीयत’ इत्यादिना मध्ये ग्रायाः अन्तर्धानमुक्त्वा ‘पुत्रजन्मप्रतीक्षंश्च स राजा तदधारयत् । एतस्मिन्नेव काले तु प्रतीपः क्षत्रियर्षभः ॥ तपस्तेपे सुतस्यार्थे सभार्यः कुरुनन्दन । प्रतीपस्य तु भार्यायां गर्भश्श्रीमानवर्धत ॥’ इत्यादिना शन्तनूत्पत्तिमुक्त्वा तदनन्तरं ‘प्रतीपश्शन्तनुं पुत्रं यौवनस्थमबोधयत् । पुरा मां स्त्री समभ्यागात् शन्तनो भूतये तव॥’ इत्यादिना ‘स राजा रतिसक्तोभूत्’ इत्यन्तेन द्विनवतितमाध्याये (आदि.103-104अ) शन्तनूत्पत्तितः प्रागेव ग्रायाः प्रतीपदक्षिणोेर्ववस्थानकथनात् ॥ 30-33 ॥ ॥ तथैव पुत्रायेति ॥ तेन प्रतीपेन कनीयसे पुत्राय शन्तनवे वधूक्तं ग्रायोक्तं तद्वच उक्त इत्यन्वयः । किमर्थं प्रत्युक्तमित्यत आह- वचनादिति ॥ द्युनद्याः ग्रायाः त्वत्पुत्रं प्रति मद्वाक्यं वदेत्येवं रूपाद्वचनादित्यर्थः ॥ साह्यवददिति ॥ भाविकार्यं सर्वं ज्ञात्वा ग्रायास्तव कनीयान्पुत्रश्शन्तनुरेव मया वृत इत्याद्युक्तम् । नतु तदा शन्तनुरुत्पन्नः । एतत्सर्वमप्यादिपर्वणि द्रष्टव्यमिति भावः ॥ 34-35 ॥ ॥ अत एवेति ॥ पितावदत्सर्वमिति वक्ष्यते । सर्वं भूतं भवत् भविष्यच्चेत्यर्थः ॥ 36-46 ॥ ॥ ग्रामतोयामिति ॥ अतोयामल्पजलामित्यर्थः । तथाचोक्तम्- ‘भागीरथीमल्पजलां ददर्श सरितान्धरः । स्पन्दते किन्त्वियं नाथ सरित्श्रेष्ठा यथा पुरा ॥’ इत्यादिपर्वणि (107.24-25)। अल्पस्वे निस्वप्रयोगात् अल्पजलविवक्षया अतोयामित्युक्तिस्सम्भवतीति ध्येयम् । यत्तु ‘अतोयां न विद्यते उदकं यस्यां सा ताम्’ इति वरदराजीयव्य्रायानं तन्न । उक्तमानविरोधात् ॥ 47-50 ॥ ॥ रामात्तथेति ॥ ‘सपञ्चविंशत्पुनरब्दकानां अस्त्राणि’ इति पूर्वोक्तप्रकारेण यथा पूर्वं पञ्चविंशत्यब्दपर्यन्तं अस्त्राणि तावद्भिरब्दैः पञ्चविंशतिसं्रयाकैरित्यर्थः । यत्तु ‘पुनरपि रामाद्भार्गवरामात्तावद्भिः पञ्चाशदब्दैः’ इति वरदराजीयव्य्रायानं तन्न । महाभारतविरोधापत्तेः । तत्र हि भीष्मस्य पञ्चाशदब्दानां अस्त्राभ्यासकालत्वेनोक्तेः । एवं व्य्रायाने पञ्चविंशत्यब्दानां आधिक्यलाभेन तद्विरोधो सुस्थिरः स्यात् ॥ 52-55 ॥ ॥ हरेः प्राप्तुं तथा तारेति ॥ तारायाः हर्य्रत्वमश्वत्थामार्थं गवार्थं द्रोणप्रेरणादिनेति मन्तव्यम् ॥ 56-62 ॥ ॥ द्रोणे दधारेति ॥ द्रोणे कलशे । तथाचोक्तम्- ‘आचार्यः कलशाज्जातो द्रोणश्शस्त्रभृतां वर’ इति आदिपर्वणि (147.15)। एतेन ‘द्रोणे पत्रपुटे’ इति व्य्रायानं निरस्तं वेदितव्यम् ॥ 63-70 ॥ ॥ या पूर्वसर्ग इति ॥ पूर्वसर्गे पूर्वजन्मनि । ननु पितृकन्यकायाः वसुराजस्य सकाशात् मत्स्ययोन्युत्पत्तौ किं कारणं इत्याश’ापरिहारस्तु ‘त्वया न दृष्टपूर्वास्तु पितरः ते कदाचन । पितरो दिवि वर्तन्ते देवास्तान्वरवर्णिनि ॥ सा दृष्ट्वा पितरं वव्रे वसुं नामान्तरिक्षगम् । अमावसुरिति ‘यातं आयोः पुत्रं यशस्विनम् ॥ अद्रिकाऽप्सरसायुक्तं विमानेऽधिष्ठितं दिवि । सा तेन व्यभिचारेण मनसः कामरूपिणी ॥ पितरं प्रार्थयित्वाऽन्यं योगभ्रष्टा पपात ह । त्रीण्यपश्यद्विमानानि पतमाना दिवश्च्युुता ॥ त्रसरेणुप्रमाणानि नाऽपश्यत्तेषु तान् पितृन् । सुसूक्ष्मानपरित्यक्तान् अग्निष्वग्नीनिवाहितान् ॥ त्रायध्वमित्युवाचार्ता पतन्ती तानवाक्शिराः । तैरुक्ता सा तु मा भैषीरिति व्योम्नि व्यवस्थिता ॥ ततः प्रसादयामास स्वान् पितृन् दीनया गिरा । ऊचुस्ते पितरः कन्यां भ्रष्टैश्वर्यां व्यतिक्रमात् ॥ भ्रष्टैश्वर्या स्वदोषेण पतसि त्वं शुचिस्मिते । यैः क्रियन्ते हि कर्माणि भोक्ष्यते प्राप्य मानुषम् ॥ तस्मात्त्वं तपसः पुत्री प्रेत्येह प्राप्स्यसे फलम् । इत्युक्त्वा पितृभिस्सातु पितृन् स्वान् सम्प्रसादयन् ॥ ध्यात्वा प्रसादं वै चक्रुः तस्यास्सर्वेऽनुकम्पया । अवश्यं भाविनं ज्ञात्वा तेऽर्थमूचुस्ततस्तुताम् ॥ अस्य राज्ञो वसोः कन्या त्वमपत्यं भविष्यसीति । कन्यैव भूत्वा लोकान् स्वान् पुनराप्स्यसि दुर्लभान् ॥ मत्स्ययोनौ समुत्पन्ना शुभा राज्ञो भविष्यसि । स वेदमेकं ब्रह्मर्षिः चतुर्योवै करिष्यति ॥ महाभिषक्सुतौ द्वौ च शन्तनोः कीर्तिवर्धनौ । विचित्रवीर्यं धर्मज्ञं तथाचित्र्रादं नृपम् ॥ व्यतिक्रमात्पितृणां च जन्म प्राप्स्यसि कुत्सितम् । तस्यैव राज्ञस्तं कन्या अद्रिकायां भविष्यसि ॥ अद्रिका मत्स्यभूता सा ग्रायमुनस्रमे । अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥’ इत्यादि हरिवंशवाक्येन कर्तव्यः(1.18.29-44)॥ 71-76 ॥ ॥ ज्ञात्वा तु तामिति ॥ तुशब्देनायं जानातीत्यत्र प्रमाणविशेषं सूचयति । तच्चोक्तम्- ‘चेदिराजसुतां कन्यां ज्ञ्रात्वा दाशराजेन पोषिताम्’ (108.1) इत्यादिपर्वणि । चेदिराजो वसुरित्यर्थः ॥ 77 ॥ ॥ जग्राह सद्धर्मरतस्त्विति ॥ अनेन तस्या पूर्वं नदीरूपत्वेन तद्ग्रहणे न दोषस्तस्यैवेति सूचयति । तच्चोक्तम् - ‘एतेषां मानसी कन्या अच्छोदा नाम निम्नगा । अच्छोदं नाम तद्दिव्यं सरो यस्याः समुत्थितम् ॥’ इति हरिवंशे (1.18.27)। शन्तनोर्वरुणत्वेन नदीपत्वाच्च । तस्य तद्ग्रहणं सतां ज्ञानिनां मनः पापमार्गे नैवाभिगच्छेत् । क्वचिद्गच्छतीत्यर्थः । ‘निषिद्धं मनसा कल्प्य भीतो विहितमाचरेत् । अज्ञो ज्ञस्य स’ल्पः स्वभावाद्विहितानुगः ॥ शरीरधर्मिणः क्वापि निषिद्धोपि मनो व्रजेत् । तथापि तस्य नानर्थो मोक्षे नैवान्यथा व्रजेत्॥’ इति वचनात् ॥ 78-89 ॥ ॥ भीष्ममापेति ॥ षड्वर्षाणि तमन्वगाच्चेति द्रष्टव्यम् । ‘एवमन्वगमद्भीष्मं षट्समा पुष्करेक्षणा’ इत्यादिपर्वणि (109.86) ॥ 90-95 ॥ ॥ दुष्करं तप इति ॥ भीष्मस्य निधनार्थाय पुंस्त्वार्थं च सा अम्बा शा’रं तपश्चचार । द्वादशवर्षाणि चचार हीत्यनेन सूचयति । ‘सा ततो द्वादश समा बाहुदामभितो नदीम्’ इत्यादिपर्वणि ( 109.94 )॥ 96-106 ॥ ॥ इति मत्वा वनायेति ॥ यत्र यस्मिन्वने तुम्बुरुरस्ति तस्मै वनायेत्यन्वयः ॥ ययौ यत्र च तुम्बुरुरिति ॥ नन्वादिपर्वण्येव (64.167) ‘शिखण्डी द्रुपदाज्जज्ञे कन्यापुत्रत्वमागता । यां यक्षः पुरुषं चक्रे स्थूणप्रियचिकीर्षया ॥’ इति तथैव उद्योगपर्वणि पञ्चनवतितमाध्याये (191.20)्रयक्षेणार्द्धिमता राजन् स्थूणाकर्णेन पालितम्’ इत्यादिना स्थूणाकर्णाच्छिखण्डिन्याः पुंस्त्वप्राप्तिकथनात् ययौ यत्र च तुम्बुरुरिति कथमुच्यत इत्यत आह- स्थूणाकर्णाभिधेय इति ॥ तथाचादिपर्वण्येव- ‘तत्र गन्धर्वराजानं तुम्बुरंं प्रियदर्शनम् । आराधयितुमीहस्व साम्नैव परिबोधितम् ॥’(समय्क्परिचरस्व तम् ) इति(110.25) पुंस्त्वप्राप्त्यर्थं तुम्बुर्वाराधनविधानात् । अत्रस्थूणाकर्णशब्देन तुम्बुरेव विवक्षित इति भावः। ननु तुम्बुरोः स्थूणाकर्णाऽभिधेयत्वं कथमित्यत आह- दृढकर्णत इति॥ दृढकर्णत्वलक्षणासाधारणधर्मेण तुम्बुरोरेव स्थूणाकर्णाभिधेयत्वमिति भावः । एतेन ‘स्थूणाकर्णाभिधेयस्तुम्बुरुः दृढकर्णतः दृढकर्ण्रायात् स्वभृत्यादखिलं वृत्तान्तं श्रुत्वा कृपां चक्रे’ इति व्य्रायानं निरस्तं वेदितव्यम् ॥ 107-108 ॥ ॥ पुंसां स्त्रीत्वमिति ॥ पुंसां स्त्रीत्वं क्वापि पापतः कामतो वा भवेत् । पापतस्सुद्युम्नस्य इलात्वं कामतोऽग्निपुत्राणामप्सरत्वं यथेति द्रष्टव्यम् । स्त्रीणां स्वभावतः स्त्रीणामेव बलवत्कारणैरपि वरादिबलवत्कारणैरपीत्यर्थः । पुंस्त्वं न स्यादित्यर्थः । अन्यथा इलायाः सुद्युम्नत्वदर्शनेन अस्रात्याापत्तेरिति ध्येयम् । तथाचोक्तम्- ‘यान्ति स्त्रीत्वं पुमांसोऽपि पापतः कामतोऽपि वा । न स्त्रियो यान्ति पुंस्त्वं तु स्वभावादेव या स्त्रिय ॥’ (गी.ता.) इति भविष्यत्पर्वणि ॥ 109-110 ॥ ॥ नास्या देह इति ॥ अस्याः शिखण्डिन्याः देहः पुंस्त्वं नाप । पुंसानधिष्ठितदेहे सा शिखण्डिनी न न्यवसत् । किन्तु पुंसाधिष्ठितदेह एव न्यवसदित्यर्थः । स्त्रीणां वरदानादिना पुन्देहवासेऽपि तज्जन्मन्येव पुन्देहवासः । नतु जन्मान्तरेऽपीति विशिष्यद्योतकतुशब्दार्थश्चकारः । तथाचोक्तम्- ‘पुंसा सहैव पुन्देहे स्थितिः स्याद्वरदानतः । तज्जन्मनि वरा पापजातिभ्यो निजसस्त्रियः ॥ सर्वेषामपि जीवानां अन्त्यदेहो यथा निजः । मुक्तौ तु निजभावस्स्यात् कर्मभोगान्ततोऽपि च ॥’ (गी.ता.6)इति भविष्यत्पर्वणि ॥ 111-113 ॥ ॥ तन्तुषु लीयमानम् ॥ तन्तुषु तृणविशेषेषु लीयमानं उपगूहमानं ‘तन्तुस्तम्बे तथोर्णायां सूत्रे सङ्घे च सन्ततौ’ इत्यभिधानम् ॥ 114-125 ॥ ॥ सा तु भयान्यमीलयदिति ॥ तुशब्देन भयहेतुं सूचयति । तदुक्तम्- ‘तस्य दीप्तस्य कपिलजटादीप्तविलोचने । श्मश्रुशोचिस्फुल्रिानि दृष्ट्वा देवी न्यमीलयत्॥’ इत्यादिपर्वणि (115.8)॥ 126-140 ॥ ॥ शकुनेर्द्वापरस्येति ॥ द्वापरस्य द्वापर्रायदैत्यांशस्य शकुनेरित्यर्थः । तथाचोक्तम्- ‘द्वापरं शकुनिः प्राप धृष्टद्युम्नस्तु पावकम्’ इति स्वर्गारोहणपर्वणि (5.20)। ‘शकुनिर्नाम यस्त्वासीद्राजस्वेको महायशाः । द्वापरं विद्धि तं राजन् सम्भूतमरिमर्दनम् ॥’ इत्यादिपर्वणि (68.78)। केचित्तु ‘द्वापरस्संशयः तदभिमानिन इत्यर्थः’ इति व्याचक्षते ॥ 141 ॥ ॥ समाह्वयदिति ॥ ‘अन्तर्हर्म्यतलस्थाहं रविमुद्यतमीक्षती । संस्मृत्य तदृषेर्वाक्यं स्पृहयन्ती दिवाकरम्॥’ इत्यादिपर्वणि (वन.307.4) ॥ सुवाक्प्रयत्नतोऽपीति ॥ स भास्करः द्वितीयरूपकस्सन् एकं रूपं गगने स्थापयित्वा एकेन रूपेण भूमावागत्य तां कुन्तीं आससादेत्यर्थः । कुन्ती गर्भं च दधार ॥ 148 ॥ अथ तदनन्तरं कालान्तरे स सूर्यः तत्र जग्मिवानित्यन्वयः । तथाचोक्तम्- ‘सा बान्धवभयाद्भीता तं गर्भं विनिगूहितम् । धारयामास सुश्रोणी नचैतां बुबुधे जनः ॥ ततः कालेन सा गर्भं सुषुवे वरवर्णिनी ॥’ इत्यादिपर्वणि (वनपर्व.309.2-4)। स गर्भो धात्रीं मातरं च विनाऽन्यैर्नज्ञातं इति द्रष्टव्यम् । ‘सा चाद्यवचनाद्बाल गर्भं तं विनिगूहती । धारयामास सुश्रोणी न चैतां बुबुधे जनः । न हि तां वेद नार्यन्या काचिद्धात्रेयिकामृते ॥’ इत्यादिपर्वणि(वन.309.2-3) ॥ 149 ॥ ॥ सरत्नपूर्णमञ्जूषेति ॥ तया कुन्त्या जनापवादभीतितः रत्नपूर्णमञ्जूषागतस्सन् जले अश्वनदी जले विसर्जितः । तदनन्तरं अश्वनद्या चर्मण्वतीं प्राप्तः ततो यमुनां प्राप्तः ततो यमुनायास्सकाशान्नदीप्रवाहतः ग्राप्रवाहतः गतं गच्छन्तं सूतनन्दनो ददर्शेत्यन्वयः । तथाचोक्तम्- ‘मञ्जूषा त्वश्वनद्यास्सा ययौ चर्मण्वतीं नदीम् । चर्मण्वत्याश्च यमुनां ततो ग्रां जगाम ह ॥ ग्रायास्सूतविषयं चम्पामभ्यगमत्पुरीम्॥’ इत्यरण्यपर्वणि (309.26-27) । अत एव एतावदर्थसूचनाय नदीप्रवाहत इति सामान्यत उक्तं आचार्यैः ॥ 153 ॥ ॥ ददर्श सूतनन्दन इति ॥ ‘एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा । सूतोऽधिरथ इत्येव सदारो जोवीं ययौ ॥’ इति च (वन.310.1) । एतेन कर्णस्य दुर्योधनस्रये निमित्तं च सूचितं इति वेदितव्यम् । केचित्तु ‘यमस्वसुर्जले विसर्जित’ इति व्याचक्षते । तच्चिन्त्यम् । उक्तमानविरोधात् ॥ 154-169 ॥ ॥ विध्वा शापमिति ॥ ननु ब्रह्महननेन पाण्डोबर््रह्महत्या न किं । नैव । कुतः तद्वरात् । तत्र किं मानम्। ‘न हि ते ब्रह्महत्येयं भविष्यत्यविजानतः । मृगरूपधरं हत्वा मां द्विजं काममोहितम् ॥’ इत्यादिपर्ववाक्यमेव (123.36-37) । किन्दम्रायऋषिर्मनुष्यस्य दिवामैथुनं निषिद्धमिति मत्वा हरिणरूपं धृत्वा रेम इति भावः॥ 170-172 ॥ ॥ आक्रमं चासहन्त्येति ॥ ननु जगद्ध्रात्र्याः भूम्याः दैत्यभारः कियान् अतः किमर्थं दैत्यभारं न सेह इत्यतः तेषां स्वपतिनारायणनिन्दकत्वात् तद्भारं न सेहे । पतिव्रतास्त्रीणां स्वपतिनिन्दकानामतिभारत्वात् । ‘तथाहि लोके पतिनिन्दकेभ्यः पतिव्रतानामपरः क्व भारः’ इति वचनात् इति (रुक्मिणीशविजय.1.) विशेषार्थतुशब्दार्थश्चकारः ॥ 173-175 ॥ ॥ आसीत्पुरेति ॥ पुरा कृतेऽतीते सतीत्यर्थः । स्र्र्रामः तारकामयरण इत्यर्थः । तथाचोक्तं कृष्णावतारप्रस्रे ‘वृत्ते वृत्रवधेऽतीव वर्तमाने कृते युगे । आसीत् त्रैलोक्यव्रियातः स्र्रामस्तारकामयः॥’ इति हरिवंशे (1.42.10)॥ 176 ॥ ॥ बहुनल्वपरिप्रमाण इति ॥ किष्कुचतुश्शतं नल्व इत्यर्थः । किष्कुस्तु वितस्तिरित्यर्थः । हस्त इति वा । ‘किष्कुर्हस्ते वितस्तौ च’ इत्यभिधानम् । ‘चतुर्विंश्राुलं किष्कुः नल्वः किष्कुचतुश्शतम्’ इत्यभिधानम् ॥ 177-202 ॥ ॥ त्वया जनयित्वैव भूमाविति ॥ भूमौ जनयितव्यान् उर्वरितान् कल्यादीन् असुरान् जनयित्वा त्वया मार्गाच्चाल्या इत्यन्वयः ॥ 203-204 ॥ ॥ हतौ च यौ रावणकुम्भकर्णाविति ॥ रावणकुम्भकर्णजन्मवन्तावित्यर्थः । महासुरावेशयुतावित्यनेन रावणकुम्भकर्णदेहौ जयविजयकर्मनिर्मितौ जयविजयभोग्यावेव । परन्तु रावणकुम्भकर्ण्रायावसुरौ तत्राविष्टौ तौ देहौ न तदीयौ । अन्यथा पिशाचाविष्टपुरुषदेहोऽपि पिशाचकर्मनिमित्तस्तदीयश्च स्यात् । एवं हिरण्याक्षहिरण्यकशिपुशिशुपालादावपि द्रष्टव्यं इति सूचयति ॥ 205-218 ॥ ॥ वसुदेव इत्यपीति ॥ अपिशब्देनानकदुन्दुभिरित्यप्याहुरिति बोध्यम् ॥ 219-220 ॥ ॥ शूरतातसुतस्येति ॥ शूरपितुः पुत्रः शूर एव तस्येत्यर्थः ॥ 221-223 ॥ ॥ वित्तेश्वर इति ॥ वित्तेश्वरः कुबेरः पूर्वं देवानामवतारात्प्रागेव भौमादभूदित्यन्वयः । स भौमः कः इत्यत आह- असुरादिति ॥ ननु नरकस्य वराहसुतत्वेन कथमसुरत्वमित्यत आह- हरेरिति॥ हरेस्सुतत्वेऽपि असुरात् भौमादित्यन्वयः। नन्वेतादृशासुरात् नरकात् कुबेरः किमर्थमुत्पन्न इत्यत आह- तदिच्छयेति ॥ हरेरिच्छयेत्यर्थः। वेद्रातीर्थस्तु ‘वित्तेश्वरःपूर्वं हरेस्सुतत्वेऽपि तदिच्छया भगवदिच्छया भौमादसुरात्’ इत्याचक्षते । तन्न । कुबेरस्य हरिसुतत्वे मानाभावात् । इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे एकादशोऽध्यायः।

॥ अथ द्वादशोऽध्यायः ॥ गन्धर्वमुनिः गन्धर्वश्रेष्ठः । तथाचोक्तम्- ‘यस्त्वासीद्देवको नाम देवराजसमद्युतिः । स गन्धर्वपतिः श्रेष्ठः क्षितौ जज्ञे नराधिप ॥’ इत्यादिपर्वणि (68.68)। मुनिशब्दस्य श्रेष्ठेऽपि प्रयोगसद्भावादेवं वचनं युक्तम् । वेद्रातीर्थास्तु ‘गन्धर्वमुनिः गन्धर्वऋषिः’ इति व्याकृतवन्तः । तच्चिन्त्यम् । गन्धर्वमध्ये ऋष्यभावात् । भावे वा एतस्य उक्तमाने राजत्वस्योक्तत्वादिति ॥ 1-5 ॥ ॥ बाह्लीकपुत्री च पुरा गृहीतेति ॥ पुरा देवकीतदवरजाविवाहात्पूर्वमित्यर्थः । नतु काशिराजकरवीरराजपुत्रीविवाहात्पूर्वमिति । भागवतादौ रोहिणीविवाहात्पूर्वमेव तद्विवाहस्योक्तत्वात् तद्विरोधापत्तेरिति ध्येयम् । तथाचोक्तम्- ‘ज्येष्ठपत्नी महाराज दयितानकदुन्दुभेः । लेभे ज्येष्ठं सुतं रामं सारणं शठमेव च॥’ इति हरिवंशे (1.35.4-5)॥ 6-8 ॥ ॥ धुन्धुर्हत इति ॥ हरिणा कुवलयाश्वराजप्रविष्टेण हरिणा तथाहि- (वन.207.8-9) ‘मधुकैटभयोः पुत्रो धुन्धुर्भीमपराक्रमः । शेते लोकविनाशाय तपोबलमुपाश्रितः॥’ इत्यादिना धुन्धुसामर्थ्यमुक्त्वा तद्वधार्थं ‘एतस्मिन्नेव काले तु सभृत्यबलवाहनः । कुवलाश्वक्षितिपतिरन्वितो बलशालिनाम् ॥’ (वन.207.10) इत्यादिना कुवलयाश्वः प्रययौ इत्युक्ता । ननु ब्रह्मवराद्देवदानवगन्धर्वरक्षोभिरवध्यस्य धुन्धोर्वधार्थं कुवलाश्वस्य कथं प्रयत्नो घटते इत्याश’ायां ‘तमाविशत्ततो विष्णुः भगवान् तेजसां प्रभुः । उद’स्य नियोगेन लोकानां हितकाम्यया॥’ इत्याद्यारण्यपर्वणि (207.12) कुवलाश्वप्रविष्टेन हरिणा धुन्धुवधोक्तेः॥ 9-13 ॥ ॥ दुर्गा तदा तानिति ॥ तथाचोक्तम्- ‘योगनिद्रा महामाया वैष्णवी मोहितं यया । अविद्यया जगत्सर्वं तामाह भगवान् हरिः ॥ निद्रे गच्छ महादैत्यान् पातालतलसंश्रयान् । एकैकत्वेन षड्गर्भान् देवकीजठरं नय ॥ विष्णुप्रयुक्ता तान्निद्रा क्रमाद्गर्भानयोजयत् ॥’ इति विष्णुपुराणे(5.1.71-72)॥ 14-17 ॥ ननु सन्तानेनैव सद्गतिरिति किं सर्वेषां नियतं उत एकस्यैवेत्यत आह- अतोऽन्यथेति ॥ अतः सन्तानेनैव सद्गतिरिति नियमवत्पुरुषादन्यथा ऋते इत्यर्थः। सन्तानेनैव सद्गतिरिति नियमवत्पुरुषं विहायेति यावत् । नरास्सन्तो मनुष्याः सद्गतिं व्रजन्ति गच्छन्तीत्यर्थः । ननु सन्तानं विनापि साधनान्तरैः केषां सद्गतिर्दृष्टेत्यत आह- अतोऽन्यथेति ॥ यद्वा एवं योजना ऋतशब्दोऽत्रावृत्त्याऽन्वेतव्यः । अतो नियमवत्पुरुषात् ऋते सुतानृतेऽपि अन्यथा साधनान्तरैरेव नरास्सज्जनाः सद्गतिं व्रजन्ति । तत्र दृष्टान्तः- यथेति ॥ 18-23 ॥ ॥ न काचिदस्ति निष्कृतिरिति ॥ किञ्चिदपि प्रायश्चित्तं नास्तीत्यर्थः ॥ 24 ॥ ॥ कृते पुरेति ॥ कृते युगे पुरा आदिभागे । अन्यथा पुराशब्दस्य वैय्यर्थ्यात् । कृतान्तमाप्य चेत्युत्तरवाक्यविरोधापत्तेश्च । कृतशब्देन तदन्तस्यापि ग्रहणसम्भवात् कृतयुगान्त्यभागमित्यर्थः ॥ 25-34 ॥ ॥ घटेषु तान्विभागश इति ॥ तान् मांसपेशान्रुष्ठमानपूर्वकान् । शतात्मना एकाधिकशतत्वेन विगागशः विभागं कृत्वा घटेषु न्यधादित्यन्वयः । तदुक्तम्- ‘एकाधिकशतं पूर्णं यथायोगविशेषतः । मांसपेशांस्ततो राजन् ॥’ इत्यादिपर्वणि (129.37-38) । स इन्द्रजित्समुत्थितः इत्यादि । तथाचोक्तम्- ‘पौलस्त्या भ्रातरश्चास्य जज्ञिरे मनुजेष्विह । शतं दुर्योधनादीनां सर्वेषां क्रूरकर्मणाम् ॥ दुर्योधनो युयुत्सुश्च राजा दुःशासनस्तथा ॥’ इत्यादिपर्वणि (68.89-90)। ननु शतात्मना विभजने किं निमित्तमित्यतः ‘यदि मे सहते गन्धं रूपं वेषं तथा वयः । अद्यैव गर्भं कौसल्या विशिष्टं प्रतिपद्यते ॥ तस्य चापि शतं पुत्रा भवितारो न संशयः॥’ इति व्यासेन धृतराष्ट्रस्य शतं पुत्रा भविष्यन्तीत्युदितत्वेन (आदि.114.68-69)तद्वाक्यस्य सत्यत्वकरणाय शतात्माना विभागः कृत इति भावः ॥ 35 ॥ ॥ शतोत्तरा चेति ॥ ननु शतपुत्रोत्पादानानन्तरं दुश्शला कथमभूदिति शतपुत्रमात्रं प्रत्येव वरसद्भावादित्यतः शतभागकरणानन्तरं देवस्य नारायणस्येच्छयैव एको भाग उर्वरितः कृतः । तथा भगवता कन्या भविष्यतीत्युक्तत्वाच्च ततः सा जज्ञे । ‘अभवच्चापरं खण्डं वामहस्ते तथा किल । दैवयोगादयं भाग एको दृष्टः शतात्परः ॥ एषा ते सुभगा कन्या भविष्यति यथेप्सिता ॥’ इत्यादिपर्ववचनादिति भावः (130.16-18)॥ 36-48 ॥ ॥ स चाम्बिकेयेति ॥ वैश्यकन्याग्रहणे किन्निमित्तमित्यतः ‘संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् । अप्रजा धारयामास ततस्तां दुःखमाप्नुयात् ॥’ इत्यादिपर्ववचनाच्च (129.25)गान्धार्या वर्षद्वयपर्यन्तं गर्भस्य धृतत्वेन तस्या रमणानर्हत्वात् वैश्यकन्यारमणं कृतम् । तेन युयुत्सुरुत्पन्नः। ‘तां भार्यां क्लिश्यमानां च वर्धमाने तथोदरे । वैश्या सात्वम्बिकापुत्रं कन्या परिचचार ह ॥ तया समभवद्राजा धृतराष्ट्रो यदृच्छया । तस्यामजनयत्पुत्रं युयुत्सुं नाम भारत ॥’ इत्यादिपर्ववचनादिति (129.85-86) विशेषार्थतुशब्दार्थश्चकारः ॥ 49-52 ॥ ॥ संस्पर्शमात्रादभवदिति ॥ ननु संस्पर्शमात्रेण कथं वायुसुतोऽभूत् । रमणादिकमन्तरेण देवानां पञ्चधा सर्जनशक्तिमत्वेन स्पर्शमात्रेणाऽपत्योत्पादनोपपत्तेः । ‘सन्ति देवनिकायाश्च स’ल्पाज्जनयन्ति ये । वाचा दृष्ट्या तथा स्पर्शात्स्रर्षणेति पञ्चधा ॥’ इति भारतवचनादिति बोध्यम् ॥ 53-56 ॥ ॥ तदैव शेष इति ॥ तदैव यदा भीमसेनो मासद्वितयी सन्नभ्यवर्धत तदैवेत्यर्थः । पृथिव्यां जात इति व्यवहितान्वय इति बोध्यम् । केचित्तु ‘तदा भीमसेनोत्पत्तिसमय एव हरिणोदितश्शेषो देवकीगर्भं विवेश । तत्र मासत्रयमुषित्वा दुर्गया रोहिणीगर्भं प्रापितः सन् ततस्सप्तमासाऽनन्तरं भूम्यां जात’ इति व्याचक्षते । तन्न । ‘भीमसेनस्सुधीरः । यदा मास द्वितयी बभूव तदा रोहिण्यां बलदेवोऽभिजातः’ इत्युत्तरग्रन्थविरोधात् । ‘कृष्णात्स’र्षणो ज्येष्ठस्त्रिभिर्मासैर्महाबलः । रामाद्वृकोदरो ज्येष्ठस्त्रिभिर्मासैर्महाबलः॥’ (्रअर्जुनात् केशवो ज्येष्ठः त्रिभिर्मासैर्महाद्युतिः। कृष्णात्स’र्षणो ज्येष्ठः त्रिभिर्मासैर्महाबलः॥’ इत्यधुनिकः पाठः। ) (134.9)इत्यादिपर्वविरोधाच्च । न च ‘यदा स मासद्वितयी बभूव’ इत्यस्य ‘रामाद्वृकोदरो ज्येष्ठ’ इत्यनेन विरोध इति वाच्यम् । ‘मासद्वितयी बभूव’ इति मासद्वयस्य भूतत्वोक्त्या तृतीयमासवृत्तस्यापि ‘यदा स मासद्वितयी’ इत्यस्याभिप्रेतत्वेन विरोधाभावात् । ‘रामाद्वृकोदरो ज्येष्ठष्षड्भिर्मासैर्महाबलः’ इति पाठे तु ‘पक्षा वै मासा’ इति न्यायेन मासशब्देन पक्षग्रहणे विरोधाभावात् । एवञ्च दशमासाधिक्यप्राप्तेः॥॥ ॥ देवीमुवासात्रेति ॥ सार्धान् मासार्धसहितान् सप्तमासान् देवीमुवास ततः देवक्याः सकाशादष्टमे मासि आविरभूदित्यन्वयः। तथाचोक्तम्- ‘गर्भकाले त्वसम्पूर्णे अष्टमे मासि ते स्त्रियौ। देवकी च यशोदा च सुषुवाते समं तदा॥’ इति हरिवंशे(2.4.11)। अष्टमे मासि असम्पूर्ण एव इत्यन्वयः। तेन सार्धान् सप्तमासान् इत्युक्तमिति बोध्यम् । तेन ‘मासाद्वै पुष्यमासान्’ इति युक्तमिति बोध्यम् । ‘मासान्वै पुष्यमासादीन्’ इत्यादि च ॥ 57-66 ॥ ॥ तदैव जाता चेति ॥ तथाचोक्तम्- ‘तस्मिन्काले यशोदापि मोहिता योगनिद्रया । तामेव कन्यां मैत्रेय प्रसूता मोहितो जनः॥ ’ इति विष्णुपुराणे (5.3.20) । अनेन कृष्णं यशोदायास्समीपे प्रक्षिप्य वसुदेवेन दुर्गानयने यशोदया तत्कार्यं किं विज्ञातं न वेति चोद्यं परिहृतं वेदितव्यम् ॥ ततस्तमादायेति ॥ ननु तत्समये द्वारपालकादीनां सत्वेन तथा मार्गे यमुनायाश्च सत्वेन कथं नन्दगृगं कृष्णं प्रापयामासेति चोद्यम्- ‘वसुदेवोऽपि तं रात्रौ आदाय प्रययौ बहिः । मोहिताश्चाऽभवंस्तत्र रक्षिणो योगनिद्रया ॥ मधुरा द्वारपालाश्च व्रजत्यानकदुन्दुभौ । वर्षतां जलदानां च तोयमत्युल्बणं निशि ॥ संवृत्याऽनुययौ शेषः फणैरानकदुन्दुभिः । यमुनां चाति गम्भीरां नानावर्तशताकुलाम् ॥ वसुदेवोऽवहन्विष्णुं जानुमात्रवहां ययौ । कंसस्य करदानाय तत्रैवाऽभ्यागतान् तटे ॥ नन्दादिगोपवृद्धांश्च यमुनायां ददर्श स ॥’ इति विष्णुपुराणवाक्येन (5.3.15-19)। ‘सा पुरी मधुरा सर्वा मोहिता हरिमायया’ इत्यादि हरिवंशवाक्येन () च परिहर्तव्यम् ॥ 67-71 ॥ ॥ बालरूपैवेति ॥ तद्गृहे ववृधे चेत्यपि ग्राह्यम् । ‘सा कन्या ववृधे तत्र वृष्णिस्रसुपूजिता’ इत्यादि हरिवंशे । (2.4.46) दुर्गा न केवलं मधुरायामेव तिष्ठति । द्वारकायामपि स्थितेति विशेषः प्रस्रादुक्ता इति ज्ञातव्यम्। तथाचोक्तम्- ‘तथैव रामोऽतिबलं सम्परिष्वज्य भागिनीम् । मूर्ध्न्युपाघ्राय सत्वेन परिष्वज्य च पाणिना । ददृशुश्च तयोर्मध्ये भगिनीं रामकृष्णयोः॥’ इत्यादि हरिवंशे (2.101.17-18)॥ 72-84 ॥ ॥ तया प्रदत्तं स्तनमिति ॥ विषदिग्धमिति शेषः । तथाचोक्तम्- ‘राक्षसी निहता रौद्रा शकुनी वेषधारिणी । पूतना नाम घोरा सा महाकाया महाबला ॥ विषदिग्धं स्तनं क्षुद्रा प्रयच्छन्ती जनार्दने ॥’ इति च ।(2.101.31-32) ‘स पूतनोच्चस्तनकुम्भचुम्बिमुखारविन्दो हरिराबभाषे ।
विषं बहिस्थं प्रवरान्तर्रे सुपूरयंस्तन्मुखवर्त्मनैव॥’ इति ॥ 85-99 ॥ ॥ बृहस्पतिः पूर्वमिति ॥ पूर्वं सात्यक्यादियादवोत्पत्तेः युधिष्ठिराद्युत्पत्तेश्च पूर्वं बृहस्पतिरभूत् । किन्नामेत्यत उक्तम्- स उद्धव इति ॥ 100-103 ॥ ॥ अश्वध्वनिमिति ॥ तथाचोक्तम्- ‘अलभद्गौतमी पुत्रं अश्वत्थामानमद्भुतम् । स जातमात्रो व्यनदद्यथैवोच्चश्रवा हयः ॥’ इत्यादिपर्वणि (140.49) ॥ 104 ॥ ॥ कृपस्स्वसायामिति ॥ यां कृपस्स्वसेत्याहुस्तस्यामिति शेषः । यद्वा कृपस्स्वसायामिति आकारान्त एवायं शब्दः । ‘पितृष्वसायाः पुत्रो मे भीमसेनानुजोऽर्जुन’ इत्यादिपर्वणि । ‘कुरूणां पश्यतां यस्मिन् पृथां दृष्टुं पितृष्वसाम्’ इत्युद्योगपर्वणि । ‘पितृष्वसामनुज्ञाप्य राजानं च युधिष्ठिरम्’ इति दशमस्कन्धे ()। ‘तप्तकुम्भे स्वसागामी (स्वसृगामीत्युलभ्यमान पाठः) हन्ति राजभटांश्च यः’ इति विष्णुपुराणे (2.6.10)। ‘मातृस्वसां मातुलानीं तथैव च पितृष्वसाम्’ इति कूर्मपुराणे च (2.32.25) । एवं पितृष्वसातनयतां अन्यमातृष्वसातनयतां पितृष्वसायाः पतिनेत्यादौ च बोध्यम् ॥ 105-110 ॥ ॥ तेपे तपोऽत इति ॥ ननु शेषो रोहिणीज इत्ययुक्तम् । ‘स चापि केशौ हरिरुज्जहार शुक्लं चैकमपरं चापि कृष्णम् ॥ तौ चापि केशावाविशतां यदूनां कुले स्त्रियौ रोहिणीं देवकीं च । तयोरेको बलभद्रो बभूव योऽसौ श्वेतस्तस्य देवस्य केशः ॥ कृष्णो द्वितीयः केशवस्सम्बभूव केशो योऽसौ वर्णतः कृष्ण उक्तः॥’ इति महाभारते (आदि.214.32-33) । ‘एवं संस्तूयमानस्तु भगवान्परमेश्वरः । उज्जहारात्मनः केशौ शितकृष्णौ महामुने ॥’ इति विष्णुपुराणे च (5.1.60)। शुक्लकेशास्यैव रोहिणीसुतत्वोक्तेः इत्यतस्तद्वचनयोस्तात्पर्यमाह- हरिशुक्लकेश इति ॥ 111-127 ॥ नन्वेकोनपञ्चाशन्मरुतां वा एकादशरुद्राणां द्वादशादित्यानां अष्टवसूनां वा सत्वेन तदाह्वानं विहायाश्विनोराह्वानं किमर्थं कृतमित्यत आह- विशेषनाम्नैवेति ॥ यस्मात्सुराः विशेषनाम्नैव समाहूताः सन्तः सुतान् दद्युः इति तस्मादित्यर्थः। तौ अश्विनावेव समाह्वयत् । ननु यदि विशेषनाम्नैव समाहूताः सन्तः सुराः सुतान् दद्युः नतु सामान्यनाम्ना समाहूता इति । तर्हि सामान्यनाम्ना समाहुताभ्यां अश्विभ्यां कथं पुत्रौ दत्तावित्यत आह- अविशेषितमिति ॥ ययोरश्विनोरविशेषितमपि सामान्यनाम भवदपि तदेव विशेषनामापि भवतीति तस्मात्तौ समाह्वयत् । तस्मात्ताभ्यां पुत्रौ दत्ताविति भावः । ननु अथापि आहूतयोर्देवयोः नामभेदाभावेऽपि स्वरूपभेदसद्भावेन मन्त्रावृत्तिः कर्तव्यैव । सा च कुन्त्या निषिद्धा। ततो मन्त्रावृत्यभावात् कथमेकदाह्वानेन उभयोरागमनमित्यत आह- मन्त्राऽवृत्तिरिति ॥ अस्य आहूतव्यस्य देवस्य नामभेदे सत्येव मन्त्रावृत्तिरुक्ता न तु आह्वातव्यभेदेऽपि । अतः एकदाह्वानेनापि मन्त्रावृत्त्यभावेऽपि द्वयोरागमनं युक्तमिति बोध्यम् । मरुदादीनां तु परस्परं विशेषनामभेदसद्भावात् तान्विहायाश्विनोरेवाह्वानं कृतमिति भावः ॥ 128 ॥ पुराणादौ वायुरेव पञ्चपाण्डवत्वेनोत्पन्न इत्युक्तेरभिप्रायमाह- युधिष्ठिराद्येष्विति ॥ 129-133 ॥ ‘इन्द्रा’ इत्यारभ्य ‘तैरेव सार्धं तु तत्तस्स देवो जगाम नारायणमप्रमेयम् । स चापि तद्व्यदधात् सर्वमेव ततः सर्वे सम्बभूवुर्धरण्याम् ॥’ (214.31-32)इत्यादिपर्वणि इन्द्रा एव पञ्चपाण्डवाः कृष्णश्चेति जाता इत्युक्तम् । तदभिप्रायमाह- अतीतेन्द्रा इति ॥ 134-136 ॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे द्वादशोऽध्यायः।

॥ अथ त्रयोदशाऽध्यायः ॥ ॥ 1-6 ॥ दध्यमत्रकं दध्नः अमत्रकं पात्रं दधिभाण्डमित्यर्थः । ‘अमत्रं भाजनं पात्रम्’ इत्यभिधानम् ॥ 7-15 ॥ ॥ यदैव दामगोपिकेत्यादिना ॥ अनेनैकदैवास्य अणुत्वमहत्वे सूचिते इति वेदितव्यम् ॥ 16-18 ॥ ॥ दिवि स्पृशाविति ॥ सहस्रधनुषस्तूर्ध्वभागो द्यौः तत्स्पृशावित्यर्थः । ‘सहस्रधनुषस्तूर्ध्वं द्युशब्देनापि भण्यत’(भा.ता.2.) इति शब्दनिर्णये ॥ 19-30 ॥ ॥ स्कन्दप्रसादकवचः ॥ स्कन्दप्रसादः स्कन्दवरः स एव कवचं यस्य स तथोक्त इत्यर्थः ॥ 31-35 ॥ ॥ कृष्णः कदम्बमधिरुह्येति ॥ उक्तञ्च- ‘आरूढः चपलः कृष्णः कदम्बशिखरं मुदा । कदम्बः कृष्णवृक्षो हि कालीयह्रदसमीपगः ॥ तस्मादेको न शुष्कोऽसौ विषहारकरः परान् ॥’ इति हरिवंशे (2.12.1) । ‘ननु समन्ताद्योजनं साग्रम्’ इति हरिवंशे (2.11.47) तथा ‘ह्रदं कालीयनागस्य ददर्शाऽतिविभीषणम् । विषाग्निना प्रसरता दग्धतीरमहातरुम् ॥’ इति विष्णुपुराणवाक्याच्च (5.7.3-) योजनपर्यन्तं सर्वेषां वृक्षाणां कालीयसर्पविषेण दग्धत्वात् कथमयं वृक्ष उर्वरित इति चेदुच्यते । पूर्वं मात्रार्थं अमृतमादाय तन्मार्गाद्गच्छतो गरुडस्य तद्वृक्षे स्थित्या एतद्वृक्षेऽमृतकलशस्पर्शेनायं वृक्ष उर्वरित इति सम्प्रदायविदः ॥ 36-37 ॥ ॥ नागः काल्य इति ॥ कालीयः भोगैर्बबन्धेति कुण्डलस्य बहुत्वेन सशरीरस्यैकत्वे भोगैरिति बहुवचनोपपत्तेः । यद्वा- ‘ततः प्रवेशितः सर्पैः स कृष्णो भोगबन्धनैः । ददंशुस्तेऽपि तं कृष्णं विषज्वालाकुलैर्मुखैः ॥ तं तत्र पतितं दृष्ट्वा सर्पभोगैर्निपीडितम् ॥’ इति विष्णुपुराणरीत्या (5.7.17-18) सर्पाणां बहुत्वेन भोगैरिति वा बहुवचनमिति ध्येयम् ॥ 38-39 ॥ ॥ तस्योन्नतेष्विति ॥ फणेषु सहस्रसं्रयाकफणेषु । ‘तच्चित्रताण्डवविरुग्णफणासहस्रम्’ इति दशमस्कन्धवचनात् (14.30) । ‘कालीयो नाम सर्पो नवनागस्सहस्रफण’ इति श्रुतेश्च । ब्रह्मादिभिः कुसुमवर्षिभिरिति वाद्यादीन्कुर्वद्भिश्चेति शेषः । ‘अनीनदत् पद्मभवो मृद्रं जगौ हनूमाञ्जगतामधीशम् । अदर्शयत्तालगतिं कपर्दी ननर्त गोपालकबालमौलिः॥’ इत्यादि वचनात् ॥ 40 ॥ ॥ नेमुश्चेति ॥ भुवि नेमुरित्यन्वयः । ‘दृष्ट्वा हि राजमुपसेदुरमुष्य पत्न्यौ आर्ता श्लथद्वसनभूषणकेशबन्धाः । तं ता विपन्नमनसोऽथ पुरस्कृतार्हाः कायं निधाय भुवि भूतपतिं प्रणेमुः॥’ इति दशमस्कन्धवचनात् (14.31-32) । अनेन ‘भुवि स्थितमीशं नेमुः’ इति व्य्रायानं निरस्तम् । तदानीं काल्रिशिरसि कृष्णेन नर्तनस्य क्रियमाणत्वेन भूस्थित्यभावात् । तं त्यक्त्वा भुवि स्थितौ प्रार्थनस्यैवायोगापत्तेरिति ॥ 41-43 ॥ ॥ तरुरूपत इति ॥ कपित्थतरुरूपत इत्यर्थः । तदुक्तम्- ‘पर्यायात् द्वादशाब्दानां अस्मिन्काले क्रमागते । वृक्षस्स पुष्पफलवान् कपित्थस्समजायत ॥’ इत्यादि हरिवंशे ॥ 44-47 ॥ ॥ सप्तोक्षण इति ॥ दितिजप्रधानान् पूर्वजन्मनि कालनेमिपुत्रान् । तच्चोक्तम् । ‘नैते वृषा महाबाहो दैत्यास्सप्त समुत्थिताः । कालनेमिसुता आर्य मां हन्तुमिह स्रताः ॥ पुरा हता मया युद्धे तदा तारामये ॥’ इत्यादि हरिवंशे ॥ 48-52 ॥ खरराक्षसारिं रामावतारे खर्रायराक्षसशत्रुं न तु गार्दभरूपशत्रुमित्यर्थः । धेनुकदीनां दैत्यत्वेन राक्षसत्वाभावात् ॥ 53-54 ॥ ॥ कृष्णस्य पक्षिषु जयत्स्विति ॥ नन्वेवं सति भागवतविरोधः । तथाहि- ‘तत्र चक्रुः परिवृढौ गोपारामजनार्दनौ । कृष्णस्रट्टिनः केचिद्गोपा रामस्य चापरे ॥ आचेरुर्विविधाः क्रीडाः वाह्यवाहकलक्षणाः । तत्रारोहन्ति जेतारो वहन्ति च पराजिताः ॥ वहन्तो वाह्यमानाश्च चारयन्तश्च गोधनम् । भाण्डीरकं नाम वटं जग्मुः कृष्णपुरोगमाः ॥ रामस्रट्टिनो ये हि श्रीदामवृषभादयः । क्रीडायां जयिनस्तांस्तानूहुः कृष्णादयो नृप ॥ उवाह कृष्णो भगवान् श्रीदमानं पराजितः । वृषभं भद्रसेनस्तु प्रलम्बो रोहिणीसुतम् ॥’ इत्यादौ (भाग.10.17.19-23) कृष्णरामयोः पक्षद्वयस्थत्वमुक्त्वा कृष्णपक्षीयानामेव पराजयोक्तेरिति चेदुच्यते । अथ शब्दव्यत्यासेन तद्ग्रन्थस्य प्रवृत्तत्वेन विरोधाभावात् । तथाहि- ‘ गोपा रामजनार्दनौ’ इत्यत्र ‘गोपा रामस्य’ इत्यत्र च रेफस्य व्यत्यये कृते ‘श्रीदामजनार्दनौ’ इति श्रीदाम्न इति रामस्रट्टिनः इत्यत्रापि श्रीदामस्रट्टिन इति शब्दव्यत्यये कृते ‘उवाह कृष्णो भगवान् श्रीदामानम्’ इत्यत्र कृष्णं श्रीदामोवाहेत्यर्थः । व्यत्यये कृते विरोधाभावात् । भगवद्गुणपूर्त्यर्थत्वेन व्यत्यासस्य कर्तव्यत्वात् । अन्यथा भगवतो बहुमानविरोधापत्तेः । ‘बहुमानविरोधे तु व्यत्यासश्शब्दतोऽर्थतः । कार्यो अनिरुक्तदेवानां गुणसिद्ध्यैव न चान्यथा ॥ विष्णुबर््रह्म तथा वायुरनिरुक्ताः प्रकीर्तिताः । तत्पत्न्याश्चेतरगुणाः व्यत्यस्यास्तेष्वसंशयः ॥’ इति ब्रह्मतर्कवचनात् । एवं विरोधपरिहाराकरणे हरिवंशादिबहुप्रमाणविरोधापत्तेः । तथाहि - ‘हरिस’्रीडनं नाम बालक्रीडनकं ततः । प्रक्रीडतुस्स्म ते सर्वे द्वौ द्वौ युगपदुत्थितौ ॥ कृष्णः श्रीदामसहितः पुप्लुवे गोपसूनुना । स’र्षणस्तु प्लुतवान् प्रलम्बेन सहानघ ॥ गोपालस्त्वपरे द्वन्द्वं गोपालैरपरैस्सह । प्रद्रुता ल्रयन्तो वै तेऽन्योन्यं लघु विक्रमाः ॥ श्रीदाममजयत् कृष्णः प्रलम्बं रोहिणीसुतः । गोपालैः कृष्णपक्षीयैः गोपालास्त्वपरे जिताः ॥ ते वाहयन्तस्त्वन्योन्यं सहर्षात्सहसा द्रुताः । भाण्डीरस्कन्धमुद्दिस्य मर्यादां पुनरागमन् ॥ स’र्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । द्रुतं जगाम विमुखः सचन्द्र इव तोयदः ॥’ इत्यादि हरिवंशे (2.15.18-23) । हरिणा क्रीडनं नाम बालक्रीडनकं ततः । प्रकुर्वन्तो हि ते सर्वे द्वौ द्वौ युगपदुत्थितौ ॥ श्रीदाम्ना सह गोविन्दः प्रलम्बेन तथा बलः । गोपालैपरैश्चान्ये गोपालाः पुप्लुवुस्ततः ॥ श्रीदामानं ततः कृष्णः प्रलम्बं रोहिणीसुतः । जितवान्कृष्णपक्षीयैर्गोपैरन्ये पराजिताः ॥ स’र्षणं तु स्कन्धेन शीघ्रमुत्क्षिप्य दानवः । नभस्स्थलं जगामाशु सचन्द्र इवतोयदः ॥’ इत्यादि विष्णुपुराणे च (5.9.12-16) । कृष्णरामयोरेकपक्षत्वं श्रीरामप्रलम्बयोश्चैकपक्षत्वमुक्त्वा श्रीदाम्ना साकं कृष्णस्य प्रलम्बेन साकं बलस्य क्रीडामुक्त्वा कृष्णपक्षीयानामेव जयोक्तेः । नचैतद्विरोधेन हरिवंशादेरव अर्थान्तरं किन्नस्यादिति वाच्यम् । बहूनामर्थान्तरकल्पने गौरवात् । निर्णयग्रन्थेषु भारतस्याऽधिकत्वेन तदनुसारेण तन्निर्णयस्य कर्तव्यत्वात् । ॥ कृष्णस्य पक्षिषु ॥ कृष्णपक्षस्थेषु गोपेषु जयत्सु सत्सु । अथ श्रीदाम्ना कृष्णोद्वहनानन्तरं प्रलम्बो राममेत्य। ‘पक्षद्वयेन कृष्णरामौ नायकौ कृत्वा केेचिद्गोपाः कृष्णपक्षस्थाः श्रीदामाद्याः केचिद्गोपाः रामपक्षस्थाः जाता इत्येवं पक्षद्वयेन द्वन्दीभूय वाह्यवाहकरूपक्रीडया गोपालकेषु विहरत्सु सत्सु क्रीडां कुर्वत्सु सत्सु अथ कंसेन विसृष्टः प्रेषितः प्रलम्ब इति ‘यातो दैत्यः अगात् । श्रीकृष्णपक्षगोऽभूदिति शेषः । कृष्णस्य पक्षिषु जयत्सु सत्सु स्वयं पराजितः पापः प्रलम्बः अथ पराभवानन्तरं राममेत्य तं रामं उवाह पृष्ठेनावहत् । अत्रायमाशयः । कृष्णपक्षिभिः सर्वैः जितम्। तत्पक्षस्थैः प्रलम्बभद्रसेनाद्यैः द्वित्रिभिरेव पराजितम्। रामपक्षिभिः श्रीदामाद्यैः सर्वैः पराजितम् । रामवृषभाद्यैः द्वित्रिभिरेव जितमिति । अयमेवार्थो हरिवंश दशमस्कन्धानुकूल्यात्’ इति जनार्दनभट्टीयव्य्रायानम् ॥ 55-62 ॥ ॥ गोपाश्च तानिति ॥ अतिविस्तृततनुः गिरिरूपेणातिविस्तृततनुर्बभूवेत्यर्थः । तथाचोक्तम् - ‘गिरिमूर्धनि कृष्णोऽपि शैलोऽहमिति मूर्तिमान् । बुभुजेऽन्नं बहुतरं गोपवर्याहृतं द्विज ॥’ इति विष्णुपुराणे (5.11.47) । ‘मांसं च मायया कृष्णो गिरिर्भूत्वा समश्नुते । सुतृप्तोऽस्मीति दिव्येन रूपेण प्रजहार वै॥’ इति हरिवंशे च (प.17.21) । बुभुजे बलिं तदनन्तरं अन्तर्धानं च ययाविति बोध्यम् । ‘अन्तर्धानं जगामाशु तेन देहेन सोऽचल’ इत्यादि च (हरि.2.17.38) ॥ 63-69 ॥ ॥ गोविन्दमिति ॥ एनं गोविन्दं गोभिरभिषिच्य गोभिः कामधेन्वादिगोभिः गोभिः आकाशग्राजलैश्च । ‘ स्तनैः प्रस्रवसंयुक्तैः सिषिचुः कृष्णमव्ययम्’ इति च(हरि.2.19.62) । ‘जलैश्चाकाशग्राया ऐरावतकरोद्धृतैः’ इति भागवते (10.25.22)। ‘अथोपवाह्यादादाय घण्टामैरावताद्गजात् । अभिषेकं तया चक्रे पवित्रजलपूर्णया ॥’ इत्यादि विष्णुपुराणे (5.12.13)। ‘दिव्यस्य पयसो घटैः। एभिरद्याभिषिञ्चिस्व’ इति हरिवंशे(2.19.44) ॥ 70-72 ॥ ॥ अन्यैर्धृता इति ॥ ‘नासूयन् नृप कृष्णाय मोहितास्तस्य मायया । मन्यमानाः स्वपार्श्वस्थान् स्वान् स्वान् दारान्व्रजौकसः’ इति भागवतवचनात् (10.31.38) । कृष्णमायामोहितत्वेन गोपाः कृष्णेन स्वपत्नीरमणेऽपि गोपी नाभ्यसूयन्निति भावः ॥ 73 ॥ ॥ नारायणाह्वययुता इति ॥ नारायण इत्याह्वयो येषां ते तथोक्ताः । ‘ततस्ते सन्यवर्तन्त संशप्तकगणास्ततः । नारायणाश्च गोपाला मृत्युं कृत्वाऽनिवर्तनम् ॥’ इति द्रोणपर्वणि (18.34)। ‘मत्संहननतुल्यानां गोपानां अर्बुदं महत्। नारायणा इति ‘याताः सर्वे सङ्ग्रामयोधिनः॥ इत्युद्योगपर्वणि(7.19)। द्विजत्वगमनात्पूर्वमेव संस्कारात्प्रागेव तास्सर्वा रामाः गोपिकाः अरमयदित्यन्वयः ॥ 74-80 ॥ ॥ दीर्णः पपात चेति ॥ ‘व्यादितास्यमहारन्ध्रः सोऽसुरः कृष्णबाहुना । निपपात द्विधा भूमौै वैद्युतेन यथा द्रुमः ॥ द्विपापपृष्ठपुच्छार्द्धेे एककर्णाक्षिनासिके (श्रवणैकाक्षिनासिके)। केशिनस्ते द्विधा भूते शकले द्वे विरेजतुः ॥’ इति विष्णुपुराणे (5.16.14-15)। ‘द्विपादपृष्ठपुच्छार्धे श्रवणैकाक्षिनासिके। (शिश्नस्तस्य)केशिनस्तद्द्विधाभूते देहार्धे रेजतुक्षितौ ॥’ इति हरिवंशे च (2.24.49) ॥ 81-88 ॥ गा अपि दोहयन्तं स्वयमपि गोदोहनं कुर्वन्तमित्यर्थः । ‘ददर्श रामं कृष्णं च व्रजे गोदोहनं गतौ’ इति दशमस्कन्धवचनात् (36.26)॥ 89-94 ॥ ॥ सायं पुरीमिति ॥ सायमपरो इत्यर्थः । ‘तत्रापरोे भगवान् कृष्णस्स’र्षणान्वितः । मथुरां प्राविशत् गोपैर्दिदृक्षुः परिवारितः॥’ इति दशमस्कन्धवचनात् (39.19) । यद्वा त्रिमुहूर्ते उर्वरितेत्यर्थः ॥ 95-100 ॥ ॥ सर्वेष्टपुष्टिमिति ॥ सर्वाभीष्टसहितबलानपत्तिं इति । तच्चोक्तम्- ‘मालाकाराय कृष्णोऽपि प्रसन्नः प्रददौ वरान् । श्रीस्त्वां मत्संंश्रया भद्रे न कदाचित्त्यजिष्यति ॥ बलहानिर्न ते सौम्य धनहानिरथापि वा । यावद्दिनानि तावच्च न नशिष्यति सन्ततिः ॥ भुक्त्वा च विपुलान् भोगान् त्वमन्ते मत्प्रसादतः । ममानुस्मरणं प्राप्य दिव्यं लोकमवाप्स्यसि ॥’ इति विष्णुपुराणे (5.19.24-26)॥ 101-103 ॥ ॥ धनुरीशदत्तमिति ॥ तद्धनुः तालत्रयप्रमाणम्। तालो नाम अ्रुष्ठाग्रमारभ्य मध्यम्राुल्यग्रपर्यन्त इति ज्ञेयम् । ‘प्रादेशतालगोकर्णतर्जन्यादि युतेन ते । अ्रुष्ठेन कनिष्ठस्य वितस्तिर्द्वादश्राुलिः॥’ इत्यभिधानात् मध्यम्राुल्यग्रान्मणिबन्धपर्यन्तो वा तालः ज्ञेयम् ॥ 104-107 ॥ ॥ करिसादियुक्तमिति ॥ करिभिः पार्श्वगजैः सादिना च युक्तमित्यर्थः । ‘गजस्य पादरक्षास्ताञ्जघ्नतुः पुरुषर्षभौ’ इति हरिवंशवचनात् (2.30.40)। यत्तु ‘ करिसादियुतं करिसादिना करिपालकेन युक्तम्’ इति व्य्रायानम् । तन्न। सादिशब्देनैव प्रकरणवशेन वा करिपालस्य लाभात् करिपदवैयर्थ्यापत्तेः । उक्तमानविरोधाच्च ॥ हरिसंयमनमिति ॥ हरिसंयमनमित्यत्र हरिपदेन ब्रह्मरुद्रेन्द्रादिसंहर्तृत्वेन हरिसञ्ज्ञकेन कृष्णेन (्रहरिसञ्ज्ञकस्य कृष्णस्य’ इति स्यात्) संयमनं कथमैच्छदिति परिहासं सूचयति । तथाचोक्तम्-
‘ब्रह्माणं इन्द्रं रुद्रं च रामं वरुणमेव च । निगृह्य हरते यस्मात् तस्माद्धरिरितीरितः’ इति पाद्मेे ॥ 108-123 ॥ स्वकोष्ठे स्वमध्यभागे ॥ 124-125 ॥ स्वं स्यन्दनं इन्द्ररथम्। कृष्णरथत्वे दारुकेणानयनापत्तेरिेति बोध्यम् ॥ 126 ॥ ॥ तावत्तमेव भगवन्तमिति ॥ ‘क्षिप्ते पितरि चुक्रोध नन्दगोपे च केशवः । ज्ञातीनां च व्यथां दृष्ट्वा विसञ्ज्ञां चैव देवकीम् ॥ आरुरुक्षुर्महाबाहुः कंसनाशार्थमच्युत ॥’ इत्यादि हरिवंशवचनात् (2.31.71-72) वसुदेवादीनां व्यथादिदर्शनेन कंसागमनात् प्राग्भगवतैव कंसं प्रति गतमिति भावः ॥ 127-138 ॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे त्रयोदशाध्यायः।

॥ अथ चतुर्दशोऽध्यायः ॥ ॥ कृष्ण इति ॥ पितरावित्युपलक्षणम् । उग्रसेनाहुकौ च विमोक्ष्येत्यपि ग्राह्यम् । तयोरपि कंसेन बद्धतत्वात् । तथाचोक्तम् -्रउग्रसेनसुतः कंसः सर्वान्निर्मथ्य यादवान् । राज्यं जग्राह दुर्बुद्धिः बद्वा पितरमाहुकम् ॥ समाश्रित्य जरासन्धं श्वसुरं कुलपांसनः ॥’ इति हरिवंशे (.101.26-27) कृष्णवचनादुग्रसेने राज्यपदवीं प्रणिधाय उग्रसेनं राज्येऽभिषिच्येत्यर्थः। ‘न हि राज्येन मे कार्यं नाप्यहं नृप काङ्क्षितः । अहं स एव गोमध्ये गोपैस्सह वनेचरः ॥ विजयायाभिषिञ्च स्व स्वराज्ये राजसत्तम । यदि ते मत्प्रियं कार्यं यदि ते नास्ति ते व्यथा ॥’ इति कृष्णवचनाद्धरिवंशे (2.32.48-49-53)। ययातिशापेन यादवभोजादीनां राज्याऽनर्हत्वेऽपि कृष्णवचनादुग्रसेनस्य राज्याधिकारः। ‘ययातिशापाद्वंर्शोेऽयमराज्यार्होऽपि साम्प्रतम् । मयि भृत्ये स्थिते देवानाज्ञापयितु किं पुनः ॥ श्रीपराशर उवाच- इत्युक्त्वा सोऽस्मरद्वायुं आजगाम च तत्क्षणात् । उवाचैवं च भगवान् केशवः कार्यमानुषः ॥ गच्छेन्द्रं ब्रूहि वायो त्वं अलं गर्वेण वासव । दीयतामुग्रसेनाय सुधर्मा भवता सभा ॥’ इत्यादि विष्णुपुराणोक्तेः (5.21.15-16) ॥ 1-2 ॥ ॥ कृष्णोऽपीति ॥ निखिलाविद्याः चतुष्षष्ठिस”्याका इत्यर्थः । ‘अहो रात्रैश्चतुःषष्ठ्या स्रावेदमधीयताम् । चतुष्पादे धनुर्वेदे शस्त्रग्रामे स स्र्रहे ॥ अचिरेणैव कालेन गुरुस्तानभ्यशिक्षयत्॥’ इति हरिवंशे (2.33.6-7)॥ 3-4 ॥ ॥ गुर्वर्थमिति ॥ मृतपुत्रं पूर्वरूपवयसं यमलोकादानीयादादित्यर्थः । ‘आनिनाय गुरोः पुत्रं चिरनष्टं यमक्षयात् । ततस्सान्दीपिनेः पुत्रं तद्रूपवयसं तथा (प्रभावादमितौजसः)॥’ इत्यादि हरिवंशोक्तेः (2.33.22)। ‘तं बालं यातनासंस्थं यथापूर्वशरीरिणम् । पित्रे प्रदत्तवान्कृष्णो बलश्च बलिनां वरः ॥’ इति विष्णुपुराणोक्तेश्च (5.21.31)॥ 5-9 ॥ ॥ ब्रह्मेशचण्डमुनिदत्तवरैरिति ॥ चण्डमुनिश्चण्डकौशिकः । ‘अद्य कक्षीवतः पुत्रं गौतमस्य महात्मनः । सिषेवे तपसि श्रान्तं उदारं चण्डकौशिकम् ॥ तमब्रवीत्सत्यधृतिस्सत्यवागृषिसत्तमः । परितुष्टोऽस्मि ते राजन् वरं वरय पार्थिव॥’ इत्यादिना चण्डकौशिकवराज्जरासन्धस्योत्पत्तिमुक्त्वा कस्यचित्त्वथ कालस्य पुनरेव महातपाः । मागधानुपचक्राम भगवांश्चण्डकौशिकः ॥ तस्यागमनसंहृष्टः सामात्यस्सपुरोहितः । सभार्यस्सहपुत्रेण निर्जगाम बृहद्रथः ॥ पाद्यार्घ्यादीनुपादाय स्वर्चयामास भारत । स नृपो राज्यसहितं पुत्रं तस्मै न्यवेदयत् ॥ प्रतिगृह्य तु तां पूजां पार्थिवाद्भगवानृषिः । उवाच मागधं राजन् प्रहृष्टेनान्तरात्मना ॥ सर्वमेतन्महाराज विज्ञातं ज्ञानचक्षुषा । पुत्रस्तु श्रुणु राजेन्द्र यादृशोऽयं भविष्यति ॥ यस्य वीर्यवतो वीर्यं नानुयास्यन्ति पार्थिवाः । विनाशमुपयास्यन्ति ये चास्य परिपन्थिनः ॥ देवैरपि विसृष्टाणि अस्त्राण्यपि महीपते । नरुजं जनयिष्यन्ति गिरेरिव नदीरयः॥ सर्वमूर्धाभिषिक्तानां एष मूर्ध्नि विराजितः । सर्वेषान्निष्प्रभाकारो ज्योतिषामिव भास्करः ॥ एनमासाद्य राजानः समृद्धबलवाहनाः । विनाशमुपयास्यन्ति शलभा इव पावकम् ॥ एष श्रियं समुदितां सर्वराज्ञां गृहीष्यति । वर्षस्विवोदीर्णजला नदीर्नदनदीपतिः ॥ एष धारयिता सम्यक्चातुर्वर्ण्यं महाबलः । शुभाशुभमिव स्फीता सर्वसस्यधरा धरा ॥ अस्याज्ञावशगास्सर्वे भविष्यन्ति नराधिपाः । सर्वभूतात्मभूतस्य वायोरिव शरीरिणः ॥ एष रुद्रं महादेवं त्रिपुरान्तकरं हरम् । सर्वलोकेष्वतिबलः स्वयं द्रक्ष्यति मागधः ॥ एवं ब्रुवन्नेव मुनिः स्वकार्यमनु चिन्तयन् । विसर्जयामास नृपं बृहद्रथमुदारधीः ॥ जरासन्धोऽपि नृपतिः यदुक्तं कौशिकेन तत् । वरप्रदानमखिलं प्राप्य राज्यमपालयत् ॥’ इत्यन्तेन पुनरपि जरासन्धस्य चण्डकौशिकेन वरदानोक्तेः सभापर्वणि (19.1-17) । वेद्रातीर्थास्तु ‘चण्डमुनिदूर्वासाः’ इत्याहुः । अन्येचाप्येवमेवाहुः । तन्न । उक्तमानविरोधात् ॥ 10-13 ॥ ॥ जर्रायां तत्सम्बन्धिनीमिति ॥ जरासन्धेन पूर्वं कंसगृह प्रति अस्तिप्रास्तिप्रेषणसमये ताभ्यां साकं जरापि प्रेषिता । तदनन्तरं तस्यै कंसेन मधुरासमीपे योजनतः कश्चित् ग्रामो दत्त इति हेतोस्तत्र जरा स्थितेति भावः ॥ 14-16 ॥ एष्य भवतः एष्यस्याग्रे जायमानस्य भवतः तवेत्यर्थः । बलवीर्यसारमज्ञात्वा वीर्यरहितेन मया कंसस्य सुते प्रतिपादिते इत्यन्वयः । एतादृशबलस्त्वमग्रे जनिष्यसीति न ज्ञात्वा वीर्यरहितोऽहं कंसाय सुते दत्तवानित्युक्तमिति भावः ॥ 17-43 ॥ नयज्ज्ञा यत् पाण्डुरक्षणं जानातीति यज्ज्ञा पाण्डुरक्षणज्ञाना । तत्र हेतुमाह- बहुकार्यपरेति ॥ ततः पाण्डुरक्षणं विस्मृतवतीति भावः। ‘रक्षणे विस्मृता कुन्ती व्यग्रा ब्राह्मणभोजने । पुरोहितेन सहि ब्राह्मणान् पर्यवेषयत्॥’ इत्यादिपर्वोक्तेः (134.13)। केचित्तु ‘नयज्ञेत्येकं पदं कृत्वा नीतिज्ञेत्यर्थ’ इति व्याचक्षते । तच्चिन्त्यम् । नीतिज्ञत्वे पाण्डुरक्षणे विस्मरणायोगात् ॥ 44 ॥ ननु ब्राह्मणभोजनदशायां यजमानेन भाव्यम् । तत्कथं पाण्डुः तद्दशायां तत्र न स्थित इत्यत आह- कन्दर्पमार्गणवश इति ॥ तथाच कामातुरत्वात् तत्र न स्थित इति भावः। ‘तस्मिन्काले समाहूय माद्रीं मदनमोहितः । भूतसम्मोहने काले सभार्यो व्यचरद्वनम् ॥’ इत्यादिपर्वोक्तेः (134.15)॥ 45-52 ॥ ॥ पाण्डोस्सुताश्चेति ॥ आशु सप्तदशेऽहनीत्यर्थः । ‘पितृलोकं गतः पाण्डुः इतस्सप्तदशेऽहनि’ इत्यादिपर्वोक्तेः(135.40) । पुरागमनसमये धर्मराजः षोडशवार्षिकः इति ज्ञेयम् । ‘जगाम हस्तिनपुरं षोडशाब्दो युधिष्ठिरः’ इति चोक्तेः (आदि.134.2) ॥ 53-73 ॥ ॥ तत्कोटियोजनगभीरमिति ॥ अत्र तच्छब्देन प्रमाणपदं लक्ष्यते । एवञ्च तत्कोटेः प्रमाणकोट्य्रायह्रदस्य योजनगभीरं ुुउदं जलं विगाह्येत्यन्वयः । तथाचोक्तम्- ‘प्रमाणकोट्यां स्वापार्थी सुष्वापारुह्य तत्स्थलम्’(137.38) इति ‘प्रमाणकोट्यांं तं देशं स्थलं किञ्चिदुपेत्य ह’ इत्यादिपर्वणि (137.34) । उक्तञ्च मध्वविजये ‘प्रमाणकोटेस्सहि हेलयागान्नेदं जगज्जीव वनदेऽत्र चित्रम्’ इति । नतुु कोटिपदं योजनविशेषणम् । भागीरथीजलस्य कूर्मपर्यन्तत्वापत्तेः इति ध्येयम् । यद्वा कोटियेजन गभीरं कोटियोजनोदकवत् गभीरं गम्भीरमित्यर्थः ॥ 74 ॥ ॥ अष्टौ नागगणान् ॥ ‘अनन्तो वासुकिः पद्मो महापद्मश्च तक्षकः । कार्कोटकः श’पालो महाश’’ इत्यष्टस”्याकानित्यर्थः ॥ 75-90 ॥ ननु रुक्मिणो असुरत्वे तत्र तत्र सद्गत्युक्तिः कथमित्यः तस्मिन् शुच्य्रायविेपुत्रस्याविष्टत्वेन तदुक्तिर्घटते इत्याशयेनाह-भागेत इति ॥ स रुक्मी नाम्ना शुचेः शुच्य्रायस्य वेेः तनयस्य विेपुत्रस्य भागेत एव अंशयुक्त एव नतु तदात्मक इत्यर्थः । भीष्मकः पूर्वं क इत्यत आह- स तु पितेति ॥ अस्य रुक्मिणः पिता जनकः स तु भीष्मकस्तु मित्रभागः मित्रनाम्नो देवस्यांशः तदात्मक इत्यर्थः । तथा राह्वंशयुक्तश्च । तदनुजौ भीष्मकस्य अनुजौ क्रथकैशिक्रायौ अग्निसुतयोः पवमानशुन्ध्योः पवमानशुन्ध्य्राययोः भागौ अंशावित्यर्थः । वरदराजाचार्यस्तु ‘भीष्मक क इत्यत आह- भागेत इति ॥ अस्य रुक्मिनामकस्य पिता स भीष्मको मित्रभागः मित्रांशः तथा वेेः प्रधानविेसुतस्य नाम्ना शुचेः भागेतः अंशयुतः तथा राह्वंशयुक्च’ इति व्याचक्षते । तन्न । स एव सत्त्विति तच्छब्दद्वयवैयर्थ्यापातात् । भेदद्योतकतुशब्दवैय्यर्थ्यापाताच्च । रुक्मिणि सर्वथा देवांशाभावे रुक्मिणः सद्गतिः कथनविरोधाच्च । बहु सम्प्रदायविरोधाच्च । ‘राहुयुग्भीष्मको मित्र’ इति विद्याधीशतीर्थकृततारतम्यस्तोत्रविरोधाच्च । भीष्मकस्यांशत्रयात्मकत्वे स्वरूपनिर्णयानापत्तेः। एकस्यैव तच्छब्दस्यावृत्यान्वयपत्तेश्च ॥ 91-103 ॥ ॥ सहदेवः ॥ उद्धवमुखात् सकलां समस्तां उदारामुत्कृष्टां नीतिमार प्रापेत्यर्थः ॥ 104-112 ॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे चतुर्दशोऽध्यायः। ॥ अथ पञ्चदशोऽध्यायः ॥ ॥ 1 ॥ ॥ वृकोदररथस्येति ॥ वृकः अ्रुष्ठप्रमाणकोऽनलः उदरे जठरे यस्य स वृकोदरस्तस्येत्यर्थः । ‘तीक्ष्णश्चैव प्रचण्डश्च वृको नामानलो मतः । स पाण्डवस्य जठरे तेन भीमो वृकोदर ॥’ इति वचनात् । एतेन ‘वृकवत् सालावृकवत् उदरं यस्य’ इति तु निरस्तम् । अप्रामाणिकत्वात् । एवं धर्मराजादीनामपि इन्द्रसेनादयो सारथिनो ज्ञातव्याः । तदुक्तम्- ‘इन्द्रसेनो विशोकश्च द्रुमश्चार्जुनसारथिः । अन्नाद्याहरणे युक्ताः सन्तु मत्प्रियकाम्यया ॥’ इति सभापर्वणि (36.30) ॥ 2-3 ॥ ॥ क्रीडार्थमेवेति ॥ बलं बलभद्रम् ॥ 4-5 ॥ ॥ धर्मात्मजोऽपीति ॥ व्यासाद्विद्याप्राप्तिमात्रसमुच्चये अपिशब्दः । नतु भीमवदवैष्णवमार्गनिराकरणेऽपीति बोध्यम् ॥ 6-13 ॥ ॥ सदमोघरेतसामिति ॥ रेतसः अमोघत्वं कुत इत्यत अत्र हेतुः- सदिति ॥ अनेन सन्तत्युच्छेदे पापमपि कारणमपि सूचितमिति भावः ॥ 14-21 ॥ ॥ न निर्धन इति ॥ ‘न दरिद्रोे वसुमतो नाविद्वान्विदुषस्सखा । नाराज्ञा स्रमो राज्ञः सखिपूर्वं किमिष्यत ॥’ इति आदिपर्ववचनप्रकारेण (141.9) जगादेत्यर्थः ॥ 22-25 ॥ ॥ विक्रीडतो धर्मसूनोरिति ॥ ‘तेषां तु क्रीडमानानां उदपानेऽ्रुलीयकम् । पपात धर्मराजस्य वीटा तत्रैव चापतत् ॥’ (141.18-19)इत्यादिपर्वस्थवीटाशब्दस्यार्थः कन्दुक इति भावेन कन्दुकोऽपतदित्युक्तमिति भावः ॥ 26-52 ॥ ॥ ऊरोरधस्तनतः ॥ ऊर्वधोदेशमारभ्य औपरिगा त्वचः उपरिगतत्वक्पर्यन्तमित्यर्थ। तत्रा स राक्षसवर इति तुशब्देन भृगुशापोऽपि तस्य कीटत्वप्राप्तौ निमित्तमिति विशेषं द्योतयति । तथाचोक्तम्- ‘ददर्श रामस्तं चापि कृमिं सूकरसंस्थितम् । अष्ष्टपादं तीक्ष्णदंष्ट्रं सूचिभिः परिसंवृतम् ॥ रोमभिस्सनिरूद्ध्रां अलर्कं नाम नामतः । स दृष्टमात्रो रामेण कृमिः प्राणानवासृजत् ॥ तस्मिन्नेवासृजिक्लिन्ने तदद्भुतमिवाभवत् । ततोऽन्तरिक्षे ददृशे विश्वरूपः करालवान् ॥ राक्षसो लोहितग्रीवः कृष्ण्राो मेघवाहनः । स रामं प्राञ्जलिर्भूत्वा बभाषे पूर्णमानसः ॥ स्वस्ति ते भृगुशार्दूल गमिष्येऽहं यथातथम् । मोक्षितो नरकादस्माद्भवता मुनिसत्तम ॥ भद्रं च तेऽस्तु वृद्धिश्च प्रियं मे भवता कृतम् । तमुवाच महाबाहुः जामदग्न्यः प्रतापवान् ॥ कस्त्वं कस्माच्च नरकं प्रतिपन्नो ब्रवीहि नः । सोब्रवीत् अहमासं प्राक् हेतिनामात्र नामतः॥ पुरा देवयुगे तात भृगोस्तु सवया इव । सोऽहं भृगोस्तु दयितां भार्यामपहरं बलात् ॥ महर्षेभिशापेन कृमिभूतोऽपतं भुवि । अब्रवीत्तु स मां क्रोधात् तव पूर्वपितामहः ॥
मूत्रश्लेष्माशनः पाप निरयंं प्रतिपत्स्यसे । शापस्यान्तो भवेत् ब्रह्मन्नित्येवं तमथाब्रवीत् ॥ भविता भार्गवाद्रामादिति मामब्रवीद्भृगुः । सोऽहमेत्रातिं प्राप्तो यथाहि नकुशलस्तथा । त्वया साधो समागम्य विमुक्तः पापयोनितः । एवमुक्त्वा नमस्कृत्य ययौ रामं महासुरः ॥’ इति शान्तिपर्वणि (3.12-24) । तथाचाऽत्र भगवत्पादैरुक्तः पुराणान्तरोक्तो महेन्द्रशापः शान्तिपर्वस्थ महर्षेरपीत्यपिशब्दार्थ इति न भारत विरोध इति ध्येयम् ॥ 53-54 ॥ ॥ जात्यास्मि सूत उत ते तनय इति ॥ ब्राह्मण्यां क्षत्रियाज्जातः सूत इत्यर्थः । ‘ब्राह्मण्यां क्षत्रियाज्जातः सूतो भवति पार्थिव । प्रातिलोम्येन जातानां सह्येको द्विज एव तु ॥’ इति विराटपर्वोक्तेः (21.9)। गुरोः पितृसमत्वाद्रामं प्रति तनय इत्युक्तमिति भावः । तथाचोक्तम्- ‘ब्रह्मक्षत्रान्तरे जातं सूतं मां विद्धि भार्गव । राधेयः कर्ण इति मां प्रवदन्ति जना भुवि ॥ प्रसादं कुरु मे ब्रह्मन् अस्त्रलुब्धस्य भार्गव । पिता गुरुर्न सन्देहो वेदविद्याप्रदप्रभुः ॥ अतो भार्गव इत्युक्तं मया गोत्रं तवान्तिके॥’ इति कर्णेन परशुरामं प्रति शान्तिपर्वणि (3.26-28) ॥ 55-65 ॥ ॥ पुनः कृपालुः इति॥ द्रोणः तं एकलव्यं रैवतपर्वते दृष्ट्वा कृपालुस्सन् तस्मै एकलव्याय एकान्तेऽस्त्रवराणि प्रादात् । तत्र हेतुमाह- अस्य भक्त्येति ॥ अस्य एकलव्यस्य भक्त्या सुतुष्टस्सन् पुत्रं प्रादादिति पूर्वेणाऽन्वयः। कृपालुत्वं चास्य दक्षिण्राुष्टापनयनेनेति मन्तव्यम् । नतु अर्जुनं प्रति कृपालुत्वम्। ‘विप्रवरस्ततःपरम्। स्नेहं नितान्तं सुरराजसूनौ कृत्वा महास्त्राणि ददौ स तस्य’ इति पूर्वमर्जुने द्रोणस्य बहुस्नेहस्योक्तत्वादिति मन्तव्यम् । न च रैवतपर्वते द्रोणस्येकलव्यदर्शनमेव नास्तीति वाच्यम् । (2.56.27-28) ‘तत्र रैवतको नाम पर्वतो नातिदूरतः । तत्रैकलव्यसंवासः द्रोणेनाऽध्युषितश्चिरम् ॥’ (्रतत्रैकलब्धसंवासो’ इति अर्वाचीनपाठः)इति हरिवंशोक्तेस्तद्दर्शनावगमादिति भावः । इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थ प्रमाणसङ्ग्रहे पञ्चदशोऽध्यायः। ॥ अथ षोडशोऽध्यायः ॥ ॥ काल इति ॥ एतस्मिन्नेव काले कर्णैकलवयोरस्त्राभ्याससमाप्तिकाले। यत्तु ‘पाण्डवानामस्त्राभ्याससमय’ इति वेद्रातीर्थीयव्य्रायानम् । तन्न । पाण्डवानामस्त्राभ्याससमये एकलव्येनापि अस्त्राभ्यासस्य क्रियमाणत्वेन ‘तत्रैव हंसोडिभिश्चैकलव्य’ इति वक्ष्यमाणरीत्या एकलव्यागमनोक्त्ययोगात् ॥ 1-18 ॥ ॥ रुक्मिण्यर्थ इति ॥ रुक्मिणीनिमित्तेन स्वस्मिन् विवाहप्रतिबन्धकद्वेषकरणार्थमित्यर्थः। यद्वा अर्थशब्दो निमित्तवाची । तथाच रुक्मिण्यर्थे रुक्मिणीनिवृत्तौ रुक्मिणीनयनकाले रुक्मिणीनिवर्तनार्थं इकरराजवत् अधुनैवातिपीडने कृष्णबलस्य ज्ञातत्वेन तदा रुक्मिणीनिवर्तनार्थं न आयास्यति । तथाच शिखामुण्डनाद्यपकारो न कृतः स्यात् इति भावेनेति भावः ॥ 19-21 ॥ जत्रौ हृदयाग्रप्रदेश इत्यर्थः ॥ 22-28 ॥ ॥ पितृष्वसाया इति ॥ पितृश्वसायाः पतिनेत्यलुक्समासः इति वक्तुं विवक्षितत्वात् घिसञ्ज्ञोपपत्तिः । ‘रघुनाथाय नाथाय सीतायाः पतये नमः’ इत्यत्र ‘वासुदेवाय शान्ताय यदूनां पतये नमः’ इत्यादौ च तथा दर्शनात् । एवमन्यत्राप्यूह्यम् । ‘द्रवत्सु रथम्रुयेषु चेदिराजो महाद्युतिः । स्मृत्वा यादवसम्बन्धं कृष्णमेवान्ववर्तत ॥ वृतः करूशसैन्येन चेदिसैन्येन चानघ । सम्बन्धकामो गोविन्दमिदमाह स चेदिराट् ॥ अहं पितृष्वसुर्भर्ता तव यादावनन्दन । सबलस्त्वामुपावृत्तस्त्वं हि मे दयितः प्रभो ॥ करवीरपुरं कृष्णगच्छामस्सबलानुगाः । सृगालं वासुदेवं वै द्रक्ष्यामस्तत्र पार्थिवम् ॥ इमौ रथवरोदग्रौ युवयोः कारितौ मया । योजितौ शीघ्रतुरगैः स्वर्णचक्राक्षकूबरौ ॥ शीघ्रमारुह भद्रं ते बलदेवसहयवान् ॥’ इति हरिवंशे (2.78-80.85-87)॥ 29-32 ॥ आत्मना मनसा प्रीत्या स्वस्मिन् प्रीत्या युक्तस्य तस्य दमघोषस्य वाक्यं श्रुत्वा ॥ 29 ॥ ॥ पुरीं प्राप्येति ॥ दमघोषेण साकमिति शेषः । ‘तौ तु स्वल्पेन कालेन दमघोषेण स्रतौ । नगरीं मथुरां प्राप्तौ वसुदेवसुतावुभौै ॥’ इति हरिवंशे (प.45.1-2) ॥ माणिभद्रः पुरेति ॥ यः पुरा पूर्वजन्मनि माणिभद्रः माणिभद्र्राययक्षः ‘ तत्र माणिधरो नाम यक्षः परमदुर्जयः। धूम्राक्षेण समागम्य माणिभद्रो महारणे ॥’ इति रामायणे (उत्तर.15.10)॥ 33 ॥ इति श्रीविद्याधीशतीर्थपूज्यपादानां शिष्येण मधुसूदनभिक्षुणा विरचिते श्रीमन्महाभारततात्पर्यनिर्णयार्थप्रमाणसङ्ग्रहे षोडशोऽध्यायः।