दम्बल-श्रीनिवासः 10-32

महाभारततात्पर्यनिर्णयव्याख्यानम् -भारतश्रीनिवासविरचितम् अथ दशमोध्यायः॥ व्यासावतारकथां वक्तुं उपोद्घातमाह- द्वापर इत्यादिना॥ 1॥ उत्तरं तीरं उत्तरं अनन्तरं तत इत्यर्थ इति वा । आसाद्य उत्तरं तदनन्तरं प्रस‘ान्तरमन्तरेणेति सम्बन्धः। उत्तरं उत्तरन्त्यनेन संसारसागरमितिपुरुषोत्तमविशेषणं वा । उत्तरमिति हेतुगर्भविशेषणम्। अतस्तं तुष्टुवुरिति ॥ 2॥ अगण्यगुणैकधाम्ने इत्यनेन प्राप्तसत्वादिगुणसम्बन्धं वारयति । समस्तविज्ञानमरीचिमालिने इति। पूर्वोपकारानुसन्धानं कुर्वन्ति देवा इत्याह- स्वदत्तेत्यादिना॥ धृतराष्ट्रकुलजातवासुकिव्यावृत्त्यर्थं कश्यपज इत्युक्तम्। तस्यापि परम्परया कश्पजत्वात् कद्र्वाः तनयमित्युक्तं भारते- ‘धृतराष्ट्रकुले जातान् पन्नगांस्त्वं निबोध मे। नीलो नीलो वासुकिश्च पिण्डकारमहोदरौ ॥’ इति ॥ 9-13 ॥ किञ्चित् गिरिशाय ददौ विषस्य इतरदुस्सहत्वज्ञापनार्थमिति ज्ञेयम्॥ 14 ॥ हरेः करस्पर्शबलात् वायोः करस्पर्शबलात् । ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुविेषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥’ इत्यभिधानम् ॥ 15 ॥
मे मया ॥ 26॥ आरितः प्राप्तः॥ 30 ॥ त्वया जित इत्यर्थः ॥ 32 ॥ …स कृष्णः प्रादुर्बभूवेति सर्वेषां जनानां राजेव दृश्यते व्यवहारादि च करोति इत्याहुः। भारते स एव कीटत्वं (त्यक्त्वा)राजा बभूवेति उक्तिर्वर्तते । यथैव यथावदेव॥ 65 ॥ वारुणिं भृगुम्॥ 74 ॥ ॥ इति दशमोध्यायः॥ ॥ अथ एकादशोध्यायः॥ ॥ 1-16 ॥ …तत्रापि द्वितीयजन्मनीति ग‘ाह्यम्। ततश्चेत्यनेन ‘यं यं कराभ्यां स्पृशसि दीर्घं स सुखमश्नुते । पुनर्युवा च भवति तस्मात् त्वां शन्तनुं विदुः॥’ इति भारतात् तन्निरुक्तिं समुच्चिनोति॥ 18 ॥ श्लथिताम्बराम्। वातेनेति शेषः॥ 19 ॥ ॥ शप्तो यथा त्वं हि पुरा मयैवेति ॥ हि यस्मात् पुरैव मया शप्तः अत यथा पुरा शप्तस्तथैव नृपतिर्भवेति योजना । अत्र पूर्वदत्तशापस्यानुवादो वा दृढीकरणं वा बोद्धव्यम्॥ 20 ॥ बद्धुं बध्वा आनेतुम् ॥ 23॥ वसिष्ठः शशापेति क्वचित् ग‘न्थेषु वर्तते। क्वचिच्चतुर्मुख इति च अतस्तयोर्विरोधं परिहरति- वसिष्ठसंस्थः कमलोद्भव इति॥ केचित्तु ‘ वसुषु अग्नेः उत्तमस्य विद्यमानत्वात् वसिष्ठस्य तदपेक्षया नीचत्वात् शापाद्यशक्तमाशङ्क्य परिहरति’ इति व्याचक्षते। ‘अशक्ता अपि शक्तानां शक्ताः शापादिषु स्फुटम्’ (6.17.37) इति षष्ठस्कन्धतात्पर्योक्तेः । ‘विष्णुना विष्णुभक्तैश्च ब‘ह्मशापोनुवर्तते’ (10.15.11) इति दशमस्कन्धतात्पर्योक्तेश्चैवमस्माभिः व्या‘यातमिति बोध्यम् ॥ 24-26 ॥ तयोः अम्बादेवव‘तयोः॥ 27॥ न मानुषीं गर्भमवाप्नुमो वयं किन्तु देवताया गर्भमवाप्नुमः॥ 29 ॥ तेभ्योप्यपापत्वं तस्यास्ततो अधमत्वात्॥ 31 ॥ पुरा शन्तनुसम्बन्धात् पुरा॥ 32-48 ॥ अतोयां अल्पतोयाम्। ‘अल्पतोयाभवत् ग‘ा’ इति भारतोक्तेः॥ 49-51 ॥ तत्त्वमिति। तत् त्वमिति विच्छेदः॥ 52 ॥ अथ चेति चशब्देन विवाहान्तरमकृत्वेति सूच्यते॥ 53-54 ॥ समवाप्य तं चेति तदा पञ्चविंशदधिकपञ्चशतवर्षः (525) देवव‘तःपितरं शुश्रूषमाणः प्रमुमोद॥ 55 ॥ यदा यस्मिन् दिवसे। तदा तस्मिन् दिवसे। जातमपश्यत् ॥ 56 ॥ द्रोणे कलशे। आशु सद्यः ॥ 65 ॥ तस्मिन् काले पृषतः सूनुः बभूवेत्युत्तरत्रान्वयः॥ 67 ॥ तेषां भीष्मकृपकृपिद्रोणानाम्॥ 72 ॥ तत् तस्मात् । सः शन्तनुः स्वेच्छया वरुणत्वं प्राप। तर्हि चित्रा‘दः कथं मृत इत्यत आह- बलवद्भिरिति॥ 83 ॥ विचित्रवीर्यमिति आशङ्क्य परिहरति- अतिसक्ता इत्यादिना॥ कथञ्चित् बलवत्कारणेन । नानिच्छया तनुस्त्यज्यते इत्येतत् प्राय इत्युक्तं भवति॥ 84-93 ॥ जित्वैव जितवद्दर्शयामासेति शेषः॥ 94 ॥ शिखण्डित्वानन्तरं अशु अयोजयत् शिखण्डित्वादनन्तरमपि शीघ‘भर्तृयोगप्रतिबन्धकं भतृद्वेषोत्थपापं तस्मादुन्मुच्य संयोजनमाशु संयोजनम् । यदा न ग‘ाहयामास॥ 97 ॥ तथा सत्यं तच्चक‘े न त्वनेनैव शरीरेण भीष्मो यथा त्वां गृह्णीयात् तथा कुर्यामित्युक्तं रामेण ॥ 99 ॥ भीष्मनिधने त्वरमाणायाः मालां च ददौ । अयं विशेषो भारतादवगन्तव्यः॥ 100 ॥ पूर्वदेहे स्वेन दत्तदेहे ॥ 111 ॥ शिववरेपि ‘सोब‘वीत् कन्यका तव भूत्वा भविष्यति पुमान्’ इति शिववरेपि। या जज्ञे सैषा शिववरेपि योषैव नान्यथा पुमान्न भविष्यतीत्युक्तप्रकारेण पुमान् न जाता किन्तु पुन्देहे पुंयुते प्रविवेश। तद्विवृणोति- पुन्देहमपीत्यादिना ॥ वरः पुंसाः सह पुन्देहे स्थित्यैवोपयुक्तोभूत्। तदुक्तं गीतातात्पर्ये ‘पुंसा सहैव पुन्देहे स्थितिः स्यात् वरदानतः’ इति । यद्वा शिववरेपि शिवप्रसादेपि शिवोपि प्रसन्नः तां अन्यथाकर्तुं समर्थो नाभूत् । अत एवं वरं दत्तवान् तस्यै न तु सैव पुमान् बभूव(च) । वरस्तथा कर्तुमशक्तः । सर्वात्मना स्ववैय्यर्थपरिहारार्थं एवं वरः। एवम्भावस्यापि वरसापेक्षत्वात्॥ 114 ॥ तन्तुषु लीयमानं तन्तुलीयमानम्॥ 118-126 ॥ रमां ऋते रमावेशं ऋते। अत्र तु रमावेशो नास्ति। तथापि रमावेशमपि सम्पाद्य । सा पूतदेहा सम्यग् रमावेशयोग्यदेहा॥ 127॥ सम्यग् रमावेशाभावात् अतिभीषणं प्रदर्शये ॥ 129 ॥ ॥ मातृदोषत इति ॥ तदुक्तं जयद्रथयामले - ‘ऋतुस्नाता तु या नारी यं निरीक्षेत कामतः । सेककाले च मनसा स्त्री यद्रूपसंस्थिता ॥ तद्रूपं जनयेत् पुत्रमिति वेदविदां मतम् ’॥ 131॥ शूलप्रापकं किं कर्मेति माण्डव्येन पृष्टो यमः मक्षीवधात् शूलप्राप्तिरित्युवाच। तस्य च मक्षीवधस्य । माण्डव्यस्य तु मक्षीवधः शूलप्राप्तिकारणं न किन्तु अयोग्यकामनैव। यमस्तु शापं गृहीतुं तथैवोक्त्वा विविच्य नोक्त्वा शूद्रत्वमवापेति॥ 139-159 ॥ हि यस्मात् । वसु अमा सह आसीत्। तत् तस्मात् वसुषेणः ॥ 160 ॥ ऋतायननामेति छेदः॥ 162॥ ॥ क्षीराब्धाविति ॥ यद्यपि भीष्मपर्वणि भीष्मेणोक्तमित्युक्तमाचार्यैः। ‘मानसोत्तरशैले हि पुरा ब‘ह्मपुरःसराः। स्थिता देवास्तदापश्यत् ब‘ह्मैको हरिमम्बरे॥ स्तुत्वा सम्पूज्य भूमेस्स भारावतरणाय च। प्रार्थयामास तेनोक्तं देवानामवद्विभुः ॥ अयं नारायणो देवः पूर्णानन्तगुणार्णवः। आज्ञापयति वः सर्वान् प्रादुर्भावाय भूतले॥ स्वयं च देवकीपुत्रो भविष्यति जगत्पतिः॥’ इति॥ तथापि प्रथमं क्षीराब्धौ ब‘ह्मणा सह देवाः नारायणमुपाश्रितवन्तः । तथैव द्वितीयं मानसोत्तरे प्रार्थितवन्तः इत्यविरोधः ॥ ‘जगाम सत्रिनयनः तीरं क्षीरपयोनिधेः’इति भागवते । विष्णुपुराणे च ‘तथा गच्छत गच्छामः क्षीराब्धे उत्तरं तटम्’ इत्युक्तत्वात् प्रथमं क्षीरसमुद्रमित्युक्तमेव। अथवा क्षीरसमुद्रतीरेपि कश्चन मानसोत्तरनामको गिरिरस्ति। तत्र स्थिता देवा इति वक्तव्यम् । यद्वा क्षीराब्धौ प्रार्थनां कृत्वा आगत्य मानसोत्तरे स्थिताः तत्र गगने ब‘ह्मापश्यत् तत्रापि विज्ञापयामास देवोक्तं देवान् प्रत्युक्तवानिति॥ -171॥ चिदात्मा जीवः । यथा विष्णुपरः ज्ञानादिसाधनवान् ॥ 172-234 ॥ ये पाण्डवानामभवन् सहाया इति मनसा वाचा वा सहाया इति ग‘ाह्यम् ॥ 235-236 ॥ ॥ इति एकादशोध्यायः ॥

॥ अथ द्वादशोध्यायः॥ ॥ 1-3॥ ततो मातुलात् गरीयसः श्रेष्ठस्य गरीयसो अपराधादिना वधो भविष्यतीति॥ 4 ॥ कोपादुक्तवानितिद्वितीयशापस्योपयोगः। स चापि नान्येन भवत्पितेति। केचित्तु ‘चतुर्मुखवरस्य कालनेमिप्रसूतदेहविषयत्वात् न दोषः’ इति वदन्ति । तच्चिन्त्यं हिरण्यशापस्यैव वधत्वात् । तदुक्तम्- ‘अवध्ययोः शम्भुवरादवध्यानकृतोः सताम् । मच्छापोपि तयोर्मोघः स्यादग्निह्रदयोरिव॥’ इति शापादिनापि मरणं वध एव। अत्रापि उत्तरत्र ‘वरात् स्वसम्भवदसौ न शापशक्तिमानभूत्’(17.240) इति। अस्तु को दोष इत्यत आह इति चेत् ‘नान्यः कश्चित् तद्वराणां शापानामप्यतिक‘मी’ इत्युक्तेरिति॥ 13-14 ॥ ॥ तदा मुनीन्द्रसंयुत इति ॥ आचार्यैः भारतकथाहरिवंशकथा च स’लय्योच्यते । अन्योन्यसम्बन्धत्वात्। ‘शशा’पुत्रात्’ इत्यारभ्य ‘सदावागाहातिपवित्रिता‘ः’ इत्यन्तं भारतकथोदिता । ‘एतस्मिन्नेव काले’ इत्यारभ्य ‘तान् न्यहनच्च कंसः’ इत्यन्तं हरिवंशकथा । पुनः भारतकथानुसन्धानपूर्वकं आह- तदा मुनीन्द्रसंयुत इत्यादिना॥ तत्स‘पूतद्युसरिद्वराम्भः सदावगाहातिपवित्रिता‘ः शतशृ‘पर्वते न्यवसत् । तदा मुनीन्द्रसंयुत इत्यन्वयः। अपुत्रत्वात् तव अधिकारो नास्ति इति न्यवारयनितिभारताद्युक्तेरभिप्रायमाह- यदर्थमित्यादिना ॥ 16 ॥ ॥ अतोन्यथेति ॥ पुत्रा न सन्ति तस्मात् शुभयोग्यो नेति न्यवारयदिति चेत् नराः सुतान् ऋते सद्गतिं व‘जन्ति तन्न स्यादित्यर्थः। अतः ग‘न्थान्तरे सुताभावात् न्यवारयन् इत्युक्तिसद्भावेपि एवमेव तदुक्तेस्तात्पर्यमवगन्तव्यमितिभावेन यदर्थमेष इत्याद्युक्तम्। सुताभावे सद्गतिः कुत्र दृष्टेत्यत आह- यथैवेति॥ 18 ॥ तदा यदा न्यवारयन् तदा गर्भगाः बभूवुः। न तु पृथिव्याम्॥ 19 ॥ तत् गान्धारीगर्भोत्पत्तिवचनं मुनीन्द्रभाषितं पुत्रोत्पादनविषयम्॥ 20 ॥ सुतं विनेत्यादिकं अनुवादः ॥ 21 ॥ अपुुत्रत्वात् तव अधिकारो नास्तीति न्यवारयनिति भारताद्युक्तेरभिप्रायमाह- सुरास्तथा उत्तमं स्त्रियं विहाय स्वयोग्याभिः रेमिरे। कृते आदिकृतयुगेति। तान् विहाय उत्तमान् विहायाधमे न रेमिरे। सुरस्त्रियोपि यदा कृतान्तादौ अतिकारणैः अन्यथा स्थिताः उक्तादन्यथा स्थिताः ताराद्याः दुरन्वयाः दुःखेन स्वभर्तृन्वयाः ()। ततः नीचस्थात्। या अधमं व‘जेत तस्या निष्कृतिः न । समे तु सा । अयमभिसन्धिः। पतिं समाश्रिता या पतिव‘ता सा ततोधमं स्वपत्यधमं स्वतो वरमपि । इदमुपलक्षणम्। पतिसममपि व‘जेत् चेत् तस्या निष्कृतिः नास्तीति। उत्तरत्र ‘भर्तुर्गुुणैरनधिकौ तनयार्थमेव माद्र्या कृतौ सुरवरावधिकौ सतोपि’ इत्युक्तेः॥ 29 ॥ अयुक्तमुक्तवान् ‘य एव मद्गुणाधिकः ततः सुतं समाप्नुहि’ इति। यथाकथञ्चित् परपुरुषस‘स्त्वयुक्तः। अविहितत्वादिति भावः । तथापि ते वचः अलङ्घ्यमेव । तथा (यथा) पुत्राः जायेरन्तथा करिष्ये इत्यर्थः॥ 30 ॥ एवेत्यस्य सुयोधन इत्यनेनान्वयः॥ 42 ॥ शरीरिणो मनुष्याः॥ 45 ॥ यया आर्जुनेः वधाय तपः कृतम् । तत्कारणं तु ग‘न्थान्तरादवगन्तव्यम्॥ 52 ॥ शुक्लादिव्यावृत्त्यर्थं संस्पर्शमात्रादित्युक्तम् । भारतेपि कुन्तीमालिङ्ग्य जनयामासेत्युक्तम् । तदभिप्रायोयम्। असौ शतशृ‘नामा पर्वतः यस्मिन् शतशृ‘े पाण्डुः उवास असौ पर्वतः शतशृ‘गिरिःप्रसूत्यां अखिलः सर्वतः। तेनैव पातेनैव। सञ्चूर्णित इत्यन्वयः। ‘ताभ्यां समेतः शतशृ‘पर्वतं नारायणस्याश्रममध्यगे पुरः’ इति पूर्वोक्तेः । अनेन ‘चूर्णीकृतोशतशृ‘गिरिः प्रसूत्याम्’ इति एकोनविंशोध्याये युधिष्ठिरं प्रति कुन्तीवचनाच्च । तेन शतशृ‘नामा अभवदित्यत्र न नियामकं पश्यामः॥ ॥ तदैव शेष इतिपुनः हरिवंशकथां स्पृशति। क‘मात् समावेशयदाशु देवकीगर्भाशये तान्यहनच्च कंसः। तदैव शेषो हरिणोदितोविशदिति योज्यम्। तदैैव कालव्यवधानमन्तरेण ॥ -90 ॥ सविष्णुनेत्वा इत्यत्र सविष्णुः विष्णुसहितः न इत्वा इत्वना शकटेन सहितः इत्वासहितः॥ 91 ॥ विवर्धमाने कृष्णे तस्मिन् काले पाण्डुः पृथामाह- तद्द्वयमत्र योग्यं तत् तस्मात ् द्वयं पुत्रद्वयं अत्र राज्यपालने योग्यं समर्थम्॥ 95 ॥ नासौ सुतदानाय योग्यः तव जामातृत्वात्॥ 96- ॥ अत्र प्रकृतानां प्रसिद्धानां यादवानां पाण्डवादीनां वयःक‘ममाह- बृहस्पतिरित्यादिना॥ पूर्वं सात्यकियुधिष्ठिरप्रभृतीनां पूर्वम्॥ 100-101 ॥ तदैव तस्मिन् दिवसे एव ॥ 102॥ तस्यापरेद्युः यस्मिन् दिने दुर्योधनो जातः तस्याः परेद्युः। अनेन दुःशासनभीमसेनौ एकदिवसे जाताविति ज्ञायते। ‘शतं दुर्योधनादयः’ ‘बभूवुरन्वहं च ते’ इत्युक्तत्वात् । भीमसेनात् मासद्वयन्यूनः बलदेवः । यो लक्ष्मणः शेष एव पुत्रः अभूत् । यः गुणाधिकः स्वावरापेक्षया सः शेषःविष्ण्वावेशी स मे सुतः स्यादिति रोहिणीतपस्तेपे॥॥ सा यशोदा सूनोः तनौ ददर्शेत्यन्वयः । अभिमानो अहङ्कारं तनौ आदर्शे प्रतिबिम्बमिव ददर्श॥ 114-119 ॥ स परेशः इत्यन्वयः । गते अर्जुनोत्पत्त्यनन्तरं अल्पे काले गते पाण्डुमिति शेषः॥ 120-124 ॥ कारितौ आकारितौ । अश्विभ्यां नकुलसहदेवोत्पत्तिं घटयति- विशेषनाम्नेत्यादिना॥ समाहुता समाहूता । इति हेतोः विशेषनाम्ना तयोः समाह्वानं युक्तम्। तयोस्तु नासत्यः दस्र इति विशेषनामापि अविशेषितं उभयोः बोधकम्। अतस्तौ नासत्यदस्रौ आगच्छतमित्याहूतवती । विशेषनाम्ना …स्यैव उभयोः योगः रूढिः । योगश्च रूढ्या विशेषनामत्वं योगेनाविशेषनामत्वं योगरूढिरेव विशेषनामत्वदोषः सम इति ()। अस्याः आह्वाने मन्त्रावृत्तिः स्यादिति चेदाह-मन्त्रावृत्तिरिति॥ अस्य मन्त्रेणाहूयमानदेवद्वयस्य नामभेदे मन्त्रावृत्तिः स्यात्। द्वयोः दोषः स्यात्। स च नास्ति। विशेषनामाप्यविशेषितं तयोः इत्युक्तम्। विशेषनाम्नः कथमविशेषितत्वमिति चेत् उच्यते एकस्मिन् शकितरन्यस्मिन् लक्षणा । तथाच उभयबोधकत्वेनाविशेषित्वं यस्मिन् शक्तिः तं प्रति विशेषनामवत्वं च । अत एव सदावियोगाविति शक्यसम्बन्धो दर्शितः। वाजं भूविशेषनाम …… र्वणि(अत्र ग‘न्थपातः सम्भाव्यते)। एको नासत्यः अपरो दस्र इत्युक्तेश्च। नासत्यश्चैव दस्रश्च स्मृतौ द्वावश्विनौ नृप। नैतयो नामभेदोस्ति सहितौ चरतः सदा ॥’ इति शान्तिपर्ववचनादविशेषितत्वं च ज्ञायते। वयं तु सुराः विशेषनाम्ना समाहूता सुतान् दद्युः । एवेत्यनेन नान्यथा इत्युच्यते इति हेतोः अश्वीति नाम तयोरश्विनोः न विशेषितं विशेषनाम । अपिशब्दात् विशेषितविशेषनामापि तयोश्चन्द्रसूर्यादिनामवत् अस्तीति ज्ञायते। तदुक्तं ‘एको नासत्यः अपरो दस्र’ इति नासत्यदस्रशब्दयोर्विशेषितविशेषनामत्वं स‘यादिनाम्नां तु अविशेषितविशेषनामत्वमिति। अत एवोक्तं न चैतयोर्नामभेदः क्वचित् …ति एतयोरश्विनोः देवयो क्वचिन्नामभेदो नास्ति । अश्विन्यादिनाम्नां अभेदेन व्यवहाराच्च क्वचिदित्यनेन दस्रादिशब्देषु नामभेदोस्तीति ज्ञायते। अविनाभूतयोः अविनाभूतानां वा अविशेषितविशेषनामत्वं नाम अविनाभूतयोः प्रवृत्तिनिमित्तैक्येन प्रवर्तमानत्वम्। अत एवोक्तम्- ‘सदावियोगौ दिविजेषु दस्रौ’ इति। तद्भेदेन प्रवर्तमानत्वं विशेषितविशेषनामत्वमिति। उभयाह्वाने मन्त्रावृत्तिं विना उभयोरागमनं कथमिति चेदाह- मन्त्रावृत्तिरिति॥ अस्याहूयमानदेवद्वयस्य नामभेदे मन्त्रावृत्त्या भाव्यम् । प्रकृताश्विशब्दे स नास्तीत्यर्थः । शान्तिपर्ववचनेपि क्वचिदिति वक्तव्यम्। आचार्यैः तथोक्तत्वात्। तस्मात् अश्विनाम्नोभ्याह्वानं कृतवतीत्यलं विस्तरेण॥ ॥ सामान्यनामत्वं तु विनाभू तानां प्रति प्रतिविलक्षणलि‘वतां वाचकत्वमिति ज्ञातव्यम्। युधिष्ठिराद्येषु चतुर्षु वायुः समाविष्ट इति वायुप्रवेशस्य प्रयोजनं तु … द्रौपदीभोगप्रस‘े स्पष्टम् ॥॥ द्वात्रिंश‘क्षणोपेतमग्र्यं भीमस्य रूपं पाण्डोः प्राकृतत्वात् मूर्खत्वात् न प्रतिभाति। अतः अन्यं सुन्दरं पुत्रमैच्छदित्यर्थः॥ पूर्वेन्द्रः स्वायम्भुवमन्वन्तरेन्द्रः। षष्ठः चाक्षुषमन्वन्तरस्थः। अत्र वैवस्वतमन्वन्तरे । सप्तमोपि स एव पुरन्दरः। तथा च पुरन्दरस्य मन्वन्तरद्वये इन्द्रत्वं ज्ञातव्यम्॥ 134 ॥ स्वतवसः स्वरूपतेजसः स्वेन विष्णुना तवः पालनं येषां ते तथा विष्णुपालिता इत्यर्थः ॥ ॥ इति द्वादशोध्यायः॥

॥ अथ त्रयोदशोध्यायः॥ ॥ 1-59॥ तदानीं षड्विधान्नं भुक्त्वा ताः विप्रपत्न्यः विससर्ज इत्यन्वयः । तत्रैका पतिप्रविधृता विष्णोः पदमाप। शरीरं त्यक्त्वा विष्णुपदमेवापेत्यर्थः। अयं विशेषः भागवतादवगन्तव्यः ॥ 60-66 ॥ गोभृद् स्वर्गनायकः। सहस्रगुः सहस्रनेत्रः इन्द्रः सुरभ्यादिगोगणेन ‘अथाह सुरभिः कृष्णं अभिमन्त्र्य (अभिवन्द्य - अभिनन्द्य इति प्रचलितपाठः) मनस्वनी। स्वसन्तानैरुपामन्त्र्य गोपरूपिणमीश्वरम्॥’ इति भागवतोक्तेः ॥(10.25.18) अगाधगुं साकल्येन वेदप्रतिपाद्यम्। अग्र्यात् लक्ष्मीतत्वात् अग्र्यम्॥ 67-69 ॥ गोगणेशः दिग्गणेशः ॥ 70-76 ॥ अस्य रुद्रस्य स‘युः कुबेरस्य॥ 77॥ आसुराणां असुरावताराणाम्। कुवलयापीडचाणूरमुष्टिकादीनाम् । तदुक्तं हरिवंशे- रुष्यो (रिष्टो इति प्र.पा) नाम दितेः पुत्रः वरिष्टो दानवेश्वरः (दानवेषु यः इति प्र.पा)। कुवलत्वमगात् दैत्यः कंसस्यैव स वाहनः॥ (स कुञ्जरत्वमापन्नो दैत्यः कंसस्य वाहनः - प्र.पा) योऽसौ कुवलयापीड इति नाम्ना भुवि श्रुतः। (इदानीन्तनपाठे नास्ति - चित्रशाला) वराहश्च किशोरश्च दानवौ तौ (यौ) महाबलौ। म‘ौ कंसगतौ (र‘गतौ) तौ तु जातौ चाणूरमुष्टिकौ॥’ इति॥ वायुर्जीवभूतः । ‘कंसाविष्टो स्वयं भृगुः’ इति भागवततात्पर्योक्तेः॥ ॥ इति त्रयोदशोध्यायः॥

॥ अथ चतुर्दशोध्यायः॥ ॥ 1-9 ॥ न केवलं बाह्वोर्बलेन सर्वलोकैः न जितः किन्तु ब‘ह्मेशचण्डमुनिदत्तवरादजेयः । न केवलमजेयः किन्तु मृत्यूज्झितः । अवध्य इत्यर्थः । न केवलं स्वयं न जितः जगतो विजयी च । चण्डमुनिश्चण्डकौशिकः । ‘ब‘ाह्मणः चण्डकौशिक’ इत्यादि भारतोक्तेः॥ 10-19 ॥ ॥ रामद्वितीय उदगादिति ॥ रामेण सहेति शेषः । ‘तं चुकोपयिषुरग‘त उग‘सेनं कृष्णो निधाय समगात् स्वयमस्य पश्चात्’ इति उत्तरत्रोक्तेः ॥ 20 ॥ ‘प्रद्युम्नो योधयामास’ इति हरिवंशोक्तेः । प्रद्युम्नस्य तदानीं अभावेन प्राप्ताप्रामाण्यं परिहरति- प्रद्युम्नमाश्वसृजदिति ॥ 39-43 ॥ वर्धत्सुः पाण्डुतनयेष्वित्यादिना पुनः भारतकथामाह । ‘क‘मात् संस्कारान् क्षत्रियाणामवाप्य तेऽ वर्धन्त स्वतवसो महित्वना। सर्वे सर्वज्ञाः सर्वधर्मोपपन्नाः सर्वे भक्ताः केशवेऽत्यन्तयुक्ताः ॥’ इति वर्धत्सु पाण्डुतनयेष्विति …चतुर्दशं त्विति सम्बन्धः॥ 44 ॥ माद्रवत्येति तृतीया सहयोगे॥ 45 ॥ निशम्य वच इति शेषः॥ 49 ॥ तस्या एवेत्यन्वयः॥ 51॥ भर्तुर्गुणैरनधिकौ भर्तुः पाण्डोः परावहनामकमरुत्वात् उक्तशेषशतस्थत्वं ‘विष्वक्सेनोश्विनौ तौ गणपतिधनपावुक्तशेषाः शतस्थाः देवाश्च’ इत्युक्तेः अश्विनोः पाण्डुसमत्वमेव नत्वाधिक्यं अतः अनधिकावित्युक्तम्। ‘वरं समाश्रिता पतिं व‘जेत या ततोऽधमम्’ इत्युक्तत्वात्। स्वतोऽधममपि पत्यधमं व‘जेत् चेत् ‘न काचिदस्य निष्कृतिः’ इत्याद्युक्तम्। स्वतोऽधमश्चेत् भर्तृर्लोकप्राप्तिर्नास्ति ‘तारादेहे सूर्यजस्या‘स‘ात् स्वर्गं नागादन्तरिक्षादिहासीत्’ इति। स्वतो वरश्चेद् दुरन्वयाः सुदुःसहा भवति। बृहस्पतिभार्याया चन्द्रस‘ात् दुरन्वयत्वम्, माद्र्याः दुःसहत्व..निष्कृरित्येतत्समम्। बृहस्पतिभार्यायाः बलात्कारेण चन्द्रधर्षणात्निष्कृतिः न तद्देेहे प्रायश्चित्तमभूत्तद्देहे स्वभर्तृप्राप्तिश्च। माद्रवत्याः कामेनाधमगमनात् अश्विनोः स्वतो वरत्वेऽपि पत्यवरत्वात् पतिमृतिहेतुत्वं दुःसहत्वम्। स्वतो वरत्वात् देहान्ते भर्तृलोकप्राप्तिः । शच्यास्तु स्वतोऽप्यधमगमनात् स्वभर्तृमरणानन्तरत्वात्??? भर्तृलोकप्राप्तिर्नासीदित्यादिविशेषाः ज्ञातव्याः । मृतिः सन्यासः । ‘सन्यस्य गतवान् पाण्डुः तनयाः क्वनु तस्य वै’ इति भारतोक्तेः॥ ॥ विचित्रवीर्यादिव्यावृत्त्यर्थं स्वकीयैः सम्यङ्नियोगमनवाप्येति॥ 57 ॥ पितरि प्रजीवति असन्यस्ते ॥ 58-73 ॥ ॥ तत्कोटियोजनगभीरमुदं विगाह्येति॥ तस्याः भागीरथ्याः कोटौ प्रान्ते दशयोजनगभीरमुदं विगाह्य भागीरथ्याः कोटियोजनगभीरमिति वा । …गाधस्य ह्रदस्य कोटियोजनगभीरमिति सञ्ज्ञा वा॥ 74-88 ॥ ॥ यः पूर्वमास दितिज इति॥ यः पूर्वमास स एव रुग्मीति प्रसिद्धो बभूव । न तु ग‘न्थान्तरोक्तरीत्या शुचिः।??? हि कुण्डिनेशो रुग्मी पूर्वं शुचिरन्योऽभवदित्यत आह- स एव कुण्डिनेशः॥ न त्वन्यो रुग्मी नाम अस्ति। तर्हि रुक्मी शुचिः पूर्वमित्यादेः का गतिरित्यत आह- शुचेस्स भागेत इति॥ शुच्यंशयुक्तत्वत्वात् तथोक्तिरिति भावः ॥ यो अस्य पिता भीष्मकः राजा स तु मित्रभागः मित्रांशः । हि अयमर्थःएवं निर्णयग‘न्थे निर्णीतः॥॥ सुयोधनमुखानामक‘मं अन्यायम्। आम्बिकेयं स्वपुत्रवशवर्तिनं जानन्नित्यन्वयः । एवेत्यस्य गत्वेत्यनेन सम्बन्धः । न तु स्वगेहमाहूयेत्यर्थः॥ 95-112 ॥ ॥ इति चतुर्दशोध्यायः॥

॥ अथ पञ्चदशोध्यायः ॥ ॥ 1-4 ॥ प्रभूतसुशुभप्रतिभोऽपि पुनः परां प्रतिभामवाप।‘ क‘मादामुक्तेः व्यक्त्यतिशयोपेतम्’ इत्युक्तत्वात्॥ 5-6 ॥ भारतकथामनुसरति- यदा भरद्वाजेति॥ 7-8॥ ॥ रसमस्य सोऽवैदिति॥ पूर्वमजानन् वा। ‘धर्मो हि सर्वविदुषामपि देवतानां प्राप्ते नरेषु जनने नरवत्प्रवृत्तिः। ज्ञानादिगूहनमुताध्ययनादिरत्र’ इत्युक्तेः ज्ञानगूहनं वेति ज्ञातव्यम्। नियत्या इच्छया। कृपया भार्यया। ‘कृपामाप कृपस्वसां’ इत्यन्यत्र प्रयोगात्। आर्तरूपः निजधर्मप्रहाणभयेन ॥ 10 ॥ सुराणां नरयोनिजानां द्रुपदविराटधृष्टद्युम्नादीनाम्। ननु द्रुपदादीनां रणमध्ये मरणात् परलोके शुभप्राप्तिः युक्ता। धृष्टद्युम्नादीनामथ अतथात्वात् कथं तेषां शुभप्राप्तिः । रणमध्यहननात् न द्रोणस्य दोषः । अश्वत्थाम्नः सुप्तमारणोक्तेः… इत्याश’ां परिहरति- तेषां वृद्धिः स्यात् इत्यादिना॥ पाण्डवार्थे हतानां पाण्डवसम्बन्धत्वेन हतानाम्। अश्वत्थाम्नः देवसन्तत्युच्छेदस्य भगवत्प्रियस्य कारित्वान्न दोषः। उत्तरत्र विष्ण्वाज्ञाविरोधित्वात् दुर्गन्धिदेहादिकं प्रापेत्यभिप्रायः ॥ 14-18 ॥ अनुद्बलानां दुर्बलानाम् । अतद्बलानामित्यपि पाठोऽस्ति। सुसूक्ष्मा अतिरहस्या॥19-24 ॥ अ‘यत् अपश्यत्॥ 25 ॥ भृशनीचात् अतिदूरगाधात्॥ 27-28 ॥ सुरपूज्यस्य बृहस्पतेः पौत्रं द्रोणम्। कञ्चनविप्रं विज्ञाय ॥ 29-30॥ त्रिवर्गमु‘यः धर्मः त्रिवर्गेषु प्रथमत्वात् मु‘यत्वम् ॥ 31-35 ॥ उन्मादनादीनि सम्मोहनादीनि॥ 36॥ नित्ययोद्धा नियमेन योद्धा। कदाचित् युद्धस्य कृतत्वात्। तदुक्तमुत्तरत्र। ‘ततः परेद्युः पुनरेव भीमभीष्मौ पुरस्कृत्य समीयतुस्ते। सेने तथा (तदा) सारथिहीनमाशु भीष्मं कृत्वा मारुतिरभ्ययात् परान्॥’ इति।(25-71) तथा- ‘इत्युक्तवाक्यः स गदां समाददे चिक्षेप तां द्रोणरथाय भीमः। उवाच चाहं पितृवन्मानये त्वां सदा मृदुस्त्वां प्रति नान्यथा क्वचित्॥ अमार्दवे पश्य च यादृशं बलं ममेति तस्याशु विचूर्णितो रथः । गदाभिघातेन वृकोदरस्य ससूतवाजिध्वजयन्त्रकूबरः॥’ (26-123,124) ‘आपद्येव हि भीमस्तान्निवारयति नान्यथा’(22-126) इति॥ 37-45 ॥ रामशिष्यः राम अयोग्येषु नोपदिशति अतः अयमपि तथा ॥ 46 ॥ भृगुपो रामःतस्याश्रममाय ॥ 47 ॥ एनं समाश्रित्य विश्वस्य दृढो भवेतेत्यन्वयः ॥ 49-50 ॥ ॥ दातुं च वालिनिधनस्य फलं तदस्येति॥ फलं तद्योग्यं फलम्। यद्यपि पूर्वं ‘पुरा स वालिमारणात् प्रभूतदोषकारणात्। सहस्रवर्मनामिनासुरेण वेष्ठितोजनि॥’ इत्युक्तम्। तथापि तस्य दोषस्य तत्फलमल्पम्। तद्योग्यमन्यदपि फलं दातुं चेत्यर्थः । अस्य कर्णस्य। कर्णवधलक्षणसुरकार्यहेतोः । सुराः प्रसिद्धा वा तदवताराः पाण्डवाः॥ 51 ॥ ॥ औपरिगात्वचश्चेति॥ आ उपरिगा त्वच इति छेदः। अधस्तनतः आ आरभ्य उपरिग आ त्वचः त्वक्पर्यन्तमित्यर्थः । उकारस्य औकारः ॥ 53-54॥ ततो भयादाह- जात्यास्मीति॥ ते तनयोऽस्मि अतो भार्गववंशजविप्र इत्युक्तम् । अन्येषांविद्यमानत्वात् कथमित्यत- मु‘य इत्युक्तम् ॥ 55 ॥ विमानगः स्वः । अत एव पूर्वं राक्षसवर इत्युक्तम् । नृरक्ष??? इत्यादित्यावत् पुण्यराक्षसः॥-61 ॥ धनुः धनुर्विद्याम्। ननु पूर्वं चतुर्दशाध्याये ‘तत्रैकलव्य उत कृष्णशरैः पलायन्नस्त्राणि रामशिरसि प्रमुमोच शीघ‘म्।’ इत्युक्तत्वेन एकलव्यः अस्त्राणि पूर्वमेव वेद अतः कथं पुनरस्त्रार्थं द्रोणं पूजयामासेत्यत आह- पैशाचमेवैष इत्यादिना ॥ ॥ इति पञ्चदशोऽध्यायः ॥ ॥ अथ षोडशोध्यायः॥ एवं विस्तरेण कुरुपाण्डवकथां निरूप्य पुनः कृष्णकथामाह- कालेति॥ 1 ॥ क्षत्रियाणां निन्दितं पलायनं किमर्थं कृतवानित्यत अभिप्रायमाह- सन्दर्शयन्नित्यादिना॥ 2-3 ॥ नारायणः कथं मुक्तस्थाने वर्तते ..इत्यत आह- अजः उत्पत्यादिदोषरहितो नित्यमुक्त इत्यर्थः। सुपर्ण इति तस्य पुरपालकत्वात्। अयं विशेषः हरिवंशादवगन्तव्यः॥ 7-8 ॥ ॥ नारायणस्य शीर्ष्ण्यप्यासीदिति॥ अचिन्त्य …आसीदित्यर्थः॥ ॥ कान्तिश्चागात् तस्य सोमस्य चान्येति ॥ तस्य रौहिणेयस्य । रोहिणीपुत्रव्यावृत्त्यर्थं तस्येत्युक्तम्। तस्य ..त पर्वते प्रकृतस्य रौहिणेयस्य रामस्यैव नतु कृष्णस्य । ‘श्रीश्च देवी वरिष्ठा स्त्री रौहिणेयमुपस्थिता’ इति हरिवंशोक्तेस्तात्पर्यमाह- सैवापरमिति॥ ‘तत्र सन्निहिता श्रीश्च यत्र सन्निहितो हरिः। नास्य सन्निधिमात्रेण रमा पत्नीत्वमाव‘जेत्॥ साक्षादेव तु साक्षाच्च हरेः सन्निधितः क्वचित्। गोप्यादिरूपा भवति विपरीतं न तु क्वचित्॥’ इति चतुर्थस्कन्धतात्पर्योक्तेः(14.50)आवेशावतारे साक्षाद् श्रीभोगानुपपत्तेः। अन्या वारुण्या अन्या। सोमस्य चन्द्रस्य भार्या अन्या कन्तिश्चागात् । बलभद्रं दृष्ट्वा कामेनागात् । द्वयोः तत्रप्राप्तयोः पूर्वतना सुरूपा पूर्वं प्राप्ता तद्भार्या सुरूपा। अनेन बलभद्रया कामनया नागात्? । (अनेन स्व) किन्तु स्वयं कामुकी अगात्। तदुक्तं हरिवंशे- ‘मदिरा रूपिणी भूत्वा कान्तिश्च शशिनः प्रिया। प्रोवाच प्रणता कान्तिः स’र्षणमवस्थिता॥ अहं चन्द्रादपि गुरुं सहस्रशिरसं प्रभुम् । स्वैर्गुणैरनुरक्ता त्वां यथैव मदिरा तथा ॥’ (2.41.15,27) इति । ‘वरं समाश्रिता पतिम्’ इत्यादौ अधमगमनस्यैव दुष्टत्वमुक्तम्। नोत्तमस‘स्य। ‘तस्य रामस्य अन्या भार्या कन्तिश्चागात्। चन्द्रप्रिया कान्तिश्च अन्या सात्र नागात्’ इत्याहुः। सुधामा सु आश्रयः ॥ ॥ इति षोडशोध्यायः ॥

॥ अथ सप्तदशोध्यायः॥ चेदिपे दमघोषे। पूर्वं कृष्णरामाभ्यां सह गते । ‘तौ तु स्वल्पेन कालेन दमघोषेण स‘तौ । नगरीं मथुरां प्राप्तौ वसुदेवसुतावुभौ ॥’ इति हरिवंशोक्तेः॥ 1 ॥ सः रुक्मिनामकः पूर्वं इल्वलावतारत्वेन प्रोक्तः प्रसिद्धः। श्रियः रुग्मिण्याः॥ 2-6 ॥ नान्यथा भवेत् अन्यो न भवेत् ॥ 7 ॥ कदाचिदेव…जित इति वर्तते । स्वाभिप्रायमप्रकाशयन् ‘निरायुधं च मामयंं वराच्छिवस्य न क्षमः’ इत्यादिकं लोकवञ्चनार्थमुक्तमिति ज्ञातव्यम् । अभिप्रायस्तु अनेन कृष्णो वध्य इति गर्गस्य शिववरोऽस्ति। अकृष्णतां य आनयेत् भुवोपि वृष्णिनाशक इत्यभिप्रायेण गर्गः तपश्चकार । ‘वरं ततोऽभिपेदिवान् सुतं हरेरभावादम्’ इत्युक्तत्वात् । ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहांशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥’ इत्यभिधानात्हरिशब्दस्य सर्पवाचकत्वात् अकृष्णतामित्युक्तत्वात् श्रीकृष्णः रुद्रवरमाननार्थं कृष्णपन्नगं घटे निक्षिप्य प्रेषितवान्। यवनः एनं हनिष्यति अनेन वरो गतार्थो भविष्यति। ‘अयोग्यषु तु रुद्रादिवाक्यं तौ कुरुतो मृषा । एकदेशेन सत्यं तु योग्येष्वपि कदाचन॥’ (9-38) इत्युक्तेः गर्गस्य योग्यत्वात् एवं चकारेति ज्ञातव्यम् । वृष्णिनाशक इत्युक्तं मृषा चकार । एकदेशेन सत्यं इत्युक्तत्वात् रुद्रेण च तस्मात् तस्यैव दत्तत्वात् । अथवा ‘अकृष्णतां य आनयेत् भुवोऽपि वृष्णिनाशकः’ इति गर्गाभिप्रायत्वात् वरग‘हणकाले हरेरभाव…मात्रस्यैव दत्तत्वात् वृष्णिविनाशादिप्रसक्त्यभावः । एतदभिप्रायमज्ञात्वा घटं पिपीलिकागणैः प्रपूर्य अहिं मृतं व्यदर्शयत्। किञ्च हरिवंशे ‘यवनोऽ यं महाबाहुः हरिं कृष्णं हनिष्यति’ इति गर्गवचनस्य विद्यमानत्वात् ब‘ाह्मणोक्तनिर्वाहार्थं च कृष्णपन्नगं घटे प्रेषयामासेति गर्गाभिप्रायस्याकिञ्चित्करत्वात्। …उच्यते तस्यैव प्रधानत्वात्॥॥ मूर्च्छितो देहभावरहितः॥ 172 ॥ अर्यमांशकौ अर्यमा च अंशश्च। अंशो अंशको । अर्यमांशकौ आदित्यौ । तदुक्तं हरिवंशे- ‘इन्द्रो विष्णुर्भगस्त्वष्टा वरुणोंऽशोऽर्यमा रविः। पूषामित्रश्च वरदः मनुः पर्जन्य एव च॥ इत्येते द्वादशादित्याः ….॥’ इति॥ 175 ॥ वासुदेवादिषु तृतीयः प्रद्युम्नः॥ 182-188 ॥ अन्यया तन्वा ॥ 189॥ सा कुत्र स्थिता इत्यत आह- गृहेऽपीति॥ निजस्वरूपतः आसुरे गृहे स्थिता तथापि तेन निजस्वरूपेण असुरं न गच्छति स्म। शम्बरेण दूषिता दूषिता भवेत्येव शशाप अतः शम्बरगृहे साऽसीत् ॥॥ रोहिणी जाम्बवती॥ 211 ॥ सहाय एव सहाये एव सहायार्थमेव। तादर्थ्ये सप्तमी॥ 228 ॥ धार्तराष्ष्ट्रा‘यः सर्पः॥ 293॥
॥ इति सप्तदशोध्यायः॥

॥ अथ अष्टादशोध्यायः ॥ ॥ 1-5 ॥ वैश्यत करवदग‘हीत्नान्यत्र तु कथञ्चनेति॥ 6 ॥ भीमरूपमपेक्ष्येयमुक्तिः मूलरूपेणान्यत्रअस्त्रयुद्धस्य कृतत्वात्। तदुक्तं एकादशाध्याये - ‘निरीक्ष्य शक‘ं च विमोहितं द्रुतं न्यवारयत् तं पवनः शरौघैः। अस्त्राणि तस्यास्त्रवरैः निवार्य चिक्षेप तस्योरसि काञ्चनीं गदाम् ॥’ इति॥॥ ॥ आज्ञयैवास्त्रदेवांश्चेति॥ ‘न हि भागवतो धर्मो देवाताभ्युपयाचनम्’ इत्युक्तेः। तर्हि किमिति नास्त्रयुद्धं चकारेति। एतस्य काम्यकर्मत्वात् न चकारेति। तदुक्तम्-‘ह्यस्त्रं काम्यफलप्रदम्’ इति। काम्यकर्मत्वेप्यलम्बुसादौ विष्ण्वाज्ञया चकार न स्वयमतो न दोष इति ॥ 16 ॥ न केवलं उग‘सेनादयः (नाप) रामोऽपि इत्यपेरर्थः॥ 19 ॥ मूलरूपेप्येवमेवेत्याह- देवा इति॥ 26 ॥ द्विजोत्तमः ब‘ाह्मणः क्षत्रियवैश्योत्तमत्वात् द्विजोत्तमः ॥ 39-97 ॥ साऽहङ्कारात् व्यलम्बयत् । ‘साल’ारात् व्यलम्बयत्’ इत्यपि पाठः॥ 98 ॥ ग‘न्थान्तरे द्रौपद्यां श्रीशब्दप्रयोगोऽस्ति। तस्याभिप्रायमाह- (श्रीरूपेति)॥ (शंरूपमिति) ॥ 104-107 ॥ अतितरां सर्वलक्षणसंयुता पूर्णसर्वलक्षणसंयुता। अथवा इतरापेक्षया अतितरां व्यवहारादिषु पार्वत्यंशयुक्तेति। ‘भारत्येव तु पार्वती’ इत्युत्तरत्रोक्तेः। उमाद्यावेशकारणमाह- पूर्वमित्यादिना॥ ब‘ह्मण इत्यनादरे षष्ठी। पश्यन्तं ब‘ह्माणमनादृत्येत्यर्थः॥ 109 ॥ तत्र मनुष्ययोनौ॥ विचार्येति ॥ द्विवारं ब‘ह्मणा शप्ताः तेनास्माकं चतुर्जन्म भवेत्भूमौ । तत्रैकस्मिन् जन्मनि अन्यगात्वं च तत्र उत्तमपुरुषं गच्छामेति विचार्य॥ 110 ॥ सर्वथा अपरिहार्यम् ॥ 111 ॥ पूर्वं एतच्छापात् पूर्वं अन्यत्र स्थलान्तरे॥ 112 ॥ एनं ब‘ह्माणम्। शापप्रकारमाह- एकेति॥ 113 ॥ अतो वयं चतुर्ष्वपि जन्मसु त्वयैकदेहत्वमिच्छामः । ब‘ह्मणैव त्रिश इति शप्ताः एकस्मिन् जन्मनि वयमेव एकदेहत्वमिच्छामः । यतः प्रथमं मानुषीं योनिं आप्स्यथ इति सामान्यशापः द्वितीयशापे च … एवेत्यवधारणाभावात् चतुर्ष्वपि जन्मसु एकदेहत्वमिच्छाम इत्यर्थः। अत्रान्ये व्याचक्षते‘यतः चतुर्जन्म भवेदतः चतुर्षु जन्मसु मध्ये त्वया सह एकदेहत्वमिच्छामः। एवं चतुर्ष्वपि जन्मसु एकदेहत्वं शच्यादिभिर्वाञ्छितमिति न भ‘मितव्यम्। तथा च एकदेहत्वं त्रिजन्मसु मध्ये एकतमे अन्यगात्वंं भविष्यतीति भाव’ इति। अस्मत्पक्षे चतुर्षु एकदेहजन्मसु मध्ये एकतमे अन्यगात्वं भविष्यतीति भावः । द्वितीयशाप एवान्यगात्वस्योक्तत्वात् एवं व्या‘येयम्॥ 113 ॥ मया एकदेहत्वे किं प्रयोजनमित्यतस्तदाहुरित्याह- त्वामिति॥ अन्यगात्वेऽपि मारुतागामित्वमेवास्माकं त्वयैकदेहत्वप्रयोजनमिति भावः ॥ 116 ॥ कस्यचिद्विप्रस्य शिवनामकस्य कन्याभवत्॥ 117 ॥ तत्र (कन्या) विप्रकन्याजन्मनि पार्वतीयुताश्चतस्रः शच्याद्याः कर्मैक्यार्थं पार्वत्यादिकृतव्यापाराणां स्वकृतकर्मणश्च एकविषयत्वार्थम् । अन्यथा विरुद्धकर्मत्वेन एकशरीरस्थानां तदुन्मथनादिप्रस‘ः स्यादिति भावः। कर्मैक्यप्रार्थनमपि??? विष्णुतोषणार्थमितिकृत्वा न शुद्धभागवतत्वविरोधः । मानुषेष्वपि जन्मसु मध्ये कुत्रचित् जन्मनि ॥ 121 ॥ नलनन्दिनी नलस्य राज्ञो नन्दिनी पुत्री नाम्ना इन्द्रसेना। देवीनां बहुत्वात् बहुवचनम्। देहस्यैकत्वादेकवचनञ्च॥ 122 ॥ कथान्तरे कस्याश्चित् कथायां मध्ये । अहं कामरहित इति मानिन्। अभूतये नरकाद्यनर्थप्राप्तये॥ 124 ॥ शापस्यानुग‘हः शापानुग‘हः तम् । अनुग‘हं स्पष्टयति- न त्वमिति॥ 125 ॥ मूर्च्छां देहाभिमानाभावम्। पापं देवा‘नासम्बन्धजम्॥ 126 ॥ गृहीत्वा उदूह्य॥ 127 ॥ केचन वरद्वयम‘ीकृत्य द्रौपदीजन्मनि देवकीचित्रा‘दादिजन्मनि च स्वभर्तृयोगं वदन्ति । अस्माभिः विप्रकन्याजन्मनि तपस्तप्तं शिवेन वरो दत्तः तथा द्वितीयजन्मनि नाभूत् इतः परं वा अव्यवहितजन्मन्येव स्वभर्तृयोगो भवतु शिवप्रसादेनेति विचिन्त्य पूर्वं दत्तवरस्य शीघ‘प्राप्त्यर्थं महत्तपश्चक‘े। ‘प्रददौ चतुरः पतीन्’ इत्यत्रापि अव्यवहितजन्मन्येव ददौ इति ॥॥ पञ्चकृत्वः पञ्चवारमवदत्। पतिं पत्या सह विष्णोरनन्ततोषणं वरं पूर्ववद्ददौ॥ 132 ॥ चतुरः चतुःसङ्‘याकान् ॥ 133 ॥ चिद्योगात् जीवानां परमसूक्ष्मदेहानां एकत्रयोगात्। क्षीरनीरवत् यथा क्षीरं नीरं च एकत्र स्थितं मिश्रितं स्थूलदृष्टिभिः न ज्ञायते। तथा अहमेकैव इत्यज्ञानात् रोदनं तेनेन्द्रस्य रुद्रशापः । ततो रुद्रस्य मृषावचनं तेन रुद्रस्य ब‘ह्मशापः । ततोर्जुनाश्वत्थामादिरूपेण देवानामवतारार्थं तासाम… मित्यर्थः॥ 146 ॥ वरोऽयं ते मृषा भवेत्। ‘एकदेशेन सत्यं तु योग्येष्वपि कदाचन’ इति ह्युक्तम् । उमायाः स्वपतिप्राप्त्यभाव व्यवहाराभावस्तर्हि इत्यत आह- पार्वत्यैवेति॥ पार्वती भारत्या संयुक्ता हानोपादादिषु व्यवहारेषु प्रवर्तत । नचान्यथा इतरदेवीवत् पतिप्राप्तितया॥ 149 ॥ जाता मिलिताः । नावज्ञा तेऽत्रकारणम्। मदवज्ञानादेव किं न स्यात् इत्यत आह- इति श्रुतिरिति॥ अन्यथा चेत् श्रुतेरप्रामाण्यं भवतीति भावः॥ 150 ॥ ॥ पञ्चदेवीति॥ प्रथमं विप्रकन्या ततो नलनन्दिनी तृतीया द्रौपदी। एवं चतुर्थं जन्मास्तीति ज्ञातव्यमित्यस्मदाचार्याः । एके तु ‘चन्द्रेति काचनपञ्चदेवीतनुः’ इति वदन्ति । अपरे तु ‘जन्मत्रये एकदेहत्वं श्यामलायाश्चतुर्थं जन्म देवकी इति चित्रा‘देति शच्याः, जरासन्धकन्यारूपं उषायाः, एवं पार्वत्या अपि चतुर्थं जन्मास्तीति ज्ञातव्यम्’ इति। सैषा पञ्चदेवीतनुः नालायनी द्रौपदीनामा भवत् ॥ 151 ॥ स्वोक्तार्थे बहुप्रमाणतो सम्मतिमाह- वेदेष्विति॥ 152 ॥ सुता च सुतश्च सुतौ तयोः जातयोः सतोः॥153-155॥ लोभतः रामास्त्राणां अन्यत्राभावा‘ोभतो अग‘हीत्॥ 156-157 ॥ शूरनुजसुतासुता कृतवर्ममाताशूरपुत्री कुन्ती एवं मातृभगिनीसुतत्वात् भ‘ातेत्युक्तम् ॥ 159-168 ॥ ॥ इति अष्टादशोध्यायः ॥

॥ अथ एकोनविंशोध्ययः ॥ गुरुदेवतादिसत्सु विषयेषु नास्तिक्यनीतिमतुलां गुरुः नास्ति देवता नास्ति धर्मो नास्ति परद्रोहादिना पापं च नास्तिइति प्रतिपादकं शास्त्रमित्यर्थः ॥ 1 ॥ तदुपदेशकगुरुनामाह- नाम्नेति॥ असुरको द्विजः । असुरेष्वपि वर्णविभागोऽस्तीति अनेन ज्ञायते। अथवा पूर्वमासुरकः असुरेषु कुत्सितः। इदानीं कलि‘ोऽभूदिति॥ 2 ॥ कुत्सितनीतिं लेशेन दर्शयति- छद्मैवेत्यादिना॥ यत्र यस्यां नीतौ छद्मैव परमं परमतात्पर्यगोचरम् । सुराः न पूज्याः यदि च पूज्याः तदा स्वार्थेन द्रव्यादिप्रयोजनोद्देशेन जगतो वञ्चनकृते पूज्याः। अयं देवपूजादि करोति। अतः सज्जन इतिजगतो बुद्धिं जनयित्वा द्रव्यादिस्वार्थं सम्पाद्य इत्यर्थः । रत्यादिकुशास्त्रप्रतिपाद्यश्रवणेन यस्य पुंसः धर्मादिकार्यम्। आदिशब्देन निषिद्धत्यागः । अपीत्यनेन ऐहिकादिकमपि महोपधिः स्यात्महाकपटः स्यात् । स महाछद्मवान् पुरुषः निखिलासुरदैत्यस‘ात् महान् श्रेष्ठ इत्यर्थः। (इति योजना)॥ 3 ॥ अज्ञाते देशे रहसीति यावत्। स्वभावबलतः योग्यतावान् ॥ 4-5 ॥ हृदयप्रजाता औरसाः॥ 6 ॥ प्रसभं बलात्कारेण वा ॥ 7-8 ॥ नानुगुणं श्रेयश्च इति शेषः । निजवीर्यभवोच्छयेषु स्ववीर्यसम्पादितोत्कर्षेषु ॥ 9 ॥ प्रतिषेधकाः विरोधिनः॥ 10-12 ॥ त्रयोदशसमाः आसन्। तावत् तावत् कालमारभ्य । अयं वक्ष्यमाणा विधिः उपायः॥ 13-15 ॥ त्रिंशच्छतं सहस्रत्रयम् । ‘त्रिंशदधिकशतम्’ इति केचित्। मनवो मन्त्राः। प्रविहिताः प्रयोजिताः भीमे वीर्यवन्तो न स्युः। इत्यहं अमून् न नियोजयामीति सम्बन्धः ॥ 16 ॥ अयातयामैः अगतरसैः। ……… इतिवत् मनुशब्दस्योभय… सूचनार्थम्॥17॥ विष्णुः विष्णुप्रतिमा। जयन्तो नाम्ना। शम्भुः शिवप्रतिमा सहायो यस्य स तथा। देवोत्सवः विष्णोरुत्सवः॥ 23 ॥ पितृवचनं कर्तव्यमिति नीतिहेतोः॥ 25 ॥ भीमस्तदाह भवितेत्यतत्र तदा ह इति पदच्छेदः। जगाद हेत्यन्वयः। तदा तदानीं भीमः । अत्र गमने सति भैक्षाचरणं भविता भविष्यति। तच्चास्माकमयोग्यः। निजं तु कर्म न त्याज्यम्। तुशब्दः एवार्थको वा । न त्याज्यामेवेत्यन्वयः। इति सम्यगनुविद्यैव ज्ञात्वैव निजाग‘जाय इति जगाद ह। अतो वयं न याम ति च जगादेत्यनुवर्तते।अथवा वयं गृहान्न याम इति जगादेति सम्बन्धः ॥ 26 ॥ अनुवृत्त्यैव अग‘जानुवृत्त्यै। उभयतः ज्येष्ठानुवृत्तिज्ञातस्वधर्मानिरूपणाभ्याम् ॥ 28 ॥ तर्हि ‘यामो वयं न तु गृहात् स हि न स्वधर्मः’ इत्युक्त स्वधर्मत्यागरूपदोषः (स्यादित्यत) आह- कीर्त्यर्थमिति ॥ भीमस्य उभयदोषं स्थितौ पितृव्यातिक‘मणेन कीर्तिनाशः गमने स्वधर्मत्याग इति पाक्षिकमुभयं दोषं प्रतिहन्तुमीशः प्रतिहातुं समर्थो भगवान् पितृव्याज्ञापालनरूपकीर्त्यर्थमेव निजधर्मपरिप्रहाणे प्राप्तेरिति अग‘जस्य वचनात् प्रतिहातुमेव स्वधर्ममिति शेषः। वृषस्य सुतं ज्येष्ठं चकारेत्यन्वयः॥ 29 ॥ ज्येष्ठकरणस्य प्रयोजनान्तरमाह- हन्तव्यतेति॥ अत्रापि दोषद्वयं हन्तव्यत्वयोग्यदुर्योधनाद्यहननं हनने तेषां दोषानाविष्करणं चेत्युभयम्। अत्र दुर्योधनादिदोषाविष्करणार्थं हन्तुं योग्यं दुर्योधनादिहननलक्षणनिजधर्मप्रहाणे प्राप्ते अग‘जस्य वचनात् निजधर्मं प्रहातुमेव अग‘जं चकारेति॥ 30 ॥ अमुत्र वारणावतं प्रति विष्णुपद्यां कृत्वेति आवर्तते। ग‘ा …इत्यर्थः ॥ 32 ॥ अमुया तु आनुकूल्येन प्रवर्तितुम् । अहो भवदागमनमाश्चर्यम्॥ 34 ॥ वसया मेदसा । प्रतीतो भव सावधानो भव ॥ 35 ॥ उक्त्वा स्मारयित्वा। वर्त्म चक‘े इति सम्बन्धः ॥ 36 ॥ वृतिच्छलेन प्राकारनिर्माणव्याजेन। तस्य वर्त्मनः॥ 37 ॥ पूर्वभुजितः भ‘ातृभोजनात् पूर्वं विषमिश्रपायसभोजनात् भीमस्य च जीर्णत्वात् पाण्डवहननं कर्तुं न शशाक। भीमसेनः तया आनीतं (पायसं) विषसम्पृक्तं इति ज्ञात्वा भ‘ातृन् निवार्य अधिकं मम क्षुदिति तत्सर्वं खादितवान् । अयं विशेषो भारतादवगन्तव्यः॥ 39 ॥ अबलतां दुर्बलताम् ॥ 41 ॥ स्वमुखेन साक्षात् स्वद्वारा॥ 43 ॥ निखिलेन सर्वेण प्रकारेण ॥ 46 ॥ अभियापयते अभ्ययापयत्॥ 48 ॥ शच्या अपरा शक‘दयितैव । भारते तस्याः श्रीरिति नाम श्रूयते तदभिप्रायमाह- सुरेन्द्रेति॥ मारुतं मारुतावतारम्॥ 49 ॥ अनूक्तं पुनः पुनरुक्तम्। तावन्मात्रेण तत्परिग‘हे मातृज्येष्ठाभ्यां स्नेहादुक्ते कामेन ज्येष्ठात् पूर्वं स्त्रियं जगामेति लोकाः वदन्तीति तद्वाक्येन हिडिम्बापरिग‘हमकृतवान्॥ 58 ॥ सुनियतेः अतिनियतत्वात्॥ 69 ॥ बकस्य साक्षात् दातव्यः । न तु व्यवधानेनान्यमुखतः । अतः समग‘ं दातव्यमिति भावः ॥ 73 ॥ न कन्यायार्थ लौकिकः । प्रत्युत पितृधनं परिगृह्य पतिगेहं गच्छति॥ 75-78 ॥ रामायणेश्रीरामविक‘मणकाले॥ 79 ॥ यास्यामः शुभां गतिमिति …. व्यः॥ 80 ॥ गुरुभिरस्माभिः उक्तोऽपि नो नियुक्ते न प्रयोजयति। तथापि अप्रयोगेऽपि ॥ 82 ॥ महास्वधर्मं दुष्टवधलक्षणम् ॥ 83 ॥ निहंसि हन्तुमिच्छसि॥ 84-91 ॥ अग‘े पुरः शकटस्येति शेषः॥ 92-100 ॥ अनन्तरं अनुजम् ॥ 101 ॥ तिलजे तैले । अस्य निक्षिप्य ॥ 103 ॥ पूर्वं स्वर्णावदातोऽपि। जानन्नपि आग्नेयमस्त्रमिति शेषः॥ 114 ॥ कालतः कालान्तरे। अन्वक् अनुकूलतया। अर्जुनानुसारेणेत्यर्थः॥ 115॥ अर्जुनः पश्चादिति किमर्थमवददिति तत्राह- आधिक्यत इति॥ तदानीमेव गन्धर्वविद्याग‘हणे उभे विद्ये साम्ये समे स्यातामिति शेषः । अतो विनिमयं विद्याविनिमयं नैच्छदिति । समयोरेव विनिमय इति नियमात्। अतः स्वविद्यां धर्मतः प्रदाय तद्विद्यां कालान्तरे जग‘ाहेति भावः॥ 116 ॥ निखिलान् दुर्योधनादीन् ॥120-126 ॥ दर्पेण गतो यत इति शेषः । अथ तस्मात् ययावित्यन्वयः । अस्थिरपदः चञ्चलपादस्यामुष्य स्थितिमात्रहेतोः तदन्यव्यापारं कर्तुं असमर्थ इत्यर्थः। जानुनी धरणीं ययतुरित्यन्वयः। रौद्रात् वरात् अयं अन्यवन्न पपातेति । अनभिवीक्ष्य लज्जयेति शेषः॥127 ॥ ॥ दुर्योधनार्थमिति॥ स्वस्यान्यसेवकत्वेनागतत्वात्। विद्धेऽपि लक्ष्ये फलं स्वामिनं व‘जति। तदपि स्वस्येष्टं मन्वानो स्वाम्यर्थमुद्योगं चकारेति। केचित्तु ‘स्वस्य सूतत्वात्’ इति व्याचक्षते। तन्मन्दम्। ‘एतेन कार्मुकवरेण तरूपरिस्थमत्स्यावभासमुदके प्रतिवीक्ष्य येन। एतैः शरैः प्रतिहतो भवतीह मत्स्यः कृष्णानुयास्यति तमद्य नरेन्द्रवीराः ॥’ इति इह धृष्टद्युम्नेनोक्तं न तत्र क्षत्रियादिवर्णविचारः। तथा उत्तरत्रस्थ ‘स प्राह मन्दहसितः किमिहाद्य राजन् पूर्वं हि वर्णविषये न विशेष उक्तः। पुत्रीकृते तव सुतेन तु लक्ष्यवेध उक्तो नरेन्द्रसमितौ स कृतोप्यनेन ॥’ इति ॥ तस्मादस्मदुक्त एवार्थः सुरसः॥128-130॥ प्रियतः प्रीतिपूर्वमित्यर्थः ॥ 131 ॥ मूर्तं देहधारी। धनुर्वेदो वा इति शेषः । भारते तथोक्तेः । नागाह्वयं पुरं प्रति । न तु पुरं प्राप्ताः । भारते अर्धमार्गादेव पुनर्युद्धायागता इत्युक्तेः । ‘अथो विविशुः’(170) इत्युत्तरत्र पुरप्रवेशोक्तेश्च॥ 31-146 ॥ चतुरः नीतिकुशलः। चतुरो गृहानिति वा ॥ 147॥ विवक्षितवीर्यं वक्तुमिष्टं वीर्यम् ॥ 148-153॥ हरेर्यज्ञनाम्नः। पश्चात् पूर्वेन्द्राः। सम्प्रतितनश्च इदानीं वैवस्वतमन्वन्तरेन्द्रः सप्तमः स एव षष्ठः। षष्ठः सप्तमश्च एक एव। त इमे पाण्डवा हि ॥ 154-157 ॥ कार्ये इति विषयसप्तमी॥ 158 ॥ जनकद्रुपदयोः सन्तोषसाम्यप्रतीतिं निवारयति- ततोऽन्विति॥ जनकादनु ॥159॥ कृष्णागमनात् प्राक् प्रवृत्तं युद्धमाह- वैचित्रेति ॥ मार्गमध्ये ते पाण्डवा इति चारमुखतः सम्यक् ज्ञात्वा पुनः युद्धाय पाञ्चालपुरीमापुः॥ 166 ॥ अपि दुर्योधनादीन् गर्हयित्वा ॥ 175 ॥ आनीतये पार्थानयनार्थं एकं दूतं विनियुज्य । नृप एषु इति विभागः ॥ 177 ॥ बृहस्पतिः मेषादिराशिषु एकैकवत्सरं प्रविश्य यावता कालेन सञ्चरति तावत् कालं परिवत्सरं कथयन्ति । कृष्णाया पाण्डवेषु रमणप्रकारं आह- कृष्णेत्यादिना॥ यद्यप्येकतनुः तथापि अभिमानभेदात् जीवभेदात् निमित्तात् चतुस्स्वरूपा श्यामलादिचतुःस्वरूपा न तु देहभेदात् । तेषु पाण्डवेषु पृथगेव रेमे । एकैकस्मिन् दिने एकैकेन रेमे इति भावः॥183 ॥ ननु अभिमानिभेदेप्यभिमन्यमानस्यैकत्वात् देहापेक्षया व्यभिचारः स्यादित्यत आह- कन्यैवेति॥ प्रतिवासरं च द्रौपदी कन्यैवाभवत् । यतोऽतः देहतोऽपि अन्यगात्वं नास्ति। ननु कथमेकस्यैव शरीरस्य प्रतिवासरं कन्यात्वमित्यत आह- जन्माभवदिति॥ हि यस्मात् तस्मादस्य देहस्य प्रतिवासरं जन्माभवत् अतः कन्यात्वं युक्तम् । शरीरस्यैकस्यैव प्रतिदिनं सर्वैः दृश्यमानत्वाद् अनुभवविरुद्धंम्प्रतिवासरं तज्जन्म इति चेत् । सत्यं देहैक्यं तथापि अभिमानिनां पृथक् पृथक् प्रतिवासरं तस्मिन् देहे पूर्वाभिमाननाशात्। उत्तराभिमतेः उत्पाद्यमानत्वात् इति शेषः। तथा च प्रतिदिनमभिमानोत्पत्तिनाशापेक्षया देहस्योत्पत्तिनाशा‘ीकारात् देहापेक्षयापि न व्यभिचार इति भावः । भारत्यामपि इतरासामिव किं नेत्याह- प्रायो हीति ॥ प्रायः सर्वात्मना । ननु तर्हि युधिष्ठिरदिवसे भारत्याः नीचयोगः स्यादित्यत आह- तस्मादिति॥ हि यस्मात् मरुत्पत्नी भारती प्रायः अभिमतिनाशं नावाप तस्मात् मरुच्च सकलेषु युधिष्ठिरादिषु अनुविष्टः आसीत्॥ 184 ॥ ततः किं इत्यत आह- धर्मात्मजादिष्विति॥ धर्मात्मजादिषु चतुर्षु प्रतिविष्टो मरुदेषां युधिष्ठिरादीनां वाणीविषये बुद्धिं विमोह्य तया भारत्या सततं प्रतिदिनं रमते। यत् यस्मात् तस्मात् द्रौपद्याः युधिष्ठिरादिभिः सहावस्थानसमयेऽपि तत्प्रविष्टमरुतैव रमणात् सा भारती शुद्धैव। तदन्यसंसर्गाभावादिति योजना। हीत्यनेनास्यार्थस्यानेकप्रमाणप्रसिद्धिं द्योतयति। एकस्याः भोगसमये अन्यासामभिमानवर्जनं किमिव भवतीत्यत तत्र दृष्टान्तमाह- सम्मोहत इति॥ एकस्याः भोगसमये दिवसे इतरासां सम्मोहतः तद्देहस्मरणाभावपूर्वकमभिमतित्यागतः यथास्मदादीनां अन्यदेहे अन्यदेहेन भुज्यमाने अभिमानाभावः तथा नेत्यर्थः। मरणवद्भवति मरणमिव भवति। उपसंहरति- भवतीह कन्येति॥ इह अव्ययानामनेकार्थत्वात् इत्युक्तप्रकारेण दिने दिने द्रौपदी कन्यैवेत्यतो न दोष इत्यर्थः ॥ 185 ॥ मरणवद्भवतीत्युक्तम्।तं परिशेषप्रमाणप्रदर्शनपूर्वकमुपपादयति- नो सुप्तिवदिति॥ इदं द्रौपदीदेहे एकस्या भोगकाले अन्यासामभिमानवर्जनपूर्वकमवस्थानं सुप्तिवन्नो भवति। अतः अन्याभिमानतः । अत इति हेतुं विवृणोति- देहस्यान्यवशत्वतो हीति॥ अस्मदादिसुप्तौ देहस्य अन्याभिमानिवशत्वाभावात् अत्र तत्सद्भावात्सुप्तिवन्नेति भावः । हरेः संस्मृतितः देहाभिमानरहितानामितरासां हरिसंस्मृतिसद्भावात् मोहो नैव। मूर्च्छितानां हरिस्मृत्यभावात्। एतासां च तत्सद्भावात् मोहवन्नेति भावः । तत एव हरिस्मृतिसद्भावादेव आवेशवत् ग‘हस्यावेशवच्च न। ततः उक्तक‘मेण सुप्त्यादित्रयवैलक्षण्यादेतत् देहाभिमानवर्जनपूर्वकमवस्थानं मृतेः सरूपं मृतिसदृशं सम्यक् मृतिरपि न भवतीति मृतेस्सरूपमित्युक्तम्। अनेन मरणवद्भवतीत्येतत् परिशेषप्रमाणसिद्धमित्युक्तं भवति। अनेनात्रेदमनुमानमपि प्रमाणं सूचितम्। एतत् देहाभिमानवर्जनं मृतिसदृशं भवितुमर्हति सुप्तिमोहावेशविलक्षणाभिमानवर्जनत्वात् व्यतिरेकेण देवदत्तजाग‘द्वत् ॥ परमप्रकृतमुपसंहरति- प्रतिदिनमिति॥ अत इति शेषः। अतः पूर्वाभिमानराहित्यस्य मरणसादृश्यात् प्रतिदिनं निरन्तरं जननात् अभिमानजननात् कन्या कन्यैव भवति। अतो न काप्यनुपपत्तिः॥ 186 ॥ धर्मात्मजादिषु मरुत्प्रविष्ट इत्युक्तमुपसंहरति- एवमिति॥ अनुनिष्टयुधिष्ठिरादिभीमात्मना। अनुविष्टा युधिष्ठिरादयो येन सः अनुविष्टयुधिष्ठिरादिः अनुविष्टयुधिष्ठिरादिश्च भीमश्च तावात्मा स्वरूपं यस्य सः अनुविष्टयुधिष्ठिरादिभीमात्मा तेन युधिष्ठिराद्याविष्टचतुस्स्वरूपेण भीमेण चेति भावः। ननु युधिष्ठिरदेहे युधिष्ठिरः तदाविष्टो वायुश्चेति द्वौ तिष्ठतः। एवमर्जुनादिदेहेऽपि । एवं कृष्णादेहेऽपि भारती स्वयं स्वस्वदिने श्यामलादिष्वन्यतमेत्येवं प्रतिदिनं द्वे स्त्रियौ तिष्ठतः। एवं सति युधिष्ठिरः भारतीमपोह्य स्वस्त्रियं रमते तदाविष्टो मरुत् भरतीं रमत इत्येतद् कथं घटते । अस्मदादिष्वदृष्टत्वादित्यत आह- अन्यादृशा हीति॥ सुरभुक्तिः सुरभोगः अन्यादृशा मनुष्यभोगविलक्षणा। मानुष्यभुक्तिःअतः सुरभोगात् अन्यरूपः विलक्षण इतिहेतोरत्रोक्तार्थे (युक्तिः) न घटतीति विचारविषयो नास्ति । अतः यदुक्तं तत्सर्वं स‘त एवेत्यर्थः । केचिट्टिप्पणिकारास्तु कृष्णाजन्मन्यपि अन्यगात्वमिति व्याकुर्वन्ति। तेषामभिप्रायं न जानीमः । ‘विलासं दर्शयामासुः’ इत्यादिना एकस्मिन् जन्मन्यन्यगात्वं आचार्यैः दर्शितम्। ‘ब‘ह्मणैव हि शप्ता स्मः’ इत्यादिना त्रिषु जन्मसु एकदेहत्वं दर्शितम्। रमणप्रस‘ेऽपि देवीनां मरुतः स‘ो न दर्शितः । कृष्णाजन्मन्यप्यन्यगात्वं चेत् तर्हि युधिष्ठिररमणदिवसे श्यामलायाः युधिष्ठिरस्थवायुनापि सम्बन्धः । शच्यादीनां वायोः केवलं सम्बन्धः स्यात्। भीमरमणदिने भीमेनैव सर्वासां च । तथार्जुनरमणदिने शच्या अर्जुनेन सम्बन्धःतत्स्थवायोः सम्बन्धश्च । श्यामलादीनां केवलं वायुना सम्बन्धः । तथा नकुलसहदेवयोश्च । तथा सति ‘अभिमतेः पृथगेव नाशः’ इत्याद्युक्तिः (..न स्यात् )। तस्मात् कृष्णाजन्मन्यन्यगात्वं न घटते इति प्रतीयते॥ 187 ॥ प्रकृतकथामाह- वासिष्ठयादवेत्यादिना॥ ‘ऊषुः तथैव परिवत्सरपञ्चकं ते पाण्डोर्गृहे सुसुखिनोऽखिलभोगयुक्ताः’ इति पूर्वमुक्तं तेनास्य सम्बन्धः। तत्र पाण्डोर्गृहे। युतसत्कथाभिः। युतत्वं नाम परस्परप्रश्नपरिहारवत्वम्। अयुतसत्कथाभिरिति वा । बहुसत्कथाभिरित्यर्थः॥ 188 ॥ पाण्डवविवाहमुक्त्वा दुर्योधनादीनमुद्वाहं वक्तुं पूर्वकथामाह- पूर्वं हीत्यादिना॥ कृष्णाविवाहात् पूर्वं वनगेषु हिडिम्बादिवने वसत्सु सत्सु ॥ 189 ॥ एकान्ततः नियमेन, निश्चयेनेति यावत् ॥ 192 ॥ नानुयाति दातुमिति शेषः । पुरगतस्य तव कर्मणि षष्ठी। पुरगतं त्वां जये विषयसप्तमी । न निष्ठा जेष्यामीति निश्चयो नास्ति॥ 192 ॥ भीष्मादयोऽपि न हि योधयितुं समर्था इति। अत एवोत्तरत्राचार्यैः उक्तम्- ‘कीचकस्य हिडिम्बस्य बककिर्मीरयोरपि। जरासन्धस्य नृपतेः कंसादीनां च सर्वशः॥ न बाधनाय भीष्माद्याः अपि शेकुः कथञ्चन॥’ इति (23-36)॥ भीष्मः कस्मात् तद्भृत्यो न … बभूवेत्यत आह- राजा न हीति॥ 194-200 ॥ प्रथमां ज्येष्ठाम् । ‘दुःशासनं विनिन्द्यासीद्दुःखार्ता काशिजा तदा। विलोक्य द्रौपदीं साध्वीं चाक्लिष्टां श्वशुरसन्निधौ॥’ इति भारतोक्तेःकथमलक्ष्म्याः तादृशी बुद्धिरित्यतः तत्रोपपत्तिमाह- गिरिजाधिविष्टामिति॥ षडाननस्य प्रियां देवसेनाम्। तदुक्तं वायुपुराणे- ‘शतक‘तोः रूपवती देवसेनेति या श्रुता(सुता)। सा महेन्द्रेण रत्यर्थे भार्यात्वेनोपपादिता॥ उदीर्णसेनापतये महासेनाय सुव‘त॥’ इति ॥ 201-202 ॥ तदनु द्रौपदीमुद्वाह्य पाण्डवागमनादनु पाण्डवगमनानन्तरम्। तां च तत् द्रौपदीञ्च ॥203-206॥ मृतकप्रतीपाः मृतसदृशाः॥ 207-209 ॥ स कृष्ण इत्यत्र भिन्नं पदम् ॥ 210॥ ॥ इति एकोनविंशोध्यायः ॥ ॥ अथ विंशोध्यायः॥ ॥ 1-10॥ स्वीयां भार्यां श्यामलाम्। यत्सहजः यद्भ‘ाता॥ 11-14 ॥ साधुभिः प्रमाणमूलकैः। सम्प्रयुक्तैः व्याप्तिमद्भिः, न दुष्टैरित्यर्थः॥ 15 ॥ तथा शाक्तेयस्कान्दसौरादिकानां निन्दामित्यन्वयः। तत्रैव साङ्‘यादिशाक्तेयादिशास्त्र इव। छन्दसां वेदानां वैष्णवत्वं विष्णुपरत्वम् ॥ 16 ॥ शिवादिभ्यः विष्णोराधिक्यं तानि शास्त्राणि शैवादिशास्त्राणि । वेदे तु कुत्रचिदपि शिवादीनां विष्णूत्कर्ष उक्तो नैव। कुत्रचिदित्यस्योभयत्र सम्बन्धः॥ 17 ॥ लोकायताः चार्वाकाः॥ 18 ॥ कपिलात्मिकां कपिलगोरूपाम् । परीक्षयन् मद्बलमिति शेषः॥ 21 ॥ केदारे केदार‘ये क्षेत्रे। वेदविदामगम्यताशापं केदारं क्षेत्र ॥…. (अत्र आदर्शपुस्तके गलितोऽयं भागः)

कालिन्द्याः अन्यां यमुनानुजातां यमुनानुजाम्। पूर्वं कृष्णेन निहताःवृषभाः दितिजा वृषरूपधराः वृन्दावने कृष्णं पीडितुं यशोदाभ‘ातुः कुम्भकनाम्नो गृहे स्थिताः । एतान् निगृह्य समुद्धतान् गृहाणेति तेन लीलयोक्तः तान् निजघान। नीलामवाप च । नग्निजितो गृहे स्थितास्तु असुराः महादेवेन नग्नजिते दत्ताः एतान् निजघान । तूष्णीमगृह्णात् । अयं विशेषः हरिवंशादवगन्तव्यः॥॥ ॥ सा देहे अस्याः प्राविशद्इति ॥ पूर्वदेहमपरित्यज्यैव प्राविशदिति सम्प्रदायविदः॥ 47 ॥ ऋभुगणेषु एकः शैब्यनामा बभूव। ‘ऋभवो नाम तपसा सोमं प्राप्ताः सहस्रशः’ इति भागवतोक्तेः (4.5.12)॥ 50-54 ॥ बाणं नैवाददे कृष्णकीर्त्यर्थमेव । मृषा यत्नं चकारेति ज्ञातव्यम्। अत एवोक्तं ‘पार्था द्रष्टुमिहाभ्युपाययुः’ इति। आयतः सम्बद्धः। ‘आयतंश्च’ इत्यपि पाठः। प्रयतन्नित्यर्थः॥ 56 ॥ दिव्याः अनन्ययोग्याः॥ 59 ॥ रामेण तुल्या रमायाः बहुलावेशकाले रमावेशकालेऽपि जाम्बवती इतराभ्यः किञ्चिदधिकप्रिया ॥ 61॥ (अत्र ग‘न्थोपलब्धिः नास्ति)

परावनान्निमित्तात् पर्वतनामधेयाः । ‘परावनात्’ इति पाठेऽपि अयमेवार्थः। अवनमेव आवनम् ॥ 68 ॥ मत्समाः सौपर्णीवारुण्यः । रूपबाहुल्याभिप्रायेण बहुवचनम् ॥ 69 ॥ ‘आश्चर्यं परमं वेदा धन्या वेदाश्च नारद’ (2.110.66) इति हरिवंशोक्तेः वेदशब्दार्थमाह- वेदात्मिकां प्रकृतिमिति॥ वेदात्मिकां वेदाभिमानिनीम् । बहुवचनस्यापि गतिमाह- सैषा देवी बहुरूपेति॥ ‘आश्चर्याश्चैव धन्याश्च यज्ञाश्चात्मपरायणाः’(हरि.2.110.72) इत्युक्तेः यज्ञशब्दार्थमाह- युक्तेति॥ ज्ञं यातीति यज्ञा। याति ज्ञमिति वा यज्ञनाम्नीत्युक्तम्। तत्र पूर्वोक्तं यज्ञाभिमानित्वे निमित्तं कथयतीत्याह- तत्प्रवेशादिति॥ यज्ञप्रवेशात् यज्ञाभिमानित्वादित्यर्थः । यद्वा ज्ञेन यज्ञेन । यकारलोपः । विष्णोः देवीवत् यज्ञाभिमानित्वं नास्ति इति सूचयति। यदा यज्ञेन नारायणेन यज्ञनामाकनारायणेन । यज्ञनाम्नीत्वे यज्ञकि‘यामानिनीत्येकं निमित्तमुक्तम्।निमित्तान्तरमप्याह- तदावेशादिति॥ तस्य यज्ञनामकविष्णोरावेशात् तदा‘या आविष्टा यज्ञनाम्नी तद’स्थिता। सा तद’स्थिता यज्ञनाम्नी केशवो उत्तमोऽलमित्यूचे ।….. ॥ 71 ॥ (अत्र गन्थोपलब्धिः नास्ति)

‘……………यदा सैव सरस्वती । तदातस्या वरा सैव प्राणसंयोगिनी मता॥ प्राणयोगवियोगाभ्यां सैषैकापि विभिद्यते ॥’ इति(1.1) छान्दोग्यभाष्ये ऋगभिमानिसरस्वत्यपेक्षया वागभिमानिसरस्वत्या उत्तमत्वं प्रतिपादितम् । तथात्रापीति सम्प्रदायविदः॥॥ कुण्डलाभ्यां हृताभ्यामिति पञ्चमी सप्तम्यर्थे। कुण्डलयोः हृतयोस्सतोरित्यर्थः॥ 86॥ ॥ द्वादशीं भीमसञ्ज्ञाम्॥ माघशुक्लैकदशी भीमैकादशी दशमीवेधात् द्वादशी स्यात् । कोटिधाराजलस्य कर्मणि षष्ठी । जलं बभ‘े । सैव हि सत्यभामा नित्यैव या प्रकृतिः सैव हीत्यन्वयः। तदुक्तं कोटिधाराजललक्षणं हरिवंशे- ‘ स्नात्वा स्त्री प्रातरुत्थाय पतिं विज्ञापयेत् सती। श्वशुराभ्यां च चरणौ सततं सन्नमस्य च ॥ गृहीत्वौदुम्बरं पात्रं सकुशं साक्षतं तथा। गोशृ‘ं दक्षिणं सिच्य प्रतिगृह्णीत तज्जलम् ॥ आत्मनोऽथ निषेक्तव्यं ततः शिरसि तज्जलम् ॥(2.78.19-22) (अत्र ग‘न्थोपलब्धिः नास्ति)

बहून् वर्षान् प्रायः पाण्डवपुरे उवासेति ज्ञेयम् । भारते तथोक्तेः॥ 209 ॥ द्वयोः प्रतिविन्ध्यसुतसोमयोः ॥ 211 ॥ न केवलं चक‘ं किन्तु धनुरादिकमपि तथा ॥ 223 ॥ विष्णुरादित्यः॥ 234 ॥ धनुरादिकं ज्या च विद्युत्प्रभा अभेद्येति व्यत्ययेनान्वयः ॥ 227 ॥ चतुष्पक्षिणः मन्दपालस्य ऋषेः पुत्रा जरितारिः स्तम्भमित्रप्रभृतयः । अश्वसेनं तक्षकपुत्रम् ॥ 237 ॥ ॥ इति विंशोध्यायः॥

॥ अथ एकविंशोध्यायः ॥ ॥1॥ ॥ वायुधारितां गदामिति ॥ पुरा मुचुकुन्दः अनया गदया दैत्यान् निहत्य निद्रया मुषितमतिः एनां गदां बिन्दुसरसि निक्षिप्तवान् । तदा मयो दृष्टवान् तां गदामादाय दत्तवानितीयं कथा सभापर्वणि विस्तरोक्तास्ति ॥ 2 ॥ ‘सूर्योपरागः सुमहानासीत् कल्पक्षये यथा’ इति भागवतोक्तेः (10.70.1)तादृशसूर्यग‘हणानन्तरं क्षामादिना लोकनाशः प्राप्तः किं नेत्याह- सुकालेति ॥ तथापि कृष्णः सुकालदर्शनात् (अत्र ग‘न्थोपलब्धिः नास्ति)

अनेनैषां तत्र बहिरवस्थाने योग्यता तावतीति सूचितम् । मुहूर्तं स्थित्वा । जनवञ्चनार्थमिति ज्ञेयम् । स‘ृह्य(प्रगृह्य) स्वोदरे प्रगृह्य, तदन्तरेव स्वोदरे परिगृह्येति वक्तव्यम् । अन्यथा तेषां बहिरवस्थानयोग्यतायां अर्जुनस्य अप्रवेशे निमित्तं चिन्त्यं स्यादिति । मुक्तस्थले अमुक्ताः कथमवसन्निति चेत् यतः त एव …. तव्यमित्युक्तम् । प्रजाताः स्वप्रार ब्धेनेति शेषः ॥ 33 ॥ अन्त्याध्यर्धस्थलं हैमं अन्त्यात् शुद्धोदकात् अधि अधिकं अर्धं यस्य तच्च षण्णवति(लक्ष)योजनमित्यर्थः। ॥ एतत् सर्वं लोकनाम इति ॥ पञ्चाशत्सहस्रोनसार्धकोटित्रयं लोकनामेत्यर्थः । हिशब्दात् लोकालोकाचलस्य यः एतत् सम्बद्धो भागःपञ्चाशत्सहस्रा‘यः तस्यापि लोकनामत्वं ज्ञायते। ‘तुहिशब्दौ विशेषार्थौ हेत्वर्थौ चोऽवधारणे’ इति बागुरिः। आहत्य अर्धकोटित्रयं जातम् । एतस्माद्विगुणं सप्तकोटिसङ्‘याकम् । तद्द्विगुणं चतुर्दशकोटिसङ्‘याकम् । तुरेव पञ्चाश‘क्षविस्तृतप्रदेश एव लोकालोक इत्युच्यते । उर्वरित (अत्र गन्थोपलब्धिः नास्ति)

तद्द्विगुणं लक्षद्वयोनचतुर्दशकोटिपञ्चाशत्सहस्राधिकपञ्चाश‘क्षपरिमित(स्थलं) लोकालोकगिरिः, अनन्तासनं लक्षत्रयपरिमितम्। एवमाहत्य पञ्चाशत्कोटयो ज्ञेयाः । …..तथा तस्य लोकालोकपर्वतस्य तथागणनं… ग‘न्थान्तरेषु ………………. वत्वेन गणनं सर्वं गर्हितं किन्तु पञ्चाशत्सहस्राधिक ……ग‘न्थान्तरे पुनः.. मोहर्थं कथितमिति ज्ञातव्यमिति ॥48॥ ॥ अबग्नीरेति ॥ दशोत्तराणा….. निवीवोक्ता तस्याः ब‘ह्माण्डापेक्षया द्विगुणत्वात् पृथिव्यपेक्षया दशोत्तरत्वात् …………..॥ विमानावलिस’ुल इति विशेषणात् वैमानिकः स्वर्गः अर्धकोट्युच्छ्रितः …… स्वर्गः कोट्युच्छ्रित इति ज्ञेयम् । यद्वा अर्धेति नारदसम्बोधनम् । येन विष्णुना ऋद्धः वृद्धः विष्णुज्ञानेन वृद्धेत्यर्थः । कोट्युच्छ्रितः स्वर्गः विमानावलिस’ुलः। भुव इति वा स्वर्ग इत्यस्य वा स्वरूपकथनपरं विशेषणम्। प्रविस्तृते विस्तारिते। कोटियोजनपरिमितस्वर्गस्य कोटियोजनविस्तारः भोगभूमिविवक्षया । ब‘ह्माण्डखर्परसम्बद्धस्य स्वर्गस्य कोटियोजनविस्तारा…भावात् । अधि अधिकमर्धयोजनं येषां ते तथा। एते महरादयः तत्प्रमाण कोटि षट्कोटियोजनप्रमाणः???। ततश्च द्विगुणः द्वादशकोटियोजनः । यद्वा अर्धकोट्युच्छ्रितस्स्वर्ग इत्यादेः… अन्तरिक्षं लक्षयोजनमुच्छ्रितं लक्षयोजन… इत्युक्तम् । भूमेः उपरि अन्तरिक्षपर्यन्तं लक्षयोजनपरिमितो देशःभुवर्लोक इत्युच्यते । अत्रैव मेघादीनां सञ्चारः। भुवर्लोकः… वा इति वचनात् । अन्तरिक्षे भूम्यपेक्षया लक्षयोजने सूर्यमण्डलं एकोनपञ्चाश‘क्षयोजनपर्यन्तं अन्तरिक्षलोक एव। अन्तरिक्षं त्वया प्रोक्तं लक्षयोजनमुच्छ्रितं ततो अन्तरिक्षादिति वक्तव्यम् । अर्धकोट्युच्छ्रितः स्वर्गः लक्षयोजनो भुवर्लोकः एकोनपञ्चाश‘क्षयोजनो अन्तरिक्षलोकः तदुपरि अर्धकोट्युच्छ्रितः स्वर्गः। आहत्य भूम्यपेक्षया स्वर्गः कोटियोजनोच्छ्रितः । तदुक्तम्- ‘भुवःस्वर्गश्च कोट्यैव योजनानां प्रविस्तृतौ’ इति। स्वर्गश्च भुवः सकाशात् प्रविस्तृतौ उच्छ्रिते विषये योजनानां कोट्यैव परिमितःइति योजना। शेषं पूर्ववत्। स्वर्गादीनां सकन्दानामेवेयं योजनागणना । स इति शेषः। ब‘ह्माण्डपुराणवचनादवगन्तव्यः ॥ -59 ॥ शतगुणोत्तराः शतशब्दो अत्र बहुत्ववाची दिव्यत्वात् । देवनिर्मितत्वात्॥ 60-66 ॥ ‘रामो दाशरथिश्चापि दृष्टो यमसभातले’ इति भारतोक्तेर्भावमाह- उपास्यमानो भगवान् राम इति॥ रामद्वयसुदैवते, सभातले इति शेषः।‘जामदग्न्यश्च रामोऽथ’ इति भारतोक्तेः ॥ 67-81 ॥ हरिश्चन्द्रव्यावृत्त्यर्थमाह- सुयोग्यमिति॥ 82 ॥ महापदे चतुर्मुखपदे। मुक्तिगं वरमिति समुदायैकवचनम् । अयोग्यकान् इति बहुवचनात्वरं आनन्दातिशयवन्तम् ॥ 83 ॥ त्रिश’ुपुत्रकः हरिश्चन्द्रः॥ 84 ॥ स्वयोग्यता मुक्ताविति शेषः॥ 89 ॥ चक‘वर्तिनः हरिश्चन्द्रादयः॥ 95 ॥ अनुभावः सामर्थ्यम्॥ 97 ॥ स भीमः । तादृशः तद्धननसमर्थः । यात्यतां प्रेष्यताम् । जरासन्धवधं प्रतीति शेषः ॥ 101 ॥ करोति रक्षति। राज्यं करोतीतिवत् ॥ 104 ॥ मखे मखार्थम् ।???(इदं पदं मूले न दृश्यते) स धर्मनन्दनः त्रसन् जगादेत्यन्वयः। शूरसेनमण्डलप्रहाणत इति ल्यब्लोपनिमित्ता पञ्चमी॥ 109 ॥ यत् बलं सुरासुरोरगादिनां ‘स वै बलं बलिनां चापरेषाम्’ (7.8.8) इति भागवतोक्तेः॥ 114-123 ॥ दूर्वाससः शापेन शिवसन्निधानहीनं पर्वतलि‘ं न्यपातयन्त। तदुक्तम्- ‘दूर्वासो दुस्स() हंसेन डिभिकेन निराकृतः । जरासन्धं समागम्य जहि तावित्युवाच ह ॥ उपेक्षिते तेन कार्ये शिष्याविति तपोधनः । शशाप मागधं रोषात् त्यक्षतीशः पुरं तव ॥ त्वदर्चितं च लि‘ं वै पर्वतं विफलं भवेत् ॥’ इति भारते॥ 124 ॥ ॥ माषस्य नालेनेति॥ माषस्य माषनामकस्य । तदुक्तम्- ‘वृषभाकारमसुरं माषनामानमाहनत्। आनह्य चर्मणा तेन त्रिस्रो भेर्यः चकार ह॥’ इति भारतोक्तेः। ‘नालेन कण्ठचर्मणा’ इति व्याचक्षते॥ 125-127 ॥ के इति यूयं के। स्थः क्वेति शेषः । कुत्रत्या इत्यर्थः। सत्यं वदत । के यूयं कुत्रत्याः किमिहागता इति च । अन्ये भेरीभेदनादयः॥ 128 ॥
बान्धवान् विवाहबान्धवान्। ‘विवाहबान्धवान् रणे स्व.. रोक्तेः॥ 131 ॥ भक्तिज्ञानादिवर्धनरूपमनुग‘हम्॥ 137 ॥ तेन तदर्थम् । निगमयति- ततो जग्मुः विप्रवेषा इति॥ 140॥ एव……॥ ॥ तदर्थं जरासन्धार्थम्॥ 153॥ वसुना उपरिचरवसुना। बृहद्रथः तत्पुत्रो जरासन्धः । सः रथः नारायणेन शक‘स्य पूर्वं दत्तः शक‘ः सन्तुष्टः वसवे दत्तवान् तेन रथेन उपरि अन्तरिक्षादौ चरः सञ्चरति अतः उपरिचर इतितस्य नाम प्रसिद्धम्बभूवेति कथा भारते ॥ 168 ॥ सहदेवस्य हेतोरिति तस्याः उषावतारत्वात्॥ 169-174 ॥ ‘प्रोक्षितं ते हयं राजन् राजसूये महाक‘तौ’इति भारतोक्तेरभिप्रायमाह- तं राजसूयसहितमित्यादिना ॥ 175-177॥ हेतवो कारणभूताः पुरुषाः। प्रायः बहुलम् ॥ 178-185 ॥ ते पितुः इन्द्रस्य ॥ 186॥ ॥ जीवग‘ाहभयादिति ॥ भीमाय नात्र सन्देहः । तव चेत् सन्देहः । यद्यपि त्वमधिकः तथापि चतुर्गुणबलत्वं तव नास्ति च । ‘जेतुं चतुर्गुणबल’ इत्युक्तेः। चतुर्गुणबले सन्देहो नास्ति अन्यत्र तु संशयः। भीमस्य तु बहुगुणबलत्वात् न सन्देह इति भावः॥ जितोऽनेन च संयुगे इति ॥ यद्यपि कर्णः अर्जुनेनापि द्रौपदीस्वयंवरे जितस्तथापि भीमसहितेन जितः न तेनैवेति भावः। तदानीमप्येतत् सन्निधानं एतत्सहायेनैव जितो अतो भीमेनैव जित इति जितोऽनेनेत्युक्तम्। उक्तं च पूर्वम्- ‘आयान्तमीक्ष्य तरुहस्तमिमं समीरसूनुं सुयोधनमुखा अखिलास्सकर्णाः । भूरिश्रवाश्शकुनिभूरिजयद्रथाश्च सर्वेऽपि दुद्रुवुरथो विविशुः पुरं स्वम् ॥’ (19.170) इति । प्रत्येकं क‘ीडायुद्धादौ चानेन जित इत्यर्थः॥ 187॥ चतुर्दिशः जम्बुद्वीपातिरिक्तद्वीपेषु चतुर्दिशमप्यजयदित्यर्थः॥ 227॥ अन्तर्गताः ईश्वराचिन्त्यशक्त्येति भावः॥ 232-240 ॥ पारः तारतम्यावधिभूतः॥ 241 ॥ ब‘ह्मादयः कुतो मर्त्यवद् दृश्यन्त इत्यत आह- न चैवेति॥ मुनिष्वपि किमु सुरेष्वपीत्यर्थः । अतः अभ्यासाभावात् मर्त्यवद् दृश्यन्त इति भावः॥ 246 ॥ तदेकत्वात् तयोरपि सा पूजा दत्तेत्यर्थः । लोकविडम्बनार्थं तदनन्तरं च पूजां ददुः॥ 254-267 ॥ ॥ विगाह्य जोवीजल इति ॥ इन्द्रप्रस्थात् अवभृतार्थं जोवीं गता इति ज्ञातव्यम् ॥ 268-277 ॥ द्वारं विहाय भित्तिं चुचुम्ब इत्यन्वयः। अभ्यन्तराणां कुड्यन्तरे .. दृशिनः (द्रष्टुं) अविघातिनीं अप्रतिघातिनीम्। सेवकास्तु राजसन्निधौ न पुरो आगच्छन्ति अत्यल्पस्थान……… इति ज्ञेयम् ॥ 278-307 ॥ पाण्डवसभातलात् सुयोधनगमनान्तरं श्रीकृष्णस्य द्वारकागमनप्रकारमाह- गते हि पार्थसन्निधेरित्यादिना॥ 308-317॥ ॥ आहूतो द्यूतरणात् निवर्तेयं नैव वारितोऽपीति॥ द्यूतरणादिति एकवद्भावः। द्यूतरणाभ्यामित्यर्थः। ‘द्यूतकरणात्’ इति पाठः प्रायः पुस्तकेषु नास्ति । कल्यावेशस्य द्यूतांशे उपयोगः ॥ 318-338 ॥ ॥ उत्तमे वचसा शिक्षेति ॥ उत्तमे ब‘ाह्मणे, मध्यमे क्षत्रियवैश्ययोः, अधमे शूद्रे । सामान्यधर्मोऽयम् । ब‘ाह्मणेषु ब‘ाह्मणानां धर्मं उत्तमे वचसा शिक्षा, मध्यमे अर्थापहारणम्,अधमे देहदण्डः प्रहारादिकम्। न त्ववयवच्छेदादिः। क्षत्रियेष्वपि एवमेव। वैश्ये क्षत्रियवत् । शूद्रे देहदण्डः छेदादिकः । अयं विशेषः धर्मः शास्त्रादवगन्तव्यः॥ 339-341 ॥ अन्ये भीमार्जुननकुलसहदेवाः नः एषः युधिष्ठिरः गुरुः नेति यदि ब‘ूयुः। भीमपार्थौ इत्यादौ यथायोग्यं कि‘याध्याहारः॥ 342 ॥ …. हत्वा मु …. इति योजना॥-356॥ ॥ ते चर्मवसना भूत्वेति ॥ अचर्मवसना पाण्डवास्ते चर्मवसना भूत्वेति योजना॥ 357 ॥ अवश्यं न म…. ॥ शकुनिमिति ॥ सहदेवस्य ज्येष्ठत्वात्तद्ग‘हणम् । नकुलस्तु उर्वरित इति द्रौपद्या अभिप्रायः । यः ‘यो अश्विनोर्ज्येष्ठः’ इति वचनात्। पूर्वोत्पन्ननकुलापेक्षया सहदेवस्य ज्येष्ठत्वं ज्ञेयम्। ‘नकुलः पूर्वजातः सहदेवोऽभूत् पश्चिमस्तौयमौ च’(12-125) इत्युक्तेः॥ 364 ॥
तां अश्विति शेषः। शाकुनेयवधं प्रति शाकुनेयं च सहदेव एव वधिष्यतीति प्रतिजज्ञे इति ज्ञेयम्। ‘उलूकं सहदेवोऽथ शकुनिं चापि पापिनम्। जघान द्रौणिहार्दिक्यकृपान् भीमार्जुनौ तथा॥’(28.35) इत्युत्तरत्राचार्यैरेव कथनात् । ‘ सहदेव वचः श्रुत्वा नकुलोपि विशाम्पते। दर्शनीयतमो नृणामिदं वचनमब‘वीत्॥ उलूकं च दुरात्मानं सौबलस्य सुतं प्रियम्। शूरं हन्तास्मि समरे मम शत्रुं नराधमम् ॥ इति भारतोक्तेः (सभा.92.74,77) अभिप्रायमाहानेनाचार्यवर्यः। शाकुनेयवधं प्रत्येव प्रतिजज्ञे तं त्वहमेव हनिष्यामीति। हन्तास्मीत्यत्र अन्तर्णीतणिच्। मारितास्मीत्यर्थः। सहदेवेन मुक्तश्चेत् अहं हन्तास्मीति वा। अन्यथा शल्यपर्वणि- ‘ततोस्यापततः शूरः सहदेवः प्रतापवान् । उलूकस्य महाराज भ‘ेनापहरच्छिरः॥ पुत्रं तु निहतं दृष्ट्वा शकुनिस्तत्र भारत। साश्रुकण्ठो विनिश्वस्य क्षत्तुर्वाक्यमनुस्मरन् ॥’(27.31,33) इत्युक्तिर्विरुद्ध्येत इति भावः ॥ 365 ॥

(कर्मपदं लोके सुतपदं पुण्यम्) दारदूषणे न सुताः स्युरिति शेषः । हि यस्मात् दाराः दूषितम्??। उक्तं च भारते- ‘त्रीणि ज्योतींषि पुरुषे सन्ति वै देवलोब‘वीत्। अपत्यं कर्म विद्या च यतः सृष्टाः प्रजास्ततः ॥(94.5) इत्याद्युक्त्वा ‘तन्नो ज्योतिर्विरहितमस्याः स्यादभिमर्शनात्’ (94.7) इत्यादि भीमसेनवचनम् ॥ 368 ॥ आहार्यं स्वीकार्यम्॥ 377 ॥ ॥ इति एकविंशोध्यायः ॥

॥ अथ द्वाविंशोध्यायः ॥ ॥1-30॥ स्वभावात् व्यवहिते आकाशपरमाण्वादिके। वस्तुव्यवहिते काष्ठाग्निदधिस्थघृतादिके। नित्याव्यवहितत्वतः नित्यं व्याप्तत्वतः ॥ 31-35 ॥ पुनश्च पापवृद्ध्यर्थं इत्थं अचीक्लृपत् इति पूर्वेणान्वयः ॥ 36 ॥ व्यासोऽम्बिकासुतं प्राह इत्यतः पूर्वं अत एवेति वक्तव्यम्। धर्मं च सङ्क‘ामयितुमित्युक्तम्॥ 37 ॥ विशदयति- अस्य जनस्य ॥ 69 ॥ पौरुषस्य पुरुषप्रयत्नस्य॥ 71 ॥ न तच्चेष्टितमन्यथा भवेत् । तच्चेष्टितं पुरुषचेष्टितम्। अन्येष्वस्वातन्त्र्येण न भवेत् यतः तस्मात् कर्ता पुरुषोप्यस्य नारायणस्य वश्यः अधीनः। नारायणाधीनं कर्तृत्वं पुरुषेऽपि वर्तत इत्यर्थः॥ 72 ॥ पुरुषस्य कर्तृत्वं युक्त्या उपपादयति- वृथा यदि स्यादित्यादिना॥ पौरुषं पुरुषे कर्तृत्वं यदि वृथा स्यात् न स्याच्चेदिति यावत्। कस्य हेतोः विधिनिषेधः । श्रुतिः कं वा विधत्ते कं वा निषेधति। ईश्वरः विधिनिषेधविषयो भविष्यतीत्यत आह- विधेर्निषेधस्य चेति॥73 ॥ उपसंहरति- कर्तेति॥ तथापि हरेः स्वातन्त्र्येऽपि तद्वृथा न । कर्तृत्वस्य विद्यमानत्वात्। गतिं प्राप्नोतीति शेषः। तदुक्तं गीतातात्पर्यनिर्णये- ‘यस्मात् स्वतन्त्रकर्तृत्वं विष्णोरेव न चान्यगम्। तदधीनं स्वतन्त्रत्वं स्वावरापेक्षयैव तु ॥ जीवस्य विकृतिर्नाम कर्तृत्वं जडसंस्थितम्।(3.30) इति विष्णोर्वशे । इति ज्ञायत इति शेषः॥ 74-80 ॥ द्वयं विष्णोः सर्वतन्त्रत्वं तदधीनकर्तृत्वं जीवस्येति द्वयम् । अत एव लोके विद्वानेवं जानन् कार्यं कर्म विहितं कर्म कुरुते। तस्मादन्योऽपि तत्प्रेरकं विष्णुं जानन् प्रमाणतृतीयानुगामी भवेत्। ते कार्यकर्म कुरुत इति वा योजना । जीवकर्तृत्वपक्षे (विषये) प्रत्यक्षम्, विधिनिषेधान्यथानुपपत्तिरूपमनुमानम्, ‘तदधीनं स्वतन्त्रत्वम्’ इत्यागमश्च एवं प्रमाणत्रितयं वर्तते । अतोऽत्र प्रमाणत्रितयस्य पूर्णप्रमाणत्वात् प्रमाणत्रितयानुगामी प्रमाणत्रितयानुसारात् जीवकर्तृत्वज्ञानी स्यादित्यर्थः॥ 81 ॥ प्रमाणस्य पूर्णत्वमुपपादयति- तत् त्रितयं प्रत्यक्षानुमानमागमश्चेति पूर्वोक्तं त्रयं अविरोधेनैकत्रस्थम्, विरोधमन्तरा एकस्मिन् विषये विद्यमानं पूर्णप्रमाणमित्युच्यते। तत्त्रयं अविरोेधि सत् पृथक् प्रत्येकं विरोधि विशकलितं चेत् स्थितं तदा मध्यं प्रमाणमित्युच्यते। एकत्र वान्यत्र वा विरोधि चान्यत्र अप्रमाणं स्यात्। तस्मात् पूर्णप्रमाणसिद्ध्यर्थं त्रयमेकत्र कार्यम् ॥ 82-83॥ पौरुषस्यापि पूर्वकर्मादिकं प्रयोजकमित्याह- स्वाभावा‘येति॥ हठः योग्यतालक्षणः॥ 84 ॥ कर्मजोऽपि यत्नः यतः हठकर्मप्रयोक्ता हठकर्मणोः उपोद्बलकः । तदुपपादयति- विना यत्नं न हठो नापि कर्म फलप्रदानसमर्थमिति शेषः ॥ 86-87 ॥ उपसंहरति- तस्मादिति॥ 88-91 ॥ तत्सादृश्यात् ऊरुसादृश्यात्स्थावराणां च सस्यादीनां वृद्धिः। वैश्यस्य धर्म इति शेषः। करोर्वोः सन्निकृष्टत्वहेतोः हस्तोद्भवं वार्तालक्षणम्॥ 92॥ नो चेच्चैतन्यमात्रौ सजीवावित्येव जीवच्छवौ इति यावत् । न ताभ्यां प्रयोजनमस्तीति भावः ॥ 102 ॥ ग‘हणं गताः परदास्यंं प्राप्ताः ॥ 104 ॥ क‘ूरं च अन्यत्कर्मेति शेषः ॥ 105 ॥ द्यूतकृतं द्यूते कृतं पणितं यत् तत् दत्तं न वदन्ति ॥ हार्यं स्वीकार्यम्। तत्राप्यपवादमाह- द्यूते वा स्त्रियां वा दत्तं अल्पं चेन्न आहार्यमाहुःइति योजना । यद्येतेषां भोग्यमिति। एतेषां द्यूते स्त्रियां वा दातृणां भोग्यं यद्यल्पं तद्दातव्यम्। अल्पमपि तद्दत्तं तदीयैः बन्धुभिः भोगेन हार्यमाहुः। यदि तद्भोगेन अन्ततः एतदीयं हार्यमाहुरिति योजना॥ 108 ॥ इदं सर्वं तदा इत्याह- निवारणेति॥ पुरुषस्य द्यूते स्त्रियां वा प्रवृत्तस्य निवारणे अशक्तौएवं कार्यम्। शक्तिश्चेत् स एव निवार्यो भवतीत्यर्थः। तत् तस्मात् राज्यं पुनराहार्यमेव॥ 109-112 ॥ कादिवरैः ब‘ह्मादिवरैः॥ 113 ॥ यत् यस्मात् मम व्यथा जायते तस्मादिदं भीम मा वदेः । तदैव त्रयोदशवर्षान्तमेव। अत्ययः अतिक‘मः॥ 118 ॥ किरातरूपस्तमनु सायकान् चिक्षेप इत्यावर्तते। ताभ्यां किरातार्जुनाभ्याम्॥136॥ यतस्त्वं घातितवानिति शेषः॥ 137 ॥ सः गिरीशो रुद्रः ‘ नान्यः कश्चिद् तद्वराणां शापानामप्यतिक‘मी’ (9-38) इत्येतत् स्वातन्त्र्येणेति योज्यम्॥ 140 ॥ ‘तोषितो यत्त्वया रुद्रो विष्णुर्लोकनमस्कृतः’ इति भागवतोक्तेरभिप्रायमाह- रुद्रदेहस्थितमिति॥ 150 ॥ ॥ अस्त्राणि तस्मा इति ॥ ‘स्वान्यस्त्राण्यपरे सुरा’ इति पूर्वोक्तेःमहान्ति दिव्यानीत्याह ॥ 154 ॥ अतथ्यानि लि‘मूलान्वेषणादीनि। वितथ्यानि विपरीतानि। अतथ्यानि सर्वथा अप्रवृत्तानि वितथ्यानि प्रवृत्तान्येव विपरीतानि ॥ 165-177॥ ॥ मासव‘तं सार्धशतश्वासकालैरकल्पयत्इति॥ मीनादिराशिघटिकानां द्वादशधा विभक्ते …राशिघटिकासु एकैकस्य भागस्य सपादपञ्चविंशत्पलानि भवन्ति। ‘एकविंशत्सहस्रात्मा सषट्शतमहर्निशम्’(तं.सा.)इत्युक्तत्वात्। षट्शताधिकैकविंशत्सहस्रणां श्वासानां विभागे एकैकस्य घटिकायाः षष्ट्युत्तरत्रिशतश्वासकालैः भवन्ति। ते च एकघटिकापलेषु विभक्ता एकैकस्य भागस्य पञ्चश्वासाः भवन्ति। तथा च सपादपञ्चविंशत्पलानां श्वासाः सार्ध एकदशसाधिकसार्धशतश्वासा भवन्ति। तत्र सार्धशतश्वासं कालैः मासव‘तं चकार । सार्धैकश्वासस्तु माससन्धौ गत इति ज्ञेयम्। यद्वा एकैकस्य राशेः अष्टशताधिकसहस्रश्वासा भवन्ति। तेषां द्वादशधा विभागे एकैकस्य भागस्य सार्धशतश्वासाः भवन्तिइति ज्ञातव्यम् ।…दृष्टि… । श्रीकृष्णाचारस्य प्रयोजनमाह- स्वभक्तानामिति॥ 178 ॥ पापानां तमोयोग्यानाम्। शिवाय कृतमिति शेषः ॥ 179 ॥ श्रीकृष्णं प्रति शिवचरितमाह- शर्वोऽपीत्यादिना॥ 181-194 ॥ तदाजातात् सद्योजातात्। रुद्रवरानन्तरं प्रद्युम्न उत्पन्न इति भागवतोक्तेस्तात्पर्यमाह- तं हन्तुमेवेत्यादिना॥ 195-201 ॥ पुरद्विषो रुद्रस्य निलयं कैलासम्। मातुः पित्रा चेति शेषः॥ 202 ॥ विहतप्रदीपाः नष्टप्रकाशाः॥ 204-216 ॥ अरिणा चक‘ेण । मातामहस्य कन्धरमिति शेषः॥ 217 ॥ सः ईश्वरः कृष्णः। अस्य काशीश्वरस्य पौण्ड्रकस्य शिरः तेन तन्मातामहशिरसा सह वारणस्यामपातयत् इत्यन्वयः । तत्तमः तद्योग्यं तमः ॥ 218 ॥ रौक्मिणेयं स्वोदरगम्। ‘पुनश्च स्वोदरे पुत्रं स्थापयामास’ इत्युक्तत्वात्॥ 220 ॥ सा कृत्या दक्षिणाग्निरेव। दक्षिणाग्निमेव कृत्यात्वेन कल्पयित्वा प्रददाविति ज्ञेयम्। तत्राग्नेरागमने निमित्तमाह- स दक्षिणाग्निरिति॥ 224-246॥ युद्धे इत्युक्तं विवृणोति- क‘ीडायुद्धे इति॥ यद्वा युद्धे शिक्षायुद्धे ॥ 247-254 ॥ अि‘रसा अथर्वाि‘रसाअग्निस्वामिना॥ 255 ॥ तेन ज्वरेण ॥ 257-292॥ मारुतस्य प्रायशः विशेषशक्तेःइच्छाव्यक्तिः इच्छया व्यक्तिः। प्रायःशब्दस्य बह्वर्थकत्वात् । प्रायशः बहुलशक्तेः विशेषशक्तेरित्यर्थः । अव्ययानामनेकार्थत्वादिति वा। ‘अनादानं दिव्यशक्तेर्विशेषात्’ इत्युक्तत्वात्। इच्छाव्यक्तिरेव प्रायेण भवतीति वा इच्छया व्यक्तिः। प्रायशः मारुतस्य इच्छाभावेन बलाद्यव्यक्तकालः सः तदेत्यर्थ इति वा ॥ 293 ॥ बीभत्सोरिति विशेषणं कार्तवीर्यव्यावृत्त्यर्थम्॥ 295-344 ॥ क्वचित् ब‘ह्मणा शप्त इत्युक्तेरभिप्रायमाह- आविश्य कञ्जप्रभवेति॥ 345॥ षष्ठे काले इति एकग‘ासग‘हणानन्तरं तृतीयदिवसे सायं काले । तस्य तथैवाहारं कल्पितवानिति ज्ञातव्यम्॥ 346-458 ॥ ॥ इति द्वाविंशोध्यायः ॥

॥ अथ त्रयोविंशोध्यायः ॥ तान् प्रतिज्ञातान्॥ 1 ॥ हेतीः आयुधानि। गन्धकर्त्री सैरन्ध‘ी॥ 2-3 ॥ एकचक‘नगरभिक्षान्नव्यावृत्त्यर्थं गृहस्थस्येत्युक्तम्। तदा ब‘ह्मचारिण इति भावः ॥ 4 ॥ ‘नरेन्द्र ते प्रभावेण श्रिया शक्त्या च शासनात्’ इत्यादेस्तात्पर्यमाह- य एव देवनामधा इति श्रुतिर्जगाद हीति॥ ‘यो देवानां नामधा एक एव’ इत्यादिश्रुतिः । सा श्रुतिः स्वस्य शूद्रवेषत्वात् अर्थत एवोदाहृता। न तु पाठतः । ‘महादेव प्रसादत’ इति भारतोक्तेरभिप्रायमाह- महांश्च देव एष इति॥ 16॥ ‘युधिष्ठिरानुग‘हतः’ ‘त्वत्प्रसादाच्च भूमिप’ इत्याद्युक्तेरभिप्रायमाह- युधिष्ठिराभिधश्चेत्यादिना॥ 17-20॥ समानयाश्वेह सुराम्। कीचकभवनादिति शेषः। कीचकेन सुदेष्णां प्रति तथा प्रार्थनं कृतम्॥ 21 ॥ ‘उपातिष्ठत् सा सूर्यं मुहूर्तमबला ततः’ (तदा - प्र.पा) इति (वि.19.3) भारतोक्तेरभिप्रायमाह- आदित्यस्थं वासुदेवमिति॥ 22-40 ॥ सदरः सश’ः॥ 41 ॥ सम्मोहनास्त्रेण ऐन्द्रास्त्रेण। तदुक्तं विराटपर्वणि- ‘सम्मोहनं शत्रुसहोऽन्यदस्त्रं प्रादुश्चकारैन्द्रमवारणीयम्’ (67.13) ‘धृष्टद्युम्नः तत्र भीमानुयायी दुर्योधनस्यावरजैः प्रयुध्यन् । सम्मोहनास्त्रेण विमोहयित्वा विकर्णपूर्वान् अहनच्च सेनाम्॥’ ‘ततो द्रोणस्तान् समुत्थाप्य सर्वान् विज्ञानास्त्रेणासदत् पार्षतं च।’ इति भीष्मपर्वयुद्धकथनावसरे (25.59-60) धृष्टद्युम्नेन सम्मोहनास्त्रप्रयोगः द्रोणेन निवारणं चोच्यते आचार्यवर्यैः। तथापि तदस्त्रं त्वाष्ट्रं द्रोणो वेद द्रोणादेव धृष्टद्युम्नः प्रापेति ज्ञातव्यम्। तदुक्तं भीष्मपर्वणि- ‘जिघांसुरग्र्यं द्रुपदात्मजो रणे प्रमोहनास्त्रं युयुजे महारथः। त्वाष्ट्रं तदस्रं सुमहाप्रभावः सम्मोहनं द्रोणदत्तं महात्मा ॥ (77.50-51) इति । ऐन्द्रास्त्रं तु द्रोणो न वेदेत्यतो न विरोधः । अर्जुनस्य कृष्णात् प्राप्तं ‘उन्मादनादीनि स वेद कृष्णात्’ इत्युक्तेः ॥ 42-58 ॥ ॥ इति त्रयोविंशोध्यायः ॥ ॥ अथ चतुर्विंशोध्यायः ॥ जटासुरः यथा तथा दुर्योधनोऽपीति शेषः॥ 6-19 ॥ ॥ फल्गुनः कृष्णं वव‘ इति॥ ‘तत्र पूर्वाभिगमनात्पूर्वं चाप्यस्य दर्शनात् । साहाय्यमुभयोरत्र करिष्यामि सुयोधन॥ प्रवारणं तु बालानां पूर्वं कार्यमिति श्रुतिः। तस्मात् प्रवारणं पूर्वमर्हः पार्थो धनञ्जयः॥ इत्यादिभारतवचनात् (उद्योग.7.17-18) फल्गुनः कृष्णं वव‘ इति युक्तम्॥ 20 ॥ वव‘े स्वीकृतवान्। किं कृष्णेनायुध्यमानेनेत्याद्युक्त्वा ॥ 21-88 ॥ ॥ इति चतुर्विंशोध्यायः ॥

॥ अथ पञ्चविंशोध्यायः॥ ॥ 1-2॥ स्वधर्मं दुष्टनिधनमित्यारभ्य अनाशाच्चेतनस्य इत्यन्तं भगवद्गीतायां प्रथमषट्कार्थं सङ्गृह्योक्तम्। सृष्टिस्थितीत्यारभ्य पुनश्चैनमशिक्षयत् इत्यन्तं मध्यमषट्कार्थसङ्ग‘हः। ज्ञानज्ञेयेत्यादित्रयोदशाध्यायार्थसङ्ग‘ह इति ज्ञातव्यम्। तथा ह्युक्तं गीताभाष्ये‘साधनं प्राधान्येनोक्तं अतीतैरध्यायैः। उत्तरैश्च षड्भिः भगवन्माहात्म्यं प्राधान्येनाह’ इति। ‘पूर्वोक्तज्ञानज्ञेयेषु क्षेत्रपुरुषान् विविच्य दर्शयत्यनेनाध्यायेन’ इति त्रयोदशाध्याय उक्तः। चतुर्दशाध्यायमारभ्य समाप्तिपर्यन्तं साधननिरूणणम्। तदुक्तम्- ‘साधनं प्राधान्येनोत्तरैरध्यायैः वक्ति’ इति। एतत्प्रथमषट्क एवान्तर्भूतम्। ॥ 3-18॥ ‘शत्रुभिः पीडितो भीमः न किञ्चित् प्रत्यपद्यत’ इतिभारतोक्तेः अभिप्रायमाह- क्षिप्रमिति॥ 19-23 ॥ यवीयसः माद्रेयस्य सहदेवस्य। नकुलान्तरजत्वात्। अथवा माद्रेयस्य सहदेवस्य यवीयसः यवीयसो नकुलस्येति वान्वयः। पूर्वजातनकुलापेक्षया सहदेवस्य ज्येष्ठत्वात् इति ॥24॥ कार्ष्णेयैः पञ्चद्रौपदेयैः॥ 25-34 ॥ ॥ अयुतरथानां स नित्यशो वधमाहवे इति॥ अयुतरथानां अयुतावराणाम्। अधिकस्यापि हतत्वात्। ‘भीष्मश्च पाञ्चालकरूषचेदिष्वहन् सहस्राणि चतुर्दशोग‘ः । रथप्रबर्हान्…॥’ इति तथा ‘स चेदिपाञ्चालकरूशमु‘यान् रथोत्तमान् पञ्चविंशत्सहस्रान्। सम्प्रेषयामास’ इत्युक्तेः॥ 35 ॥ अयत्नेन व्यूहमार्गेण॥41-73 ॥ स्वमायया हस्तिचतुष्टयस्थः इत्युक्तं विवृणोति- चतुर्गजात्मेति ॥ चतुर्गर्जात्मा स्वयं बभूव । स गजोऽपि चतुर्गजात्मा एको गजःतदुपरिगं आत्मनः कः शिरः यस्य स तथा ॥ 78-83 ॥ ॥ पार्थपुत्रस्य सादिनो अहनिति ॥ तेन ते सृष्टाः सादिनः पार्थपुत्रस्य पार्थपुत्रमिति वा । अनन्ताकृतिं सर्पाकृतिम्॥ 84-143 ॥ ॥ इति पञ्चविंशोध्यायः॥

॥ अथ षड्विंशोध्यायः॥ ॥ 1-28 ॥ ससूनोः नरकस्य यावदस्त्रमवध्यतां प्रादां मत्तः अन्यावध्यतां प्रादामिति भावः। चशब्दात् सूचितः। एतस्यास्त्रस्य यः कारणान्तरादपि अवध्यः मत्तः अन्यः स कश्चित् कुत्रापि नास्तीति योजना ॥ 30-53 ॥ तदात्मिकां शिवात्मिकाम्॥ 54-131 ॥ विन्दानुविन्दप्रमुखाः धृतराष्ट्रपुत्राः॥ 132-162 ॥ नारायणास्त्रमित्यादिवस्तुस्थितिकथनम्॥ 163-164 ॥ गोग‘हणे अर्जुनेनापहृतमिति कृत्वा कृष्णबुद्ध्येत्युक्तम् ॥ 165-168 ॥ विरोचनस्य सूर्यस्य ॥ 169॥ धनुर्विद्यां पुरा करोतीति धनुर्विद्यापुराकृत्तेन धनुविद्यापुराकृता॥ 172 ॥ तत् व‘तं शत्रुवधरूपम्। भवेदिति वर्तते॥ 173 ॥ अनुपद्रवाय लोकस्येत्युक्तं विशदयति- सुव्यक्तश्मश्रुमण्डल इत्यादिना ॥ 174 ॥ अमुना तत्पित्रा ॥ 192 ॥ तन्मध्ये अर्जुनहतमध्ये ॥ 213 ॥ त्रयात् भीमहतात्॥ 214 ॥ तच्चतुर्थांशः भीष्मादिभिः हतचतुर्थांशः॥ 215 ॥ शक‘देवः सृगालपुत्रो वा अन्यो वा। श्रुतायुधस्तु नदीजादन्यः। अत्र शक‘देवः सृगालवासुदेवपुत्रश्चेत् बाह्लीकवत् भीमं प्रार्थयामासेति वक्तव्यम्। तस्य सज्जनत्वात् ॥ 222 ॥ भीमसेने कर्णकोपनिमित्तमाह- खड्गेति(कर्णानुजानिति इति स्यात् । द्रोणपर्वणि 156अध्याये तथैवोक्तत्वात् )॥223 ॥ अपरां शक्तिं इन्द्रदत्तायाः अपराम्॥ 224 ॥ तेनास्त्रेण प्रतिहता भीता जये इति ज्ञातव्यम्। ‘स्थूणाकर्णो… युधिष्ठिर’ इति वचनात्॥230॥ स्वं वचः अर्जुनं विना त्वत्पुत्रं न वधिष्यामीति पुरा कुन्तीं प्रति स्वेनोक्तम् ॥235॥ रजनीं रजन्याम्। वृष्टिमिति शेषः। रजनीमन्धकारं वा॥241 ॥ (अस्त्रविेरिति शेषः ।???) आच्छिन्नहेतौ आच्छिन्ना कृष्णेन बलात् गृहीता हेतिरायुधं यस्य स तथा तस्मिन् ॥ 305॥ ॥ इति षड्विंशोध्यायः ॥

॥ अथ सप्तविंशोध्यायः ॥ ॥ 1-16॥ आवन्त्यविन्दानुविन्दव्यावृत्त्यर्थं विन्दानुविन्दौ केकयौ इत्युक्तम्॥ 17 ॥ शल्याभीष्टत्वादिव इत्युक्तम्॥ 25 ॥ (पुरं) परुषा गिर आह ‘यदि कृष्णः समर्थो तत् त्वां मोचयतु मन्दधीः’ इति कर्णवचनं कर्णपर्वणि । त्वं ..पुष्ट इत्यादि परुषाणि आह॥ 35 ॥ रविजस्यकर्णस्य। जिह्वां ‘यदि कृष्णः समर्थ’ इत्याद्युक्त्वात्॥ 41-53 ॥ ॥ चिच्छेद ज्यामिति॥ ‘सर्वं च तद्दिव्यमभेद्यमेव विद्युत्प्रभा ज्या चगाण्डीवसंस्था’ (20.227)इत्यत्र बलवत्कारणेव विनैति वक्तव्यम्। असह्यानेकास्त्रबलात् ज्याभ‘ इति ज्ञातव्यः। अथवा सर्वं धनुरादिकं दिव्यमभेद्यं ज्या च विद्युत्प्रभाइत्यन्वयःपूर्वत्र । अत्र एवोत्तरत्र- ‘सारथित्वात् केशवस्य ध्वजस्थत्वात् हनूमतः । गाण्डीवत्वात् कार्मुकस्य चेषुध्योरक्षयत्वतः॥ अवध्यत्वात् तथाश्वानां अभेद्यत्वात् रथस्य च। अतो योद्धुं समर्थोऽपि……….॥’ इत्युक्तम्। ज्या…‘ो नोक्तः ॥54 ॥ तिरस्कुरु धर्मजमिति शेषः॥ 124 ॥ तथापि तथा च ।अर्जुनहार्दं अर्जुनहृदयस्थितं अह’ारं अज्ञानं वा ॥ 131 ॥ युवा युवराजः॥ 134 ॥ अजोहवीत् आह्वयामास॥ 154 ॥ युद्धयज्ञे युद्धा‘ययज्ञे॥ 156 ॥ व्याघ‘पदेन व्याघ‘प्लुतेन॥ 158 ॥ नमितं भूमौ गतम्॥184 ॥ ॥ इति सप्तविंशोध्यायः॥

॥ अथ अष्टाविंशोध्यायः॥ ॥ 1-11॥ युयुत्सुना सहितान् । ‘अवशिष्टान् षोडशतया’ इत्युक्तं भारते ॥ -42 ॥ अर्जुनेनार्धं हतमित्यन्यत्रोेक्तेर्गतिमाह- कालि‘कानृत इति॥ कालि‘कैः सह अक्षोहिणीषट्कं भीमेन निहतम्। तानृते अर्धं पञ्चेत्यर्थः। कलि‘कानामेकाक्षोहिणी .. () ॥ 43 ॥ अर्जुन आदिः ययोस्तौ अर्जुनादी । भवांश्च अर्जुनादी च भवदर्जुनादयः तैः॥ 60 ॥ न हि भीमतुल्यो बले कश्चित् इत्याहइत्यन्वयः ॥ 63 ॥ किञ्चिद्व्याजेन शापादिव्याजेन ॥ 65 ॥ ृप्रतिज्ञायुग्मार्थं ऊरु भेत्स्यामीत्येका प्रतिज्ञा ..मित्येका एवं प्रतिज्ञायुग्मार्थम् ॥ 77 ॥ बलभद्राय जनाय च स्वेनैवोेक्तं श्रुत्वापि च न तत्याज॥ 95 ॥ पृष्टेन अश्वत्थाम्ना मदायुधं किमर्थमिच्छसि इति मया पृष्टेनेत्यर्थः। मे मया प्रार्थितमिति शेषः ॥ 160 ॥ निबध्य शिबिरानयनादीनामप्रवृत्तत्वात् प्राय इत्युक्तम्॥191-240 ॥ ॥ इति अष्टाविंशोध्यायः॥

॥ अथ एकोनत्रिंशोध्यायः॥ भीष्मसामर्थ्यं घटयति- कृष्ण इति॥ 14-16॥ कण्टकोद्धारः शत्रुनिग‘हादिलक्षणः॥ 22 ॥ साम्ये विरोधे समयो विरोधे यत्र बहुवैष्णवाः ताननुवर्तेत इत्यर्थः । उत्तमयोः वैष्णवयोः विरोधो यत्र बहवस्तं पक्षमाश्रयेदिति भावः । यद्वा विष्णुमाहात्म्यप्रतिपादकत्वे वाक्यानां साम्ये विरोधे वा बहून् उपक‘मादिना प्रबलान् वैष्णवान् अनुवर्तेतेति ॥ 23 ॥ तत्रापि पुत्रभार्यदिष्वपि॥25 ॥ अन्ये वर्णबाह्याः॥ 31 ॥ ज्ञापनं शास्त्रादीनां उपदेशः॥ 33 ॥ गुणोत्तमानां स्त्रीणां इति शेषः। स्मृत्यैव कामत इतिशेषः । उत्तरोत्तरः उत्तमोत्तमस्त्रीकामनायाः। अत्र च अत्रापि॥ 36 ॥ अधोधः नीचपुरुषसम्बन्धेन । अन्यत्र परलोके । मध्यतः भर्तृसमेऽपि दोषः । यद्वा अस्मिन् लोके च। वेदाश्चापि प्राप्तुं योग्या इति शेषः॥ 37 ॥ धर्मार्थतां धर्मिष्ठताम् । अनुद्धेशितः निष्कामः ॥ 53 ॥ तत्साधनं मोक्षसाधनम्॥ 57 ॥ स्वस्य एवं वक्तुर्मम ॥ 58 ॥ पूर्वं काम्यं कामत्वेनोक्तवान् इदानीं इच्छामेव कामशब्दार्थम‘ीकृत्याह- इच्छैवेति॥सदैव संसारदशायाम्॥ 59 ॥ पृथक् स्वरूपात्॥ 60 ॥ एकाविरोधी इत्युक्तविरोधीत्यर्थः। धर्मविरोधी वा अर्थविरोधी वा । धर्माविरोधी च सेवादिलक्षणः, अर्थविरोधी इति दरिद्रस्य बहुप्रदत्वम् । द्वयोः विरोधी एकादशीव‘तविलोपादिकम्॥??? ॥ इति एकोनत्रिंशोध्यायः॥

॥ अथ एकत्रिंशोध्यायः॥ ॥ 1-3॥ ॥ गोव‘तादिव‘तैः युक्त इति ॥ तदुक्तं उद्योगपर्वणि- अत्र गोव‘तिनो विप्राः स्वाध्यायध्यानकर्षिताः । त्यक्तप्राणा जितस्वर्गाः जीवन्ति च महर्षयः॥ यत्र कुत्र शयो नित्यं येन केनचिदाश्रिताः। येन केनचिदाच्छन्नः स गोव‘तिरिहोच्यते॥’ (99.14-15) इति॥ 4 ॥ आपः आबभिमानिन्यः ॥ 12 ॥ ससरस्वतीकाः सरस्वतीभिः सहिताः ससरस्वतीकाः। सरस्वत्यो विद्याः॥ 26 ॥ वेदिभवा द्रौपदी॥ 30 ॥ ॥ कालो वेति ॥ कालो राजानमनुसरति वा राजा कालमनुसरति वा इति संशयो नाभूदित्यर्थः॥ 37 ॥ वक्षि वदसि॥ 41 ॥ सीमाधि ग‘ामादिदिर्यादाविधिः । मानं आढकादि ॥ 42 ॥ (क‘मवर्धिता… राज…..॥ ) दैहिकमानसैः दैहिकैः द्वात्रिंशदादिलक्षणैः। मानसैः भक्त्याद्यैः॥ 55-70 ॥ सात्वती सुभद्रा॥ 71-74 ॥ मेरुशृ‘ेण देवैरानीतं ते इति शेषः ॥ 76 ॥ स्ववरं स्वयं तथा वरं दत्तावान् । उद’ायेति ज्ञातव्यम्। यद्वा अमृतं दास्यामीत्युक्तं वरं उद’स्यामृतत्वादिति॥ 87 ॥ कृष्णसार‘ं लक्षणविशेषयुक्तम्॥ 97 ॥ दीर्घपिण्डकः दीर्घपादपाश्चात्यभागः॥ 122-127 ॥ ज्ञानानन्दह्रासकराः तारतम्यज्ञापका इति यावत्॥ 128-135 ॥ अरूरुचन् अश्रुवन् । तत्रस्था इति कर्तृअध्याहारः । अरूरुचत् चकाश इति…। अरूरुचत् शब्दयुक्तमभवदिति वा॥ 136-141 ॥ अञ्जनं कस्तूरिका॥ 142-178 ॥ ॥ इति त्रिंशोध्यायः॥

॥ अथ एकत्रिंशोध्यायः॥ नन्दिघोषं सन्तोषभेरीनादम्॥ 3 ॥ त्वरेत त्वरया युतः॥ 5॥ अस्य धृतराष्ट्रस्य॥ 7॥ ॥ इति एकत्रिंशोध्यायः ॥

॥ अथ द्वात्रिंशोध्यायः ॥ युतिं मेलनम्॥ 6 ॥ लोहितं मृगविशेषम्॥ 19-21 ॥ तच्छरीरिणं भृगुशरीरिणम्। कृत्वेति शेषः ॥ 22 ॥ नीचनीचाप्तं नीचानां नीचकर्मणा आप्तं प्राप्तम्। नीचा अपि एवं न कुर्वन्तीत्यर्थः। भृश नीचकर्मणावाप्तम्। निन्य इति पूर्वेणान्वयः॥23 ॥ भृगोर्मनस अदुष्टत्वात् नीच. व… । विद्यमानस्यापि नीचकर्मणस्तस्य भक्तिलोपो नाभूत्॥ 24 ॥ अयुतः रहितः॥ 29 ॥ तां द्वारवतीम्॥ 42 ॥ गोविन्दैकदशीं गोविन्दैकादशीसञ्ज्ञां एकादशीम्। यद्वा गोविन्दस्य एकादशं मनः सम्बन्धिनीं गोविन्दमनोगतां दाल्भ्यतः श्रुत्वेत्यर्थःइत्यन्वयः। कृत्वा तथानुष्ठाय। तदेवाह- सारस्वत इत्यादिना॥ सारस्वते सरस्वतीतीरे ॥ 49 ॥ प्रातिभाव्यं न्यस्तस्य प्रतिन्यासः प्रातिभाव्यम्॥ 61 ॥ असज्जन्त अतिष्ठन्तः॥ 62 ॥ सदेहनाकानिच्छुत्वात् कारणात् ॥ 64 ॥ तस्मात् दोषवक्तुः दोषित्वेन वर्णितस्य ऋणमोचनं स्यात्॥ 66 ॥ शुद्धकर्मणां देहान् इच्छापतितान् अजानन् सन् वक्ष्यमाणकारणव्यतिरिक्तकारणमपश्यन् च न हि कार्यं अकारणमिति निश्चित्य एवमपि स्यादिति सम्भावनामात्रात् दोषान् अर्जुनपक्षपातित्व नीतिज्ञत्वाभिमानरूपित्वगर्ववीरत्वाभिमानबलिष्ठगर्वलक्षणान् क‘मात् द्रौपद्यादिभीमान्तनिष्ठान् प्राहेति॥ 67 ॥ राज्ञोक्तानामदोषत्वमाह- भीमादिति॥ चतुर्षु मध्ये वासवौ योग्यो युक्तः ॥ 71 ॥ एषां सहदेवनकुलार्जुनभीमानां यतः महान्ति सन्ति। अतो न दोषः इत्यर्थः। भीमे बहुभुक्त्वमप्युक्तं तदपि दोषो नेत्याह- प्राणत्वादिति॥ भोगशक्तिः बहुभोक्तृत्वशक्तिः॥ 72 ॥ न केवलमन्यत्र किन्तु आत्मन्यपि स्वस्मिन्नपि। उक्तदोषोद्भवः उक्तदोषस्योत्पत्तिःतेषु कथं स्यादिति योजना॥ 73 ॥ ननु सहदेवादयस्त्रयः विद्यमानादधिकं नीतिज्ञत्वादिकं मन्यते । अतस्तद्देहपाते कारणमित्यत आह- कदाचिदिति॥ एतद्देहपतनं न तत्फलम्। विमुक्तिगं तारतम्यं तदभिव्यक्तिरित्यर्थः। तत्फलकमिति सम्बन्धः। एतेनात्यभिमानेन तेषां मुक्तौ तारतम्याभिव्यक्तिः स्यादित्यर्थः॥ 74 ॥ न केवलं मुक्तिगं तारतम्यं तत्फलम्। (गन्तैष) ऐहिकमपि किञ्चिदस्तीत्याह- गुणेति॥ अत्रस्थमपि फलं श्रुतमित्यन्वयः। तत्किमित्यत आह- गुणदोषाधिकाल्पत्वादिति॥ गुणदोषयोरधिकाल्पत्वयोः कारणत्वादित्यर्थः। गुणा अधिकत्वस्य कारणम्, दोषाः अल्पत्वस्य कारणम् । संसारे विद्यमानानां देवानां गुणाः आधिक्यप्रदाः ‘पुरा तु मुक्तितोऽधिकम्’(21.84) इत्युक्तेः । मुक्तौ तु वरं करोति। ‘करोति मुक्तिगं वरम्’(21.83) इत्युक्तेः । दोषस्तु अल्पत्वप्रदः गुणः अल्पत्वप्रदः(अधिकत्वप्रदः)मुक्तौ तु तारतम्यप्रदः। एवं निर्णयःश्रुतिसिद्ध इतिज्ञापनार्थं श्रुतमित्युक्तम्। दोषाभावे कथं देहपात इत्यत आह- आरब्धेति॥ देहारम्भककर्मनाशादेव देहपतनम्॥ 75 ॥ प्रारब्धक्षयादेव देहनाश इत्येतदेवाह- युधिष्ठिरो हीति॥ हि यस्मात् युधिष्ठिरोऽपि तत्तनुः स एव तनुर्यस्य तत्तनुः बुभुजे न। अतः प्रापब्धनाशे सर्वेषामपि देहनाश इत्यर्थः। सहदेवादीनामतिमानात्वादिकम‘ीकृत्य फलान्तरमुक्तम्। भीमस्य तु स दोषो नास्तीत्याह- अतीति॥ 76 ॥ तर्हि युधिष्ठिरेण कथमेवमुक्तमित्यत आह- यथेति॥ अज्ञानादेवाब‘वीदिति भावः॥ 80 ॥ व्युत्क‘मेण देहपाते निमित्तमाह- पूज्येभ्य इति॥ एतद् द्रौपदीव्यतिरिक्तविषयम्। तस्या अपि भीमापेक्षया द्रष्टव्यम्। द्रौपदीशरीरस्थाश्विभार्योषापेक्षयााह (देवाद पि) पूर्वपातो ज्ञातव्यः। मुच्यतां मोक्षं प्राप्नुवताम्॥ 81 ॥ स्वात्मना सारमेयत्मकेन स्वेन ॥ 83 ॥ तद्भुवां तदा श्रितानां सभूरासयो () येषां तद्भुवः। कियतीमल्पां भूमिम्॥ 98 ॥ धर्मो मूलरूपी। पाण्डुसुताभिधं स्वमाह ॥ 104 ॥ ॥ धर्मात्धर्मेभ्यः । त्रिशः त्रिवारम्। मृषागिरः मिथ्यावचसः ॥ 105 ॥ कृष्णोक्तं कुर्वतः कथमिदमित्यत आह- कृच्छ्रादिति॥ इदं ‘अश्वत्थामा हत’ इति वचनं ते त्वया कृच्छ्रात् कथितम्। तव कृष्णवाक्ये अतिविस्रम्भः अतिविश्वासः नासीत्। सर्वविधर्मिणः सर्वधर्मरहितस्य॥ 106 ॥ धर्मजस्यापरोक्षज्ञानित्वात् कथं पापमित्यत आह- ब‘ह्मेति॥ 107 ॥ सुयोधनः कथमुत्तमं स्थानमापेत्यस्य उत्तरमाह- दुर्योधनाद्या इति॥ 111॥ समीरणस्य भवदाविष्टस्य गुणानुसारेण॥ 118 ॥ इदानीं शच्यादियोगापगतात्यक्तशच्यादियोगा ॥ 119 ॥ सुपूतता अस्याः स्पर्शेति भवतां नालम्॥ 120 ॥ यथा विरिञ्चस्य हरिभक्तिविशेषात् परं सुखं स्यात् तथा कलेरपि सर्वेभ्यो अधिकदुःखित्वं हरिद्वेषकृतो विशेषःकारणम् ॥ 126 ॥ अर्जुनाद्याः इन्द्राद्याः विकुक्षित्वादिना कृते जाताः ॥ 129 ॥ उक्तार्थे श्रुतिं प्रमाणयति- भूषन्निति॥ भूषन्न योधि बभ‘ूषु नम्नते वृषेव पत्नीरभ्येति रोरुवत्। ओजायमानस्तन्वश्च शुम्भते भीमो न शृ‘ा दविधाव दुर्गृभिः॥ (1.140.6) तां सु ते कीर्तिं मघवन्महित्वा यत् त्वा भीते रोदसी आह्वयेताम्। तत्प्रमाणं तस्मिन् उक्तार्थे प्रमाणम्॥ 132 ॥ वेदश्रुतिं वेदश्रवणम्॥ 139 ॥ शुद्धोदन जिन इति चोक्त इति जनैरिति() । तस्य प्रजातं शिशुं दूरे सम्प्रास्य तत्र विष्णुः शिशुः बभूव॥ 143 ॥ हेतिगणान् आयुधगणान्॥ 146 ॥ न सन् असन् ॥ 149 ॥ क्षणिकत्वं कथमुक्तमित्य आह- क्षणादयः कालविशेषाःक्षणिकाः आशुतरविनाशिनः । तद्विशेषाः विशिष्टत्वादिधर्मा इत्यर्थः। अखिलाः निसर्गतः स्वभावतः प्रयान्ति नश्यन्ति। ततः स्थिरत्वेऽपि समस्तं जगत् स्थिरत्वेऽपि विशेषसंश्रयात् धर्ममात्रसंश्रयात् निमित्तात् मया क्षणस्थायीत्युक्तम्॥ 152 ॥ ननु ……. क्षणिकत्वे धर्मिणः किमायातमित्यत आह- तद्वानिति॥ तद्वानितिविशेषवान् धर्मिविशेषे धर्मश्च यतो भिन्नौ न अतः समस्तं क्षणस्थायि स्थिरात्मकं चेति विरोधः नास्ति । धर्मस्य क्षणिकत्वेन तदभिन्नस्य धर्मिणोऽपि क्षणिकत्वं वस्तुन स्थायित्वमिति न विरोधः इति भावः । ननु कथं धर्मधर्मिणोरभेदः । तथात्वे अयं धर्मः असौ धर्मीति व्यवहाराभावप्रस‘ इत्यत आह- स्वनिर्वाहकेति॥ अभेदेऽपि भेदव्यवहारनिर्वाहकविशेषशक्तियुक्तौ। यतः अतो अभेदेऽपि भेदव्यवहारो घटत इत्यर्थः। ननु विशेषेऽपि अस्य विशेष इति भेदव्यवहारदर्शनात् तन्निर्वाहाय विशेषाणान्तरान्वेषणे तत्राप्येवमित्यनवस्थाप्रस‘ इत्याश’ायां अपीदमेवोत्तरम्- स्वेति ॥ स्वयञ्च निर्वाहकविशेषशक्तियुक्तौ । अतो नानवस्थेति द्रष्टव्यम्॥ 152 ॥ ननु कथं जगतः ज्ञानत्वमुक्तमित्याशङ्क्य चेतनस्य तावत् स्वतो ज्ञानत्वमस्त्येव जडस्यापि ज्ञेन अनेन नीयते इति कृत्वा ज्ञानशब्दवाच्यत्वमस्तीत्याह- ज्ञ इति॥ मया अननीयं चेष्टनीयम्। तत्र हेतुमाह- यत इति॥ 153॥ त्वयाननीयं जगदस्ति चेत् तर्हि कथं शून्यमसदित्याद्युक्तमित्यत आह- शंशीलक इत्यादिना॥ यतोऽहं शंशीलकः सुखशीलकः । उच्चः अत्युच्चश्च अतः शूनामकः। शंशीलकत्वात् शः अत्युच्चत्वात् उः। शश्चासौ उश्च शुः। अथवा शंशीलकत्वात् शुः उच्चत्वात् उः शुश्चासौ उश्च शूः निरुक्तत्वात्। तद्धि जगत् शूनामकेन मया नियं निधेयं हि यस्मात् तस्मात् शून्याभिधम्। शुवा निधेयं स्थापनीयं शूनियम्। निरुक्तत्वात् शून्यमिति भवति॥154 ॥ असच्छब्दवाच्यत्वं घटयति- दोषविरुद्धगुणरूपत्वात् अ इत्युच्यते। एतत् अकारस्य तद्विरुद्धार्थत्वम‘ीकृत्योक्तम्। दोषोज्झित इति तदभावार्थम्। अखिलादन्य इति तदन्यार्थम्। अतः निमित्तत्रयात् अनामा अ इति नाम यस्य सः। एवमक्षरार्थमुक्त्वा असच्छब्दार्थं वदन् तेन पूर्वपदस्य समासं दर्शयति- एनेति॥ अ इत्यशब्दात् तृतीयैकवचनं एनेति। अकारवाच्येनेत्यर्थः। अभाव इतिकथमुक्तमित्याशङ्क्याकारस्य पूर्वोक्तार्थमेव प्राक् अभावशब्दार्थं वदन् समासं दर्शयति- एनैवेति॥ भवेत् जायत इत्यर्थः। निरुक्त्वात् साधुत्वम्। हेयं अग‘हणीयम्॥155-158 ॥ क‘ोधवशो मणिमानादिः येषां ते । पश्चात् कर्मधारयः॥ 159 ॥ अलं विधाय गत इति वर्तते। अस्मात् शिवात्। अभिदां जीवब‘ह्माभेदम्॥ 160 ॥ अत्र भूमौ। यज्जननमुक्तम्॥ 161 ॥ प्रहाणे सति॥ 162 ॥ तुरगी अश्वारूढः॥ 165 ॥ येन गुणपूर्णत्वेन॥ 166-168 ॥ अमुनैव अस्यानुग‘हादेव ॥ 169॥ स्वकृतग‘न्थ क‘ममाह- विनिर्णय इति॥ विप्रस्थितानां विरुद्धार्थानामिव स्थितानां वेदवाचां विनिर्णयो यतः अमुना ब‘ह्मसूत्रेण विना नास्ति । तद्ब‘ह्मसूत्राणि तानि ब‘ह्मसूत्राणि। तेषां ब‘ह्मसूत्राणां पुरुषोत्तमत्वं आविश्चकारेत्यन्वयः॥ 171 ॥ अखिलान्यं समस्तभिन्नं हरिं वदन्तीति वेदा इति शेषः॥172-178॥ इति श्रीमहाभारततात्पर्यनिर्णयटिप्पण्यां श्रीमद्दम्बलानन्दाचार्यशिष्यभारतश्रीनिवासविरचितायां द्वात्रिंशोध्यायः॥ श्रीकृष्णार्पणमस्तु॥