३२

औं ॥ ततः कुरुक्षेत्रमवाप्य कृष्णो दीक्षां प्रपेदे द्विषडब्दसत्रे ।
स एव च व्यासभृगूद्वहात्मा चक्रेऽत्र सादस्यमजोऽप्रमेयः ॥ १॥

तत्रर्त्विजो दक्षभृगुप्रधानाः पार्था यदूनां प्रवरैः समेताः ।
ब्रह्मेशशक्रप्रमुखाः सुराश्च चक्रुः सुसाचिव्यमनन्तदासाः ॥ २॥

सर्वे च जीवा वसुधातलस्था येऽन्येऽन्तरिक्षद्युमुखोत्तरेषु ।
वसन्ति नारायणपादसंश्रयास्ते चात्र सर्वे मुमुदुः सनागाः ॥ ३॥

सुनिर्णयस्तत्त्वविनिर्णयार्थिनां तत्त्वस्य चाभूदिह वादशीलिनाम् ।
मिथो विवादात् सुरभूसुराणां वाक्याद्धरेर्व्यासभृगूद्वहात्मनः ॥ ४॥

धर्मार्थकामानखिलानवापुस्तदर्थिनो मुक्तिमपीह कृष्णात् ।
यथेष्टपानाशनवाससो जना विचेरुरत्रामरमानवादयः ॥ ५॥

क्षेत्रं तदासीद्धरिलोकसम्मितं यदीयुरत्राखिलसज्जना युतिम् ।
नानाप्तकामाश्च ततो बभूवुर्निर्यत्नदृश्यश्च यतोऽत्र केशवः ॥ ६॥

द्वादशाब्दं महासत्रमेवमेतादृशं हरिः ।
समाप्यावभृथस्नातः पूजयित्वाऽखिलान् जनान् ॥ ७॥

अनुजज्ञे क्रमेणैव वत्सरेण समागतान् ।
स्वकुलं सञ्जिहीर्षुः स विप्रशापमजीजनत् ॥ ८॥

उपदिश्य परं ज्ञानमुद्धवायामुमाश्रमम् ।
बदर्याख्यं प्रापयित्वा सप्तमाब्दं शतोत्तरम् ।
प्रतीक्षन् पालयामास पार्थैः सह भुवं प्रभुः ॥ ९॥

समारब्धं कलियुगं यदा दुर्योधनोऽपतत् ।
षट्त्रिंशाब्दं पुनः कृष्णः कृतमेवान्ववर्तयत् ॥ १०॥

कृतादपि विशेषोऽयं यत् पुण्यस्याधिकं फलम् ।
अल्पमेव च पापस्य कालात् कृष्णाज्ञया तथा ॥ ११॥

एवं सुधार्मिके लोके हरिभक्तिपरायणे ।
नष्टेषु कलिलिङ्गेषु युगवृत्तिमभीप्सवः ॥ १२॥

ब्रह्मरुद्रादयो देवाः स्तुत्वा केशवमव्ययम् ।
व्यज्ञापयन् स्वलोकाप्तिं औंइत्याह स चाच्युतः ॥ १३॥

प्राचुर्ये सज्जनस्य स्यान्न कलेर्वृद्धिरञ्जसा ।
इति स्वकुलसंहृत्यै प्रभासमनयत् प्रभुः ॥ १४॥

पुण्यक्षेत्रेऽपि न मृतिः स्वगृहे त्वतिधर्मदा ।
गत्यैवाल्पमपि क्षेत्रं स्यान्महत्फलमित्यजः ॥ १५॥

प्रकाशयितुमेवैनान् प्रभासाय कुशस्थलात् ।
नीत्वा दानादिसद्धर्मांस्तैरकारयदच्युतः ॥ १६॥

ते ततः शापदोषेण कृष्णेनैव विमोहिताः ।
मैरेयमत्ता अन्योन्यं निपात्य स्वां तनुं गताः ।
तद् दृष्ट्वा बलदेवोऽपि योगेन स्वतनुं ययौ ॥ १७॥

ततः परेशोऽगणितानुभावः स्वसारथिं पाण्डवानां सकाशम् ।
स्वलोकयानप्रतिवेदनाय स्वस्यानु चैषां त्वरयाऽभ्ययातयत् ॥ १८॥

अथाऽसतः पिप्पलमूल ईशितुरूरुस्थितं पादतलं सुताम्रम् ।
दृष्ट्वा जरा नाम ससर्ज शल्यं भक्तोऽप्यलं रोहितं शङ्कमानः ॥ १९॥

अच्छेद्याभेद्यदेहस्य शल्ये पादमुपस्थिते ।
समीपमागतो व्याधो दृष्ट्वा भीतोऽपतद् भुवि ॥ २०॥

विप्रवाक्यं मानयानः कारयित्वाऽमुना हरिः ।
पापं मां जहि देवेति याचन्तमनयद् दिवम् ॥ २१॥

पादप्रहारदोषेण तं भृगुं व्याधतां गतम् ।
पश्चात्तापेन भक्त्या च सुप्रीतस्तच्छरीरिणम् ।
स्वाज्ञाप्राप्तविमानेन दिवं निन्ये जनार्दनः ॥ २२॥

नीचा योनिर्नीचनीच कर्माऽप्तं नीचकर्मतः ।
अदुष्टत्वात्तु मनसो भक्तिलोपो नचाप्यभूत् ।
भृगोरत्राबुद्धिपूर्वं नातिदोषकृदप्यभूत् ॥ २३॥

ततो विरिञ्चेशपुरन्दराद्याः पुनः स्तुवन्तोऽभिययुः प्रणम्य ।
कृष्णं स चाऽश्वेव ययौ स्वलोकं स्वतेजसा सर्वमिदं प्रकाशयन् ॥ २४॥

गोपालमन्त्रं भजतां फलप्रद एकेन रूपेण स भुव्यदृश्यः ।
तस्थौ द्वितीयेन च सूर्यमण्डले तृतीयमासीच्छिवपूजितं वपुः ॥ २५॥

सम्पूजितं ब्रह्मलोके चतुर्थं कञ्जोद्भवेनाथ परं स्वधाम ।
समाप्नुवानं वपुरस्य पञ्चमं भक्त्याऽन्वयुर्देववराः स्वशक्त्या ॥ २६॥

तत्तेजसा ते प्रतिमुष्टदृष्टयः पुरुष्टुताद्या अमितोरुदीधितेः ।
यावत् स्वगम्यं त्वनुगम्य तस्थुर्निमीलिताक्षा विहतोर्ध्वचाराः ॥ २७॥

वीन्द्रेशशेषानुगतः स्वयम्भूर्धाम प्रविष्टं तमजं प्रणम्य ।
वीन्द्रादिकैरप्ययुतः स्वपित्राऽऽश्लिष्टो रहश्चाकथयत् तथाऽस्तौत् ॥ २८॥

स पूर्वरूपेण समाप्य चैक्यं विभज्य चेच्छानुसृतोऽथ रेमे ।
हरिः श्रिया ब्रह्ममुखैश्च मुक्तैः सम्पूज्यमानोऽमितसद्गुणात्मा ॥ २९॥

ब्रह्माऽपि शर्वादियुतः स्वलोकं प्राप्तः पुनस्तत्र गतं च कृष्णम् ।
रेमेऽभिपश्यन् प्रतिपूजयंस्तं सुराश्च सर्वे रविबिम्बसंस्थम् ॥ ३०॥

यतो न दर्शिता भ्रान्तिः प्रादुर्भावेष्वपि क्वचित् ।
देहत्यागानुकारेण हरिणा तदिहाच्युतः ॥ ३१॥

मोहयित्वाऽसुरानन्धं तमः प्रापयितुं प्रभुः ।
चिदानन्दैकदेहोऽपि त्यक्तं देहमिवापरम् ।
सृष्ट्वा स्वदेहोपमितं शयानं भुव्यगाद् दिवम् ॥ ३२॥

दारुकोक्त्या समायातः पार्थस्तमदहत् तदा ।
रौहिणेयादिकानां च शरीराणि प्रधानतः ।
दारुको विष्णुलोकं तु पुनराप यथागतम् ॥ ३३॥

तथैव जनमोहाय प्राप्य वह्नावदृश्यताम् ।
रुग्मिण्यगाद्धरेः पार्श्वं सत्या कृत्वा तपस्तथा ॥ ३४॥

चिदानन्दैकदेहे हि द्विरूपे इव ते यतः ।
एकैवातः कृष्णवत् ते दुष्टान् मोहयतस्तथा ॥ ३५॥

अन्या महामहिष्यस्तु त्यक्त्वा देहं हुताशने ।
काश्चित् काश्चित्तु तपसा त्यक्तदेहा हरिं ययुः ॥ ३६॥

रौहिणेयादिकानां च भार्या वह्निमुखे तनुम् ।
त्यक्त्वा स्वभर्त्Qनेवाऽपुः सर्वा एव पतिव्रताः ॥ ३७॥

वसुदेवः पार्थमुखाच्छ्रुत्वैतद् योगमास्थितः ।
त्यक्त्वा देहं कश्यपत्वं प्राप कृष्णानुरागतः ॥ ३८॥

तस्यार्जुनोऽश्वमेधाग्नावन्त्यकर्माकरोत् तदा ।
त्यक्तदेहास्तस्य भार्या वह्नौ प्रापुस्तमेव च ॥ ३९॥

स्त्रीबालसहिते पार्थ एकस्मिन् पथि गच्छति ।
शापात् सुपापा आभीराः स्त्रीजनान् जह्रुरुद्धताः ॥ ४१॥

यास्ताः षोडशसाहस्रवनिताः शतसंयुताः ।
कृष्णशापान्म्लेच्छवशं ययुर्दर्पनिमित्ततः ॥ ४२॥

ह्रियमाणे धने चैव वनितासु च वासविः ।
युयुत्सुर्गाण्डिवं सज्यं कृच्छ्रेणैव चकार ह ॥ ४३॥

क्षीणास्तस्य शरा दैवान्नास्त्राणि स्मृतिमाययुः ।
स तद् दैवकृतं ज्ञात्वा संस्मरन् पुरुषोत्तमम् ।
निघ्नञ्छत्रून् गाण्डिवेन शेषं रक्षन् कुरूनगात् ॥ ४४॥

स तेन पुंसां प्रवरेण हेतुभिः सम्बोधितोऽज्ञानतमोंशुमालिना ।
संस्थाप्य चेतः पुनरेव तस्मिन् जहौ शुचः प्रायश एव धैर्यात् ॥ ४६॥

स्त्रियो म्लेच्छहृताः कृष्णप्रेषिताद् दाल्भ्यतः पुनः ।
गोविन्दैकादशीं श्रुत्वा कृत्वा सारस्वते जले ।
निमज्ज्य वायोर्वचनात् त्यक्तदेहा दिवं ययुः ॥ ४७॥

अर्जुनस्तु कुरुक्षेत्रे हार्दिक्ययुयुधानयोः ।
सुतौ सारस्वते चैव देशे राज्येऽभ्यषेचयत् ॥ ४८॥

अनिरुद्धसुतं वज्रं प्रियं कृष्णस्य सद्गुणम् ।
सशूरसेनेन्द्रप्रस्थराजानमकरोद् वशी ॥ ४९॥

स्त्रीबालांश्च धनं चैव तस्मिन् संस्थाप्य फल्गुनः ।
ययौ भ्रात्Qनशेषं च वृत्तं तेषामवर्णयत् ॥ ५०॥

ते चावियोगसमयं स्मरन्तो मुरवैरिणा ।
अभ्यषिञ्चन् भागवतं माहाराज्ये परीक्षितम् ॥ ५१॥

स्त्रीहारिणां च म्लेच्छानां वधायैनमयोजयन् ।
कृतं च तेन तत् कर्म वोढ्रा पैतामहं धुरम् ।
समयं परिरक्षद्भिर्न पार्थैरेव यत् कृतम् ॥ ५२॥

वासुदेवपदा स्पृष्टभूकण्टकसमुद्धृतिः ।
समयः पाण्डवानां हि तस्यैवानुगतिः परम् ॥ ५३॥

अनुव्रजद्भिर्विश्वेशं नास्माभिर्भूस्तदुज्झिता ।
भोज्या रक्ष्याऽपि वा तेषामित्येव समयः पुरा ॥ ५४॥

तत्र काली भीमभार्या वैष्णवं योगमास्थिता ।
कृष्णयैकत्वमापन्ना त्यक्त्वा देहं तु मानुषम् ॥ ५५॥

सुभद्राद्यास्तु या भार्याः पार्थानां तु तदाज्ञया ।
युयुत्सुश्चात्र शिक्षार्थं पौत्रस्यैवावसन् पुरे ॥ ५६॥

सन्त्यज्य राज्यचिह्नानि वैष्णवं योगमास्थिताः ।
वीराध्वानं ययुः सर्वे कृष्णया सह पाण्डवाः ॥ ५७॥

प्रागुदीचीं दिशं पूर्वं ययुस्तत्रार्जुनो धनुः ।
नात्यजल्लोभतस्तं तु समुद्रमुप पावकः ।
दृष्ट्वा ययाचे राजानं तदुक्तः प्रास्यदम्बुधौ ॥ ५८॥

प्रातिभाव्यं तु वरुणे निस्तीर्याग्निरदृश्यताम् ।
ययौ तेऽपि ययुः क्षिप्रं प्लवन्तः सप्तवारिधीन् ॥ ५९॥

अहोभिः सप्तभिर्योगं समारूढाः प्रदक्षिणम् ।
कृत्वा क्वचिदसज्जन्त आसेदुर्गन्धमादनम् ।
अत्र नारायणक्षेत्रे तेषां तन्वोऽपतन् क्रमात् ॥ ६०॥

द्रौपदीसहदेवादिपञ्चानां तत्र मारुतिः ।
सदेहनाकानिच्छुत्वाद् देहप्रपतनं हि तत् ॥ ६१॥

तेषामिहेति याथार्थ्यं जानन् पप्रच्छ धर्मजम् ।
केनकेनापतद् देहो दोषेण न इति क्रमात् ॥ ६२॥

मृतिकाले हि यो यस्य दोषं वक्त्यृणमोचनम् ।
तस्मात् स्यादुक्तदोषस्येत्याह यच्छ्रुतिरेव तत् ।
ऋणमोक्षाय सर्वेषां भीमो दोषानवादयत् ॥ ६३॥

सोऽपीच्छापतितान् देहानजानञ्छुद्धकर्मणाम् ।
अपश्यन् कारणं प्राह दोषान् स्यादेवमित्यपि ।
राजा सम्भावनामात्रं नहि कार्यमकारणम् ॥ ६४॥

‘स्वच्छन्दमृत्यवो योगाद् देहानुत्सृज्य पाण्डवाः ।
कृष्णा चाऽपुः परं स्थानं यन्न यान्त्यपि देवताः’ ।
इति श्रुतेर्न ते पापाद् देहांस्तत्यजुरूर्जिताः ॥ ६५॥

‘ऋणान्युन्मुच्य दोषोक्त्या स्वानां भीमः स्वकां तनुम् ।
तत्याज परमं ध्यायन्नाप च स्थानमुत्तमम्’ ।
इति स्कान्दपुराणोक्तं व्यासवाक्यमृषीन् प्रति ॥ ६६॥

भीमादृते हि चतुर्षु पक्षपातस्तु वासवौ ।
योग्य एवेति कृष्णाया न दोषः स्यात् कथञ्चन ॥ ६७॥

नीतिरूपे वीर्यबले महान्त्येषां यतः क्रमात् ।
प्राणत्वाद् भोगशक्तिश्च नहि दोषाय मारुतेः ॥ ६८॥

‘यथास्वरूपविज्ञानमात्मन्यपि न दोषकृत्’ ।
इति व्यासस्मृतेरेषामुक्तदोषोद्भवः कथम् ॥ ६९॥

कदाचिदतिमानोऽपि त्रयाणामेषु जायते ।
तथाऽपि तत्फलं नैतत् तारतम्यं हि मुक्तिगम् ।
गुणदोषाधिकाल्पत्वादत्रस्थमपि हि श्रुतम् ॥ ७०॥

आरब्धकर्मनाशे हि पतेद् देहोऽप्यपापिनः ।
युधिष्ठिरोऽपि हि स्वर्गं बुभुजे नैव तत्तनुः ॥ ७१॥

अतिमानादयो दोषाः कुत एव हि मारुतेः ।
अनादिकालतः सर्वदोषहीना गुणाधिकाः ॥ ७२॥

सर्वजीवगणेभ्यो ये ते हि वायुत्वमाप्नुयुः ।
ऋजवो नाम ये देवा देवानामपि देवताः ॥ ७३॥

अभावं ह्यतिमानादेर्भीमस्याऽह च केशवः ।

‘यत्किञ्चाऽत्मनि कल्याणं सम्भावयसि पाण्डव ।
सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम्’ ॥ ७४॥

इति तस्माद् यथा युद्धे धर्महानिममन्यत ।
एवमत्राप्यधर्मेण देहपातं नृपोऽब्रवीत् ॥ ७५॥

पूज्येभ्यः पूर्वमेवैषां देहपातमभीप्सताम् ।
तत्कामाद् देहपातोऽभून्न पापान्मुच्यतां यथा ॥ ७६॥

नहि पापफलान्मुक्तौ देहपातः कथञ्चन ।
किन्तु कर्मक्षयादेव तथा सर्वत्र निश्चितः ॥ ७७॥

तेषु स्वलोकान् प्राप्तेषु धर्मजश्चाऽत्मना सह ।
ययौ पुरो देवरथस्तदाऽस्यावततार ह ॥ ७८॥

रथमारुहेति कथितो रथिना पुरतः शुनः ।
आरोहमब्रवीन्नैतद् युक्तमित्याह सोऽपि तु ॥ ७९॥

नाऽरुहेयं विना श्वानमिति तेन स्थिरोदिते ।
स्वरूपं दर्शयामास धर्मो ह्याप्तः श्वरूपताम् ॥ ८०॥

आनृशंस्यपरत्वेन कीर्तिमेवाऽत्मनो वृषः ।
ख्यापयामास कौन्तेयरूपिणो धर्मसूक्तिभिः ॥ ८१॥

ततः स रथमारुह्य लोकानामुत्तरोत्तरम् ।
अतिक्रम्याखिलान् राज्ञो जगाम श्रीपतिप्रियः ॥ ८२॥

सर्वेषामुत्तरं लोकमैन्द्रं प्राप्येदमेव ते ।
स्थानमित्युदितो देवैर्दुर्योधनमवैक्षत ।
सभ्रातृकं ज्वलन्तं च सर्वेषामुपरि स्थितम् ॥ ८३॥

तं दृष्ट्वा परमक्रुद्धो निमील्य नयने शुभे ।
भ्रातरो मे क्व कृष्णा च सकर्णाः क्व च बान्धवाः ।
धृष्टद्युम्नादयः पुत्रा हैडिम्बाद्याश्च सर्वशः ॥ ८४॥

यादवश्चेति पप्रच्छ देवांस्ते च तमब्रुवन् ।
किं ते तैः स्वकृतं कर्म भुज्यतेऽत्र नचापरैः ॥ ८५॥

इत्युक्त आह पापोऽयं पृथिवीक्षयकारकः ।
सर्वातिशङ्की मित्रध्रुङ् नारायणपराङ्मुखः ॥ ८६॥

नास्तिकोऽतिशठः क्रूरो द्वेष्टा विष्णोश्च तद्भुवाम् ।
कथं दुर्योधनः स्थानं सर्वोत्तममवाप्तवान् ॥ ८७॥

कथं च सर्वधर्मज्ञा नारायणपरायणाः ।
संस्थिताः परमे धर्मे दृश्यन्तेऽत्र न मत्प्रियाः ॥ ८८॥

यत्र सन्तस्तु ते सन्ति तत्र स्थातव्यमेव मे ।
निरयेऽपि नचात्रापि नानेन सह पापिना ।
अस्य वीरतमस्येदं धार्तराष्ट्रस्य युज्यते ॥ ८९॥

इत्युक्ता देवता दूतं स्वानां सन्दर्शनार्थिनः ।
राज्ञः सम्प्रेषयामासुस्तत्सन्दर्शितवर्त्मना ॥ ९०॥

दुर्गन्धेन सुकृच्छ्रेण तमसा प्रावृतेन च ।
गत्वैव कियतीं भूमिं तद्दुर्गन्धासहो नृपः ।
इच्छन् निवर्तनं तत्र स्वानां वाच इवाशृणोत् ॥ ९१॥

क्षणं तिष्ठ महाराज सन्निधानबलात् तव ।
वेदना नो न महतीत्येच्छ्रुत्वा युधिष्ठिरः ॥ ९२॥

के यूयमिति पप्रच्छ दीनध्वनिविशङ्कितः ।
भीमोऽहमर्जुनः कर्ण इत्याद्युक्तमिवाशृणोत् ॥ ९३॥

श्रुत्वा तत् कृपयाऽऽविष्टः शोकामर्षसमन्वितः ।
आह दूतं यथेष्टं त्वं गच्छ नाहमितो व्रजे ॥ ९४॥

नच स्वर्गेण मे कार्यं त्यक्त्वा स्वजनमीदृशम् ।
इत्युक्तः प्रययौ दूतस्तस्थावेव युधिष्ठिरः ॥ ९५॥

ततोऽत्र देवाः पुरुहूतपूर्वकाः समाययुः स्नेहवशाद् युधिष्ठिरे ।
तेष्वागतेष्वेव न तत्र वाचो दीना न दुर्गन्धतमोऽप्यपश्यत् ।
स्वर्गोत्तमं देशमपश्यदेतमभ्रान्तचेताः स युधिष्ठिरस्तदा ॥ ९६॥

आहात्र धर्मः पुनरात्मसद्यशः प्रकाशयन् पाण्डुसुताभिधं स्वम् ।
धर्माद् विशिष्टा हि सदाऽनृशंसता दृष्टा च सा त्वय्यधिका त्रिशो मया ॥ ९७॥

शक्रोऽप्युवाचैनमिदं मृषा ते प्रदर्शितं द्रोणकृते मृषागिरः ।
कृच्छ्रादिदं ते कथितं नचातिविस्रम्भ आसीत् तव कृष्णवाक्ये ॥ ९८॥

नह्याज्ञया वासुदेवस्य किञ्चित् पापं भवेत् सर्वविधर्मिणोऽपि ।
ब्रह्मापराक्ष्येऽपि विकर्म सूचकं प्रारब्धपापस्य विषाशनं यथा ॥ ९९॥

पश्यात्र भीमप्रमुखान् सुखस्थान् सम्पूज्यमानांस्त्रिदशैः सुरूपान् ।
कुतः परब्रह्मदृशां सुशुद्धसत्कर्मणां कृष्णपरायणानाम् ।
परेण योगेन विसृष्टतन्वां दुःखं भवेद् देववराधिपानाम् ॥ १००॥

एते हि देवप्रवराः पृथिव्यां जाता भुवो भारजिहीर्षुमीशम् ।
प्रतोष्य तद्भावितबुद्धिकर्मभिः पुनश्च तेनैव सहाऽपिरे दिवम् ॥ १०१॥

न ते नृपाद्यापि हि मानुषो गतो भावस्ततो द्वेष्टि सुयोधनादीन् ।
निमज्ज्य तद् विष्णुपदोदकेऽत्र विसृज्य देहं भज देवभावम् ॥ १०२॥

सुयोधनाद्या यदिमे सुपापा आरब्धकर्मक्षयमाप्य नित्ये ।
निःशेषसौख्योज्झितनित्यदुःखेऽवशाः पतिष्यन्त्यपुनर्निवृत्ताः ॥ १०३॥

देवांशजा ये तु समस्तशस्ते स्वमूलरूपं समवाप्य काले ।
स्वतारतम्यानुसृतां विमुक्तिं प्राप्स्यन्ति नात्रापि विचार्यमस्ति ॥ १०४॥

इत्युक्त आश्वेव निमज्ज्य गङ्गां धर्मात्मजस्तं प्रविसृज्य देहम् ।
सद्यो बभौ दैवमवाप्य कायं विसृष्टरोषादिसमस्तदोषः ॥ १०५॥

स तु प्रपश्यन् स्वजनं समस्तं स्वमूलरूपातिसमीपसंस्थम् ।
ददर्श भीमं च मरुत्समीपे मध्ये ज्वलन्तं मरुतां गणस्य ॥ १०६॥

ददर्श कृष्णामपि तत्समीपे श्रिया ज्वलन्तीं समतीत्य चान्याः ।
स्प्रष्टुं च संस्कारवशादियेष निषिध्य तं प्राह सुराधिराजः ॥ १०७॥

एषा हि साक्षाज्जगतां प्रियस्य प्राणात्मनो जीववरेश्वरस्य ।
प्राणप्रिया श्रीरिति नाम यस्याः शमात्मकेऽस्मिन् रमते यदेषा ॥ १०८॥

युष्मच्चतुर्देहगतस्य वायोर्वायुप्रिया भीमतनोस्तथैव ।
भोगाय सृष्टा पुरुषोत्तमेन युष्मत्प्रियार्थं भवतां च दारैः ॥ १०९॥

प्रीतिस्ततो ह्यभ्यधिका बभूव भीमस्य चास्यास्तदनु स्म पार्थे ।
ततो भवत्स्वेव यथाक्रमेण गुणानुसारेण समीरणस्य ॥ ११०॥

इदा हि सा शुद्धतनुः प्रजाता शच्यादियोगापगताग्र्यदेहा ।
यूयं च सर्वे मरुतो विशेषसंयोगहीनाः स्वशरीरसंस्थाः ॥ १११॥

स्पर्शेऽपि नास्याः पवमानपत्न्याः सुपूतताऽलं भवतामिदानीम् ।
नचोत्तरत्रापि भवेत् कथञ्चिद् दिवौकसां मानुषदेहिनो यथा ॥ ११२॥

इतीरितं तं प्रतिसन्निवृत्तं विनाशयन् मानुषवासनां स्वयम् ।
समाश्लिषच्छुद्धतनुः स्तनोत्थो धर्मो हरेः सोऽभवदाशु तत्समः ॥ ११३॥

ततस्तु पार्था अखिलाः स्वमूलरूपैः सहैवाऽविविशुर्मुदाऽन्विताः ।
स्वीयानि धामानि ततोऽप्यनूनभोगाः सदा सन्न्यवसंश्च तत्र ॥ ११४॥

तत्रापि कृष्णेन समागमोऽभूत् पुरेव तेषामतितत्पराणाम् ।
चिक्रीड एभिः सहितस्तथैव कृष्णोऽपि तद्वत् सरथोऽर्जुनेन ॥ ११५॥

अन्ये च देवांशभवाः समस्ताः स्वमूलरूपैक्यमवापुराशु ।
कर्मक्षयादेव सुरेतरास्तु पुण्यक्षयं प्राप्य भुवि प्रजाताः ॥ ११६॥

चतुःसहस्रं त्रिशतोत्तरं ते संवत्सराणामनुभूय दिव्यान् ।
भोगान् नरत्वेऽपि सदेश्वरोऽहमसज्जगच्चेति धियाऽऽप्नुवंस्तमः ॥ ११७॥

दुःखेऽपि तेषामिह तारतम्यं कलेः परं दुःखमिहाखिलाच्च ।
यथा विरिञ्चस्य सुखं परं स्यान्मुक्तौ हरिद्वेषकृतो विशेषः ॥ ११८॥

केचित् पिशाचासुरराक्षसत्वमवाप्य विष्णोरपि तत्पराणाम् ।
द्वेषात् तमोऽन्धं त्वरया समाप्नुयुर्देवाः स्वकाले निजयोग्यमुक्तिम् ॥ ११९॥

चतुःसहस्रे त्रिशतोत्तरे गते संवत्सराणां तु कलौ पृथिव्याम् ।
जातः पुनर्विप्रतनुः स भीमो दैत्यैर्निगूढं हरितत्त्वमाह ॥ १२०॥

तदैव कृष्णाऽपि भुवि प्रजाता प्रीत्यै हरेरन्धतमस्यपातयत् ।
महासुरान् विष्णुपरार्जुनाद्या कृते प्रजाता हरितोषणाय ।
पुनश्च ते स्थानमवाप्य सर्वे स्वीयं परान्ते तु विमुक्तिमाप्नुयुः ॥ १२१॥

वायुत्वमाप्तः स हनूमदंशो ब्राह्मं पदं प्राप्य वृकोदरश्च ।
वागीश्वरत्वं गतयैव कृष्णया सहैव मुक्तिं गमिताऽखिलोत्तमाम् ॥ १२२॥

भुवि द्युलोके च विरिञ्चतायां
मुक्तौ च ताभ्यामधिकं समस्तात् ।
सन्तोष्यते पूर्णगुणो रमेशः
सदैव नित्योर्जिततद्रतिभ्याम् ॥ १२३॥

‘भूषन् न यो ऽधि बभ्रूषु नम्नते’
’ बल् इत्था तद् वपुषे धायि दर्शतं’ ।
‘तां सु ते कीर्तिम् मघवन् महित्वा’
इत्यादिसूक्तानि च तत्प्रमाणम् ॥ १२४॥

(ऋग्वेद १.१४०.६, १.१४१.१, १०.५४.१)
अन्यानि वाक्यानि च वैदिकानि
सपञ्चरात्रोक्तिपुराणकानि ।
पृष्टश्च भीष्मोऽत्र युधिष्ठिरेणैतन्
मोक्षधर्मेष्वपि किञ्चिदाह ॥ १२५॥

एवं प्रयातेषु सुकेशवेषु
स्वानेव लोकान् यदुपाण्डवेषु ।
परीक्षिदाद्यास्तु तदन्वयोत्था
व्यासानुशिष्टाः पृथिवीमरक्षन् ॥ १२६॥

तै क्षेमकान्तैरिह भारतादि-
शास्त्राणि शृण्वद्भिरशेषविद्भिः ।
व्यासप्रभावाच्च कलौ च धर्मो
ज्ञानं च सुत्रातम् अगान् न नाशम् ॥ १२७॥

संवत्सराणां तु सहस्रके गते
प्राप्तेषु च द्यामखिलेषु सत्सु ।
दग्धा पुरा ये त्रिपुरं घ्नतैव
रुद्रेण जाताः पृथिवीतले ते ॥ १२८॥

अदर्शनं सर्वमुनीन्द्रवृन्दैः
सहैव सज्ज्ञानमहानिदाने ।
व्यासे प्रयातेऽपि सुतत्त्वविद्या
तत्सम्प्रदायादपि तैरवाप्ता ॥ १२९॥

उत्सादितत्वात्तु दुरागमानां
तत्सम्प्रदायस्य च नाशितत्वात् ।
प्रसारितत्वाच्च सदागमानां
पापा अपि ज्ञानमवापुरेतत् ॥ १३०॥

शुना पुरोडाशमिवावलीढं
वेद-श्रुतिं वाऽन्त्यजनैरवाप्ताम् ।
अनन्तदुःखाप्तिसुयोग्यदैत्यैर्
विद्यामवाप्तां तु न सेहिरे सुराः ॥ १३१॥

नावाग्गतिः क्वापि सुवेदिनां भवेत्
प्राप्यं सुखं नित्यमवश्यमेभिः ।
प्राप्यं तमोऽन्धं त्वसुरैर्न मुक्तिः
कदाचिदाप्या तदचिन्तयन् सुराः ॥ १३२॥

ज्ञानप्रदानाय सतां तदन्य-
ज्ञानप्रणाशाय च विष्णुनैते ।
क्लृप्तास्ततस्ते सविरिञ्चशर्वा
विज्ञापयामासुरुपेत्य विष्णुम् ॥ १३३॥

क्षीरोदधेरुत्तरतीरविष्ठितैर्
अभिष्टुतः सुष्टुतिभिः पुरुष्टुतः ।
प्रदाय तेषामभयं रमापतिः
क्षणादभूच्चारुतमाकृतिः शिशुः ॥ १३४॥

यस्त्रैपुराणां प्रथमोऽत्र जातः
शुद्धोदनेत्येव जिनेति चोक्तः ।
क्षेत्रे गयाख्येऽस्य शिशुं प्रजातं
सम्प्रास्य दूरेऽत्र बभूव विष्णुः ।
अजानमानाः स्वशिशुं गतं तं
शिशुं हरिं वीक्ष्य निजं स्म मेनिरे ॥ १३५॥

तेषां तदा वैदिककर्म वीक्ष्य
सम्प्राहसत् तद्वपुषैव केशवः ।
तं जातमात्रं प्रहसन् तमीक्ष्य
सुविस्मितैः पृष्ट उवाच विष्णुः ।
बुद्धोऽहमित्येव सुनित्यबोधाज्
जगाद चैषामथ बुद्धदर्शनम् ॥ १३६॥

तथाऽप्यविश्वासमवेक्ष्य तेषां
सस्मार देवानखिलान् जनार्दनः ।
विज्ञाय ते तस्य मनोगतं निजान्
प्रचिक्षिपुर्हेतिगणानमुष्मिन् ॥ १३७॥

स जातमात्रः शिवपूर्वकाणां
शूलादिहेतीरखिला निगीर्य ।
दैत्यातिमोहाय निजं च चक्रं
स्वमुक्तमाश्वेव वशी समग्रहीत् ॥ १३८॥

तदासनत्वेन विधाय तस्मिन् समास्थितं देवगणाः प्रणम्य ।
जग्मुः स्वधामानि वचांसि चास्य स्वीचक्रुराश्वेव जिनादिदैत्याः ॥ १३९॥

ते ज्ञानधर्मावपहाय पापा विमोहिता देववरेण सर्वे ।
जग्मुस्तमोऽन्धं क्षणिकं समस्तं ज्ञानं नसच्चेति दृढं स्मरन्तः ॥ १४०॥

नारायणोऽप्याप्य सुरेन्द्रवृन्दं वृत्तं च तेषामखिलं निगद्य ।
पृष्टश्च तैराह निजं हृदिस्थं बौद्धागमार्थं सृतिबन्धमोचनम् ॥ १४१॥

क्षणादयं क्षणिकास्तद्विशेषा यतः प्रयान्त्येव निसर्गतोऽखिलाः ।
ततः स्थिरत्वेऽपि विशेषसंश्रयादुक्तं क्षणस्थायि मया समस्तम् ॥ १४२॥

तद्वान् विशेषश्च यतो न भिन्नो सदा स्वनिर्वाहकशक्तियुक्तौ ।
अतः क्षणस्थायि समस्तमेतत् स्थिरात्मकं चेति हि नास्ति भेदः ॥ १४३॥

ज्ञोऽहं सदैकः परमो मयैतत् सदाऽननीयं हि यतोऽस्वतन्त्रम् ।
ज्ञानात्मकं विश्वमतो मयोक्तं जडस्वरूपं च किमु स्म चेतनम् ॥ १४४॥

शंशीलकोऽहं यत एव चोच्चः शूनामकस्तद्धि मया निधेयम् ।
शून्याभिधं दोषविरुद्धरूपो दोषोज्झितोऽन्यस्त्वखिलादनामा ।
एनैव साद्यं त्वसदेव नामतस्त्वभाव एनैव भवेद् यतस्तत् ॥ १४५॥

इत्यादि बोद्धव्यमिदं समस्तं मयोदितं क्वापि न हेयमस्ति ।
इत्यादि देवान् प्रतिबोधयंश्च देवैः सहोवास स बुद्धदेवः ।
गत्वा स्वधामाप्यपरेण रूपेणाऽस्ते पृथक् चैकतनुर्यथेष्टम् ॥ १४६॥

ततस्तु बुद्धोदितपक्षसंस्थो जिनोऽपि चक्रे मतमन्यदेव ।
बौद्धेन जैनेन मतेन चैव दैत्यांशकाः प्रीतिमगुः समस्ताः ॥ १४७॥

प्रशान्तविद्येत्यभिधं तथाऽन्यद् बुद्धोक्तशास्त्रं त्रिदशा अवाप्य ।
तोषं ययुर्वेदसमस्तसारं यामास्थितानामचिरेण मुक्तिः ॥ १४८॥

अन्ये मनुष्या अपि भारताद्यं
सत्सम्प्रदायं परिगृह्य विष्णुम् ।
यजन्त आपुः परमां गतिं तन्
न सेहिरे क्रोधवशादिदैत्याः ॥ १४९॥

शैवं तपस्ते विपुलं विधाय
जगद्विमोहोर्जितशक्तिमस्मात् ।
प्राप्य प्रजाता भुवि मोहनं च
चक्रुः कुतर्कैरभिदां वदन्तः ॥ १५०॥

तेषां प्रपाताय सतां च मुक्त्यै
जन्माऽस भीमस्य यदुक्तमत्र ।
दुर्गा पुनर् विप्रकुलेऽवतीर्णा
हनिष्यति व्रातमथासुराणाम् ॥ १५१॥

ततः कलेरन्तमवाप्य धर्मज्ञानादिकल्याणगुणप्रहीने ।
लोके विरिञ्चत्रिपुरघ्नशक्रपूर्वाः पयोब्धिं त्रिदशाः प्रजग्मुः ॥ १५२॥

नारायणस्तैः स्तुतिपूर्वमर्थितो भवाय लोकस्य स शम्भलाख्ये ।
ग्रामे मुनेर्विष्णुयशोऽभिधस्य गृहे बभूवाऽविरचिन्त्यशक्तिः ॥ १५३॥

कलेस्तु कात्कारत एष कल्की ज्ञानं कलं कं सुखमेव तद्वान् ।
कल्कीति वा तेन समस्तदस्युविनाशनं तेन दिनाद् व्यधायि ॥ १५४॥

अधर्मवृत्तं विमुखं हरेश्च निहत्य निःशेषजनं तुरङ्गी ।
संस्थापयामास स धर्मसेतुं ज्ञानं स्वभक्तिं च निजप्रजासु ॥ १५५॥

इत्याद्यनन्तानि हरेरुदारकर्माणि रूपाणि च सद्गुणाश्च ।
नित्यव्यपेताखिलदोषकस्य ब्रह्मेत्यनन्तेति च नाम येन ॥ १५६॥

आनन्दतीर्थाख्यमुनिः सुपूर्णप्रज्ञाभिधो ग्रन्थमिमं चकार ।
नारायणेनाभिहितो बदर्यां तस्यैव शिष्यो जगदेकभर्तुः ॥ १५७॥

यस्तत्प्रसादादखिलांश्च वेदान् सपञ्चरात्रान् सरहस्यसङ्ग्रहान् ।
वेदेतिहासांश्च पुराणयुक्तान् यथावदन्या अपि सर्वविद्याः ॥ १५८॥

समस्तशास्त्रार्थविनिर्णयोऽयं विशेषतो भारतवर्त्मचारी ।
ग्रन्थः कृतोऽयं जगतां जनित्रं हरिं गुरुं प्रीणयताऽमुनैव ।
विनिर्णयो नास्त्यमुना विना यद् विप्रस्थितानामिव सर्ववाचाम् ॥ १५९॥

तद् ब्रह्मसूत्राणि चकार कृष्णो व्याख्याऽथ तेषामयथा कृताऽन्यैः ।
निगूहितं यत् पुरुषोत्तमत्वं सूत्रोक्तमप्यत्र महासुरेन्द्रैः ।
जीवेश्वरैक्यं प्रवदद्भिरुग्रैर्व्याख्याय सूत्राणि चकार चाऽविः ॥ १६०॥

व्यासाज्ञया भाष्यवरं विधाय पृथक्पृथक् चोपनिषत्सुभाष्यम् ।
कृत्वाऽखिलान्यं पुरुषोत्तमं च हरिं वदन्तीति समर्थयित्वा ॥ १६१॥

तनुस्तृतीया पवनस्य सेयं सद्भारतार्थप्रतिदीपनाय ।
ग्रन्थं चकारेममुदीर्णविद्या यस्मिन् रमन्ते हरिपादभक्ताः ॥ १६२॥

तृतीयमस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥

निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः ।
यद् ईम् अनुप्रदिवो मध्व आधवे गुहासन्तम् मातरिश्वा मथायति’ ॥ १६३॥

(ऋग्वेद १.१४१.२-३) इत्यादिवाक्योक्तमिदं समस्तं तथा पुराणेषु च पञ्चरात्रे ।
अत्रोदिता याश्च कथाः समस्ता वेदेतिहासादिविनिर्णयोक्ताः ॥ १६४॥

तस्मादयं ग्रन्थवरोऽखिलोरुधर्मादिमोक्षान्तपुमर्थहेतुः ।
किं वोदितैरस्य गुणैस्ततोऽन्यैर्नारायणः प्रीतिमुपैत्यतोऽलम् ॥ १६५॥

यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यान्यलं बट् तद्दर्शतमित्थमेव निहितं देवस्य भर्गो महत् ।
वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुः मध्वो यत्तु तृतीयमेतदमुना ग्रन्थः कृतः केशवे ॥ १६६॥

यः सर्वगुणसम्पूर्णः सर्वदोषविवर्जितः ।
प्रीयतां प्रीत एवालं विष्णुर्मे परमः सुहृत् ॥ १६७॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{(पाण्डवस्वर्गारोहणं नाम) द्वात्रिंशोऽध्यायः}