०२

औं ॥

जयति हरिरचिन्त्यः सर्वदेवैकवन्द्यः परमगुरुरभीष्टावाप्तिदः सज्जनानाम् ।
निखिलगुणगणार्णो नित्यनिर्मुक्तदोषः सरसिजनयनोऽसौ श्रीपतिर्मानदो नः ॥ २.१॥

उक्तः पूर्वेऽध्याये शास्त्राणां निर्णयः परो दिव्यः ।
श्रीमद्भारतवाक्यान्येतैरेवाध्यवस्यन्ते ॥ २.२॥

क्वचिद् ग्रन्थान् प्रक्षिपन्ति क्वचिदन्तरितानपि ।
कुर्युः क्वचिच्च व्यत्यासं प्रमादात् क्वचिदन्यथा ॥ २.३॥

अनुत्सन्ना अपि ग्रन्था व्याकुला इति सर्वशः ।
उत्सन्नाः प्रायशः सर्वे कोट्यंशोऽपि न वर्तते ॥ २.४॥

ग्रन्थोऽप्येवं विलुलितः किम्वर्थो देवदुर्गमः ।
कलावेवं व्याकुलिते निर्णयाय प्रचोदितः ॥ २.५॥

हरिणा निर्णयान् वच्मि विजानंस्तत्प्रसादतः ।
शास्त्रान्तराणि सञ्जानन् वेदांश्चास्य प्रसादतः ॥ २.६॥

देशे देशे तथा ग्रन्थान् दृष्ट्वा चैव पृथग्विधान् ।
यथा स भगवान् व्यासः साक्षान्नारायणः प्रभुः ॥ २.७॥

जगाद भारताद्येषु तथा वक्ष्ये तदीक्षया ।
सङ्क्षेपात् सर्वशास्त्रार्थं भारतार्थानुसारतः ।
निर्णयः सर्वशास्त्राणां भारतं परिकीर्तितम् ॥ २.८॥

‘भारतं सर्ववेदाश्च तुलामारोपिताः पुरा ।
देवैर्ब्रह्मादिभिः सर्वैरृषिभिश्च समन्वितैः ।
व्यासस्यैवाऽज्ञया तत्र त्वत्यरिच्यत भारतम्’ ॥ २.९॥

‘महत्वाद् भारवत्वाच्च महाभारतमुच्यते ।
निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते’ ॥ २.१०॥ (महा. १.१.२०९ अस्त्)

‘निर्णयः सर्वशास्त्राणां सदृष्टान्तो हि भारते ।
कृतो विष्णुवशत्वं हि ब्रह्मादीनां प्रकाशितम् ॥ २.११॥

यतः कृष्णवशे सर्वे भीमाद्याः सम्यगीरिताः ।
सर्वेषां ज्ञानदो विष्णुर्यशोदातेति चोदितः ॥ २.१२॥

यस्माद्व्यासात्मना तेषां भारते यश ऊचिवान् ।
ज्ञानदश्च शुकादीनां ब्रह्मरुद्रादिरूपिणाम् ॥ २.१३॥

ब्रह्माधिकश्च देवेभ्यः शेषाद्रुद्रादपीरितः ।
प्रियश्च विष्णोः सर्वेभ्य इति भीमनिदर्शनात् ॥ २.१४॥

भूभारहारिणो विष्णोः प्रधानाङ्गं हि मारुतिः ।
मागधादिवधादेव दुर्योधनवधादपि ॥ २.१५॥

यो य एव बलज्येष्ठः क्षत्रियेषु स उत्तमः ।
अङ्गं चेद्विष्णुकार्येषु तद्भक्त्यैव न चान्यथा ॥ २.१६॥

बलं नैसर्गिकं तच्चेद्वरास्त्रादेस्तदन्यथा ।
अन्यावेशनिमित्तं चेद्बलमन्यात्मकं हि तत् ॥ २.१७॥

देवेषु बलिनामेव भक्तिज्ञाने न चान्यथा ।
स एव च प्रियो विष्णोर्नान्यथा तु कथञ्चन ॥ २.१८॥

तस्माद्यो यो बलज्येष्ठः स गुणज्येष्ठ एव च ।
बलं हि क्षत्रिये व्यक्तं ज्ञायते स्थूलदृष्टिभिः ॥ २.१९॥

ज्ञानादयो गुणा यस्माज्ज्ञायन्ते सूक्ष्मदृष्टिभिः ।
तस्माद्यत्र बलं तत्र विज्ञातव्या गुणाः परे ॥ २.२०॥

देवेष्वेव न चान्येषु वासुदेवप्रतीपतः ।
क्षत्रादन्येष्वपि बलं प्रमाणं यत्र केशवः ।
प्रवृत्तो दुष्टनिधने ज्ञानकार्ये तथैव च ॥ २.२१ ॥

अन्यत्र ब्राह्मणानां तु प्रमाणं ज्ञानमेव हि ।
क्षत्रियाणां बलं चैव सर्वेषां विष्णुकार्यता ॥ २.२२॥

कृष्णरामादिरूपेषु बलकार्यो जनार्दनः ।
दत्तव्यासादिरूपेषु ज्ञानकार्यस्तथा प्रभुः ॥ २.२३॥

मत्स्यकूर्मवराहाश्च सिंहवामनभार्गवाः ।
राघवः कृष्णबुद्धौ च कृष्णद्वैपायनस्तथा ॥ २.२४॥

कपिलो दत्त ऋषभौ शिंशुमारो रुचेः सुतः ।
नारायणो हरिः कृष्णस्तापसो मनुरेव च ॥ २.२५॥

महिदासस्तथा हंसः स्त्रीरूपो हयशीर्षवान् ।
तथैव वडवावक्त्रः कल्की धन्वन्तरिः प्रभुः ॥ २.२६॥

इत्याद्याः केवलो विष्णुर्नैषां भेदः कथञ्चन ।
न विशेषो गुणैः सर्वैर्बलज्ञानादिभिः क्वचित् ॥ २.२७॥

श्रीब्रह्मरुद्रशेषाश्च वीन्द्रेन्द्रो काम एव च ।
कामपुत्रोऽनिरुद्धश्च सूर्यश्चन्द्रो बृहस्पतिः ॥ २.२८॥

धर्म एषां तथा भार्या दक्षाद्या मनवस्तथा ।
मनुपुत्राश्च ऋषयो नारदः पर्वतस्तथा ॥ २.२९॥

कश्यपः सनकाद्याश्च वह्न्याद्याश्चैव देवताः ।
भरतः कार्तवीर्यश्च वैन्याद्याश्चक्रवर्तिनः ॥ २.३०॥

गयश्च लक्ष्मणाद्याश्च त्रयो रोहिणिनन्दनः ।
प्रद्युम्नो रौक्मिणेयश्च तत्पुत्रश्चानिरुद्धकः ॥ २.३१ ॥

नरः फल्गुन इत्याद्या विशेषावेशिनो हरेः ।
वालि साम्बादयश्चैव किञ्चिदावेशिनो हरेः ॥ २.३२॥

तस्माद्बलप्रवृत्तस्य रामकृष्णात्मनो हरेः ।
अन्तरङ्गं हनूमांश्च भीमस्तत्कार्यसाधकौ ॥ २.३३॥

ब्रह्मात्मको यतो वायुः पदं ब्राह्ममगात् पुरा ।
वायोरन्यस्य न ब्राह्मं पदं तस्मात् स एव सः ॥ २.३४॥

यत्र रूपं तत्र गुणाः भक्त्याद्यास्त्रीषु नित्यशः ।
रूपं हि स्थूलदृष्टीनां दृश्यं व्यक्तं ततो हि तत् ॥ २.३५॥

प्रायो वेत्तुं न शक्यन्ते भक्त्याद्यास्त्रीषु यत् ततः ।
यासां रूपं गुणास्तासां भक्त्याद्या इति निश्चयः ॥ २.३६॥

तच्च नैसर्गिकं रूपं द्वात्रिंशल्लक्षणैर्युतम् ।
नालक्षणं वपुर्मात्रं गुणहेतुः कथञ्चन ॥ २.३७॥

आसुरीणां वरादेस्तु वपुर्मात्रं भविष्यति ।
न लक्षणान्यतस्तासां नैव भक्तिः कथञ्चन ॥ २.३८॥

तस्माद् रूपगुणोदारा जानकी रुग्मिणी तथा ।
सत्यभामेत्यादिरूपा श्रीः सर्वपरमा मता ॥ २.३९॥

ततः पश्चाद् द्रौपदी च सर्वाभ्यो रूपतो वरा ।
भूभारक्षपणे साक्षादङ्गं भीमवदीशितुः ॥ २.४०॥

हन्ता च वैरहेतुश्च भीमः पापजनस्य तु । द्रौपदी वैरहेतुः सा तस्माद् भीमादनन्तरा ॥ २.४१॥

बलदेवस्ततः पश्चात् ततः पश्चाच्च फल्गुनः । नरावेशादन्यथा तु द्रौणिः पश्चात् ततोऽपरे ॥ २.४२॥

रामवज्जाम्बवत्याद्याः षट् ततो रेवती तथा । लक्ष्मणो हनुमत्पश्चात् ततो भरतवालिनौ । शत्रुघ्नस्तु ततः पश्चात् सुग्रीवाद्यास्ततोऽवराः ॥ २.४३॥

रामकार्यं तु यैः सम्यक् स्वयोग्यं न कृतं पुरा । तैः पूरितं तत् कृष्णाय बीभत्स्वाद्यैः समन्ततः ॥ २.४४॥

अधिकं यैः कृतं तत्र तैरूनं कृतमत्र तत् । कर्णाद्यैरधिकं यैस्तु प्रादुर्भावद्वये कृतम् । विविदाद्यैर्हि तैः पश्चाद् विप्रतीपं कृतं हरेः ॥ २.४५॥

प्रादुर्भावद्वये ह्यस्मिन् सर्वेषां निर्णयः कृतः । नैतयोरकृतं किञ्चिच्छुभं वा यदि वाऽशुभम् । अन्यत्र पूर्यते क्वापि तस्मादत्रैव निर्णयः ॥ २.४६॥

पश्चात्तनत्वात् कृष्णस्य वैशेष्यात् तत्र निर्णयः । प्रादुर्भावमिमं यस्माद् गृहीत्वा भारतं कृतम् ॥ २.४७॥

उक्ता रामकथाऽप्यस्मिन् मार्कण्डेयसमास्यया । तस्माद् यद् भारते नोक्तं तद्धि नैवास्ति कुत्रचित् । अत्रोक्तं सर्वशास्त्रेषु नहि सम्यगुदाहृतम्’ ॥ २.४८॥

इत्यादि कथितं सर्वं ब्रह्माण्डे हरिणा स्वयम् । मार्कण्डेयेऽपि कथितं भारतस्य प्रशंसनम् ॥ २.४९॥

‘देवतानां यथा व्यासो द्विपदां ब्राह्मणो वरः । आयुधानां यथा वज्रमोषधीनां यथा यवाः । तथैव सर्वशास्त्राणां महाभारतमुत्तमम्’ ॥ २.५०॥

वायुप्रोक्तेऽपि तत् प्रोक्तं भारतस्य प्रशंसनम् । ’ कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । को ह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्’ ॥ २.५१॥

(पद्म पु. १.१.४३-४४; विष्णु पु. ३.४-५; महा. १२.३३४.९ ) एवं हि सर्वशास्त्रेषु पृथक् पृथगुदीरितम् । उक्तोऽर्थः सर्व एवायं माहात्म्यक्रमपूर्वकः ॥ २.५२॥

भारतेऽपि यथा प्रोक्तो निर्णयोऽयं क्रमेण तु । तथा प्रदर्शयिष्यामस्तद्वाक्यैरेव सर्वशः ॥ २.५३॥

‘नारायणं सुरगुरुं जगदेकनाथं भक्तप्रियं सकललोकनमस्कृतं च । त्रैगुण्यवर्जितमजं विभुमाद्यमीशं वन्दे भवघ्नममरासुरसिद्धवन्द्यम्’ ॥ २.५४॥

ज्ञानप्रदः स भगवान् कमलाविरिञ्चशर्वादिपूर्वजगतो निखिलाद्वरिष्ठः । भक्त्यैव तुष्यति हरिप्रवणत्वमेव सर्वस्य धर्म इति पूर्वविभागसंस्थः ॥ २.५५॥

निर्दोषकः सृतिविहीन उदारपूर्णसंविद्गुणः प्रथमकृत् सकलात्मशक्तिः । मोक्षैकहेतुरसुरूपसुरैश्च मुक्तैर्वन्द्यः स एक इति चोक्तमथोत्तरार्धे ॥ २.५६॥

नम्यत्वमुक्तमुभयत्र यतस्ततोऽस्य मुक्तैरमुक्तिगगणैश्च विनम्यतोक्ता । इत्थं हि सर्वगुणपूर्तिरमुष्य विष्णोः प्रस्ताविता प्रथमतः प्रतिजानतैव ॥ २.५७॥

‘कृष्णो यज्ञैरिज्यते सोमपूतैः कृष्णो वीरैरिज्यते विक्रमद्भिः । कृष्णो वन्यैरिज्यते सम्मृशानैः कृष्णो मुक्तैरिज्यते वीतमोहैः’ ॥ २.५८॥

सृष्टा ब्रह्मादयो देवा निहता येन दानवाः । तस्मै देवादिदेवाय नमस्ते शार्ङ्गधारिणे ॥ २.५९॥

स्रष्टृत्वं देवानां मुक्तिस्रष्टृत्वमुच्यते नान्यत् । उत्पत्तिर्दैत्यानामपि यस्मात् सम्मिता विशेषोऽयम् ॥ २.६०॥

अथ च दैत्यहतिस्तमसि स्थिरा नियतसंस्थितिरेव न चान्यथा । तनुविभागकृतिः सकलेष्वियं नहि विशेषकृता सुरदैत्यगा ॥ २.६१॥

तमिममेव सुरासुरसञ्चये हरिकृतं प्रविशेषमुदीक्षितुम् । प्रतिविभज्य च भीमसुयोधनौ स्वपरपक्षभिदा कथिता कथा ॥ २.६२॥

‘नमो भगवते तस्मै व्यासायामिततेजसे । यस्य प्रसादाद् वक्ष्यामि नारायणकथामिमाम् ॥ २.६३॥

वासुदेवस्तु भगवान् कीर्तितोऽत्र सनातनः । प्रतिबिम्बमिवाऽदर्शे यं पश्यन्त्यात्मनि स्थितम् ॥ २.६४॥

नास्ति नारायणसमं न भूतं न भविष्यति । एतेन सत्यवाक्येन सर्वार्थान् साधयाम्यहम्’ ॥ २.६५॥

आद्यन्तयोरित्यवदत् स यस्माद् व्यासात्मको विष्णुरुदारशक्तिः । तस्मात् समस्ता हरिसद्गुणानां निर्णीतये भारतगा कथैषा ॥ २.६६॥

‘सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । वेदशास्त्रात् परं नास्ति न दैवं केशवात् परम्’ ॥ २.६७॥

‘आलोड्य सर्वशास्त्राणि विचार्य च पुनः पुनः । इदमेकं सुनिष्पन्नं ध्येयो नारायणः सदा’ ॥ २.६८॥

‘स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् । सर्वे विधिनिषेधाः स्युरेतयोरेव किङ्कराः’ ॥ २.६९॥

‘को हि तं वेदितुं शक्तो यो न स्यात् तद्विधोऽपरः । तद्विधश्चापरो नास्ति तस्मात् तं वेद सः स्वयम् ॥ २.७०॥

को हि तं वेदितुं शक्तो नारायणमनामयम् । ऋते सत्यवतीसूनोः कृष्णाद् वा देवकीसुतात् ॥ २.७१॥

अप्रमेयोऽनियोज्यश्च स्वयं कामगमो वशी । मोदत्येष सदा भूतैर्बालः क्रीडनकैरिव ॥ २.७२॥

न प्रमातुं महाबाहुः शक्योऽयं मधुसूदनः । परमात् परमेतस्माद् विश्वरूपान्न विद्यते ॥ २.७३॥

वसुदेवसुतो नायं नायं गर्भेऽवसत् प्रभुः । नायं दशरथाज्जातो न चापि जमदग्नितः ॥ २.७४॥

जायते नैव कुत्रापि म्रियते कुत एव तु । न वेध्यो मुह्यते नायं बद्ध्यते नैव केनचित् । कुतो दुःखं स्वतन्त्रस्य नित्यानन्दैकरूपिणः ॥ २.७५॥

ईशन्नपि हि देवेशः सर्वस्य जगतो हरिः । कर्माणि कुरुते नित्यं कीनाश इव दुर्बलः ॥ २.७६॥

नाऽत्मानं वेद मुग्धोऽयं दुःखी सीतां च मार्गते । बद्धः शक्रजितेत्यादि लीलैषाऽसुरमोहिनी ॥ २.७७॥

मुह्यते शस्त्रपातेन भिन्नत्वग्रुधिरस्रवः । अजानन् पृच्छति स्मान्यांस्तनुं त्यक्त्वा दिवं गतः ॥ २.७८॥

इत्याद्यसुरमोहाय दर्शयामास नाट्यवत् । अविद्यमानमेवेशः कुहकं तद् विदुः सुराः ॥ २.७९॥

प्रादुर्भावा हरेः सर्वे नैव प्रकृतिदेहिनः । निर्दोषा गुणसम्पूर्णा दर्शयन्त्यन्यथैव तु ॥ २.८०॥

दुष्टानां मोहनार्थाय सतामपि तु कुत्रचित् । यथायोग्यफलप्राप्त्यै लीलैषा परमात्मनः’ ॥ २.८१॥

‘ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः । यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते’ ॥ २.८२॥ (भ. गी. ७.२)

‘अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा । मत्तः परतरं नान्यत् किञ्चिदस्ति धनञ्जय’ ॥ २.८३॥ (भ. गी. ७.६-७)

‘अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम्’ । (भ. गी. ९.११) ’ मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः । राक्षसीमासुरीं चैव प्रकृतिं मोहनीं श्रिताः’ ॥ २.८४॥ (भ. गी. ९.१२)

‘महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः । भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम्’ ॥ २.८५॥ (भ. गी. ९.१३)

‘पिताऽसि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव’ ॥ २.८६॥ (भ. गी. ११.४३)

‘परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् । यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः’ ॥ २.८७॥ (भ. गी. १४.१)

‘ममयोनिर्महद् ब्रह्म तस्मिन् गर्भं दधाम्यहम् । सम्भवः सर्वभूतानां ततो भवति भारत’ ॥ २.८८॥ (भ. गी. १४.३)

‘द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च । क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते ॥ २.८९॥

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः । यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ २.९०॥

यस्मात् क्षरमतीतोऽहमक्षरादपि चोत्तमः । अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ २.९१॥

यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । स सर्वविद् भजति मां सर्वभावेन भारत ॥ २.९२॥

इति गुह्यतमं शास्त्रमिदमुक्तं मयाऽनघ । एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत’ ॥ २.९३॥ (भ. गी. १५.१६-२०)

‘द्वौ भूतसर्गौ लोकेऽस्मिन् दैव आसुर एव च । दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु’ ॥ २.९४॥ (भ. गी. १६.६)

‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम्’ । (भ. गी. १६.८) ’ ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी’ ॥ २.९५॥ (भ. गी. १६.१४)

‘मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः’ । (भ. गी. १६.१८) ’ तानहं द्विषतः क्रूरान् संसारेषु नराधमान् । क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु’ ॥ २.९६॥ (भ. गी. १६.१९)

‘आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि । मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम्’ ॥ २.९७॥ (भ. गी. १६.२०)

‘सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्विकम्’ ॥ २.९८॥ (भ. गी. १८.२०)

‘सर्वगुह्यतमं भूयः शृणु मे परमं वचः । इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम्’ ॥ २.९९॥ (भ. गी. १८.६४)

‘मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु । मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे’ ॥ २.१००॥ (भ. गी. १८.६५)

‘पञ्चरात्रस्य कृत्स्नस्य वक्ता नारायणः स्वयम् । सर्वेष्वेतेषु राजेन्द्र ज्ञानेष्वेतद् विशिष्यते’ ॥ २.१०१॥ (महा. १२.३३७.६३ अस्त्)

‘ज्ञानेष्वेतेषु राजेन्द्र साङ्ख्यपाशुपतादिषु । यथायोगं यथान्यायं निष्ठा नारायणः परः’ ॥ २.१०२॥ (महा. १२.३३७.६४ अस्त्)

‘पञ्चरात्रविदो मुख्या यथाक्रमपरा नृप । एकान्तभावोपगता वासुदेवं विशन्ति ते’ ॥ २.१०३॥ (महा. १२.३३७.६७ अस्त्) (जनमेजय उवाच)

\ ’ बहवः पुरुषा ब्रह्मन्नुताहो एक एव तु । को ह्यत्र पुरुषश्रेष्ठस्तं भवान् वक्तुमर्हति’ ॥ २.१०४॥ (महा. १२.३३८.१ अस्त्) वैशम्पायन उवाच दश्

‘नैतदिच्छन्ति पुरुषमेकं कुरुकुलोद्वह । बहूनां पुरुषाणां हि यथैका योनिरुच्यते । तथा तं पुरुषं विश्वमाख्यास्यामि गुणाधिकम्’ ॥ २.१०५॥ (महा. १२.३३८.२-३ अस्त्)

‘आह ब्रह्मैतमेवार्थं महादेवाय पृच्छते । तस्यैकस्य ममत्वं हि स चैकः पुरुषो विराट्’ ॥ २.१०६॥

‘अहं ब्रह्मा चाऽद्य ईशः प्रजानां तस्माज्जातस्त्वं च मत्तः प्रसूतः । मत्तो जगत् स्थावरं जङ्गमं च सर्वे वेदा सरहस्याश्च पुत्र’ ॥ २.१०७॥

तथैव भीमवचनं धर्मजं प्रत्युदीरितम् । ’ ब्रह्मेशानादिभिः सर्वैः समेतैर्यद्गुणांशकः । नावसाययितुं शक्यो व्याचक्षाणैश्च सर्वदा ॥ २.१०८॥

स एष भगवान् कृष्णो नैव केवलमानुषः । यस्य प्रसादजो ब्रह्मा रुद्रश्च क्रोधसम्भवः’ ॥ २.१०९॥

वचनं चैव कृष्णस्य ज्येष्ठं कुन्तीसुतं प्रति । ’ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः । ब्रह्मा मामाश्रितो नित्यं नाहं किञ्चिदुपाश्रितः ॥ २.११०॥

यथाऽऽश्रितानि ज्योतींषि ज्योतिःश्रेष्ठं दिवाकरम् । एवं मुक्तगणाः सर्वे वासुदेवमुपाश्रिताः’ ॥ २.१११॥

भविष्यत्पर्वगं चापि वचो व्यासस्य सादरम् । ’ वासुदेवस्य महिमा भारते निर्णयोदितः ॥ २.११२॥

तदर्थास्तु कथाः सर्वा नान्यार्थं वैष्णवं यशः । तत्प्रतीपं तु यद् दृश्येन्न तन्मम मनीषितम् ॥ २.११३॥

भाषास्तु त्रिविधास्तत्र मया वै सम्प्रदर्शिताः । उक्तो यो महिमा विष्णोः स तूक्तो हि समाधिना ॥ २.११४॥

शैवदर्शनमालम्ब्य क्वचिच्छैवी कथोदिता । समाधिभाषयोक्तं यत् तत् सर्वं ग्राह्यमेव हि ॥ २.११५॥

अविरुद्धं समाधेस्तु दर्शनोक्तं च गृह्यते । आद्यन्तयोर्विरुद्धं यद् दर्शनं तदुदाहृतम् ॥ २.११६॥

दर्शनान्तरसिद्धं च गुह्यभाषाऽन्यथा भवेत् । तस्माद् विष्णोर्हि महिमा भारतोक्तो यथार्थतः ॥ २.११७॥

तस्याङ्गं प्रथमं वायुः प्रादुर्भावत्रयान्वितः । प्रथमो हनुमान् नाम द्वितीयो भीम एव च । पूर्णप्रज्ञस्तृतीयस्तु भगवत्कार्यसाधकः ॥ २.११८॥

त्रेताद्येषु युगेष्वेष सम्भूतः केशवाज्ञया । एकैकशस्त्रिषु पृथग् द्वितीयाङ्गं सरस्वती ॥ २.११९॥

शंरूपे तु रतेर्वायौ श्रीरित्येव च कीर्त्यते । सैव च द्रौपदी नाम काली चन्द्रेति चोच्यते ॥ २.१२०॥

तृतीयाङ्गं हरेः शेषः प्रादुर्भावसमन्वितः । प्रादुर्भावा नरश्चैव लक्ष्मणो बल एव च ॥ २.१२१॥

रुद्रात्मकत्वाच्छेषस्य शुको द्रौणिश्च तत्तनू । इन्द्रे नरांशसम्पत्त्या पार्थोऽपीषत् तदात्मकः ॥ २.१२२॥

प्रद्युम्नाद्यास्ततो विष्णोरङ्गभूताः क्रमेण तु । चरितं वैष्णवानां तद् विष्णूद्रेकाय कथ्यते’ ॥ २.१२३॥

तथा भागवतेऽप्युक्तं हनूमद्वचनं परम् । ’ मर्त्यावतारस्त्विह मर्त्यशिक्षणं रक्षोवधायैव न केवलं विभोः । कुतोऽस्य हि स्यू रमतः स्व आत्मन् सीताकृतानि व्यसनानीश्वरस्य ॥ २.१२४॥

न वै स आत्माऽऽत्मवतामधीश्वरो भुङ्क्ते हि दुःखं भगवान् वासुदेवः । न स्त्रीकृतं कश्मलमश्नुवीत न लक्ष्मणं चापि जहाति कर्हिचित्’ ॥ २.१२५॥ (भा.पु. ५.१९.५-६)

यत्पादपङ्कजपरागनिषेवकाणां दुःखानि सर्वाणि लयं प्रयान्ति । स ब्रह्मवन्द्यचरणो जनमोहनाय स्त्रीसङ्गिनामिति रतिं प्रथयंश्चचार ॥ २.१२६॥

‘क्वचिच्छिवं क्वचिदृषीन् क्वचिद् देवान् क्वचिन्नरान् । नमत्यर्चयति स्तौति वरानर्थयतेऽपि च ॥ २.१२७॥

लिङ्गं प्रतिष्ठापयति वृणोत्यसुरतो वरान् । सर्वेश्वरः स्वतन्त्रोऽपि सर्वशक्तिश्च सर्वदा । सर्वज्ञोऽपि विमोहाय जनानां पुरुषोत्तमः’ ॥ २.१२८॥

तस्माद् यो महिमा विष्णोः सर्वशास्त्रोदितः स हि । नान्यदित्येष शास्त्राणां निर्णयः समुदाहृतः । भारतार्थस्त्रिधा प्रोक्तः स्वयं भगवतैव हि ॥ २.१२९॥

‘मन्वादि केचिद् ब्रुवते ह्यास्तीकादि तथा परे । तथोपरिचराद्यन्ये भारतं परिचक्षते’ ॥ २.१३०॥ (महा. १.१.५० अस्त्)

‘सकृष्णान् पाण्डवान् गृह्य योऽयमर्थः प्रवर्तते । प्रातिलोम्यादिवैचित्र्यात् तमास्तीकं प्रचक्षते ॥ २.१३१॥

धर्मो भक्त्यादिदशकः श्रुतादिः शीलवैनयौ । सब्रह्मकास्तु ते यत्र मन्वादिं तं विदुर्बुधाः ॥ २.१३२॥

नारायणस्य नामानि सर्वाणि वचनानि तु । तत्सामर्थ्याभिधायीनि तमौपरिचरं विदुः ॥ २.१३३॥

भक्तिर्ज्ञानं सवैराग्यं प्रज्ञा मेधा धृतिः स्थितिः । योगः प्राणो बलं चैव वृकोदर इति स्मृतः ॥ २.१३४॥

एतद्दशात्मको वायुस्तस्माद् भीमस्तदात्मकः । सर्वविद्या द्रौपदी तु यस्मात् सैव सरस्वती ॥ २.१३५॥

अज्ञानादिस्वरूपस्तु कलिर्दुर्योधनः स्मृतः । विपरीतं तु यज्ज्ञानं दुःशासन इतीरितः ॥ २.१३६॥

नास्तिक्यं शकुनिर्नाम सर्वदोषात्मकाः परे । धार्तराष्ट्रास्त्वहङ्कारो द्रौणी रुद्रात्मको यतः ॥ २.१३७॥

द्रोणाद्या इन्द्रियाण्येव पापान्यन्ये तु सैनिकाः । पाण्डवेयाश्च पुण्यानि तेषां विष्णुर्नियोजकः ॥ २.१३८॥

एवमध्यात्मनिष्ठं हि भारतं सर्वमुच्यते । दुर्विज्ञेयमतः सर्वैर्भारतं तु सुरैरपि ॥ २.१३९॥

स्वयं व्यासो हि तद् वेद ब्रह्मा वा तत्प्रसादतः । तथाऽपि विष्णुपरता भारते सारसङ्ग्रहः’ ॥ २.१४०॥

इत्यादिव्यासवाक्यैस्तु विष्णूत्कर्षोऽवगम्यते । वाय्वादीनां क्रमश्चैव तद्वाक्यैरेव चिन्त्यते ॥ २.१४१॥

‘वायुर्हि ब्रह्मतामेति तस्माद् ब्रह्मैव स स्मृतः । न ब्रह्मसदृशः कश्चिच्छिवादिषु कथञ्चन’ ॥ २.१४२॥

‘ज्ञाने विरागे हरिभक्तिभावे धृतिस्थितिप्राणबलेषु योगे । बुद्धौ च नान्यो हनुमत्समानः पुमान् कदाचित् क्व च कश्चनैव’ ॥ २.१४३॥

‘बल् इत्था तद् वपुषे धायि दर्शतं देवस्य भर्गः सहसो यतो जनि । यद् ईम् उप ह्वरते साधते मतिर् ऋतस्य धेना अनयन्त सस्रुतः ॥ २.१४४॥ \

पृक्षो वपुः पितुमान् नित्य आ शये द्वितीयम् आ सप्तशिवासु मातृषु । तृतीयम् अस्य वृषभस्य दोहसे दशप्रमतिं जनयन्त योषणः ॥ २.१४५॥ \

निर् यद् ईम् बुध्नान् महिषस्य वर्पस ईशानासः शवसा क्रन्त सूरयः । यद् ईम् अनु प्रदिवो मध्व आधवे गुहा सन्तम् मातरिश्वा मथायति ॥ २.१४६॥ \

प्र यत् पितुः परमान् नीयते पर्य् आ पृक्षुधो वीरुधो दंसु रोहति । उभा यद् अस्य जनुषं यद् इन्वत आद् इद् यविष्ठो अभवद् घृणा शुचिः ॥ २.१४७॥ \

आद् इन् मात्Qर् आविशद् यास्व् आ शुचिर् अहिंस्यमान उर्विया वि वावृधे । अनु यत् पूर्वा अरुहत् सनाजुवो नि नव्यसीष्व् अवरासु धावते’ ॥ २.१४८॥(ऋग्वेद १.१४१.१-५)

‘अश्वमेधः क्रतुश्रेष्ठो ज्योतिःश्रेष्ठो दिवाकरः । ब्राह्मणो द्विपदां श्रेष्ठो देवश्रेष्ठस्तु मारुतः’ ॥ २.१४९॥

‘बलमिन्द्रस्य गिरिशो गिरिशस्य बलं मरुत् । बलं तस्य हरिः साक्षान्न हरेर्बलमन्यतः’ ॥ २.१५०॥

‘वायुर्भीमो भीमनादो महौजाः सर्वेषां च प्राणिनां प्राणभूतः । अनावृत्तिर्देहिनां देहपाते तस्माद् वायुर्देवदेवो विशिष्टः’ ॥ २.१५१॥

‘तत्त्वज्ञाने विष्णुभक्तौ धैर्ये स्थैर्ये पराक्रमे । वेगे च लाघवे चैव प्रलापस्य च वर्जने ॥ २.१५२॥

भीमसेनसमो नास्ति सेनयोरुभयोरपि । पाण्डित्ये च पटुत्वे च शूरत्वे च बलेऽपि च’ ॥ २.१५३॥

तथा युधिष्ठिरेणापि भीमं प्रति समीरितम् । ’ धर्मश्चार्थश्च कामश्च मोक्षश्चैव यशो ध्रुवम् । त्वय्यायत्तमिदं सर्वं सर्वलोकस्य भारत’ ॥ २.१५४॥

विराटपर्वगं चापि वचो दुर्योधनस्य हि । ’ वीराणां शास्त्रविदुषां कृतिनां तत्त्वनिर्णये । सत्त्वे बाहुबले धैर्ये प्राणे शारीरसम्भवे ॥ २.१५५॥

साम्प्रतं मानुषे लोके सदैत्यनरराक्षसे । चत्वारः प्राणिनां श्रेष्ठाः सम्पूर्णबलपौरुषाः ॥ २.१५६॥

भीमश्च बलभद्रश्च मद्रराजश्च वीर्यवान् । चतुर्थः कीचकस्तेषां पञ्चमं नानुशुश्रुमः । अन्योन्यानन्तरबलाः क्रमादेव प्रकीर्तिताः’ ॥ २.१५७॥

वचनं वासुदेवस्य तथोद्योगगतं परम् । ’ यत् किञ्चाऽऽत्मनि कल्याणं सम्भावयसि पाण्डव । सहस्रगुणमप्येतत् त्वयि सम्भावयाम्यहम् ॥ २.१५८॥

यादृशे च कुले जातः सर्वराजाभिपूजिते । यादृशानि च कर्माणि भीम त्वमसि तादृशः’ ॥ २.१५९॥ (महा. ५.७५.३-४ अस्त्)

‘अस्मिन् युद्धे भीमसेन त्वयि भारः समाहितः । धूरर्जुनेन वोढव्या वोढव्य इतरो जनः’ । (महा. ५.७५.१८ अस्त्) उक्तं पुराणे ब्रह्माण्डे ब्रह्मणा नारदाय च ॥ २.१६०॥

‘यस्याः प्रसादात् परमं विदन्ति शेषः सुपर्णो गिरिशः सुरेन्द्रः । माता च यैषां प्रथमैव भारती सा द्रौपदी नाम बभूव भूमौ ॥ २.१६१॥

या मारुताद् गर्भमधत्त पूर्वं शेषं सुपर्णं गिरीशं सुरेन्द्रम् । चतुर्मुखाभांश्चतुरः कुमारान् सा द्रौपदी नाम बभूव भूमौ’ ॥ २.१६२॥

‘यस्याधिको बले नास्ति भीमसेनमृते क्वचित् । न विज्ञाने न च ज्ञान एष रामः स लाङ्गली’ ॥ २.१६३॥

‘यस्य न प्रतियोद्धाऽस्ति भीमेमेकमृते क्वचित् । अन्विष्यापि त्रिलोकेषु स एष मुसलायुधः’ ॥ २.१६४॥

तथा युधिष्ठिरेणैव भीमाय समुदीरितम् । ’ अनुज्ञातो रौहिणेयात् त्वया चैवापराजित । सर्वविद्यासु बीभत्सुः कृष्णेन च महात्मना ॥ २.१६५॥

अन्वेष रौहिणेयं च त्वां च भीमापराजितम् । वीर्ये शौर्येऽपि वा नान्यस्तृतीयः फल्गुनादृते’ ॥ २.१६६॥

तथैव द्रौपदीवाक्यं वासुदेवं प्रतीरितम् । ’ अधिज्यमपि यत् कर्तुं शक्यते नैव गाण्डिवम् । अन्यत्र भीमपार्थाभ्यां भवतश्च जनार्दन’ ॥ २.१६७॥

तथैवान्यत्र वचनं कृष्णद्वैपायनेरितम् । ’ द्वावेव पुरुषौ लोके वासुदेवादनन्तरौ । भीमस्तु प्रथमस्तत्र द्वितीयो द्रौणिरेव च’ ॥ २.१६८॥

‘अक्षयाविषुधी दिव्ये ध्वजो वानरलक्षणः । गाण्डीवं धनुषां श्रेष्ठं तेन द्रौणेर्वरोऽर्जुनः’ ॥ २.१६९॥

इत्याद्यनन्तवाक्यानि सन्त्येवार्थे विवक्षिते । कानिचिद् दर्शितान्यत्र दिङ्मात्रप्रतिपत्तये ॥ २.१७०॥

तस्मादुक्तक्रमेणैव पुरुषोत्तमता हरेः । अनौपचारिकी सिद्धा ब्रह्मता च विनिर्णयात् ॥ २.१७१॥

पूर्णप्रज्ञकृतेयं सङ्क्षेपादुद्धृतिः सुवाक्यानाम् । श्रीमद्भारतगानां विष्णोः पूर्णत्वनिर्णयायैव ॥ २.१७२॥

स प्रीयतां परतमः परमादनन्तः सन्तारकः सततसंसृतिदुस्तरार्णात् । यत्पादपद्ममकरन्दजुषो हि पार्थाः स्वाराज्यमापुरुभयत्र सदा विनोदात् ॥ २.१७३॥

{इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते}

{श्रीमहाभारततात्पर्यनिर्णये}

{वाक्योद्धारो नाम द्वितीयोऽध्यायः}