नारायणाय परिपूर्णगुणार्णवाय विश्वोदयस्थितिलयोन्नियति प्रदाय।
ज्ञानप्रदाय विबुधासुरसौख्यदुःखसत्कारणाय वितताय नमो नमस्ते ॥ १॥
आसीदुदारगुणवारिधिरप्रमेयो नारायणः परतमः परमात् स एकः।
संशान्तसंविदखिलं जठरे निधाय लक्ष्मीभुजान्तरगतः स्वरतोऽपि चाग्रे ॥ २॥
तस्योदरस्थजगतः सदमन्दसान्द्रस्वानन्दतुष्टवपुषोऽपि रमारमस्य।
भूत्यै निजाश्रितजनस्य हि सृज्यसृष्टावीक्षा बभूव परनामनिमेषकान्ते ॥ ३॥
दृष्ट्वा स चेतनगणान् जठरे शयानानानन्दमात्रवपुषः सृतिविप्रमुक्तान्।
ध्यानं गतान् सृतिगतांश्च सुषुप्तिसंस्थान् ब्रह्मादिकान् कलिपरान् मनुजांस्तथैक्षत् ॥ ४॥
स्रक्ष्ये हि चेतनगणान् सुखदुःखमध्यसम्प्राप्तये तनुभृतां विहृतिं ममेच्छन्।
सोऽयं विहार इह मे तनुभृत् स्वभावसम्भूतये भवति भूतिकृदेव भूत्याः ॥ ५॥
इत्थं विचिन्त्य परमः स तु वासुदेवनामा बभूव निजमुक्तिपदप्रदाता।
तस्याज्ञयैव नियताऽथ रमाऽपि रूपं बभ्रे द्वितीयमपि यत् प्रवदन्ति मायाम् ॥ ६॥
सङ्कर्षणश्च स बभूव पुनः सुनित्यः संहारकारणवपुस्तदनुज्ञयैव।
देवी जयेत्यनु बभूव स सृष्टिहेतोः प्रद्युम्नतामुपगतः कृतितां च देवी ॥ ७॥
स्थित्यै पुनः स भगवाननिरुद्धनामा देवी च शान्तिरभवच्छरदां सहस्रम्।
स्थित्वा स्वमूर्तिभिरमूभिरचिन्त्यशक्तिः प्रद्युम्नरूपक इमांश्चरमात्मनेऽदात् ॥ ८॥
निर्देहकान् स भगवाननिरुद्धनामा जीवान् स्वकर्मसहितान् उदरे निवेश्य ।
चक्रेऽथ देहसहितान् क्रमशः स्वयम्भुप्राणात्मशेषगरुडेशमुखान् समग्रान् ॥ ९॥
पञ्चात्मकः स भगवान् द्विषडात्मकोऽभूत् पञ्चद्वयी शतसहस्रपरोऽमितश्च।
एकः समोऽप्यखिलदोषसमुज्झितोऽपि सर्वत्र पूर्णगुणकोऽपि बहूपमोऽभूत् ॥ १०॥
निर्दोषपूर्णगुणविग्रह आत्मतन्त्रो निश्चेतनात्मकशरीरगुणैश्च हीनः।
आनन्दमात्रकरपादमुखोदरादिः सर्वत्र च स्वगतभेदविवर्जितात्मा ॥ ११॥
कालाच्च देशगुणतोऽस्य न चाऽदिरन्तो वृद्धिक्षयौ न तु परस्य सदातनस्य।
नैतादृशः क्व च बभूव न चैव भाव्यो नास्त्युत्तरः किमु परात् परमस्य विष्णोः ॥ १२॥
सर्वज्ञ ईश्वरतमः स च सर्वशक्तिः पूर्णाव्ययात्मबलचित्सुखवीर्यसारः।
यस्याऽज्ञया रहितमिन्दिरया समेतं ब्रह्मेशपूर्वकमिदं न तु कस्य चेशम् ॥ १३॥
आभासकोऽस्य पवनः पवनस्य रुद्रः शेषात्मको गरुड एव च शक्रकामौ।
वीन्द्रेशयोस्तदपरे त्वनयोश्च तेषां ऋष्यादयः क्रमश ऊनगुणाः शतांशाः ॥ १४॥
आभासका त्वथ रमाऽस्य मरुत्स्वरूपाच्छ्रेष्ठाऽप्यजात् तदनु गीः शिवतो वरिष्ठा।
तस्या उमा विपतिनी च गिरस्तयोऽस्तु शच्यादिकाः क्रमश एव यथा पुमांसः ॥ १५॥
ताभ्यश्च ते शतगुणैर्दशतो वरिष्ठाः पञ्चोत्तरैरपि यथाक्रमतः श्रुतिस्थाः।
शब्दो बहुत्ववचनः शतमित्यतश्च श्रुत्यन्तरेषु बहुधोक्तिविरुद्धता न ॥ १६॥
तेषां स्वरूपमिदमेव यतोऽथ मुक्ता अप्येवमेव सततोच्चविनीचरूपाः।
शब्दः शतं दशसहस्रमिति स्म यस्मात् तस्मान्न हीनवचनोऽथ ततोऽग्र्यरूपाः ॥ १७॥
एवं नरोत्तमपरास्तु विमुक्तियोग्या अन्ये च संसृतिपरा असुरास्तमोगाः।
एवं सदैव नियमः क्वचिदन्यथा न यावन्न पूर्तिरुत संसृतिगाः समस्ताः ॥ १८॥
पूर्तिश्च नैव नियमाद् भविता हि यस्मात् तस्मात् समाप्तिमपि यान्ति न जीवसङ्घाः।
आनन्त्यमेव गणशोऽस्ति यतो हि तेषां इत्थं ततः सकलकालगता प्रवृत्तिः ॥ १९॥
एतैः सुरादिभिरतिप्रतिभादियुक्तैर्युक्तैः सहैव सततं प्रविचिन्तयद्भिः।
पूर्तेरचिन्त्यमहिमः परमः परात्मा नारायणोऽस्य गुणविस्तृतिरन्यगा क्व ॥ २०॥
साम्यं न चास्य परमस्य च केन चाऽप्यं मुक्तेन च क्वचिदतस्त्वभिदा कुतोऽस्य।
प्राप्येत चेतनगणैः सततास्वतन्त्रैर्नित्यस्वतन्त्रवपुषः परमात् परस्य ॥ २१॥
अर्थोऽयमेव निखिलैरपि वेदवाक्यै रामायणैः सहितभारतपञ्चरात्रैः।
अन्यैश्च शास्त्रवचनैः सहतत्त्वसूत्रैर्निर्णीयते सहृदयं हरिणा सदैव ॥ २२॥
‘नारायणस्य न समः’’ ‘पुरुषोत्तमोऽहं
जीवाक्षरे ह्यतिगतोऽस्मि’’ ततो ’ ऽन्यदार्तम्’ (बृ.उ. ५.५.१) ।
‘मुक्तोऽपसृप्य’ (ब्र.सू. १.३.२) ‘इह नास्ति कुतश्च कश्चित्’’
‘नानेव’ (क.उ. ४.११) ‘धर्मपृथगात्मदृगेत्यधो हि’’ ॥ २३॥
‘आभास एव’ (ब्र.सू. २.३.५०) ‘पृथगीशत एष जीवो’’
‘मुक्तस्य नास्ति जगतो विषये तु शक्तिः’’ ।
‘मात्रापरोऽसि न तु तेऽश्नुवते महित्वं’’
‘षाड्गुण्यविग्रह’’ ‘सुपूर्णगुणैकदेहः’’ ॥ २४॥
‘माहात्म्यदेह’’ ‘सृतिमुक्तिगते’’ ‘शिवश्च ब्रह्मा
च तद्गुणगतौ न कथञ्चनेशौ’’ ।
‘न श्रीः कुतस्तदपरे’’ ‘ऽस्य सुखस्य मात्रा-
मश्नन्ति मुक्तसुगणाश्च शतावरेण’’ ॥ २५॥
‘आभासकाभासपरावभासरूपाण्यजस्राणि च चेतनानाम् ।
विष्णोः सदैवाति वशात् कदापि गच्छन्ति केशादिगणा न मुक्तौ’ ॥ २६॥
‘यस्मिन् परेऽन्येऽप्यजजीवकोशा’’
‘नाहं परायुर्न मरीचिमुख्याः’’ ।
‘जानन्ति यद्गुणगणान् न रमादयोऽपि
नित्यस्वतन्त्र उत कोऽस्ति तदन्य ईशः’’ ॥ २७॥
‘नैवैक एव पुरुषः पुरुषोत्तमोऽसा-
वेकः कुतः स पुरुषो’’ ‘यत एव जात्या ।
अर्थात् श्रुतेश्च गुणतो निजरूपतश्च
नित्यान्य एव कथमस्मि स इत्यपि स्यात्’’ ॥ २८॥
‘सर्वोत्तमो हरिरिदं तु तदाज्ञयैव
चेत्तुं क्षमं स तु हरिः परमस्वतन्त्रः ।
पूर्णाव्ययागणितनित्यगुणार्णवोऽसौ’’
इत्येव वेदवचनानि परोक्तयश्च ॥ २९॥
‘ऋगादयश्च चत्वारः पञ्चरात्रं च भारतम्।
मूलरामायणं ब्रह्मसूत्रं मानं स्वतः स्मृतम् ॥ ३०॥
अविरुद्धं च यत्त्वस्य प्रमाणं तच्च नान्यथा।
एतद्विरुद्धं यत्तु स्यान्न तन्मानं कथञ्चन ॥ ३१॥
वैष्णवानि पुराणानि पञ्चरात्रात्मकत्वतः।
प्रमाणान्येव मन्वाद्याः स्मृतयोऽप्यनुकूलतः ॥ ३२॥
एतेषु विष्णोराधिक्यमुच्यतेऽन्यस्य न क्वचित्।
अतस्तदेव मन्तव्यं नान्यथा तु कथञ्चन ॥ ३३॥
मोहार्थान्यन्यशास्त्राणि कृतान्येवाऽज्ञया हरेः।
अतस्तेषूक्तमग्राह्यमसुराणां तमोगतेः ॥ ३४॥
यस्मात् कृतानि तानीह विष्णुनोक्तैः शिवादिभिः।
एषां यन्न विरोधि स्यात् तत्रोक्तं तन्न वार्यते ॥ ३५॥
विष्ण्वाधिक्यविरोधीनि यानि वेदवचांस्यपि।
तानि योज्यान्यानुकूल्याद् विष्ण्वाधिक्यस्य सर्वशः ॥ ३६॥
अवतारेषु यत् किञ्चिद् दर्शयेन्नरवद्धरिः।
तच्चासुराणां मोहाय दोषा विष्णोर्नहि क्वचित् ॥ ३७॥
अज्ञत्वं पारवश्यं वा वेधभेदादिकं तथा।
तथा प्राकृतदेहत्वं देहत्यागादिकं तथा ॥ ३८॥
अनीशत्वं च दुःखित्वं साम्यमन्यैश्च हीनताम्।
प्रदर्शयति मोहाय दैत्यादीनां हरिः स्वयम् ॥ ३९॥
न तस्य कश्चिद् दोषोऽस्ति पूर्णाखिलगुणो ह्यसौ।
सर्वदेहस्थरूपेषु प्रादुर्भावेषु चेश्वरः ॥ ४०॥
ब्रह्माद्यभेदः साम्यं वा कुतस्तस्य महात्मनः।
यदेवं वाचकं शास्त्रं तद्धि शास्त्रं परं मतम् ॥ ४१॥
निर्णयायैव यत् प्रोक्तं ब्रह्मसूत्रं तु विष्णुना।
व्यासरूपेण तद् ग्राह्यं तत्रोक्ताः सर्वनिर्णयाः ॥ ४२॥
यथार्थवचनानां च मोहार्थानां च संशयम्।
अपनेतुं हि भगवान् ब्रह्मसूत्रमचीक्लृपत् ॥ ४३॥
तस्मात् सूत्रार्थमागृह्य कर्तव्यः सर्वनिर्णयः।
सर्वदोषविहीनत्वं गुणैः सर्वैरुदीर्णता ॥ ४४॥
अभेदः सर्वरूपेषु जीवभेदः सदैव च।
विष्णोरुक्तानि सूत्रेषु सर्ववेदेड्यता तथा ॥ ४५॥
तारतम्यं च मुक्तानां विमुक्तिर्विद्यया तथा।
तस्मादेतद्विरुद्धं यन्मोहाय तदुदाहृतम् ॥ ४६॥
तस्माद् ये ये गुणा विष्णोर्ग्राह्यास्ते सर्व एव तु’।
इत्याद्युक्तं भगवता भविष्यत्पर्वणि स्फुटम् ॥ ४७॥
‘एष मोहं सृजाम्याशु यो जनान् मोहयिष्यति।
त्वं च रुद्र महाबाहो मोहशास्त्राणि कारय ॥ ४८॥
अतत्थ्यानि वितत्थ्यानि दर्शयस्व महाभुज।
प्रकाशं कुरु चाऽत्मानमप्रकाशं च मां कुरु’ ॥ ४९॥
इति वाराहवचनं ब्रह्माण्डोक्तं तथाऽपरम् ।
‘अमोहाय गुणा विष्णोराकारश्चिच्छरीरता ॥ ५०॥
निर्दोषत्वं तारतम्यं मुक्तानामपि चोच्यते ।
एतद्विरुद्धं यत् सर्वं तन्मोहाय इति निर्णयः’ ॥ ५१॥
स्कान्देऽप्युक्तं शिवेनैव षण्मुखायैव सादरम् ।
शिवशास्त्रेऽपि तद् ग्राह्यं भगवच्छास्त्रयोगि यत् ॥ ५२॥
‘परमो विष्णुरेवैकस्तज्ज्ञानं मोक्षसाधनम् ।
शास्त्राणां निर्णयस्त्वेष तदन्यन्मोहनाय हि ॥ ५३॥
ज्ञानं विना तु या मुक्तिः साम्यं च मम विष्णुना ।
तीर्थाऽदिमात्रतो ज्ञानं ममाऽधिक्यं च विष्णुतः ॥ ५४॥
अभेदश्चास्मदादीनां मुक्तानां हरिणा तथा ।
इत्यादि सर्वं मोहाय कथ्यते पुत्र नान्यथा’ ॥ ५५॥
उक्तं पाद्मपुराणे च शैव एव शिवेन तु ।
यदुक्तं हरिणा पूर्वं उमायै प्राह तद्धरः ॥ ५६॥
‘त्वामाराध्य तथा शम्भो ग्रहीष्यामि वरं सदा ।
द्वापराऽदौ युगे भूत्वा कलया मानुषाऽदिषु ॥ ५७॥
स्वाऽगमैः कल्पितैस्त्वं च जनान् मद्विमुखान् कुरु ।
मां च गोपाय येन स्यात् सृष्टिरेषोत्तराधरा’ ॥ ५८॥
(पद्म पु. ६.७१.१०६-१०७)
न च वैष्णवशास्त्रेषु वेदेष्वपि हरेः परः ।
क्वचिदुक्तोऽन्यशास्त्रेषु परमो विष्णुरीरितः ॥ ५९॥
निर्दोषत्वाच्च वेदानां वेदोक्तं ग्राह्यमेव हि ।
वेदेषु च परो विष्णुः सर्वस्मादुच्यते सदा ॥ ६०॥
‘अस्य देवस्य मील्हुषो वया विष्णोर् एषस्य प्रभृथे हविर्भिः ।
विदे हि रुद्रो रुद्रियम् महित्वं यासिष्टं वर्तिर् अश्विनाविरावत्’ ॥ ६१॥ \ % ऐण्{७}{०४०}{०५}
(ऋग्वेद ७.४०.५)
‘स्तुहि श्रुतं गर्तसदं युवानम् मृगं न भीमम् उपहत्नुम् उग्रम्’ ।
‘यं कामये तं तम् उग्रं कृणोमि तम् ब्रह्माणं तम् ऋषिं तं सुमेधाम्’ ॥ ६२॥
‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः’ ।
‘वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः’ ॥ ६३॥
‘यदा पश्यः पश्यते रुग्मवर्णं कर्तारमीशं पुरुषं ब्रह्मयोनिम् ।
तदा विद्वान् पुण्यपापे विधूय निरञ्जनः परमं साम्यमुपैति’ ॥ ६४॥ (मु. उ. ३.१.३)
‘यो वेद निहितं गुहायां परमे व्योमन् .
सोऽश्नुते सर्वान् कामान्त्सह ब्रह्मणा विपश्चिता’ ॥ ६५॥
(तै. उ. २.१)
‘प्र घा न्व् अस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ ।
‘सत्यम् एनम् अनु विश्वे मदन्ति रातिं देवस्य गृणतो मघोनः’ ॥ ६६॥ (ऋग्वेद २.१५.१, ४.१७.५)
‘यच् चिकेत सत्यम् इत् तन् न मोघं वसु स्पार्हम् उत जेतोत दाता’ ।
‘सत्यः सो अस्य महिमा गृणे शवो यज्ञेषु विप्रराज्ये’ ॥ ६७॥ \ % ॥ (ऋग्वेद १०.५५.६, ८.३.४)
‘सत्या विष्णोर्गुणाः सर्वे सत्या जीवेशयोर्भिदा ।
सत्यो मिथो जीवभेदः सत्यं च जगदीदृशम् ॥ ६८॥
असत्यः स्वगतो भेदो विष्णोर्नान्यदसत्यकम् ।
जगत्प्रवाहः सत्योऽयं पञ्चभेदसमन्वितः ॥ ६९॥
जीवेशयोर्भिदा चैव जीवभेदः परस्परम् ।
जडेशयोर्जडानां च जडजीवभिदा तथा ॥ ७०॥
पञ्चभेदा इमे नित्याः सर्वावस्थासु सर्वशः ।
मुक्तानां च न हीयन्ते तारतम्यं च सर्वदा ॥ ७१॥
क्षितिपा मनुष्यगन्धर्वा दैवाश्च पितरश्चिराः ।
आजानजाः कर्मजाश्च देवा इन्द्रः पुरन्दरः ॥ ७२॥
रुद्रः सरस्वती वायुर्मुक्ताः शतगुणोत्तराः ।
एको ब्रह्मा च वायुश्च वीन्द्रो रुद्रसमस्तथा ।
एको रुद्रस्तथा शेषो न कश्चिद्वायुना समः ॥ ७३॥
मुक्तेषु श्रीस्तथा वायोः सहस्रगुणिता गुणैः ।
ततोऽनन्तगुणो विष्णुर्न कश्चित् तत्समः सदा’ ॥ ७४॥
इत्यादि वेदवाक्यं विष्णोरुत्कर्षमेव वक्त्युच्चैः ।
तात्पर्यं महदत्रेत्युक्तं ’ यो माम्’ (भ. गी. १५.१९) इति स्वयं तेन ॥ ७५॥
‘भूम्नो ज्यायस्त्वम्’ (ब्र. सू. ३.३.५९) इति ह्युक्तं सूत्रेषु निर्णयात् तेन ।
तत्प्रीत्यैव च मोक्षः प्राप्यस्तेनैव नान्येन ॥ ७६॥
‘नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यमेवैष वृणुते तेन लभ्यस्तस्यैष आत्मा विवृणुते तनुं स्वाम्’ ॥ ७७॥ (क. उ. १.२.२३; मु. उ. ३.२.३)
’’ विष्णुर्हि दाता मोक्षस्य वायुश्च तदनुज्ञया ।
मोक्षो ज्ञानं च क्रमशो मुक्तिगो भोग एव च ॥ ७८॥
उत्तरेषां प्रसादेन नीचानां नान्यथा भवेत् ।
सर्वेषां च हरिर्नित्यं नियन्ता तद्वशाः परे ॥ ७९॥
तारतम्यं ततो ज्ञेयं सर्वोच्चत्वं हरेस्तथा ।
एतद्विना न कस्यापि विमुक्तिः स्यात् कथञ्चन ॥ ८०॥
पञ्चभेदांश्च विज्ञाय विष्णोः स्वाभेदमेव च ।
निर्दोषत्वं गुणाद्रेकं ज्ञात्वा मुक्तिर्नचान्यथा ॥ ८१॥
अवतारान् हरेर्ज्ञात्वा नावतारा हरेश्च ये ।
तदावेशांस्तथा सम्यग् ज्ञात्वा मुक्तिर्नचान्यथा ॥ ८२॥
सृष्टिरक्षाऽहृतिज्ञाननियत्यज्ञानबन्धनान् ।
मोक्षं च विष्णुतस्त्वेव ज्ञात्वा मुक्तिर्नचान्यथा ॥ ८३॥
वेदांश्च पञ्चरात्राणि सेतिहासपुराणकान् ।
ज्ञात्वा विष्णुपरानेव मुच्यते नान्यथा क्वचित् ॥ ८४॥
माहात्म्यज्ञानपूर्वस्तु सुदृढः सर्वतोऽधिकः ।
स्नेहो भक्तिरिति प्रोक्तः तया मुक्तिर्नचान्यथा ॥ ८५॥
त्रिविधा जीवसङ्घास्तु देवमानुषदानवाः ।
तत्र देवा मुक्तियोग्या मानुषेषूत्तमास्तथा ॥ ८६॥
मध्यमा मानुषा ये तु सृतियोग्याः सदैव हि ।
अधमा निरयायैव दानवास्तु तमोलयाः ॥ ८७॥
मुक्तिर्नित्या तमश्चैव नाऽवृत्तिः पुनरेतयोः ।
देवानां निरयो नास्ति तमश्चापि कथञ्चन ॥ ८८॥
नासुराणां तथा मुक्तिः कदाचित् केनचित् क्वचित् ।
मानुषाणां मध्यमानां नैवैतद्द्वयमाप्यते ॥ ८९॥
असुराणां तमःप्राप्तिस्तदा नियमतो भवेत् ।
यदा तु ज्ञानिसद्भावे नैव गृह्णन्ति तत्परम् ॥ ९०॥
तदा मुक्तिश्च देवानां यदा प्रत्यक्षगो हरिः ।
स्वयोग्ययोपासनया तन्वा तद्योग्यया तथा ॥ ९१॥
सर्वैर्गुणैर्ब्रह्मणा तु समुपास्यो हरिः सदा ।
आनन्दो ज्ञः सदात्मेति ह्युपास्यो मानुषैर्हरिः ॥ ९२॥
यथाक्रमं गुणोद्रेकात् तदन्यैरा विरिञ्चतः ।
ब्रह्मत्वयोग्या ऋजवो नाम देवाः पृथग्गणाः ॥ ९३॥
तैरेवाप्यं पदं तत्तु नैवान्यैः साधनैरपि ।
एवं सर्वपदानां तु योग्याः सन्ति पृथग् गणाः ॥ ९४॥
तस्मादनाद्यनन्तं हि तारतम्यं चिदात्मनाम् ।
तच्च नैवान्यथा कर्तुं शक्यं केनापि कुत्रचित् ॥ ९५॥
अयोग्यमिच्छन् पुरुषः पतत्येव न संशयः ।
तस्माद् योग्यानुसारेण सेव्यो विष्णुः सदैव हि ॥ ९६॥
अच्छिद्रसेवनाच्चैव निष्कामत्वाच्च योग्यतः ।
द्रष्टुं शक्यो हरिः सर्वैर्नान्यथा तु कथञ्चन ॥ ९७॥
नियमोऽयं हरेर्यस्मान्नोल्लङ्घ्यः सर्वचेतनैः ।
सत्यसङ्कल्पतो विष्णुर्नान्यथा च करिष्यति ॥ ९८॥
दानतीर्थतपोयज्ञपूर्वाः सर्वेऽपि सर्वदा ।
अङ्गानि हरिसेवायां भक्तिस्त्वेका विमुक्तये’ ॥
भविष्यत्पर्ववचनमित्येतदखिलं परम् ॥ ९९॥
‘शृण्वे वीर उग्रम्-उग्रं दमायन्न् अन्यम्-अन्यम् अतिनेनीयमानः ।
एधमानद्विल् उभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥ १००॥ \
परा पूर्वेषां सख्या वृणक्ति वितर्तुराणो अपरेभिर् एति ।
अनानुभूतीर् अवधून्वानः पूर्वीर् इन्द्रः शरदस् तर्तरीति’ ॥ १०१॥ (ऋग्वेद ६.४७.१६-१७)
‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते’ ।
‘तमेव विदित्वाऽति मृत्युमेति नान्यः पन्था विद्यतेऽयनाय’ ॥ १०२॥
तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय विद्यते
(तै. आ. ३.१२.१७, श्वे. उ. ३.८)
‘यस्य देवे परा भक्तिर्यथादेवे तथा गुरौ ।
तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः’ ॥ १०३॥
(श्वे. उ. ६.२३)
‘भक्त्यर्थान्यखिलान्येव भक्तिर्मोक्षाय केवला ।
मुक्तानामपि भक्तिर्हि नित्यानन्दस्वरूपिणी ॥ १०४॥
ज्ञानपूर्वः परः स्नेहो नित्यो भक्तिरितीर्यते’।
इत्यादि वेदवचनं साधनप्रविधायकम् ॥ १०५॥
‘निश्शेषधर्मकर्ताऽप्यभक्तस्ते नरके हरे।
सदा तिष्ठति भक्तश्चेद् ब्रह्महाऽपि विमुच्यते’ ॥ १०६॥
‘धर्मो भवत्यधर्मोऽपि कृतो भक्तैस्तवाऽच्युत ।
पापं भवति धर्मोऽपि यो न भक्तैः कृतो हरे’ ॥ १०७॥
‘भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन ।
ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप’ ॥ १०८॥ (भ. गी. ११.५४)
‘अनादिद्वेषिणो दैत्या विष्णौ द्वेषो विवर्धितः ।
तमस्यन्धे पातयति दैत्यानन्ते विनिश्चयात् ॥ १०९॥
पूर्णदुःखात्मको द्वेषः सोऽनन्तो ह्यवतिष्ठते ।
पतितानां तमस्यन्धे निःशेषसुखवर्जिते ॥ ११०॥
जीवाभेदो निर्गुणत्वं अपूर्णगुणता तथा ।
साम्याधिक्ये तदन्येषां भेदस्तद्गत एव च ॥ १११॥
प्रादुर्भावविपर्यासस्तद्भक्तद्वेष एव च ।
तत्प्रमाणस्य निन्दा च द्वेषा एतेऽखिला मताः ॥ ११२॥
एतैर्विहीना या भक्तिः सा भक्तिरिति निश्चिता ।
अनादिभक्तिर्देवानां क्रमाद् वृद्धिं गतैव सा ॥ ११३॥
अपरोक्षदृशेर्हेतुर्मुक्तिहेतुश्च सा पुनः ।
सैवाऽनन्दस्वरूपेण नित्या मुक्तेषु तिष्ठति ॥ ११४॥
यथा शौक्ल्यादिकं रूपं गोर्भवत्येव सर्वदा ।
सुखज्ञानादिकं रूपं एवं भक्तेर्न चान्यथा ॥ ११५॥
भक्त्यैव तुष्टिमभ्येति विष्णुर्नान्येन केनचित् ।
स एव मुक्तिदाता च भक्तिस्तत्रैककारणम् ॥ ११६॥
ब्रह्मादीनां च मुक्तानां तारतम्ये तु कारणम् ।
तारतम्यस्थिताऽनादिनित्या भक्तिर्न चेतरत् ॥ ११७॥
मानुषेष्वधमाः किञ्चिद् द्वेषयुक्ताः सदा हरौ ।
दुःखनिष्ठास्ततस्तेऽपि नित्यमेव न संशयः ॥ ११८॥
मध्यमा मिश्रभूतत्वान्नित्यं मिश्रफलाः स्मृताः ।
किञ्चिद्भक्तियुता नित्यं उत्तमास्तेन मोक्षिणः ॥ ११९॥
ब्रह्मणः परमा भक्तिः सर्वेभ्यः परमस्ततः’ ।
इत्यादीनि च वाक्यानि पुराणेषु पृथक् पृथक् ॥ १२०॥
‘षण्णवत्यङ्गुलो यस्तु न्यग्रोधपरिमण्डलः ।
सप्तपादश्चतुर्हस्तो द्वात्रिंशल्लक्षणैर्युतः ॥ असंशयः संशयच्छिद् गुरुरुक्तो मनीषिभिः ॥ १२१॥
तस्माद् ब्रह्मा गुरुर्मुख्यः सर्वेषामेव सर्वदा ।
अन्येऽपि स्वात्मनो मुख्याः क्रमाद् गुरव ईरिताः ॥ १२२॥
क्रमाल्लक्षणहीनाश्च लक्षणालक्षणैः समाः ।
मानुषा मध्यमाः सम्यग् दुर्लक्षणयुतः कलिः ॥ १२३॥
सम्यग्लक्षणसम्पन्नो यद् दद्यात् सुप्रसन्नधीः ।
शिष्याय सत्यं भवति तत्सर्वं नात्र संशयः ॥ १२४॥
अगम्यत्वाद्धरिस्तस्मिन्नाविष्टो मुक्तिदो भवेत् ।
नातिप्रसन्नहृदयो यद् दद्याद् गुरुरप्यसौ ॥
न तत् सत्यं भवेत् तस्माद् अर्चनीयो गुरुः सदा ॥ १२५॥
स्वावराणां गुरुत्वं तु भवेत् कारणतः क्वचित् ।
मर्यादार्थं तेऽपि पूज्या न तु यद्वत् परो गुरुः’ ॥
इत्येतत् पञ्चरात्रोक्तं पुराणेष्वनुमोदितम् ॥ १२६॥
‘यदा मुक्तिप्रदानस्य स्वयोग्यं पश्यति ध्रुवम् ।
रूपं हरेस्तदा तस्य सर्वपापानि भस्मसात् ॥ १२७॥
यान्ति पूर्वाण्युत्तराणि न श्लेषं यान्ति कानिचित् ।
मोक्षश्च नियतस्तस्मात् स्वयोग्यहरिदर्शने’ ॥ १२८॥
भविष्यत्पर्ववचनमित्येतत् सूत्रगं तथा ।
श्रुतिश्च तत्परा तद्वत् ’ तद्यथा’ (छा. उ. ४.१४.३) इत्यवदत् स्फुटम् ॥ १२९॥
‘मुक्तास्तु मानुषा देवान् देवा इन्द्रं स शङ्करम् ।
स ब्रह्माणं क्रमेणैव तेन यान्त्यखिला हरिम् ॥ १३०॥
उत्तरोत्तरवश्याश्च मुक्ता रुद्रपुरस्सराः ।
निर्दोषा नित्यसुखिनः पुनरावृत्तिवर्जिताः ।
स्वेच्छयैव रमन्तेऽत्र नानिष्टं तेषु किञ्चन ॥ १३१॥
असुराः कलिपर्यन्ता एवं दुःखोत्तरोत्तराः ।
कलिर्दुःखाधिकस्तेषु तेऽप्येवं ब्रह्मवद् गणाः ॥ १३२॥
तथाऽन्येऽप्यसुराः सर्वे गणा योग्यतया सदा ।
ब्रह्मैवं सर्वजीवेभ्यः सदा सर्वगुणाधिकः ॥ १३३॥
मुक्तोऽपि सर्वमुक्तानां आधिपत्ये स्थितः सदा ।
आश्रयस्तस्य भगवान् सदा नारायणः प्रभुः’ ॥ १३४॥
इति ऋग्यजुःसामाथर्वपञ्चरात्रेतिहासतः ।
पुराणेभ्यस्तथाऽन्येभ्यः शास्त्रेभ्यो निर्णयः कृतः ॥ १३५॥
विष्ण्वाज्ञयैव विदुषा तत्प्रसादबलोन्नतेः ।
आनन्दतीर्थमुनिना पूर्णप्रज्ञाभिधायुजा ॥ १३६॥
तात्पर्यं शास्त्राणां सर्वेषां उत्तमं मया प्रोक्तम् ।
प्राप्यानुज्ञां विष्णोरेतज्ज्ञात्वैव विष्णुराप्योऽसौ ॥ १३७॥
इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते
श्रीमहाभारततात्पर्यनिर्णये
सर्वशास्त्रतात्पर्यनिर्णयो नाम प्रथमोऽध्यायः