ग्रन्थि-श्लोकाः 1-5

अनुसन्धात्री

श्रीमती.सि.ललिताराणी

साहित्य आचार्या

राष्ट्रियसंस्कृतविश्वविद्यालयः तिरुपतिः

शोधच्छात्रा

वै.एन्‌.एल्‌.बी.टी.एस्‌.देवी

श्रीमन्महाभारतस्य आदिपञ्चके ग्रन्थिश्लोकानुशीलनम्‌

A Thesis submitted for the award of Doctor of Philosophy (Ph.D) in Sahitya

ŚRĪMANMAHĀBHĀRATASYA ĀDIPAÑCAKĒ GRANTHIŚLŌKĀNUŚĪLANAM

तिरुपतिस्थ राष्ट्रियसंस्कृतविश्वविद्यालयस्य विद्यावारिधिः (Ph.D.) इत्युपाधये समर्प्यमाणः शोधप्रबन्धः

NATIONAL SANSKRIT UNIVERSITY

2021

(Erstwhile Rashtriya Sanskrit Vidyapeetha, Tirupati) (A Central University established by an Act of Parliament ) Tirupati ­ 517 507. A.P.

“श्रीमन्महाभारतस्य आदिपञ्चके ग्रन्थिश्लोकानुशीलनम्” इति शीर्षाङ्कितः शोधप्रबन्धः राष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्यविभागे विद्यावारिधिःPh.D इत्युपाधिप्राप्त्यर्थं मया श्रीमति.Y.N.B.T.S.Devi इत्याख्यया अनुसन्धात्र्या विलिख्य समर्प्यते । शोधग्रन्थोऽयं स्वबुद्ध्या सज्जीकृत इति प्रतिज्ञापयामि। इतः पूर्वं नान्यस्य कस्याप्युपाधये नैव समर्पित इत्यपि प्रमाणं करोमि।

दिनाङ्कः-तिरुपतिः इत्थम्Y.N.B.T.S.Deviअनुसन्धात्री
                       ** **

   *   * 

**प्रतिज्ञापत्रम् **

national sanskrit university, tirupati

(Erstwhile Rashtriya Sanskrit Vidyapeetha, Tirupati) A Central University established by an Act of Parliament Accredited by NAAC (Cycle­2) at A Grade

tirupati - 517 507


_


मार्गदर्शकप्रमाणपत्रम्

“श्रीमन्महाभारतस्य आदिपञ्चके ग्रन्थिश्लोकानुशीलनम्” इति शीर्षाङ्कितः

समर्प्यमाणः शोधप्रबन्धः राष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्यविभागे विद्यावारिधिः(Ph.D) इत्युपाधिप्राप्त्यर्थं मदीये मार्गदर्शकत्वे सौभाग्यवत्या श्रीमत्या वै.एन्.बि.टि.एस्.देव्या व्यलेखि। शोधप्रबन्धस्यापेक्षिता सर्वाऽपि सामग्री शोधप्रबन्धकर्त्र्या स्वबुध्या सङकलितेति प्रमाणयामि।

दिनाङ्कः। तिरुपतिः (आचार्या. सि.ललिताराणी)मार्गदर्शिका

Prof. (Smt.). C.Lalitha Rani

Dept. of Sahitya

Tel: 0877­2260975 (R) 0877­2287649 (O) Ext. 270

Mobile: 9010717415 E­mail: clalitharani@nsktu.org E­mail: clalitharani@gmail.com

साहित्यशास्त्रमधिकृत्य अनुसन्धानं चिकीर्षन्त्यां मां मदीयां

अभिरुचिमभिज्ञाय “श्रीमन्महाभारतस्य आदिपञ्चके ग्रन्थिश्लोकानुशीलनम्”

इति शोधप्रबन्धं प्रदाय च प्रतिपदं मार्गदर्शनं कृतवतीभ्यः मन्मातृसमानाभ्यः

साहित्यशास्त्रनिष्णाताभ्यः सम्प्रति राष्ट्रियसंस्कृतविश्वविद्यालये साहित्यविभागे

आचार्यारूपेण विराजमानाभ्यः प्रो.सि. ललिताराणी महोदयाभ्यः सविनयं सानन्दं

कृतज्ञताञ्जलिं समर्पयामि ।

अवसरेऽस्मिन् राष्ट्रियसंस्कृतविश्वविद्यालयस्यास्य कुलाधिपतेभ्यः
श्रीःडा.एन्.गोपालस्वामीमहोदयेभ्यः,संस्कृतभाषाप्रचारार्थंसर्वदादत्तचित्तेभ्यःविश्वविद्यालयस्यकुलपतिवरेभ्यःश्रीःप्रो.वि.मुरलीधरशर्मामहाभागेभ्यः,
कुलसचिवेभ्यः श्रीःकल्नल्.चल्लावेंकटेश्वर महोदयेभ्यः, सैक्षिक
सङ्कायप्रमुखेभ्यःबहुभाषाकोविदेभ्यश्च श्रीःआचार्यः.राणीसदाशिवमूर्ति
महाभागेभ्यः,साहित्यसङ्कायप्रमुखेभ्यःविद्यपीठकालिदासइतिबिरुदाङ्कितेभ्यःश्रीःआचार्यःजि.एस्.आर्.कृष्णमूर्तिमहोदयेभ्यः,नानाशास्त्रनिष्णातेभ्यः
साहित्यविभागाध्यक्षेभ्यः श्रीःआचार्यः.सि.रङ्गनाथन्महोदयेभ्यश्च मे
सविनयप्रणतयः। अस्माकं विश्वविद्यालयस्य विश्रान्ताचार्येभ्यः



श्रीवेंकटेश्वरवेदविद्यालयस्य कुलपतिभ्यः श्रीःआचार्यः सन्निधानं सुदर्शनशर्मा

महाभागेभ्यः, विश्रान्ताचार्येभ्यः श्रीःआचार्यः कोम्पेल्ल रामसूर्यनारायण

महोदयेभ्यः, आचार्यः.श्रीःराजगोपालन् महोदयेभ्यश्च मे नतयः। अनसन्धानकार्ये

मां नितरां सम्प्रेरितवद्भ्यः साहित्यविभागे विद्यमानेभ्यः प्रमुखेभ्यः आचार्येभ्यश्च मम

कृतज्ञताञ्जलयः।

अनुसन्धानविभागध्यक्षेभ्यः आचार्यः **श्रीःके.सूर्यनारायण **

महोदयेभ्यः, विश्रान्ताचार्येभ्यः **श्रीःसि.हेच्.पि.सूत्यनारायण महोदयेभ्यः, **आचार्यः

कृतज्ञतानिवेदनम्

विश्रान्ताचार्येभ्यः श्रीःकोम्पेल्ल रामसूर्यनारायण महोदयेभ्यः विश्रान्ताचार्येभ्यः श्रीःसिहेच्.पि.सत्यनारायणमहोदयेभ्यः, आचार्येभ्यः श्रीः.विरूपाक्षःवि.जेड्डीपालमहोदयेभ्यः, आचार्येभ्यः**श्री.सोमनाथदास **

महोदयेभ्यः, आचार्येभ्यः के. सूर्यनारायण महोदयेभ्यः, आचार्येभ्यः श्रीः सिहेच्. नागराज महोदयेभ्यः, आचार्या अतिथि आध्यापिकायै **एम्. के. सुनीता **महोदयायै

च मम कृतज्ञतापूर्वकनमस्काराः। शोधकार्ये मम शोधप्रबन्धस्य रूपकल्पनाय सहायं कुर्वाणाय पुत्रसमानाय डि.प्रसादनायकाय मम धन्यवादयुत आशिषः।

सहायकग्रन्थैर्विना शोधकार्यं न साध्यते । अतः विश्वविद्यालयस्य ग्रन्थालयाध्यक्षेभ्यः , कार्यनिर्वाहकेभ्यः, तथैव शैक्षिकविभागाध्यक्षेभ्यः, कार्यनिर्वाहकेभ्यश्च मम कृतज्ञताञ्जलयः।

सततं कर्मणि विद्यायां विशिष्य अस्मिन् शोधकार्ये ग्रन्थिश्लोकानां श्लथीकरणे  धीशक्तिप्रचोदनकर्त्रून् मत्पितॄन् गुरून् **ब्रह्मश्रीः यनमण्ड्र वेणुगोपालशास्त्रि** 

श्रियानन्दनाथः महाभागान् शिरसा प्रणमामि। जन्मसाफल्यं कुर्वाणं मन्मातृसहितं च पित्रून् प्रणमामि।

तथैव गोलोकवासिनौ मम श्वश्रूश्वशुरभ्यां मे विनयान्वित प्रणतयः। मां सर्वदा प्रचोदयन्तेभ्यः मत्प्राणेश्वरेभ्यः **सि.हिच्.वि.एस्.के.वि.शर्मा** महाशयेभ्यः सविनयप्रणतयः। संस्कृतविद्याप्राप्तये मार्गदर्शकाय मम भ्रात्रे **डा.वै.श्रीनिवासशर्मणे**, 

संस्कृतसंभाषणप्राप्तये प्रचोदकाय भ्रात्रे आचार्यः शास्त्री वासुदेवः पुरोहितः

महोदयाय च धन्यतापूर्वक आशिषः, तथैव प्रत्यक्षे परोक्षे च सहायं कुर्वाणभ्यां

मद्भ्रातृभ्यां, भगिभ्यां च, पुत्रद्वयस्य स्नुषायाश्च कृतज्ञताः। मां प्रोत्साहनपूर्वकवचसा सहायं कृतवतीं डा.वि.गायत्री सूर्यप्रभा भगिनी दम्पतीं धन्यवादपुरःसर आशिषः।

 ग्रन्थिश्लोकविषये मम प्रचोदनं सहायञ्च कुर्वाणेभ्यः **ब्रह्मश्रीः मल्लादि चन्द्रशेखरशास्त्रि** महाभागेभ्यः, **ब्रह्मश्रीः सामवेदं षण्मुखशर्मा **महोदयेभ्यः, 

ब्रह्मश्रीःलंका अच्युतरामसोमयाजुलु महोदयेभ्यः, ब्रह्मश्रीः डा.विष्णुभट्ल सुब्रह्मण्य सलक्षण घनापाठी महाभागेभ्यः, आचार्यः ब्रह्मश्रीःवेम्पटि कुटुम्बशास्त्रि महाभागेभ्यः, श्रीः शलाक रघुनाथशर्माणेभ्यः विश्रान्त प्रध्यापकेभ्यः डा.श्रीःदोर्भल प्रभाकरशर्मा महोदयेभयः, डा.श्रीःउमारामाराय

महोदयेभ्यश्च सविनयप्रणतयः।

मम गुरुभ्यःस्वर्गीयः **श्रीःए.जोगयशर्मा **महोदयेभ्यः, स्वर्गीय श्रीः के.घनश्याप्रसादशर्मा महोदयेभ्यः मे प्रणतयः।

संस्कृतज्ञानाय सततं प्रत्यक्षे परोक्षे च सहायं कुर्वाणाः संस्कृतसमुपासकाः वाट्साप् समूह आध्यक्षाः, सभ्या, भ्रातरः भगिन्यश्च मया हार्दिकाः धन्यवादाः समर्प्यन्ते ।

दिनाङ्कः इत्थम्वै.एन्.एल्.बि.टि.एस्.देवी

सङ्केताक्षरसूची

१ अ - अध्यायः

२ अ.को - अमरकोशः

३ अनु - अनुवाकः

४ अनुषं - अनुषङ्गपादः

५ आ.सू - आयुर्वदसूत्रम्‌

६ उद्यो. - उद्योतः

७ उल्ल. - उल्लासः

८ ऋ.सा.भा - ऋग्वेदसायणभाष्यम्‌

९ का.द - काव्यादर्शः

१० का.प्र - काव्यप्रकाशः

११ कारि. - कारिका

१२ का.सं - काश्यपसंहिता

१३ कां - काण्डः

१४ कु.सं - कुमारसम्भवम्‌

१५ कू.पु - कूर्मपुराणम्‌

१६ कृ.य - कृष्णयजुर्वदः

१७ ग.उ - गर्भोपनिषत्‌

१८ च.व.चिं - चतुर्वर्गचिन्तामणिः

१९ तै.ब्रा - तैत्तिरीयब्राह्मणम्‌

२० तै.उ - तैत्तिरीयोपनिषत्‌

२१ दे.भा - देवीभागवतम्‌

२२ द्वि - द्वितीयः

२३ ध.सिं - धर्मसिंधुः

२४ ध्वन्या - ध्वन्यालोकः

२५ निरु. - निरुक्तम्‌

२६ नैष. - नैषधम्‌

२७ प.पु - पद्मपुराणम्‌

२८ प.स्मृ - पराशरस्मृतिः

२९ पु - पुटः

३० प्र.व.नि - प्रकारान्तवर्णनिघण्टुः

३१ ब्र.वै.पु - ब्रह्मवैवर्तपुराणम्‌

३२ ब्रं.पु - ब्रह्माण्डपुराणम्‌

३३ भ.गी - भगवद्गीता

३४ भ.नी.श - भर्तृहरिनीतिशतकम्‌

३५ भ.पु - भविष्यपुराणम्‌

३६ भा. - भागः

३७ भा.प्र - भावप्रकाशः

३८ भा.भा.दी - भारतभावदीपिका

३९ म.पु - मत्स्यपुराणम्‌

४० म.पु - मत्स्यपुराणम्‌

४१ म.भा - महाभारतम्‌

४२ म.भा.ल - महाभारतलक्षालङ्कारः

४३ म.स्मृ - मनुस्मृतिः

४४ मं - मण्डलम्‌

४५ मु.चिं - मुहूर्तचिन्तामणिः

४६ मु.पु - मुद्गलपुराणम्‌

४७ मु.र - मुहूर्तरत्नाकरम्‌

४८ मे - मेदिनीकोशम्‌

४९ यं.वि - यन्त्रविधानम्‌

५० र.वं - रघुवंशम्‌

५१ रा.प्र - राजाभिषेकप्रकरणम्‌

५२ रुद्रा - रुद्राध्यायः

५३ ल.स - ललितासहस्रनामस्तोत्रम्‌

५४ व.उ.प्र.व्या - वल्लभेशोपनिद्‌ प्रभाव्याख्या

५५ व.ध.सं - वशिष्ठधनुर्वदसंहिता

५६ व.पु - वह्निपुराणम्‌

५७ व.स्मृ - वशिष्ठः स्मृतिः

५८ वा - वाचस्पत्यम्‌

५८ वा.धा.सं - वशिष्ठधनुर्वदसंहिता

५९ वा.पु - वायुपुराणम्‌

६० वा.सं - वाग्भटसंहिता

६१ वि.स.स्तो - विष्णुसहस्रनाम स्तोत्रम्‌

६२ वे.नि - वेदनिघण्टुः

६३ व्र.खं - व्रतखण्डः

६४ श.दृ - शब्दकल्पदृमः

६५ शि.ध.सं - शिवधनुर्वदसंहिता

६६ शि.पु - शिवपुराणम्‌

६७ श्री. रा - श्रीमद्रमायणम्‌

६८ श्री.भा - श्रीमद्भागवतम्‌

६९ श्लो - श्लोकः

७० स.सू.धा - समराङ्गणसूत्रधारः

७१ सा.का - सांख्यकारिका

७२ स्कं - स्कंदः

७३ सा.द - साहित्यदर्पणम्‌

७४ सा.बो - सारबोधिनी

७५ सू - सूत्रम्‌

७६ ह.वं - हरिवंशः


प्रतिज्ञापत्रम्‌ प्रमाणपत्रम्‌ कृतज्ञतानिवेदनम्‌ सङ्केताक्षरसूचीउपक्रमः१. प्रथमोऽध्यायः 1223588101213141415151516171­34
विषयसूची पृ.सं.

मङ्गलाचरणम्‌ - १.१. गणेशस्त ुतिः - १.१.१.लेखकलक्षणानि - १.२. व्यासस्त ुा ᐃतः - १.२.१.व्यासाः - १.३. युगपुरुषाः कवयः - १.४. काव्यलक्षणम्‌ - १.५. नायकविचारः - १.६. महाभारतस्य पञ्चमवेदत्वम्‌ - १.७. महाभारतम्‌ए ेतिह्यम्‌ - १.८. भारतम्‌महाभारतम्‌ - १.९. महाभारतम ्‌ काव्यप्रयोजनानि - क.यशसे- - ख.अर्थकृत े- - ग.व्यवहारा ᐃवद े - घ.ा ᐃशव ेतरक्षतय े - ङ.सद्यः परनिर्वृतये - ं

च.कान्तासम्मितया उपदेशयुजे - 1818192021222224242627282829292931313233343535 ­ 89 आदिपर्वणि ग्रन्थिश्लोकानुशीलनम्‌२.१. महाभारतग्रन्थिज्ञः महागणेशोऽपि - २. द्वितीयोऽध्यायः
पृ.सं.

१.१०. महाभारतम्‌ - शान्तरसम्‌ - १.११. महाभारतस्यावतरणम ्‌ - १.१२. महाभारतग्रन्थग्रा ᐃन्थना ं स्थापनम्‌-ल ेखकगवेषणञ्च १.१३. शोधग्रन्थस्याा ᐃभधानम ्‌ - १.१४. ग्रन्थिश्लोकविव ेचनम्‌ - १.१५. ग्रन्थिश्लोकस्याा ᐃभधानम ्‌ - १.१६. ग्रन्थिश्लोकान ुशीलनमिा ᐃत शोधकार्यं कथं - स्वीक्रियते १.१७. ग्रन्थतत्त्वं ा ᐃवज्ञातव्यम्‌ - १.१८. ग्रा ᐃन्थश्लोकाः एतावत्पर्यन्तं कैरवज्ञाताः - १.१९. ग्रन्थिः कथं लक्ष्यते - १.२०. ग्रन्थिवैविध्यम्‌ - क.कूटग्रन्थिः– - ख.वृत्तान्तसंसूचितग्रन्थिः - १.२१. ग्रन्थिं अभिज्ञातुं विविधाः मार्गाः - क.पूर्ववृत्तान्तात्‌ विस्तारणपूर्वक पुनर्वृत्तान्तकथने ख.वृत्तान्तस्य ग्रन्थिः - ग. पृच्छकस्य विषयसम्बन्धिनी - घ. पुनरुक्तिश्लोकः - ङ. अधर्मविवक्षतिो श्लोकः - च. लोकोत्तरसम्बन्धिनीश्लोकः -

२.२. ‘मन्वादि भारतं’ इत्यस्य ग्रन्थिश्लोकस्यार्थविचारणा - 373839393944454546464748495154677782909410210711311790­139 आदिसभापर्वणोः ग्रन्थिश्लोकानुशीलनम्‌३.१. तिलोत्तमा वृत्तान्तः - ३.२. धर्मजेन कृत द्युतक्रीडायाः निर्दोशत्वप्रमाणम्‌ - ३.३. द्यूते द्रौपदीं पणं कर्तुं समालोचनम्‌ - ३.४. द्यूतसभायां प्रातिकामिकृते द्रौपदीं प्रति धर्मजस्य - रहस्संकेतभाषणम्‌३.५. अक्षयपात्रवृत्तान्ते मासप्रसक्तिः - ३.६. श्रीकृष्णं प्रति द्रौपद्या प्रयुक्तसखिशब्दानुशीलनम्‌ - ३. तृतीयोऽध्यायः
पृ.सं.

२.२.१. मन्वादि - - २.१.२.आस्तीकाः- - २.२.३.उपरिचरः- - २.३. धर्मादिदेवताकारणेन धर्मजादीनां जन्म - २.३.१.अत्र भद्रा- व्युषिताश्वशब्दयोः व्युत्पत्तिः- - २.३.२. मार्कण्डेयपुराणमनुस्रुत्य धर्मजादिषु पुर्वन्द्रांशाः - विमानप्रक्रिया क. धर्मजः- - ख. भीमसेनः– - ग. अर्जुनः - २.३.३. अत्र विचारणीयः अर्जुनस्य सद्योजातविषयः - घ.नकुलसहदेवौ:- - २.४. भीष्मेण द्रोणस्य आचार्यत्वेन वरणम्‌ - २.५. द्रोणाचार्यण अर्जुनं प्रति रहस्येन कृत शब्दभेदीविद्यायाः सूचना २.६. वारणावतगमनसमये पाण्डवानां प्रति विदुरेण कृत लाक्षदाहसूचना २.७. तपती-संवरण वृत्तान्ते प्रतिपादित सौरीशक्तिः आग्नेयास्त्राणि च २.८. भद्रा-व्युषिताश्वयोर्वृत्तान्तः - २.९. अर्जुनस्य पञ्चब्रह्मसु सद्योजातांशत्वम्‌ -

पृ.सं.
३.७. सत्यभामां प्रति द्रौपदीवचनेषु पतिपत्न्योरत्यन्तानुबन्धम्‌ ३.८. मार्कण्डेयमहर्षिणा प्रासङ्गिकवशाद्‌ प्रोक्त रामायणे सीतायाः अग्निप्रवेशनम्‌३.९. मार्कण्डेयेन रामायणे सीता साक्षाद्दुर्गति सूचना ३.१०. सावित्र्याः कुम्भविवाहः ३.११. यम-सावित्री संवादे सावित्र्याः प्रतिपादित कामवर्गप्राधान्यता वना ᐃवराटपव ᐀्णोःग्रा ᐃन्थश्लोकान ुशा ᐂलनम ्‌४.७. धर्मजस्य सूचनानुसारेणैव कीचकोपकीचकानां वधः कृतः - भीमसेनेन -४.८. युधिष्ठिरस्य संकेतमवगम्य भीमसेनेन कीचकस्य संहारः - ४.९. उत्तरगोग्रहणे विकत्थनं कर्णं प्रति अश्वत्थाम्ना अर्जुनप्रंसा - ा ᐃवराट उद्योगपव ᐀्णोःग्रा ᐃन्थश्लोकान ुशा ᐂलनम ्‌५.५. पञ्चपार्थैः पार्थं कर्णं संयोजयितुं श्रीकृष्णेन कृतप्रयत्नेषु - ४. चत ुर्थोऽध्यायः ५. पञ्चमोऽध्यायःः 120120125133135140144152156160164165169172177179184185190140­176177­197

४.१. च्यवनकारणाज्जातस्य महामदस्य वृत्तान्तः - ४.२. लोमशेनोक्त नरकस्य ऐन्द्रप्राप्तिप्रसङ्गे पाण्डवानां - प्राग्ज्योतिषदर्शनम्‌

४.३. असङ्गेनैव कुन्त्याः कर्णजननम्‌ - ४.४. कर्णार्जुनयोः पूर्ववृत्तान्तः - ४.५. इन्द्रात्‌ कर्णस्य शक्तिर्नामकास्त्रसंप्राप्तिः - ४.६. द्रौपदी-कीचकसंवादः - ५.१. अन्या अश्वत्थाम्नोक्तिः - ५.२. उत्तरगोग्रहणे बृहन्नला एव अर्जुन इति द्रोणाचार्यस्य सूचना ५.३. धृतराष्ट्रं प्रति सनत्सुजातोपदेशः - ५.४. भारते कौरवेषु विदुरधर्मराजावेव प्रज्ञौ - ‘षष्ठे काले तथा त्वां…’ इत्यस्य वाक्यार्थविचारणा

पृ.सं.
५.६. अनुशासनपर्वण्यन्तर्त कपदैत्यानां वृत्तान्तः - उपसंहारः - मङ्गलश्लोकाः - श्लोकानुक्रमणिका -ग्रन्थिश्लोकानुक्रमणिका -उपयुक्तग्रन्थसूची*** 195198199

**प्रथमोऽध्यायः **v

1

**प्रथमोऽध्यायः **

**उपक्रमः **

**वन्दे विष्णुं विघ्नहरं ब्रह्मणां ब्रह्णणस्पतिम् । **

** महाभारतग्रन्थस्य ग्रन्थीनां च्छेदकं विभुम् ॥ **

** अपारे काव्यसंसारे बहवो मेधाविनो गताः। **

** करोमि तद् पादरेणुः ग्रन्थिच्छेदनसाहसम् ॥ **

** ऐदंपर्येण क्रियते भीरुतापरिपन्थिना । **

** बुद्ध्यधिष्ठानसावित्र्या गुरुप्रेरणया मया ॥ **

  --ब्रह्मश्रीः यनमंड्र वेणुगोपालशास्त्रिणःमत्पितृचरणाः 

**१.१. गणेशस्तुतिः **

**ग॒णानां॑ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् । **

**ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम्१ ॥ **

** **श्रवसस्तमः बृहत्कर्णः सूर्पकर्णः। अत एव अस्माकं नुतयः कामनाः मनोरथाश्च सततं श्रुणोति। सूक्ष्मतया श्रुणोति । अत्र गणपतिर्नाम कः? गणानां पतिः हेरम्ब एव वा? भारतलेखनार्थं ब्रह्मा व्यासमुद्दिश्य गणेशं स्मरेति अवदत् । तदा व्यासः हेरम्बं संस्मृत्य भारतलेखनाय प्रार्थितवान् । * *

**अस्य काव्यस्य कवयो न समर्था विशेषणे । **

** काव्यस्य लेखनार्थाय गणेशःस्मर्यतां मुने ॥ **

** ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः। **

** स्मृतमात्रे गणेशानो भक्तचिन्तितपूर्वकः॥ **

** १. ऋ.वे.२.२३. **

***प्रथमोऽध्यायः ***

2

वल्लभेशोपनिषदि अपि –

कश्यपः- कथं गणपतिरिति ?

मरीचिः- ब्रह्मविष्णुरुद्रादीनां अनादि ब्रह्मणां महदादि तत्त्वानां गणानां पतिरिति गणपतिः।

बह्मविष्णुरुद्र अनादिब्रह्माणां ब्रह्मा विष्णुः रुद्रः ईशानः सदाशिवः एते पञ्चब्रह्माणः महदादि महदादि चतुर्विंशति तत्त्वानां अधिपतिरति

अत्र ज्योष्ठराजः प्रशस्यतमानां ब्रह्मविष्णुरुद्रादीनां पञ्चब्रह्मणां ब्रह्म नाम मन्त्र इत्यपि मन्त्राणां मध्ये विराजमानं त्वं अस्माकं स्तुत्यं श्रुण्वन् अस्माकं सदसि प्रविश ।

हेरम्ब! मया वक्ष्यमाणं महाभारतरुपकाव्यम् भवच्छूर्पकर्णाभ्यां सम्यक् श्रुत्वा लेखितुं अत्र प्रविश इति अन्वयः। गणपतिः केवलं लेखकरूपेण न वर्तते। विघ्नविनायकं विघ्ननिर्हरणार्थं प्रार्थयाम। तेन अनुग्रहादेव जगति सर्वं सम्भवति। काव्यरूपसृष्टिरचनाय व्यासेन गणपतिः प्रार्थ्यते। अत्र लेखकस्य सूक्ष्मविवेचनव्याजेन कविः कृष्णद्वैपायनः ग्रन्थिश्लोकान् निक्षिप्तवान्। ग्रन्थिश्लोकावगमनार्थं परब्रह्म गणेशोऽपि किंचित् कालं विचिन्त्य एव पुनः लेखनाय अग्रे सरतीतिवृत्तान्तः। परब्रह्म सर्वज्ञः गणेशः अजानदेव। किन्तु अयं ग्रन्थिः श्लोक इति अस्माकं ज्ञापनार्थं तथा क्षणकालचिन्तको बभूव ।

**सर्वज्ञोऽपि गणोशो यत् क्षणमास्ते विचारयन् । **

** तावच्चकार व्यासोऽपि श्लोकानन्यान् बहूनि च२ ॥ **

**१.१.१. लेखकलक्षणानि– **

**सर्वदेशाक्षराभिज्ञः सर्वशास्त्रविशारदः। **

** लेखकः कथितो राज्ञः सर्वाधिकरणेषु वै ॥ **

** ***१. व.उ.प्र व्या.१,२. *

२. म. भा.१प.१/८३.** **

***प्रथमोऽध्यायः ***

3

** उपायवाक्यकुशलः सर्वशास्त्रविशारदः। **

** बह्वर्थकर्ता चाल्पेन लेखकः स्यात् भृगूत्तम ॥ **

** वाक्याभिप्राय तत्त्वज्ञो देशकालविभागवित् । **

**अनाहार्यो नृपे भक्तो लेखकः स्याद् भृगूत्तम१ ॥ **

सर्वशास्त्रविशारदः बहुभाषाभिज्ञः लेखको भवतु। एतत् वाक्यं किमिति, किमर्थमत्रप्रयुक्तमिति विज्ञाय लेखनं कुर्यात् । अल्पेन शब्देनैव बह्वर्थान् जानीयात् । वाक्यनिर्माणस्य अभिप्रायः अभिधा लक्षणा व्यञ्जना इत्यादिषु ध्वनिसम्प्रदेयेषु

क्वानुवर्तते इति सम्यक् विचार्य लेखनीयः। राजभक्तिः अवश्यं भवेत् । अत्र सामान्यलेखकस्य लक्षणानि विशदीकृतानि । तर्हि परब्रह्मणः सर्वज्ञस्य विषये किं वक्तुं शक्नुमः? सः सत्यवतीसुते परमानुग्रहकारणात् शतसाहस्रीसंहितां लेखितुं उपचक्रमे ।

**१.२. व्यासस्तुतिः **

**व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् । **

** पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ **

भगवान् व्यासः अत्यन्तदयालुः कलिगत अल्पबुद्धिजनान् मनसि निधाय सर्ववेदशास्त्रादिसारभूतं महाभारतं व्यरचयत्।

**ऊर्ध्वबाहुर्विरौम्येष न च कश्चित् शृणोति मे । **

** धर्मादर्थश्च कामश्च स किमर्थं न सेव्यते२ ॥** * *

अष्टादशपुराणानि भारतं च विरच्य तत्सारभूतं धर्मार्थकामवर्गत्रयं किमर्थं न सेवन्ते? यूयं ऊर्ध्वबाहुःसन् भवन्तः जनान् प्रार्थयामीति अत्यन्तकृपालुः अवोचत्।

महाभारते ममताहंकाररूपौ धृतराष्ट्रधार्तराष्ट्रौ । सर्वं इतिवृत्तं ममताहंकारयोः निग्रहणं

  • १. श.द्रु.४/२२७ पुटः. *

२. म.भा.१८ प.५/ ६२.

***प्रथमोऽध्यायः ***

4

भवति । व्यासदेवः ममताहंकारनिर्हरणविषये बहुवारं धृतराष्ट्रं धार्तराष्ट्रमपि उद्बोधितवान्। किन्तु तौ धर्मविषये अन्धौ बभूवतुः।

प्रतिमहायुगे द्वापरे व्यासः प्रादुर्भवतीति वेदं बहुधा विभज्य पुराणानि भारतं च लिखिष्यतीति देवीभागवतम्।अधुना अष्टाविंशतितमः महायुगः। सत्यवतीसुतः व्यासदेवः

सम्प्रति ।

**अष्टादशपुराणानि कृत्वा सत्यवतीसुतः। **

** भारताख्यनमखिलं चक्रे तदुपबृंहितः॥ **

**मन्वन्तरेषु सर्वेषु द्वापरे द्वापरे युगे। **

** प्रादुष्करोति धर्मार्थी पुराणानि यथाविधि ॥ **

** द्वापरे द्वापरे विष्णुर्व्यासरुपेण सर्वदा। **

** वेदमेकं स बहुधा कुरुते हितकाम्यया ॥ **

** अल्पयुषाल्पबुद्धींश्च विप्रान् ज्ञात्वा कलावधिम् । **

** पुराणसहितां पुण्यं कुरुतेऽसौ युगे युगे ॥ **

** स्त्रीशुद्रद्विजबन्धूनां न वेदश्रवणं मतम् । **

** तेषामेव हितार्थाय पुराणानि कृतानि च ॥ **

** मन्वन्तरे सप्तमेऽत्र शुभे वैवश्वताभिधे । **

** अष्टाविंशति ये प्राप्ते द्वापरे मुनिसत्तम ॥ **

** व्यासः सत्यवतीसूनुः गुरुर्मे धर्मवित्तम । **

** एकोनत्रिंशत्सम्प्राप्ते द्रौणिर्व्यासो भविष्यति१ ॥ **

  • १. दे.भा.१.३/१७-२४. *

***प्रथमोऽध्यायः ***

5

**१.२.१. व्यासाः– **

  1. ब्राह्मा 2. प्रजापतिः3. शुक्रः 4. बृहस्पतिः5. सविता 6. मृत्युः7. इन्द्रः 8. वशिष्ठः

. सारस्वतः 10. त्रिधामः 11. त्रिवृषः 12. भरद्वाजः 13. अन्तरिक्षः14. धर्मः

  1. त्रैय्यारुणिः 16. धनंञ्जयः 17. मेधातिथिः 18. प्रतीः 1. अत्रिः 20. गौतमः 21.हर्यात्मा 22. वेनः, वाजश्रवः 23. सोमः, आमुष्यायणः 24. तृणबिन्दुः 25. भार्गवः 26. शक्तिः27. जातुकर्णिः 28.कृष्णद्वैपायनः

व्यासदेवस्य वैशिष्ट्यं वर्णयन् वैशम्पायनेनोक्तम्- अत्यधिकतपस्स्पन्नाः सत्स्वपि केवलं पराशरात्मजो कृष्णद्वेपायन एव भारतं रचयितुं समर्थः इति।

**कृष्णद्वैपायनं व्यासं विद्धि नारायणं प्रभुम् । **

** कोह्यन्यः पुण्डरीकाक्षान्महाभारतकृद् भवेत्१ ॥**

वेदराशिं व्यासीकृतकारणात् वेदव्यास इति सम्बुध्यते। वेदार्थज्ञानं पुराणेतिहासाभ्यां अवगम्यते ।

**"**अष्टादशपुराणानां वेदं समुपब्रुंहयेत् ।"

“स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतिगोचरा ।”

इति कारणात् कलौ अल्पबुद्धिजनानुद्दिश्य धर्मार्थकाममोक्षाणि सर्वाणि निक्षिप्य महाभारतं चकार। व्यासेन अनिर्दिष्टविषयाः केऽपि न सन्ति। अत एव-

“व्यासोच्चिष्टं जगत्सर्वमिति” लोकोक्तिः।

** **ब्रह्मजिज्ञासूना कृते ब्रह्मसूत्राणि लिलेख ।

** योप्यस्य वेदाश्चतुरस्तपसा भगवान् ऋषिः। **

** लोके व्यासत्वमापेदे कर्ष्णात् कृष्णत्वमेव च२ ॥ *** *

*१. प.पु.सृष्टिखण्डः.१/४३. *

२. म.भा.१ प.१०५/१४.

***प्रथमोऽध्यायः ***

6

**सुतं त्वजनयच्छक्तरदृश्यन्ती पराशरम् । **

** काली पराशराज्जज्ञे कृष्णद्वैपायनं मुनिम् ॥ **

** द्वैपायनादर्ण्यां शुको जज्ञे गुणान्वितः१॥**

महाभारतम्, सूर्याचन्द्रमसौ लोके यदि न सन्ति लोकस्य गतिरेव न स्यात्।

**भारतं भानुमानिन्दुः यदि न स्युरमीत्रयः। **

** ततोऽज्ञानतमोन्धस्य काऽवस्था जगतो भवेत्२ ॥ ** * *

व्यासमहाभागः सर्ववेदप्रतिष्ठितं, धर्मार्थकाममोक्षशास्त्रसमन्वितं, लोकव्यवहारार्थं आयुर्वेद, धनुर्वेद ,स्थापत्य वेद ,गान्धर्ववेदादि लौकिकशास्त्राणि, लोकवृत्तम् च निक्षिप्य भारतं इतिहासरूपण चक्रे । इतोऽपि आख्यानानि योजयित्वा शिष्येभ्यःअध्यापनाय काव्यरूपं मनसि निधाय लेखकार्थं ब्रह्माणं अपृच्छत् ।

**भूतस्थानानि सर्वाणि रहस्यं त्रिविधं च यत् । **

** वेदा योगः सविज्ञानो धर्मोर्थः काम एव च ॥ **

** धर्मार्थयुतानि शास्त्राणि विविधानि च । **

** लोकयात्रा विधानं च सर्वं तद् दृष्टवानृषिः॥ **

** पराशरात्मजो विद्वान् ब्रह्मर्षिः संशितव्रतः। **

** तदाख्यानवरिष्ठः स कृत्वा द्वैपायनः प्रभुः॥ **

** उवाच स महातेजा ब्रह्माणं परमेष्ठिनम् । **

** कृतं मयेदं भगवन् काव्यं परमपूजितम् ३॥ **

     * *

*१. वह्निपुराणम् …….. *

*२. प.पु.१खं.४२/१. *

*३. म.भा. १ प.१/४८,४९,५५,६१. *

***प्रथमोऽध्यायः ***

7

तदा ब्रह्मा जन्मप्रभृति तव वाणी ब्रह्मवादिनी सत्ययुक्ता च भवति। अतः त्वत्तः काव्यमिति प्रयुक्तत्वात् भारतं काव्यं भविष्यति । अस्य काव्यं अतिक्रम्य विशेषेण अन्यकाव्यानि रचयितुं केऽपि कवयः न समर्थाः। अर्थात् भवान् महाकविः। महाभारतम् महाकाव्यं भविष्यतीति ।

यं कमपि काव्यं महाभारतं अनतिरिच्य एव भवति ।

** जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् । **

** त्वया च काव्यमित्युक्तं तस्मात् काव्यं भविष्यति ॥ **

** अस्य काव्यस्य कवयो न समर्था च विशेषणे । **

** काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने१ । **

अस्य काव्यस्य लेखनाय गणेशं संस्मर। स एव समर्थेति उक्त्वा ब्रह्मा जगाम ।

केचित् गणानां ईशः गणेशः अतः गणो नाम समूहः समूहे न निर्मितमिदं भारतमिति भणन्ति । किन्तु अत्रैव गणेशस्य अन्यनामान्यपि प्रयुक्तानि।

**ततः सस्मार हेरम्बं व्यासः सत्यवतीसुतः। **

** स्मृतमात्रो गणेशानो भक्तचिन्तितपूर्वकः॥ **

**तत्याजगाम विघ्नेशो वेदव्यासो यतः प्रभुः। **

** लेखको भारतस्यास्य भव त्वं गणनायक२। **

हेरम्बः- हेरम्बते रुद्रसमीपे तिष्ठतीति।

गणेशानः- गणानां ईशानः प्रभुः।

विघ्नेशः- विघ्नानां ईशः।

गणनायकः- गणानां नायकः।

*१. म.भा.१प.१/७२,७३,७४. *

२. म.भा.१प.७/७५

***प्रथमोऽध्यायः ***

8

**विनायको विघ्नराज द्वैमातुर गणाधिपाः। **

** अप्येकदन्तहेरम्बलम्बोदरगजाननाः१॥** * *

अतः महाभारतं काव्यत्वेनाऽपि अङ्गीक्रियते । त्रेतायां वाल्मीकिः, द्वापरे सत्यवतीसुतो व्यासः, कलौ कालिदासश्च महाकवयःइति लोकोक्तिर्वर्तते। क्रान्तदर्शनःकविरिति ।

**१.३. युगपुरुषाः कवयः- **

कृते शुक्राचार्यः महाकविः एवं त्रेतायां बहुषु कविषु सत्स्वपि वाल्मीकिरेव महाकविः। एवं द्वापरे अन्ये च बहवः कवयः भवन्तु नाम एकःकृष्णद्वैपायन एव महाकविः। तथा कलौ महाकविषु वर्तमानेष्वपि एकःकालिदास एव महाकविः। एते महाकवयः श्रुतिरहस्यान् वेदोपबृंहितसूक्तीः समाजस्य सुखबोधार्थं जनानां धर्मप्रवृत्त्यर्थं महाकाव्यनिर्माणं चक्रुः। न तथा अन्ये सामान्यकवयः। अत एव एते युगपुरुषाः। तत्र कृष्णद्वैपायनेन कृतं महाभारतं पञ्चमवेदत्वेन परिगण्यते ।

**जज्ञे बहुज्ञं प्ररमत्युदारं यं द्वीपमध्ये सुतमात्मयोगात् । **

** पराशरात् सत्यवती महर्षिं तस्मै नमोऽज्ञानतमोनुदाय ॥ **

** पितामहाद् वै प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुतम् । **

** नारायणस्यांशजमेकपुत्रं द्वैपायनं वेद महानिधानम्२ ॥** * *

**१.४. काव्यलक्षणम्- **

कवेरिदं कर्म भावो वा ग्रन्थः-इति मेदिनी । व्याख्यसहितेतिहासाः श्रुतयः सर्वेऽपि ग्रन्थे स्थितकारणात् काव्यमिति प्रोच्यते ।

** इतिहासाः सवैयाख्याः विविधाः श्रुतयोऽपि च । **

** इह सर्वमनुक्रान्तमुक्तं काव्यस्य लक्षणम्३ ॥** * *

*१. अ.को.१.१.३९. *

*२. म.भा.१२प.३४९.३,४. *

३. म.भा.१प.१.५०.

***प्रथमोऽध्यायः ***

9

कवनीयं काव्यम्- अभिनवगुप्तः।

लोकोत्तरवर्णननिपुणकविःकर्म काव्यम्- आचार्यः मम्मटः।

कवयतीति कविः तस्य कर्म काव्यम्- विद्याधरः।

अर्थक्रियापेतं काव्यम्- भरतः।

शब्दार्थौ सहितौ काव्यं गद्यं पद्यं च तद्विधौ- भामहः।

ननु शब्दार्थौ काव्यम्- रुद्रटः।

शब्दार्थौ शरीरं तावद् काव्यम्- आनन्दवर्धनः।

गद्यं पद्यं च मिश्रं च तत् त्रिदिवेतत् व्यवस्थितम्

**सर्गबन्धो महाकाव्यमुच्यते तस्य लक्षणम् । **

** आशीर्नमस्क्रिया वस्तु निर्देशो वापि तन्मुखम् ॥** * *

सर्गशः विभाजितं काव्यं महाकाव्यं भवति। आशीःपूर्वकं वा इष्टदेवताप्रार्थनया वा उदात्तवस्तु निर्देशेन वा काव्यं प्रारभ्यते। महाभारते सर्वविघ्नहरं विनायकं लेखकरूपेण नमस्कृत्य ग्रन्थः

क्षिप्रगमनेन ग्रन्थरूपेण भवेदिति विघ्नहरेण सह प्रतिज्ञारुपाशीःपूर्वकतया सर्ववेदसारसंग्रहं भारतकाव्यं ग्रन्थिरूपेण वर्तिष्यतीति महाभारतमुद्दिश्य निर्दिष्टवान्।

चतुर्वर्गसमन्वितं भारतम्-

इतिहासानां कथासमाश्रयं काव्यम्। तेन चतुर्वर्गफलप्राप्तिर्भवेत्। नायकः उदात्तचरितो भवतु ।

**इतिहासकथोद्भूतमितरद्वा सदाश्रयम् । **

** चतुर्वर्गफलायत्तं चतुरोदात्तनायकम्३ ॥** * *

१. का.द.१.११.

*२. का.द.१.१४. *

*३ का.द.१/१५. *

***प्रथमोऽध्यायः ***

10

भारतमेव इतिहासो भवति। अस्मिन् बहून्याख्यानानि सन्ति।धर्मार्थमोक्षफलप्राप्तिर्सिद्ध्यति। धर्मादि चतुर्वर्गचतुष्टयं अत्र विस्तृतीकृतम्। भारतेन

**धर्मार्थकाममोक्षार्थैः समासव्यासकीर्तनैः। **

** तथा भारतसूर्येण नृणानां विनिहितं तमः१॥**

अस्मिन्नर्थश्च कामश्च निखिलेनोपदिश्यते।।

**१.५. नायकविचारः- **

धर्मस्वरूप एव भारतम् । साक्षाद् धर्म एव धर्मजः। धर्मजः एव प्रधानो भारते।

**युधिष्ठिरो धर्ममयो महाद्रुमः **

** स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखाः। **

** माद्रीसुतौ पुष्पफले समृद्धे **

** मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च२ ॥ **

यथा नायकं मन्त्री, सेनानी ,चाराः रक्षन्ति तथा धर्ममयस्य युधिष्ठिरवृक्षस्य स्कन्धः अर्जुनः, शाखाः भीमसेनः, पुष्पफले नकुलसहदेवौ, मूलं भवन्ति श्रीकृष्णः, वेदः ब्राह्मणाश्च।

राजसूयक्रतुसमापनानन्तरं धर्मजः श्रीकृष्णं प्रति -

**तव प्रसादाद् गोविन्द प्राप्तः क्रतुवरो मया ॥ **

** क्षत्रं समग्रमपि च त्वत्प्रसादात् वशे स्थितम्३ ॥**

“वासुदेव! राजसूययागः तव प्रसादादेव समाप्तः। समग्रं क्षत्रसमुदायं मद्हस्ते

स्थितम्।” इति सविनयं उक्तवान्। अनन्तरं व्यासदेवः भविष्यद्कथनं सूचयन्-

१. *म.भा.१प.१/८५. *

२. म.भा.१प.१/१११.

*३. म.भा.२प.४५/५३,५४. *

***प्रथमोऽध्यायः ***

11

**त्वामेकं कारणं कृत्वा कालेन भरतर्षभ । **

** समेतं पार्थिवं क्षत्रं क्षयं यास्यति भारत ॥ **

** दुर्योधनापराधेन भीमार्जुनबलेन च१ ॥**

त्वमेव सर्वक्षत्रविनाशस्य कारणं भविष्यसि। दुर्योधनस्य दोषेण भीमार्जुनयौः पराक्रमेण पुनः राज्यं प्राप्स्यसीति अवोचत्।

कुरुक्षेत्रसंग्रामान्तरं नारदप्रमुखाः युधिष्ठिरं प्रशंसन्ति। तस्मिन् समये-

**विजेतेऽयं महीं कृत्स्नां कृष्णबाहुबलाश्रयात् । **

** ब्राह्मणानां प्रसादेन भीमार्जुनबलेन च२ ॥** * *

मया न विजितमिदं राज्यम्।श्रीकृष्णाश्रयात् ब्राह्मणप्रसादात् भीमार्जुनबलादेव सम्प्राप्तमिति युधिष्ठिरेणोक्तम् ।

विष्णुधर्मोत्तरे महाकाव्यलक्षणानि -

**नायकस्य महाराज मरणं नैववर्णयेत् । **

** सशरीरस्य यस्य स्याद् स्वर्प्राप्तस्तस्य वर्णयत्३ ॥ **

महाकाव्ये नायकस्य मरणं न वर्णयेत् । सशरीरस्वर्गयानं वर्णयेदिति ।

**येऽपि राजर्षयः सर्वे ते चापि समुपस्थिताः। **

** कीर्तिं प्रच्छाद्य तेषां वै कुरुराजोऽधितिष्ठति ॥ **

** लोकानावृत्य यशसा तेजसा वृत्तसम्पदा । **

** स्वशरीरेण सम्प्राप्तं नान्यं सुश्रुम पाण्डवान्४ ॥ *** *

  • १. म.भा.२प.४६/१२. ३. वि.ध.पु. ३.१५.८. *

*२. म.भा. १२प.१/१३. ४. म.भा.१८प.३/२७,२८. *

***प्रथमोऽध्यायः ***

12

राजर्षीणां सर्वेषामपि कीर्तिं आच्छाद्य युधिष्ठिरः अधितिष्ठति। तस्य यशसा तेजसा शीलेन च पाण्डुनन्दनः एक एव स्वशरीरेण स्वर्गं प्राप ।

एवं प्रकारेणैव रामायणेऽपि श्रीरामस्य सशरीरस्वर्गप्राप्तिः वर्ण्यते ।

**यामिच्छसि महातेजः तां तनुं प्रविश स्वयम् । **

** पितामहवचः श्रुत्वा विनिश्चित्य महामतिः। **

** विवेश वैष्णवं तेजः सशरीरः सहानुजः१॥ *** *

अतः महाभारतकाव्ये एकः धर्मज एव महानायकः।यदुच्यते लोके बहुनायकत्वमिति तदसदेव।आरम्भप्रभृत्यवसानपर्यन्तं धर्मजस्यैव प्रमाणत्वात्।तद् पूर्वं यद् वर्णितं तद्वंशानुवर्णनम्।यन्मध्येषु वर्णितान्युपाख्यानानि तानि काव्याङ्गभूतानि।

**१.६. महाभारतस्य पञ्चमवेदत्वम् - **

**वेदो नाम - **

** “प्रत्यक्षेणानुमित्या वा यस्तूपायो न विद्यते । **

** एनं विन्दन्ति वेदेन तस्मात् वेदस्य वेदता२ ।।**

इति प्रमाणात् त्रिकालाबाध्यं यद् सत्यं तदेव वेदेषु दरीदृश्यते।

**” वेदोऽखिलो धर्ममूलं स्मृतिशीले च तद्विदाम् । **

** साधूनां समयाचारः आत्मनस्तुष्टिरेव च३।।"** * *

इति प्रमाणात् वेदे प्रतिपाद्यमानः सर्वोऽपि विषयः धर्म एव। सत्यमन्वेषणरूपं धर्मः आचरणरूपश्च । अत एव “सत्यं वद “धर्मं चर” इति उपनिषद् वचनम् ।

इति प्रमाणात् विश्वेषां मानवानां इतर जन्तुभ्यः वैलक्षिण्यं मानवत्वम् ।

१. श्री.रा.७कां.११०/११,१२.

*२. ऋ.वे.भू. *

३. म.स्मृ.२/६

***प्रथमोऽध्यायः ***

13

“धर्मो विश्वस्य जगतः प्रतिष्ठा१”

सत्यधर्ममूलकमेव श्रीमद्रामायणम् वाल्मीकिना व्यरचि । सत्यधर्ममूलकमेव भारतम् व्यासेन प्रोचि । वेदविषयैः संग्रथित्वात् महाभारतस्य वेदत्वं संपन्नम् ।

भारतस्य वेदत्वात् प्रधानतया शब्दप्रधानो भवति ।

अत एव व्यासेनोक्तम्-

**स्त्रीशूद्रद्विजबन्धूनां त्रयी न श्रुतगोचरा। **

** इति भारतमाख्यानं कृपया मुनिना कृतम्२ ॥ **

अनेन प्रमाणेन सत्यधर्मणी प्रतिपादयितुं ग्रन्थिरूपेण, प्रतीयमानार्थरूपेण, प्रवल्लिका प्रहेलिकादिरूपेण ग्रन्थोपयोगिग्रन्थीन् व्यासः ग्रथितवान्। अत एव भारतं पञ्चमो वेदः इति प्रसिद्धिः।

**१.७. महाभारतम् ऐतिह्यम् - **

“इति ह आस्ते” इति इतिहासः

अतः भारतस्य ऐतिह्यलक्षणं सङ्गच्छते।

इतिह+आस्+ घञ्- इतिहासः।

पूर्ववृत्तान्तः प्रचलनकथा तत्पर्यायः-

इतिहासः- पूर्वचरितप्रातिपदिकग्रन्थः।

**शिक्षेत्यादिश्रुतेरङ्गमोङ्कारप्रणवौ समौ। **

** इतिहासः पुरावृत्तमुदात्तद्यास्त्रयः स्वराः३॥** * *

**स्वाध्यायं श्रावयेद् पित्रै धर्मशास्त्राणि चैव च । **

** आख्यानातिहासांश्च पुराणानि किलानि च ४॥** * *

१.महानारायणोपनिषत्.७९/७२.श्री.भा.१स्कं.४/२५ ३.अ.को.१.६.४.२१.४.म.स्मृ.३/२३२

***प्रथमोऽध्यायः ***

14

**धर्मार्थकाममोक्षाणां उपदेशसमन्वितम् । **

** पूर्ववृत्तकथायुक्तमितिहासं प्रचक्षते१ ॥ **

महाभारतं रामायणञ्च इतिहास रूपेण कथ्येते। द्वावप्यस्मिन् श्वेतवराहकल्पे एव प्रचलिते। अर्थात् श्रीरामादीनां पाण्डवादीनां चरित्रमेव रामायणमहाभारतयोः वर्तते। तेषां चारित्रकचिह्नानि अधुनाऽपि दृश्यन्ते एव। यथा अयोध्या रामजन्मभूमिरिति , नेपालराज्यं सीतामातुर्जन्मभूमिरिति, गान्धारराज्य एव सम्प्रति कान्दहारेति हास्तिनपुरं उत्तरप्रदेशे मीरठ् प्रान्ते वर्ततेति ,श्रीकृष्णद्वारका समुद्रमध्ये मज्जतेति सम्प्रत्यपि प्रमाणरूपेण पश्यन्तः स्मः।

अतः महाभारतं हितिहासेनापि प्रसिद्ध्यते।

**१.८. भारतम्-महाभारतम् - **

भारतानां महज्जन्म महाभारतमुच्यते । …इति।

भारतानां अर्थात् भरतवंशानां वृष्ण्यन्धकपुरुयादप्रभृतिवंशानां कीर्तिं स्तूयमानत्वात् भारतस्य महाभारतप्रसिद्धिर्भवतीति बुधाः कथयन्ति। न हि तावन्मात्रम्।

महत्त्वात् भारवत्वाच्च महाभारतमुच्यते। एकदा सर्वे देवाः तुलायां एकस्मिन् पार्श्वे

श्रुतिस्मृत्यादीन् ग्रन्थान् अन्यस्मिन् पार्श्वे भारतं संस्थाप्य भारं मापितवनःतः।तदा सर्वं ग्रन्थान् निराकृत्य भारतमेव भारेण अवर्तत। अतः सर्ववेदशास्त्रादिसारभूतं भारतमिति तं महाभातमिति कथयन्ति।

**१.९. महाभारतम्- काव्यप्रयोजनानि - **

**काव्यं यशसे अर्थकृते व्यवहारविदे शिवेतरक्षतये । **

सद्यः परनिर्वृतये कान्तासम्मितयोपदेशयुजे२ ॥

महाभारतं व्यासब्रह्मयोः काव्यत्वाभिधानात् कव्यत्वप्रसिद्धिः। काव्यस्य लक्षणानि यान्युक्तानि तानि अस्मिन् सन्त्येव। काव्यस्य प्रयोजनानि प्रोच्यन्ते ।

*१. वा. इत्युक्तलक्षणे पुरावृत्तप्रकाशके भारतादिग्रन्थे *

*२. का.प्र.१उ.२कारिका. *

***प्रथमोऽध्यायः ***

15

**क.यशसे- **

अनेन काव्यपठनेन श्रवणेन च यशोऽभिवृद्धिर्जायते।

**धन्यं यशस्यमायुष्यं पुण्यं स्वर्गं तथैव च । **

** कृष्णद्वैपायनेनेदं कृतं पुण्यचिकीर्षुणा ।। **

** कीर्तिः प्रथयता लोके पाण्डवानां महात्मनाम् । **

** अन्येषु क्षत्त्रियाणां च भूरिद्रविणतेजसाम्१ ॥** * *

महीं विजयते राजा शत्रूंश्चापि पराजयेत्२।। * *

महाभारतव्याख्याकर्त्रूणांनीलकण्ठादीनांस्मरणंमहाभारतसम्बद्धकाव्यकर्त्रूणां यशःकायः अजरामरो भवति। अद्याऽपिप्रचलति।

**ख.अर्थकृते- **

प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते इति आर्षवचनम्। अर्थो नाम प्रयोजनं चतुर्वर्गेऽप्येकः।

**अस्मिन्नर्थश्च कामश्च निखिलेनोपदिश्यते । **

** धर्मशास्त्रमिदं पुण्यमर्थशास्त्रमितः परम् । **

** मोक्षशास्त्रमिदं प्रोक्तं व्यासेनामितबुद्धिना३ ॥ **

अस्मिन् धर्मार्थकाममोक्षेति चतुर्वर्गविषयाः प्रोक्ताः। तेन पठनेन तस्य ज्ञानं लभ्यते। भारतसम्बद्धगद्यपद्यकाव्यरचनेन अर्थसम्पादनमपि सिद्ध्यति ।

**ग.व्यवहारविदे– **

कौरवपाण्डववर्तनं महाभारतम् । धर्माचरणेन पुण्यं प्राप्स्याम अधर्मेण पापभूयिष्ठाः भवेम इति व्यासमहाभागः दृष्टान्तरूपेण समीचीनविवरणं अददात् ।

१. म.भा.१प.६२/२७,२८.२. म.भा.१प.६२/२१.

३ म.भा.१प.६३/१७,२३.

***प्रथमोऽध्यायः ***

16

गुरुशिष्यसंबन्धे कथं वर्तेत इति धौम्योपाख्याने तथा द्रोणाचार्यप्रभृतिषु वृत्तान्तेषु विद्यते। अनेनैव मातापितृसुश्रूषा धर्मव्याध्युपाख्याने तथा च कौरवपाण्डवाः मातापित्रोःविषये कथं व्यवहृताः तेन किं फलमवाप्नुवन्ऽइति च वर्णयामास। अनुशासनपर्वणि लोकव्यवहारं सर्वोऽपि भीष्मेण प्रोक्तम्।भारतपठनाद् व्यवहारदक्षता आयाति। विदुरनीतिः लोकव्यवहारे अत्यन्तप्रयोजनकारी भवति।

विदुरेण उपदिश्यते–

**जिता सभा वस्त्रवता मिष्टाशा गोमाता जिता । **

** अध्वा जितो यानवता सर्वं शीलवता जितम्१ ॥ **

मनोहरवस्त्रधारी सभां जेष्यति। गोस्वामी मिष्टान्नं जेष्यति। यानचालकः पन्थानं जेष्यति। शीलेन सर्वत्र विजयो भवति ।

**गतिरात्मवतां सन्तः सन्त एव सतां गतिः। **

** असतां च गतिः सन्तो सत्त्ववन्तः सतां गतिः२॥** * *

मनस्विनां सत्पुरुषाणां गतिः सज्जना एव। सज्जनानां गतिरपि सज्जना एव। दुर्जनानां गतिरपि सज्जना एव। परन्तु सत्पुरुषाणां गतिः दुर्जनाः नैव भवेयुः इति सज्जनसाङ्गत्यस्य वैशिष्ट्यं विदुरेण प्रोक्तम्।

इत्थं लोके कथं व्यवहर्तव्यमिति विदुरनीतौ, धौम्योपदेशे मार्कण्डेयसमस्यापर्वणि, भीष्मोपदशेषु च वर्तते।

**घ.शिवेतरक्षतये– **

वेदरूपमहाभारतपठनेन, श्रवणेन, दानेन च आशुभानि महापातकान्युपपातकानि च क्षीयन्ते ।

१. म.भा.५प.३४/४७.२. म.भा.५प.३४/ ४६.

***प्रथमोऽध्यायः ***

17

**चतुरो वार्षिकान् मासान् सर्वपापैः प्रमुच्यते । **

** विज्ञेयः स च वेदानां पारगो भारतं पठन् ॥ **

** अह्ना यदेन क्रियते इन्द्रियैर्मनसाऽपि वा । **

** ज्ञानादज्ञानतो वाऽपि प्रकरोति नरश्च यत् ॥ **

** तन्महाभारतमाख्यानं श्रुत्वैवऽप्रविलीयते१ ॥**

**कार्ष्णं वेदमिमं सर्वं श्रुणुयाद् यः समाहितः । **

** ब्रह्महत्यादिपापानां कोटिस्तस्य विनश्यति२ ॥**

महाभारतं चत्वारि वर्षाणि वा मासानि वा पठनाद् सर्वपापैः प्रमुच्यते। वेदविज्ञानमपि च प्राप्नोति। ज्ञानतोऽज्ञानतया मनोवाक्कायकर्मभिः यद् पापं करोति तत् सर्वमपि भारताख्यनपठनेन परिह्रियते। कार्ष्णं वेदं भारतश्रवणेन ब्रह्महत्यासमानि कोटिपापान्यपि च नश्यन्ते।

**ङ.सद्यः परनिर्वृतये– **

“सकलप्रयोजनमौलिभूतं समनन्तरमेव रसास्वादनसमुद्भूतं विगलितवेद्यान्तरमा-

नन्दम्” इति व्याख्यायाम्। सद्य एव रसस्य आविष्कारः सम्भवति । न तु कालान्तरे वा देशान्तरे । अस्मिन् काव्ये तत्र तत्र सन्निवेशेषु तत्तद्रसानुभूतिः ब्रह्मानन्दसब्रह्मचारी सामाजिकैरनुभूयते । अर्थात् सद्यःपरनिरवृतिर्नाम अलौकिकानन्दः अनुभूयते सामाजिकैः।

**श्रुङ्गारहास्यकरुणरौद्रवीरभयानकाः। **

** बीभत्साद्भुतशान्ताश्च रसाः नव प्रकीर्तिताः३॥ **

एवमेव तत्तद्वृत्तान्तमनुसृत्य नवरसाः अस्माकं मनसि ध्यायन्ते ।

१. म.भा.१प.१/६२,३२,३८.२. म.भा.१८प.५/४१.

३. ना.शा.६/१५

***प्रथमोऽध्यायः ***

18

**च.कान्तासम्मितया उपदेशयुजे– **

“प्रभुसम्मितवेदादिशास्त्रेभ्यः सुहृत्सम्मितार्थतात्पर्यवत् पुराणादितिहासेभ्यश्च शब्दार्थयोर्गुणभावेन रसाङ्गभूतव्यापारप्रवणतया विलक्षणं यत् काव्यं लोकोत्तरवर्णन-निपुणं कविकर्म तत् कान्तेव सरसतापादनेनाभिमुखीकृत्य रामादिवत् वर्तितव्यं न रावणादिवदिति उपदेशञ्च यथायोग्यं कवेः सहृदयस्य च करोतीति सर्वथा तत्र यतनीम्।”

धार्तराष्ट्रादयः ये वर्तन्ते तेषां वर्तनेन धर्मविमुखेन अन्तिमे अवश्यं नाशो भविष्यतीति कौन्तेयानां विनीतपूर्वकधर्माचरणेन ऐहिकामुष्मिकफलप्राप्तिर्भविष्यतीति मनोरञ्जकेषु उपाख्यानेषु वर्ण्यते। तत्र पूर्वत एव कौरवपाण्डववर्तनमुद्दिश्य श्लोकौ प्रोक्तौ।

**दुर्योधनो मन्युमयो महाद्रुमः **

** स्कन्धः कर्णः शकुनिस्तस्य शाखाः। **

** दुःशासनः पुष्पफले समृद्धे **

** मूलं राजा धृतराष्ट्रो मनीषी ॥ **

**युधिष्ठिरो धर्ममयो महाद्रुमः **

** स्कन्धोऽर्जुनो भीमसेनस्तस्य शाखाः। **

** माद्रीसुतौ पुष्पफले समृद्धे **

** मूलं कृष्णो ब्रह्म च ब्राह्मणाश्च१॥**

इत्थं महाभारतपठनेन श्रवणेन च ऐहिकामुष्मिकप्रयोजनानि नैकानि वर्तन्ते ।

**१.१०. महाभारतम्- शान्तरसः **

महाभारतस्य आदिपर्व जनमेजयस्य ,धृतराष्ट्रस्य च विषादेन प्रारब्धम्।अन्तिमे स्वर्गारोहणपर्व धर्मजस्य सरीरस्वर्गयानेन शान्तरसःअङ्गी भूत्वा परिसमाप्तमः। मध्ये अङ्गानि श्रुगारादयः अन्तर्भूताः भवन्ति। महाभारते शान्तरसः अङ्गी इति ब्रुवन् आनन्दवर्धनाचार्यः इत्थं अवोचत्–

१. म.भा.१प.१/११०,१११.

***प्रथमोऽध्यायः ***

19

महाभारतेऽपि शास्त्रकाव्यच्छायानुकारिणी वृष्णिपाण्डवविसावसावसान-वैमस्यदायिनीं समापिमुपनिबध्नतामहामुनिना वैराग्यजननतात्पर्यं प्राधान्येन स्वप्रबन्धस्य दर्शयितामोक्षलक्षणः पुरुषार्थः शान्तो रसश्च विवक्षाविषयत्वेन सूचितः

**१.११. महाभारतस्यावतरणम् **

व्यासमहाभागः एकदा हिमवत्प्रान्ते कौरवपाण्डवानां भारतानाञ्च चरितं धर्मेण सह ज्ञानदृष्ट्या संवीक्ष्य तेषां वर्तनं ग्रन्थरूपेण चिकीर्षुः तपस्तेपे । “भारतग्रन्थे सर्गस्थितिसंहार ऋषिदेवतापितृयक्षसाध्यपिशाचब्रह्मर्षिसत्तमानां विषयान्, कौरवादिवंशविषयान्, त्रिगुणात्मकजगद्विषयान्, विविधेतिहासान्, श्रुतिविषयान्, चतुर्वर्गविषयान्, तीर्थानां पुण्यदेशानाञ्च कीर्तनम्, जगति यद् वर्तते तद् सर्वमपि” मनसि ग्रथितवान् ।

अष्टादशपुराणानां लेखकोऽपि कृष्णद्वैपायनःशिष्यानध्यापयितुमीप्सितः सः भारतलेखने अन्यः यः कोऽपि समर्थो नास्तीति चिन्तनपरो बभूव । तस्य चिन्तामुच्छेत्तुं लोकगुरुर्ब्रह्मा स्वयमगमत् । हिरण्यगगर्भसमीपं विनयान्वितो भूत्वा “ब्रह्मन्! साङ्गोपाङ्ग-सरहस्यवेदानां विस्तरक्रिया, इतिहासपुराणन्यायशिक्षाचिकित्सादानपाशु-पतशास्त्रविषयाः लोके यद् वस्तुरस्ति तत् सर्वं काव्यरूपेण मया कृतम् ।

**उवाच स मया तेजा ब्रह्माणं परमेष्ठिनम् । **

** कृतं मयेदं भगवन् काव्यं परमपूजितम् ॥ **

** परं न लेखको कश्चिदेतस्य भुवि विस्तरम्२ ॥** * *

भारतलेखनाय समर्थं लेखकं सूचयित्विति” प्रार्थितवान् । ततः ब्रह्मा “महर्षे! तपोविशेषात् मुनिसञ्चयकारणादपि त्वदपेक्षया अन्यमुनीनां सामान्यतपस्यायाश्च भवान् श्रेष्ठतरोऽस्ति । मुने ! जन्मप्रभृति तव वाणी सत्यमेव वदति । तव मुखाद् महाभारतं काव्यपदेन निःस्रुतम्।अतः भारतस्य काव्यत्वप्रसिद्धिर्भविष्यति। तस्य लेखने महागणपतिरेव समर्थः। अतः तं स्मरेति” ब्रह्मा अन्तर्दधे ।

*१. ध्वन्या .उद्योत.५का. *

२. म.भा.१प.१/६९,७०.

***प्रथमोऽध्यायः ***

20

**जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् । **

** त्वया च काव्यमित्युक्तं तस्माद् काव्यं भविष्यति ॥ **

** अस्य काव्यस्य कवयो न समर्था च विशेषणे । **

** विशेषणे गृहस्थस्य शेषास्त्रय इवाश्रमाः॥ **

** काव्यस्य लेखनार्थाय गणेशः स्मर्यतां मुने१॥**

**१.१२. महाभारत ग्रन्थग्रन्थीनां स्थापनम्-लेखकगवेषणञ्च - **

तदा व्यासदेवः गणेशं सस्मार। ततः प्रजापतेरादेशमनुस्रुत्य व्यासस्य स्मरणमात्रेण महागणपतिराविरभूत्।कवीनां कविर्गणेशःभारतं लिखितुमङ्गीकृत्य व्यासदेवस्य परीक्षार्थं अनेन पणमकरोत्। यत्- “यावद् मल्लेखिनी क्षणमपि नावतिष्ठेत तावदहं लिखिष्यामि। मध्ये विरामो भविष्यति तर्हि ग्रन्थं त्यक्त्वा गमिष्यामीति “। तस्य मनः विज्ञाय कृष्णद्वपायनोऽपि श्लोकानां अर्थावगमनान्तरमेव लिखेति प्रत्यवोचत्।ओमित्युक्वा गणेशः भारतकाव्यलेखनञ्चकार।

**श्रुत्वैतत् प्राह विघ्नेशो यदि मे लेखिनी क्षणम् । **

** लिखितो नावतिष्ठेत तदा स्यां लेखकोह्यहम् ॥ **

** व्यासोऽप्युवाच तं देवमबुद्ध्या मा लिख क्वचित् । **

** ओमित्युक्त्वा गणेशोऽपि बभूव किल लेखकः२॥**

तदा व्यासोऽपि गूढश्लोकान् ग्रन्थे निवेशयितुं गणेशे कौतुकाच्च ग्रन्थश्लोकान् व्यरचयत्।निर्गुणपरब्रह्मैव भातनिगूढार्थबोधनकारणमनुस्रुत्य हिरण्यगर्भरुपेणमहाग-णपतिनाम्ना आविर्भूयमहाभारतस्य शाश्वतीकरणार्थं भारतग्रंन्थस्य ग्रन्थिनिर्माता अनेन कथाव्याजेन मूलकारको बभूव।

म.भा.१प.१/७२,७३.म.भा.१प.१/७८,७९.

***प्रथमोऽध्यायः ***

21

**ग्रन्थग्रन्थिं तथा चक्रे मुनिर्गूढं कुतूहलात् । **

** यस्मिन् प्रतिज्ञया प्राह मुनिर्द्वैपायनस्त्विदम् ॥ **

** अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । **

** अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ॥ **

** सर्वज्ञोऽपि गणोशो यत् क्षणमास्ते विचारयन् । **

** तावच्चकार व्यासोऽपि श्लोकानन्यान् बहूनपि१ ॥ *** *

इत्थं शुचिना दान्तेन सत्यवतीसुतेन त्रीणि वर्षाणि महाभारतं प्रोक्तं ब्रह्मणस्पतिना गणपतिना व्यलेखि।

**त्रिभिर्वर्षैर्लब्धकामः कृष्णद्वैपायनो मुनिः।। **

**नित्योत्थितः शुचिः शक्तो महाभारतमादितः। **

** तपोमियममास्थाय कृतमेतन्महर्षिणा२ ॥ **

**१.१३. शोधग्रन्थस्याभिधानम् - **

मया गवेषमाणस्य शोधग्रन्थस्य नाम भवति “महाभारतस्य आदिपञ्चके ग्रन्थिश्लोकानुशीलनम्”।

भगवतः व्यासेन विरचितेन महाभारते आदिसभावनविराट उद्योगपर्वसु ग्रन्थिश्लोकानां गवेषणम्। ग्रन्थिश्लोकविश्लेषणं सतताभ्यासेन चिन्तनेनैव कर्तुं साध्यते। गवेषणं परिशोधनं नाम सर्वेषामपि तथैव वर्तते। भूरिपरिशीलनेनैव सर्वैरपि परिशोधनकार्यं साध्यते। तर्हि कोऽत्र विशेषः? ग्रन्थिश्लोकाः प्रायः अन्वयं कर्तुं सुदुर्लभाः भवन्ति ।

सर्वेषां श्लोकानां वाच्यार्थं ज्ञातुं शक्नुमः। गूढार्थज्ञानाय अन्यस्मृतीनां पुराणेतिहासानां वेदानां व्याकरणादिशास्त्राणां च ज्ञानं आवश्यकं भवति ।

१. म.भा.१प.१/८०,८१,८३.२. म.भा.१प.६२/४१,४२.

***प्रथमोऽध्यायः ***

22

तेषां सम्यक्परिशीलनेन अनवरतचिन्तनेन अभ्यासेन प्रथानतया भगवदनुग्रहादेव ग्रन्थिश्लोकानां गूढार्थाः अवगम्यन्ते ।

**१.१४. ग्रन्थिश्लोकविवेचनम् - **

नीलकण्ठीये ग्रन्थिः पदस्य व्युत्पत्तिर्था

ग्रन्थग्रन्थिः नाम दुर्बेध्यस्थानम्- श्लोककूटे श्लोकेषु गूढार्थे अन्यर्थत्वे सति अर्थान्तरप्रत्यायक्त्वमित्यर्थः।अर्थस्य प्रमेयस्य गूढत्वात्।प्रश्नितस्य प्रमेयेण स्वप्रकाशार्थे स्थितं शब्दप्रमाणं तस्यापि गौण्यादि वृत्तिबेधेन गूढत्वम्।यथा मत्स्यः सुप्तो निमिषतीति। कारकमिति तुमुण्वुलौ क्रियायां क्रियार्थायां इति। ण्वुला नेत्रोन्मीलिनं कर्तुमित्यर्थः।एतत् प्रकाशनं कृतमिति तृतीयेनान्वयः।

**१.१५. ग्रन्थिश्लोकस्याभिधानम् - **

महाभारतस्य आदिपञ्चके ग्रन्थिश्लोकानुशीलनम् इत्यभिधानं श्रुत्वा पूच्छन्ति कोऽयं ग्रन्थिश्लोकेति । सर्वे प्रायः कूटश्लोकनाम्नैव जानन्ति । तर्हि भवत्या नूतनं पदं ग्रन्थि इति कथं प्रयुज्यतेति।

ग्रन्थिः नाम बन्धनमिति -

भिद्यते हृदयग्रन्थिः च्छिद्यन्ते सर्वसंशयाः१।

ग्रन्थिः कौटिल्ये भावे इन्- वाचस्पत्यम्।

** ग्रन्थग्रन्थिं तथा चक्रे मुनिर्गूढं कुतूहलात्। **

** यस्मिन् प्रतिज्ञया प्राह कृष्णद्वैपायनस्त्विदम्२॥** * *

व्यासमहाभागः ग्रन्थस्य ग्रन्थयः गूढतया ग्रथितवानिति वदन्

**तच्छ्लोककृटमद्यापि ग्रथितं सुदृढं मने। **

** भेत्तुं न शक्यतेऽर्थस्य गूढत्वात् प्रश्नितस्य च३॥ *** *

१. श्री.भा.१स्कं.२/२९

२. म.भा.१प.१/८०.३. म.भा.१प.१/८२.

***प्रथमोऽध्यायः ***

23

व्यासमुनिना सुदृढं ग्रथितं तं ग्रन्थिश्लोककूटं भेत्तुं न शक्यते इत्याह सौतिः। अत्र कूट नाम राशिरिति। तं श्लोकराशिं अर्थात् ८,८०० श्लोकान् भेत्तुं गूढत्वकारणात् न समर्थाः इत्यपि अवोचत्।परन्तु लोके कूट नाम गूढमिति कौटिल्यमिति च अर्थेन व्यवह्रियते।

**गूढार्थता विपर्यस्तार्थता संशयतार्थता । **

** अविस्पष्टार्थता भेधास्तत्र गूढार्थतेति सा ॥ **

** **यत्र अर्थः श्रमेणावगम्यते स गूढार्थेति१ ।

ग्रन्थस्य ग्रन्थिः ग्रन्थग्रन्थिरिति। ग्रन्थस्य महाभारतस्य उत अन्यशास्त्रग्रन्थस्य ग्रन्थिः बन्धनरूपेण वर्तते। तद्विच्छेदनेन कथावृत्तान्तस्य उत अन्यशास्त्रस्य ज्ञानेन स्पष्टार्थः विद्यते। अतः ग्रन्थिश्लोकानुशीलनम् समुचितमिति मन्ये।

उदाहरणार्थम्-

कुन्त्याः विषये किंवदन्ती वर्तते - कर्णजन्मवृत्तान्ते आदित्येन सह कुन्त्याः सङ्गमो जातेति। अनेन श्लोकेनापि तथैवावगन्तुं शक्नुमः।

**एवमुक्त्वा स भगवान् कुन्तिराजसुतां तदा । **

** प्रकाशकर्ता तपनः सम्बभूव मया सह२ ॥** * *

पुनः इदं वृत्तान्त येव वनपर्वणि कर्णात् इन्द्रेण कुण्डलाहरणोपपर्वणि आगतः । तत्र-

**तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः। **

** स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्३ ॥**

भानुः कुन्त्याः नाभ्या स्पृष्ट्वा प्राविवेशेति अस्मिन् श्लोके वर्तते। पूर्वत्र श्लोकानां परिशीलनेन एनं ग्रन्थिविभेदनेन सूर्यः स्वकिरणानि नाभ्यां प्राविवेश अर्थात् किरणेन ब्रह्मणा जातं स्वेदजं शुक्ररूपेण कुन्त्याः गर्भे स्थपितवानिति ज्ञायते। अस्य विवरणं अग्रिमे अकथयम्।

१. अ.पु.३४८/७

२. म.भा.१प.११०/२८.३. म.भा.३प.३०८/२३.

***प्रथमोऽध्यायः ***

24

**१.१६. ग्रन्थिश्लोकानुशीलनमिति शोधकार्यं कथं स्वीक्रियते ? **

महाभारते बहुविधांशाः वर्तन्ते। धर्मार्थकाममोक्षमनुसृत्य अत्यन्तं विस्तृतं अस्मिन् वर्तते। ग्रन्थस्थितानां पात्राणां उद्दिश्य शोधनं कर्तुं शक्यते येव । तर्हि अत्यन्तं गहनं ग्रन्थिश्लोकगवेषणं किमर्थं स्वीकृतम् ?

विधिनिर्दिष्टाद् ऋणत्रयात् मानवः तीर्त्वा एव जन्मसाफल्यं आप्नोति । ऋषिभिः कृत शास्त्राद्यध्यनाद् ऋषिऋणात् विमुक्ताः भवाम। व्यासमहर्षिणोल्लेखित पुराणेतिहासानां अध्ययनात् ऋषिऋणात् विमुच्यते। तत्रापि महाभारतं सकलवेदशास्त्रार्थसंयुतम् । पञ्चमो वेदोऽपि। भारतस्य समग्रं अवगमनार्थं कूटश्लोक एव शरण्यम् ।

**निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते । **

** भरतानां एतश्चायं इतिहासो महाद्भुतः१ ।। **

ग्रन्थिश्लोकभेधनेनैव सकलसशंसयच्छेदनं भवतीति कारणात् अयं अंशः स्वीकृतः। ८८०० श्लोकाः भेत्तुं ममाल्पधिया न शक्यते। तथाऽपि स्वल्पप्रयत्नः क्रियते ।

**भिद्यते हृदयग्रन्थिः च्छिद्यन्ते सर्वसंशयाः। **

** क्षीयन्तेऽस्य कर्माणि तस्मिन् दृष्टे परावरे२ ॥**

**१.१७. ग्रन्थतत्त्वं विज्ञातव्यम् - **

**धार्यते हि त्वया ग्रन्थं उभयोर्वेदशास्त्रयोः। **

** न च ग्रन्थस्य तत्त्वज्ञो यथा तत्त्वं नरेश्वरः॥ **

** यो हि वेदे च शास्त्रे च ग्रन्थधारणतत्परः। **

** न च ग्रन्थार्थतत्त्वज्ञस्तस्य तद्धारणं वृधा ॥ **

** भारं स वहते तस्य ग्रन्थस्यार्थं न वेत्ति यः। **

** यस्तु ग्रन्थार्थतत्त्वज्ञो नास्य ग्रन्थागमो यथा३॥ **

१. म.भा.१प.६२/४०

२. श्री.भा.१स्कं.२/२९

३. म.भा.१२प.३०५/६,१२,१३,१४.

***प्रथमोऽध्यायः ***

25

केवलं वेदशास्त्रादि कण्ठस्थीकरणेन मनुष्यः सिद्धिं न आप्नोति। तेषां अर्थतत्त्वविवेचनेन ग्रन्थधारणं वृधा वहति । अर्थात् केवलग्रन्थधारणात् सः भारं वहति । भगवत्तत्त्वज्ञानार्थं भगवता प्रोक्तेषु भगवद्गीतादिविषयेषु भगवतः मनसि स्थिताः गूढार्थाः ज्ञातव्याः। केवलं श्लोकगानमात्रेण भगवत्तत्त्वं गीतातत्त्व अवगन्तुं न शक्नुमः। तत्त्वज्ञानेनैव भगवद् कृपां प्राप्स्यामः। महाभारतस्य महत्त्वं धर्मार्थकाममोक्षेषु विस्तृतचर्चया ज्ञातुं शक्यते एव। परन्तु तस्य तत्त्वं ग्रन्थिश्लोकेषु निगूढं भवति । तेषां अनवगमनात् भारतस्य पात्रेषु बहुविधानि मिथ्यावचनानि वर्तन्ते । यथा- धर्मजः अतिदेवन इति, व्यासः शूद्रजातीयः इति। लोके या स्त्री बहुपुरुषेषु आसक्ता भवति तां पञ्चभर्तृकेति इति नाम्ना व्यवहरन्ति।सा केति कथं भूतेति न विचारयन्ति। इत्थमेव कुन्तीविषयेऽपि । समग्रं भारतपठनेन सर्वं सम्यग् वेद्यं भवति । ग्रन्थिश्लोकविवेचनात् ग्रन्थलक्ष्यं बोध्यं भवति ।

पूर्वत एव व्यासमहाभागेन कथितम् ।

सर्ववेदशास्त्ररहस्यन्निक्षिप्य महाभारतं चिकीर्षामीति ।

सौतिना प्रोक्तम्–

** इतिहासाः सवैयाख्याः विविधाः श्रुतयोऽपि च । **

** इह सर्वमनुक्रान्तमुक्तं ग्रन्थस्य लक्षणम् ॥ **

** विस्तीर्यैतन्महज्ज्ञानमृषिः संक्षिप्य चाब्रवीत् । **

** इष्टं हि विदुषां लोके समासव्यासधारणम्१ ॥**

**धर्मे चार्थे च कामे च मोक्षे च भरतर्षभ । **

यदिहास्ति न तदन्यत्र यन्नेहास्ति न तत् क्वचित्२ ॥

ग्रन्थिशीलनेन ऋणत्रयविमुक्तिर्भविष्यतिति अत्रोद्यम्यते मया। * *

*१. म.भा.१प.१/५०.५१.२. म.भा.१प.६३/५३. *

***प्रथमोऽध्यायः ***

26

**१.१८. ग्रन्थिश्लोकाः एतावत्पर्यन्तं कैरवज्ञाताः **

महाभारतरचनानन्तरं ग्रन्थिश्लोकाः कैः अभिज्ञायन्ते? इत्युक्ते पूर्वं कैः अभिज्ञाताः इत्यहं न जाने न श्रूयते च। नीलकण्ठदीक्षितवर्यः भारतभावदीप इति स्वटीकायां यथा मत्स्यः निमिषन्नपि उन्मेषन्निव गूढत्वेन वर्तते तथा ग्रन्थिश्लोकोऽपि साधारणश्लोक इव गूढत्वेन प्रतिभाति इति विवरणं अकरोत्। तेषां टीकायां कदाचित् ग्रन्थिश्लोकोऽयमिति अनुक्त्वैव श्लोकस्य विवरणं अददात् ।

यथा नदीजलंकेश… इति विराटपर्वण्यन्तर्गत श्लोकमाधृत्य, अर्जुनस्य इमे बाणाः…. इति च । भीष्मपर्वण्यन्तर्गत श्लोकस्यापि विवरणं दत्तवन्तः। कूटश्लोकस्य कथने इमौ श्लोकौ उदाहरणार्थं लोके व्याचष्टन्ते। यक्षप्रश्नस्य, बन्दी अष्टावक्रयोर्संवादे व्याख्यां अकरोत्।त्रीणि ज्योतींषि इति सभापर्वणि स्थितस्य श्लोकस्यापि गूढार्थः प्रदत्तः। अनेन कदाचित् ग्रन्थिश्लोकानां गूढार्थं टीकारूपेण अकथयत् नीलकण्ठदीक्षितवर्यः।

वादिराजयति महोदयः महाभारतलक्षालंकारःइति स्वविरचित ग्रन्थे व्यासगणेशयोः ग्रन्थिश्लोकवृत्तान्तं नालिखत्। परन्तु कदाचित् ग्रन्थिश्लोकःइत्यनुक्त्वैव

श्लोकस्य अन्यार्थोऽपि अलिखत्।यथा - मन्वादि केचिद् ब्रूते…

इत्यादिपर्वण्यन्तर्गतश्लोकस्यकूटार्थं व्याचष्टे । एवं विराटपर्वणि अज्ञातवाससमये विरचिते श्लोकसमुदायस्य ग्रन्थिश्लोकान् श्लोकार्थविवरणं अन्यैः श्लोकैः ज्ञापयामास ।

श्रीहर्षः महाभारतग्रन्थिश्लोका इव स्वकीये नैषधे व्यरचयत्। शठानां अनवगमनाय

गुरुनिकटे अध्येतुं एते लिखिता इति उद्घोषितवान् ।

परमत्र ग्रन्थस्य ग्रन्थिरूपेण नालिखत् ।

**ग्रन्थग्रन्थिरिहक्वचिद्क्वचिदपि न्यासि प्रयत्नान्मया **

** प्रज्ञामन्यमना हठेन पठती मास्मिन् खलः खेलतु । **

** श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासादय- **

** त्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः१॥ *** *

*१. नै.च.२२/१५२ *

***प्रथमोऽध्यायः ***

27

तदनन्तरकाले ग्रन्थिश्लोकविवरणे अज्ञातकर्तृकाः के भवन्तीति न जाने।सांप्रतिके काले मल्लादि चन्द्रशेखरशास्त्रिणः स्वेषु प्रवचनेषु ग्रन्थिश्लोकविषयं उक्त्वा तत्र तत्र केषांचन श्लोकानां विवरणमपि अवोचन्। यथा- अष्टौ श्लोकसहस्राणि… इति । गान्धारराजः शकुनिर्विशाम्पते… इत्येवमादयः। अधुना ते कायवृद्धाः भूरिभाषणं कर्तुं अशक्ताः सततं अन्तयर्जनपरायणाश्च ।

यदाऽहं तेषां अनुग्रहार्थं तान् प्रति गताऽस्मि तदा ते “पूर्वं प्रवचनेषु अवदम्।अधुना तथा तादृशी शक्तिर्नास्ति मया। भवत्याः पितृचरणाः ग्रन्थिभेदने समर्थाः। अतः अवश्यं त्वं परिशोधनकार्ये सिद्धिमवाप्स्यसीति अष्टौश्लोकसहस्राणि… इत्यस्मिन् श्लोके ग्रन्थिर्वर्तते।

तत्र गणेशस्य संज्ञा विधीयते सम्यक् विचारय” इति आशीःपूर्वकं ग्रन्थिं सूचितवन्तः।

पूर्वं साम्प्रतमपि नैके व्याकरणादिशास्त्रेषु साकल्यं अधीताः विद्वन्मणयः महाभारतं समग्रपरिशीलनं कृतवन्तः स्युः। ते अज्ञातकर्तृका भवन्तु नो चेत् मे मत्या अज्ञाता स्युः।

अतः ग्रन्थिश्लोकेषु असंलग्नचित्ताः स्युः। अल्पधिया स्वल्पविद्यया ग्रन्थिश्लोकगवेषणे अतिसाहसं करोमीत्यहं मन्ये। विद्वन्मार्गमनुसृत्यैव अनुगच्छामि। मत्पितरः पितृत्वेनाप्यधिकः गुरवश्च। ग्रन्थिशोधनकार्ये तेषां सूचनामनुस्रुत्य गच्छामि।व्यासमहाभागः सांप्रतिकेऽपि संशयच्छेदकरः,आर्तत्राणपरायणः , चिरंजीवः, स्मरणमात्रेण अनुगर्हप्रदाता च। तेषां अनुग्रहादेव एतत् साध्यं भवति। संकटहरः सर्वविघ्नकरहरश्च विघ्नेशःअस्य लेखकः। तस्य कृपया एव परिशोधनसंकल्पः जातः। एतेषां सर्वेषां कृपकटाक्षेण ८८०० ग्रन्थिश्लोकेषु लेशमात्रं मया स्पृष्टम्।

**१.१९. ग्रन्थिः कथं लक्ष्यते **

“ग्रथनाद् ग्रन्थिः” इति ।

ग्रन्थे तत्र तत्र अनेके संशयाः उत्पद्यन्ते। संशयाऽभावेऽपि अनेके शास्त्रविषयाः संशयत्वेनावतिष्ठन्ते।पाञ्चाल्याः पञ्चभर्तृकादिविषये धर्मसंशयाः,कानीनस्य कर्णस्य जन्मरहस्यविषये संशयाः, एवं अनेके विषयाः संशयत्वेन ग्रथ्यन्ते। रथे लोके रज्जुः ग्रन्थिः

***प्रथमोऽध्यायः ***

28

नाम दार्ढ्यं क्रियते यथा मनसि अनेकविषयाणां दार्ढ्यं क्रियते च तेषां संशयच्छेदी सत्यधर्मान्वेषणं शास्त्रेण शैथिल्यं करोति।

**भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते सर्वसंशयाः। **

** क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे१ ॥**

अस्मिन् सन्दर्भे परमाचार्याणां वचनानि स्मर्यते–

“वेदार्थं ज्ञातुं कानिचननियमानि मीमांसायां वर्तन्ते -

**उपक्रमोपसंहारापथ्यासोऽपूर्वताफलम् । **

** अर्थवादोपपत्ती च लिङ्गं तात्पर्यनिर्णये।।”** इति । प्रायः एतानि लिङ्गान्यनुस्रुत्य ग्रन्थिः लक्ष्यते ।

**१.२०. ग्रन्थिवैविध्यम् - **

ग्रन्थिश्लोकाः द्विधा विभक्ताः।

**क.कूटग्रन्थिः– **

श्लोकः कूटरूपेण रहस्यार्थरूपेण भवति। श्लोकस्य गूढार्थे अन्यग्रन्थस्य विषयप्रतिपादनेन सह तस्मिन् सन्दर्भे वर्तमानवृत्तान्तस्य सम्बन्धो कूटश्लोकस्य श्लथीकरणेन ज्ञायते।अर्थात् ग्रन्थिश्लोकः कूटरूपेण अन्यं वैज्ञानिकांशं उद्बोधयन् भारतकथायां वर्तमानवृत्तन्तस्य उत पात्रस्य वा संशयं भिनत्ति।

यथा-

**अमृतादुत्थितं दिव्यं तनुवर्मसकुण्डलम् । **

** धारयामास तं गर्भं दैवं च विधिनिर्मितम्२ ॥**

**एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि । **

** त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि३ ॥ *** *

१. श्री.भा.१स्कं.२/२१. ३.** **म.भा.३प.३०८/२०.

२. *म.भा.३प.३०९/२७. *

***प्रथमोऽध्यायः ***

29

**तथेक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः। **

** स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम्१ ॥**

एवमादयः कूटग्रन्थिश्लोकाः।

**ख.वृत्तान्तसंसूचितग्रन्थिः- **

भारते उपाख्यनमनुस्रुत्य गूढार्थः कथ्यते।तद् ज्ञानेन महाभारतं सम्यक् ज्ञातुं शक्यते।

यथा–

**एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे । **

** त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ **

** यमाहुर्वेदविद्वासो वरार्हमपराजितम् । **

** नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते२॥**

**१.२१. ग्रन्थिं अभिज्ञातुं विविधाः मार्गाः **

**क पूर्ववृत्तान्तात् विस्तारणपूर्वक पुनर्वृत्तान्तकथने– **

यदि आख्यानस्य वृत्तान्तं संक्षिप्तेन पूर्वमेव कथितं स्यात्।तत्पश्चात् तदाख्यानस्य पूर्णरूपं जनमेजयेन वा धर्मजेन वा पुनः पृष्टे सति वैशम्पायनः नो चेत् मार्कण्डेयः विवरणं प्रदास्यन्ति तर्हि तदाख्याने ग्रन्थिश्लोकः स्यात्। उदाहरणार्थम्–

आदिपर्वणि सम्भवोपपर्वणि कर्णजन्मवृत्तान्तं वैशम्पायनेन प्रोक्तम्।पुनः वनपर्वणि कुण्डलाहरणोपपर्वणि जनमेजयेन पृष्टम्–

**यत् तत् तदा महद् ब्रह्मल्लोमशो वाक्यमब्रवीत् । **

** इन्द्रस्य वचनादेव पाण्डुपुत्रं युधिष्ठिरम्३ ॥*** *

कर्णात् युधिष्ठिरस्य महद्दुःखं कथं प्राप्तम्? इति ।

*१. म.भा.३प.३०८/२३. *

*२. म.भा.३प.३९/२७,२८. *

३.* **म.भा.३प.३००/१. *

***प्रथमोऽध्यायः ***

30

ततः वैशम्पायनः इन्द्रः कर्णात् कवचकुण्डलग्रहणम्, तावत् पूर्वमेव सूर्यदेवस्य कर्णं प्रति सूचना, एवं पुरन्दरात् शक्तिप्रतिग्रहणेच्छा कर्णसूर्यसंवादः अकथयत्। पुनः जनमेजयः–

**किं तद् गुह्यं न चाख्यातं कर्णयेहोष्णरस्मिना । **

** कीदृशे कुण्डले चैव कवचं चैव कीदृशम् ॥ **

** कुतश्च कवचं तस्य कुण्डले चैव सत्तम । **

** एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन१ ॥**

कर्णस्य कवचकुण्डले कीदृशे? तस्य कवचकुण्डलानि कथं प्राप्तानि? विस्तरेण श्रोतुमिच्छामीति जनमेजयेन पृष्टे सति वैशम्पायनः कुन्त्याः बाल्यवृत्तान्तम्, दूर्वाससा मन्त्रोपदेशः, बाल्यचापल्यात् सूर्याह्वानम्, सूर्यात् कृष्णजननम्, एवं इन्द्रः कर्णात् कवचकुण्डलग्रहणम् इत्यादिविषयाः विस्ताररूपेण कथिताः। अत्र विस्तारपूर्वककथने ग्रन्थिश्लोकाः वर्ततन्ते। मद्विचारणे–

**अमृतादुत्थितं दिव्यं तनुवर्मसकुण्डलम् । **

** धारयामास तं गर्भं दैवं च विधिनिर्मितम्२ ॥**

**एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि । **

** त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भाविनि३ ।। **

**तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः । **

** स्वर्भानशत्रुर्योगात्मा नाभ्या पस्पर्श चैव ताम्४ ॥*** *

१.म.भा.३प.३०३/१,२.२.म.भा.३प.३०९/२७. ३.म.भा.३प.३०८/११,१९,२०.४.म.भा.३प.३०८/२३.

***प्रथमोऽध्यायः ***

31

**ख.वृत्तान्तस्य ग्रन्थीः **

**एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे । **

** त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ **

**यमाहुर्वेदविद्वांसो वरार्हमपराजितम् । **

** नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते१ ॥**

अत्र वृत्तान्तस्य ग्रन्थिरूपेण अन्य ग्रन्थस्य ग्रन्थिरूपेणापि श्लोकाः सन्ति।

**ग पृच्छकस्य विषयसम्बन्धिनी - **

महाभारते पृच्छकाः जनमेजयः, युधिष्ठिरः, धृतराष्ट्रः ,आसन्। तेषां प्रर्त्युत्तरदातारः वैश्म्पायनः, मार्कण्डेयः, नारदः, भीष्मः, विदुरः, संजयः, आसन्। कदाचित् समाधाने एव ग्रन्थिः स्यात्। तत् पृच्छकस्य प्रश्नानुबन्धे वर्तते। यदि समाधाने ग्रन्थिःस्यात् तस्य सम्बन्धस्य प्रश्नावलोकनेन ग्रन्थिः सुदृढो भवति।

तिलोत्तमा वृत्तान्ते–

**त्रिषु लोकेषु यद् किंचित् भूतं स्थावरजङ्गमम् । **

** सामानयद् दर्शनीयं तत् तदत्र स विश्ववित्२ ॥ **

अत्र तिलोत्तमा नाम देवयोनिसम्भूता न इति चलद्यन्त्रमिति युधिष्ठिरप्रश्ने दृढेन व्यज्यते।–

**सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । **

** उत्पन्नश्च कथं भेदः कथं चान्योन्यमघ्नताम् ॥ **

** अप्सरा देवकन्या वा कस्य चैषा तिलोत्तमा । **

** यस्याः कामेन सम्मत्तौ जघ्नतुस्तौ परस्परम्३ ॥ **

*१. म.भा.३प.३१०/२७,२८. *

*२. म.भा.१प.२१०/१३. *

*३. म.भा.१प.२०७/२२,२३. *

***प्रथमोऽध्यायः ***

32

**घ पुनरुक्तिश्लोकः - **

कदाचित् एक एव श्लोकः पुनरुक्त्या अन्येषां कृते कथितो स्यात्। काव्यबन्धे पुनरुक्तिर्न कर्तव्य इति वर्तते।

**काव्यबन्धं न कर्तव्यं पुनरुक्तं च यद् भवेत् । **

** सूतवाक्ये तथा स्वप्ने कार्यं गत्वा तथा गते ॥ **

** पुनर्वचननिर्देशो पुनरुक्तं न तद्विदुः१। *** *

एकं एव श्लोकः पुनरुक्तौ सत्यामपि दोषो न भवति। तत्र एकस्मिन् श्लोके वाक्यार्थः

तत्र एकत्र वाच्यार्थः अन्यत्र गूढार्थः सम्भवति। उदाहरणार्थम्–

**कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः। **

न भवेदिति चात्मानं यो रक्षति स जीवति२ ॥

अत्र विदुरेण म्लेच्छभाषया श्लोकः उक्तः। पुनः स एव पाण्डवानां संज्ञार्थं विदुरस्य चारेण नाविकेन कथितः।

**ततः पुनरथोवाच ज्ञापकं पूर्वचोदितम् । **

** युधिष्ठिर निबोधेदं संज्ञार्थं वचनं कवेः॥ **

** कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः। **

** न भवेदिति चात्मानं यो रक्षति स जीवति३॥ *** *

एवमेव कर्णस्य मनसि “गर्जन्तः प्रतपन्त” अर्थात् महारथी अर्जुनेति । तं हननचिकीर्षया इन्द्रं प्रति शक्तिं प्रार्थितवान्। तस्येच्छा ज्ञात्वापि इन्द्रः अर्जुनसंरक्षणाय गर्जन्तं प्रतपन्तं नाम गर्जन्तं प्रतपन्तं केशवरक्षितं घटोत्कचं हनिष्यसीति शक्तिं अदात् ।

१. *वि.ध.पु.३.१५.१०,११.*२. म.भा.१प.१४४/२३.३. **म.भा.१प.१४८/६,७.

***प्रथमोऽध्यायः ***

33

**कर्ण उवाच- **

**एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे। **

** गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ॥ **

**इन्द्र उवाच- **

** एकं वधिष्यसि रिपुं गर्जन्तं बलिनं रणे । **

** त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना१ ॥**

अस्मिन् इन्द्रेण प्रोक्ते श्लोके गूढार्थो वर्तते ।

**ङ अधर्मविवक्षितो श्लोकः **

कदाचित् श्लोकेषु धर्मविरुद्धः द्योतते। धर्माश्रितं महाभारतम्। धर्मव्यवहारः नायके विशिष्ठव्यक्तिषु च निबद्धः। न तु लेशमात्रोऽमपि अधर्मः। यदि धर्मविरुद्धः विद्यते तर्हि स हि ग्रन्थि श्लोकः स्यात्। नोचेत् तावत्पूर्वं वा परं वा ग्रन्थि श्लोकः स्यात् ।

यथा- राजन्याराजकन्याश्चाप्यानयन्त्वाभिषेचनम्।षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति२।


अत्र रात्रौ षष्ठे यामे त्वां द्रौपदी उपगमिष्यतीति वचनेन धर्मस्वरूपः, धर्मभृच्छ्रीकृष्णः अधर्मवचनात् कर्णं प्रलोभयितुं अवोचदिति अवगम्यते। किन्तु सत्यस्वरूपः स भगवान् कथं असत्यं वदति?

**धर्मगुब्धर्मकृद्धर्मी सदसत्क्षरमक्षरम् ।। **

** सत्यवान् सात्त्विकःसत्यः सत्यधर्मपरायणः३।। **

** नोक्तपूर्वं मया मिथ्या स्वैरेष्वपि कदाचन । **

** न च युद्धात् परावृत्तस्तथा संजीवयतामयम्४ ॥** * *

  • १. म.भा.३प.३१०/२५,२६. ३. म.भा.१३प.१५९.६४,१०६. *

२. म.भा.५प.१४०/१४. ४. म.भा.१४प.६९/१९.

***प्रथमोऽध्यायः ***

34

उत्तरागर्भे ब्रह्मास्त्रनिवारणेन सह परीक्षितः पुनरुज्जीवनसमये कृष्णेन कथितम्।अतः अत्र सत्याधर्मव्यतिरिक्तविषय एव नास्ति। इत्थं परिशीलने अयं ग्रन्थिश्लोकेति विद्यते।

**च लोकोत्तरसम्बन्धिनीश्लोकः - **

कदाचित् वृत्तान्तेषु लोकोत्तरकथनं स्यात्। तत् कथनेन असम्भवमिति कल्पितकथेति च वयं मन्यामहे। किन्तु जन्मप्रभृति ब्रह्मवादी व्यासः कथं असत्यकथां कल्पयति? इति विवेचनात् अत्र ग्रन्थिः स्यादिति अवगम्यते। तत्र पदस्य व्युत्पत्तिर्वा

अन्यार्थज्ञानेन वा गूढार्थः अवजानीमः।

यथा–

भद्रा-व्युषिताश्ववृत्तान्ते

**आत्मकीये वरारोहे शयनीये चतुर्दशीम् । **

अष्टमीं वा ऋतुस्नाता संविशेथा मया सह १ ॥ * *

विगतजीवस्य व्युषिताश्वस्य शवेन सह सङ्गमं कथं सम्भवति? अनेन सङ्गमः मन्त्रतन्त्रादिद्वाराऽपि असाध्यो भवति ।

“नियतिकृतनियनरहितां ह्लादैकमयीं अनन्यपरतन्त्राम्…..२”

ब्रह्मसृष्टौ नियमोऽस्ति। किन्तु कविकल्पनायां एवं प्रकारेण भवत्विति नियमो नास्ति। सर्वस्वतन्त्रः कविरिति वदामश्चेत् अयं कविः व्यासमहाभागः सामान्यो नैव। साक्षाद्विष्णोरंशः।

“मुनीनामप्यहं व्यास…” इति गीतावचनम् ।

विचारयामश्चेत् ग्रन्थिश्लोकोऽयमिति विद्यते ।

अनेन एतावात् पर्यन्तं मया ग्रन्थिश्लोकाभिज्ञानार्थं षड्विधमार्गाः अनुस्रुताः।

DE

*१. म.भा.१प.१२०/३४. *

२. का.प्र.१उ.१का

pद्वितीयोऽध्यायः

35

**द्वितीयोऽध्यायः **

**आदिपर्वणि ग्रन्थिश्लोकानुशीलनम् **

उपक्रमाध्याये संसूचितग्रन्थिप्रबेधाननुस्रुत्य द्वितीयाध्याये आदिसभा-पर्वयोरन्तर्गत ग्रन्थिश्लोकाः सम्यक् परिशील्यन्ते ।

**२.१. महाभारतग्रन्थिज्ञः महागणेशोऽपि - **

व्यासमहाभागः कलिसन्तापितजनानुद्दिश्य सकलविधशास्त्रसारं महाभारतरचनां कर्तुं संकल्पितःसन् लेखकार्थं ब्रह्माणमुद्दिश्य तपश्चकार । तथा ब्रह्मा “महाभारतलेखनाय अन्यः यःकोऽपि न समर्थः,कवीनां कविः सकलवेदार्थशास्त्रवेत्ता महागणेश एव समर्थः तं स्मर” इति सूचनां अददत्। तदा व्यासमहर्षिः महागणेशं संपूज्य महाभारतलेखको भव इति समभ्यर्दयत्। ओमित्युक्त्वा हेरम्बः यदि मल्लेखिनी क्षणमपि विरामपरितन्थिनी भवति तद् क्षणे एव लेखनं विरमामि। अतः क्षिप्रं श्लोकनिर्माणं कुरु इति पणं अकरोत्। गणेशस्य धीशक्तिज्ञः व्यासोऽपि श्लोकमविचिन्त्य मा लेखनीयम् इति गणेशाय सूचनां चकार । मध्ये मध्ये अग्रिमवृत्तान्तकल्पनार्थं समस्यापूर्वकश्लोकान् अकथयत्। तान् सम्यक् विचार्य लिखितुं विघ्नेश्वरोऽपि कानिचन क्षणानि स्वीकृतवान्।

अनेन ग्रन्थिश्लोकावतरणं व्यासमहाभागेन कृतम्। अस्मिन् संदर्भे व्यासेन कथितम्-

** अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । **

** अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा १।। **

“अष्टशताधिक अष्टसहस्रश्लोकाः ग्रन्थिरूपेण रचिताः। तेषां ज्ञानं मयि, मत्पुत्रे शुके

च वर्तते। संजयोऽपि वेत्ति वा न वेति संशय एव इति।

“अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा”

१. म.भा.१प.१/८१

***द्वितीयोऽध्यायः ***

36

अहं जानामि यतो हि मयैव प्रोक्ताः । मत्पुत्रः शुकः मन्निकटे सकलवेदशास्त्राध्येतेति कारणेन सःसर्वज्ञश्च। अतः सोऽपि जानाति। परन्तु संजयेन ज्ञातुं शक्यन्ते वा इति सन्देह एव । इति साधारणतया अस्य श्लोकस्य भावं कथयन्ति। ग्रन्थिश्लोकविषयविवेचनज्ञानं संजये वर्तते वा न वेति विकल्पो सहज एव। संजयः व्यासनिकटे नाभ्यस्तः। भीष्मपर्वणि संजयदिव्यदृष्टिविषयः एवं निर्दिश्यते-

**वराणामीश्वरो व्यासः संजयाय वरं ददौ । **

** एष ते संजयो राजन् युद्धमेतत् वदिष्यति ।। **

** एतस्य सर्वसंग्रामे न परोक्षं भविष्यति । **

** चक्षुषा संजयो राजन् दिव्येनैव समन्वितः ॥ **

** कथयिष्यति ते युद्धं सर्वज्ञश्च भविष्यति । **

** प्रकाशं नाप्रकाशं वा दिवा वा यदि वा निशि ॥ **

** मनसा चिन्तितमपि सर्वं वेत्स्यति संजयः१॥ *** *

भगवान् बादरायणः- “राजन् ! एषः संजयः युद्धवृत्तान्तसर्वं तुभ्यं निवेदयति। सः संग्रामं सर्वं सर्वे मनसि, बहिः, दिने रात्रावपि यं चिन्तयन्ति यं कुर्वन्ति तत् सर्वमपि मया दीयमानेन दिव्यचक्षुषा दृष्ट्वा कथयतीति” संजयस्य दिव्यदृष्टिं प्रददौ । केवलमत्र युद्धवृत्तान्तकथनेन एव संजयः सर्वज्ञोऽस्ति । तत्पश्चात् दुर्योधननिधनान्तरं तस्य सर्वज्ञत्वं विनष्टम् ।

**तव पुत्रे गते स्वर्गं शोकार्तस्य ममानघ । **

** ऋषिदत्तं प्रणष्टं तद् दिव्यदर्शत्वमद्य वै २॥ ** * *

अनेन श्लोकेनावगम्यते यत् संजयः युद्धमारभ्य दुर्योधननिधनपर्यन्तमेव सर्वज्ञः न तु महाभारतविषये सर्वज्ञः। अत एव सर्वग्रन्थिश्लोकज्ञो न भवति।

*१. म.भा.६प.२/८-११. *

*२. म.भा.१०प.९/६३. *

***द्वितीयोऽध्यायः ***

37

दिव्यचक्षुषा कुरुक्षेत्रवर्णनं धृतराष्ट्राय न्यवेदयत् । किन्तु अत्र एकः प्रश्नः समुद्भूतः यत् गणेशेन लिखितं महाभारतं तर्हि ग्रन्थिश्लोकज्ञानं गणेशेऽपि वर्तते इति कथं व्यासेन न कथितमिति। तत्रापि गणेशकारणादेव ग्रन्थिश्लोकयुतं भारतं प्रादुरभूत्। वक्ष्यमाणश्लोकादारभ्य ग्रन्थश्लोकरचना समारब्धा ।

**अष्टौ श्लोकसहस्राणि अष्टौ श्लोकशतानि च । **

** अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा न वा ।। **

अहं वेद्मि शुको वेत्ति संजयो वेत्ति वा इत्युक्ते विकल्पः संजयस्य विषये। पुनः न वा इत्यत्र निश्चयार्थो इत्यर्थः।

**” मृषा मिथ्या च वितथे यथार्थं तु यथातथम् । **

** स्युरेवं तु पुनर्वैवेत्यवधारणवाचकाः१।।” **

अत्र एवम्,तु,पुनः,वा,एव- एतत्पञ्चकमपि निश्चयार्थो प्रवर्तते इति कथितम्। वा न वा इत्यत्र न वर्णस्य वक्रतुण्ड इति प्रकारान्तवर्णनिघण्टुना कथ्यते।

**“वामपादाग्रगःशौरी मेषेशौ नन्दिनाटकौ । **

** वक्रतुण्डश्च दीर्घा च नकारो नदीनायकः३।।” इति । **

प्रथम वाकारः विकल्पार्थकः। द्वितीय वाकारः निश्चयार्थकश्च। संजयः विषये विकल्पार्थम् । गणपतिः विषये निश्चयार्थकः। कारस्य गणपत्यर्थकत्वात् तथा हि ।

अतः चरमचरणे अहं वेद्मि शुको वेत्ति निश्चयेन गणेशो वेत्ति संजयस्यावगमने विकल्पो वर्तते इति गूढत्वेन व्यज्यते ।

**२.२. ** मन्वादि भारतं इत्यस्य ग्रन्थिश्लोकस्यार्थविचारणा -

**मन्वादि भारतं केचिदास्तीकादि तथा परे । **

** तथोपरिचरादन्ये विप्राः सम्यगधीयते २॥ *** *

१.* **अ.को.३/४/१/१ ३.तन्त्रभिधानम्. प्रकारान्तवर्णनिघटुः.३८श्लो. *

*२. म.भा.१प.१/५२. *

***द्वितीयोऽध्यायः ***

38

महाभारतं जनमेजयाय कथयन् वैशम्पायनः प्रारम्भे भारतपठने त्रिविधमतमनुस्रुत्य

भारतं अधीयते। यत् मनुआदितः मनुचरितमारभ्य भारतमिति केचित्,

आस्तिकचरितमारभ्येति अन्ये ,अपरे उपरिचरवसुचरितमारभ्येति मत्वा विप्राः विशेषेण प्राति पूरयति षट्कर्माणीति विप्रःभारतं पठन्ति इति सरलार्थः।

वादिराजयतीन्द्राणां महाभारतलाक्षालंकारव्याख्याने इत्थं विद्यते।

**मन्वादि भारतं केचिदास्तीकादि तथाऽपरे । **

** तथोपरिचरादन्ये विप्राः सम्यगधीयते १॥ **

मन्वादि भारतंइत्यत्र मनवो मन्त्राः सहस्रनामादयः ये विष्णुमन्त्राः, अस्त्रशस्त्रादीनां च गयत्र्यादयो ये मन्त्राः तेषां अभिमानी भीमः मनुरित्युच्यते। तस्य महिमाप्रतिपादनं यतः आरभ्य तदादि अर्थात् मन्वादिरिति ।

आस्तीकादि - अस्ति परदेवतेति ये विदुः ते आस्तीकाः द्रौपदी प्रभृतयः पञ्चपाण्डवाःतेषां महिमाप्रातिपदिकं इति केचिद् विप्राः अधीयते

उपरिचरादि - एतेषां सर्वेषामुपरि एतदुत्तमतयेत्यर्थः। चरतीति चरः सर्वान्तर्यामी नारायणः । तदादि तन्महिमा प्रतिपादिकमेवेति केचिद् विप्राः अधीयते ।

द्रौपद्या अर्जुनादीनाञ्च चरित्रस्य तत्र तत्र कथ्यमानत्वात् सर्वे भारतप्रतिपाद्याः इति, तेषु प्राणरूपेषु भीमः प्रविष्टत्वात् भीमस्यैव प्रतिपादिकं भारतमिति , तेषु सर्वेष्वपि अन्तर्यामित्वेन हरिर्वर्तत इति कारणेन हरिचरित्रप्रातिपदिकमिति पक्षत्रयं वर्तते। तदपि उचितमेवेत्येति भावः।

अपि च वादिराजयतीन्द्रैः इत्थं कथितं यत्-

२.२.१. मन्वादि - मनुशब्दश्चात्र मनुते परमात्मानं अनेनेति व्युत्पत्त्या भगवद् ज्ञानसाधकं

 धर्मादिपञ्चकमाह- धर्मादिपञ्चकम्- धर्मः,भक्तिः,श्रुतम्,शीलविनयौ,वेदः इति । 

१*. म.भा.लं.१.६६.*

***द्वितीयोऽध्यायः ***

39

अत्र धर्मस्याभिमानी धर्मजः। भक्तेरेव ज्ञानवैराग्यादयो सिद्ध्यन्ते। तेषां अभिमानी भीमसेनः इत्ययं विषयः भारते तत्र तत्र परिलक्ष्यते। भीमसेनस्य पराक्रमः, योगः, बलम् इत्यादि विशिष्टगुणाः प्रायः वर्ण्यन्ते।

श्रुतावेव मननं, ध्नानञ्च सिद्ध्येते। मननध्यानविहीनेन श्रवणस्य फलं नास्त्येव। श्रुताभिमानी अर्जुनः। धनुर्विद्याभ्याससमये अस्त्रप्रहरणे समेष्वपि अर्जुनं बहुविधं वर्णयति व्यासमहाभागः।

शीलविनयाभिमानिनौ नकुलसहदोवौ। कुले अनेन समो नास्तीति नकुलः।

शीलविषये रूपसौन्दर्यविषये च नकुलः श्रेष्ठः।अतः शीलाभिमानी नकुलः। देवेन सह वर्तत इति सहदेवः। विनयस्याभिमानी सहदेवः।

वेदः अर्थात् शब्दः। शब्दःप्रकृतिः,अर्थः पुरुषः भवति। शब्दप्रधानो वेदः। अतः अत्र प्रकृतिस्वरूपिणी वेदाभिमानी द्रौपदी। द्रौपद्याः गतजन्मनि वेदवती मूलकत्वात् ।

द्रौपदी सहितानां पञ्चानां पाण्डवानां चरित्रनिरूपणव्याजेन महाभारतं धर्मादिपञ्चकमिति आविष्कुर्वन्तःविद्वांसः प्रतिपादयन्ति।

२.१.२.आस्तीकाः- अस्ति परदेवतेति आस्तिकः इति उपर्यक्त व्युत्पत्तिमाश्रित्य द्रौपदीसहिताः पाण्डवाः आस्तीकाः इति केचन पण्डिताः प्रवदन्ति।

२.२.३.उपरिचरः- चरतीति चरः। अन्तर्बहिश्च व्याप्य तिष्ठतीति विष्णुः। “अन्तर्बहिश्च तत्सर्वं व्याप्य नारायणः स्थितः” इति नारयणोपनिषत् । उपरिचरो नाम विष्णुः।

अतः एवं ब्रूत महाविषयत्रयरूपार्थघटितत्वात् महाभारतं इति वस्तुनिर्देशः ग्राह्यः। आशीर्नमस्क्रिया वस्तुनिर्देशोवाऽपि तन्मुखम् इति प्रमाणात् ।

**२.३. धर्मादिदेवताकारणेन धर्मजादीनां जन्म - **

पाण्डुमहाराजः किन्दममुनिशापकारणात् विरक्तमनाः भार्याभ्यां सह

गन्धमादनपर्वतेषु ऋषिभिः सह मुनिव्रतमवलम्ब्य तपःकरोति स्म। अनपत्यकारणात्

***द्वितीयोऽध्यायः ***

40

ऋणत्रयेषु अन्यतम पित्रूणविमुक्ताभावात् पुण्यलोकान्नसम्पादयामीति ऋषिसंघानां पुरतः स्वचिन्तां प्रकटयामास । ते दिव्यचक्षुषा संदृश्य देवोपमानं अपत्यं भविष्यतीति तस्मै पुरुषप्रयत्नो आवश्यकेति अवदन् ।

**अस्ति वै तव धर्मात्मन् विद्मो देवोपमं शुभम् ।। **

**अपत्यमनघं राजन् वयं दिव्येन चक्षुषा । **

** देवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय १।। **

तेषां वचनं निशम्य पाण्डुः किन्दमशापकारणात् सन्तानोत्पादने नष्टपुरुषार्थमनुस्मृत्य विजने कुन्तीं अपत्यार्थे बहूनि धार्मिकवचनानि अब्रवीत् ।

**आत्मने मृगशापेन जानन्नुपहतक्रियाम् । **

** सोऽब्रवीत् विजने कुन्तीं धर्मपत्नीं यशस्विनीम् २॥ **

“बन्धुदायादपुत्राः षड्प्रकारकाः, अबन्धुदायादपुत्राः षड्विधाश्च । धर्मानुसारेण वर्तन्ते । तेषु - स्वय जातः, प्रणीतः,दुहितुर्पुत्रः, पौनर्भवः,कानीनः, भागिनेय इति षड्विधबन्धुदायादपुत्राः भवन्ति। अबन्धुदायादपुत्राः-दत्तः, क्रीतः, कृत्रिमः, सहोढः,

ज्ञातिरेता, हीनयोनिधृतः इति षड्विधाः भवन्ति।पूर्वोक्तषड्विधपुत्राणामभावे उत्तरोक्त षड्विधपुत्राःआपत्तिकाले तारयिष्यन्तीति नीचजातिपुरुषोऽपि मनुते। अतः मे सन्तनोत्पादकशक्तिर्नास्तीति कारणात् कनापि महात्मनः अनुग्रहात् अपत्यं जनय” इति पाण्डुः कुन्तीं प्रत्याह ।

**स्वयं जातः प्रणीतश्च तत्समः पुत्रिकासुतः। **

** पौनर्भवश्च कानीनः भगिन्यां यश्च जायते॥ **

**दत्तः क्रीतः कृत्रिमश्च उपगच्छेत् स्वयं च यः। **

** सहोढो ज्ञातिरेताश्च हीनयोनिधृतश्च यः३॥**

*१. म.भा.१प.११९/२३,२४. *

२.* **म.भा.१प.११९/२७. *

*३. म.भा.१प.११९/३३,३४. *

***द्वितीयोऽध्यायः ***

41

तदा कुन्ती “महाराज! धर्मपत्नीं मां भवद्वचनानुसारेण केनापि प्रकारेण पुत्रं जनयेति न वक्तव्यम् । त्वमेव वीर्योत्पन्नानि पुत्राणि मयि जनयितुं समर्थोऽसि । मनसाऽपि त्वां विना अन्यं नरं नेच्छामि । त्वद्दृते अन्यः कोऽपि भुविश्रेष्ठो नास्ति । अनपत्याभावे विगतजीवस्य स्वभर्तृः व्युषिताश्वसङ्गमेन भार्या भद्रा कथं पुत्रवती अभवदिति पौराणिकीकथां श्रावयामि श्रुणु” इति धार्मिकमर्मवचनेषु राजानं उद्बोधितवती। व्युषिताश्वशवेन भद्रा अपत्यां कथमुत्पादितवतीति श्रावयित्वा तथा त्वमपि तपोयोगबलात् मनसा मयि पुत्रान् जनयितुं समर्थेत्यवोचत् । अस्मिन् सन्दर्भे स्मर्तव्याः श्लोकाः–

**त्वमेव तु महाबाहो मय्यपत्यानि भारत । **

** वीर वीरोपपन्नानि धर्मतो जनयिष्यसि ॥ **

** अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥ **

** तथा त्वमपि मय्येवं मनसा भरतर्षभ । **

** शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः १॥ **

पुनः कुन्ती पित्रुवेश्मनि बाल्ये दुर्वाससा आत्मना स्वीकृतमन्त्रप्राप्तिः, तस्मान्मत्रात् तत् तद् देवतानां अनुग्रहात् पुत्रत्वं गमिष्यामीति बाल्यवृत्तान्तं कथयित्वा “महात्मना दुर्वाससा प्रोक्तं मन्त्रं उपयोक्तुं सम्प्रति कालः समायातः अनपत्यकारणात् । तस्मात् मन्त्रात् कं देवमावाहयानीति आज्ञापय” इत्यब्रवीत् । तदा पाण्डुराजः “धर्मज्ञे! अधर्मेण राजा प्रजाः पालयितुं न समर्थः। अधर्मेण धम ᐀्ःन संयुज्यति। धर्मेण दत्तः पुत्रः कुरुवंशस्य धर्मात्मा भविष्यति। तस्य मनः कदाऽपि अधर्मे न प्रवर्त्यते। अतः धर्मदेवतामामन्त्र्य तस्माद् वरं आप्नुहि” इत्यनुज्ञां चकार । तदा कुन्ती धर्ममाहूय इत्थमकथयदिति वैशम्पायनेन प्रोक्तम्।

** आजगाम ततो देवो धर्मो मन्त्रबलात् ततः। **

** विमाने सूर्यसंकाशे कुन्ती यत्र जपस्थिता ।। **

** विहस्य तां ततो ब्रूयाः कुन्ति किं ते ददाम्यहम् । **

** सा तं विहस्यमानाऽपि पुत्रं देह्यब्रवीदिदम् २॥** ** **

*१. म.भा.१प.१२०/३,४,३७. *

*२. म.भा.१प.१२२/३,४. *

***द्वितीयोऽध्यायः ***

42

सरलार्थः-

ततः धर्मदेवः मन्त्रबलादागतवान् । यथा कुन्ती यत्र जपस्थिता तत्र सूर्यसंकाशे विमाने आगत्य तां दृष्ट्वा हसित्वा “कुन्ति! तुभ्यं किं ददानि” इत्यवोचत्। सा तेन विहस्यमानाऽपि इदं पुत्रं देहीत्यब्रवीत्।

अत्र पृथया इदं पुत्रं देहि इति इतृ किमर्थमुक्तम्?तत्र पुत्रः वर्तते तर्हि समीपवर्तिनं पुत्रं देहीति वक्तुं उचितमेव । परं सुतः नास्त्येव। अत्र विचारणेन इदं इति पदं वेदे प्रतिपादितं पदमिति ज्ञातव्यम्।

इदम्– एति इण् गतौ इणो दमुगिदि दशपादीवृत्तिः। यद्वा इन्दति इदि परमैश्वर्ये इन्देः कमर्नलोपश्चेति दीक्षितः पुरोवर्तिवाचकस्सर्वनाम इति व्याकरणम्

इदम्– संस्कृते इदं नाम एतत् इति। अदः नाम तत् । तत् -अतिदूरे विजानीयत्इति श्रुतिः। समीपवर्तिचैतदोरूपं तदिति परोक्षो विजानीयात् तत् अतिदूरे विजानीयात् इति च। दूरे स्थितः वस्तुरेव स्वामी। तत् त्वमसि इति वेदान्ते।

इदम्- इदमस्तु सन्निकृष्टम् इति श्रुतिः। अर्थात् इदं इति सर्वनाम अत्यन्तसमीपं वस्तु, दूरवस्तु, पूथक्स्थितं वस्तु, पुरतः स्थितं वस्त्वपि सूचयति। इदमिति इतः पूर्वं परोक्षेण वर्तमानं वस्त्वपि सूचयति। इदं वर्तमानप्रभृति भविष्यदन्ते प्रयुज्यते।इदमिति पदस्य प्रक्रिया पूर्ववदेव। इतः पूर्वं वर्तमानस्यैव वस्तुनः आविष्करणे इदं पदार्थः। अत्र श्रुतिः-

” त्वमिदं पूर्वं कुरुष्वेति"२।

पुराकल्पे सलिलाद् पद्मभूराविर्भूतः।सः किंकर्तव्यतामूढः उग्रं तपश्चकार । तपे नाम स्रक्ष्यमाणं वस्तु कियद्वास्यादिति पर्यालोचनमेव। अत एव स्रुष्टेःअनन्यसाधनमेव तप एवाभूत् । उग्रेण तपसा तस्य तनुरकम्पत। तस्मात् मांसमपतत् । तस्मादारुणकेतुकाः, ऋषयः संञ्जाताः। नखेभ्यः वैखानसाः प्रादुरभवन् । वालेभ्यः सप्तवालखिल्याः उद्भूताः। स्वशरीरात् स्वेदः जले अपतत् । तस्मात् रसः प्रादुरभूत्। स एव आनन्दजनकः।

*१. श.द्रु. १भा.२०५पुटः २. तै.आ.आरुणकेतुकम्.९४ *

***द्वितीयोऽध्यायः ***

43

जले पतितं स्वेदं दृष्ट्वा अन्तश्चरन्तं कूर्मं प्रति ब्रह्मा एवं अब्रवीत्। " त्वं मम शरीरजातमांसोऽसि” इति। स नेत्यब्रवीत् । पूर्वमेवाहं इहासम् इति कूर्मेणोक्ते त्वमिदं पूर्वं कुरुष्वेति ब्रह्मा अवोचत्।कूर्मः विराड्रूपो भूत्वा जलेनैव प्रागादिस्रुष्ट्या सह आदितःसुर्यादीनस्रुजत् । एतादृशी स्रुष्टिः ब्रह्मणः ऐदंपूर्वेणैवाभूत् यथा आरुणकेतुकादयः।

अत्र इदं पुत्रं देहि इति पृथया उक्तम् । इदं नाम सन्निकृष्टं , पूर्वस्थितं पुत्रं जनय इति। अर्थात् तस्य जीवस्य  प्रथमरूपः रेतः, पुं रेतसा स्त्री आर्तवेन सङ्गम्य जीवः शिशुरूपेण गर्भे भवति। तद् शुक्रः देवतायां वर्तते वा पाण्डवि वर्तते वेत्यत्र विचारणा। किन्दमशापो भवति भार्यसङ्गमेन त्वं मरिष्यसीति। न तु पुत्रोत्पत्येनेति।  

**अस्य तु त्वं फलं मूढ प्रप्स्यसीदृशमेव च ।। **

** प्रियया सह संवासं प्राप्य कामविमोहितः। **

** त्वमप्यस्यामवस्थायां प्रेतलोकं गमिष्यसि १॥ इति। **

अतः तस्य पाण्डोः सन्तानोत्पादकसामर्थ्यमस्ति। तदर्थमेव त्वया एव पुत्रं जनयिष्यामीत्युक्त्वा भद्रा- व्युषिताश्वयोर्वृत्तान्तं कथितवती । व्युषिताश्वः विदेहः विगतदेहः। अत एव तेन शवेन सह सङ्गम्य तस्य भार्या भद्रा अपत्यं सुषुवे। तदपेक्षया भवान् जीवद्देहवान्। भवता शरीरेण असङ्गमेनापि अत्पमुत्पादयामीति कुन्ती अब्रवीत् ।

**त्वमेव तु महाबाहो मय्यपत्यानि भारत । **

** अपत्याय च मां गच्छ त्वमेव कुरुनन्दन ॥ **

** न ह्यहं मनसाप्यन्यं गच्छेयं तद्दृते नरम् २।**

इत्येते पूर्वोक्त श्लोकाः ध्यातव्याः। तथा त्वमपि मनसा मया सह सङ्गम्य पुत्रान् जनयितुं समर्थोऽसि। इत्यपि शास्त्रोक्तप्रकारेण शरीरसङ्गमान्न प्राणहानिः।

*१. म.भा.१प.११७/३०,३१. *

*२. म.भा.१प.१२०/३,४,५. *

***द्वितीयोऽध्यायः ***

44

**सा तेन सुषुवे देवी शवेन भरतर्षभ । **

** तथा त्वमपि मय्येवं मनसा भरतर्षभ । **

** शक्तो जनयितुं पुत्रांस्तपोयोगबलान्वितः१॥ **

**२.३.१.अत्र भद्रा- व्युषिताश्वयोः व्युत्पत्तिः- **

पतिवंशं भद्रयतीति भद्रा ।

वि+उषिताः- व्युषिताः विगतप्राणाः। अश्वाः- प्राणाःयस्य सह व्युषिताश्वः। इति।

व्युषिताश्वादपि भवान् श्रेष्ठः। यतो हि भवान् धर्मज्ञः।त्वत्तः प्रतिविशिष्टश्च कोऽन्योऽस्ति भवि मानवः । ऋषीणां वचनेभ्यः देवोपमं पुत्रं भवता सह जनयिष्यामि इति पृथाऽब्रवीत्।

**अस्ति वै तव धर्मात्मन् विद्मो देवोपमं शुभम् ॥ **

** दैवोद्दिष्टं नरव्याघ्र कर्मणेहोपपादय २॥ **

इति पाण्डुं प्रति ऋषीणां वचनम्। अत एव दुर्वासमुनिना उपादिष्टेन मन्त्रेण इष्टदेवतामामन्त्र्य तेन सहायेन अपत्यं जनयिष्यामीत्यवोचत्।

तस्याः अर्चनया धर्मदेवता आगत्य गर्भं अयच्छत् । अत्र विमाने सूर्यसंकाशे इति धर्मदेवं अवर्णयत् । विमानो नाम साधनमिति।

“सोमापूषणा रजसो विमानं सप्तचक्रं रथमविश्वमिन्वम् ॥” “विमानं परिच्छेदकं सर्व्वमानमित्यर्थः ।” इति तद्भाष्ये सायणः ॥ * *

साधनम् इत्यपि

“पिता यज्ञानामसुरो विपश्चितां विमानमग्निर्वयुनञ्च वाघताम् ॥”

विमानं विमीयतेऽनेन फलमिति विमानं यज्ञादिकर्म्मसाधनम् । इति तद्भाष्ये सायणः**५ **॥

धर्मदेवःतस्य साधनात् स्वात्मनि स्थितं इन्द्राशं पाण्डवे संस्थाप्य, पाण्डवे शुक्रं

संगृह्य कुन्ती गर्भे प्रावेशयत्। अतः ते पाण्डवाः पाण्डोः पुत्राः इत्यपि कथिताः।

*१. म.भा.१प.१२०/३६,३७. *४. *ऋ.वे.*३.३.४.

२.* **म.भा.१प.१२१/२३ *५. *ऋ.वे.२मं.४०/३. *

३. ऋ.वे.२मं.४०/ ३.

***द्वितीयोऽध्यायः ***

45

अस्याः प्रक्रियायाः विमानमिति वेदप्रामाण्यमनुस्रुत्य अत्र दर्शितम् । एतावत्पर्यन्तं शुक्रेणेन्द्रांशसंयोजनविषयः उपवर्णितः।ऋग्वेदे एव रजसो विमाने इति प्रमाणं वर्तते।

आयुर्वेदे चरकसंहितायां विमानस्थाने ते ते जीवाः जन्मान्तरे सम्पादित फलानुसारेण शुक्रेण संयुज्य प्रजननद्वारा गर्भाशयं प्रविशन्ति। त्वष्टा रूपगुणादीनि निर्मिमीते। तत् तत् कर्मफलानुसारेण एते जीवाःतत् तद् रूपं आप्नुवन्ति च। एषा प्रक्रिया सर्वसाधारणमेव इति ।

अत्र अपत्यप्रवेशेन शापप्रभावात् पाण्डुर्मृतो भवेत्। अतः तत् तद् देवतानामनुस्रुत्य इन्द्रांशसहितं शुक्रं रजसि प्रवेशनपर्यन्तं विमानमित्युच्यते। अत एव रजसो विमानम् इति वेदप्रमाण्यम्। अत एव पाण्डुपुत्राः अभवन्। पाण्डोः अपत्यानि पुमांसः पाण्डवा इति व्युत्पत्तिः। आत्मा वै पुत्र नामासि इति श्रुतिवचनादपि।

एषा प्रक्रिया साध्य एवेति संशये आधुनिकवैद्ये भर्तरि विद्यमानं शुक्रं सूची द्वारा गर्भाशये निवेशनं प्रमाणं भवत्येव । एषा प्रक्रिया Posthumous reproduction इति कथ्यते।

२.३.२. मार्कण्डेयपुराणमनुस्रुत्य धर्मजादिषु पुर्वेन्द्रांशाः - विमानप्रक्रिया

** क. धर्मजः-** पुरा त्वष्टप्रजापतेः पुत्रः त्रिशिरः उग्रं तपश्चरति स्म। तस्य तपसा भीतः इन्द्रः तं त्रिशिरं जघान। तस्य हननकारणात् ब्ररह्महत्यापापेनाभिभूतस्य इन्द्रस्य तेजःअधर्माचरणेन धर्मदेवतायां प्रविवेश।

**त्वष्ट्रुपुत्रे हते पूर्वं ब्रह्मन्निन्द्रस्य तेजसः। **

** ब्रह्महत्याभिभूतस्य परा हानिरजायत ॥ **

** तद्धर्मं प्रविवेशाथ शक्रतेजोऽपचारतः। **

** निस्तेजाश्चाऽभवच्छक्रो धर्मे तेजसि निर्गते १॥ *** *

धर्मदेवता स्वात्मनि स्थितं तेजसं पाण्डवे संस्थाप्य विमानप्रक्रियया कुन्तीगर्भे प्रावेशयत्। स एव धर्मजः।

१. मा.पु.५.१,२.

***द्वितीयोऽध्यायः ***

46

**संयुक्ता सा हि धर्मेण योगमूर्तिधरेण च । **

** लेभे पुत्रं वरारोहा सर्वप्राणभृतां हितम् १॥**

** ख. भीमसेनः**– स्वपुत्रः त्रिशिरः देवेन्द्रेण हत इति निशम्य त्वष्टप्रजापतिः तस्य संहारार्थं स्वजटां अग्नौ प्रक्षिप्य वृत्रासुरं उत्पादयामास। तं बलवन्तं शत्रुं देवेन्द्रः जघान। तज्जनित ब्रह्महत्याशापकारणात् तस्य बलं नष्टम्। स बलाधिदेवः इन्द्शरीरात् सर्वव्यापिनमव्यक्तं वायुमाविशत्।

**वृत्रहत्याभितप्तस्य तदा बलमशीर्यत ।। **

** तच्छक्रदेवा विभ्रष्टं बलं मारुतमाविशत् । **

** सर्वव्यापिनमव्यक्तं बलस्यैवाधिदैवतम् २॥ **

महाभारतवचनात् पाण्डुमहाराजः बलज्येष्ठसुतमवाप्तुं वायुमावाहय इति अनुज्ञाञ चकार कुन्त्यै ।

**प्राहुः क्षत्रं बलज्येष्ठं बलज्येष्ठं सुतं वृणु । **

** मारुतं मरुतां श्रेष्ठं सर्वप्राणिभिरीडितम् ३॥ **

अत्र । अव्यक्तः वायुः व्यक्तं मृगं अधिइरुह्य कुन्त्यै वरमदात् ।

**ततस्तमागतो वायुः मृगारूढो महाबलः। **

** किं ते कुन्ति ददाम्यद्य ब्रूहि यत्ते हृदि स्थितम् ४॥** ** **

अत्र मृगवाहनं देवरथं सूचयति। देवरथं विमानपदेनापि व्यज्यते। विमानो नाम साधनमिति पूर्वोक्तप्रकारेण । अत्रापि विमानप्रक्रियया भीमजमजनयद् कुन्तीति।

** ग.अर्जुनः**- भूभारहरणार्थं देवाःसर्वेऽपि स्वकीयैस्तेजांशैः स्वर्गाद् भूमौ अजायन्त। तदा इन्द्रः स्वीयमर्धाशं कुन्त्यां प्रावेशयत् ।

१.म.भा.१प१२२/५..मा.पु५.१०,११. ३.म.भा.१प.१२२/दाक्षिणात्य४.म.भा.१प.१२२/१२.

***द्वितीयोऽध्यायः ***

47

“शक्रवीर्यार्धतश्चैव जज्ञे पार्थो धनञ्जयः १।।” * *

**एतच्छ्रुत्वा वज्रपाणिर्वचस्तु **

** देवश्रेठं पुनरेवेदमाह । **

** वीर्येणाहं पुरुषं कार्यहेतोः **

** दद्याम्येषां पञ्चमं मत्प्रसूतम् ।। **

**विश्वभुक् भूतधामा च शिबिरिन्द्रः प्रतापवान्। **

** शान्तिश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः२॥**

**इहैव ते पाण्डवाः वीर्यवन्तः। **

**शक्रस्यांशः पाण्डवः सव्यसाची ३॥ * ***

**२.३.३. अत्र विचारणीयः अर्जुनस्य सद्योजातविषयः **

भीमजननानन्तरं पाण्डुः लोके वरश्रेष्ठं पुत्रं जनयितुं देवगणेश्वरमिन्द्रमुद्दिश्य संवत्सरव्रतं

कुन्तीं उपदिश्य सोऽपि एकपादस्थितो भूत्वा पर्यतप्यत। ततः इन्द्रः तत्रागत्य त्रिषु लोकेषु विश्रुतं पुत्रं तुभ्यं प्रदास्यामीति वरमददत्। तत् पश्चात् कुन्तीमुद्दिश्य पाण्डुः" कल्याणि! दुवेन्द्राद् लब्धप्रसादोऽहम्। आदित्यसमतेजसं पुत्रं जनयितुं इन्द्रमाह्वय" इत्यवोचत्। ततः कुन्त्याः आह्वानेन इन्द्रःआगत्य अर्जुनं जनयामास ।

**एवमुक्ता ततः शक्रं आजुहाव यशस्विनी । **

** अथाजगाम देवेन्द्रः जनयामास चार्जुनम् ४॥ **

अनन्तरं अशरीरवाणी सृतिकागृहे स्थितां कुन्तीमद्दिश्य एषः पुत्रः कार्तवीर्यसमः,शिवतुल्यपराक्रम इति इन्द्रांशस्य अर्जुनस्य शौर्यादि गुणानवर्णयत्।

अत्र विचारणीयो विषयः यत्- कुन्त्याह्वानेन धर्मदेवता आगत्य विमानक्रियायां

१. मा.पु.५.२२. ३. म.भा.१प.१९६/३४.

*२. म.भा.१प१९६/२८,२९. ४. म.भा.१प.१२२/३५. *

***द्वितीयोऽध्यायः ***

48

पाण्डोः रंशं कुन्तीगर्भे प्रावेशयत्। तद्वदेव वायुरपि। परमत्र इन्द्रः पाण्डोः तपःक्रियया तस्मै वरं दत्त्वा कुन्त्याः आह्वानेन पुत्रमजनयत्। अर्थात् पाण्डोः वीर्यं संगृह्य स्वेन तेजसा कुन्ती गर्भे संस्थापितवान् । झटिति कुन्ती अर्जुनं अजीजनत्। विमाप्रक्रियया विपर्ययः अत्र अभवदिति अवगम्यते।

मनुष्यमानानुसारेण एकसंवत्सरं देवतानां एकदिवसो भवति । अतः पाण्डोः शुक्रं स्वस्मिन् संगृह्य कुन्तीगर्भे प्रवेशनकालः मानवमाने संवत्सरं भवति एकदिवसः। तदर्थमेव क्षिप्रगर्भः कुन्त्याः।

अर्जुनः नरांशेति पद्मपुराणरीत्या महाभारतोक्त्या च ।

**नरनारायणावेतौ पूर्वदोवौ विभावसो । **

** संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम् ॥ **

**अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यत । **

** तावेतौ सहितावेहि खाण्डवस्य समीपतः१॥ *** *

घ.नकुलसहदेवौ- इन्द्रः गौतममहर्षेः स्वरूपं धृत्वा अहल्यां धर्षयामास। तदा तस्य अङ्गप्रत्यङ्गेषु स्थितं मनोहरं लावण्यं स्वतोजसा सह अश्विनौ प्राविवेश ।

**अहल्यां च तदा शक्रो गौतमं रूपमास्थितः। **

** धर्षयामास देवेन्द्रस्तदा रुपमहीयत ॥ **

** अङ्गप्रत्यङ्गलावण्यं यदतीव मनोहरम् । **

** विहाय दुष्टं दैत्येन्द्रं नासत्यवगमत्ततः२॥ *** *

**ततो माद्री विचर्यैवं जगाम मनसाश्विनौ । **

** तावागम्य सुतौ तस्यां जनयामासतुर्यमौ ३।। **

** *अश्वनीकुमारौ माद्र्याः संकल्पात् तस्यां गर्भे यमळं उत्पादयामासतुः। *

१. म.भा.१प.२२३/८,९.२. मा.पु.५.१२,१३.

३. म.भा.१प.१२३/१६.

***द्वितीयोऽध्यायः ***

49

एवं पञ्चपाण्डवाः तत्तद् देवैः पाण्डुस्थितेन शुक्रेण सह इन्दांशं संयुज्य विमानप्रक्रियया कुन्त्याः माद्र्याश्च गर्भाशये स्थापनेन पञ्चपाण्डवाः अजीजनन्। अत्र पाण्डवमध्यमः अर्जुनः । स च नरनारायणयोर्मध्य नरः। अतः स अयोनिजः। पाण्डोः शुक्रेण सह इन्द्रस्य अर्धभागांशेन पूर्णनरांशेन च अयं सद्योगर्भजातः अभूत्। सर्वेष्वपि इन्द्रांशत्त्वात् पञ्चपाण्डवाः एकरूपा एव।

**२.४. भीष्मेण द्रोणस्य आचार्यत्वेन वरणम् **

सातीर्थ्योऽपि दारीद्र्यकारणात् दृपदेनावमानितःद्रोणः सपत्नीपुत्रः हास्तिनपुरे श्यालकस्य कृपाचार्यस्य आश्रयं प्राप। तस्मिन् वेश्मनि अज्ञातं उषित्वा एकदा कौरवकुमाराः यत्र कंदुकं क्रीडन्ति तत्र द्रोणःआगत्य स्वकीयं विद्यां प्रदर्शयितुं वृत्तिसंपादनाय च तैःकूपे पतितां वीटां अस्त्रसंघातेन उद्धृतवान्।

**एषा मुष्टिरिषीकाणां मयास्त्रेणाभिमन्त्रिता । **

** अस्या वीर्यं निरीक्षध्वं यदन्यस्य न विद्यते ॥ **

भेत्स्यामीषिकयां वीटां तामिषीकांस्तथा१ ॥ ** **

अत्र द्रोणाचार्यस्य आस्त्रविद्यापाटवं द्योतते। एनं वृत्तान्तं कुमाराः भीष्माय न्यवेदयन्। तदा भीष्म ःद्रोणस्य पूर्ववृत्तान्तं निशम्य अत्रैव आचार्यपदवीं स्वीकृत्य कुमारेभ्यः धनुर्विद्यां शिक्षयेति द्रोणं प्रार्थयामास।

**अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय । **

** भुंक्ष्व भोगान् भृशं प्रीतः पूज्यमानः कुरुक्षये २॥ *** *

सामान्यार्थः-

भोः! दृपदेन कृत अवमानं त्यज । तेन युयुत्सुताप्रतीकारमपि त्यज । तव चापं अपज्यं कुरु। अर्थात् अपगत ज्यां कुरु । अस्त्रविद्यां कुमारेभ्यः उपदिश्य अत्रैव कुरुवेश्मनि भोगान् संभुज्य सर्वैः पूज्यमानो भवेति । अत्र क्षयःनाम निवेशः इति।

१. म.भा.१प.१३०/२८.

२. म.भा.१प.१३१/४४.

***द्वितीयोऽध्यायः ***

50

** “संस्थायमुटजं धाम निवेशश्शरणं क्षयः१**” * *

गूढार्थः-

भो द्रोण! तव चापं अपगतज्यां कुरु। कुरुवंशविनाशाय साध्वस्त्रं प्रतिपादय। मत्प्रीतः सन् अत्रैव उषित्वा यथाकामं भोगान् भुंक्ष्व । इति। भीष्मः त्रिकालज्ञः । धार्तराष्ट्राः अधर्मप्रवर्तका इति कारणात् तेषां कारणेन सर्वक्षत्रविनाशं भविष्यतीति सः ज्ञातवान् ।

**स हि भूतं भविष्यच्च भवच्च भरतर्षभ । **

** वेत्ति धर्मविदां श्रेष्ठं तमस्मि मनसा गतः२॥ **

**यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ । **

** सर्वं तज्ज्ञानवृद्धस्य तव भीष्मप्रतिष्ठितम् ३॥** ** **

इति श्री कृष्णस्य कथनेन । नरमहर्षिरेव अर्जुन इत्यपि सः जानाति। शापवशात् पाण्डोःपरलोकयात्रानन्तरं शर्यातेः वंशजः पृषतःपुत्रः धनुरविद्यापारङ्गतः शुकः पाण्डवान्

धनुर्विद्यां अध्यापयामास ।

**गदायां पारगो भीमस्तोमरेण युधिष्ठिरः। **

** असिचर्मणि निष्णातौ यमौ सत्यवातां वरौ ॥ **

** धनुर्वेदे गतः पारं सव्यसाची परंतपः। **

** शुकेन समनुज्ञातो मत्समोऽयमिति प्रभो ४॥ **

तस्मिन् काले एव पाण्डवाः धनुर्विद्याकुशलिनः। विशेषेणार्जुनः धनुर्वेदे सुप्रतिष्ठितः। अतः भीष्मवचनेन धनुः प्रयोगं विहाय साध्वस्त्रं नाम कुरुवंशक्षयार्थं अर्जुनं अस्त्रमिव प्रतिपादय। इति एतेन ग्रन्थिना अवगम्यते। पश्चात् द्रोणाचार्यस्य शिक्षणे अर्जुनः अजेयपराक्रमः अभवत् ।

अत्र क्षयः इति प्रलय इति अन्यार्थज्ञानेन ग्रन्थिः भिद्यते ।

** संवर्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ५। ** * *

१.अ.को.२.पुरवर्गः.६.१.म.भा.१२प.४६/१९. ३.म.भा.१२प.५५/१८.४.म.भा.१प.१३३/दाक्षिणात्यम् ५.अ.को.१.कालवर्गः.२३.
  •        *
    
  •    *
    

***द्वितीयोऽध्यायः ***

51

**२.५. द्रोणाचार्येण अर्जुनं प्रति रहस्येन कृत शब्दभेदीविद्या सूचना **

धार्तराष्ट्राः, पाण्डवाः, नानादेशीयाःपार्थिवा, वृष्ण्यन्धकाः सूतपुत्र राधेयोऽपि द्रोणाचार्यस्य सम्मुखे धनुर्विद्याभ्यासं कुर्वन्ति स्म। तेषु सर्वेषामपिअर्जुनः विशिष्टो भवति। सः अस्त्रप्रयोगे, लाघवे ,सौष्ठवे च सर्वेषामप्यधिकतरः।

**सर्वेषामपि शिष्याणां बभूवाभ्यधिकोऽर्जुनः॥ **

** ऐन्द्रमप्रतिमं द्रोणः अदेशेष्वप्यमन्यत १॥ **

अतः द्रोणः अर्जुनं अनुपमप्रतिभाशालीति विचिन्त्य तस्मै अधिकश्रद्धां विदधति स्म । अत एव एकदा

**अन्धकारेऽरर्जुनायान्नं न देयं ते कदाचन । **

** न चाख्येयमिदं चापि मद्वाक्यं विजये त्वया २॥ ** *** ***

पाचकं आहूय “तमसि अर्जुनाय अन्न्ं न परिवेषय। यदि अर्जुनेन प्रक्ष्यते तर्हि द्रोणवाक्यमिति वद।” इति द्रोणःसूचनाञ्चकार। अत्र जिज्ञासा आयाति। यत्- किमर्थं अनेन प्रकारेण द्रोणेन प्रोक्तम्? सर्वान् शिष्यान् विहाय अर्जुनाय कथं व्यवस्थां कृतवान्? अत्र नीलकण्ठीये भावदीपे इत्थं वर्तते–

“सूदं सूपकारं प्रति अन्नं न देयम्।किञ्च अन्धकारे मुखादन्यत्र ग्रासाः पतिष्यन्तीति नान्नं ददामीति त्वया वाच्यं इति भावः।विजये अर्जुने अयं भावः अत्यभ्यासान्मुखादन्यत्र ग्रासाः न पतन्त्येव । एवं तमसि शब्दादि लक्ष्यादन्यत्र शरा अपि न पतेयुरिति इत्युक्तः अर्जुनः। यदि केनेदमुक्तमिति पृच्छेत्तर्हि लौकिकोयमर्थः इति तं प्रति वक्तव्यं न तु द्रोणवाक्यमेतदिति।”

पाण्डवाः सदा धर्मनिरताः। ते जानन्त्येव “रात्रौ विना दीपं न भुञ्जीत” इति

*१. म.भा.१प.१३१/१४,१५. *

२ म.भा.१प.१३१/२२

***द्वितीयोऽध्यायः ***

52

**“अस्नात्वा नैव भुञ्जीता अजप्त्वाग्निं अहूय च । **

** पर्णपृष्ठे न भुञ्जीत रात्रौ दीपं विना तथा १।।” *** *

“साधारणतया भोजनसमये अन्धकारं जाते सत्यपि नियताभ्यासकारणात् मुखात् ग्रासाः न पतन्त्येव। यदि पतेयुस्तर्हि तेषां ध्वनिरपि सूक्ष्मदृष्ट्या श्रवणीयम्।परिवेषितुः परिवेषणसमयेऽपि स पदार्थः स्थाल्यां परिवेषयति वा क्व परिवेषयतीति सूक्ष्मश्रवणेन ग्राह्यम्” इति अर्जुनाय प्रच्छन्नरूपेण सूचनां अददात्। यतः अर्जुनः अन्धकेरेऽपि अभ्यासकारणात् ग्रासाः यथा न पतन्ति तथैव अन्धकारे शरा अपि निरताभ्यासेन लक्ष्यीकृताः भवन्तीति विचिन्त्य रात्रावपि शरसन्धानाभ्यासं करोत्येव । एनां विद्यां शब्दबेधीति नाम्ना कथ्यतेति वशिष्ठधनुर्वेदसंहितायां विद्यते ।

अथ शब्दबेधितत्वम्-

**लक्ष्यस्थाने न्यसेत् कांस्यपात्रं हस्तद्वयान्तरे । **

** ताडयेच्छरकाराभिस्तच्छब्दः संजायते यदा ॥ **

** यत्र चैवोद्यते शब्दस्तं सम्यक् तत्र चिन्तयेत् । **

** कर्णेन्द्रियमनोयोगाल्लक्ष्य निश्चयतां नयेत् ।। **

**पुनःशर्करया तच्च ताडयेच्छब्दहेतवे। **

** पुनर्निश्चयतां नेयं शब्दस्थानानुसारतः॥ **

** ततः किंचिद् कृतं दूरं नित्यं नित्यं विधानतः। **

** लक्ष्यं समभ्यसेद् ध्वान्ते शब्दवेधेन हेतवे।। **

** ततो बाणेन हन्यत्त दधानेन तीक्ष्णधीः। **

** एतच्च दुष्करं कर्म भाग्ये कस्येपि सिद्ध्यति २।। **

१. प.स्मृ.१२.४४४३

*२. व.ध.सं.६५,६०,६७,६८,६९. *

***द्वितीयोऽध्यायः ***

53

हस्तद्वयदूरे कांस्यपात्रं संस्थाप्य अतिसूक्ष्मशर्करकणैः तं ताडयेत् । तच्छब्दं कर्णेन मानसा च सम्यक् श्रवणीयम्। शब्दहेतवे पुनस्तं ताडयेत्। एवं प्रदिनमपि किंचिद् किंचिद् दूरं पात्रं न्यस्य शर्कराभिः ताडयेत्। पुनः कुत आयाति शब्द इति मनसा श्रवणीयम्। अनेन साधनेन प्रयाणकालेऽपि निर्दिष्ट लक्ष्यं शरेण हन्तुं समर्थो भवति । एतत् दुष्करं कर्म भाग्यवानेव प्राप्नोति।

** भुंक्त एव तु कौन्तयो नास्यादन्यत्र वर्तते । **

** हस्तस्तेजस्विनस्तस्य अनुग्रहणकारणात् १॥ **

कदाचित् तत्र अर्जुनस्य भोजनसमये दीपःवायुना निर्वापितः। पूर्वमेव द्रोणेन सूचितम्" अन्धकारे अर्जुनाय अन्नं नदेयमिति।" अतः केन निर्वापितमिति तत्र अनुक्त्वैव ज्ञायते। कान्त्या वयं सर्वकर्माणि आचरितुं शक्नुमः। यदा अन्धकारः न स्यात् तावत्पर्यन्तमपि अन्धकारे कथं कर्तव्यमिति वयं न चिन्तयामः। अत एव द्रोणाचार्येण अनेन सूचितं स्यात्। विना दीपं न भोक्तव्यमिति धर्मं जानाति एव अर्जुनः। यतो हि अधर्मः लेशमात्रमपि न विद्यते पाण्डवेषु। अर्जुनस्य मनः सततमपि धनुर्विद्याभ्यासे वर्तते एव। अतः तेन दीपनिर्वापणमपि नाभिज्ञायते।

अत्र इतोऽपि एकः ग्रन्थिश्लोको वर्तते ।

**भुंक्त एव तु कौन्तेयो नास्यादन्यत्र वर्तते । **

** हस्तस्तेजस्विनस्तस्य अनुग्रहण कारणात् २॥ **

सरलार्थः-

अर्जुनः तस्मिन् समयेऽपि भुञ्जते। किन्तु ग्रासाः मुखादन्यत्र न पतन्ति । यतो हि तेजस्विनः तस्य हस्तस्य निरताभ्यासकारणात् ।

*१. म.भा.१प.१३१/२४ *

*२. म.भा.१प.१३१/२४. *

***द्वितीयोऽध्यायः ***

54

गूढार्थः-

अत्र तेजस्वीइति विशेषणं अर्जुनाय कृतम् । तेजस्वी अर्थात् तेजश्शाली इत्येव न । अर्जुनः इन्द्राश इति पूर्वमेव वर्णितं जन्मवृत्तान्ते। अर्जुनः एव न । युधिष्ठारादयोऽपि इन्द्रांशाः इति वैविहिकपर्वणि पञ्चेन्द्रवृत्तान्ते द्रुपदाय व्यासमहाभागः अकथयत् ।

**विश्वभुक् भूतधामा च शिबिरिन्द्रः प्रतापवान् । **

** शान्तश्चतुर्थस्तेषां वै तेजस्वी पञ्चमः स्मृतः१॥ **

विश्वभुक्, भूतधामा, शिबिः, शान्तः, तेजस्वी इति पञ्चेन्द्रा भवन्ति ।

**एतच्छृत्वा वज्रपाणिर्वचस्तु **

** देवश्रेष्ठं पुनरेवेदमाह। **

** वीर्येणाहं पुरुषं कार्यहेतो **

** र्दद्याम्येषां पञ्चमं मत्प्रसूतम् २॥ **

कार्यहेतोः मदंशं पञ्चमपुरुषं दध्याम्। इति देवश्रेष्ठं ईश्वरं प्रति अवोचत्।अर्थात् अस्मिन् वैवस्वते मन्वन्तरे इन्द्रः तेजस्वी नाम तेजस्वी भवति।

अतः अत्र इन्द्रस्यांश सम्भूत एव तेजस्वी नाम अर्जुन इति संसूचितवान् व्यासमहाभागः।

**२.६. वारणावतगमनसमये पाण्डवानां प्रति विदुरेणंकृत लाक्षदाहसूचना **

धार्टराष्ट्राः पाण्डवान् कपटोपायेन वारणावतं गमयितुं धृतराष्ट्रं प्रेरेपिपतवन्तः। धृतराष्ट्रवचनानुसारेण पाण्डवाः वारणावतं गन्तुं उद्युक्ताः। तदा दुर्योधनः स्वविश्वासपात्रं पुरोचनं निमन्त्र्य –

*१. म.भा.१प.१६०/२९.२. म.भा.१प.१६०/२८. *

***द्वितीयोऽध्यायः ***

55

**पाण्डवाः धृतराष्ट्रेण प्रेषिताःवारणावतम् । **

** उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात् ॥ **

** स त्वं रासभयुक्तेन स्यन्दनेनानुगामिना । **

** वारणावतमद्यैव यथा यासि तथा कुरु ॥ **

** तत्र गत्वा चतुःशालं गृहं परमसंवृतम् । **

** नगरोपान्तमाश्रित्य कारयेथा महाधनम् ॥ **

** शणं तैलं घृतं चैव जतु दारूणि चैव हि । **

** तस्मिन् वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः॥ **

** यथा च तन्नपश्येरन् परीक्षिन्तोऽपि पाण्डवाः। **

** आग्नेयमिति तत्कार्यमपि चान्योऽपि मानवाः१॥ **

“पुरोचन ! धृतराष्ट्रप्रेषिताः पाण्डवाः वारणावतं गमिष्यन्ति। त्वं क्षिप्रगामिनः रासभान् अधिरुह्य शणम्, तैलम्, घृतम्, लाक्षा इत्यादीनि दारुणान्याग्नेयपदार्थानि यानि सन्ति तानि संगृह्य वारणावते तेभ्यः गृहं निर्माय गृहकुड्येषु तानि पदार्थानि प्रदापय। पाण्डवाः अन्ये जनाः अपि परीक्षिन्तेऽपि नाऽभिजानन्ति । तथा यावत् कालं ते वसन्ति तावतत् पर्यन्तं त्वं विश्वस्त इव वर्तय । सुविश्वस्तो त्वं समयमनुसृत्य तद् लाक्षागृहं दह। तस्मिन् ते समात्रा दग्धाः भवेयुः” इत्युवाच । पुरोचनः राजा यथा आदिष्टवान् तथैव अकरोत् ।

पाण्डवानां वारणावतगमनसमये धृतराष्ट्रादि प्रमुखेभ्यः आशिषो लब्ध्वा पौरान् समाधाय वारणावतं अगच्छन्। पौरेषु विनिवृत्तेषु सत्यधर्मविद् विदुरः पाण्डवश्रेष्ठं धर्मजं संबुध्य इदं आह-

*१. म.भा.१प.१४३/६,७,८,९९,११२. *

***द्वितीयोऽध्यायः ***

56

** प्राज्ञः प्राज्ञप्रलापज्ञः प्रलापज्ञमिदं वचः। **

** प्राज्ञं प्राज्ञः प्रलापज्ञः प्रलापज्ञं वचोऽब्रवीत् १॥ **

नीलकण्ठव्याख्यायाम्–

प्राज्ञो बुद्धिमान् अनेकभाषाभिज्ञत्वात् प्राज्ञस्य एवं आह– प्राज्ञप्रलापज्ञ इति प्रकर्षेण अज्ञानां पशुप्रायाणां वदविरोधिनां म्लेच्छानां प्रलापः अनर्थं सम्यक् प्रकृति प्रत्यय विभागेन अनिष्पन्नत्वादर्थान् अवबोधकं वचनं देशभाषारूपलुप्तवर्णं आधिक्यवर्णं विस्तृतवर्णं च पदजातं यत्र तादृश भाषाभिवृद्धिः इत्यर्थः। तत्र लुप्तवर्णं काण्वशतपथे इन्द्रेण असुरान् प्रति भवतिममी इमां चित्राख्यां मदीयां इष्टकामुपधास्ये इति पृष्टे उपहीत्यसुरवचनं तथा आदास्ये इत्युक्ते आहीति प्रतिवचनम्। तत्र उपधेहि आदेहीति वक्तव्ये वर्णलोपः। आधिक्यवर्णे तु गौरिति वक्तव्ये गावी ,गोणी, गोता, गोपोतलिका इति प्रयुङ्जन्ते। तथा विकृतवर्णे ते सुरा हेलयो हेलय इति वदन्तः पराबभूवुरिति। अरय इत्यपेक्षते रेफास्थाने लकारः प्रयुज्यते। वेदेऽपि असुरभाषानुवादे तेनेयं शंकाप्यपास्ता। यद्यपि युधिष्ठिरं प्रति विदुरेण म्लेच्छभाषया उक्तम्। तथापि व्यासेन तत् संस्कृतेनैवोपमिबद्धं इति। आदिपर्वणि नानादेशभाषाश्चात्र ग्रथ्यन्ति इति प्रतिज्ञानात् । स एवं प्राज्ञः प्राज्ञप्रलापज्ञश्च विदुरो युधिष्ठिरं प्रलापज्ञं म्लेच्छभाषाभिज्ञं इदं वक्ष्यमाणं वचो म्लेच्छभाषारूपं प्राज्ञः प्रकर्षेण जानतः प्राज्ञं प्रकर्षेण ज्ञातुमशक्यं अज्ञापकं अर्थानां अनवचो बोधकं वा । कथं तर्हि तेन वचनेन अस्यापि बोधो भविष्यतित्याशंकया आह, प्रलापज्ञः प्रालपज्ञमिति प्रलापं जानतः , प्रलापज्ञापकं प्रलापज्ञमिति पूर्वार्धे शब्दतो म्लेच्छभाषाभिज्ञत्वं उक्तम् । इह तु अर्थतः तदभिज्ञातत्वं इति पौनरुक्तम्। प्राज्ञ इति प्रलापज्ञ इति च उत्तरार्धे द्वयन्तस्य षष्ट्यन्तस्य रूपे। प्राज्ञं प्रलापज्ञमिति अन्तर्भावयप्यर्थात् ज्ञानतो क प्रत्ययान्तस्वरूपे। वचो वचनीयं अवश्यं वक्तव्यमित्यर्थः। अत एव अब्रवीत् अत्र उत्तरार्धे गौडपाठ एव दृश्यते। तदभावे तु पूर्वार्धादेव अयमर्थः प्रत्येतव्यः। सर्वथापि म्लेच्छभाषया उक्तो अर्थः म्लेच्छभाषया एव संगृह्यत इति तात्पर्यम्। अन्यथा अलोहमित्याद्यपि व्यासो नावक्ष्यत्। यथा श्रुतं जातषमेव

*१. म.भा.१प.१४४/२०.. *

***द्वितीयोऽध्यायः ***

57

गृहं भवद्दाहार्थं तत्र कृतमिति म्लेच्छभाषया विदुरेण युधिष्ठिरो बोधित इत्येव तेनोक्तं स्यात्।

नीलकण्ठीयानुसारेण गूढार्थः–

श्लोकस्य प्रथमचरणे -** **

प्राज्ञः- प्रकर्षेण अज्ञः मूर्खो दुर्योधनः

प्राज्ञप्रलापज्ञः- प्राज्ञेति प्रलापं जानातीति पण्डितम्मन्यः दुर्योधनः

प्रलापज्ञम्- प्रलापज्ञातारं प्रकर्षभाषणविदं बहुभाषाविदं पुरोचनम् लप भाषे

इदं- एतत् वचः- वचनं अब्रवीत् -अवदत्।

श्लोकस्य द्वितीयचरणे–

प्राज्ञम्- पण्डितं युधिष्ठिरं त्वाम्प्रकर्षेण जानातीति

प्राज्ञ पुं विद्वान् । प्र+ज्ञा+कः- ततः प्राज्ञ एव स्वार्थे अण् _

**विद्वान्विपश्चिद्दोषज्ञः सन्सुधीः कोविदो बुधः। **

** धीरो मनीषी ज्ञः प्राज्ञः संख्यावान्पण्डितः कविः१॥ **

प्रज्ञा अस्य अस्त्विति - प्राज्ञः+ अच् - पण्डितः

प्रलापज्ञम्- बहुभाषाविदं युधिष्ठिरंत्वां उद्दिश्य ।

प्राज्ञः- प्रकर्षेण अज्ञः मूर्खः दुर्योधन इति।

प्रलापज्ञः- अनर्थवाक्यकोविदः दुर्योधनःप्रलपनमिति । प्र + लप् + भावे घञ् ।

प्रलपनम् । अनर्थकवाक्यम् । निष्पयोजनमुन्मत्तादिवचनम् । इत्यमरभरतौ । १ । ६ १५

प्रलाप पुं । प्रयोजनशून्योन्मत्तादिवचम्

तत्र त्वाक्षारणा यः स्यादाक्रोशो मैथुनं प्रति। स्यादाभाषणमालापः प्रलापोऽनर्थकं वचः ३॥

*१. अ.को.२.७.५.२.४ ३. अ.को.१.६.१५.२. *

*२. श.दृ.३भा.२९२पुटः *

***द्वितीयोऽध्यायः ***

58

प्राज्ञः- प्रकर्षेण मूर्खः दुर्योधनः

वचः अब्रवीत्- इत्थं वचनं आह।

अत्र प्रथमपादे पुरोचनः बहुभाषाकोविदः अर्थात् नीलकण्ठीयमनुसृत्य म्लेच्छभाषाभिज्ञः। तं प्रति अहमेव पण्डितेति दर्पेण येन प्रलप्यते स मूर्खो दुर्योधनः इत्थं कथयति। एवमेव द्वितीयपादे प्रलापज्ञं प्राज्ञं बहुभाषाकोविदं पण्डितं त्वां उद्दिश्य एवं आहेति । युधिष्ठिरस्य भाषाज्ञानविषये वनपर्वणि मृगस्वप्नोद्भववृत्तान्तं वर्तते।

द्वैतवने वासकाले एकदा रात्रौ शयानं युधिष्ठिरं स्वप्ने मृगाः दर्शयामासुः।

**तानब्रवीत् स राजेन्द्रो वेपमाना कृताञ्जलीन् । **

** ब्रूत यद् वक्तुकामाः स के भवन्त किमिष्यते ।। **

** वयं मृगाः द्वैतवने हतशिष्टास्तु भारत । **

** नोत्सीदेम महाराज क्रियतां वासपर्ययः ॥ **

** भवतो भ्रातरः शूराः सर्व एवास्त्रकोविदाः। **

** कुलान्यल्पविशिष्टानि कृतवन्तो वनौकसाम् १॥ **

अत्र मृगाणां भाषाऽपि युधिष्ठिरेण अवागम्यत इति बोध्यते । धर्मजः बहुभाषाभिज्ञ इति यावत्।

** यो जानाति परप्रज्ञां नीतिशास्त्रानुसारिणीम् । **

** विज्ञायेह तथा कुर्यदापदं निस्तरेद् यथा २॥ *** *

पुनः एवं वदति विदुरः- पराणां नीतिशास्त्रानुसारिणीं बुद्धिं यो जानाति स आपदि विमुच्यते। परेङ्गितः युधिष्ठिरः पूर्वमेव धृतराष्ट्रस्य मनःकामनां अजानत्। सः पुत्रप्रलोभात् वारणावतं प्रेषयतीति।

*१. म.भा.३प.२५८/२,३,४,५. *

*२. म.भा.१प.४४/२१. *

***द्वितीयोऽध्यायः ***

59

वैशम्पायन उवाच-

**धृतराष्ट्रस्य तं काममनुबुध्य युधिष्ठिरः। **

** आत्मनश्चासहायत्वं तथेति प्रत्युवाच तम् १॥** * *

धृतराष्ट्रमनोङ्गितज्ञः युधिष्ठिर इति ज्ञातकारणात् तं युधिष्ठिरमुद्दिश्य नीतिशास्त्रमनुसृत्य केन आपदां प्राप्स्यामीति विज्ञाय विपदं तरेः। इति विदुरः सूचनां चकार।

लाक्षागृहे या आपत् तत्तारणार्थं इदं वचः विदुरोऽब्रवीत।—

** अलोहं निशितं शस्त्रं शरीरपरिकर्तनम् । **

** यो वेत्ति न तु तं घ्नन्ति प्रतिघातविदं द्विषः२॥ * ***

सरलार्थः-

तच्छस्त्रं शरीरं पिडयति। लोहशस्त्रेणैव शरीरकर्तनं भवेदिति मा भावय। यतो हि तच्छर्त्रं लोहमयं न भवति । अर्थात् अलोहं न लोहम्। तच्छस्त्रं अग्निरिति यो जानाति तं अपायज्ञं शत्रवः न दहन्ति।

अत्र विदुरः गुढत्वेन सूचनां करोति । दुर्योधनः पुरोचनं प्रत्यादिदेशेति-

**शणसर्जरसादीनि यानि द्रव्याणि कानिचित् । **

** आग्नेयान्युत सन्तीह तानि तत्र प्रदापय ३॥ **

शणसर्जरसादिभिः आग्नेयास्त्रसमानपदार्थैः वारणावते गृहं निर्मापितम् दुर्योधनेन। अतः अग्निरुपं गृहमिति विज्ञाय अप्रमतत्ततया व्यवहरन्तु। तेन शत्रुरूप शणसर्जरसादिद्रव्याणि न दहन्ति । इति।

१. म.भा.१प.१४२/११.२. म.भा.१प.१४४/२२.३. म.भा.१प.१४३/९.

***द्वितीयोऽध्यायः ***

60

अत एव लाक्षगृहप्रवेशावसरे विदुरवचनं मनसि निधाय युधिष्ठिरः–

**शणसर्जरसं व्यक्तमानीय गृहकर्मणि । **

** मुञ्जबिल्वडवंशादि द्रव्यं सर्वं घृतोक्षितम् ॥ **

** शिल्पिभिः सुकृतं ह्यापैर्विनीतैर्वेश्मकर्मणि । **

** विश्वस्तं मामयं पापो दग्धुकामो पुरोचनः ।। **

** तथा हि वर्तते मन्दः सुयोधनवशे स्थितः । **

** इमां तु तां महाबुद्धिर्विदुरो दृष्टवां स्तथा ।। **

** आपदं तेन मां पार्थ स सम्बोधितवान् पुरा । **

** ते वयं बोधितास्तेन नित्यमस्मद्धितैषिणा १॥ *** *

गृहगन्धमाघ्राय दुर्योधनवचनानुसारी पुरोचनः शणसर्जरसादिआग्नेयसम्बन्दद्रव्याणि मृत्तिकया सम्मिश्र्य शिल्पकारैः एतद् अशिवं गृहं निर्मापितवान् । पूर्वमेव दुर्योधनपुरोचनयो व्यूहं दृष्ट्वा महाबुद्धिशाली विदुरः अस्मान् उद्बोधितवान् इति सस्मार।

** कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः। **

** न दहेदिति चात्मानं यो रक्षति स जीवति २॥ *** *

**नीलकण्ठीयव्याख्या– **

कक्षः कुक्षिः पार्श्व इति यावत् तत्र सन्ति गच्छतीति कक्षघ्नः पार्श्वचरः पुरोचन एव । अत्र स्वरस्यैव प्रथमपादे व्यत्ययो हन्तेरप्रसिद्धं गत्यर्थत्वं च म्लेच्छभाषात्वात्। कक्षघ्न एव शिशिरघ्नः श्रुणाति हिनस्तीति शिशिरः अग्निः। श्रु हिंसायां इत्यस्य रूपम्। तेन हन्तीति शिशिरघ्नः । गावी गोणी वत् वर्णाधिक्यं शिकारद्वयरूपम्। अयमेव पार्श्ववर्ती युष्मान् अग्निना हन्तुं आयातीति अर्थः। एवं तर्हि अयमेव हन्तव्य उत वारणावते तद् गृहं वा न

१. म.भा.१प.१२५/१५-१८.२. म.भा.१प.१४४/२३.

***द्वितीयोऽध्यायः ***

61

प्रवेष्टव्यमिति आशंकया आह। महाकक्ष इति महान्तिकं सुखं क्षिणोतीति कक्षः। यः शत्रुः वर्णलोपेन कक्षे महति शत्रौ सति एतत्रयं कर्तुं शक्यम्। ज्ञातकपटमहान् शत्रु प्रत्यक्षमेव प्रहरेदिति भावः। कस्तर्हि उपाय इत्यत आह। बिलौकसः बिलान्तः प्रविष्टान् युष्मान् स पुरोचनः न दहेत्।तत्र दाहसम्बन्धभावना नास्ति। तत्र गृहान्तर्बिलं कर्तव्यमित्यर्थः। इत्यनेन प्रकारेण यो रक्षति स जीवति । तस्मात् त्वयाऽपि एवं ज्ञात्वा उपायेन आत्मानं संरक्षणीय इत्यर्थः।

अयं श्लोकः नीलकण्ठमतानुसारेण म्लेच्छभाषया प्रयुक्तः स्यात्। तदपि द्वितीयचरणं संस्कृतमेव। अयं श्लोक एव वारणावते विदुरेण प्रेषित खनकेन कूटशब्दवत्code संकेतितः।

**किंचिच्च विदुरेणोक्तो म्लेच्छवाचासि पाण्डव । **

** त्वया च तत् तथेत्युक्तमेतद् विश्वासकारणम् १॥ *** *

पुनः लाक्षागृहदाहानन्तरं विदुरेण प्रेषितः शुचिनाम नाविकेनापि अयं श्लोकः संकेतितः।

**कक्षघ्नः शिशिरघ्नश्च महाकक्षे बिलौकसः। **

** न दहेदिति चात्मानं यो रक्षति स जीवति २॥*** *** **

अत्र दुर्योधनेन पुरोचनप्रतिवचनं खनकेन युधिष्ठिरं प्रति वचनं नाविनोक्त वचनानि च निगूढसंकेतितानीति कूटस्थश्लोकः प्रदर्शितः।

** नाचक्षुर्वेत्ति पन्थानं नाचक्षुर्विन्दते दिशः। **

** नाधृतिर्धृतिमाप्नोति बुध्यस्वैवं प्रबोधितः३॥ **

अचक्षुः- निद्रालुः मार्गान् न जानाति।पन्थानं मार्गाः, न वेत्तिन जानाति।

१. म.भा.१प.१४६/६.२. म.भा.१प.१४८.७.३. म.भा.१प.१४४/२४.

***द्वितीयोऽध्यायः ***

62

अचक्षुः- अन्धः अर्थात् निशायां दिश ःन दृश्यन्तेदिशःदिशः,न विन्दतेन जानाति।

नाधृतिः- भीतः धृतिंधैर्यं ,न आप्नोति न विन्दति।

तात्पर्यम्-

भीत्या पुरोचनपुरतः मा व्यवहरन्तु। मम वचनात् सततमपि अप्रमत्तेन व्यवहर्तव्यम्। अर्थात् पुरोचनभयात् पुनः हास्तिनपुरं मा आगन्तव्यम् । तत्रैव उप्रमत्ताः भवन्तु । इति विदुरवचनानुसारेणैव धर्मजः–

**ते वयं मृगयां शीलाश्चराम वसुधामिमाम् । **

** तथा नो विदिता मार्गा भविष्यन्ति पलायताम् १॥ **

वयं वारणावते वनेषु मृगयार्थं चरामः। तेन रक्षणीयो मार्गः विज्ञास्यामः।

**पुरोचनभयादेव व्यदधात् संवृतं मुखम् । **

** स तस्य तु गृहद्वारि वसत्यभिभिधीः सदा ॥ **

** तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप । **

** दिवा चरन्ति मृगया पाण्डवेयाःवनाद् वनम् ॥ **

** विश्वस्तवदविश्वस्ताः वञ्चयन्तः पुरोचनम् । **

** अतुष्टा तुष्टवद् राजन्नूषुः परमविस्मिताः२॥ *** *

पुरोचनः तान् हन्तुं गृहद्वारि रक्षकरूपेण प्रतीक्षति । पुरोचनभयात् पाण्डवाः सायुधाः सन्तः रात्रौ अप्रमत्तेन चरन्ति । दिवा वनेषु विहरन्ति। पुरोचने अविश्वस्ताः अपि विश्वासपात्रा इव तं वञ्चयन्तः वसन्ति।

** अनाप्तैर्दत्तमादत्ते नरः शस्त्रमलोहजम् । **

** श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात् ३॥ **

१. म.भा.१प.१४५/२९.

२. *म.भा.१प.१४६/१८,१९.*३. म.भा.१प.१४४/२५.

***द्वितीयोऽध्यायः ***

63

सरलार्थः -

नरः- मनुष्यः, अनाप्तैः- अविश्वस्तैः, दत्तम्- दीयमानं, अलोहजम्- लोहजनितं न भवति। तम्, शस्त्रम्- आयुधम्,आदत्ते- आददाति, श्वाविच्छरणमासाद्य- शल्यः, शरणंगृहम्,आसाद्य प्राप्य, हुताशनात्अग्नेः,प्रमुच्येत मुक्तिं प्राप्नुवन्तु।

श्वाविध् पुं । शल्यः ।

श्वावित्तु शल्यस्तल्लोम्नि शलली शललं शलम्. वातप्रमीर्वातमृगः कोकस्त्वीहामृगो वृकः

मनुष्यः अविश्वस्तैः दीयमानं अलोहजं आयुधं आददाति। अत्र शल्यः कथम्? अलोहज शस्त्रं किम्? उपरितनश्लोके अलोहं निशितं शस्त्रम् अलोहं अर्थात् अग्निरिति। किन्तु अत्र वरतते अलोहजं अलोहाज्जनितं किमिति जिज्ञासा। तत् शस्त्रं भवति किन्तु लोहजनितं न भवति ।

शस्त्रं नाम आयुधः-शस्यते हिंस्यते अनेन । “अमिचिमिदिशसिभ्यः क्त्रः ।

शब्दकल्पद्रुमः

**“मनोरूपेक्षुकोदण्डा पञ्चतन्मात्रायका २।” *** *

ललितापरमेश्वर्याः मनोरूपं इक्षुकोदण्डं, पञ्चतन्मात्ररूपान् सायकान् धृतवती । अत्र इक्षुकोदण्डः लोहजो न भवति।पञ्चतन्मात्राणि लोहजानि न भवन्ति ।

अतः इक्षु नाम शस्त्रं भवति। इक्षुः लोहायुधं नास्ति ननु । अलोहजं नाम इक्षुणा जनितमिति। गुडमपि इक्षुणा जनितं भवति।गुडात् गौडम्- गुडेन रचितं मदिरा ।तत् अविश्वस्तैः स्वीकरोतीति।

श्वाविच्छरणमासाद्य प्रमुच्येत हुताशनात्-

श्वाविध्-श्वानं वेधतीति- निषादः

१. श.द्रु.५भा.१७८पुटः२. ल.स.ना.२.

***द्वितीयोऽध्यायः ***

64

निषादः-चण्डालः

निषादः, पुं, निषद्यते ग्रामशेषसीमायाम् । यद्वा, निषीदति पापमत्र । नि + सद् + कर्म्मणि अधिकरणे वा घञ् । चण्डालः

चण्डालः- समानार्थकाः प्लवः, मातङ्गः, दिवाकीर्तिः,निषादः, श्वपचः* *

चण्डालस्य पर्यायपदः श्वपचः अर्थात् श्वानं वेध्य पचतीति । श्वानं विज्ञाय पचति ।

निषादस्य अनुग्रहात् अग्निना विमुच्येत । इति अवगम्यते ।

फाल्गुणकृष्णचतुर्दश्यां कुन्ती ब्राह्मणनिमित्तं अन्नदानं अकरोत्। दिवा योषितस्सर्वाः तत्रागत्य भुंक्त्वा पीत्वा स्व स्व स्थानं जग्मुः। तस्मिन् समये निषादस्त्री रात्र्यां स्वपञ्चपुत्रैःसह आगत्य भोजनमकरोत्।सा मदिरापानसक्ता मद्यं पीत्वा तस्मिन् विश्मन्येव सुप्ता। नशि ते सर्वे सुप्तेषु सत्सु भीम ःपुरोचननिकटे एव गृहं दीपयामास। ततः मात्रसहिताः पाण्डवाः सुरङ्गाद् विमुक्ताः। लाक्षागृहे पञ्चपुत्रैःसह निषादी पुरोचनेन सह दग्धाः। जनाःसर्वेऽपि कुन्तीसहितपण्डवाः दग्धाः इति मन्यन्ते।

अत्र अनाप्तैरदत्तमादत्ते इति वचनं भविष्यत् कर्तव्यं सूचयति। तस्य वचनात् लाक्षागृहं दग्धमकरोत् भीमः।

फाल्गुणकृष्णचतुर्दश्यां कुन्ति ब्राह्मणभोजनं किमर्थं अददात्? ते प्रतिदिनमपि दिवा वने चरन्ति। रात्रौ गृहे स्वपन्ति।

**कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः। **

** भवनस्य तव द्वारि प्रदास्यति हुताशनम् ३॥ **

पाण्डवान् प्रति खनकः अवोचत्- “पुरोचनः तव गृहं कृष्णपक्षचतुर्दश्यां दहिष्यतीति।” फाल्गुणकृष्णचतुर्दश्यां कुन्ती ब्राह्मणभोजनदानव्याजेन पचनमकरोत् ।

१. अ.को.२.१०.२०.

२. अ.को.२.१०.१९.२.१.३. म.भा.१प.१४६/५.

***द्वितीयोऽध्यायः ***

65

सा कृष्णचतुर्दशी फालगुणमासे भवति। यतो हि - फाल्गुणशुक्लाष्टम्यांरोहिणीनक्षत्रे पाण्डवाः वारणावतं प्रति जग्मुः।

**अष्टमेऽहनि रोहिण्यां प्रयाताःफाल्गुणस्य ते । **

** वारणावतमासाद्य ददृशुर्नागरं जनम् १॥ *** *

पुरोचनेन निर्मित लाक्षगृहप्रवेशपर्यन्तं विविधेषु पौरगृहेषु ते अतिवाहिताः।

**दशरात्रोषितानां तु तत्र तेषां पुरोचनः। **

** निवेदयामास गृहं शिवाख्यमशिवं तथा २॥ *** *

ते ततः संवत्सरपर्यन्तं शिवाख्ये लाक्षागृहे एव न्यवसन् ।

**तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान् । **

** विश्वस्तामिव संलक्ष्य हर्षं चक्रे पुरोचनः३॥ ** अर्थात्

फाल्गुणकृष्णचतुर्दशीपर्यन्तं ते पुरोचने विश्वस्ता इव तत्रैव न्यवसन्।तान् दृष्ट्वा पुरोचनः हर्षं प्राप्य ततः कृष्णचतुर्दश्यां लाक्षादाहमकरोत् पुरोचनः।

**कूष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः। **

** भवनस्य तव द्वारि प्रदास्यति हुताशनम् ४॥ ** तावत् पूर्वमेव विदुरेण

प्रेषितेन खनकेन कृष्णपक्षचतुर्दश्यां रात्रौ पुरोचनः लाक्षगृहं दहिष्यतीति सूचितः

युधिष्ठिरः।

फाल्गुणमासः शिशिर ऋतौ आयाति। अतः तस्मिन् दिने कुन्ती

ब्राह्मणभोजनदानापदेशेन पाकं पक्त्वा योषिद्भ्यः भोजनं दत्तवती।

**अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम् । **

** चक्रे निशि महाराज आजग्मुस्तत्र योषितः। **

*१. म.भा.१प.१४०/३४. ३. म.भा.१प.१४७/१. *

*२.म.भा.१प.१४५/११. ४. म.भा.१प.१४६/४. *

***द्वितीयोऽध्यायः ***

66

** ता विहृत्य यथाकामं भुंक्त्वा पीत्वा च भारत। **

** जग्मुर्निशि गृहानेव समनुज्ञाय माधवीम् ॥ **

**निषादी पञ्चपुत्रा तु तस्मिन् भोज्ये यदृच्छया । **

** अन्नार्थिनी समभ्यागात् सपुत्रा कालचोदिता ॥ **

** सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला । **

** सह सर्वैः सुतैः राजन्तस्मिन्नेव निवेशने ॥ **

** सुष्वाप विगतज्ञाना मृतकल्पा नराधिप १। **

अतः कुन्ती ब्राह्मञ्णभोजनदानापदेशेन पाकं पक्त्वा योषितैः भोजनं दत्तवती । सर्वा अपि यथेच्छया भुक्त्वा पीत्वा स्व गेहान् जग्मुः। यदृच्छया निशायां निषादी स्वपञ्चपुत्रैः सह तत्रागत्य भुक्त्वा मदिरां पीत्वा मत्ततया तत्रैव सुप्ता। सर्वान् सुप्तान् दृष्ट्वा मध्यरात्रौ भीमः पुरोचन सम्मुखेनैव गृहं दीपयामास। मात्रा सह सर्वे पाण्डवा सुरङ्गाद् विमुक्ताः। स्वपुत्रैःसह निषादी पुरोचनश्च तस्मिन् लाक्षागृहे एव दग्धः। कुन्त्या सह सर्वेऽपि दग्धाः, इदमकृत्यं पुरोचनस्य एव इति मत्वा दुःखिताः प्रजाः।

अत्र सन्देहो आयाति। धर्मज्ञः धर्मजः कथं निषादीन् ददाहेति।

चण्डालाः - **रात्रौ न विचरेयुस्ते ग्रामेषु नगरेषु च ॥ **

** दिवा चरेयुः कार्य्यार्थं चिह्निता राजशासनैः । **

** अबान्धवं शवञ्चैव निर्हरेयुरिति स्थितिः ॥ **

** बध्यांश्च हन्युः सततं यथाशास्त्रं नृपाज्ञया । **

** वध्यवासांसि गृह्णीयुः शय्याश्चाभरणानि च ॥ **

** **प्रायश्चित्ततत्त्वधृताङ्गिरोवचनम् शब्दकल्पद्रुमानुसारेण दृष्टम्

*१. म.भा.१प.१४५/५,४,६,७,८,९. *

***द्वितीयोऽध्यायः ***

67

दिवा निषादैः ग्रामसञ्चारः कर्तव्यः। रात्रौ निषेधः।इति हेतोः रात्रौ संचारकारणात् ते लाक्षागृहे दग्धाः। एतत् प्रायश्चित्तं तेषाम् ।

** चरन् मार्गान् विजानाति नक्षत्रैर्विन्दते दिशः। **

** आत्मना चात्मनः पञ्च पीडयन् नानुपीड्यते १॥ **

पुरोचनभयाद् विमुक्ताःसन्तः सुरङ्गमार्गात् गन्तव्यम्।तथा गम्यमाने मार्गं गोचरिष्यति। दिशः ज्ञायन्ते इति विदुरवचनात् मनः षष्ठेन्द्रियैः शरीरं पीड्यमानमपि यथा आत्मा न पीड्यते तथा मात्रा सह भ्रात्रून् देहे संस्थाप्य धृतं धावयन्नपि भीमः न पीडितः।

**जगाम भ्रात्रूनादाय सर्वान् मातरमेव च । **

** स्कन्दमारोप्य जननीं यमावङ्केन वीर्यवान् ॥ **

** पर्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः। **

** उरसा पादपान् भञ्जन् महीं पद्भ्यां विदारयन् ॥ **

** स जगामाशु तेजस्वी वातरंहा वृकोदरः२॥**

अत्र विदुरेण प्रोक्ताः सप्तश्लोकाः ग्रन्थिः श्लोकाः भवन्ति। पूर्वतनीयं श्लोकत्रयं लाक्षागृहपूर्वविषयान् सूचयति। मध्मश्लोकः कूटश्लोकः। अपरत्रयं लाक्षागृहप्रवेशानन्तरं कर्तव्यं विदुरेण सूच्यते।

**२.७. तपती-संवरण वृत्तान्ते प्रतिपादित सौरीशक्तिः आग्नेयास्त्राणि च **

पाण्डवानां पाञ्चालयात्रासमये सायंकाले ते स्नानमाचरितुं नदीं प्रापुः।तस्मिन् समये चित्ररथो नाम गन्धर्वःसस्त्रियः तत्र क्रीडति स्म।

स एव अङ्गारपर्ण इति नाम्नाऽपि व्यवह्रियते। सः स्नानार्थमागतान् पाण्डवान् निरुद्दध्य तैः सह युयुत्सुरभवत्। तेन सह संयुद्ध्य अर्जुनः आग्नेयास्त्रेण तस्य रथं ददाह।

१. म.भा.१प.१४४/२६.

२. म.भा.१प.१४८/२०,२१,२२.

***द्वितीयोऽध्यायः ***

68

तस्मात् चित्ररथस्य दग्धरथेति अपरं नामासीत्।सः अर्जुनाय चाक्षुषीविद्यां गन्धर्वहयानपि अददात्। अर्जुनः तस्मै साङ्गं आग्नेयास्त्रं प्रत्युपादिशत्।गन्धर्वः अर्जुनं तापत्य इति संबोधितवान्।तापत्यसंबोधने विशेषणं किमस्तीति अर्जुनेन प्रोच्यमान गन्धर्वः पाण्डवानां

स्वकौरववंशे जातस्य संवरणस्य उपाख्यानं श्रावयामास ।

**यः एष दिवि धिष्ण्येन नाकं प्राप्नोति तेजसा । **

** एतस्य तपती नाम बभूव सदृशी मता ।। **

** विवश्वतो वै देवस्य सावित्र्यवरजा विभो । **

** विश्रुता त्रिषु लोकेषु तपती तपसायुता १॥**

विवश्वतः सुता तपती नाम बभूव। सा पित्रुसदृशी । सावित्र्याः कनिष्ठसोदरी।तस्याः स्वरूपेण सदृशी देवयक्षरक्षोप्सरासु नासीत्।तां दृष्ट्वा सविता अनुरूपवराय कस्मै देयं स्वदुहितरं तपतीमिति अचिन्तयत्।

** अथर्क्ष्यपुत्रः कौन्तेय कुरूणामृषभो बली । **

** सूर्यमाराधयामास नृपःसंवरणस्तथा २॥ **

अर्क्ष्यपुत्रः कुरूणां श्रेष्ठः बली राजा संवरणः अर्घ्यमाल्योपचारैः उपवासैः नियतशुचिःसन् सूर्यं सभक्त्या आराधयति स्म।एकदा स सूर्यपुत्रीं तपतीं दृष्ट्वा सा अंशुमतः दुहितरमिति विज्ञाय तां परिणेतुं तपतीं अपृच्छत् विवाहावहा इति।सा" अस्वतन्त्रा धर्मे स्त्रीइति स्मृत्यनुसृत्य मत्पितरं सवितारं तपसा संतोष्य परिणयं करोत्विति" प्रत्यभणत्। तदा संवरणः गिरिप्रस्थे ऊर्ध्वमुखःसन् सूर्यमाराधयितुं स्थित्वा ऋषिसत्तमं स्वपुरोहितं वशिष्ठ ंमनसा सस्मार। तदा वशिष्ठःद्वादशतमेदिने तत्रागत्य तस्य संवरणस्य कामानां ज्ञात्वा भास्करं द्रष्टुं ऊर्ध्वमगच्छत् ।

१. म.भा.१प.१७०/६,७.२. म.भा.१प.१७०/१२.

***द्वितीयोऽध्यायः ***

69

**सहस्रासुं ततो विप्रः कृताञ्जलिरुपस्थितः। **

** वसिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् १॥ **

वशिष्ठः भगवन्तं सूर्यं प्रणिपत्य संवरणस्य ईप्सां न्यवेदयत् । सुप्रीतःसूर्यः स्वदुहितरं तपतीं संवरणाय वशिष्ठेन सह प्राप ।भगवान् वशिष्ठः द्वादशतमे दिने तत्रागत्य संवरणाय तपतीं ददौ ।

**तपसाऽराध्य वरदं देवं गोपतिमीश्वरम् । **

** लेभे संवरणो भार्यां वशिष्ठस्यैव तेजसा २॥ **

नृपतिः तां लब्ध्वा द्वादशवर्षाण्यावत् गिरिषु काननेषु च भार्यया सह रेमे। तस्य राज्ये तस्मिन् समये इन्द्रः पर्जन्यरूपेण नावर्षत्। क्षुत्पिपासैःपीडिता जनाः शवभूताः बभूवुः। तदा दयालुर्वशिष्ठः तस्मिन् राज्ये अभ्यवर्षत। तत्पश्चात् तपत्या सहितः संवरणः राज्यं अकरोत्। तदारभ्य इन्द्रः वृष्टिं ववर्ष।

अत्र तपतीसंवरणाख्यानं केवलं अर्जुनज्ञानार्थमेव न । अस्मिन् सौरशक्तिविषयऽपि विद्यते।

गूढार्थः–

**य एष दिवि धिष्ण्येन नाकं प्राप्नोति तेजसा । **

** एतस्य तपती नाम बभूव सदृशी मता ॥ **

** विवश्वतो वै देवस्य सावित्र्यवरजा विभो । **

** विशृता त्रिषु लोकेषु तपती तपसायुता ॥ **

** सहस्रासुं ततो विप्रः कृताञ्जलिरुपस्थितः। **

** वशिष्ठोऽहमिति प्रीत्या स चात्मानं न्यवेदयत् ।। **

१. म.भा.१प.१७०/१८.२. म.भा.१प.१७०/३२.

***द्वितीयोऽध्यायः ***

70

** अथर्क्ष्यपुत्रः कौन्तेय कुरूणामृषभो बली । **

** सूर्यमाराधयामास नृपः संवरणस्तथा ॥ **

** जगाम मनसा चैव वशिष्ठमृषिसत्तमम् । **

** पुरोहितममित्रघ्नस्तदा संवरणो नृपः॥ **

** तपसाराध्य वरदं देवं गोपतिमीश्वरम् । **

** लेभे संवरणो भार्यां वशिष्ठस्यैव तेजसा ॥ **

तपती- तपतीति तपती ।

       तपन्+क्विप्-तपत् धातुः तकारान्ताः प्रायशः-तपती। विवश्वतो देवस्य - विवस्वान् -विशेषेण वस्ते आच्छादयतीति । वि+वस्+क्विप्-विवस्तेजोऽस्यास्तीति । विवस्+ मतुप् अयं देवः तेजसा स्वर्गलोकपर्यन्तमपि व्याप्नोति। तस्य समप्रकाशकत्वेन तपनशीलनेन च सूर्येण सदृशी तपती भवति।अर्थात् सूर्यस्य तपनशक्तिर्यावर्तते सैव तस्य दुहिता तपती भवति। तपती नाम सूर्यस्य बहिःप्रकाशनशक्तिः अर्थात् कटपयादि क्रमेण गणनया त-६, प-१, ती-६.सहस्रांसुसमाना-१०००. 

अंशयतीति अंशुः। अंश विभाजने । सहस्रांशुसमाना- सहस्रांशुना समाना- सहस्रांशवः अस्यां वर्तन्ते । ६०१६ - तपती photosphere

सूर्यस्य कान्त्यावरणोष्णम्-६०००°cWikipedia

(The surface of the Sun is called the photosphere. It has temperature of about 6000°k)

संवरणः- सं+ वृ+ ल्युट् आवरणः- सम्यक् आवृणोतीति संवरणः

** ऋक्षं संजनयामास धूम्रवर्णं सुदर्शनम् । **

** ऋक्षाद् संवरणो जज्ञे कुरुः संवरणात् तदा २॥ *** *

१. Solar energy - fundamental economic energy analysis. Chapter.2

१. ह.वं.३२६.४६,४७.** **

***द्वितीयोऽध्यायः ***

71

ऋक्षः संवरणस्य पिता धूम्रवर्णत्वेन राजते स्म।

संवरणस्य वृत्तान्तकथने

“अथर्क्ष्यपुत्रः कौन्तेय…. " इति प्रारभ्यते। ऋक्षपुत्रः संवरणोऽपि पित्रुसदृशः। अर्थात् धूम्रवर्णेति अवगम्यते।

“पिता वै पुत्रनामासि” इति श्रुतेः।(Block body radiation) १** **

धूम्रवर्णः संवरणः सूर्यदुहितरं परिणेतुं तस्याःसूचनानुसारेण सूर्यं समर्चयत्। विवस्वतोऽङ्गीकाराय स्वकीयं पुरोहितं वशिष्ठं निमन्त्रितवान् ।

पुरोहितः-पुरः अग्रे हितं करोतीति पुरोहितः।

“अग्निमीळे पुरोहितं….” इति श्रुत्यनुसारेण पुरोहितशब्दःअग्निबोधकोऽपि।

वशिष्ठः-

**वशिष्ठोऽस्मि वरिष्ठोऽस्मि वसे वासगृहेष्वपि । **

** वशिष्ठत्वाच्च वासाच्च वशिष्ठ इति विद्धि माम् २॥ *** *

अनुशासनपर्वणि यातुधान्यै स्वनाम प्रतिपादयन् वशिष्ठोऽस्मि वरिष्ठोऽस्मि श्रेष्ठोऽस्मि वासगृहेषु वसे निवासगृहेषु वासाम्यहम्। वसिष्ठत्वात्ऐश्वर्यसम्पत्तिकारणात् निवासः कारणात् मां वशिष्ठमिति विद्धि ।

वशिष्ठः- वासगृहेषु गृहं अर्थात् निवासस्थानम्।यत्र जीवाः निवसन्ति तत्र वसामि।वसुं सम्पत्तिं यच्छामीति कारणात् मां वशिष्ठो वरिष्ठेति जानीहि। ऐश्वर्यं अर्थात् कान्तिरित्यपि। वशकान्तौ इति । “चन्द्राभां लक्ष्मीमीशानां सूर्याभां श्रिमीश्वरीम्” - इति श्रीसूक्तम्। कान्तिरूपिणी लक्ष्मीति।

वशिष्ठः- मित्रावरुणयोर्पुत्रः मैत्रावरुणिः।

१. Fundamentals technology and systems. 38 page २. म.भा.१३प.९३/८४

***द्वितीयोऽध्यायः ***

72

**विद्युतो ज्योतिः परि संजिहानं मित्रावरुणा यदपश्यतां त्वा । **

** तत्ते जन्मोतैकं वसिष्ठागस्त्यो यत्त्वा विश आजहार १॥ **

विद्युतः विद्युत इव स्वीयं ज्योतिः परि संजिहानम् परित्यजन्तं त्वा त्वाम्।….. सायणभाष्यम्।

विद्युतः ज्योतिः देहान्तरपरिग्रहणं इच्छति स्वीयं ज्योतिः परिग्रहणार्थं मित्रावरुणौ आवाभ्यां जायतेति आजहार।

**सत्रे ह जाताविषिता नमोभिः कुम्भे रेतः सिषिचतुः समानम् । **

** ततो ह मान उदियाय मध्यात्ततो जातमृषिमाहुर्वशिष्ठम् ॥ **

** उक्थभृतं सामभृतं बिभर्ति ग्रावाणः बिभ्रत्प्र वदात्यग्रे । **

** उपैनमाध्वं सूमनस्यमाना आ वो गच्छति प्रतुदो वसिष्ठः२॥ **

मित्रावरुणौ स्थले पतितं रेतःस्वयं कलशे असिञ्चताम्। कुम्भमध्यात् अगस्त्यः तत एव ऋषिर्वशिष्ठोऽपि जातः इत्याहुः।

आगतश्चासौ वशिष्ठः यज्ञे अग्रे पुरोहितो ब्रह्मा सन् उक्थभृतं शस्त्राणां संभक्तारं बिभर्ति । सामभृतं उद्गातारं बिभर्ति। ग्रावाणः अभिषवणं बिभ्रत् बिभ्रतं अध्वर्युं बिभर्ति।

-सायणभाष्यम्।

अग्न्यभिमानीदेवता मित्रः जलाभिमानीदेवता वरुणः एतौ द्वन्द्वदेवता तयोः मेलनेन विद्युदुत्पद्यतेति अगस्त्यसंहितायाम् वर्ततेति ब्रुवन्ति ।

**संस्थाप्य मृण्मये पात्रे ताम्रपत्रं सुसंस्कृतम् । **

** छादयेच्छिखिग्रीवेन चार्दाभि काष्ठापांसुभि॥ **

*१. ऋ.वे.७ मं.२.३३.१०. *

*२. ऋ.वे.७ मं.२.३३.१३,१४. *

***द्वितीयोऽध्यायः ***

73

** दस्तालोष्टो निधात्वय पारदाच्छादितस्तत। **

** संयोगाज्जायते तेजो मित्रावरुणसंज्ञितम् १॥ **

तस्य हिन्दीव्याख्यापि अत्र स्थाप्यते—

इसका तात्पर्य था, एक मिट्टी का पात्र Earthen pot लें, उसमें ताम्र पट्टिका copper sheet डालें तथा शिखिग्रीवा डालें, फिर बीच में गीली काष्ट पांसु wet saw dust लगायें, ऊपर पारा mercury तथा दस्त लोष्ट Zinc डालें, फिर तारों को मिलाएंगे तो, उससे मित्रावरुणशक्ति का उदय होगा ।

उपर्युक्त वर्णन के आधार पर श्री होले तथा उनके मित्र ने तैयारी चालू की तो शेष सामग्री तो ध्यान में आ गई, परन्तु शिखिग्रीवा समझ में नहीं आया। संस्कृत कोष में देखने पर ध्यान में आया कि शिखिग्रीवा याने मोर की गर्दन। अत वे और उनके मित्र बाग गए तथा वहां के प्रमुख से पूछा, क्या आप बता सकते हैं, आपके zoo में मोर कब मरेगा, तो उसने नाराज होकर कहा क्यों? तब उन्होंने कहा, एक प्रयोग के लिए उसकी गरदन की आवश्यकता है। यह सुनकर उसने कहा ठीक है। आप एक एप्लीकेशन दे जाइये। इसके कुछ दिन बाद एक आयुर्वेदाचार्य से बात हो रही थी। उनको यह सारा घटनाक्रम सुनाया तो वे हंसने लगे और उन्होंने कहा, यहां शिखिग्रीवा का अर्थ मोर की गरदन नहीं अपितु उसकी गरदन के रंग जैसा पदार्थ कॉपरसल्फेट है। यह जानकारी मिलते ही समस्या हल हो गई और फिर इस आधार पर एक सेल बनाया और डिजीटल मल्टीमीटर द्वारा उसको नापा। उसका open circuit voltage था १.३८ वोल्ट और short circuit current था २३ मिली एम्पीयर.

प्रयोग सफल होने की सूचना डा. एम.सी. सहस्रबुद्धे को दी गई। इस सेल का प्रदर्शन ७ अगस्त, १९९० को स्वदेशी विज्ञान संशोधन संस्था नागपुर के चौथे वार्षिक सर्वसाधारण सभा में अन्य विद्वानों के सामने हुआ। तब विचार आया कि यह वर्णन

***द्वितीयोऽध्यायः ***

74

इलेक्ट्रिक सेल का है। पर इसका आगे का संदर्भ क्या है इसकी खोज हुई और आगे ध्यान में आया ऋषि अगस्त ने इसके आगे की भी बातें लिखी हैं **१ **–

आद्यादूतं वृणीमहे वसुमग्निं पुरुप्रियम्….

मित्रावरुणाख्य विद्युदुद्पाकत्वं अगस्त्यसंहितायां महिर्षिणा अभिहितमिति रसायनशास्त्रविदुषा Varam R. Kokatnur महोदयेन उद्घाटितम् ३ ।

**तपसाराध्य वरदं देवं गोपतिमीश्वरं । **

** लेभे संवरणो भार्यां वशिष्ठस्यैव तेजसा ॥ **

संवरणः तपतीं परिणेतुं सूर्यमाराधयामास। पुरोहितेन वशिष्ठेन सूर्यलोकस्थां

विवस्वतपुत्रीं तपतीं आनीय सूर्याङ्गीकारेण संवरणाय ददे। वशिष्ठतेजसा तां भार्यामिव लेभे। अत्र पूर्वपक्षः आयाति। स्वकीयं दुहितरं वराय पित्रा प्रदातव्यम्। किमत्र वशिष्ठेन आनीतवतीति। अष्टविधविवाहेषु पौरोहित्यं नास्त्येव।

ब्राह्मो दैव आर्षः प्राजापत्यो गान्धर्व आसुरो राक्षसः पैशाचश्चेति ।। २४.१८ ।।

आहूय गुणवते कन्यादानं ब्राह्मः ।। २४.१९ ।।

यज्ञस्थर्त्विजे दैवः ।। २४.२० ।।

गोमिथुनग्रहणेनार्षः ।। २४.२१ ।।

प्रार्थितप्रदानेन प्राजापत्यः ।। २४.२२ ।।

द्वयोः सकामयोर्मातापितृरहितो योगो गान्धर्वः ।। २४.२३ ।।

क्रयेणासुरः ।। २४.२४ ।।

युद्धहरणेन राक्षसः ।। २४.२५ ।।

*१. http//vaigyanik-bharat.blogspot.com/ *

*२. ऋ.वे.स.१.मं .९..४४. *

*३. Varam R. Kokatnur.The Minnesota Alumni Weekly. *

***द्वितीयोऽध्यायः ***

75

सुप्तप्रमत्ताभिगमनात् पैशाचः [पैशचः] ।। २४.२६ ।।

एतेष्वाद्याश्चत्वारो धर्म्याः ।। २४.२७ ।।

गान्धर्वोऽपि राजन्यानां ।। २४.२८ ।।

अथाष्टौ विवाहा भवन्ति । । २४.१७

सूर्यस्य तपनशक्तिर्या तपती वर्तते तां → वशिष्ठतेजसा →संवणः लेभे।

Photosphere→ AC→solar pannel solar energy.

अनेन तपती-सवरणोपाख्यानेन सौरीशक्तिः कथिता।

अस्मिन् वृत्तान्ते अग्नेयास्त्राण्यपि संसूचितवान् । अग्नेयास्त्रं एकमेव न भवति। बहुधानि भवन्ति। अर्जुनः अङ्गारपर्णे बृहस्पतिप्रोक्ताग्नेयास्त्रं प्रहृतवान् ।

**पुरास्त्रमिदमाग्नेयं प्रादात् किल बृहस्पतिः। **

** भरद्वाजाय गन्धर्व गुरुर्मान्यः शतक्रतोः॥ **

** भरद्वाजादग्निवेश अग्निवेशात् गुरुर्मम। **

** साध्विदं मह्यमददद् द्रोणो ब्राह्मणसत्तमः२॥**

इदमाग्नेयं इन्द्रस्य गुरुः बृहस्पतिना भरद्वाजः तस्मात् अग्निवेशः तस्मात् मम गुरुर्द्रोणः मह्यं अददात्। इति अर्जुनेन प्रोक्तम्।

चित्ररथः पुरोहितस्य वैशिष्ट्यं प्रतिपादयन् विविध आग्नेयास्त्राणि सौरशक्त्यादि विषयानपि अवोचत्।

    • १.* Solar energy fundamentals , technology & systems *

२. म.भा.१प.१७१/२९,३०.

***द्वितीयोऽध्यायः ***

76

  • *पुरोहितवैशिष्ट्यम् - **लाभं लब्धुमलब्धं वा लब्धं वा परिरक्षितुम् । **

** पुरोहितं प्रकुर्वीत राजा गुणसमन्वितम् ॥ **

** पुरोहितमते तिष्ठेद् य इच्छेद् भूतिमात्मनः। **

** प्रप्तुं वसुमतीं सर्वां सर्वशः सागराम्बरम् १॥ **

     **वशिष्ठः अग्निसम इति अत्र विद्यते।  **

** सा तमग्निसमं विप्रमनुचिन्त्य सरिद्वरा। **

** शतधा विद्रुता यस्माच्छतद्रुतुरिति विश्रुता २॥ **

इति पुरोहितः अग्निरिति, अग्निसमानः वशिष्ठेति च सूचनाञ्चकार । * *

अश्मकाग्निः-

वशिष्ठतेजसा अश्मकः संजातः।

**ततोऽपि द्वादशे वर्षे संजज्ञेपुरुषर्षभ । **

** अश्मको नाम राजर्षिः पौदन्यं योन्यवेशयत् ३॥ **

अश्मः-पर्वतः । मेघः । वैदिकशब्दोऽयं

अश्मं करोतीति अश्मकः इति वक्तुं शक्यते। नाम शिला इति। शिलया आग्नेयास्त्रं ,

वैद्युताग्निरपि कर्तुं शक्यते।

और्वाग्निः-

**य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति । **

** अप्सुतं मुञ्च भद्रं ते लोकाह्यप्सु प्रतिष्ठिताः॥ **

** ततस्तं क्रोधजं तात और्वाग्निं वरुणालये । **

** उत्ससर्ज स चैवाप उपयुंक्ते महोदधौ ५॥ **

१. म.भा.१प.१७६/७७,७८. ४. श.द्रु.१भा.२४०पुटः

*२. म.भा.१प.१७६/९. *५. म.भा.१प.१७९/७,२१.

३. म.भा.१प.१७६/४७.

***द्वितीयोऽध्यायः ***

77

और्वः भृगवंशजः। भार्गवः भृगुप्रोक्ताग्नेयास्त्रं अत्र विद्यते। और्व महर्षिः तस्य क्रोधं सागरे व्ससर्ज। तदेव बडबाग्निः। तेन विद्युच्छक्तिरपि उत्पद्यतेति जानीमः। बडबाग्निना आग्नेयास्त्रमपि कर्तुं साध्यते इति विद्यते ।

पराशराग्निः-

**सर्वराक्षससत्राय संभृतं पावकं तथा । **

** उत्तरे हिमवत् पार्श्वे उत्ससर्ज महावने ।। **

** स तत्रापि रक्षांसि वृक्षानश्मशन एव च । **

** भक्षयन् दृश्यते वह्निः सदा पर्वणि पर्वणि १॥**

पराशरः कल्माषपादे स्थितं स्वकं संभृतं क्रोधं हिमवदुत्तरपार्श्वे विससर्ज। अर्थात् दावाग्निरिति। दावाग्निना अस्त्रं वैद्युतमपि उत्पद्यते ।

एवं पुरोहितवैशिष्ट्योपदेशव्याजेन अस्त्राणि विद्युद्विषकसंबन्धमपि प्रावोचत् ।

तपती-संवरणोपाख्याने सौर्यादिविद्युच्छास्त्रविज्ञानविषयाः ग्रन्थिरुपेणोद्घाटिताः। क्वचिद् वृत्तान्तपरिशीलनेनापि वेदमूलकत्वरूपेण ग्रन्थिर्भूत्वा आग्नेयाद्यस्त्राणि,सौरीशक्तिरित्यादि वैज्ञानिकविषयाः ग्रन्थिरूपेण आविष्क्रियन्ते।

**२.८. भद्रा-व्युषिताश्वयोर्वृत्तान्तः **पाण्डुं प्रति पृथया प्रोक्तः

पाण्डुमहाराजः किंदममुनिशापकारणात् पत्नीसंगमविदूरः अनपत्यः अभवत्। अपुत्रस्य गतिर्नास्तीति आर्षवचनात् कुन्तीं सन्तानोत्पत्तये प्रेरेपितवान्।

**अपत्यं धर्मफलदं श्रेष्ठं विन्दन्ति मानवाः। **

** आत्मशुक्रादपि पृथे मनुःस्वायंभुवोऽब्रवीत् ॥ **

** तस्मात् प्रहेष्यामद्य त्वां हीनः प्रजननात् स्वयम् २॥** * *

१. म.भा.१प.१८०/२२,२३.२. म.भा.१प.११९/३६,३७.

***द्वितीयोऽध्यायः ***

78

कुन्ती महात्मादीनां संगमेन सन्तनोत्पत्तिं निराकृत्य विगतजीवेन व्युषिताश्वेन सह तस्य पत्न्याः भद्रायाः सन्तनोत्पादनं कथं कृतमिति पूर्ववृत्तान्तं अकथयत्।

**त्वमेव तु महाबाहो मय्यपत्यानि भारत । **

** वीरवीर्योपपन्नानि धर्मतो जनयिष्यसि १॥ **

पुरोर्वंशविवर्धनः परमधर्मिष्ठः व्युषिताश्वो नाम राजा बभूव।स यज्ञेषु देवान् ब्रह्मर्षीन् द्विजानपि तैस्तैः कामनाभितर्पयति स्म। सर्ववर्णप्रजाः पितेव अपालयत्।तस्य भार्या काक्षीवती भद्रा नाम आसीत्। सा रूपेण भुवि असद्रुशी परमसाध्वी च। पतिपत्न्यौ परस्परकामासक्तौ। भूरिकामासक्तत्वात् व्युषिताश्वःयक्ष्मरोगग्रस्तः मृत्युं प्राप। तस्य विरहेण अनपत्या सा भद्रा अतिदुःखार्ता सती तेन सह प्राणान् त्यक्तुं उद्युक्ता। विलपन्तीं तां दृष्ट्वा योगज्ञः व्युषिताश्वः अन्तर्हितःसन् वाण्या अवदत्-

**उत्तिष्ठ भद्रे गछ त्वं ददानीह वरं तव । **

** जनयिष्याम्यपत्यानि त्वय्यहं चारुहासिनि ॥ **

** आत्मकीये वरारोहे शयनीये चतुर्दशीम् । **

** अष्टमीं वा ऋतुस्नाता संविशेथा मया सह २॥**

समान्यार्थः-

हे भद्रे! मा रुद । त्वयि सन्तानं जनयिष्यामि। ऋतुस्नानानन्तरं चतुर्दशीदिने वा अष्टमीदिवसे वा मया सह मम शवेन सह शय्यायां शयनं कुरु। तेन अपत्यं भविष्यति। अनेन त्वां वरं ददानीति स विगतप्राणः व्युषिताश्वः अवोचत् । तत्पश्चात् सा भद्रा शवेन सह त्रीन् शाल्वान् चत्वारः मद्रान् अजीजनत्।

एनां कथां श्रुत्वा वयं सर्वेऽपि काल्पनिकेति चिन्तयामः।यतो हि शवेन सह या कापि सन्तनोत्पादने न समर्था। लोके वास्तविकं न भवति। विगतजीवेन मन्त्रतन्त्रदीनां  

*१. म.भा.१प.१२०/३ *

*२. म.भा.१प.१२०/३३,३४. *

***द्वितीयोऽध्यायः ***

79

द्वाराऽपि अपत्यं न संभवति। व्यासमहाभागे किञ्चिदपि असत्यं न विद्यते। तर्हि महाभारते असत्यं कथं कल्पयति? ब्रह्मणैव प्रोक्तम्-

जन्मप्रभृति सत्यां ते वेद्मि गां ब्रह्मवादिनीम् १। इति

जन्मप्रभृति तव वाणी सत्यवेदसम्मतमिति अहं जानामि ।

अस्मिन् काव्ये न्यायशास्त्रम् , शिक्षाशास्त्रम्, वैद्यशास्त्रम्, दानप्रकरणम्, पाशुपतविद्या च लेखितुमिच्छामि।दिव्यमानुषजन्म केन हेतुना संभवतीति अत्र लेखिष्यामीति व्यासेन कथितम्।

**न्यायशिक्षा चिकित्सा च दानं पाशुपतं तथा । **

** हेतुनैव समं जन्म दिव्यमानुषसंज्ञितम् २॥**

अर्थात् अत्र शास्त्रमर्मविषयाः रहसि स्थापिताः भवन्ति। भीष्मविदुरमार्कण्डेयादिना चतुर्वर्गविषयाः विस्तृतरूपेण चर्चिताः भवन्ति। कदाचित् गोपनीयविषयान् शब्दव्युत्पत्तिसहितेन अन्यार्थग्रहणेनापि ज्ञातुं शक्नुमः। नो चेत् वेदव्यासस्य प्रतिज्ञा “यदिहास्ति न तदन्यत्र यन्नेहास्ति न तत् क्वचित्”।कथं सत्यं भवति?

निरुक्तमस्य यो वेद सर्वपापैः प्रमुच्यते ३।

व्युत्पत्तिसहितं भारतज्ञानात् सर्वपापैः प्रमुच्यतेति प्रोक्तम् ।

**आत्मकीये वरारोहे शयनीये चतुर्दशीम् । **

** अष्टमीं वा ऋतुस्नाता सःविशेथा मया सह ४॥ *** *

गूढार्थः-

" वरारोहे! आत्मकीये शयनीये अष्टमीं उत चतुर्दशीं ऋतुस्नाता सती मया सह संविशेथाः।

१.म.भा.१प.१/७२.२.म.भा.१प.१/६७. ३.म.भा..१प.६२/४०.४.म.भा.१प.१२०/३३,३४
  • *
    

***द्वितीयोऽध्यायः ***

80

" वरारोहे! त्वं ऋतुस्नाता सती आत्मकीये शयनीये चतुर्दशीम् उत वा अष्टमीं मया सह प्रविश।

शयनीये- अर्थात् स्वगर्भशय्यायां ऋतुसमये स्त्रीणां गर्भकोशे रुधिरं शय्यारूपेण आवृणोति। तथा ऋतुस्नानानन्तरं सा शय्या शिशुंधर्तुं समर्था भवति।

**मासि मासि भगद्वारा प्रकृत्यैवार्तवं स्रवेत् । **

** आर्तवस्रावदिवसाद्दृतुः षोडशरात्रयः । **

** गर्भग्रहणयोग्यस्तु स एव समयः स्मृतः १॥ **

आर्तवं तृतीये दिवसे शय्यारूपेण स्थितं भवति। तत् पश्चात् षोडशदिवसपर्यन्तं शुक्रसंयोगात् गर्भोत्पादकशक्तिः आयाति।

अष्टमीं- अष्टमी नाम तिथिसंख्या न भवति । दिनविशेषोऽपि न भवति। तिथि गणना चेत् अष्टम्यामिति सप्तमी स्यात् अत्र अष्टमी द्वितीयायां उक्ता । अर्थात् अष्टमी गर्भकोशस्य संज्ञा भवति।

**कफामपित्तपक्वानां वायोर्मूत्रस्य च स्मृता । **

** गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे २॥ **

**विण्मूत्रकृमिपक्वाम्लकफपित्ताशयाःपृथक्। **

** सन्त्यते देहिनां कोष्ठे स्त्रियां गर्भशयोऽष्टमः३॥ **

**अष्टमो गर्भाशयः स्त्रीणाम् ॥  **

प्रजाजननहेतुकाशयः स्त्रीणामेव सम्भाव्य इत्यर्थः ।

१. भा.प्र.गर्भप्रकरणम.१,२.

२. वा.सं.२ शरीरस्थानम.३अध्यायः

३. का.सं.शरीरस्थानम्.गर्भावक्रति शरीराध्यायः.९

***द्वितीयोऽध्यायः ***

81

तत्र शारीरवचनं–

**गर्भाशयोऽष्टमः स्त्रीणां पित्तपक्वाशयान्तरे १॥ **

चतुर्दशीम्-चतस्रः दशाः अस्यां गर्भाशये सन्तीति चतुर्दशी। गर्भाशयः। ताश्च

दशाः- १.कललम्२.उद्बुदम्३.अण्डम्४.पिण्डम्।मया सह संविशेथाः-मया सह अर्थात् अधुना व्युषिताश्वः विगतजीवः शवति।

अतः मम शवेन सह प्रविश शयनं कुरु इति । सं इत्युपसर्ग विशप्रवेशने.सकर्मक.आत्मने

संविसेता किन्तु शवमित्युक्ते मृतकलेबरः एव न उदकमित्यपि अन्याऽर्थो वर्तते।

शवः- पुं . क्ली शवति दर्शनेन चित्तं विकरोति शव् गतौविकारे+अच् मृतशरीरम्, कणपः, कषितिवर्धनः,मतकः"शवे सृष्टेपराधस्य एषः ते कथितो विधिः”-इति वाराहे। क्ली.शवति गच्छतीति. श्वः + अच् जलम्

शवःस्यात् कुणपे पुमान् नपुंसकस्तु पानीये –इति मेदिनी.वत्रिकम् ।

वेदनिघण्टुरनुसारेण जलं अर्थात् रेतः इत्यपि पर्यायो वर्तते।

अर्णः,क्षोदः,क्षद्मः,…..क्षीरम्,विषम्,रेतः,….- जलम् …. इत्येकशत उदकनामानि . शवः→जलम् →रेतः

अतः शव नाम रेतः उत शुक्रम् भवति। मया सह अर्थात् रेतेन सह शयनं कुरु इति अवगम्यते।

अस्मिन् वृत्तान्ते वैज्ञानिकांशः विद्यते। व्युषिताश्वस्य रेतः भद्रायाः आर्तवेन सह तस्याः गर्भाशये प्रवेशयित्वा सन्तानोत्पादनं अकुर्वन्निति विद्यते।

*१. आ.सू. योगानन्दनाथभाष्यसमेतम्/द्वितीयप्रश्नः४,२ *

*२. ह.को.अकारादिशब्दानुक्रमकोशः. विवृत्तिसहितः। *

३. नि.रु.२अध्यायः/२४

***द्वितीयोऽध्यायः ***

82

साम्प्रतिके काले पुरुषस्य शुक्रं चयनं कृत्वा स्त्रियः गर्भे स्थापयित्वा गर्भं उत्पादयन्ति

Posthumous reproduction रीत्या भिषजः।

युग्मासुपुत्राजायन्ते स्त्रियोऽयुग्मासुरात्रिषु ।

तस्माद् युग्मासु पुत्रार्थि संविसेदर्ततवे स्त्रियम् ।।

अतः व्युषिताश्वेन कथितं - ऋतुस्नातानन्तरं अष्टमिदिने उत चतुर्दशीदिने शयनं कुरु इति । अत एव भद्रायाः शाल्वाः मद्राः इति पुत्राः जाताः।

**२.९. अर्जुनस्य पञ्चब्रह्मसु सद्योजांशत्वम् **

स्त्रीसङ्गमेन मृत्युर्भविष्यतीति किन्दममुनिना पाण्डुमहाराजः शप्तः। स धार्मिकः किन्दमशापाद् विरक्तः सन् अटव्यां यतिजीवनं यापयितुमुद्युक्तः। तस्य पत्न्यौ कुन्ती माद्री च तं अन्वगच्छताम्। ते तपः तप्तुं हिमवन्तमतिक्रम्य गन्धमादनं प्रयाताः। तपसा तत्र राजा सिद्धचारणगन्धर्वानां प्रियदर्शनः बभूव। एकदा अमावास्यायां ऋषिसंघाः ब्रह्माणं द्रष्टुं गताः। महर्षीन् पाण्डुमहाराजः अपत्यहीनात् स्वर्गद्वारमपि न परिचक्षते इति वदन्..

**ऋणैश्चतुर्भि संयुक्ता जायन्ते मानवा भुवि ।। **

** पित्रुर्देवर्षिमनुजैर्देयं तेभ्यश्च सर्वतः १॥ **

मानवाः पित्रुदेवताऋषिमनुष्य ऋणेभ्यः तीर्त्वा एव परलोकमवाप्नोति इत्येवं वचोभिः अनपत्योऽहं कथं पारयामीति प्रार्थितवान्। ऋषयः दिव्यक्षुषा सः अपत्यवान् भविष्यतीति अवोचन्। तदा पाण्डुः कुन्तीं केनापि महात्मना अपत्यं वहेति बहुभिःशास्त्रमर्मवचनैः प्रचोदितवान्। तच्छृत्वा कुन्ती “स्वबाल्ये दुर्वासोमहर्षिणा उपादिष्टमन्त्रविषयकवृत्तान्तं उक्त्वा तन्मन्त्रप्रभावात् यं देवमनुस्मरामि स देवः आगत्य पुत्रं यच्छतीति” अवोचत्।

*१. म.भा.१प.१२९/२७,२८. *

***द्वितीयोऽध्यायः ***

83

पाण्डुमहाराजः तस्याः वचनमङ्गीकृत्य प्रथमं धर्मदेवतां ,पश्चात् वायुदेवं आहूय ताभ्यां युधिष्ठिरं भीमसेनं च क्षेत्रजौ लेभे।अनन्तरं लोकश्रेष्ठपुत्रमवाप्तुं पाण्डुराजः देवेन्द्रं आह्वयितुं संवत्सरकालं तपश्चकार ।

**ततः पाण्डुर्महाराजो मन्त्रयित्वा महर्षिभिः। **

** दिदेश कुन्त्या कौरव्यो व्रतं संवत्सरं शुभम् १॥**

एकपादेन स्थितः सः सूर्ये तप्त्वा त्रिदशानां ईश्वरं इन्द्रं प्रति उग्रं तपःचकार। ततः दीर्घकालेन इन्द्रः पाण्डवे इत्थं वरं अदात्-

**इत्युक्तः कौरवो राजा वासवेन महात्मना । **

** सुतं तेग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् २॥** * *

" पाण्डो! त्रिलोकेषु विस्त्रुतं पुत्रं तुभ्यं प्रदास्यामि। सः ब्राह्मणानां गवां सुहृदां च मनोरथान् पूरयिष्यति। दुष्टजनानां शोकजनकः सर्वशत्रुविनाशकरो भविष्यति। शत्रूणां शोकजनकं सर्वबन्धूनां आनन्दवर्धनं सर्वामित्रविनाशकरं श्रेष्ठं पुत्रं तुभ्यं प्रदास्यामीति अवोचत्। अनेन देवराजवचनेन सन्तुष्टः पाण्डुमहाराजः कुन्तीं एवं आह-" कल्याणि! देवेन्द्रः तव तपसा प्रीतः सन् अलौकिककर्माणं ,यशस्विनं, शत्रुदमनं, नीतिमन्तं, आदित्यसमतेजसं, महात्मानं, दुर्धर्षं, कर्मकर्तारं,अद्भुतदर्शनं यथा त्वया संकल्पितं तथाविधं पुत्रं तुभ्यं प्रदातुमिच्छति। तं देवगणेश्वरं आह्वयेति" आदिष्टवान्।

एतैः श्लोकैः अर्जुनः दशमासावधि कुन्तीगर्भे नोषितवानिति अवगम्यते। यथा–

**पराशरेण संयुक्ता सद्यो गर्भं सुषाव सा । **

** जज्ञे च यमुना द्वीपे पाराशर्यः स वीर्यवान् ३॥ *** *

व्यासमहाभागःसद्योजातः तथा अर्जुनोऽपि सद्योगर्भः।

अत्र गूढार्थश्लोकाः ग्रन्थिरूपेण वर्तन्ते।

*१. म.भा.१प.१२२/२५. *

*२. म.भा.१प.१२२/२९,३०. *

*३. म.भा.१प.६३/८४. *

***द्वितीयोऽध्यायः ***

84

** इत्युक्तः कौरवो राजा वासवेन महात्मना । **

** सुतं तेग्र्यं प्रदास्यामि सर्वामित्रविनाशनम् १॥** * *

अत्र अग्रे भवं अग्र्यमिति।अग्र्यं सुतं नाम उत्तमं श्रेष्ठपुत्रमिति सारल्येन। परं गूढार्थेन अग्रस्य भावः अग्र्यम्।अग्रं नाम पुरस्तात् इत्यपि अर्थो वर्तते। गर्भस्थितिकालः दशमासाः। दशमासानन्तरं शिशुः जनिष्यति। किन्तु तावत् पूर्वमेव दशमासावधि विना गर्भवासेन शिशुं प्रदास्यामीति इन्द्रवचनात् विद्यते।

**नीतिमन्तं महात्मानं आदित्यससमतेजसम् । **

** दुराधर्षं क्रियावन्तमतीवाद्भुतदर्शनम् २॥ **

अत्र क्रियावान् नाम कर्मसु उद्यतः क्रियासु नियुक्तः इति च अमरकोशे।

क्रियावान् कर्मसूद्यतः

क्रिया अस्मिन् अस्तीति क्रियावान् । मतुप्। अत्र क्रिया नाम चेष्टा भवति।

चेष्ट + भावे अङ् टाप् च । कायिकव्यापारः । इति मुग्धबोधटीकायां दुर्गादासः

गर्भस्थितिकाले जीवः क्रियावान् न भवति। स्वतन्त्रपरको न भवति। यदा गर्भात् भूमौ पतितो भवति तावत्प्रभृति सक्रियो भवति ।

ऋतुकाले सम्प्रयोगादेकरात्रोषितं कललं भवति, सप्तरात्रोषितं बुद्बुदम्, अर्थमासाभ्यन्तरे कठिनम्, मासद्वयेन शिरः, मासत्रयेण पादप्रदेशः, चतुर्थे गुलफ-जठर-कटिप्रदेशाः, पञ्चमे पृष्ठवंशः, षष्ठे मुख-नासिका -अक्षिश्रोत्राणि, सप्तमे जीवेन संयुक्तः, अष्टमे सर्वलक्षणसंपूर्णो भवति । अथ मात्राशितनाडीसूत्रगतेन प्राण अप्यायते । अथ नवमे

मासि सर्वलक्षणज्ञानसंपूर्णो भवति, पूर्वजातिं स्मरति, शुभाऽशुभंञ्च कर्म विन्दति । अथ योनिद्वारं संप्राप्तो यन्त्रेणापीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना सम्पृष्टः3…..

१. म.भा.१प.१२२/२९,३०. ४. श.द्रु.२भा/२१८

२. म.भा.१प.१२२/३३. ५. गर्भोपनिषत्-३,४.

*३. अ.को.३.विशेष्यविघ्नवर्गः.१८ *

***द्वितीयोऽध्यायः ***

85

अस्य ग्रन्थिश्लथीकरणे प्रामाणपूर्वकश्लोकोऽयम्….

**अनुसंवत्सरं जाता अपि ते कुरुसत्तमाः। **

** पाण्डुपुत्रा व्यराजन्त पञ्चसंवत्सरा इव १॥ **

ते पाण्डुपुत्राः अनुसंवत्सरं एकैकः एकैकस्मिन् वर्षे जाताः। तथा पञ्चसंवत्सरा इव ते राजन्ते ।

पञ्चसंवत्सरनामानि ब्रह्माण्डपुराणे…

** संवत्सरस्तु प्रथमो द्वितीयः परिवत्सरः।। **

** इड्वत्सरस्तृतीयश्च चतुर्थश्चानुवत्सरः। **

** पञ्चमो वत्सरस्तेषां कालः स युगसंज्ञितः।। **

** तेषां तत्त्वं प्रवक्ष्यामि कीर्त्यमानं निबोधत। **

** क्रतुरग्निस्तु यः प्रोक्तः स तु संवत्सरो मतः॥ **

** आदितेयस्त्वसौ सूर्यः कालाग्निः परिवत्सरः। **

** शुक्लकृष्णगतिश्चापि अपां साम्यं खगः।। **

** स इडावत्सरः सोमः पुराणो निश्चयं गतः। **

**यश्चायं प्लवते लोकास्तनुभिः सप्तसप्तिभिः। **

** अनुवाता च लोकस्य स वायुरनुवत्सरः॥ **

** अहंकारादुदग्रुद्रः संभूतो ब्रह्मणस्तु यः। **

** स रुद्रो वत्सरस्तेषां विज्ञेयो नीललोहितः२॥ **

१. म.भा.१प.१२३/२२.

*२. ब्रं.पु.१ भागे.द्वितीयेऽनुषङ्गपादे.१३.११४-१२०. *

***द्वितीयोऽध्यायः ***

86

यजुर्वेदेऽपि ….

संवत्सरोऽसि । परिवत्सरोऽसि । इदावत्सरोऽसीदुवत्सरोऽसि । इद्वत्सरोऽसि

वत्सरोसि १ ….

एतत् संवत्सरादिपञ्चकमेव द्वादशाकृतौ षष्टिसंवत्सराणि भवति।

पञ्चसंवत्सरेषु यथाक्रमं एकैकः पाण्डवः सञ्जात इति उपरितनश्लोकात् ज्ञायते। पृथा यदा युधिष्ठिरं गर्भं धत्ते तावद् पूर्वमेव गान्धारी अन्तर्वत्नी भवति।

**ततः कालेन सा गर्भं धृतराष्ट्रादथाग्रहीत् । **

** संवत्सरद्वयं तं तु गान्धारी गर्भमाहितम् ॥ **

** अप्रजां धारयामास ततस्तां दुःखमाविशत् । **

** श्रुत्वा कुन्ती सुतं जातं सोमार्कसमतेजसम् २॥** * *

गान्धारी संवत्सरद्वयाद् पूर्वमेव गर्भं अधत्ते । कुन्ती ज्येष्ठपुत्रं युधिष्ठिरं प्रसूतवतीति श्रुत्वा दुःखभागिनी अभवत् । अर्थात् गान्धर्याः संवत्सरात्मक गर्भसमये कुन्ती धर्मदेवतं आमन्त्रणं तस्मात् वरं प्राप्य अन्तर्वत्नी भवति। तदनन्तरवर्षे अर्थात् गान्धार्याःद्वितीयसंवत्सरसमये धर्मजं प्रसुषुवे।

गान्धारी"कुन्ती रविसमप्रभं ज्येषठसुतं प्रसूतेति श्रुत्वा दुःखेन मे उदरं घातितवतीति" व्यासं प्रत्यवोचत्।

गान्धार्युवाच-

**ज्येष्ठं कुन्तीसुतं जातं श्रुत्वा रविसमप्रभम् । **

** दुःखेन परमेणेदमुदरं घातितं मया ३॥**

१. कृ.य.तै.ब्रा.१०प्र.४अनु

२. *म.भा.१प.११४/१,१०. *

३. म.भा.१प.११४/२५.

***द्वितीयोऽध्यायः ***

87

व्यासमहाभागः तं मांसमयीपिण्डं शतधा विभज्य सुगुप्तेषु घृतपूर्णकुम्भेषु संस्थाप्य पुनः संवत्सरद्वयं रक्षणीयं, तावत् पूर्वं नोद्घाटनीयमिति आज्ञां विधाय अगमत्। अनन्तरं भीमसेनजननसमये एव दुर्योधनः जनितवान्। युधिष्ठिरजननस्य संवत्सरानन्तरं भीमसेनः जातः। तस्मिन् दिवसे एव दुर्योधनोऽपि जज्ञे।

**यस्मिन्नहनि दुर्धर्षो जज्ञे दुर्योधनस्तदा।। **

** तस्मिन्नेव महाबाहुरजज्ञे भीमोऽपि वीर्यवान् १॥ *** *

**यस्मिन्निदं भीमस्तु जज्ञे भरतसत्तम । **

** दुर्योधनोऽपि तत्रैव प्रजज्ञे वसुधाधिप २॥** * *

तत्पश्चात् पाण्डुमहाराजः श्रेष्ठं पुत्रं संप्राप्तुं कुन्त्या सह उग्रं तपश्चकार। अनन्तरं अर्जुनः अजायत।

** एवमुक्त्वा ततः शक्रमाजुहाव यशस्विनी । **

** अथाजगाम देवेन्द्रो जनयामास चार्जुनम् ३॥** * *

इन्द्रः पाण्डुमहाराजाय वरं दत्वा कुन्त्याः निमन्त्रणात् अर्जुनं अजीजनत्। युधिष्ठिरजननस्य संवत्सरानन्तरं भीमसेनं, अर्जुनं कुन्ती प्रसूतवती। तदनन्तरं माद्री नकुलसहदेवौ प्रसूतवती माद्रीति पञ्चसंवत्सरा इव इति श्लोकात् विद्यते । परं अर्जुनजन्मनः प्राक् पाण्डुः देवेन्द्रं आराधयामास। तर्हि भीमजननस्य संवत्सरद्वयानन्तरं अर्जुनस्य जन्म भवेत्। यदि कुन्ती अर्जुनं गर्भे धारयेत् चेत्। किन्तु अत्र भीमजन्मनः संवत्सरात् परं अर्जुनस्य जन्म भवति तर्हि पञ्चसंवत्सरा इव श्लोकः सिद्धो भवति। अतः इत्थं विचारयामश्चेत् कुन्त्याः गर्भधारणां विनैव सद्यो गर्भत्वेन अर्जुनः आविरासीत्।स सद्योजातेति अवगम्यते ।

१. म.भा.१प.११४/२६,२७.

*२. म.भा.१प.१२२/११. *

३ .म.भा.१प.१२२/३५.

***द्वितीयोऽध्यायः ***

88

अस्मिन् संदर्भे एव विचारणीयो विषयःयत् द्वाभ्यां संवत्सराभ्यां प्राक् घृतपूर्णकुम्भानि मा उद्घाटनीयानि इति व्यासेनोक्त्वापि संवत्सरात् पूर्वमेव उद्घाटितवत्यः स्यात् ।

  गान्धारी गर्भः संवत्सरद्वयम् 

                  ↓ 

प्रथमवत्सरे कुन्ती धर्मं प्रति प्रार्थना

द्वितीयवर्षे युधिष्ठिरस्य जन्म,गान्धारीगर्भपतनम्घृतकुम्भेषु स्थापनम्

तृतीयवत्सरे भीमदुर्योधनयौर्जन्म

चतुर्थे कुन्ती-पाड्वोः व्रतम्

तस्मिन् वत्सरे एव अर्जुनस्य जन्मसद्योगर्भः

व्यासमहाभागस्य वचनमतिरिच्य घृतकुम्भस्थितं अङ्गुष्ठमात्रं गर्भं द्वाभ्यां संवत्सराभ्यां पूर्वमेव उद्घाटितवन्तः। अत एव दुर्योधनस्य अधोभागं स्त्रीसदृशं कोमलं भवति ।

**एवमुक्त्वा तु कौन्तेयमुपोह्य वसनं स्वकम् । **

** स्मयन्नवेक्ष्य पाञ्चालीमैश्वर्यमदमोहितः॥ **

** कदलीस्तम्भसदृशं सर्वलक्षणसंयुतम् । **

** गजहस्तप्रतीकाशं वज्रप्रतिमगौरवम् १॥**

*१.म.भा.२प.७१/१०,११. *

***द्वितीयोऽध्यायः ***

89

द्यूतसभायां मदमोहितः दुर्योधनः स्व ऊरू अदर्शयत्। तस्य ऊरू कदलीस्तम्भसदृशौ गजकराविव वज्रसंकाशौ भवतः। अत्र ऊरुवर्णनं स्त्रीसदृशं भवति।

घोषयात्रापर्वणि-

**पुरा त्वं तपसास्माभिरलब्धो राजन् महेश्वरात् । **

** पूर्वकायश्च पूर्वस्ते निर्मितो वज्रसंचयैः॥ **

** अस्त्रैरभेद्यःशस्त्रैश्चाप्यधः कायश्च तेऽनघ । **

** कृतः पुष्पमयी देव्या रूपतः स्त्रीमनोहरः१॥ *** *

दुर्योधनप्रयोपवेशसमये भीताः रसातलगताः राक्षसाःतं कृत्या शक्त्या रसातलं आनीय दुर्योधनाय धैर्यवचनानि भविष्यद् कार्यमपि उद्बोधयन्तः " सुयोधन! अस्माभिस्तपसा त्वं अस्माकं तपसा प्रादुर्भूतः। परमेश्वरेण तव पूर्वकायः वज्रसदृशो सुदृढो निर्मितः। देव्याः स्त्रीमनोहरः कुसुमसदृशः अधःकायः विनिर्मितः। “इत्याहुः।

गर्भे स्थितः जीवः मासि मासि शरीरावयवैः विवृद्धो भवति। तत् पश्चात् दशमे मासि परिपूर्णाङ्गो भवति। यदि गर्भस्थशिशुः एनकेनापि कारणेन बहिरायाति असम्पूर्णाङ्गो दृढविहीनो भवति । अतः दुर्योधनस्य अधोभागःकोमलत्वेन अनेन कृतः इति विद्यते । अत एव भीमार्जुनौ एकस्मिन्नेव दिवसे सञ्जातौ ।

अस्मिन् वृत्तान्ते ग्रन्थिश्लोकेभ्यः विद्यते अर्जुनः सद्योजातेति, भीमदुर्योधनौ समवयस्काविति ।

DE

१*.म.भा.३प.२५२/६,७.*

qतृतीयोऽध्यायः

90

**तृतीयोऽध्यायः **

**आदिसभापर्वणोःग्रन्थिश्लोकानुशीलनम् **

**आदिपर्व **

**३.१. तिलोत्तमा वृत्तान्तः **

पाञ्चाल्या सह पाण्डवानां उद्वाहानन्तरं सर्वज्ञो नारदमुनिःद्रोपदीसमागमं कथं विधातव्यः इति उद्बोधयितुं आगत्य सुन्दोपसुन्दसहिततिलोत्तमायाः वृत्तान्तं अश्रावयत् । तत्पश्चात् एकैकस्मिन् वत्सरे एकैकं पाण्डवं कृष्णया संवेशयेदिति यः कश्चित् पाण्डवः यं कं स्वभ्रातरं कृष्णया सह एकान्ते पश्यति तर्हि तस्य द्वादशवर्षाणि ब्रह्मचर्यं वनवासमिति समयं चकार ।

**एवमुक्त्वा महात्मानो नारदेन महर्षिणा । **

** समयं चक्रिरे राजंस्तेऽन्योन्यवशमागताः१॥ * ***

**समक्षं तस्य देवर्षेर्नारदस्यामितौजसः। **

** एकैकस्य गृहे कृष्णा वसेद् वर्षमकल्मषा। **

** द्रौपद्या यः समासीनमन्योन्यं योऽभिदर्शयेत् । **

** स नो द्वादशवर्षाणि ब्रह्मचारी वने वसेद् २॥**

तस्मिन् सन्दर्भे तिलोत्तमायाः वृत्तान्तमकथयत् मुनिः। सुन्दोपसुन्दौ हिरण्यकशिपोः अन्ववाये निकुम्भस्य पुत्रौ आस्ताम्। तौ ब्रह्माणमुद्दिश्य तपश्चक्रतुः।

ततः ब्रह्मा वरं दातुं आगच्छत् । तौ अमरत्वं याचितौ। तथा ब्रह्मा अमरत्वं विना असुरैः समं अन्यत् वृणीतमित्यवदत्।

**ऋतेऽमरत्वं युवयोः सर्वमुक्तं भविष्यति । **

** अन्यद् वृणीतं मृत्योश्च विधानममरैःसमम् ३॥ **

१. म.भा.१प.२१०/१३.

*२. म.भा.१प.२१२/१,२८,२९.३. म.भा.१प.२०८/२१. *

***तृतीयोऽध्यायः ***

91

त्रैलोक्यविजयार्थं भवन्तौ तपश्चरन्तौ । अतः अमरत्वं भवतोः न विधीयते। अतः विनाऽमरत्वं वृणुतामित्यवोचत् ब्रह्मा ।

** त्रिषु लोकेषु यत् किंचित् भूतं स्थावरजङ्गमम् । **

** सर्वस्मान्नो भयं नस्यादृते ऽन्योन्यं पितामह १॥ **

पितामह! त्रिषु लोकेषु स्थावरजङ्गमं भूतं यदस्ति तस्मात् तथा सर्वस्माच्च आवयोः अन्योन्यं विना भयं न स्यात्। इति अब्रूताम्। ब्रह्मा तथास्तु इति वरं अदात्। तौ सुन्दोपसुन्दौ सर्वस्य लोकस्य अवध्याविति गर्वेण देवर्षिसंघान् जघ्नतुः। तदा त्रिविष्टपाः ब्रह्माणं शरणं ययुः। ब्रह्मा तयोः विनाशकालं स्मृत्वा सुन्दोपसुनदाभ्यां प्रार्थितामेकां प्रमदां स्रुजेति विश्वकर्माणं आदिदेश ।

**दृष्ट्वा च विश्वकर्माणं व्यादिदेश पितामहः। **

** सृज्यताम् प्रर्थनीयैका प्रमदेति महातपाः२॥ **

विश्वकर्मा पितामहं नमस्कृत्य सम्यक् विचिन्त्य दिव्याङ्गनां निर्ममे।

**त्रिषु लोकेषु यत्किंचित् भूतं स्थावरजङ्गमम् । **

** समानयद् दर्शनीयं तत् तदत्र स विश्ववित् ।। **

** कोटिशश्चैव रत्नानि तस्या गात्रे न्यवेशयत् । **

** तां रत्नसंघातमयीमसृजत् देवरूपिणीम् ॥ **

** सा प्रयत्नेन महता निर्मिता विश्वकर्मणा । **

** त्रिषु लोकेषु नारीणां रूपेणाप्रतिमाऽभवत् ॥ **

** तिलं तिलं समानीय रत्नानां यद् विनिर्मिता । **

** तिलोत्तमेति यत् तस्याः नाम चक्रे पितामहः३॥ **

१. म.भा.१प.२०८/२४.

२. म.भा.१प.२१०/११

*३. म.भा.१प.२१०/१३,१४,१५,१८. *

***तृतीयोऽध्यायः ***

92

विश्वकर्मा महता प्रयत्नेन स्थावरजङ्गमेषु उत्तमद्रव्यं समानीय कोटिशः रत्नानि तिल तिलं अर्थात् तिलमात्रं तस्याः गात्रे न्यवेशयत्। तस्याः नाम तिलोत्तमेति पितामहं अकारि ।

**त्रिषु लोकेषु यत् किंचित् भूतं स्थावरजङ्गमम् । **

** सर्वस्मान्नो भयं नस्यादृते ऽन्योन्यं पितामह १॥ **

सुन्दोपसुन्दयोर्पक्षे भावः–

त्रिषु लोकेषु स्थावरजङ्गमात्मकं स्थावरः-अचलवस्तुः जङ्गमम्-

पुनर्पुनर्गच्छतीति । जङ्गमंस्त्वपि चतुर्विधम्-जरायुजाण्डजस्वेदजोद्भिज्जाः-

भूतंम्-प्राणी, जन्तुः भवो गत्यर्थे इति यत्किंचिदस्ति तस्मात् भयं पुनश्च सर्वस्मात् नः भयं मास्तु। यद् भयमस्ति तर्हि अन्योन्यं आवयोः परस्परमेव भवेदिति तयोः चिन्तनमस्ति। यतो हि तौ परस्परं सततमपि प्रीतमस्कावेव।अतः स्पर्धैव नास्ति। तर्हि मृत्युः कदापि न संभविष्यतीति तयोः अभिप्रायः। परन्तु ब्रह्मा तयोर्वरमेव मृत्युरूपेणाददत् ।

ब्रह्मणःपक्षे भावः–

**त्रिषु लोकेषु यत् किंचित् भूतं स्थावरजङ्गमम् । **

** समानयत् दर्शनीयं तत् तदत्र स विश्ववित् ॥ **

“स विश्ववित् - स विश्वज्ञो विश्वकर्मा त्रिषु लोकेषु स्थावरजङ्गमात्मकं भूतं यदस्ति तत् किंचित् समानीय दर्शनीयं रूपं चकार । “इति।

भूतं - पञ्चभातात्मकम् क्ष्मादयः पृथिव्यप्तेजोवायुराकाशात्मकम्

त्रिभुवनेषु स्थावरजङ्गमेषु पञ्चभूतात्मकं द्रव्यं यदस्ति तत् स्वीकृत्य दर्शनीयं रूपं असृजत्। अत्यन्तसौन्दर्यदर्शनाय तस्याः गात्रे कोटिशः रत्नानि तिलामात्राणि संगृह्य प्राक्षिपत् ।

*१. म.भा.१प.२०८/२४ *

*२. म.स्मृ.१२.१४ *

***तृतीयोऽध्यायः ***

93

तर्हि अत्र अवबोध्यते तिलोत्तमा देवयोनि विशेषः नैव चलद्यन्त्रमिति । यतो हि

युधिष्ठिर उवाच-

**सुन्दोपसुन्दावसुरौ कस्य पुत्रौ महामुने । **

** उत्पन्नाश्च कथं भेदः, कथं चान्योन्यमघ्मताम् ॥ **

** अप्सरा देवकन्या वा कस्य चैव तिलोत्तमा । **

** यस्याः कामेन संपन्नौ जघ्नतुस्तां परस्परम् १॥** * *

युधिष्ठिरः देवर्षिं नारदं अपृच्छत्- सा तिलोत्तमा देवकन्या वा अप्सरा वा कस्यैषा इति। अस्मिन् वृत्तान्ते तिलोत्तमा देवयोनिविशेष इति नोक्तम् । अतः सा विश्वकर्मणा निर्मितापुत्तलिकेति इति विज्ञायते ।

चलद्यन्त्रविषये भोजराजस्य समराङ्गणसूत्रधारे-

**यदृच्छया प्रवृत्तानि भूतानि स्वेन कर्मणा । **

** नियम्यास्मिन् नयति यत् तद् यन्त्रमिति कीर्तितम् ॥ **

**नियम्यास्मिन् प्रवृत्तानि भूतानि स्वमनीषया । **

** कृतं यस्मात् यमयति तद्वा यन्त्रमिति स्मृतम् । **

** तस्य बीजं चतुर्धा स्यात् क्षितिरापोऽनलोनिलः। **

** आश्रयत्वेन चैतेषां वियदप्युपयुज्यते।। **

** अंशांशिभावाद् भूतानां संख्यैषामतिरिच्यते। **

** यःसम्यग्येतज्जानाति स पुमान् भवति प्रियः॥ **

** प्रमदानां नृपाणां च प्रज्ञानां च मतस्य च । **

** लाभं ख्यातिं च पूजां च यशोमानं धनानि च ॥२ **

.म.भा.१प.२०७/२२,२३.

२. स.सू.धा.यन्त्रविधानम्.१३०.३,४,५,१६

***तृतीयोऽध्यायः ***

94

पृथिव्यादिपञ्चन्मात्रा आदाय प्रमदादीनां यन्त्राणि कर्तुं शक्नुयादिति भोजेनोक्तम् ।

तथा च तिलोत्तमा ब्रह्मणा न सृष्टम्।देवशिल्पि विश्वकर्मणा निर्मिता । अतः अस्मात् ग्रन्थिश्लोकादवगम्यते तिलोत्तमा देवयोनिविशेषो नैव चलद्यन्त्ररुपेण निर्मितेति। अतः समयपरिपालनमतीत्य द्रौपदी-धर्मजयोः एकान्ते स्थितयोः सत्योः आयुधानां आवश्यकत्वेन अर्जुनस्यतदागारप्रवेशनात् द्वादशवर्षरूपब्रह्मचर्यं अनुष्ठितं अर्जुनेन ।

सुन्दोपसुन्दविषये तिलोत्तमामुद्दिश्य अन्योन्यपणग्रहणमभूत्।सा कथा अत्र तदर्थं प्रदर्शिता नारदेन ।

अयोनिजा द्रौपदी अयोनिजा तिलोत्तमा च । उभावपि ब्रह्मणा न सृष्टे ।

**सभापर्व **

**३.२. धर्मजेन कृत द्युतक्रीडायाः निर्दोशत्वप्रमाणम् **

राजसूययागोत्सवे पाण्डवानां बृहदैश्वर्यं कीर्तिंश्च दृष्ट्वा सुयोधनः असूयां चक्रे। तान् पाण्डवान् जेतुं न शशाक। असहमानेन सुयोधनेन केनाप्युपायेन तेषां ऐश्वर्यं स्वायत्तीकर्तुं उपायान्तरमन्वेषितम् । सः शकुनिं प्रत्युवाच-” अयि! मातुल! अहं स्वल्पैश्वर्येण न तृप्तोऽस्मि । " महदैश्वर्यसम्पन्नान् तान् पाण्डवान् अवलोक्य मम मनः अमर्षवशात् दंदह्यते । मम तनुं अग्नौ दहिष्ये ।” तदा शकुनिः- " सततप्रयत्नाः पाण्डवाः पित्र्यंशं सम्पाद्य तं विवृद्धिः कुर्वन्ति । तेषां सहायवान् भवति वीर्यवान् वासुदेवः, सुतैः सह दृपदः द्रौपदी च ।

**तैर्लब्धा द्रौपदी भार्या दृपदश्च सुतैः सह । **

** सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् १॥** * *

तान् युद्धे जेत्तुं अस्माभिरेव न । देवैरपि न शक्यन्ते ।

*१. म.भा.२प.४८/४. *

***तृतीयोऽध्यायः ***

95

**धनंजयो वासुदेवो भीमसेनो युधिष्ठिरः। **

** नकुलः सहदेवश्च द्रुपदश्च सहात्मजैः॥ **

** नैते युधि पराजेतुं शक्या देवगणैरपि । **

** महारथा महेष्वासाःकृतास्त्राः युद्धदुर्मदाः१॥ *** *

अतः एक एव उपायोऽस्ति । तेन विग्रहं विनैव राज्यं प्राप्स्यामहे। स एव उपायःदुरोदरद्यूतरूपः।

कुन्तीपुत्रः युधिष्ठिरः द्यूतप्रियः। किन्तु सः देवितुं न जानाति। रणे वा द्यूते वा आहूतः सः न निवर्तते। अतः तमह्वयेति प्रोवाच।

**द्यूतप्रियश्च कौन्तेयो न स जानाति देवितुम् । **

** समाहूतश्च राजेन्द्रो न शक्ष्यति निवर्तितुम् २॥** * *

**आहूयतां परं राजन् कुन्तीपुत्रो युधिष्ठिरः। **

** आगत्वा संशयमहमयुद्ध्वा च चमूमुखे ३॥** * *

किन्तु अत्र विचारायामश्चेत् तावत्पूर्वं युधिष्ठिरः द्यूतचिकीर्षुः नाभवत्। शकुनिदुर्योधनयोः कुटिलोपायेनैव धृतराष्ट्रेण आहूतः। द्यूतसभायामपि स पाशान न स्पृष्ट्वान्। धर्मज्ञो साक्षाद् धर्मावतारः धर्मजः कथं द्यूतव्यसनी भवति?

**एष विग्रहवान् धर्मः एष वीर्यवतां वरः। **

** एष बुद्ध्याधिको लोके तपसानां च परायणम् ४॥ *** *

अयं युधिष्ठिरः धर्ममूर्तिः, वीरश्रेष्ठः, महाबुद्धिमान्, तपोजनानां पूजनीयः इति अर्जुनेन कथितः।

*१. म.भा.२प.४८/१५,१६. *३. म.भा.२प.५६/२.

२. *म.भा.२प. ४८/१९. ***४. **म.भा.४प.७०/१०.

***तृतीयोऽध्यायः ***

96

धर्माचरणविषये धर्मजोक्तिः-

**धर्म एव हतो हन्ति धर्मो रक्षति रक्षितः। **

** तस्माद् धर्मं न त्यजामि मा नो धर्मोऽहतोवधीत् १॥ **

अतः कथं युधिष्ठिरः धर्मं त्यजति ?

हास्यार्थमपि द्यूतं न कर्तव्यमिति अक्षक्रीडा अधर्म इति मनुना प्रोक्तम्। द्यूतं अधर्ममिति धर्मावतारः धर्मजः जानाति। तर्हि कथं अङ्गीकृतवान्?

**द्यूतमेव पुरा कल्पे दृष्टं वैरकरं महत् । **

** तस्माद् द्यूतं न सेवेत हास्यार्थमपि बुद्धिमान् २॥**

**नाक्षैः क्रीडेत्कदाचित्तु स्वयं चोपानहौ हरेत् । **

** शयनस्थो न भुञ्जीत न पाणिस्थं न चाशने ३॥ **

** “अक्षैर्मादीव्यःकृषिमित्कृषस्व। वित्तेरमस्व बहु मन्यमानः। **

** यत्र गावः कितव तत्र जाया तन्मे विचष्टे सवितायमर्यः।” **–इति श्रुतिः।

धर्मजः द्यूतेन कलहो भविष्यतीति विदुरं प्रति अवोचत्।-

**द्यूते क्षत्तः कलहो विद्यते नः को वै द्यूतं रोचयेत् बुध्यमानः। **

** किं वा भवान् मन्यते युक्तरूपं भवद्वाक्ये सर्व एव स्थिताः स्मः४॥**

धर्मजः शकुनिं प्रति द्यूतात् निवर्ततामिति द्यूतारम्भेऽपि अवोचत् ।

अस्माकं ऐश्वर्यहरणेच्छा वर्तते तर्हि युद्धे जीयताम्। तुच्छं द्युतमाश्रित्य अस्मान् न

जैषीः। युद्धमेव क्षात्रधर्मः। कितवैःसह देवनं पापमिति धर्मेण युद्धे जयं प्राप्नुयात् न तु देवनेनेति देवलेनापि प्रेक्तम् । अतः

*१. म.भा.३प.३१३/१२८. ३. म.स्मृ.४.२४. *

२. म.स्मृ.६.२२७. ४. म.भा.२प.५८/१०.

***तृतीयोऽध्यायः ***

97

**निकृतिर्देवनं पापं नऽक्षात्रोत्र पराक्रमः। **

** न च नीतिर्धृवा राजन् किं त्वं द्यूतं प्रशंशसि॥ **

** न हि मानं प्रशंशन्तिनिकृतौ कितवस्य हि। **

** शकुने मैव नो भैषीरमार्गेण नृशंशवत्॥ **

** इदं वै देवनं पापं निकृत्या कितवैःसह । **

** धर्मेण तु जयो युद्धे तत्परं न तु देवानम्॥ **

** एवमाहायमसितो देवलो मुनिसत्तमः । **

** इमानि लोकद्वाराणि यो वै भ्राम्यति सर्वदा १॥**

अज्ञातवासकाले धर्मजः सतताक्षक्रीडासक्तः कंकरूपेण

संवत्सरात्मकं व्रतमिव विराटराज्ये स्थितवान्।तावत्पूर्वं अक्षहृदयं बृहदश्वमहर्षिद्वारा उपदेशं प्राप्तवान्।

**ततोऽक्षहृदयं प्रादात् पाण्डवाय महात्मने । **

** दत्त्वा चाश्वशिरोऽगच्छदुपस्रुष्टं महातपाः२॥** * *

अक्षविद्यारहस्यं प्राप्त्वाऽपि व्यसनमिव नाक्रीडयत्। संवत्सरात्मकं उद्योगमिव एव अक्षक्रीडां उपयुक्तवान्। अत एव बृहन्नलया जिताः कौरवा इति वचनात् कुपितो राजा विराटः द्यूतार्थं आज्ञापिते सत्यपि नाङ्गीकृतवान्।

**किं ते द्यूतेन राजेन्द्र बहु दोषेण मानद । **

** देवने बहवो दोषास्तस्मात् तत् परिवर्जयेत् ३॥** * *

तर्हि धर्मजः कथं द्यूतमकरोत्?

१. म.भा.२प.५९/१,२,९,१०.

२. म.भा.३प.७९/२१.

३. म.भा.४प.६८/३३.

***तृतीयोऽध्यायः ***

98

तस्य समाधानम्–

राजसूययागानन्तरं युधिष्ठिरः व्यासदेवमपृच्छत्-” भगवन्! त्रीण्युत्पातानि सम्भविष्यतीति नारदमहर्षिणा प्रोक्तम्। चेदिराजस्य शिशुपालवधात् तच्छमनं अभूद्वा?" इति। तदा व्यासः-" धर्मज! त्रयोदशवर्षाण्यनन्तरं सर्वक्षत्रविनाशनं भविष्यति।दुर्योधनापराधेन भीमार्जुनबलेन च सर्वक्षत्रक्षयं यास्यति। तत्र त्वमेव कारणं भविष्यसि।कालो हि दुरतिक्रमः। तत् कृते मा ध्यातव्यम्। तव स्वस्त्यस्तु " इति कैलासं प्रति प्रतस्थेतौ। ततः चिन्ताशोकसमन्वितः युधिष्ठिरः “अद्य प्रभृति त्रयोदशवर्षाणि ज्ञातिभिःसह विरोधं न करिष्यामि। ते यदिच्छन्ति तथैव वर्तिष्यामि। अस्मात् नियमात् विग्रहो न भविष्यति।“इति प्रतिज्ञामकरोत् ।

** अद्य प्रभृति भद्रं वः प्रतिज्ञां मे निबोधत । **

** त्रयोदशसमास्तात कोऽयमर्थोऽस्ति जीवित ॥ **

** न प्रवक्ष्यामि परुषं भ्रात्रूनन्यांश्च पार्थिवान् । **

** स्थितो निदेशे ज्ञातीनां योक्ष्ये तत् समुदाहरन् ॥ **

** एवं मे वर्तमानस्य स्वसुतेष्वपरेषु च । **

** भेदो न भविता लोके भेदमूलो हि विग्रहः१॥** * *

सामान्यधर्मः, विशेषधर्मः, आपद्धर्मेति त्रिविधं धर्मस्वरूपम्। सामान्यधर्मे द्युतेन पापं विद्यते। विशेषधर्मः अवश्यं पालनीयः इति । विशेषधर्माचरणेन सामान्यः बाध्यते।

भीष्मवृत्तान्तेऽपि इत्थं अवगम्यते। उग्रायुधो नाम राज्ञः दूतः भीष्मं जेतुं शन्तनोः मरणानन्तरं अशौचसमये भीष्ममातरं सत्यवतीमुद्दिश्य भृशं प्रललाप।

** उग्रायुधस्य राजेन्द्र दूतोऽभ्येत्य वचोऽब्रवीत् । **

** अद्य त्वं जननीं भीष्म गन्धकालीं यशस्विनीम् । **

** स्त्रीरत्नं मम भार्यार्थे प्रयच्छ कुरुपुङ्गव २॥***. *

*१. म.भा.२प.५६/२६,२७,२८. २. ह.वं.२०.५० *

***तृतीयोऽध्यायः ***

99

तेन कृद्धः शान्तनवः युद्धाय ईप्सितोऽभवत्। मन्त्रिणः अशौचे युद्धं पापमिति तं वारयामासुः।

** प्रवृत्तचक्रः पापोऽसौ त्वं चाशौचगतः प्रभो । **

** न चैष प्रथमः कल्पो युद्धं नाम कदाचन ॥ **

** अस्त्राणि न प्रयोज्यानि न प्रवेश्यश्च संगरः। **

** अशौचे वर्तमाने तु वृद्धानामिति शासनम् १॥ **

अत्र सामान्यधर्मः मातुर्निनदनपरं हन्यादिति।विशेषधर्मः आशौचे न योद्धव्यमिति।

द्यूते वा रणे वा न निवर्तामीति व्रतं विशेषदिवसेष्वेव न तु सामान्यदिनेषु। अत्र कोऽयं विशेषदिवसेति विचारयामश्चेत्–

**जगाम तेषां सा रात्रिः पुण्या रतिविहारिणाम् । **

** स्तूयमानाश्च विश्रान्ताः काले निद्रामथात्यजन् २॥ *** *

दुर्योधनेन प्रचोदितः प्रज्ञाचक्षुः द्यूतनिमन्त्रणाय क्षत्तारं युधिष्ठिरं प्रति प्रेषितवान्। विदुरः इन्द्रप्रस्थमागत्य युधिष्ठिराय धृतराष्ट्रनिमन्त्रणमुक्त्वा सपरिवारं युधिष्ठिरं सामानयत्।

उपरितनश्लोकस्य सामान्यार्थः–

तेषां रतिविहारिणां विलासपूर्वकानां पाण्डवानां सा पुण्या रात्रिः पुण्यमया रात्रिः जगाम व्यतीता। काले यथा समये विश्रान्ताः ते स्तूयमानाः निद्रां अत्यजन् परित्यक्तवन्तः इति ।

गूढार्थः–

अत्र पुण्या रात्रिः नाम का? पुण्यजनानां रात्रिः पुण्या रात्रिः नाम यक्षरात्रिः दीपावलीति।

*१. ह.वं.२०.५९,६२. *

२. म.भा.२प.५८/३७.

***तृतीयोऽध्यायः ***

100

दीपानां आली श्रेणी। दीपमाला - तत्पर्य्यायः - दीपशृङ्खला २ - इति हारावली।१२४॥ दीपानां आली यत्र । दीपान्वितामावास्या - तत्पर्य्यायः - यक्षरात्रिः२-

इति त्रिकाण्डशेषः

पुण्यजनः - पुण्यं विरुद्धलक्षणया पापी चासौ जनश्चेति राक्षसः

रक्षेति शब्दकल्पद्रुमः।

पुण्यजनेश्वरः-पुण्यजनाः यक्षा वा राक्षसा वा तेषां ईश्वरः। * *

यातुधानाः पुण्यजनो नैर्रुतो यातु

पुण्यारात्रिः-पुण्यजननां रात्रिः। यक्षरात्रिः–पुण्यजनः-यक्षः।पुण्यजनानां ईश्वरः-कुबेरः।

अतः सा पुण्या रात्रिः दीपावलीति कथ्यते। तत्परदिने एव कार्तिकशुक्लप्रतिपत् । तस्मिन् पूर्वाह्णे एव द्यूतसभाप्रविष्टाः आसन्।

** सुखोषितास्ते रजनी प्रातः सर्वे कृताह्निकाः। **

** सभां रम्यां प्रविविशुः कितवैरभिनन्दिता ५॥ **

राज्ञः विशेषव्रतमस्ति कार्तिकशुक्लप्रतिपदि अक्षक्रीडा । तत्क्रीडाविधिर्यथा–

ब्रह्मपुराणे–

**शंकरश्च पुरा द्यूतं ससर्ज सुमनोहरम् । **

**कार्तिके शुक्लपक्षे तु प्रथमेऽहनि भूपते ॥ **

** जितश्च शंकरस्तत्र जयं लेभे च पार्वती । **

** अतोऽर्थाच्छंकरो दुःखी गौरी नित्यं सुखोषिता ॥ **

** तस्माद् द्यूतं प्रकर्तव्यं प्रख्याते तत्र मानवैः॥ **

१. *श.द्रु.२भा.७१९. *४. अ.को.१कां.१स.६०/२/१

२. *अ.को.१.१.६३. *५. *म.भा.२प.५८/३८. *

३. अ.को.१.१.६९.१६.

***तृतीयोऽध्यायः ***

101

** तस्मिन् द्यूतो स्थितो यस्य तस्य संवत्सरः शुभः। **

** पराजयो विरुधस्तु लब्धनाशंकरो भवेत् १॥** * *

तद्वदेव पद्मपुराणेऽपि–

**शंकरश्च भवानी च क्रीडया द्यूतमास्थिते। **

** भवान्याभ्यार्चिता लक्ष्मीर्धेनुरूपेण संस्थिता॥ **

** गौर्या जित्वा पुरा शम्भोर्नग्नो द्यूते विवर्जितः। **

** अत्यर्थशंकरो दुःखी गौरी नित्यं सुखान्विता॥ **

** प्रथमे विजयं यस्य तस्य संवत्सरं शुभम् २। **

इत्थं विधिर्वर्तते चेदपि यत्र कुत्रापि स्वयं युधिष्ठिरः न अक्रीडयदिति न विद्यते। तस्मिन् दिने एव यःकोऽपि सुहृद्द्यूतार्थं निमन्त्रयति तस्य निराकरणं न करोति। प्रथमे एव दुर्योधनः विजयो भवति। तदर्थमेव सपत्नीपाण्डवाः राज्यं च तस्याधीनाः आसन्। द्रौपद्याः कारणेन पाण्डवाः दासविमुक्ताः आसन्। द्यूते पाशान् न स्पृष्ट्वान् युधिष्ठिरः। पुनः अनुद्यूते शकुनेः कुटिलत्वकारणात् द्वादशवर्षाणि वनवासेन संवत्सरकालं अज्ञातवासेन उषिताःपाण्डवाः।

द्यूतविषयो ऋग्वेदे अक्षसूक्तम्–

अन्ये जायां परि **मृशन्त्यस्य यस्यागृधद्वेदने वाज्यक्षः। **

यस्य कितवस्य भेदने धने वाजी बलवान् अक्षः देवः अगृधत् अभिकांक्षां करोति तस्य अस्य कितवस्य जायां भार्यां अन्ये प्रतिकितवाः परि मृशन्ति वस्त्रकेशाद्यापकर्षणेन संस्पृशन्ति

*१. श.द्रु.५ पुटः। *

*२. प.पु.उत्तरखण्डः.१४०.२६,२७,२८. *

*३. ऋ.वे.भा.१०.३४. *

***तृतीयोऽध्यायः ***

102

अत्र कार्तिकमासे वनवासं गताः पाण्डवाः इति वनपर्वणि स्थितेन ग्रन्थिनाऽपि अवगम्यते। अग्रे विवरणं करिष्यामि।

अतः स्वप्रतिज्ञापालनेऽपि धर्मजः धर्मं न त्यक्तवानिति एतेन ग्रन्थिना अवगम्यते।

**३.३. द्यूते द्रौपदीं पणं कर्तुं समालोचनम् **

मयसभासौन्दर्येण राजसूये पाण्डवानां वैभवेन च अमर्षी दुर्योधनः स्वमातुलाय

शकुनये तेषां वैभवं वर्णयन् स्व ईर्ष्यां अकथयत् । तदा तैः सह योद्धुं वयं न समर्थाः। अहं अक्षक्रीडायां कुशलोऽस्मि। तस्मात् सर्वं राज्यं सम्पादयितुं उपायं करिष्यामः। द्यूतार्थं धर्मजं निमन्त्रय। सः द्यूते वा रणे वा आह्वानं न तिरस्करोति। इति कौटिल्येन शकुनिरवोचत्। शकुनिदुर्योधनौ सुहृद्यूतमिति मिषया धृतराष्ट्रं धर्मजनिमन्त्रणाय प्रचोदितवन्तौ। धृतराष्ट्रः विदरानुज्ञां पाण्डवाः नोल्लङ्घनं कुर्वन्ततीति धर्मजनिमन्त्रणाय विदुरं प्रेषयत्। धर्मजः विदुरवचनं श्रुत्वा द्यूतं विग्रहकारकमिति तत्र दुरोदराः के सन्तीति विदुरं अपृच्छत्।

**द्यूते क्षत्तः कलहो विद्यते नः **

** को वै द्यूतं रोचयेद् बुद्ध्यमानः। **

** किं वा भवान् मन्यते युक्तरूपं **

** भवद्वाक्ये सर्व एव स्थिताः स्म॥ **

** के तत्रान्ये कितवा दीव्यमाना **

** विना राज्ञो धृतराष्ट्रस्य पुत्रैः। **

** पृच्छामि त्वां विदुर ब्रूहि नस्तान् **

** यैर्दीव्यमानः शतशः सन्निपत्य १॥**

*म.भा.२प. ५८/१०,११. *

***तृतीयोऽध्यायः ***

103

महात्मन्! द्यूते कलह एव विद्यते। बुद्धिमान् कः द्यूतमिच्छति? भवता द्यूतं युक्तमिति मन्यते तर्हि भवद्वचनानुसारेणैव दीव्यामः। यतो हि भवान् धर्मज्ञः। तत्र कितवाः के सन्ति? यैः सह देवितारो भविष्यामेति युधिष्ठिरप्रश्नेन विदुरःतत्र कितवानां नामानि अवोचत्। सुहृद्यूतं नाम मित्रैः सह ज्ञातिभिः सह द्यूतम्। तर्हि ते एव सभायां स्थातुं उचिताः। परं अन्ये कितवाः कथं स्थिताः? धर्मजः दीर्घदर्शी। अतः पूर्वत एव कितवानां विवरणं अपृच्छत्। विदुरस्य वाक्योल्लङ्घनं कदापि धर्मजः न करोति। इतः प्रभृति ज्ञातिभिःसह प्रतिवचनं न वदामीति धर्मजस्य प्रतिज्ञां ज्ञात्वा, धर्मजः धृतर्ष्ट्रानुज्ञां अवश्यं शिरसावहतीति मत्वा शकुनिः धर्मजनिमन्तरणाय धृतराष्ट्रं प्रचोदितवान्। धर्मजस्य प्रतिज्ञां दुर्योधनशकुनी जानीतः। राजसूयानन्तरं सर्वे स्व स्व देशान् गताः। श्रीकृष्णोऽपि द्वारकां अगमत्। दुर्योधनशकुनी एव सभासौन्दर्यं द्रष्टुं निवसतुःस्म।

**गते द्वारवतीं कृष्णे सात्त्वतप्रवरे नृप । **

** एको दुर्योधनो राजा शकुनिश्चापि सौबलः॥ **

**तस्यां सभायां दिव्यायामूषुतुस्तौ नरर्षभौ १॥ *** *

अक्षदेवितारः के सन्तीति इत्थं अकथयत् विदुरः-

**गान्धारराजः शकुनिर्विशाम्पते **

** राजातिदेवी कृतहस्तो मताक्षः। **

** विविशतिश्चित्रसेनश्च राजा **

** सत्यव्रतः पुरुमित्रो जयश्च २॥** * *

सरलार्थः-

राजन्! तत्र अतिदेवी नाम देवने अत्यन्तासक्तः, कृतहस्तः नाम पाशप्रक्षेपणे सिद्धहस्तः, मताक्षः नाम अक्षक्रीडायां रहस्यज्ञः गान्धारराजः शकुनिः वर्तते। अन्येराजानः विविंशतिः, चित्रसेनः, सत्यव्रतः,पुरुमित्रः, जयश्च वर्तन्ते।

*१. म.भा.२प.४५/६७,६८. *

*२. म.भा.२प.५८/१३. *

***तृतीयोऽध्यायः ***

104

गूढार्थः-

अस्मिन् श्लोके अतिदेवी कृतहस्तः इत्यत्र गूढार्थो व्यज्यते। अतिदेवीकृतहस्तः एकसमास एव । देवीमप्यतिक्रान्तुं कृतहस्तः इति । तत् पर्यालोचने देवीं द्रौपदी देवीं अपि अतिक्रान्तुं आहर्तुं कृतहस्तः निश्चप्रचबुद्धिः इति। अयं गूढार्थः मल्लादि चन्दरशेखरशास्त्रिवर्याणां महाभारतप्रवचनात् कृतज्ञतापूर्वकं स्वीकृतः।

द्रौपदीं कथं आहर्तुं निश्चितवन्तः इत्युक्ते पूर्वतनीयाः श्लोकाः परिशीलनीयाः।

जनमेजय उवाच-

**कथं समभवद् द्यूतं भ्रात्रूणां तन्महात्ययम् । **

** यत्र तद् व्यसनं प्राप्तं पाण्डवैर्मे पितामहैः॥ **

** विस्तरेणैतदिच्छामि कथ्यमानं त्वय द्विज । **

** मूलं ह्येतद् विनाशस्य पृथिव्या द्विजसत्तम १॥ *** *

भगवन्! भ्रात्रूणां मध्ये द्यूतं कथं सम्प्रप्ताम् ? मम पितामहानां पाण्डवानां विपद्

व्यसनं नाम विपदिति शब्दकल्पद्रुमः। वि+अस्+ल्युट् कथं समायातम? एतद् पृथिव्याः विनाशस्य मूलं विस्तरेण श्रोतुमिच्छामीति जनमेजयस्य पुनः प्रश्नेन अग्रिमे वृत्तान्ते ग्रन्थिश्लोकाः वर्तन्तेति ध्येयम्। यतो हि पूर्वमेव राजसूयवैभवम्, तद् वैभवदर्शनात् दुर्योधनस्यअमर्षत्वम्, स शकुनये स्वचिन्तप्रकटनम्, शकुनिः द्यूतेन राज्यपहरणं कर्तव्यमिति तं प्रबोधयित्वा धृतराष्ट्राय निवेदनम्, धृतराष्ट्रः धर्मजाह्वानाय विदुरप्रेषणम् एतत्सर्वं वृत्तान्तं पूर्वमेव कथितम्। पुनः जनमेजयः विस्तरेण श्रोतुं अपृच्छत्।

प्रथमतः द्यूतस्य मूलं भवति पाण्डवेषु दुर्योधनस्य ईर्ष्या, कृष्णया तेषां शोभा, स्वयंवरे तेनऽप्राप्तकृष्णा च।

१. म.भा.२प.५०/१,३.

***तृतीयोऽध्यायः ***

105

स्वयंवरे बहुविधदेशराजानः लक्ष्यं भेत्तुं असमर्थाः आसन्। द्रौपद्यासक्तचित्तः दुर्योधनोऽपि असमर्थो बभूव। तस्य सुहृत् कर्णः कृष्णया निराकृतः।

**दृष्ट्वा तु द्रौपदी वाक्यमुच्चै **

** र्जगाद नाहं वरयामि सूतम् । **

** सामर्षहासं प्रसमीक्ष्य सूर्यं **

** तत्याज कर्णः स्फुरितं धनुस्तत् १॥** * *

स्वयंवरसभायां द्रौपदीरागचित्तः कृतप्रतिज्ञः तेजस्वी कर्णः अवश्यं लक्ष्यं भिनत्तीति पाण्डवाः मन्यन्ते। तदा आगतं कर्णं द्रौपदी सूतपुत्रमहं न वृणे इति उच्चैरवोचत् । तद् वाक्यं निशम्य कर्णः त्यक्तधनुरासीत्। धर्योधनकर्णयोरुभयोरपि अवमानं कृतम्। उभावपि ईर्ष्यालुवः। अर्जुनं द्रौपदी वृणीतेति पाण्डवानां ईशत्वं च तयोः ईर्ष्याधिक्यता। अत एव दुर्योधनः ध्रुतराष्ट्राय मयसभायां कृतावमानं वर्णयन् यदा सः स्फटिकशिलाभासे जलाशये पतितः तदा द्रौपदी, कृष्णः,पार्थश्च जहासुरिति मिथ्यावचनं अकथयत्।

** तत्र मां प्राहसन् कृष्णः पार्थेन सह सुस्वरम् । **

** द्रौपदी च सह स्त्रीभिर्व्यथयन्ती मनो मम २॥ *** *

सम्प्रति लोके अयं मिथ्यावचनमेव चलति। “द्रौपदीकृतोपहासात् द्यूतमारब्धम्"इति च। परं कृष्णः कृष्णाऽपि न स्त इति पूर्वमेव कथितम्।

**आपृच्छे त्वां गमिष्यामि द्वारकां कुरुनन्दन। **

** राजसूयं क्रतुश्रेष्ठं दिष्ट्या त्वं प्रप्तवानसि ३॥**

राजसूयानन्तरं भीष्मविदुरधृतराष्ट्रादिप्रमुखाः स्वदेशानगमन्। श्रीकृष्णोऽपि

युधिष्ठिरानुज्ञां पृष्ट्वा अगमत् ।

*१. म.भा.१प.१८६/२३. *

*२. म.भा.२प.५०/३०. *

*३. म.भा.२प.४५/५२. *

***तृतीयोऽध्यायः ***

106

**गते द्वारवतीं कृष्णे सात्त्वतप्रवरे नृप १।। * ***

तर्हि श्रीकृष्णः कथं तत्र प्राहसत्? द्रौपद्यपि न वर्तते एव।

**जले निपतितं दृष्ट्वा भीमसेनो महाबलः। **

** जहास जहसुश्चैव किंकराश्च सुयोधनम् ॥ **

** वासांसि च शुभान्यस्मै प्रददू राजशासनात् । **

** तथागतं तु तं दृष्ट्वा भीमसेनो महाबलः॥ **

** अर्जुनश्च यमौ चोभौ सर्वे ते प्राहसंस्तथा । **

** नामर्षयत् ततस्तेषामवहासममर्षणः२॥ *** *

जले पतितं दुर्योधनं दृष्ट्वा भीमसेनः पार्थनकुलसहदेवाः सेवकाश्च प्राहसन्। धर्मजशासनात् शुभवस्त्राणि अददन्।स्वभावतः अमर्षणशीलः सुयोधनः तदुपहासं अक्षमः। तदर्थमेव स्वपितरं कृष्णकृष्णापार्थैः सः अवमानितः इति मृषावचनमवदत्। शकुनेः मूलं लक्ष्यमस्ति दुर्योधनकर्णयोः अवमानोपशमनम्।द्यूते समग्रमैश्वर्यं, राज्यं भ्रात्रूनपि त्यक्तवान् धर्मजः।तावन्मात्रेणालम्। परं अन्ते शकुनिः द्रौपदीमपि पणं अकरोत्।

** तैर्लब्धा द्रौपदी भार्या द्रुपदश्च सुतैः सह । **

** सहायः पृथिवीलाभे वासुदेवश्च वीर्यवान् ३॥ **

** यामेतामतुलां लक्ष्मीं दृष्टवानसि पाण्डवे । **

** तस्याः प्रप्तावुपायं मे श्रुणु सत्यपराक्रमः४॥ **

** यां त्वमेतां श्रियं दृष्ट्वा पाण्डुपुत्रे युधिष्ठिरे । **

** तप्यसे तां हरिष्यामि द्यूतेन जयतां वर ५॥ *** *

१. *म.भा.२प.४५/६७. *४. म.भा.२प.४९/३७.

२. *म.भा.२प.४७/६,८,९. *५. म.भा.२प.५६/१.

३. *म.भा.*२प.४८/४.

***तृतीयोऽध्यायः ***

107

द्रौपद्याः आगमनानन्तरं पाण्डवानां ऐश्वर्यसमृद्धिर्भवतीति शकुनेः कथनाशयः।अत्र लक्ष्मी , श्रीः इति नामाभ्यां द्रौपदी व्यवह्रियते।

**स्वर्गेषु स्वर्गलक्ष्मी त्वं राज्यलक्ष्मीश्च भूतले १। **

अतः उपर्युक्तग्रन्थिश्लोकात् गान्धारराजः शकुनेर्वशाम्पते.. द्यूतव्याजेन पण्डवानां ऐश्वर्येण सह द्रौपदीमपि आहरणमेव शकुनेः कुटिलोपाय इति अवगम्यते।

३.४. द्यूतसभायां प्रातिकामिकृते द्रौपदीं प्रति धर्मजस्य रहस्संकेतभाषणम्

द्यूतसभायां द्रौपदी दुःशासनेन अत्यन्तहृदयविदरकं चीरहरणं कारिता । तदा श्रीकृष्णः तस्याः मानसंरक्षणं अकार्षीत्।द्रौपद्याः अवमानं प्रकृतिरपि सोढुमशक्नोति । धृतराष्ट्रस्य गेहे अग्निहोत्रशालायां गोमायुः उच्चैरघोषयत्। रासभाः अधिकध्वनिं कुर्वन्ति। पक्षिणः कोपयुक्ताःसन्तःतत्र परिभ्रमन्ति। ते शब्दाः भीष्मद्रोणादि प्रमुखैःश्रुताः। तदा गान्धारी विदुरभ्यां धृतराष्ट्रं प्रति दुर्निमित्तानि निवेदितानि।सः तयोःर्वचनं निशम्य दुर्योधनेन द्रौपदीविषयकमवमानात् निवर्तयामास। कृष्णायै " प्रतिविन्ध्येन सहितस्य युधिष्ठिरस्य अदासत्वं सधनुष्करथानां भीमार्जुननकुलसहदेवानां विमुक्तिः” इति वारान् अददत्। तदा कर्णः “सौन्दर्ययुतमानुषस्त्रीषु एतादृशं अद्भुतकर्म मया न श्रुतपूर्वम्। कृष्णा कोपाविष्टेषु पाण्डवेषु कौरवेषु च शान्तिं यच्छति। सा आधाररहिते अपकीर्तिरिति सागरे मग्नानां पाण्डवानां नौरिव भूत्वा तानतारयत्।” इति तेषां मध्ये भेदभावं कल्पयितुं व्यङ्ग्येनावदत्।

**अप्लवेमभसि मग्नानां अप्रतिष्ठे निमज्जताम् । **

** पाञ्चाली पाण्डुपुत्राणां नौरेषा पारगाभवत् २॥ **

तदा कुपितो भीमः–

**त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् । **

** अपत्यं कर्म विद्या च यतः स्रुष्टाः प्रजास्ततः॥ **

*१. ब्र.वै.पु. श्रीकृष्णजन्मखण्डः.८८६.२०. *

*२. म.भा.२प.७२/३. *

***तृतीयोऽध्यायः ***

108

** अमेध्ये वै गतप्राणे शून्ये ज्ञातिभिरुज्झिते । **

** देहे त्रितयमेवैतत् पुरुषस्योपयुज्यते ॥ **

** तन्नोज्योतिरभिहतं दाराणामभिमर्शनात् । **

** धनञ्जय कथंस्वित् स्यातदपत्यमभिमृष्टजम् १॥ **

नीलकण्ठीयव्याख्या–

त्रीणि ज्योतींषि लोकप्रकाशकानि भवन्ति। अपत्यं,कर्म,विद्या चेति। यतः यस्माद्धेतोस्ततः ज्योतिस्त्रयात् प्राजाः स्थावरजङ्गमाः स्रुष्टाः। अयं भावःकर्मोपास्ति प्राप्यं लोकद्वयं अपत्यप्राप्यश्चायं लोकाः। तथा च श्रुतिः” सोऽयं लोकः पुत्रोणैव जय्यो नान्येन कर्मणा पितृलोको विद्यया देवलोकः” इति। विद्या उपासना, पित्रुलोकः स्वर्गः, विद्यया देवलोकः। मरणानन्तरं एतान्येव ज्योतींषीप्युपकर्वन्तीत्याह। अमेध्ये अशुचौ इति।

तन्न इति । नः दाराणामिति सम्बन्धः। तत् परलोकीयं अपत्यादिक ज्योतिःअस्मदीयानां दाराणां अभिमर्शनादभिहतम्। सर्वतः हतं गतम् ज्ञातमस्माभिरित्यर्थः। अभिहतमिति पाठे ओहाङ्गतावित्यस्य रूपंम्। यः संसदि परदाना् सप्रष्टुं न त्रपते स विविक्तः अवश्यं परदारिकः स्यादेवेति भावः। एवं सर्वान् निन्दित्वा कर्णं समुद्दिस्याह धन्ञजयेति- तथा च अभिमृष्टजं परैः अभिमृष्टेभ्यो दारेभ्यो जातमपत्यं कथंस्वित् स्यात्।संकरत्वान्नीचकर्म कृदेव स्यात्। सूतबीजात् वीरोत्पत्तेरसम्भवात् कंसवद् कर्णोऽपि आसुरबीजोद्भवः क्रूरकर्मकरत्वादिति भावः" इति व्याख्यायां कर्णविषयमवलम्ब्य नीलकण्ठेनोक्तम्।

सरलार्थः-

पुरा देवलः अवोचत्" यतः ब्रह्मणा प्रजाःस्रुष्टास्ततः अपत्यं, कर्म, विद्येति त्रीणि ज्योतींषि उत्पद्यन्ते। पुरुषः यदा अपगतप्राणवान् अपवित्रो भवति तदा बन्धुदायादाः तं त्यजन्ति। किन्तु तस्मिन् समये तानि एतत् ज्योतित्रयं तं पुरुषं रक्षति। विद्यया ऋषिऋणात्, कर्मणा देव ऋणात्, अपत्येन पितॄणाच्च तानि त्रीणि ज्योतींषि मोचयन्ति।

*१. म.भा.२प.७२.५-७. *

***तृतीयोऽध्यायः ***

109

परन्तु अधुना तेषु त्रिषु ज्योतिष्षु एकं ज्योतिः दुःशासनस्पर्शनात् निर्वापितम्। तर्हि तत् सन्तानं कथं भविष्यति? अर्थात् तदपत्यमपि अपवित्रं भवतीति भावः।

गूढार्थः–

" तन्नो ज्योतिरभिहतं दाराणामभिमर्शनात्" इत्यस्य श्लोकस्य सरलार्थे एव गूढत्वेन धर्मसंशयोऽस्ति। परपुरुषस्पर्शनात् जायायाः अपत्यं कथं अपवित्रं भवति?भीमेन पतिव्रतां द्रौपदीमुद्दिश्य एषोक्तिः नोचिता भवतीति इति मनसि आयाति। तत्रापि कृष्णां स दुःशासनः बलात्कारेण केशेषु प्रगृह्य सभां समानयत्। अतः कृष्णायाः दोषो नास्ति ननु इत्यस्मात् हृदये संशय आयाति। तथा समानीता चेदपि कृष्णायां लेशमात्रः दोषो न सम्भवतीति ।

मासि मासि रजोदोषेण स्त्री शुद्धिमवाप्नोति।

**रजसा शुद्ध्यते नारी नचेद्गच्छेद्विवर्णताम् । **

** यथाग्राममलग्राही नदी वेगेन शुद्धति ॥ **

**भस्मना शुद्ध्यते कांस्यं ताम्रमाम्लेनऽशुद्ध्यति । **

** रजसा शुद्ध्यते नारी नदी वेगेन शुद्ध्यति ॥ **

– इति आङ्गिरस मनु अत्र्यादि स्मृतिषु संगृह्यते ।

स्त्रीणां रजोदोषः सन्तानार्थमेव। अतः चतुर्थदिवसानन्तरं षोडशदिनेष्वेव स्त्रीसङ्गममं कुर्यादिति तेषु दिवसेषु सन्तानोत्पादकशक्तिर्भविष्यतीति शास्त्रकाराः ब्रुवन्ति। वर्तमाने द्रौपदी रजस्वला भवति। अतः तस्याः पवित्रतायाः शंका एव नास्ति। रजोदोषेण शुद्ध्यतीति प्रतिपादितत्वात्। सा ब्रह्मवादिनीति व्यासमहर्षिणा प्रोक्तम्।ब्रह्मविदिनीषु रोजोदोषेण युक्तासु सत्स्वपि त्रिदिनमस्पृष्टत्वं न दोषावहमिति स्मृतिवचनम् ।

अत्र इतोऽपि संशयो आयाति। सा यज्ञकुण्डसमुद्भवा भवति ।अतः अयोनिजा। एषु अण्डजिदि चतुर्विध जातिषु सा नान्तर्भूता। अत एव याज्ञसोनी इति।अतः दिव्यत्वं तस्यां वर्तते। नाम देवसम्बन्धिनी स्यादिति। देवानां कृते स्वेदः ,दुर्गन्धः इत्यादीनि लक्षणानि न वर्तन्तेति प्रोक्तम्-

***तृतीयोऽध्यायः ***

110

**कर्मजान्येव मौद्गल्य न मातृपितृजान्युत । **

** न संस्वेदो न दौर्गन्ध्यं पुरीषं मूत्रमेव च । **

** तेषां न रजै वस्त्रं बाधते तत्र वै मुने १॥ ** * *

याः कर्म कृताः प्रजाः ताः कर्मफलेनैव द्युलोकं यान्ति।अतः स्वेदः, दुर्गन्धः, मूत्रपुरीषाः, रजोदोषोऽपि न वर्तन्ते । तर्हि द्रौपदी रजस्वलायुक्ता सती कथं द्यूतसभां नीता? इति शंका निवृत्ता। मातृपितृभ्यां यथा भुवि जातः न तथा।

रसमञ्जर्यां नायिका भेदाः यथा–

यत्तु तासां दिव्या अदिव्या दिव्यादिव्या भेदेन गणनया द्विपञ्चाशदधिकशतयुतसहस्रं भेदाः भवन्ति। दिव्याः इन्द्राण्यादयः, अदिव्याः मालत्यादयः, दिव्या दिव्याः द्रौपद्यादयः इति वदन्ति

अनेन प्रमाणेन कृष्णा दिव्यादिव्या। सा शची मानुषाकारं धृत्वा वेदीमध्या समुत्थिता। अतः सा दिव्या दिव्या भवति। तस्याः निलोत्पलगन्धः क्रोशपर्यन्तं प्रधावति। दौर्गन्ध्यं नास्त्येव ।

**मानुषं विग्रहं कृत्वा साक्षादमरवर्णिनी। **

नीलोत्पलसमोगन्धः यस्याः क्रोशात् प्रधावति ३।।

**द्रुपदस्य सुता चाहं ध्रुष्टद्युम्नस्य चानुजा । **

** अग्निकुण्डाद् समुद्भूता नोर्व्यां जातु चरामि भो ४॥ **

अहं द्रुपदस्य पुत्री , धृष्टद्युम्नस्य भगिनी, अग्निकुण्डसमुद्भवा। कदापि न चरामीति कृष्णा विराटपर्वणि अवोचत्। पृथिवीस्पर्शनं विनैव तां सौकुमार्येण द्रुपदः पुपोष इति

सामान्येनावगम्यते। किन्तु वेदिमध्यादिति विशेषणे अग्निकुण्डसमुद्भवास्मि । अतः साक्षाद्देवस्वरूपिण्यहमिति योनिसमुद्भवा नाहमिति तया प्रोक्तम्। अत एव पृथिव्यां तस्याः

१.म.भा.३प.२६१/१३,१४२.शब्दकल्पद्रमे स्वीकृतम्दिव्यशब्दे ३.म.भा.१प.११६/४५.४.म.भा.४प.१८.दाक्षिणात्य
  •  *
    

***तृतीयोऽध्यायः ***

111

पादस्पर्शनं न भवति।देवाः पृथिवीं अस्पृष्ट्वैव गमनं कुर्वन्ति । अस्याः मानुषीत्वाच्च भूस्पर्शनेऽपि प्रत्यवायः न । दिव्यादिव्यस्वभावात् तत् तत् स्थितिमनुस्रुत्य सा वर्तितुं शक्नोति।

तत्रापि सा पतिव्रता। पतिवचनमनुस्रुत्यैव प्रवर्तते। तदर्थमेव प्रातिकामिना उक्ताऽपि सा सभां आगन्तुं नैच्छत्। प्रातिकामिना आनेतुं पृष्टे सति" राजा पूर्वं मां पराजितवान् वा उत आत्मानं वा" इति धर्मसूक्षमरूपं प्रश्नं पप्रच्छ। तं निशम्य निश्चेष्टितः युधिष्ठिरः तां सभामानेतुं द्रौपद्याःसम्मतं दूतं संप्रेष्य " एकवस्त्रा रजस्वला रोदमाना सती श्वशुरस्य पुरतः आगम्यतामिति तथा गतेनऽत्वां दृष्ट्वा दुष्टं धृतराष्ट्रजं सर्वेऽपि भृशं निन्दन्तीति" सूचनाञ्चकार। धर्मजस्य सूचनानुसारेणैव सा तथाऽगता। पूर्वमेव सा तथा वर्तते तर्हि धर्मजस्य सूचनायाः आवश्यकता नास्त्येव। मूर्खः दुर्योधनः तां अवमानं करिष्यतीति सः कस्यापि हितवचनं न श्रुणोतीति धर्मजः जानाति। अत एव इत्थं सूचनाञ्चकार। रजोदोषेण सा सर्वदाऽपि परिशुद्धा इति तस्याः कलङ्कतामपनेतुमपि एवं सूचनाञ्चकार। धर्मजः सर्वधर्मज्ञं दिव्यद्रष्टाऽपि । पूर्वमेव ब्राह्मणैः कथितवृत्तान्तेषु पाञ्चालीवृत्तान्तमपि अश्रोषीत्। तस्याः अग्निकुण्डात् समुत्पन्नसमये आकाशवाणी कृष्णा सर्वक्षत्रविनाशकरी, कौरववंशक्षयकरी “इत्यवोचत्। अतः तत् समयः सम्प्रत्यासन्नः इति मत्वा सूचनामकरोत्।

**यत्र नार्यस्तु पूज्यन्ते रमन्ते तत्र देवताः। **

** यत्रैतास्तु न पूज्यन्ते सर्वास्त्राफलाः क्रियाः॥ **

**पितृभिर्भातृभिश्चैताः पतिभिर्देवरैस्तथा । **

** पूज्या भूषयितव्याश्च बहु कल्याणमीप्सुभिः॥ **

**शोचन्ति जामयो यत्र वनश्यन्त्याशु तत् कुलम् । **

** न शोचन्ति तु यत्रैता वर्धते तद्धि सर्वदा १॥ **

१. *म.स्मृ.३अ/५६,५५,५७. *

***तृतीयोऽध्यायः ***

112

धर्मजः राजन्यो वा रजा वा इति सन्देहे राजैवेति निश्चिनुमः। पट्टाभिषिक्तराजानः इति स्मृतेः। राजसूयकरणाच्च। भूतभविष्यद्वर्तमानकालज्ञोऽपि धर्मजः। ऋषिर्दशनात् इति निरुक्तवचनात् युधिष्ठिरस्य राजर्षित्वात्।

**मानवे वैषवे वंशे ऐडवंशे च ये नृपाः। **

** ऐडा इक्ष्वाकु नाभागा ज्ञेया राजर्षयस्तु ते ॥ **

** ऋषन्ति रञ्जनात् यस्मात् प्रजा राजर्षयस्तथा । **

** ब्रह्मलोकः प्रतिष्ठास्तु स्मृता ब्रह्मर्षयो मताः॥ **

** देवर्षयस्तथान्ये च तेषां वक्ष्यामि लक्षणम् । **

** भूतभव्यभवज्ज्ञानं सत्याभिव्याहृतं तथा १॥ **

दुर्वासेनाऽपि राजर्षिपदेन सम्बोधितः युधिष्ठिरः–

**वृथापाकेन राजर्षे रपराधः कृतो महान् । **

माऽस्मानधाक्षदृष्ट्वैव पाण्डवाः क्रूरचक्षुषा २॥ * *

युधिष्ठिरस्य दिव्यदृष्टिः–

युधिष्ठिर उवाच-

**निर्देशाद् भवतः पूर्वं वने विचरिता मया । **

** तीर्थयात्राप्रसङ्गेन सम्प्राप्तोऽयमनुग्रहः॥ **

** देवर्षिर्लोमशो दृष्टस्ततः प्राप्तोस्म्यनुस्मृतिम् । **

** दिव्यं चक्षुषि सम्प्राप्तः ज्ञानयोगेन वै पुरा ३॥** * *

नारदेन कथिते पञ्चसभावर्णने राजर्षिः राजसूयकर्ता हरिश्चन्द्रः । हरिश्चन्द्रदृशेन धर्मजेनापि राजसूयं करणीयमिति पाण्डुमहाराजः नारदर्षिणा सन्दिदेश। अतः* *

*१. वा.पु.८६,८७,९०. *

*२. म.भा.३प.२६३/३२. *

*३. म.भा.११प.२६/१९,२०. *

***तृतीयोऽध्यायः ***

113

राजसूयक्रतोरनुष्ठानात् धर्मजस्य दिव्यक्षुः सम्प्राप्तम्। तदर्थमेव द्यूतागमनसमये हस्तिनापुरं प्रति द्रौपदीमपि समानयत् । एभिः कारणैः युधिष्ठिरस्य त्रिकालज्ञं सुसम्पन्नम्।

अतः अत्र भीमवचनात् सा परिशुद्धेति तस्याः अपत्यमपि कलङ्करहितमिति च धर्मसूक्ष्मं दरीदृश्यत इति ज्ञायते।

**वनपर्व **

**३.५. अक्षयपात्रवृत्तान्ते मासप्रसक्तिः **

द्यूतपराजयानन्तरं द्रौपद्या सहिताः पाण्डवाः वनं अगमन् । तदा तेषां गमनकाले हास्तिनपुरवासिनः ब्राह्मणा युधिष्ठिरे प्रीत्या अन्वगच्छन्। तान् दृष्ट्वा महात्मा युधिष्ठिरः तेभ्यः आतिथ्यं प्रदातुं अशक्तोऽहम् । तान् परित्यक्तुमपि न शक्नोमि । यदि तेभ्यः अन्नं न ददामि तर्हि मनुष्य ऋणविमुक्तोऽहं न भवेयम् । मनुष्ययज्ञभूतयज्ञाभ्यां लोपेन पञ्चमहायज्ञाः लुप्यन्ते। इति स्वपुरोहितं धौम्यं अपृच्छत् ।

** पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् । **

** प्रस्थितुं मामनुयान्तीमे ब्राह्मणाः वेदपारगाः॥ **

** न चास्मि पोषणे शक्तो बहु दुःखसमन्वितः। **

** परित्यक्तुं न शक्तोऽस्मि दानशक्तिश्च नास्ति मे ॥ **

** कथयत्र मया कार्यं तद् ब्रूहि भगवन् मम १। **

तदा धौम्यः-

**पुरासृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् । **

** ततोऽनुकम्पया तेषां सविता स्वपिता यथा ॥ **

** गत्वोत्तरायणं तेजो रसानुद्धृत्य रश्मिभिः। **

** दक्षिणायनमावृत्तो महीं निविशते रविः२॥** * *

*१. म.भा.३प.३/१,२,३. *

*२. म.भा.३प.३/५,६. *

***तृतीयोऽध्यायः ***

114

सरलार्थः- पूर्वकाले भूतजालं ब्रह्मणा सृष्टम्। किन्तु ते क्षुधापीडिताः आसन्। तथा सविता सूर्यः स्वपितैव उत्तरायणं गत्वा तत्र जले स्थितं रसं स्वकिरणैः उद्धृत्य दक्षिणायने पृथिव्यां प्राविवेश ।

उपरिस्थ प्रथमश्लोके सविता इति एकपदेनैव रहस्यमयोऽर्थः व्यज्यते।तेन गूढत्वेन युधिष्ठिरः कार्तिकमासे सूर्योपासनं कृत्वा अक्षयपात्रं अवाप इति विद्यते। सविता स्वपिता यथा- अत्र सारल्येन यथा स्वपिता प्रजां पोषयति तथा रविरपि इत्यवगम्यते। पिता नाम प्रजापतिरिति च अन्यार्थः वर्तते ।

**जनको जन्मदानाच्च रक्षणाच्च पिता नृणाम् । **

** ततो विस्तीर्णकरणात् कलया स प्रजापतिः १॥ **

द्वादशादित्याः एकैकःद्वादशमासेषु जगतं परिपालयन्ति ।** **

**धाता मित्रोर्यमा शक्रो वरुणस्त्वंश एव च । **

** भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ **

** एकदशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । **

** जघन्यजस्तु सर्वेषामादित्यानां गुणाधिकः२॥ ** ** **

**पर्जन्योऽश्वयुजि त्वष्टा कार्त्तिके मासि भास्करः । **

** मार्गशीर्षे भवेन्मित्रः पौषे विष्णुः सनातनः ॥ ** * *

तत्र कार्तिकमासाधिपतिर्त्वष्टा भवति। त्वष्टा नाम प्रजापतिः। स एव पिता। अत्र विचारणेन कृतयुगे पुनः भूतसृष्टिर्जातः। तदा दक्षिणायने कार्तिकमासप्रवृत्तिः। तदा क्षुद्पीडिताः प्राणिनः। दक्षिणायने संस्थिते काले सूर्यः प्रचलितसमयं उत्तरायणं गत्वा

*१. ब्र.वै.पु. गणपतिखण्डः.४४. *

*२. म.भा.१प.६५/१५,१६. *

*३. श.द्रु.५भा.३९६पुटः *

***तृतीयोऽध्यायः ***

115

स्वतेजोभिः जलमाद्धृत्य पृथिव्यां असिञ्चयत्। तस्मिन् समये एव कृतयुगारम्भकाल इति मन्ये। परन्तु प्रमाणं न लभ्यते ।

**सुराष्ट्रासु कार्तिकशुक्लप्रतिपदः प्रवृत्तिमास दिवसानां **

आश्वयुजकृष्णपञ्चदश्यां निवृत्तिः१। * *

**एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् । **

** पितैष सर्वभूतानां तस्मात् त्वं शरणं व्रज २॥**

अन्यच्चश्रुतिप्रमाणम्–

कार्तिकमासः कृत्तिकानक्षत्रप्राधान्यः।

“कृत्तिकानक्षत्रेण युक्ता पौर्णमासीति” तदर्थात् । कृत्तिकूनक्षत्रस्य अग्निरधिष्ठानम्। यथा- पुरा अग्निःअन्नादत्वसंपादनाय कार्तिकेमासि अग्निभट्टारकं आराधयामास।

“अग्निर्वाऽकामयत । अन्नादो देवानां स्यामिति। तदेतताऽष्टाकपालं निर्वपतु। तता देवानामन्नादो ऽभवत् ३।”

अतः कार्तिकमासि अक्षयपात्रसम्पादनमप्युक्तम् । तत् संप्रदायानुसारेण अधुनाऽपि भारतीयाः वनभोजनमाचरन्ति ।

अनेन सूर्यमाहात्म्यं उक्त्वा धौम्यः सूर्योपासनां युधिष्ठिराय उपादिदेश ।

**एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः। **

** विप्रत्यागसमाधिस्थः संयतात्मा दृढव्रतः४॥ *** *

तत्कालसदूशः तस्य मासस्य विशेषं मनसि निधाय अर्थात् यथा पुरा सूर्येण उत्तरायणे उद्धृतरसैः पृथिवीं ववर्ष। स्वकिरणैः चन्द्रं तेजसा संवर्ध्य ओषधयः उत्पादितवान्। ओषधय एव प्राणिनां अन्नरूपेण वर्तन्ते। तद्वदेव त्वष्टा अन्नं दास्यतीति

*१. आ.भ. कालक्रियापादः.२०६ पुटः। ३. कृ.य.तै.ब्रा.३/१/४. *

*२. म.भा.३प.३/९. ४. म.भा.३प.३/३२. *

***तृतीयोऽध्यायः ***

116

अवोचत्। ततः युधिष्ठिरः सूर्यं आराधयामास। रविः आगत्य तस्मै पिठरं अक्षयपात्रं दत्वा “फलमूलश्रितं अन्नं अस्मिन् स्थाप्यते तर्हि चतुर्विधं अन्नं उत्पद्यते। त्वया द्रौपद्या च उपवासं कृत्वा अतिथिसेवानन्तरं रात्रिभोजनं करणीयम् । यदा पाञ्चाली भुनक्ति तदा तदन्नं क्षयं यास्यति” इति पात्रेण सह नियमं अदात् ।

**फलमूलामिषं शाकं संस्कृतं यन्महानसे । **

** चतुर्विधं तदन्नाद्यमक्षय्यं ते भविष्यति ॥ **

** युधिष्ठिरं भोजयित्वा शेषमश्नाति पार्षती । **

** द्रौपद्यां भुज्यमानायां तदन्नं क्षयमेति च १॥** * *

युधिष्ठिरः सूर्यं आराध्य स्तुतिं कृत्वा तत्फलं वदन्

**सप्तम्यामथवा षष्ठ्यां भक्त्या पूजां करोति यः। **

** अनिर्विण्णोऽनहंकारी तं लक्ष्मीर्भजते नरम् २॥** * *

यः सप्तम्यां षष्ट्यां वा भक्त्या सूर्यं पूजयेत् सः खेदविनिर्मुक्तो अनहंकारी च भवति।

तं लक्ष्मी न त्यजति। सप्तमीव्रतेषु षष्ट्यामपि पूजोपवासादिकं कुर्यादिति नियमो वर्तते। धौम्योपदेशं धर्मजस्य सूर्योपासनात्पूर्वस्मिन् दिने अभवत् । षष्ठ्यां सूर्यार्चनं कर्तव्यमिति युधिष्ठिरवचनम् । तदर्थमेव औत्तराहिकाः कार्तिकशुक्लषष्ठ्यां छठ् व्रतं कुर्वन्तीति प्रसिद्धिः। चतुर्वर्गचिन्तामणौ कार्तिकशुक्लसप्तमीं शाकसप्तमीव्रतमिति कथ्यते ।

**सप्तम्यां सोपवासस्तु रात्रौ भुङ्क्ते तु यो नरः। **

** कृतोपवासः षष्ठ्यां तु पञ्चम्यामेककालभुक् ॥ **

** दत्त्वा तु संस्कृतं शाकं भक्ष्यभोज्यैःसुसंस्कृतम् । **

** दानाय ब्राह्मणेभ्यश्च रात्रौ भुञ्जीत वाग्यतः॥ **

१. म.भा.३प.३/७२,७३.* ***

२. म.भा.३प.३/६४.* ***

***तृतीयोऽध्यायः ***

117

** कार्तिके शुक्लपक्षस्य ग्राह्यीयं कुरुनन्दन १।। **

अतः एतत् प्रमाणैः अक्षयपात्रसंपादनं युधिष्ठिरेण सूर्यमुद्दिश्य कार्तिकमासे उपासनां कृत्वा अक्षयपात्रं समुपलब्धम् ।

**३.६. श्रीकृष्णं प्रति द्रौपद्या प्रयुक्तसखिशब्दानुशीलनम् **

वनपर्वणि यदा द्रौपद्याः सह पाण्डवाः वनवासं कुर्वन्तः सन्तः तदा श्रीकृष्णः तान् द्रष्टुं सपरिवारं समागतः। तस्मिन् समये द्रौपदी कौरवैः पाण्डवानां कृतं दौष्ट्यं अपकाराणि च कथयन्ती सती प्रासङ्गिकवशात् कृष्णं प्रति एवं अवोचत्-

**चतुर्भिःकारणैहिः कृष्णत्वया रक्ष्याऽस्मि नित्यशः । **

** सम्बन्धात् गौरवात् सख्यात् प्रभुत्वेनैव केशव२ ।। **

" हे कृष्ण! पितृष्वस्रूः वधूरिति सम्बन्धात् यज्ञकुण्डे समुद्भूतेति गौरवात् ,तव

संखीति स्नोहभावात् , त्वं प्रभुरिति कारणात् च सर्वदाऽपि त्वया रक्ष्यामि। " इति ।

महाभारते प्रायः श्रीकृष्णः द्रौपदीं सखीति नोचेत् कृष्णेत्येव सम्बोधयति स्म।

**तामुवाच महाबाहुः केशवः परिसान्त्वयन् । **

** अचिराद् द्रक्ष्यसे कृष्णे रुदतीर्भरतस्त्रियः२॥** * *

**सुता द्रुपदराजस्य वेदिमध्यात् समुत्थिता । **

** धृष्टद्युम्नस्य भगिनी त्वं कृष्णे प्रिया सखी३॥**

**ततस्तामब्रवीत् कृष्णः क्षुधितोऽस्मि भृशातुरः। **

** शीघ्रं भोजय मां कृष्णे पश्चात् सर्वं करिष्यसि ॥ **

** कृष्णे न नर्मकालोऽयं क्षुच्छ्रमेणातुरे मयि ४॥** * *

*१. च.चि.व्रतखण्डः.११ अध्यायः/७६०पुटः ४. म.भा.५प.८२/२१. *

*२. म.भा.३प.१२/१२७. ५. म.भा.३प.२६३/२०,२३. *

*३. म.भा.५प.८२/४४. *

***तृतीयोऽध्यायः ***

118

अत्र विचरणीयोऽयं विषयः-कृष्णस्य कृष्णायाः सख्यत्वं कथमिति । अर्जुनः कृष्णस्य सखा इत्यनेन कारणात् संखायाः सखी भवत्येव।

“ सख्यश्विश्वीति भाषायाम् । “ ४ .१.६२. इति ङीष् । सहचरी । तत्पर्य्यायः । आलिः

२ वयस्या ३ । * *

**आलि सखी वयस्या च पतिवत्नी सभर्तृका । **

** वृद्धा पलिक्नी प्राज्ञी तु प्रज्ञा प्राज्ञा तु धीमती २॥**

गुणादि समानाख्यातिरस्याः- इति सखी

भगवतः कृष्णस्य सख्यत्वं कथमिति जिज्ञासया ब्रह्मवैवर्तपुराणे प्रामाणिकोपाख्यानं अवलोकितम्।

वनवासकाले रघुनाथः सीतालक्ष्मणेन सह पञ्चववटीप्रान्ते निवसति स्म।तस्मिन् समये द्विजरूपधरः अग्निभट्टारकः कमललोचनं रामं द्रष्टुं समागछत्। भविष्यद् वृत्तान्तमपि इत्थं अकथयत्। " हे महाभाग! राम! विधात्रा लिखितं प्राक्तनं कर्म केनाऽपि अनिवार्यते। सप्ताहाभ्यन्तरे दुष्टराक्षसःरावणः जानकीं हरिष्यति। सीतां विसृज्य तस्याः च्छायां गृह्णातु”

इति। तत्पश्चात् भर्तृवियोगात् रुदन्तीं सीतां गृहीत्वा हुताशनः तस्याः च्छायां रामस्य निकटे संस्थाप्य प्रययौ । रावणः तां च्छायामेव आहरत् । अनन्तरं श्रीरामः सबान्धवं रावणं निहत्य तां च्छायां अरक्षत् । अग्निपरीक्षा काले अग्निः जानकीं संरक्ष्य च्छायां प्रतिगृह्य जानकीं रामाय अददात्। रामः तां जानकीं पुनः स्वीकृत्य अयोध्यां प्रययौ ।

ततः रामविरहात् बहुविलपन्ती च्छाया नारायणसरोवरे शम्भुमद्दिश्य सहस्रदिव्यवर्षाणि तपश्चकार । ईश्वरः सन्तुष्टस्सन् वरं वरयेत्यभणत् । तदा सा ससम्भ्रमेण पतिं देहिइति पञ्चवारं अयाचत् ।

*१. श.द्रु.५भा.२१०पुटः *

*२. अ.को. २.६.१२.१.२ *

*३. अ.को.२.काण्डः.मनुष्यवर्गः। *

***तृतीयोऽध्यायः ***

119

**साध्वि त्वं पञ्चधा ब्रूहि पतिं देहीति व्याकुला । **

** पञ्चेन्द्राश्च हरेरंशाः भविष्यन्ति प्रियास्तव १॥ *** *

तदा महादेवः साध्वि! व्याकुलचित्तेन त्वया पतिं देहीति पञ्चवारमुक्तम् । अतः हरेरंशाः पञ्चेन्द्राः तव पतयः भविष्यन्ति । इति वरं अददात्। ते एव पञ्चपाण्डवाः सा च्छायैव अग्निकुण्डसमुद्भूता कृष्णा ।

**कृतयुगे वेदवती त्रेतायां जनकात्मजा । **

** द्वापरे द्रौपदी च्छाया तेन कृष्णा त्रिहायणी ॥ **

** वैष्णवी कृष्णभक्ता च तेन कृष्णा प्रकीर्तिता । **

** स्वर्गलक्ष्मीः महेन्द्राणां सा च पश्चाद् भविष्यति २॥**

स्वर्गलक्ष्मीश्च दुर्गा सा शक्रादीनां गृहे गृहे ३। * *

सैव विष्णुमाया दुर्गास्वरूपिणी।सैव नारायणी। सैव कृष्णा। सा लोकान् सम्मोहयति। अज्ञानेन तां यःकोऽपि दुष्टभावेनेच्छति तं अवश्यं विनाशयति । इच्छाशक्तिः कृष्णा। ज्ञानशक्तिः कृष्णः। क्रियाशक्तिः पाण्डवाः। शत्रुक्षयं शक्तित्रयादेव अभवत् ।

महाभारते द्रौपदीस्वयंवराद् पूर्वं श्रीकृष्णस्य प्रसङ्गं नाभवत्। स्वयंवरे एव तस्य प्रथमदर्शनम् । यथा कृष्णजन्मनः पूर्वं दुर्गा समुद्भूता ।

**कृष्णा तु द्रौपदी कृष्णं तिर्यक् सासूयमैक्षत । **

** प्रतिजग्राह तस्यास्तं प्रणयं चापि केशिहा ॥ **

** सख्युः सखा हृषीकेशः साक्षादिव धनञ्जयः४। **

अतः कृष्णा सख्युः सखी अपि च समानगुणसम्पन्ना सहचरी अपि भवति । ईश्वराशः नरः अर्जुनःभवति।नरनारायणोरनुबन्धः अविनाभावसम्बन्धः। शिवकेशवयोरिव।

. ब्र. वै.पु.११६/२१ . ब्र. वै. पु.७७/९८.

. ब्र. वै. पु.११६/२३,२४. .* म.भा.१४प.८७६/११*,१२.

***तृतीयोऽध्यायः ***

120

केशवः- ब्रह्मा ईशः रुद्रः तौ आत्मनि स्वरूपेवयति प्रलये उपाधिरूपमूर्त्तित्रयं मुक्त्वा एकमात्रपरमात्मस्वरूपेणावतिष्ठते इति । * *

कश्च ईशश्च वश्च-केशवः।

अतः सखिशब्देन द्रौपदी- कृष्णर्योपूर्वजन्मसु अत्यन्तसान्निहित्यं प्रमाणवचनैः प्रत्यपादि।

**३.७. सत्यभामां प्रति द्रौपदीवचनेषु पतिपत्न्योरत्यन्तानुबन्धम् **

वनवासकाले किंचित् कालं पाण्डवाः द्वैतवने निवसन्ति स्म। वृष्ण्यन्धकसत्यभामासहितः श्रीकृष्णः पाण्डवदिदृक्षया समागतः। सत्यभामा कृष्णां दृष्ट्वा रहसि" द्रौपदि! केनोपायेन त्वं पाण्डवानधितिष्ठसि ? ते त्वद्वशगाः कथं भवन्ति ?"

**केन द्रौपदि वृत्तेन पाण्डवामधितृष्ठसि । **

** लोकपालोपमान् वीरान् पुनः परमसंहितान् । **

** कथं च वशगास्तुभ्यं न कुप्यन्ति च ते शुभे ॥ **

** तव वश्याः हि सततं पाण्डवाःप्रियदर्शने । **

** मुखप्रेक्षाश्च ते सर्वे तत्त्वमेतद् ब्रवीमि मे २॥ *** *

“ते तव वश्याःभवन्ति। सततं त्वन्मुखमवलोकयन्ति। व्रतेन, स्नानमन्त्रौषधैः, विद्यशक्त्या ,मूलशक्त्या, जपहोमैर्वा किं विधानेन ते तव वश्याः भवन्तीति” अपृच्छत्। तदा पाञ्चाली स्त्रीणां पतिसेवनमेव मुख्यधर्मो भवति। अनेनैव भर्ता वशगो भवेदिति पातिव्रत्य धर्मान् कथयन्ती सती–

**प्रणयं प्रतिसंहृत्य निधायात्मानमात्मनि । **

** शुश्रूषुर्निरहंमाना पतीनां चित्तरक्षणी ॥ **

** अहंकारं विहायाहं कामक्रोधौ च सर्वदा । **

** सदारान् पाण्डवान् नित्यं प्रयतोपचराम्यहम् ३॥**

*१. श.द्रु.२भा.१९६पुटः ३. म.भा.३प.२३२/२०,१९. *

*२. म.भा.३प.२३२/४,५.६ *

***तृतीयोऽध्यायः ***

121

“मनसा अहंकर्तृत्वभावनां विहाय पञ्चेन्द्रियवशं कृत्वा प्रीतिं विहाय सर्वदाऽपि पतिशुश्रूषा स्त्रीकर्तव्यमिति मत्वा तान् सेवयामि। कामक्रोधादि षड्वर्गं संहृत्य अहं कर्तृत्वं भावानां विहाय प्रयत्नपूर्वकं तान् उपचरामि।” इति बहुधर्मान् कथितवती कृष्णा। अन्तिमे एतेन श्लोकेन विरराम ।

**एतद् यशस्यं भगदैवतं च **

** स्वार्थ्यं तथा शत्रुनिबर्हणं च । **

** महार्हमाल्याभरणाङ्गरागा **

** भर्तारमाराधय पुण्यगन्धा १॥**

सामान्यार्थः-

महार्हमाल्याभरणाङ्गरागा- दिव्यमाल्यभरणयुता देहे चन्दनादिलेपनं कृत्वा

पुण्यगन्धा-शोभनगन्धा सती

यशस्यं -यशस्करम्

स्वार्थ्यम्-, स्वार्थस्य भावः स्वप्रयोजनयुक्तं, स्वीयहितम्

शत्रुनिबर्हणम्- शत्रून् निबर्हतेति शत्रुघ्नम्

भगदैवतम्- भगदेवता रूपिणं विष्णुं

**धाता मित्रः आर्यमा शक्रो वरुणस्त्वंश एवच **

** भगो विवस्वान् पूषा च, सविता दशमस्तथा । **

**एकादशस्तथा त्वष्टा, द्वादशो विष्णुरुच्यते **

** जघन्यजस्तु सर्वेषा मादित्याना गुणाधिकः२।। * ***

इति द्वादशादित्याः। तेष्वेकः भगः।

*१. म.भा.३प.२३४/१२. *

*२. म.भा१प.६५/२५,२६ *

***तृतीयोऽध्यायः ***

122

एतद्- एषः ,भर्तारं -पतिं,आराधय- सेवय इति।

तव पतिः सामान्यो न भवति। साक्षाद्विष्णुरेव। सः यशस्वी, शत्रुसंहर्ता, तव स्वकीयो भवति। तथाविधं तव पतिं दिव्यैरुपचारैः सुगन्धमाल्याभरणैः आत्मानं अलंकृत्य सुगन्धवती सती तव पतिं समर्चय।अर्थात् रूपेच लक्ष्मीवत् सुगन्धवती सती समर्चय। अत्र स्त्रीणां पतिरेव भगवानिति निर्दिशति ।

**कार्येषु दासी करणेषु मन्त्री भोज्येषु मूता शयनेषु रम्भा । **

** रूपे च लक्ष्मी क्षमया धरित्री षट्कर्मयुक्ता कुलधर्मपत्नी ॥इति। *आर्षोक्तिः *

गूढार्थः- अत्र पतपत्न्योरनुबन्धः प्रकृतिपुरुषवदिति निर्दिश्यते ।

भगदैवतम् - भगो नाम द्वादशादित्येष्वेकः। दक्षयज्ञविध्वंससमये वीरभद्रः भगस्य नेत्रे उत्पाटितवान् ।

**भगस्य विपुले नेत्रे शतपत्रसमप्रभे । **

** प्रहस्योत्पाटयामास भद्रः परमवेगवान् १॥ **

अतःभगो नाम अन्ध इति संकेतः। येन अन्धाय येन मार्गो निर्दिश्यते स एव अस्य दैवतं भवति ।

सांख्ये-अन्धा प्रकृतिःपङ्गुः पुरुषःप्रकृतपुरुषसंयोगादेव सर्गः इति।

**पुरुषस्य दर्शनार्थं कैवल्यार्थं तथा प्रधानस्य । **

** पग्वन्धवदुभयोरपि संयोगस्सतत्कृतः सर्गः२॥** * *

प्रधानेन प्रकृत्या च मेलनं दर्शनार्थं कैवल्यार्थं भवति। यथा अन्धस्य दर्शनशक्तिर्नास्ति । पङ्गुः चलितुं न शक्तः। किन्तु उभयोरपि मार्गं तर्तुकामौ। तदा अन्धः स्वस्कन्धे पङ्गुं आरोप्य गच्छति। एवं देहारूढपङ्गुदर्शितेन मार्गेण अन्धो याति। पङ्गुश्च

*१. शि.पु. वायवीयसंहिता पू. भा२१. १९. *

२. सां.का.२१.३२८ पुटः।

***तृतीयोऽध्यायः ***

123

अन्धस्कन्धारूढः। एवं पुरुषे दर्शनशक्तिरस्ति पङ्गुवत् न क्रियात्मकशक्तिः। प्रधाने क्रियाशक्तिरस्ति अन्धवत् न दर्शनशक्तिः।यथा गतिशक्तिविहीनेन पङ्गुना अन्धः उभीष्ठदेशं याति तथैव दर्शनशक्तिविहीनेन अन्धेन पङ्गुरपेक्ष्यते।

" यथा वा अनयोः पङ्ग्वन्धयोः कृतार्थयोर्विभागो भविष्यतीप्सितस्थानप्राप्तयोः , एवं प्रधानमपि पुरुषस्य मोक्षं कृत्वा निवर्त्तते। पुरुषोऽपि प्रधानं दृष्ट्वा कैवल्यं गच्छति। तयोः कृतार्थयोर्भविष्यति।"

–सारबोधिनी।

एवमेव जनकेन प्रकृतिः पुरुषोरनुबन्धः दाम्पत्यसंबन्धवदिति निगद्यते।

जनक उवाच-

**अक्षरक्षरयोरेव द्वयोः सम्बन्ध इष्यते । **

** स्त्रीपुंसो वापि भगवन् समम्बन्धस्तद्वदुच्यते १॥*** *

क्षरा प्रकृतिः अक्षरो पुरुषः। एतयोरनुबन्धः स्त्रीपुसयोरनुबन्धवत् ।

स्वार्थ्यम्- पुरुषः कैवल्यमपेक्षते। प्रधानं विना अर्थात् प्रकृतिं विना पुरुषस्य कैवल्यं न सिद्ध्यति। " बुद्धिरूपेण परिणतस्य प्रधानस्यैव परिणामो विवेकज्ञानमिति न प्रधानं विना तत्संभवतीति" सारबोधिनी। पुरुषस्य स्वार्थ्यं कैवल्यमेव। केवलस्य भावः कैवल्यं । अर्थात् स्वात्मदर्शनमेव मुक्तिः।

** पञ्चविंशोप्रकृतित्यात्मा बुद्ध्यमान इति स्मृतः। **

** यदा तु बुद्ध्यतेऽत्मानं तदा भवति केवलम् २॥ **

चतुर्विंशतितत्त्वानां भोक्ता भवति पुरुषः। यदा स प्रकृत्या भिन्नेति अभिजानाति तदा केवलो भवति । तदेव कैवल्यम्

*१. म.भा.१२प.३०५/१. *

*२. म.भा.१२प.३०६/४४. *

***तृतीयोऽध्यायः ***

124

शत्रुनिबर्हणम्-प्रकृत्या भिन्नेति ज्ञानात् तस्य कामक्रोधादि शत्रवः नश्यन्ति। त्रिगुणातीतो भवति।

महार्हमाल्याभरणाङ्गरागा-

प्रकृतेः चतुर्विंशति तत्त्वानि आभरणानि भवन्ति।

**अष्टौ प्रकृतयः प्रोक्तो विकारश्चापि षोडशः। **

** तत्र तु प्रकृतीरष्टौ प्राहुराध्यात्मचिन्तकाः ।। **

** अव्यक्तं च महान्तं च तथाहंकार एव च । **

** पृथिवीवायुराकाशमापो ज्योतिश्च पञ्चमम् १॥*** *** **

एताः प्रकृतयस्त्वष्टौ विकारानपि मे श्रुणु ।

अष्टौ प्रकृतयः । मूलप्रकृतितः महत्तत्त्वं, अहंकारं, पृथिव्यादि महापञ्चभूतानि भवन्ति। तथैव पञ्चज्ञानेन्द्रियाणि पञ्चकर्मेन्द्रियाणि, मनः।

पुण्यगन्धा सती अर्थात् गन्धवती पृथिवी। पृथिव्यादि पञ्चभूतानि, मनोबुद्धयहंकारपञ्चज्ञानेन्द्रियाणि, पञ्चकर्मेन्द्रियाणि,पञ्चतन्मात्राः एतानि प्रकृत्याः आभरणानि भवन्ति। एतैः प्रकृतिः पुरुषं नर्तकीवत् आकर्षति ।

अत्र सांख्यदृष्ट्या प्रकृतिः पुरुषं योः अन्योन्याश्रयसम्बन्ध इव पतिपत्न्योरनुबन्धोऽपि वर्तते। अतः अन्योन्याश्रयत्वेन कैवल्यप्राप्तये तद् भर्तारं आराधय। इति द्रौपदी उपादिशत्।

“भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च २।” * *

अत्र यद्यपि व्याख्येयविषय एव । सोऽपि सांख्यशास्त्रार्थविषयत्वात् तद् द्योतकपदानि स्वीकृत्य सांख्यरीत्या पदपरिशीलनं कृतम् ।

*१. म.भा.१२प.३१०/१०.. *

*२. भ.गी.७/४. *

***तृतीयोऽध्यायः ***

125

**३.८. मार्कण्डेयमहर्षिणा प्रासङ्गिकवशाद् प्रोक्त रामायणे सीतायाः **

** अग्निप्रवेशनम् । **

रामायणमनुसृत्य सीतैव अग्निं प्रविष्टा । पुनः अग्निदेवेन नीयमाना साऽपि सीता।सैव अग्निपुनीता सीता इति अवगम्यते। महाभारते स विषयः एकेन श्लोकेनैव दृष्टान्तरूपेण अकथयत्। स एव ग्रन्थिरित्युच्यते। ग्रन्थिच्छेदनेन विषयज्ञानं आयाति। रामायणे उत भारतेऽपि सर्वविवरणं नावगम्यते। विषयज्ञानावसरं भवति पुराणम्। ब्रह्मवैवर्तपुराणे अस्य नीगूढं विवरणं वर्तते। प्रथमतः महाभारते किं वर्तत इति पश्यामः।

**योप्यस्या हर्षसंभूतो मुखरागस्तदाभवत्। **

** क्षणेन स पुनर्नष्टो निःश्वास इव दर्पणे १॥**

रावणहृतां सीतां आनेतुं लोकसंरक्षणाय च सलक्ष्मणपरिवारो रामः रावणकुम्भकर्णादीन् लोककण्टकराक्षसान् हत्वा तां रावणबन्धनात् मुमोच। अतिकर्शिता मलिनवस्त्रपरीताङ्गी सीता रामदर्शनाकाङ्क्षी यानस्था सती रामं ययौ। श्रीरामः" राक्षससगृहे निवसन्तीं नाहं परिगृह्णामि"

**परहस्तगतां नारीं मुहूर्तमपि धारयेत् । **

** कथं ह्यस्मद्विधो जातु जानन् धर्मविनिश्चयम् २।।**

धर्मनिश्चयमतिः अस्मत्ससदृशः जनः अन्यहस्तगतां नारीं कथं स्वीकरोति? इति अवोचत् । एतत् काठिन्यवचनात् सीता रोदमाना सती पपात ।

**योप्यस्या हर्षसम्भूतो मुखरागस्तदाऽभवत् । **

** क्षणेन स पुनर्नष्टो निःश्वासः इव दर्पणे ३॥** * *

१. म.भा.३प.२९१/१५.

२. *म.भा.३प.२९१/१ *

३. *म.भा.३प.२९१/१५. *

***तृतीयोऽध्यायः ***

126

तदा अस्याः सीतायाः हर्षसंभूतः मुखरागः दर्पणे निःश्वास इव क्षणकाले एव नष्टः। इति अनेन अवगम्यते। तत्पश्चात् श्लोकेभ्यः– कपयःसर्वेऽपि राम वचनात् निश्चेष्ठाः दुःखपीडिताश्च अभूवन् । ब्रह्मादयः सर्वे देवाः सप्तर्षयः दशरथमहाराजश्चापि आगत्य तत्र वीक्षन्तःसन्ति।सीता माता स्वकीया पातिव्रत्यनिरूपणार्थं श्रीरमवाक्सायकपीडिता सती “भूमिरापोऽनलोऽनिलाः भूतानामन्तश्चरन्ति।यदि मया दोषः क्रियते तर्हि मां विमुञ्चन्तु।स्वप्नेऽपि त्वां विना अन्यमहं नाऽचिन्तयम्। त्वमेव मत्पतिःइति श्रीरामं”

प्रत्यभणत् ।

अत्र उपर्युक्त श्लोकःयोप्यस्या… ग्रन्थिश्लोको भवति । रामदर्शनमात्रेण सीतायाः मुखरागः हर्षयुक्तो भवति । किन्तु तस्य कठिनवचनात् स हर्षः यथा दर्पणावलोकनसमये दर्णणस्थितं मुखं मलिनं भवति तथा तस्याः मुखमपि दुःखेन मलिनायते इति उपमारूपेण सीतायाः अग्निप्रवेशनं श्लोकमात्रेणैव सूचितवान् भगवान् व्यासः।

तत्पश्चात् अग्निना प्रोक्तम्-

**अहमन्तःशरीरस्थो भूतानां रघुनन्दन । **

** सुसूक्ष्ममपि काकुत्स्थ मैथिली नापराध्यति १॥** * *

विना अग्निप्रवेशनेन अग्निः सीतायाः पातिव्रत्यं निर्दिदेश ।

भारते सीतायाः अग्निप्रवेशं यथा-

** योप्यस्या हर्षसम्भूतो मुखरागस्तदाऽभवत् । **

** क्षणेन स पुनर्नष्टो निःश्वास इव दर्पणे ।। **

अत्र ब्रह्मवैवर्तपुराणे वर्णिते सीतायाः वृत्तान्तं सूचितवान् ।

वयं अत्मानं दर्पणे दर्शयामश्चेत् यथा मुखं बहिः प्रकाशते तद्वदेव दर्पणेऽपि प्रतिभाति।निश्वसनेन दर्पणे प्रतीयमानं मुखं मलिनयुक्तं भवति । न तु निजमुखम्। दर्पणे

१. म.भा.३प.२९१/२८.

***तृतीयोऽध्यायः ***

127

मालिन्यापकर्षणेन पुनः मुकुरे प्रतीयमानं मुखं शुद्धं प्रतिभाति। अत्र निश्वासो भवति च्छाया। दर्पणे प्रतीयमानं मुखं च्छासदृशी मालिन्ययुक्तं भवति।च्छायायाः अपकर्षणेन पुनः यथार्तता गोचरिष्यति।

सीतायाः च्छाया एव रावणस्य वेश्मनि वर्ततेति अनन्तरं अग्निप्रवेशने सीतारूपां च्छायां स्वीकृत्य पावकः निजसीतां रामाय अदददिति सूचनां चकार व्यासदेवः। इदं वृत्तान्तं ब्रह्मवैवर्ते वर्णितम्। ब्रह्मवैवर्तपुराणेन ग्रथितः अयं श्लोकः।

एकदा रघुनाथः ससीतालक्ष्मणः पंचवटी तटे तस्थौ।तदा द्विजरूपधरः हुताशनः रामं द्रष्टुं समायातः। “रामः! सप्ताहाभ्यन्तरे दुष्टराक्षसः रावणः जानकीं आहरिष्यति।अतः सीतां मामर्पयित्वा तस्याः च्छायां गृह्णातु।” इति सम्प्रार्थ्य सीतासदृशीं च्छायां रामसन्निधौ संस्थाप्य रुदन्तीं सीतां प्रगृह्य प्रययौ।

**सीतां गृहीत्वा प्रययौ रुदन्तीं च हुताशनः। **

** सीतया सदृशीच्छाया या तस्थौ रामसन्निधौ ॥ **

** सा च च्छाया हृता पूर्वं रावणेन सलीलया । **

** समुद्धदार तां रामो निहत्य तं सबान्धवम् ॥ **

** वह्निपरीक्षाकाले च च्छाया वह्नौ निवेशया । **

** अनिच्छायां च संरक्ष्य ददौ रामाय जानकीम् १॥**

अत्र ब्रह्मवैवर्तपुराणदृष्टान्तमनुस्रुत्य उपमारूपेण सीतायाः अग्निप्रवेशनं कथितं व्यासमहाभागेन। तेन सैव अग्निसमुद्भवा द्रौपदीति अकथयत् ।

**३.९. मार्कण्डेयेन रामायणे सीता साक्षाद्दर्गेति सूचना **

वनवासकाले तृणबिन्दोराश्रमनिवासमये जयद्रथः द्रौपदीं अपजहार ।

१. ब्र.वै.पु.श्रीकृष्णजन्मखण्डम्.११६/१६,१५,१७.

***तृतीयोऽध्यायः ***

128

जयद्रथादि द्वादशैःसह संयुद्ध्य युधिष्ठिरादयः द्रौपदीं विमुच्य पुनः तृणबिन्दुमहर्षिराश्रमं समायाताः। तदा धरमचारिण्यः द्रौपद्याः अवमानं तैःसह वनवासं च चिन्तयन् धर्मराजः पुराणर्षिं मार्कण्डेयं –

**अस्ति नूनं मया कश्चिदल्पभाग्यतरो नरः। **

** भवता दृष्टपूर्वो वा श्रुतपूर्वोऽपि वा भवेत् १॥ *** *

“भगवन् ! मादृशोऽल्पभाग्यः पर्ू्वं को वा संजातः? भवान् पूर्वं श्रुतवान् वा नोचेत् दृष्टवान् वा? यः कश्चिद् वर्तते चेत् श्रावयत्विति पृष्टे सति मार्कण्डेयमहर्षिः रामावतारकथां आश्रावयत्। तस्मिन् प्रसङ्गे रावणः सीतां अपहृत्य लंकापुर्यां अशोकवने निवेशयामास ।

**रावणोऽपि पुरीं गत्वा लंकां कामबलात् कृतः। **

** सीतां निवेशयामास भवने नन्दनोपमे ॥ **

** अशोकवनिकाभासे तपसाश्रमसन्निभे । **

** भर्तृस्मरणतन्वाङ्गी तापसी वेषधारिणी २॥** * *

तस्याःरक्षणाय राक्षसस्त्रियः नियोजितवान् दशकण्ठः। ताः सीतां भर्त्स्यन्ती स्सत्यः परुषवाक्यैः रवणाज्ञया व्यवहरणीयमिति वदन्ति ।

**गतासु तासु सर्वासु त्रिजटा नाम राक्षसी । **

** सान्त्वयामास वैदेहीं धर्मज्ञा प्रियवादिनी ३॥ ३.***म.भा.३प.२८०/५३. *

ताः यदा रावणसदनं अगमन् तदा त्रिजटा नाम राक्षसी सान्त्ववचनैः सीतां एवं आह-

**अविन्ध्यो नाम मेधावी वृद्धो राक्षसपुङ्गवः। **

** सरामस्य हितान्वेषी त्वदर्थे हि स मावदत् ॥ *** *

*१. म.भा.३प.२७३/१२. *

*२. म.भा.३प.२८०/४१,४२. *

*३. म.भा.३प.२८०/५६. *

***तृतीयोऽध्यायः ***

129

–तत्रैव।

“सीते! अविन्ध्यो नाम राक्षसश्रेष्ठः रामस्य हितान्वेषी मां एवं अवदत्। सीते! त्वत्पतिः कुशलो भवति। वानरराजस्य सुग्रीवस्य सख्यात् लक्ष्मणेन सह क्षिप्रमागत्य त्वां रावणान्मोक्षयिष्यति। मया रावणविषये दारुणानि दुःस्वप्नानि दृष्टानि।

**तैलाभिषिक्तो विकचो मज्जन् पङ्के दशाननः। **

** असकृत् खरयुक्ते तु रथे नृत्यन्निव स्थितः॥ **

** कुम्भकर्णादयश्चेमे नग्नाः पतितमूर्धजाः। **

** गच्छन्ति दक्षिणामाशां रक्तमाल्यानुलेपनाः १॥** * *

तैलाभिषिक्तेन मुण्डितशिरसा रावणः पङ्के मज्जति। खरयुक्ते रथे सर्वदाऽपि स्थितः। कुम्भकर्णादयोऽपि खण्डितकेशाः रक्तमाल्याम्बरधराःसन्तः दक्षिणामाशां व्रजन्ति

इति ।

दुःस्वप्नविषये ब्रह्मवैवर्ते–

**अभ्यङ्गितस्तु तैलेन यो गच्छेद्दक्षिणादिशम् । **

** खरोष्ट्रमहिषारूढो मृत्युस्तस्य न संशयः२॥ **

भवत्याः विषये स्वप्नं शुभगं भवति ।

**अस्थिसंचयमारूढो भुञ्जानो मधुपायसम् । **

** लक्ष्मणश्चमया दृष्टो दिधक्षुः सर्वतो दिशम् ३॥** * *

लक्ष्मणः मधुपायसं भक्षयन् अस्थिराशिं आरूढवान् । सः सर्वदिशः दग्धुकामो भवति इति अविन्ध्यवचनम् ।

*१. म.भा.३प.२८०/६५,६६. *

*२. ब्र.वै.पु. श्रीकृष्णजन्मखण्डम्.८२/४. *

*३. म.भा.३प.२८०/७०. *

***तृतीयोऽध्यायः ***

130

सुस्वप्ने इत्थं आह ब्रह्मवैवर्तम्-

**पायसं पद्मपत्रे च दधि दुग्धं घृतं मधु । **

** मिष्टान्नं स्वस्तिकं भुंक्त्वा ध्रुवं राजा भविष्यति १॥ **

तद्मपत्रे पायसं, दधि, क्षीरं, मधु, मिष्टान्नं, मङ्गलकरभोजनं येन स्वप्ने भुज्यते सः राजा भविष्यति । पुनः अविन्ध्यः एवं आहः -

**रुदती रुधिरार्द्राङ्गी व्याघ्रेण परिरक्षिता । **

** असकृत् त्वं मया दृष्टा गच्छन्ती दिशमुत्तराम् २॥** * *

शुभशकुनचिह्नस्वप्नानि कथयन् सीतायाः विषयं इत्थं अकथयत्।अत्र सामान्येन अवगम्यते चेत् भगवत्यै सीतायै शुभं भविष्यतीति यतः पूर्वतनश्लोकुषु शुभाशुभमेव कथितं त्रिजटया। किन्तु अत्र ग्रन्थिरपि विद्यते । अनेन परिशीलयामश्चेत् सीता दुर्गायाः अपरावतारा इति व्यासमहाभागः सूचनाञ्चकार इति अवगम्यते ।

सामान्यार्थः-

रुदती- रुद् अश्रुमोचने रोदमाना सती शानच् प्रत्यये

रुधिरार्द्राङ्गी-रक्तेणार्द्रीकृताङ्गैः

व्याघ्रेण परिरक्षिता- शार्दूलेन परिरक्षिता

दिशमुत्तरां -उत्तरदिशां गच्छन्ती सती

असकृत्- वारं वारम्

त्वं- भवती मया दृष्टा ।

“सीते! भवती रुधिरेणार्द्रिता रोदमाना सती शार्दूलरक्षणे वारं वारं उत्तदिशं गच्छतीति अहं दृष्टवान्।”

*१. ब्र.वै.पु.श्रीकृष्णजन्मखण्डम्.७८/२२. *

*२. म.भा.३प.२८०/७१. *

***तृतीयोऽध्यायः ***

131

**देवस्थलीं च राजेन्द्रं सिंहं व्याघ्रं गुरुं सुरम् । **

** दृष्वा स्वप्नं समुत्तस्थौ चकाराह्निकमीप्सितम् १॥ **

देवताः स्थलं, राजानं, सिंहं, शार्दूलं, गुरुं , देवतां स्वप्ने दृष्ट्वा अक्रूरः स्वेप्सितं आह्निकक्रियां अकरोदिति। अत्र शार्दूलदर्शनात् शुभं भविष्यतीति उक्तम्।

गूढार्थः-

रुदती- रोदनाद् रुद्रः→रुद्रस्य भावः रौद्रम्→रौद्रं अस्यास्तीति रौद्रःरौद्रः+ ङीप्

रौद्री - रौद्र शब्दस्य ङीप् प्रत्यये सति रौद्रीति ।

रौद्र + ङीप् । चण्डी । इति मेदिनी। * *

रुधिरार्द्राङ्गी- रुधिरेण आर्द्रिताङ्गी- चण्डी रूपेण सा माता महादैत्यसंहारकाले रुधिरेन् णप्लाविता।

व्याघ्रेण परिरक्षिता- अस्य विवरणे काचित् कथा वर्तते शिवपुराणमनुसृत्य ।

एकदा पार्वतीं कालीति संबोधयन् ईश्वरः जहास । तेन कृद्धा शिवानी

गौरीतनुमनीषया हिमवत्पर्वतप्रान्ते तपश्चर्यां करोति स्म। तदा बुभुक्षमाणः एकः व्याघ्रं तां अत्तुं आगतः। किन्तु मातुः तपसा तत्रैव निश्चेष्टो भूत्वा तस्याः अग्रत एव स्थित्वा मातुर्कृपया बुभुक्षां विहाय तामेव ध्यानेन पश्यन् इतरमृगेभ्यः रक्षति स्म। तेन तस्य मलत्रयः नष्टः। तस्य जन्मसिद्धिः तृप्तिश्च समजायत ।

**दृष्टं कश्चिन्महाव्याघ्रो दुष्टभावादुपागमत् । **

** तथा तपश्चरन्तीं तां काले बहुतिथे गते ॥ **

** तदा प्रभावेन ज्ञात्वा कार्यार्थमात्मनः॥ **

*१. ब्र.वै.पु.श्रीकृष्णजन्मखण्डम्.७०.१८. *

*२. शब्दकल्पद्रुमः.४भा.१९३पुटः *

***तृतीयोऽध्यायः ***

132

** सद्योपासक एवैष निषेवे परमेश्वरीम् ॥ **

** दुष्टानामपि सत्त्वानां तथान्येषां दुरात्मनाम् । **

** स एव द्रावको भूत्वा विचचार तपोवने १॥** * *

स व्याघ्रः आत्मनः कार्यचरणं ज्ञात्वा परमेश्वरीम् सेवितवान्। दुष्टदैत्यानां दुरात्मानः स द्रावको भूत्वा तपोवने मातुः रक्षणार्थं उवास। तत्पश्चात् मातुर्कृपया स व्याघ्र एव सोमनन्दिरूपेण कैलासान्तःपुरे स्थितः।

दिशमुत्तराम्-

**यस्मादुत्तार्यते पापात् यस्मान्निःश्रेयसोऽस्नुते । **

** अस्मादुत्तारण बलादुत्तरेत्युच्यते द्विजः ॥ **

** अत्र वै हिमवत्पृष्ठे नित्यमास्ते महेश्वरः । **

** प्रकृत्या पुरुषः सार्थं युगान्ताग्निसमप्रभः ॥ **

** अत्र देव्या तपस्तप्तं महेश्वरपरीप्सया २।** * *

उत्तरदिशं हिमवत्पृष्ठे कैलासे ईश्वरः उमया सहितः क्रीडति। संहारकारकौ रुद्ररुद्रण्यौ। अतः तथा गच्छन्तीं सीतां दुर्गास्वरुपिणीव अपश्यत्।

शंकरं प्रति पार्वती वचनम्-ब्रह्मवैवर्ते-

**वैकुण्ठेऽहं महालक्ष्मी गोलोके राधिका स्वयम् । **

** सावित्री वेदमाताऽहं सीता जनककन्यका ३॥ **

पार्वतीदेवी स्वयं शंकरं प्रत्यवोचत्-अहमेव सीतेति। अतः अत्र सीता साक्षात् दुर्गास्वरूपिणीति दुष्टसंहारार्थं आविर्बभूवेति च सूचनाञ्चकार व्यासमहाभागः।

अत्र ग्रन्थिपरिशीलनात् कृते या द्रौपदी सैव सीता त्रेतायाम्।या सीता सैव द्वापरे द्रौपदीति व्यासेन निश्चप्रचम् ।

१. *शि.पु.२५.८.१६,१७. *

२. *म.भा.५प.१११/४,५,९. *

३. *ब्र.वै.पु.४ श्लो.श.द्रु.७२८पुटः *

***तृतीयोऽध्यायः ***

133

**कृते युगे वेदवती त्रेतायां जनकात्मजा । **

** द्वापरे द्रौपदी च्छाया तेन कृष्णा त्रिहायणी १॥ **

**३.१०. सावित्र्याः कुम्भविवाहः **

युधिष्ठिरं मार्कण्डेयप्रतिवचने पतिव्रतोपख्याने सावित्री कथा ।

अश्वपतोः पुत्री सावित्री भगवत्याःसावित्र्याःअनुग्रहाज्जाता। सद्गुणरूपसौन्दर्यराशी सा दिनदिनप्रवर्धमाना आसीत्। काले गते सति यौवनस्थां तां दृष्ट्वा नृपतिः” पुत्रि! तव वरप्रदानकालो समायातः।तथाऽपि त्वां यःकोऽपि वरः न याचते। अतः मे मनः दुःखेन तप्यते। त्वमेव त्वदिच्छानुसारेण त्वत्समं भर्तारं वरय । त्वया प्रार्थितस्य तस्य वृत्तान्तं विमृश्य तेन सह त्वदुद्वाहं करिष्यामि नो चेत् देवतानां वाच्यो भवामि” इत्याह। तथेत्युक्त्वा सा मन्त्रिभिः साकं वनेषु तीर्थेषु सर्वेष्वपि अन्विष्य शाल्वाधिपतेः द्युमत्सेनस्य पुत्रं धर्मात्मानं सत्यवन्तं प्रवृण्य नारदर्षिणा सहासीनं स्वपितरं न्यवेदयत्। तच्छृत्वा महर्षिः “सत्यवन्तस्य पितरौ सत्यवादिनौ । स तेजस्वी, बुद्धौ बृहस्पतितुल्य, महेन्द्रतुल्यवीरः,शिबिरिव ब्रह्मण्यः सत्यवादी च । रुपेणअश्विभ्यसदृशः, ययातिरिवोदारः,सोमवद् प्रियदर्शनः एभिः सद्गुणैः परिपूर्णः सः। इतः प्रभृति संवत्सरावधि क्षीणायुर्भूत्वा देहत्यागं करिष्यति। " इति संसूचितवान् ।

**एकोदोषोऽस्ति नान्योऽस्य सोऽद्यप्रभृति सत्यवान् । **

** संवत्सरेण क्षीणायुर्देहत्यागं करिष्यति २ ॥ इति।** * *

तच्छृत्वा राजा सावित्रीं अन्यं वरं वरयेति अब्रवीत् ।

आयुष्मते अवैधव्यकरैर्योगैः विवाहकर्म यथा कर्तव्यं तथा कुर्वन् कन्या देया इति शास्त्रवचनात् अन्यं वरय इति पिता अवदत्। एकमेव वृणीष्यामि अन्यं नेच्छामीति तस्याः

१. *ब्र.वै.पु.श्रीकृष्णजन्मखण्डम्.११६.२३. *

२. म.भा.३प.२९४/२३.

***तृतीयोऽध्यायः ***

134

स्थिरां बुद्धिं प्रशंस्य नारदमहर्षिः कन्याप्रदाने अविघ्नमस्त्विति आशीर्दत्वा अगमत् ।

**अथ कन्याप्रदानेन तमेवार्थं विचिन्तयन्। **

** समानिन्ये च तत्सर्वं भाण्डं वैवाहिकं नृपः१॥** * *

राजा अश्वपतिः सावित्र्याः उद्वाहविषयमेव चिन्तयन् शास्त्रप्रोक्तं भाण्डं विवाहं अकार्षीत्। भाण्डं नाम पात्रं कुम्भमिति च अर्थौ वर्तेते। अर्थात् सावित्र्याः कुम्भविवाहं अकरोदिति ।

“ब्रह्मादैवार्षप्राजापत्यासुरगान्धर्वराक्षसपैशाच इत्यष्टौ विवाहाः।”

इत्थं अष्टविधविवाहाः वर्तन्ते। भाण्डविवाह नाम कः ? इति प्रश्नेन- ज्योतिश्शास्त्रे कन्यायाः वैधव्यदोषनिर्हरणार्थं कुम्भविवाहं कुर्यादिति विधिर्वर्तते।

**अवैधव्यकरैर्योगैः विवाहपटलोदितैः। **

** वरयायुष्मते देया कन्यावैधव्ययोगजा ३ ॥ **

अथ वैधव्यहरः कुम्भविवाहः

“विवाहकर्ता पित्रादिः कन्यावैधव्यहरं कुम्भविवाहम् ….”

वैधव्यहरः कुम्भविवाहः इति कन्यायाः वैधव्यं निराकर्तुं विवाहात्पूर्वं कुम्भविवाहं कुर्यादिति लिलेख। विवाहकर्ता पित्रादिः कन्यावैधव्यहरं कुम्भविवाहं करिष्ये इति संकल्प्य नान्दीश्राद्धान्तं कृत्वा महीद्यौरित्यादि स्थापना कुम्भस्थानान्ते । तत्र वरुणप्रतिमायां वरुणं संपूज्य कलशमध्ये विष्णुः प्रतिमां षोडशोपचारैः संपूज्य प्रार्थयेत्।” वरुणाङ्गस्वरूपाय जीवानानां समाश्रय। पतिं जीवय कन्यायाश्चिरं पुत्रसुखं कुरु॥

*१. म.भा.३प.२९५/१ *

*२. ध.सि.अथ ब्रह्मादिविवाहबेधाः.२०४ पुटः। *

*३. मु.र.विवाहप्रकरणम्.जातकीयवैधव्यपरिहारोपायः.१९. *

*४. ध.सि.३परिच्छेदः, पूर्वार्थः.४९६. *

***तृतीयोऽध्यायः ***

135

देहि विष्णो वरं देव कन्यां पालय दुःखितः।" इति ततो विष्णुरूपिणे कुम्भाय एनां श्रीरूपिणीं कन्यां समर्पयामीति समर्प्य परिवेत्यादि मन्त्रैः अधस्तादुपरि च कुम्भं कन्यां च मन्त्रावृत्या परिवेष्ट्य ततः कुम्भं निःसार्य जलाशये प्रभज्य शुद्धजलेन समुद्रज्येष्ठेत्यादिमन्त्रैः पञ्चपल्लवैः कन्यामभिषिङ्च्य विप्रान् भोजयेदिति ।

अतः अस्मात् ग्रन्थिश्लोकात् भाण्डं वैवाहिकं नाम कुम्भविवाहं सावित्र्याः वैधव्यदोषपरिहारार्थं राजा अश्वपतिरकार्षीदिति अवगम्यते ।

यदा वरः नपूर्णायुष्कःवध्वाः दीर्घसौभाग्यं यदि स्यात् तस्याः वैधव्यनिवारणाय जातकं परिशील्य कुम्भविवाहं चरित्वा उद्वाहः कर्तव्यः इतिनियममनुस्रुत्य सावित्र्याः कुम्भविवाहं चकार ।

अचेतनेन भाण्डेन विवाहः कथं स्यात् भाण्डेन कन्यां वोढुं अशक्यत्वात्।न च अष्टविवाहान्तर्गतः अयं विवाहः। इति चेत् तद्दोषनिर्हरणाय प्रायश्चित्त रूपेण एतादृशाः विवाहाः मुनिभिः परिकीर्तिताः।

**३.११. यम-सावित्री संवादे सावित्र्याः प्रतिपादित कामवर्गप्राधान्यता **

सावित्री अल्पायुषः सत्यवानिति नारदमहर्षिणा ज्ञात्वापि तं परिणिनाय। ततः संवत्सरकाले संप्राप्ते सति सत्यवत मरणं भविष्यतीति कारणेन मृत्युरासन्नसमये समिधाहरणार्धं गम्यमानेन सत्यवता सह अटवीं प्रति जगाम। कष्ठाहरणसमये सत्यवान् शिरोवेदनां संप्राप्य विगतजीवोऽभवत्। तस्य धरमनिष्ठया यमधर्मराज एव स्वयमागत्य तं अङ्गुष्ठप्रमाणपुरुषं सत्यवन्तं पाशेनोत्पाट्य नयति। दण्डधरं दृष्ट्वा सावित्री भर्तृप्राणभिक्षार्थं तं अनुगच्छति। आगम्यमानां तां दृष्ट्वा यमधर्मराजः दुर्गममार्गोऽयम्।तव भर्तुरायः अद्य समाप्तः। अतः तव भर्तृकलेबरं दह। इतः निर्गच्छेदिति अनुनयेन अवदत् ।

**एकस्य धर्मेण सतां मतेन सर्वे स्म तं मार्गमनुप्रपन्नाः। **

** मा वै द्वितीयं मा तृतीयं च वांछे तस्मात् सन्तो धर्ममाहुः प्रधानम् १॥ **

*१. म.भा.३प.२९/२५. *

***तृतीयोऽध्यायः ***

136

सामान्यार्थः-

तदा भर्तृपरायणनिष्ठा सावित्री “धर्मराज! सन्तः चतुर्वर्गेषु धर्ममेव प्रधानमिति कथयन्ति । वयं तमेव मार्गं अनुगच्छामः। अत्र द्वितीयं नाम धर्मार्थकाममोक्षेषु प्रथमो भवति धर्मः। द्वितीयो भवति अर्थः। तृतीयः कामः मोक्षश्च चतुर्थः।” इत्यवोचत् । उद्वाहकाले वरेण प्रतिज्ञां कारयिष्यन्ति - “धर्मेच अर्थे च कामे च नातिचरामीति”।

धर्मेण अर्थकामनासंपदनाय पतिपत्न्योरनुबन्धः ग्रथितः। तेन मोक्षः स्वकर्मानुसारेण सिद्ध्यति। मोक्षविषये अन्योन्यसहाय्यं न संभवति। अत्र सावित्र्याः उक्तिं वाच्यार्थेन विचारयामश्चेत् “सज्जनाः धर्म एव सन्मार्गमिति कथयन्ति। अतः द्वितीय वर्गः अर्थं , तृतीयवर्ग कामंश्च न वाछामि” इति अवगम्यते।विनाऽर्थकामं धर्मं कथं चरेम? इति प्रश्नः।

**नानात्मवन्तस्तु वने चरन्ति **

** धर्मं च वासं परिश्रमं च । **

** विज्ञानतो धर्ममुदाहरन्ति **

** तस्मात् सन्तो धर्ममाहुः प्रधानम् १॥ *** *

नानाविधाः आत्मवन्तः वने चरन्ति। अनात्मवन्तः वने न चरन्ति। यतो हि ते अरण्येषु जीवितुं न समर्थाः। तर्हि किमर्थं वने चरन्ति?धर।मार्थकामसाधनार्थं।धर्मं च वासं च परिश्रमं च ते धर्मो प्रधानमिति विज्ञानदृष्ट्या वदन्ति। अर्थात् अर्थकामौ विना धर्मं आचरितुं न शक्नुमः। अर्थकामावपि धर्मं विना अनर्थौ भवतः। अतः धर्मो प्रधानो भवतीति सन्तः कथयन्ति। धर्म एव प्रधान इति तेषां वचनात् तमेव मार्गमनुसरामः।

तस्याः वचनेन यमधर्मराजः-

१. म.भा.३प.२९७/२४.

***तृतीयोऽध्यायः ***

137

यम उवाच-

**निवर्त तुष्टोऽस्मि तवानया गिरा **

** स्वराक्षरव्यञ्जनहेतुयुक्तया । **

** वरं वृणीष्वेह विनाऽस्य जीवितं **

** ददानि ते सर्वमिदं ते वरम् १॥** * *

सावित्रि! तव स्वरैः व्यञ्जनं व्यज्यते। यथा योग्यं तथा प्रयुक्तमिति मत्वा तुष्टोऽहम्। स्वराक्षरव्यञ्जनयुतगिरया प्रमुदितोऽस्मि। अस्य सत्यवन्तस्य जीवितं विना सर्वं वरय। अहं तुभ्यं वरं ददानीति अवोचत्। तत्र स्वरं उदात्तानुदात्तस्वरितं अक्षरसहितं च भवति। तेन स्वराक्षसहितं वाक्यं भवति व्यञ्जना। सा व्यञ्जनया अपरोऽर्थः बोध्यते।

व्यञ्जना लक्षणम्-

**विरतास्वभिधाद्यासु ययार्थो बोध्यतेऽपरः। **

** सा वृत्तिर्व्यञ्जना नाम शब्दस्यार्थाधिकस्य च २॥ **

**यस्य प्रतीतिमाधातुं लक्षणा समुपास्यते। **

** फले शब्दैकगम्येऽत्र व्यञ्जनान्नापरा क्रिया ३॥ **

प्रयोजनप्रतिपिपादयिषया यत्र लक्षणया शब्दप्रयोगस्तत्र नान्यस्तत्प्रतीतिरपि तु तस्मादेव शब्दात्। न चात्र व्यञ्जनादृतेऽन्यो व्यापारः।

वेदेऽपि स्वराक्षरबेधेन अन्योऽर्थः बोध्यते–

ऊर्गिति। बोधायनः-" प्रदक्षिणं मेखलां प्रयास्यति ऊर्गस्यां गिरस्यूर्णन्नदा ऊर्जं मे यच्छ पाहि मा मा मा हिंसीरिति"।

*१. म.भा.३प.२९७/२६. *

*२. सा.द.द्वितीयपरिच्छेदः.१२का. *

*३. का.प्र.२उ.१४. *

***तृतीयोऽध्यायः ***

138

" हे मेखले! त्वमङ्गिरसां सम्बधिन्यन्नरसरूपा। कम्बलवत् मृदुरसि। अन्नरसं मे प्रयच्छ।मां पालय। हिंसां वेदनारूपा मा कुरु।हे वस्त्र! त्वं विष्णोः सुखप्रदमसि। यजमानस्य सुखं प्रयच्छ। ममापि सुखं प्रयच्छ। हे वस्त्र! मां नक्षत्रप्रकाशात् पाहि। शाखान्तरानुसारेण हे उष्णेति व्याख्येयम् । * *

अत्र सावित्र्याः वचनादपि " मा द्वितीयं मा तृतीयं न वाञ्छे" द्वितीयंवर्गद्वितीयः-

अर्थः मास्तु। तृतीयंवर्गतृतीयः- कामः अहं इच्छामि। इति व्यज्यते । कथं द्वितीयं नेच्छामीति संशयनिवारणार्थं सन्तः धर्म एव प्रधान इति कथयन्ति। अर्थेन विना धर्मेण न शक्यते। तर्हि कमेन विना कथं धर्ममाचरणीयम् ? अत्र भीमसेनवचनम्-

** ना कामः कामयत्यर्थं नाकामो धर्ममिच्छति । **

** नाकामः कामयानोऽस्ति तस्मात् कामो विशिष्यते ॥ **

**कामेन युक्ता ऋषयस्पस्येव समाहिताः। **

** पलाशफलमूलादा वायुभक्षाः सुसंयुताः॥ **

** नवनीतं यथा दध्नस्तथा कामोर्थधर्मतः। **

** श्रेयस्तैलं हि पिण्याकाद् घृतं श्रेय उदश्वितः। **

** श्रेयः पुष्पफलं काष्ठात् कामो धर्मार्थयोर्वरः॥ **

** पुष्पितो मध्विव रसः काम आभ्यां तथा स्मृतः। **

** कामो धर्मार्थययोर्योनिः कामश्चाथ तदात्मकः २॥ **

यस्य मनसि इच्छा नास्ति सः धर्मार्थौ नेच्छति। अकामः भोगमपि नेच्छति । अतः काम एव प्रधानो भवति। अभिलाषा कारणादेव ऋषयः कन्दमूलफलाशनाः वायुभक्षाः

१. *क्रु.य.१प्रपाटकम्. *

२. म.भा.१२प.१६७/१९,३०,३५,३६.

***तृतीयोऽध्यायः ***

139

सन्तः वनेषु तपश्चरन्ति। यथा नवनीतं दध्ना संभवति तथा कामोऽपि धर्मार्थाभ्यां संभवति ।

काष्ठात् यथा पुष्पफलानि वराणि तथा धर्मार्थाभ्यां कामःश्रोष्ठो भवति। “प्रयोजनमनुद्दिश्य न मन्दोऽपि प्रवर्तते” इति न्यायेन सर्वेऽपि कामयुक्ता भवन्ति। श्राद्धयज्ञक्रियासु दानप्रतिग्रहे सक्ताः भवन्ति।भूतभविष्यद्वर्तमानं सर्वमपि कामे एव संस्थितम्।

अतः सावित्री स्वेप्सितार्थसिद्धये यमं स्वराक्षरव्यञ्जनसहितया स्वगिरया सन्तुष्ठीकृतवती ।

तस्याः स्वविद्यया व्यञ्जनास्वरयुक्तेन वाण्या सनतुष्ठीकृत्य तद् देवात् पित्रे सन्तनशतं, श्वस्राभ्यां राज्यं, नेत्रान्धदूरीकरणम्, स्वस्मिन् शतपुत्रसंप्राप्तिरिति वराणि लब्ध्वा स्वपातिव्रत्येन सविनयचातुर्यगिरया पतिमपि अलभत्। अस्मात् सावित्र्युपाख्यानात् द्रौपदी अपि तस्याः समाना इति संसूचनाञ्चकार व्यासदेवः।

DE

wचतुर्थोऽध्यायः

140

**चतुर्थोऽध्यायः **

**वनविराटपर्वणोःग्रन्थिश्लोकानुशीलनम् **


**४.१. च्यवनकारणाज्जातस्य महामदस्य वृत्तान्तः **

एकदा भृगुमहर्षेर्पुत्रः च्यवनः एकस्मिन् देशे तपःकरोति स्म । एकदेशे एव तपःकुर्वाणः स लताभिःपरिवृतः वल्मीक इव जातः। तस्मिन् काले शर्याति नाम राजा सस्त्रियः ततः विहर्तुं आययौ। तस्य पुत्रिका सुकन्या वल्मीकरन्ध्रे कान्तिपुञ्जं दृष्ट्वा कीट इति मत्वा ऋषेःनेत्रे कण्टकेन निर्बिभेद । तदा मुनिक्रोधात् शर्याति सैन्यस्य शकृन्मूत्रे समावृणोत्। ऋषेः वचनात् स्व पुत्रिकायाः सुकन्यायाः अपराधात् तां तपोवृद्धाय वयोवृद्धाय च्यवनाय ददौ। सुकन्याच्यवनौ वने सन्तुष्टेन चिरं ऊषुतुः।

एकदा देवभिषजौ अश्वनीकुमारौ योमचारिणौ सन्तौ सुकन्यायाः सौन्दर्यं दृष्ट्वा आवयोरेकं वरय। भवत्पतिं दृढगात्रं यौवनसंपन्नं च करिष्यावः इति अवदताम्। सुकन्या तद्विषयं च्यवनाय निवेदितवती। महर्षिः तथैवेत्यङ्गीकृत्य ससुकन्यः नदीतीरमगमत् । आश्वनेयौ तं दृढगात्रवयोरूपसंपन्नं अकुरुताम् । तेन प्रत्युपकारार्थं महर्षिः ताभ्यां हविर्भागधेयं दित्सया शर्यातेःयज्ञे याजको बभूव । अश्विभ्यां यदा हविर्भागं दादीयते तदा इन्द्रः तद् भागधेयं नादस्राभ्यां दातुं असहमानः सकारणमेव तद्भागधेयं निरोधयमास ।

**अगृह्याच्यवनः सोममश्विनोदेवयोस्तदा । **

** तमिन्द्रो वारयामास गृह्णाणं स तयोर्ग्रहम् ॥ **

इन्द्र उवाच-

**उभावेतौ न सोमर्हौ नासत्याविति मे मतिः। **

** भिषजौ दिवि देवानां कर्मणा तेन नार्हता १॥**

१.*म.भा.३प.१२४/८९. *

***चतुर्थोऽध्यायः ***

141

एतावश्विनौ देवभिषजौ। मर्त्यलोके कामरूपेण विहरन्तौ चिकित्सकौ च। अतः एतौ न सोमार्हौ । यदि भवान् ताभ्यां सोमं दित्सति मद्वज्रेण भवन्तं प्रहरिष्यामीति तं मुनिं वज्रेण प्रहरतुमैच्छत् । तस्य प्रहरतःइन्द्रस्य बाहुं मुनिः स्तम्भयामास ।

तथा च्यवनः समन्त्रकं अग्नये आहुतिं अददात्। स्वतपोबलात् देवराजं जिघंसमानःमदो नाम महासुरः संजातः। तस्य कायं निर्देष्टुं सुराऽसुराऽपि न समर्थाः। तस्य हनुः एका भुविः अपरा च दिवि स्थिता । दंष्ट्रापरिमाणं शतंशतं विस्तीर्णं भवति । इत्थं बृहत् कायः व्यात्ताननः संकृद्धःसह इन्द्रं बुभुक्षितुं प्रधावत्। तदा स्तम्भितभुजः इन्द्रः भीत्या च्यवनमहर्षिं संप्रार्थ्य भवदनुज्ञया अद्य प्रभृति एतावश्विनौ सोमार्हाविति अवोचत्।तेन वचनात् संतुष्टः महर्षिः मदासुरं मद्ये, स्त्रीषु, अक्षेषु ,मृगयायां च चतुर्धा व्यभजत् ।

एषा कथा इतरेषु पुराणेष्वपि दृश्यते। किन्तु मदासुरवृत्तान्तं प्रायः न विद्यते। ग्रन्थिरूपात्मक श्लोकविवेचनेन सूत्रवत् इतरग्रनथेष्वपि ग्रथितोऽयं श्लोक इति अवगम्यते ।

**ततः कृत्याथ संजज्ञे मुनेस्तस्य महाबलात् । **

** मदो नाम महावीर्यो बृहत्कायो महासुरः१॥** * *

महामदो नाम कृत्या स एव दैत्यः। एषः कश्यपपत्नीभ्यो न समुद्भूतः। यथा दितिपत्रः दैत्यः दनुपुत्र दानववत् । च्यवनमहर्षिः इन्द्रगर्वं अपाकर्तुं स्वतपोबलात् मदासुरं असृजत्। तदनन्तरं सोऽसुरः पातालम् ययौ ।

अतः मदासुरः अयोनिजःआसीत् । अयं प्रसंगः मुद्गलपुराणेऽपि वर्तते ।

**च्यवनेन ससंसृष्टो मदः पातालमाययुः२।। *** *** **

च्यवनपिता भृगुः तपोबलगर्वितं स्वपुत्रं च्यवनं योगानुष्ठानेन एकदन्तं समभ्यर्च्य मदगुणं त्यजेति उपादिशत् ।

*१.म.भा.३प.१४०/१९. *

*२.मु.पु.२.४४/.३. *

***चतुर्थोऽध्यायः ***

142

**श्रुणु पुत्र प्रवक्ष्यामि किं कृतं दुःखदं त्वया । **

** मदः स्वतपसा सृष्टो देवेन्द्रस्य भयावहः॥ **

** तपोबलमदेनैवं कुरुषे कर्मतापन । **

मदयुक्तोऽसि पुत्र त्वं त्यज तं योगसेवया १॥ * *

अनन्तरं त्रिपुरासुराः देवान् पीडयन्ति। मदासुरः महाबलीति शक्त्युपासक इति च श्रुत्वा तेन सह संयुज्य देवमनुष्यसंघान् बाधयन्ति स्म । ब्राम्हणैः स्वकर्मानुष्ठननिरोधनद्वारा देवाः निर्बलिनः भविष्यन्तीति व्यूहेन ते द्विजसंघान् बबाधिरे ।

**अन्ये वर्णाश्रमस्था ये ब्राह्मणा कर्मकारकाः। **

** नष्टेषु विप्रजातेषु सर्वे नष्टा भवन्ति ते ॥ **

** अत आज्ञापय प्राज्ञ असुरान् कर्मखण्डने । **

** सर्वत्रासुरभावेन कर्म सर्वं प्रवर्तताम् २॥**

रसातलमाश्रिताः असुराः तेषां आसुरीसंपद्यभिवृद्ध्यर्थं देवलोके मर्त्यलोके च अधिकारस्थापनार्थं स्वधर्मनिरतान् विप्रान् वेदांश्च पीडयन्ति । मनुष्येषु स्वासुरीधर्मं संप्रसार्य तेषां बुद्धिं मोहयन्ति ।

घोषयात्रायां गन्धर्वैर्जितः दुर्योधनः धर्मजेन विमोचितः। तदवमानं असोढुं सुयोधनः प्रयोपवेशमकरोत्। तदा रसातलस्थिताः असुराः तं आनीय त्वं अस्माभिराश्रयणीयः। कर्णादयेष्वपि नरकासुरादि असुरत्मानः वर्तन्ते। सततं धर्मविनाशनमेव अस्माभिः कर्तव्यःअतः प्रायोपवेशात् विरम्य पाण्डवैः सह युद्ध्यस्व इति उपादिशन् ।

" ऋग्वेदेऽपि मदासुरस्य वृत्तान्तमस्ति । इम इन्द्राय सुन्विरे सोमासो दध्याशिरः।

ताँ आ मदाय वज्रहस्त पीतये हरिभ्यां याह्योक आ ॥"

*१. मु.पु.२.४१/१६,१७. ३. ऋ.वे.७.२.३२.४ *

*२. मु.पु… *

***चतुर्थोऽध्यायः ***

143

हे वज्रहस्त! दध्याशिरः दधिमिश्रणाः इमे सोमासः सोमाः इन्द्राय तुभ्यं सुन्विरे सुता बभूवुः। तान् सोमान् मदाय मदार्थं पीतये पानाय ओकः यज्ञसदनम् आ अभि हरिभ्यां अश्विभ्याम् आ याहि आगच्छ ।। सायणभाष्यम् ।

मदासुर एव महामदेति भविष्यपुराणे निर्दिष्टः।

भोजराजः गान्धारम्लेच्छकाश्मीरादिदेशान् जितवान्। तदा महामदो नाम म्लेच्छः सशिष्यः तस्मिन् राज्ये विध्युक्तधर्मं निराकृत्य स्वधर्मं स्थापयति स्म । कालिदासेन तस्य निग्रहणार्थं नवार्णमन्त्रं लक्षं तद्दशाशं हवनमपि चक्रे। भोजः मरुस्थलनिवासिनं ईश्वरं म्लेच्छनिग्रहणार्थं संपूजयत्। ईश्वरःअयोनिजः मदासुरः पुरा मया दग्धः।पुनस्त्रिपुरबलिदैत्यैः इतः प्रेषितः। अतः आर्यधर्मविहीनं वाहीकदेशं त्वया न गन्तव्यमिति सूचनाञ्चकार।

**बभूवात्र महामयी योऽसौ दग्धो मया पुरा । **

** त्रिपुरोबलिदैत्येन प्रेषितः पुनरागतः॥ **

** अयोनिः स वरोन्मत्तः प्राप्तवान् दैत्यः मर्दनः। **

** महामद इति ख्यातः पैशाचकृतितत्परः॥ **

–भविष्यपुराणम् । प्रतिसर्गपर्वणि.चतुर्युगखण्डापरपर्याये कलियुगीयेतिहाससमुच्छये शालिवाहनकाले द्वितीयोध्यायः.१२,१३.

तत्रैव भोजराजाय महामदेनोक्तम्-

**ईशाज्ञया करिष्यामि पैशाचं धर्मदारुणम्। **

** लिङ्गच्छेदी शिखाहीनः श्मश्रुधारी सुदूषकः॥ **

**उच्चालापी सर्वभक्षी भविष्यति जनो मम । **

** विना कौलं च पशवः तेषां भक्ष्या मते मम ॥ **

** मुसलेनैव संस्कारः कुशैरिव भविष्यति । **

** तस्मान् मुसलवन्तो हि जातयो धर्मदूषकाः॥ **

***चतुर्थोऽध्यायः ***

144

** इति पैशाचधर्मश्च भविष्यति मया कृतः१॥** * *

अनेन महाभारतान्तर्गतदृष्टान्तेनावगम्यते यत्-असुराः मनुष्येषु सद्बुद्धिं मोहयित्वा अधर्ममार्गे निवेशयन्ति । अतः च्यवनेन सञ्जातः मदो नाम दैत्य एव महामदेति एतेन ग्रन्थिश्लोकेन अवगम्यते ।

**४.२. लोमशेनोक्त नरकस्य ऐन्द्रप्राप्तिप्रसङ्गे पाण्डवानां प्राग्ज्योतिषदर्शनम् **

यथा द्रौपद्यी सहिता पाण्डवाः द्यूते पराजिताः सन्तः तेषां वनवासवर्णनं भारतस्य वनपर्व इति ख्यातम्। तस्मिन् पर्वणि तीर्थयात्राविषयान् सुविपुलमुद्घोषयन् प्रकृतिं अत्यन्तं सुमनोहरं अवर्णयत्। अर्जुनः तपश्चर्यां कर्तुं गन्धमादनशैलं प्रतस्थे । पञ्चवर्षातीतेन तस्य गमनेन खिन्नहृदयः धर्मजः तमर्जुनं दिदृक्षुमनसा लोमशमहर्षेः सूचनया उत्तराखण्डं द्रौपदीभीमादिभिःसहितः ययौ। तत्प्रस्थानसमये लोमशमहर्षिः इत्थं वर्णनमकरोत् ।

“युधिष्ठिर! सम्प्रति उशीरबीजम्, मैनाकम्, श्वेतं कालशैलमिति पर्वतान् अधिगताः।

इतः प्रभृति सर्वं मानुषी चक्षुषा द्रष्टुं अशक्नुमः। एकाग्रचित्तेन धैर्येण च गमनीयम्।अत्र गंगा सप्तधा भवति।देवानां क्रीडास्थली तेषां चरणाङ्कितः शैलः यः अस्ति तत् कालशैलपर्वतोऽपि द्रक्ष्यामः। अनन्तरं श्वेतगिरिं मन्दरञ्चप्रवेक्ष्यामः। अत्र मणिवरो नाम यक्षः, अष्टाशीतिसहस्राणि शीघ्रगामिनः गन्धर्वाः तथैव किंपुरुषाः यक्षाश्च यक्षराड् कुबेरं

उपासन्ते।वायुसमानगतयस्ते देवराजमपि स्थानात् भ्रंश्यन्ति।

**तेषामृद्धिरतीवात्र गतौ वायुसमाश्च ते । **

** स्थानात् प्रत्यावयेयुर्ये देवराजमपि धृवम् २।। **

इमे पर्वताः दुर्गमाः भवन्ति। अत्र कुबेरसचिवाः रौद्रमैत्रनामकाः राक्षसाः सञ्चरन्ति।अतः तान् विक्रमेण बलेन च जयेयुः । एषा गंगा पुण्यमयी महानदी** **


*१.भ.पु.२५,२६,२७. *

*२.म.भा.3प.१३९ /८ *

***चतुर्थोऽध्यायः ***

145

देवर्षिगणसेविता भवति। मरीचिकश्यपादयः जपःस्वध्याये निरताः। सूर्याचन्द्रमसौ सत्यानि सर्वाण्यपि अहोरात्रविभागेन परिभ्रमन्ति ।

  **चन्द्रमा सह सूर्येण ज्योतींषि च ग्रहैःसह । **

** अहोरात्रविभागेन नदीमेनामनुव्रजन् १।। **

तत्पश्चात् दूरात् प्रकाशमानं पाण्डुरवर्णशोभितं पर्वतं दर्शयित्वा अयं शैलः महात्मनः नरकस्य अस्थिभिर्परिवृतो भवति अतः कैलासमिव श्वेतवर्णयुक्तेन प्रतिभाति।

**एतान्यस्थीनि दैत्यस्य नरकस्य महात्मनः। **

** पर्वतप्रतिमं भाति पर्वतप्रस्थराश्रितम् २॥**

एकदा नरकः  ऐन्द्रं स्थानं प्राप्तुं दशवर्षसहस्राणि तपश्चकार। 

**दशवर्षसहस्राणि तपस्तप्यन् महात्मनाः। **

** ऐन्द्रं प्रार्थयते स्थानं तपःस्वाध्यायविक्रमात् ३॥ **

** ** तदा तपःकुर्वाणं नरकं दृष्ट्वा भीतः सन् इन्द्रः विष्णुं संप्रार्थितवान् । तदा विष्णुः समागत्य इन्द्रस्य भयमपनीय “नरकस्य तपःसिद्धत्वात् तस्य ऐन्द्रं स्थानं अवश्यं लभते। ते भीतिमपनेतुं तं अवश्यं हनिष्यामि” इति वदन् स्वपाणिना तस्य नरकस्य चेतनां आहरत्। सः गिरिराज इव भूमौ पपात । तस्यास्थिसंघातमेव शिखरोपमं भवति।

साम्प्रतिके कैलासं त्रिधा विद्यते। एकः आदिकैलासमिति,द्वितीयः ओंपर्वत इति ,तुरीयः कैलासं इति च उच्यन्ते। अत्र—

**ततो दूरात् प्रकाशन्ते पाण्डुरं मेरुसन्निभम् । **

** ददृशुस्ते नरश्रेष्ठा विकीर्णं सर्वतोदिशम् ४॥**

*१. म.भा.३प.४२/८.. *

*२. म.भा.3प.४२/१६ *

*३. म.भा.3प.४२/१८ *

४*. भा.3प.४२/१३ *

***चतुर्थोऽध्यायः ***

146

**एतद् विकीर्णः सुश्रीमत् कैलासशिखरोपमम् । **

** यत् पश्यसि नरश्रेष्ठ पर्वतप्रतिमं स्थिरम् १॥ **

अनयोः श्लोकयोः तच्छिखरं कैलासशिखरोपमं भवतीति भण्यते। अतः साम्प्रतिके आदिकैलास इति यो प्रख्यातो भवति तमेव अत्र अवर्णयदिति चिन्तयामि।

**जानामि ते भयं शक्र दैत्येन्द्रान्नरकात् ततः। **

** ऐन्द्रं प्रार्थयते स्थानं तपःसिद्धेन कर्मणा २॥ **

अत्र कश्चिच्चिन्तनीयो विषयो वर्तते-

**मूर्च्छितः नैव विकलः नाशस्त्रं नान्ययोधिनम् । **

** पलायमानं शरणं गतः चैव न हिंसयेत् ३॥**

अत्र नरकः तपश्चर्यां करोति।तस्मिन् समये सः केनाऽपि योद्धुं अशक्तः।तर्हि धर्ममूर्ति महाविष्णुः किमर्थं तं प्राहरदिति एकः संशयः।

अन्यो विषयो भवति- ऐन्द्रं प्रार्थयते स्थानमिति द्विरुक्तिः विद्यते। अत्र ऐन्द्रं नाम इन्द्रियम् इन्द्रसम्बन्धीति ज्ञायते। साधारणतः या वयं चिन्तयामि -इन्द्रपदवीं कांक्षमाणः नरक ःतपश्चर्यां करोतीति तदर्थमेव इन्द्रपरिरक्षणार्थं विष्णुना हतः इति। परन्तु ऐन्द्रशब्दस्य

व्युत्पत्तिःशब्दकल्पद्रुमे - इन्द्रो देवता यस्य।इन्द्रः+अण्ज्येष्ठानक्षत्रमिति जटाधरः

अतः तस्य तपोबलं विज्ञाय विष्णुः स्वपाणिना नक्षत्रपदव्यां संस्थापितवान्। तस्याभिधानस्य संकेतः ज्येष्ठा इति विद्यते।

“इन्द्रो ज्योष्ठामनुनक्षत्रमेति…” तैत्तिरीयब्राह्मणम् ।

ज्योष्ठानक्षत्रस्याधिदेवता इन्द्रो भवति।ज्योष्ठानक्षत्रं असुरगणे वर्तते।

*१. म.भा.3प.४२/१५ ३. शि.ध.वे.२२१ *

*२. म.भा.3प.४२/२५. ४. श.द्रु.६.पुटः *

***चतुर्थोऽध्यायः ***

147

प्राक् ज्योतिषं नक्षत्रं यत्र-प्राग्ज्योतिषमिति।अर्थात् ज्येष्ठानक्षत्रमिति। ऐन्द्रं अर्थात् इन्द्रसम्बन्धपदवी इत्यपि वक्तुं शक्नुमः। प्राग्ज्योतिषपुरं वर्णयन् कालिपुराणे

**अत्र स्वयं महादेवो ब्रह्मा चाहञ्च सर्व्वदा । **

** चन्द्रः सूर्य्यश्च सततं वसतेऽत्रैव पुत्त्रक ! ॥ **

** सर्व्वे क्रीडार्थमायाता रहस्यं देशमुत्तमम् । **

** अत्र श्रीः सर्व्वतोभद्रा भोग्यमत्र सदा बहु ॥ **

** अत्रैव हि स्थितो ब्रह्मा प्राङ्गनक्षत्रं ससर्ज्ज ह । **

** ततः प्राग्ज्योतिषाख्येयं पुरी शक्रपुरीसमा १ ।। **

अत्र नरको नाम पृथिव्याः पुत्रः न इति ज्ञेयम् । यतो हि सः राक्षसानां षोडशसहस्रकन्याः अपहृत्य तेन पापेन सकृष्णेन सत्यभामया संहृतः। अतः तस्य विषयः न सङ्गच्छते।

**तपोबलेन महता बाहुवेगबलेन च । **

** नित्यमेव दुराधर्षो धर्षयन् सः दितेःसुतः२॥ **

सः नरकः स्वकीयेन बलेन सर्वलोकानां अजेयो भवति।

अत्र “दितेः सुतः” इति अवोचत्।दितेः अपत्यं पुमान् दैत्यः इति सः एव असुरशब्देन व्यवह्रियते।

**दनुपुत्राः महाराज दशदानववंशजाः।। **

** एकाक्षो मृतपावीरः प्रलम्बनरकावपि ३॥ **

*१. श.द्रु.३भा.३०७. *

*२. म.भा.3प.४२/१९ *

*३.आदिपर्व.सम्भवपर्व.६५६.अध्यायः.२८,२९श्लोक *

***चतुर्थोऽध्यायः ***

148

कश्यपप्रजापतेः भार्याः अदितिः, दितिः,दनुः…..इति त्रयोदशसंख्याकाःवर्तन्ते । तसांपुत्रेषु दनुपुत्रः नरक इति प्रकीर्तितः।

असुरा दैत्य दैतेय दनुजेन्द्रारिदानवाः- इत्यमरः। अतः नरकासुरः दितेः पुत्रः उत दनुपुत्रः असुरः इति ज्ञायते।

अस्मिन् सन्दर्भे एव अग्निदेवं वराहारवतारञ्च संस्मृतवान् लोमशमहर्षिः। कृत्तिकाश्रवणनक्षत्रसूचनामपि विधत्तम् । हिमालयवर्णनसमये एव ज्योतिर्विज्ञानमपि भगवान् व्यासः ददौ ।

पुरा इन्द्र ःदेवानां ज्येष्ठत्वसिद्धये ज्येष्ठनक्षत्रमुद्दिश्य तपश्चकार। ततः प्रभृति तस्य नक्षत्रसयानुग्रहात् देवश्रेष्ठत्व आप। एवमेव अग्निः, वरुणः, प्रजापतिः, भूमिः एवंमादयः तेषां कामनाः सम्पादनार्थं तत् तत् नक्षत्राणि आर्चयन्। तेषां नक्षत्राणां अनुग्रहात् सिद्धमनोरथाः बभूवुः। अतः युधिष्ठिरादय अपि सिद्धसंकल्पाः भवेयुरिति कृपया लोमशमहर्षिणा हिमालयपन्थानः वर्णनाव्याजेन तत्र तत्र स्थितानां ग्रहनक्षत्राणं वर्णनं संकेतरूपेण अवर्णयत् । यथा–

**चन्द्रमा सह सूर्येण ज्योतींषि च ग्रहैः सह । **

** अहोरात्रविभागेन नदीमेनामनुव्रजन् १॥ **

अत्र चन्द्रमा इति संकेतेन मृगशिरा नक्षत्रं सूचयन् “पुरा चन्द्रः ओषधीनां राज्यसम्पादनार्थं मृगशिरानक्षत्रमुद्दिश्य तपःकृत्वा तेषां आधिपत्यं लब्धवान्” इति “सोमो वा अकामयत ।

ओषधीनां राज्यमभिजयेयमिति” इति श्रुतिवचनानुसारेण पाण्डवा अपि सोमवत् श्रेष्ठत्वं आप्नुयासुरिति आशीः अददत्। अनेन विधानेन श्लोकेषु तत् नक्षत्रग्रहसंकेतान् व्यासमहाभागः अददत्।

*१. म.भा.3प.४२/७. *

क्र.सं नक्षत्रम् श्लोक.सं देवता म.भा.प्रमाणम् वेदप्रमाणम्
कृत्तिका- २२ हव्यवाहनः तं दृष्ट्वा ज्वलमानश्रीर्भगवान् हव्यवाहनः- अग्निर्वा अकामयत।अन्नादो देवा स्यामिति।
रोहिणी ५० ब्रह्मा ततो ब्रह्माणं महीं ज्लमानमिव श्रिया। अस्मात्स्रुष्टाःपराजीरायन्..।
मृगशिरा चन्द्रमा चन्द्रमाः सह सूर्येण ज्योतींषि च ग्रहैः च। सोमो वा अकामयत।आदीनां राज्यमभिजयेयमिति।
आर्द्रा वृषाङ्कः एतस्याः सलिलं मूर्ध्नि वृषाङ्कः पर्यधारयत्। रुद्रो वा अकामयत।पशुमान्त्स्यामिति।
पनर्वसुः २९ भूमिः नष्टा वसुमतीं कृत्स्ना पाताले चैव मज्जिता। अदितिर्वा अकामयत।ऋक्षो वाइयमलोकमकाऽसीत्।साऽकामयत।
पुष्यमी बृहस्पतिः मरीचिः पुलहश्चैव भृगुश्चैवाङ्गिरास्तथा। बृहस्पतिर्वा अकामयत।ब्रह्मवर्चसी स्यामिति।
आश्लेषा २९ सर्पः नष्टावसुमतीं कृत्स्नां पाताले चैव मज्जिता। देवासुराः स यत्ता आसन्।ते देवा सर्वेभ्यः।
मखः १२ पितरः पुनः प्रयाताः संहृष्टाः सर्वैर्ऋषिगणैःसह। पितरोवा अकामयन्त।पित्रुलोक ऋन्नुयामेति।
पू.फ अर्यमासूर्यः चन्द्रमाः सह सूर्येण ज्योतींषि च ग्रहैः च। अर्यमा वा अकामयत।पशुमान्स्यामिति।
१० उ.फ ४० भगः नारायणं वरं देवं प्रपन्नाः शरणं गताः। भगो वा अकामयत।भोगी श्रेष्ठी देवानां स्यामिति।

149

क्र.सं नक्षत्रम् श्लोक.सं देवता म.भा.प्रमाणम् वेदप्रमाणम्
११ हस्ता २१ सविता तेन सन्चिनःतितो देवो मनसा विष्णुरव्ययः। सविता वा अकामयत।श्रन्मे देवादधीरन्।
१२ चित्रा २३ त्वष्टा तं दृष्ट्वा वरदं देवं विष्णुं देवगणेश्वरम्। त्वष्टा वाअकामयत।चित्रं प्रजां विन्दयेति।
१३ स्वाती मरुतः अत्राह्निकं सुरश्रेष्ठो गपते समरुद्गणः। वायुर्वा अकामयत।कामचरेमेषुलोकेष्वभिजीयेयमिति।
१४ विशाखा २० इन्द्राग्नी भयाभिभूतःसंविग्नः शुक्र आसीत् तदानघ। इन्द्राग्नी वा अकामयन्ता।श्रेष्ठं देवानां भजेयमिति।
१५ अनुराधा मित्रः चन्द्रमा सह सूर्येण ज्योतींषि च ग्रहैः सह। मित्रो वा अकामयत।मित्रधेयमेषुलोकेष्वभिजयेयमिति।
१६ ज्येष्ठा २४ इन्द्रः प्राञ्जलिः प्रणतो भूत्वा नमस्कृत्य च वज्रभृत्। इन्द्रो वा अकामयत।ज्येष्ठं देवानामभिजयेयमिति।
१७ मूला ५४ प्रजापतिः ब्रह्मोवाच-असुरेभ्यो भयं..। प्रजापतिरकामयत।मूलं प्रजा विन्देयमिति।
१८ पू.आ ३८ आपः सहस्रशोह्ययुतशो वर्धन्ते सलिलं यथा। आपो वा अकामयत।समुद्रं काममभिजेयेमिति।
१९ उ.आ ५० विश्वेदेवाः देवाः सर्षिगणश्चैव उपतस्थुरकेशः। विश्वे वै देवा अकामयन्त।अनपजय्यं जयेयमिति।
२० अभिजित् ३० ब्रह्मा युधिष्ठिर उवाच-भगवान् विस्तरेणेमां...। ब्रह्मा वा अकामयत।ब्रह्मलोकमभिजयेयमिति।

150

क्र.सं नक्षत्रम् श्लोक.सं देवता म.भा.प्रमाणम् वेदप्रमाणम्
२१ श्रवणम् १७ विष्णुः पुरातनेन देवेन विष्णुना परमेष्ठिना। विष्णुर्वा अकामयत।पुण्यश्लोकं श्रुण्वीय इति।
२२ धनिष्ठा ४४ वसवः न ते महि भयं कार्यं भारार्ते वसुधारिणी। वसवो वा अकामयन्त।अग्रं देवतानां वरीयावेति।
२३ शतभिषम् वरुणः तीर्थानि चैव श्रीमन्ति स्पृष्टं च सलिलं करैः। इन्द्रो वा अकामयत।दृढोऽसिधिलस्यामिति।
२४ पू.भा १५ अजेकपाद् एतद् विकीर्णं सुश्रीमत् कैलासशिखरोपमम्। अजो वा एकपादकामयत।तेजस्वीब्रह्मवर्चसी स्यामिति।
२५ उ.भा १६ अहिर्बुध्निः पर्वतप्रतिमं भाति पर्वतप्रस्तराश्रियम्। अहिर्वै बुध्नियोऽकामयत।इमां प्रतिष्ठां विन्देयेति।
२६ रेवती २८ पूषा इदं द्वितीयमपरं विष्णोः कर्म प्रकाशते। पूषा वा अकामयत।पशुमान्त्स्यामिति।
२७ अश्वनी अश्विनौ साध्यश्चैवाश्विनौ चैव परिधावन्ति तं तदा। अश्विनौ वा अकामयेताम्।श्रोत्रस्विनावबधिरौ।
२८ भरणी ३६ यमः यमत्वं कुर्वतस्तस्य देवदेवस्य धीमतः। यमो वा अकामयत।पित्रूणांराज्यमभिजयेयमिति।

151

***चतुर्थोऽध्यायः ***

152

**उपरितनतालिकायां - **

™ पातालस्य नागलोकत्वात् सर्पः।

™ अपां प्राधान्यात् तेषां वरुणाधिष्ठानात् सलिलानि अधिदेवः वरुणः।

™ शक्रशब्देन इन्द्राग्नी उपलक्ष्येते। शक्नोति दैत्यान् नाशयितुं इति शक्रः-

रक्षोहाग्निरित्यपि।

™ रुद्रस्य पर्यायपदे अजेकपाद् अहिर्बुध्निश्च।कैलासाधिपतिरीश्वरः।

™ सर्वस्मिन् विश्वे सन्ति देवाः विश्वेदेवा इति।

™ धर्मजःअभिजिन्नक्षत्रे जातकारणात् युधिष्ठिरसंकेतितः अभिजिदिति।

अनेन प्रकारेण संकेतिताः ऋक्षाधिदेवाः।

अस्मिन् उत्तराखण्डवर्णने लोमशः देवतानां ऋषीणां ,ग्रहनक्षत्रज्योतींषि वर्णनेन सह नरकस्य तपोवृत्तान्तं , वराहावतारवृत्तान्तञ्च वर्णयन् प्राग्ज्योतिषपुरं नाम ज्योतिश्चक्रं सर्वं अवर्णयत्। पाण्डवाः आहिताग्नयः द्रौपदी सोमपीथिनी च। त्रेताग्नीनां सेवने ते कदाऽपि निरवृत्ताः नाभवन्। अज्ञातकालवासेऽपि अग्नीन् धौम्यस्य समीपे निधाय विराटे अज्ञाते यापितवन्तः। पुरोहितः अग्निसमानेति पूर्वमेव अङ्गारपर्णवृत्तान्ते निर्दिष्टः व्यासेन।

अतः तेषां इष्टीनां विघातो मा भवेदिति सदा ते तत् तत् कालमनुस्रुत्य अग्न्युपादानं

कुर्यासुरिति लोमशेन अभिव्यनक्ति। तदर्थमेव नक्षत्रेष्टि सम्पादने

सकलकामनावाप्तिर्सम्भविष्यतीति तेभ्यः आशीःपूर्वकं नक्षत्राणां दर्शनं कारयामास। यथा इन्द्रादीन् तत् तत् कामनाः अनुस्रुत्य तत् तत् नक्षत्राणि प्रार्थितवन्तः तथा तेषां दर्शनमात्रेण तस्य फलप्रप्तिर्भवेदिति अवोचत् सूचनाप्रायेण।

**४.३. असङ्गेनैव कुन्त्याः कर्णजननम् । **

व्यासमहाभागः भारते विविधरीतिषु अपत्योत्पत्तिं प्रातिपादि। कुन्ती

दुर्वासदत्तमन्त्रबलादेव अपत्यं अजनयत् । सा कुन्तिभोजस्य गेहे दुहितैव पोषिता स्म।

***चतुर्थोऽध्यायः ***

153

तस्मिन् समये दुर्वासो महर्षिः तस्याः परिचर्यया सन्तुष्टः सन् तां अनुग्रहीतकामः अधर्वशिरोनामकाभिचारिकमन्त्रं उपादिदेश। स महर्षिः असामान्य भाविविषयज्ञाता च। धर्मे अनन्यनिश्चयो मतिमान् भवति ।

“निगूढं निश्चयं धर्मे यं तं दुर्वाससं विदुः१।”

एकदा सा कुन्ती कन्या सती बालभावेन दुर्वासोपदिष्टं मन्त्रसामर्थ्यं परीक्षितुं सुवर्णकवचकुण्डलधरं उद्यन्तं सूर्यं सस्मार । तस्मिन् समये एव तस्याः शरीरे रजोदर्शनं जातम् ।

**तां समासाद्य तु देवस्तु विवस्वानिदमब्रवीत् । **

** अयमस्यसितापाङ्गि ब्रूहि किं करवाणि ते ॥ **

** एवमुक्त्वा बहुविधं सान्त्वपूर्वं विवस्वता । **

** सा तु नैच्छत् वरारोहा कन्याहमिति भारत २॥**

मन्त्रप्रभावे सूर्य आगत्य त्वयि पुत्रं जनयिष्यामि तवाह्वानं वृथा मा भवेदित्यपि च अवोचत्। तद्वचनं श्रुत्वा कुन्ती कन्याऽहमिति त्वया सङ्गमेन कुले लोके च अकीर्तिं प्राप्स्यामि अतः नेच्छामीति भीत्या नाङ्गीकृतवती।भास्करः तां बहुविधाः धर्मान् बोधयित्वा तया याचमानःसन् बिभ्रत् कवचकुण्डलधरं पुत्रं जनयिष्यामीति वरं अयच्छत्।तदा तत् केचन श्लोकाः ग्रन्थिः गताः सन्ति। तेषां विवरणेनैव एतत् वृत्तान्तं सम्यगवगन्तुं शक्नुमः।

वैशम्पायनः अत्र कुन्त्याः पक्षे

**“कन्या सती देवमर्कमाजुहाव यशस्विनी”। **

** “सा ददर्श तमायान्तं भास्करं लोकभावनम्।” **

*१. म.भा.१प.११०/५. *

*२. म.भा.१प.११०/१०,१५. *

***चतुर्थोऽध्यायः ***

154

अस्मिन् सन्दर्भे वैशम्पायनः सूर्यदेवं अर्कः, भास्करः इति विविधनामभिः अकथयत्।परन्तु सूर्यपक्षे यथा कथायां सूर्यवचनानि वदति स्म तदा विवस्वानिति सूचनाञ्चकार। पुनः सूर्यस्य वचनावसरे सूर्य उवाच इति कथयति। अधुना परिशीलनेन–

**धाता मित्रोऽर्यमाश्शक्रो वरुणस्त्वंश एव च । **

** भगो विवस्वान् पूषा च सविता दशमस्तथा ॥ **

** एकादशस्तथा त्वष्टा द्वादशो विष्णुरुच्यते । **

** जघन्यजस्तु सर्वेषां आदित्यानां गुणाधिकः१॥ **

द्वादशादित्याःइमे भवन्ति । एषु अर्कः,भास्करः न स्तः। अतः विवस्वतः गुणक्रियावाचकशब्दौ इमौ भवतः।

सूर्यः कुन्तीं प्रति “मत्सङ्गमात् दोषो न आयातीति मत्प्रसादेनैव मां दर्शयितुं शक्नोषीतिउक्तः सन् पुरन्दरप्रमुखाःसर्वे दिवि पश्यन्ति तानवलोकय। त्वया सह सङ्गमं साधारणमनुष्यसङ्गममनिव न मन्यसे “इत्यकथयत्।

** एते हि विबुधाः सर्वे पुरन्दरमुखा दिवि । **

** त्वया प्रलब्धं पश्यन्ति स्मयन्त इव भामिनि ॥ **

** पश्य चैतान् सुरगणान् दिव्यचक्षुरिदंहिते । **

** पूर्वमेव मया दत्तं दृष्टवत्यसि एनं माम् २॥ *** *

सूर्यरथे ऋतुमनुस्रुत्य सूर्यःविविध देवताऋषिगन्धर्वाप्सरराक्षसैः सह सञ्चरति ।

**इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च । **

** एलापुत्रस्तथा सर्पश्शंखपालश्च पन्नगः॥ **

*१. म.भा.१प.६५/२५,२६ *

*२. म.भा.३प.१०६/३,१९,२०. *

***चतुर्थोऽध्यायः ***

155

** विश्वावसूग्रसेनौ च प्रातश्चैव रथस्यह । **

** प्रम्लोचाप्सराश्चैव नुम्लोचा चैव ते उभे॥ **

** यातुधानास्तथाहेतिर्व्याघ्रश्चैव तु तावुभौ १। **

“नभश्च नभसस्यश्च वार्षिकावृतू” इति तेत्तिरीयसंहिताप्रमाणात्।

नभो नभस्ययोरेते वसन्ति तु दिवाकरे॥

“विवस्वाच्छ्रावणे मासि त्वष्टा च कार्तिके रविः।” * *

“विवस्वानदितेः पुत्रः सूर्यो वैवस्वतेन्तरे ।” * *

“आकृष्णेन रजसा वर्तमानो निवेशयन्नमृतं मर्त्यं च । हिरण्मयेन सविता रथेना देवो याति भुवनानि पश्यन्”। इति श्रुतिवचनात्।

एको सूर्य एव द्वादशादित्यरूपैः द्वादशमासेषु स्वकीयं विधिमनुसृत्य प्रवर्तयति।

अत्र “पुरन्दरप्रमुखाः” इन्द्रादयःइन्द्रः, अङ्गिरा, भृगुः, एलापुत्रः, शंखपालः,

पन्नगः, विश्वावसुः, उग्रसेनः, प्रम्लोचा, अनुम्लोचा…

तदा नभोमास भवति। नाम श्रावणमास । तदा वर्षाऋतुर्भवति।

भगवता सूर्येण कुन्ती मनुष्यः इव मैथुनं न कृतवतीति अस्मात् श्लोकात् विद्यते–

**तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहङ्गमः। **

** स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ४॥ *** *

विहङ्गमः सूर्यः विहायसा गच्छतीति कुन्तीं आविवेश । आसमन्तात् प्रविष्टवान् । अर्थात् अन्तः शरीरे प्रविष्टवान्। योगात्मा सः तां नाभ्यां पस्पर्श । स्पर्शनं अकरोदिति । अत्र सूर्यः यथा दिवि प्रकाशते तद्वदस्माकं शरीरेऽपि भाति ।

“नाभिमध्ये स्थितो ह्येष भास्करो देवनायकः।” * इति उपनिषद्वचनम् ।*

*१. म.पु.१२५.१०,११,१२. ३. ब्रं.पु.१.८८.१. *

*२. ब्रं.पु.पूर्वभागः.४०.१-३६. ४. म.भा.३प.३०७/२३. *

***चतुर्थोऽध्यायः ***

156

  • *अनेकनाडिषु इडापिङ्गलासुषुम्नानाड्यः मुख्याः भवन्ति अस्माकं शरीरे।तत्र सुषुम्नानाडीमार्गात्अमृतं प्रसार्य नाम शुक्रं प्रसार्य पुरुषस्य लिङ्गे स्थित्वा तस्मात् स्त्रीयोनिद्वारा गर्भं प्रविशति।इत्थं मनुष्यकर्मणा भवति । सूर्यः सर्वलोकेषु देवेशो भवति। अतः कुन्त्याः मन्त्रप्रभावात् देहे प्रविश्य स्वकीयां सुषुम्नायां स्थितं अमृतरूपं शुक्रं नाभ्यां अधःस्थिते गर्भाशये प्राविवेश । अतः कुन्ती योगमूर्तिधरस्य विवस्वतः करपर्याय किरणात् नाभिस्पर्शनद्वारा एव कर्णं सुषुवे । अत्र कुन्त्याः पुरुषसंसर्गदोषो न भवति।

तदर्थमेव पञ्चकन्यासु कुन्ती एका–

**अहल्या द्रौपदी कुन्ती तारा मन्दोदरी तथा । **

** पञ्चकन्या स्मरेन्नित्यं महापातकनाशनम् ॥** इति लोकोक्तिः।

**४.४. कर्णार्जुनयोः पूर्ववृत्तान्तः **

जनमेजयः वैशम्पायनं अपृच्छत् । “कथं कर्णः कानीनः आसीत्? सः कुन्तीपुत्रः कथं अभवत्?” इति। तथा वैशम्पायनःकुन्त्याः वृत्तान्तं कथयन् एकदा दूर्वसो महर्षिः कुन्तिभोजं प्रति गत्वा “कानिचनदिनानि तवान्तःपुरे वस्तुमिच्छामि । मम इच्छानुसारे एव सर्वदा व्यवहर्तव्यम्। मदतिरिक्ताः मा भवेयुः। स्वेच्छानुरेण गमनागमनं करोमि। “इति आदिदेश। तथेति भोजः स्वेन पालितं पुत्रीं पृथां दुर्वासस्य सेवार्थं नियोजितवान् । सा साध्वी सततं महर्षेर्निकटे स्थित्वा स्वसेवया तं मुनिं सन्तुष्टिं अकरोत् ।

**सा नियुक्ता पितुर्गेहे देवताऽतिथिपूजने । **

** उग्रं परिचरत् तत्र ब्राह्मणं संशितात्मनम् ॥ **

** निगूढनिश्चयं धर्मे यं तं दुर्वाससं विदुः॥ **

** समग्रं संशितात्मानं सर्वयत्नैरतोषयत् । **

** तस्यै च प्रददौ मन्त्रमापद्धर्मान्ववेक्षया ॥ **

** अभिचाराभिसंयुक्तमब्रवीच्चैव तां मुनिः१॥ *** *

*१. म.भा.१प.११०/४,५,६. *

***चतुर्थोऽध्यायः ***

157

तया सेवया सन्तुष्ठः भविष्यद् द्रष्टा महर्षिः तस्यै आभिचारिकमन्त्रं उपादिशत्। तेन मन्त्रप्रभावेण यं यं देवं आह्वयितुमिच्छति सा देवता क्षिप्रमेव आगत्य वरं दास्यतीति अवोचत् ।

तदनन्तरकाले पृथा बाल्यचापल्यात् तस्य मन्त्रप्रभावं ज्ञातुकामा सती मन्त्रमुपास्य सूर्यं आह्वानमकरोत्। सूर्यः आगत्य तां पुत्रोत्पादनार्थं प्रेरितवान्। सा बालेति कारणेन कुलप्रतिष्ठाभङ्गं प्राप्स्यतीति कारणात् भीतिं संप्राप्य अनङ्गीकृतवती। किन्तु सूर्यदेवस्य शापभयात् यदि पुत्रं दास्यति तर्हि स भवद्दृशः लसत्कवचकुण्डली अतीव पराक्रसंपन्नो भवत्विति संप्रार्थितवती। तस्याः वचनमनुसृत्य सूर्यः -

**पुत्रस्ते निर्मितः शुभ्रूः श्रुणु यादृक्छुभानने । **

** आदित्ये कुण्डले बिभ्रत् कवचं चैव मामकम् १॥**

अत्र ते पुत्रः निर्मितः इति भूतकाले प्रयुज्यते।निर्मितः इति पदेन अन्येन निर्माणमकरोदिति च विद्यते। अस्य श्लोकस्य ग्रन्थिः वनपर्वणि दृश्यते। इन्द्रकृत कुण्डलापहरणवृत्तान्तं श्रुत्वा जनमेजयःअपृच्छत्-” कर्णजन्मवृत्तान्तं अपि च कर्णः जन्मत व कथं कवचकुण्डलधारी भवदिति”। तदा वैशम्पायनः दुर्वाससा कुन्त्यै मन्त्रोपदेशः, बाल्यचापल्यात् कुतूहलेन तन्मन्त्रदेवतायाः आमन्त्रणेन सूर्यागमनम्, स्वाशं तस्याः गर्भे स्थापनम्, एतद् वृत्तान्तं सर्वमपि वर्णयन् इत्थं अवोचत्-

**अमृतादुत्थितं दिव्यं तनुवर्मसकुण्डलं । **

** धारयामास तं गर्भं दैवं च विधिनिर्मितम् २॥ इति। *** *

कर्णस्य शरीरे एव स्थापितौ कवचकुण्डलौ । तदर्थमेव अमृतत्व सिद्धिः। एतादृशं कवचकुण्डलधारिणं दिव्यं पुरुषं कुन्ती गर्भे धारयामास इति वाच्यार्थो भवति ।

अत्र ग्रन्थिः” दैवं च विधिनिर्मितम्"इत्यत्र वर्तते।

*१. म.भा.१प.११०/दाक्षिणात्य *

*२. म.भा.३प.३०८/२७. *

***चतुर्थोऽध्यायः ***

158

सामान्यतया दैवं, विधि इति शब्दयोः अर्थः एक एव। तर्हि पदद्वयं किमर्थमिति विचारणात्

“दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः१” *- *

दैवम् - दैवं परमेश्वरः तत्र भवं ।

विधिः–विधीयते अनेनेति विधिः।

विधिः–विधति विदधाति विश्वमिति ।विध विधाने +इगुपधात् कित् । “ उणा० ४.

११९ । इति इन् । स च कित् । ब्रह्मा .

** “त्वष्टा प्रजापतिर्वेधा विधाता विश्वस्रुड्विधिः३**।”

सर्वप्राणिसृष्टिकर्ता ब्रह्मैव। किन्तु विधिरिति पदं प्रत्येकं प्रयोक्तमिति विचिन्त्यते चेत् पद्मपुराणे एकः दृष्टान्तः वर्णितः।

भीष्मः पुलस्त्यं एवं अपृच्छत्-

**कथं त्रिपुरुषाज्जातो ह्यर्जुनः परवीरहा । **

** कथं कर्णस्तु कानीनः सूतजः परिकीर्त्यते ॥ **

** वैरं तयोः कथं भूतं निसर्गादेव तद्विधम् । **

** बृहत्कुतूहलं मह्यं तद् भवान् वक्तुमर्हसि ४॥*** *** **

कथं त्रिपुरुषादर्जुनः जातः? कर्णः कन्यागर्भे कथं समुत्पन्नः? जन्मत एव तयोः वैरं कथम्?” इति पृष्टे सति पुलस्त्यब्रह्मा कर्णार्जुनयोः वृत्तान्तं इत्थं अकथयत्।

पुरा महादेवः ब्रह्मणः पञ्चशिर्षेषु दर्पितशिरः चिच्छेद। तदा क्रोधाभिभूत ब्रह्मणा ललाटादुत्पन्नं स्वेदः भूमौ अपतत्।तस्मात् स्वेदात् धनुर्बाणैस्सह संजातः सहस्रकवचधारी

१.अ.को.१.१.३.२९.२.श.द्रु.४भा.३९७पुटः ३.अ.को.१.१.१७.२.६.३.प.पु.सृष्टिखण्डः.१४.१,२.
  • *
    
  •    *
    

***चतुर्थोऽध्यायः ***

159

पुरुषः " किं करोमि ब्रह्मन्?” इति अपृच्छत्। तमुद्दिश्य ब्रह्मा रुद्रं सहर इति आदिदेश। तथैवेत्युक्त्वा स पुरुषः कपालपाणिं महेशं हन्तुं तस्य पृष्टे अधावत्। वेगेनागन्तं तं पुरुषं दृष्ट्वा भीतः रुद्रः रक्षणाय विष्णुं प्रार्थितवान्। विष्णोः हुंकारध्वनिना स पुरुषः निश्चेष्टोऽभवत्। कपालपाणिं महादेवमुद्दिश्य इतोऽपि किं करवाणीति विष्णुना पृष्टः ईशः भिक्षां देहीति प्रार्थितवान्। तस्मै विष्णुः स्वकीयं दक्षिणबाहुं छित्वा ईश्वरस्य करपात्रे कपाले समर्पयत्। तस्मात् भुजात् रुधिरधाराप्रवाहः दिव्यवर्षसहस्रपर्यन्तं स्रवति । तत्पश्चात् नारायणेन शम्भुः पात्रं पर्याप्तं वा नवेति पृष्टः। ततः शिवः स्वीयाङ्गुल्या रुधिरपात्रे रुधिरं पस्पर्श। तस्मात् रुधिरबुद्बुदात् बद्धतूणीरयुगलः शरासनः किरीटी कश्चन पुरुषः संजातः। तं दृष्ट्वा ईश्वरः-

**नरो नामैष पुरुषः परमास्त्रविदांवरः। **

भवतोक्तौ नर इति नरस्तस्माद् भविष्यति १॥ * *

त्वदुक्त्या एषः नरः अग्रिमे युगे तव सखा भविष्यति।इत्युक्त्वा तं कपालोत्थितं पुरुषं " विष्णुहुंकारात् विमोहितं पुरुषं संहर। इति आज्ञापयामास। हरेः वामपादाघातात् जागृतः ब्रह्मस्वेदजः युद्धाय समुपस्थितः। स्वेदजरक्तजयोर्मध्ये दिव्यवर्षद्वयं युद्धं अभवत्। तौ समानपराक्रमौ। विष्णुः ब्रह्मणा सह तौ युद्धात् निवार्य कलिद्वापरसन्धौ कुरुक्षेत्रसंग्रामे युवयोर्मध्ये युद्धं भविष्यति। युद्धे अर्जुनः कर्णं जेष्यतीति अवोचत्। तत्पश्चात् विष्णुः सूर्यं इन्द्रं च समाह्वयत्।

सूर्यमुद्दिश्य " रवे! एनं ब्रह्मस्वेदजं पुरुषं रसातले निक्षिप्य द्वापरयुगे दुर्वाससा वरं लब्धमानायाः कुन्त्याः गर्भे प्रावेशय। सः कानीनः वसुषेणेत्यभिधानेन कर्णेति अपरनाम्ना प्रतिष्ठां प्रप्स्यति। " इत्यभणत्। सूर्यं अङ्गीकृत्य तं पुरुषं जग्राह। अनन्तरं इन्द्रमुद्दिश्य इन्द्र! एनं नरं संगृह्य भर्त्रा पाण्डुना प्रेरिताः याः कुन्त्याः गर्भे स्थापय। इत्वदत्। अनेन वृत्तान्तेन क्रोधापूरितब्रह्मस्वेदात् संजातस्य पुरुषस्यापि तस्य गुणः एव आविवेश। तस्मिन्

*१. प.पु.सृष्टिखण्डः १४/२७ *

***चतुर्थोऽध्यायः ***

160

जन्मनि रक्तजेन वैरमेव तत्पश्चदपि अनुगम्यमानकारणात् अर्जुने जन्मत एव वैरं भवति कर्णस्य।

वैशम्पायनेन प्रोक्तं दैवं च विधिनिर्मितम् इत्यस्य ग्रन्थिना कर्णार्जनयोः पूर्ववृत्तान्तमवगम्यते।

विधिर्नाम ब्रह्मेति तस्य क्रोधात् समुद्भूतकारणात् रुद्राशजं रक्तजं युयुत्सुकारणाच्च स कर्णः अर्जने एव युद्धकाक्षी सततमपि ।अत एव कुन्तीप्रर्थनया पाण्डवेषु अर्जुनं विहाय अन्येन सह न योत्स्ये इत्यभणत्।

**४.५. इन्द्रात् कर्णस्य शक्तिर्नामकास्त्रसंप्राप्तिः **

कुण्डलाहरणपर्वणि वर्तन्ते अयं वृत्तान्तः। कर्णः सहजकवचकुण्डलधरः अवध्यः अतः तं जेतुं अस्माभिः दुःसाध्यमिति धर्मजः अचिन्तयत्। तं ज्ञात्वा धर्मपक्षीयः इन्द्रः ब्राह्मणरूपेण दिवाकरं स्तूयमानं कर्णमुपागम्य भिक्षां ययाचे। कर्णः ऐश्वर्यं वा प्रमदाः उत गोसहस्रग्रामाः किं ददानीति अपृच्छत्। तेन देवराजः -तव कवचकुण्डलौ उत्कृत्य ददेति तेन महालाभो भविष्यतीति अवदत् । तद्विना अन्यं वरयेति बहुवारं कर्णेन कथितेनापि इन्द्रेण तस्य कवचकुण्डले एव अपेक्षेते। तेनाङ्गीकृतः कर्णः ते प्रदातुं ऐच्छत्। कवचकुण्डलं विनाऽहं वध्यो भवामि अतः वरविनिमयं कृत्वा कवचकुण्डले गताहमिति अवोचत्।

**यदि दास्यामि ते देव कुण्डले कवचं तथा । **

** वध्यतामुपयास्यामि त्वंच शक्रावहास्यताम् ॥ **

** तस्माद् विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् । **

** हरस्व शक्र कामं मे न दद्याम्यहमन्यथा १॥*** *

इन्द्रः वज्रायुधं विना अन्यं वरयेत्यब्रवीत्।तेन कर्णः स्वकीयं शत्रुं अर्जुनं हन्तुं अमोघाशक्तिं अयाचत ।

१. म.भा.३प.३१०/१६,१७.

***चतुर्थोऽध्यायः ***

161

**वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव । **

** अमोघां शत्रुसंघानां घातिनीं पृतनामुखे १।।**

तथेत्युक्वा इन्द्रः एषा शक्तिः मम कराद् शतशो दैत्यसंघान् संहृत्य पुनः मत्पाणिभ्यामेति। सैवा शक्तिः तव करप्राप्ते गर्जन्तं रिपुं एकं हनिष्य पुनः मामेष्यति। इति समयञ्चकार।

**सेयं तव करप्राप्ता हत्वैकं रिपुमूर्जितम् । **

** गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज २॥*** *

प्रत्युत्तरेण कर्णोऽपि गर्जन्तं प्रतपन्तं एकमेव रिपुं हन्तुं मिच्छाम्यहमिति अवदत् ।

पुनः इन्द्रः कर्णस्य वचनेनैव इत्थमवोचत्-

**एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे । **

**त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना। **

**यमाहुर्वेदविद्वांसो वरार्हमपराजितम् । **

** नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ३॥ **

सरलार्थः-

त्वदिच्छया महात्मना श्रीकृष्णेन रक्ष्यते तं वेदविद्वासः धनुर्वेदपरायणःमहाश्रेष्ठः अपराजितः नारायणमेव चिन्त्यमानः इति यं अर्जुनं प्राहुः तं गर्जन्तं बलिनं शत्रुं रणे हनिष्यसि।

अस्य श्लोकस्य वाच्यार्थेन सः अर्जुन इति तं हन्तुं इन्द्रः शक्तिं ददात्विति प्रतीयते। देवा सत्यप्रियाः सत्यवादिनश्च। तर्हि कथं इन्द्रेणानृतम्? सा शक्त्या एव कर्णः घटोत्कचं जघान। अतः अत्र गूढार्थो व्यज्यते।

*१. म.भा.३प.३१०/२१. *

*२. म.भा.३प.३१०/२५. *

*३. म.भा.३प.३१०/२७,२८. *

***चतुर्थोऽध्यायः ***

162

गूढार्थः-

गर्जन्तम्- यःगर्जनं करोति तं। अर्थात् गर्जनं नाम शब्दः। शब्दगुणमाकाशम्।

शब्दः स्पर्शश्च वायौ च शब्दश्चाकाश एव तु ।

**अन्तरात्मकमाकाशं तन्मयं श्रोत्रमिन्द्रियम्। **

** तस्य शब्दगुणं विद्यान्मूर्तिशास्त्रविधानवित् १॥ **

**आकाशस्य गुणः शब्दो व्यापित्वं च्छिद्रतापि च । **

** अनाश्रयमनालम्बमव्यक्तमविकारिता २॥ *** *

अकाशस्य परिच्छेदकत्वं भवति घटः। अतः गर्जन पदेन घट इति प्रतीयते।

घटोत्कचस्य घोरनिनादं श्रुत्वा धृतराष्ट्रचमू भयेनाकम्पयत् ।

**व्यनदत् स महानादं जीमूत इव शारदः। **

** दिशः खं विदितश्चैव नादयन् भैरवस्वनः३॥**

वेदविद्वांसः - धनुर्वेदविद्वांसः महार्हः उत्तमः, अपराजितः केनाप्यपराजितः

अचिन्त्यः - तस्यअचिन्त्यः तस्य पराक्रमं चिन्तनं कर्तुमपि न शक्नुमः, नारायणः अर्थात् केशः। तस्य व्युत्पत्तिः कस्य जलस्य ईश इति।

अत्र गर्जन्तः - महार्हः नारायणः इति पदक्रमात् घटः उत्तमः केशः इति अर्थो आयाति । केशस्य अन्यार्थो वर्तते कच इत्यपि। घट+उत्+कचघटोत्कचः इति ।

कचते शोभते शिरसीति । कच् + पचा- द्यच् । कच्यते बध्यते इति कच बन्धे + कर्म्मणि अप् वा । केशः । * *

*१. म.भा.१२प.२५३/३. *

*२. म.भा.१२.२५६.७. *

*३.म.भा.६प.९३/६. *

*४.अ.को.२.६.९५ *

***चतुर्थोऽध्यायः ***

163

**घटो हास्योत्कच इति माताऽतं प्रत्यभाषत । **

** अब्रवीत् तेन नामास्य घटोत्कच इति स्म ह १॥** * *

अस्य घटसदृशस्य शिरसि उत्कचः नाम उत्केशः वर्ततेति कारणात् तस्य माता हिडिम्बा घटोत्कचेति नाम चक्रे।

सदा सः अर्जुनस्य रक्षणार्थं कृष्णेन रक्ष्यते। अर्जुनं हन्तुमेव पुरन्दरात् कर्णः शक्तिं स्वीकृतवानिति सर्वेऽपि जानन्ति । सर्वज्ञः श्रीकृष्णः अर्जुनरक्षणाय घटोत्कचं प्रचोदयामास।

**घटोत्कच विजानीहि यत् त्वां वक्ष्यामि पुत्रक । **

** प्राप्तो विक्रमकालोऽयं त्वं नान्यस्य कस्यचित् ॥ **

** जितस्येवं प्रवृद्धस्य सूतपुत्रस्य संयुगे । **

** निषेद्धा विद्यते नान्यस्त्वामृते भीमविक्रम २॥**

अनेन प्रियवचनैः घटोत्कचं श्रीकृष्णः प्रचोदितवान् ।

** न पिता न च मे माता न यूयं भ्रातरस्तथा । **

** नऽच प्राणस्तथा रक्ष्या यथा बीभत्सुराहवे ३॥ *** *

अर्जुनं विना यःकोऽपि मे प्राणसमो नास्ति। सदाऽपि तं रक्ष्यामि। कर्णः अर्जुनमृत्यवे शक्तिं प्राप्तवानिति अनवरतचिन्तनेनमे निद्राहर्षौ न स्तःइति स्वचिन्तां उक्त्वा कृष्णः रात्रियुद्धे कर्णं जेतुं असुरोद्भवः घटोत्कच एव शक्त इति कारणात् तं प्रोचोदितवान् ।

अतः अस्मात् ग्रन्थिश्लोकात् कर्णदृष्ट्या गर्जन्तं प्रतपन्तं रिपुं नाम अर्जुनमिति इन्द्रमनसि घटोत्कचवधात् अर्जुनः संरक्ष्यतेति कारणात् गर्जन्तं प्रतपन्तं वरार्हं नारायणं इति विशेषणैः घटोत्कचेति विद्यते ।

*१. म.भा.१प.१५४/३८. *

*२. म.भा.७प.१७३/४५,४९. *

*३. म.भा.७प.१८३/४३. *

***चतुर्थोऽध्यायः ***

164

वसुषेणः तदर्थमेव अर्जुनं प्रहर्तुं संपादितं शक्त्यस्त्रेण दैवयोगात् दुर्योधनवचनाच्च घटोत्कचं जघान ।

**विराटपर्व **

**४.६. द्रौपदी-कीचकसंवादः **

संवत्सरं अज्ञातसमयं द्रौपदीसहितपाण्डवाः विराटसभायां प्रच्छन्नवेषान् धृत्वा ऊषुः। द्रौपदी सैरन्ध्रीरूपैव सुदेष्णायाः अन्तःपुरे परिचर्यां करोति स्म। तदा विराटस्य श्यालकःकीचकः तस्याः द्रौपद्याः सुमनोहरं सौन्दर्यं दृष्ट्वा कामाग्निसंतप्तः तस्याः समागममपेक्ष्य वविधप्रलोभवचनैः तां अपृच्छत्। तथा कृष्णा अहं पतिव्रतेति यदि मयि कामना न समुचितमिति भृशं अब्रवीत् ।

**अप्रार्थनीयामिह मां सूतपुत्राभिमन्यसे । **

** निहीनवर्णां सैरन्ध्रीं बीभत्सां केशकारीणीम् १।। **

सूतपुत्र ! निहीनवर्णां- नीचवर्णजनितां, बीभत्सां- बहुविधां, केशकारिणीं-

वेणीबन्धनपोषणादि कर्मणि कुशलिनीं, सैरन्ध्रीं- स्वगेहविहीनां अन्यगृहेच्छुकां, अभिमन्यसे- कामयसि।

गूढार्थः-1

सूतपुत्र निहीनवर्णां- निरतिशयेन हीनवर्णां कृष्णवर्णां कृष्णाम्, बीभत्सां- अर्जुनस्य पत्नीं, केशकारिणीं सैरन्ध्रीं इति विद्धि। प्रारब्धवशात् धर्मानुष्ठानत्पराः वयं सर्वे अस्मिन् वेश्मनि प्रच्छन्नरूपेण संस्थिताः। तेषु मां अर्जुनपत्नीं कृष्णसखीं कृष्णां द्रौपदीं इति च अभिजानीहि। तथाविथां मां कामयसि ।

१. *म.भा.१प.१४/३४ *

***चतुर्थोऽध्यायः ***

165

गूढार्थः-2

निहीनवर्णां- कृष्णवर्णयुतां कृष्णां मां विद्धि। अत्र कृष्णा इति नाम्ना महामाया दुर्गा इत्यपि च वयं ज्ञातुं शक्नुमः।यथा श्रीमद्भागवते-

“कुमुदा चण्डिका कृष्णा माधवी कन्यकेति च १।”

भगवान् विष्णुः स्वमायां यशोदागर्भात् जनयितुं आज्ञां विधाय मानवाःसर्वे त्वां कुमुदा चण्डिका कृष्णा इत्यादिभिर्विविधैर्नामभिः अर्चिष्यन्ति इति अवदत्। सैरन्ध्री- स्वैरं स्वाच्छन्द्यं धरतीती। अन्यवेश्मस्था स्वतन्त्रा शिल्पजीवनी-इत्यमरः। अतः भगवती अन्यवेश्मनि अर्थात् मन्दिरेषु शिल्परूपमाश्रित्य सजीवं भवति ।

बीभत्साम् असुरसंहारसमये भगवती कालीरूपेण बीभत्समाना सती जुगुप्सां उत्पादयति ।

केशकारिणीम्- कः-ब्रह्मा, ईशः- परमेश्वरः। क ईश कारिणीम्

ब्रह्ममहेश्वरावपि अहमेव सृजामि ।

अतः मां सृष्टिसंहारकारिणीं अर्चनीयां मायां इति जानीहि ।

अनेन प्रकारेण द्रौपदी क्षमासक्तचित्ता भूत्वा विविधैः वचोभिर्प्रार्थितवती। परन्तु स कामान्धः तां वशीकर्तुं ऐच्छत्। सा द्रौपदी उपायेन भीमं प्रचोद्य कीचकमेव न । मदान्धान् उपकीचकानपि संहारं अकारयत् । अत्र द्रौपदी शत्रुसंहारकारिणी साक्षाद् दुर्गा इति सूचनाञ्चकार व्यासदेवः।

**४.७. धर्मजस्य सूचनानुसारेणैव कीचकोपकीचकानां वधः कृतः भीमसेनेन - **

छद्मरूपिणः द्रौपद्यासहितपाण्डवाः विराटराजस्य निकटे नानावेषधराःसन्तः उषिताःबभूवुः। सैरन्ध्रीवषेण द्रौपदी, कंकवेषधरो धर्मराजः, बल्लवः भीमः,

*१. श्री.भा.१०स्कं.पूर्वार्धे २/ ९,१०. *

***चतुर्थोऽध्यायः ***

166

बृहन्नलारूपोऽर्जुनः, ग्रन्थिंकवेषधारी नकुलः, तन्तिपालरूपधरो सहदेवश्च आसन्। विराटराजस्य सेनानी शालकः कीचकः तत्रागमत्। सः राज्ञ्याः सुदेष्णायाः मात्रुष्वस्रीयः

सुदेष्णाविराटयोः उद्वाहानन्तरं सुदेष्णां परिचरन् मत्स्यराज्ये एव निवसति स्म। तस्य भ्रातरः उपकीचकाः शतसंख्याकाः भवन्ति। ते बलिष्ठाः, पराक्रमशालिनःआसन्। ते मत्स्यराज्यस्य शत्रून् मेखलत्रिगर्तदशार्णादि राज्येषु स्थितान् नानाप्रकारशूरान्, जनपदेश्वरान् च अजयत्। अतः विराटराजः कीचकं सेनानीपदव्यां अस्थापयत्। तस्य कीचकस्य सहोदरा अपि विराटस्य बलं कोशं च वर्धयन्तः तत्रैव स्थिताः।

**कालेयनाम दैतेयाः प्रायशो भुवि विशृताः। **

** जज्ञिरे कीचका राजन् बाणो ज्येष्ठस्ततोऽभवत् ॥ **

** स हि सर्वास्त्रसंपन्नो बलवान् भीमविक्रमः। **

कीचको नष्टमर्यादो बभूव भयदो नृपान् १॥

कालेयनामदैत्याः उपकीचका इव तेषां ज्येष्ठः बाण एव कीचकरूपेण संञ्जातः। तस्य शासनादेव विराटराज्यं प्रचलति स्म ।

एकदा नष्टमर्यादः स कीचकः सौन्दर्यराशिं सैरन्ध्ररूपिणीं द्रौपदीं विलोक्य अकामयत्। तां सामदानबेधैर्वशीकर्तुं अयतत । परन्तु पतिव्रता सा पाञ्चाली तं नानाप्रकारवचनैः प्रार्थितवती ।

**परदाराऽस्मि भद्रं ते न युक्तं तव साम्प्रतम् । **

** दयितां प्राणिनां दारा धर्मं समनुचिन्तय ॥ **

** न चाप्ययं त्वया लभ्या गन्धर्वा पतयो मम । **

** ते त्वां निहन्युः कुपिताः साध्वलं मा व्यनीनशः२॥ *** *

*१. म.भा. ४.१६.दाक्षिणात्यपाठः *

*२. म.भा.४प.१४/३५,४८. *

***चतुर्थोऽध्यायः ***

167

सूतपुत्र! अहं परदारास्मि। प्राणिनः स्वभार्यामेव प्रीतियुक्ताः भवन्ति तर्हि शुभमाप्नुवन्ति । मे पञ्चपतयः सदा मां रक्षन्ति। यःकोऽपि मां अपकारं कर्तुमिच्छति तर्हि ते तं हनिष्यन्ति । अतः मयि कामना नोचितमिति हितमकथयत् । शठः मूर्खः सः कुटिलत्वेन सुदेष्णां" मधुमद्यभक्ष्यादीनि सैरन्ध्रीद्वारा मद्गृहं प्रापय। अद्य सैरन्ध्र्याः मरणं वा समागमो वा भवतु " इति आदिदेश। राज्ञ्याः सुदेष्णायाः आदेशेन द्रौपदी तानि नीत्वा कीचकमन्दिरं जगाम। स दुष्टः काममोहितः तां जिघृक्षमाणः हितवचनेन भर्त्स्ययन्त्याः

तस्याः उत्तरवस्त्रदेशं जग्राह । तथा प्रगृह्यमाणा रुदती सती सा यत्र राजा युधिष्ठिरः स्थितः तस्यां सभायां धावित्वा शरणमगच्छत्। प्रधावन्त्याः तास्याः केशपाशे प्रगृह्य कीचकः अधः पातयित्वा पादेन अताडयत् । इत्थं कीचकेन भृशपीडितां द्रौपदीं असहमानौ भीमयुधिष्ठिरौ ददृशतुः। भीमः कृद्धःसन् सहसा आसनादुत्थाय निकटे स्थितं वनस्पतिं

उत्पाट्य तेन कीचकं हन्तुं ऐच्छत् ।

**आलोकयसि किं वृक्षं सूद दारुकृतेन वै । **

** यदि ते दारुभिः कृत्यं बहिर्वृक्षान्निगृह्यताम् १॥ *** *

भीमः कीचकस्य दौष्ट्येन तदा वीक्षमाणं भीमसेनं अवलोक्य धर्मजः" सूद! पचनकर्मणि उपयोक्तुं वृक्षं पश्यन्नस्ति किम्? यदि दारुभि पचितुं इच्छति बहिर्वक्षान् गृह्यताम्" इति सूचनापूर्वकं अवदत्। कुपितः भीमः सभायां कीचकं हनिष्यति चेत् भीमेनैव हतो कीचक इति सर्वेऽपि अभिज्ञास्यन्ति। तेन कारणेन प्रतिज्ञानुसारात् पुनः वनवासं अज्ञातवासं च भविष्यति। अतः तस्य क्रोधं उपशमयितुं एवं आह इति अत्र वाच्यार्थो भवति ।

पाचक! अयं वृक्षः पचनकर्मणि काष्ठमिव उपयुज्ये इति पश्यति किम्? अत्र वृक्षच्छेदनं मा करोतु। सभायाः बहिर्प्राङ्गणे स्थितान् वृक्षान् उत्पाटयतु इति वाच्यार्थः

१. म.भा.४प.१६/१९.

***चतुर्थोऽध्यायः ***

168

गूढार्थः-

अयं ग्रन्थिश्लोकः बहिर्वृक्षशब्देन उपकीचकवधं सूचयति। तेन अत्र व्यङ्ग्यार्थः वृक्षशब्देन अवबोध्यते।

सूद!- सूदरूपधारी भीम! त्वं दारुभिः - वृक्षैः

कृत्यं-शत्रुं हन्तुमिच्छति । तत् तवामानुषचर्या भवति।

यदि वृक्षैः शत्रून् मर्दितुमिच्छति तर्हि बहिर्गत्वा नैके वृक्षान् निगृह्णातु। इति सूचनाञ्चकार। अत्र वृक्षशब्दः कीचकविशेषः।

कीचकः- वाताहतवेणुः

**शतपर्वा यवफलो वेणुमस्करतेजनाः। **

** वेणवः कीचकास्तेस्युर्ये स्वनन्त्यनिलोद्धताः१॥**

**यः पूरयन् कीचकरन्ध्रमाणान् दरीमखोत्थेन समीरणेन । **

** उद्गास्यतामिच्छति किंनराणांतानप्रदायित्वमिवोपगन्तुम् २॥ **

**सकीचकैर्मारुतपूर्णरन्ध्रैः कूजद्भिरापादितवंशकृत्यम्। **

** शुश्राव कुञ्जेषु यशःस्वमुच्चैरुद्गीयमानं वनदेवताभिः३॥ **

अतः अत्र एकं वृक्षं कीचकमेव पश्यसि।बहिः बहवः वृक्षाःउपकीचकाः सन्ति। तानपि तव दारुकृत्येन काष्ठयुद्धेन हन्यादिति सूचनाञ्चकार।

यतो हि धर्मराजस्याज्ञानुसारेणैव द्रौपद्या सहिताःसर्वेऽपि व्यवहरन्ति। अनन्तरश्लोकेनपि अन्तर्दृष्ट्या पश्यामश्चेत् इदमेवावबुद्ध्यते ।

*१. अ.को.२.४.१६१.२.१. *

*२. कु.सं.१सर्गः.८. *

*३. र.वं.२.१२. *

***चतुर्थोऽध्यायः ***

169

**इङ्गितज्ञः स तु भ्रातुस्तूष्णीमासीद् वृकोदरः। **

** भीमस्य तु समारम्भः दृष्ट्वा राज्ञः सचेष्टितम् १॥ **

धर्मस्वरूपिइणः धर्मजस्य आज्ञानुसारेणैव भीमः सभात् बहिः नर्तनशालायां कीचकोपकीचकान् च संहृतवान्।

**४.८. युधिष्ठिरस्य संकेतमवगम्य भीमसेनेन कीचकस्य संहारः **

द्रौपद्या सह पाण्डवाः मत्स्यराज्ये प्रच्छन्नवेषेण दशमासाः समाययुः। कृष्णा सुदेष्णां स्वकीयया परिचर्यया सन्तोषयति स्म।एकदा विराटराजस्य श्यालकः कीचकः तं राज्यमगमत्।

**तस्मिन् वर्षे गतप्राये कीचकस्तु महाबलः। **

** सेनापतिर्विराटस्य ददर्श दृपदात्मजाम् २॥ *** *

स कीचकः देवगर्भाभां असमानसौन्दर्यवतीं सैरन्ध्रीं द्रौपदीं दृष्ट्वा कामयामास।सुदेष्णायाःपुरतः पाञ्चालीं लोलुप्यमानः विविधवचनैः प्रालोभयत्। किन्तु सुदृढधर्मनिश्चया पतिव्रता सा कृष्णा तं अधर्मात् निरोद्धुं नैकानि धार्मिकवचनान्युक्तवती।

**परदाराऽस्मि भद्रं ते न युक्तं तव साम्प्रतम् । **

** दयितां प्राणिनां दाराः धर्मे समनुचिन्तय ३॥** * *

भो ! परदारास्मि। मयि मनोऽनुचितं भवति। प्राणिनां दारा एव प्रियाः भवन्ति । स्वदारेष्वेव रतिः धर्मो भवति।अन्यासु वर्तते तर्हिअपकीर्तिं अभद्राणि च पश्यतीति नैकविधैर्वचनैः उद्बोधितवती।

*१. म.भा.४प.१६.दाक्षिणात्यपाठम् *

*२. म.भा.४प.१४/४. *

*३. म.भा.४प.१४/३५. *

***चतुर्थोऽध्यायः ***

170

तत्पश्चात् सः भगिनीं सुदेष्णां आगामिपर्वणि सुराय सैरन्ध्रीं स्ववेश्मं प्रेषयत्विति आज्ञां विधाय अगमत्। तथैव सा मन्त्रितसमये अनिष्टां रुदतीं कृष्णां सुराय तस्य गेहगमनार्थं समादिशत् । तदा विलपन्तीं तां कीचकः मोहात् दक्षिणपाणौ परामृश्य तस्याः उत्तरप्रदेशं जग्राह । तदनन्तरं रुदतीं विधुन्वानां सभाशरणमासाद्यां द्रौपदीं केशपाशं प्रगृह्य राज्ञः सम्मुखे पदावधीत् । तत्रैव आसीनौ युधिष्ठिरभीमसेनौ कृष्णायाः पराभवं दृष्ट्वा असहमान भवतः।

**तां चासीनौ ददृशतुर्भीमसेनयुधिष्ठिरौ । **

** अमृष्यमाणौ कृष्णायाः कीचकेन पराभवम् १॥** * *

तस्य दुरात्मनः कीचकस्य वधेच्छया भीमः रोषात् दन्तैर्दन्तान् निष्पिपेष।

**तस्य भीमो वधं प्रेप्सुः कीचकस्य दुरात्मनः। **

** दन्तैर्दन्तांस्तदा रोषान्निपिपेष महामनाः॥ **

** धूमच्छायाह्यभजतां नेत्रे चोच्छ्रितपक्ष्मणी । **

** सर्वेषां भृकुटी चोग्रा ललाटे समवर्तत ।। **

** हस्तेन मुमृजे चैव ललाटं परवीरहा । **

** भूयश्च त्वरितः कृद्धः सहसोत्थातुमैच्छत २॥*** *

कोपात् तस्य भीमस्य ललाटे स्वेदः समजनि। भृकुटी कुटिला भवति। तनुः सधूमच्छायैव प्रतिभाति। नेत्रे विशाले भवतः। ललाटे हस्तेन प्रमृज्य कृद्धःसन् सहसोत्थातुं ऐच्छत् ।

  • १. म.भा.४प.१६/१३. *

*२. म.भा.४प.१६/१४,१५,१६. *

***चतुर्थोऽध्यायः ***

171

तस्य भावं विज्ञाय धर्मराजः –

**अथावमृद्नादङ्गुष्ठमङ्गुष्ठेन युधिष्ठिरः। **

** प्रबोधनभयाद् राजा भीमः तं प्रत्यषेधयत् १॥ *** *

अथ युधिष्ठिरः अङ्गुष्ठं अङ्गुष्ठेन अवमृद्नात्।प्रबोधनभयात् राजा तं भीमं प्रत्यषेधयत्।

सामान्यार्थः–

अज्ञातवासे प्रच्छन्नरूपान् तान् सर्वे अभिज्ञास्यन्तीति भयात् धर्मराजः अङ्गुष्ठं अङ्गुष्ठेन मर्दितवान् । तथा संज्ञां विधाय भीमं निवारितवानिति । भीमस्य क्रोधं निषेद्धुं राजा युधिष्ठिरः इत्थं सूचनां अकरोदिति समान्येनावगम्यते। किन्तु अत्र संकेतमपि विधाय धर्मराजः तस्य कोपं अपाकरोत् ।

युधिष्ठिरस्य आज्ञानुसारेणैव द्रौपदीसहिताःसर्वे भ्रातरः व्यवहरन्ति। न स्वतन्त्रेण। अस्य श्लोकस्यार्थस्य पुनः परिशीलनेन संकेतरूपेण ग्रन्थिमकल्पयत् व्यासमहाभाग इत्यवगम्यते।

गूढार्थः–

अथ- पश्चात्

युधिष्ठिरः- युधि संग्रामे स्थिरः धर्मराजः

अङ्गुष्ठेन अङ्गुष्ठम्

**अङ्गुष्ठतर्जनीवंशे पादाङ्गुष्ठे तथा ध्वनिः। **

** युद्धकाले च कर्तव्यो लक्षयोधा जयी भवेत् २॥ *** *

युद्धप्रारम्भसमये शस्त्रेण अङ्गुष्ठे, तर्जन्यङ्गुलीवंशे पदाङ्गुष्ठे च नादो कर्तव्यः। तथा करणे सः विजयी भवेदिति धनुर्वेदे वशिष्ठेन प्रोक्तम् ।

*१. म.भा.४प.१६/१७. *

२. व.ध.सं.संग्रामविधिः२२

***चतुर्थोऽध्यायः ***

172

तत्रैव यत्र या नाड्या वायुः प्रवहति तदङ्गे प्राणं वहति ।

तं प्राणमाकृष्य युद्ध्यति चेत् स विजयो भवति। इति प्राणायामं स्वरशास्त्रमनुसृत्य वर्तते ।

अङ्गुष्ठं सर्वेष्वपि अङ्गुलीषु प्रधानमस्ति। एवमेव भीमोऽपि भुजबले सर्वप्रथमः। उपकीचकेषु कीचकः ज्येष्ठः। अतः तं हन्यादिति धर्मजस्य सूचना।

**इन्द्रनीलप्रतीकाशं प्राणरूपं प्रकीर्तितिम् । **

** आस्यनासिकयोर्मध्ये हृन्मध्ये नाभिमध्यगे ॥ **

**प्राणालय इति प्राहुः पादाङ्गुष्ठेऽपि केचन १॥ **

अर्थात् अङ्गुष्ठताडनेन विजयसूचकसंकेतं बोधयन् अङ्गुठमर्दनात् तस्य कीचकस्य प्राणमपि मर्दय इति संकेतं अदात् धर्मराजः।

अनन्तर चरणे राजा तं भीमं सर्वे ज्ञास्यन्तीति कारणेन निरुद्धवानिति सरलतया एव ग्राह्यम् । पूर्वपादे संकेतरूपेण ग्रन्थिर्वर्तते। तत् पश्चात् भीमः युधिष्ठिरस्य आज्ञानुसारेणैव कीचकं संहृतवान् ।

**४.९. उत्तरगोग्रहणे विकत्थनं कर्णं प्रति अश्वत्थाम्ना अर्जुनप्रंसा **

गोग्रहणसंग्रामसमये कर्णस्य विकत्थवचनानि असोढः अश्वत्थामा कौरवाणां कुटिलद्यूतं स्मारयन् धनुर्युद्धं नाम अक्षक्रीडा वद् मायोपायेन न संभवति। शरैरेव शौर्यं सिद्ध्यतीति सोल्लुण्ठनवचनानि अवदत् । ग्रन्थिः- नैषदेवान् न गन्धर्वान्..वीक्षताम्

**अक्षान् यान् मन्यसे मूढ गान्धाराणां यशो हर । **

** नैतेऽक्षा निशिता बाणास्त्वयैते समरे वृताः२॥** * *

*१. श.द्रु.प्राणशब्दे.योगार्णवः३भा.३०९पुटः *

*२. म.भा.२प.७७/३९. *

***चतुर्थोऽध्यायः ***

173

द्यूतस्य प्रथमकारको भवति शकुनिः। क्रीडायां तस्य कुटिलनैपुण्यकारणादेव द्यूते पराजयं प्राप्य द्रौपद्याः अवमानमपि सहन्ते पाण्डवाः। तस्याः क्रीडायाः मूलकारणं शकुनिं

दृष्ट्वा भीमः सहदेव एव त्वां संग्रामे हनिष्यतीति प्रतिज्ञापूर्वकवचनानि अवोचत् ।

तान्येव सहदेवः वदन् गान्धारकीर्तिनाशक! मूढ ! त्वं अक्षानुपयुज्य अस्मान् जितवान्।एतदेव समरमिति भावयसि । किन्तु एते अक्षाः निशिताः बाणाः न । धनुर्विद्यायां

विना त्वं अक्षक्रीडायामेव निपुणोऽसि । अतः मायोपायेन अस्मान् जितवान् । युद्धे त्वां अहं अवश्यं वधिष्यामि। इति प्रतिज्ञामकरोत् । तां प्रतिज्ञामपि स्मारयन् अश्वत्थामा

**नाक्षान् क्षिपति गाण्डीवं न कृतं द्वापरं न च । **

** ज्वलितो निशितान् बाणांस्तांस्तान् क्षिपति गाण्डिवम् १॥**

इत्यकथयत्।

अस्य व्याख्या नीलकण्ठः एवं व्याचचक्षे-

न चेति चकारात् त्रेताऽपि न भवतीत्यध्याहार्यम्। अयमर्थः- क्रमेण एकः द्वि चतुराङ्कितैः प्रदेशैः अङ्कचतुष्टयवान् पाशो भवति। तत्र एकाङ्कः- कलिः, द्वयङ्कः-द्वापरः, त्र्यङ्कः- त्रेता, चतुरङ्कः- कृतम्। तत्र द्यूते स्वीयाः पञ्चपरकीयाश्च दीनारादयः स्थाप्यन्ते। तदितः पाशप्रक्षेपे यद्येकाङ्क उपयीयाति तर्हि स्वीयेषु एक एव जितो भवति। यदि द्यूतदा परकीयं दीनारद्वयं स्वीयैश्चेको जितः। यदि त्र्यङ्क उपरि पतेत् तथा परकीयं त्रयं स्यीयं च त्रयं जितः।चतुरकस्योपरि पतने सर्वेऽपि स्वीयाः परकीयाश्च जिताः भवन्ति।

अस्मिन् विषये हिन्दी व्याख्या एवं वर्तते–

गाण्डीवधनुष कृतयुगं, द्वापरयुग, और त्रेतानामक फासें नहीं फेकता हैं । वह तो लगातर तींखें और प्रज्वालित बाणों की वर्षा करता हैं।

–गीताप्रेस. हिन्दी अनुवादः.११५०पुटः।

*१. म.भा.४.५०.१४ *

***चतुर्थोऽध्यायः ***

174

गाण्डीवधनुः कृतद्वापरत्रेतानमकान् पाशान् न खेलति। सः धनुः तीक्ष्णप्रज्वलितबाणान् वर्षति ।

द्वयोर्व्याख्ययोः ईषद्वैषम्येन तात्यर्यार्थोः समानमेव। चकारात् त्रेताकलियोरध्याहारे नापूर्वोत्पत्तिः। पाशाङ्कित एकद्विचतुरङ्कानामेव जिताऽजितप्रसङ्गात् । हिन्दी व्याख्यायां तु कृतत्रेताद्वापरकलियुगपर्यायत्वेन गाण्डीवे समन्वयं कृत्वा एते पाशेष्वेव

प्रयुङ्जन्ते।न बाणेष्विति समन्वयः। कृतः गौरवाल्लाघवं समुचितम्।चकारेण त्रेताद्यध्याहारं गौरवम्।

अक्षान् द्वापरं न कृतमिति न। इति अन्वये लाघव एव सुवचम्। तथाहि-

अमरकोशानुसारेण द्वापरशब्दः द्विधा संकेतितः।

१.द्वौ सत्यत्रेतायुगौ परौ श्रेष्ठौ यस्मात् सः इति युगपर्याये।

२.द्वयोर्विषययोः परः तत्परः आसक्तः इत्यर्थः- संशयपर्याये उभयत्र पृषोदरत्वात्साधुः

द्वापरः संशये युगेइति शाश्वतः।

**अध्याहारस्तर्क ऊहो विचिकित्सा तु संशयः। **

** संदेहद्वारौ चाथ समौ निर्णनिश्चयौ १॥ *** *

द्वापरं न कृतमिति न- द्वितीयात्परं तृतीयमेव अभवत्। अतः जितमिति शकुनोक्तिः। धर्मराजः पराजितः। अनुद्यूते तु धनादिकं पणं न भवति। “अस्मासु वा युष्मासु वा ये द्यूते पराजिताः तेषां द्वादशवर्षाणि अरण्ये वासः, एकवत्सरं अज्ञातवासः। एवं त्रयोदशवर्षाणि उभयत्र पणं कृतानि। अज्ञाते एनकेन एकश्चापि अभिज्ञातः पुनः द्वादशवर्षाणि अरण्यवासः एकवर्षं अज्ञातवासश्च पणत्वेन विधीयन्ते । इति तत्र परिदेवनविधिः।” अत्र भागशः स्वीकर्तुं अशक्यमेव। धनरूपत्वाभावात् । अतः संशयपर्यायत्वेनैव द्वापरशब्दस्य निरुक्तिः।

*१.अ.को.१कां.५सर्ग.३/१/१ *

***चतुर्थोऽध्यायः ***

175

नलविषयक अक्षक्रीडायां तु युगपर्यायत्वेनैव द्यूतः प्रचलितः। तत्र द्वापर एव पुष्कररूपेण आवाहितत्वात् कलिः नलरूपे उपस्थितौ।अतः कनीयान् पराजितः।

**यथा च पुष्करस्याक्षाः पतन्ति वशवर्तिनः। **

** तथा विपर्ययश्चापि नलस्याक्षेषु दृश्यते १॥** * *

नीलकण्ठीये-“तथा च कलिपाते जयो नास्तीति।” अत्र अन्वीतुं शक्यते। नलस्य सोदरः पुष्करः। तस्मिन् आवाहितःद्वापरः।

**अक्षद्यूते नलं जेता भवान् हि सहितो मया । **

** निषधान् प्रतिपद्यस्व जित्वा राज्यं नलं नृपम् ॥ **

** एवमुक्तस्तु कलिना पुष्करो नलमभ्यगात् । **

** कलिश्चैव वृषो भूत्वा गवां पुष्करमभ्यगात् ॥ **

** आसाद्य तु नलं वीरं पुष्करः परवीरहा । **

** दीव्यावेत्यब्रवीत् भ्राता वृषेणेति मुहुर्मुहुः२॥** * *

अत्र नीलकण्ठीयव्याख्या उपयुज्यते। उभयत्र वस्तुरूपपणसिद्ध्यत्वात् । कलिद्वापरयोः प्रवेशाच्च । द्वाभ्यां कृतत्रेताभ्यां द्वापरः इति इति चरिताऽर्थः। अत्र द्वापरेण कृतं दुरोदरं समवैक्षत दमयन्ती । अत्र ऋतुपर्णात् उपदेशं प्राप्य कलेः निर्हरणं कृतम् । अतः द्वितीयस्वयंवरे नलस्य राज्यप्राप्तिः। पण्डवविषये सौबलेन कृतं दुष्टद्यूतं नकुलेन समवैक्षत ।

तेन प्रतिज्ञा कृता ।

**अक्षान् यान् मन्यसे मूढ गान्धाराणां यशो हर । **

** नैतेऽक्षा निशिता बाणास्त्वयेते समरे वृताः३॥*** *

*१. म.भा.३प.६०/१५. *

*२. म.भा.३प.५९/५,६,७. *

*३. म.भा.२प.३७/३९. *

***चतुर्थोऽध्यायः ***

176

तदा बाणैः युद्धं कर्तुं न समयः। सहनरूपपरमोत्कृष्टधर्मराजस्य समयात् ।

कविना तदेववचनं अश्वत्थाममुखेन कर्णं प्रति सोल्लुण्ठनवचनं प्रत्यपादि ।

**नाक्षान् क्षिपति गाण्डीवं न कृतं द्वापरं न च । **

** ज्वलितो निशितान् बाणांस्तांस्तान् क्षिपति गाण्डिवम् १॥**

इत्ययं उपरितन ग्रन्थेन श्लथी भवति ।

DE

*१. म.भा.४प.५०/१४. *

jपञ्चमोऽध्यायः

177

**पञ्चमोऽध्याया **

**विराटोद्योगपर्वणोःग्रन्थिश्लोकानुशीलनम् **

**५.१ अन्या अश्वत्थाम्नोक्तिः **

कौरवाः कीचकवधं शृत्वा पाण्डवाः प्रच्छन्नरूपाःसन्तः विराटनगरे स्युरिति अचिन्तयन् । दुर्योधनस्य आदेशात् भीष्मद्रोणादयः सर्वेऽपि विराटस्य गोग्रहणार्थं सेनां विभज्य आगताः। तैः सह योद्धुं समयज्ञः उत्तरसारधिः अर्जुनः षण्डवेषयुक्तः रथे समातिष्ठत्। तमर्जुनमिति विज्ञाय भीष्मद्रोणकृपाचार्याः तस्य पराक्रमं प्रशंसयन्ति । तं प्रशंसनं असहमानः कर्णः विकत्थनवचनानि प्रलापयन् द्रोणं कृपं च अवमानितवान् ।

**अश्वानां ह्रेषितं श्रुत्वा कः प्रशंसापरो भवेत् । **

** स्थाने वापि व्रजन्तो वा सदा ह्रेष्यन्ति वाजिनः१॥*** *

केवलं अर्जुनप्रीत्यैव द्रोणाचार्यः तं प्रशंसन्ति।अश्वाः सदापि ह्रेषन्ति। तत्र किं विचित्रम्? अश्वस्य ह्रेषणमपि प्रशंसनीयं किम्?पाण्डवाः अटवीषु विहरन्तःसन्तः विगतयुद्धपराक्रमिणः भवन्ति।

**अद्याहमृणमक्षय्यं पुरा वाचा प्रतिश्रुतम् । **

** धार्तराष्ट्राय दास्यामि निहत्य समरेऽर्जुनम् ॥ **

** अद्य दुर्योधनस्याहं शल्यं हृदि चिरस्थिरम् । **

** समूलमुद्धरिष्यामि बीभत्सुं पातयन् पुरा २॥*** *

समरे अर्जुनं निहत्य मद्प्रतिज्ञानुसारेण धार्तराट्राय राज्यं समर्प्य ऋणात् मोक्ष्यामि। भीभत्सुं पातयित्वा दुर्योधनस्य हृत्स्थं शल्यं समूलं नाशयिष्यामि। पण्डिताः परेषां चरित्रज्ञाने, मनुष्याणां दिनचर्यालापने, हस्त्यश्वादीनां गुणदोषपरीक्षणे एवमादि नित्यव्यवहारे एव समर्थाः। न तु युद्धकौशले इति प्रागल्भ्यवचनानि अकथयत् । तं श्रुत्वा सोढुमशक्यः अश्वत्थामा -* *

*१.म.भा.४प.४७/१. *

*२. म.भा.४प.४८/१०,२९. *

***पञ्चमोऽध्यायः ***

178

**क्षत्रियो धनुमाश्रित्य यजेच्चैव न याजति।। **

** प्राप्य द्यूतेन को राज्यं क्षत्रियस्तोष्टुमर्हति १॥** * *

क्षत्रियः केवलं धनुराश्रित्य बलवीर्येण राज्यं प्राप्नोति। परन्तु भवन्तः द्यूते पाण्डवान् जित्वा तेषां राज्यं अनुभवन्ति। श्रेष्ठपुरुषः सर्वशास्त्रज्ञोऽपि गुणहीनगुरूनपि सत्करोति।त्वं तु धनुर्विद्यापारङ्गतान् गुरून् निन्दति। द्यूते जितं राज्यं शौर्यसामर्थ्यमिति केन शूरेण उच्यते ?

**युधिष्ठिरः जितःकस्मिन् भीमश्च बलिनां वरः। **

** इन्द्रप्रस्थं त्वया कस्मिन् संग्रामे निर्जितं पुरा ॥ **

** क्षयाय धार्तराष्ट्राणां प्रादुर्भूतो धनंजयः। **

** त्वं पण्डितो भूत्वा वाचं वक्तुमिहेच्छसि २॥** * *

युधिष्ठिरः, बलिनां श्रेष्ठः भीमः केन जितौ? कस्मिन् संग्रामे इन्द्रप्रस्थं प्राप्तम्?

धार्तराष्ट्रान् संहर्तुमेव धनंजयः सञ्जातः । त्वं सर्वज्ञ इव प्रलपति ?

**नैष देवान् न गन्धर्वान् नासुरान् न च राक्षसान् । **

** भयादिह न युद्ध्येत कुन्तीपुत्रो धनुञ्जयः३॥** * *

सामान्यार्थः-

एषः-कुन्तीपुत्रः धनंजयः

इह भयात् - अस्मिन् रणे भयात् न युद्धयेत। इत्थं एव गन्धर्वान्, असुरान्, राक्षसान्, न युद्ध्येत।

अत्र भयादिति पञ्चमीकारकत्वात् केभ्यो भयः इत्याकाक्षया देवादिभ्यो भयो नार्हति। युद्धेत इति क्रियाकारकत्वं अर्जुनस्यैव। अतः अर्जुनस्य भयः देवादीनां विषये इति

१. म.भा.४प.५०/५,८.

२. *म.भा.४प.५०/११,१५ *

३. *म.भा.४प.५०/१७. *

***पञ्चमोऽध्यायः ***

179

न समर्थनीयः। यतो हि सः देवैः गन्धर्वासुरराक्षसैःसह अयुद्ध्यत।अतः अत्र अन्वयः न

सम्भवति ।

गूढार्थः-

अत्र युध् धातुः अकर्मकः। युध् प्रहारे इत्यस्य धातोः अकर्मकत्वेपि छान्दसप्रयोगात् कर्मणि द्वितीया एव प्राप्तिः।

नञ् द्वयं प्रकृतिमर्थं दृढयतः ।

देवान् न युद्ध्येत इति न । अवश्यं युद्ध्येत एव।

असुरान् न युद्ध्येत इति न। अवश्यं युद्ध्येत एव। एवमेव गन्धर्वान्

राक्षसाश्च अर्जुनस्य भयः न। अस्मकीयानां कौरव्याणां विषये एव प्राणभयः।

घोषयात्रायां अस्मकीयाः कौरव्याः म्रियेयुरिति भयात् गन्धर्वैः सह अयुद्ध्यत। इदानीं तु देवा वा गन्धर्वा वा राक्षसा वा असुरा वा आयान्तु तान् सर्वान् विजित्य अस्माकं प्राणान् रक्षतीति सोल्लुण्ठवचनानि वदन् धार्तराष्ट्राणां क्षयायैव प्रादुर्भूतोऽर्जुन इति सूचितवान्।

**अहं हि नित्यं कौरव्य फाल्गुणं प्रतिसत्तमम् । **

** अनिशं चिन्तयित्वा तु समुद्विग्नोऽस्मि तद् भयात् १॥ **

भयः अर्जुने नास्ति भवत्सु एव इति वदन् अश्वत्थामा “द्यूतानन्तरं पुनर्द्यूतेनैव पाण्डवान् जेत्तुमुद्युक्तः दुर्योधनः पित्रे धृतराष्ट्राय स्वकीयं भयं निवेदित्वा द्यूतनिमन्त्रणाय प्रचोदितवान्।” इति संस्मार्य धार्तराष्ट्रान् परिहासमकरोत्।

**५.२ उत्तरगोग्रहणे बृहन्नला एव अर्जुन इति द्रोणाचार्यस्य सूचना **

भीमेन कृत कीचकवधानन्तरं दुर्योधनादयः सर्वे शङ्कितमनसः बभूवुः। महारथी च कीचकः अन्येनेकेन अत्यन्तदारुणेन हतः स घातुक, निश्चयेन भीम एव। विराटराज्ये अपि

*१. म.भा.२प.७४/दाक्षिणात्य *

***पञ्चमोऽध्यायः ***

180

च धर्मराजः यत्र वसति तत्र धर्मम एव राज्ये प्रचलति। सम्प्रति विराटराज्ये भूम्यां सश्यं,

जनेषु धर्म च आलक्ष्येते ।

**सदा च तत्र पर्जन्यः सम्यग्वर्षी न संशयः। **

** सम्पन्नसस्या च मही नीरतंका भविष्यति १॥**

**दानशीलो विदानश्च निभृतो ह्रीनिषेवकः। **

** जनो जनपदे भाव्यो यत्र राजा युधिष्ठिरः २॥**

अतः पाण्डवाः विराटे एव स्थिताः इति निश्चप्रचम् इति भीष्मः अकथयत्।

**समप्राणबलाः नित्यं सम्पूर्णबलपौरुषाः। **

** बलदेवश्च भीमश्च मद्रराजश्च वीर्यवान् ॥ **

** चतुर्थः कीचकस्तेषां पञ्चमं नानुशुशृमः॥ **

** अन्योन्यानन्तरबलाः परस्परजयैषिणः॥ **

** बाहुयुद्धमभीप्सन्तः नित्यं संरब्धमानसः। **

** तेनाहिमवगच्छामि प्रत्ययेन वृकोदरम् ३॥ *** *

समप्राणबलाः चत्वारः वर्तन्ते। बलदेवः, भीमः, मद्रराज शल्यः कीचकः इति मया शृतः ते अन्योन्यजयकांक्षिणः निरतमपि। अतः कीचकं द्वन्द्वयुद्धे भीम एव निश्चयेन हतवानिति पाण्डवाः। विराटे एव स्थिताः इति चिन्तयामि इति च दुर्योधनः अवोचत्। तत्पश्चात् ते विराटस्य गोधनम् अपहरिष्यामश्चेत् धर्मरक्षणाय पाण्डवाः प्रच्छन्नवेषात् बहिरायान्ति। पुनः तान् वनवास अज्ञातवास मिषया प्रापयिष्यामः इति कौरवादयः विचन्त्य गोग्रहणार्थम् आगताः। एकस्मिन्नेव काले उत्तर दक्षिणदिशोः ते गाः अपहर्तुं आयाताः।

१. म.भा.४प.३९/१९.

*२.म.भा.४प.२८/१५. *

३. वि.प..४.२९/दाक्षिणात्य

***पञ्चमोऽध्यायः ***

181

तथा गोरक्षणार्थं राजादयः सर्वेऽपि उदीच्यां दिशि याताः। अतः “इतः त्वमेव तैः सह संयुध्द्या गाः संरक्षस्व” इति गोपालकेन संसूचितः विराटपुत्रः भूमिंजयः उत्तरः सारथिं विना कथं योत्स्यामीति उत्तरेण पृष्टे सति बृहन्नलारूपार्जुनः सारध्यं ओढुं तस्य इच्छां प्रकटीकृतवान् ।

उत्तरसारथिः बृहन्नला शमीवृक्षे स्थापितानि शरधनूंषि आनेतुम् उत्तरं प्रेरितवान्। तयोः सम्भाषणं दृष्ट्वा तम् अर्जुन इति अभिज्ञाय द्रोणः क्लीबवेषधरोऽयं निश्चयेन अर्जुन एव। भो वीरा ! सर्वेऽपि आत्मानं रक्षध्वम् -

**लक्षध्वमपिचात्मानं व्यूहध्वं वाहिनीमपि। **

** वैशसं च प्रतीक्षध्वं रक्षध्वं चापि गोधनम् १॥** * *

**एष वीरो महेष्वासः सर्वशस्त्रभृतां वरः। **

** आगतः क्लीबवेषेणपार्थो नास्त्यत्र संशयः २॥** * *

**नदीजलंकेश वनारिकेतु- **

** र्नगाह्ययो नानुशगारिसूनुः। **

** एषोऽङ्गनावेषधरः कीरीटी **

** जित्वाऽवयं नेष्यति चाद्यगावः ३॥ *** *

अर्जुन पर्याये अन्वयः-

नदीज – नद्याः जातः गङ्गायाः पुत्रः गङ्गा पुत्रः

लङ्केशवनारिकेतुः – लङ्केशस्य रावणस्य वनस्य अशोकवनस्य अरिः शतृः हनुमान् केतुः चिह्नरूपेण ध्वजचिह्नरूपेण यः धृतवान् सः अर्जुनः

*१. म.भा.४प.८/३९. *

*२. म.भा.४प.९/३९. *

*३. म.भा.४प.१०/३९. *

***पञ्चमोऽध्यायः ***

182

नगाह्वयः – नगः वृक्षः, आह्वयः नाम्ना स्थितः अर्थात् अर्जुनाख्य वृक्ष नाम्ना यः स्थितः सः अर्जुनः

नगारिसूनुः – नगानां पर्वातानाम् अरिः शतृः इन्द्रः तस्य सूनुः पुत्रः सः अर्जुनः

अङ्गनावेषधरः – स्त्रीरूपधरः षण्डवेषधरः

एषः – अयं, किरीटी – किरीटि नाम्ना विख्यातः अर्जुनः आगतः।

अद्य गावः- गौ शब्दः गो पर्यायपदः गच्छतीति गौः पुंगोः पर्यार्यः अनड्वानिति वयं जित्वा…. इति वाक्यस्य सम्पूर्णार्थं स सम्भवति । कौरवाणां शृतवचने तमर्जुनं जित्वा गच्छामः इति द्रोणेन प्रोक्तमिति चिन्तयन्ति । किन्तु तत्र अर्जुनस्य आशीः पूर्वक वचनमपि ध्वन्यते। जित्वाऽवयं नेष्यति चाद्यगावः – गावः – गाः युष्माकं अधीने स्थिताः गाः यं च नेष्यति तं रक्षस्व इति अन्वयः।

अद्यः गावः यं जित्वा नेष्यति तम् अव।

अत्र गावः दुर्योधनं च जित्वा नेष्यति तं दुर्योधनं रक्ष इति तम् अर्जुनं रक्ष इति च अर्थद्वयं द्योतेते। यतो हि धर्माश्रिताः पाण्डवाः कुटिलनीत्या कौरवैः पराजिताः क्लेशभाजिनश्च भवन्ति तेषु प्रीतिकरः द्रोणः अर्जुने अत्यंतप्रीतियुक्तः। अतः गूढत्वे तं अर्जुनं आशीः पूर्वकं अकथयत्। अत्र गावः नाम ‘मौर्वीः’ इत्यपि अन्याऽर्थः वर्तते। सः अर्जुनः एतावत्कालपर्यन्त दुर्योधनं जेतुं प्रतीक्षां कृतवान्। सः अस्माकं धनूंषि भित्वा मौर्वीःसंगृह्य दुर्योधनं नेष्यति इति व्यज्यते।

ईश्वरपर्यायेऽयं श्लोकार्थः –

नदीजलं केशः - नद्याः गंगायाः जलं उदकं केशेषु यस्य सः ईश्वरः अलुक् सरूस!

वनारि केतुः – वनं जलं तस्य अरिः शुत्रुः अग्निः सः केतुः यस्य सः रुद्रः

***पञ्चमोऽध्यायः ***

183

**शान्तं पद्मासनस्थं शशधरमकुटं पञ्चवक्त्रं त्रिनेत्रं **

** शूलं वज्रं च खड्गं परशुमभयदं दक्षिणाङ्गे वहन्तम् । **

** नागं पाशं च घटां प्रळयहतवहं चांकुशं वामभागे **

** नानालंकारयुक्तं स्फटिकमणिनिभं पार्वतीशं नमामि ॥ **

नदीजलंकेश वनारि केतुः

नगाह्वयः – आह्वयो शब्दः नाम पर्यायः, नग शब्दः गिरिपर्यायः नगः आह्वयः यस्यः नगाह्वयः ईश्वरस्य गिरीशः गरिशः इति नाम सत्त्वात्। नग एव आह्वायः।

नगाह्वयः – नमो गिरिशाय च शिपिविष्टाय च ॥ ६ ॥

आह्वयः आहूयते अनेन इत्यह्वयः ह्वेञ् स्पर्थायां शब्देन नाम इत्यमरः

वार्ताप्रवृत्तिर्व्युत्तान्तः उदन्तः स्यादधाह्वयः

नगः – धृणिज्वालने अपि शिखे शैलवृक्षौ नगानगौ ॥ वृक्षः।

नगारिसूनुः – नगाः वृक्षाः तेषां अर्हिः शतृः सः सूनुः नाम सूर्यः रुद्रः नगारि शत्रुश्च सूनुश्च । असौयस्ताम्रो अरुणः इति रुद्राध्यायः

नगाः वृक्षाः तेषां अर्हिः शत्रुः सूनुः सूर्यः ।

एषः – रुद्रः रुद्रो वा एषः इति रुद्राध्यायः ।

अङ्गनावेषधरः – अर्थनारीश्वरः सः गावः न इष्यति नेष्यति, अयं दर्योधनं जित्वा नेष्यति। अतः दुर्योधनं रक्षध्वम् ईश्वर पर्याये अर्थः एषः कालाग्निरुद्रः अन्तकः अर्जुन एव आगच्छतीत्यर्थः। दुर्योधनं जित्वा हत्वा वीराटराजस्य गाः नेष्यति इति अर्जुन पर्याये अर्थः।

*१. श.द्रु.१भा.२००पुटः *

*२. अ.को.१.६.७.२.५ *

  • ३. अ.को.३.३.१९.१.२*

***पञ्चमोऽध्यायः ***

184

कौरवसेनानामीशं सर्वां जेत्तुम् उत्तरं सारधिरिव अङ्गीकृत्य एकः अर्जुन एव आगतः सः कालाग्निरुद्ररूपेण विद्यते। एषः निश्चयेन दर्योधनं नेष्यतीति द्रोणः सूचनां कृत अकरोत्।

नमो गिरिशाय च शिपिविष्टाय च ॥

कैलासे तिष्ठतीति गिरिशः रुद्राध्यायः - सायणभाष्यम्।

अस्मिन् वृत्तान्ते कौरवपक्षे गोग्रहणं नाम कौरवैःप्रयतित धेनूनां ग्रहणमिति, अर्जुनपक्षे मौर्व्यां ग्रहणमिति संज्ञा विधीयते। अस्मिन् संवादे संग्रामेऽपि अर्जुनस्य ईश्वरांशप्रतिपादनं ज्ञायते ।

**उद्योगपर्व **

**५.३ धृतराष्ट्रं प्रति सनत्सुजातोपदेशः **

उद्योगपर्वण्यन्तर्गते सनत्सुजातपर्वणि स्थितोह्येषो श्लोकः।

**आचार्ययोनिमिह यो प्रविश्य **

** भूत्वा गर्भे ब्रह्मचर्यं चरन्ति। **

** इहैव ते शास्त्रकारा भवन्ति **

** प्रहाय देहं परमं यान्ति योगम् १॥**

विदुरः धृतराष्ट्राय धर्मार्थकामसम्बन्धनीतिविषयान् अबोधयत् ।

ननु आचार्यवान् पुरुषो वेदइति वेदान्तशास्त्रप्रसिद्ध्या यः पुरुषं जानाति स पुरुषः अर्थात् जीवः । ब्रह्मैक्ययोगः यो बोधयति स आचार्यः। सोऽपि पुरुषः। एवं कृते " आचार्ययोनिमिह प्रविश्य भूत्वा गर्भे ब्रह्मचर्यं चरन्ति " इति वाक्यमनुपपन्नं भवतीति न वाच्यम् । पुरुषोऽपि यो ब्रह्माणं न विजानाति स स्त्री भवति।तस्य प्राकृतत्वात् । या स्त्री

१.म.भा.५प.४४६/६.

***पञ्चमोऽध्यायः ***

185

ब्रह्मवादिनी भवति सा पुमान्। विज्ञानमयत्वात्।तत्र श्रुतिः" स्त्रियः सती ता उमे पुंस आहुः"। अस्मिन् श्लोके गर्भपदमनुस्रुत्य योनिः योनिपदात् गर्भोल्बः, गर्भोल्बात् शिशुः… इति क्रमःअभिवर्णितः। जन्मतः आगतः उल्बःएकः।उपनयनपर्यन्तं स्थितः उल्बः द्वितीयः।

सन्यासग्रहणपर्यन्तंतृतीयः उल्बः। इत्ययं विषयप्रतिपादनमत्र भवति।अतः अत्र तत्तत्च्छब्दाः प्रयुक्ताः।

तत्पश्चात् मोक्षसाधनसम्बद्धाः ब्रह्मविद्या धृतराष्ट्रेण पृष्टे सति विदुरः सनत्सुजातं सस्मार । तदा नैकाः विषयाः सनत्सुजातेन बोधिताः। धृतराष्ट्रः-

**अत्यन्तविद्यामिति यत् सनातनीं ब्रवीषि त्वं ब्रह्मचर्येण सिद्धाम् । **

** अनारभ्यां वसती ह कार्यकाले कथं ब्राह्मण्यममृतं लभेत॥ **

**ब्रह्मचर्येण या विद्या शक्या वेदितुमञ्जसा । **

** तत् कथं ब्रह्मचर्यं स्यादत् ब्रह्मन् ब्रवीहि मे १॥** * *

सनातनी ब्रह्मविद्या ब्रह्मचर्येण सिद्ध्यतीति भवान् वदति। इह काले अमृतमयं ब्रह्मण्यं कथं लभेत ?

सनातनी ब्रह्मविद्या ब्रह्मचर्येण सिद्ध्यतीति भवान् वदति। ब्रहमचर्यं नाम किमित्यपृच्छत् ।

तदा सनत्सुजातः आचार्यनिकटे शिष्यः कथं वर्तितव्यः? इत्यादि नियमानि बहूनि उक्त्वा ब्रह्मचर्यविषयं सम्यक् बोधितवान्। तत् पूर्वत एव गृहस्थाश्रमे सत्यपि ब्रह्मचर्येण ब्रह्मविद्यां संपादयाम। इति सूचनाञ्चकार ।

**५.४ भारते कौरवेषु विदुरधर्मराजावेव प्रज्ञौ **

संजयोक्तिभिः दूयमानो धृतराष्ट्रः शांतिमलभमानः विदुरं प्राह्वयत्। आगतं विदुरं

*१. म.भा.५प.४४६/३ *

***पञ्चमोऽध्यायः ***

186

सम्भाव्य धृतराष्ट्रः स्वस्य अभ्युदयोपायं निश्चेक्तुं विदुरं न्ययुंक्त।तेन च सार्वजनीनं मानवाभ्युदयं शिषाधयिषुः अपूर्वा एका नीतिरूपा रीतिः व्यरचि।

**क्षिप्रं विजानाति चिरं शृणोति **

** विज्ञाय चार्थं भजते न कामम् । **

** नासंपृष्टो युपयुंक्ते परार्थे **

** तत् प्रज्ञानं प्रथमं पण्डितस्य १॥ **

एतत् ज्ञानवतां लक्षणम् । “विद्वान् विपश्चिद्दोषज्ञः” इति प्रमाणेन दोषज्ञाः विपश्चितःभवन्ति। पण्डा ज्ञानं अस्यास्तीति पण्डितः" इति व्युत्पत्त्या ये स्वयं आत्मनिष्ठा भूत्वा अनुभवज्ञानं सम्पादयन्ति ते पण्डिताः। तद्भिन्नाः पण्डितम्मन्याः। पण्डिताः हितं क्षिप्रं जानन्ति बहुशः शृण्वन्ति च। कामार्थमर्थं न सेवन्ते।धर्माय एवार्थं समुपार्जयन्ति। तमर्थं परोपकारार्थमेव उपयुञ्जन्ति।प्रज्ञानस्य ब्रह्मणः सर्वव्यापकत्वात्। इदं वचः सर्वमानवानां अभ्युदयहेतुर्भवति। शास्त्राभ्यसनादृतेऽपि ये हितं पालयन्ति ते अभ्युदयः वादिनः इति विदुरनीतेः सारभूतोऽर्थः। अस्य हितस्याग्रहणात् सपुत्रः धृतराष्ट्रः लोके वचनीयतामाप। प्रायशः सर्वग्रन्थस्यापि महाभारतस्य अयं श्लोकः ग्रन्थिर्भवति। अत एव धृतराष्ट्रः स्वपुत्राश्च पण्डितम्मन्याः अभूवन्। अत्र विदुरेण प्रोक्ताः मानवाभ्युदयहेतवः प्रदर्श्यन्ते। येभिरेव मानवता स्थिरीक्रियते ।

**निषेवते प्रशस्तानि निन्दितानि न सेवते। **

** अनास्तिकः श्रद्दधानः एतत् पण्डितलक्षणम् २॥ **

वेदहितकर्माणि कुर्वन् निषिद्धकर्माणि त्यक्त्वा अनासक्तो भूत्वा श्रद्धां विधाय यः प्रवर्तते स पण्डितः। क्रोधरहितः उदासीनः दर्परहितः लज्जयुक्तः मान्यमान्यः यो भवति स पण्डितः।

*१. म.भा.४प.३३/२२. *

*२. म.भा.४प.३३/१६. *

***पञ्चमोऽध्यायः ***

187

**यस्य कृत्यं न जानन्ति मन्त्रं वा मन्त्रितं परे । **

** कृतमेवास्य जानन्ति स वै पण्डित उच्यते १॥ *** *

पण्डितः सर्वदाऽपि करिष्यमाण कर्मणः रहस्यं वा उपायं वा प्रारम्भे अन्यैः सह न वदति।तस्य कर्म द्वारा कर्मफलमन्यैर्ज्ञायते।

**तस्य संवृतमन्त्रस्य गूढाकारेङ्गितस्य च । **

** फलानुमेयाः प्रारम्भाः संस्काराःप्राक्तना इव२ ॥**

रघुवंशे कालिदासोऽपि इत्थमेवाभणत्- “दिलीपः राज्यपरिपालने तस्य आलोचनं मनोभावान् प्रारप्स्यमानानि कार्याण्यपि गोपयित्वा फलप्राप्त्यनन्तरमेव सर्वोषां प्रकटीकरोति स्म।”

पण्डितः विघ्नभयेन, प्रीत्या वा, ऐश्वर्ये, दरिद्रेऽपि च करणीयं कर्म यदस्ति तस्मात् न निवर्तते। सः धर्मार्थमेवार्थकामौ सेवते। धर्मं विना केवलं प्रीत्या आर्थकामौ नआर्जयति। सः स्वशक्त्यनुसारेणैव चिकीर्षति। अर्थात् शारीक आर्थिकानुसारेणैव कर्म कर्तुमिच्छति। तदनुसारेणैव कर्माणि करोति । दम्भेन न किंचिदपि करोति । यत्किञ्चिदपि वस्तुं वा मनुजं वा न्यूनं न मनुते। परस्य वैभवं नेच्छति । यदि नष्टं सम्भवति चेत् तं न चिन्तयति । आपत्स्वपि दृढचित्तो भवति ।

**नाप्राप्यमभिवाञ्छन्ति नष्टं नेच्छन्ति शोचितुम्। **

** आपत्सु च न मुह्यन्ति नराः पण्डित बुद्धयः३॥**

एवमेव भर्तृहरिणाऽपि कथितम्-“महात्मा आपत्सु शिला इव कठिनमनुभूय प्रवर्तन्ते इति।अर्थात् विपदि न शोचन्तीति । यच्चिकीर्षति तत् प्रागेव निश्चप्रचति। मध्ये न निवर्तते। कालक्षेपं विहाय कर्म सम्पूर्णं करोति । इत्थमेवाकथयत् भर्तृहरिरपि–

*१. म.भा.५प.३३/१८.. *

*२. र.वं.१.१.२०. *

*३. म.भा.४प.३३/२३. *

***पञ्चमोऽध्यायः ***

188

**प्रारभ्यते न खलु विघ्नभयेन निचैः **

** प्रारभ्य विघ्नविहता विरमन्ति मध्याः। **

** विघ्नैर्मुहुर्मुहुरपि प्रतिहन्यमानाः **

** प्रारब्धमुत्तमगुणाः न परित्यजन्ति १॥ **

पण्डितः अनूचानतया यानि कर्माण्यायान्ति तानि करोति।

ऐहिकपारलौकिकाभ्युदयार्थं कर्माणि करोति।हितकारिषु नाभ्यसूयति।

**“न हृष्यात्मसम्माने नावमानेन तृप्यते। **

** गांगोह्रद इवाक्षोभ्यो यः स पण्डित उच्यते २॥ *** *

मानावमानेषु एकात्मना एव प्रवर्तते। गंगानदीव निश्चलचित्तेन वर्तते। इत्थमेव गीताचार्यवचनमपि–

**समः शत्रौ च मित्रे च तथा मानापमानयोः। **

** शीतोष्णसुखदुःखेषु समः सङ्ग विवर्जितः३॥ **

** तत्त्वज्ञः सर्वभूतानां योगज्ञः सर्वकर्मणाम्। **

** उपायज्ञो मनुष्याणां नरः पण्डित उच्यते ४॥**

पण्डितः सर्वभूतेष्वपि ईश्वरः वर्ततेति प्रवर्तते । दृढनिश्चयेन कुशलेन

कर्माणि करोति। मनुष्यैः तत् तत् देशकालमनुसृत्य चतुर्विधोपायैः प्रवर्तते। तस्य बुद्धिः सर्वदाऽपि शास्त्रमेवानुसरिति। शास्त्रमपि सततं तमेवानुगच्छति। पण्डितः श्रेष्ठानां विषये मर्यादां न लंघते ।

 एतानि सर्वाण्यपि पण्डितलक्षणानि भवन्ति । अतः केवलं विद्याधिकः पण्डिताख्यो न भवति। एतानि सर्वाणि लक्षणानि पाण्डवेषु वर्तन्ते। तद्विपरीतानि कौरवेषु । अतः पाण्डवेषु प्रीतिं विधाय तेभ्यः राज्यं दीयताम् । 

*१. भ.नि.श.२७श्लो. ३. भ.गी.१२.१८. *

*२. म.भा.४प.३३/२५. ४. म.भा.४प.३३/२७. *

***पञ्चमोऽध्यायः ***

189

**दुर्योधने सौबले च कर्णे दुःशासने तथा । **

** एतेष्वैश्वर्यमाधाय कथं त्वं भूतिमिचछसि १॥ **

दूर्योधनः, शकुनिः, कर्णः, दुःशासन इत्येतस्मिन् दुष्टचतुष्टये अधर्मराज्यपरिपालनेन प्रजाः अतृप्ताः भवन्ति। तेन इहलोके परलोके च अपयशः प्राप्स्यसि।” इति धर्मात्मा विदुरः धृतराष्ट्रं उपादिशत्। मातृवत् परदारेषु परद्रव्येषु लोष्टवत्।

आत्मवत् सर्वभूतेषु यः पश्यति स पण्डितः॥ * इति श्रीमद्भागवतम्*

मातृवत् परदारेषु– रामायणं साकल्येन अपरामृष्टोऽपि परदारेषु मातृभावना यं प्राप्नोति,

परद्रव्येषु लोष्टवत्– महाभारतं कार्स्न्येन अपठितोऽपि यः परद्रव्यं न कांक्षते,

आत्मवत् सर्वभूतेषु– श्रीमद्भागवतशास्त्रे अशिक्षितोऽपि यस्य सर्वत्र ब्रह्मभावना वरीवर्ति स एव पण्डितः।

अस्माच्छ्लोकात् द्वितीयचरणार्थः भारतस्य सारभूतो भवति।

सर्वशास्त्राण्यधीत्यापि कौरवाःपरद्रव्यकांक्षिणः ईर्ष्यालवः आसन्।ते दायादानां पाण्डवानां दायभागमपि ग्रहीतुं लोलुपमानाःसन्तः यथा पतङ्गः दीपेनाकृष्य तस्यां ज्वालायां पतति। तथा तेऽपि क्षीणाः अभूवन्। पाण्डवाः अपि सर्ववेदार्थपारङ्गताः।ते सर्वदाऽपि आत्मविद्यायाः तत्त्वं विज्ञाय तत्सारमन्वभूवन्।चतुर्वर्गेष्वर्थः विना धर्मः न मोक्षाय इति सततधिया धर्ममेवानुव्रजन्ति स्म । अतः ते पण्डिताः आसन्। सर्वैरपि ते मान्याः भवन्ति। इन्द्रकल्पाः इत्यपि च प्रशंस्यन्ते ।

“सकलविद्यापारङ्गतोऽपि न तु पण्डितः। "

“पण्डा वेदोज्जवला तत्त्वविषयिणी वा बुद्धिः। सा जाता अस्य।” यद्वा–

“पण्ड्यते तत्त्वज्ञानं प्राप्यते अस्मात्।गत्यर्थे क्तः” इति पण्डितः।1

*१. म.भा.४प.३३/दाक्षिणात्यम् *

***पञ्चमोऽध्यायः ***

190

“पण्डा ज्ञानं अस्यास्तीति पण्डितः”

धर्मकोविदः धर्मस्वरूपः विदुरः मानवाभ्युदयविषयान् धृतराष्ट्रव्याजेन अस्मान् उपादिशत् । विदुरः, धर्मराजश्च प्राज्ञौ ब्रहमवेत्तारौ। धर्मांशः धर्मजः, यमांशः विदुरो भवति। यमराजः धर्ममूर्तिं आश्रित्य पालनं करोति। भारते सर्वत्रापि विद्यते । विदुरसूचनानुसारेणैव धर्मजः व्यवहरति इति । अन्तिमे धर्मांशे यमांशः लीनो भवति ।

**विदुरस्य श्रवे राजन् तं च प्रत्यभ्यपूजयत् ॥ **

** ततः सोऽनिमिषो भूत्वा राजानं समुदैक्षत । **

** संयोज्य विदुरस्तस्मिन् दृष्टिं दृष्ट्या समाहितः॥ **

** विवेश विदुरो धीमान् गात्रैर्गात्राणि चैव ह । **

** प्राणान् प्राणेषु च दधदिन्द्रियाणीन्द्रियेषु च१॥ *** *

महाविदुषः विदुरस्य वाक्यानि श्रुत्वाऽपि धृतराष्ट्रस्य जीर्णानि नाभवन्।तस्य दृष्टिः केवलं पुत्रेषु स्थगितत्वात् स्वार्थपरत्वाच्च । बुद्धिःकर्मानुसारिणी इति लोकोक्त्या विनिशनरूप भविष्यत्कर्मानुसारेणैव तस्य बुद्धिः नीतिवाक्येषु न प्रविशति।

५.५ पञ्चपार्थैः पार्थं कर्णं संयोजयितुं श्रीकृष्णेन कृतप्रयत्नेषु षष्ठे काले तथा त्वां…इत्यस्य वाक्यार्थविचारणा

उद्योगपर्वणि भगवद्यानपर्वणि अयं श्लोको वर्तते। भगवान् वासुदेवः पाण्डवपक्षतः दौत्यचिकीर्षया दुर्योधनादीन् परामृष्ट्वा ततः कुन्त्याः कानीनपुत्रं वसुषेणं कर्णं सामबेधोपायाभ्यां पाण्डवपक्षं आनेतुं सः कुन्त्याः ज्येष्ठपुत्रेति सूर्यानुग्रहादुत्पन्न इति ज्ञापयितुं कर्णस्य निकटं आजगाम। महान् वक्ता चतुरः श्रीकृष्णः कर्णमुद्दिश्य"कर्ण! त्वं सनातनवेदवेदाङ्गानि ,धर्मशास्त्रेषु सूक्ष्मविषयानपि जनासि। कन्यागर्भे जातं तं कानीनं कन्यायाः विवाहानन्तरं यः पतिर्वर्तते तस्य पुत्र एव इति शास्त्रविदः ब्रुवन्ति। अनेन प्रकारेण

*१. म.भा.१५प.२४,२५,२६ *

***पञ्चमोऽध्यायः ***

191

तव पिता पाण्डुरेव। त्वं धार्तराष्ट्रान् त्यक्त्वा पाण्डवपक्षं एहि। तेन ते पित्रुपक्षीयः पाण्डवाः, मात्रुपक्षीयः वृष्णयः त्वां अनुसरन्ति । युधिष्ठिराग्रजं त्वां त्वद्भ्रातरः पञ्चपाण्डवाः,

द्रौपदेयाः, अभिमन्युः अन्ये राजानः राजपुत्राश्च सम्पूजयन्ति। सर्वे अन्धकवृष्णयः तव पादं ग्रहिष्यन्ति। ओषध्यः, सर्वबीजानि, रत्नानि च सुवर्णरजितकुम्भेषु संस्थाप्य त्वां अभिषिञ्चन्ति।

**राजन्या राजकन्याश्चप्यानयंत्वामभिषेचनम् । **

** षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति १॥ **

पुरोहितः धौम्यः अग्निं जुहोति। चतुर्वेदविदः द्विजाः त्वां अभिषिञ्च्यन्ति।” इति वदन्-

**राजन्या राजकन्याश्चप्यानयंत्वामभिषेचनम् । **

** षष्ठे त्वां च तथा काले द्रौपद्युपगमिष्यति २॥ *** *

सामन्यार्थः-

इतरे राजानः त्वां अभिषेक्तुं सुवर्णकुम्भानि आनयन्ति। तथा षष्ठे काले षष्ठे यामे अर्थात् रात्रौ द्रौपद्युपगमिष्यति - द्रौपदी त्वां प्राप्नोति। इति सामान्येन द्योतते।

किन्तु पतिव्रतां द्रौपदीं दानोपाये तथा पणरूपेण दातुं राजकीयलब्धये कर्णाय उपायनं दातुं असत्यं वा अहितं वा न वदति भगवान्। केचिद् वदन्ति राजकीयलब्धये तथा श्रीकृष्णेनोच्यते तत्र दोषो नास्तीति।

सत्यं ब्रूयात् प्रियं ब्रूयात्

न ब्रूयात् सत्यमप्रियम्।

प्रियं च नानृतं ब्रूयात् एष धर्मः सनातनः

*१. म.भा.५प.१४०/१४.नीलकण्ठीयम् *

**२. ***म.भा.५प.१४०/१४. *

३. म.स्मृ.४/१३८.

***पञ्चमोऽध्यायः ***

192

तत्रापि सत्यधर्मपरायणः श्रीकृष्णः तथा प्रलोभयितुं कथं असत्यं ब्रूते? तद्वृत्तान्तं पूर्वापरं विचार्यतेचेत् धृतराष्ट्रः"कृष्णः राधेयं किमब्रवीत्? सूतपुत्रेण कानि सान्त्ववचनानि उवाच भगवान्” इति संजये पृष्टे सति

**आनुपूर्व्येण वाक्यानि तीक्ष्णानि च मृदूनि च । **

** प्रियाणि धर्मयुक्तानि सत्यानि च हितानि च १॥**

**कानीनश्च सहोढश्च कन्यायां यश्च जायते। **

** वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः॥ **

** सोऽपि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः। **

** निग्रहाद् धर्मशास्त्राणामेहि राजा भविष्यसि २॥ *** *

प्रियाणि, सत्यानि, तीक्ष्णानि, हितधर्मयुक्तानि हृदयग्राह्यानि मृदूनिवचनान्यवदत् श्रीकृष्णेनोक्तम्। इत्यब्रवीत् संजयः।अतः असत्याधर्मप्रयुक्तवाक्यानि कृष्णेन नोच्यते।

श्रीकृष्णः कर्णं प्रति “पाण्डवपक्षमाश्रितश्चेत् त्वां पाण्डवाः अभिषिञ्चन्ति। पृथिव्यां सर्वेऽपि राजन्याः त्वां शिरसि धार्यन्ति । युधिष्ठिरः राजकुमारः भविष्यति। भीमसेनः श्वेतच्छत्रं धरिष्यति। धर्मात्मा युधिष्ठिरः व्यजनेन वीजते ।” इति राज्याभिषेकघट्टं तदनन्तरं पाण्डवैःसह वर्तनमपि वर्णयति। अतः अत्र द्रौपदी नाम द्रुपदकन्या पाण्डवपत्न्याः प्रसक्तिरेव न ।

“षष्ठे त्वां च यथा काले द्रौपद्युपगमिष्यति”।

ग्रन्थस्थस्य अर्थश्चेत् एवं अभियुज्यते–

षष्ठे काले त्वां द्रौपदी उपगमिष्यति।

*१. म.भा.५प.१५०/४. *

*२. म.भा.५प.१४०/८९. *

***पञ्चमोऽध्यायः ***

193

गुडार्थः कालः- कृष्णवर्णयुक्तः शनिः इति दीपिका- इति शब्दकल्पद्रुमः।

कालः- रव्यादि नवग्रहान्तर्गत सप्तमग्रहः-शनिः। इति।

शनिः-कालः, सूर्यपुत्रः, असितः- इति ज्योतिस्तत्वम्-इति शब्दकल्पद्रुमः।

अतः कालःनाम शनिः।

पापिनां त्रि,षट् आयाः शुभाः इति

षष्ठे- षष्ठस्थाने

तृतीयैकादशषष्ठानां अन्यतम स्थानद्वये स्थितौ सौरिसूर्यौ स्याताम्॥

“गुरुर्लग्नकोणे कुजोऽरौ सितः खे स राजा सदा मोदते राज्यलक्ष्म्याः

राजाभिषेकमुहूर्तविषये उपरितनश्लोकव्याख्याने दत्तमस्ति-" अन्यत् समानम्।

तृतीयैकादशषष्ठानां अन्यतमस्थानद्वये स्थितौ सौरिसूर्यौ स्यातामिति पर्वतः। एतदपि युक्तमेव । " इति । अतः शनिः षष्ठस्थाने सति राजा राज्यलक्ष्मीं प्राप्नोति इत्यर्थः। संप्रति “षष्ठे त्वां च तथा काले” अर्थात् काले षष्ठे सति शनिः षष्ठस्थाने सति इत्यवगम्यते ।

द्रौपद्युपगमिष्यति- अत्र द्रौपदी नाम द्रुपदपुत्री न द्रुपदस्य अपत्यं स्त्री द्रौपद्याः स्वकीयं नाम वर्तते कृष्णेति।

** तां चापि जातं सुश्रोणी वागुवाचाशरीरिणी। **

** सर्वयोषिद्वरा कृष्णा निनीषुः क्षत्रियान् स्वयम्॥ **

** श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा। **

** ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा २॥**

*१. मु.चिं .१० राजाभिषेकप्रकरणम् -४. *

*२. म.भा.१प.१६०/४८,४५. *

***पञ्चमोऽध्यायः ***

194

सैव श्यामाऽपि वर्णत्वात्। श्यामा पृथिव्याः नाम इति शब्दकलपद्रुमे-

“प्रथते विस्तारं यातीति । प्रथ +“ प्रथेः षिवन् संप्रसारणञ्च । “ उणा.१.१५० । इति षिवन् सम्प्रसारणञ्च । ङीष् । मर्त्त्याद्यधिष्ठानभूता ।पृथिवी।

भुवनमाता ७४ निश्चला ७५ बीजप्रसूः ७६ श्यामा ७७ क्रोडकान्ता ७८ । इति राजनिर्घण्टः। अतः द्रौपदी नाम पृथिवीति सूचिता व्यासमहाभागेन। हितवचनैः प्रभाषितस्य श्रीकृष्णवचनं नाङ्गीकृतः कर्णेन -

**धृतराष्ट्र कुले कृष्ण दुर्योधनसमाश्रयात् । **

** मया त्रयोदशसमा भुक्तं राज्यमकण्टकम् १॥** * *

दुर्योधनस्नेहात् राज्यं प्राप्तवानहम् । कुन्ती बन्धुभयात् मां त्यक्तवती। राधाधिरधावेव पालनपोषणं कृतवत्यौ।सूतपुत्रः इत्येव सर्वे मां अभिजानन्ति । अतः धार्तराष्ट्रपक्षमहं वहामि । इत्यभणत् । उपरि श्रीकृष्णवचनेषु द्रौपदी प्रसङ्ग एव वर्तते चेत् तस्य प्रत्युत्तरमपि सः उक्तवान् श्यात् । तदा श्रीकृष्णः-

**अपि त्वां न लभेत्कर्ण राज्यलम्भोपपादनमम् । **

** मया दत्तं हि पृथिवीं न प्रशासितुमर्हति २॥**

षष्ठे काले द्रौपदी.. इत्यस्य द्रौपदी प्रसक्तिश्चेत् कर्णवचनेऽपि द्रौपदी प्रसङ्गः स्यादेव।तन्नास्ति तत्र।अतः उभयत्रापि भूप्रसङ्ग एव युक्तियुक्तं भवति।

एतावत्कालपर्यन्तं “गीताप्रेस्” संस्थायां मुद्रिते महाभारते ग्रन्थीश्लोकः स्वीकृताः। तन्मध्ये अयं श्लोकः नास्तीति कारणात् **नीलकण्ठीयमहाभारते **स्वीकृतः।

** ***१. म.भा.१४१.१३. *

*१. म.भा.५प.१४२/२. *

***पञ्चमोऽध्यायः ***

195

**५.६. अनुशासनपर्वण्यन्तर्गत कपदैत्यानां वृत्तान्तः **

पुरा कार्तवीर्यः स्वबाहुबलात् सर्वान् ब्राह्मणान् पीडयन्ति स्म। तस्य दौष्ट्यं निरोद्धुं अग्निदेवः स्वयमागत्य तस्मै ब्राह्मणस्य तपोनुष्ठानमहिमानं वर्णयिन् प्रासङ्गिकवशात् ब्राह्मणैः कपनामकदैत्यानां निग्रहणं इत्थं अकथयत् ।–

**मदास्यव्यतिषिक्तानामस्माकं लोकपूजित । **

** च्यवनेन हृता भूमिः कपश्चैव दिवं प्रभो १॥ **

च्यवनमहर्षिणा कृतयज्ञे अश्विभ्यां सोमदानेन कृद्धं महेन्द्रं महर्षिः स्वमन्त्रबलात् हवनात् कृत्यां मदासुरं उत्पाद्य तेन इन्द्रं हन्तुं ऐच्छत्। तदा भीतः देवराजः अश्विभ्यां सोमभागधेयं दत्त्वा महर्षिं मदासुराद् रक्षणाय प्रार्थयामास। सन्तुष्टो महर्षिः देवदेवं विमुच्य

मदासुरं मदिराक्षमृगयास्त्रीषु विभाजनमकरोत् ।** **

** अक्षेषु मृगयायां च पाने स्त्रीषु च वीर्यवान् । **

** एतैर्दोषैर्नरा राजन् क्षयं यान्ति न संशयः२॥ **

महाविस्तीर्णे मदासुरमुखे सर्वे देवाः पतिताः। एवमेव वसुन्धरामपि च्यवनमहर्षिः अपाहरत् । उभौ लोकावपि असुरैः पराजितौ। दिवि कपनामदैत्याः राजन्ते।

देवा ऊचुः-

**मदास्यव्यतिरिक्तानामस्माकं लोकपूजित । **

** च्यवनेन हृता भूमिः कपश्चैव दिवं प्रभो ३॥ **

ब्रह्मन्! यस्मिन् समये वयं मदास्ये प्रापताम तच्छमये दिवि कपशासनं भुवि द्विजाः कर्मविहीना भवन्ति । देवताः निरशनाः भवन्ति । अस्मान् पाहीति” अवदन्। अस्मानुद्धर्तुं ब्राह्मणान्

१. *म.भा.१३प.१५७/४. *

२. *म.भा.१३प.१५६/३३,३४. *

३. म.भा.१३प.१५७/४.

***पञ्चमोऽध्यायः ***

196

याचयाम इति ब्रह्मणःवचनैः देवाः विप्रान् शरणं ययुः। विप्राः कपनाशनाय यज्ञं समारभन्ते।यज्ञबलेन हव्यभुजःकपान् हत्वा नभसि व्यराजन्त। इति कथा।

अत्र कपनामदानवाः कश्यपवंशे न विद्यन्ते । प्रायः पुराणेष्वपि न विद्यन्ते।

कपशब्दव्युत्पत्तिः- कं जलं पाति रक्षतीति कपः।अर्थात् पर्वतीय इति रूढ्यर्थो भवति। पर्वतप्रान्तेषु जलाभावप्रदेशेषु जलाभावात् तत्रत्य प्रजाःजलं रक्षन्ति इति कारणात्।

पुरा प्रजापतिः प्रथमतो सलिलं  सृष्ट्वा तं गोपायितुं प्राणिनः असृजत्। क्षुत्पिपासाभयार्थिताः ते ब्रह्मन्! किं कुर्मेति" अपृच्छन्।  

**प्रजापतिस्तु तानाह सत्त्वानि प्रहसन्निव। **

** आभाष्य वाचा यत्नेन रक्षध्वमिति मानदः॥ **

** रक्षामेति च तत्राद्ये जक्षाम इति चापरे। **

** भुक्षिताऽभुक्षितैरुक्तः ततस्तानाह भूतकृत्।। **

** रक्षामेति च यैरुक्तं राक्षसास्ते भवन्तु वः। **

** जक्षाम इति यैरुक्तं यक्षा एव भवन्तु वः१॥ **

रक्षामह इति यैरुक्तः ते राक्षसा इति जक्षामह इति यैरुक्तः ते यक्षा इति ब्रह्मणा संबोधिताः। राक्षसाः पूर्वदेवा एव।

“शुक्रशिष्या दितिसुताः पूर्वदेवाःसुरद्विषः।” * *

पूर्वदेवाः- पूर्वं देवपदे स्थिता इति व्युत्पत्तिः।तेऽपि कर्मणा विधिना च सुरैःसमाना आसन्। अत एव ब्राह्मणान् प्रति कपदूतेन धनिनोक्तम्-ते कपाःसर्वेऽपि भवद्दृशाः सर्वे वेदविदः ,

कृतयाजिनः, सत्यव्रताः, महर्षितुल्याः,नियतात्मान इति।

*१. श्रीमद्रामायणम्.७.४.११,१२,१३. *

*२. अ.को.१.१.१७. *

***पञ्चमोऽध्यायः ***

197

**सर्वे च नियतात्मानो बलानां संविभागिनः। **

** उपेत्य शनकैर्यान्ति न सेवन्ति रजस्वलाम्॥ **

** स्वर्गतिं चैव गच्छति तथैव शुभकर्मणः। **

** अभुक्तवत्सु नाश्नन्ति गर्भिणीवृद्धकादिषु॥ **

** पूर्वाह्णेषु च न दीव्यन्ति दिवा चैव न शेरते १॥**

यावत् विधिमनुसृत्य कर्माचरन्ति तावत्पर्यन्तं देवलोके मर्त्यलोके च आधिपत्यं वहन्ति। यदा धर्मलोपो भवति तदा राज्यभ्रंश्याः भवन्ति । अस्मात् ग्रन्थिश्लोकात् कप नाम राक्षसाः दैत्यप्रबेधेषु वर्तन्ते । पर्यायपदमिति विद्यते । पर्वतीयस्य पर्यायपदं कप इति विद्यते ।

मर्त्यलोके ये मनुष्याः विध्युक्तकर्मानुष्ठानं कुर्वन्ति ते देवलोके देवाः भवन्ति।तदनन्तरं मर्त्यलोकमात्गय मर्त्येष्वाधिपत्ययं अधिकाररूप च लभन्ते। इति वेदानुशासनम्।

**" ते तं भुक्त्वा स्वर्गलोकं विशालं । **

** क्षीणे पुण्ये मर्त्यलोकं विशन्ति २॥**

DE

*१. म.भा.१३.१५२.१२,१३. *

*१. भ.गी.९.२१. *

**उपसंहारः **o

198

**उपसंहारः **

“श्रीमन्महाभारतस्य आदिपञ्चके ग्रन्थिश्लोकानुशीलनम्” इति गवेषणविषयः सुकृतेनैव मया प्राप्तः। विष्ण्वोःमेलनाज्जाते महाभारते नैकानि अमूल्यानि रत्नानि सन्ति ।

ऋषीणामप्यहं व्यासः इति भगवद्वचनात् सर्वव्यापकः विष्णुरिति गणेशस्य प्रख्यायाः कारणात् तावुभयौ विष्णूरिति । तेषु रत्नेषु ८८००श्लोकाः ग्रन्थिरूपाः भवन्ति। तेषां शोभा ग्रन्थिश्लथीकरणेन सम्यक् प्रकाश्यन्ते । ऐदंपर्येण मया केचन श्लोकाः

व्यासगणेशयोरनुग्रहात् पितृचरणानामनुग्रहाच्च स्पृष्टाः।

बाल्यप्रभृति मे पिताश्वश्रूणां वचनेषु महाभारतकूटश्लोकानां विषयं अश्रुण्वम्। अतः कौतुकात् इदं परिशोधनकार्यं स्वीकृतम् । ग्रन्थितत्त्वशोधने बाह्यविषयाः विनष्टाः भवन्ति।

तस्मादन्तरङ्गदृष्टिर्प्रसार्यते । परमात्मदर्शनेन जन्मसाफल्यं भवतीति कारणात् एतत् साहसं मया कृतम् ।

ग्रन्थिश्लोकपर्यालोचने मन्मनसि इतोऽपि केचन श्लोकाः वर्तन्ते।परन्तु तेषां प्रमाणानि सम्यक् न लब्धानि। मद्विचारणे ग्रन्थिश्लोकाः–

“नाति ह्रस्वा न महती न कृष्णा नाति रोहिणी” इत्यस्मिन् श्लोके द्रौपदी केवलं मानवी न भवति। साक्षात् शक्तिरूपा महामाया नारायणीति ज्ञायते । अत एव तया कारणेन दुष्टसंहारः अभवत्। यथा दुर्गासप्तसत्यां शुम्भनिशुम्भादिदानवानां संहारमकरोत्। तद्वदेव महाभारते पाण्डवीयशक्त्या जघान् ।

ग्रन्थिश्लोकाः साधारणश्लोका इव अन्वीतुं साध्यते एव। परन्तु पठनसमये अयं ग्रन्थिश्लोकः इति ज्ञानं क्वचित् लभ्यते । तेषां श्लथीकरणे प्रामाणिकग्रन्थाः उपयुक्ताः, कुत्र लभ्यन्ते, कथं ग्रन्थविमोचनं कुर्यादिति पर्यालोचने बहूनि दिनानि यापितानि । तथा यापितेषु स्त्सु कदाचित् स्मृतिपथौ श्लथीकरणशक्तिः स्फुरति । तावत् पर्यन्तं अन्धः यथा मार्गमगोचरः सन् परिभ्रमति तद्वत् मे मतिरपि ।

***उपसंहारः ***

199

केचन ग्रन्थिश्लोकाः–

“प्रथमं संविशति या चरमं प्रतिबुध्यते”

“अशीतिशतवर्षेयं माता इति..”

“जयो जयन्तो विजयो जयत्सेनो जयद्बलः” इत्यादयः।

पञ्चेन्द्राणां वृत्तान्तेऽपि ग्रन्थयः वर्तन्ते । धर्मजः यज्ञस्वरूपिणः धर्मस्य पुत्रेति प्रतिपादितुमीहे। अष्टावक्रोपख्याने श्रुतिप्रमाण्ययुतग्रन्थयः प्रायः सन्ति। श्रुतिप्रमाणमनुस्रुत्य ग्रन्थिश्लथीकरणं मत्पितृचरणेभ्य एव साध्यते। संप्रति तेषां अस्वस्थताकारणात् तद् सथगितम्। इतः प्रभृत्यपि विरामं विना ग्रन्थिश्लोकपरिशीलनं कर्तुमीप्सा वर्तते । नोचेत् यैःकैरपि इदं ग्रन्थिश्लथीकरणकार्यं अग्रे प्रचलतु इति भगवन्तं प्रार्थये ।

**महाभारतगणेशस्तुतिः **

**महाभारतं स्मरन् लेखनार्थचिन्तकं **

** महापुराणदायकं सुशान्तधर्मवर्तिनम् । **

** अनुग्रहार्थकांक्षया बदरिकावनागतं **

** सर्वसिद्धिफलप्रदं भजे गजाननं विभुम् ।। **

**भारतस्य लेखने क्षणालसत्वमागता **

** विसृज्य कर्म तत्क्षणे प्रयामि निश्चयेन हि। **

** विहीनमर्थसंयुतं मा लिखार्थतत्त्ववित् **

** इति ब्रुवाण वेदधीं कृपावलोकिनं भजे।। **


**तदा प्रसन्नचेतसा विलेखनाय दन्तिनं **

** दिदृक्षुरौत्सुकेन हि स्वयं धियानकौशलम्। **

***उपसंहारः ***

200

** तथा ग्रथेन ग्रन्थग्रन्थिग्रन्थराजमुद्धरन् **

** पराशरात्माजं युतं भजे भदैत्यमर्दनम्।। **

** भुजङ्गहारिनन्दनं गजाननार्कनेत्रिणं **

** सदा शिवानिसन्निधिं विराजराजमूर्धिनम्। **

** सकार्तिकेयपरशुरामनन्दिभृङ्गिपरिवृतं **

** सबीजपूरफलकरं भजे मनोऽर्थदायकम्।। **

**गकाररूपवक्रतुण्डगणपतिं भजाम्यहं **

** अकारबीजवर्तिलम्बगणपतिं भजाम्यहम्। **

** नादबिन्दुकलार्णवर्णगणपतिं भजाम्यहं **

** सदा प्रसन्नचित्तबालगणपतिं भजाम्यहम्।। **-बाला…


**संशोधितग्रन्थसूची **q

**संशोधितग्रन्थसूची **

1 अगस्त्यः – http//vaigyanik-bharat.blogspot.com/

2 अग्निपुराणम् – व्यासः

राजेन्द्रलाल मित्रः.

गणेशप्रेस्. कोलकत्ता.

3 आयुर्वेदसूत्रम् – योगानन्दनाथः

dr.R.ShamaSastry.

Govt.branch press.

Mysore. Sanskrit Wikisource.

4 काव्यप्रकाशः – मम्मटः

हरिशंकरशर्मी.

चौखम्बा प्रकाशन्. वारणाशी.

5

6

काव्यमीमांसा

काश्यपसंहिता

राजशेखरः.

जयकृष्णदासहरिगुप्ता.

चैखम्बा संस्कृत सिरीज ।

चैखम्बा संस्कृत सिरीज ।

Internet archive

7 कृष्णयजुर्वेदीय संहिता – सायणः

महादेव चिमणाजी आप्टे, आनन्दाश्रममुद्रणालयः, पूणे ।

8 चतुर्वर्गचिन्तामणिः – हेमाद्रिः

पण्डितः भरतचन्द्रशिरोमणिः

चौखभा संस्कृत संस्थानम्.वारणासी.

तन्त्राभिधानम् – पञ्चाननभट्टाचार्यः

Sanskrit book dep.Culcutta.

10 तैत्तिरीय आरण्यकः – सायणः

नारायण आप्टे,

आनन्दाश्रममुद्रणालयः, पृणे।

11 तैत्तिरीयब्राह्मण् – भट्टभास्करः

A.Mahadava Sastry.

Govt.Oriantal Library. Mysore.

12 दवीभागवतम् – https//vedicreserve.miu.edu

13 दवीभागवतम् – https//vedicreserve.miu.edu

14 धर्मसिन्धुः – श्रीःकाशीनाथ उपाध्यायः

वशिष्ठधर्ममिश्रः.

चौखम्भासंस्कृतसिरीस्. वारणाशी.

15 नाट्यशास्त्रम् – भरतः

बाबूलाल शुक्रःशास्त्रिणः.

चौखभासंस्कृतसंस्थानम्. वारणासी.

16 निरुक्तम् – यास्कः

R.G.Bandarkar.

Bomnay Sanskrit Prakrit series.

17 नैषधीयचरितम् – श्रीहर्षः

प्रेमचन्द्रपण्डितः

बाप्टिस्ट मिषन् ट्रस्ट्. कोलकत्ता ।

18 पद्मपुराणम् – व्यासः

महादेव चिमणाजी आप्टे.

आनन्दाश्रमं प्रेस्.पूणे.

1 बृहद्धातुकुसुमाकरः – हरेकान्तमिश्रः.,

चौखम्भासंस्कृतप्रतिष्ठानम्. देहली.

20 ब्रह्मपुराणम् – व्यासः,

डाँ. नागशरणसिंह. ,

नाग पब्लिषर्स्. नवदेहली.

21 ब्रह्मवैवर्तपुराणम् – व्यासः,

आचार्यः

जगदीशलालशास्त्रिणः.,

मोतीलालबनारसीवास्. देहली.

22 ब्रह्माण्डपुराणम् – व्यासः ,

डाँ. के. वी. शर्मा.,

चौखम्भा कृष्णदास् अकाडमी. वारणासी.

23 भर्तूहरि शतकत्रयम् – भर्तृहरिः,

रामजी शर्मा.,

महाशय श्यामलालवर्मा. ,

आर्यबुक् सेल्लर. बरेली.

24 भविष्यपुराणम् – व्यासः,

डाँ. नागशरणसिंह,

नाग पब्लिषर्स्. नवदेहली.

25 मनुस्मृतिः – मनुः,

श्रीमती.ऊर्मिला रुस्तगी. ,

J.P.Publishing House. Delhi.

26 महाभारतम् – वेदव्यासः

रामनारायणदत्तशास्त्रिपण्डितः

गीताप्रेस् ,गोरखपूरम् ।

27 महाभारतम्-भारतभावदीपिकामुद्गलपुराणम् --नीलकण्ठदीक्षितः,Chitrasal Press, Pune12.--मुद्गलमहर्षिः,आ.सा.राजाध्यक्षः.मुम्बई.--दैवज्ञश्रीरामाचार्यः,महीधरशर्मा,वेङ्कटेश्वर स्टीम्प्रेष्ठ.मुम्बई.--सायणाचार्यः,महादेवचिमणाजी आप्टे.,आनन्दाश्रमं प्रेस्.पूणे.--https//vedicreserve.miu.edu.--https//vedicreserve.miu.edu--https//vedicreserve.miu.edu
मुहूर्तचिन्तामणि
रुद्राध्यायः
वशिष्ठधनुर्वेदसंहितावाग्भटसंहितावामनपुराणम्

28

2

30

31

32

33

34 विष्णुधर्मोत्तरमहापुराणम् – व्यासः,

डाँ. नागशरणसिंह. ,

नाग पब्लिषर्स्. नवदेहली.

35 वेदाङ्गप्रकाशिका निघण्टु – यास्कः,

पण्डित युधिष्ठिरः मीमांसकः,

ऊर्यसाहित्यऽण्डलं, लमिटेड्, अजमेर।

36 शब्दकल्पद्रुमः --Sir.RajaRadhakantadeva Bahadur,Rashtriya sanskrit sansthan. New Delhi.----https//vedicreserve.miu.eduवेदव्यासःशास्त्री राकृष्णदास् जी,शास्त्री अक्षरप्रकास् दास् जी,श्री स्वामि नारायण् साहित्य प्रकाशन मन्दिरं,
शिवधनुर्वेदसंहिताश्रीमद्भागवतम्

37

38

जेतनपुरम्.

3 समराङ्गणसूत्रधारः – भोजराजः,

T.Ganapati Sastry,

Barodabcentrel library, Internet archive.

40 स्मृतीनां समुच्छयः – अगिरःप्रभृतयः ,

विनायक गणेश आप्टे.,

आनन्दाश्रममुद्रणालयः.पूणे.

41 हरिवंशः – वेदव्यासः

रामनारायणदत्तशास्त्रिपण्डितः,

Gita press.Gorakhpur.

42 हलायुधकोशः – जयशंकरजोशीः।,

उतत्रप्रदेशहिन्दीसंस्थानम्, लक्नो.

43 äĂɂదరɈ – Ħɇ÷ Ħþ,

ð.јŬɅ ̡þ చంѸѐ.,

ƬĒȳ ̡þќѠ şѠц ĦɇĦõɂలయం, Рþúȕ.

44 ɇ÷ɂǘకంఆనందవరȻ÷éўɂѠ,

ð.јŬɅ ̡þ చంѸѐ, జయలɘ ĞɅŴȗɊ. Рþúȕ.

45 ʬɁјþణం – ̡.ҦɅĢ ѥʬɁɂĽīѓѠ,

ƒంకžɇ ఆరɉ ĦëȲ ʠȥȳ.Рþúȕ.

46 మతɊɳјþణం – ̡.øҙĢ þüంజƇѝѠ,

ƒంకžɇ ఆరɉ ĦëȲ ʠȥȳ.Рþúȕ.

47 Ćûరతతతȸɸకథనќ – Ăòħ. ѥʬɁɂăɒ æў,

ĦĢč éĢĶȥ. þజమƖʧవరం.

48 Ćûరతќ

ధరɁҫɏɲదరɈќ

– ̡.ĀɅę చంʧƓఖర ăɒ, ĩƅȻɇ ˲ంటȞɊ. Рþúȕ.

4 üȩƀ јþణం - – ƒĂɂѥѐ,

þచరɅ þҫɂ÷þయణăɒæў, ƒంకžɇ ఆరɉûĻ ʠȥȳ.Рþúȕ.

50 ħవమĆјþణం – ƒĂɂѥѐ,

ąɇĠ తతȸɸĦõనందసరసɇĻ. ƒంకžɇ ఆరɉ ĦëȲ ʠȥȳ.Рþúȕ.

51 =̡ˋüయణం – ĂňɁĈ,

ð. Ȝ. కృషȷüéўɂѠ., Įó ̺ȥ. ƾరఖҞȞ.

52 =̡వలɅƋǛěȓ

ʪûĂɂåɂ

– ̡.యనమంʢ ƒђƾøăɒ, ÷తనцўфĀʵ̡Ħõɂŀఠంజయనగరం.

53 ȁûɂûȩరం – ûȩþѠ,

ð. ǏĢǓŶɇరశరɁæў., ̡÷þయణశంకరభగవóȽ సరసɇĻąĪĻసంąȹ. ƾҨў.

54 Science in Sanskrit – Sanskrita Barati. Bengaluru.

55 Solar energy fundamentals technology on systems:

– Klaus jager Miro Zeman.

56 Solar energy fundamental economic energy analysis:

– Sourabh Kumar Rajput, Northern India Textiles - Research association.

57. A cross-cultural analysis of posthumous reproductionThe significance           

      of the gender and margins-of-life perspectives. 

         *--Hashiloni-Dolev, 2007. *

   www.sciencedirect.com › article                    Google Applications 
58 धातुरूपमाला-- https://play.google.com/store/apps/details?idorg
.srujanjha.dhatuvrttis.-- https://play.google.com/store/apps/details?idorg.srujanjha.amarkosh 5 अमरकोशः
60 शब्दकल्पद्रुमः-- https://play.google.com/store/apps/details?idorg.shrutijha.sanskrit_sanskrit

**अ **

अंशांशिभावाद् भूतानां 3

अक्षद्यूते नलं जेता 175

अक्षरक्षरयोरेव द्वयोः 123

अक्षान् यान् मन्यसे 172, 175

अक्षेषु मृगयायां च पाने 15

अगृह्याच्यवनः140

अङ्गप्रत्यङ्गलावण्यं48

अङ्गुष्ठतर्जनीवंशे171

अत आज्ञापय प्राज्ञ 142

अत्यन्तविद्यामिति यत् सनातनीं 185

अत्र वै हिमवत्पृष्ठे 132

अत्र स्वयं महादेवो 147

अत्रैव हि स्थितो ब्रह्मा 147

अथ दानापदेशेन कुन्ती 65

अद्य त्वं जननीं भीष्म 8

अद्य दुर्योधनस्याहं 177

अद्य प्रभृति भद्रं वः 8

अद्याहमृणमक्षय्यं पुरा 177

अध्याहारस्तर्क ऊहो 174

अन्तरात्मकमाकाशं 162

अन्ये वर्णाश्रमस्था ये 142

अपत्यं धर्मफलदं श्रेष्ठं 77

अपत्यमनघं राजन् 40

अपि त्वां न लभेत्कर्ण 14

श्लोकानुक्रमणिका

अप्रजां धारयामास 86

अप्लवेमभसि मग्नानां 107

अप्सरा देवकन्या 3

अप्सरा देवकन्या वा 31

अभ्यङ्गितस्तु तैलेन 12

अमृतादुत्थितं दिव्यं 28

अमृतादुत्थितं दिव्यं 30

अमृतादुत्थितं दिव्यं 157

अमेध्ये वै गतप्राणे 108

अयोनिः स वरोन्मत्तः 143

अर्जुनं वासुदेवं च 48

अर्जुनश्च यमौ चोभौ 106

अल्पयुषाल्पबुद्धींश्च 4

अविन्ध्यो नाम मेधावी 128

अवैधव्यकरैर्योगैः134

अव्यक्तं च महान्तं च 124

अशोकवनिकाभासे128

अश्वानां ह्रेषितं श्रुत्वा कः177

अष्टमेऽहनि रोहिण्यां 65

अष्टादशपुराणानि 4

अष्टौ प्रकृतयः प्रोक्तो 124

अष्टौ श्लोकसहस्राणि 21

अस्ति नूनं मया128

अस्त्राणि न प्रयोज्यानि

अस्त्रैरभेद्यःशस्त्रैश्चाप्यधः8

अस्थिसंचयमारूढो12

अस्नात्वा नैव भुञ्जीता 52

अस्य काव्यस्य 20

अस्य काव्यस्य कवयो 1

अस्य काव्यस्य कवयो 7

अहं हि नित्यं कौरव्य फाल्गुणं 17

अहंकारं विहायाहं 120

अहंकारादुदग्रुद्रः85

अहमन्तःशरीरस्थो126

अहल्या द्रौपदी कुन्ती 156

अहल्यां च तदा 48

अह्ना यदेन क्रियते 17

**आ **

आकाशस्य गुणः 162

आत्मकीये वरारोहे 7

आत्मकीये वरारोहे 34

आत्मने मृगशापेन 40

आदितेयस्त्वसौ सूर्यः 85

आनुपूर्व्येण वाक्यानि 12

आपदं तेन मां पार्थ 60

आपृच्छे त्वां गमिष्यामि 105

आर्तवस्रावदिवसाद्दृतुः80

आलिः सखी वयस्याथ 118

आसाद्य तु नलं वीरं 175

आहूयतां परं राजन् 5

इङ्गितज्ञः स तु 16

इड्वत्सरस्तृतीयश्च85

इतिहासकथोद्भूतमितरद्वा

इतिहासाः सवैयाख्याः 8

इतिहासाः सवैयाख्याः 25

इदं वै देवनं पापं निकृत्या 7

इन्द्रनीलप्रतीकाशं 172

इन्द्रश्चैव विवस्वांश्च 154

इहैव ते पाण्डवाः 47

ईशाज्ञया करिष्यामि 143

उक्थभृतं सामभृतं बिभर्ति 72

उच्चालापी सर्वभक्षी 143

उत्तिष्ठ भद्रे गछ त्वं 78

उपक्रमोपसंहाराप28

उपायवाक्यकुशलः 3

उभावेतौ न सोमर्हौ 140

उवाच स मया 1

उवाच स महातेजा 6

ऊर्ध्वबाहुर्विरौम्येष3

ऋक्षं संजनयामास 70

ऋणैश्चतुर्भि संयुक्ता 82

ऋत्वेऽमरत्वं युवयोः 0

ऋषन्ति रञ्जनात् 112

एकं वधिष्यसि रिपुं 33

एकं हनिष्यसि 31

एकं हनिष्यसि रिपुं 2

एकं हनिष्यसि रिपुं 161

एकदशस्तथा त्वष्टा 114

एकमेवाहमिच्छामि33

एकस्य धर्मेण सतां मतेन 135

एकादशस्तथा त्वष्टा 154

एकोदोषोऽस्ति नान्योऽस्य 133

एतच्छृत्वा वज्रपाणिर्वचस्तु54

एतच्छ्रुत्वा वज्रपाणिर्वचस्तु47

एतद् विकीर्णः सुश्रीमत् 146

एतस्य सर्वसंग्रामे 36

एतान्यस्थीनि दैत्यस्य 145

एते हि विबुधाः सर्वे 28

एते हि विबुधाः सर्वे 30

एवं भानुमयं ह्यन्नं 115

एवं मे वर्तमानस्य8

एवमाहायमसितो देवलो 7

एवमुक्तस्तु कलिना 175

एवमुक्तस्तु धौम्येन तत्कालसदृशः 115

एवमुक्ता ततः शक्रं 47

एवमुक्त्वा ततः 87

एवमुक्त्वा तु कौन्तेयमुपोह्य 88

एवमुक्त्वा बहुविधं 153

एवमुक्त्वा महात्मानो 0

एवमुक्त्वा स भगवान् 23

एष विग्रहवान् धर्मः 5

एष वीरो महेष्वासः 181

एषा मुष्टिरिषीकाणां 4

कक्षघ्नः शिशिरघ्नश्च 32

कक्षघ्नः शिशिरघ्नश्च 32

कक्षघ्नः शिशिरघ्नश्च 61

कथं त्रिपुरुषाज्जातो 158

कथं समभवद् द्यूतं 104

कथयिष्यति ते36

कदलीस्तम्भसदृशं88

कन्या सती देवमर्कमाजुहाव 153

कफामपित्तपक्वानां 80

कानीनश्च सहोढश्च 12

कामेन युक्ता ऋषयस्पस्येव 138

कार्येषु दासी करणेषु मन्त्री 122

कार्ष्णं वेदमिमं सर्वं 17

कालेयनाम दैतेयाः 166

काव्यं यशसे अर्थकृते 14

काव्यबन्धं न कर्तव्यं 32

किं तद् गुह्यं न चाख्यातं 30

किं ते द्यूतेन राजेन्द्र 7

किंचिच्च विदुरेणोक्तो 61

कीर्तिः प्रथयता लोके 15

कुतश्च कवचं तस्य 30

कुम्भकर्णादयश्चेमे नग्नाः 12

कूष्णपक्षे चतुर्दश्यां 65

कृतयुगे वेदवती त्रेतायां 11

कृते युगे वेदवती 133

कृष्णद्वैपायन व्यासं 5

कृष्णपक्षे चतुर्दश्यां 64

कृष्णा तु द्रौपदी कृष्णं 11

के तत्रान्ये कितवा 102

कोटिशश्चैव रत्नानि 1

ग॒णानां॑ त्वा ग॒णप॑तिं 1

गतासु तासु सर्वासु 128

गतिरात्मवतां सन्तः 16

गते द्वारवतीं कृष्णे 103

गत्वोत्तरायणं तेजो 113

गदायां पारगो 50

गान्धारराजः शकुनिर्विशाम्पते103

गूढार्थता विपर्यस्तार्थता 23

गौर्या जित्वा पुरा शम्भोर्नग्नो 101

ग्रन्थग्रन्थिं तथा 21

ग्रन्थग्रन्थिं तथा 22

ग्रन्थग्रन्थिरिहक्वचिद्क्वचिदपि 26

घटो हास्योत्कच इति 163

घटोत्कच विजानीहि 163

चतुरो वार्षिकान् 17

चन्द्रमा सह सूर्येण 145

चन्द्रमा सह सूर्येण 148

जगाम भ्रात्रूनादाय 67

जज्ञे बहुज्ञं प्ररमत्युदारं 8

जनको जन्मदानाच्च 114

जन्मप्रभृति सत्यां 20

जन्मप्रभृति सत्यां ते 7

जले निपतितं दृष्ट्वा 106

जितश्च शंकरस्तत्र 100

जितस्येवं प्रवृद्धस्य 163

जिता सभा वस्त्रवता 16

ज्येष्ठं कुन्तीसुतं जातं 86

तच्छक्रदेवा विभ्रष्टं 46

तच्छ्लोककृटमद्यापि22

ततः कालेन सा 86

ततः किंचिद् कृतं दूरं 52

ततः पाण्डुर्महाराजो 83

ततः पुनरथोवाच 32

ततः सस्मार हेरम्बं 1

ततः सस्मार हेरम्बं 7

ततः सोऽनिमिषो भूत्वा 10

ततस्तं क्रोधजं तात 76

ततस्तामब्रवीत् कृष्णः 117

ततो दूरात् प्रकाशन्ते 145

ततो बाणेन हन्यत्त 52

ततो माद्री विचर्यैवं 48

ततोऽक्षहृदयं प्रादात् 7

ततोऽपि द्वादशे वर्षे 76

तत्त्वज्ञः सर्वभूतानां योगज्ञः 188

तत्र गत्वा चतुःशालं 55

तत्र ते सायुधाः 62

तत्र मां प्राहसन् कृष्णः 105

तथा त्वमपि मय्येवं 41

तथा त्वमपि मय्येवं 44

तथा हि वर्तते मन्दः 60

तथेक्त्वा तु तां 2

तथेत्युक्त्वा तु तां 23

तथेत्युक्त्वा तु तां 30

तद्धर्मं प्रविवेशाथ 45

तपोबलमदेनैवं कुरुषे 142

तपोबलेन महता 147

तव पुत्रे गते स्वर्गं 36

तव प्रसादाद् गोविन्द 10

तव वश्याः हि सततं पाण्डवाः120

तस्माद् विनिमयं 160

तस्मिन् द्यूतो स्थितो 101

तस्मिन् वर्षे गतप्राये 16

तस्य भीमो वधं प्रेप्सुः 170

तस्य संवृतमन्त्रस्य 187

ता विहृत्य यथाकामं 66

तां चापि जातं सुश्रोणी 13

तां चासीनौ ददृशतु170

तां समासाद्य तु 153

तांस्तु दृष्ट्वा सुमनसः 65

तानब्रवीत् स राजेन्द्रो 58

तामुवाच महाबाहुः 117

तिलं तिलं समानीय 1

ते तं भुक्त्वा स्वर्गलोकं 17

ते वयं मृगयां शीलाश्चराम62

तेषां तत्त्वं प्रवक्ष्यामि 85

तेषामृद्धिरतीवात्र गतौ 144

तैर्लब्धा द्रौपदी भार्या 5

तैर्लब्धा द्रौपदी भार्या 106

तैलाभिषिक्तो विकचो 12

त्रिषु लोकेषु यत् किंचित् 1

त्रिषु लोकेषु यत्किंचित् 1

त्रिषु लोकेषु यद् 31

त्रीणि ज्योतींषि पुरुष 107

त्वमेव तु महाबाहो 41

त्वमेव तु महाबाहो 78

त्वष्ट्रुपुत्रे हते पूर्वं 45

त्वामेकं कारणं कृत्वा 11

दत्तः क्रीतः कृत्रिमश्च 40

दत्त्वा तु संस्कृतं शाकं 116

दनुपुत्राः महाराज 147

दशरात्रोषितानां तु65

दशवर्षसहस्राणि145

दस्तालोष्टो निधात्वय 73

दानशीलो विदानश्च 180

दिवा चरेयुः कार्य्यार्थं 66

दुर्योधने सौबले च 18

दुर्योधनो मन्युमयो 18

दुष्टानामपि सत्त्वानां तथान्येषां 132

दृष्टं कश्चिन्महाव्याघ्रो 131

दृष्ट्वा च विश्वकर्माणं 1

दृष्ट्वा तु द्रौपदी 105

देवर्षयस्तथान्ये च112

देवर्षिर्लोमशो दृष्टस्ततः 112

देवस्थलीं च राजेन्द्रं 131

द्यूतप्रियश्च कौन्तेयो 5

द्यूतमेव पुरा कल्पे6

द्यूते क्षत्तः कलहो 102

द्यूते क्षत्तः कलहो विद्यते नः 6

द्रुपदस्य सुता चाहं ध्रुष्टद्युम्नस्य 110

द्रौपद्या यः समासीनमन्योन्यं 0

द्वापरे द्वापरे4

धनंजयो वासुदेवो 5

धनुर्वेदे गतः पारं 50

धन्यं यशस्यमायुष्यं 15

धर्म एव हतो हन्ति 6

धर्मशास्त्रमिदं15

धर्मार्थकाममोक्षाणां14

धर्मार्थकाममोक्षार्थैः10

धर्मार्थयुतानि शात्राणि 6

धर्मे चार्थे च कामे च 25

धाता मित्रः आर्यमा 121

धाता मित्रोऽर्यमाश्शक्रो 154

धाता मित्रोर्यमा शक्रो 114

धार्यते हि त्वया ग्रन्थं 24

धूमच्छायाह्यभजतां नेत्रे 170

धृतराष्ट्र कुले कृष्ण 14

धृतराष्ट्रस्य तं 5

न चाप्ययं त्वया लभ्या 166

न चास्मि पोषणे शक्तो 113

न पिता न च मे माता 163

न प्रवक्ष्यामि परुषं भ्रात्रूनन्यांश्च 8

न संस्वेदो न दौर्गन्ध्यं 110

न हि मानं प्रशंशन्तिनिकृतौ 7

न हृष्यात्मसम्माने 188

नदीजलंकेश वनारिकेतु181

नरनारायणावेतौ48

नरो नामैष पुरुषः 15

ना कामः कामयत्यर्थं 138

नाक्षान् क्षिपति गाण्डीवं 176

नाक्षैः क्रीडेत्कदाचित्तु 6

नानात्मवन्तस्तु वने चरन्ति 136

नाप्राप्यमभिवाञ्छन्ति नष्टं 187

नायकस्य महाराज 11

निकृतिर्देवनं पापं 7

नित्योत्थितः शुचिः 21

निरुक्तमस्य यो 24

निर्देशाद् भवतः 112

निवर्त तुष्टोऽस्मि तवानया 137

निषादी पञ्चपुत्रा तु 66

निषेवते प्रशस्तानि 186

नैते युधि पराजेतुं शक्या 5

नोक्तपूर्वं मया मिथ्या 33

न्यायशिक्षा चिकित्सा 7

पञ्चविंशोप्रकृतित्यात्मा123

परदाराऽस्मि भद्रं ते 166,16

परहस्तगतां नारीं 125

पराशरात्मजो विद्वान् 6

पराशरेण संयुक्ता 83

पर्जन्योऽश्वयुजि त्वष्टा 114

पर्थौ गृहीत्वा पाणिभ्यां 67

पश्य चैतान् सुरगणान् 154

पाण्डवाः धृतराष्ट्रेण 55

पायसं पद्मपत्रे च 130

पितामहवचः श्रुत्वा 12

पितामहाद् वै प्रवदन्ति 8

पितृभिर्भातृभिश्चैताः111

पुत्रस्ते निर्मितः शुभ्रूः 157

पुनःशर्करया तच्च 52

पुरा त्वं तपसास्माभिरलब्धो 8

पुरासृष्टानि भूतानि 113

पुरास्त्रमिदमाग्नेयं75

पुरुषस्य दर्शनार्थं कैवल्यार्थं 122

पुरोचनभयादेव 62

पुरोहितमते तिष्ठेद् 76

पुरोहितमुपागम्य113

पुष्पितो मध्विव रसः 138

प्रजापतिस्तु तानाह 16

प्रणयं प्रतिसंहृत्य 120

प्रत्यक्षेणानुमित्या12

प्रमदानां नृपाणां च 3

प्रवृत्तचक्रः पापोऽसौ

प्रारभ्यते न खलु 188

प्राहुः क्षत्रं बलज्येष्ठं 46

प्रियया सह संवासं 43

फलमूलामिषं शाकं 116

बध्यांश्च हन्युः सततं 66

बभूवात्र महामयी 143

बाहुयुद्धमभीप्सन्तः180

ब्रह्मचर्येण या विद्या 185

भगस्य विपुले नेत्रे 122

भरद्वाजादग्निवेश75

भवतो भ्रातरः शूराः 58

भस्मना शुद्ध्यते कांस्यं 10

भारं स वहते तस्य 24

भारतं भानुमानिन्दुः 6

भिद्यते हृदयग्रन्थिः 24

भिद्यते हृदयग्रन्थिश्च्छिद्यन्ते 28

भुंक्त एव तु कौन्तेयो 53

भूतस्थानानि सर्वाणि 6

मदास्यव्यतिरिक्तानामस्माकं15

मदास्यव्यतिषिक्तानामस्माकं15

मन्वन्तरे सप्तमेऽत्र 4

मन्वन्तरेषु सर्वेषु 4

मानवे वैषवे 112

मानुषं विग्रहं कृत्वा 110

मुसलेनैव संस्कारः 144

मूर्च्छितः नैव विकलः 146

मृषा मिथ्या च 37

य एष मन्युजस्तेऽग्नि76

यः एष दिवि धिष्ण्येन 68

यः पूरयन् कीचकरन्ध्रमाणान् 168

यच्च भूतं भविष्यं 50

यत् तत् तदा महद् 2

यत्र चैवोद्यते शब्दस्तं 52

यत्र नार्यस्तु पूज्यन्ते 111

यथा च तन्नपश्येरन् 55

यथा च पुष्करस्याक्षाः 175

यदि दास्यामि ते देव 160

यदृच्छया प्रवृत्तानि 3

यमाहुर्वेदविद्वांसो31

यमाहुर्वेदविद्वांसो 161

यमाहुर्वेदविद्वासो2

यश्चायं प्लवते लोकास्तनुभिः 85

यस्मादुत्तार्यते पापात् 132

यस्मिन्निदं भीमस्तु 87

यस्य कृत्यं न जानन्ति 187

यस्य प्रतीतिमाधातुं 137

यां त्वमेतां श्रियं दृष्ट्वा 106

यामेतामतुलां लक्ष्मीं 106

युधिष्ठिरं भोजयित्वा 116

युधिष्ठिरः जितःकस्मिन् 178

युधिष्ठिरो धर्ममयो 18

युधिष्ठिरो धर्ममयो महाद्रुमः10

येऽपि राजर्षयः सर्वे 11

यो हि वेदे च शास्त्रे 24

योप्यस्य वेदाश्चतुरस्तपसा 5

योप्यस्या हर्षसम्भूतो 125

रक्षामेति च तत्राद्ये 16

रक्षामेति च यैरुक्तं 16

रजसा शुद्ध्यते नारी 10

राजन्या राजकन्या33

राजन्या राजकन्या11

रावणोऽपि पुरीं गत्वा 128

लक्षध्वमपिचात्मानं181

लक्ष्यस्थाने न्यसेत् 52

लाभं लब्धुमलब्धं 76

लोकपालोपमान् वीरान् पुनः 120

लोकानावृत्य यशसा 11

वयं मृगाः द्वैतवने 58

वराणामीश्वरो व्यासः 36

वर्मणा कुण्डलाभ्यां 161

वशिष्ठोऽस्मि वरिष्ठोऽस्मि 71

वह्निपरीक्षाकाले च127

वाक्याभिप्राय तत्त्वज्ञो 3

वामपादाग्रगःशौरी37

वासांसि च शुभान्यस्मै 106

विजेतेऽयं महीं कृत्स्नां 11

विण्मूत्रकृमिपक्वाम्ल80

विद्युतो ज्योतिः परि संजिहानं 72

विद्वान्विपश्चिद्दोषज्ञः57

विनायको विघ्नराज 8

विरतास्वभिधाद्यासु ययार्थो 137

विवश्वतो वै देवस्य 68

विवेश विदुरो धीमान् 10

विश्वभुक् भूतधामा च 47

विश्वभुक् भूतधामा च 54

विश्वस्तवदविश्वस्ताः 62

विश्वावसूग्रसेनौ च 155

विस्तरेणैतदिच्छामि104

विस्तीर्यैतन्महज्ज्ञानमृषिः25

वृथापाकेन राजर्षेरयराधः 112

वेदोऽखिलो धर्ममूलं 12

वैकुण्ठेऽहं महालक्ष्मी 132

वैरं तयोः कथं भूतं 158

वैष्णवी कृष्णभक्ता च 11

व्यनदत् स महानादं 162

व्यासं वसिष्ठ नप्तारं 3

व्यासः सत्यवतीसूनुः 4

व्यासोऽप्युवाच तं20

शंकरश्च पुरा द्यूतं 100

शंकरश्च भवानी च 101

शणसर्जरसं व्यक्तमानीय 60

शणसर्जरसादीनि यानि 5

शतपर्वा यवफलो 168

शणं तैलं घृतं चैव 55

शाकं सुसंस्कृतं कृत्वा 117

शिक्षेत्यादिश्रुतेरङ्गमोङ्कारप्रणवौ13

शिल्पिभिः सुकृतं 60

शोचन्ति जामयो यत्र 111

श्यामा पद्मपलाशाक्षी 13

श्रुङ्गारहास्यकरुण17

श्रुणु पुत्र प्रवक्ष्यामि 142

श्रुत्वैतत् प्राह विघ्नेशो 20

श्रेयस्तैलं हि पिण्याकाद् 138

स त्वं रासभयुक्तेन 55

स तत्रापि रक्षांसि77

स हि भूतं भविष्यच्च 50

स हि सर्वास्त्रसंपन्नो 166

संयुक्ता सा हि 46

संस्थाप्य मृण्मये पात्रे 72

सकीचकैर्मारुतपूर्णरन्ध्रैः 168

सत्रे ह जाताविषिता नमोभिः 72

सदा च तत्र पर्जन्यः 180

सप्तम्यां सोपवासस्तु 116

सप्तम्यामथवा षष्ठ्यां 116

समः शत्रौ च मित्रे च 188

समक्षं तस्य देवर्षे0

समग्रं संशितात्मानं 156

समप्राणबलाः नित्यं 180

सर्गबन्धो महाकाव्यमुच्यते

सर्वज्ञोऽपि गणोशो 2

सर्वज्ञोऽपि गणोशो 21

सर्वदेशाक्षराभिज्ञः 2

सर्वराक्षससत्राय 77

सर्वे च नियतात्मानो 17

सर्व्वे क्रीडार्थमायाता 147

सा च च्छाया हृता 127

सा तमग्निसमं 76

सा नियुक्ता पितुर्गेहे 156

सा पीत्वा मदिरां 66

सा प्रयत्नेन महता 1

साध्वि त्वं पञ्चधा 11

सीतां गृहीत्वा प्रययौ 127

सुखोषितास्ते रजनी प्रातः 100

सुतं त्वजनयच्छक्तरदृश्यन्ती 6

सुता द्रुपदराजस्य 117

सुन्दोपसुन्दावसुरौ31

सुन्दोपसुन्दावसुरौ 3

सेयं तव करप्राप्ता 161

सोऽपि कर्ण तथा जातः 12

स्त्रीशुद्रद्विजबन्धूनां4

स्त्रीशूद्रद्विजबन्धूनां13

स्वयं जातः प्रणीतश्च 40

स्वर्गतिं चैव गच्छति 17

स्वाध्यायं श्रावयेद् पित्रै 13

हस्तेन मुमृजे चैव 170

क्ष

क्षत्रियोधनुमाश्रित्य 178

क्षयाय धार्तराष्ट्राणां 178


ग्रन्थिश्लोकानुक्रमणिका

1 * अष्टौ श्लोकसहस्राणि 35

2 * अथ कन्याप्रदानेन 134

3 * अथर्क्ष्यपुत्रः कौन्तेय 68

4 * अथावमृद्नादङ्गुष्ठमङ्गुष्ठेन 171

5 * अनाप्तैर्दत्तमादत्ते नरः 62

6 * अनुसंवत्सरं जाता 85

7 * अन्धकारेऽरर्जुनायान्नं51

8 * अपज्यं क्रियतां चापं 4

9 * अप्रार्थनीयामिह मां164

10 * अमृतादुत्थितं दिव्यं 157

11 * अलोहं निशितं शस्त्रं 5

12 * आचार्ययोनिमिह यो प्रविश्य 184

13 * आजगाम ततो देवो 41

14 * आत्मकीये वरारोहे 78

15 * आलोकयसि किं वृक्षं 167

16 * इत्युक्तः कौरवो राजा 83, 84

17 * एकस्य धर्मेण सतां मतेन सर्वे 135

18 * एकं हनिष्यसि रिपुं 161

19 * एतद् यशस्यं भगदैवतं 121

20 * एते हि विबुधाः सर्वे 154

21 * कक्षघ्नः शिशिरघ्नश्च 60

22 * गान्धारराजः शकुनिर्विशाम्पते103

23 * क्षिप्रं विजानाति चिरं 186

24 * चरन् मार्गान् विजानाति 67

25 * जगाम तेषां सा रात्रिः

26 * जगाम मनसा चैव 70

27 * जानामि ते भयं शक्र 146

28 * ततः कृत्याथ संजज्ञे 141

29 * ततस्तमागतो वायुः 46

30 * तथेत्युक्त्वा तु तां कुन्तीमाविवेश 155

31 * तन्नोज्योतिरभिहतं 108

32 * तपसाऽराध्य वरदं 6

33 * तां समासाद्य तु देवस्तु 153

34 * त्रिषु लोकेषु यत् किंचित् 2

35 * नाक्षान् क्षिपति गाण्डीवं 173

36 * नाचक्षुर्वेत्ति पन्थानं 61

37 * नीतिमन्तं महात्मानं 84

38 * नदीजलंकेश वनारिकेतु181

39 * नैष देवान् न गन्धर्वान् 178

40 * पुरासृष्टानि भूतानि 113

41 * प्राज्ञः प्राज्ञप्रलापज्ञः 56

42 * भुंक्त एव तु कौन्तयो 53

43 * मदास्यव्यतिषिक्तानामस्माकं15

44 * मन्वादि भारतं केचिदास्तीकादि 37

45 * य एष दिवि धिष्ण्येन 6

46 * यमाहुर्वेदविद्वांसो161

47 * यो जानाति परप्रज्ञां 58

48 * योप्यस्या हर्षसंभूतो 125

49 * राजन्या राजकन्याश्च11

50 * रुदती रुधिरार्द्राङ्गी 130

51 * विवश्वतो वै देवस्य 6

52 * विहस्य तां ततो 41

53 * सहस्रासुं ततो विप्रः 6