भारततात्पर्यसंग्रहः

[[भारततात्पर्यसंग्रहः Source: EB]]

[

<MISSING_FIG href="../books_images/U-IMG-1702531190ddddddddd.png"/>

॥ श्रीः ॥
॥ श्रीभारतसारसंग्रहस्तोत्रम् \।\।

अथ श्रीमहाभारतस्य शिवपारम्यप्रख्यापनपरतामाविष्कर्तुं कृतस्य स्तोत्रस्यायमाद्यः श्लोकः—

श्रीबादरायणमुनिः स्वयमेव विष्णुः
पार्थच्छलात्तमधिकृत्य कृते प्रबन्धे ।
तस्यापि नित्यमहितं शशिभूषण त्वा
माम्रेडयन्गुरुरदर्शयदादितत्त्वम् ॥१ ॥

श्रीबादरायणनामा प्रसिद्धो मुनिः स्वयमेव विष्णुः,‘कृष्णद्वैपायनं व्यासं विद्धि नारायणं स्वयम् । को ह्यन्यःपुण्डरीकाक्षान्महाभारतकद्भवेत् ॥’ इति सूतवचनात् ।च महाभारताख्यं प्रबन्धं पार्थचरितवर्णनात्मकं तदनुषक्तश्री-

कृष्णचरितान्तर्गत तन्माहात्म्यवर्णनात्मकं चनिर्ममे, ‘वासुदेवस्य माहात्म्यं पाण्डवानां च सत्यताम्। दुष्टतां धार्राष्ट्राणामुक्तवान्भगवानृषिः ॥ इति वचनात्। अत्र चप्रबन्धे पार्थानां नायकीकरणं व्याजमात्रम्। तत्संरक्षण-जागरूकश्रीकृष्णमाहात्म्यवर्णनात्मकमेव तत्प्रवृत्तम् तद्वाहुल्यात्तदधीनत्वाच्चपार्थानां राज्यलाभस्य, भारतस्यादौ ‘नमोभगवते तस्मै व्यासायामिततेजसे। यस्य प्रसादाद्वक्ष्यामिनारायणकथामिमाम् ॥’ इति श्रीसूतवचने श्रीमहाभारतस्यनारायणकथेत्येव व्यवहृतत्वाच्च।एवंभूतं श्रीमहाभारतं कुर्वाणः सर्वेषां ब्रह्मविदां गुरुर्भगवान्व्यासःश्रीकृष्णमाहात्म्यवर्णनद्वारा शिव एव परं ब्रह्मेति शिष्येभ्यः परं तत्वं दर्शयामास।किं कुर्वन् ? तस्य श्रीकृष्णस्यापि नित्यमहितं नित्यपूजितम् तेनापि कृष्णेन कृष्णावताररूपेण प्राक्परिगृहीतैःपूर्वपूर्वरूपैः परवासुदेवात्मकमूलरूपेण च सदा पूज्यमानमितियावत्। एवंभूतं शिवमाम्रेडयन्पुनः पुनः कथयन्सन्। प्रायःसर्वत्रापि हि महाभारते श्रीकृष्णस्य शिवपूजानिष्ठत्वं तत्प्रमादलब्धसकलप्रभाववत्त्वं च वर्ण्यते। तत्र तावत्सौप्तिकेऽअत्थामानं प्रति शिववचनम् – ‘सत्यशौचार्जवत्यागैस्तथानियमेन च। क्षान्त्या भक्त्या च धृत्या च कर्मणा मनसा

गिरा॥ अहं यद्भवताराध्यः कृष्णेनाक्लिष्ट कर्मणातस्मादिष्टतमः कृष्णादन्यो मम न विद्यते॥’ इति ; आदिपर्वणिच सुभद्रापरिणयप्रस्तावे समुद्रमध्ये क्वचिद्वीपविशेषे कृष्णेनशिवस्य पूजार्थं प्रवर्तितो महोत्सवः प्रपञ्चितः ; उपमन्यूपदेशेन श्रीकृष्णम्यापि द्वादशाब्दावधि पाशुपतत्रतानुष्ठानपूर्वकं शिवाराधनमानुशासनिके पर्वणि प्रपञ्चेन प्रतिपादितंसुप्रसिद्धम; भारतशेषे च हरिवंशे पार्थचरितं विहाय कृष्णचरितमेव निबन्द्धुंकृते, पारिजातसंहितायां कैलासयात्रायामन्यत्र च तत्र तत्र पूजास्तुतितपोभिः कृष्णेन शिवप्रीणनमेव कृतमिति प्रपञ्चेनवर्णितम् ; द्रोणपर्वणि द्रोणवधानन्तरं क्रोधेन स्वप्रहितं कृष्णार्जुनयोर्वितथीभूतमाग्नेयास्त्रं दृष्ट्वाव्रीडया धिग्धिगिति शस्त्रं परित्यज्य दक्षिणां दिशं प्रस्थितमश्वत्थामानं प्रति मार्गे समागतस्य श्रीवेदव्यासस्य तद्व्रीडापनयनार्थ वचनम्—’ देवदेवस्त्वचिन्त्यात्मा अजेयो विष्णुरव्ययः । सर्वरूपं भवं ज्ञात्वा लिङ्गेऽयति यः प्रभुम्॥तस्मिन्नभ्यधिकां प्रीतिं करोति वृषभध्वजः॥’ इति ; तत्रैवकृष्णार्जुनौ पूर्वं नरनारायणावृषी, ताभ्यां च लिङ्गेऽर्चनयाषष्टिंवर्षसहस्राणि शिवमाराधितवद्भ्यांशिवेनातुलबलवीर्यपराक्रमादयो बहवो वरा दत्ता इति वेदव्यासेन कथिते

अहं किं न शिवपूजक इति कृतानुयोगमश्वत्थामानं प्रतितस्यैव वचनम् — ’ जन्मकर्मतपोयोगास्तयोस्तव च पुष्कलाः। ताभ्यां लिङ्गेऽर्चितो देवस्त्वयार्चायां युगे युगे ॥“इति; इदं च मैनाके श्रीकृष्णस्य तपश्चरणं बहुवरलाभश्चेत्युभ्यं पारिजातजिहीर्षया शिवं संपूज्य स्तुवन्कृष्णःशिवेनैव स्मारितः इति संस्तूवमानस्तु भगवान्गोवृषध्वजः। प्रसार्य दक्षिणं बाहुं वासुदेवमथाब्रवीत् ॥ मनीषितानामर्थानां प्राप्तिस्तेऽस्तु सुरोत्तम। पारिजातं च हर्तासि माभूत्ते मनसो व्यथा ॥ पुरा मैनाकमाश्रित्य तपस्त्वमकरोर्यदा।तदा मम बचःकृष्ण संस्मृत्य स्थैर्यमाप्नुहि।\। अवध्यस्त्वमजेयस्त्वंमत्तः शूरतरस्तथा। भवितासीत्यवोचं यत्तत्तथा न तदन्यथा.. ’ इति। एवं श्रीकृष्णस्य स्वरूपपूर्वगृहीतरूपैः कृते शिवाराधनेऽनेकानि वचनान्युदाहृतानि। तस्य मूलरूपेण कृतं शिवाराधनंततो वरलाभश्चेत्युभयमारण्यपर्वणितीर्थयात्राविधौ दर्शितम— ‘ततोऽगच्छत्सुपर्णाख्यं त्रिषु लोकेषु विश्रुतम्। यत्रविष्णुःप्रसादार्थं शिवमाराधयन्पुरा। बरांश्च सुबहूल्ँलेभे देवैरपि सुदुर्लभान्। दत्तांश्च त्रिपुरघ्नेन परितुष्टेन भारत॥अपिचान्यैःप्रियतमो लोके कृष्ण भविष्यसि। त्वन्मुखं च जगत्सर्व भविष्यति न संशयः॥’ इति। अन्यैः प्राचीनत्व-

च्चरितेभ्योऽन्यैर्मद्वरदानलब्धसामर्थ्येनकरिष्यमाणैर्देवमनुष्यादिकण्टकासुरराक्षसाविवधैर्लोके भूम्यन्तरिक्षस्वर्गादौ सर्वत्र प्रियतमो देवमनुष्यादीनां प्रीतिविषयो भविष्यसि, अतएव जगत्सर्वं त्वन्मुखं त्वत्प्रधानं च भविष्यतीत्यर्थः। एवंदेवादिकण्टकवधेन भावितस्य दोषस्य प्रायश्चित्तमपि शिवाराधनरूपमेव भगवता कृतमिति तीर्थयात्राविधाने पठ्यते—तीर्थं कुरु कुलश्रेष्ठ त्रिषु लोकेषु विश्रुतम्। प्रभीतिनाम्नाविख्यातं सर्वपापविमोचनम्॥यत्र ब्रह्मादयो देवा महेश्वरमुपासते। तल स्नात्वार्चयित्वा च रुद्रं देवगणेश्वरम्।जन्मप्रभृति पापानि कृतानि तुदते नरः॥देवी यत्र नरश्रेष्ठसर्वदेवैरभिष्टुता। तत्र स्नात्वा नरश्रेष्ठ हयमेधमवाप्नुयात्॥ इष्ट्वायज्ञं महाप्राज्ञ विष्णुना प्रभविष्णुना। पुरा शौचं कृतं राजन्हत्वादैवतकण्टकान्।\।’ इति। अत्र शौचशब्देन शिवाराधनमेवप्रायश्चित्तमुक्तम्, ‘यत्र ब्रह्मादयो देवा महेश्वरमुपासते’ इति संनिधानपाठात्। तीर्थयात्रा विधावेव नारायणादिसहितस्य हिरण्यगर्भस्य शिवभक्ताराधनोक्त्या कैमुतिकन्यायेन शिवाराधकत्वमपि नारायणस्य विभावितम्। ‘ततो गच्छेत राजेन्द्रतीर्थे शतसहस्रकम्। सहस्रकं च तत्रैव द्वे तीर्थे लोकविश्रुते॥उभयोर्हि नरः स्नात्वा गोसहस्रफलं लभेत्॥ अत्र

ब्रह्मा स्वयं नित्यं देवैः सह महीपते\। अन्वास्यते कुरुश्रेष्ठनारायणपुरोगमैः\।\। सांनिष्यं तत्र राजेन्द्र रुद्रपत्न्याः कुरूद्वह\। अर्चयित्वा तु तां देवीं न दुर्गतिमवाप्नुयात्\।\।’ इति\।अत्र क्षेत्रे देवीसांनिध्यस्य तदर्चनतत्फलयोश्च वचनेन संभूयस्थितैर्नारायणादिभिर्देवैरन्वास्यमानस्य ब्रह्मणो वा स्थानंदेव्याराधनार्थमित्याशय उन्नीयते\। आनुशासनिके च ‘यस्यब्रह्मा च विष्णुश्च त्वं च शक्र महामरैः\। अर्चयध्वे सदालिङ्गं तस्मात्पूज्यतरो हि कः\।\।’ इत्युपमन्युवचनेन ब्रह्मविष्ण्वादीनां नित्यमेव शिवाराधकत्वं स्पष्टीकृतम्\। एवंसौप्तिकादिष्ववताररूपस्य श्रीकृष्णस्य शिवपूजनेन सकलबरलाभोक्त्या भारते साक्षात्प्रतिपादितनिरतिशयप्रभावशालिनःसाक्षात्परब्रह्मेति संभाव्यमानात्ततोऽपि तत्पूज्यस्य शिवस्य यत्पारम्यं व्यञ्जनावृत्त्या प्रतीयते तदेवश्रीमहाभारतस्य वाच्यनारायण-चरितद्वारा व्यज्यमानं श्रीमहाभारतस्य प्रधानं प्रतिपाद्यम्\। श्रीमहाभारतं हि महदत्युत्कृष्टं काव्यम्, ‘कृतं मयेदं भगवन्काव्यं परमम्’ इतिब्रह्माणं प्रति व्यासवचनात्\।ब्रह्मणा च त्वया च काव्यमित्युक्तं तस्मात्काव्यं भविष्यति’ इत्युक्त्वा काव्यस्य स्वतः कीदृक्काव्यत्वमाशास्यत इत्याकाङ्क्षायाम् अस्य काव्यस्य

कवयो न समर्था विशेषणे । विशेषणे गृहस्थस्य शेषास्त्रयइवाश्रमाः \।\।’ इति । तदनन्तरमेतदतिशायि काव्यं कोऽपिन करिष्यतीत्यस्यैव यत्सर्वातिशायिकाव्यत्वं तदाज्ञास्यतइति विभावनाच्च । ’ सर्वेषां कविमुख्याना-मुपजीव्यो भविष्यति । पर्जन्य इव भूतानामक्षयो भारतद्रुमः ॥ ’ इति तदनन्तरं भारतस्य करिष्यमाणसर्व-काव्योपजीव्यत्ववचनाच्च ।अस्योत्कृष्टस्य चोत्तमकाव्यस्य वाच्यातिशायि यद्व्यङ्ग्यमस्तितदेव प्रधानं न तु वाच्यम् \। यथाहुः – ‘प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महाकवीनाम् । यत्तत्प्रसिद्धावयवातिरिक्तमाभाति लावण्यमिवाङ्गनासु ॥” इति । इह तुवाच्यः परब्रह्मत्वसंभावनावहो नारायणस्य निरतिशयमहिमा ।तस्यापि पूज्यतया सर्वत्र निबद्धस्य शिवस्य तदतिशायिसगुणपरब्रह्मभावरूपो महिमा व्यज्यमानः । अयमेववस्तुध्वनिरूपः । स हि तत्र व्यज्यमानैर्भावरसालंकारध्वनिभिरुपस्कृतःप्रधानतया प्रबन्द्धुराशयस्थित उन्नीयत इतिभावः ॥ १ ॥
अथ विधान्तरेणापि भारते शिवस्य परब्रह्मभावाभिव्यक्तिमाविष्करोति —

मोहाभिभूतमखिलं जगदाविरिश्चं
त्वामेकमेव भगवन्रहितं च तेन।
विख्याप्यमङ्कणकदिव्यकथानुषक्त्त्या
त्वां ब्रह्म तेन च मुनिः स्फुटयांबभूव \।\।

आरण्यपर्वणि तीर्थयात्राविधौ सप्तसारस्वततीर्थप्रसङ्गे’यत्र मङ्कणकःसिद्धः–’ इत्युपक्रम्य दर्भक्षतात्तस्य करतः
शाकरसस्रुतिमुक्त्वा पठितम् — ‘स वै शाकरसं दृष्ट्वा हर्षाबिष्टो महातपाः। प्रनृत्तः किल विप्रर्षिर्विस्मयोत्फुल्ललोचनः॥ततस्तस्मिन्प्रवृत्ते वै स्थावरं जङ्गमं च यत्। प्रनृत्तमुभयंवीर तेजसा तस्य मोहितम्॥ ब्रह्मादिभिः सुरै राजन्नृषिभिश्चतपोधनैः। विज्ञप्तो वै महातेजा ऋषेरर्थे नराधिप॥ यया न नृत्यते विप्रस्तथा त्वं कर्तुमर्हसि॥ ततः प्रनृत्तमासाद्यहर्षाविष्टेन चेतसा \। सुराणां हितकामार्थमृषिं देवोऽभ्यभाषत॥ विभो महर्षे धर्मज्ञ किमर्थं नृत्यते भवान् \।हर्षस्थानं किमर्थं वा तवाद्य मुनिपुंगव॥ ऋषिः—‘किं नपश्यसि मे देव कराच्छाकरसस्रुतम्। यद्दृष्ट्वाहं प्रनृत्तो वै हर्षेणमहतान्वितः॥’ ‘तं प्रहस्याब्रवीद्देवो मुनिं रागेण मोहितम्।अहं वै विस्मयं विप्र दर्शयाम्यत्र पश्य माम्॥ एवमुक्त्वानरश्रेष्ठ महादेवेन वै तदा। अङ्गुष्ठाग्रेण राजेन्द्र स्वाङ्गुलि-

स्ताडिताभवत्। ततो भस्म क्षताद्वाजन्निर्गतं हिमसंनिभम्।तदृष्ट्वा व्रीडितो राजन्स मुनिः पादयोर्गतः \।\।’ इति। अत्रब्रह्मादिस्थावरान्तस्य सकलस्य जगतो मङ्कणकनृत्तेन मोहउक्तः। मोहवन्मङ्कणकवशान्नृत्यतां ब्रह्मादीनां प्रार्थनयाशिवेन मकुणकनृत्यस्य विरामःकारित इत्युक्त्वा शिवस्यब्रह्मादिवन्मोहो नास्तीति व्यञ्जितम्। अन्यथा स्वयं ततोमोहवशं गतस्य तद्विरामकरणसामर्थ्यासंभवेन शिवं प्रतिदेवानां तद्विरामकरणप्रार्थनानुपपत्तेर्देवाः सर्वे मोहवशं गताब्रह्मैकं मोहानाभभूतमिति सर्वंसंप्रतिपन्नम्। अहो मोहतदभावकृताद्विशेषादेवाः सर्वे जीवाःशिव एव परंब्रह्मेति वेदव्यासो विभावयामासेत्यर्थः॥ २॥

अत्र स्वदृढगमकत्वेन वाक्यशेषलब्धमर्थं गृह्णाति—

तस्माच्च मोहतद्भावकृताद्विशेषा-
ज्जन्मस्थितिप्रलयभागखिलं त्वदन्यत्।
तत्कर्तृ वस्तु परमं त्वमिति प्रबोधं
जातं विभावयति तस्य तदीयवाचा॥

शिवस्य पादयोः प्रणिपातानन्तरमिदं मङ्कणकवचनंपठितम् — ‘नान्यं देवमहं मन्ये रुद्रात्परतरं महत्। सुरा-

सुरस्य जगतो गतिस्त्वमसि शूलधृक्॥ त्वया सृष्टमिदं सर्वंत्रैलोक्यं सचराचरम् \। त्वामेव भगवन्सर्वे प्रविशन्ति युगक्षये \।\। देवैरपि न शक्यन्ते परं ज्ञातुं कुतो मया। त्वयिसर्वेऽपि दृश्यन्ते सुरा ब्रह्मादयोऽनघ \।\। सर्वस्त्वमसि लोकानां कर्ता कारयिता च ह \। त्वत्प्रसादात्सुराः सर्वे निवसन्त्यकुतोभयाः॥’ इति। अत्र शिवस्य सकलजगत्स-र्गप्रलयावधि सार्वात्म्याक्त्या शिव एव परं ब्रह्मेति निश्चिकाय मकुणक इत्युनीयते। तन्निश्चयश्च न भस्मनिर्गमन-कृतः, शाकरसनिर्गमनवद्विस्मयहेत्वार्षवृत्तत्वेनान्यथासिद्धेः।किं तु मम नृत्तं दृष्ट्वा सर्वस्मिन्नपिजगत्या-हिरण्यगर्भंमोहिते नृत्यत्यपि शिवोमोहराहित्यान्नृत्यरहित एव स्वयंमत्समीपमागत्य मन्नृत्योपरतिमची- करादित्येव शिवस्य मोहाभावनिश्चयः कृतः। अतो मङ्कणकवचनमुखेनापि शिवएव परं ब्रह्मेति विभावयामासेत्यर्थः।अत्र पूर्वश्लोकप्रकृतोमुनिः कर्ता। एवं मङ्कणककथोदाहरणेन शिवस्य परब्रह्मभावाभिव्यक्ति-राविष्कृता \।\। ३ \।\।
क्वचित्कृष्णवृत्तान्तोदाहरणेनापि तामाविष्करोति—

कैलासशैलशिखरे हरिपार्थदृष्टं
त्वां ब्रह्म नाथ परमं समुदीर्य साक्षात्।

तल्लक्षणं त्वयमनन्यतदीयधर्म-
कियच्च भवति स्फुटमाचचक्षे ।

कृष्णार्जुनौ पाशुपतास्त्रसंधानप्रकारविशेषजिज्ञासया यदाकैलासं गतौ तदा तन्महिमवर्णनमेवं कविनाकृतम् – संस्तूय मां स्तवैर्दिव्यैर्ऋषिभिर्ब्रह्मवादिभिः । गोप्तारं सर्वलोकानामिष्ट्वास वरमच्युतम् ॥ वासुदेवस्तु तं दृष्ट्वा जगाम शिरसाक्षितिम् । पार्थेन सह धर्मात्मा गृह्णन्ब्रह्म सनातनम् ॥ लोकादिविश्वकर्माणमृषिमीशानमव्ययम् \। तमसः परमं ज्योतिःखवायुज्योतिषां गतिम् ॥ स्रष्टारं वारिवाराणां भुवश्च प्रकृतिंपराम् । देवदानवयक्षाणां मनुष्याणां च शासकम् \।\। योगिनां परमं ब्रह्म व्यक्तं वेदविदां निधिम् । परापरस्य स्रष्टारंप्रतिहर्तारमेव च \।\। कालकेयं महात्मानं शक्रसूर्यगुणोदयम् ।ववन्दतुस्तथा कृष्णौ वाङ्मनोबुद्धिकर्मभिः ॥ यं प्रपश्यन्तिविद्वांसः सूक्ष्माध्यात्मनिदर्शनात् । तमजं कारणात्मानं जग्मतुः शरणं भवम् ॥’ इति । अत्र’ योगिनां परमं ब्रह्म’इति कण्ठतः शिवस्य परब्रह्मभाव उक्तः । तदुपासनार्थ परमानन्दरूपत्वं ब्रह्मणःस्वरूपलक्षणं तत्र ‘व्यक्तं वेदविदांनिधिम्’ इत्यनेन दर्शितम् । अतिदारिद्रस्य पुरस्तादकस्मादाविर्भूतो हि महान्निधिःसाक्षात्कृतस्य निरतिशयब्रह्मानन्दस्यो-

पमानतया वक्तुमुचितः। वस्तुतस्तस्य निधेरुपमेयापेक्षयाहीनत्वेऽपि लोकदृष्ट्या तदपेक्षयाधिकाभावात् ‘आकाशवत्सर्वगतश्चनित्यः’ इतिवदुपमानतया निवेशनं युक्तमिति तदात्मतया ब्रह्मानन्दस्य निरूपणम्। तमसः परमं ज्योतिः— ’ इति श्लोकेन नित्यमुक्तस्वरूपब्रह्मधर्मप्रदर्शनपूर्वकम् ‘आत्मन आकाशः —’ इत्यादिश्रुतिसिद्धं वियदादिकारणत्वरूपं तटस्थलक्षणं तत्र दर्शितम्। अन्ये चाध्यात्मवद्दृश्यमानत्वगोप्तृत्वशासकत्वादयःपरब्रह्मधर्मा वर्णिताः। ब्रह्मसनातनमिति शिव एवोक्तः। यदि वा प्रणवः। उभयथापिपरब्रह्मरूपत्वं तद्धर्मः प्रणवार्थत्वं वा तेन दर्शितम्॥ ४॥
अथ प्रदेशान्तरेऽपि कृष्णवृत्तान्तेन तदभिव्यक्तिमाविष्करोति—

नारायणस्य सुचिरं त्वदुपासकस्य
यद्ब्रह्मभावमवदत्तव भावनाप्तम्।
यत्ते स्तुतिं तदुदितां परभावगर्भां
त्वां ब्रह्म तेन च मुनिः स्फुटयांचकार॥

द्रोणपर्वणि नारायणस्य मैनाके तपश्चर्योक्ता — ‘ऊर्ध्वबाहुर्महातेजा ज्वलनादित्यसंनिभः। षष्टिवर्षसहस्राणि तावन्त्येव शतानि च \।\। व्यशोषयत्तदात्मानं वायुभक्षोऽम्बुजे-

क्षणः। अथापरतपस्तप्त्वा द्विस्ततोऽन्यत्पुनर्महत्॥ द्यावापृथिव्योर्विवरं तेजसा समपूरयत्। स तेन तपसा तत्रब्रह्मभूतो यथा भवेत्॥’ इति। अत्र तपश्चर्याकाले शिवंध्यायतो नारायणस्य शिवोऽहं भावभावना-भावितःशिवभावएव ब्रह्मभूत इत्यनेनोक्तः, ततोऽन्यस्य तेन प्राप्यस्य ब्रह्मभावस्याभावात्। अत एव तपसा प्रसन्ने शिवे प्रत्यक्षे सतिनारायणेन बहुधा परब्रह्मधर्मैः स्तवः कृतः— ‘स जानुभ्यां महीं गत्वा कृत्वा शिरसि चाञ्जलिम्। पद्माक्षस्तंविरूपाक्षमभितुष्टाव भक्तिमान्। त्वद्भूता वैभूतकृतो वरेण्यंगोप्तारो ये भुवनस्य गोपाः। प्रवेश्य मां धरणीं ये ह्यरक्षन्पुरापुराणी तव देव दृष्टिः।\। शक्त्या लोका यथा यान्ति पृथक्त्वां ताभिश्चैक्यं संक्षये यान्ति भूयः। एवं विद्वान्प्रभवंचाप्ययं च त्वत्संभूतं तव सायुज्यमेति॥ भूतं भव्यं भावियच्चाप्यदृष्टं त्वत्संभूताः सप्त इमे हि लोकाः। भक्तं च मांभजमानं भजस्व प्रीत्या मां वै लोकपितर्महेश।\।’ इति। एवंनारायणं शिवोऽहंभावभावितशिवभावं ब्रह्मभूतशब्देनावदत्।नारायणकृतां शिवस्तुतिं च सकलप्रपञ्चसृष्टिसंहारादिरूपपर-ब्रह्मधर्मबृंहितामनुवदन्वेदव्यासः शिवस्य परब्रह्मभावं व्यजितवानित्यर्थः॥ ५॥

अथ शिवे निरुपपदब्रह्मपदप्रयोगः कृतः, तस्य परब्रह्मभावाभिव्यक्तिमाविष्करोति—

मूलं कृष्णो ब्रह्म च ब्राह्मणाश्चे-
त्यादावेवं ब्रह्मभावं महेश।
पार्थानां ते नित्यसंरक्षकस्य
व्यासस्तत्रोद्घाटग्रामास शंभो॥ ६॥

भारतोपक्रमे ’ युधिष्ठिरो धर्ममयो महान्द्रुमः स्कन्धोऽर्जुनो भीमसेनोऽस्य शाखा। माद्रीसुतौ पुष्पफले समृद्धेमूलं कृष्णो ब्रह्म च ब्राह्मणाय।\।’ इति युधिष्ठिरस्य द्रुमत्वरूपणे कृष्णवद्राह्मणवच ब्रह्मपदेनोक्तः कश्चिन्मूलत्वेन निरूपितः। कृष्णस्य ब्राह्मणानां च मूलत्वरूपणे राजभावोपगूढयुधिष्ठिरस्थितिहेतुत्वं निमित्तम्। तच्चसर्वविध-साहायकादिनातदीयराज्यप्राप्तिहेतोः श्रीकृष्णस्य सुप्रसिद्धमेव। ब्राह्मणानांतु जयाशिषा तत्प्रसिद्धम्। आरण्यपर्वण्यरण्यं प्रस्थिते युधिष्ठिरे तमनुव्रजतोऽग्निहोबादिसहितान्भोजयितुमशक्त्या निवर्तध्वमिति तेन प्रार्थितानां ब्राह्मणानाम्– ‘स्वयमाहृत्य वन्यानि अनुयास्यामहे वयम्। अनुध्यानेन जप्येन विधास्यामःशिवं तव॥’ इति वचनेन तथैवानुव्रजनेन पश्चादादित्यात्ता

म्रपात्रं लब्ध्वा तत्रापाकतः समृद्धमन्नं प्रतिलभ्य तेषां सर्वेषांभरणवचनेन प्रीयमाणानां तज्जयमा-शासानानां तेषाम् " ब्राह्मणानां सहस्राणि स्नातकानां महात्मनाम् ।दशमोक्षविदांतद्वद्यान्बिभर्ति युधिष्ठिरः ॥ इति । तदुपरितनाध्यायान्तरगतसंख्यावचनेन व्यक्तीकृतमेतद्वरदत्तेनापि । एवमेव ब्रह्मपदोक्तेनब्रह्मपदार्थेन तद्राज्यप्राप्तिकारिणा भवितव्यम् । वेदतपस्वीयद्यपि राज्यप्राप्तिहेतु-धर्मानुष्ठानप्रमितिद्वारेणापूर्वद्वारेण चतद्राज्यप्राप्तिकारी तथापि तेन मध्यपाठो नाचेतनयो-र्युक्तः,प्रायपाठविरोधात् । अतः शिव एव तत्र ब्रह्मपदेनोक्तो ज्ञायते ।तस्य हीतरापेक्षयाप्यधिकं सकलशत्रुवधद्वारा तदीय राज्यप्रातिहेतुत्वं भारत एवारण्यपर्वणि किरातार्जुनीये द्रोणपर्वणिकैलास-गमने, तत्रैव शतरुद्रीये, तत्रैव सौप्तिके पर्वणि शान्तिपर्वण्याश्वमेधिकपर्वण्यन्यत्रापि तत्र तत्र च सुप्रसिद्धानि वचनानि ब्रह्मतर्कस्तवविवरणे समुदाहृतानि द्रष्टव्यानि । एतेनब्रह्म चेति कृष्णस्यैव विशेषणमस्तीत्यप्याशङ्का निरस्ता, कृष्णादप्यधिकतरं पाण्डवसंरक्षकस्य शिवस्य मूलत्व-निरूपणेग्रहणावश्यंभावात् ॥ ६ ॥

अथ शिवस्य ब्रह्मविष्ण्वादिप्रलयकर्तृत्ववचनैरपि तस्यपरब्रह्मताभिव्यक्तिमाविष्करोति—

ब्रह्मा विष्णुः शंकरश्चेति देवाः
कर्तारो ये सर्गरक्षालयानाम्।
तेषां सृष्टिं संहृतिं च त्वदिच्छा-
धीनामूचे द्योतयन्ब्रह्मतत्वम् ॥

शिवस्य त्रिमूर्तिस्रष्टत्व मानुशासनिके प्रतिपादितम्— ‘स एष भगवानीशः सर्वतत्त्वादिरव्ययः।सर्वतत्तविधामज्ञःप्रधानपुरुषेश्वरः\।\। सोऽसृजद्दक्षिणादनाद्ब्रह्माणं लोकसंभवम्। वामपार्श्वात्ततो विष्णुं लोक-रक्षार्थमीश्वरः। युगान्ते चैव संप्राप्ते रुद्रं प्रभुमथासृजत\।\।’ इति। किं च तेषामापन्निवारणादिना तस्य शिवस्य तत्संरक्षकत्वं शान्तिपर्वणि प्रतिपादितम् — ‘यं विष्णुरिन्द्रः शंभुश्च ब्रह्मालोकपितामहः। स्तुवन्ति विविधैः स्तोत्रैर्देवदेवं महेश्वरम्।तमर्चयन्ति ये शश्वदुर्गाण्यतितरन्ति ते ॥ इति। अत्रशिवाराधनस्य दुर्गातितरण-कारणत्वोक्त्या विष्ण्वादीनां स्तोत्रमपि तदर्थमिति व्यवसायातस्तुतिभिः प्रीतस्यतस्य शिवस्यतत्संरक्षकत्वं विवक्षितमित्यवसीयते \। शिवस्य तत्संहर्तृत्वमपि शान्तिपर्वण्युक्तम् — ‘ईश्वरश्चेतनः कर्ता पुरुषःकारणःशिवः। विष्णुर्ब्रह्मा शशी सूर्यः शक्रो देवाश्च सान्वयाः ॥सृज्यते ग्रस्यते चैव तमोभूतमिदं यदा।अप्रज्ञातं जग

त्सर्व तदा ह्येको महेश्वरः ॥ ’ इति । अत्र संहाररुद्रस्यापि ग्रासो विवक्षितः, ‘तदा ह्येको महेश्वरः’ इति वाक्यशेषात् । मूलश्लोके ‘सृष्टिं संहृतिं च’ इति चकारेण रक्षासूचिता । एवं ब्रह्मविष्णुरुद्राणामपि सृष्टिस्थिति-प्रलयकर्ता,कैमुतिकन्यायेन सर्वस्य जगतः कर्तेति सिद्धेः; तत् ’ यतोवा इमानि भूतानि जायन्ते’ इत्यादि-लक्षणलक्षितं ब्रह्म शिवएवेत्यर्थात्सिध्यतीति तद्द्योतनार्थं तदुक्तवानित्यर्थः । द्योतयन्निति हेतौ शतृप्रत्ययः ॥७॥

ननु भारते क्वचित्क्वचिच्छिवस्य विरिञ्चान्नारायणाच्चापकर्षोऽपि प्रतिपादितो दृश्यते; कथं तदुपपत्तिरित्याशङ्याह—

विशालाक्षःस्थाणुर्द्रुहिणतनयः संहरणकृ
त्सरोजाक्षक्रोधप्रभव इति वैशेषिकपदम् ।
विभूतित्वज्ञप्त्यै किमपि निहितं नाथ नियतं
निकर्षोक्तिस्ताभ्यां भवत इति बुद्धिं निरसितुम्॥

सन्ति त्रिमूर्तिकारणस्य मायाधिष्ठातृसगुणब्रह्मरूपस्य श्रीसाम्बशिवस्य विभूतिविशेषरूपा रुद्राः । यथा संहार-रुद्रोलोकसृष्टयर्थं लोकरक्षार्थं च विरिञ्चात्स्वेच्छया प्रादुर्भूतस्तद-

वताररूपः, अवान्तरकल्पेषु संहारार्थं हरिकोधात्स्वेच्छयाप्रादुर्भूतश्च तदवताररूपो रुद्रः, अन्ये च नीललोहितो लोकपाल इत्यादयो रुद्राः। अत्र ब्रह्माङ्गसंभूतो रुद्रो महाभारते दर्शितः — ‘अनादिनिधनो देवश्चैतन्यादि-समन्वितः।ज्ञानानि च वशे यस्य तारकादीन्यशेषतः।\। अणिमादिगुणोपेतमैश्वर्यं न च कृत्रिमम्। सृष्ट्यर्थं ब्रह्मणः पुत्रो ललाटादुत्थितः प्रभुः॥इति। हरिक्रोधप्रभवः कौर्मे शिववचनेनदर्शितः— ‘अहं च भवतो वक्त्रात्कल्पान्ते घोररूपधृत्।शूलपाणिर्भविष्यामि क्रोधजस्तव पुत्रकः।\।’ इति। नीललोहितनामा कश्चिदुद्रो महाभारते कृष्णार्जुनयोः कैलासगमनप्रस्तावे कैलासे शिवपार्श्वस्थितो वर्णित—‘ततः पार्श्वेवृषाङ्कस्य ब्रह्मचारी व्यवर्धत। पिङ्गाक्षस्तपसा श्रेष्ठो बलवान्नीललोहितः॥’ इति। लोकपालरुद्रः प्रागुदीच्यां दिशि वसन्कूर्मपुराणे दर्शितः — ‘तत्रेशानस्य भवनं रुद्राद्यष्टतनोःशुभम्। गणेश्वरस्य विपुलं तत्रास्ते स गणैर्वृतः॥‘इति। एतेषु ब्रह्माङ्गभवस्य स्थाणुर्विशालाक्ष इति वैशेषिकनामानि। तत्र ब्रह्मणा सृष्ट्यर्थं नियुक्तस्यजरामरणरहितान्स्वात्मतुल्यानसंख्या-तान्रुद्रान्सृष्टवतः’जरामरणयुक्तान्सृजइति ब्रह्मणो वचनं श्रुत्वा ’ नैवंविधविशेषसृष्टिर्मया क्रियते’

इत्युक्तवतस्तदनन्तरं ब्रह्मणा सृष्टिव्यापाराद्व्यावर्तितस्य निर्व्यपारतयावस्थानं तत्र स्थाणुशब्दप्रवृत्तौ निमित्तं पुराणेषुदर्शितम्—‘स्वात्मजैरेव तै रुद्रैर्निवृत्तात्मा व्यतिष्ठत। स्थाणुत्वं तेन तस्यासीद्देवदेवस्य शूलिनः॥ ततः प्रभृति विश्वात्मा न प्रसूते शुभाःप्रजाः। स्थाणुवन्निश्चलो यस्मात्स्थितःस्थाणुरतः स्मृतः॥’ इति। एतस्य विशालाक्ष इति नामतु महाभारत एव राजधर्मे ब्रह्मप्रणीतं नीतिशास्त्रं प्रस्तुत्य—’ ततस्तां भगवान्नीतिं पूर्वं जग्राह शंकरः। बहुरूपो विशालाक्षः शिवः स्थाणुरुमापतिः॥ स एव सर्वभूतात्मा महादेवः सनातनः। असंख्यातसहस्राणां रुद्राणां स्थानमव्ययम्।\। युगानामायुषो ह्रासं विज्ञाय भगवाञ्शिवः। संचिक्षेप ततः शास्त्रं महार्थं ब्रह्मणा कृतम्। वैशालाक्षमितिप्रोक्तंतदिन्द्रः प्रत्यपद्यत।\।’ इति स्थाणुशब्दिते तस्मिन्विशालाक्षपदप्रयोगेण तत्कृते नीतिशास्त्रे वैशालाक्षनामकीर्तनेनच दर्शितम्। अयमेव स्थाणुविशालाक्षादिशब्दितो रुद्रो महाभारते सर्वेषु शिवचरितेषु प्रतिपाद्य इति मन्दधियां शङ्कापिशाचिका च महाभारत एव तस्य शिवोपासकेषु शिवनियम्येषु च परिगणनेन व्यावर्तिता।तत्र सभापर्वणि भीष्मपर्वणिच – ‘यत्र भूतानि संसृष्ट्वासर्वलोकान्महेश्वरः। उपास्यते ति-

ग्मतेजोवृतो भूतैः सहस्रशः॥’ इत्युपास्यस्य शिवस्य मैनाकेसंनिधानमुक्त्वा — ‘नरनारायणौ ब्रह्मा यमः स्थाणुश्चपश्चमः। उपासते यत्र परं सहस्रयुगपर्यये॥’ इति तदुपासकेषु परिगणनं कृतम। राजधर्मे — ‘भूयः स भगवान्ध्यात्वा चिरं शूलवरायुधः। तस्य तस्य निकायस्य चकारैकैकमीश्वरम्। देवानामधिपं चक्रे देवं दशशतेक्षणम्॥इत्युपक्रम्य ’ रुद्राणामपि चेशानं गोप्तारं विदधे प्रभुः।महादेवं महात्मानं विशालाक्षं सनातनम॥‘इति तस्यशिवनियम्येषु परिगणनं कृतम्। एवं च सृष्ट्यर्थं ब्रह्मललाटादुत्थितं तमभिप्रेत्य ’ ब्रह्मा सुरगुरुः स्थाणुर्मनुश्च परमेष्ठिनः’ इत्यारभ्य ‘एकविंशतिरुत्पन्नास्ते प्रजापतयः स्मृताः ‘इति प्रजापतिषु परिगणनं कृतम्। तस्यैव च ब्रह्मसभायां तदुपसर्जनतयावस्थानमादिपर्वण्युक्तम्। तत्र हि ’ तत्र विष्णुर्महादेवस्तत्राग्निर्वायुना सह। ऋषयः सर्व एवैते पितामहमुपासते॥’ इत्युक्तम्। तदपि स्थाणुविषयमिति तत्रैव ब्रह्मसदसिदेवान्प्रदक्षिणी-कुर्वाणां तिलोत्तमां परितो द्रष्टुं तेन परितो मुखचतुष्टयं सृष्टमित्यग्रविवचने स्थाणुशब्देनैव स्पष्टीकृतम् “—‘एवं चतुर्मुखः स्थाणुर्महादेवोऽभवत्पुरा’ इति। यत्तु द्रोणपर्वणि ब्रह्माणं प्रति शिववचनम् —‘भवता हि नियुक्तोऽहं

प्रजानां परिपालने’ इत्यादि, तदपि स्थाणुविषयमित्येतत्’ततो हरो जटी स्थाणुः’ इत्युपक्रमेण प्रकाशितम्। मोक्षधर्मेषु — ‘एतौ द्वौ विबुधश्रेष्ठौ प्रसादक्रोधजौ मम। मयादर्शितपन्थानौ सृष्टिसंहारकारकौ।’ इत्यादि-नारायणवचनेशिवस्य तन्नियम्यत्ववचनमपि विभूतिविषयमेतत्क्रोधजत्वविशेषणेन दर्शितम्। एवमन्यत्रापि तत्र तत्र निकर्षवचने विभूतिविषयत्वज्ञापकं ब्रह्मपुत्रत्वादिविशेषणं प्रयुक्तं द्रष्टव्यम्।एवं भारते क्वचित्कचिच्छिवनिकर्ष-वचनानां तद्विभूतिविषयत्वस्य तत्र तत्र प्रयुक्तैर्वैशेषिकपदैः सूचितत्वान्नकश्चिद्विरोधइति ॥ ८ ॥
यत्र क्वचित्क्वचिदेतादृशं वैशेषिकपदं नास्ति यथापञ्चेन्द्रोपाख्याने पञ्चेन्द्रानसुरावताररूपकर्ण-दुर्योधनादिवधार्थंमनुष्यलोके जायध्वमिति नियुक्तवतः शिवस्य नारायणोऽप्यंशेनावतीर्य तेषां साहायकं करोत्वित्यभिप्रायेण नारायणोपसमर्पणमुक्तं तत्रैवमादिषु गतिमाह—

यत्रेदृशं नास्ति विभूतिरुद्रता-
विज्ञापकं नाथ विशेषकं पदम्।
सापि स्वधर्मग्रहमानर्वैशसा-
त्सर्वेश्वरं त्वां न निकर्षगीःस्पृशेत् ॥

श्रीमहाभारते खलु श्रीसाम्बशिवस्त्रिमूर्त्युत्तीर्णस्त्रिमूर्त्यादेःकृत्स्नस्यापि चराचरस्य प्रपश्वस्य स्रष्टा पाता नियन्ता संहर्तासमाराधनीयश्च प्रतिपन्नः। भारतशेषे हरिवंशे च शकटपरिवृत्या भीतेन नन्दगोपेन कृष्णरक्षायै प्रयुक्तेकवचे— ‘विष्णुस्ते पूर्वतः पातु रुद्रो रक्षतु दक्षिणम्। ब्रह्मा चपश्चिमं पायात्स्कन्दो रक्षत्वथोत्तरम्॥ उपरिष्टात्तथा सूर्यःपात्वधश्चापि वासुकिः। पायाच्चत्वामधो वत्स शिष्टाःकाष्ठाः समीरणः॥ स्वस्तिं करोतु भगवान्पिनाकी वृषभध्वजः। गावो रक्षन्तु सर्वत्र भूमेिं पातु सदाशिवः॥‘इति ब्रह्मविष्णुरुद्रेभ्यः शिवः पर इति प्रतिपादितम्। तथाभूतं निकर्षगीः कापि न स्पृशेत्। किं तु बहुषु निकर्षवचनेषु विभूतिविषयत्वज्ञापकस्थाणु-विशालाक्षादिशब्दसत्त्वादौचित्याच्च तत्तद्विभूतिविशेषानेवावलम्बत इत्यर्थः॥ ९॥

ननु गीतासु श्रीकृष्णेन स्वस्यैव परब्रह्मभावचिह्नमधिकंमाहात्म्यं बहुधा प्रपश्चितम् तद्विरोधपरिहारःकथमित्या.
काङ्क्षायामाह—

गीतासु गूढमुदितं भवतः परत्वं
नैव स्फुटं तदत एव हि सव्यसाची।

गीतार्थमेव सहसा पुनरप्यपृच्छ-
त्तद्बोधनार्थमुदिता हरिणानुगीता ॥

आश्वमेधिके पर्वण्यनुगीतोपक्रमे — ‘विदितं ते महाबाहो संग्रामे समुपस्थिते\। माहात्म्यं देवकीपुत्र तच्च तेरूपमैश्वरम् ॥यत्तु तद्भवता प्रोक्तं तदा केशव सौहृदात्\। तत्सर्वे पुरुषव्याघ्र नष्टं मे व्यप्रचेतसः ॥ ममकौतूहलं त्वस्ति तेष्वर्थेषु पुनः पुनः\। भवांश्च द्वारकां गत्वानचिरादेव केशव \।\।’ इत्यर्जुनस्य प्रश्ने भगवतानुगीतोपदेशःकृतः\। तस्यायमनुवादः ॥ १० ॥

ननु गीतासु श्रीकृष्णेन शिवस्य पारम्यं प्रतिपादितं तदननन्तरं सम्यगर्जुनेन गृहीतमिति पुनस्तद्विषयःप्रश्नोऽयमित्युदाहृतप्रश्नाभिप्रायकथनं पूर्वश्लोककृतं न युज्यते; अर्जुनेन हि युद्धारम्भसमये त्वयोपदिष्टं तवमाहात्म्यं तदाविदितमिति खलु प्रश्नोपक्रमे पार्थेनोक्त्वा तद्विस्मृतमितिश्रीकृष्णं प्रति पुनः पृष्टमित्याशङ्कप पार्थस्य गीताश्रवणसमयेसंशयहेतुमुद्धाट्य स्वाभिमतं प्रश्नाभिप्रायमाविष्करोति—

तमेव चायं पुरुषं प्रपद्य इ-
त्युदीरितं यन्मधुकैटभद्विषा\।

तमेव सर्वान्भ्रमयन्तमीश्वरं
महाफलाप्त्यैशरणं व्रजेति यत् ॥ ११ ॥

एतेन कृष्णस्य समं मुमुक्षुणा
** स्वाराधनीयः प्रतिभासते परः।
सर्वस्य चाहं हृदि संनिविष्ट इ-**
** त्याद्यैस्तु विष्णुस्तदुदेति संशयः ॥ १२ ॥**

गीतासु ’ ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः। तमेव चार्थ पुरुषं प्रपद्ये यतः प्रवृत्तिःप्रसृता पुराणी ॥’ इति कृष्णवचनं दृश्यते। अत्र उत्तमःपुरुषस्त्वन्यःपरमात्मेत्युदाहृतः। यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥’ इति प्राज्ञ ईश्वरः पुरुष इत्युक्तःसर्वस्य प्रपदनीय इत्युक्तमपि प्रतीयते। तमेव मया शरणीकृतमीश्वरं त्वमपि शरणं भजेत्येवमर्जुनं प्रति ‘ईश्वरःसर्वभूतानां हृदेशेऽर्जुन तिष्ठति। भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया \।\। तमेव शरणं गच्छ सर्वभावेन भारत।तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् ॥’ इत्यनेनोपदिष्टमिति प्रतीयते, ’ यस्मिन्गता न निवर्तन्ति भूयः” स्थानं प्राप्स्यसि शाश्वतम्’ इति एकफलोपदेशात् ’ उत्तमः

पुरुषस्त्वन्यः-’ इति श्लोके समानाधिकरणयोःशब्दयोरेकत्र पुरुषशब्दोऽन्यत्रेश्वरशब्द इत्यनयोरैकार्थ्यप्रतीतेश्च । एवं तावत्कृष्णेन गीतासु निरतिशयमहिमशालितयोक्तस्यस्वस्यापि प्रपदनीयत्वेन वर्णितः शिष्यस्तेऽहं शाधि मांत्वां प्रपन्नम्’ इत्युक्तवन्तमर्जुनं प्रत्यपि मोक्षार्थं प्रपदनीयत्वेनोपदिष्ट ईश्वरनाम्ना पुरुषान्तरस्पर्शरहितेन धिया मानितः शिव एव परं ब्रह्मेति विवक्षित इति प्रतीयते ।गीतासु कृष्णेन सर्वकारणत्वसर्वान्तर्यामित्वादीनि बहूनिब्रह्मलिङ्गानि स्वस्मिन्वर्णितानीति स्वयमेव परं ब्रह्मेत्युपदिष्टम् । एवं कोटिद्वयोत्थानात्संशय एवात्रोचितः । न चकृत्स्नगीताश्रवणानन्तरम् ‘स्थितोऽस्मि गतसंदेहः करिष्येवचनं तव’ इत्युक्तवतोऽर्जुनस्य कथं संशय उच्यत इतिशङ्कनीयम्, तस्य स्वकीयैर्युद्धं कर्तुमुचितमनुचितं वेतिसंदेहनिवृत्त्या युद्धं करिष्य इत्येतदर्थकत्वात् । अन्यथा ‘सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज’ इति कृष्णवाक्यसमनन्तरमेव ’ स्थितोऽस्मि गतसंदेहः इत्यस्य प्रवृत्तेःत्वां शरणं व्रजेयमन्यं वेति संदेहो निवृत्तः, ‘सर्वधर्मान्परित्यज्य’ इति त्वद्वचनमेव करिष्यामीत्येतदर्थप्रतीतेः । नचेष्टापत्तिः, ‘ करिष्ये वचनं तव’ इत्युक्त्यनन्तरमध्यर्जुनस्य

यावज्जीवं शिवपूजानिष्ठत्वात्। एवं चानुगतारम्भगतार्जुनप्रश्नोपक्रमे ’ विदितं ते महाबाहो संग्रामे समुपस्थिते।माहात्म्यं देवकीपुत्र तच्चते रूपमैश्वरम् ॥’ इति गीतोपदेशेन कृष्णस्य परभावरूपं माहात्म्यं विदितमिति यदुक्तंतत्तदा न गृहीतमिति गुरुं प्रत्यभियोक्तुं पुनः प्रश्नावसरार्थंगृहीतमेव विस्मृतमिति नष्टशब्देनोक्तमिति योजनीयमितिभावः ॥ ११ ॥ १२ ॥

गीतोपदिष्टार्थानेश्चयः प्रागर्जुनस्य नासीदित्येतदुदाहृतप्रश्नोत्तरेण श्रीकृष्णवाक्येनाप्यवसीयत इत्याह—

इत्थमस्य यदि संशयो भवे-
दन्यथाग्रहणमेव वा पुनः।
नाग्रहीन्मदुपदिष्ट एष इ-
त्यग्रहं हरिरवोचदुत्तरे ॥ १३ ॥

इत्थंहि तत्रोत्तरारम्भः— ‘श्रावितस्त्वं मया गुह्यं ज्ञापितश्च सनातनम्। धर्मस्वरूपिणं पार्थ सर्वाल्ँलोकांश्चशाश्वतान् \।\। अबुद्धया यत्र गृह्णीथास्तन्मे सुमहदप्रियम्।नूनमश्रद्दधानोऽपि दुर्मेधाश्चासिपाण्डव \।\। स हि धर्मः सुपर्याप्तो ब्रह्मणः पदवेदने \।\।’ इति। अत्र गृहीतं नष्टमित्य-

र्जुनस्य वाचा गृहीतस्य विस्मृतत्वोक्किं श्रुत्वापि यत् ‘अबुद्ध्यायन्नगृह्णीथाः’ इति कृष्णेन तस्याग्रहणमेवोक्तं तस्यायमभिप्रायः—गीतोपदिष्टमर्थरहस्यं तदा ग्रहीतुमशक्त एव स्वस्मिन्नुपदेशायोग्यत्वप्रतीतिर्भवेदिति भीत्या विदितामैत्युक्त्वापुनः प्रश्नावसरार्थ नष्टमित्याह। तस्य यदि संशयो यदि वामामेवाह परं ब्रह्मोपदिशामीति तस्य मतिः, उभयथापिमदुपदिष्टार्थतत्त्वग्रहणं नास्तीति। तत्र च युद्धारम्भवैयग्य्रकृतो बुद्ध्यैकाग्र्याभावो मूलम्। तदभावे च सर्वधूर्वहे श्रीकृष्णे स्थिते मम किमर्थं वैयग्र्यमिति तद्वैयग्र्यविरोधिश्रीकृष्णविषयविश्वासरूपश्रद्धाभावः स्वयमेव सर्वधूर्वह इतिदुरहंकारकृता दुर्बुद्धिश्चमूलम् ॥ १३ ॥

एवमितः परं पुनरुपदेक्ष्यमाणार्थेऽपि तस्याग्रहणं माभूदिति कोपमभिनीय तस्य सुखबोधनार्थ चातुर्यशालिन्यै-कयैवोक्तिभङ्ग्यागीतोपदिष्टा, सर्वोऽपि परभावावेदको महिमान मदीय उक्तः, किं तु मया यः शरणीकृतो मदुपास्यश्चतदीय इति कृष्णेन व्यञ्जितमित्याह—

उक्त्वा च संशयविपर्यययोर्निरासं
चक्रे हरिश्चतुरया द्रुतमुक्तिभङ्ग्या।

शक्यं तदद्य न मया भणितुं यथोक्तं
योगाधिरूढमनसा नबहिर्दृशेति ॥ १४ ॥

‘स हि धर्मः सुपर्याप्तो ब्रह्मणःपदवेदने’ इत्येतत्पर्यन्तोक्त्यनन्तरं कृष्णस्येदं वचनम्— ‘न शक्यं तन्मया भूयस्तथा वक्तुमशेषतः । परं हि धर्म कथितं योगयुक्तेन तन्मया ॥‘इति । अत्र योगारूढेनाबहिर्मनसा मया तदा तदुक्तम्,इदानीं बहिर्मनसा मया वक्तुं न शक्यमित्युक्तिभङ्ग्यागीतोपदिष्टःसकलोऽपि महिमा न स्वकीयः किं त्वन्यदीयइति स्पष्टीकृतम्, स्वयमेव नित्यं सर्वज्ञ परं ब्रह्मेति कथनेयोगयत्नानपेक्षणात् । योगयुक्तत्वोक्त्यैव योगमार्गेण शिवाऽहंभावमास्थाय तदीयःसर्वोऽपि महिमा मदीयत्वेनोक्तइत्यपि व्यञ्जितम् । नबहिर्दृशेति नसमासः॥ १४ ॥

एवं योगं विना वक्तुं न शक्यमित्युक्त्यनन्तरमपि सौहृदस्मरणात्पुनरप्युपदेशेनास्य संशयादिकं सम्यङ्निरसनीयमित्यालोच्य केनचित्सिद्धपुरुषेण काश्यपाय प्राक्तुभ्यं मदुक्तार्थ एबोपदिष्टः, स मया श्रुतः, तमहं वक्ष्यामीति प्रतिज्ञाय काश्यपसिद्धपुरुषसंवादरूपेणेतिहासेन वैराग्यार्थं पूर्वदेहपरित्यागदेहान्तरपरिग्रहप्रकारमिह परत्र च संसारिणो दुःखबाहुल्यंवैराग्यदृढीकरणार्थभावनाविशेषान्विरक्तस्य संसारान्मोक्षो

पाययोगं चोपदिश्य ‘कञ्चिदेतत्त्वया पार्थ श्रुतमेकाग्रचेतसा । न तथापि रथस्थः किं श्रुतवानेतदेव हि ।’ इतिभगवानुपसंजहार ।तदर्थं संगृह्णाति—

अधुना तदुपास्यसंशया-
द्यपगच्छत्विति सौहृदं स्मरन् ।
इति होक्तमिह श्रुतं मये.
त्युपदेश्ये कियदाह तत्र सः ॥ १५ ॥

एवमेवोपदेशद्वारा गीतार्थे कृष्णेन स्वस्य श्रवणकर्तृत्वोक्त्या तत्प्रतिपाद्यबहिर्भावो दर्शितः ॥ १५ ॥
अथ तत्र मननकर्तृत्वोक्त्यापि तं दर्शयति—

तस्य स्थिरीकरणमात्मनि पूर्ववृत्तं
स्वस्यैव बुद्धिमनसी द्विजदम्पती च ।
कृत्वानुयोजनतदुत्तरयोरनुत्त्वा
विख्याप्य तद्विवरणं च चकार शौरिः ॥

पूर्वेतिहासकल्पनया परिनिष्पन्नमर्थजातं मनसा सर्वमालोच्येदमित्थमेवेति तस्य स्वबुद्धौ स्थिरीकरणं पूर्वं स्वेन कृतं

कयाचित्कल्पनाभङ्ग्या दर्शितवान्। सा चेयं कल्पनाभङ्गी— यत्स्वकीये बुद्धिमनसी द्विजदम्पती कल्पयित्वा ‘ब्राह्मणी ब्राह्मणं कंचिज्ज्ञानविज्ञानपारगम्। दृष्ट्वा विविक्त आसीनं भार्या भर्तारमब्रवीत्॥’ इत्यादिना ब्राह्मण्याःप्रश्नमवतार्य तदुत्तरे ब्राह्मणोक्तेप्राचीनेतिहासार्थं सर्वं निवेश्य तदवधारणानन्तरम् ‘यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञ इति कीर्तितम्। ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तद्वद॥’ इति श्लोकेन बन्धमुक्तिफलभाजःशरीरातिरिक्तस्य क्षेत्रज्ञस्य ग्रहणोपायं वदेति ब्राह्मण्याः पुनः प्रश्नान्तरमवतार्य ब्राह्मणेनोक्तस्तदुपायोऽपि दर्शितः। तदनन्तरम् ‘क्क नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः। याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥’ इत्यर्जुनेन पृष्टस्य कृष्णस्योत्तरमुपवर्णितम् ‘मनो मे ब्राह्मणं विद्धि बुद्धि मे विद्धि ब्राह्मणीम्। क्षेत्रज्ञ इति यत्रोक्तः सोऽहमेव धनंजय ॥’ इति ॥ १६ ॥

एवं भगवता कृष्णेन स्वस्य गीतोपदिष्टपरब्रह्मविषयश्रवणमननवत्त्वमुपाख्यानद्वयकल्पनेन प्रपञ्चितम् ॥ अथ तेन स्वस्य तत्र श्रुते मते च परब्रह्मणि मनोनियमनं तदुपयुक्तभक्तिस्थैर्यार्थंमनसा परब्रह्मभावलिङ्गभूतनिखिल-तन्महिमावधारणम्, तस्य श्रुतिसिद्धब्रह्मलक्षणभूतजगत्कारणताशा-

लित्वम्, स्वस्यापि तत्सृष्टत्वं कर्मानुष्ठानसहितया तदुपासनया स्वस्य हृदयग्रन्थिविप्रमोक्ष इत्येतत्सर्वमर्जुनमव-गमयितुं यद्गुरुशिष्यसंवादरूपमुपाख्यानान्तरं कल्पितम्, यच्चतत्र तौ गुरुशिष्यावहं मम मनश्चेति पश्चाद्विवरणं कृतं तदर्थंसंगृह्णाति—

अग्रे तत्त्वं परं किं
त्वहमपि च कुतः सर्वभूतानि चेति
प्रश्ने शिष्यस्य तस्मै
गुरुकृतमखिलं ब्रह्मतत्त्वोपदेशम् ।
मोक्षं शिष्यस्य चोक्त्वा
पुनरपि विजयेनानुयुक्तो गुरुः कः
शिष्यो वेति स्वमेवे-
श्वर गुरुमवदत्स्वस्य चित्तं स्वशिष्यम् ॥

एवं कृष्णकल्पितोपाख्यानद्वयाभिप्रायं सर्वमवधारितवतोऽर्जुनस्य ‘ब्रह्म यत्परमं वेद्यं तन्मे व्याख्यातुमर्हसि ।भवतो हि प्रमादेन सुसूक्ष्मे रमते मतिः ॥‘इति प्रश्नानन्तरं परब्रह्मस्वरूपमुपदेष्टुकामेन कृष्णेन शिष्याचार्यसंवाद-

रूपः कश्चन कल्पितेतिहासःप्रवर्तितः—‘कश्चिद्ब्राह्मणमासीनमाचार्य संशितव्रतम्। शिष्यःपप्रच्छ मेधावी किंस्वित्परतरं तव॥’ इत्युपक्रम्य ‘कुतश्चाहं कुतश्च त्वं तत्सर्वंब्रूहि यत्परम् \। कुतो जातानि भूतानि स्थावराणि चराणिच। केन जीवन्ति भूतानि तेषां स्यात्कुत्र वा लयः ॥इत्यादिना शिष्यकृताःकेचन प्रश्ना उपन्यस्ताः। तेषामुत्तरंवक्तुकामस्याचार्यस्य ‘ब्रह्म प्रोक्तमिदं धर्ममृषिप्रवर सेवितम्।वेदविद्यासमावाप्तं तत्त्वभूतार्थभावनम्। भूतभव्यभविष्यादिधर्मकामार्थनिश्चयम्। सिद्धसंघपरिज्ञातं पुराकल्पं सनातनम्॥ प्रवक्ष्यामि महाप्राज्ञ पदमुत्तममद्य ते। बुद्ध्वायदिहसंदिग्धा भविष्यन्ति मनीषिणः॥’ इति तदुत्तरोक्तिप्रतिज्ञामुपन्यस्य तत्र श्रोतुरत्यादरसिद्धये महर्षीणां चतुर्मुखस्य चसंवादरूपमत्र विषये महदुपाख्यानमाचार्येणोपदिष्टमिति तदुपाख्यानमुखेन शिष्यप्रश्नविषयसकलार्थोपदेशः कृतः। तन्मध्ये यत्स्वस्य विष्णोश्च महिमवर्णनपरं देवर्षीन्प्रति ब्रह्मवचनम्—‘सर्वेषामपि भूतानामहं ब्रह्ममयो महान्। भूतंपरतरं मत्तो विष्णोरपि न विद्यते। राजाधिराजःसर्वेषांविष्णुर्ब्रह्ममयो महान् \। ईश्वरं तं विजानीमःस विभुः सप्रजापतिः॥ देवदानवभूतानां पिशाचोरगरक्षसाम्। नर-

किंनरयक्षाणां सर्वेषामीश्वरः प्रभुः॥ आदिर्विश्वस्य जगतोविष्णुर्ब्रह्ममयो महान्॥ ’ इति। तेन कुतश्चाहं कुतश्चत्वमिति प्रश्नस्योत्तरं निर्गतम्। ब्रह्ममय इति मयटा ह्यभ्यस्तेन ब्रह्मकार्यं विष्णोरुक्तम्। स एव च भगवान्कृष्णः।न च तत्र मयटःस्वरूपार्थकत्वं युक्तम्, अधिकार्थाभावेवैयर्थ्यप्रसङ्गात्, चतुर्मुखे प्रयुक्तस्य ब्रह्ममयशब्दस्य ब्रह्मकार्यत्वार्थकतया तत्प्रायपाठविरोधापत्तेश्च। एवं ब्रह्मर्षिदेवसंवादरूपोपाख्यानो-पन्यासानन्तरं गुरोः शिष्यं प्रति वचनम् — ’ त्वमप्येवं महाभाग यथोक्तं ब्रह्मणो वचः।सम्यगाचर शुद्धात्मा ततः सिद्धिमवाप्नुहि ॥ इत्युक्तःस तदाशिष्यो गुरुणा धर्ममुत्तमम् \। चकार सर्वं कौन्तेय ततोमोक्षमवाप्तवान्॥ कृतकृत्यश्च स तदा शिष्यः कुरुकुलोद्वह।तत्पदं समनुप्राप्तो यत्र गत्वा न शोचति ॥’ इति। तदनन्तरम् ‘कोऽन्वसौ ब्राह्मणःकृष्ण कः स्विच्छिष्यो जनार्दन। श्रोतव्यं यन्मवैत है तन्ममाचक्ष्व हे विभो ॥’ इत्यर्जुनप्रश्ने श्रीकृष्णवचनम् — ‘अहं गुरुर्महाबाहो मनःशिष्यं हि विद्धि मे।त्वत्प्रीत्या गुह्यमेतच्चकथितं तेधनंजय॥ मयि चेदस्ति ते प्रीतिर्नित्यं कुरुकुलोद्वह।अध्यात्ममेतच्छ्रुत्वार्थं सम्यगाचर सुब्रतः ॥ ततस्त्वं सभ्य-

गाचीर्णे धर्मेऽस्मिन्कुरुनन्दन। सर्वकामविशुद्धात्मा मोक्षंप्राप्स्यसि केवलम् \।\। इति। एतदर्थः सर्वोऽध्यत्र संगृहीतः॥ १७॥
एवं पार्थः प्रागगृहीतं गीतार्थमिदानीन्तनविवरणानुसारेण गृह्णात्वित्यभिप्रेत्य कृष्णेनानुगीतासु गीताशयविवरणं
कृतमित्येतस्कृत विवरणानुसारेण परिनिष्पन्नं गीतार्थ प्रदर्शयन्नाह—

ब्रह्मण्येवं स्वचेतोनियमनसमुप-
स्थापितं ग्रन्थिमोक्षं
स्वेनैवोक्तं विमृश्य प्रपदवचनं
तत्प्रतीतार्थनिष्ठम्।
यत्तत्सर्वस्य चाहंहृदिमुखवचनं
तत्पुनः शास्त्रदृष्ट्ये-
त्येवं पार्थोऽवगच्छेदितिविवृतिरका-
र्यत्र गीताशयस्य॥ १८॥

अनुगीता तावद्गीताशयविवरणार्थेति स्पष्टम्, तथैव तदुपक्रमात् ’ पूर्वमप्येतदेवोक्तं युद्धकाल उपस्थिते। मया
तब महाबाहो तस्मादत्र मनः कुरु॥ ’ इति तदुपसंहाराच्च।

तत्र गुरुशिष्योपाख्यानव्याजेन स्वस्य परब्रह्मप्रपदनादेव हृदयग्रन्थिविप्रमोक्षपूर्विका सिद्धिर्जातेति स्पष्टमेवोक्तम्। अतस्तदनुसारेण ‘तमेव चाद्यं पुरुषं प्रपद्ये’ इत्येतदेव स्वार्थनिष्ठम्।कृष्णेन चाहंभावेन ब्रह्मोपदेशो यः कृतः स सर्वोऽपिशास्त्रदृष्ट्या,प्राणोऽस्मि प्रज्ञात्मा तं मामायुरमृतमुपास्स्व’ इति प्रतर्दनायेन्द्रकृतस्वात्मब्रह्मभावोपदेश-वद्ब्रह्माहंभावभावनाप्रयुक्तो न स्वात्मब्रह्मभावनाशयप्रयुक्त इति। यद्यपि’तमेव चाहं पुरुषं प्रपद्ये’ इत्येकं वचनमनुरुध्य कृष्णस्यब्रह्माहंभाववचनानामन्यथानयनमयुक्तमिव तथापि कृष्णेनैवानुगीतासु प्रपञ्चेन कृतं गीताशयविवरणमनुरुध्य युक्तमेवेति भावः ॥ १८ ॥
एवं गीताप्रपञ्चितबहुमहिमशालिनः कृष्णस्यापि समाश्रयणीयत्वेन तस्यां प्रतिपादितं यद्ब्रह्म तत्परमशिव एवेत्युपसंहरंस्तत्र शङ्कास्पदं विरोधं परिहरति—

तच्च ब्रह्म प्रपस्यास्पदमसुररिपोरीश्वरत्वं न चान्यो
नाहं कंचित्प्रपद्ये विबुधमिति वचः श्रोतुरुत्कृष्टभक्त्यै।

सेवन्ते नीलकण्ठं परिमितफलदं न प्रबुद्धा इतीदं
ब्रह्मैक्यध्यातृविद्वद्विषयमितरथा नास्ति भूयोऽनुरोधः ॥ १९ ॥

‘तमेव चाद्यं पुरुषं प्रपद्ये’ इत्यत्र प्रपदनीयपरब्रह्मपरस्यपुरुषशब्दस्य ’ बिभर्त्यव्ययईश्वरः’ ’ईश्वरःसर्वभूतानाम्’। इतीश्वरनाम्नोपस्थिते शिव एव पर्यवसानं युक्तम्, न देवतान्तरे।तदेतत्प्रागेव प्रपतिम्। तत्रेयमाशङ्का भवति—‘अनाश्रित्योच्छ्रयो नास्ति मुखमाश्रयमाश्रयेत्॥ रुद्रं समाश्रिता देवा रुद्रो ब्रह्माणमाश्रितः। ब्रह्मा मामाश्रितो राजन्नाहं कंचिदुपाश्रये’ इति युधिष्ठिरं प्रति कृष्णवचनेनतस्य समाश्रयणीय एव नास्तीति प्रतिपन्नम्, मोक्षधर्मे” ब्रह्माणं नीलकण्ठं च याश्चान्या देवताः स्मृताः। प्रतिबुद्धा न सेवन्ते यस्मात्परिमितं फलम्॥’ इति फरिमितफलतत्वेन शिवस्य प्रतिबुद्ध सेव्यत्वं निवारितम्; कथंकृष्णेन शिवस्य समाश्रयणीयत्वमुच्यत इत्यत्रेदमुत्तरम्।‘नाहं कंचिदुपाश्रये’ इति कृष्णवचनं प्रागेव स्वभक्तं वैष्णवैरनुष्ठेयान्वैष्णवधर्मान्पृष्टवन्तं युधिष्ठिरं प्रति तद्धर्मनिरूपणार्थमेव प्रवर्तितस्य वैष्णवधर्मशास्त्रस्यावसाने खल्विदं श्रूयते

अतः न बुद्धिभेदं जनयेत् —’ इति न्यायेन स्वस्मिन्युधिष्ठिरस्य प्राक्सिद्धभक्तेरभिवृद्धये तत्प्ररोचनार्थम् ‘नाहं कंचिदुपाश्रये’ इति वचनम्। ब्रह्माणं नीलकण्ठं च—‘इत्यादिवचनं त्वहंग्रहोपासनानिष्ठविद्वद्विषयम्, ’ प्रतिमास्वल्पबुद्धीनाम्’ इत्यादिवचनैकार्थ्यात्, शेषत्वानुसंधानगर्भायाः सेवाया ऐक्यानुसंधानविरोधित्वाच्च। एवमर्थकत्व एवानयोर्वचन योर्भूयोवचनानुरोधो भवति। भूयोनुग्रह एव चन्याय्यः\। भूयांसि खल्बनुगीतावचनानि ‘तमेव चाद्यंपुरुषं प्रपद्ये ’ इत्यस्य प्रतीतार्थपरत्षव्यवस्थापकानि।भूयांसि च भारतपर्वसु हरिवंशे च विष्णोःशिवाराधकत्वप्रतिपादकानि। ननु कर्णपर्वणि विष्णुरात्माभगवतो भर्गस्यामिततेजसः। तस्माद्धनुर्ज्यासंस्पर्श संविषेहे महेशितुः॥’ इति त्रिपुरविजयोपाख्यानगतवचनेन ‘यस्त्वांद्वेष्टि स मांद्वेष्टि यस्त्वामनु स मामनु। आवयोरन्तरंनास्ति शब्दरथैर्जगत्पते ॥नामानि तव गोविन्द यानिलोके महान्ति च। तान्येव मम नामानि नात्र कार्याविचारणा॥’ इति हरिवंशे कृष्णं प्रति शिववचनेनान्यैश्चैवंभूतवचनैः परब्रह्मभूतशिवाभिन्नतया नित्यावाप्तसमस्तकाम इति त्वयाप्येष्टव्यम्; तथा च कथमस्य ‘भक्तं हिमां भजमानं भजस्व’ ‘तमेव चाद्यं पुरुषं प्रपद्ये’ इत्या-

दिवचनमनुसृत्याभ्युदयनिःश्रेयसार्थं शिवप्रपदनमुच्यत इतिचेत्; सत्यम्, तथाप्यन्येषामभ्युदयनिःश्रेयसार्थं प्रपदनंस्वस्यापि मूलमूर्तिःशिव इति तन्महिमातिशयप्रख्यापनार्थंच लोकानुजिघृक्षोः सकलधर्मप्रवर्तकस्य विष्णोः शिवप्रपदनमेष्टव्यमेव। तथैव हि मोक्षधर्मे कौर्मे च श्रीकृष्णवचनम्— ‘मया प्रमाणं हि कृतं लोकस्तदनुवर्तते। नहि देवोऽस्ति कश्चिन्मे वरः पाण्डवनन्दन \।\। इति संचिन्त्यमनसा पुराहं विश्वमीश्वरम्। पुत्रार्थमाराधितवानहमात्मानमात्मना।’ इति, ‘नैव पश्यन्ति तं देव मोहिता मममायया \। ततोऽहं स्वात्मनो मूलं ज्ञापयन्पूजयामि तम्॥इति च। तस्मात् ‘नाहं कंचिदुपाश्रये ’ इत्यस्य मदुक्ताभिप्राय एवान्वेष्टव्यः। तथाश्वमेधिके पर्वणि वैष्णवधर्मानेवपृष्टवन्तं युधिष्ठिरं प्रति तानेवोपदेष्टुं कृष्णेन प्रवर्तिते वैष्णवधर्मशास्त्रे ‘कथं वैखानसा ब्रूयुः कथं वै पाञ्चरात्रकाःइत्यादिना केवलं वैष्णवधर्मानेव पुनः पुनः पृच्छ्यमानेनापितस्य शिवस्य चाराधनं तुल्यविकल्पतया तुल्यफलतयैवदर्शितः। यथा ‘निवेशयति मन्मूर्त्याआत्मानं मां नरःशुचिः। रुद्रं दक्षिणमूर्त्या वा चतुर्दश्यां विशेषतः।सिद्धैर्ब्रह्मर्षिभिश्चैव देवलोकैश्च पूजितः। गन्धर्वैर्भूतसंघैश्चगीयमानो महातपाः ॥ प्रविशेत्स महातेजा मां वा शंकर-

मेव वा। न स्यात्पुनर्भवो राजन्नात्र कार्या विचारणा॥विषुवे स्नपनं यस्तु मम कुर्याद्धरस्यवा। अर्चनं चयथान्यायं तस्य पुण्यफलं शृणु॥दशजन्मकृतं पापं तस्यसद्यो विनश्यति। दशानामश्वमेधानामिष्टानां लभते
फलम्। विमानं दिव्यमारूढः कामरूपी यथासुखम्।दिव्यवर्षसहस्राणां कोटिमेकां प्रमोदते॥ततश्चापि च्युतः कालादिह लोके द्विजोत्तमः।चतुर्णामपि वेदानां पारगो ब्रह्मविद्भवेत्॥ चन्द्रसूर्यग्रहे धाम्नि मम वाँ शंकरस्य वा।
गायत्रीं मामिकां वापि जपेद्यःशंकरस्य वा॥ शङ्खतूर्यनिनादैश्च कांस्यघण्टास्वनैरपि। कारयेत्तद्ध्वनिं भक्त्या तस्य पुण्यफलं शृणु॥ स गच्छेद्दक्षिणां मूर्ति मां वा नात्र विचारणा॥‘इति। एवं स्वभक्तं युधिष्ठिरं प्रति स्वभजनशिवभजनयोः साम्यमुक्त्वापि वस्तुवृत्तमनुरुध्य शिवभजनस्याधिक्यंसूचितम्। तत्र हि ‘विशेषतीर्थं सर्वेषामशक्तानामनुग्रहात्।भक्तानां तारणार्थं वै वक्तुमर्हसि धर्मतः॥’ इति भगवत्सेवां कर्तुमशक्तानां भक्तानां तद्नुकल्पतया सेवनीयं तीर्थंकिमिति प्रश्ने तस्य प्रतिवचने ’ सत्यस्य वचनं तीर्थमहिंसा तीर्थमुच्यते \। तपस्तीर्थं दया तीर्थं शीलं तीर्थं युधिष्ठिर॥ मद्भक्तःसकलं तीर्थंशंकरस्य विशेषतः॥’ इति स्वभक्तापेक्षयापि शिवभक्तस्य विष्णुभक्तान्प्रत्यधिकतीर्थत्वमुक्तम्। आरण्यपर्वणि

च तीर्थयात्राविधौ केषुचिच्छिवक्षेत्रेषु शिवार्चकस्य ‘गाणपत्यमवाप्नुयात्’ इति महाभ्युदय हेतुत्वमुक्तम्। केषुचित्तदर्चनस्य ’ परां गतिमवाप्नुयात्’ इति निःश्रेयसहेतुत्वमक्तम्। एवंविधभूयोवचनानुग्रहात् ‘ब्रह्माणं नीलकण्ठं च “इति वचनस्याप्युक्त एवाभिप्रायोऽन्वेष्टव्यः। तस्य नारायणातिरिक्तदेवताभजनं परिमितफलमिति ज्ञातारस्तान्न सेवन्तइत्यर्थकत्वेऽपि नारायणसेवाप्ररोचनार्थंतदिति नेतव्यम्।भूयोवचनानुरोधमनादृत्य यथाश्रतार्थमहणे च ‘गोप्रतारंततो गच्छेत्सरय्वास्तीर्थ मुत्तमम्। तत्र रामो गतः स्वर्गंसभृत्यबलवाहनः। देहं त्यक्त्वा दिवं यातः स्थास्यतीन्द्रस्यवैभवात्॥’ इति गोप्रतारतीर्थमहिम्ना श्रीरामस्य स्वर्गप्राप्तिवचनात्, सभापर्वणि यमसभावर्णने ‘तस्यां राजर्षयःपुण्यास्तथा देवर्षयोऽमराः। यमं वैवस्वतं तात प्रहृष्टाः पर्युपासते॥ ययातिर्नहुषः पूरुर्मान्धाता सगरो नृगः॥’ इत्यारभ्य स्वर्गप्राप्त्यनन्तरं यमसभायामवस्थाय तमुपासीनानां राजर्षीणां परिगणनेन ‘रामो दशरथश्चैव लक्ष्मणश्च प्रतर्दनः’इति परिगणनेन च सोऽपि कर्माघनलोकप्राप्तिको जीवविशेषःस्यात्। ततः शार्ङ्गंधनुःश्रेष्ठं कराग्रात्प्रापतन्मम॥मोहोत्सन्नस्तु कौन्तेय रथोपस्थ उपाविशम्॥’ इत्यारण्यपर्वणि साल्वयुद्धे कृष्णस्य मोहाज्ञानवचनेन सोऽपि जीववि-

शेषःस्यात्। तस्मात्कृत्स्नमपि भारतं गीतानुगीतामोक्षधर्मवैष्णवधर्मशास्त्रसहितं विशेषध्वनिवृत्त्या शिवपारस्य-विश्रान्तं तत्प्रधानमेव भगवता श्रीवेदव्यासेन कृतमित्येतत्सुप्रतिष्ठितमिति सर्व समञ्जसम्॥ १९॥
अथ कृत्स्नस्य स्तोत्रस्य प्रचयगमनार्थम् ‘मङ्गलादीनि- ‘इत्याद्याप्तवाक्यप्रामाण्यात्स्तोत्रसमाप्तौ शिवपारम्योपदेष्टृ गुरुनमस्काररूपं मङ्गलमाचरति—

इत्थं चक्रे भारतं यः प्रबन्धं
व्यक्त्या व्यासः शांभवोत्कर्षवर्षी।
ध्वन्यध्वन्यध्वन्यमूर्धन्यधन्य
स्तं शौरिं तत्साक्षिणं चानतोऽस्मि॥

इति श्रीभारद्वाजकुलजलधिकौस्तुभश्रीमद्द्द्वैतविद्याचार्य-
श्रीविश्वजिद्याजिश्रीरङ्गराजाध्वरिवरसूनो-
रप्पयदीक्षितस्य कृतिः
श्रीभारतसारसंग्रहस्तोत्रविवरणं
समाप्तम्।

———

॥ श्रीः ॥

॥ भारततात्पर्यसंग्रहः ॥

श्रीमदप्पय्यदीक्षितेन्द्रैर्विरचितः
तैरेव विरचितया व्याख्यया
समुद्रासितः

श्रीरङ्गम्
श्रीवाणीविलासमुद्रायन्त्रालये
संमुद्रितः
१९२९

]