[[वज्रं वज्रेण भिद्यते Source: EB]]
[
॥ वज्रं वज्रेण भिद्यते ॥
निरन्तरं द्वेषपरीत मनसान् । जनान्परं प्रेमदयाप्रपूर्णान् ।
विधास्यमानः सततं प्रशान्तम् । संवर्धतां शान्तिमय स्वभावः ॥
(नान्द्यन्ते)
सूत्रधारः – अयि कलाशालिनि प्रिये ! श्रूयताम् ।
नटी – (प्रविश्य) अहो श्रुणोमि कथयन्तु ।
सूत्रधारः – सावधानेन श्रोतव्यम् ।
नटी – को विशेषः ।
सूत्रधारः – न कोऽपि विशेषः विद्यते । किन्तु प्रपञ्चे मानवाः केचित् गर्वाहङ्कार दर्पिताः प्रयतन्ते, स्व लाभाय त्यक्त्वा मानवताम् ।
नटी – तस्मात् भवता किं क्रियते ।
सूत्रधारः – विशाल भाव संषन्नं, मानव हृदयान्तर्गत भावप्रबोधकं, अपिच शत्रुमपि मित्रवत् समादरणीयमिति प्रदर्शयन्तं “वज्रं वज्रेण भिद्यते” इति नाटकं प्रयोक्तुमुद्यताः ।
नटी – प्रिय, नाटकमेतत् केनकविना विलिखितम् ।
सूत्रधारः – नाटकमेतत् गीर्वाणान्ध्रभाषा प्रवीणेन महाकविना परीक्षित् शर्माणा प्रणीतम् ।
नटी – सर्वं सुन्दरं प्रतिभाति मे । नाटकमेतत् सार्वकालीनकं भवितुमर्हति । यतः ।
प्रत्यहं द्वेषपूर्णञ्च । शत्रुषड्वर्ग रञ्जितम् ।
समाजं पावनं कर्तुम् । नाटकं रचितं प्रियम् ॥
सूत्रधारः – प्रिये, इतः पश्य द्रोणद्रुपदौ सहाध्यायिनौ परस्परं सल्लापं कुर्वन्तौ प्रविशतः । एहि गच्छावः । (इति गच्छतः)
(ततः प्रविशतः द्रोणद्रुपदौ)
द्रोणः – सखे द्रुपद, आवां परिसमाप्त विद्यौ । अतः परं गृहस्थाश्रमं प्रविशावः ।
द्रुपदः – अरे सुहृद् द्रोण ! अहन्तु क्षत्रियः । त्वं ब्राह्मणः । अपिच आवां सुहृदौ । एकशयने एकपात्रे सुप्तवन्तौ भुङ्क्तवन्तौ, सहाध्यायिनौ, विद्यापारङ्गतौ । आवां स्नेहः एवमेव सर्वथा वर्धिष्णुतां भूयात् इति मामकीन विचारः ।
द्रोणः – अरे द्रुपद ! आवां जन्मतः ब्राह्मण क्षत्रियौ । किन्तु विद्यया कर्मणा क्षात्रवन्तौ ववृधिवहे ।
द्रुपदः – मित्र द्रोण ! मम पितुः आशा एवमस्ति, प्रथमतः मम विवाहः विधेयः सपदं राज्य पट्टाभिषेकः कर्तव्यः इति ।
द्रोणः – अरे सुहृद् यदि त्वं राजा भविष्यसि मां नूनं विस्मरिष्यसि ।
द्रुपदः – तथा नाहं विस्मरिष्यामि ।
द्रोणः – तवाभिप्रायः कालान्तरेण रूपान्तरं धारयिष्यति । कालक्रमेण समयानुकूलं बुद्धिः परिणमति ।
द्रुपदः – तथा न भवितुमर्हति । पश्य ।
अहं राजा भविष्यामि । मया सार्थं भवानप्रियम् ।
भुनक्तु कामं सर्वस्वम् । वित्तं भोगान् सुखानिच ॥
द्रोणः – (विहस्य) अरे द्रुपद ! अहं कथं राज्यं सौख्यं नृपतिरिव अनुभोक्ष्यामि ।
द्रुपदः – कथं नहि । अवरोधः कः ।
द्रोणः – अरे त्वं जानासि, यत् ब्राह्मणानां ज्ञानोपार्जनमेव कर्तव्यं नतु धनोपार्जनं, सुखानुभूतिश्च इति ।
द्रुपदः – कालप्रभावेन सकलं अस्त व्यस्तं भवति जगति जन्तूनाम् ।
द्रोणः – अहो ते विचारधारा प्रशंसनीया ।
न भवन्ति महात्मानः । सर्वे जगति मानवाः ।
त्वादृशाः विरलाः सन्ति । तस्मात्त्वं मे सुहृद्वरः ॥
द्रुपदः – अरे कुम्भसम्भव, त्वं निश्शङकं तव कामना पूर्त्यैं मम सकाशं समागच्छ । तव कामना सफली भविष्यति ।
द्रोणः – मित्रोत्तम ! त्वं मे बाल्यमित्रम् । ते पिता मम पिता च बाल्यमित्रौ । तस्मात् आवयोः मैत्री पारम्पर्येण सम्प्राप्ता । अंय सम्बन्धः अच्छेद्यः अविभाज्यः ।
द्रुपदः – सत्यमेव इयं मैत्री अविभाज्या, सातत्येन प्रवर्धिनीया (इति द्रोणस्य दक्षिण हस्तं स्वीय दक्षिण हस्तेन गृहीत्वा चालनं करोति)
द्रोणः – अयि मित्र । अहमभिनन्दामि ते विशाल भावनां सौहार्दं च ।
द्रुपदः – अरे कलश सम्भव ! ब्राह्मण क्षत्रियाणां मध्ये अन्तरं न किमपि विद्यते ।
द्रोणः – अन्तरं न किमपि विद्यते किन्तु भावनायां अन्तरं विद्यते ।
द्रुपदः – जगति मानवाः सर्वे शरीर दृष्ट्या समानाः किन्तु मानसिकदृष्ट्या विभिन्नाः ।
द्रोणः – सत्यमेव सर्वेषां अवयव निर्माणं एकमेव भवति ।
द्रुपदः – किन्तु भावनाकृतिः विभिन्ना भवति ।
द्रोणः – आहार विहारेऽपि वैविध्यं भवति ।
द्रुपदः – किन्तु आवयोर्मध्ये न किमप्यन्तरं विद्यते यस्मिन् कस्मिन् विषयेऽपि ।
द्रोणः – मित्र ! तस्मात् आवां समवयस्कौ समान शीलिनौ । समान भावुकौ । सर्वत्रापि समानता प्रतिभाति ।
द्रुपदः – आवयोर्मध्ये सर्वेषु विषयेषु अविनाभाव सम्बन्धः विद्यते ।
द्रोणः – सुष्टु भावितं त्वया ।
द्रुपदः – श्रुणु, अहं राजा ।
द्रोणः – अहं मन्त्री ।
द्रुपदः – अहं शरीरम् ।
द्रोणः – अहं प्राणाः ।
द्रुपदः – आवां सूर्य चन्द्रौ ।
द्रोणः – आवां दिवारात्रम् ।
द्रुपदः – आवां सम्बन्धः अविभाज्यः ।
द्रोणः – सहाध्यायिरूपेण सम्बन्धः पटु चिक्कणात्मकः बभूव ।
द्रुपदः – विद्यार्थिदशा सर्वासु दशासु शक्ति समन्विता ।
द्रोणः – आवां समान शीलिनौ समानीव आकूतिः । समानी हृदयानिवः । (इति द्रुपदं अलिङ्ग्य) मित्र श्रुणु
सौहार्दपूर्णं वरमित्र भावम् । पुराणरूपं जगति प्रसिद्धम् ।
विलोक्य मे कौतुकमेव जात । रे मित्र नित्यं शुभमस्तु लोके ॥
(इति निष्क्रान्तौ)
(यवनिका पतति)
********************************************************************
.
द्वितीयं दृश्यम्
(द्रोणः ज्यावल्लीं बध्नाति, कृपी सम्मार्जिन्या गृहं मार्जयन्ति आस्ते)
कृपी – किं कुर्यां जीवनं सर्वं कष्टमयं भवति। न कस्याऽपि कुटुम्बे रक्तिः विद्यते। वेलायां समागत्य भुक्त्वा गच्छति कुटुम्बीकः। गृहे किं विद्यते, किं न विद्यते इति नकोऽपि विचारयति। स्त्रियोहि नाम गृहे दास्यं अनुभवन्त्यः पुरुषाणां सुखदात्र्यः। अहो किमेतत् जन्म। अस्मिन् संसारे स्त्रीणां न कापि स्वतन्त्रता विद्यते। कुटुम्बिनीषु कुटुम्बीकानां नकोऽपि आदरभावः न काप्यनुकम्पा च विद्येते। स्त्रीजन्मनः अरण्ये तरु जन्म श्रेष्ठतरं भाति (इति सक्रोधं सवेगं सम्मार्जनं कुर्वन्ती आस्ते)
द्रोणः – किं भवती कृत्था कृशानुः भवति ।
कृपी – नाहं कृत्था किन्तु चिन्ताक्रान्तास्मि ।
द्रोणः – चिन्तायाः निदानं किम् ?
कृपी – अयि भोः बालः अश्वत्थामा दिने दिने व्यपचीयमान शरीरः निर्बलः भवति ।
द्रोणः – किं कुर्यां अहं तस्य बलविषये ?
कृपी – खाद्यपदार्थेषु पौष्टिकपदार्थः न्यूनः भवति ।
द्रोणः – तस्यकृते किं कुर्यां अहं ।
कृपी – किं कर्तव्यमिति नाहं भणामि ।
द्रोणः – हञ्जे, खाद्य पदार्थेषु पौष्टिकाहारस्य आवश्यकतां अङ्गीकरोमि । किन्तु जन्मतः सङ्क्रामितस्य निर्बलस्य पौष्ठिकाहारोऽपि अजीर्णं जनयिष्यति ।
कृपी – अत्र सर्वे बालाः प्रातः उत्थाय गोक्षीरमासेवन्ते ।
द्रोणः – चयं निर्धनाः ब्राह्मणाः । अस्माकं गो क्षीरं कथं लभ्यं भविष्यति ।
कृपी – तस्मादहं वच्मि यथा कथं चित् बरिष्ठ कपिलां एकां सम्पादयस्वेति ।
द्रोणः – अत्र नकोऽपि दाता अस्ति । भवतु नाम । अश्चत्थामानं तेषां बालानां कलाशं प्रेषय तैस्साकं सोऽपि किञ्चित् क्षीरं पास्यति ।
कृपी – तेषां मध्ये कलहः भवति । तस्मादहं न प्रेषयेयं बालम् ।
द्रोणः – बालानां कलहः भवत्येव किन्तु सः कलहः तत्कालीनः ।
कृपी – बालनां कलहकारणात् पितरौ कलहायमानौ भवतः ।
द्रोणः – तथा करणं मौर्ख्यमेव । बालाः कलहायन्ते अनन्तरं क्रीडन्ते । किन्तु ज्येष्ठाः कलहायमानाः यावज्जीवं मौर्ख्येन दर्शयिष्यन्ति तषां मानसिक सङ्कुचितत्वम् ।
कृपी –बालाः ज्येष्ठमण्डलात् अधिकतरं बुद्धिमन्तः भवन्ति ।
द्रोणः – बालः अधुना कुत्र गतः ।
कृपी – सः बालमित्राणां सन्निधिं गतः ।
द्रोणः – किमर्थं गतः ।
कृपी – दुग्धपानं कर्तुं गतः ।
द्रोणः – साधुकृतं तेन । पश्य,
भिक्षादानेन लोकेऽस्मिन् । ब्राह्मणो जीवते धिया ।
तस्मात् साधु कृतं तेन । गोक्षीरास्वादने प्रिये ॥
कृपी – बाल्यात् प्रभृति सः परालम्बनपरः जातः । हा धिक् कष्टम् ।
द्रोणः – प्रिये बालः रुदन् इवास्ते पश्य ।
कृपी – (उत्थाय गत्वा विलोक्य रूदताबालेन साकं प्रविश्य) अरे चिरञ्जीव किमर्थं रोदिसि ।
बालः – मातः ते सर्वे क्षीरं मह्यं अदत्वैव अपिबन् ।
कृपी – मारोदि अहं ते गोक्षीरं दास्यामि (इति अन्तः गत्वा पिष्टमिश्रित जलं आनीय एकस्मिन् पात्रे पूरयित्वा तस्मै गो क्षीरमिति ददाति)
बालः – (सन्तोषभरेण) मातः त्वं मे अत्यन्तं स्पृहणीयासि । (इति पिबन् परमानन्देन मुखशब्दं कुर्वन्) मातः अहं उदरपूरं गोक्षीरं पिबामि ते बालाः अर्धकुक्षि क्षीरं पीत्वा प्रमोदन्ते । (इति हसति)
कृपी – (विचारयन्ती) वत्स पिब सानन्दं पिब एतदेव ते गोक्षीरम् । वयं दरिद्राः कथं प्रत्यहं गोक्षीरं पास्यामः ।
बालः – (सर्वे पीत्बा) कलशं भूमौ निक्षिप्य नृत्यन् गायति)
गीतम्
1 क्षीरं पीतं मया भृशम् । मात्रा दत्तं मुदा प्रियम् ॥
2 बालाः क्षीरं पिबन्ति च । सन्ध्या समये रमन्ति च ॥
3 प्रचुरं स्वैरं गायन्ति ते । नित्यं देवं नमन्ति ते ॥
द्रोणः – (सर्वं बालवर्तनं विलोक्य स्वगतम्) गोक्षीर लालसोऽयं सुतः पिष्टोदकं पीत्वा स्वात्मानं विस्मृत्य नृत्यति किमिदमाश्चर्यम् ? दृष्ट्वा तस्य स्थितिं मे हृदयं विदलति ।
कृपी – (द्रोणं विलोक्य) किमर्थं यूयं विचाराधीनाः ।
द्रोणः – बालस्य अज्ञान वर्तनात् मे हृदयं विदलति ।
कृपी – किमर्थं विदलति ? वयं असमर्थाः । कार्यसाधने अकुशलाः । वयं कार्यकारणे अक्षमाः ।
द्रोणः – कृपि ! तथामावद । पिष्टमिश्रित पानीयं पीत्वा तेन सत्यमेव गोक्षीरं पीतमिति आनन्देन नर्तितम् । तत् दृश्यं मे अत्यन्त हृदयविदारकं भवति, मम असहनं भवति ।
धिगस्तु मे निर्धनमौर्ख्यजीवितम् । नचास्ति वित्तं नच धेनुमण्डलम् ।
बालाय दातुं ममनास्ति दुग्धम् । दग्धो भवत्यत्र ममान्तरङ्गः ॥
(इति विचार तप्तः भवति)
कृपी – चिन्तां विसृज्य कर्मयोगी भव ।
द्रोणः – किं कुर्यामहम् ? कं आश्रयेयम् । को नाम दास्यति ?
कृपी – प्रिय, उक्तं भवता गर्भादानस्य प्रथमरजन्यां यत् तत्रभवतां मित्रं एकं द्रुपदो नाम, सः सम्पन्नवानिति अधुना तस्य सकाशं गत्वा गोदानं स्वीकुर्वन्तु ।
द्रोणः – हाँ सत्यं उक्तमेव मया । किन्तु तत् बहुकालात् प्राक् संवृत्तम् । अधुना सः मयि स्निह्यति उत नहि अयं प्रश्नः भवति ।
कृपी – मित्र्च मित्रवद् लोकम् । करदानैः पुनाति च ।
तस्मात्त्वं तत्रगत्वैव । प्रार्थयस्व महीपतिम् ॥
द्रोणः – प्रिये ! अहो ते समयस्फूर्ति विशेषः । तस्मादेव भार्या नाम करणेषु मन्त्री इति भणितं पूर्वसूरिभिः । सकुटुम्बं आवां मे मित्रं द्रुपदं द्रुष्टुं गच्छावः ।
कृपी – यदि सः अधुना स्मरिष्यति सर्वमपि सुगमं सुकरं भविष्यति ।
द्रोणः – अयं अवश्यमेव स्मरिष्यति माम् । तेनोक्तं च । यतः ।
अहं राजा भविष्यामि । मया सार्थं भवान्प्रियम् ।
अनुभोक्ष्यति सर्वस्वम् । वित्तं भोगान् सुखं सखे ॥
कृपीः – अहो साधु प्रतिपादितं तव मित्रेण । अद्यैव तस्य सन्निधिं गच्छावः ।
द्रोणः – शुभस्य शीघ्रम् । एहि गच्छावः ।
(यवनिका पतति)
***********************************************************************
.
तृतीयं दृश्यम्
[द्रुपदराज सभास्थानम् सिंहासने द्रुपदः उपविष्टः अस्ति । पार्श्वे छत्रचामर वाहिन्यौ वीजयतः]
मन्त्री – अयि राजन् गङगायाः दक्षिणतः विराजमान धरणीमण्डल शाशयतः भवतः राज्ये न कुत्रापि भीतिः चौर्यं अमानुष चेष्टादिकं दृश्यते । ते प्रापणीयान् दानांश भागान् वयं सामन्त राजानः सभक्तिकं प्रेषयामहे । तव एकछत्राधिपत्ये वयं सर्वे अपूर्वानन्दं सुखञ्चानुभवामः । ते सर्वसन्मङ्गलानि भवन्तु । समस्त सौख्यानि भवन्तु इति परमेश्वरं प्रार्थयामहे । [इति पठित्वा मन्त्री उपविशति]
वेत्रहस्त – [ततः प्रविशति] जयतु जयतु महाराज । भरद्वाजपुत्रः कलशसम्भवः द्रोणाचार्यः सदारपुत्रः तत्र भवतः द्रष्टुं द्वारि तिष्ठति ।
राजा – (आत्मगतम्) द्रोणाचार्यः सभार्या पुत्रः द्वारि तिष्टति । सः मां दिदृक्षुरस्ति । अनुपदं प्रवेशय (इति आज्ञापयति)
वेत्रहस्तः – बाढम् (इति नमस्कृत्य गच्छति)
राजा – मन्त्रि ! भवान् गच्छतु ।
(मन्त्री, गच्छति, ततः प्रविशति सदारपुत्रः द्रोणः)
द्रोणः – स्वस्ति भवते ।
राजा – नमोवः (उत्थाय नमस्करोति तेषां आसनं दर्शयति) सर्वे उपविष्टाः ।
द्रोणः – यूयं द्रुपद महाराजानः । कोवाऽहं इति भवतां विदितमेवस्यात् इति मे वितर्कः ।
द्रुपदः – नाहं जाने ।
द्रोणः – बहुकाल वियोगात् विस्मृतवन्तः अभवन् इति मे कल्पना ।
द्रुपदः – काल विपर्ययेन स्मृति विभ्रमः भवति ।
द्रोणः – यदि स्मृति विभ्रमः भवति तर्हि अनुमानेन सुयोज्यः भविष्यति किन्तु न चित्त विभ्रमः ।
द्रुपदः – चित्त विभ्रमोऽपि जातः ।
द्रोणः – महाराज !
शरीरे शीर्यमाणेतु । बुद्धिर्गच्छति हीनताम् ।
सम्पदां निचये राजा । तेजो बुद्धिः विराजते ॥
महाराज अहं ब्रवीमि श्रुणोतु । मम नाम द्रोणः भरद्वाज तनयः ।
द्रुपदः – ओम् एकदा श्रुणोतु मया पूर्वम् ।
द्रोणः – किं उच्यते भवता ?
द्रुपदः – सत्यं ब्रवीमि ।
द्रोणः – किमाश्चर्यम् ? आवयो व्यवहारः वर्तनादिकं सर्वं विस्मृतं किम् ?
द्रुपदः – तत् सर्वमपि गत जन्मानि जातं इति मन्ये ।
द्रोणः – कथं गत जन्मानि । गुरुकुलावासे इह जन्मानि । पञ्चवर्षेभ्यः प्राक संवृत्तम् ।
द्रुपदः – गुरु कुलवासे बाल्ये संवृत्तः ।
द्रोणः – हां सत्यम् ।
द्रुपदः – तत् मे गतजन्मवृत्तान्तः इव प्रतिभाति ।
द्रोणः – विद्यार्थिदशायां भावना विचित्र बुद्धिविशेषः, अन्योन्याश्रय जीवनं इत्यादिकं अव्याज प्रेम सम्बद्धं भवति। यौवने सर्वमपि दुर्भावपरीतजीवनं भवति तदानीं भावना अन्या ।
द्रुपदः – सत्यमेव तत् अधुना भावना अन्या ।
द्रोणः – अधुना कथं अन्या भवति ।
द्रुपदः – अहं अधुना राजा । राज्य धुरन्धरोऽस्मि ।
द्रोणः – राजवंशजानां अयं सहजः एव ।
द्रुपदः – अयमपि सहजः यत् राज्यभारे बाल्यस्नेह विस्मरणम् ।
द्रोणः – वयसि संवृत्तं सर्वमपि विस्मरणीयं भवति तत् सत्यमेव ।
द्रुपदः – भवता सत्यमुक्तम् ।
द्रोणः – राजन् कौमारदशायां गुरुकुलावासे यत् संवृत्तं तत् विस्मरणीयं कथं भवति ? शृणोतु ।
क्रीडारसः परं राजन् । सर्वेषुच रसेष्वपि ।
नित्यं संस्मरणीयोऽस्ति । भवान् तं विस्मृतः कथम् ॥
द्रुपदः – द्रोण, मे जीवने अहं सर्वमपि शैशवोत्पन्नं सर्वघटनादिकं विस्मृतोऽस्मि ।
द्रोणः – राजन् अहं स्मृतिपथं प्रापयितुं प्रयतिष्ये । शृणोतु भवान् । त्वं एकदा मां अरे कलश ! अरे द्रोण इति परिहासेन सम्बोधयन् आसीः । तदा अहं अरे द्रुतपद द्रुत इति त्वां सम्बोधितोऽस्मि । तदा त्वं कृत्थोऽसि ।
द्रुपदः – एतत् सर्वं मे नवीनं प्रत्युत्पन्नं प्रतिभाति ।
द्रोणः – एकदा अहं त्वां भर्त्सयन् एवं परिहासः न कर्तव्यः इत्यवोचम्, किं सा घटनादृष्टिपथं समागता ?
द्रुपदः – नाहं किमपि जाने । अधुना तव प्रवासः कुतः ।
द्रोणः – राजन्, अहं सपत्नीकः । इयन्तं भवन्तं प्रार्थयितुं समागतोऽस्मि । अयं मे पुत्रः पिष्ठोदकं पीत्वा गोक्षीरं सेवितमिति बुध्या आनन्देन नृत्यन् आसीत् । तत् दृश्यं विलोक्य विदीर्णमान मानसः एकां गां कपिलां भवतः प्राप्तुं समागतोऽस्मि ।
द्रुपदः – अयं राजा केषामपि न किमपि ददाति । ददाति केवलं रक्तसम्बन्ध बान्धवेभ्यः वस्तुचयम् । आवयोः कोऽयं सम्बन्धः ?
द्रोणः – भवतु अहं कथयेयं आवयोः सम्बन्धः कीदृशः ।
द्रुपदः – कोऽयं सम्बन्धः आवयोर्मर्ध्ये विद्यते । अहं लक्ष्मीकटाक्षालिङ्गितः । सम्पन्नवान राजा । त्वं तु निर्धनः एकः दरिद्रब्राह्मणः । आवयोः कथं सम्बन्धः भवति । आवयोर्मध्ये हस्तिमशकान्तरं विद्यते । स्नेहस्याऽपि समान शीलता अस्ति । पश्य ।
सपन्नैर्जायते सख्यम् । सम्पन्नैरेव भूतले ।
धनिनां निर्धनानां च । न सख्यं जायते कदा ॥
समान शालिनां, समान गुणवतां, समान भावुकानां, समान जन्मनां, समान विद्या विलसितानां, सख्यं भवति, तत् भिन्नानां कथम् ?
द्रोणः – राजन् आवां अग्निवेशस्य सन्निधौ सकल विद्या पारङ्गतौ आस्ताम् । विद्या परिसमाप्त्यनन्तरं आवाभ्यां गार्हस्त्यधर्मः स्वीकर्तव्यः इति निश्चितः । तदा त्वया भणितं त्वया राज्ञा भवितव्यं इति अनन्तरं विवाहः कर्तव्यः इति ।
द्रुपदः – द्रोण ! यदा त्वं मां आत्थ सखा तेऽहमिति, श्रुत्वा मे आश्चर्यं भवति । कालेन सङ्गतानि जीर्यन्ति । पूर्वं त्वया मे सौहृदं चासीत् तत् केवलं सामर्ध्य बन्धनम् । अश्रोत्रियः श्रोत्रियेण स्नेहं न कुरुते । रथी अरथिनः सखा न भवति । नहि राज्ञां एवम्भूतैः नरैः क्वचिदपि स्नेहः भवति ।
द्रोणः – राजन्, धनदर्पेण तत्सर्वं त्वया विस्मृतम् । त्वं अधृना धनान्धोऽसि ।
द्रुपदः – मन्दात्मन् ! श्रियाहीनैः धनच्युतैः सख्यं भवति । त्वां अहं न जानामि । किन्तु ते एक रात्रं भोजनं दास्यामि ।
द्रोणः – (सक्रोधम् उत्थाय) नमस्तेऽस्तु महाराज । कालं निरीक्षस्व । सर्वदा कालः नैकरीत्या चलति । नावः शकटानि भवन्ति शकटानि नावः भवन्ति । समयं निरीक्षस्व आवयोः समागमः वैपरीत्येन भविष्यति । (सपुत्रदारः उत्थाय) राजन् विप्रकृतः पन्नगः फणां कुरुते, अन्ततः दशतिच पश्य । (इति प्रस्थितः)
द्रुपदः – एते ब्राह्मणाः याचने अग्रेसराः । पौर्वावपर्य सम्बन्धं खनन्ति । स्वेच्छया निरातङ्कं अन्तः प्रविशन्ति । निर्धनः पुरुषः शष्पसमानः न किमपि साधयिष्यति । पश्यामि किं करिष्यत्ययम् । (इति उत्थाय गच्छति)
(यवनिका पतति)
*********************************************************
.
चतुर्थं दृश्यम्
(ततः प्रविशतः द्रोणार्जुनौ)
द्रोणः – वत्स ! सव्यसाचिन् ! त्वमधुना धनुर्विद्यायां कुशलोऽसि । मया यद धीतं तत् सर्वं त्वयि पश्याम्यहम् । त्वं सर्वेषु शिष्येषु मे प्रियतमः । सर्वाः मे आशाः त्वयि पुञ्जीभूताः भवन्ति । किं त्वं जानासि ? किमर्थमहं त्वां एवं एश्यामि ।
अर्जुनः – गुरो ! नाहं किमपि जानामि । भवद्भिः यत् बोधितं तत् सर्वं अवकलितम् अस्ति ।
द्रोणः – त्वमेव मे प्रिय शिष्यः । त्वमेव भक्तिमान् । विद्यावान् । भवता साधनीयं कार्यं विद्यते ।
अर्जुनः – गुरो ! किं तत् कार्यं कथयन्तु ।
द्रोणः – तस्मादेव त्वां एकान्तप्रदेशं आनीतवानस्मि । सावधानेन शृणु मया उदीरितम् ।
अर्जुनः – अवहितोऽस्मि ।
द्रोणः – राजा द्रुपदः अहञ्च सहाध्यायिनौ । सकल विद्यासु सः मत्समानः । विशिष्य धनुर्विद्यायां अप्रतिहतकुशलः सः । विद्या परिसमाप्त्यनन्तरं यदा आवां गृहोन्मुखौ अभवाव तदा तेनोक्तं ।
अहं राजा भविष्यामि । मया सार्थं भवान्प्रियम् ।
भुनक्तु गाढं सर्वस्वम् । वित्तं भोगान् सुखं सखे ॥
अर्जुनः – साधु ततस्ततः ।
द्रोणः – एकदा मे सुतः अश्वत्थामा गोक्षीरार्थं रोरूयमाणः आसीत् । तदाहं मम पत्न्या प्रेरितः एकां कपिलां प्रष्टुं द्रुपदस्य समीपं अगच्छम् ।
अर्जुनः – साधु कृतं भवद्भिः ।
द्रोणः – तदा तेन मन्दात्मन् । श्रिया हीनैः धनच्युतैः सख्यं भविष्यति, किन्तु धनिनां राज्ञां, निर्धनानां ब्राह्मणानां सख्यं न भवति । अरथी रथिनः सखा न भवति इत्यवोचत् ।
अर्जुनः – धनश्रिया गर्वान्धः जातः द्रुपदः । ततस्ततः ।
द्रोणः – तदाहं, अयि राजन् ! ते सुहृत् त्वया निर्दयं तिरस्कृतः, विप्रकृतः पन्नगः फणां कुरुते, समयं निरीक्षस्व, कालः विपर्ययः भवति, निरीक्षस्व आवयोः पुनः समागमाय इत्युक्त्वा प्रस्थितोऽहम् ।
अर्जुनः – यथोचितं सुष्टु प्रोक्तं भवद्भिः ।
द्रोणः – तस्मात् अहं मनसि व्यथाविलः आगच्छन्, वीट्या खेलयतां कौरव पाण्डवानां कौशलमपश्यम् । ततः प्रभृति धनुर्विद्यायां त्वं मे परम प्रीतिकरः शिष्यः सञ्जातः । तस्मात् त्वं मे गुरुदक्षिणां प्रयच्छ ।
अर्जुनः – गुरो तदर्थं सन्नद्धोऽस्मि । किं रोचते भवद्भ्यः । आज्ञापयनतु ।
द्रोणः – जीवन्तं द्रुपदं बध्वा मे चरणसन्निधिं प्रापय । इयमेव गुरुदक्षिणा दातव्या ।
अर्जुनः – अनुगृहीतोऽस्मि । तथैव करिष्यामि ।
द्रोणः – पन्थानः सुखिनः सन्तु । मङ्गलानि भवन्तु ते ।
आशिषः सन्ति मे नित्यम् । ईप्सितं चास्तु फल्गुन ॥
अर्जुनः – (नमस्कृत्य प्रस्थितः)
द्रोणः – आशीविष विषप्रपूर्णमानसाः राजानः मधुरगीर्भिः जल्पन्तः तेषां प्रभुत्वं व्यापयन्ति । योग्यमयोग्यं न चिन्तयन्ति । तेषां चण्डशासनं निवारयितुं गरुड मन्त्रवत् ब्राह्मण बुद्धिविशेष एव योग्यः भवति । अधुना मे बुद्धि विशेषेण वज्ररूपिणं द्रुपदराजानं, वज्ररूपिणा अर्जुनेन भेत्तुं प्रयतामि (विहस्य) श्रीमतां राज्ञां निर्धनानां ब्राह्मणानां मैत्री कथं भविष्यति वा दर्शयेयम् । अरे द्रुपद ! ब्राह्मण मेधा अप्रतिहता । चण्डरवि प्रताप इव प्रचण्डः ब्राह्मणः सर्वं साधयिष्यति । न विस्मर्तव्यं भवता । पश्य मे शक्तिं द्रुपद ! पश्य । (इति हसन् गच्छति)
(यवनिका पतति)
*****************************************************************
.
पञ्चमं दृश्यम्
(द्रोमः वृक्षच्छायायां प्रस्थरे उपविशति । ततः प्रविशति सशस्त्रपाणिः अर्जुनः द्रुपदं हस्तग्राहं कृत्वा)
अर्जनः – राजन् प्रचल द्रोणाचार्यसन्निधिम् । (इति द्रुपदं समाकर्षति)
द्रुपदः – (द्रोणाचार्यपादयोः पतति)
द्रोणः – (विहस्य) अयि भोः यूयं द्रुपद महाराजानः । केयं स्थितिः । अहो कालप्रभावः,निर्धन ब्राह्मणस्य पादसन्निधौ श्रीमतां द्रुपद महाराजानां शिरः । किमत्र चित्रम् । किमाश्चर्यम् । श्रिया हीनैः, धनच्युतैः साकं सख्यं भवति तत् सत्यमेव । अहं जितोऽस्मि । त्वं पराभूतोऽसि। आवयोः स्नेहः कथं भवति, इति नाहं वदेयम् । मे शिष्येण धीमता त्वं पराजितोऽसि । नमया । त्वमधुना भग्न दर्पोऽसि । हतधनोऽसि । त्वं मे वशमागतोऽसि । वीर माभैः प्राण भयात् । वयं ब्राह्मणाः क्षमिणः । शृणु ।
आश्रमे तु त्वया बाल्ये । क्रीडितं च मयासह ।
तस्मात् संवर्धित स्नेहः । प्रीतिश्च नृपसत्तम ॥
अपिच । जनाधिप ! त्वया सख्यं पुनः प्रार्थयेयम् । ते राज्यस्यार्थं ददामि, अवाप्नुहि ।
द्रुपदः – ब्रह्मन् । इदं नाश्चर्यं विक्रान्तेषु महात्मसु । त्वया सह शाश्वतीं प्रीतिमिच्छामि ।
द्रोणः – सर्वदा, सर्वथा आवां मित्रे । अहं भवता कृतं तिरस्कारं विस्मरामि । शृणु ।
पुष्पेण भिज्यते नैव । वज्रं जगति पार्थिव ।
ततो वज्रात्मना भाव्यम् । वज्रं वज्रेण भिद्यते ॥
******************************************************
.
]