प्रबोधनम्

[[प्रबोधनम् Source: EB]]

[

प्रबोधनम्

अनश्वरं तं यदुवंश भूषणम् । सदा जगन्नाटक सूत्रधारिणम् ।
विलोभयन्तं जन सन्ततिं धिया । भजामि कृष्णं महि धर्मरक्षकम् ॥

(नान्द्यन्ते)

सूत्रधारः – (नेपथ्याभिमुखं विलोक्य) हञ्जे ! कुटुम्बिनि ।

नटी – आगच्छामि भोः ।

सूत्रधारः – विलम्बः सञ्जातः ।

नटी – एषाऽस्मि ।

सूत्रधारः – हञ्जे ! अवसित मण्डनाऽसि किम् ?

नटी – आम्, अवसित मण्डनाऽस्मि ।

सूत्रधारः – हञ्जे अद्य अस्माभिः प्रबोधनं नाम नाटकं प्रदर्शयितव्यं विद्यते ।

नटी – तदर्थं अहं किं कुर्याम् ।

सूत्रधारः – तस्मिन् नाटके भवत्या गातव्यम् अस्ति ।

नटी – अहं जिगासामि । किन्तु प्रथमतः किं तन्नाटकं, केनलिखितं सविस्तरं कथयतु भवान् ।

सूत्रधारः – अयि कुटुम्बिनि शृणु । गीर्वाणान्ध्र भाषाप्रवीणेन परीक्षित् शर्मणा विरचितमिदं प्रबोधनं नाम नाटकम् । अयं संस्कृतान्ध्र साहित्यप्रपञ्चे प्रख्यातः कविः ।

नटी – अयमेव यशोधरा महाकाव्यस्य, अक्षयगीत रामायणस्य च प्रणेता ।

सूत्रधारः – आम् । अयमेव । अधुना सप्तविंशति एकाङ्किकात्मकं परीक्षिन्नाटकचक्रं लिलेख । तस्मिन् नाटके विराजमानं इदं प्रबोधनं नाम नाटकं प्रदर्शयितुं वयं उद्युक्ताः ।

नटी – गीर्वाण प्रपञ्चे इयती सङ्ख्या परिमितं नाटकसञ्चयं न केनापि कृतं इति मे मनीषा ।

सूत्रधारः – सत्यमेव । यतः । अयं पूर्व सूरिणां पादचिह्नेषु निवसन्, यत् किञ्चित् साहित्यरूपेण, राष्ट्र वासिभ्यः सविनयं, अंशदानेन प्रदातुं प्रयतते ।

नटी – आधुनिकेषु दिवसेषु एतादृशाः विरलाः भान्ति । अयं सत्यं राष्ट्राराधकः । अहं अधुना अधिगत विषयाऽस्मि । किं वस्त्वधिकृत्य, केन रागेण कस्मिन् वृत्ते गातव्यम् आदिशतु भवान् ।

सूत्रधारः – हञ्जे ! वसन्त ऋतुमुद्दिस्य, वसन्त रागेण वसन्ततिलकावृत्ते गाय ।

नटी – शान्तं वसन्त तिलका कलिका प्रभाभिः ।
भृङ्गाङ्गाना लसित गीत पिकालिरावैः ।
सानन्द माधव समागम पुष्पिताशा ।
धात्री प्रियं लसति मञ्जुलराग रम्या ॥

सूत्रधारः – अहो ! अतीव जन रञ्जनं भाति ते कण्ठगत स्वरमाधुर्यम् ।

नटी – (आकर्णयन्ती) इतः कुत्रापि रथ चक्रनेमिघोषः संश्रूयते ।

सूत्रधारः – (आकर्णयन्) सत्यमभिहितं भवत्या । (इतस्ततः पश्यन्) इतः भगवान् श्रीकृष्णः राधेयेन सार्थं स्यन्दनारूढः आगच्छति । नात्रस्थातव्यम् आवाभ्याम् । एहि गच्छावः । (इति गच्छतः)

(ततः प्रविशति राधेयेन सार्थं भगवान् श्रीकृष्णः)

कृष्णः – कर्ण ! किमर्थमहं त्वां अत्र आनयं किं त्वं जानासि ?

कर्णः – कृष्ण नकोऽपि जानाति, तव कृत्यस्य कारणम् । कोऽहं ज्ञातुम् ।

कृष्णः – कर्ण त्वं सनातनान् वेदवादान् जानासि । अपिच सूक्ष्मेषु धर्मशास्त्रेषु परिनिष्ठितोऽसि ।

कर्णः – कृष्ण ! अधुना तैः किं प्रयोजनम् ।

कृष्णः –कर्ण ! यदहं कथयामि तत् सर्वं सत्यम् ।

कर्णः – कथ्यतां भावः ।

कृष्णः – कर्ण त्वं कानीनोऽसि ।

कर्णः – सत्यम् ।

कृष्णः – हाँ सत्यं धर्मतः त्वं पाण्डोः पुत्रोऽसि ।

कर्णः – कथम् ।

कृष्णः – त्वं न जानासि ?

कर्णः – तदहं न जानामि ।

कृष्णः – अहं त्वां ज्ञापयितुमेव अत्रानीतोऽस्मि ।

कर्णः – अहं कानीनः कथम् ?

कृष्णः – शृणु । एकदा दुर्वासाः कुन्ति भोजस्य गृहं समागतः ।

कर्णः –सुलभ क्रोधः, विख्यात ऋषिः दुर्वासाः ।

कृष्णः – आम् स एव ऋषिः ।

कर्णः – अनन्तरम् ।

कृष्णः – कुन्ती तं ऋषिं बाल्ये श्रद्धया अर्चयामास ।

कर्णः – ऋषिपूजनं युक्तमेव भवति भारतीय नारीणाम् ।

कृष्णः – सः ऋषिः प्रीतः तस्यै वरं प्रायच्छत् ।

कर्णः – कोऽयं वरः कीदृशः ।

कृष्णः – सः मन्त्रमेकं उपदिश्य, तेन मन्त्रेण सूर्यः ते वश्यः भविष्यति इति वरं दत्तवान् ।

कर्णः – ततस्ततः ।

कृष्णः – एकदा कुन्ती गङ्गायां स्नातुं गत्वा उद्यन्तं सूर्यं विलोक्य मन्त्रं पपाठ ।

कर्णः – तदा किं जातम् ।

कृष्णः – सूर्यः कुन्त्याः समीपमागत्य, तया सः किञ्चित् कालं यापयामास ।

कर्णः – तेजस्विनां सर्वं साध्यं भवति ।

कृष्णः – आम् लोके असाध्यमपि तेषां साध्यं भवति ।

कर्णः – ततस्ततः ।

कृष्णः – तदा त्वं तस्यां सद्योजातः ।

कर्णः – आश्चर्यमेवैतत् ।

कृष्णः – सावधानतया शृणु ।

कर्णः – भाव ! चित्तैकाग्रेण अवधारयामि ।

कृष्णः – तदा लोक भयात् सा त्वां गङ्गानद्यां एकस्यां पेटिकायां तत्याज ।

कर्णः – अहो किमाश्चर्यमेतत् ।

कृष्णः – सा सूर्यमहिम्ना कन्यात्वं प्राप पुनः ।

कर्णः – भाव ! अयं वृत्तान्तः बहुरोचको भवति ।

कृष्णः – त्वं अधुना विदित वृत्तान्तोऽसि ।

कर्णः – आम् विदित वृत्तान्तोऽस्मि ।

कृष्णः – तस्मात् त्वं कानीनः ।

कर्णः – कृष्ण । अनेन प्रकारेण जन्मतः कानीनः सत्यमेव ।

कृष्णः – ततः त्वं धर्मशास्त्राणां निग्रहात् पाण्डवपक्षे राजा भविष्यसि ।

कर्णः – कृष्ण ! एतावत्पर्यन्तं यदुक्तं भवता तत् सर्वं श्रद्धया शृतम् । इतः परं नाहं श्रोतुमिच्छामि केशव !

कृष्णः –कर्ण ! मद्वाक्यं श्रुणु ।

कर्णः – नहि मे प्रयोजनं भवति केशव ।

कृष्णः – कर्ण, श्रद्धया शृणु । पितृपक्षे ते पार्थाः सन्ति । मातृपक्षे वृष्णयः सन्ति । तस्मात् मत्पक्षं एहि । ते सर्वदा शुभमेव भविष्यति । यतः ।

अवश्यं शृणुमे वाक्यम् । आसान्तं सूर्यनन्दन ।
पार्थाश्च वृष्णयस्सर्वे । सहायास्ते भवन्ति च ॥

कर्णः – कृष्ण ! त्वं मां विमोहयितुमिच्छसि । अधुना तत्कथं भविष्यति । ते कथं मां जानन्ति ।

कृष्णः – शृष्णु !

आयान्तं त्वां मयासार्थम् । अभिजानन्तु पाण्डवाः ।
युधिष्ठिरात्पूर्वजातम् । कौन्तेयं हर्षवर्धनाः ॥

कर्णः – अधुना अभिज्ञानेन किं प्रयोजनं भवति ।

कृष्णः – तथामावद । तत् अत्यन्त प्रयोजनं भविष्यति ।

कर्णः – कथम् ?

कृष्णः – पाण्डव कौरव विरोधः समाप्तः भविष्यति । रक्तपातः न भवति ।

कर्णः – तत् कथम् ।

कृष्णः – त्वमेव कारणं महाभारतयुद्धस्य ।

कर्णः – कथमहं कारणं भवामि ।

कृष्णः – तवाधारेण, तव साहायेन कौरवाः पाण्डवान् जेतुमिच्छन्ति ।

कर्णः – सा भावना निराधारा ।

कृष्णः – निराधारा इति मा वक्तव्यम् ।

कर्णः – भवतु नाम । यत् भावि, तत् भूतम् । अधुना तत् न परिवर्तनीयं भवति ।

कृष्णः – भवतु नाम । शृणु ।

सम्पूजयिष्यन्ति नितान्त भक्त्या । पादौ गृहीत्वा भवतः प्रकामम् ।
ते भ्रातरः पञ्च परं विनीताः । मत्वा धरेन्द्रं मनसा भवन्तम् ॥

कर्णः – कृष्ण ! तव उक्तिवैचित्रिः मे आश्चर्य कारिणी भवति ।

कृष्णः – अपिच शृणु । युधिष्ठिरः ते व्यजनं नीत्वा वीजयिष्यति ।

कर्णः – ततस्ततः ।

कृष्णः – महाश्वेतं छत्रं भीमसेनः तव ग्रहिष्यति ।

कर्णः – ततस्ततः ।

कृष्णः – श्वेत हयैर्युक्तं ते रथं अर्जुनः वाहयिष्यति ।

कर्णः – कृष्णः ! ते भाषणं श्रोत्रपेयं भवति ।

कृष्णः – अरविन्दसमान सुन्दरास्यः डिम्भकः अभिमन्युः नित्यं ते प्रत्यासन्नो भविष्यति ।

कर्णः – अहो महत् भाग्यम् ।

कृष्णः – सत्यमेतत् महत् भाग्यमेव ।

अभिमन्युस्तवोत्सङ्गे । सदा प्रेम्णा चरिष्यति ।
पद्माननो हसन् बालः । सकलानन्ददायकः ॥

महाबाहो ! भ्रातृभिः सह पाण्डवैः राज्यं भुङ्क्ष्व । ते भ्रातृभिः पाण्डवैः सह सौभ्रात्रं अद्यास्तु । अपिच ।

अहं स्वयं त्वामभिषिच्य राज्ये । सर्वसहापालनदक्ष भूपम् ।
समस्त सौख्यानि विधाय कर्ण । क्षेमं त्वदीयं शतथा करिष्ये ॥

कर्णः – हे वेदवेद्य कृष्ण ! भवता प्रतिपादितं सर्वं जानाम्यहम् । अहं धर्मतः पाण्डोः पुत्रोऽस्मि किन्तु ।

आदित्यस्य प्रभावेन । कन्या साऽसूत मां प्रियम् ।
विसृष्टोहं तया सद्यः । स्तन्यपानं विना हरे ॥

कृष्णः – तत् दैविकं सञ्जातम् । त्वं तत् विस्मर ।

कर्णः – कृष्ण ! अहं तथा जातः किन्तु तया यथा कुशलं न भवति तथा विसर्जितः । किमत्र विद्यते यत्किमपि मातृवात्सल्यम् ?

अम्बेति कथितं नैव । आवाभ्यां पुत्रकेतिच ।
नानुभुक्तं च वात्सल्यम् । लौकिकं जीवने हरे ॥

कृष्णः – अयं दैवनिर्णयः ।

कर्णः – वेदपुरुष ! सूतः मां दृष्ट्वा गृहमभ्यनयत् । राधा मां अपोषयत्, तस्मादहं राधेयः ।

कृष्णः –कर्ण ! त्वं जन्मना कौन्तेयः पोषणेन राधेयः ।

कर्णः – वेदवेद्य ! सूतः मां सुतं अभिजानाति । सः मे जातकर्मादीन् कारयामास । अपिच वसुषेणेति नाम कारयामास ।

कृष्णः – एतत् सर्वं अप्रस्तुतं भवति मे ।

कर्णः – गोविन्द ! भवतापि अप्रस्तुत प्रशंसा कृता ।

कृष्णः – (विहस्य) ओम् । ततस्ततः ।

कर्णः – माधव ! अहं विवाहितः । मम पुत्राः पौत्राश्च जाताः ।

कृष्णः – इयं लोकपरिपाटिः भवति ।

कर्णः – श्रीधर ! तासु मे हृदयं कामबन्धितं सञ्जातम् ।

कृष्णः – किं ते उक्तिः समाप्तिमागता ?

कर्णः – हृषीकेश ! पृथिव्या सकलया । उत सुवर्ण राशिभिश्च, नोचेत् भयात् हर्षात् वा नोत्सहे मिथ्यां कर्तुम् ।

कृष्णः – कात्र मिथ्या । सर्वास्थितिः प्रत्यक्ष गोचरा ।

कर्णः –पद्मनाभ ! शृणु ।

धार्तराष्ट्र कुले सत्यम् । दुर्योधन समाश्रयात् ।
त्रयोदश समाराज्यम् । मया भुक्तमकण्टकम् ॥

कृष्णः – कौन्तेय ! जानाम्यहं सर्वमेतत् ।

कर्णः – नारायण ! सम्बन्धाः विवाहाश्च मया सूतैः कृताः ।

कृष्णः – कर्ण मया कथितं सर्वं रक्तसम्बन्ध बान्धव्यमेव । परमार्थतः तत्वं कथयामि न कथाम् ।

कर्णः – केशव ! नाहं कुर्यां किमपि विषयेऽस्मिन् ।

भयलोभात् वधात् कर्तुम् । अनृतं नोत्सहे हरे ।
धार्तराष्ट्रस्य भूपस्य । मित्रद्रोहन्तु पातकम् ।

वधात्, भयात्, लोभात्, बन्धात्, अनृतं नोत्सहे कर्तुं धार्तराष्ट्रस्य । तव वशित्वात् पाण्डवाः सर्वं कुर्युः नात्र संशयलेशोऽपि विद्यते ।

कृष्णः –कर्ण त्वमहं अन्यत् महत्तमं विषयं कथयामि श्रद्धालुर्भव ।

सती प्रिया पाण्डव धर्मपत्नी । यस्यै पुरा भण्डनमेव जातम् ।
यज्ञात् प्रभूता सुरसुन्दरी या । षष्ठं पतिं त्वां मनसा वृणीता ॥

कर्णः –कृष्ण ! मां शतथा अङ्गीकारोन्मुखं कर्तुं त्वं प्रयतसे । मां बहुधा विलोभयसि । किन्तु मामकीनं मनः अन्यायं कर्तुं न समीहते ।

कृष्णः – कर्ण ! सन्निहितेषु सन्दर्भेषु तदा तदा असत्यं अन्यायं च कर्तव्यं भवति । तत् धर्मशास्त्र प्रमाणिकं च भवति ।

कर्णः – अच्युत ! यदि धर्मात्मा मां कुन्त्याः प्रथमजं पुत्रं जानाति, सः राज्यं न ग्रहिष्यति ।

कृष्णः – तत् सर्वं अहं पश्येयम् । ते विचारः मास्तु ।

कर्णः – यदि अहं तत् राज्यं प्राप्नुयां तर्हि तत् दुर्योधनाय दद्याम् । किमर्थं एतत् सर्वं करणीयम् । धर्मात्मा स एव शाश्वतः युधिष्ठिरः अस्तु ।

कृष्णः – किं समाप्तं तव भाषणम् ।

कर्णः – जनार्दन यत् चिन्तितं यत् अनुभूतं, मया तत् सविस्तरं निर्भयं तव निकटे उच्चारितम् ।

कृष्णः – अयि कर्ण ! राज्य लम्भोऽपपादनं त्वां न लभेत्, मया दत्तां पृथिवीं न प्रशाशयितुमिच्छसि शृणु ।

जयो भवत्येवहि पाण्डवानाम् । अन्योन्य सम्भूत रणाङ्गणे तु ।
तदा भवन्तं विलपन्तमाजि । त्रातुं न भूतो भवतीह वीरः ॥

कर्णः – जानाम्यहं महात्मन् ।

कृष्णः – त्वं न किमपि जानसि । शृणु ।

युधि ते रोदनं कोऽपि । न श्रोष्यति महाभुज ।
गाण्डीविनं महायुद्धे । कोऽपि नैव विजेष्यति ॥

कर्णः – कृष्ण ! अहं प्रयतिष्यामि अर्जुनं प्रतिरोध्दुम् ।

कृष्णः – कर्ण ! प्रतिरोध्दुं तं तव समयः अपि लभ्यः न भवति । शृणु ।

श्वेताश्वरथिनं युद्धे । गर्जन्तं कृष्णसारथिम् ।
कपिकेतन बीभत्सुम् । दृष्ट्वा मृत्युं भवेः परम् ॥

अपिच ।
धर्मात्मा यदि कृद्धोऽस्ति । समैक्यं यान्ति सागराः ।
दृष्ट्वा तत् भीषणं दृश्यम् । सर्वेनष्टाः भवन्ति च ॥

गाण्डीविनं महाबाहो । शङ्करोऽपि न जेष्यति ।
लक्षाधिकैश्च राधेयैः । धार्तराष्टैश्च किं भवेत् ॥

कर्ण, त्वं अभिमान धनोऽसि । वर्तमान स्थितिं त्वं न जानासि । कथं ज्ञास्यति वर्तिष्यमाणम् । अहं त्रिकालज्ञः । सर्वं ते कथयिष्यामि शृणु । अर्जुनस्य गाण्डीव निर्घोषं अशनि घातमिवमत्वा सर्वे इतस्ततः पलायिताः भवेयुः ।

राजनः राजपुत्राश्च । दुर्योधन समायुताः ।
निधनं प्राप्य बाणैश्च । भजेयुर्नरकं ध्रुवम् ॥

कर्णः – वासुदेव ! त्वं भविष्यमाणं जानासि तथापि मां सम्मोहयितुमिच्छसि । जानाम्यहं पृथिव्याः विनाशः सम्प्राप्तः इति । अहं शकुनिः दुश्शासनः दुर्योधनश्च निमित्ताः । कृष्ण असंशयं महत् युद्धं उपस्थितं पाण्डवानां, कौरवाणां च ।

पराजिताः भवेयुश्च । धार्तराष्ट्राः न संशयः ।
विजेताश्च भविष्यन्ति । पाण्डवेयाः स्वयं ध्रुवम् ॥

सर्वे वयं गाण्डीवाग्निं प्रवेक्ष्यामः । सर्वेऽपि शस्त्राग्नि दग्धाः यमसदनं प्राप्स्यन्ति ।

कृष्णः – कर्ण ! वसुन्धरा अवश्यं विनाशं प्राप्स्यति । सर्वनाशः त्वन्मूलं भविष्यति । मदीयं वचनं ते हृदयं नोपैति ।

वसुन्धराविनाशोऽयम् । सूचितोऽशुभसूचकैः ।
त्वन्मूलं भविता नूनम् । विद्धि सर्वं महारथ ॥

कर्णः – कृष्ण ! यदि वयं अस्मात् रणात् जीवन्तः भवेम, त्वां पश्यामः । नोचेत्, कृष्ण, स्वर्गे मिलिष्यामः ।

कृष्णः – कर्ण !

सतां वचः सदाश्रेयः । मन्तव्यं बुद्धिशालिभिः ।
विनाशकाले सम्प्राप्ते । बुद्धि नाशो विजायते ॥

कर्णः – कृष्ण ! भवता प्रतिपादितं सत्यं भवति । अहं विश्वसिमि त्वां वेदवेद्यः इति।

विश्वासः सुहृदां लोके । सर्वलाभ प्रदायकः ।
विश्वासबद्ध राजानम् । सन्त्यज्य निवसेः कथम् ॥

अपिच ।
विश्वस्त मित्रं स्वार्थाय । वञ्चयेयं कथं हरे ।
मरणं मे वरं लोके । जीवने मित्र वञ्चनात् ॥

अहं स्वार्थाय धार्तराष्ट्राणां अपकारकः न भवेयम् । पुनर्मिलनाय मां आदिश । नमस्तेस्तु भगवन् । (नमस्कृत्य गच्छति)

कृष्णः – रक्तपातं निवारयितुं शतथा कृत प्रयत्नोऽभवम् । किन्तु भविष्यमाणं न कोपि निरोत्स्यति ।

पृथिव्याः नाशनं प्राप्तम् । उल्कापाताः भवन्ति च ।
सर्वे वीराश्च शत्रूणाम् । प्राप्स्यन्ति मरणं ध्रुवम् ॥

(इति गच्छति)

(यवनिका पतति)

****************************************************************

.

द्वितीयं दृश्यम्

(भागीरथी तीरे कुन्ती एकाकिनी उपविश्य चिन्तयन्ती आस्ते)

कुन्ती – (आत्मगतम्) श्रुतं मया विदुरात् यत् कृष्णः कुरुभ्यः असिद्ध अनुनयः पाण्डवान् प्रत्यागतः इति । अपिच अविग्रह भाववचनं श्रीकृष्णस्य सुयोधनः नाङ्गीचकार । असौ चेदि पाञ्चाल केकयैः भीमार्जुनाभ्यां कृष्णेन यमैश्च युयुधानः अस्ति । किन्तु युधिष्ठिरः सर्वदा धर्ममेव काङ्क्षते । ध्रुतराष्ट्रः पुत्रशत मदेन मत्तः निधर्मे पथि चलति । अवश्यं कुरूणां अनयः भविता । अहो बत अहं कथं मे बाधां सहेयं, केनमार्गेण मे शान्तिः भविष्यति । अहं दुःखार्ता । हाधिक् महान् ज्ञाति वधः भवति । अधनस्य मरणं श्रेयः । नहि ज्ञातिक्षयः जयः । शान्तनवः चमूपतिः आचार्यः, कर्णश्च धार्तराष्ट्रार्थं वर्धयन्ति । कर्णः सदा पाण्डवान् द्वेष्टि । दुर्वासाः मे वरं ददौ । स्त्री भावात् बालभावाच्च तदा तथा अचिन्तयम् । मार्ताण्डः समागतः । कन्यादशायां स्थितायां मयि कर्णः सञ्जाताः । मार्ताण्ड मायया अहं पुनः कन्यकात्वं अवाप । अधुना समयः सम्प्राप्तः । इयन्तं कालं सर्वमपि मे हृदि गूढं निक्षिप्तं मया । मातृ हृदयं कथं परितपति, शुष्यति, नृत्यति, रसपूर्णं भवति नकोपि जानाति । केवलं माता जानाति ।

धर्मः स्थिरो भवत्यत्र । धर्मो धारयते भुवम् ।
तस्माद्धर्म गमिष्यामि । शरणं जीवने भृशम् ॥

यः कानीनगर्भे मे पुत्रवत् परिरक्षितः सः कथं भ्रातृ हितं वचनं न कुर्यात् । सः एतावत् पर्यन्तं न जानाति। ज्ञानाविर्भावानन्तरं सः पाण्डवपक्षं समेष्यति । अयं मे प्रथमगर्भशुक्ति मुक्ताफलम् । स्त्रीणां स्वीयापत्यं मधुरं भवति । काकशाबकः काकस्य प्रीतिकरः भवति । गत्वाहं अधुनैव कर्णस्य भागीरथी तीरगृहं तेन सर्वमपि विदितं यथा भवेत् तथा कथयेयम् । (इति अश्रुकररुहैः परिमार्जयन्ती गच्छति)

(यवनिका पतति)

********************************************************************

.

तृतीयं दृश्यम्

(भागीरथीतीर गृहम् । कुन्ती उपविष्टा अस्ति । ततः प्रविशति कर्णः)

कर्णः – मातः कासित्वम् ।

कुन्ती –अहं पाण्डवानां जननी । अहं भवन्तं द्रष्टुं समागताऽस्मि ।

कर्णः – राधेयोऽहम् । त्वामभिवादये । (इति नमस्करोति) ते किं करवाणि ब्रूहि मातः ।

कुन्ती –अनामयं ते भवतु कुमार । (इति हस्तमुद्यम्य कथयति)

कर्णः – काऽसित्वम् । किं ते सहायं करिष्यामि ब्रूहिमातः ।

कुन्ती –किञ्चिन्मे कथनीयं विद्यते ।

कर्णः – कथ्यतां अवहितोऽस्मि ।

कुन्ती –सुत ! त्वं राधेयः नहि । कौन्तेयः। त्वं सूतकुले न जातः । मे वचः विद्धि । एतदुदन्तं कथयितुमेव त्वत्सकाशं समागताऽस्मि ।

कर्णः – हे मातः । सर्वं जानाम्यहम् । शृतं मया श्रीकृष्म मुखारविन्दात् । तथापि ।

किमिच्छसि त्वं वद मातृमूर्तेम् । मत्तः प्रियं सौख्यकरं विनाभीः ।
कथं त्वमस्यां भयद क्षपायाम् । समागताशोक परीतचित्ता ॥

कुन्ती –अहं एतदिच्छामि त्वां कथयितुम् । त्वं कानीनः । कुन्तीराजस्य भवने मम सञ्जातः । हे पुत्रक ! त्वं पार्थः असि । यथा राम जनार्दनौ, तथा कर्णार्जुनौ भवेताम् । संहितात्मनोः युवयोः असाध्यं लोके नस्यात् । कर्ण ! त्वं शोभिष्यसे पञ्चाभिः भ्रातृभिः सहितः । त्वं सूतपुत्रो नहि । त्वं वीर्यवान् पाण्डववंशे सञ्जातोऽसि । शृणु ।

त्रयीतनुप्राभव दत्तरूपः । कन्यादशायां मम चारुमूर्ते ।
जातः पुरा हाटक कुण्डलाभ्याम् । जानीहि सत्यं त्वमसीति पार्थ ॥

कर्णः – मातः ! अहं क्षत्रियो जातः। किन्तु न प्राप्तः क्षत्रसत्क्रियाम् । मम हितं पूर्वं त्वया मातृवत् न चेष्ठितम् । सा मां सम्बोधयसि अद्य केवलं आत्महितैषिणी । पूर्वं अभ्राता विदितः । अधुना युद्धकाले प्रकाशितः । यदि पाण्डवानहं गच्छामि लोकः किं मां क्षत्रं वदिष्यति ? अहं धार्तराष्ट्राणां अफलं कथं कुर्याम् । ततः ।

कर्णः परं नश्यतु किन्तु मातः । धर्मस्वरूपस्सततं धरण्याम् ।
चकास्तु दद्याद्बहु वारसानाम् । सुनीतिमार्गं मम धर्म मार्गात् ॥

कुन्ती –कानीन ! त्वं पाण्डवपक्षं समागच्छ । त्वां दृष्ट्वैव दुर्योधनः युद्धाय कृतनिश्चयः । त्वया हीनः धार्तराष्ट्रः जलनिर्गत मत्स्यः इव विचेष्टमानः भवति । तदा युद्धविरामः भविष्यति । त्वयि केन्द्रीकृताः धार्तराष्ट्राणां भावना विशेषाः । युद्धाऽभावे सर्वोऽपि देशः सर्व समृर्ध्या नर्तिष्यति । त्वन्मूलकः देशसौख्यः भवति । त्वं पाण्डवानां अग्रजोऽसि । त्वं मे वचनं शृणु ।

कर्णः – माता ! त्वं अधुना स्वार्थे विचेष्टमाना पाण्डवान् त्रातुं मम समीपं भिक्षार्थं समागतासि, यतः कर्णः भिक्षितः स्वजीवितमपि दास्यतीति । विद्यते किं ते मातृहृदयम् । तदानीं त्वं निर्दया मातृहृदय विहीना मां सद्योजातं शिशुं गडगयां विसृष्टवती । किमिदं ते मातृ हृदयं भवति । प्रेमपरीत हृदया माता कदापि शिशुं न त्यजति जलधारायाम् । व्यतीतानि संवत्सराण्यनेकानि । एतावत्पर्यन्तं कर्णः कः कुत्र विद्यते ? कथं विद्यते इति ते उत्सुकताऽपि नासीत् । अधुना पञ्चपाण्डवेषु सञ्जातममकारेण मत्सकाशात् तेषां हानिः यथा न भूयात् तथा शब्दं नेतुं त्वं समागतवती । एतत् निश्चयं ज्ञायते यत् ते मातृ हृदयं नास्तीति । त्वं पाण्डव रक्षाभिक्षार्थं समायाताऽसि । नहि कर्णोऽपरिस्यन्दमान प्रेम्णा । अहं प्रथमतः त्वां पश्यामि मम जीवने । एतावत्पर्यन्तं भवती मे दृष्टिपथं नायता किमिदमाश्चर्यम् ।

कुन्ती –सुत ! त्वं मातृ हृदयं अज्ञात्वा मातृ वात्सल्यं टीकां करोषि । मातरं विनिन्दसि । त्वं मम तदा वर्तमान स्थितिं, समाज रचनां च विचार्य मां विनिन्द । अहं कस्यां स्थित्यां तथाऽकरत्वं त्वं न जानासि । अहं त्वत्कृत निन्दां सेहे । मम कन्या दशायां त्वं जातोऽसि । तादृशी स्थितिः लोके टीकास्पदा भवति । तस्मात् तत् वृत्तमासीत् । अहं सर्वं मातृहृदयेन ब्रवीमि । नाहं जानामि यत् युद्धं उभयोः वंशयोः भविष्यतीति। अहं अचिन्तयं यत्र कुत्रापि त्वं कुशली जीवन् असि इति। अधुना भविष्यमाणं युद्धं विचार्य पुत्रप्रेम्णा त्वां द्रुष्टुं प्रष्टुञ्च समागताऽस्मि । युद्धस्तु अनिवार्यः कृतः दुर्योधनेन । अस्मिन् संयुगे कः जीविष्यति कः मरिष्यति नकोऽपि वक्तुं समर्थः भवति । जयाजयौः दैवनिर्णीतौ । तस्मात् त्वां सत्यं ज्ञापयितुं समयेऽस्मिन् समागतास्मि । त्वं सद्यस्थितिं सत्यं ज्ञात्वा व्यवहर । यत् भविष्यति तत् भविता ।

कर्णः – दैवम् । दैवं कुत्र विद्यते । सर्वस्यापि वयमेव कारणम् । श्रीकृष्णात् सर्वं ज्ञात्वाहं कथयामि यत् पाण्डवानां जयः निश्चयः भवति इति । तथापि धर्म नाहं त्यक्ष्यामि । इदं वपुः दुर्योधन समाश्रयात् पुष्टं विवर्धितं च । बहवः समाः तस्य सकाशे यापिताः । अधुनाऽहं तं त्यक्त्वा त्वत्सकाशं आगच्छेयं यदि धर्मनाशकः भविष्यामि । तदपेक्ष्या मम मरणमेव वरं मातः । मे अपकीर्तिभारजीवनं योग्यं न भवति । किन्तु कीर्तिकृते अहं मरिष्यामि । मातः यत् उद्भूतं जगति तत् सर्वं यदा कदावा । नशिष्यति । तस्मात् मरणात् मे भीतिः न विद्यते । अपयश सः भीतिः जायते । अयं मे निर्णयः नाहं पाण्डवपक्ष गन्ता । यतः ।

स्वार्थाय लोके सततं यतन्ते । जनाः परं धर्मपथं विहाय ।
माताऽसि सत्यं ननु पाण्डवानाम् । तवाऽपि नास्त्येवहि धर्मभावः ॥

कुन्ती –त्वं मे बाधां न जानासि । मातृदेवो भव इति वेदाः घोषयन्ति । वयं वेदमतानुंयामिनः । त्वं मातृदेवो भव ।

कन्यादशायां शतथा प्रसूतिः । लोकापवादस्य निदान भूता ।
इत्येवमालोक्य ससर्ज बालम् । हेतुर्नचास्तीह सुत द्वितीयः ॥

कर्णः – अहं न तृणी करोमि ते कथनम् । लोके विद्यमान स्थितिं कथयामि । माता यदि शिशोः मलमूत्रादिकं उद्धृत्य स्वच्छतां करोति, तेन शिशुना सार्थं खेलति, तस्य सुखदुःखादिकं आत्मीयं पश्यति सा माता भवितुमर्हिति, तदा स माता मातृ हृदय पूर्णा भवति । मयि तत् कर्म त्वया न कृतम् । ततः मयि न विद्यते पुत्रप्रेम । अहं कदापि त्वां मातः जननि, अम्बे इति नाहूतवानस्मि । अनेन कारणेन त्वयि मम मातृ भावना नास्ति । त्वं जानासि मां प्रसूतवती इति । तस्मात् तत् प्रसूति कारणं निमित्तीकृत्य मां बोधयितुं समागतासि । मम शैशवं त्वमदृष्टवती । तव मातृ हृदयं अहं अदृष्टवानास्मि । तस्मात् आवयोर्मध्ये माता सुत भावः शून्यरूपेणास्ति ।

कुन्ती –त्वं अतीव कठोरं वदसि । त्वं मातृ हृदयानभिज्ञः । हृदय विहीनः । त्वं अन्येषां बाधां न जानाषि । अहं मे बाधां विशदयितुं अशक्ता भवामि । अधुना मे स्थितिः क्रमुक कर्तरामध्ये क्रमुकस्य स्थितिरिवास्ति । अहं प्रेम्णा तुलाभारमिव माध्यस्तमवलम्बे ।

कर्णः – भवती मम् समक्षं तव भावं विदशयितु । अहं सन्नद्धोऽस्मि ते भावनानुसारं विधातुम् ।

कुन्ती –सुत ! शृणु यदि त्वं युद्धे मरिष्यसि पञ्च पाण्डवाः मे जीविष्यन्ति । यदि त्वया युद्धे अर्जुनः व्यापादितः भवति तर्हि त्वयासहिताः पाण्डवाः पञ्चपाण्डवाः भविष्यन्ति । एतदेव मे कामितं भवति ।

कर्णः – शृतं मया ते कामना काऽस्ति । तस्मात् कथयामि ते सुतान् न हनिष्यामि । शतशः युद्धे मे मरणमेव भवति सर्वथा ।

कुन्ती – (कर्णै पिधाय) शान्तं पापं तथामावद पुत्र ।

कर्णः – शृणु मातः ।

न ते जातु नशिष्यन्ति । पाण्डवाः पञ्च भ्रातरः ।
निरर्जुनास्सकर्णाश्च । सार्जुनाः पञ्च पूर्वकम् ॥

कुन्ती –(कर्णस्य वचः शृत्वा दुःखात् प्रवेपमाना कर्णं धैर्येण समालिन्ङ्ग्य) कर्ण दैवं तु बलवत्तरम् ।

कर्णः – जननि ! अनामयं स्वस्ति च ते भवतु ।

कुन्ती – (अश्रु सम्मार्ज्य) कर्ण पार्थ ! तेप्यनामयं स्वस्तिच भवतु । (इति कुन्ती चिन्तया निर्गच्छति)

कर्णः – अहो ! सर्वथा मम जीवने अनेके अन्तरायाः भवन्ति । इयं सृष्टिः अतीव विचित्रा । सर्वथा सर्वेण स्वगम्यस्थानं प्राप्तुं प्रयत्नशीलेन भवितव्यम् । (आत्मगतम्) जयस्त्वस्मान् वरिष्यति ।

मेधावी शकुनिश्चाहम् । राजा दुर्योधनस्तथा ।
दुश्शासनश्च चण्डात्मा । जेष्यामो पाण्डवान् ध्रुवम् ॥

मार्गे अनेके अन्तरायाः भवन्ति तथापि जनाः गम्यस्थानं प्रविशन्ति । तद्वत् कौरवाः विघ्नाभिहताः अन्ततः युद्धे विजेतारः भविष्यन्ति । अधुनाऽहं राजराजसभां गच्छेयम् । (इति निष्क्रान्तः)

(यवनिका पतति)

**********************************************************

.

]