[[पञ्चरात्रम् Source: EB]]
[ पञ्चरात्रम् पञ्चरात्रस्य नाटकीय - भूमिका दूर्योधनः — कुरुराज। भीष्मः — दुर्योधनादीनां पितामहः। द्रोणः — दुर्योधनादीनां धनुराचार्यः। कर्णः — अङ्गोश्वरो दुर्योधनस्य सखा। शकुनिः — दुर्योधनस्य मातुलः। भटः — दुर्योधनस्य भृत्यः। वृद्धगोपालकः — विराटस्य गोकुलाध्यक्षः। गोमित्रकः — कश्चिद् गोपालः। राजा — मत्स्यदेशाधिपतिर्विराटनामा। भगवान् — ब्राह्मणव्यञ्जनो युधिष्ठिरः। भीमसेनः — धर्मपुत्रस्यानुजः। अर्जुनः — तथा बृहन्नला — अर्जुनः स्त्रीरूपधरः। अभिमन्युः — अर्जुनस्य पुत्रः। उत्तरः — विराटस्य पुत्रः। सूतः — विराटस्याभिमन्योश्च सारथिः। काञ्चुकीयः , टूतः , भटः — विराटस्य परिजनः पञ्चरात्रम् ( नान्द्यन्ते ततः प्रविशति सूत्रधारः। ) सूत्रधारः — द्रोणः पृथिव्यर्जुनभीमदूतो यः कर्णधारः शकुनीश्वरस्य। दुर्योधनो भीष्मयुधिष्ठिरः स पायाद् विराडुत्तरगोऽभिमन्युः ॥ 1 ॥ ( परिक्रम्य ) एवमार्यमिश्रान् विज्ञापयामि। अये किन्नु खलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते। अङ्ग ! पश्यामि। ( नेपथ्ये ) अहो कुरुराजस्य यज्ञसमृद्धिः। सर्वैरन्तःपुरैः सार्धं प्रीत्या प्राप्तेषु राजसु। यज्ञो दुर्योधनस्यैष कुरुराजस्य वर्तते ॥ 2 ॥ ( निष्क्रान्तः। ) इति स्थापना। अथ विष् कम्भकः ( ततः प्रविशन्ति ब्राह्मणास्त्रयः। ) सर्वे — अहो ! कुरुराजस्य यज्ञसमृद्धिः। प्रथमः — इह हि , द्विजोच्छिष्टैरन्नैः प्रकुसुमितकाशा इव दिशो हविर्धूमैः सर्वे हृतकुसुमगन्धास्तरुगणाः। मृगैस्तुल्या व्याघ्रा वधनिभृतसिंहाश्च गिरयो नृपे दीक्षां प्राप्ते जगदपि समं दीक्षितमिव ॥ 3 ॥ द्वितायः — सम्यग् भवानाह। तृप्तोऽग्निर्हविषामरोत्तममुखं तृप्ता द्विजेन्द्रा धनै - स्तृप्ताः पक्षिगणाश्च गोगणयुतास्ते ते नराः सर्वशः। हृष्टं सम्प्रति सर्वतो जगदिदं गर्जन्नृपे सद्गुणै - रेवं लोकमुदारुरोह सकलं देवालयं तद्गुणैः ॥ 4 ॥ तृतीयः — इमेऽत्रभवन्तो द्विजातयः , राज्ञां वेष्टनपट्टघृष्टचरणाः श्लाघ्यप्रभूतश्रवा वार्द्धक्येऽप्यभिवर्धमाननियमाः स्वाध्यायशूरैर्मुखैः। विप्रा यान्ति वयः प्रकर्षशिथिला यष्टित्रिपादक्रमाः शिष्यस्कन्धनिवेशिताञ्चितकरा जीर्णा गजेन्द्रा इव ॥ 5 ॥ सर्वे – भो भो माणवकाः ! भो भो माणवकाः ! अनवसितेऽवभृथस्नाने न खलु तावदग्निरुत्स्रष्टव्यो भवद्भिः। प्रथमः — हा धिग , दर्शितमेव तावद् बटुचापलम्। एषा दीप्तैकयूपा कनकमयभुजेवाभाति वसुधा चैत्याग्निलौकिकाग्निं द्विज इव वृषलं पार्श्वे न सहते। नात्यर्थं प्लुष्टपृष्ठा हरितकुशतया वेदी परिवृता प्राग्वंशं चैष धूमो गज इव नलिनीं फुल्लां प्रविशति ॥ 6 ॥ द्वितीयः — एवमेतद् , अग्निरग्निभयादेष भीतैर्निर्वास्यते द्विजैः। कुले व्युत्क्रान्तचारित्रे ज्ञातिर्ज्ञातिभयादिव ॥ 7 ॥ तृतीयः — शकटी च घृतापूर्णा सिच्यमानापि वारिणा। नारीवोपरतापत्या बालस्नेहेन दह्यते ॥ 8 ॥ प्रथमः — सम्यग भवानाह। एतां चक्रधरस्य धर्मशकटीं दग्धुं समभ्युद्यतो दर्भे शुष्यति नीलशाद्वलतया वह्निः शनैर्वामनः। वातेनाकुलितः शिखापरिगतश्चक्रं क्रमेणागतो नेमीमण्डलमण्डलीकृतवपुः सूर्यायते पावकः ॥ 9 ॥ द्वितायः — इदमपरं पश्य , वल्मीकमूलाद् दहनेन भीतास्तत्कोटरैः पञ्च समं भुजङ्गाः। समं विपन्नस्य नरस्य देहाद् विनिःसृताः पञ्च यथेन्द्रियाणि ॥ 10 ॥ तृतीयः — इदमपरं पश्येतां भवन्तौ , दह्यामानस्य वृक्षस्य सानिलेन मखाग्निना। कोटरान्तरदेहस्थाः खगाः प्राणा इवोद्गताः ॥ 11 ॥ प्रथमः — एवमेतत् , शुष्केणैकेन वृक्षेण वनं पुष्पितपादपम्। कुलं चारित्रहीनेन पुरुषेणेव दह्यते ॥ 12 ॥ वनं सवृक्षक्षुपगुल्ममेतत् प्रकाममाहारमिवोपभुज्य। कुशानुसारेण हुताशनोऽसौ नदीमुपस्प्रष्टुमिवावतीर्णः ॥ 13 ॥ द्वितीयः — एष एषः , गतो वृक्षाद् बृक्षं विततकुशचीरेण दहनः कदल्या विप्लुष्टं पतति परिणआमादिव फलम्। असौ चाग्रे तालो मधुपटलचक्रेण महता चिरं मूले दग्धः परशुरिव रुद्रस्य पतति ॥ 14 ॥ तृतीयः – हन्त सत्पुरुषरोष इव प्रशान्तो भगवान् हुताशनः। एतदग्नेर्बलं नष्टमिन्धनानां परिक्षयात्। दानशक्तिरिवार्यस्य विभवानां परिक्षयात् ॥ 15 ॥ प्रथमः — स्रग्भाण्डमरणीं दर्भानुपभुङ्क्ते हुताशनः। व्यसनित्वान्नरः क्षीणः परिच्छदमिवात्मनः ॥ 16 ॥ द्वितीयः — अवनतविटपो नदीपलाशः पवनवशाच्चलितैकपर्णहस्तः। दवदहनविपन्नजीवितानामुदकमिवैष करोति पादपानाम् ॥ 17 ॥ तृतीयः — तदागम्य ताम। वयमपि तावदुपस्पृशामः। उभौ — बाढम्। ( सर्वे उपस्पृश्य ) प्रथमः — अयो अयमत्रभवता कुरुराजो दुर्योधनो भीष्मद्रोणपुरःसरः सर्वराजमण्डलेनानुगम्यमान इत एवाभिवर्तते इमे हि , यज्ञेन भोजय महीं जय विक्रमेण रोषं परित्यज , भव स्वजने दयावान्। इत्येवमागतकथामधुरं ब्रुवन्तः कुर्वन्ति पाण्डवपरिग्रहमेव पौराः ॥ 18 ॥ तदागम्यताम्। वयमपि तावत् कुरुराजं सम्भावयामः। उभौ — बाढम्। सर्वे — जयतु भवान् जयत्। ( निष्क्रान्ताः सर्वे। ) इति विष्कम्भकः। अथ प्रथमोऽङ्कः ( ततः प्रविशतो भीष्मद्रोणौ। ) द्रोणः — धर्ममालम्बमानेन दुर्योधनेनाहमेवानुगृहीतो नाम। कुतः , अतीत्य बन्धूनवलह्घ्य मित्राण्याचार्यमागच्छति शिष्यदोषः। बालं ह्यपत्यं गुरवे प्रदातुर्नैवापराधोऽस्ति पितुर्न मातुः ॥ 19 ॥ भीष्मः — एष दुर्योधनः , अवाप्य रूप्यग्रहणात् समुच्छ्रयं रणप्रियत्वादयशो निपीतवान्। निषेव्य धर्मं सुकृतस्य भाजनं स एव रुपेण चिरस्य शोभते ॥ 20 ॥ ( ततः प्रविशति दुर्योधनः कर्णः शकुनिश्च। ) दुर्योधनः — कृतश्रद्धो ह्यात्मा वहति परितोषं गुरुजनो जगद् विश्वस्तं मे निवसति गुणो नष्टमयशः। मृतैः प्राप्यः स्वरगो यदि कथयत्येतदनृतं परोक्षो न स्वर्गो बहुगुणमिहैवैष फलति ॥ 21 ॥ कर्णः — गान्धारीमातः ! न्यायेनागतमर्थमतिसृजता न्याप्यमेव भवता कृतम्। कुतः , बाणाधीना क्षत्रियाणां समृद्धिः पुत्रापेक्षी वञ्चयते सन्निधाता। विप्रोत्सङ्गे वित्तमावर्ज्य सर्वं राज्ञा देयं चापमात्रं सुतेभ्यः ॥ 22 ॥ शकुनिः — सम्यगाह गङ्गोपस्पर्शनाद् धौतकल्मषाङ्गोऽङ्गराजः। कर्णः – इक्ष्वाकुशर्य्यातिययातिराममान्धातृनाभागनृगाम्बरीषाः। एते सकोशाः पुरुषाः सराष्ट्रा नष्टाः शरीरैः क्रतुभिर्धरन्ते ॥ 23 ॥ सर्वे — गान्धारीमातः ! यज्ञसमाप्त्या दिष्ट्या भवान् वर्धते। दुर्योधनः — अनुगृहीतोऽस्मि। भो आचार्य ! अभिवादये। द्रोणः — एह्येहि पुत्र ! अयमक्रमः। दुर्योधनः अथ कः क्रमः। द्रोणः — किं न पस्यति भवान् , दैवतं मानुषीभूतमेष तावन्नमस्यताम्। अन्यायाचरणं मन्ये भीष्ममुत्क्रम्य वन्दितुम् ॥ 24 ॥ भीष्मः — मा मा भवानेवम्। बहुभिः कारणैरपकृष्टोऽहं भवतः। कुतः , अहं हि मात्रा जनितो भवान् स्वयं ममायुधं वृत्तिरपह्नवस्तव। द्विजो भवान् क्षत्रियवंशजा वयं गुरुर्भवान् शिष्यमहत्तरा वयम् ॥ 25 ॥ द्रोणः — नोत्सहन्ते महात्मानो ह्यत्मानमपस्तोतुम्। एहि पुत्र ! अभिवादयस्व माम। दुर्योधनः — आचार्य ! अभिवादये। द्रोणः — एह्येहि पुत्र ! एवमेवावभृथस्नानेषु खेदमवाप्नुहि। दुर्योधनः — अनुगृहीतोऽस्मि। पितामह ! अभिवादये। भीष्मः — एह्येहि पौत्र ! एवमेव ते बुद्धिप्रशमनं भवतु। दुर्योधनः — अनुगृहीतोऽस्मि। मातुल ! अभिवादये। शकुनिः — वत्स ! एवमेव क्रतून् सर्वान् समानीयाप्तदक्षिणान्। राजसूये नृपान् जित्वा जरासन्ध इवानय ॥ 26 ॥ द्रोणः — अहो ! आशीर्वचनऽपि शकुनिरुद्योगं जनयति। अहो ! प्रियविरोधः खल्वयं क्षत्रियकुमारः। दुर्योधनः — वयस्य कर्ण ! गुरुजनप्रणआमावसाने प्राप्तक्रममुपभुज्यतां वयस्यविस्रम्भः। कर्णः — गान्धारीमातः ! क्रतुव्रतैस्ते तनु गात्रमेतत् सोढुं बलं शक्ष्यसि पीडयानि। अनतस्त्वनामन्त्र्य न धर्षयामि राजर्षिधीराद् वचनाद् भयं मे ॥ 27 ॥ दुर्योधनः — एवमेव ते बुद्धिरस्तु। द्रोणः — पुत्र दुर्योधन ! एष महेन्द्रप्रियसखो भीष्मको नाम भवन्तं सभाजयति। दुर्योधनः — स्वागतमार्याय। अभिवादये। भीष्मः — पौत्र दुर्योधन ! एष दक्षिणापथपरिघभूतो भूरिश्रवा नाम भवन्तं सभाजयिष्यति। दुर्योधनः — स्वागतमार्याय। द्रोणः – पुत्र दुर्योधन ! भवतो यज्ञं सभाजयता वासुभद्रेण प्रेषितोऽभिमन्युर्भवन्तं सभाजयति। शकुनिः — वत्स दुर्योधन ! एष जरासन्धपुत्रः सहदेवो भवन्तमभिवादयति। दुर्योधनः — एह्येहि वत्स ! पितृसदृशपराक्रमो भव। सर्वे — एतत् सर्वराजमण् डलं भवन्तं सबाजयति। दुर्योधनः — अनुगृहीतोऽस्मि। भोः ! किन्नु खलु समागते सर्वराजमण्डले विराटो नागच्छति। शकुनिः — प्रेषितोऽस्य मया दूतः , शङ्के पथि वर्तत इति। दुर्योधनः — भो आचार्य ! धर्मे धनुषि चाचार्य ! प्रतिगृह्यतां दक्षिणा। द्रोणः — दक्षिणेति। भवतु भवतु। व्यपश्रयिष्ये तावद् भवन्तम्। दुर्योधनः — कथमाचार्योऽपि व्यपश्रयिष्यते। भीष्मः — भोः ! किन्नु खलु प्रयोजनं , यदा – पीतः सोमो बाल्यदत्तो नियोगाच्छत्रच्छाया सेव्यते ख्यातिरस्ति। किं तद् द्रव्यं किं फलं को विशेषः क्षत्राचार्यो यत्र विप्रो दरिद्रः ॥ 28 ॥ दुर्योधनः — आज्ञापयतु भवान् किमिच्छति। किमनुतिष्ठामि . द्रोणः — पुत्र दुर्योधन ! कथयामि। दुर्योधनः — किमिदानीं भवता विचार्यते , प्राणाधिकोऽस्मि भवता च कृतोपदेशः शूरेषु यामि गणनां कृतसाहसोऽस्मि। स्वच्छन्दतो वद किमिच्छसि किं ददानि हस्ते स्थिता मम गदा भवतश्च सर्वम् ॥ 29 ॥ द्रोणः — पुत्र ! ब्रवीमि खलु तावत्। बाष्पवेगस्तु मां बाधते। सर्वे — कथमाचार्योऽपि बाष्पमुत्सृजति। भीष्मः — पौत्र दुर्योधन ! अफलस्ते परिश्रमः। दुर्योधनः — कोऽत्र। ( प्रविश्य ) भटः जयतु महाराजः। दुर्योधनः — आपस्तावत्। भटः — यदाज्ञापयति महाराजः। ( निष्क्राम्य प्रविश्य ) जयतु महाराजः। इमा आपः। दूर्योधनः आनय। ( कलशं गृहीत्वा ) भो आचार्य ! अश्रुपातोच्छिष्टस्य क्रियतां शौचम्। द्रोणः — भवत् भवतु। मम कार्यक्रियैव मुखोदकमस्तु। दुर्योधनः — हा धिक् , यदि विमृशसि पूर्वजिह्मतां मे यदि च समर्थयसे न दास्यतीति। शरशतकठिनं प्रयच्छ हस्तं सलिलमिदं करणं प्रतिग्रहाणाम् ॥ 30 ॥ द्रोणः — हन्त लब्धो मे हृदयविश्वसः। पुत्र ! श्रूयतां , येषां गतिः क्वापि निराश्रयाणं संवत्सरैर्द्वादशभिर्न दृष्टा। त्वं पाण्डवानां कुरु संविभागमेषा च भिक्षा मम दक्षिणा च ॥ 31 ॥ शकुनिः —( सौद्वोगम् ) मा तावद् भोः ! उपन्यस्तस्य शिष्यस्य विश्वस्तस्य च गौरवे। यदप्रस्तुतमुत्पाद्य युक्तेयं धर्मवञ्चना ॥ 32 ॥ द्रोणः — कथं धर्मवञ्चनेति। मा तावद्। भो गान्धारविषयविस्मित शकुने ! त्वदनार्यबावात् सर्वलोकमनार्यमिति मन्यसे। हन्त भोः ! भातॄणां पैतृकं राज्यं दीयतामिति वञ्चना। किं वरं याचितैर्दत्तं बलात्कारेण तैर्हृतम् ॥ 33 ॥ सर्वे — कथं बलात्कारेण नाम . भीष्मः पौत्र दुर्योधन ! अवभृथस्नानमात्रमेव खलु तावत्। मित्रमुखस्य शत्रोः शकुनेर्वचनं न श्रोतव्यम्। पश्य पौत्र ! यत् पाण्डवा द्रुपदराजसुतासहायाः कान्ताररेणुपरुषाः पृथिवीं भ्रमन्ति। यत् त्वं च तेषु विमुखस्त्वयित ते च वामा - स्तत् सर्वमेव शकुनेः परुषावलेप ॥ 34 ॥ दुर्योधन — भवत् , एवं तावदाचार्य ! पृच्छामि। द्रोणः — पुत्र ! कथय। दुर्योधनः — यत् पुरा ते सभामध्ये राज्ये माने च धर्षिताः। बलात्कारसमर्थैस्तैः किं रोषो धारितस्तदा ॥ 35 ॥ द्रोणः — अत्रेदानीं धर्मच्छलेन वञ्चितो द्यूताश्रयवृत्तियुधिष्टिरः प्रष्टव्यः , येन भीमः सभास्तम्भं तुलयन्नेव वारितः। यद्येकस्मिन् विमुक्तः स्यान्नास्माञ्छकुनिराक्षिपेत् ॥ 36 ॥ भीष्मः — अन्यत् प्रस्तुतमन्यदापतितम्। भो आचार्य ! कार्यमत्र गुरुतरं , न कलहः। द्रोणः — मात्र कदर्थनं कार्य , कलह एव भवत्। भीष्मः — प्रसीदत्वाचार्यः पश्य पौत्र ! ये दुर्बलाश्च कृपणाश्च निराश्रयाश्च त्वत्तश्च शर्म मृगयन्ति न गर्वयन्ति। ज्येष्ठो भवान् प्रणयिनस्त्वयि ते कुटुम्बे तान् धारयिष्यसि मृगैः सह वर्तयन्तु ॥ 37 ॥ शकुनिः — वर्तयन्तु वर्तयन्तु . कर्णः — भो आचार्य ! अलममर्षेण। दुर्योधनो हि नाम , हितमपि परुषार्थं रुष्यति श्राव्यमाणो वरपुरुषविशेषं नेच्छति स्तूयमानम्। गतमिदमवसानं रक्ष्यतां शिष्यकार्यं गज इत बहुदोषोमार्दवेवेनैव ग्राह्यः ॥ 38 ॥ द्रोणः — वत्स कर्ण ! तेजस्वि ब्राह्मण्यम्। काले सम्बोधितोऽस्मि। एषोऽहं भवतच्छन्दमनुवर्ते। पुत्र दुर्योधन ! अहं तव प्रभावी ननु। भीष्मः — एष इदानीं मार्गेणारब्धः। सान्त्वं हि नाम दुर्विनीतानामौषधम्। दुर्योधनः — न ममैव , कुलस्यापि मे भवान् प्रभुः। द्रोणः — एतत् तवैव युक्तम्। तत् पुत्र ! त्वं वञ्च्यसे यदि मया न तवात्र दोष - स्त्वां पीडयामि यदि वास्तु तवैव लाभः। भेदाः परस्परगता हि महाकुलानां धर्माधिकारवचनेषु शमीभवन्ति ॥ 39 ॥ दुर्योधनः — तेन हि समर्थयितुमिच्छामि। द्रोणः — पुत्र ! केन समर्थयितुमिच्छसि। भीष्मेण कर्णेन कृपेण केन किं सिन्धुराजेन जयद्रथेन। किं द्रौणिनाहो विदुरेण सार्धं पित्रा स्वमात्रा वद पुत्र ! केन ॥ 40 ॥ दुर्योधनः — नहि नहि , मातुलेन। द्रोणः — शकुनिना। हन्त विपन्नं कार्यम्। दुर्योधनः — मातुल ! इतस्तावत्। वयस्य कर्ण ! इतस्तावत्। द्रोणः — भवतु , एवं तावत् करिष्ये। वत्स गान्धाराज ! इतस्तावत्। शकुनिः — अयमस्मि। द्रोणः — वत्स ! क्रोधप्रायं वयो जीर्णं क्षन्तव्यं वटुचापलम। अस्य रूक्षस्य वचसः परिष्वङ्गः शमीक्रिया ॥ 41 ॥ भीष्मः —( आत्मगतम् ) एष शिष्यस्य वात्सल्याच्छकुनिं याचने गुरुः। एवं सान्त्वीकृतो ह्येष नैव मुञ्चति जिह्मताम् ॥ 42 ॥ शकुनिः —( आत्मगतम् ) अहो शठः खल्वाचार्यः स्वकार्यलोभान्मां सान्त्वयति। ( सर्वे परिक्रम्योपविशन्ति। ) दुर्योधनः — मातुल ! पाण्डवानां राज्यार्धं प्रति को निश्चयः शकुनिः — न दातव्यमिति मे निश्चयः। दुर्योधनः — दातव्यमिति वक्तुमर्हति मातुलः शकुनिः — यदि दातव्ये राज्ये किमस्माभिः सह मन्त्रयसे। ननु सव्रमेव प्रदीयताम्। दुर्योधनः — वयस्य अङ्गराज ! भवानिदानीं न किञ्चिदाह। कर्णः — इदानीं किमभिदास्यामि , रामेण भुक्तां परिपालितां च सुभ्रातृतां न प्रतिषेधयामि। क्षमाक्षमत्वे तु भवान् प्रमाणं सङ्ग्रमकालेषु वयं सहायाः ॥ 43 ॥ दुर्योधनः — मातुल ! बलवत्प्रत्यमित्रोऽनुपजीव्यश्च कश्चित् कुदेशाश्चिन्त्यताम् ! तत्र वसेयुः पाण्डवाः। शकुनिः — हन्त भोः ! शून्यमित्यभिधास्यामि कः पार्थाद् बलवत्तरः। ऊषरेष्वपि सस्यं स्याद् यत्र राजा युधिष्ठिरः ॥ 44 ॥ दुर्योधनः — अथेदानीम् – गुरुकरतलमध्ये तोयमावर्जितं मे श्रुतमिह कुलवृद्धैर्यत् प्रमाणं पृथिव्याम्। तदिदमपनयो वा वञ्चना वा यथा वा भवतु नृप ! जलं तत् सत्यमिच्छामि कर्तुम् ॥ 45 ॥ शकुनिः — अनृतवचनान्मोचयितव्यो भवान् ननु। दुर्योधनः — अथ किम्। शकुनिः तेन हि इतस्तावत्। ( उपसृत्य ) भो आचार्य ! इहात्रभवान् कुरुराजो भवन्तं विज्ञापयति। द्रोणः — वत्स गान्धारराज ! अभिधीयताम्। शकुनिः — यदि पञ्चरात्रेण पाण्डवानां प्रवृत्तिरुपनेतव्या , राज्यस्यार्धं प्रदास्यति किल ! समानयतु भवानिदानीम्। द्रोणः — मा तावद् भोः ! ये कुर्तुकामैश्लछनं भवद्भिः संवत्सरैर्द्वादशभिर्न दृष्टाः। ते पञ्चरात्रेण मयोपनेया वरं ह्यदत्तं विशदाक्षरेण ॥ 46 ॥ भीष्मः — पौत्र दुर्योधन ! अच्छलो धर्मः। वयमपि तावदस्मिन्नर्थे प्रीताः स्मः। पश्य पौत्र ! वर्षेण वा वर्षशतेन तेषां त्वं पाण्डवानां कुरु संविभागम्। तस्मात् प्रतिज्ञां कुरु वीर ! सत्यां सत्या प्रतिज्ञा हि सदा कुरूणाम् ॥ 47 ॥ दुर्योधनः — एष एव मे निश्चयः। द्रोणः —( आत्मगतम् ) अद्य मे कार्यलोभेन हनूमत्त्वं गता स्पृहा। लङ्घयित्वार्णवं येन नष्टा सीता निवेतदिता ॥ 48 ॥ तत् कुतो नु खलु पाण्डवानां प्रवृत्तिरुपनेतव्या। ( प्रविश्य ) भचः — जयतु महाराजः। विराटनगराद् दूतः प्राप्तः। सर्वेः — शीघ्रं प्रेवेश्यताम्। भचः — यदाज्ञापयथ। ( निष्क्रान्तः ) ( प्रविश्य ) दूतः — जयतु महाराजः। सर्वे — किमागतो विराटेश्वरः। भटः —- विषादेनावृतो नोपगच्छति , यत्तत्सम्बन्धि सन्निकृष्टं कीचकानां भ्रातृशतं , रात्रौ छन्नेन केनापि बाहुभ्यामेव हिंसितम्। दृश्यते हि शरीराणामशस्त्रजनितो वधः ॥ 49 ॥ भीष्मः — कथमशस्त्रेणेति। भो आचार्य ! अभ्युपगम्यतां पञ्चरात्रम्। द्रोणः — किमर्थम्। भीष्मः — भीमसेनस्य लीलैषा सुव्यक्तं बाहुशालिनः योऽस्मिन् भ्रातृशते रोषः स तस्मिन् फलितः शते ॥ 50 ॥ द्रोणः — कथं भवान् जानाति। भीष्मः — कथं पण्डित ! कूलेषु ब्रान्तानां बाल्चापलम्। नाभिजानन्ति वत्सानां श्रृङ्गस्थानानि गोवृषाः ॥ 51 ॥ द्रोणः — गोवृषा इति। हन्त सिद्धं कार्यम्। पुत्र दुर्योधन ! अस्तु पञ्चरात्रम्। दुर्योधनः — अथ किम्। द्रोणः — भो भो यज्ञमनुभवितुमागता राजानः ! श्रृण्वन्तु श्रृण्वन्तु भवन्तः। इहात्रभवान् कुरुराजो दुर्योधनः , न , न , मातुलसहितः यदि पाण्डवानां प्रवृत्ति रुपनेतव्या , राज्यस्यार्धं प्रदास्यति किल। ननु पुत्र ! दुर्योधनः — अथ किम्। द्रोणः — एतद् द्विस्त्रिः सम्प्रधार्यताम्। शकुनिः — काले ज्ञास्यामि। द्रोणः — ननु गाङ्गेय ! भीष्मः —( आत्मगतम् ) आचार्यस्य यदा हर्षो धैर्यमुत्क्रम्य सूचितः। शङ्के दुर्योधनेनैष वत्र्च्यमानेन वञ्चितः ॥ 52 ॥ ( प्रकाशम ) पौत्र दुर्योधन ! अस्ति मम विराटोनाप्रकाशं वैरम् , अथ भवतो यज्ञमनुभवितुमनागत इति। तस्मात् क्रियतां तस्य गोग्रहणम्। ब्राह्मणार्जवबुद्धे ! धर्षिता रथशब्देन रोषमेष्यन्ति पाण्डवाः। अस्ति तेषां कृतज्ञत्वमिष्टं गोग्रहणे स्थितम् ॥ 53 ॥ ( प्रविश्य ) भचः — सज्जाः खलु रथा वाहाः प्रवेशाभिमुखाय ते। दुर्योधनः — एभिरेव रथैः शीघ्रं क्रियतां तस्य गोग्रहः। गदा यज्ञप्रशान्ता च पुनर्मे करमेष्यति ॥ 54 ॥ द्रोणः — तस्मान्मे रथमानयन्तु पुरुषाः , शकुनिः — हस्ती ममानीयतां , कर्णः — भारार्थं भृशमुद्यतैरिह हयैर्युक्तो रथः स्थाप्यताम्। भीष्मः — बुद्धिर्मे त्वरते विराटनगरं गन्तुं धनुस्त्वर्यतां सर्वेः — मुक्त्वा चापमिहैव तिष्ठतु भवानाज्ञाविधेया वयम् ॥ 55 ॥ द्रोणः — पुत्र दुर्योधन ! आवां तव युद्धे पराक्रमं द्रष्टुमिच्छावः। दुर्योधनः — यदभिरुचितं भवते। द्रोणः — वत्स गान्धारराज ! अस्मिन् गोग्रहणे तव खलु प्रथमरथः। शकुनिः — बाढम्। प्रथमः कल्पः। ( निष्क्रान्ताः सर्वे। ) इति प्रथमोऽङ्कः ( ततः प्रविशति वृद्धगोपालकः ) वृद्धगोपालकः — गावो मे अहीणवच्छा होन्तु। अविहवा अ गोवजुवदीओ होन्तु। णो लाआ विलाडो एक्कच्छत्तप्पुहुवीपदी होदु। महालाअष्ष विलाकडश्श वष्षवड्ढणगोप्पदाणिमित्तं इमष्षिं णअलोववणवीहीए आअन्तु गोधणं षव्वो च किदमङ्गलमोदआगोवदालआ दालिआ अ दाव। एषु ज्येट्ठं गच्छिअ अणुभविष्षम्। ( विलोक्य ) किण्णु हु एषो वाअषो षुक्खलुक्खं आलुहिअ षुक्खषाखाणिघट्टिअतुण्डं आदिच्चाहिमुहं विष्षलं विलवगदि। षन्ती होदु षन्ती होदु अम्हाणं गोधणष्ष अ। जाव एषु ज्जेट्ठं गच्छिअ गोवदालआणं दालिआणं वाहलामि। गोमित्तअ ! गोमित्तअ ! । [ गावो मेऽहीनवत्सा भवन्त। अविधवाश्च गोपयुवतयो भवन्तु। अस्माकं राजा विराट एकच्छत्रपृथिवीपतिर्भवतु। महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमङ्गलमोदका गोपदारका दारिकाश्च तावत्। एषु ज्यैष्ठ्यं गात्वानु भविष्यमि। किन्नु खल्वेष वायसः शुष्कवृक्षमारुह्तय शुष्कसाखानिघट्टिततुण्डमादित्याभिमुखं विस्वरं विलपति। शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च। यावदेषु ज्यैष्ठ्यं गत्वा गोपदारकान् दारिका व्याहरामि गोमित्रक ! गोमित्रक !] ( प्रविश्य ) गोमित्रकः — मातुल ! वन्दामि। [ मातुल ! वन्दे। ] वृद्धगोपालकः — षन्ती होदु षन्ती होदु अम्हाअं गोधणष्ष अ। अलो गोमित्तअ ! महालाअष्ष विलाडश्श वष्पवड्ढणगोप्पदाणणिमित्तं इमष्षिं णअलोववणवीहीए आअन्तु गोधणं षव्वे च किदमङ्गलमोदआ गोवदालिआ अ। अले गोमित्तअ ! गोवदालआणं दालिआणं वाहल। [ शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोधनस्य च। अरे गोमित्रक ! महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीथ्यामायान्तु गोधनं सर्वे च कृतमङ्गलमोदका गोपदारका दारिकाश्च। अरे गोमित्रक ! गोपदारकान् दारिका च व्याहर। ] गोमित्रकः — जं मादुलो आणवेदि। गोलक्खिणिए ! घिदपिण्ड ! षामिणि ! वषभदत्त ! कुम्भदत्त ! महिषदत्त ! आअच्छह आहच्छह शिग्घं। [ यन्मातुल आज्ञापयति। गोरक्षिणिके ! घृतपिण्ड ! स्वामिनि ! वृषभदत्त ! कुम्भदत्त ! महिषदत्त ! आगच्छतागच्छत शीघ्रम्। ] ( ततः प्रविशन्ति सर्वे। ) सर्वे — मादुल ! वन्दामो। [ वन्दामहे। ] वृद्धगोपालकः — षन्ती होदु षन्ती होदु अम्हाणं गोवदालआणं। महालाअष्ष विलाडष्ष वष्षवड्ढणगोप्पदाणणिमित्तं इमष्षिं णअलोववणवीहीए आअन्तु गोधणं। तत्तअं वेलं गाअन्तो णच्चन्तो होम। [ शान्तिर्भवतु शान्तिर्भवतु अस्माकं गोपदारकाणां दारिकाणां च। महाराजस्य विराटस्य वर्षवर्धनगोप्रदाननिमित्तमस्यां नगरोपवनवीथ्यामायातु गोधनम्। तावतीं वेलां गायन्तो नृत्यन्तो भवामः। ] वृद्धगोपालकः — ही ही षुट्ठु णच्चिदम् , षुट्ठु गाइदं ! जाव अहं पि णच्चेमि। [ हीही शुष्ठु नर्तितं , सुष्ठु गीतं , यावगदहमपि नृत्यामि। ] सर्वे — हाहा मादुल ! अदिमहन्तं लेणुं उप्पदिदो। [ हा हा मातुल ! अतिमहान् रे णुरुत्पतितः ] वृद्धगोपालकः — ण हु लेणु एव्वं , षंखदुन्दुभिघोषं उप्पदिदो। [ न खलु रेणुरेव , शङ्खदुन्दुभिघोषः उत्पतितः ] सर्वे — दिवाचन्दप्पभापम्ड़ुलजोणहावगुण्ठिदो षदमण्डलु षुय्यो अत्थि अ णत्थि अ। दिवाचन्द्रप्रभापाण्डुरज्योत्स्नावगुण्ठितः शतमण्डलः सूर्योऽस्ति च नास्ति च। गोमित्रकः — हाहा मादुल ! एदे के वि मणुष्षा दहिपिण्डपण्डहेहि छत्तेहि घोडअषअडिअं आलुहिअ षव्वं घोषं विद्दवन्ति चोला। हाहा मातुल मातुल ! एते केऽपि मनुष्या दधिपिण्डपाण्डरैश्छत्रैर्गोटकशकटिकामारुह्य सर्वे विद्रवन्ति चोराः। वृद्धगोपालकः — हीही परषंपादा उट्ठिदा। दारआ ! दालिआ ! षिग्घं षक्कणं पविषह। हीही शंरसंपाता उत्थिताः। दारका ! दारिकाः ! शीघ्रं पक्कणं प्रविशत। ] वृद्धगोपालकः — हाहा चिट्ठह चिट्ठह। पहरह पहरह। गण्हह गण्हह। इमं वुत्तन्तं महालाअविलाडश्स णिवेदइष्षामो। [ हाहा तिष्ठत तिष्ठत। प्रहरत प्रहरत। गृह्णीत गृह्णीत। इमं वृत्तान्तं महाराजविराटाय निवेदयिष्यामः। ] ( निष्क्रान्तः। ) ( ततः प्रविशति भटः ) भटः — भो भो निवेद्यतां महाराजाय विराटेश्वराय — एता हि दस्युकर्मप्रच्छन्नविक्रमैर्धार्तराष्ष्ट्रैर्ह्रियन्ते गाव इति। तत्र हि , द्रुतैश्च वत्सैर्व्यथितैश्च गोगणैर्निरीक्षणत्रस्तमुखैश्च गोवृषैः। कृतार्तनादाकुलितं समन्ततो गवां कुलं शोच्यमिहाकुलाकुलम् ॥ ( नेपथ्ये ) किं धार्तराष्ट्रैरिति। भटः — आर्य ! अथ किम्। ( प्रविश्य ) काञ्चुकीयः — सदृशमेतद् भ्रातृजनेष्वपि द्रोहिणाम्। सज्जैश्चापैर्बद्धगोधाङ्गुलित्रा वर्मच्छन्नाः कल्पितस्यन्दनस्थाः। वीर्योत्सिक्ता युद्धसज्जाः कृतास्त्रा राज्ञो वैरं गोषु निर्यातयन्ति ॥ 2 ॥ जयसेन ! जन्मनक्षत्रक्रियाव्यापृतस्य महाराजस्य तावदकालनिवेदनं मन्युमुत्पादयति। तस्मात् पुण्याहावसाने निवेदयिष्ये। भटः — आर्य ! अतिपाति कार्यमिदं , शीघ्रं निवेद्यताम्। काञ्चुकीयः — इदं निवेद्यते। इति विष्कम्भकः ******************************************************** . अथ द्वितीयोऽङ्कः ( ततः प्रविशति राजा। ) राजा — मा तावद् व्यथितविकीर्णबालवत्सा गावो मे रथरवशङ्कया हियन्ते। पीनांसश्चलवलयः सचन्दनार्द्रो निर्लज्जो मम च करः कराणि भुङ्क्ते ॥ 3 ॥ जयसेन ! जयसेन ! ( प्रविश्य ) भटः — जयतु जयतु महाराजः। राजा — अलं महाराजशब्देन। अवधूतं ने क्षत्रियत्वम्। उच्यतां रणविस्तरः। भटः — न विस्तरार्हाणि विप्रियाणि। एष समासः , एकवर्णेषु गात्रेषु गवां स्यन्दनरेणुना। कशापातेषु दृश्यन्ते नानावर्णविभक्तयः ॥ 4 ॥ राजा — तेन हि , धनुरुपनय शीघ्रं कल्प्यतां स्यन्दनो मे मम गतिमनुयातु च्छन्दतो यस्य भक्तिः। रणशिरसि गवार्थे नास्ति मोघः प्रयत्नो निघनमपि यशः स्यान्मोक्षयित्वा तु धर्मः ॥ 5 ॥ भटः — यदाज्ञापयति महाराजः। ( निष्क्रान्तः। ) राजा — भोः। किन्नु खलु दुर्योधनस्य मामन्तरेण वैरम्। आ यज्ञमनुभवितुमागत इति। कथमनुभवामि। कीचकानां विनाशेन वयमुन्नीतसन्तापाः संवृत्ताः। अथवा परोक्षमपि पाण्कडवानां स्निग्ध इति। सर्वथा योद्धव्यम्। हास्तिनपुरनिवासाच्छीलज्ञो भगवान् दुर्योधनस्य। अथवा , कामं दुर्योधनस्यैष न दोषमभिधास्यति। अर्थित्वादपरिश्रान्तः पृच्छत्येव हि कार्यवान् ॥ 6 ॥ कोऽत्र। भटः — जयतु महाराजः। राजा — भगवांस्तावदाहूयताम्। ( निष्क्रान्तः। ) ( ततः प्रविशति भगवन्। ) भगवान् —( सर्वतो विलोक्य ) भोः ! किन्नु खल्विदम्। गजेन्द्राः कल्प्यन्ते तुरगपतयो वर्मरचिताः रथाः सानूकर्षाः कृतपरिकरा योधपुरुषाः। समुद्योगं दृष्टवा भयमननुभूतं स्पृशति मां न खल्वात्मन्यस्तं कृतमतिरहं ते तु चपलाः ॥ 7 ॥ राजा — जयतु भगवान् जयतु। विराटो भगवन् ! अभिवादये। भगवान् — स्वस्ति। विराटः — भगवन् ! एतदासनमास्यताम्। भगवान् —( उपविश्य ) भो राजन् ! उद्योगः प्रस्तुतः कस्माच्छ्रीर्न सन्तोषमिच्छति। पीडयिष्यति सोत्सेकान् पीडितान् मोक्षयिष्यति ॥ 8 ॥ राजा — भगवन् ! गोग्रहणादवमानितोऽस्मि। भगवान् — केन कारणेन। राजा — धार्तराष्ट्रैः। भगवान् —( आत्मगतम् ) भोः कष्टम् , एकोदकत्वं खलु नाम लोके मनस्विनां कम्पयते मनांसि। वैरप्रियैस्तैर्हि कृतेऽपराधे यत्सत्यमस्माभिरिवापराद्धम् ॥ 9 ॥ विराटः — भगवान् ! किमिदानीं विचार्यते। भगवान् — न खलु किञ्जित्। तेषामुत्सेकः। राजा — अद्यप्रभृति निभृता भविष्यन्ति। यदि शक्तोऽपि युधिष्ठरो मर्षयति , अहं न मर्षयामि। भगवान् —( आत्मगतम् ) अद्येदानीं पर्णशय्या च भूमौ राज्यभ्रं शो द्रौपदीधर्षणं वा। वेषान्यत्वं संश्रितानां निवासः सर्वं श्लाघ्यं यत्क्षमा ज्ञायते मे ॥ 10 ॥ ( प्रविश्य ) भटः — जयतु महाराजः। राजा — अथ किं चेष्टते दुर्योधनः। भटः — न खलु दुर्योधन एव , पृथिव्यां राजानः सर्वे प्राप्तः। द्रोणश्च भीष्मश्च कजयद्रथश्च शल्लोऽङ्गराजः शकुनिः कृपश्च। तेषां रथोत्कम्पचलत्पताकैर्भग्ना ध्वजैरेव वयं न बाणैः ॥ 11 ॥ राजा —( उत्थाय कृताञ्जलिः ) कथं तत्रभवान् गाङ्गेयोऽपि प्राप्तः। भगवान् — साधु धर्षितेनापि नातिक्रान्तः समुदाचारः। ( आतच्मगतम् ) भोः , किमर्थं खलु सम्प्राप्तः कुरूणां गुरुरुत्त्मः। शङ्के तीर्णा प्रतिज्ञेति स्मारणं क्रियते मम ॥ 12 ॥ ( प्रकाशम् ) राजा — कोऽत्र। ( प्रविश्य ) भटः — जयतु महाराजः। विराटः — सूतस्तावदाहूयताम्। भटः — यदाज्ञापयति महाराजः। ( निष्क्रान्तः। ) ( प्रविश्य ) सूतः — जयत्वायुष्मान्। विराटः — रथमानय शीघ्रं मे श्लाघ्यः प्राप्तो रणातिथिः। तोषयिष्ये शरैर्भीष्मं जेष्यामीत्यमनोरथः … 13 ॥ सूतः — यदाज्ञापयत्यायुष्मान्। आयुष्मन् ! रिपूणां सैन्यभेदेषु यस्ते परिचितो रथः। रथचर्यां बहिष्कर्तु तमास्थायोत्तरो गतः ॥ 14 ॥ विराटः — कथं निर्यातः कुमारः भगवान् — भो राजन् ! संवार्यतां संवार्यतां कुमारः। अगणितगुणदोषो युद्धतीक्ष्णश्च बाल्या - न्न च दहति न कश्चित् सन्निकृष्टो रणाग्निः। अथ च परिहरन्ते धार्तराष्ट्रा न किञ्चिन् न खलु परिभवात् ते युद्धदोषान् ब्रवीमि ॥ 15 ॥ राजा — तेन हि शीघ्रमन्यो रथः कल्प्यताम्। सूतः — यदाज्ञापयत्यायुष्मान्। राजा — अथवा एहि तावत्। सूतः — आयुष्मन् ! अयमस्मि। राजा — त्वमिदानीं कुमारस्य किं न वाहितवान् रथम्। अनुज्ञातोऽसि किं तेन न राज्ञां सारथिर्भवान् ॥ 16 ॥ सूतः — प्रसीदत्वायुष्मान्। रथं कल्प . यित्वा तु सूतसमुदाचारेणोपस्थितः खल्वहम्। कुमारेण , किन्नु तत्परिहासार्थं किन्नु तत्रास्ति कौशलम्। मामतिक्रम्य सारथ्ये विनियुक्ता बृहन्नला ॥ 17 ॥ भगवान् — राजन् ! अलमलं सम्भ्रमेण। यदि स्वचक्रोद्धतरेणुदुर्दिनं रथं समास्थआय गता बृहन्नला। परान् क्षणऐर्नेमिर्वैर्निवारयन् विनापि बाणान् रथ एव जेष्यति ॥ 18 ॥ राजा — तेन हि शीघ्रमन्यो रथः कल्प्यताम्। सूतः — यदाज्ञापयत्यायुष्मान् ( निष्क्रान्तः ) ( प्रविश्य ) भटः — भग्नः खलु कुमारस्य रथः। राजा — कथं भग्नो नाम। भटः — श्रोतुमर्हति महाराजः। बहुभिः समाराभिज्ञैराछिर्न्नाऽस्वपथः परैः। भग्नो वाहनलोभेन श्मशानाभिमुको रथः ॥ 19 ॥ भगवानन् —( आत्मागतम् ) आ अत्र खलु गाण्डीवम्। ( प्रकाशम् ) भो राजन् ! निमित्तं किञ्चिदुत्पन्नं श्मशानाभिमुखे रथे। धार्तरास्ट्राः स्थिता यत्र श्मसानं तद् भविष्यति ॥ 20 ॥ राजा — भगवन् ! अकाले स्वस्थवाक्यं मन्युमुत्पादयति। भगवान् — अलं मन्युना। कदाचिदनृतं नोक्तपूर्वम्। राजा — आ अस्त्येतत्। गच्छ भूयो ज्ञायतां वृत्तान्तः। भटः — यदाज्ञापयचति महाराजः। ( निष्क्रान्तः। ) राजा — को नु खल्वेष सहसा कम्पयन्निव मेदिनीम्। नदीस्रोत इवाविद्धः क्षणात् संवर्तते ध्वनिः ॥ 21 ॥ ज्ञायतां शब्दः। ( प्रविश्य ) भटः — जयतु महाराजः। श्मशानान्मुहूर्तविश्रान्ततुरगेण कुमारेण तु - भगवान् — एष मामनृतवादिनं न कुर्यात्। भटः — कृता नीला नागाः शरशतनिपातेन कपिला हयो वा योधो वा न कश्चिच्छरशतम्। शरैः स्तम्भीभूताः शरपरिकराः स्यन्दनवराः शरैश्छन्ना मार्गाः स्रवति धनुरुग्रां शरनदीम् ॥ 22 ॥ भगवान् —( आत्मागतम् ) एतदक्ष्यतूणीत्वं येन शक्रस्य खाण्डवे। यावत्यः पतिता धारास्तावन्तः प्रेषिताः शराः ॥ 23 ॥ राजा — अथ परेष्विदानीं को वृत्तान्तः। भटः — अप्रत्यक्षं हि तत्र मे। प्रवृत्तिपुरुषाः कथयन्ति – धनुर्घोषं द्रोणस्तदिदमिति बुद्ध्वा प्रतिगतः ध्वजे बाणं दृष्टवा कृतमिति न भीष्मः प्रहरति। शरैर्भगनः कर्णः किमिदमिति चान्ये नृपतयो भयेऽप्येको बाल्यान्न भयमभिन्युर्गणयति ॥ 24 ॥ भगवान् — कथमभिमन्युः प्राप्तः। भो राजन् ! युध्यते यदि सौभद्रस्तेजोग्निर्वशयोर्द्वयोः। सारथिः प्रेष्यतामन्यो विक्लवात्र बृहन्नला ॥ 25 ॥ राजा — मा मा भवानेवम्। भीष्मं रामशरैरभिन्नकवचं द्रोणं च मन्त्रायुधं कृत्वा कर्णजयद्रथो च विमुखौ शेषांश्च तांस्तान् नृपान्। सौभद्रं स्वशरैर्न धर्षयति किं भीतः पितुः प्रत्ययात् संसृष्टोऽपि वयस्यभावसदृशं तुल्यं वयो रक्षति ॥ 26 ॥ भटः — एष खलु कुमारस्य रथः , आलम्बितो भ्रमति धावति तेन मुक्तो न प्राप्य धर्षयति नेच्छति विकर्तुम्। आसन्नभूमिचपलः परिवर्तमानो योग्योपदेशमिव तस्य रथः करोति ॥ 27 ॥ राजा — गच्छ। भूयो ज्ञायतांवृत्तान्तः। भटः — यदाज्ञापयति महाराजः। ( निश्क्रम्य प्रविश्य ) जयतु महाराजः। जयतु विराटेश्वरः। प्रियं निवेदये महाराजाय। अवजितं गोग्रहणम्। अपयाता धार्तराष्ट्राः। भगवान् — दिष्ट्या भवान् वर्धते। राजा — न न। भगवतो वृद्धिरेषा। अथ कुमार इदानीं क्व। भटः — दृष्टपरिस्पन्दानां योधपुरुषाणां कर्माणि पुस्तकमारोपयति कुमारः राजाः — अहो श्लाघनीयव्यापारः खल्वयं कुमारः। ताडितस्य हि योधस्य श्लाघनीयेन कर्मणा। अकालान्तरिता पूजा नाशयत्येव वेदनाम् ॥ 28 ॥ अथ बृहन्नलेदानीं क्व। भटः — प्रियनिवेदनार्थमभ्यन्तरं प्रविष्टा। राजा — बृहन्नला तावदाहूयताम्। भटः — यकदाज्ञापयति महाराजः। ( ततः प्रविशति बृहन्नला। ) बृहन्नला —( निरूप्य सविमर्शम् ) गाण्डीवेन मुहुर्तमाततगुणेनासीत् प्रतिस्पर्धितं बाणानां परिवर्तनेष्वविशदा मुष्टिर्न मे संहता। गोधास्थानगता न चास्ति पटुता स्थाने हृतं सौष्ठवं स्श्रीभावाच्छिथिलाकृतः परिचयादात्मा तु पश्चात् स्मृतः ॥ 29 ॥ मया हि , अनेन वेषेण नरेन्द्रमध्ये लज्जायमानेन धनुर्विकृष्टम्। यात्रा तु तावच्छरदुर्दिनेषु शीघ्रं निमग्नः कलुषश्च रेणुः ॥ 30 ॥ भो ! जित्वापि गां विजयमप्युपलभ्य राज्ञो नैवास्ति मे जयगतो मनसि प्रहर्ष। दुःशासनं समरमूर्धनि सन्निगृह्य बद्ध्वा यदद्य न विराटपुरं प्रविष्टः ॥ 31 ॥ उत्तराप्रीतिदत्तालङ्कारेणालङ्कृतो व्रीडित इवास्मि राजानं द्रष्टुम्। तस्माद् विराटेश्वरं पश्यामि। अये ! अयमार्यो युधिष्टिरः , सयौवनः श्रेष्ठतपोवने रतो नरेश्वरो ब्राह्मणवृत्तमाश्रितः। विमुक्तराज्योऽप्यभिवर्धितः श्रिया त्रिदण्डधारी न च दण्डधारकः ॥ 32 ॥ ( उपगम्य ) भगवन् ! अभिवादये। भगवान् — स्वस्ति। बृहन्नला — जेदु भट्टा। [ जयतु भर्ता। ] राजा — अकारणं रूपमकारणं कुलं महत्सु नीचेषु च कर्म शोभते। इदं हि पूपं परिभूतपूर्वकं तदेव भूयो बहुमानमागतम् ॥ 33 ॥ बृहन्नले ! परिश्रान्तामपि भवतीं भूयः परिश्रमयिष्ये। उच्यतां रणविस्तरः। बृहन्नला — सुणादु भट्टा। [ शूणोतु भर्ता। ] राजा — ऊर्जितं कर्म। संस्कृतमबिदीयताम्। बृहननला — श्रोतुमर्हति महाराजः। ( प्रविश्य ) भटः — जयतु महाराजः। राजा — अपूर्व इव ते हर्षो केनासि विस्मितः। भटः — अश्रद्धेयं प्रियं प्राप्तं सौभद्रो ग्रहणं गतः ॥ 34 । बहन्नला — कथं गृहीतः। ( आत्मगतम्। ) तुलितबलमिदं मयाद्य सैन्यं परिगणितं च रणेऽद्य मे स दृष्टः। सदृश इह तु तेन नास्ति कश्चित् क इह भवेन्नहतेषु कीचकेषु ॥ 35 ॥ भगवान् — बृहन्नले ! किमेतत्। बृहन्नला — भगवान् ! न जाने तस्य जेतारं बलवाञ्छिक्षितस्तु सः। पितृणां भाग्यदोषेण प्राप्नुयादपि धर्षणम् ॥ 36 ॥ राजा — कथमिदानीं गृहीतः। भटः — रथमासाद्य निःशङ्कं बाहुभ्यामवतारितः। राजाः — केन। भटः — यः किलैष नरेन्द्रेण विनियुक्तो महानसे ॥ 37 ॥ बृहन्नला —( अपवार्य ) एवमार्यभीमेन परिष्वक्तः , न गृहीतः। दूरस्था दर्शनादेव वयं सन्तोषमागताः। पुत्रस्नेहस्तु निर्विष्टो येन सुव्यक्तकारिणा ॥ 38 ॥ राजा — तेन सत्कृत्य प्रवेश्यतामभिमन्युः। भगवान् — भो राजन् ! वृष्णिपाण्डवाथस्याभिमन्योः पूजां भूयादिति लोको ज्ञास्यति। तदवधीरणमस्य न्याय्यम्। राजा — नावधीरणमर्हति यादवीपुत्रः। कुतः , पुत्रो ह्येष युधिष्ठिरस्य तु वयस्तुल्यं हि नः सूनुना सम्बन्धो द्रुपदे नः कुलगतो नप्ता हि तस्माद् भवेत्। जामातृत्वमदूरतोऽपि च भवेत् कन्यापितृत्व हि नः पूजार्होऽप्यतिथिर्भवेत् स्वविभवैरिष्ट हि नः पाण्डवाः ॥ 39 ॥ भगवान् — एवमेतत्। वक्तव्यं परिहर्तव्यं च। राजा — अथ केनायं प्रवशयितव्यः। भगवान् — बृहन्नलया प्रविशयितव्यः। राजा — बृहन्नले ! प्रवेश्यतामभिमन्युः। बृहन्नला — यदाज्ञापयति महाराजः ( आत्मगतम् ) चिरस्य खल्वाकइक्षितोऽयं नियोगो लब्धः। भगवान् —( आत्मगतम् ) अद्यदानीं यातु सन्दर्शनं वा शून्ये दृष्ट्वा गाढमालिङ्गनं वा। स्वैरं तावद् यातु मुद्बाष्पतां वा मत्पर्रत्यक्षं लज्जते ह्येष पुत्रम् ॥ 40 ॥ राजा — पश्यतु भवान् कुमारस्य कर्म। नृपा भीष्मादयो भग्नाः सौभद्रो ग्रहणं गतः। उत्तरेणाद्य संक्षेपादर्थतः पृथिवी जिता ॥ 41 ॥ ( ततः प्रविशति भीमसेनः। ) भीमसेनः — आदीपिते जतुगृहे स्वभुजावसक्ता मद्भ्रातरश्च जननी च मयोपनीता। सौभद्रमेकमवातार्य रथात्तु बालं तं च श्रमं प्रथममद्य समं हि मन्ये ॥ 42 ॥ इत इतः कुमारः। ( ततः प्रविशत्यभिमन्युः। ) अभिमन्युः — भोः ! को नु खल्वेषः , विशालवक्षास्तनिमार्जितोदरः स्थिरोन्नतांसोरुमहान् कटीकृशः। इहाहृतो येन भुजैकयन्त्रितो बलाधिकेनापि न चास्मि पीडितः ॥ 43 ॥ बृहन्नला — इत इतः कुमारः . अभिमन्युः — अये अयमपरः कः , अयुज्यमानैः प्रमदाविभूषणै करेणुशोभाभिरिवार्पितो गजः। लघुश्च वेषेण महानिवौजसा विबात्युमावेषमिवाश्रितो हरः ॥ 44 ॥ बृहन्नला —( अपवार्य ) ममिहानयता किमिदानीमार्येण कृतम्। अवजित इति तावद् दूषितः पूर्युद्धे दयितसुतवियुक्ता शोचनीया सुभद्रा। जित इति पुनरेनं रुष्यते वासुभद्रो भवतु बहु किमुक्त्वा दूषितो हस्तसारः ॥ 45 ॥ भीमसेनः — अर्जन ! बृहन्नला — अथ किमथ किमर्जुनपुत्रोऽयम्। भीमसेनः —( अपवार्य ) जानाम्येतान् निग्रहादस्य दोषान् को वा पुत्रं मर्षयेच्छत्रुहस्ते। इष्टपत्त्या किन्तु दुःखे हि मग्ना पश्यत्वेनं द्रौपदीत्याहृतोऽयम् ॥ 46 ॥ बृहन्नला —( अपवार्य ) आर्य ! अभिभाषणकौतूहलं मे महत्। वाचालयत्वेनमार्यः। भीमसेनः — बाढम्। अमिमन्यो ! अभिमन्युः — अभिमन्युर्नाम। भीभसेनः — रुष्यत्येष मया। त्वमेवैनमभिभाषय। बृहन्नला — अभिमन्यो ! अभिमन्युः — कथं कथम्। अभिन्युर्नामाहम्। भोः ! नीचैरप्यभिभाष्यन्ते नामभिः क्षत्रियान्वयाः। इहायं समुदाचारो ग्रहणं परिभूयते ॥ 47 ॥ बृहन्नला — अभिमन्यो ! सुखमास्ते ते जननी। अभिमन्युः — कथं कथम्। जननी नाम। किं भवान् धर्मराजो मे भीमसेनो धनञ्जयः। यन्मां पितृवदाक्रम्य स्त्रीगतां पृच्छसे कथाम् ॥ 48 ॥ बृहन्नला — अभिमन्यो ! अपि कुशली देवकीपुत्रः केशवः। अभिमन्युः — कथं तत्रभवन्तमपि नाम्ना। अथ किम् , अथ किम्। कुशली भवता संसृष्टः। ( उभौ परस्परमवलोकयतः ) अभिमन्युः — कथमिदानीं सावज्ञमिव मां हससि। बृहन्नला — न खलु किञ्चित्। पार्थं पितरमुद्दिश्य मातुलं च जनार्दनम्। तरुणस्य कृतास्त्रस्य युक्तो युद्धपराजयः ॥ 49 ॥ अभिमन्युः — अलमात्मस्तवं कर्तुं नास्माकमुचितं कुले। हतेषु हि शरान् पश्य नाम नान्यद् भविष्यति ॥ 50 ॥ बृहन्नला —( आत्मगतम् ) सम्यगाह कुमारः। सरथतुरागदृप्तनागयौधे शरनिपुणेन न कश्चिदप्यविद्धः। अहमपि च परिक्षतो भवेयं यदि न मया परिवर्तितो रथः स्यात् ॥ 51 ॥ ( प्रकाशम् ) एवं वाक्यशौण्डीर्यम्। किमर्थं तेन पदातिना गृहीतः। अभिमन्युः — अशस्त्रो मामभिगतस्ततोऽस्मि ग्रहणं गतः। न्यस्तशस्त्रं हिको हन्यादर्जुनं पितरं स्मरन् ॥ 52 ॥ भीमसेनः — धन्यः खल्वर्जुनो येन प्रत्यक्षमुभयं श्रुतम्। पुत्रस्य च पितुः श्लाध्यं सङ्ग्रामेषु पराक्रमः ॥ 53 ॥ राजा — त्वर्यतां त्वर्यतामभिन्युः। बृहन्नला — इत इतः कुमारः। एष महाराजः। उपसर्पतु कुमारः। अभिमन्युः — आः कस्य महाराजः। बृहन्नला — न न। ब्राह्मणेन सहास्ते। अभिमन्युः ब्राह्मणेनेति। भगवन् ! अभिवादये। भगवान् — एह्येहि वत्स ! शौण्डीर्यं धृतिविनयं दयां स्वपक्षे माधुर्यं धनुषि जयं पराक्रमं च। एकस्मिन् पितरि गुणआनवाप्नुहि त्वं शेषाणां यदपि च रोचते चतुर्णाम् ॥ 54 ॥ राजा — एह्येहि पुत्र ! कथं न मामभिवादयसि। अहो अहो उत्सिक्तः खल्वयं क्षत्रियकुमारः। अहमस्य दर्पशमनं करोमइ। अथ केनायं गृहीतः। भीमसेनः — महाराज ! मया। अभिमन्युः — अशस्त्रेणेत्यभिधीयताम्। भीमसेनः — शान्तं शान्तं पापम्। सहजौ मे प्रहरणं भूजौ पीनांसकोमलौ। तावाश्रित्य प्रयुध्येयं दुर्बलैर्गृह्यते धनुः ॥ 55 ॥ अभिमन्युः — मा तावद् भोः ! बाहुरक्षौहिणी यस्य निर्व्याजो यस् विक्रमः। किं भवान् मध्यमस्तातस्तस्यैतत् सदृशं वचः ॥ 56 ॥ भगवान् — पुत्र ! कोऽयं मध्यमो नाम। अभिमन्युः — श्रूयताम्। नन्वनुत्तरा वयं ब्राह्मणेषु। साध्वन्यो ब्रूयात्। राजा — भवतु भवतु। मद्वचनात् पुत्र ! कोऽयं मध्यमो नाम। अभिमन्युः — श्रूयताम्। येन , तुलयित्वपा जरासन्धं कण्ठश्लिष्टेन बाहुना। असह्यकर्म तत् कृत्वा नीतः कृष्णोऽतदर्ङताम् ॥ 57 ॥ राजा — न ते क्षेपेण रुष्यामि रुष्यता भवता रमे। किमुक्त्वा नापराद्धोऽहं कथं तिष्ठति यात्विति ॥ 58 ॥ अभिमन्युः — यद्यहमनुग्राह्यः , पादयोः समुदाचारः क्रियतां निग्रहोचितः। बाहुभ्यामाहृतं भीमो बाहुभ्यामेव नेष्यति ॥ 59 ॥ ( ततः प्रविशत्युत्तरः। ) उत्तरः — मिथ्याप्रशंसा खलु नाम कष्टा येषां तु मिथ्यावचनेषु भक्तिः। अहं हि युद्धाश्रयमुच्यमानो वाचानुवर्ती हृदयेन लज्जे ॥ 60 ॥ ( उपसृत्य ) भगवन् ! अभिवादये। भगवान् — स्वस्ति। उत्तरः — तात ! अभिवादये। राजा — एह्येहि पुत्र ! आयुष्मान् भव। पुत्र पूजिताः कृतकर्माणो योधपुरुषाः। उत्तरः — पूजिताः। पूज्यतमस्य क्रियतां पूजा। राजा — पुत्र ! कस्मै। उत्तरः — इहात्रभवते धनञ्जयाय। राजा — कथं धनञ्जयायेति। उत्तरः — अथ किम्। अत्रभवता , श्मशानाद्धनुरादाय तूणी चाक्षयसायके। नृपा भीष्मादयो भग्ना वयं च परिरक्षिताः ॥ 61 ॥ बृहन्नला — प्ररीदतु प्रसीदतु महाराजः। अयं बाल्याततु सम्भ्रान्तो न वेति प्रहरन्नपि। कृत्स्नं कर्म स्वयं कृत्वा परस्येत्यवगच्छति ॥ 62 ॥ उत्तरः — व्यपनयतु भवाञ्छङ्काम्। इदमाख्यास्यते , प्रकोष्ठान्तरसंगूढं गाण्डीवज्याहतं किणम्। यत्तद् द्वादशवर्षान्ते नैव याति सवर्णताम् ॥ 63 ॥ बृहन्नलाः — एतन्मे पारिहार्याणां व्यावर्तनकृतं किणम्। सन्निरोधविवर्णत्वाद् गोधास्थानमिहागतम् ॥ 64 ॥ राजा — पश्यामस्तावत्। बृहन्नला — रुद्रबाणावलीढाङ्गो यद्यहं भारतोऽर्जुनः। अव्यक्तं भीमसेनोऽयमयं राजा युधिष्ठिरः ॥ 65 ॥ राजा — धर्मराज ! वृकोदर ! धनञ्जय कथं न मां विश्वसिथ। भवतु प्राप्तकाले बृहन्नले ! प्रविश त्वमभ्यन्तरम्। बृहन्नला — यदाज्ञापयति महाराजः। भगवान् — अर्जुन ! न खलु न खलु प्रवेष्टव्यम्। तीर्णप्रतिज्ञा वयम्। अर्जनः — यदाज्ञापयत्यार्यः। राजा — शूरणआं सत्यसन्धानां प्रतिज्ञां परिरक्षताम्। पाण्डवानां निवासेन कुलं मे नष्टकल्मषम् ॥ 66 ॥ अभिमन्युः — इहात्रभवन्तो मे पितरः। तेन खलु , न रुष्यन्ति मया क्षिप्ता हसन्तश्च क्षिपन्ति माम। दिष्ट्या गोग्रहणं स्वन्तं पितरो येन दरशिताः ॥ 67 ॥ ( भीमसेनमुद्धिश्य ) भोस्तात ! अज्ञानात्तु मया पूर्व यद् भवान् नाभिवादितः। तस्य पुत्रापराधस्य प्रसादं कर्तुमर्हसि ॥ 68 ॥ भीमसेनः — एह्येहि पुत्र ! पितृसदृशपराक्रमो भव। पुत्र ! अभिवादयस्व पितरम्। अभिमन्युः — भोस्तात ! अभिवादये। अर्जुनः — एह्येहि पुत्र ! अयं स हृदयह्लादी पुत्रगात्रसमागमः। यत्तद् द्वादशवर्षान्ते प्रोषितः पुनरागतः ॥ 69 ॥ पुत्र ! अभिवाद्यतां विराटेश्वरः। अभिमन्युः — अभिवादये। राजा — एह्येहि वत्स ! यौधिष्ठिरं धैर्यमवाप्नुहि त्वं भीमं बलं नैपुणमर्जुनस्य। माद्रीसुतात् कान्तिमथाभिरूप्यं कीर्ति च कृष्णस्य जगत्प्रियस्य ॥ 70 ॥ ( आत्मगतम् ) उत्तरासन्निकर्षस्तु मां बाधते। किमिदानीं करिष्ये। भवतु दृष्टम्। कोऽत्र। ( प्रविश्य ) भटः — जयतु महाराजः। राजा — आपस्तावत्। भटः — यदाज्ञापयति महाराजः। ( निष्क्रम्य प्रविश्य ) इमा आपः। राजा — अर्जन ! गोग्रहणविजयशुल्कार्थं प्रतिगृह्यतामुत्तरा। नतं शिरः। इष्टमन्तःपुरं सर्वं मातृवत् पूजितं मया। उत्तरैषा त्वया दत्ता पुत्रार्थे प्रतिगृह्यते ॥ 71 ॥ भगवान् — एतदुन्नतं शिरः। राजा — भवतु पितामहसकाशमुत्तरं प्रेषयामः। धर्मराज ! वृकोदर ! धनञ्जय ! इत इतो भवन्तः। ( निष्क्रान्ताः सर्वे .) इति द्वितीयोऽङ्कः ************************************************* . ]