पारीक्षितम्

[[पारीक्षितम् Source: EB]]

[

पारीक्षितम्

वन्दे-समुद्रजलशीकर चित्रिताङ्गं ।
शेषाहितल्प-सुखनिद्रित-चिन्मयास्यम् ॥
लक्ष्मीकटाक्ष-चय-चन्दन-चर्चिताङ्गं ।
विष्णुं प्रियं सतत मोक्षदमानताङ्गः ॥

नान्द्यन्ते

सूत्रधारः – अये कुटुम्बिनि, एह्यत्र किञ्चित् कथनीयं विद्यते ।

कुटुम्बिनी – एषाऽस्मि कथ्यतां आर्यः ।

सूत्रधारः – कुटुम्बिनि, बहुकालानन्तरं भागवतकथां नाटकरूपेण प्रदर्शयितुं वयं समुत्सुकास्मः ।

कुटुम्बिनी – नाटकस्य नाम किम् ।

सूत्रधारः – पारीक्षितम् ।

कुटुम्बिनी – भागवतोत्तमं राजानं परीक्षितमुद्दिस्य कृतं नाटकं किम् इदम् ?

सूत्रधारः – आम् सत्यं यः भागवतकथा मूलकारकः भागवतोत्तमः, तं राजानमुद्दिश्य कृतमिदम् ।

कुटुम्बिनी – कोऽयं कविः ? तस्य नाम किम् ?

सूत्रधारः – अयं कविः गीर्वाणान्ध्रभाषाप्रवीणः ललित गीतालहर्याः, यशोधरा महाकाव्यस्य अपिच अक्षयगीतरामायणस्य प्रणेता, आन्ध्रदेशीयः, ललित कलाभिलाषी । तस्य नाम परीक्षित् शर्मा ।

कुटुम्बिनी – सर्वं चारुतरं प्रतिभान्वितं च भाति । गैर्वाण्यां अशृतपूर्वमिदं नाटकम् । अयं कविः ब्राह्मीमय मूर्तीः यतः ।

सङ्गीत-साहित्य कलाभिमानी । पवित्र संस्कार परीत-चित्तः ॥
विराजतेऽत्र प्रतिभान्वितोऽयम् । गीर्वाण-साहित्य विशाललोके ॥

तस्मात् समुत्सुकास्मि भूमिकाग्रहणे ।

सूत्रधारः – एतन्नाटकं स्रीभूमिका रहितम्, अत्यन्तभयदं दुःखान्तं च ।

कुटुम्बिनो – (आकर्णनमभिनीय) कोऽयं कलकलः ।

सूत्रधारः – (आकर्ण्य) एषोऽयं राजा परीक्षित् मृगयार्थसमायाति । एहि गच्छावः । (इति निष्क्रान्तौ)

(ततः प्रविशति मृगयावेषेण उन्नमित धनुः राजा परीक्षित् ।)

राजा – एषोऽयं मृगः । (द्विवारं वेगेन नेपथ्यन्तर्भागं गत्वा पूर्ववत् प्रविश्य) अहो ! मृगोऽयं र्विद्धो न भवति । एषः शरपतनभयात् उत्प्लुत्योत्प्लुत्य वेगे वायुं निहत्य चङ्क्रमणैः धावति । एनमनुसरणं साम्प्रतं न भवति योग्यं मे । यदि गृहीतं ततः किम् ? न गृहीतं ततः किम् ? अहमकारणं चापल्यात् बाल इव एनमनुसरामि । धिक् मृगयां विरमेयम् । (इति प्रशामित धनुः भवति) बत ! भृशमहं परिश्रान्तोस्मि । शरी सर्वमपि घर्मवारिसिक्तम् । शरीरमेतत् धावनेन विदारितं, शतथा णूर्णितं च । आनत्यं उच्छ्वास निश्वास परम्परा मां चलितुमशकतं करोति । अत्रन्यग्रोधवृक्षस्य, अधस्थितपाषाण वितर्दिकायां उपविश्य, विश्रान्तिसुखमनुभवेयम् । (इति तथा करोति) आः अयं मन्दसमीरः घर्माविलं मे देहं सशीतलं चर्चयति । अत्र सर्वत्र प्रकृतिः कलामयी दरी दृश्यते। पत्तने सर्वत्रापि रेणुपरीतः अस्वच्छानिलः प्रसरति। (इति समन्ततः विलोक्य) सर्वाङ्ग सुन्दरीयं प्रकृतिः । जगति प्रकृत्याभिन्नं न किञ्चिदन्यत् रमणीयं विद्यते । अहो अतिसौख्यमनुभूयते । क्लेशेन सुखस्य परमावधिः ज्ञायते ।

वायुना चालिता वल्ली । श्रमयाप्रविदारितम् ।
गात्रं मे सत्वरं वाति । भियेव परिचारिका ॥

भोगभाग्जनः क्व भोगं नाप्नोति ? सर्वे प्राणिनः सुखमिच्छन्ति । किन्तु एते नगराजिनः सुखरहिताः स्वीयवस्तुचयैः, सर्व धरातलं, सुखायत्तं कुर्वन्ति । तेषां जन्म सार्थकं भवति । यतः -

पीत्वा क्वचिज्जलद-दत्तजलं-महीजाः ।
भक्त्वाऽनिलं निरत-शीतल-वीचिकालिम् ॥
सोढ्वाच तीक्ष्णकर-सूर्य-मयूखजालम् ।
तन्वन्ति सौख्यमनिशं जगति प्रजानाम् ॥

अहमधुना अपगतश्रमोऽभवम् । पिपासा मे जिह्वां पिण्डी करोति । एतत् सर्वमपि निर्जनारण्यम् । कुत्रापि संलक्ष्यते जलमय प्रदेशः नाति दूरे । चञ्चच्चञ्चरीक झंकार सङ्कुलमेतत् विपिनम् । अपिच क्रूर सत्वावृत्तं, बहुभयदमेतत् । शिलोच्चयावकीर्ण परिसरमेतत् । मृगयार्थं, अज्ञानतया इयन्तं दूरं समागतोस्मि । नात्रकुत्रापि मर्त्येन भवितव्यम् । इदं दण्डकारण्यवत् अतिगहनम् । पिपासार्दितस्य मे पानीयं कोदास्यति इतः नदी सरस्वती दूरं वर्तते । भवतु यतिष्ये पानीयम् । मामन्यत्र तृष्णा नयति तया वशीकृतोऽहं । इन्द्रियाणि मनः समाकर्षन्ति ।

पञ्चेन्द्रियाणां प्रबलेन जन्तवो ।
जीवन्ति लोके खलु सौख्य-दर्पिताः ॥
षड्वर्ग शत्रूदय भावचोदिताः ।
मृत्युं प्रयान्त्येव महीतले ध्रुवम् ॥

(इति निष्क्रान्तः)

[यवनिका पतति]

*************************************************************

.

द्वितीयं दृश्यम्

शमीकमुनेः आश्रमः (एकस्मिन् दिग्विभागे शमीकः पद्मासने तपति) ततः प्रविशति राजा परीक्षित् (इतस्ततः विलोक्य)

सर्वत्र शान्तता भाति । मुनीनां स्वान्तवत् भृशम् ॥
कदापीदं नचस्थानम् । लौकिकानां भवत्य हो ॥

अत्र यत्रकुत्रापि जलेन भवितव्यम् । इति शनैः शनैः चलति] [अग्रे दृष्ट्वा] अयं मुनिः । इदं मुनेः आश्रमस्थानम् । एनं जलं पृच्छेयम् । अहं भणितुमपि अशक्तः भवामि । मे जिह्वा शुष्काभूत्वा पञ्चप्राणान् आकर्षति । भवतु पृच्छेयम् ।

1 अयि भोः मुने अहं राजा परीक्षित् ।
पिपासार्दितोऽस्मि पातुं जलं दीयताम् ।
(प्रत्युत्तरमप्राप्तः तारस्वरेण)

2 अयि भोः मुने पिपासार्दितोऽहं जलं दीयताम् ।
अहं भाषितुमप्यशक्तः ॥
(प्रत्युत्तरमप्राप्तः किञ्चिदुच्चेः)

3 अयि भोः ब्रह्मन् किं मां निर्लक्ष्यसे ।
(प्रत्युत्तरमप्राप्तः कृत्थः)

किं मे राज्ये तपोधनाः गर्वान्धाः भूत्वा धराधिपतिमपि तृणीकुर्वन्ति ? भवतु अस्य मे प्रभावं दर्शयिष्यामि । [इति परितः विलोक्य तत्र विद्यमान मृतसर्पं धनुष्कोट्या उद्धृत्य, राजा मुनेः कण्ठस्कन्धतले संसृज्य, मौनेन निर्गतः]

[ततः प्रविशति कमण्डलुधारी श्रृङ्गी]

श्रृङ्गी – ओं शाम्यन्तु घोराणि । शाम्यन्तु पापानि । शाम्यन्तु ईतयः नित्यं शुभानि वर्धन्ताम् । [तपस्यन्तं शमीकं विलोक्य क्रोधपरीतमानसः] किमेतत् चित्रं, तपस्यतः मे पितुस्कन्धे मृतसर्पः ? [इति तीक्ष्णं विलोक्य] इदमरण्यं निर्मानुष्यम् । कदापि जनसञ्चारोऽपि नास्त्येवात्र । कथमेतत् आपतितम् ? केनापि दर्पितेन अधमेन कृतमितिमन्ये ।

तप्तुं नितान्तं खलु शक्तिहीनाः । सतः परं नाशयितुं यतन्ते ।
आदर्शहीनाः भुविभारभूताः । केचित् बृवाः पाशव शक्तियुक्ताः ॥

एतत् कर्म विधीतस्य तस्य, विनाशकालः सम्प्राप्तः । कोऽयं दुरात्मा मनुजपशुः, ममपितुःस्कन्धे, तत्रापि तपस्यतः, मृतसर्पं विसृष्टवान् । सर्वभौतिक सौख्यं परित्यज्य, जलपानाशनमपि सन्त्यज्य, केवल वाताशनेन तपस्यता, मत्पित्रा किमपकृतम् । योऽयं एवं पन्नगमस्राक्षीत्, सः तिग्मतेजसा, तक्षकाशी विषपन्नगेश्वरेण, मद्वाक्य बलात् चोदितेन, सप्तरात्रादितः यमस्य सदनं नेष्यति । (इति शापजलं विसर्जति)

शमीकः – (नेत्रे उन्मील्य) कुतोऽत्र मन्योराविर्भावः (पुरतः तनयं श्रृङ्गिनं विलोक्य) किं वत्स, किमेवं रुफुलिङ्ग प्रायैर्वचनैः ज्वलसि, किं कारणमत्र क्रोधस्य ।

श्रृङ्गी – जनक, कोवा जाल्मः, स्वविनाशकालमाहूयमानः, अकरणीयं कर्मविधाय, धर्मं तिरस्कृतवान् । तस्मिन् एवं कृत्थः अभवम् ।

शमीकः – अकारणं त्वं कृद्धो भवसि विरम । शान्तिमाप्नुहि । कः किमकरणीयं चकार ।

शृङ्गी – पितः तव स्कन्धे कोवा मरणमियुष्णुः मृतसर्पं अस्राक्षीत् । तं लम्बमानं मृतसर्पं विलोक्य, क्रोधानलेन दन्दह्यमानहृदयः अशपमहं तं, यतः सप्तमेऽहनि तं पापिनं, तक्षकः, पन्नगोत्तमः, वैवस्वतस्य सदनं नेता इति ।

शमीकः – (अक्षिणी निमील्य किञ्चित्कालं ध्यात्वा अक्षिण्युन्मील्य) तात श्रृङ्गिन् न मे प्रियं कृतम् । अयं नरेन्द्रः । वयं नरेन्द्रस्य विषये निवसामहे । यदि राजा न संरक्षेत्, पीडा भवेत् परमस्माकम् । वयं धर्ममाचरितुं नशक्नुयाम । क्षुधितेन तेन अद्य क्षान्तेन कृतं मन्ये अजानता । कस्मात् त्वया सहसा दुष्कृतं बाल्यात् कृतम् । अयं नृपः अस्मत्तः शापं नार्हति सर्वथा । शम एव यतीनां भूषणं सिद्धिकारकश्च ।

शृङ्गी – अपकारकः अनुपदमेव शिक्षणीयः । जनक ! तत्र कापि विचारणा मास्तु ।

शमीकः – अयं अधार्मिकः नहि । मान्यः प्रजारक्षकः ।

शृङ्गी – जनक ! नायं प्रजारक्षकः किन्तु प्रजाभक्षकः । अयं समापन्न विपत्ति कालः, अप्रियं कृतवानस्माकं ।

शमीकः – तात, अयं नरपतिः सम्राट् साक्षात् महाभागवतः धर्मपालः, राजर्षिः, हयमेधराट् राजा परीक्षित् ।

शृङ्गी – (आश्चर्येण) जनक, किमयं राजा परीक्षित् । (विलपन्) बहु अपराद्धं मया । अनालोच्य शापं दत्तम् । धिगेतत् मे जन्म । महापुरुषं धर्मपालं राजानं परीक्षितम् शप्तवानस्मि । न मे प्रायश्चित्तोविद्यते । तपोधनाः सुलभ क्रोधिनः भवन्ति । क्रोधः तापसानां अभूषणं भवति । मे वाक् परशुः आकुण्ठितो भवति । न केषां अपि शक्यं मोघीकर्तुं भवति । मे जिह्वा सप्तजिह्वप्राया । न कोऽपि शामयितुं शक्तः भवति । (इति विलपति)

शमीकः – वत्स, विलापेन किं प्रयोजनम् । शतथा धर्ममालोऽयम् । अस्मत्तः शापं नार्हति । नह्यस्य कर्मणः विद्यते ते प्रायश्चित्तम् ।

शृङ्गी – समापन्न विपत्तिकाले देवांशसम्भूतानां धियः अपि मलिनी भवन्ति। जनक।

शमीकः – तात तथा न वक्तव्यम् । कर्म सर्वथा विचिन्त्य कर्तव्यम् । किमुत शापविषये ।

शृङ्गी – पितः, अद्यप्रभृति शममास्थाय यच्छक्यं कर्तुं तत् करिष्यामि । तस्मात् तात बालेन कृश बुद्धिना मम पुत्रेण शन्तोऽसीति नृपायवार्तां प्रेषयिष्ये ।

शमीकः – बाल विप्राः पश्चिमबुद्धयः । क्रियतां यद्रोचते । यत् भव्यं तत् भाविता । ओं शान्ति श्शान्ति श्शान्तिः ।

(यवनिका पतति)

******************************************************

.

तृतीयं दृश्यम्

रङ्गमञ्चमध्ये सिंहासनं विद्यते । सिंहासनस्य उभयतः ब्राह्मणाः मन्त्रिणश्च तिष्ठन्ति । (राजा परीक्षित् प्रविशति)

स्तुतिपाठकः – परम भागवतोत्तम, धर्मपाल, राजर्षे परीक्षिन्महाराज, जयतु नितरां जयतेतराम् ।

ब्राह्मणाः – “ध्रुवन्ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम्” । (राजा परीक्षित् सिंहासने उपविशति सर्वे उपविशन्ति)

राजा – अयि भोः सदस्याः सकलधरातलं सौख्यमयं विधातुं चन्द्रवंशजाः समुत्पन्नाः । सर्वत्र महीतले सकल प्राणिनां सुखं भवतीति, सर्वे सुखिनः सन्तीति वयं आशास्महे ।

मन्त्री – राजान् चन्द्र वंशीयानां पालने, सकल धरातलं, धर्मार्थ काम चतुर्विध पुरुषार्थैः, यथाक्रमं सुखं अनुभवतीति, विशेषतः, युष्मदीय छत्रच्छायायां, सर्वे सुखिनः सन्तीति कथने, पुनरुक्तिः भवति ।

पुरोहितः – सर्वोऽपि आबालगोपालं विकसित वक्त्राम्बुजः जीवति ।

ब्राह्मणाः – चन्द्रो यथा भाति च शारदाम्बरे ।
पङ्केरुहश्शारद सारसान्तरे ।
राजान् त्वमेवासि तथा महीतले ।
सन्तोषभारेण विभान्ति नागराः ॥

ब्राह्मणः – महाराज सर्वत्र जगत् आनन्दे नरीनर्ति ।

क्वचित्कनकमण्डनाडम्बरम् । क्वचित्क्बणन वीणयानन्दितम् ।
क्वचिन्मधुर नाट्याभिरञ्जितम् । क्वचिन्नधुर भोज्याभिनन्दितम् ॥

सर्वे – व्हाव्या इतिहाहारवं कुर्वन्ति ।

भटः – (प्रविश्य) राजान् गौरमुखोनाम शमीकमुनेः शिष्यः तत्र भवते वार्तामानीय समागतः द्वारितिष्ठति ।

राजा – किं तत्रभवतः महातापसात् मे सन्देशः ? प्रवेश्यतामनुपदम् ।

भटः – यथाऽज्ञापयति देवः (इति प्रणम्य गच्छति)

(ततः प्रविशति गौरमुखः)

गौरमुखः – राजन् आचन्द्रतारार्कं ते चरितं लोकव्याप्तं भवतु । (इत्याशीः प्रददाति)

राजा – गौरमुख अभिवादये तत्र भवन्तं (इति उत्थाय प्रणमति) अपिच पृच्छति ।

अण्यस्ति कुशलं सर्वम्। धरण्यां मम पालने ।
श्रोतुमिच्छामि सन्देशम् । निस्सन्देहं निवेद्यताम् ॥

गौरमुख – भवतां पालने धरणीचक्रं सर्वं सुखमनुभवत्येव महाराज किन्तु ।

मन्त्री – किन्तु किम् ? वद ।

राजा – उच्यतां कोऽयं सन्देशः ।

ब्राह्मणाः – निवेद्यतां मुनेः सन्देशः ।

राजा – सर्वहितैषिणां मुनीनां सन्देशः शिरोधार्यः भवति चन्द्रवंशीयानाम् ।

गौरमुखः – राजन् ! महातापसः शमीकस्य स्कन्धे भवता मृतसर्पः निक्षिप्तः । तस्मात् सुलभ क्रोधेन तस्य पुत्रेण श्रृङ्गिणा सप्तरात्रेण तक्षकेन भवतः मृत्युः भविष्यतीति शप्तोऽसि तस्मात् रक्षां कुरुष्वेति । केनचिदपि तदन्यथाकर्तुं न शक्यं भवति, इतिच कथितम् । तव हितार्थिना तेन प्रेषितोऽहं वार्तयितुम् । (इत्यधोमुखः तिष्ठति)

मन्त्री – (कृत्थः) गौरमुख ! किं वदसि । इय राज्ञः परीक्षितः सभा । त्वं राजसभायां भणसि । त्वं राजसभा दर्शनेन कम्पितोऽसीतिमन्ये । त्वं

तप्तुं नितान्तं खलु शक्तिहीनाः । सतः परं नाशयितुं यतन्ते ।
आदर्शहीनाः भुविभारभूताः । केचित् बृवाः पाशव शक्तियुक्ताः ॥

एतत् कर्म विधीतस्य तस्य, विनाशकालः सम्प्राप्तः । कोऽयं दुरात्मा मनुजपशुः, ममपितुः स्कन्धे, तत्रापि तपस्यतः, मृतसर्पं विसृष्टवान् । सर्वभौतिक सौख्यं परित्यज्य, जलपानाशनमपि सन्त्यज्य, केवल वाताशनेन तपस्यता, मत्पित्रा किमपकृतम् । योऽयं एवं पन्नगमस्राक्षीत्, सः तिग्मतेजसा तक्षकाशी विषपन्नगेश्वरेण, मद्वाक्यबलात् चोदितेन, सप्तरात्रादितः यमस्य सदनं नेष्यति । (इति शापजलं विसर्जति)

शमीकः – (नेत्रे उन्मील्य) कुतोऽत्र मन्योराविर्भावः (पुरतः तनयं श्रृङ्गिनं विलोक्य) किं वत्स, किमेवं रुफुलिङ्ग प्रायैर्वचनैः ज्वलसि, किं कारणमत्र क्रोधस्य ।

शृङ्गी – जनक,कोवा जाल्मः, स्वविनाशकालमाहूयमानः अकरणीयं कर्मविधाय, धर्मं तिरस्कृतवान् । तस्मिन् एवं कृत्थः अभवम् ।

शमीकः – अकारणं त्वं कृद्धो भवसि विरम । शान्तिमाप्नुहि । कः किमकरणीयं चकार ।

शृङ्गी – पितः तव स्कन्धे कोवा मरणमियुष्णुः मृतसर्पं अस्राक्षीत् । तं लम्बमानं मृतसर्पं विलोक्य, क्रोधानलेन दन्दह्यमान हृदयः अशपमहं तं, यतः सप्तमेऽहनि तं पापिनं, तक्षकः पन्नगोत्तमः, वैवस्वतस्य सदनं नेता इति ।

शमीकः – (अक्षिणी निमील्य किञ्चित्कालं ध्यात्वा अक्षिण्युन्मील्य) तात श्रृङ्गिन् न मे प्रियं कृतं । अयं नरेन्द्रः । वयं नरेन्द्रस्य विषये निवसामहे । यदि राजा न संरक्षेत् पीडा भवेत् परमस्माकम् । वयं धर्ममाचरितुं नशक्तुयाम । क्षुधितेन तेन अद्य क्षान्तेन कृतं मन्ये अजानता । कस्मात् त्वया सहसा दुष्कृतं बाल्यात् कृतं । अयं नृपः अस्मत्तः शापं नार्हति सर्वथा । शम एव यतीनां भूषणं सिद्धिकारकश्च ।

शृङ्गी – अपकारकः अनुपदमेव शिक्षणीयः । जनक ! तत्र कापि विचारणा मास्तु ।

शमीकः – अयं अधार्मिकः नहि । मान्यः प्रजा रक्षकः ।

शृङ्गी – जनक ! नायं प्रजारक्षकः किन्तु प्रजाभक्षकः । अयं समापन्न विपत्तिकालः, अप्रियं कृतवानस्माकम् ।

शमीकः – तात, अयं नरपतिः सम्राट् साक्षात् महाभागवतः धर्मपालः, राजर्षिः, हयमेधराट् राजा परीक्षित् ।

शृङ्गी – (आश्चर्येण) जनक, किमयं राजा परीक्षित् । (विलपन्) बहु अपराद्धं मया । अनालोच्य शापं दत्तं । धिगेतत् मे जन्म । महापुरुषं धर्मपालं राजानं परीक्षितम् शप्तवानस्मि । न मे प्रायस्चित्तो विद्यते । तपोधनाः सुलभ क्रोधिनः भवन्ति । क्रोधः तापसानां अभूषणं भवति । मे वाक् परशुः आकुण्ठितो भवति । न केषां अपि शक्यं मोघीकर्तुं भवति । मे जिह्वा सप्तजिह्वप्राया । न कोऽपि शामयितुं शक्तः भवति । (इति विलपति)

शमीकः – वत्स, विलापेन किं प्रयोजनम् । शतथा धर्ममालोऽयम् । अस्मत्तः शापं नार्हति । नह्यस्य कर्मणः विद्यते ते प्रायश्चित्तम् ।

शृङ्गी – समापन्न विपत्तिकाले देवांशं सम्भूतानां धियः अपि मलिनी भवन्ति जनक ।

शमीकः – तात तथा न वक्तव्यं । कर्म सर्वथा विचिन्त्य कर्तव्यं । किमुत शापविषये ।

शृङ्गी – पितः, अद्यप्रभृति शममास्थाय यच्छक्यं कर्तुं तत् करिष्यामि । तस्मात् तात बालेन कृश बुद्धिना मम पुत्रेण शन्तोऽसीति नृपायवार्तां प्रेषयिष्ये ।

शमीकः – बाल विप्राः पश्चिमबुद्धयः । क्रियतां यद्रोचते । यत् भव्यं तत् भाविता । ओं शान्तिश्शन्तिश्शान्तिः ।

(यवनिका पतति)

***********************************************************

.

चतुर्थं दृश्यम्

रङ्गमञ्चमध्ये सिंहासनं विद्यते । सिंहासनस्य उभयतः ब्राह्मणाः मन्त्रिणश्च तिष्ठन्ति । (राजा परीक्षित् प्रविशति)

स्तुतिपाठकः – परम भारवतोत्तम, धर्मपाल, राजर्षे परीक्षिन्महाराज, जयतु नितरां जयतेतरां ।

ब्राह्मणाः – “ध्रुवन्ते राजा वरुणो ध्रुवं देवो बृहस्पतिः । ध्रुवन्त इन्द्रश्चाग्निश्च राष्ट्रं धारयतां ध्रुवम्” । (राजा परीक्षित् सिंहासने उपविशति सर्वे उपविशन्ति)

राजा – अयि भोः सदस्याः सकल धरातलं सौख्यमयं विधातुं चन्द्रवंशजाः समुत्पन्नाः । सर्वत्र महीतले सकल प्राणिनां सुखं भवतीति, सर्वे सुखिनः सन्तीति वयं आशास्महे ।

मन्त्री – राजान् चन्द्रवंशीयानां पालने, सकल धरातलं, धर्मार्थ काम चतुर्विध पुरुषार्थैः, यथाक्रमं सुखं अनुभवतीति, विशेषतः, युष्मदीय छत्रच्छायायां, सर्वे सुखिनः सन्तीति कथने, पुनरुक्तिः भवति ।

पुराहितः – सर्वोऽपि आबालगोपालं विकसित वक्त्राम्बुजः जीवति ।

ब्राह्मणाः – चन्द्रो यथा भाति च शारदाम्बरे ।
पङ्केरुह श्शारज सारसान्तरे ।
राजान् त्वमेवासि तथा महीतले ॥
सन्तोष भारेण विभान्ति नागराः ॥

ब्राह्मणः – महाराज सर्वत्र जगत् आनन्दे नरीनर्ति ।

क्वचित्कनकमण्डनाडम्बरम् । क्वचित्क्वणन वीणयानन्दितम् ।
क्वचिन्मधुर नाट्याभिरञ्जितम् । क्वचिन्नधुर भोज्याभिनन्दितम् ॥

सर्वे – व्हाव्या इतिहाहारवं कुर्वन्ति ।

भटः – (प्रविश्य) राजान् गौरमुखोनाम शमीकमुनेः शिष्यः तत्र भवते वार्तामानीय समागतः द्वारितिष्ठति ।

राजा – किं तत्रभवतः महातापसात् मे सन्देशः ? प्रवेश्यतामनुपदम् ।

भटः – यथाऽज्ञापयति देवः (इति प्रणम्य गच्छति)

(ततः प्रविशति गौरमुखः)

गौरमुखः – राजन् आचन्द्रतारार्कं ते चरितं लोकव्याप्तं भवतु । (इत्याशीः प्रददाति)

राजा – गौरमुख अभिवादये तत्र भवन्त (इति उत्थाय प्रणमति) अपिच पृच्छति ।)

अण्यस्ति कुशलं सर्वम् । धरण्यां मम पालने ।
श्रोतुमिच्छामि सन्देशम् । निस्सन्देहं निवेद्यताम् ॥

गौरमुख – भवतां पालने धरणीं चक्रं सर्वं सुखमनुभवत्येव महाराज किन्तु ।

मन्त्री – किन्तु किम् ? वद ।

राजा – उच्यतां कोऽयं सन्देशः ।

ब्राह्मणाः – निवेद्यतां मुनेः सन्देशः ।

राजा – सर्वहितैषिणां मुनीनां सन्देशः शिरोधार्यः भवति चन्द्र वंशीयानाम् ।

गौरमुखः – राजन् ! महातापसः शमीकस्य स्कन्धे भवता मृतसर्पः निक्षिप्तः । तस्मात् सुलभ क्रोधेन तस्य पुत्रेण श्रृङ्गिणा सप्तरात्रेण तक्षकेन भवतः मृत्युः भविष्यतीति शप्तोऽसि तस्मात् रक्षां कुरुष्वेति । केनचिदपि तदन्यथाकर्तुं न शक्यं भवति, इतिच कथितम् । तव हितार्थिना तेन प्रेषितोऽहं वार्तयितुम् । (इत्यधोमुखः तिष्ठति)

मन्त्री – (कृत्थः) गौरमुख ! किं वदसि । इय राज्ञः परीक्षितः सभा । त्वं राजसभायां भणसि । त्वं राजसभा दर्शनेन कम्पितोसीतिमन्ये । त्वं एकस्तम्भ सौधे समुद्रे निवसति, इति श्रृतं । तस्मात् राजा मायायोगेन वञ्चयितव्यः मया । भवतु प्रयतिष्ये । (इति निष्क्रान्तः)
(यवनिका पतति)

*****************************************************

.

पञ्चमं दृश्यम्

(सिंहासनासीनः तक्षकः । अन्यौ द्वौ भुजङ्गमौ पार्श्वे उपविश्य विचारयन्तौ स्तः)

प्रथमः – राजन् तक्षक आवां किमर्थमाहूतौ ।

तक्षकः – अयि सुहृदौ शापवशात् अकरणीयं कार्यं कर्तुं मम विद्यते ।

प्रथमः – तत् किं कथ्यतां भोः ।

द्वितीयः – आवां भवता किं आज्ञाप्यते तत् कर्तुं समुद्यतौ निवेदयतु ।

तक्षकः – अयि मित्रोत्तमौ श्रुणताम् । श्रृङ्गिणा राजा परीक्षित् तक्षक बिषण निधनं समागमिष्यतीति शप्तः ।

प्रथमः – किं राजा परीक्षित् शप्तः । अहो किमेतत् वैपरीत्यम् ।

द्वितीयः – कर्मकः स्वकृतमत्रैव भुङ्ते ।

तक्षकः – अनालोच्य कृतं तेन।

प्रथमः – किं कर्म कृतं तेन।

तक्षकः – कुकर्म कृतं तेन।

द्वितीयः – किं तत् ।

तक्षकः – अयि मित्रोत्तमौ श्रुणुतां भवन्तौ । पिपासार्दितः राजा परीक्षित्, जपन्तं श्रृङ्गिणः पितरं शमीकं, अजानन्, मत्सरेण तस्य स्कन्धे मृतसर्पं निक्षिप्तवान् । तत् दृष्टेन तस्य पुत्रेण श्रृङ्गिणा राजा परीक्षित्, सप्तरात्रेण तक्षकेन पञ्चत्वं नेष्यतीति शप्तः ।

प्रथमः – बत ! लोके न जानाति विद्वानपि, किं कस्य श्वो भविष्यति ।

द्वितीयः – सर्वजन्तूनां मरणस्य किमपि कारणं भवति ।

प्रथमः – धर्मरक्षितुः परीक्षितः इयमवस्था सञ्जाता इति स्वप्नेऽपि नकोऽपि चिन्तयत्येवम् ।

तक्षकः – प्रस्तुतमनुसरामः श्रुणुताम् । परीक्षिन्महाराजः मन्त्रिभिश्चैव सम्मन्त्र्य एकस्तम्भ प्रासादं कारयित्वा तत्रैव मन्त्रिपुरोहितैः, विविधमन्त्रोच्चारणैः, अनेकसायुधभटवर्गैः, परिरक्षमाणः अस्ति । सः केवलं कन्दमूलानि जग्ध्वा, दिवसान् संयापयतीति जनश्रृतिः ।

प्रथमः – शापमूलकत्वात् श्वोवा, परश्वोवा, अयं राजा मृतो भविष्यति। तथाऽपि आत्मानं परिरक्षितुं यतते।

द्वितीयः – पराक्रमशालिनापि प्राणाः रुचिराः भवन्ति ।

तक्षकः – प्रथमतः युवाभ्यां राज्ञः परीक्षितः मन्दिरं गन्तव्यम् ।

प्रथमः – तत्रगन्तुं अहं अशक्नुरस्मि ।

द्वितीयः – अधुना राज्ञः मन्दिरे सर्वे खड्गहस्ताः गारुड मन्त्रोच्चारणां कुर्वन्तः आहिण्डमानाः जाग्रति । यदि दृष्टिपथं भवेव आवयोः मरणमेव ।

तक्षकः – श्वः तत्र मया प्रवेशः कर्तव्यः ।

प्रथमः – कथं भवता विधीयते प्रविश्यते च ।

तक्षकः – श्रुणुतां राजा परीक्षित् धर्ममार्गानुसारीमहानुभावः । ब्राह्मण पक्षपाती । ब्राह्मणदत्तं अविचार्य गृहणाति । तस्मात् युवाभ्यां ब्राह्मणरुपवेषाभ्यां तत्र गन्तव्यम् ।

प्रथमः – तत्र कथं गन्तव्यम् ।

तक्षकः – शुचिर्भूत्वा ब्राह्मणवेषाभ्यां फलपुष्पाणि गृहीत्वा राज्ञे दातव्यानीति उक्त्वा प्रवेष्ठव्यम् ।

द्वितीयः – मायावेषेण प्रवेष्टव्यमिति आज्ञाप्यते भवता । आवां तथा गन्तुं शक्नुवः (इति प्रथमेन द्वितीयस्यकर्णे) इदं योग्यमेव खलु आवयोः ।

प्रथमः – आम् इदं योग्यम् (इति शिरः कम्पनं करोति)।

तक्षकः – श्वः सप्तमः दिवसः भविष्यति युवाभ्यां गन्तव्यम् । अहं सूक्ष्म कोटकरूपेण, एकस्मिन् फले गुप्तः भूत्वा, यदा सः राजा फलाघ्राणं करोति, तदा तं दष्ट्वा निजरूपेण बहिरागच्छेयम् ।

प्रथमः – राजन् तक्षक, गच्छावः आवाम् । (इति नमस्कुरुतः)

तक्षकः – कार्यं निर्विघ्नं समाप्तिं भूयात् । जयोस्तु (इति गच्छति)

(यवनिका पतति)

******************************************************

.

षष्ठं दृश्यम्

(पीताम्बरधारी वैष्णव साम्प्रदाय तिलकाञ्चितः भूत्वा अधः पीठे उपविशति) उभयपार्श्वो तत्रैव ब्राह्मणमन्त्रिपुरोहिताः तत्र उपविशन्ति ।

वेत्रहस्तः – राजन् परमयोगीन्द्राः शुकयोगीन्द्राः समागच्छन्ति ।

राजा – (ससम्भ्रमं समुत्थाय प्रत्यभिमुखं गत्वा पादौप्रक्षाल्य अन्तः आनयति) अयि भोः शुकयोगीन्द्राः आसनेऽस्मिन् सुखेन उपविशन्तु (इति पीठं दर्शयति शुकयोगीन्द्रः उपविशति, राजा तस्याभिमुखं अन्यस्मिन् पीठे उपविशति)

शुकः – परीक्षिन्नरेन्द्र ! जानाम्यहं सर्वं यत् भूतं । तस्मात् स्वयं, धर्मपालं, हयमेधराजं, त्वां महाभागवतपुराणं, उत्तम श्लोकप्राप्त्यर्थं उत्तमलोक प्राप्त्यर्थं च श्रावयितुं स्वयं समागतोऽस्मि ।

राजा – धन्योऽस्मि । अनुगृहीतोऽस्मि । (इति नमस्करोति)

शुकः – (भागवतं पठति)

इदं भागवतं राजन् । पुराणं मुनिनाकृतम् ।
अधीतं तत्पुराणं तु । द्वापरे पितृ सन्निधौ ॥

मयापुरामहाराज । समधीतं प्रियं भृशम् ।
तदहन्तेभिदास्यामि । स्यान्मुकुन्दे मतिप्रियम् ॥

योगिनां नृप निर्णीतम् । हरेर्नामानुकीर्तनम् ।
यस्यचित्तं भवत्यस्मिन् । तस्य सर्वं भविष्यति ॥
(भटः प्रविश्य)
भटः – राजन् ब्राह्मणोत्तमौ तत्र भवन्तं द्रष्टुं फलपुष्पसम्भारैः द्वारि तिष्ठतः ।

राजा – अनुपदं प्रवेशय ।

भटः – (गच्छति) ततः प्रविशतः ब्राह्मणौ ।

प्रथमः – अयि भोः राजन् यथा निर्दिष्टमस्तु । साक्षात् शुकयोगीन्द्रः महाभागवत पुराणं भवतः उत्तमलोकप्राप्त्यर्थं श्रावयतीति श्रृत्वा अधुना दृष्ट्वाच प्रमुदितोऽस्मि ।

द्वितीयः – महाराजन् भवान् धन्योऽस्ति । नूनं उत्तम श्लोकोऽस्ति । अवश्यं भवान् उत्तम लोकान् प्राप्नोतु । तुभ्यं उपायनमिव स्वादुफलानि अतिरुचिराणि आवाभ्यां समाहृतानि । (इति तत्र स्थापयतः)

राजा – अयि विप्रौ अत्रोपविशताम् । (तौ उपविशतः)

प्रथमः – राजन् निराहारेण आत्मानं शोषयितुं नयुक्तम् । दुग्धंवा उताहो फलंवा अनुभोक्तव्यम् इति ममाभिप्रायः ।

द्वितीयः – राजन् अत्यन्तस्वादुफलानि आवाभ्यां समाहृतानि । तेभ्यः एकं फलं गृहीत्वा भुञ्जतु भवान् ।

राजा – अयि भोः मन्त्रिवर्याः । वेदपारगाः ब्राह्मणाः, अमात्याः सहृदश्च भुञ्जन्तु भवन्तः एतानि फलानि (इतितेभ्यः फलदानं करोति अवशिष्टं फलं स्वयं गृह्णाति । फलञ्जिघ्रति, पञ्चत्वं प्राप्नोति) सर्वे हाहाकारं कुर्वन्ति ।

शुकः – ओं शान्तिः शान्तिः शान्तिः ।

(यवनिका पतति)

*********************************************************

.

]