नर्तनशाला

[[नर्तनशाला Source: EB]]

[

नर्तनशाला

नमामि तां दैविकशक्तिशालिनीं । सचेतनाऽचेतन वस्तु सञ्चये ।
विभिन्नरूपेण विशालभूतले । शिवां जगन्नाटक सूत्रधारिणीम् ॥

नान्द्यन्ते

सूत्रधारः – अयि, जीवन सहभागिनि । सत्वरं इतः एहि ।

नटी – इयमस्मि देव ! निवेद्यताम् ।

सूत्रधारः – हञ्जे ! अद्य वयं नर्तनशालां नाम नाटकं दुर्भिक्षानिवारणार्थं प्रदर्शयितुं समुत्सुकास्मः । तस्मिन् नाटके त्वया पात्रधारणं कर्तव्यमस्ति ।

नटी – यदि रोचते मह्यं नाटकमिदं, अवश्यं पात्रग्रहणे उद्युक्ता भवेयम् । कोयं कविः तस्य परिचयः कः ।

सूत्रधारः – अयं महाकविः गीर्वाणान्ध्रभाषाप्रवीणः । अयं ललित गीतलहरीं, यशोधरा महाकाव्यं अपिच अक्षयगीत रामायण काव्यं च विलिखितवान् । अयं भारतीय संस्कृतिप्रेमिकः । अस्यनाम परीक्षित् शर्मा । अयमान्ध्रदेशीयः ।

नटी – आर्य अस्मिन् शरन्नवरात्र महोत्सवे इदं नाटकं यदि प्रयोक्ष्यते तर्हि तस्मिन् पात्रधारणं कर्तुं समुत्सुकाऽस्मि ।

सूत्रधारः – आर्याणि शारदमुद्दिश्य किञ्चित् गीतं श्रावय ।

नटी – श्रूयताम् –

तुहिनकिरण जालै श्शर्वरीं तां निगृह्य ।
शरदि मधुरमूर्तिश्चन्द्रमाश्चन्द्रिकायाम् ।
विकसित कुमुदानां नव्यसौरभ्य मत्तः ।
रमयति सरसाङ्गीं चुम्बनैश्चारुहासैः ॥

सूत्रधारः – अहो ते बुद्धिकल्पनाचातुर्यम् ।

नटी – (श्रवणमभिनीय) कुतोत्रस्त्रीणां भाषणं भवति ।

सूत्रधारः – अयं अन्तःपुर कोलाहलः इव सन्दृश्यते । (इति आकर्णयति)

नटी – आम् अयं तथ्यम् अन्तःपुरकोलाहलः ।

सूत्रधारः – हञ्जे जानासित्वम् । इतः सैरन्ध्रीसुदेष्णामञ्जरीचन्द्रिकाः पर्वदिवस मण्डनार्थं पुष्पापचयाय प्रविशन्ति । एहि गच्छावः (इति निष्क्रान्तौ)

(विराटनगरे विराटराज्ञः निकेतनम् । सुदेष्णायाः उभय पार्श्वयोः याज्ञसेनी सैरन्ध्री अन्याः अन्तःपुर परिचारिकाश्च उपविशन्ति)

सुदेष्णा – सैरन्ध्री, मदनोद्याने शेफालिका पुष्पाणि, पारिजातकुसुमानि, चम्पा मल्लिकाः विरचय ।

सैरन्ध्री – तथैव राज्ञि (इति पुष्पपात्रंनीत्वा गच्छति)

सुदेष्णा – हञ्जे पल्लवि, मया अभ्यङ्गनस्नानं कर्तव्यमद्य । स्नानगृहे उष्णोदकं, अङ्गोद्वर्तनार्थम् मुद्गचूर्णमिश्रित चणकचूर्णम् अपिच गन्धिलतैलद्रव्याणिच संस्थापय । मयूरपिच्छचित्रितं नीलाम्बर चीरं नील निचोलं च स्थापय । शरीर सम्मार्जनार्थं वस्त्रशकलं तु माविस्मर ।

पल्लवी – राज्ञि सर्व वस्तु सञ्चयैः स्नानगृहं सज्जीकरिष्यामि । (इति गच्छति)

सुदेष्णा – (गच्छन्त्यः आहूय) हञ्जे श्रृणु मम केलीगृहे शयनमन्दिरं धौत वस्त्रैस्समलङ्कृत्य सकल गन्धिल कुसुम निचयैः सर्वधूपैः आघ्रायितं कृत्वा सुसज्जितं कुरु ।

पल्लवी – यथोक्तं करिष्ये राज्ञि (इति गच्छति)

मञ्जरी – चन्द्रिके ! सैरन्ध्री अधुना पुष्पणि समाहर्तुं उद्यानं गतवती । पुष्पाहरणानन्तरं आवाभ्यां राज्ञी सुदेष्णा अलङ्करणीया । भवत्या कुत्रापि नगन्तव्यम् ।

चन्द्रिका – हञ्जे मञ्जरि, अहं क्व गच्छेयं अन्तःपुरं सन्त्यज्य । आवाभ्यामं सकलान्तपुरमद्य अलङ्करणीयं विद्यते ।

मञ्जरी – चन्द्रिके ! अन्तःपुरालङ्करणं आवाभ्यां न कर्तव्यम् । विद्यते सैरन्ध्री सर्वकर्मसु कुशलिनी । तया सर्वं विधास्यते ।

चन्द्रिका – सा अतीव कुशला । सैरन्ध्री इति तस्याः नाम केवलं द्योतयति तस्याः कौशल्यम् ।

सुदेष्णा – सख्यौ सैरन्ध्री अस्माकं सर्वेषामपि अत्यन्तं विश्वसनीया भवति । साच गन्धर्वाणां पत्नी । अस्माभिः सा साधु दर्शनीया । सा कालवैपरीत्येन अस्मदीय सुकृतपरिपाकेन अस्मद्गृहे परिचारिका सञ्जाता । सा महाराज्ञीलक्षणसम्पन्नाभाति ।

मञ्जरी – सखि सुदेष्णे तदीयावासेन विराटनगरी शृङ्गार रस परिप्लाविनी भाति ।

चन्द्रिका – तस्याः आगमनेन अन्तःपुरः सकलकलाप्रपूर्णः विलसति ।

सुदेष्णा – न केवलम् अन्तःपुरः सर्वं विराटनगरं सुभिक्षं सानन्दं प्रतिभावति ।

मञ्जरी – सुष्टु भणितं भवत्या ।

सुदेष्णा – सा पाण्डवानां गृहेपि परिचारिका रूपेण कुशलं कर्म अकरोत् इति कथितवती ।

चन्द्रिका – सर्वं चारुतरं शोभते । सा अतीव तज्ञा भाति । (ततः प्रविशति वेत्रवती)

वेत्रवती – (नमस्कृत्य) अयिराज्ञि भवत्याः सोदरः राजा कीचकः समायाति (इति विज्ञापयति)

सुदेष्णा – आयातु प्रवेशय ।

वेत्रवती – तथैव (इत्युक्त्वा प्रणम्य गच्छति)

मञ्जरी – चन्द्रिके एहि आवां गच्छावः शयनमन्दिराऽलङ्करणार्थम् । (इति गच्छतः ततः प्रविशति कीचकः)

(कीचकः सुदेष्णायाः समीपं प्रहसन् गच्छति)

कीचकः – अग्रजे सुदेष्णे !

सुदेष्णा – किं रे उल्कापातवत् अन्तःपुरं हठात् प्रविष्टोऽसि ।

कीचकः – अयं राजा अकर्मको भूत्वा अकारणं कदापि नागच्छति ।

सुदेष्णा – किं विद्यते तवाऽत्र अन्तःपुरे करणीयम् ।

कीचकः – यदि त्वं मम साहाय्यं करिष्यसि तर्हि अन्तःपुरे रमणीयं करणीयं विद्यते ।

सुदेष्णा – विराटराज्ञः गृहे अपूर्वं रमणीयं करणीयं किन्ते विद्यते ।

कीचकः – [उस्] उच्चैर्माविद भित्तिः कर्णिका भविष्यति । एतत् कर्म रहसि भवत्या साधयितव्यं विद्यते ।

सुदेष्णा – सोदर, किं कर्म विद्यते प्रथमतः कथय । अनन्तरं साधयितुं प्रयतिष्ये ।

कीचकः – भवती मे अग्रजा । एतत् कर्म भवत्या अध्यवसितव्यम् ।

सुदेष्णा – निवेदय रे प्रथमम् ।

कीचकः – [इतस्ततः विलोक्य अग्रजायाः कर्णे रहसि ] विराटस्यराज्ञः निवेशने अपिच अन्तःपुरे, नेयं मया जातु दृष्टा कासा ?

सुदेष्णा – [साभिप्रायं] अरे विपुलं सविस्तरं वद केयं इति ।

कीचकः – अत्रनकोऽपि विद्यते खलु ।

सुदेष्णा – नकोऽपि विद्यते आवां विना ।

कीचकः – अग्रजे श्रुणु ।

सुन्दराङ्गी विशालाक्षी । विलासपरिसर्पिणी ।
उन्मादं कारयित्री च । कुतः कैषा समागता ॥

सुदेष्णा –[दक्षिणहस्तेन साश्चर्यं मुखं पिधाय] बत ! त्वं कथमेवं प्रवर्तसे ।

कीचकः – सत्यं तथ्यं च भवत्या प्रोक्तम् अहं कदापि नैवं प्रवर्तितः अभवम् । नाहमपि जाने मदीय वर्तनम् ।

सुदेष्णा – त्वं तादृशीं दुर्भावनां सन्त्यज ।

कीचकः – अग्रजे श्रुणु –

मध्नाति चित्तं रसनिस्तुलं मे । नक्तं दिवं कामविवर्धनीसा ।
सर्वत्र पश्यामि तदीय रूपम् । स्मरामि लावण्य विलास चेष्टाम् ॥

अहं तस्याः वशमभवम् । अस्यां अवस्थायां न मे औषधं विद्यते। इयं ते परिचारिका किम्?

सुदेष्णा – सत्यं एषा मे परिचारिका । किमर्थं ते मनः परिचारिकायां संलग्नम् ?

कीचकः – सौन्दर्यस्य कुलवर्गवर्णाः नसन्ति ।

सुदेष्णा – न युक्ता अयोग्या च ते भावना ।

कीचकः – इयं परिचारिका । किन्तु प्रत्यग्ररूपा प्रतिभाति ।

सुदेष्णा – अरे ! एषा परिचारिका नीरसाऽकारा । एषा ते अयोग्या । अन्तः पुरे बह्व्यः सुरसुन्दरीसमानाः इन्दुवदनाः विद्यन्ते । ते दृष्टिदोषः संजातः श्रुणु रे भ्रातः।

तावकीन दरहास वीक्षणैः । पञ्चबाणनिभ राजयौवतम् ।
पादनूपुररवाभिरञ्जितम् । यास्यतीह तवपादसन्निधिम् ॥

तवृदृष्टि दोषः सञ्जातः । कामः अन्धः भवति । सः न जानाति युक्तायुक्त विचारणाम् । त्वं अहार्यनिश्चयाद्विरम् ।

कीचकः – अग्रजे भवती न जानाति । कला रहस्यं श्रुणु ।

स्त्रीणां विलासादिकमात्मदृष्ट्या । पुमान् विजानाति तथा न नारी ।
महोन्नतं दार्ड्‌य गभीर रुपम् । पुंसां विमुग्धा तुरुणी न मर्त्यः ॥

हे भगिनि ! एषा स्वरुपायुक्तं कर्म करोति । तस्याः एतत् कर्म नोचितम् । प्रभूत नागाश्वरथ समलङ्कृतं मनोहरं मम गृहं काञ्चन चित्रभूषितं इयं शोभयतु ।

सुदेष्णा – नाहं जाने ते मनोभिप्रायं कीचक । त्वमेव तस्याः समीपं गत्वा विचारय नाहमस्मिन् कर्मणि नियोक्तव्या ।

कीचकः – त्वं तथा मां आज्ञापय । अहं तस्याः सकाशं गत्वा साधनीयं साधयिष्यामि ।

शुकीमेनां ग्रहिष्यामि । सुदृढं बाहु पञ्जरे ।
कीरवाणी दिवारात्रम् । दद्यान्मे मूर्च्छनादिकम् ॥

(इति हसन् गच्छति)

(यवनिका पतति)

***************************************************************

.

द्वितीयं दृश्यम्

(सैरन्ध्री भूमा उपविश्य पुष्पमालां कुर्वन्ति आस्ते । ततः प्रविशति कीचकः हेषां कृत्वा)

कीचकः – (तस्याः समीपं गत्वा) कल्याणि कात्वम् । कस्मात् त्वं विराटनरं प्राप्तासि मां आचक्ष्व ।

सैरन्ध्री – (भयचकिता तमदृष्टवैवस्वीय कर्म कुर्वन्ती आस्ते)

कीचकः – भामिनि ! ते रूपं अग्रयम् । सौकुमार्यं उत्तमम् । ते वक्त्रं शशाङ्क इव निर्मलम् । ते नेत्रे पद्मपत्रनिभे । जघनं विशालम् । ते वाक्यं परपुष्टरुतोपमम् । एवं रूपा नारी महीतले मया न दृष्टपूर्वा । तरुणि ।

सर्वदा मां दहत्येव । दावाग्निरिव मन्मथः ।
सङ्गमाम्भोधरेण त्वं । मन्मथाऽग्निं प्रशामय ॥

मत्तेभ गामिनी ! त्वं मत्तः उत्तयं सौख्यं प्राप्नुहि (इति तस्याः समक्षं गच्छति)

सैरन्ध्री – (तिरोमुखी भूत्वा) हे सूतपुत्र ! इदं ते नयुक्तम् ।

कीचकः – कुटिलालके ! त्वं स्वादूनि अमृत कल्पानि विविधानि, पेयानि मनोज्ञानि पिबमाना यथासुखं रममाणा विविधान् भोगान् सौभाग्यं उत्तमैः भोगैः अनुभवस्व ।

सैरन्ध्री – (उत्थाय किञ्चित् दूरे उपविशति) सूतपुत्र, त्वं अकथनीयं भाषसे । विरम त्वदीय भाषणम् ।

कीचकः – अहो ते वाक्षु अनिर्वचनीय माधुर्यता स्पन्दते । त्वदर्थं मे पुरातनदारान् ते दास्यः करिष्यामि । अहं स्वयं ते दासः भविष्यामि । अहं ते वशगः भविष्यायि । श्रुणु रति सुन्दरि !

अधार्यमाणा मालेव । राजसे नैव सुन्दरी ।
सम्मर्दं नैव राजन्ते । वनिता मणयः प्रियम् ॥

सैरन्ध्री – हे सूतपुत्र ! अप्रार्थनीयां मां विहीनवर्णां सैरन्ध्रीं कथं अभिमन्यसे । मेधावी स्वेषु दारेषु उत्तमं यत्नं कुरुते । सर्वदा स्वदार निरतः नरः भद्राणि पश्यति । स्वदारेषु रतिः धर्मः । तत् अक्षय्यं धर्म्यं स्वर्ग्यं मनीषिणः प्राहुः ।

कीचकः – कामिनि ! किं त्वं धर्मशास्त्राणि बोधयसि । न मह्यं रोचते भाषणमेतादृशम् । भण भण सातत्यं भण । तवोपदेशात् ते कलकण्ठ कण्ठनादः रसना माधुर्यञ्च अपूर्वानन्दं मे वितरतः ।

सैरन्ध्री – सूतपुत्र, उत्तम भावनाभिः ते वंशोन्नतिं कारय । इदं ते न योग्यम् । स्वजाति दारजाः पुत्राः कुल पूजिताः भवन्ति । तस्मात् त्वं धर्मभाक् भव । पापात्मा नरः मोहमास्थितः घोरं अयशः प्राप्नुयात् । तस्मात् त्वं विरम तव पथः ।

कीचकः – (विहस्य) वरारोहे त्वं एवं प्रत्याख्यातुं नार्हसि । एतत् भाषणं ते न योग्यम् । याः रूपवत्यः ते मदन साम्राज्यस्य राज्ञ्यः भवितारः । किन्तु नीतिवचन पठयितारः न भूयासुः ।

सैरन्ध्री – अहं यद् ब्रवीमि तत् सर्वं सज्जन सम्मतं समाजानुकूलञ्च ।

कीचकः – हे सुभ्रु ! अहं अस्य राजस्य प्रभुः । अहं क्षितौ वीर्यस्या प्रतिमः । मत्समोनास्ति कुत्रापि । सप्तसमुद्रपरीतधरावलये वीरः बलिष्ठश्च ।

न कोप्यस्ति विशालेऽस्मिन् । भूतले मत्समो बली ।
स्त्रीणां सुरत सौख्यन्तु । जायते बलिनः परम् ॥

रूपयौवनसौभाग्यैः उत्तमभोगैः भोक्तव्येषु अनुपमेषु भोगेषु नान्यः मत्समः अस्ति ।

सैरन्ध्री – सूत, नाहं कामये किमपि । अहं दासी ।

कीचकः – कल्याणि त्वं रता दास्ये । किमर्थं विपुलं वद ।
मां भजस्व वरारोहे । भुङक्षव भोगान् रसार्णवे ॥

सैरन्ध्री – सूतपुत्र ! मामुह्यस्व । जीवितं मा त्यक्ष्यस्व । पञ्चगन्धर्वाः मामनिशं रक्षन्ति । तत् त्वं जानीहि । मे पतयः गन्धर्वाः त्वया नाहं लभ्या । ते कुपिताः त्वां हनिष्यन्ति । मा व्यनीनशः । त्वं सह बान्धवः वृत्तात् फलमिव अवशः पतिष्यसि । गच्छ त्वं । अपसर मम सम्मुखात् । (इति सक्रोधं कथयति)

कीचकः – सैरन्ध्रि, क्रोधेऽपि ते वदनमण्डलं सौन्दर्यं वितनोति । अहं सप्तसागरपरिवेष्ठितमहीवलये बलवत्तमः । अह तान् गन्धर्वान् एक मुष्टिपातेन हनिष्यामि न ते शङ्का । त्वं मम मार्गे विचर सुखमनुभव । अहं सिंहबलः । पदेपदे विचारय । पुनरागच्छेयम् । (इति गच्छति)

(यवनिका पतति)

********************************************************************

.

तृतीयं दृश्यम्

(सुदेष्णा गृहम् । कीचकः प्रविश्य)

कीचकः – सुदेष्णे, अहं तया प्रत्याख्यातः ।

सुदेष्णा – जानाम्यहम् ।

कीचकः – भवति कथं जानासि ।

सुदेष्णा – अहं सैरन्ध्री गुणगणान् स्वभावञ्च सुष्टु जानामि ।

कीचकः – अग्रजे, किं कुर्यां अधुना । अहं अमर्यादेन घोरेण कामेन अभिपरिप्लुतः ।

सुदेष्णा – कीचक त्वं तव पथः विरम ।

कीचकः – विरम इत्यस्य पदस्य अर्थं न जानामि मे जीवने । किन्तु जानामि रम इत्यस्य पदस्य अर्थः ।

सुदेष्णा – एतस्मिन् विषये नाहं करिष्यामि किञ्चिदपि साहाय्यम् ।

कीचकः – सुदेष्णे येनोपायेन गजगामिनी सैरन्ध्री मां भजेत् तथा त्वं कुरु । (इति भर्त्सयति)

सुदेष्णा – अरे कीचक ! इयं सुश्रोणी शरणागता । मया सा दत्ता अभया । साच शुभाचारा । नैनां वक्तुं उत्सहे । एषा पापेन चेतसा अन्येन स्पष्टुं न शक्या । एनां गन्थर्वाः रक्षन्ति रमयन्तिच । एवं सा प्रथम सङ्गमे मां अवादीत् । ते कृत्थाः ते जीवितं नाशयेयुः ।

कीचकः – अग्रजे त्वं जानासि मदीय भुज पराक्रमम् । त्वं मा बिभेहि मम मृत्योः ।

सुदेष्णा – राजाऽपि तां विलोक्य सम्मोहं गतवान् ।

कीचकः – यदि रसिकः धरातले अस्ति सः अवश्यं यं दृष्ट्वा संमोहं प्रप्स्यति । स्त्रीणां सौन्दर्यं पुरुषाः जानन्ति नतु स्त्रियः ।

सुदेष्णा – मया महीपतिः सत्यवचनैः अनुनीतः । अयं जीवितस्य उपघातीनां गन्धर्व मुख्यानां भयात् मनसाऽपि एनां न चिन्तयति । ते यदि जानन्ति कृत्थाः भवेयुः । युगान्तेषु भास्करा इव त्रीन् लोकान् दहेयुः ।

कीचकः – सुदेष्णे किमर्थं मां तव वचनैः विमोहयसि । त्वं जानासि मम सामर्थ्यम् ।

सुदेष्णा – भ्रातः ! सैरन्ध्री तेषां महद्बलं मां न्यगादीत् । इदं गुह्यम् । अहं बन्धुवत् तव स्नेहात् आख्यामि । त्वं कुच्छ्राम गतिं मागमः । बलिनः ते कुलस्य धनस्यच नासनं कुर्युः । यदि प्राणाः प्रियास्तव अस्यां मनः कर्तुं नोत्सहस्व ।

कीचकः – सुदेष्णे

गन्धर्वाणां शतं नोचेत् । सयस्रं चायुतानि वा ।
हनिष्याम्येक घातेन । किं पुनः पञ्च सङ्ख्यकैः ॥

(इति अट्टहासं करोति)

सुदेष्णा – यदि त्वमेवं अभिप्लुतः कामेन किं शक्यं मयाकर्तुम् । ध्रुवं गतायुस्त्वम् । अरे नराधम अकर्तव्ये पापे मां नियुनङिक्ष ।

कीचकः – त्वं मे भगिनी असि । अनुपदमेव अवश्यं मे सहायतां करिष्यसि ।

सुदेष्णा – कीचक ! त्वं अलैकिकोऽसि । पुराप्रोक्तं निपुणैः पापं कुरुते एकः । तेन स्व जातिः हन्यते । त्वं सर्वं स्वजनं घातयिष्यसि । त्वं तुष्टोभव कुलक्षयात् ।

कीचकः – भगिवी मत्तः ते भीतिर्मास्तु । त्वं यथाकथञ्चित् मत्समीपं तां प्रेषय । तदनन्तरं यत् करणीयं तदहं विधास्ये ।

सुदेष्णा – अलौकिक ! भातृ सौहृदात् अहं एवं कथयामि । कथं सा नीरसाकारा स्पृहणीया भवति भवता । अत्र बह्व्यः विद्यन्ते कलहंस गामिन्यः । विशाल जघनाः । किमर्थं त्वं विनाशं प्राप्तुं मृत्युं आह्वयासि ।

कीचकः – भगिनि !

भवत्यै नीरसाकारा । सैरन्ध्री सेविका ध्रुवम् ।
चेतसां रसपूर्णानाम् । रसाकारा वरानना ॥

कामः मां प्रेरयति । अयं अप्रतिहतः। भगिनि ! कर्तव्यं क्षिप्रं कुरु। (इति गर्जति)

सुदेष्णा – सदा जनः शान्त पवित्र बुध्या ।
करोति कर्माणि सुयोग्य काले ।
हठात्स्वयं पापपरीत कर्म ।
विनाशकाले विपरीत बुद्धिः ॥

अरे मूर्ख श्रुणु आगामिनि पर्वणि विविध भक्ष्य भोज्य चोष्य पेयादिकं अनेक प्रकार सुराञ्च विधाय सिद्धं कुरु । तत्र तव शयन मन्दिरात् सुरामानेतुं एनां तवान्तिकं प्रेषयिष्यामि । सम्प्रेषितामेनां तत्र विजने यथा कामं निगृह्य विचर ।

कीचकः – अग्रजे त्वं मे प्रियकारिणी । भवत्याः आदेशानुसारं अहं सर्व सन्नाहं कारयेयम् । अहो स्त्रीणां बुद्धिः समयानुसारिणी यतः -

आगते सङ्कटेकाले । कर्तव्यङ्क्षिप्रयुक्तिभिः ।
स्त्रियः शान्तं विधास्यन्ति । स्त्रीबुद्धिस्सर्वतोमुखी ॥

(इति हसन् गच्छति)

(यवनिका पतति)

******************************************************************************

.

चतुर्थं दृश्यम्

सुदेष्णा – चन्द्रिके ! मञ्जरी क्व गता ।

चन्द्रिका – मञ्जरी ! तवान्तपुरं अलङ्कर्तुं सखीभिस्साकं तत्र गतवती ।

सुदेष्णा – त्वं किं करोष्यत्र । अहं मञ्जरीं द्रष्टुं उपागतास्मि । श्रुणु, अद्य कीचकस्य जन्म दिवसः । तत्र अस्माभिः सर्वैरपि गन्तव्यम् । विविध भोज्य चोष्य खाद्य पदार्थाः करणीयाः विद्यन्ते ।

चन्द्रिका – विद्यते खलु सैरन्ध्री ! तया साकं वयं सर्वे मिलित्वा यद् यद् आचरणीयं तत् कुर्मः ।

सुदेष्णा – सैरन्ध्री कार्यान्तरे निमग्ना तस्मादहं मञ्जर्याः मार्गं निरीक्षे ।

चन्द्रिका – सखी सुदेष्णे त्वं अनन्तरं सावकाशं कीचक गृहं समागच्छ । अहं मञ्जर्या सार्थं तत्र गच्छेयम् ।

सुदेष्णा – वयं सर्वे मिलित्वा, अनन्तरं गच्छेम । किञ्चित् कालं तिष्ट ।

चन्द्रिका – अहं मञ्जरी सकाशं गत्वा, अतःपुरालङ्करणं कियत्पर्यन्तं अध्यवसितं इति विलोक्य, तया साकं त्वां प्रत्यागमिष्यामि ।

सुदेष्णा – आम् तथैव कुरु ।

चन्द्रिका – भवती आवयोः मार्गं प्रतीक्षस्व (इति गच्छति)

सुदेष्णा – (एकान्ते निश्वसन्ती उपविशति । ततः प्रविशति सैरन्ध्री)

सैरन्ध्री – राज्ञि किं एकाकिनीं विचारयसि किं करणीयं ते विद्यते ।

सुदेष्णा – अहं अशक्ताऽस्मि चलितुमपि । किञ्चत् पानीयं देहि ।

सैरन्ध्री – आनयेयं (इति गन्तुमिच्छति)

सुदेष्णा – सैरन्ध्रि ! मां पिपासा प्रबाधते सुरामानय कल्याणि ।

सैरन्ध्री – कुत्र विद्यते सुरा कथय देवी ।

सुदेष्णा – कीचकस्य वेश्मनि ।

सैरन्ध्री – मया तत्र गन्तव्यं किम् ।

सुदेष्णा – हां गन्तव्यम् ।

सैरन्ध्री – महाराज्ञि ! नाहं गच्छेयं कीचकस्य वेश्म ।

सुदेष्णा – त्वं मे दासी असि । यत् मया कथ्यते तत् त्वया करणीयम् ।

सैरन्ध्री – राज्ञि त्वमेव जानासि सः निरपत्रपः । तव वेश्मनि कामवृत्ता पतीनां व्यभिचारिणी न भविष्यामि ।

सुदेष्णा – सैरन्ध्री । अकरणीयं कुरु इति नाहं कथयेयम् ।

सैरन्ध्री – देवि ! भवती जानाति प्रविशन्त्या मया पूर्वं समयः कृतः तव वेश्मनि ।

सुदेष्णा – जानाम्यहं । सर्वमपि विचार्य आदिशामि ।

सैरन्ध्री – देवि कीचकः मूढः मदन दपिन्तः सः मां दृष्ट्वा अवमंस्यति न यास्ये तत्र ।

सुदेष्णा – सैरन्ध्रि! सः त्वां नैव हिंस्यात् (इति उत्थाय सुरापात्रमानीय सैरन्ध्र्याः कसाशं गत्वा) सैरन्ध्रि गृहाण पात्रमेतत् (इति सपिधानं पात्रं ददाति)

सैरन्ध्री – (रुदन्ती कीचकस्य निवेशनं गच्छन्ती) यद्यहं भर्तुभ्यः अन्यं कञ्चन नाभिजानामि तेन सत्येन कीचकः एकान्ते दृष्ट्वा मां न किमपि कुर्यात् । (इति अश्रुमार्जन्ती गच्छति)

(यवनिका पतति)

******************************************************

.

पञ्चमं दृश्यम्

(कीचकः एकान्ते उपविष्टः चिन्तयति)

कीचकः – काल विलम्बनं भवति । भगिनी मे वचः विस्मृताकिम् । उताहो दासी तिरस्कृतवती । यदि दासी मे निवासं आगन्तुं उद्युक्ता तर्हि मे मनोरथः फलिष्यति । यदि मे अग्रजा तिरस्कृता सैरन्ध्र्या तथापि मे यत्नः सुलभः भविष्यति । (आकर्णनमभिनीय) हां पादशब्दः श्रूयते । हां सैरन्ध्री कलहंसगत्या मां एति । (इत्युत्थाय तस्याः प्रवेशं वीक्षते) हां अहो–

मरालयाना स्वयमेति गेहम् । विलासमाधुर्य गुणाभिरूपा ।
कारुण्यशृङ्गार परीत भावा । मामेव यातीह मदालसा सा ॥

(ततः प्रविशति वामकरतलोपरि पात्रं वहन्ती पात्रोपरि दक्षिण करतलं पिधाय वामभागे किञ्चिन्नताङ्गी सैरन्ध्री)

कीचकः – सैरन्ध्रि ! स्वागतं ते रजनी चिक्वणा जाता । मम प्रियं कुरु । अत्र पश्य मे शयनं दिव्यं विराजते । एतत् त्वदर्थं उपकल्पितम् । एहि तत्र मया सार्धम् । मधु माधवीं पिबस्व (इति तस्याः समीपं गच्छति)

सैरन्ध्री – कीचक अपेहि । नाहं त्वया स्प्रष्टुं शक्या । दुर्बुद्धे भ्रष्टां गतिं मा भजस्व ।

कीचकः – सैरन्ध्रि ! यदा त्वं मदीय निवेशं प्रविष्टाऽसि नक्तं एकाकिनी एकान्ते सत्यं त्वं मदीयासि न ते अधिकारः मामवरोध्दुं । पश्य ।

यामिन्यां सरसां तन्वीम् । एकान्ते कोऽपि न त्यजेत् ।
अधुना मे वशी भूता । नास्ति मोक्षस्तवाङ्गने ।

सैरन्ध्री – महाराज्ञी मां तवान्तिकं सुरामाहर्तुं प्रेषयामास । मे महती पिपासा समजनि सुरां आनय क्षिप्रं इत्यवोचत् ।

कीचकः – भामिनी ! श्रुणु ।

समागमोऽयं सैरन्ध्रि । निर्णीतः पूर्वमेवहि ।
प्रिये विलास रूपे त्वं । एहि मे बाहुबन्धनम् ।

त्वं न जानासि अत्र विद्यमान रहस्यम् । भद्रे अन्याः राजपुत्र्यः सुरां नेष्यन्ति । त्वमेहि मे बाहुपञ्जरम् । (इति तां दक्षिण हस्तेन कर्षति)

सैरन्ध्री – मूढ जहीहि माम् । (इति पात्रं विसृज्य) विधुन्वाना कीचकं भूमावाक्षिण्य । (पलायिता)

(यवनिका पतति)

******************************************************

.

षष्ठं दृश्यम्

(वल्वलः इतस्तः भ्रमन् आस्ते, ततः प्रविशति त्रस्ता सैरन्ध्री)

सैरन्ध्री – वल्वल ! घोरमापतितम् । समूढः मां हस्तेन चकर्ष । अहं बलात् तं भूमौ पातयित्वा अत्रागतास्मि ।

वल्वलः – भीरु किमर्थं कम्पसे ? धैर्यमवलम्बस्व ते भद्रं करिष्यामि ।

सैरन्ध्री – कथं भवान् करिष्यति । अयं अज्ञातवासः । यदि पाण्डवाः अत्र विद्यन्ते इति प्रतिपक्षिणः जानीयुः तर्हि यथा पूर्वं अस्माभिः अध्यवसितव्यम् । विचार्यमाणे मे भीतिः जायते ।

वल्वलः – मा बिभेहि याज्ञसेनि । अद्य सहबान्धवं तं कीचकं विना रक्तस्पन्दनं, क्रन्दनं अति मृदुलं तं कीचकं सूदयिष्यामि सहबान्धवम् । पश्यसि मे कौशल्यम् । अस्याः शर्वर्याः प्रदोषे अनेन सङ्गतं कुरुष्व ।

सैरन्ध्री – तेन भाषणमपि अति भयदं भवति । कथं सङ्गतं कर्तव्यम् ? कुत्र कर्तव्यम् ।

वल्वलः – श्रुणु, अत्र नर्तन शालायां कन्याः दिवा नृत्यन्ति । रात्रौ यान्ति गृहम् । तत्रास्ति दृढं सुखदं शयनम् । तत्र अनेन दुरात्मना सार्थं समयं कुरुष्व ।

सैनन्ध्री – यथा निर्दिष्टं अहं सर्वमपि कर्तुं प्रयतिष्ये त्वया अवश्यं अत्रैव अन्तर्हितेन भवितव्यम् नोचेत् सर्वं अस्तव्यस्तं भविष्यति ।

वल्वलः – अस्मिन् विषये न किमपि विचारं कुरु । अहं सर्वं सकुशलं निर्वर्तिष्ये ।

सैरन्ध्री – बाढं । अधिकः समयः जातः । सत्वरं आवाभ्यां गन्तव्यं विद्यते । (इति द्वावपि निर्गतौ)

(यवनिका पतति)

******************************************************

.

सप्तमं दृश्यम्

(सैरन्ध्री कीचकसदनं प्रविशति)

कीचकः – अहो भामिनी भवती स्वयं आगतासि ।

सैरन्ध्री – कीचक मत्कृतापराधं सहस्व । अहं त्वां अनुसरिष्यामि । अहं ते एकं रहस्यं कथयिष्यामि ।

कीचकः – भामिनी ! मन्त्ररुद्धनागिनीव मदीयं वशमागतासि । पश्य मम वशीकरण शक्तिम् ।

सैरन्ध्री – अधुना भवन्तमुद्दिस्य ज्ञातमासीत् मया । भवान् अत्यन्तरसिकोऽस्ति ।

कीचकः – भामिनि ! भवती परहृदय वेदिनी । मधुरं भाषितं त्वया । मे हृदयं निस्तुल रसपूर्णं भवति ।

सैरन्ध्री – मे कामनां किं पूरयिष्यसि ?

कीचकः – काते कामना सविस्तरं कथय । अद्य प्रभृति तव दासोस्म्यहम् । । अहं अनुपदं पूरयिष्यामि ते कामनाम् ।

सैरन्ध्री – कीचक ! कथयितुं लज्जिताऽस्मि ।

कीचकः – मानिनि ! प्रणये लज्जा कुतः । लज्जा त्यागे प्रणयः पराकाष्ठां भजते । यतः ।

प्रेम्णाच हृदये यत्र । प्रपूर्णे रसनिस्तुले ।
सततं मधुरं भातः । परस्पर फलायिते ॥

सैरन्ध्री – अहो साधु प्रोक्तं भवता । अद्य समयं मे प्रतिपद्यस्व । मया सङ्गतं त्वां न सखा भ्राता वा जानीयात् । अहं गन्धर्वाणां अनुप्रवासात् भीताऽस्मि । अहं ते वशगा अस्मि तथा जानीहि ।

कीचकः – सुश्रोणि यथा भाषसे तथैव करिष्यामि । अहं धन्योऽस्मि सुश्रोणि । यतः ।

विलासिनी या स्मरबाधया च । स्वयं समायाति सुखाय रात्रौ ।
कामं समीपं पुरुषस्य लोके । सेयं सुरात्रिः पुरुषश्च धन्यः ।

सैरन्ध्री – अत्र तव वेश्मनि मे भीतिः भवति । भवान् सन्ध्यासमये नर्तनशालां समागच्छतु । सर्वमपि तत्र सुकरं अति सुखदं भविष्यति । त्वं एकाकी भूत्वा समागच्छ । अन्येषां दर्शनेन कामः भीतः भवति ।

कीचकः – भवती माभण ! जानामम्यहं सर्व । अहं एकाकी तत्रागमिष्यामि, यथा गन्धर्वाः मां न पश्येयुः । भवती गच्छति । (सैरन्ध्री लज्जया निवृत्ता भवति) बडिश लग्ना शफरी (इति अटृहासं करोति)

[यवनिका पतति]

***********************************************************************

.

अष्टमं दृश्यम्

(कीचकः नर्तनशालायां सुसज्जित शयने उपविश्य चिन्तयति)

कीचकः – हा विपुल जघने सैरन्ध्रि ! किमर्थं विलम्बसे । इयं शर्वरी बहुक्रूरा । निर्दया । मां एकाकिनं अतीव बाधयति । इयं कामवेदना दुर्भरा भवति मे । रजनी सर्व पापानां सर्व बाधानां सर्व सौख्यानां च निदानं भवति । भामिनी सत्वरं मां समेहि । मे बाहुपञ्जरे सुखं निवस शुकप्रलापैः । आवां मन्मथ साम्राज्यं पालयावः । अहं मदनः त्वं रतिः । मे कामवासना यथा दग्धा भविष्यति तथा विहरावः एकान्ते रजन्याम् । अहो किमर्थं विलम्ब्यते भवत्या । कामिनि त्वया विना नाहं जीविष्यामि । अङ्गरागाः समानीताः । विविध पुष्पफलपानीयानि समाह्रतानि । ध्रुतानि मृदुदुकूलानि । सर्वत्रापि घुमघुम वासना प्राक्तन कामवासनादीन् प्रेरयन्ती आस्ते । अतीव सुखदा इयं रजनी । मे विषायते । विलासिनि किमर्थं चिरयसि त्वम् । अहो अतीव वेला यापिता निरर्थका । प्रिये !

अलिन्ङ्ग्य देहं कुचभारनम्रम् । विलास लावण्य सरोवरे ते ।
तरन् यथेच्छं रसमग्नचित्तः । प्रशामयेयं मम म रबाधाम् ॥

एहि कृशोऽदरि मे शयनमन्दिरम् । मया साकं सानन्दं रमस्व । (इति किं कर्तव्यता मूढः हस्तपादं प्रसार्य शयने अशेत)

(वल्वलः, सैरन्ध्रीवेशेण प्रविश्य कीचकशयने उपविशति । कीचकं वामहस्तेन कण्ठं निगृह्य दक्षिणहस्तेन मुष्टिभिः मारयितुं उद्युक्तः भवति)

[यवनिका पतति]

****************************************************************************

]