धनंजयविजयः

[[धनंजयविजयः Source: EB]]

[

[TABLE]

(Registered according to act XXV of 1867.)

(All rights reserved by the publisher.)

[TABLE]

काव्यमाला।

<MISSING_FIG href="../books_images/U-IMG-1729069316Screenshot2024-10-16143035.png"/>

श्रीकाञ्चनाचार्यविरचितो

धनंजयविजयः।

<MISSING_FIG href="../books_images/U-IMG-1729069342Screenshot2024-10-16132843.png"/>

हरेर्लीलावराहस्य दंष्ट्रादण्डः स पातु वः।
हेमाद्रिकलशा यत्र धात्री छत्रश्रियं दधौ॥१॥

अपि च।

तद्वः प्रमार्ष्टु विपदः प्रणतार्तिहन्त्र्या
न्यस्तं पदं महिषमूर्धनि चण्डिकायाः।

वैरी यदीयनखरांशुपरीतशृङ्गः
शक्रायुधाङ्कितनवाम्बुधरप्रभोऽभूत्॥२॥

अपि च।

तद्वः सारस्वतं चक्षुः समुन्मीलतु सर्वदा।
यत्र सिद्धाञ्जनायन्ते गुरुपादाब्जरेणवः॥३॥

(नान्द्यन्ते)

** सूत्रधारः**—(समन्तादवलोक्य।) अहो रमणीयता प्रभातस्य। तथा हि।

दाराणां मुरवैरिणो रतिपतेर्मातुस्त्रिलोकीजितः
स्फारत्पङ्कजकोटरोदरजुषो निद्राविरामे श्रियः।

प्रत्युद्धुद्धमरालपक्षपटहध्वानप्रबन्धानुगं
भृङ्गी मङ्गलगाथिकेव सततं प्रोत्कूजति प्राङ्गणे॥४॥

(पुनः परितोऽवलोक्य।) अहो रमणीयः शरदारम्भः। यतः।

.……………………………………………………।

सरो हरति मेचेतः प्रोन्मूर्च्छत्पद्मकुद्मलम्॥५॥

अपि च।

निष्कम्पा पृथिवी सशाद्वललता निर्दुर्दिनं चाम्बरं
सुव्यक्तामलतारकेन्दु सरितः काशप्रसूनाङ्किताः।
तोयं वीतविषं सरांसि विकसत्पद्मानि शुभ्रा दिशो
द्रष्टुं संप्रति शारदीं श्रियमिमां मन्ये प्रबुद्धो हरिः॥६॥

(नेपथ्याभिमुखमवलोक्य।) क एष लिखितहस्तः समायाति।

(ततः प्रविश्य पुरुषो लिखितमर्पयति।)

सूत्रधारः— (विमृश्य वाचयति।) अस्ति प्रशस्तिसहितः श्रीमाञ्जयदेवः।

अर्थिप्रत्यर्थिलक्षेष्वप्यपराङ्मुखचेतसम्।
यं पराङ्मुखतां निन्युः केवलं परयोषितः॥७॥

यस्य चेतसि निर्व्याजं द्वयं तूलकणायते।
क्रोधे विरोधिनां सैन्यं प्रसादे कनकोच्चयः॥८॥

स च प्रसादेन रङ्गमण्डनं नाम नटं समादिशति—

इह शरदि विराजद्वारिजोत्तंसितायां
प्रथमविगतनिद्रः श्रीकराश्लिष्टवक्षाः।
शिथिलयति मुरारिर्योगनिद्रानुरागं
तदयमखिललोकस्योत्सवः किं पुनर्नः॥९॥

तदिदानीं भवता वीरसाद्भुतं रूपकमभिनीय गदाधरप्रमुखास्मत्परिषदानन्दनीया’ इति। किं नाम तादृशं रूपकम्। (स्मृत्वा।) आः, ज्ञातम्।

कुलं कविमुनेरस्ति पुत्रान्यत्र सरस्वती।
संशिक्षयति धात्रीव नितान्तं मधुरां गिरम्॥१०॥

तत्राभवदुपाध्यायो नारायणसमाह्वयः।
जितवादिसहस्त्रौघः प्राप वादीश्वराभिधाम्॥११॥

अपि च

कृतसंन्यसनात्प्रयच्छतोऽप्यभयं भूतगणाय योगिनः।
निजमण्डलभेदशङ्किनो भयमेकस्य रवेरभूद्यतः॥१२॥

तत्सूनुः काञ्चनो नाम समस्तगुणवल्लभः।
गोष्ठीशालेव विद्यानां यस्य जिह्वा विराजते॥१३॥

तेन कृतो धनंजयविजयो नाम व्यायोगोऽभिनेतव्यः। (नेपथ्याभिमुखमवलोक्य।) कः कोऽत्र भोः।

(प्रविश्य।)

पारिपार्श्विकः— भाव, को णिओओ।1

सूत्रधारः—आहूयतां धनंजयविजयाभिनयकुशलो नटवर्गः।

पारिपार्श्विकः—तह2। (इत्युक्त्वा निष्क्रान्तः।)

सूत्रधारः—(प्राचीमवलोक्य स्थित्वा।)

चिरमज्ञातः समयवशात्कोऽपि तेजसो निचयः।
प्रकटीभवति विवस्वानेष किरीटीव समयमुत्तीर्णः॥१४॥

(ततः प्रविशति विराटामात्येन सहार्जुनः।)

अर्जुनः—(सोत्साहम्।) अनुकूलं दैवं लक्ष्यते। यतः।

या लतान्विष्यते सैव लग्ना संप्रति पादयोः।
कुरुराजोऽभियातव्यः स्वयमेव समागतः॥१५॥

सूत्रधारः—(सहर्षमवलोक्य) अये, परिगृहीतार्जुनवेषः श्यामलकः प्रवृत्तः। तदहं पात्रान्तराणि प्रगुणयामि।

(इति निष्क्रान्तः।)

इति प्रस्तावना।

–––––––––

** नायकः**— (सहर्षम्)

गोरक्षणं सकलशात्रवमानभङ्ग-
स्तोषो विराटनृपतेरुपकारिणश्च।

पर्याप्तमेकमपि यत्समरोत्सवाय
सर्व तथा मिलितमत्र ममैव भाग्यैः॥१६॥

अपि च।

सा मनोरथसंपत्तिः स एव हि महोत्सवः।
निर्वापयन्ति यद्वैरं परिपन्थिषु मानिनः॥१७॥

** अमात्यः**—देव, नेयं सङ्ग्रामस्य भूमिः।

निर्दग्धकालकेयस्य निवातकवचद्विषः।
कौरवास्ते कियन्मात्रं रणाराधितशूलिनः॥१८॥

नायकः—साधु सुयोधन, साधु।

यत्पूर्वजैरधिगतं भुजविक्रमेण
तत्प्राप्य राज्यमखिलं कपटाक्षवृत्त्या।
गाः सांप्रतं हरसि भिल्ल इव त्वयाद्य
सापत्रपः कुलगुरुर्विहितो विधुर्नः॥१९॥

अमात्यः—देव,

सुयोधनचरित्रेण शशिनोऽवनतं शिरः।
चरित्राणि तवैवाद्य कुर्वन्तु परमोन्नतम्॥२०॥

नायकः—(विचिन्त्य।) कथमयं नगरसमीपे क्षिप्तसमरोपकरणानयनाय प्रहितः प्रतिपन्नसारथ्यश्चिरयति कुमारः।

(ततः प्रविशति विराटकुमारः।)

कुमारः—देव, अनुष्ठितस्तवादेशः। तदारोहत्वायुष्मान्।

(नायकः कृतसंनाहो रथमारोहति।)

अमात्यः—(सविस्मयं नायकमवलोक्य।)

विरचितसमरोचिताङ्गभूषः परिहितभूषितवेष एष भाति।
जलधरनिकरोपरोधशून्यो रविरिव राजसुतः शरत्प्रचण्डः॥२१॥

(पुनर्निपुणमवलोक्य।)

हेषन्ते यज्जितजलधरध्वानमेते तुरङ्गा
भूमिं पादैर्यदपि च मुहुर्दक्षिणैरालिखन्ति।

यानौत्सुक्यं यदपि चलनाद्बालधेर्व्यञ्जयन्ति
त्वद्दोर्दण्डद्वितयवशगा तत्समग्रा जयश्रीः॥२२॥

** नायकः**—अमात्य, वयमिदानीं गाः प्रत्यानेतुं प्रस्थिताः स्मः। त्वं गोहरणोद्विग्नं पौरजनं समाश्वासय।

** अमात्यः**—यदादिशति देवस्तथा करोमि। (इति निष्क्रान्तः।)

** नायकः**—(कुमारं प्रति।) यावन्मा गमन्दूरे गावस्तावन्नोदयाश्वान्।

(कुमारस्तथा करोति।)

नायकः—(रथवेगं निरूप्य।)

आलिङ्गन्तो वसुधां निजखुरदलितामिवानुनेतुममी।
वदनविगतचरणा इव संलक्ष्यन्ते जवादश्वाः॥२३॥

अपि च।

विच्छिन्ना रथचक्रपद्धतिरियं हेलाप्लुतैर्वाजिना-
मायान्तीव जवेन संमुखममी मार्गस्थिताः शाखिनः।

खेदं पादतलाहतेरिव पुरो गन्तुं गतो नेहते
वाहानामनुकूलमारुतभरोद्भूतोऽपि धूलिव्रजः॥२४॥

(नेपथ्याभिमुखमवलोक्य) रे रे गोपालाः, अलं विषादेन। तथा हि।

सिञ्चन्तः करुणारसेन हृदयं यावन्न वत्सा अमी
मातुर्मार्गविलोकनव्यसनिनो मुञ्चन्ति हम्बारवान्।

याचन्ते नहि यावदेव शिशवः पातुं पयो नोत्सुका-
स्तावद्भाव इहेत्यवेत भवतां चेतोज्वरः शाम्यतु॥२५॥

(नेपथ्ये।)

महाप्पसाओ।3

कुमारः—आयुष्मन्, नूनमदूरे कुरुबलम्। यतः।

वाजिव्राजखुराभिघातदलितक्षौणीरजोभिः पुरः
सान्द्रैर्जीर्णकपोतकण्ठरुचिभिर्व्योमेदमास्तीर्यते।

किं वाक्येन करीन्द्रगण्डविगलद्दानाम्बुधारागणा-
भोगं संप्रथयन्त्यमी परिमलप्रोद्गारिमन्दानिलाः॥२६॥

नायकः— सुव्यक्तं कुरुबलम्। तथा हि।

व्याधूतचामरमुदस्तसितातपत्र-
मुत्क्षिप्तकुन्तभयविद्रुतपत्रिचक्रम्।
एतद्बलं कुरुपतेर्भरपूर्यमाण-
शङ्खध्वनित्रसदरण्यमृगं पुरस्तात्॥२७॥

(बाहू प्रति सोत्साहम्।)

कान्तारक्षितिषूपधानविषये यद्भूलिभिर्धूसरौ
पाञ्चालीपरिरम्भनिर्भररसास्वादेऽपि यद्वञ्चितौ।
यत्कान्ताजनयोग्यदन्तवलयैरावेष्टितौ निस्त्रपं
ताद्बाहूस्मरतं चिराय पुरतस्तिष्ठन्त्यमी वैरिणः॥२८॥

(नेपथ्ये।)

धृतधनुरिव दर्पः साहसस्येव मूर्तिः
स पटुरिव रसोऽयं विग्रही वीरनामा।
दधदिव जयलक्ष्मीं संनिधौ चापवल्ली-
मगणितकुरुराजः कोऽयमेकोऽभ्युपैति॥२९॥

(उभौ शृणुतः।)

कुमारः—आयुष्मन् कस्येदमुदारं वचनम्।

नायकः— अस्मत्प्रथमगुरोः शारद्वतस्य।

(पुनर्नेपथ्ये।)

द्वन्द्वाहवाराधितशूलपाणिः स पाण्डवः खाण्डवतर्पिताग्निः।
ज्याघातजातः किणसंनिवेशः करद्वये यस्य परस्य पुंसः॥३०॥

अपि च ।

गलितनिखिलशस्त्रं बाहुमात्रावशेषं
द्विगुणिततररागं यं निरीक्ष्य स्मरारिः।
विहितकपटरूपः साहसाकृष्टचेता
नयनमभिललाटं दर्शयामास सद्यः॥३१॥

व्यक्त एवायमर्जुनः। तथा हि ।

हेलोल्लङ्घितवारिधिर्जनकजाविश्लेषशुप्यन्मनः-
कौशल्यासुतदैन्यपानसुपटुर्ग्रस्तांशुमन्मण्डलः।
निर्दग्धाखिलराक्षसेश्वरपुरःसौमित्रिसंजीवन-
प्रोत्खातौषधिपर्वतोऽस्य मरुतः पुत्रो ध्वजे वर्तते॥३२ ॥

(उभौ शृणुतः।)

कुमारः—आयुष्मन्,

कृतवीररसोद्रेकैर्वैदर्भीगर्भितैः पदैः।
त्वयि पुत्र इवात्यर्थं पक्षपातं व्यनक्ति कः॥३३॥

नायकः—कुमार, किमित्युच्यते पुत्र इवेति। ननु पुत्र एवाहमाचार्यस्य।

(नेपथ्ये।)

तूर्णं कर्ण धनुर्गृहाण समरे शारद्वतस्त्वग्रणी-
र्भारद्वाज भृगूद्वहादधिगतान्यस्त्राणि संशिक्षय।
द्रौणे नन्दय कौरवक्षितिपतिं पुत्रस्तथा शान्तनोः
संधत्ते समरोचितं पुररिपोः शिष्योऽयमास्तेऽग्रतः॥३४॥

नायकः—(सानन्दम्) सोऽयं कुरुराजः सेनायां संनाहयति योधान्।

कुमारः—देव, सारथिना परबलयोधाः स्वरूपतो वीर्यतश्च ज्ञातव्याः।

** नायकः**— पश्यैनं भुजगध्वजावेदितकौटिल्यम्।

यस्येन्दुवंशकलहप्रथमाङ्कुरस्य
सौजन्यगन्धमपि यस्य न वेत्ति चेतः।
आ जन्मनो विषजलाग्निमुखैरुपायै-
रस्मन्निकारनिरतः कुरुराज एषः॥३५॥

कुमारः—कोऽयं ततो दक्षिणतः।

नायकः—(साश्चर्यम्।)

रोषोत्कर्षकषायितोल्बणदृशोऽप्यग्रे हिडिम्बद्विषः
पाञ्चालीहृदयस्थलात्सरभसं लज्जादुकूलाञ्चलः।

निर्मोकः फणिनस्तनोरिव बलाद्येनावकृष्टः पुरा
सोऽयं साहसिकाग्रणीस्तनुरथे दुःशासनस्तिष्ठति॥३६॥

कुमारः— किमतः परं साहसम्।

नायकः—इतः पश्य। (सप्रणामम्।)

प्रतिफलितरविप्रभावितानः स्फुरदुरुकाञ्चनवेदिसूचितेज्यः।
दधदुपनिषदः श्रियं समग्रां प्रथितयशा गुरुरेष कौरवाणाम्॥३७॥

कुमारः—महानुभावः खल्वेष लक्ष्यते ।

नायकः—इतः पश्य।

योऽयं ललाटतटमण्डितचण्डचूडः
संलक्ष्यते स्वयमिव त्रिपुरप्रमाथी।
मूर्तोऽस्त्रवेद इव दुर्विषहः परेषां
पुत्रो गुरोः पुनरयं दयितः सखा मे॥३८॥

कुमारः—पुनरावेदय।

नायकः

येनोच्चैर्ध्वजमिषतः कलश इवारोपितो धनुर्वेदः।
कनककमण्डलुमण्डितरथवंशो भाति गुरुरेषः॥३९॥

** कुमारः**—कोऽयं कुरुराजसंनिधौ समरार्थीव दृश्यते।

नायकः—(सामर्षम्।)

मूलं सुयोधनकृताखिलदुर्नयानां
यद्दोर्बलं भृगुकुलोद्वहगूढशिष्यः।
सोऽयं प्रसन्नबलसूदनदत्तशक्तिः
सूतात्मजो निजकुलानुचिताभिमानः॥४०॥

कुमारः—(सोपहासम्।) नन्वेष घोषयात्रायां विदितप्रभावः। क एष ध्वजः।

नायकः—(सप्रणामम्।)

अन्याङ्गनापरिहृतिप्रणयेन कीर्त्ये-
वालिङ्गितो धवलया पलितच्छले।
द्वन्द्वाहवप्रकटनिर्जितजामदग्न्यो
देवव्रतः पृथुयशाः स पितामहो नः॥४१॥

सूत, त्वरय त्वरय तुरगान्।

(नेपथ्ये।)

वैमानिका इमे व्योम्नि समरालोकनोत्सुकाः।
बाहुसारमिदानीं त्वं प्रदर्शय धनंजय॥४२॥

(ततः प्रविशति विद्याधरसहित इन्द्रः प्रतीहारी च।)

इन्द्रः—(साश्चर्यम्।)

वाक्कलहोऽपि सुगहनो बहुभिर्बलिनो विहीनसामर्यैः।
किमुतानेकैर्बलिभिः क्रूरास्त्रनिपातदारुणः समरः॥४३॥

(पुनः सविस्मयम्।)

एको रथी प्रतिरथास्तु निरस्तसंख्याः
कर्णादयः सुचिरराज्यमदेन दृप्ताः।
वत्सस्तथाप्यहह निग्रहणं प्रविष्टः
सत्त्वं हि नोर्जिततरं विमृशत्यपायम्॥४४॥

कुमारः—(पुरोवलोक्य) देव, कुरुपतिरेवागच्छति।

नायकः—पूर्णास्तर्हि मनोरथाः।

(ततः प्रविशति रथारूढो दुर्योधनः।)

दुर्योधनः—(नायकं विलोक्य सामर्षम्।)

वनवासपरिक्लेशात्किं निर्विण्णोऽसि जीवने।
यदभीरेक एव त्वमनेकैर्योद्धुमुद्यतः॥४५॥

नायकः—(सोपहासम्।)

एको निवातकवचान्सह कालकेयै-
र्भस्मीचकार भगिनीमहरच्च शौरेः।
एकेन खाण्डववनं जुहुवेऽनले च
पार्थस्य नाभिनव एष रणेषु पन्थाः॥४६॥

दुर्योधनः— अलमेतैरुपहासैः। उपस्थितो निकषोपलोपमः संग्रामः।

नायकः—(सहासम्।)

अपसर कुरुनाथ द्यूतमन्यादृशं त-
द्दुपदनृपतिपुत्री यत्र दासीकृतासीत्।
इह हि शरशलाकापातपूर्वं सगर्वं
प्रतिनृपतिशराक्षैः क्षत्रियद्यूतकेलिः॥४७॥

दुर्योधनः—(सामर्षम्।)

करिवदनवलयभूषितकरश्चिरत्यक्तकार्मुकाभ्यासः।
नर्तनशालां प्रविश प्रवीरपुरुषोचितो हि सङ्ग्रामः॥४८॥

कुमारः—(सोल्लुण्ठम्।) आर्य, एनं चिरपरित्यक्तकार्मुकाभ्यास इत्यभिधत्से तद्युक्तम्।

संक्रन्दनप्रहितखेचरवर्गबद्ध-
युष्मत्कृपाकुलनिजाग्रजशासनेन।
भीमानुजेन विहिता शरपञ्जरश्री-
र्नालोकिता हि भवता नृप विह्वलेन॥४९॥

** विद्याधरः**—देव, प्रौढः खल्वेष वत्सः।

इन्द्रः—राजपुत्रो ह्ययम्।

दुर्योधनः— सूत, अलं विप्रजनोचितावाक्कलहेन। विषमेयं भूमिः। रथसंचारोचितां भुवमवतारम्।

सूतः—यदभिरुचितं कुरुपतये।

(इति निष्क्रान्तौ ।)

विद्याधरः—(नायकरथं निर्दिश्य।) देव,

त्वन्नन्दनस्यन्दनवाजिराजिक्षुरक्षतक्षुण्णरजःपताकाः।
विपक्षवक्षोऽरणिमन्थनोत्थप्रतापवह्णेरिव धूमलेखाः॥५०॥

इन्द्रः— भद्र, महाकविरसि।

विद्याधरः— देव, निकटगते किरीटिनि प्रवृत्तः कोलाहलः कुरूणाम्। तथा हि।

हेषाघोषैर्हरीणां जितघननिनदैर्बृंहितैः कुञ्जराणां
ज्याघातोत्थैर्निनादैः पटुपटहरवैर्मर्दलोद्दामशब्दैः।
प्राप्तैः कर्णोपकण्ठं मदगजनिवहस्कन्धघण्टाप्रणादैः
शृङ्गाराय त्वरन्ते त्रिदशमृगदृशो वीरवर्गानुरक्ताः॥५१॥

प्रतीहारी—देव, ण कोलाहलमेत्तम्। जण्णं वि पउत्तम्। कुरुबलं पच्चहिआतस्स तुह उत्तस्स अहिमुहं प्रचलिदम्। देव, पेक्ख। आकण्णाकट्टिअकठिणफग्गुणकोदण्डमुहणिस्सरन्तसरणिअरेहिं केवि खण्डिदगत्ताओ, केवि भग्गकोदण्डाओ, केवि पमुडिदसीसकाओ, केवि णिभिण्णणेत्ताओ, केवि भग्गभुजाओ, केवि विक्खदवक्खत्थलाओ कुरुबले भटा दीसन्ति।4

** इन्द्रः**— (सहर्षम्।) कृतहस्तः खल्वेष वत्सः।

विद्याधरः— देव, पश्य पश्य।

मुञ्चद्भिर्मदवारि वारणगणैर्मेघायितं कार्मुकै-
रेतैः शक्रशरासनायितमधश्छत्रैः शिलीन्ध्रायितम्।
खद्योतायितमस्त्रघट्टनसमुद्भूतस्फुलिङ्गैः स्फुर-
न्नाराचैरशनायितं रणभुवा सैन्यैर्नभस्यायितम्॥५२॥

अपि च

त्वत्पुत्रमुक्तविशिखैरशनिप्रकाशै-
रामूललूननवकेतककान्तदन्ताः।
त्रासावसन्नमदधारकपोलभागाः
संपादयन्ति करिणः करिणीभ्रमं नः॥५३॥

इन्द्रः—(सतोषम्।)

हरान्तेवासिनस्तस्य कालकेयान्तकस्य च।
यदुनाथसनाथस्य का श्लाघा कौरवैर्जितैः॥१४॥

प्रतीहारी—पेक्खदु देवो।5

बाणप्पलूणमअवारणगेरगेर-
णाणासिराहिमुहदत्तगहीरतुण्डा।
एसा पणच्चिदकराङ्गुलि कण्ठदिद्धं
रत्तासअं पिबइ कावि पिसाअकण्णा॥५५॥6

विद्याधरः—देव, पश्य।

एते मत्तमतङ्गजाः प्रजविनः श्वासाकुलाधोरणाः
स्फूर्जच्चन्द्रकिबर्हभारकलितोद्दण्डध्वजश्रेणयः।
कुप्यत्त्वत्करवज्रपातचकितप्रभ्रान्तपृथ्वीधर-
व्यूहभ्रान्तिमुदञ्चयन्ति नितरां त्वत्पुत्रविद्राविताः॥५६॥

(इन्द्रः सहर्षं पश्यति।)

प्रतीहारी—देव, पेक्ख पेक्ख। णिरन्तरविक्स्वित्तबाणणिउरम्बपरिक्खदगअणररुहिरपाणसंतप्पिदाओ साहुवादोत्तरं जादुहाणजोइणीओ अहिन्दन्ति तुह उत्तस्स विअअम्।7

इन्द्रः—जय एव तर्हि। सत्याशिषस्ताः।

** विद्याधरः**—(विभाव्य।) देव, महद्युद्धं वर्तते। पश्य पश्य।

वपुषि भटकरोटिन्यस्तकीलालसिन्धुं
द्विरदकरमृणालैर्योगिनीभिर्निपीय।
समरविजयिने यद्बाहुमुद्यम्य भूयः
प्रकटितपरितोषं स्वस्तिवादोऽभितेने॥५७॥

अपि च

भुग्नभ्रूयुगलैः क्रुधा समधिकस्फारारुणाक्षैः क्षणा-
त्स्वेदाम्भःपटलप्रमृष्टतिलकैर्दष्टाधरोष्ठैरपि।
दृष्टश्मश्रुभिरुत्पतद्भिरभितः संकीर्णमालक्ष्यते
त्वत्पुत्रास्त्रनिकृत्तवैरिसुभटश्रेणीशिरोभिर्वियत्॥५८॥

(पुनः सविस्मयमालोक्य।) देव, पश्य।

कोऽप्येष खण्डितशिरा विकसन्मुखश्रीः
प्रारब्धताण्डवविधिः सुरकामिनीभिः।
आलोक्यते निजकराभिनयानुरूप-
व्यापारितेक्षणनिवेदितसत्त्वसारः॥५९॥

इन्द्रः—(सहर्षम्।) किं किं पश्यामि। दोलायितं मनः।

मायाविभिः कुरुबलैः सह युध्यमानं
कुन्तीसुतं रणशिरस्यसहायवीरम्।
तद्वैरिवीरवरणेषु तथात्र नूनं
सापत्न्यसंभ्रमकलिं सुरकामिनीनाम्॥६०॥

विद्याधरः— एवमेतत्। (अन्यतोऽवलोक्य।) देव, पश्य पश्य।

दूरात्प्रोत्सार्यमाणापरशरनिकरज्वालकीलाभिघात-
प्रभ्रश्यद्वाजिवर्गभ्रमणनियमनव्याकुलब्रध्नसूतः।
लेढि प्रौढो हुताशः कृतलयसमयाशङ्कमाकाशवीथिं
गङ्गासूनुप्रमुक्तप्रथितहुतवहास्त्रानुभावप्रसूतः॥६१॥

प्रतीहारी—देव, अह्माणं वि णिअडवत्ती भआणओ एसो हुदासणो।8

विद्याधरः— भद्रे, मा भैषीः। किं नामेदं किरीटिनः। पश्य पश्य।

नीलैः कालाञ्जननिभतमःस्तोमलिप्तान्तरिक्षै-
र्विद्युद्दामद्युतिधवलिताशेषदिक्चक्रवालैः।
धीरध्वानैः कलभकनिभैः स्थूलधाराः सृजद्भि-
र्मेधैनर्तिः प्रलयमनलो वारुणास्त्रप्रसूतैः॥६२॥

इन्द्रः— महानुभावः खल्वेष वत्सः।

प्रतीहारी—देव, संपदं राहासुदेण भुजङ्गमत्थं पउत्तम्। आलोलजीहाजुअलकरालमुहणीसरन्तगरलधूमलेहाकरम्बिदफणारअणकिरणमालाविडम्बिदसुरकोअण्डाओ विहलिदसअलपुहवीवलआओ पेक्खणमेत्तदग्घमहामहीरुहाओ अपसरन्ति सप्पाओ।9

विद्याधरः

दीर्घैःसज्जनसख्यवन्मुकुलितैश्वित्तैः खलानामिव
व्यालैर्योगिजनैरिवाम्बरतलव्याप्तैर्लसत्स्वस्तिकैः।
रत्नोद्भासिकरोज्ज्वलैर्नृपतिवत्स्वर्गस्थवद्भोगिभी
राधेयास्त्रभुजङ्गमास्त्रजनितैर्दिक्चक्रमाक्रम्यते॥६३॥

इन्द्रः— खाण्डवदाहे कृतवैराः किं दशन्ति सर्पाः।

विद्याधरः— अलं विषादेन। अर्जुनेन प्रयुक्तं गारुडमस्त्रम्। पश्य पश्य।

पादाघातनिपातमारुतभरात्प्रोत्क्षिप्तपृथ्वीधरा-
श्चञ्चूदष्टविशालभोगभुजगाः सूर्योपकण्ठस्पृशः।
संतोषं जनयन्त्यभी कुलगुरोस्तीक्ष्णस्तथा सारथे-
र्मन्ये वैरिनृपप्रमाथविकसद्विक्रान्तयः पक्षिणः॥६४॥

इन्द्रः—(सहर्षम्।) ततस्ततः।

प्रतीहारी— एसो संपदं दुज्जोधणभच्छिदेण दोणेण मुत्तो वारणबाणो तुह उत्तस्स समुपचलिदो।10

विद्याधरः—(सम्यगवलोक्य) प्रयुक्तं वैनायकमस्त्रम्। पश्य पश्य।

सिन्दूरारुणमौलिभिः स्वदशनप्रोताम्बुदश्रेणिभि-
र्लीलोदस्तकराग्रमारुतभरप्रोद्भूततारागणैः।
पादाघातचलत्कुलक्षितिधरैः संकीर्णमालक्ष्यते
हैरम्बास्त्रविनिःसृतैर्मदमुखैः स्तम्बेरमैरम्बरम्॥६५॥

इन्द्रः—ततस्ततः।

विद्याधरः—पार्थेन सिंहास्त्रं प्रयुक्तम्। पश्य पश्य।

दंष्ट्राज्योतिःखचितगगनैः केसराटोपभीमै-
रुल्लाङ्गूलैः क्षितिधरगुहासंचरद्धीरनादैः।
सिंहैरन्तर्नखरशिखरात्खातकुम्भस्थलासृ-
ग्धारास्वादव्यसनविवशैः क्वापि नीता गजेन्द्राः॥६६॥

** इन्द्रः**—स्वल्पावशिष्टस्तर्हि जयः।

विद्याधरः—देव, नैव। निरवशिष्टश्च।

हत्वा शान्तनुनन्दनस्य तुरगान्सूतं कुरूणां गुरोः
कर्णस्यापि रथं विदार्य कणशः कृत्वा विसंज्ञं कृपम्।
छित्त्वा द्रोणसुतस्य कार्मुकलतां विद्राव्य चान्यद्बलं
त्वत्पुत्रो भयविद्रवत्कुरुपतेः पन्थानमन्वेत्ययम्॥६७॥

** प्रतीहारी**—अच्चाहिदं दुज्जोधणस्स।11

विद्याधरः—नैव।

विमुखे निपतति शस्त्रं संक्रन्दननन्दनस्य न हि जातु।
मणिमयमुकुटनिपातात्कोपाग्निस्तस्य कोपितः किंचित्॥६८॥

(नेपथ्ये।)

भो भो राधेयमित्र,

राजात्मजापरिभवक्षुभितः प्रतिज्ञा-
मार्यस्तवोरुदलने यदि नाकरिष्यत्।
नूनं स्फुरन्मुकुटपाटनपाटवेन
तीक्ष्णः शरस्तव शिरोऽप्यहरिष्यदेव॥६९॥

** प्रतीहारी**— देव, सुदं तुह उत्तस्स वअणम्।12

इन्द्रः— (सविस्मयम्।)

दैवानुकूल्ये किं नाम न शिवाय प्रकल्पते।
क्रुद्धभीमप्रतिज्ञापि ररक्ष कुरुभूपतिम्॥७०॥

विद्याधरः— देव, दुर्योधनमुकुटपाटनक्षुभितैः कर्णपुरःसरैः कुरुभिः समन्ततो वेष्टितोऽर्जुनः।

** इन्द्रः**—(साशङ्कम्।) ततस्ततः।

विद्याधरः— देव, त्वत्पुत्रेण प्रस्वापनास्त्रं प्रयुक्तम्।

आमीलितेक्षणयुगं प्रथमं प्रसर्प-
न्निश्वासवातभरपूरितकण्ठघोषम्।
गण्डस्थलानिहितकार्मुककोटि सुप्तं
संलक्ष्यते कुरुबलं मृतकल्पमेतत्॥७१॥

इन्द्रः — आयोधनश्रान्तानामुचितमेतत्। ततस्ततः।

विद्याधरः

एकं शान्तनवं हित्वा सर्वे विवसनाः कृताः।
प्रमृज्य लोचने पश्चात्प्रबुद्धाश्च पलायिताः॥७२॥

अपि च

निर्जित्य कौरवबलान्यथ बल्लवेभ्यो
गास्ताः समर्प्यमुदितैरभिनन्दितस्तैः।

प्रत्युद्गतः पुरजनैरथ धूलिजाल-
व्यालोलसक्तनयनैरयमेति पार्थः॥७३॥

इन्द्रः— (आलोक्य।) यद्द्रष्टव्यं तद्दृष्टम्।

(ततः प्रविशति रथारूढो नायकः सूतश्च ।)

नायकः— (सूतं विलोक्य।) कुमार,

न तथा मोदते चित्तं जित्वा कुरुपति रणे।
यथाक्षतशरीरेण त्वया मत्स्येन्द्रनन्दन॥७४॥

सूतः—त्वयि रक्षितरि किं दुर्लभम्।

इन्द्रः—(सरभसम्।) दृष्टद्रष्टव्योऽस्म्यहम्। (इति निष्क्रान्तः।)

नायकः— (सतोषम्।) सूत,

दुःशासनो यदकरोत्कुरुसंनिधाने
पञ्चालराजतनयां प्रसहन्विवस्त्राम्।
तत्सांप्रतं प्रतिकृतं हरता मयात्र
निद्राणकौरवबलस्य रणेंऽशुकानि॥७५॥

सूतः—सर्वमेतत्प्रतिकृतम्। तावच्च।

संग्राममरणं नाम क्षतदुःखं सुखोत्तरम्।
आजन्म हृदये शल्यं मानभङ्गो हि मानिनाम्॥७६॥

** नायकः**—(पुरोऽवलोक्य) अये सोपकरणानुज आर्य, आर्यश्च विराट इत एवागच्छति।

(ततः प्रविशन्ति यथानिर्दिष्टा युधिष्ठिरभीमनकुलसहदेवाः सपरिवागे विराटश्च।)

युधिष्ठिरः—मत्स्यराज, पश्य पश्य।

रथतुरगरजोभिर्धूसरश्मश्रुजालं
श्रमजलकणिकाभिर्भासुराभिः परीतम्।
असमसमरकर्माक्लान्तमप्यस्य वक्रं
जयति विजयलक्ष्मीसङ्गसंपत्सुशोभम्॥७७॥

** विराटः**—

शोभन्ते विद्यया विप्राः क्षत्रिया विजयश्रिया।
श्रियोऽनुकूलदानेन लज्जया कुलपालिकाः॥७८॥

नायकः— (ससंभ्रमम्।) अये, कथमार्यः। (रथादवतीर्य यथोचितमभिवादयते।)

** सर्वे**— (अभिनन्दन्ति।)

एकोऽहरद्रिपुपुराणि हरः खरादी-
नेकश्च दण्डकवने न्यवधीत्स रामः।
एकोऽधुना कुरुबलानि भवानजैषी-
न्नाश्रावि नैक्षि च पुनः पुरुषश्चतुर्थः॥७९॥

नायकः—स खलु युष्माकं प्रसादः।

विराटः—(नेपथ्याभिमुखमवलोक्य।) राजपुत्र, पश्य पश्य।

वत्सालोकप्रस्रुतापीनभाजः सिञ्चन्त्यः क्ष्मां क्षीरधाराच्छलेन।
चन्द्रालोकस्पर्धिनीं धेनवस्ते कीर्तिं मूर्तां नूनमेताः सृजन्ति॥८०॥

(अर्जुनं संबोध्य।)

मध्येसभं यो द्रुपदात्मजायाश्चकर्ष केशान्धृतराष्ट्रपुत्रः।
निर्यात्यमेतन्मुकुटं निपात्य निर्यातितं तस्य सुयोधनस्य॥८१॥

(तच्छ्रुत्वा।)

भीमः—(सामर्षम्।) भो भो राजन्, नैतत्प्रतिकृतं भवति। किंतु।

दुःशासनस्य गदया प्रविदार्य वक्षः
सद्यः कदुष्णरुधिराणि ततो निपीय।
तच्छोणिताम्बुलुलितां सुनियम्य देव्या
वेणीं तु तत्प्रतिकरिष्यति भीम एव॥८२॥

युधिष्ठिरः—वत्स, किमसाध्यं त्वया।

लीलोन्मूलितकौबेरसौगन्धिकवनश्रियः।
लीलाहतहिडिम्बस्य विक्रमं ते रुणद्धि कः॥८३॥

** भीमः**—(श्रुत्वा सानुनयम्।) शृणोत्वार्यः। न क्षमेऽहम्।

युधिष्ठिरः—अतीतः कालः क्षमायाः आसन्नश्च कालो विक्रमस्य। अलमनुनयेन।

विराटः—(युधिष्ठिरं प्रति।)

अज्ञानतो नियुक्तश्च यदयोग्येषु कर्मसु।
क्षन्तव्यं तन्महाभाग नाज्ञातमपराध्यति॥८४॥

** नायकः**—राजन्, उपकार एवायम्। नापकारः।

यदि कर्मस्वयोग्येषु त्वमस्मान्न न्ययोक्ष्यथाः ।
अज्ञातवासं राजायं नाकरिष्यत्सहानुजैः ॥ ८५ ॥

विराटः—(नायकं प्रति।) राजपुत्र,

सख्यं साप्तपदीनं यत्सोढव्यः प्रणयो मम।
अतस्त्वामर्थये किंचिदुत्तरा मे स्नुषास्तु ते॥८६॥

नायकः—यद्रोचते भवते।

स्वयमायान्तीं गेहे लक्ष्मीं को ना विमन्यते मूढः।
दैवानुकूलता सा यदयाचितमाप्यतेऽभीष्टम्॥८७॥

** विराटः**—किं ते भूयः प्रियमुपकरोमि।

नायकः

निस्तीर्णोऽज्ञातवासो रणभुवि विजिता धार्तराष्ट्राः सकर्णाः
स्त्रीरत्नं त्वत्तनूजा समजनि तनयस्याभिमन्योः कलत्रम्।
गावः प्रत्याहृतास्ताः सुहृदपि परमस्त्वं च नः श्लाघनीय-
स्तज्जाने नैव किंचित्सुचिरमवमृशन्यन्मया प्रार्थनीयम्॥८८॥

तथापीदमस्तु।

सौजन्यामृतसिन्धवः परहितप्रारम्भवीरव्रता
वाचालाः परवर्णने निजगुणालापे च मौनव्रताः।

आपत्स्वप्यविलुप्तधैर्यनिचयाः संपत्स्वनुत्सेकिनो
मा भूवन्खलवत्क्रनिर्गतविषम्लानाननाः सज्जनाः॥८९॥

अपि च ।

सारस्वतं स्फुरतु चेतसि सत्कवीनां
चक्षुर्भवन्तु कृतिनो गतमत्सराश्च।
भूपाश्च सन्तु कविसूक्तिषु सानुरागाः
संत्यज्य मण्डलकविप्रणयानुरागम्॥९०॥

** विराटः**— तथास्तु ।

(इति निष्क्रान्ताः सर्वे।)

इति श्रीकाश्चनाचार्यविरचितो धनंजयविजयो नाम व्यायोगः समाप्तः।

–––––––––

]


  1. " भाव, को नियोगः।" ↩︎

  2. “तथा।” ↩︎

  3. “महाप्रसादः।” ↩︎

  4. “देव, न कोलाहलमात्रम्। जन्यमपि प्रवृत्तम्। कुरुबलं प्रत्यभियातस्य तव पुत्रस्याभिमुखं प्रचलितम्। देव, प्रेक्षस्व।आकर्णाकृष्टकठिनफाल्गुनकोदण्डमुखनिःसरच्छरनिकरैः केऽपि खण्डितगात्राः, केऽपि भग्नकोदण्डाः केऽपि प्रमोटितशीर्षकाः, केऽपि निर्मिन्ननेत्राः केऽपि भग्नभुजाः, केऽपि विक्षतवक्षःस्थलाः कुरुबले भटा दृश्यन्ते।” ↩︎

  5. " प्रेक्षतां देवः।" ↩︎

  6. “बाणंप्रलूनमदवारणग्रन्थिग्रन्थि- नानाशिराभिमुखदत्तगभीरतुण्डा। एषा प्रणर्तितकराङ्गुलि कण्ठदिग्धं रक्तासवं पिबति कापि पिशाचकन्या॥” ↩︎

  7. " देव, प्रेक्षस्व प्रेक्षस्व। निरन्तरविक्षिप्तबाणनिकुरम्बपरिक्षतगजनररुधिरपानसंतर्पिताः साधुवादोत्तरं यातुधानयोगिन्योऽभिनन्दन्ति तव पुत्रस्य विजयम्।" ↩︎

  8. " देव, अस्माकमपि निकटवर्ती भयानक एष हुताशनः।" ↩︎

  9. “देव, सांप्रतं राधासुतेन भुजङ्गमास्त्रं प्रयुक्तम्। आलोलजिह्वायुगलकरालमुखनिःसरद्गरलधुमलेखाकरम्बितफणारत्नकिरणमालाविडम्बितसुरकोदण्डा विह्वलितसकलपृथिवीवलयाः प्रेक्षणमात्रदग्धमहामहीरुहा अपसरन्ति सर्पाः।” ↩︎

  10. “एष सांप्रतं दुर्योधनभर्त्सितेन द्रोणेन मुक्तो वारणबाणस्तव पुत्रस्य समुपचलितः।” ↩︎

  11. “अत्याहितं दुर्योधनस्य।” ↩︎

  12. “देव, श्रुतं तव पुत्रस्य वचनम्।” ↩︎