।।अथ सप्तमोऽङ्कः।।
(ततः प्रविशत्याकाशयानेन रथाधिरूढो राजा मातलिश्च।)
राजा- मातले ! अनुष्ठितनिदेशोऽपि मघवतः सत्क्रियाविशेषादनुपयुक्तमिवात्मानं समर्थये ।
मातलिः-(सस्मितम्।) आयुष्मन् ! उभयमप्यपरितोषं समर्थये ।
प्रथमोपकृतं मरुत्वतः प्रतिपत्त्या लघु मन्यते भवान् ।
गणयत्यवदानविस्मितो भवतः सोऽपि न सत्क्रियागुणान् ॥१॥
राजा- मातले ! मा मैवम् । स खलु मनोरथानामप्यभूमिर्विसर्जनावसरसत्कारः । मम हि दिवौकसां समक्षमर्धासनोपवेशितस्य –
अन्तर्गतप्रार्थनमन्तिकस्थं जयन्तमुद्वीक्ष्य कृतस्मितेन
आमृष्टवक्षोहरिचन्दनाङ्का मन्दारमाला हरिणा पिनद्धा ॥२॥
मातलिः- किमिव नामायुष्मानमरेश्वरान्नार्हति? पश्य, -
सुखपरस्य हरेरुभयैः कृतं त्रिदिवमुद्धृतदानवकण्टकम् ।
तव शरैरधुना नतपर्वभिः पुरुषकेसरिणश्च पुरा नखैः ॥३॥
राजा- अत्र खलु शतक्रतोरेव महिमास्तुत्यः ।
सिध्यन्ति कर्मसु महत्स्वपि यन्नियोज्याः
सम्भावनागुणमवेहि तमीश्वराणाम् ।
किं वाऽभविष्यदरुणस्तमसां विभेत्ता
तं चेत्सहस्रकिरणो धुरि नाकरिष्यत् ॥४॥
मातलिः- सदृशमेवैतत् । (स्तोकमन्तरमतीत्य।) आयुष्मन् ! इतः पश्य नाकपृष्ठप्रतिष्ठितस्य सौभाग्यमात्मयशसः ।
विच्छित्तिशेषैः सुरसुन्दरीणां वर्णैरमी कल्पलतांशुकेषु ।
विचिन्त्य गीतक्षममर्थजातं दिवौकसस्त्वच्चरितं लिखन्ति ॥५॥
राजा- मातले ! असुरसम्प्रहारोत्सुकेन पूर्वेद्युर्दिवमधिरोहता मया न लक्षितः स्वर्गमार्गः । कतरस्मिन्मरुतां पथि वर्तामहे?
मातलिः-
त्रिस्रोतसं वहति यो गगनप्रतिष्ठां ज्योतीषि वर्तयति च प्रविभक्तरश्मिः ।
तस्य द्वितीयहरिविक्रमनिस्तमस्कं वायोरिमं परिवहस्य वदन्ति मार्गम् ॥६॥राजा- मातले ! अतः खलु सबाह्यान्तःकरणो ममान्तरात्मा प्रसीदति । (रथाङ्गमवलोक्य।) मेघपदवीमवतीर्णौ स्वः ।
मातलिः- कथमवगम्यते?
राजा-
अयमरविवरेभ्यश्चातकैर्निष्पतद्भिः हरिभिरचिरभासां तेजसा चानुलिप्तैः ।
गतमुपरि घनानां वारिगर्भोदराणां पिशुनयति रथस्ते सीकरक्लिन्ननेमिः ॥७॥मातलिः- क्षणादायुष्मान् स्वाधिकारभूमौ वर्तिष्यते ।
राजा- (अधोऽवलोक्य।) मातले ! वेगावतरणादाश्चर्यदर्शनः संलक्ष्यते मनुष्यलोकः । तथा हि, –
शैलानामवरोहतीव शिखरादुन्मज्जतां मेदिनी
पर्णाभ्यन्तरलीनतां विजहति स्कन्धोदयात्पादपाः ।
सन्तानैस्तनुभावनष्टसलिला व्यक्तिं भजन्त्यापगाः
केनाप्युत्क्षिपतेव पश्य भुवनं मत्पार्श्वमानीयते ॥८॥
मातलिः- साधु दृष्टम् । (सबहुमानमवलोक्य ।) अहो, उदाररमणीया पृथ्वी ।
राजा- मातले ! कतमोऽयं पूर्वापरसमुद्रावगाढः कनकरसनिस्यन्दः सान्ध्य इव मेघपरिघः सानुमानालोक्यते?
मातलिः – आयुष्मन् , एष खलु हेमकूटो नाम किंपुरुषपर्वतस्तपस्संसिध्दिक्षेत्रम् । पश्य,-
स्वायम्भुवान्मरीचेर्यः प्रबभूव प्रजापतिः ।
सुरासुरगुरुः सोऽत्र सपत्नीकस्तपस्यति ॥९॥
राजा- तेन ह्यतिक्रमणीयानि श्रेयांसि । प्रदक्षिणीकृत्य भगवन्तं गन्तुमिच्छामि ।
मातलिः- प्रथमः कल्पः।
(नाट्येनावतीर्णौ ।)राजा- (सविस्मयम् ।)
उपोढशब्दा न रथाङ्गनेमयः प्रवर्तमानं न च दृश्यते रजः ।
अभूतलस्पर्शतयाऽनिरुद्धतस्तवावतीर्णोऽपि रथो न लक्ष्यते ॥१०॥मातलिः- एतावानेव शतक्रतोरायुष्मतश्च विशेषः ।
राजा- मातले ! कतमस्मिन् प्रदेशे मारीचाश्रमः?
मातलिः- (हस्तेन दर्शयन्।) पश्य!
वल्मीकाग्रनिमग्नमूर्तिरुरसा सन्दष्टसर्पत्वचा
कण्ठे जीर्णलताप्रतानवलयेनात्यर्थसम्पीडितः ।
अंसव्यापि शकुन्तनीडनिचितं बिभ्रज्जटामण्डलं
यत्र स्थाणुरिवाचलो मुनिरसावभ्यर्कबिम्बं स्थितः ॥११॥
राजा- नमस्ते कष्टतपसे।
मातलिः- (संयतप्रग्रहं रथं कृत्वा।) महाराज ! एतावदितिपरिवर्धितमन्दारवृक्षं प्रजापतेराश्रमं प्रविष्टौ स्वः ।राजा- स्वर्गादधिकतरं निर्वृतिस्थानम् । अमृतहृदमिवावगाढोऽस्मि ।
मातलिः- (रथं स्थापयित्वा ।) अवतरत्वायुष्मान् ।
राजा- (अवतीर्य ।) मातले ! भवान् कथमिदानीम्?
मातलिः- संयन्त्रितो मया रथः । वयमप्यवतरामः । (तथा कृत्वा।) इत
आयुष्मन् ! (परिक्रम्य।) दृश्यन्तामत्रभवतामृषीणां तपोवनभूमयः ।
राजा- ननु विस्मयादवलोकयामि ।
प्राणानामनिलेन वृत्तिरुचिता सत्कल्पवृक्षे वने
तोये काञ्चनपद्मरेणुकपिशे धर्माभिषेकक्रिया ।
ध्यानं रत्नशिलातलेषु विबुधस्त्रीसन्निधौ संयमो
यत्काङ्क्षन्ति तपोभिरन्यमुनयस्तस्मिंस्तपस्यन्त्यमी ॥१२॥
मातलिः- उत्सर्पिणी खलु महतां प्रार्थना । (परिक्रम्य आकाशे ।) अये वृद्धशाकल्य! किमनु-तिष्ठति भगवान् मारीचः? किं व्रवीषि ? दाक्षायण्या पतिव्रताधर्ममधिकृत्य पृष्टस्तस्यै महर्षि-पत्नीसहितायै कथयतीति।
राजा- (कर्णं दत्वा।)अये ! प्रतिपाल्यावसरः खलु प्रस्तावः ।
मातलिः- (राजानमवलोक्य।) अस्मिन्नशोकवृक्षमूले तावदास्तामायुष्मान्,यावत्त्वामिन्द्रगुरवे निवेदयितुमन्तरान्वेषी भवामि ।
राजा - यथा भवान् मन्यते । (इति स्थितः।)
मातलिः- आयुष्मन् ! साधयाम्यहम् । (इति निष्क्रान्तः।)
राजा- (निमित्तं सूचयित्वा।) -
मनोरथाय नाशंसे किं बाहो ! स्पन्दसे वृथा ? ।
पूर्वावधीरितं श्रेयो दुःखं हि परिवर्तते ॥१३॥
(नेपथ्ये।)
मा खलु चापलं कुरु । कथं गत एवात्मनः प्रकृतिम्?राजा- (कर्णं दत्वा।) अभूमिरियमविनयस्य । को नु खल्वेष निषिध्यते? (शब्दानुसारेणावलोक्य सविस्मयम्।) अये, को नु खल्वयमनुबध्यमानस्तपस्विनीभ्यामबालसत्त्वो बालः?
अर्धपीतस्तनं मातुरामर्दक्लिष्टकेसरम् ।
प्रक्रीडितुं सिंहशिशुं बलात्कारेण कर्षति ॥१४॥
(ततः प्रविशति यथानिर्दिष्टकर्मा तपस्विनीभ्यां बालः ।)
बालः- जृम्भस्व सिंह ! दन्तांस्ते गणयिष्ये ।
प्रथमा- अविनीत ! किं नोऽपत्यनिर्विशेषाणि सत्वानि विप्रकरोषि? हन्त! वर्धते ते संरम्भः । स्थाने खलु ऋषिजनेन सर्वदमन इति कृतनामधेयोऽसि ।
राजा- किं नु खलु बालेऽस्मिन्नौरस इव पुत्रे स्निह्यति मे मनः? नूनमनपत्यता मां वत्सलयति।
द्वितीया- एषा खलु केसरिणी त्वां लङ्घयिष्यति यदि तस्याः पुत्रकं न मुञ्चसि ।
बालः- (सस्मितम्।) अहो, बलीयः खलु भीतोऽस्मि। (इत्यधरं दर्शयति।)
राजा-
महतस्तेजसो बीजं बालोऽयं प्रतिभाति मे ।
स्फुलिङ्गावस्थया वह्निरेधापेक्ष इव स्थितः ॥१५॥
प्रथमा - वत्स ! एनं बालमृगेन्द्रं मुञ्च । अपरं ते क्रीडनकं दास्यामि ।बालः- कुत्र? देहि तत् ।
राजा- कथं चक्रवर्तिलक्षणमप्यनेन धार्यते? तथा ह्यस्य, –
प्रलोभ्यवस्तुप्रणयप्रसारितो विभाति जालग्रथिताङ्गुलिः करः ।
अलक्ष्यपत्रान्तरमिद्धरागया नवोषसा भिन्नमिवैकपङ्कजम् ॥१६॥
द्वितीया- सुव्रते ! न शक्य एष वाचामात्रेण विरमयितुम् । गच्छ त्वम् । मदीय उटजे मार्कण्डेयस्य-र्षिकुमारस्य वर्णचित्रितो मृत्तिकामयूरस्तिष्ठति, तमस्योपहर ।
प्रथमा- तथा । (इति निष्क्रान्ता।)
बालः- अनेनैव तावत् क्रीडिष्यामि । (इति तापसीं विलोक्य हसति।)
राजा- स्पृहयामि खलु दुर्ललितायास्मै। (निःश्वस्य।)
आलक्ष्यदन्तमुकुलाननिमित्तहासैरव्यक्तवर्णरमणीयवचःप्रवृत्तीन् ।
अङ्काश्रयप्रणयिनस्तनयान्वहन्तो धन्यास्तदङ्गरजसा मलिनीभवन्ति ॥१७॥
तापसी- भवतु ; मामयं गणयति । (पार्श्वमवलोक्य ।) कोऽत्र ऋषिकुमाराणाम्?
(राजानमवलोक्य।) भद्रमुख ! एहि तावत् । मोचयानेन दुर्मोकहस्तग्रहेण डिम्भलीलया बाध्यमानंबालमृगेन्द्रम् ।
राजा- (उपगम्य, सस्मितम्।) अयि भो महर्षिपुत्र!
एवमाश्रमविरुध्दवृत्तिना संयमः किमिति जन्मतस्त्वया ।
सत्वसंश्रयसुखोऽपि दूष्यते कृष्णसर्पशिशुनेव चन्दनम् ॥१८॥
तापसी- भद्रमुख ! न खल्वयमृषिकुमारः ।राजा- आकारसदृशं चेष्टितमेवास्य कथयति । स्थानप्रत्ययात्तु वयमेवंतर्किणः (यथाभ्यर्थितमनुतिष्ठन् बालस्पर्शमुपलभ्य, आत्मगतम्।)
अनेन कस्यापि कुलङ्कुरेण स्पृष्टस्य गात्रेषु सुखं ममैवम् ।
को निर्वृतिं चेतसि तस्य कुर्याद्यस्यायमङ्कात्कृतिनः प्ररूढः ॥१९॥
तापसी- (उभौ निर्वर्ण्य।) आश्चर्यमाश्चर्यम् ।
राजा- आर्ये ! किमिव?
तापसी- अस्य बालकस्य तेऽपि संवादिन्याकृतिरिति विस्मिता अस्मि । अपरिचितस्यापि तेऽप्रतिलोभः संवृत्त इति ।
राजा- (बालकमुपलालयन्।) न चेन्मुनिकुमारोऽयमथ कोऽस्य व्यपदेशः?
तापसी- पुरुवंशः ।
राजा- (आत्मगतम्।) कथमेकान्वयो मम? अतः खलु मदनुकारिणमेनमत्रभवती मन्यते । अस्त्यैतत् पौरवाणामन्त्यं कुलव्रतम् ।
भवनेषु रसाधिकेषु पूर्वं क्षितिरक्षार्थमुशन्ति ये निवासम् ।
नियतैकपतिव्रतानि पश्चात् तरुमूलानि गृहीभवन्ति तेषाम् ॥२०॥(प्रकाशम्।) न पुनरात्मगत्या मानुषाणामेष विषयः।
तापसी- यथा भद्रमुखो भणत्यप्सरःसम्बन्धेनास्य जनन्यत्र देवगुरोस्तपोवने प्रसूता ।
राजा- (अपवार्य ।) हन्त! द्वितीयमिदमाशाजननम्।(प्रकाशम्।)अथ सा तत्रभवती किमाख्यस्य राजर्षेः पत्नी?
तापसी- कस्तस्य धर्मदारपरित्यागिनो नाम सङ्कीर्तयितुं चिन्तयिष्यति?
राजा - (स्वगतम्।) इयं खलु कथा मामेव लक्ष्यीकरोति । यदि तावदस्य शिशोर्मातरं नामतः पृच्छामि अथवाऽनार्यः परदारव्यवहारः ।
(प्रविश्य मृण्मयूरहस्ता।)
तापसी - सर्वदमन ! शकुन्तलावण्यं प्रेक्षस्व ।
बालः- (सदृष्टिक्षेपम्।) कुत्र वा मम माता ?
उभे- नामसादृश्येन वञ्चितो मातृवत्सलः ।
द्वितीया- वत्स ! अस्य मृत्तिकामयूरस्य रम्यत्वं पश्येति भणितोऽसि ।
राजा- (आत्मगतम्।) किं वा शकुन्तलेत्यस्य मातुराख्या? सन्ति पुनर्नामधेयसादृश्यानि ।अपि नाम मृगतृष्णिकेव नाममात्र प्रस्तावो मे विषादाय कल्पते।
बालः – मातः ! रोचते म एष भद्रमयूरः । (इति क्रीडनकमादत्ते।)
प्रथमा- (विलोक्य सोद्वेगम्।) अहो, रक्षाकरण्डकमस्य मणिबन्धे न दृश्यते ।
राजा- अलमलमावेगेन । नन्विदमस्य सिंहशावकविमर्दात्परिभ्रष्टम् ।
(इत्यादातुमिच्छति ।)
उभे- मा खल्वेतदवलम्ब्य- कथं गृहीतमनेन?(इति विस्मयादुरोनिहितहस्ते परस्परमवलोकयतः।)
राजा- किमर्थं प्रतिषिद्धाः स्मः?
प्रथमा - शृणोतु महाराजः । एषाऽपराजिता नामौषधिरस्य जातकर्मसमये भगवता मारीचेन दत्ता । एतां किल मातापितरावात्मानं च वर्जयित्वाऽपरो भूमिपतितां न गृह्णाति ।
राजा - अथ गृह्णाति?
प्रथमा- ततस्तं सर्पो भूत्वा दशति ।
राजा- भवतीभ्यां कदाचिदस्याः प्रत्यक्षीकृता विक्रिया?
उभे- अनेकशः ।
राजा – (सहर्षम् आत्मगतम्।) कथमिव सम्पूर्णमपि मे मनोरथं नाभिनन्दामि ?(इति बालं परिष्वजते।)
द्वितीया- सुव्रते ! एहि । इमं वृत्तान्तं नियमव्यापृतायै शकुन्तलायै निवेदयावः ।
(इति निष्क्रान्ते।)
बालः- मुञ्च माम् । यावन्मातुः सकाशं गमिष्यामि ।
राजा - पुत्रक ! मया सहैव मातरमभिनन्दिष्यसि ।
बालः - मम खलु तातो दुष्यन्तः। न त्वम् ।
राजा -(सस्मितम्।) एष विवाद एव प्रत्याययति!
(ततः प्रविशत्येकवेणीधरा शकुन्तला।)
शकुन्तला – विकारकालेऽपि प्रकृतिस्थां सर्वदमनस्यौषधिं श्रुत्वा न म आशासीदात्मनो भागधेयेषु । अथवा, तथा सम्भाव्यत एतत् ।
राजा -(शकुन्तलां विलोक्य।) अये ! सेयमत्रभवती शकुन्तला । यैषा, –
वसने परिधूसरे वसाना नियमक्षाममुखी धृतैकवेणिः ।
अतिनिष्करुणस्य शुद्धशीला मम दीर्घं विरहव्रतं बिभर्ति ॥२१॥
शाकुन्तला – (पश्चात्तापविवर्णं राजानं दृष्ट्वा।) न खल्वार्यपुत्र इव । ततः क एष इदानीं कृतरक्षामङ्गलं दारकं मे गात्रसंसर्गेण दूषयति?
बालः- (मातरमुपेत्य।) मातः! एष कोऽपि पुरुषो मां पुत्र इत्यालिङ्गति ।राजा- प्रिये ! क्रौर्यमपि मे त्वयि प्रयुक्तमनुकूलपरिणामं संवृत्तम्, यदहमिदानीं त्वया प्रत्यभि-ज्ञातमात्मानं पश्यामि ।
शकुन्तला -(आत्मगतम्।) हृदय ! समाश्वसिहि, समाश्वसिहि । परित्यक्तमत्सरेणानुकम्पितास्मि दैवेन । आर्यपुत्रः खल्वेषः ।
राजा - प्रिये, -
स्मृतिभिन्नमोहतमसो दिष्ट्या प्रमुखे स्थितासि मे सुमुखि ! ।
उपरागान्ते शशिनः समुपगता रोहिणी योगम् ॥२२॥
शकुन्तला – जयतु जयत्वार्यपुत्रः - - - (इत्यर्धोक्ते बाष्पकण्ठी विरमति ।)
राजा- सुन्दरि!
वाष्पेण प्रतिषिद्धेऽपि जयशब्दे जितं मया ।
यत्ते दृष्टमसंस्कारपाटलोष्ठपुटं मुखम् ॥२३॥
बालः - मातः ! कः एषः?
शकुन्तला- वत्स ! ते भागधेयानि पृच्छ ।
राजा- (शकुन्तलायाः पादयोः प्रणिपत्य।)
सुतनु ! हृदयात्प्रत्यादेशव्यलीकमपैतु ते
किमपि मनसः सम्मोहो मे तदा बलवानभूत् ।
प्रबलतमसामेवंप्रायाः शुभेषु प्रवृत्तयः
स्रजमपि शिरस्यन्धः क्षिप्तां धुनोत्यहिशङ्कया ॥२४॥
शकुन्तला – उत्तिष्ठत्वार्यपुत्रः । नूनं मे सुचरितप्रतिबन्धकं पुराकृतं तेषु दिवसेषु परिणामा-भिमुखमासीद्येन सानुक्रोशोऽप्यार्यपुत्रो मयि विरसः संवृत्तः ।
(राजोत्तिष्ठति।)शकुन्तला – अथ कथमार्यपुत्रेण स्मृतो दुःखभाग्ययं जनः?
राजा - उद्घृतविषादशल्यः कथयिष्यामि ।
मोहान्मया सुतनु पूर्वमुपेक्षितस्ते यो बद्धबिन्दुरधरं परिबाधमानः ।
तं तावदाकुटिलपक्ष्मविलग्नमद्य वाष्पं प्रमृज्य विगतानुशयो भवेयम् ॥२५॥(इति यथोक्तमनुतिष्ठति।)
शकुन्तला – (नाममुद्रां दृष्ट्वा ।) आर्यपुत्र ! इदं तेङ्गुलीयकम् ।
राजा - अस्मादङ्गुलीयोपलम्भात् खलु स्मृतिरुपलब्धा।
शकुन्तला – विषमं कृतमनेन यत्तदार्यपुत्रस्य प्रत्ययकाले दुर्लभमासीत् ।
राजा- तेन हि ऋतुसमवायचिह्नं प्रतिपद्यतां लताकुसुमम् ।
शकुन्तला – नास्य विश्वसिमि । आर्यपुत्र एवैतद्धारयतु ।
(ततः प्रविशति मातलिः ।)
मातलिः- दिष्ट्या धर्मपत्नीसमागमेन पुत्रमुखदर्शनेन चायुष्मान् वर्धते ।
राजा- अभूत्सम्पादितस्वादुफलो मे मनोरथः । मातले ! न खलु विदितोऽयमाखण्डलेन वृत्तान्तः स्यात्?
मातलिः- (सस्मितम्।) किमीश्वराणां परोक्षम्? एत्वायुष्मान् । भगवान् मारीचस्ते दर्शनं वितरति ।
राजा- शकुन्तले ! अवलम्ब्यतां पुत्रः । त्वां पुरस्कृत्य भगवन्तं द्रष्टुमिच्छामि ।
शकुन्तला – जिह्रेम्यार्यपुत्रेण सह गुरुसमीपं गन्तुम् ।
राजा- अप्याचरितव्यमभ्युदयकालेषु । एह्येहि ।
(सर्वे परिक्रामन्ति ।)
(ततः प्रविशत्यदित्या सार्धमासनस्थो मारीचः।)
मारीचः- (राजानमवलोक्य।) दाक्षायणि!
पुत्रस्य ते रणशिरस्ययमग्रयायी दुष्यन्त इत्यभिहितो भुवनस्य भर्ता ।
चापेन यस्य विनिवर्तितकर्म जातं तत्कोटिमत्कुलिशमाभरणं मघोनः ॥२६॥
अदितिः- सम्भावनीयानुभावाऽस्याकृतिः।
मातलिः- आयुष्मन् ! एतौ पुत्रप्रीतिपिशुनेन चक्षुषा दिवौकसां पितरावायुष्मन्तमवलोकयतः । तावुपसर्प ।
राजा- मातले! एतौ, -
प्राहुर्द्वादशधा स्थितस्य मुनयो यत्तेजसः कारणं
भर्तारं भुवनत्रयस्य सुषुवे यद्यज्ञभागेश्वरम् ।
यस्मिन्नात्मभवः परोऽपि पुरुषश्चक्रे भवायास्पदं
द्वन्द्वं दक्षमरीचि सम्भवमिदं तत्स्रष्टुरेकान्तरम् ॥२७॥
मातलिः – अथ किम्?
राजा- (उपगम्य ।) उभाभ्यामपि वासवानुयोज्यो दुष्यन्तः प्रणमति ।
मारीचः – वत्स ! चिरं जीव; पृथ्वीं पालय ।
अदिति - वत्स ! अप्रतिरथो भव।
शकुन्तला – दारकसहिता वां पादवन्दनं करोमि ।मारीचः- वत्से !आखण्डलसमो भर्ता जयन्तप्रतिमः सुतः ।
आशीरन्या न ते योग्या पौलोमीसदृशी भव ॥२८॥
अदितिः- जाते ! भर्तुर्बहुमता भव । अयञ्च दीर्घायुर्वत्सक उभयकुलनन्दनो भवतु । उपविशत ।(सर्वे प्रजापतिमभित उपविशन्ति।)
मारीचः – (एकैकं निर्दिशन् ।)
दिष्ट्या शकुन्तला साध्वी सदपत्यमिदं भवान् ।
श्रद्धा वित्तं विधिश्चेति त्रितयं तत्समागतम् ॥२९॥
राजा- भगवन् ! प्रागभिप्रेतसिद्धिः । पश्चाद्दर्शनम्। अतोऽपूर्वः खलु वोऽनुग्रहः। कुतः ?उदेति पूर्वं कुसुमं ततः फलं घनोदयः प्राक्तदनन्तरं पयः ।
निमित्तनैमित्तिकयोरयं क्रमस्तव प्रसादस्य पुरस्तु सम्पदः ॥३०॥
मातलिः- एवं विधातारः प्रसीदन्ति ।
राजा- भगवन् ! इमामाज्ञाकरीं वो गान्धर्वेण विवाहविधिनोपयम्य कस्यचित्कालस्य बन्धुभि-रानीतां स्मृतिशैथिल्यात्प्रत्यादिशन्नपराद्धोऽस्मि तत्रभवतो युष्मत्सगोत्रस्य कण्वस्य । पश्चाद-ङ्गुलीयकदर्शनदूढपूर्वां तद्दुहितरमवगतोऽहम् । तच्चित्रमिव मे प्रतिभाति ।
यथा गजो नेति समक्षरूपे तस्मिन्नपक्रामति संशयः स्यात् ।
पदानि दृष्ट्वा तु भवेत्प्रतीतिस्तथाविधो मे मनसो विकारः ॥३१॥मारीचः- वत्स ! अलमात्मापराधशङ्कया । सम्मोहोऽपि त्वय्यनुपपन्नः। श्रूयताम् ।
राजा - अवहितोऽस्मि ।
मारीचः – यदैवाप्सरस्तीर्थावतरणात् प्रत्यक्षवैक्लव्यां शकुन्तलामादाय मेनका दाक्षायणीमुपगता तदैव ध्यानादवगतोऽस्मि दुर्वाससः शापादियं तपस्विनी सहधर्मचारिणी त्वया प्रत्यादिष्टा,
नान्यथेति । स चायमङ्गुलीयकदर्शनावसानः।राजा- ( सोच्छ्वासम्।) एष वचनीयान्मुक्तोऽस्मि।
शकुन्तला –(स्वगतम्।) दिष्ट्याऽकारणप्रत्यादेशी नार्यपुत्रः । न खलु शप्तमात्मानं स्मरामि । अथवा प्राप्तो मया स हि शापो विरहशून्यहृदयया न विदितः । अतः सखीभ्यां सन्दिष्टाऽस्मि भर्तुरङ्गुलीयकं दर्शयितव्यमिति ।
मारीचः- वत्से ! चरितार्थासि । तदिदानीं सहधर्मचारिणं प्रति न त्वया मन्युः कार्यः । पश्य -शापादसि प्रतिहता स्मृतिरोधरुक्षे भर्तर्यपेततमसि प्रभुता तवैव ।
छाया न मूर्च्छति मलोपहतप्रसादे शुद्धे तु दर्पणतले सुलभावकाशा ॥३२॥राजा- यथाह भगवान् ।
मारीचः- वत्स ! कच्चिदभिनन्दितस्त्वया विधिवदस्माभिरनुष्ठितजातकर्मा पुत्र एष शाकुन्तलेयः?
राजा- भगवन् ! अत्र खलु मे वंशप्रतिष्ठा।
(इति बालं हस्तेन गृह्णाति।)
मारीचः – तथा भाविनमेनं चक्रवर्तिनमवगच्छतु भवान् । पश्य, -
रथेनानुद्धातस्तिमितगतिना तीर्णजलधिः
पुरा सप्तद्वीपां जयति वसुधामप्रतिरथः ।
इहायं सत्वानां प्रसभदमनात्सर्वदमनः
पुनर्यास्यत्याख्यां भरत इति लोकस्य भरणात् ॥३३॥
राजा- भगवता कृतसंस्कारे सर्वमस्मिन् वयमाशास्महे।
अदितिः- भगवन् ! अस्याः दुहितृमनोरथसम्पत्तेः कण्वोऽपि तावच्छ्रुतविस्तारः क्रियताम् । दुहितृवत्सला मेनकेहैवोपचरन्ती तिष्ठति ।
शकुन्तला- (आत्मगतम्।) मनोरथः खलु मे भणितो भगवत्या ।
मारीचः - तपः प्रभावात् प्रत्यक्षं सर्वमेव तत्रभवतः ।
राजा- अतः खलु मम नातिक्रुद्धो मुनिः ।
मारीचः- तथाप्यसौ प्रियमस्माभिः श्रावयितव्यः । कः कोऽत्र भोः?
(प्रविश्य।)
शिष्यः – भगवन् ! अयमस्मि ।
मारीचः- गालव ! इदानीमेव विहायसा गत्वा मम वचनात्तत्रभवते कण्वाय
प्रियमावेदय यथा- पुत्रवती शकुन्तला तच्छापनिवृत्तौ स्मृतिमता दुष्यन्तेन प्रतिगृहीतेति ।
शिष्यः- यदाज्ञापयति भगवान् । (इति निष्क्रान्तः।)
मारीचः- वत्स! त्वमपि स्वापत्यदारसहितः सख्युराखण्डलस्य रथमारुह्य ते राजधानीं प्रतिष्ठस्व ।
राजा- यदाज्ञापयति भगवान् ।
मारीचः- अपि च ।-
तव भवतु बिडौजा प्राज्यवृष्टि प्रजासु
त्वमपि विततयज्ञः स्वर्गिणः प्रीणयस्व ।
युगशतपरिवर्तानेवमन्योन्यकृत्यै-
र्नयतमुभयलोकानुग्रहश्लाघनीयैः ॥३४॥
राजा- भगवन ! यथाशक्ति श्रेयसे यतिष्ये ।
मारीचः- वत्स ! किं ते भूयः प्रियमुपकरोमि?
राजा- अतः परमपि प्रियमस्ति। यदिह भगवान् प्रियं कर्तुमिच्छति तर्हीदिमस्तु ।भरतवाक्यम्,-
प्रवर्ततां प्रकृतिहिताय पार्थिवः सरस्वती श्रुतमहतां महीयताम्
ममापि च क्षपयतु नीललोहितः पुनर्भवं परिगतशक्तिरात्मभूः ॥३५॥(इति निष्क्रान्ताः सर्वे।)
।।इति सप्तमोऽङ्कः।।