।।अथ षष्ठोऽङ्कः।।

(ततः प्रविशति नागरिकः श्यालः पश्चाद्बद्धपुरुषमादाय रक्षिणौ च ।)
रक्षिणौ - (पुरुषं ताडयित्वा।)अरे कुम्भीरक ! कथय कुत्र त्वयैतन्मणिबन्धनोत्कीर्णनामधेयं राजकीयमङ्गुलीयकं समासादितम् ।
पुरुषः - (भीतिनाटितकेन।) प्रसीदन्तु भावमिश्राः । अहं नेदृशकर्मकारी ।
प्रथमः - किं शोभनो ब्राह्मण इति कलयित्वा राज्ञा प्रतिग्रहो दत्तः?
पुरुषः- शृणुतेदानीम् । अहं शक्रावताराभ्यन्तरालवासी धीवरः ।
द्वितीयः – पाटच्चर ! किमस्माभिर्जातिः पृष्टा?श्यालः- सूचक ! कथयतु सर्वमनुक्रमेण । मैनमन्तरा प्रतिबधान ।
उभौ- यदावुत्त आज्ञापयति । कथय ।
पुरुषः- अहं जालोद्गालादिभिर्मत्स्यबन्धनोपायैः कुटुम्बभरणं करोमि ।
श्यालः- (विहस्य।) विशुद्ध इदानीमाजीवः ।
पुरुषः- भर्तः ! मैवं भण ।सहजं किल यद्विनिन्दितं न खलु तत्कर्म विवर्जनीयम् ।
पशुमारणकर्मदारुणोऽनुकम्पामृदुरेव श्रोत्रियः ॥१॥
श्यालः- ततस्ततः?
पुरुषः- एकस्मिन्दिवसे खण्डशो रोहितमत्स्यो मया कल्पितो यावत् । तस्योदराभ्यन्तर इदं रत्न-भासुरमङ्गुलीयकं दृष्ट्वा पश्चादहं तस्य विक्रयाय दर्शयन्गृहीतो भावमिश्रैः । मारयत वा मुञ्चत वा । अयमस्यागमवृत्तान्तः ।
श्यालः- जानुक ! विस्रगन्धी गोधादी मत्स्यबन्ध एव निःसंशयम् । अङ्गुलीयकदर्शनमस्य विमर्शयितव्यम् । राजकुलमेव गच्छामः ।रक्षिणौ- तथा । गच्छ, अरे गण्डभेदक !

(सर्वे परिक्रामन्ति ।)
श्यालः- सूचक ! इमं गोपुरद्वारेऽप्रमत्तौ प्रतिपालयतं यावदिदमङ्गुलीयकं यथागमनं भर्तुनिवेद्य ततः शासनं प्रतीक्ष्य निष्क्रमामि ।
उभौ- प्रविशत्वावुत्तः स्वामिप्रसादाय ।

(इति निष्क्रान्तः श्यालः।)
प्रथमः- जानुक ! चिरायते खल्वावुत्तः ।
द्वितीयः- नन्ववसरोपसर्पणीया राजानः।
प्रथमः- जानुक ! प्रस्फुरतो मम हस्तावस्य वधार्थं सुमनसः पिनद्धुम् ।
(इति पुरुषं निर्दिशति।)
पुरुषः- नार्हति भावोऽकारणमारणो भावयितुम् ।
द्वितीयः- (विलोक्य।) एष नः स्वामी पत्रहस्तो राजशासनं प्रतिक्ष्येतोमुखो दृश्यते । गृध्रबलि-र्भविष्यसि, शुनो मुखं वा द्रक्ष्यसि ।
(प्रविश्य।)

श्यालः- सूचक ! मुच्यतामेष जालोपजीवी । उपपन्नः खल्वस्याङ्गुलीयस्यागमः ।
सूचकः- यथावुत्तो भणति ।

द्वितीयः- एष यमसदनं प्रविश्य प्रतिनिवृत्तः ।

(इति पुरुषं परिमुक्तबन्धनं करोति ।)
पुरुषः- (श्यालं प्रणम्य।) भर्तः ! अथ कीदृशो मे आजीवः ।
श्यालः- एष भर्त्राङ्गुलीयकमूल्यसम्मितः प्रसादोऽपि दापितः ।

( इति पुरुषाय स्वं प्रयच्छति ।)
पुरुषः- (सप्रणामं प्रतिगृह्य।) भर्तः! अनुगृहितोऽस्मि ।सूचकः- एष नामानुग्रहो यच्छूलादवतार्य हस्तिस्कन्धे प्रतिष्ठापितः।
जानुकः- आवुत्त ! पारितोषं कथयति, तेनाङ्गुलीयकेन भर्तुः सम्मतेन भवितव्यमिति ।श्यालः- न तस्मिन्महार्हं रत्नं भर्तुर्बहुमतमिति तर्कयामि। तस्य दर्शनेन भर्तुरभिमतो जनः स्मारितः । मुहूर्तं प्रकृतिगम्भीरोऽपि पर्युत्सुकनयन(पर्यश्रुनयन) आसीत् ।
सूचकः- सेवितं नामावुत्तेन।
जानुकः- ननु भण । अस्य कृते मात्स्यिकभर्तुरिति ।
(इति पुरुषमसूयया पश्यति।)
पुरुषः- भट्टारक ! इतोऽर्धं युष्माकं सुमनोमूल्यं भवतु ।
जानुकः- एतावद्युज्यते ।
श्यालः- धीवर ! महत्तरस्त्वं प्रियवयस्यक इदानीं मे संवृत्तः । कादम्बरीसाक्षिकमस्माकं प्रथमसोहृदमिष्यते । तच्छौण्डिकापणमेव गच्छामः ।

(इति निष्क्रान्तास्सर्वे।)
(इति प्रवेशकः।)
(ततः प्रविशत्याकाशयानेन सानुमती नामाप्सराः।)
सानुमती- निर्वर्तितं मया पर्यायनिर्वर्तनीयमप्सरस्तीर्थसान्निध्यं यावत्साधुजनस्याभिषेककाल इति । साम्प्रतमस्य राजर्षेरुदन्तं प्रत्यक्षीकरिष्यामि । मेनकासम्बन्धेन शरीरभूता मे शकुन्तला । तया च दुहितृनिमित्तमादिष्टपूर्वास्मि । (समन्तादवलोक्य।) किं नु खलु ऋतूत्सवेऽपि निरुत्सवा-

रम्भमिव राजकुलं दृश्यते । अस्ति मे विभवः प्रणिधानेन सर्वं परिज्ञातुम् । किन्तु सख्या आदरो मया मानयितव्यः । भवतु ; अनयोरेवोद्यानपालिकयोस्तिरस्करिणीप्रतिच्छन्ना पार्श्ववर्तिनी भूत्वोपलप्स्ये ।

(इति नाट्येनावतीर्य स्थिता।)(ततः प्रविशति चूताङ्कुरमवलोकयन्ती चेटी । अपरा च पृष्ठतस्तस्याः।)
प्रथमा-
आताम्रहरितपाण्डुर जीवित ! सत्यं वसन्तमासस्य ।दृष्टोऽसि चूतकोरक ! ऋतुमङ्गल ! त्वां प्रसादयामि ॥२॥
द्वितीय- परभृतिके ! किमेकाकिनी मन्त्रयसे?
प्रथमा- मधुकरिके ! चूतकलिकां दृष्ट्वोन्मत्ता परभृतिका भवति ।
द्वितीया- (सहर्षं त्वरयोपगम्य।) कथमुपस्थितो मधुमासः?
प्रथमा- मधुकरिके ! तवेदानीं काल एष मदविभ्रमगीतानाम् ।
द्वितीया- सखि ! अवलम्बस्व मां यावदग्रपादस्थिता भूत्वा चूतकलिकां गृहीत्वा कामदेवार्चनं करोमि ।
प्रथमा- यदि ममापि खल्वर्धमर्चनफलस्य ।
द्वितीया- अकथितोऽप्येतत् सम्पद्यते । यत एकमेव नौ जीवितं द्विधा स्थितं शरीरम् । (सखीमवलम्ब्य स्थिता चूताङ्कुरं गृह्णाति ।) अये !अप्रतिबुध्दोऽपि चूतप्रसवोऽत्र बन्धनभङ्गसुरभिर्भवति।

(इति कपोतहस्तकं कृत्वा।)
त्वमसि मया चूताङ्कुर दत्त कामाय गृहीतधनुषे
पथिकजनयुवतिलक्ष्यः पञ्चाभ्यधिकः शरो भव ॥३॥
(इति चूताङ्कुरं क्षिपति ।)

(प्रविश्यापटीक्षेपेण कुपितः।)कञ्चुकी – मा तावत् अनात्मज्ञे ! देवेन प्रतिषिध्दे वसन्तोत्सवे त्वमाम्रकलिकाभङ्गं
किमारभसे?
उभे- (भीते।) प्रसीदत्वार्यः । अगृहीतार्थे आवाम् ।
कञ्चुकी – न किल श्रुतं युवाभ्यां यद्वासन्तिकैस्तरुभिरपि देवस्य शासनं प्रमाणीकृतं तदाश्रयिभिः पत्रिभिश्च । तथा हि, -
चूतानां चिरनिर्गतापि कलिका बध्नाति न स्वं रजः
सन्नध्दं यदपि स्थितं कुरबकं तत्कोरकावस्थया ।
कण्ठेषु स्खलितं गतेऽपि शिशिरे पुंस्कोकिलानां रुतं
शङ्के संहरति स्मरोऽपि चकितस्तूणार्धकृष्टं शरम् ॥४॥
उभे - नास्ति सन्देहः । महाप्रभावो राजर्षिः।
प्रथमा- आर्य ! कति दिवसान्यावयोर्मित्रावसुना राष्ट्रियेण भट्टिनीपादमूलं प्रेषितयोः ? इत्थं च नौ प्रमदवनस्य पालनकर्म समर्पितम् । तदागन्तुकतयाऽश्रुतपूर्व आवाभ्यामेष वृत्तान्तः ।
कञ्चुकी – भवतु । न पुनरेवं प्रवर्तितव्यम् ।
उभे- आर्य ! कौतूहलं नौ । यद्यनेन जनेन श्रोतव्यं, कथयत्वार्यः किन्निमित्तं भर्त्रा वसन्तोत्सवः प्रतिषिद्धः ।
सानुमती – उत्सवप्रियाः खलु मनुष्याः। गुरुणा कारणेन भवितव्यम् ।
कञ्चुकी – (स्वगतम्।) बहुलीभूतमेतत्किं न कथ्यते? (प्रकाशम्।) किमत्र भवत्योः कर्णपथं नायातं शकुन्तला प्रत्यादेशकौलीनम्?
उभे - श्रुतं राष्ट्रियमुखाद्यावदङ्गुलीयकदर्शनम् ।
कञ्चुकी- (स्वगतम्।)तेन ह्यल्पं कथयितव्यम् । (प्रकाशम्।) यदैव खलु स्वाङ्गुलीयक-दर्शनादनुस्मृतं देवेन “सत्यमूढपूर्वा मे तत्रभवती रहसि शकुन्तला मोहात् प्रत्यादिष्टा” इति । तदाप्रभृत्येव पश्चात्तापमुपगतो देवः । तथा हि, -
रम्यं द्वेष्टि यथा पुरा प्रकृतिभिर्न प्रत्यहं सेव्यते
शय्याप्रान्तविवर्तनैर्विगमयत्युन्निद्र एव क्षपाः
दाक्षिण्येन ददाति वाचमुचितामन्तःपुरेभ्यो यदा
गोत्रेषु स्खलितस्तदा भवति च व्रीडाविलक्षश्चिरम् ॥५॥
सानुमती- प्रियं मे ।
कञ्चुकी- अस्मात्प्रभवतो वैमनस्यादुत्सवः प्रत्याख्यातः ।
उभे- युज्यते ।
(नेपथ्ये।)

एतु एतु भवान् ।कञ्चुकी- (कर्णं दत्वा।) अये ! इत एवाभिवर्तते देवः । स्वकर्मानुष्ठीयताम् ।
उभे- तथा ।

(इति निष्क्रान्ते।)(ततः प्रविशति पश्चात्तापसदृशवेषो राजा विदूषकः प्रतिहारी च ।)
कञ्चुकी- (राजानमवलोक्य।) अहो सर्वास्ववस्थासु रमणीयत्वमाकृतिविशेषाणाम्। एवमुत्सुकोऽपि प्रियदर्शनो देवः । तथा हि, -
प्रत्यादिष्टविशेषमण्डनविधिर्वामप्रकोष्ठार्पितं
बिभ्रत्काञ्चनमेकमेव वलयं श्वासोपरक्ताधरः ।
चिन्ताजागरण प्रतान्तनयनस्तेजोगुणादात्मनः
संस्कारोल्लिखितो महामणिरिव क्षीणोऽपि नालक्ष्यते ॥६॥
सानुमती- (राजानं दृष्ट्वा।) स्थाने खलु प्रत्यादेशविमानिताप्यस्य कृते शकुन्तला क्लाम्यतीति ।
राजा- (ध्यानमन्दं परिक्रम्य।)
प्रथमं सारङ्गाक्ष्या प्रियया प्रतिबोध्यमानमपि सुप्तम् ।
अनुशयदुःखायेदं हतहृदयं सम्प्रति विबुद्धम् ॥७॥
सानुमती - नन्वीदृशानि तपस्विन्या भागधेयानि।
विदूषकः- (अपवार्य स्वगतम्।) लङ्घित एष भूयोऽपि शकुन्तलाव्याधिना । न जाने कथं चिकित्सितव्यो भविष्यतीति।
कञ्चुकी- (उपगम्य।) जयतु जयतु देवः । महाराज ! प्रत्यवेक्षिताः प्रमदवनभूमयः ।

यथाकाममध्यास्तां विनोदस्थानानि महाराजः ।
राजा- वेत्रवति ! मद्वचनादमात्यमार्यपिशुनं ब्रूहि । चिरप्रबोधान्न सम्भावितमस्माभिरद्य धर्मासनमध्यासितुम् । यत्प्रत्यवेक्षितं पौरकार्यमार्येण तत्पत्रमारोप्य दीयतामिति ।
प्रतीहारी- यद्देव आज्ञापयति ।

(इति निष्क्रान्ता।)राजा- वातायन ! त्वमपि स्वं नियोगमशून्यं कुरु ।कञ्चुकी – यदाज्ञापयति देवः । (इति निष्क्रान्तः।)
विदूषकः – कृतं भवता निर्मक्षिकम् । साम्प्रतं शिशिरातपच्छेदरमणीयेऽस्मिन्प्रमदवनोद्देश आत्मानं रमयिष्यसि ।
राजा- वयस्य ! रन्ध्रोपनिपातिनोऽनर्था इति यदुच्यते तदव्यभिचारि वचः ।
कुतः ? –
मुनिसुताप्रणयस्मृतिरोधिना मम च मुक्तमिदं तमसा मनः ।
मनसिजेन सखे ! प्रहरिष्यता धनुषि चूतशरश्च निवेशितः ॥८॥
विदूषकः- तिष्ठ तावत् ; अनेन दण्डकाष्ठेन कन्दर्पव्याधिं नाशयिष्यामि ।
(इति दण्डकाष्ठमुद्यम्य चूताङ्कुरं पातयितुमिच्छति ।)
राजा - (सस्मितम्।) भवतु ; दृष्टं बह्मवर्चसम् । सखे ! क्वोपविष्टः प्रियायाःकिञ्चिदनुकारिणीषु लतासु दृष्टिं विलोभयामि?
विदूषकः- नन्वासन्नपरिचारिका चतुरिका भवता सन्दिष्टा । माधवीमण्डप इमां वेलामतिवाह-यिष्ये । तत्र मे चित्रफलकगतां स्वहस्तलिखितां तत्रभवत्याः शकुन्तलायाः प्रतिकृतिमानयेति ।
राजा- ईदृशं हृदयविनोदनस्थानम्! तत्त्वमेव मार्गमादेशय ।
विदूषकः – इत इतो भवान् ।
(उभौ परिक्रामतः । सानुमत्यनुगच्छति ।)
विदूषकः- एष मणिशिलापट्टकसनाथो माधवीमण्डप उपहाररमणीयतया निःसंशयं स्वागतेनैव नौ प्रतीच्छति । तत्प्रविश्य निषीदतु भवान् ।
(उभौ प्रवेशं कृत्वोपविष्टौ ।)
सानुमती- लतासंश्रिता द्रक्ष्यामि तावत्सख्याः प्रतिकृतिम् । ततस्तस्यै भर्तुर्बहुमुखमनुरागं निवेदयिष्यामि ।
(इति तथा कृत्वा स्थिता।)
राजा- सखे ! सर्वमिदानीं स्मरामि शकुन्तलायाः प्रथमवृत्तान्तम् । कथितवानस्मि भवते च । स भवान् प्रत्यादेशवेलायां मत्समीपगतो नासीत् । पूर्वमपि न त्वया कदाचित् सङ्कीर्तितं तत्र-भवत्या नाम । कच्चिदहमिव विस्मृतवानसि त्वम्?
विदूषकः – न विस्मरामि । किन्तु सर्वं कथयित्वाऽवसाने पुनस्त्वया परिहासविजल्प एष न भूतार्थः इत्याख्यातम् । मयापि मृत्पिण्डबुध्दिना तथैव गृहीतम् । अथवा भवितव्यता खलु
बलवती।
सानुमती- एवमेवैतत् ।
राजा- (ध्यात्वा।) सखे ! त्रायस्व, माम् ।
विदूषकः- भोः ! किमेतत्? अनुपपन्नं खल्वीदृशं त्वयि । कदापि सत्पुरुषाः शोकवक्तव्या न भवन्ति । ननु प्रवातेऽपि निष्कम्पा गिरयः ।राजा- वयस्य ! निराकरणविक्लवायाः प्रियायाः समवस्थामनुस्मृत्य बलवदशरणोऽस्मि । सा हि,
इतः प्रत्यादेशात्स्वजनमनुगन्तुं व्यवसिता स्थिता तिष्ठेत्युच्चेर्वदति गुरुशिष्ये गुरुसमे ।
पुनर्दृष्टिं बाष्पप्रसरकलुषामर्पितवती मयि क्रूरे यत्तत्सविषमिव शल्यं दहति माम् ॥९॥सानुमति – अहो, ईदृशी स्वकार्यपरता। अस्य सन्तापेनाहं रमे ।
विदूषकः- भोः ! अस्ति मे तर्कः । केनापि तत्रभवत्याकाशचारिणा नीतेति ।राजा- कः पतिदेवतामन्यः परामर्ष्टुमुत्सहेत? मेनका किल सख्यास्ते जन्मप्रतिष्ठेति श्रुतवानस्मि । तत्सहचारिणीभिः सखी ते हृतेति मे हृदयमाशङ्कते ।
सानुमती – सम्मोहः खलु विस्मयनीयो न प्रतिबोधः ।
विदूषकः- यद्येवमस्ति खलु समागमः कालेन तत्रभवत्या ।
राजा- कथमिव?
विदूषकः- न खलु मातापितरौ भर्तुवियोगदुःखितां दुहितरं चिरं द्रष्टुं पारयतः ।
राजा- वयस्य !
स्वप्नो नु मया नु मतिभ्रमो नु क्लिष्टं नु तावत्फलमेव पुण्यम् ।
असन्निवृत्त्यै तदतीतमेते मनोरथा नाम तटप्रपाताः ॥१०॥विदूषकः- मैवम् ; नन्वङ्गुलीयकमेव निदर्शनमवश्यंभाव्यचिन्तनीयः समागमो भवतीति ।
राजा- (अङ्गुलीयकं विलोक्य।) अये ! इदं तावदसुलभस्थाभ्रंशि शोचनीयम्।
तव सुचरितमङ्गुलीय ! नूनं प्रतनु ममेव विभाव्यते फलेन ।
अरुणनखमनोहरासु तस्याश्च्युतमसि लब्दपदं यदङ्गुलीषु ॥११।।
सानुमती- यद्यन्यहस्तगतं भवेत्सत्यमेव शोचनीयं भवेत् ।विदूषकः – भोः ! इयं नाममुद्रा केनोद्घातेन तत्रभवत्या हस्ताभ्याशं प्रापिता?
सानुमती – ममापि कौतूहलेनाकारित एषः ।
राजा- श्रूयताम् ; स्वनगराय प्रस्थितं मां प्रिया सवाष्पमाह –कियच्चिरेणार्यपुत्रः प्रतिपत्तिं दास्यतीति ।
विदूषकः- ततस्ततः
राजा- पश्चादिमां मुद्रां तदङ्गुलौ निवेशयता मया प्रत्यभिहिता -
एकैकमत्र दिवसे दिवसे मदीयं नामाक्षरं गणय गच्छसि यावदन्तम्।
तावत्प्रिये ! मदवरोधगृहप्रवेशं नेता जनस्तव समीपमुपैष्यतीति ॥१२॥तच्च दारुणात्मना मया मोहान्नानुष्ठितम् ।
सानुमती – रमणीयः खल्ववधिर्विधिना विसंवादितः ।
विदूषकः- कथं धीवरकल्पितस्य रोहितमत्स्यस्योदराभ्यन्तर आसीत्?
राजा- शचितीर्थं वन्दमानायाः सख्यास्ते हस्ताद्गङ्गास्त्रोतसि परिभ्रष्टम् ।
विदूषकः – युज्यते ।
सानुमती- अत एव तपस्विन्याः शकुन्तलाया अधर्मभीरोरस्य राजर्षेः परिणये सन्देहः आसीत् । अथवेदृशोऽनुरागोऽभिज्ञानमपेक्षते; कथमिवैतत्?
राजा- उपालप्स्ये तावदिदमङ्गुलीयकम् ।
विदूषकः- (आत्मगतम्।) गृहीतोऽनेन पन्था उन्मत्तानाम् ।
राजा-
कथं नु तं बन्धुरकोमलाङ्गुलिं करं विहायासि निमग्नमम्भसि?

अथवा, -
अचेतनं नाम गुणं न लक्षयेन्मयैव कस्मादवधीरिता प्रिया ॥१३॥विदूषकः- (आत्मगतम्।) कथं बुभुक्षया खादितव्योऽस्मि।
राजा- प्रिये ! अकारणपरित्यागानुशयतप्तहृदयस्तावदनुकम्प्तामयं जनः पुनर्दर्शनेन ।
(ततः प्रविशत्ययटीक्षेपेण चित्रफलकहस्ता चतुरिका।)
चतुरिका- इयं चित्रगता भट्टिनी । (इति चित्रफलकं दर्शयति।)
विदूषकः – (विलोक्य।) साधु वयस्य ! मधुरावस्थानदर्शनीयो भावानुप्रवेशः । स्खलतीव मे दृष्टिर्निम्नोन्नतप्रदेशेषु ।सानुमती- अहो, एषा राजर्षेर्निपुणता। जाने सख्यग्रतो मे वर्तते इति ।
राजा- यद्यत्साधु न चित्रे स्यात्क्रियते तत्तदन्यथा ।
तथापि तस्या लावण्यं रेखया किञ्चिदन्वितम् ॥१४॥
सानुमती- सदृशमेतत्पश्चात्तापगुरोः स्नेहस्यानवलेपस्य च ।
विदूषकः – भोः ! इदानीं तिस्रस्तत्रभवत्यो दृश्यन्ते । सर्वाश्च दर्शनीयाः कतमाऽत्र तत्रभवती शकुन्तला?सानुमती – अनभिज्ञः खल्वीदृशस्य रूपस्य मोहदृष्टिरयं जनः ।
राजा- त्वं तावत्कतमां तर्कयसि?
विदूषकः – तर्कयामि यैषा शिथिलबन्धनोद्वान्तकुसुमेन केशान्तेनोद्भिन्नस्वेदबिन्दुना वदनेन विशेषतोऽपसृताभ्यां बाहुभ्यामवसेकस्निग्धतरुणपल्लवस्य चूतपादपस्य पार्श्व ईषत्परिश्रान्ते-
वालिखिता सा शकुन्तला । इतरे सरव्याविति ।
राजा- निपुणो भवान् । अस्त्यत्र मे भावचिन्हम् ।
खिन्नाङ्गुलिविनिवेशो रेखाप्रान्तेषु दृश्यते मलिनः ।
अश्रु च कपोलपतितं दृश्यमिदं वर्तिकोच्छ्वासात् ॥१५॥
चतुरिके ! अर्धलिखितमेतद्विनोदस्थानम् । गच्छ, वर्तिकां तावदानय ।चतुरिका- आर्य माढव्य ! अवलम्बस्व चित्रफलकं यावदागच्छामि ।
राजा- अहमेवैतदवलम्बे । (इति यथोक्तं करोति)

(निष्क्रान्ता चेटी।)
राजा- (निःश्वस्य।) अहं हि, -
साक्षात्प्रियामुपगतामपहाय पूर्वं चित्रार्पितां पुनरिमां बहुमन्यमानः ।
स्त्रोतोवहां पथि निकामजलामतीत्य जातः सखे ! प्रणयवान्मृगतृष्णिकायाम् ॥१६॥विदूषकः – (आत्मगतम्।) एषोऽत्रभवान्नदीमतिक्रम्य मृगतृष्णिकां सङ्क्रान्तः । (प्रकाशम्।) भोः! अपरं किमत्र लिखितव्यम्?सानुमती – यो यः प्रदेशः सख्या मेऽभिरूपस्तं तमालिखितुकामो भवेत् ।
राजा- श्रूयताम्, -
कार्या सैकतलीनहंसमिथुना स्त्रोतोवहा मालिनी
पादास्तामभितो निषण्णहरिणा गौरीगुरोः पावनाः ।
शाखालम्बितवल्कलस्य च तरोनिर्मातुमिच्छाम्यधः
शृङ्गे कृष्णमृगस्य वामनयनं कण्डूयमानां मृगीम् ॥१७॥
विदूषकः – (आत्मगतम्।) यथाहं पश्यामि पूरितव्यमनेन चित्रफलकं लम्बकूर्चानां तापसानां कदम्बैः ।
राजा- वयस्य ! अन्यच्च शकुन्तलायाः प्रसाधनमभिप्रेतमस्माभिः ।विदूषकः – किमिव?
सानुमती – वनवासस्य सौकुमार्यस्य विनयस्य च यत्सदृशं भविष्यति ।
राजा-
कृतं न कर्णार्पितबन्धनं सखे ! शिरीषमागण्डविलम्बिकेसरम् ।
न वा शरच्चन्द्रमरीचिकोमलं मृणालसूत्रं रचितं स्तनान्तरे ॥१८॥
विदूषकः – भोः! किं नु तत्रभवति रक्तकुवलयपल्लवशेभिनाग्रहस्तेन मुखमपवार्य चकित- चकितेव स्थिता? (सावधानं निरूप्य दृष्ट्वा।) आः, एष दास्याः पुत्रः कुसुमरसपाटञ्चर-स्तत्रभवत्या वदनकमलमभिलङ्घते मधुकरः ।राजा- ननु वार्यतामेष धृष्टः।
विदूषकः – भवानेवाविनीतानां शासितास्य वारणे प्रभविष्यति ।
राजा- युज्यते । अयि भो कुसुमलताप्रियातिथे ! किमत्र परिपतनखेदमनुभवसि?एषा कुसुमनिषण्णा तृषितापि सती भवन्तमनुरक्ता ।
प्रतिपालयति मधुकरी न खलु मधु विना त्वया पिबति ॥१९॥
सानुमती – अद्याभिजातं खल्वेष वारितः ।
विदूषकः – प्रतिषिद्धापि वामैषा जातिः ।
राजा- एवं भोः, न मे शासने तिष्ठति? श्रूयतां तर्हि सम्प्रति, -
अक्लिष्टबालतरुपल्लवलोभनीयं पीतं मया सदयमेव रतोत्सवेषु ।
बिम्बाधरं स्पृशसि चेद्भ्रमर ! प्रियायास्त्वां कारयामि कमलोदरबन्धनस्थम् ॥२०॥विदूषकः – एवं तीक्ष्णदण्डस्य किं न भेष्यति? (प्रहस्य, आत्मगतम्।) एष तावदुन्मत्तः । अहमप्येतस्य सङ्गेनेदृशवर्ण इव संवृत्तः ।(प्रकाशम्।) भोः ! चित्रं खल्वेतत्।
राजा- कथं चित्रम्?
सानुमति – अहमपीदानीमवगतार्था, किं पुनर्यथालिखितानुभाव्येषः ।
राजा- वयस्य ! किमिदमनुष्ठितं पौरोभाग्यम्?
दर्शनसुखमनुभवतः साक्षादिव तन्मयेन हृदयेन ।
स्मृतिकारिणा त्वया मे पुनरपि चित्रीकृता कान्ता ॥२१॥
(इति बाष्पं विहरति।)
सानुमती – पूर्वापरविरोध्यपूर्व एष विरहमार्गः ।
राजा- वयस्य ! कथमेवमविश्रान्तदुःखमनुभवामि?
प्रजागरात्खिलीभूतस्तस्याः स्वप्नं समागमः ।
बाष्पस्तु न ददात्येनां द्रष्टुं चित्रगतामपि ॥२२॥
सानुमती – सर्वथा प्रमार्जितं त्वया प्रत्यादेशदुःखं शकुन्तलायाः ।
(प्रविश्य।)

चतुरिका – जयतु जयतु भर्ता । वर्तिकाकरण्डकं गृहीत्वेतोमुखं प्रस्थितास्मि ।
राजा- किं च?
चतुरिका – स मे हस्तादन्तरा तरलिकाद्वितीयया देव्या वसुमत्याऽहमेवार्यपुत्रस्योपनेष्यामीति सबलात्कारं गृहीतः ।
विदूषकः – दिष्ट्या त्वं मुक्ता।
चतुरिका – यावद्देव्या विटपलग्नमुत्तरीयं तरलिका मोचयति तावन्मया निर्वाहित आत्मा ।
राजा- वयस्य ! उपस्थिता देवी बहुमानगर्विता च । भवानिमां प्रतिकृतिं रक्षतु ।
विदूषकः – आत्मानमिति भण (चित्रफलकमादायोत्थाय च।) यदि भवानन्तःपुरकूटवागुरातो मोक्ष्यते तदा मां मेघप्रतिच्छन्दे प्रासादे शब्दापय ।

(इति द्रुतपदं निष्क्रान्तः)
सानुमती – अन्यसंक्रान्तहृदयोऽपि प्रथमसम्भावनामपेक्षते । शिथिलसौहार्द इदानीमेषः ।
(प्रविश्य पत्रहस्ता।)

प्रतीहारी- जयतु जयतु देवः ।राजा- वेत्रवति ! न खल्वन्तरा दृष्टा त्वया देवी।प्रतीहारी – अथ किम्? पत्रहस्तां मां प्रेक्ष्य प्रतिनिवृत्ता ।
राजा- कार्यज्ञा कार्योपरोधं मे परिहरति ।
प्रतीहारी – देव ! अमात्यो विज्ञापयति - अर्थजातस्य गणनाबहुलतयैकमेव पौरकार्यमवेक्षितं तद्देवः पत्रारूढं प्रत्यक्षीकरोतु - इति ।
राजा- इतः पत्रिकां दर्शय ।

(प्रतीहार्युपनयति।)राजा- (अनुवाच्य।) कथम्? समुद्रव्यवहारी सार्थवाहो धनमित्रो नाम नौव्यसने विपन्नः। अनपत्यश्च किल तपस्वी! राजगामी तस्यार्थसञ्चय इत्येतदमात्येन लिखितम् ।कष्टं खल्वनपत्यता । वेत्रवति ! बहुधनत्वाद्बहुपत्नीकेन तत्रभवता भवितव्यम् ।विचार्यतां यदि काचिदापन्नसत्वा तस्य भार्यासु स्यात् ।
प्रतीहारी – देव ! इदानीमेव साकेतकस्य श्रेष्ठिनो दुहिता निर्वृत्तपुंसवना जायाऽस्य श्रूयते ।
राजा- ननु गर्भः पित्र्यं रिक्थमर्हति। गच्छ, एवममात्यं ब्रूहि ।
प्रतीहारी – यद्देव आज्ञापयति । (इति प्रस्थिता ।)
राजा- एहि तावत् ।
प्रतीहारी – इयमस्मि ।
राजा- किमनेन सन्ततिरस्ति नास्तीति?

येन येन वियुज्यन्ते
प्रजाः स्निग्धेन बन्धुना ।
स स पापाद् ऋते तासां
दुष्यन्त इति घुष्यताम् ॥२३॥

प्रतीहारी – एवं नाम घोषयितव्यम् (निष्क्रम्य पुनः प्रविश्य।) काले प्रवृष्टमिवाभिनन्दितं देवस्य शासनम् ।
राजा - (दीर्घमुष्णं च निःश्वस्य।) एवं भोः ! सन्ततिच्छेदनिरवलम्बनां कुलानां मूलपुरुषावसाने सम्पदः परमुपतिष्ठन्ति । ममाप्यन्ते पुरुवंशश्रियः एष एव वृत्तान्तः ।
प्रतीहारी – प्रतिहतममङ्गलम् ।
राजा- धिङ्मामुपस्थितश्रेयोवमानिनम् ।
सानुमती – असंशयं सखीमेव हृदये कृत्वा निन्दितोऽनेनात्मा ।
राजा-

संरोपितेऽप्यात्मनि धर्मपत्नी त्यक्ता मया नाम कुलप्रतिष्ठा ।
कल्पिष्यमाणा महते फलाय वसुन्धरा काल इवोप्तबीजा ॥२४॥
सानुमती – अपरिच्छिन्नेदानीं ते सन्ततिर्भविष्यति ।
चतुरिका – (जनान्तिकम्।) आर्य ! अनेन सार्थवाहवृत्तान्तेन द्विगुणोद्वेगो भर्ता । एनमाश्वासयितुं
मेघप्रतिच्छन्दादार्यं माढव्यं गृहीत्वागच्छामि ।
प्रतीहारी – सुष्ठु भणसि ।
राजा- अहो, दुष्यन्तस्य संशयमारूढाः पिण्डभाजः । कुतः; ?
अस्मात्परं बत यथाश्रुति सम्भृतानि को नः कुले निवपनानि नियच्छतीति ।
नूनं प्रसूतिविकलेन मया प्रसिक्तं धौताश्रुशेषमुदकं पितरः पिबन्ति ॥२५॥(इति मोहमुपगतः)

चतुरिका – (ससंभ्रममवलोक्य।) समाश्वसितु, समाश्वसितु भर्ता ।
सानुमती- हा धिक्! हा धिक्! सति खलु दीपे व्यवधानदोषेणैषोऽन्धकारदोषमनुभवति । अह-मिदानीमेव निर्वृतं करोमि। अथवा श्रुतं मया शकुन्तलां समाश्वासयन्त्या महेन्द्रजनन्या मुखाद्यज्ञ-

भागोत्सुका देवा एव तथानुष्ठास्यन्ति यथाऽचिरेण धर्मपत्नीं भर्ताभिनन्दिष्यतीति । तद्युक्तमेतं

कालं प्रतिपालयितुम् । यावदनेन वृत्तान्तेन प्रियसखीं समाश्वासयामि ।
(इत्युद्भ्रान्तकेन निष्क्रान्ता।)
(नेपथ्ये।)

अब्रह्मण्यम् ।
राजा- (प्रत्यागतचेतनः कर्णं दत्वा।) अये ! माढव्यस्येवार्तस्वरः । कः कोऽत्र भोः?
(प्रविश्य।)

प्रतीहारी – (ससम्भ्रमम्।) परित्रायतां देवः संशयगतं वयस्यम् ।राजा - केनात्तगन्धो माणवकः?
प्रतीहारी – अदृष्टरूपेण केनापि सत्त्वेनातिक्रम्य मेघप्रतिच्छन्दस्य प्रासादस्याग्रभूमिमारोपितः ।
राजा- (उत्थाय।) मा तावत् । ममापि सत्त्वैरभिभूयन्ते गृहाः ? अथवा,-
अहन्यहन्यात्मन एव तावज्ज्ञातुं प्रमादस्खलितं न शक्यम् ।
प्रजासु कः केन पथा प्रयातीत्यशेषतो वेदितुमस्ति शक्तिः ॥२६॥
(नेपथ्ये।)

भो वयस्य ! अविहा अविहा।
राजा- (गतिभेदेन परिक्रामन् ।) सखे ! न भेतव्यं न भेतव्यम् ।
(नेपथ्ये।)

(पुनस्तदेव पठित्वा) कथं न भेष्यामि? एष मां कोऽपि प्रत्यवनतशिरोधरमिक्षुमिव त्रिभङ्गं करोति ।
राजा- (सदृष्टिक्षेपम् ।) धनुस्तावत् ।
(प्रविश्य शार्ङ्गहस्ता।)

यवनी- भर्तः ! एतद्धस्तावापसहितं शरासनम् ।

(राजा सशरं धनुरादत्ते ।)
(नेपथ्ये।)
एष त्वामभिनवकण्ठशोणितार्थी शार्दूलः पशुमिव हन्मि चेष्टमानम् ।
आर्तानां भयमपनेतुमात्तधन्वा दुष्यन्तस्तव शरणं भवत्विदानीम् ॥२७॥राजा- (सरोषम्।) कथं मामेवोद्दिशति? तिष्ठ तिष्ठ कुणपाशन ! त्वमिदानीं न भविष्यसि? (शार्ङ्गमारोप्य।)वेत्रवति ! सोपानमार्गमादेशय ।
प्रतीहारी - इत इतो देवः ।

(सर्वे सत्वरमुपसर्पन्ति।)
राजा- (समन्ताद्विलोक्य।) शून्य खल्विदम् ।
(नेपथ्ये।)

अविहाअविहा। अहमत्रभवन्तं पश्यामि । त्वं मां न पश्यसि ? बिडालगृहीतो मूषक इव निराशोऽस्मि जीविते संवृत्तः ।
राजा- भोस्तिरस्करिणीगर्वित ! मदीयमस्त्रं त्वां द्रक्ष्यति । एष तमिषुं सन्दधे, -
यो हनिष्यति बध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम् ।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यपः ॥२८॥
(इत्यस्त्रं सन्धत्ते।)

(ततः प्रविशति विदूषकमुत्सृज्य मातलिः।)
मातलिः -

कृताः शरव्यं हरिणा तवासुराः शरासनं तेषु विकृष्यतामिदम् ।
प्रसादसौम्यानि सतां सुहृज्जने पतन्ति चक्षूंषि न दारुणाः शराः ॥२९॥
राजा- (ससम्भ्रममस्त्रमुपसंहरन्।) अये मातलिः। स्वागतं महेन्द्रसारथे !विदूषकः- अहं येनेष्टिपशुमारं मारितः सोऽनेन स्वागतेनाभिनन्द्यते ।
मातलिः- (सस्मितम्।) आयुष्मन् ! श्रूयतां यदस्मि हरिणा भवत्सकाशं प्रेषितः ।
राजा - अवहितोऽस्मि ।
मातलिः - अस्ति कालनेमिप्रसूतिर्दुर्जयो नाम दानवगणः ।
राजा- अस्ति श्रुतपूर्वं मया नारदात् ।
मातलिः –

सख्युस्ते स किल शतक्रतोरजय्यस्तस्य त्वं रणशिरसि स्मृतो निहन्ता ।
उच्छेत्तुं प्रभवति यन्न सप्तसप्तिस्तन्नैशं तिमिरमपाकरोति चन्द्रः ॥३०॥
स भवानात्तशस्त्र एव इदानीमैन्द्ररथमारुह्य विजयाय प्रतिष्ठताम् ।राजा- अनुगृहीतोऽहमनया मघवतः सम्भावनया । अथ माढंव्यं प्रति भवता किमेव प्रयुक्तम्?
मातलिः- तदपि कथ्यते । किञ्चिन्निमित्तादपि मनःसन्तापादायुष्मान्मया विक्लवो दृष्टः । पश्चात्कोपयितुमायुष्मन्तं तथा कृतवानस्मि । कुतः, ?
ज्वलति चलितेन्धनोऽग्निर्विप्रकृतः पन्नगः फणां कुरुते ।
प्रायः स्वं महिमानं क्षोभात्प्रतिपद्यते हि जन्तुः ॥३१॥
राजा- (जनान्तिकम्।) वयस्य ! अनतिक्रमणीया दिवस्पतेराज्ञा । तदत्र परिगतार्थं कृत्वा मद्वचनादमात्यपिशुनं ब्रूहि, -
त्वन्मतिः केवला तावत्परिपालयतु प्रजाः ।
अधिज्यमिदमन्यस्मिन्कर्मणि व्यापृतं धनुः ॥३२॥ इति ।
विदूषकः – यद्भवानाज्ञापयति ।

(इति निष्क्रान्तः।)
मातलिः- आयुष्मान् रथमारोहतु ।

(राजा रथाधिरोहणं नाटयति ।)
(इति निष्क्रान्ताः सर्वे ।)
।।इति षष्ठोऽङ्कः।।