।।अथ पञ्चमोऽङ्कः।।
(ततः प्रविशत्यासनस्थो राजा विदूषकश्च।)
विदूषकः – (कर्णं दत्वा।) भो वयस्य ! सङ्गीतशालान्तरेऽवधानं देहि । कलविशुध्दाया गीतेः स्वरसंयोगः श्रूयते । जाने तत्रभवती हंसपदिका वर्णपरिचयं करोतीति ।राजा- तूष्णीं भव । यावदाकर्णयामि ।
(आकाशे गीयते।)
अभिनवमधुलोलुपो भवाँस्तथा परिचुम्ब्य चूतमञ्जरीम् ।
कमलवसतिमात्रनिवृतो मधुकर ! विस्मृतोऽस्येनां कथम् ॥१॥
राजा - अहो! रागपरिवाहिनी गीतिः ।
विदूषकः - किं तावद्गीत्या अवगतोऽक्षरार्थः?
राजा - (स्मितं कृत्वा।) सकृत्कृतप्रणयोऽयं जनः । तस्या देवीवसुमतीमन्तरेण मदुपालम्भम् अवगतोऽस्मि । सखे माढव्य ! मद्वचनादुच्यतां हंसपदिका । निपुणमुपालब्धोऽस्मीति ।
विदूषकः – यद्भवनाज्ञापयति (उत्थाय।) भो वयस्य ! गृहीतस्य तया परकीयैर्हस्तैः शिखण्डके ताड्यमानस्याप्सरसा वीतरागस्येव नास्तीदानीं मे मोक्षः।
राजा - गच्छ । नागरिकवृत्त्या संज्ञापयैनाम् ।
विदूषकः - का गतिः?
(इति निष्क्रान्तः।)
राजा- (आत्मगतम्।) किं नु खलु गीतमेवंविधार्थमाकर्ण्येष्टजनविरहादृतेऽपि बलवदुत्कण्ठितो- ऽस्मि। अथवा; -
रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत्सुखितोऽपि जन्तुः ।
तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि जननान्तरसौहृदानि ॥२॥(इति पर्याकुलस्तिष्ठति।)
(ततः प्रविशति कञ्चुकी ।)
कञ्चुकी – अहो न खल्वीदृशीमवस्थां प्रतिपन्नोऽस्मि ।
आचार इत्यवहितेन मया गृहीता या वेत्रयष्टिरवरोधगृहेषु राज्ञः ।
काले गते बहुतिथे मम सैव जाता प्रस्थानविक्लवगतेरवलम्बनार्था ॥३॥भो! कामं धर्मकार्यमनतिपात्यं देवस्य । तथापीदानीमेव धर्मासनादुत्थिताय पुनरुपरोधकारि कण्वशिष्यागमनमस्मै नोत्सहे निवेदयितुम् ।अथवाऽविश्रमोऽयं लोकतन्त्राधिकारः । कुतः –
भानुः सकृद्युक्ततुरङ्ग एव रात्रिन्दिवं गन्धवहः प्रयाति ।
शेषः सदैवाहितभूमिभारः षष्ठांशवृत्तेरपि धर्म एषः ॥४॥
यावन्नियोगमनुतिष्ठामि । (परिक्रम्यावलोक्य च।) एष देवः –प्रजाः प्रजाः स्वा इव तन्त्रयित्वा निषेवतेऽशान्तमना विविक्तम् ।
यूथानि सञ्चार्य रविप्रतप्तः शीतं दिवा स्थानमिव द्विपेन्द्रः ॥५॥
(उपगम्य।) जयतु जयतु देवः । एते खलु हिमगिरेरुपत्यकारण्यवासिनः काश्यपसन्देशमादाय सस्त्रीकास्तपस्विनः सम्प्राप्ताः । श्रुत्वा देवः प्रमाणम् ।
राजा- (सादरम् ।) किं काश्यपसन्देशहारिणः?
कञ्चुकी – अथ किम्?
राजा- तेन हि मद्वचनात् विज्ञाप्यतामुपाध्यायः सोमरातः । अमूनाश्रमवासिनः श्रौतेन विधिना सत्कृत्य स्वयमेव प्रवेशयितुमर्हतीति ।अहमप्यत्र तपस्विदर्शनोचिते प्रदेशे स्थितः प्रतिपालयामि।
कञ्चुकी – यदाज्ञापयति देवः । (इति निष्क्रान्तः।)
राजा - (उत्थाय।) वेत्रवति ! अग्निशरणमार्गमादेशय ।
प्रतीहारी- इत इतो देवः ।
राजा- परिक्रामति (अधिकारखेदं निरूप्य ।) सर्वः प्रार्थितमर्थमधिगम्य सुखी सम्पद्यते जन्तुः । राज्ञान्तु चरितार्थता दुःखोत्तरैव ।
औत्सुक्यमात्रमवसाययति प्रतिष्ठा क्लिश्नाति लब्धपरिपालनवृत्तिरेनम् ।
नातिश्रमापनयनाय यथा श्रमाय राज्यं स्वहस्तधृतदण्डमिवातपत्रम् ॥६॥(नेपथ्ये)
वैतालिकौ – विजयतां देवः ।
प्रथमः –
स्वसुखनिरभिलाषः खिद्यसे लोकहेतोः प्रतिदिनमथवा ते वृत्तिरेवंविधैव ।
अनुभवति हि मूर्ध्ना पादपस्तीव्रमुष्णं शमयति परितापं छायया संश्रितानाम् ॥७॥
द्वितीयः –
नियमयसि विमार्गप्रस्थितानात्तदण्डः प्रशमयसि विवादं कल्पसे रक्षणाय ।
अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानाम् ॥८॥
राजा - एते क्लान्तमनसः पुनर्नवीकृताः स्मः । (इति परिक्रामति।)प्रतीहारी – एषोऽभिनवसंमार्जनसश्रीकः सन्निहितहोमधेनुरग्निशरणालिन्दः । आरोहतु देवः ।
राजा - (आरुह्य परिजनांसावलम्बी तिष्ठति।) वेत्रवति ! किमुद्दिश्य भगवता काश्यपेन मत्सकाश-मृषयः प्रेषिताः स्युः?
किं तावद्व्रतिनामुपोढतपसां विघ्नैस्तपो दूषितं
धर्मारण्यचरेषु केनचिदुत प्राणिष्वसच्चेष्टितम् ।
आहोस्वित्प्रसवो ममापचरितैर्विष्टम्भितो वीरुधाम्
इत्यारूढबहुप्रतर्कमपरिच्छेदाकुलं मे मनः ॥९॥
प्रतीहारी- सुचरितनन्दिन ऋषयो देवं सभाजयितुमागता इति तर्कयामि ।
(ततः प्रविशन्ति गौतमीसहिताः शकुन्तलां पुरस्कृत्य मुनयः । पुरश्चैषां कञ्चुकी पुरोहितश्च।)
कञ्चुकी- इत इतो भवन्तः ।
शार्ङ्गरवः - शारद्वत !
महाभागः कामं नरपतिरभिन्नस्थितिरसौ
न कश्चिद्वर्णानामपथमपकृष्टोऽपि भजते ।
तथापीदं शश्वत्परिचितविविक्तेन मनसा
जनाकीर्णं मन्ये हुतवहपरीतं गृहमिव ॥१०॥
शारद्वतः - स्थाने भवान् पुरप्रवेशादित्थंभूतः संवृत्तः । अहमपि,
अभ्यक्तमिव स्नातः शुचिरशुचिमिव प्रबुद्ध इव सुप्तम् ।
बद्धमिव स्वैरगतिर्जनमिह सुखसङ्गिनमवैमि ॥११॥
शकुन्तला- (निमित्तं सूचयित्वा।) अहो, किं मे वामेतरं नयनं विस्फुरति?
गौतमी- जाते ! प्रतिहतममङ्गलम् । शुभानि ते भर्तृकुलदेवता वितरन्तु ।
(इति परिक्रामति।)पुरोहितः - (राजानं निर्दिश्य ।) भो भोस्तपस्विनः ! असावत्रभवान् वर्णाश्रमाणां रक्षिता प्रागेव मुक्तासनो वः प्रतिपालयति । पश्यतैनम् ।शार्ङ्गरवः - भो महाब्राह्मण ! काममेतदभिनन्दनीयं तथापि वयमत्र मध्यस्थाः ।कुतः,-
भवन्ति नम्रास्तरवः फलागमैः नवाम्बुभिर्दूरविलम्बिनो घनाः ।
अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एवैष परोपकारिणाम् ॥१२॥प्रतीहारी- देव ! प्रसन्नमुखवर्णा दृश्यन्ते । जानामि विश्रब्धकार्या ऋषयः ।
राजा- (शकुन्तलां दृष्ट्वा ।) अथात्रभवती, -
का स्विदवगुण्ठनवती नातिपरिस्फुटशरीरलावण्या ।
मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणाम् ॥१३॥
प्रतीहारी- देव ! कुतूहलगर्भः प्रहितो न मे तर्कः प्रसरति। ननु दर्शनीया पुनरस्या आकृतिर्लक्ष्यते ।
राजा- भवतु; अनिर्वर्णनीयं परकलत्रम्।
शकुन्तला- (हस्तमुरसिकृत्वा, आत्मगतम् ।) हृदय ! किमेवं वेपसे? आर्यपुत्रस्य भावमवधाय धीरं तावद्भव ।
पुरोहितः - (पुरो गत्वा ।) एते विधिवदर्चितास्तपस्विनः । कश्चिदेषामुपाध्यायसन्देशः । तं देवः
श्रोतुमर्हति ।राजा- अवहितोऽस्मि ।
ऋषयः- (हस्तानुद्यम्य ।) विजयस्व राजन् !
राजा- सर्वानभिवादये ।
ऋषयः - इष्टेन युज्यस्व ।
राजा - अपि निर्विघ्नतपसो मुनयः?
ऋषयः -
कुतो धर्मक्रियाविघ्नः सतां रक्षितरि त्वयि ।तमस्तपति घर्मांशौ कथमाविर्भविष्यति ? ॥१४॥राजा- अर्थवान् खलु मे राजशब्दः । अथ भगवाल्ँलोकानुग्रहाय कुशली काश्यपः?
ऋषयः- स्वाधीनकुशलाः सिध्दिमन्तः। स भवन्तमनामयप्रश्नपूर्वकमिदमाह ।
राजा - किमाज्ञापयति भगवान्?
शार्ङ्गरवः - “यन्मिथः समयादिमां मदीयां दुहितरं भवानुपायंस्त तन्मया प्रीतिमता युवयोरनु-ज्ञातम् । कुतः-
त्वमर्हतां प्राग्रसरः स्मृतोऽसि नः शकुन्तला मूर्तिमती च सत्क्रिया ।
समानयंस्तुल्यगुणं वधूवरं चिरस्य वाच्यं न गतः प्रजापतिः ॥१५॥
तदिदानीमापन्नसत्वेयं प्रतिगृह्यतां सहधर्मचरणायेति ।गौतमी- आर्य ! किमपि वक्तुकामास्मि । न मे वचनावसरोऽस्ति । कथमिति, -
नापेक्षितो गुरुजनोऽनया त्वया पृष्टो न बन्धुजनः ।
परस्परस्मिन्नेव चरिते भणामि किमेकैकम् ॥१६॥
शकुन्तला- (आत्मगतम् ।) किं नु खल्वार्यपुत्रो भणति?
राजा- किमिदमुपन्यस्तम्?
शकुन्तला- (आत्मगतम् ।) पावकः खलु वचनोपन्यासः ।
शार्ङ्गरवः – कथमिदं नाम? भवन्त एव सुतरां लोकवृत्तान्तनिष्णाताः ।
सतीमपि ज्ञातिकुलैकसंश्रयां जनोऽन्यथा भर्तुमतीं विशङ्कते ।
अतः समीपे परिणेतुरिष्यते प्रियाप्रिया वा प्रमदा स्वबन्धुभिः ॥१७॥राजा- किं चात्रभवती मया परिणीतपूर्वा?
शकुन्तला - (सविषादम् ; आत्मगतम् ।) हृदय ! साम्प्रतं त आशङ्का ।शार्ङ्गरवः - किं कृतकार्यद्वेषो धर्मं प्रति विमुखता कृतावज्ञा? ।
राजा- कुतोऽयमसत्कल्पनाप्रश्नः?
शार्ङ्गरवः- मूर्च्छन्त्यमी विकाराः प्रायेणैश्वर्यमत्तेषु ॥१८॥
राजा- विशेषेणाधिक्षिप्तोऽस्मि ।
गौतमी- जाते ! मुहुर्तं मा लज्जस्व । अपनेष्यामि तावत्तेऽवगुण्ठनम् । ततस्त्वां भर्ताभिज्ञास्यति । (इति यथोक्तं करोति।)
राजा - (शकुन्तलां निर्वर्ण्य, आत्मगतम्।)
इदमुपनतमेवं रूपमक्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वेत्यव्यवस्यन् ।
भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नैव शक्नोमि हातुम् ॥१९॥(इति विचारयन्स्थितः।)
प्रतीहारी- (स्वगतम्।) अहो धर्मापेक्षिता भर्तुः । ईदृशं नाम सुखोपनतं रूपं दृष्ट्वा कोऽन्यो विचारयति?
शार्ङ्गरवः- भो राजन् ! किमिति जोषमास्यते?
राजा- भोस्तपोधनाः ! चिन्तयन्नपि न खलु स्वीकरणमत्रभवत्याः स्मरामि । तत्कथमिमा-मभिव्यक्तसत्वलक्षणां प्रत्यात्मानं क्षेत्रिणमाशङ्कमानः प्रतिपत्स्ये?
शकुन्तला- (अपवार्य।) आर्यस्य परिणय एव सन्देहः! कुत इदानीं मे दूराधिरोहिण्याशा?
शार्ङ्गरवः - मा तावत्, -
कृताभिमर्शामनुमन्यमानः सुतां त्वया नाम मुनिर्विमान्यः ।
मुष्टं प्रतिग्राहयता स्वमर्थं पात्रीकृतो दस्युरिवासि येन ॥२०॥
शारद्वतः – शार्ङ्गरव ! विरम त्वमिदानीम् ; शकुन्तले ! वक्तव्यमुक्तमस्माभिः । सोऽयमत्रभवाने-
वमाह। दीयतामस्मै प्रत्ययप्रतिवचनम् ।
शकुन्तला- (अपवार्य।) इदमवस्थान्तरं गते तादृशेऽनुरागे किं वा स्मारितेन? आत्मेदानीं मे शोचनीय इति व्यवसितमेतत् । (प्रकाशम्।) आर्यपुत्र!--- (इत्यर्धोक्ते।) संशयित इदानीं परिणये नैष समुदाचारः । पौरव ! न युक्तं नाम ते तथा पुराश्रमपदे स्वभावोत्तानहृदयमिमं जनं समयपूर्वं प्रतार्य साम्प्रतमीदृशैरक्षरैः प्रत्याख्यातुम्।राजा- (कर्णौ पिधाय।) शान्तं पापम्?
व्यपदेशमाविलयितुं किमीहसे जनमिमं च पातयितुम् ।
कूलङ्कषेव सिन्धुः प्रसन्नमम्भस्तटतरुं च ॥२१॥
शकुन्तला- भवतु ; यदि परमार्थतः परपरिग्रहशङ्किना त्वयैवं वक्तुं प्रवृत्तं तदभिज्ञानेनानेन तवाशङ्कामपनेष्यामि ।राजा- उदारः कल्पः ।
शकुन्तला – (मुद्रास्थानं परामृश्य।) हा धिक्! हा धिक्! अङ्गुलीयकशून्या मेऽङ्गुलिः।
(इति सविषादं गौतमीमवेक्षते ।)
गौतमी- नूनं ते शक्रावताराभ्यन्तरे शचीतीर्थसलिलं वन्दमानायाः प्रभ्रष्टमङ्गुलीयकम्।
राजा- (सस्मितम्।) इदं तत्प्रत्युत्पन्नमति स्त्रैणमिति यदुच्यते ।
शकुन्तला- अत्र तावद्विधिना दर्शितं प्रभुत्वम् । अपरं ते कथयिष्यामि ।
राजा- श्रौतव्यमिदानीं संवृत्तम् ।
शकुन्तला – नन्वेकस्मिन्दिवसे नवमालिकामण्डपे नलिनीपत्रभाजनगतमुदकं तव हस्ते सन्निहितमासीत् ।
राजा- श्रुणुमस्तावत् ।
शकुन्तला- तत्क्षणे स मे पुत्रकृतको दीर्घापाङ्गो नाम मृगपोतक उपस्थितः । त्वयायं तावत्प्रथमं पिबत्वित्यनुकम्पिनोपच्छन्दित उदकेन । न पुनस्तेऽपरिचयाद्धस्ताभ्यासमुपगतः । पश्चात्तस्मिन्नेव मया गृहीते सलिलेऽनेन कृतः प्रणयः । तदा त्वमित्थं प्रहसितोऽसि । सर्वः सगन्धेषु विश्वसिति । द्वावप्यत्रारण्यकाविति ।
राजा- एवमादिभिरात्मकार्यनिर्वर्तिनीनामनृतमयवाङ्मधुभिराकृष्यन्ते विषयिणः ।
गौतमी- महाभाग ! नार्हस्येवं मन्त्रयितुम् । तपोवनसंवर्धितोऽनभिज्ञोऽयं जनः कैतवस्य ।राजा- तापसवृद्धे !
स्त्रीणामशिक्षितपटुत्वममानुषीषु सन्दृश्यते किमुत याः प्रतिबोधवत्यः ।
प्रागन्तरिक्षगमनात्स्वमपत्यजातमन्यैर्द्विजैः परभृताः खलु पोषयन्ति ॥२२॥शकुन्तला- (सरोषम्।) अनार्य ! आत्मनो हृदयानुमानेन पश्यसि । क इदानीमन्यो धर्मकञ्चुकप्र-वेशिनस्तृणच्छन्नकूपोपमस्य तवानुकृतिं प्रतिपत्स्यते?
राजा- (आत्मगतम्।) सन्दिग्धबुध्दिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्यनया-
मय्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने
भेदाद् भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्नं शरासनमिवातिरुषा स्मरस्य ॥२३॥(प्रकाशम्।) भद्रे ! प्रथितं दुष्यन्तस्य चरितं । तथापीदं न लक्षये ।
शकुन्तला- सुष्ठु तावदत्र स्वच्छन्दचारिणी कृतास्मि । याहमस्य पुरुवंशप्रत्ययेन मुखमधोर्हृदय-
स्थितविषस्य हस्ताभ्याशमुपगता।
(इति पटान्तेन मुखमावृत्य रोदिति ।)शार्ङ्गरवः - इत्थमात्मकृतमप्रतिहतं चापलं दहति ।
अतः पीरक्ष्य कर्तव्यं विशेषात्सङ्गतं रहः ।
अज्ञातहृदयेष्वेवं वैरीभवति सौहृदम् ॥२४॥
राजा- अयि भोः ! किमत्रभवतीप्रत्ययादेवास्मान् संयुतदोषाक्षरैः क्षिणुथ?शार्ङ्गरवः - (सासूयम्।) श्रुतं भवद्भिरधरोत्तरम् ।
आ जन्मनः शाठ्यमशिक्षितो यस्तस्याप्रमाणं वचनं जनस्य ।
परातिसन्धानमधीयते यैर्विद्येति ते सन्तु किलाप्तवाचः ॥२५॥
राजा- भोः सत्यवादिन् ! अभ्युपगतं तावदस्माभिरेवम् । किं पुनरिमामतिसन्धाय लभ्यते?शार्ङ्गरवः - विनिपातः ।
राजा - विनिपातः पौरवैः पार्थ्यत इति न श्रध्देयमेतत् ।
शारद्वतः – शार्ङ्गरव ! किमुत्तरेण ? अनुष्ठिते गुरोः सन्देशः । प्रतिनिवर्तामहे वयम् ।(राजानं प्रति।)
तदेषा भवतः कान्ता त्यज वैनां गृहाण वा ।
उपपन्ना हि दारेषु प्रभुता सर्वतोमुखी ॥२६॥
गौतमी ! गच्छाग्रतः ।
(इति प्रस्थिताः ।)शकुन्तला – कथमनेन कितवेन विप्रलब्धाऽस्मि, यूयमपि मां परित्यजथ?
(इत्यनुप्रतिष्ठते।)
गौतमी - (स्थित्वा।) वत्स शार्ङ्गरव ! अनुगच्छतीयं खलु नः करुणपरिदेविनी शकुन्तला। प्रत्यादेशपरुषे भर्तरि किं वा मे पुत्रिका करोतु?
शार्ङ्गरवः - (सरोषं निवृत्त्य।) किं पुरोभागे ! स्वातन्त्र्यमवलम्बसे?(शकुन्तला भीता वेपते।)
शार्ङ्गरवः - शकुन्तले !
यदि यथा वदति क्षितिपस्तथा त्वमसि किं पितुरुत्कुलया त्वया ।
अथ तु वेत्सि शुचि व्रतमात्मनः पतिकुले तव दास्यमपि क्षमम् ॥२७॥तिष्ठ । साधयामो वयम् ।
राजा- भोस्तपस्विन् ! किमत्रभवतीं विप्रलभसे?
कुमुदान्येव शशाङ्कः सविता बोधयति पङ्कजान्येव ।
वशिनां हि परपरिग्रहसंश्लेषपराङ्मुखी वृत्तिः ॥२८॥
शार्ङ्गरवः - यदा तु पूर्ववृत्तमन्यसङ्गाद्विस्मृतो भवांस्तदा कथमधर्मभीरुः?
राजा – (पुरोहितं प्रति।) भवन्तमेवात्र गुरुलाघवं पृच्छामि ।
मूढः स्यामहमेषा वा वदेन्मिथ्येति संशये ।
दारत्यागी भवाम्याहो परस्त्रीस्पर्शपांसुलः ॥२९॥
पुरोहितः - (विचार्य।) यदि तावदेवं क्रियताम् ।
राजा - अनुशास्तु मां भवान् ।
पुरोहितः - अत्रभवती तावदाप्रसवादस्मद्गृहे तिष्ठतु । कुत इदमुच्यत इति चेत् ; त्वं साधुभिरादिष्टपूर्वः प्रथममेव चक्रवर्तिनं पुत्रं जनयिष्यसीति । स चेन्मुनिदौहित्रस्तल्लक्षणोपपन्नो भविष्यति,अभिनन्द्य शुध्दान्तमेनां प्रवेशयिष्यसि। विपर्यये तु पितुरस्याःसमीपनयनमवस्थितमेव ।
राजा - यथा गुरुभ्यो रोचते ।
पुरोहितः- वत्से ! अनुगच्छ माम् ।
शकुन्तला- भगवति वसुधे ! देहि मे विवरम्।
(इति रुदती प्रस्थिता । निष्क्रान्ता सह पुरोधसा तपस्विभिश्च राजा शापव्यवहितस्मृतिः शकुन्तलागतमेव चिन्तयति ।)
(नेपथ्ये।)
आश्चर्यमाश्चर्यम् ।
राजा- (आकर्ण्य।) किं नु खलु स्यात्?
(प्रविश्य।)
पुरोहितः - (सविस्मयम्।) देव ! अद्भुतं खलु संवृत्तम्!राजा - किमिव?
पुरोहितः- देव ! परावृत्तेषु कण्वशिष्येषु -
सा निन्दन्ती स्वानि भाग्यानि बाला
बाहूत्क्षेपं क्रन्दितुं च प्रवृत्ता ।
राजा- किं च ।
पुरोहितः- स्त्रीसंस्थानं चाप्सरस्तीर्थमारा-
दुत्क्षिप्यैनां ज्योतिरेकं जगाम ॥३०॥
(सर्वे विस्मयं रूपयन्ति।)
राजा- भगवन् ! प्रागपि सोऽस्माभिरर्थः प्रत्यादिष्ट एव । किं वृथा तर्केणान्विष्यते? विश्राम्यतु भवान् ।
पुरोहितः- (विलोक्य।) विजयस्व ।
(इति निष्क्रान्तः।)
राजा- वेत्रवति ! पर्याकुलोऽस्मि । शयनभूमिमार्गमादेशय ।
प्रतीहारी- इत इतो देवः ।
(इति प्रस्थिता।)
राजा -
कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनयाम् ।
बलवत्तु दूयमानं प्रत्याययतीव मे हृदयम् ॥३१॥
(इति निष्क्रान्ताः सर्वे।)
॥ इति पञ्चमोऽङ्कः॥