।।अथ चतुर्थोऽङ्कः।।
(ततः प्रविशतः कुसुमावचयं नाटयन्त्यौ सख्यौ ।)
अनसूया- प्रियंवदे ! यद्यपि गान्धर्वेण विधिना निर्वृत्तकल्याणा शकुन्तलाऽनुरूपभर्तृगामिनी संवृत्तेति निर्वृतं मे हृदयम्, तथाप्येतावत् चिन्तनीयम् ।
प्रियंवदा - कथमिव?
अनसूया- अद्य स राजर्षिरिष्टिं परिसमाप्य ऋषिभिर्विसर्जित आत्मनो नगरं प्रविश्यान्तःपुरसमागत इतोगतं वृत्तान्तं स्मरति वा न वेति ।
प्रियंवदा - विस्रब्धा भव । न तादृशा आकृतिविशेषा गुणविरोधिनो भवन्ति । तात इदानीमिमं वृत्तान्तं श्रुत्वा न जाने किं प्रतिपत्स्यत इति ।
अनसूया - यथाहं पश्यामि, तथा तस्यानुमतं भवेत् ।
प्रियंवदा- कथमिव?
अनसूया- गुणवते कन्यका प्रतिपादनीयेत्ययं तावत्प्रथमः सङ्कल्पः। तं यदि दैवमेव सम्पादयति, नन्वप्रयासेन कृतार्थो गुरुजनः ।
प्रियंवदा- (पुष्पभाजनं विलोक्य ।) सखि ! अवचितानि बलिकर्मपर्याप्तानि कुसुमानि ।
अनसूया- ननु सख्याः शकुन्तलायाः सौभाग्यदेवताऽर्चनीया ।
प्रियंवदा- युज्यते ।
(इति तदेव कर्मारभेते ।)
(नेपथ्ये ।)
अयमहं भोः !अनसूया- (कर्णं दत्वा ।) सखि ! अतिथीनामिव निवेदितम् ।प्रियंवदा – (आत्मगतम्) ननूटजसन्निहिता शकुन्तला। अद्य पुनर्हृदयेनासन्निहिता ।
अनसूया – भवतु ; अलमेतावद्भिः कुसुमैः ।
(इति प्रस्थिते ।)
(नेपथ्ये ।)
आः अतिथिपरिभाविनि!
विचिन्तयन्ती यमनन्यमानसा तपोधनं वेत्सि न मामुपस्थितम् ।
स्मरिष्यति त्वां न स बोधितोऽपि सन् कथां प्रमत्तः प्रथमं कृतामिव ॥१॥प्रियंवदा- हा धिक्! हा धिक्! अप्रियमेव संवृत्तम् । कस्मिन्नपि पूजार्हेऽपराद्धा शून्यहृदया शकुन्तला ।
(पुरोऽवलोक्य ।) न खलु यस्मिन् कस्मिन्नपि । एष दूर्वासाः सुलभकोपो महर्षिः । तथा शप्त्वा वेगबलोत्फुल्लया दुर्वारया गत्या प्रतिनिवृत्तः।
अनसूया- कोऽन्यो हुतवहाद्दग्धुं प्रभवति? गच्छ, पादयोः प्रणम्य निवर्तयैनं, यावदहमर्घोदक-मुपकल्पयामि ।
प्रियंवदा- तथा ।
(इति निष्क्रान्ता ।)
अनसूया- (पदान्तरे स्खलितं निरूप्य ।) अहो, आवेगस्खलितया गत्या प्रभ्रष्टं ममाग्रहस्तात् पुष्पभाजनम्। (इति पुष्पोच्चयं रूपयति ।)
(प्रविश्य ।)
प्रियंवदा- सखि ! प्रकृतिवक्रः स कस्यानुनयं प्रतिगृह्णाति? किमपि पुनः सानुक्रोशः कृतः ।अनसूया- (सस्मितम् ।) तस्मिन् बह्वेतदपि कथय ।
प्रियंवदा- यदा निवर्तितुं नेच्छति तदा विज्ञापितो मया ।‘भगवन् ! प्रथम इति प्रेक्ष्याऽविज्ञाततपः प्रभावस्य दुहितृजनस्य भगवतैकोऽपराधो मर्षयितव्य’ इति ।
अनसूया- ततस्ततः ?
प्रियंवदा- ततो “न मे वचनमन्यथाभवितुमर्हति, किन्त्वभिज्ञानाभरणदर्शनेन शापो निर्वर्तिष्यते” इति मन्त्रयमाण एवान्तर्हितः।
अनसूया- शक्यमिदानीमाश्वसितुम् । अस्ति तेन राजर्षिणा सम्प्रस्थितेन स्वनामधेयाङ्कित-मङ्गुलीयकं स्मरणीयमिति स्वयं पिनद्धम् । तस्मिन्स्वाधीनोपाया शकुन्तला भविष्यति ।
प्रियंवदा- सखि ! एहि ; देवकार्यं तावन्निर्वर्तयावः ।
(इति परिक्रामतः।)प्रियंवदा – (विलोक्य ।) अनसूये ! पश्य तावत्; वामहस्तोपहितमदनाऽलिखितेव प्रियसखी । भर्तृगतया चिन्तयात्मानमपि नैषा विभावयति । किं पुनरागन्तुकम् ?
अनसूया- प्रियंवदे ! द्वयोरेव ननु नौ मुख एष वृत्तान्तस्तिष्ठतु । रक्षितव्या खलु प्रकृतिपेलवा प्रियसखी।
प्रियंवदा- को नामोष्णोदकेन नवमालिकां सिञ्चति?
(इत्युभे निष्क्रान्ते)
।।इति विष्कम्भकः ।।
(ततः प्रविशति सुप्तोत्थितः शिष्यः।)
शिष्यः- वेलोपलक्षणार्थमादिष्टोऽस्मि तत्रभवता प्रवासादुपावृत्तेन काश्यपेन । प्रकाशं निर्गतस्तावदवलोकयामि कियदवशिष्टं रजन्या इति । (परिक्रम्यावलोक्य च ।)
हन्त, प्रभातम्। तथा हि, -
यात्येकतोऽस्तशिखरं पतिरोषधीनामाविष्कृतारुणपुरःसर एकतोऽर्कः ।
तेजोद्वयस्य युगपद्वयसनोदयाभ्यां लोको नियम्यत इवात्मदशान्तरेषु ॥२॥
अपि च ,
अन्तर्हिते शशिनि सैव कुमुद्वती मे दृष्टिं न नन्दयति संस्मरणीयशोभा ।
इष्टप्रवासजनितान्यबलाजनस्य दुःखानि नूनमतिमात्र सुदुःसहानि ॥३॥
(प्रविश्यापटीक्षेपेण)
अनसूया- यद्यपि नाम विषयपराङ्मुखस्यापि जनस्यैतन्न विदितं तथापि तेन राज्ञा शकुन्तलाया-मनार्यमाचरितम् ।
शिष्यः - यावदुपस्थितां होमवेलां गुरवे निवेदयामि ।
(इति निष्क्रान्तः ।)
अनसूया- प्रतिबुद्धाऽपि किं करिष्ये ? न म उचितेष्वपि निजकार्येषु हस्तपादं प्रसरति। काम इदानीं सकामो भवतु । येनासत्यसन्धे जने शून्यहृदया सखी पदं कारिता । अथवा दुर्वाससः शाप (कोपः) एष विकारयति । अन्यथा कथं स राजर्षिस्तादृशानि मन्त्रयित्वैतावतः कालस्य लेखमात्रमपि न विसृजति? तदितोऽभिज्ञानमङ्गुलीयकं तस्य विसृजावः । दुःखशीले तपस्विजने कोऽभ्यर्थ्यताम्? ननु सखीगामी दोष इति व्यवसिताऽपि न पारयामि, प्रवासप्रतिनिवृत्तस्य तातकाश्यपस्य दुष्यन्तपरिणीतामापन्नसत्वां शकुन्तलां निवेदयितुम् । इत्थङ्गतेऽस्माभिः किं करणीयम्?
(प्रविश्य ।)
प्रियंवदा - (सहर्षम् ।) सखि ! त्वरस्व त्वरस्व शकुन्तलायाः प्रस्थानकौतुकं निर्वर्तयितुम् ।
अनसूया- सखि ! कथमेतत्?
प्रियंवदा- शृणु ; इदानीं सुखशयितपृच्छिका शकुन्तलासकाशं गतास्मि ।
अनसूया – ततस्ततः?
प्रियंवदा- तावदेनां लज्जावनतमुखीं परिष्वज्य तातकाश्यपेनैवमभिनन्दितम् । दिष्ट्या धूमाकुलितदृष्टेरपि यजमानस्य पावक एवाहुतिः पतिता । वत्से ! सुशिष्यपरिदत्ता विद्येवाशोचनीया संवृत्ता । अद्यैव ऋषिरक्षितां त्वां भर्तुः सकाशं विसर्जयामीति ।
अनसूया- अथ केन सूचितस्तातकाश्यपस्य वृत्तान्तः?
प्रियंवदा- अग्निशरणं प्रविष्टस्य शरीरं विना छन्दोमय्या वाण्या ।
(संस्कृतमाश्रित्य ।)
दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ।
अवेहि तनयां ब्रह्मन्नग्निगर्भां शमीमिव ॥४॥
अनसूया- (प्रियंवदामाश्लिष्य ।) सखि ! प्रियं मे ; किन्त्वद्यैव शकुन्तला नीयत इत्युत्कण्ठासाधारणं परितोषमनुभवामि ।
प्रियंवदा - सखि ! आवां तावदुत्कण्ठां विनोदयिष्यावः । सा तपस्विनी निर्वृता भवतु ।
अनसूया- तेन ह्येतस्मिंश्चूतशाखावलम्बिते नालिकेरसमुद्गक एतन्निमित्तमेव कालान्तरक्षमा निक्षिप्ता मया केसरमालिका । तदिमां हस्तसन्निहितां कुरु । यावदहमपि तस्यै मृगरोचनां तीर्थमृत्तिकां दूर्वाकिसलयानीति मङ्गलसमालम्भनानि विरचयामि ।
प्रियंवदा- तथा क्रियताम् ।
(अनसूया निष्क्रान्ता । प्रियंवदा नाट्येन सुमनसो गृह्णाति ।)
(नेपथ्ये ।)
गौतमि ! आदिश्यन्तां शार्ङ्गरवमिश्राः शकुन्तलानयनाय ।प्रियंवदा - (कर्णं दत्वा ।) अनसूये ! त्वरस्व त्वरस्व, एते खलु हस्तिनापुरगामिनः ऋषयः शब्दाय्यन्ते ।
(प्रविश्य समालम्भनहस्ता ।)
अनसूया – सखि ! एहि । गच्छावः । (इतिपरिक्रामतः ।)
प्रियंवदा- (विलोक्य ।) एषा सूर्योदय एव शिखामज्जिता प्रतिष्ठितनीवारहस्ताभिः
स्वस्तिवाचनिकाभिस्तापसीभिरभिनन्द्यमाना शकुन्तला तिष्ठति । उपसर्पाव एनाम् । (इत्युपसर्पतः।)
(ततः प्रविशति यथोद्दिष्टव्यापारासनस्था शकुन्तला ।)
तापसीनामन्यतमा- (शकुन्तलां प्रति ।) जाते ! भर्तुर्बहुमानसूचकं महादेवीशब्दं लभस्व ।
द्वितीया- वत्से ! वीरप्रसविनी भव ।
तृतीया- वत्से ! भर्तुर्बहुमता भव ।
(इत्याशिषो दत्त्वा गौतमीवर्जं निष्क्रान्ताः।)
सख्यौ- (उपसृत्य ।) सखि ! सुखमज्जनं ते भवतु ।
शकुन्तलां- स्वागतं मे सख्योः । इतो निषीदतम् ।
उभे- (मङ्गलपात्राण्यादाय उपविश्य ।) हला ! सज्जा भव, यावत्ते मङ्गलसमालम्भनं विरचयावः ।
शकुन्तला- इदमपि बहु मन्तव्यम् । दुर्लभमिदानीं मे सखीमण्डनं भविष्यतीति ।
(इति वाष्पं विसृजति)
उभे- सखि ! उचितं न ते मङ्गलकाले रोदितुम् ।
(इत्यश्रूणि प्रमृज्य नाट्येन प्रसाधयतः ।)प्रियंवदा- आभरणोचितं रूपमाश्रमसुलभैः प्रसाधनैर्विप्रकार्यते ।
(प्रविश्योपायनहस्तावृषिकुमारकौ ।)
उभे- इदमलङ्करणम् । अलङ्क्रियतामत्रभवती ।
(सर्वा विलोक्य विस्मिताः।)
गौतमी- वत्स नारद ! कुत एतत्?प्रथमः- तातकाश्यपप्रभावात् ।
गौतमी- किं मानसी सिद्धिः ?
द्वितीयः- न खलु ; श्रूयताम् । तत्रभवता वयमाज्ञाप्ताः शकुन्तलाहेतोर्वनस्पतिभ्यः कुसुमान्या-हरतेति । तत इदानीम् -
क्षौमं केनचिदिन्दुपाडुतरुणा माङ्गल्यमाविष्कृतं
निष्ठ्यूतश्चरणोपभोगसुलभो लाक्षारसः केनचित् ।
अन्येभ्यो वनदेवताकरतलैरापर्वभागोत्थितै-
र्दत्तान्याभरणानि तत्किसलयोद्भेदप्रतिद्वन्दिभिः ॥५॥
प्रियंवदा- (शकुन्तलां विलोक्य ।) हला ! अनयाभ्युपपत्त्या सूचिता ते भर्तुर्गेहेऽनुभवितव्या राजलक्ष्मीरिति ।
(शकुन्तला व्रीडां निरूपयति ।)प्रथमः - गौतम ! एह्येहि ; अभिषेकोत्तीर्णाय काश्यपाय वनस्पतिसेवां निवेदयावः ।
द्वितीयः- तथा । (इति निष्क्रान्तौ ।)
सख्यौ- अये ! अनुपयुक्तभूषणोऽयं जनः । चित्रकर्मपरिचयेनाङ्गेषु त आभरणविनियोगं कुर्वः ।
शकुन्तला- जाने वां नैपुण्यम् ।
(उभे नाट्येनालङ्कुरुतः। )(ततः प्रविशति स्नानोत्तीर्णः काश्यपः। )
काश्यपः -
यास्यत्यद्य शकुन्तलेति हृदयं संस्पृष्टमुत्कण्ठया
कण्ठः स्तम्भितबाष्पवृत्तिकलुषश्चिन्ताजडं दर्शनम् ।
वैक्लव्यं मम तावदीदृशमिदं स्नेहादरण्यौकसः
पीड्यन्ते गृहिणः कथं नु तनयाविश्लेषदुःखैर्नवैः ॥६॥
(इति परिक्रामति ।)
सख्यौ – हला शकुन्तले ! अवसितमण्डनासि । परिधत्स्व साम्प्रतं क्षौमयुगलम् ।
गौतमी – जाते ! एष त आनन्दपरिवाहिणा चक्षुषा परिष्वजमान इव गुरुरुपस्थितः । आचारं तावत्प्रतिपद्यस्व ।
शकुन्तला- (सव्रीडम् ।) तात ! वन्दे ।
काश्यपः – वत्से !
ययातेरिव शर्मिष्ठा भर्तुर्बहुमता भव ।
सुतं त्वमपि सम्राजं सेव पूरुमवाप्नुहि ॥७॥
गौतमी - भगवन् ! वरः खल्वेषः ; नाशिषः ।काश्यपः- वत्से ! इतस्सद्यो हुताग्नीन् प्रदक्षिणीकुरुष्व ।(सर्वे परिक्रामन्ति ।)
काश्यपः – (ऋक्छन्दसाऽऽशास्ते ।) वत्से !
अमी वेदिं परितः क्लृप्तधिष्ण्याः समिद्वन्तः प्रान्तसंस्तीर्णदर्भाः
अपघ्नन्तो दुरितं हव्यगन्धैर्वैतानास्त्वां वह्नयः पावयन्तु ॥८॥
प्रतिष्ठस्वेदानीम् । (सदृष्ठिक्षेपम् ।) क्व ते शार्ङ्गरवमिश्राः?
(प्रविश्य ।)
शिष्याः – भगवन् ! इमे स्मः ।
काश्यपः – भगिन्यास्ते मार्गमादेशय ।
शार्ड्गरवः – इत इतो भवती ।
(सर्वे परिक्रामन्ति ।)काश्यपः- भो भोः ! सन्निहितास्तपोवनतरवः।पातुं न प्रथमं व्यवस्यति जलं युष्मास्वपीतेषु या
नादत्ते प्रियमण्डनापि भवतां स्नेहेन या पल्लवम् ।
आद्ये वः कुसुमप्रसूतिसमये यस्या भवत्युत्सवः
सेयं याति शकुन्तला पतिगृहं सर्वैरनुज्ञायताम् ॥९॥
(कोकिलरवं सूचयित्वा।)
अनुमतगमना शकुन्तला तरुभिरियं वनवासबन्धुभिः ।
परभृतविरुतं कलं यथा प्रतिवचनीकृतमेभिरीदृशम् ॥१०॥
(आकाशे ।)
रम्यान्तरः कमलिनीहरितैः सरोभिश्छायाद्रुमैर्नियमितार्कमयूखतापः ।
भूयात्कुशेशयरजोमृदुरेणुरस्याः शान्तानुकूलपवनश्च शिवश्च पन्थाः ॥११॥
(सर्वे सविस्मयमाकर्णयन्ति ।)
गौतमी- जाते ! ज्ञातिजनस्निग्धाभिरनुज्ञातगमनासि तपोवनदेवताभिः । प्रणम भगवतीः ।
शकुन्तला- (सप्रणामं परिक्रम्य, जनान्तिकम् ।) हला प्रियंवदे! आर्यपुत्रदर्शनोत्सुकाया अप्याश्रमपदं परित्यजन्त्या दुःखेन मे चरणौ पुरतः प्रवर्तेते ।
प्रियंवदा- न केवलं तपोवनविरहकातरा सख्येव । त्वयोपस्थितवियोगस्य तपोवनस्यापि तावत्समवस्था दृश्यते।
उद्गलितदर्भकवला मृग्यः परित्यक्तनर्तना मयूराः ।
अपसृतपाण्डुपत्रा मुञ्चन्त्यश्रूणीव लताः ॥१२॥
शकुन्तला- (स्मृत्वा ।) तात ! लताभगिनीं वनज्योत्स्नां तावदामन्त्रयिष्ये ।
काश्यपः- अवैमि ते तस्यां सोदर्यस्नेहम् । इयं तावद्दक्षिणेन ।
शकुन्तला – (उपेत्य लतामालिङ्ग्य ।) वनज्योत्स्ने ! चूतसङ्गतापि मां प्रत्यालिङ्गेतो गताभिः शाखाबाहुभिः । अद्यप्रभृति दूरपरिवर्तिनी ते खलु भविष्यामि ।
काश्यपः -
सङ्कल्पितं प्रथममेव मया तवार्थे भर्तारमात्मसदृशं सुकृतैर्गता त्वम् ।
चूतेन संश्रितवती नवमालिकेयमस्यामहं त्वयि च सम्प्रति वीतचिन्तः ॥१३॥
इतः पन्थानं प्रतिपद्यस्व ।
शकुन्तला – (सख्यौ प्रति ।) हला ! एषा द्वयोर्युवयोर्हस्ते निक्षेपः ।
सख्यौ - अयं जनः कस्य हस्ते समर्पितः?
(इति वाष्पं विरहतः)
काश्यपः- अनसूये ! अलं रुदित्वा । ननु भवतीभ्यामेव स्थिरीकर्तव्या शकुन्तला।
(सर्वे परिक्रामन्ति ।)
शकुन्तला- तात ! एषोटजपर्यन्तचारिणी गर्भमन्थरा मृगवधूर्यदाऽनघप्रसवा भवति, तदा मह्यं कमपि प्रियनिवेदयितृकं विसर्जयिष्यथ ।
काश्यपः- नेदं विस्मरिष्यामः ।
शकुन्तला - ( गतिभङ्गं रूपयित्वा ।) को नु खल्वेष निवसने मे सज्जते?
काश्यपः- वत्से !
यस्य त्वया व्रणविरोपणमिङ्गुदीनां तैलं न्यषिच्यत मुखे कुशसूचिविद्धे ।
श्यामाकमुष्टिपरिवर्धितको जहाति सोऽयं न पुत्रकृतकः पदवीं मृगस्ते ॥१४॥शकुन्तला – वत्स! किं सहवासपरित्यागिनीं मामनुसरसि? अचिरप्रसूतया जनन्या विना वर्धित एव । इदानीमपि मया विरहितं त्वां तातश्चिन्तयिष्यति । निवर्तस्व तावत् ।
(इति रुदती प्रस्थिता ।)काश्यपः -
उत्पक्ष्मणोर्नयनयोरुपरुद्धवृत्तिं बाष्पं कुरु स्थिरतया विहतानुबन्धम् ।
अस्मिन्नलक्षितनतोन्नतभूमिभागे मार्गे पदानि खलु ते विषमीभवन्ति ॥१५॥शार्ङ्गरवः – भगवन् ! उदकान्तं स्निग्धो जनोऽनुगन्तव्य इति श्रूयते । तदिदं सरस्तीरम् । अत्र सन्दिश्य प्रतिगन्तुमर्हसि ।काश्यपः- तेन हीमां क्षीरवृक्षच्छायामाश्रयामः ।
(सर्वे परिक्रम्य स्थिताः।)
काश्यपः- (आत्मगतम्।) किं नु खलु तत्रभवतो दुष्यन्तस्य युक्तरूपमस्माभिः सन्देष्टव्यम्? (इति चिन्तयति ।)
शकुन्तला - (जनान्तिकम् ।) हला ! पश्य, नलिनीपत्रान्तरितमपि सहचरमपश्यन्त्यातुरा चक्रवाक्यारौति दुष्करमहं करोमीति ।
अनसूया- सखि ! मैवं मन्त्रयस्व ।
एषापि प्रियेण विना गमयति रजनीं विषाददीर्घतराम् ।
गुर्वपि विरहदुःखमाशाबन्धः साहयति ॥१६॥
काश्यपः – शार्ङ्गरव ! इति त्वया मद्वचनात् स राजा शकुन्तलां पुरस्कृत्य वक्तव्यः ।
शार्ङ्गरवः - आज्ञापयतु भवान् ।
काश्यपः -
अस्मान्साधु विचिन्त्य संयमधनानुच्चैः कुलं चात्मन-
स्त्वय्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च ताम् ।
सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया
भाग्यायत्तमतः परं न खलु तद्वाच्यं वधूबन्धुभिः ॥१७॥
शार्ङ्गरवः – गृहीतः सन्देशः ।
काश्यपः - वत्से ! त्वमिदानीमनुशासनीयाऽसि । वनौकसोऽपि सन्तो लौकिकज्ञा वयम् ।
शार्ङ्गरवः – न खलु धीमतां कश्चिदविषयो नाम।
काश्यपः - सा त्वमितः पतिकुलं प्राप्य, -
शुश्रूषस्व गुरुन्कुरु प्रियसखीवृत्तिं सपत्नीजने
भर्तुर्विप्रकृतापि रोषणतया मा स्म प्रतीपं गमः ।
भूयिष्ठं भव दक्षिणा परिजने भाग्येष्वनुत्सेकिनी
यान्त्येवं गृहिणीपदं युवतयो वामाः कुलस्याधयः ॥१८॥
कथं वा गौतमी मन्यते?
गौतमी – एतावान्वधूजनस्योपदेशः । जाते ! एतत्खलु सर्वमवधारय ।
काश्यपः- वत्से ! परिष्वजस्व मां सखीजनं च ।
शकुन्तला - तात ! इत एव किं प्रियंवदाऽनसूये सख्यौ निवर्तिष्येते?
काश्यपः - वत्से ! इमे अपि प्रदेये । न युक्तमनयोस्तत्र गन्तुम् । त्वया सह गौतमी यास्यति ।
शकुन्तला- (पितरमाश्लिष्य ।) कथमिदानीं तातस्याङ्कात्परिभ्रष्टा मलयतरून्मूलिता चन्दनलतेव देशान्तरे जीवितं धारयिष्यामि?
काश्यपः- वत्से ! किमेवं कातरासि?
अभिजनवतो भर्तुः श्लाघ्ये स्थिता गृहिणीपदेविभवगुरुभिः कृत्यैस्तस्य प्रतिक्षणमाकुला ।
तनयमचिरात्प्राचीनार्कं प्रसूय च पावनं
मम विरहजां न त्वं वत्से ! शुचं गणयिष्यसि ॥१९॥(शकुन्तला पितुः पादयोः पतति ।)काश्यपः - यदिच्छामि ते तदस्तु ।
शकुन्तला – (सख्यावुपेत्य ।) हला ! द्वे अपि मां सममेव परिष्वजेथाम् ।
सख्यौ - (तथा कृत्वा ।) सखि ! यदि नाम स राजा प्रत्यभिज्ञानमन्थरो भवेत्, ततस्तस्मै इदमात्मनामधेयाङ्कितमङ्गुलीयकं दर्शय ।
शकुन्तला – अनेन सन्देहेन वामाकम्पिताऽस्मि।
सख्यौ - मा भैषीः । अतिस्नेहः पापशङ्की।
शार्ङ्गरवः – युगान्तरमारूढः सविता । त्वरतामत्रभवती ।
शकुन्तला – (आश्रमाभिमुखी स्थित्वा ।) तात ! कदा नु भूयस्तपोवनं प्रेक्षिष्ये?
काश्यपः - श्रूयताम् -
भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं तनयं निवेश्य ।
भर्त्रा तदर्पितकुटुम्बभरेण सार्धं शान्ते करिष्यसि पदं पुनराश्रमेऽस्मिन् ॥२०॥गौतमी - जाते ! परिहीयते गमनवेला। निवर्तय पितरम् । अथवा चिरेणापि पुनः पुनरेषैवं मन्त्रयिष्यते । निवर्ततां भवान् ।
काश्यपः- वत्से ! उपरुध्यते तपोऽनुष्ठानम् ।
शकुन्तला – (भूयः पितरमश्लिष्य ।) तपश्चरणपीडितं तातशरीरम् । तन्माऽतिमात्रं मम कृत उत्कण्ठस्व ।
काश्यपः – (सनिःश्वासम् ।)
शममेष्यति मम शोकः कथं नु वत्से! त्वया रचितपूर्वम्? ।
उटजद्वारविरूढं नीवारबलिं विलोकयतः ॥ २१ ॥गच्छ ; शिवास्ते पन्थानः सन्तु ।(निष्क्रान्ता शकुन्तला सहयायिनश्च ।)
सख्यौ- (शकुन्तलां विलोक्य ।) हा धिक्! हा धिक्! अन्तर्हिता शकुन्तला वनराज्या ।
काश्यपः – (सनिःश्वासम् ।) अनसूये ! गतवती वां सहचारिणी । निगृह्य शोकमनुगच्छतं मां प्रस्थितम् ।
उभे - तात ! शकुन्तलाविरहितं शून्यमिव तपोवनं कथं प्रविशावः?काश्यपः – स्नेहप्रवृत्तिरेवंदर्शिनी (सविमर्शं परिक्रम्य ।) हन्त भोः ! शकुन्तलां पतिकुलं विसृज्य लब्धमिदानीं स्वास्थ्यम् । कुतः?
अर्थो हि कन्या परकीय एव तामद्य सम्प्रेष्य परिग्रहीतुः ।
जातो ममायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ॥२२॥
(इति निष्क्रान्ताः सर्वे ।)
॥ इति चतुर्थोऽङ्कः ॥