।।अथ तृतीयोऽङ्कः।।

(ततः प्रविशति कुशानादाय यजमानशिष्यः।)
शिष्यः- अहो! महानुभावः पार्थिवो दुष्यन्तः । प्रविष्टमात्र एवाश्रमं तत्रभवति राजनि निरूपद्रवाणि नः कर्माणि प्रवृत्तानि भवन्ति ।
का कथा बाणसन्धाने ज्याशब्देनैव दूरतः ।
हुङ्कारेणेव धनुषः स हि विघ्नानपोहति ॥१॥

यावदिमान्वेदिसंस्तरणार्थं दर्भानृत्विग्भ्य उपनयामि । (परिक्रम्यावलोक्य च, आकाशे ।) प्रियंवदे ! कस्येदमुशीरानुलेपनं मृणालवन्ति च नलिनीपत्राणि नीयन्ते? (आकर्ण्य ।) किं व्रवीषि? “आतपलङ्घनात् बलवदस्वस्था शकुन्तला ; तस्याः शरीरनिर्वापणाय” इति? तर्हि त्वरितं गम्यताम् । सखि ! सा खलु भगवतः कण्वस्य कुलपतेरुच्छ्वसितम् । अहमपि तावद्वैतानिकं
शान्त्युदकमस्यै गौतमीहस्ते विसर्जयिष्यामि ।

(इति निष्क्रान्तः।)

इति विष्कम्भकः

(ततः प्रविशति कामयमानावस्थो राजा ।)
राजा- (निःश्वस्य ।)
जाने तपसो वीर्यं सा बाला परवतीति मे विदितम् ।
अलमस्मि ततो हृदयं तथापि नेदं निवर्तयितुम् ॥२॥
(मदनबाधां निरूप्य ।) भगवन्कुसुमायुध ! त्वया चन्द्रमसा च विश्वसनीयाभ्यामतिसन्धीयते कामिजनसार्थः । कुतः –
तव कुसुमशरत्वं शीतरश्मित्वमिन्दो-
र्द्वयमिदमयथार्थं दृश्यते मद्विधेषु ।
विसृजति हिमगर्भैरग्निमिन्दुर्मयूखै-
स्त्वमपि कुसुमबाणान्वज्रसारीकरोषि ॥३॥
अथवा
{अनिशमपि मकरकेतुर्मनसो रुजमावहन्नभिमतो मे ।
यदि मदिरायतनयनां तामधिकृत्य प्रहरतीति }
(सखेदं परिक्रम्य ।)क्व नु खलु संस्थिते कर्मणि सदस्यैरनुज्ञातः श्रमक्लान्तमात्मानं विनोदयामि? (निःश्वस्य ।) किं नु खलु मे प्रियादर्शनादृते शरणमन्यत्? यावदेनामन्विष्यामि । (सूर्यमवलोक्य ।)
इमामुग्रातपवेलां प्रायेण लतावलयवत्सु मालिनीतीरेषु ससखीजना शकुन्तला गमयति । तत्रैव तावद्गच्छामि ।

(परिक्रम्य संस्पर्शं रूपयित्वा ।) अहो! प्रवातसुभगोऽयमुद्देशः ।शक्यमरविन्दसुरभिः कणवाही मालिनीतरङ्गाणाम् ।
अङ्गैरनङ्गतप्तैरविरलमालिङ्गितुं पवनः ॥४॥
(परिक्रम्यावलोक्य च ।) अस्मिन्वेतसपरिक्षिप्ते लतामण्डपे सन्निहितया शकुन्तलया भवितव्यम् । तथा हि – (अधो विलोक्य ।)
अभ्युन्नता पुरस्तादवगाढा जघनगौरवात्पश्चात् ।
द्वारेऽस्य पाण्डुसिकते पदपङ्क्तिर्दृश्यतेऽभिनवा ॥५॥
यावद्विटपान्तरेणावलोकयामि ।(परिक्रम्य तथा कृत्वा, सहर्षम्।) अये, लब्धं नेत्रनिर्वाणम् । एषा मे मनोरथप्रियतमा सकुसुमास्तरणं शिलापट्टमधिशयाना सखीभ्यामन्वास्यते । भवतु ; श्रोष्याम्यासां विश्रम्भकथितानि । (इति विलोकयन् स्थितः ।)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला।)
सख्यौ - (उपवीज्य सस्नेहम् ।) हला शकुन्तले ! अपि सुखयति ते नलिनीपत्रवातः?
शकुन्तला- किं वीजयतो मां सख्यौ?
(सख्यौ विषादं नाटयित्वा परस्परमवलोकयतः ।)
राजा- बलवदस्वस्थशरीरा शकुन्तला दृश्यते । (सवितर्कम् ।) तत्किमयमातपदोषः स्यात्, उत यथा मे मनसि वर्तते? (साभिलाषं निर्वर्ण्य ।) अथवा कृतं सन्देहेन, -
स्तनन्यस्तोशीरं शिथिलितमृणालैकवलयं
प्रियायाः साबाधं किमपि कमनीयं वपुरिदम् ।
समस्तापः कामं मनसिजनिदाघप्रसरयो –
र्न तु ग्रीष्मस्यैवं सुभगमपराध्दं युवतिषु ॥६॥
प्रियंवदा- (जनान्तिकम् ।) अनसूये ! तस्य राजर्षेः प्रथमदर्शनादारभ्य पर्युत्सुकेव शकुन्तला । किं नु खलु तस्यास्तन्निमित्तोऽयमातङ्को भवेत्?
अनसूया – सखि ! ममापीदृश्याशङ्का हृदयस्य । भवतु; प्रक्ष्यामि तावदेनाम् । (प्रकाशम् ।) सखि ! प्रष्टव्यासि किमपि । बलवान्खलु ते सन्तापः ।
शकुन्तला – (पूर्वार्धेन शयनादुत्थाय ।) हला ! किं वक्तुकामासि?

अनसूया – हला शकुन्तले ! अनभ्यन्तरे खल्वावां मदनगतस्य वृत्तान्तस्य । किन्तु यादृशी-तिहासनिबन्धेषु कामयमानानामवस्था श्रूयते तादृशीं तव पश्यामि ; कथय किन्निमित्तं ते सन्तापः? विकारं खलु परमार्थतोऽज्ञात्वाऽनारम्भः प्रतीकारस्य।

राजा- अनसूयामप्यनुगतो मदीयस्तर्कः । न हि स्वाभिप्रायेण मे दर्शनम् ।
शकुन्तला – (आत्मगतम् ।) बलवान् खलु मेऽभिनिवेशः। इदानीमपि सहसैतयोर्न शक्नोमि निवेदयितुम् ।
प्रियंवदा- सखि शकुन्तले ! सुष्ठ्वेषा भणति । किमात्मन आतङ्कमुपेक्षसे? अनुदिवसं खलु परिहीयसेऽङ्गैः। केवलं लावण्यमयी छाया त्वां न मुञ्चति ।
राजा- अवितथमाह प्रियंवदा। तथा हि, -
क्षामक्षामकपोलमाननमुरः काठिन्यमुक्तस्तनं
मध्यः क्लान्ततरः प्रकामविनतावंसौ छविः पाण्डुरा ।
शोच्या च प्रियदर्शना च मदनक्लिष्टेयमालक्ष्यते
पत्राणामिव शोषणेन मरुता स्पृष्टा लता माधवी ॥७॥
शकुन्तला- सखि ! कस्य वाऽन्यस्य कथयिष्यामि? किन्त्वायासयित्रीदानीं वां
भविष्यामि ।
उभे- अत एव खलु निर्बन्धः । स्निग्धजनसम्विभक्तं हि दुःखं सह्यवेदनं भवति।
राजा-

पृष्टा जनेन समदुःखसुखेन बाला नेयं न वक्ष्यति मनोगतमाधिहेतुम् ।
दृष्टो निवृत्य बहुशोऽप्यनया सतृष्णमत्रान्तरे श्रवणकातरतां गतोऽस्मि ॥८॥
शकुन्तला- सखि ! यतः प्रभृति मम दर्शनपथमागतः स तपोवनरक्षिता राजर्षिः, तत आरभ्य तद्गतेनाभिलाषेणैतदवस्थास्मि संवृत्ता ।
राजा- (सहर्षम् ।) श्रुतं श्रोतव्यम्;
स्मर एव तापहेतुर्निर्वापयिता स एव मे जातः ।
दिवस इवाभ्रश्यामस्तपात्यये जीवलोकस्य ॥९॥
शकुन्तला – तद्यदि वामनुमतं, तदा तथा वर्तेथां यथा तस्य राजर्षेरनुकम्पनीया भवामि । अन्यथाऽवश्यं सिञ्चितं मे तिलोदकम् ।
राजा- संशयच्छेदि वचनम्।
प्रियंवदा - (जनान्तिकम् ।) अनसूये ! दूरगतमन्मथाऽक्षमेयं कालहरणस्य । यस्मिन् बध्दभावैषा, स ललामभूतः पौरवाणाम् । तद्युक्तमस्या अभिलाषोऽभिनन्दितुम् ।
अनसूया – तथा यथा भणसि ।
प्रियवंदा- (प्रकाशम् ।) सखि ! दिष्ट्यानुरूपस्तेऽभिनिवेशः । सागरमुज्झित्वा कुत्र वा महानद्यवतरति? क इदानीं सहकारमन्तरेणातिमुक्तलतां पल्लवितां सहते?
राजा- किमत्र चित्रं यदि विशाखे शशाङ्कलेखामनुवर्तेते?
अनसूया - कः पुनरुपायो भवेद्येनाविलम्बितं निभृतं च सख्या मनोरथं सम्पादयावः?
प्रियंवदा- निभृतमिति चिन्तनीयं भवेत् । शीघ्रमिति सुकरम् ।
अनसूया – कथमिव?
प्रियंवदा- ननु स राजर्षिरेतस्यां स्निग्धदृष्ट्या सूचिताभिलाष एतान्दिवसान् प्रजागरकृशो लक्ष्यते ।
राजा - सत्यमित्थम्भूत एवास्मि । तथा हि, -

इदमशिशिरैरन्तस्तापाद्विवर्णमणीकृतं
निशि निशि भुजन्यस्तापाङ्गप्रसारिभिरश्रुभिः ।
अनभिलुलितज्याघाताङ्कं मुहुर्मणिबन्धनात्
कनकवलयं स्रस्तं स्रस्तं मया प्रतिसार्यते ॥१०॥
प्रियंवदा- (विचिन्त्य ।) हला ! मदनलेखोऽस्य क्रियताम् । इमं देवप्रसादस्यापदेशेन सुमनोगोपितं
कृत्वा तस्य हस्तं प्रापयिष्यामि ।
अनसूया- रोचते मे सुकुमारः प्रयोगः । किं वा शकुन्तला भणति?
शकुन्तला- को नियोगो वा विकल्प्यते?
प्रियंवदा- तेन ह्यात्मन उपन्यासपूर्वं चिन्तय तावत् किमपि ललितपदबन्धनम् ।
शकुन्तला- हला ! चिन्तयाम्यहम् । अवधीरणाभीरुकं पुनर्वेपते मे हृदयम् ।राजा- (सहर्षम् ।)
अयं स ते तिष्ठति सङ्गमोत्सुको विशङ्कसे भीरु ! यतोऽवधीरणाम्।लभेत वा प्रार्थयिता न वा श्रियं श्रिया दुरापः कथमीप्सितो भवेत् ? ॥११॥सख्यौ- अयि आत्मगुणावमानिनि ! क इदानीं शरीरनिर्वापयित्रीं शारदीं ज्योत्स्नां पटान्तेन वारयति?
शकुन्तला- (सस्मितम् ।) नियोजितेदानीमस्मि ।

(इत्युपविष्टा चिन्तयति ।)राजा- स्थाने खलु विस्मृतनिमेषेण चक्षुषा प्रियामवलोकयामि । यतः, -
उन्नमितैकभ्रूलतमाननमस्याः पदानि रचयन्त्याः ।
कण्टकितेन प्रथयति मय्यनुरागं कपोलेन ॥१२॥
शकुन्तला- हला ! चिन्तितं मया गीतवस्तु । न खलु सन्निहितानि पुनर्लेखनसाधनानि।
प्रियंवदा- एतस्मिञ्शुकोदरसुकुमारे नलिनीपत्रे नखैर्निक्षिप्तवर्णं कुरु ।
शकुन्तला- (यथोक्तं रूपयित्वा ।) हला ! शृणुतमिदानीं सङ्गतार्थं न वेति ।
उभे- अवहिते स्वः ।
शकुन्तला- (वाचयति ।)
तव न जाने हृदयं मम पुनः कामो दिवाऽपि रात्रावपि ।
निर्घृण ! तपति बलीयस्त्वयि वृत्तमनोरथान्यङ्गानि ॥१३॥
राजा- (सहसोपसृत्य ।)
तपति तनुगात्रि ! मदनस्त्वामनिशं मां पुनर्दहत्येव ।
ग्लपयति यथा शशाङ्कं न तथा हि कुमुद्वतीं दिवसः ॥१४॥
सख्यौ- (विलोक्य सहर्षमुत्थाय ।) स्वागतमविलम्बिनो मनोरथस्य ।
(शकुन्तलाऽभ्युत्थातुमिच्छति।)
राजा- अलमलमायासेन, -
सन्दष्टकुसुमशयनान्याशुक्लान्तबिसभङ्गसुरभीणि ।
गुरुपरितापानि न ते गात्राण्युपचारमर्हन्ति ॥१५॥
अनसूया- इतः शिलातलैकदेशमलङ्करोतु वयस्यः । (राजोपविशति । शकुन्तला सलज्जा तिष्ठति ।)
प्रियंवदा- द्वयोरपि युवयोरन्योन्यानुरागः प्रत्यक्षः । सखीस्नेहो मां पुनरुक्तवादिनीं करोति ।
राजा- भद्रे ! नैतत्परिहार्यम् । विवक्षितं ह्यनुक्तमनुतापं जनयति ।प्रियंवदा- आपन्नस्य विषयनिवासिनो जनस्यार्तिहरेण राज्ञा भवितव्यमित्येष युष्माकं धर्मः ।
राजा- नास्मात्परम् ।
प्रियंवदा- तेन हीयमावयोः प्रियसखी त्वामुद्दिश्येदमवस्थान्तरं भगवता मदनेनारोपिता । तदर्हस्यभ्युपपत्त्या जीवितं तस्या अवलम्बितुम् ।
राजा- भद्रे ! साधारणोऽयं प्रणयः । सर्वथानुगृहीतोऽस्मि ।
शकुन्तला- (प्रियंवदामवलोक्य ।) हला ! किमन्तःपुरविरहपर्युत्सुकस्य राजर्षेरुपरोधेन?
राजा-
इदमनन्यपरायणमन्यथा हृदयसन्निहिते ! हृदयं मम ।
यदि समर्थयसे मदिरेक्षणे मदनबाणहतोऽस्मि हतः पुनः ॥१६॥अनसूया- वयस्य ! बहुवल्लभा राजानः श्रूयन्ते । यथा नः प्रियसखी बन्धुजनशोचनीया न भवति तथा निर्वर्तय ।राजा- भद्रे ! किं बहुना, -
परिग्रहबहुत्वेऽपि द्वे प्रतिष्ठे कुलस्य मे ।
समुद्ररशना चोर्वी सखी च युवयोरियम् ॥१७॥
उभे- निर्वृते स्वः ।
प्रियंवदा- (सदृष्टिक्षेपम् ।) अनसूये ! यथैष इतो दत्तदृष्टिरुत्सुको मृगपोतको मातरमन्विष्यति । एहि, संयोजयाव एनम् ।

(इत्युभे प्रस्थिते ।)शकुन्तला - हला ! अशरणास्मि । अन्यतरा युवयोरागच्छतु ।
उभौ- पृथिव्या यः शरणं स तव समिपे वर्तते ।
(इति निष्क्रान्ते ।)
शकुन्तला- कथं गते एव?
राजा- अलमावेगेन । नन्वयमाराधयिता जनस्तव समीपे वर्तते।
किं शीतलैः क्लमविनोदिभिरार्द्रवातान् सञ्चारयामि नलिनीदलतालवृन्तैः ।
अङ्के निधाय करभोरु ! यथासुखं ते संवाहयामि चरणावुत पद्मताम्रौ ॥१८॥शकुन्तला- न माननीयेष्वात्मानमपराधयिष्ये ।(इत्युत्थाय गन्तुमिच्छति ।)
राजा- सुन्दरि ! अनिर्वाणो दिवसः । इयं च ते शरीरावस्था,
उत्सृज्य कुसुमशयनं नलिनीदलकल्पितस्तनावरणम् ।
कथमातपे गमिष्यसि परिबाधापेलवैरङ्गैः ॥१९॥
(इति बलादेनां निवर्तयति ।)
शकुन्तला- पौरव ! रक्ष विनयम् । मदनसन्तप्ताऽपि न खल्वात्मनः प्रभवामि ।राजा- भीरु ! अलं गुरुजनभयेन । दृष्टा ते विदितधर्मा तत्रभवान्न तत्र दोषं ग्रहीष्यति कुलपतिः । अपि च, -
गान्धर्वेण विवाहेन बह्वयो राजर्षिकन्यकाः ।
श्रूयन्ते परिणीतास्ताः पितृभिश्चाभिनन्दिताः ॥२०॥
शकुन्तला- मुञ्च तावन्माम् । भूयोऽपि सखीजनमनुमानयिष्ये ।
राजा- भवतु, मोक्ष्यामि ।
शकुन्तला- कदा?
राजा-

अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन ।अधरस्य पिपासता मया ते सदयं सुन्दरि ! गृह्यते रसोऽस्य ॥२१॥(इति मुखमस्याः समुन्नमयितुमिच्छति । शकुन्तला परिहरति नाट्येन ।)
(नेपथ्ये ।)

चक्रवाकवधुके ! आमन्त्रयस्व सहचरम् । उपस्थिता रजनी।
शकुन्तला – (ससम्भ्रमम् ।) पौरव ! असंशयं मम शरीरवृत्तान्तोपलम्भायार्या गौतमीत एवागच्छति । तद्विटपान्तरितो भव।राजा- तथा । (इत्यात्मानमावृत्य तिष्ठति ।)
(ततः प्रविशति पात्रहस्ता गौतमी सख्यौ च ।)
सख्यौ- इत इत आर्या गौतमी ।
गौतमी- (शकुन्तलामुपेत्य ।) जाते ! अपि लघुसन्तापानि तेऽङ्गानि?
शकुन्तला- आर्ये! अस्ति मे विशेषः ।
गौतमी- अनेन दर्भोदकेन निराबाधमेव ते शरीरं भविष्यति । (शिरसि शकुन्तलामभ्युक्ष्य ।)
वत्से ! परिणतो दिवसः । एहि, उटजमेव गच्छामः । (इति प्रस्थिताः ।)
शकुन्तला- (आत्मगतम् ।) हृदय! प्रथममेव सुखोपनते मनोरथे कातरभावं न मुञ्चसि । सानुशयविघटितस्य कथं ते साम्प्रतं सन्तापः? (पदान्तरे स्थित्वा, प्रकाशम् ।) लतावलय ! सन्तापहारक ! आमन्त्रये त्वां भूयोऽपि परिभोगाय ।
(इति दुःखेन निष्क्रान्ता शकुन्तला सहेतराभिः।)
राजा- (पूर्वस्थानमुपेत्य, सनिःश्वासम् ।) अहो, विघ्नवत्यः प्रार्थितार्थसिध्दयः ।
मया हि, -
मुहुरङ्गुलिसंवृताधरोष्ठं प्रतिषेधाक्षरविक्लवाभिरामम् ।
मुखमंसविवर्ति पक्ष्मलाक्ष्याः कथमप्युन्नमितं न चुम्बितं तु ॥२२॥क्व नु खलु सम्प्रति गच्छामि? अथवा, इहैव प्रियापरिभुक्तमुक्ते लतावलये मुहूर्तं स्थास्यामि । (सर्वतोऽवलोक्य ।)
तस्याः पुष्पमयी शरीरलुलिता शय्या शिलायामियं
क्लान्तो मन्मथलेख एष नलिनीपत्रे नखैरर्पितः ।
हस्ताद्भ्रष्टमिदं बिसाभरणमित्यासज्यमानेक्षणो
निर्गन्तुं सहसा न वेतसगृहाच्छक्नोमि शून्यादपि ॥२३॥
(आकाशे ।)

राजन्!
सायन्तने सवनकर्मणि सम्प्रवृत्ते वेदीं हुताशनवतीं परितः प्रयस्ताः ।
छायाश्चरन्ति बहुधा भयमादधानाः सन्ध्यापयोदकपिशाः पिशिताशनानाम् ॥२४॥राजा- अयमहमागच्छामि ।
(इति निष्क्रान्तः।)

॥ इति तृतीयोऽङ्कः ॥