।। अथ द्वितीयोऽङ्कः ।।

(ततः प्रविशति विषण्णो विदूषकः।)

विदूषकः - (निःश्वस्य ।) भो दिष्टम्। एतस्य मृगयाशीलस्य राज्ञो वयस्यभावेन निर्विण्णोऽस्मि । अयं मृगोऽयं वराहोऽयं शार्दूल इति मध्याह्नेऽपि ग्रीष्मविरलपादपच्छायासु वनराजिष्वाहिण्ड्यते अटवीतेऽटवी। पत्रसङ्करकषायाणि कटूनि गिरिनदीजलानि पीयन्ते । अनियतवेलं शूल्य-मांसभूयिष्ठ आहारो भुज्यते । तुरगानुधावनकण्डितसन्धे रात्रावपि निकामं शयितव्यं नास्ति । ततो महत्येव प्रत्यूषे दास्याः पुत्रैः शकुनिलुब्धकैर्वनग्रहणकोलाहलेन प्रतिबोधितोऽस्मि । इयतेदानी-मपि पीडा न निष्क्रामति । ततो गण्डस्योपरि पिटकः संवृत्तः । ह्यः किलास्मास्ववहीनेषु
तत्रभवतो मृगानुसारेणाश्रमपदं प्रविष्टस्य तापसकन्यका शकुन्तला ममाधन्यतया दर्शिता । साम्प्रतं नगरगमनाय मनः कथमपि च करोति। अद्यापि तस्य तामेव चिन्तयतोऽक्ष्णोः प्रभातमासीत् । का गतिः? यावत्तं कृताचारपरिक्रमं पश्यामि । (इति परिक्रम्यावलोक्य च।)

एष बाणासनहस्ताभिर्यवनीभिर्वनपुष्पमालाधारिणीभिः परिवृत्त इत एवागच्छति प्रियवयस्यः । भवतु; अङ्गभङ्गविकल इव भूत्वा स्थास्यामि । यद्येवमपि नाम विश्रामं लभेय।

(इति दण्डकाष्ठमवलम्ब्य स्थितः ।।)
(ततः प्रविशति यथानिर्दिष्टपरिवारो राजा ।)
राजा – (आत्मगतम् ।)

कामं प्रिया न सुलभा मनस्तु तद्भावदर्शनाश्वासि ।
अकृतार्थेऽपि मनसिजे रतिमुभयप्रार्थना कुरुते ॥१॥
(स्मितं कृत्वा।) एवमात्माभिप्रायसम्भावितेष्टजनचित्तवृत्तिः प्रार्थयिता विडम्ब्यते ।

स्निग्धं वीक्षितमन्यतोऽपि नयने यत्प्रेरयन्त्या तया
यातं यच्च नितम्बयोर्गुरुतया मन्दं विलासादिव ।
मा गा इत्युपरुद्धया यदपि सा सासूयमुक्ता सखी
सर्वं तत्किल मत्परायणमहो कामी स्वतां पश्यति ॥२॥
विदूषकः- (तथा स्थित एव ।) भो वयस्य ! न मे हस्तपादं प्रसरति । तद्वाङ्मात्रेण जापयिष्यामि । जयतु जयतु भवान् ।राजा - (सस्मितम् ।) कुतोऽयं गात्रोपघातः?
विदूषकः - कुतः किल स्वयमक्ष्याकुलीकृत्याश्रुकारणं पृच्छसि?
राजा - न खल्ववगच्छामि ।
विदूषकः- भो वयस्य ! यद्वेतसः कुब्जलीलां विडम्बयति, तत्किमात्मनः प्रभावेण, ननु नदीवेगस्य?
राजा - नदीवेगस्तत्र कारणम् ।
विदूषकः- ममापि भवान् ।
राजा - कथमिव?
विदूषकः – एवं राजकार्याण्युज्झित्वैतादृश आकुलप्रदेशे वनचरवृत्तिना त्वया भवितव्यम् । यत्सत्यं प्रत्यहं श्वापदसमुत्सारणैः सङ्क्षोभितसन्धिबन्धानां मम गात्राणामनीशोऽस्मि संवृत्तः । तत्प्रसादयिष्यामि विसर्जितुं मामेकाहमपि तावद्विश्रमितुम् ।
राजा - (स्वगतम्।) अयं चैवमाह। ममापि काश्यपसुतामनुस्मृत्य मृगयाविक्लवं चेतः। कुतः ?
न नमयितुमधिज्यमस्मि शक्तो धनुरिदमाहितसायकं मृगेषु ।
सहवसतिमुपेत्य यैः प्रियायाः कृत इव मुग्ध विलोकितोपदेशः ॥३॥
विदूषकः - (राज्ञो मुखं विलोक्य ।) अत्रभवान् किमपि हृदये कृत्वा मन्त्रयते । अरण्ये मया रुदितमासीत्।
राजा - (सस्मितम्।) किमन्यत्? अनतिक्रमणीयं मे सुहृद्वाक्यम् इति स्थितोऽस्मि ।
विदूषकः -चिरञ्जीव । (इति गन्तुमिच्छति ।)
राजा - वयस्य ! तिष्ठ ; सावशेषं मे वचः ।
विदूषकः - आज्ञापयतु भवान् ।
राजा - विश्रान्तेन भवता ममाप्येकस्मिन्ननायासे कर्मणि सहायेन भवितव्यम् ।
विदूषकः - किं मोदकखादिकायाम्? तेन ह्ययं सुगृहीतः क्षणः ।
राजा - यत्र वक्ष्यामि । कः कोऽत्र भोः?
(प्रविश्य।)

दौवारिकः-(प्रणम्य ।) आज्ञापयतु भर्ता ।राजा - रैवतक ! सेनापतिस्तावदाहूयताम् ।
दौवारिकः – तथा (इति निष्क्रम्य सेनापतिना सह पुनः प्रविश्य ।) एष आज्ञावचनोत्कण्ठो भर्ता इतो दत्तदृष्टिरेव तिष्ठति । उपसर्पत्वार्यः ।
सेनापतिः- (राजानमवलोक्य ।) दृष्टदोषापि स्वामिनि मृगया केवलं गुण एव संवृत्ता । तथा हि देवः, -
अनवरतधनुर्ज्यास्फालनक्रूरपूर्वं
रविकिरणसहिष्णु खेदलेशैरभिन्नम् ।
अपचितमपि गात्रं व्यायतत्वादलक्ष्यं
गिरिचर इव नागः प्राणसारं बिभर्ति ॥४॥
(उपेत्य।) जयतु जयतु स्वामी ; गृहीतश्वापदमरण्यम् । किमन्यत्रावस्थीयते?राजा - मन्दोत्साहः कृतोऽस्मि मृगयापवादिना माढव्येन ।
सेनापतिः- (जनान्तिकम् ।) सखे ! स्थिरप्रतिबन्धो भव । अहं तावत्स्वामिनश्चित्तवृत्तिमनुवर्तिष्ये । (प्रकाशम्।) प्रलपत्वेष वैधेयः । ननु प्रभुरेव निदर्शनम्।मेदश्छेदकृशोदरं लघु भवत्युत्थानयोग्यं वपुः
सत्वानामपि लक्ष्यते विकृतिमच्चित्तं भयक्रोधयोः ॥
उत्कर्षः स च धन्विनां यदिषवः सिध्यन्ति लक्ष्ये चले
मिथ्यैव व्यसनं वदन्ति मृगयामीदृग्विनोदः कुतः ॥५॥विदूषकः – (सरोषम् ।) अपेहि, रे उत्साहहेतुक ! अत्रभवान्प्रकृतिमापन्नः। त्वं तावदटवीतो-ऽटवीमाहिण्डमानो नरनासिकालोलुपस्य जीर्णऋक्षस्य कस्यापि मुखे पतिष्यसि ।राजा - भद्र सेनापते ! आश्रमसन्निकृष्टे स्थिताः स्मः । अतस्ते वचो नाभिनन्दामि । अद्य तावत्;
गाहन्तां महिषा निपानसलिलं शृङ्गैर्मुहुस्ताडितं
छायाबद्धकदम्बकं मृगकुलं रोमन्थमभ्यस्यतु ।
विश्रब्ध क्रियतां वराहपतिभिर्मुस्ताक्षतिः पल्वले
विश्रामं लभतामिदं च शिथिलज्याबन्धमस्मद्धनुः ॥६॥
सेनापतिः- यत्प्रभविष्णवे रोचते ।
राजा - तेन हि निवर्तय पूर्वगतान्वनग्राहिणः । यथा न मे सैनिकास्तपोवनमुपरुन्धन्ति तथा निषेद्धव्याः । पश्य; -
शमप्रधानेषु तपोवनेषु गूढं हि दाहात्मकमस्ति तेजः ।
स्पर्शानुकूला इव सूर्यकान्तास्तदन्यतेजोभिभवाद्वमन्ति ॥७॥
सेनापतिः- यदाज्ञापयति स्वामी ।
विदूषकः - ध्वंसतां त उत्साहवृत्तान्तः ।

(निष्क्रान्तः सेनापतिः।)
राजा - (परिजनं विलोक्य।) अपनयन्तु भवत्यो मृगयावेशम् । रैवतक ! त्वमपि स्वं नियोगमशून्यं कुरु ।
परिजनः - यद्देव आज्ञापयति । (इति निष्क्रान्तः।)
विदूषकः - कृतं भवता निर्मक्षिकम् । साम्प्रतमेतस्यां पादपच्छायायां विरचितलतावितानसनाथे शिलातले निषीदतु भवान् , यावदहमपि सुखासीनो भवामि ।
राजा - गच्छाग्रतः ।
विदूषकः - एतु भवान् ।

(इत्युभौ परिक्रम्योपविष्टौ।)राजा – माढव्य ! अनवाप्तचक्षुःफलोऽसि । येन त्वया दर्शनीयं न दृष्टम् ।
विदूषकः - ननु भवानग्रतो मे वर्तते।
राजा - सर्वः खलु कान्तमात्मीयं पश्यति । अहं तु तामावाश्रमललामभूतां शकुन्तलामधिकृत्य ब्रवीमि ।
विदूषकः - (स्वगतम्।) भवतु ; अस्यावसरं न दास्ये । (प्रकाशम् ।) भो वयस्य ! ते तापसकन्यकाभ्यर्थनीया दृश्यते ।
राजा - सखे ! न परिहार्ये वस्तुनि पौरवाणां मनः प्रवर्तते ।
सुरयुवतिसम्भवं किल मुनेरपत्यं तदुज्झिताधिगतम् ।
अर्कस्योपरि शिथिलं च्युतमिव नवमालिकाकुसुमम् ॥८॥
विदूषकः – (विहस्य।) यथा कस्यापि पिण्डखर्जूरैरुद्वेजितस्य तिन्त्रिण्यामभिलाषो भवेत्तथा स्त्रीरत्नपरिभाविनो भवत इयमभ्यर्थना ।
राजा - न तावदेनां पश्यसि येनैवमवादीः ।
विदूषकः - तत्खलु रमणीयं यद्भवतोऽपि विस्मयमुत्पादयति ।
राजा - वयस्य ! किं बहुना?
चित्रे निवेश्य परिकल्पिततत्त्वयोगा रूपोच्चयेन मनसा विधिना कृता नु ।
स्त्रीरत्नसृष्टिरपरा प्रतिभाति सा मे धातुर्विभुत्वमनुचिन्त्य वपुश्च तस्याः ॥९॥विदूषकः - यद्येवं प्रत्यादेश इदानीं रूपवतीनाम् ।
राजा - इदं च मे मनसि वर्तते, -
अनाघ्रातं पुष्पं किसलयमलूनं कररुहै-

रनाविद्धं रत्नं मधु नवमनास्वादितरसम्
अखण्डं पुण्यानां फलमिव च तद्रूपमनघं

न जाने भोक्तारं कमिह समुपस्थास्यति विधिः ॥१०॥विदूषकः- तेन हि लघु परित्रायतामेनां भवान् ।मा कस्यापि तपस्विन इङ्गुदीतैलचिक्कणशीर्षस्य हस्ते पतिष्यति ।
राजा - परवती खलु तत्रभवति । न च सन्निहितोऽत्र गुरुजनः ।
विदूषकः - अत्रभवन्तमन्तरेण कीदृशस्तस्याः दृष्टिरागः?
राजा - निसर्गादेवाप्रगल्भस्तपस्विकन्याजनः । तथापि तु, –
अभिमुखे मयि संहृतमीक्षणं हसितमन्यनिमित्तकृतोदयम् ।
विनयवारितवृत्तिरतस्तया न विवृतो मदनो न च संवृतः ॥११॥
विदूषकः – न खलु दृष्टमात्रस्य तवाङ्कं समारोहति ।
राजा - मिथः प्रस्थाने पुनः शालीनतयापि काममाविष्कृतो भावस्तत्रभवत्या । तथा हि, -
दर्भाङ्कुरेण चरणः क्षत इत्यकाण्डे तन्वी स्थिता कतिचिदेव पदानि गत्वा ।
आसीद्विवृत्तवदना च विमोचयन्ती शाखासु वल्कलमसक्तमपि द्रुमाणाम् ॥१२॥विदूषकः- तेन हि गृहीतपाथेयो भव । कृतं त्वयोपवनं तपोवनमिति पश्यामि ।
राजा - सखे ! तपस्विभिः कैश्चित्परिज्ञातोऽस्मि । चिन्तय तावत्केनापदेशेन पुनराश्रमपदं गच्छामः

।विदूषकः - कोऽपरोऽपदेशो युष्माकं राज्ञाम्? नीवारषष्ठ भागमस्माकमुपहरन्त्विति ।
राजा – मूर्ख ! अन्यदेव भागधेयमेतेषां रक्षणे निपतति यद्रत्नराशीनपि विहायाभिनन्द्यम् । पश्य, -
यदुत्तिष्ठति वर्णेभ्यो नृपाणां क्षयि तत्फलम् ।
तपःषड्भागमक्षय्यं ददत्यारण्यका हि नः ॥१३॥
(नेपथ्ये ।) हन्त! सिद्धार्थौ स्वः ।
राजा - (कर्णं दत्वा।) अये ! धीरप्रशान्तस्वरैस्तपस्विभिर्भवितव्यम् ।
(प्रविश्य ।)

दौवारिकः – जयतु जयतु भर्ता! एतौ द्वौ ऋषिकुमारौ प्रतीहारभूमिमुपस्थितौ ।राजा - तेन ह्यविलम्बितं प्रवेशय तौ ।
दौवारिकः - एष प्रवेशयामि । (इति निष्क्रम्य ऋषिकुमाराभ्यां सह प्रविश्य ।)
इत इतो भवन्तौ ।
(उभौ राजानं विलोकयतः ।)
प्रथमः – अहो, दीप्तिमतोऽपि विश्वसनीयतास्य वपुषः । अथवोपपन्नमेतदस्मिन् ऋषिभ्यो नातिभिन्ने राजनि । कुतः –
अध्याक्रान्ता वसतिरमुनाप्याश्रमे सर्वभोग्ये
रक्षायोगादयमपि तपः प्रत्यहं सञ्चिनोति ।
अस्यापि द्यां स्पृशति वशिनश्चारणद्वन्द्वगीतः
पुण्यः शब्दो मुनिरिति मुहुः केवलं राजपूर्वः ॥ १४॥
द्वितीयः – गौतम ! अयं स बलभित्सखो दुष्यन्तः?
प्रथमः - अथ किम् ।
द्वितीयः - तेन हि,-
नैतच्चित्रं यदयमुदधिश्यामसीमां धरित्री-
मेकः कृत्स्नां नगरपरिघप्रांशुबाहुर्भुनक्ति ।
आशंसन्ते सुरयुवतयोः बद्धवैरा हि दैत्यै-
रस्याधिज्ये धनुषि विजयं पौरुहूते च वज्रे ॥ १५॥
उभौ - (उपगम्य।) विजयस्व राजन्!
राजा - (आसनादुत्थाय।) अभिवादये भवन्तौ ।
उभौ - स्वस्ति भवते । (इति फलान्युपहरतः।)
राजा - (सप्रणामं परिगृह्य।) आज्ञापयितुमिच्छामि ।
उभौ - विदितो भवानाश्रमसदामिहस्थः । तेन भवन्तं प्रार्थयन्ते ।
राजा - किमाज्ञापयन्ति?
उभौ -“तत्रभवतः कण्वस्य महर्षेरसान्निध्याद्रक्षांसि न इष्टविघ्नमुत्पादयन्ति । तत्कतिपयरात्रं सारथिद्वितीयेन भवता सनाथीक्रियतामाश्रमः” इति ।
राजा - अनुगृहीतोऽस्मि ।
विदूषकः - (अपवार्य ।) एषेदानीमनुकूला तेऽभ्यर्थना ।
राजा - (स्मितं कृत्वा।) रैवतक ! मद्वचनादुच्यतां सारथिः -“सबाणासनं रथमुपस्थापय” इति ।
दौवारिकः- यद्देव आज्ञापयति । (इति निष्क्रान्तः।) उभौ –(सहर्षम् ।)
अनुकारिणि पूर्वेषां युक्तरूपमिदं त्वयि ।
आपन्नाभयसत्रेषु दीक्षिताः खलु पौरवाः ॥ १६॥
राजा - (सप्रणामम् ।) गच्छतां पुरो भवन्तौ । अहमप्यनुपदमागत एव ।
उभौ – विजयस्व (इति निष्क्रान्तौ ।)
राजा - माढव्य ! अप्यस्ति शकुन्तलादर्शने कुतूहलम्?
विदूषकः- प्रथमं सपरिवाहमासीत् । इदानीं राक्षसवृत्तान्तेन बिन्दुरपि नावशेषितः ।
राजा - मा भैषीः । ननु मत्समीपे वर्तिष्यसे
विदूषकः - एष राक्षसाद्रक्षितोऽस्मि ।
(प्रविश्य।)
दौवारिकः - सज्जो रथो भर्तुर्विजयप्रस्थानमपेक्षते । एष पुनर्नगराद्देवीनामाज्ञप्तिहरः
करभक आगतः ।
राजा - (सादरम्।) किमम्बाभिः प्रेषितः?
दौवारिकः- अथ किम्?
राजा - ननु प्रवेश्यताम् ।
दौवारिकः- तथा । (इति निष्क्रम्य, करभकेण सह प्रविश्य।) एष भर्ता । उपसर्प
करभकः - जयतु जयतु भर्ता! देव्याज्ञापयति “ आगामिनि चतुर्थदिवसे प्रवृत्तपारणो मम उपवासो भविष्यति । तत्र दीर्घायुषावश्यं सन्निहितेन भवितव्यम्” इति ।
राजा - इतस्तपस्विकार्यम् ; इतो गुरुजनाज्ञा । द्वयमपि अनतिक्रमणीयम् ; किमत्र प्रतिविधेयम्?विदूषकः - त्रिशङ्कुरिवान्तराले तिष्ठ ।
राजा - सत्यमाकुलीभूतोऽस्मि, -
कृत्ययोर्भिन्नदेशत्वाद् द्वैधीभवति मे मनः ।
पुरः प्रतिहतं शैले स्त्रोतः स्त्रोतोवहो यथा ॥९॥
(विचिन्त्य।) सखे ! त्वमम्बया पुत्र इति प्रतिगृहीतः । यतो भवानितः प्रतिनिवृत्य
तपस्विकार्यव्यग्रमानसं मामावेद्य तत्रभवतीनां पुत्रकृत्य मनुष्ठातुमर्हति ।
विदूषकः - न खलु मां रक्षोभीरुकं गणयसि।
राजा - (सस्मितम् ।) कथमेतद्भवति सम्भाव्यते?
विदूषकः - यथा राजानुजेन गन्तव्यं तथा गच्छामि ।
राजा - ननु तपोवनोपरोधः परिहरणीय इति सर्वाननुयात्रिकांस्त्वयैव सह प्रस्थापयामि ।
विदूषकः - (स्वगतम्।) तेन हि युवराजोस्मीदानीं संवृत्तः ।
राजा - (स्वगतम् ।) चपलोऽयं वटुः । कदाचिदस्मत्प्रार्थनाम् अन्तः पुरेभ्यः कथयेत् । भवतु ; एनमेवं वक्ष्ये । (विदूषकं हस्ते गृहीत्वा ।) वयस्य ! ऋषिगौरवादाश्रमं गच्छामि । न खलु सत्यमेव तापसकन्यकायां ममाभिलाषः । पश्य,
क्व वयं क्व परोक्षमन्मथो मृगशावैः सममेधितो जनः ।
परिहासविजल्पितं सखे ! परमार्थेन न गृह्यतां वचः ॥१८॥
विदूषकः - अथ किम् ।
(इति निष्क्रान्तास्सर्वे ।)

इति द्वितीयोऽङ्कः