।।अथ प्रथमोङ्कः ।।

नान्दी

या सृष्टिः स्रष्टुराद्या वहति विधिहुतं या हविर्या च होत्री
ये द्वे कालं विधत्तः श्रुतिविषयगुणा या स्थिता व्याप्य विश्वम् ।
यामाहुः सर्वबीजप्रकृतिरिति यया प्राणिनः प्राणवन्तः
प्रत्यक्षाभिः प्रपन्नस्तनुभिरवतु वस्ताभिरष्टाभिरीशः ॥ १॥+++(५)+++

प्रस्तावना

(नान्द्यन्ते।)
सूत्रधारः – (नेपथ्याभिमुखम् अवलोक्य।) आर्ये ! यदि नेपथ्यविधानमवसितम्, इतस्तावदागम्यताम् । (प्रविश्य।)
नटी – आर्यपुत्र ! इयमस्मि ।
सूत्रधारः – आर्ये ! अभिरूपभूयिष्ठा परिषदियम् । अद्य खलु कालिदासग्रथितवस्तुना ऽभिज्ञान-शाकुन्तलनामधेयेन नवेन नाटकेनोपस्थातव्यमस्माभिः । तत्प्रतिपात्रम् आधीयतां यत्नः ।
नटी - सुविहितप्रयोगतया ऽऽर्यस्य न किमपि परिहास्यते ।
सूत्रधारः – आर्ये ! कथयामि ते भूतार्थम्, -
आ परितोषाद्विदुषां
न साधु मन्ये प्रयोगविज्ञानम् ।
बलवदपि शिक्षितानाम्
आत्मन्यप्रत्ययं चेतः ॥२॥+++(५)+++
नटी – आर्य ! एवमेव तत्। अनन्तरकरणीयमार्य आज्ञापयतु ।

सूत्रधारः - किमन्यदस्याः परिषदः श्रुतिप्रसादनतः? तदिममेव तावदचिरप्रवृत्तमुपभोगक्षमं ग्रीष्मसमयमधिकृत्य गीयताम् । सम्प्रति हि, -
सुभगसलिलावगाहाः पाटलसंसर्गिसुरभिवनवाताः।
प्रच्छायसुलभनिद्रा दिवसाः परिणामरमणीयाः ॥३॥+++(४)+++
नटी – तथा । (इति गायति।)
ईषदीषच्चुम्बितानि भ्रमरैः सुकुमारकेसरशिखानि ।
अवतंसयन्ति दयमानाः प्रमदाः शिरीषकुसुमानि ॥४॥+++(४)+++

सूत्रधारः – आर्ये! साधु गीतम् । अहो रागबद्धचित्तवृत्तिर् आलिखित इव सर्वतो रङ्गः । तदिदानीं कतमत् प्रकरणम् आश्रित्यैनम् आराधयामः?
नटी - नन्वार्यमिश्रैः प्रथममेवाज्ञप्तम् अभिज्ञानशाकुन्तलं नामापूर्वं नाटकं प्रयोगेऽधिक्रियतामिति।
सूत्रधारः – आर्ये ! सम्यगनुबोधितोऽस्मि । अस्मिन्क्षणे विस्मृतं खलु मया । कुतः?
तवास्मि गीतरागेण हारिणा प्रसभं हृतः ।
एष राजेव दुष्यन्तः सारङ्गेणातिरंहसा ॥५॥+++(र५)+++
(इति निष्क्रान्तौ।)

मृगानुसरणम्

(ततः प्रविशति मृगानुसारी सशरचापहस्तो राजा रथेन सूतश्च ।)
सूतः - (राजानं मृगं चावलोक्य।) आयुष्मन्!
कृष्णसारे ददच्चक्षुस्त्वयि चाधिज्यकार्मुके ।
मृगानुसारिणं साक्षात्पश्यामीव पिनाकिनम् ॥६॥+++(५)+++
राजा – सूत ! दूरममुना सारङ्गेण वयमाकृष्टाः । अयं पुनरिदानीमपि, -
ग्रीवाभङ्गाभिरामं मुहुरनुपतति स्यन्दने बद्धदृष्टिः
पश्चार्धेन प्रविष्टः शरपतनभयाद्भूयसा पूर्वकायम् ।
दर्भैरर्धावलीढैः श्रमविवृतमुखभ्रंशिभिः कीर्णवर्त्मा
पश्योदग्रप्लुतत्वाद्वियति बहुतरं स्तोकमुर्व्यां प्रयाति ॥७॥+++(५)+++
… (सविस्मयम्।) तदेष कथमनुपतत एव मे प्रयत्नप्रेक्षणीयः संवृत्तः?
सूतः –आयुष्मन् ! उद्घातिनी भूमिरिति मया रश्मिसंयमनाद् रथस्य मन्दीकृतो वेगः । तेन मृग एष विप्रकृष्टान्तरः संवृत्तः । सम्प्रति समदेशवर्तिनस् ते न दुरासदो भविष्यति ।
राजा - तेन हि मुच्यन्ताम् अभीषवः+++(=रश्मयः)+++ ।
सूतः - यदाज्ञापयत्यायुष्मान् (रथवेगं निरूप्य ।)आयुष्मन् ! पश्य पश्य, -
मुक्तेषु रश्मिषु निरायत+++(=नितरां दीर्घ)+++पूर्वकाया
निष्कम्पचामरशिखा निभृतोर्ध्वकर्णाः ।
आत्मोद्धतैरपि रजोभिर् अलङ्घनीया
धावन्त्यमी मृगजवाक्षमयेव रथ्याः ॥८॥
राजा - सत्यम् ; अतीत्य हरितो हरींश्च वर्तन्ते वाजिनः । तथा हि, –
यदालोके सूक्ष्मं व्रजति सहसा तद्विपुलतां
यदर्धे विच्छिन्नं भवति कृतसन्धानमिव तत् ।
प्रकृत्या यद्वक्रं तदपि समरेखं नयनयोर्
न मे दूरे किञ्चित्क्षणमपि न पार्श्वे रथजवात् ॥९॥+++(५)+++

सूत ! पश्यैनं व्यापाद्यमानम् ।(इति शरसन्धानं नाटयति ।)

(नेपथ्ये।) भो भो राजन् ! आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।
सूतः - (आकर्ण्यावलोक्य च।) आयुष्मन् ! अस्य खलु ते बाणपातवर्तिनः कृष्णसारस्यान्तरे तपस्विन उपस्थिताः ।
राजा - (ससम्भ्रमम्।) तेन हि प्रगृह्यन्तां वाजिनः ।
सूतः – तथा । (इति रथं स्थापयति।)
(ततः प्रविशत्य् आत्मना तृतीयो वैखानसः।)
वैखानसः – (हस्तमुद्यम्य।) राजन् ! आश्रममृगोऽयं न हन्तव्यो न हन्तव्यः ।

न खलु न खलु बाणः सन्निपात्योऽयमस्मिन् मृदुनि मृगशरीरे पुष्पराशाविवाग्निः ।
क्व बत हरिणकानां जीवितं चातिलोलं क्व च निशितनिपाता वज्रसाराः शरास्ते ॥10।।

तत्साधुकृतसन्धानं प्रतिसंहर सायकम् ।
आर्तत्राणाय वः शस्त्रं न प्रहर्तुमनागसि ॥११॥
राजा - एष प्रतिसंहृतः ।
वैखानसः- सदृशमेतत्पुरुवंशप्रदीपस्य भवतः ।
जन्म यस्य पुरोर्वंशे युक्तरूपमिदं तव ।
पुत्रमेवं गुणोपेतं चक्रवर्तिनमवाप्नुहि ॥१२॥
इतरौ - (बाहू उद्यम्य।) सर्वथा चक्रवर्तिनं पुत्रमाप्नुहि ।
राजा - (सप्रणामम्।) प्रतिगृहीतं ब्राह्मणवचनम् ।
वैखानसः – राजन् ! समिदाहरणाय प्रस्थिता वयम् । एष खलु कण्वस्य

कुलपतेरनुमालिनीतीरमाश्रमो दृश्यते । न चेदन्यकार्यातिपातः प्रविश्य प्रतिगृह्यतामातिथेयः सत्कारः । अपि च,-
रम्यास्तपोधनानां प्रतिहतविघ्नाः क्रियाः समवलोक्य ।
ज्ञास्यसि कियद्भुजो मे रक्षति मौर्वीकिणाङ्क इति ॥१३॥
राजा - अपि सन्निहितोऽत्र कुलपतिः?
वैखानसः- इदानीमेव दुहितरं शकुन्तलामतिथिसत्काराय नियुज्य दैवमस्याः प्रतिकूलं शमयितुं सोमतीर्थं गतः ।
राजा - भवतु ; तामेव द्रक्ष्यामि । सा खलु विदितभक्तिं मां महर्षेः कथयिष्यति ।
वैखानसः - साधयामस्तावत् । (इति सशिष्यो निष्क्रान्तः।)
राजा – सूत ! चोदयाश्वान् । पुण्याश्रमदर्शनेन तावदात्मानं पुनीमहे ।
सूतः - यदाज्ञापयत्यायुष्मान् । (इति भूयो रथवेगं निरूपयति ।।)
राजा - (समन्तादवलोक्य।) सूत ! अकथितोऽपि ज्ञायत एव यथायमाश्रमाभोगस्तपोवनस्येति ।
सूतः – कथमिव ?
राजा - किं न पश्यति भवान्? इह हि,-
नीवाराः शुकगर्भकोटरमुखभ्रष्टास्तरूणामधः
प्रस्निग्धाः क्वचिदिङ्गुदीफलभिदः सूच्यन्त एवोपलाः ।
विश्वासोपगमादभिन्नगतयः शब्दं सहन्ते मृगा-
स्तोयाधारपथाश्च वल्कलशिखानिष्यन्दरेखाङ्किताः ॥ १४॥
सूतः - सर्वमुपपन्नम् ।
राजा - (स्तोकमन्तरं गत्वा।) तपोवननिवासिनामुपरोधो मा भूत् । इहैव रथं स्थापय,यावदवतरामि।
सूतः - धृताः प्रग्रहाः; अवतरत्वायुष्मान् ।
राजा - (अवतीर्य।) सूत ! विनीतवेषेण प्रवेष्टव्यानि तपोवनानि नाम । इदं तावद् गृह्यताम् । (इति सूतस्याभरणानि धनुश्चोपनीयार्पयति।।)सूत ! यावदाश्रमवासिनः प्रत्यवेक्ष्याहमुपावर्ते तावदार्द्रपृष्ठाः क्रियन्तां वाजिनः ।
सूतः - तथा । (इति निष्क्रान्तः।)
राजा - (परिक्रम्यावलोक्य च।) इदमाश्रमद्वारम् । यावत्प्रविशामि ।
(प्रविश्य, निमित्तं सूचयन्।)

शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य ।
अथवा भवितव्यानां द्वाराणि भवन्ति सर्वत्र ॥ १५ ॥
(नेपथ्ये।)

इत इतः सख्यौ !
राजा - (कर्णं दत्त्वा।) अये ! दक्षिणेन वृक्षवाटिकामालाप इव श्रूयते । यावदत्र गच्छामि ।

(परिक्रम्यावलोक्य च।) अये ! एतास्तपस्विकन्यकाः स्वप्रमाणानुरूपैः सेचनघटैर्बालपादपेभ्यः पयो दातुमित एवाभिवर्तन्ते । (निपुणं निरूप्य।) अहो ! मधुरमासां दर्शनम् ।शुद्धान्तदुर्लभमिदं वपुराश्रमवासिनो यदि जनस्य ।
दूरीकृताः खलु गुणैरुद्यानलता वनलताभिः ॥१६॥
यावदिमां छायामाश्रित्य प्रतिपालयामि । (इति विलोकयन् स्थितः।)
(ततः प्रविशति यथोक्तव्यापारा सह सखीभ्यां शकुन्तला।)
शकुन्तला – इत इतः सख्यौ ।
अनसूया – हला शकुन्तले ! त्वत्तोऽपि तातकाश्यपस्याश्रमवृक्षकाः प्रियतराः इति तर्कयामि । येन नवमालिकाकुसुमपेलवाऽपि त्वमेतेषामालवालपूरणे नियुक्ता ।
शकुन्तला – न केवलं तातनियोग एव । अस्ति मे सोदरस्नेहोऽप्येतेषु।(इति वृक्षसेचनं निरूपयति।)
राजा - कथमियं सा कण्वदुहिता । असाधुदर्शी खलु तत्रभवान् काश्यपो य इमामाश्रमधर्मे नियुङ्क्ते ।
इदं किलाव्याजमनोहरं वपुस्तपःक्षमं साधयितुं य इच्छति ।
ध्रुवं स नीलोत्पलपत्रधारया शमीलतां छेत्तुमृषिर्व्यवस्यति ॥१७॥
भवतु ; पादपान्तर्हित एव विश्रब्धं तावदेनां पश्यामि ।
(इति तथा करोति ।।)
शकुन्तला - सखि अनसूये ! अतिपिनद्धेन वल्कलेन प्रियंवदया नियन्त्रितास्मि । शिथिलय तावदेतत् ।
अनसूया – तथा । (इति शिथिलयति।।)
प्रियंवदा - अत्र पयोधरविस्तारयितृ आत्मनो यौवनमुपालभस्व । मां किमुपालभसे ?
राजा - काममननुरूपमस्या वपुषो वल्कलं न पुनरलङ्कारश्रियं न पुष्यति । कुतः ? -सरसिजमनुविद्धं शैवलेनापि रम्यं
मलिनमपि हिमांशोर्लक्ष्म लक्ष्मीं तनोति ।
इयमधिकमनोज्ञा वल्कलेनापि तन्वी
किमिव हि मधुराणां मण्डनं नाकृतीनाम् ॥ १८ ॥
शकुन्तला - (अग्रतोऽवलोक्य।) एष वातेरितपल्लवाङ्गुलीभिस्त्वरयतीव मां केसरवृक्षकः, यावदेनं सम्भावयामि । (इति परिक्रामति । ।)
प्रियंवदा - हला शकुन्तले ! अत्रैव तावन्मुहूर्तं तिष्ठ, यावत्त्वयोपगतया लतासनाथ इवायं केसरवृक्षकः प्रतिभाति ।शकुन्तला – अतः खलु प्रियंवदाऽसि त्वम् ।
राजा - प्रियमपि तथ्यमाह शकुन्तलां प्रियंवदा । अस्याः खलु, -
अधरः किसलयरागः कोमलविटपानुकारिणौ बाहू ।
कुसुममिव लोभनीयं यौवनमङ्गेषु सन्नद्धम् ॥१९॥

अनसूया - हला शकुन्तले !
इयं स्वयंवरवधूः सहकारस्य
त्वया कृतनामधेया “वनज्योत्स्ने"ति नव-मालिका ।
एनां विस्मृतासि ?

शकुन्तला - तद् आत्मानम् अपि विस्मरिष्यामि । (लताम् उपेत्यावलोक्य च ।।)
हला ! रमणीये खलु काल एतस्य लता-पादप-मिथुनस्य व्यतिकरः संवृत्तः । नव-कुसुम-यौवना वनज्योत्स्ना स्निग्धपल्लव-तयोपभोगक्षमः सहकारः ।

प्रियंवदा - अनसूये ! जानासि किं शकुन्तला वनज्योत्स्नाम् अतिमात्रं पश्यतीति?
अनसूया - न खलु विभावयामि । कथय ।
प्रियंवदा - यथा वनज्योत्स्नानुरूपेण पादपेन सङ्गता, अपि नामैवम् अहम् अप्यात्मनोऽनुरूपं वरं लभेयेति ।
शकुन्तला - एष नूनं तवात्मगतो मनोरथः । (इति कलशमावर्जयति । ।)
राजा - अपि नाम कुलपतेरियमसवर्णक्षेत्रसम्भवा स्यात् ? अथवा कृतं सन्देहेन ।

असंशयं क्षत्रपरिग्रहक्षमा
यदार्यमस्यामभिलाषि मे मनः ।
सतां हि सन्देहपदेषु वस्तुषु
प्रमाणमन्तःकरणप्रवृत्तयः ॥२०॥

तथापि तत्त्वत एनामुपलप्स्ये ।
शकुन्तला - (ससम्भ्रमम् ।।)अम्मो! सलिलसेकसम्भ्रमोद्गतो नवमालिकामुज्झित्वा वदनं मे मधुकरोऽभिवर्तते । (इति भ्रमरबाधां निरूपयति । ।)

राजा - (सस्पृहम्।)
चलापाङ्गां दृष्टिं स्पृशसि बहुशो वेपथुमतींरहस्याख्यायीव स्वनति मृदु कर्णान्तिकचरः ।
करौ व्याधुन्वत्याः पिबसि रतिसर्वस्वमधरं
वयं तत्वान्वेषान्मधुकर ! हतास्त्वं खलु कृती ॥२१॥

शकुन्तला - न एष धृष्टो विरमति । अन्यतो गमिष्यामि । (पदान्तरे स्थित्वा, सदृष्टिक्षेपम् ।) कथमितोऽप्यागच्छति । हला ! परित्रायेथां मामनेन दुर्विनीतेन मधुकरेणाभिभूयमानाम् ।उभे - के आवां परित्रातुम् ? दुष्यन्तमाक्रन्द । राजरक्षितव्यानि तपोवनानि नाम ।
राजा - अवसरोऽयमात्मानं प्रदर्शयितुम् । न भेतव्यं न भेतव्यम् —- (इत्यर्धोक्त्या स्वगतम् ।।) राजभावस्त्वभिज्ञातो भवेत् । भवतु, एवं तावदभिधास्ये ।
शकुन्तला - (पदान्तरे स्थित्वा, सदृष्टिक्षेपम्।) कथमितोऽपि मामनुसरति ?
राजा - (सत्वरमुपसृत्य।)
कः पौरवे वसुमतीं शासति शासितरि दुर्विनीतानाम् ।
अयमाचरत्यविनयं मुग्धासु तपस्विकन्यासु ॥२२॥
(सर्वा राजानं दृष्ट्वा किञ्चिदिव सम्भ्रान्ताः।)
अनसूया - आर्य ! न खलु किमप्यत्याहितम् । इयं नौ प्रियसखी मधुकरेणाभिभूयमाना

कातरीभूता । (इति शकुन्तलां दर्शयति ।)राजा - (शकुन्तलाभिमुखो भूत्वा।) अपि तपो वर्धते ?
(शकुन्तला साध्वसादवचना तिष्ठति।)
अनसूया - इदानीमतिथिविशेषलाभेन । हला शकुन्तले ! गच्छोटजम् । फलमिश्रमर्घमुपहर । इदं पादोदकं भविष्यति ।
राजा - भवतीनां सूनृतयैव गिरा कृतमातिथ्यम् ।
प्रियंवदा - तेन ह्यस्यां प्रच्छायशीतलायां सप्तपर्णवेदिकायां मुहूर्तमुपविश्य परिश्रमविनोदं करोत्वार्यः ।
राजा - नूनं यूयमप्यनेन कर्मणा परिश्रान्ताः ।
अनसूया - हला शकुन्तले ! उचितं नः पर्युपासनमतिथीनाम् । अत्रोपविशामः । (इति सर्वा उपविशन्ति ।)
शकुन्तला - (आत्मगतम् ।) किं नु खल्विमं प्रेक्ष्य तपोवनविरोधिनो विकारस्य गमनीयाऽस्मि संवृत्ता ।
राजा - (सर्वा विलोक्य।) अहो ! समवयोरूपरमणीयं भवतीनां सौहार्दम् ।
प्रियंवदा - (जनान्तिकम् ।) अनसूये ! को नु खल्वेष चतुरगम्भीराकृतिर्मधुरं प्रियमालपन् प्रभाववानिव लक्ष्यते ?
अनसूया - सखि ! ममाप्यस्ति कौतूहलम् । पृच्छामि तावदेनम् । (प्रकाशम् ।) आर्यस्य मधुरालापजनितो विश्रम्भो मां मन्त्रयते - कतम आर्येण राजर्षिवंशोऽलङ्क्रियते ? कतमो वा विरहपर्युत्सुकजनः कृतो देशः ? किं निमित्तं वा सुकुमारतरोऽपि तपोवनगमनपरिश्रमस्यात्मा
पदमुपनीतः ?
शकुन्तला - (आत्मगतम् ।) हृदय ! मोत्ताम्य । एषा त्वया चिन्तितान्यनसूया मन्त्रयते ।
राजा - (आत्मगतम् ।) कथमिदानीमात्मानं निवेदयामि ? कथं वात्मापहारं करोमि ? भवतु । एवं तावदेनां वक्ष्ये । (प्रकाशम् ।) भवति ! यः पौरवेण राज्ञा धर्माधिकारे नियुक्तः सोऽहमविघ्न-क्रियोपलम्भाय धर्मारण्यमिदमायातः ।
अनसूया - सनाथा इदानीं धर्मचारिणः ।
(शकुन्तला शृङ्गारलज्जां रूपयति ।)
सख्यौ - (उभयोराकारं विदित्वा, जनान्तिकम्।) हला शकुन्तले ! यद्यत्राद्य तातः सन्निहितो भवेत् ।
शकुन्तला - ततः किं भवेत् ?
सख्यौ - इमं जीवितसर्वस्वेनाप्यतिथिविशेषं कृतार्थं करिष्यति ।
शकुन्तला - युवामपेतम् । किमपि हृदये कृत्वा मन्त्रयेथे । न युवयोर्वचनं श्रोष्यामि ।
राजा - वयमपि तावद्भवत्योः सखीगतं किमपि पृच्छामः ?
सख्यौ - आर्य ! अनुग्रह इवेयमभ्यर्थना ।
राजा - भगवान्काश्यपः शाश्वते ब्रह्मणि स्थित इति प्रकाशः । इयं च वः सखी तदात्मजेति कथमेतत् ?
अनसूया – शृणोत्वार्यः । अस्ति कोऽपि कौशिक इति गोत्रनामधेयो महाप्रभावो राजर्षिः ।
राजा – अस्ति; श्रूयते ।
अनसूया - तमावयोः प्रियसख्याः प्रभवमवगच्छ । तेन उज्झितायाः शरीरसंवर्धनादिभिस्तात-काश्यपोऽस्याः पिता ।
राजा - उज्झितशब्देन जनितं मे कौतूहलम् । आमूलाच्छ्रोतुमिच्छामि ।
अनसूया - शृणोत्वार्यः । गौतमीतीरे पुरा किल तस्य राजर्षेरुग्रे तपसि वर्तमानस्य किमपि जातशङ्कैर्देवैर्मेनका नामाप्सराः प्रेषिता नियमविघ्नकारिणी ।
राजा - अस्त्येतदन्यसमाधिभीरूत्वं देवानाम् ।
अनसूया - ततो वसन्तोदारसमये तस्या उन्मादयितृरूपं प्रेक्ष्य……… (इत्यर्धोक्ते लज्जया विरमति ।)
राजा - परस्ताज्ज्ञायत एव । सर्वथाप्सरःसम्भवैषा ।
अनसूया - अथ किम्?
राजा – उपपद्यते, -
मानुषीषु कथं वा स्यादस्य रूपस्य सम्भवः
न प्रभातरलं ज्योतिरुदेति वसुधातलात् ॥२३॥
(शकुन्तलाधोमुखी तिष्ठति ।)
राजा - (आत्मगतम्।) लब्धावकाशो मे मनोरथः । किन्तु सख्याः परिहासोदाहृतां वरप्रार्थनां श्रुत्वा धृतद्वैधीभावकातरं मे मनः ।
प्रियंवदा - (सस्मितं शकुन्तलां विलोक्य नायकाभिमुखी भूत्वा ।) पुनरपि वक्तुकाम इवार्यः ।
(शकुन्तला सखीमङ्गुल्या तर्जयति ।)
राजा - सम्यगुपलक्षितं भवत्या । अस्ति नः सच्चरितश्रवणलोभादन्यदपि प्रष्टव्यम् ।
प्रियंवदा - अलं विचार्य । अनियन्त्रणानुयोगस्तपस्विजनो नाम।राजा - इति सखीं ते ज्ञातुमिच्छामि ।
वैखानसं किमनया व्रतमाप्रदानाद्
व्यापाररोधि मदनस्य निषेवितव्यम् ।
अत्यन्तमेव मदिरेक्षणवल्लभाभि –
राहो निवत्स्यति समं हरिणाङ्गनाभिः ॥२४॥
प्रियंवदा - आर्य ! धर्माचरणेऽपि परवशोऽयं जनः । गुरोः पुनरस्या अनुरूपवरप्रदाने सङ्कल्पः ।
राजा - (आत्मगतम्।) न दुरवापेयं खलु प्रार्थना।

भव हृदय ! साभिलाषं सम्प्रति सन्देहनिर्णयो जातः ।
आशङ्कसे यदग्निं तदिदं स्पर्शक्षमं रत्नम् ॥२५॥
शकुन्तला - (सरोषमिव ।) अनसूये ! गमिष्याम्यहम् ।अनसूया - किं निमित्तम्?
शकुन्तला – इमामसम्बद्धप्रलापिनीं प्रियंवदामार्यायै गौतम्यै निवेदयिष्यामि ।
अनसूया - सखि ! न युक्तमकृतसत्कारमतिथिविशेषं विसृज्य स्वच्छन्दतो गमनम् ।
(शकुन्तला न किञ्चिदुक्त्वा प्रस्थितैव ।)
राजा - (गृहीतुमिच्छन्निगृह्यात्मानम्, आत्मगतम्।) अहो चेष्टाप्रतिरूपिका कामिजनमनोवृत्तिः । अहं हि, -
अनुयास्यन्मुनितनयां सहसा विनयेन वारितप्रसरः ।
स्थानादनुच्चलन्नपि गत्वेव पुनः प्रतिनिवृत्तः ॥२६॥
प्रियंवदा – (शकुन्तलां निरुध्य।) हला ! न ते युक्तं गन्तुम् ।शकुन्तला - (सभ्रूभङ्गम् ।) किं निमित्तम्?
प्रियंवदा -वृक्षसेचने द्वे धारयसि मे । एहि तावत् ; आत्मानं मोचयित्वा ततो गमिष्यसि । (इति बलादेनां निवर्तयति ।)
राजा - भद्रे ! वृक्षसेचनादेव परिश्रान्तामत्रभवतीं लक्षये । तथाह्यस्याः, -
स्रस्तांसावतिमात्रलोहिततलौ बाहू घटोत्क्षेपणा –
दद्यापि स्तनवेपथुं जनयति श्वासः प्रमाणाधिकः ।
स्रस्तं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं
बन्धे स्रंसिनि चैकहस्तयमिताः पर्याकुला मूर्धजाः ॥२७॥
तदहमेनामनृणां करोमि (इत्यङ्गुलीयं दातुमिच्छति ।)
(उभे नाममुद्राक्षराण्यनुवाच्य परस्परमवलोकयतः ।)
राजा - अलमस्मानन्यथा सम्भाव्य । राज्ञः परिग्रहोऽयम् इति राजपुरुषं मामवगच्छथ ।
प्रियंवदा - तेन हि नार्हत्येतदङ्गुलीयकमङ्गुलीवियोगम् । आर्यस्य वचनेनानृणेदानीमेषा । (किञ्चिद्विहस्य।) हला शकुन्तले ! मोचितास्यनुकम्पिनार्येण, अथवा महाराजेन ; गच्छेदानीम् ।शकुन्तला - (आत्मगतम् ।) यद्यात्मनः प्रभविष्यामि । (प्रकाशम्।) का त्वं विसर्जितव्यस्य रोद्धव्यस्य वा?
राजा - (शकुन्तलां विलोक्य, आत्मगतम् ।) किं नु खलु यथा वयमस्यामेवमियमप्यस्मान् प्रति स्यात्? अथवा लब्धावकाशा मे प्रार्थना । कुतः ? -
वाचं न मिश्रयति यद्यपि मद्वचोभिः
कर्णं ददात्यभिमुखं मयि भाषमाणे ।
कामं न तिष्ठति मदाननसंमुखीना
भूयिष्ठमन्यविषया न तु दृष्टिरस्याः ॥२८॥
(नेपथ्ये।) भो भोस्तपस्विनः ! सन्निहिताः तपोवनसत्त्वरक्षायै भवत । प्रत्यासन्नः किल मृगयाविहारी पार्थिवो दुष्यन्तः।
तुरगखुरहतस्तथा हि रेणुर्विटपविषक्तजलार्द्रवल्कलेषु ।
पतति परिणतारुणप्रकाशः शलभसमूह इवाश्रमद्रुमेषु ॥२९॥
अपि च, -
तीव्राघातप्रतिहततरुः स्कन्धलग्नैकदन्तः
पादाकृष्टव्रततिवलयासङ्गसञ्जातपाशः ।
मूर्तो विघ्नस्तपस इव नो भिन्नसारङ्गयूथो
धर्मारण्यं प्रविशति गजः स्यन्दनालोकभीतः ॥३०॥
(सर्वाः कर्णं दत्वा किञ्चिदिव सम्भ्रान्ताः।)
राजा - (आत्मगतम्।) अहो धिक्! पौरा अस्मदन्वेषिणः तपोवनमुपरुन्धन्ति । भवतु ; प्रतिगमिष्यामस्तावत् ।
सख्यौ - आर्य ! अनेनारण्यकवृत्तान्तेन पर्याकुलाः स्मः । अनुजानिहि न उटजगमनाय ।
राजा - (ससम्भ्रमम् ।) गच्छन्तु भवत्यः । वयमप्याश्रमपीडा यथा न भवति तथा प्रयतिष्यामहे ।

(सर्व उत्तिष्ठन्ति ।)सख्यौ- आर्य! असम्भावितातिथिसत्कारं भूयोऽपि प्रेक्षणनिमित्तं लज्जामहे आर्यं विज्ञापयितुम् ।
राजा - मा मैवम् ; दर्शनेनैवात्रभवतीनां पुरस्कृतोऽस्मि ।
(शकुन्तला राजानमवलोकयन्ती सव्याजं विलम्ब्य सह सखीभ्यां निष्क्रान्ता ।)
राजा - मन्दौत्सुक्योऽस्मि नगरगमनं प्रति । यावदनुयात्रिकान्समेत्य नातिदूरे तपोवनस्य निवेशयेयम् । न खलु शक्नोमि शकुन्तलाव्यापारादात्मानं निवर्तयितुम् । मम हि,–
गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः ।
चीनांशुकमिव केतोः प्रतिवातं नीयमानस्य ॥३१॥
(इति निष्क्रान्तास्सर्वे ।)

।। इति प्रथमोऽङ्कः ।।