[[शाकुन्तलभूमिका Source: EB]]
[
ॐ
** ॥ शाकुन्तलभूमिका ॥**
नाट्यप्रबन्धानां प्रबन्धमाधुर्यमन्यदेव । येनात्र भूयसी रसास्वादसामग्रीसंपत्तिः । रसास्वादश्च परः पुरुषार्थः सहृदयानां । सात्त्विकाङ्गिकवाचिकाहार्यरूपैश्चतुर्विधैराभिनयैश्चक्षुषोर्हि विषयमिहोपनीयते काव्यार्थः । उक्तं हि मालविकाग्रिमित्रे ““त्रैगुणयोद्भवमत्र लोकचिरतं नानारसं दृश्यत’’ इति । चतुर्णामष्यभिनयानामभ्यर्हि तो वाचिकाभिनयो नाट्यस्य जीवातुः यः प्रबन्धाश्रयः । प्रबन्धश्च शब्दार्थमयः फलमिव त्वग्दलमयनन्तर्बहिश्च रससंभृत एव नटसामाजिकयोः कीर्तिप्रीतिहेतुर्भवेत् । भूयसा च प्रबन्धाः पृथुलबीजत्वचइव फलपाकाः प्रकामाडम्बरितशब्दार्था मृग्यरसा भवन्ति । कालिदासस्य तु काव्यं बीजत्वङ्निर्मुक्तमिव सहकारुलमनुपसृष्टां तिमावहतीति स्फटमिदं काव्यरहस्यविदां । समग्रा हि प्रबन्धश्रीः कालिदासकृतिषु । यत्र सन्नपि कश्चिहोषबिन्दुर्दोषज्ञदर्शनविषयो हमकरबिम्ब इव कलङ्कलेशो रसाखादं नावसादयति । यथा स्वतो सुवदनानां वदनेष्वयथायथमपि विहितं प्रसाधनमन्यामेव लक्ष्मीमादधाति "” स्वल्पोऽप्यनादरन्यासो । यः परां जनयेच्छोमां सा विच्छित्तिरुदाहृता ’’ हति विच्छित्तिलक्षणम् । "” कोपेऽपि कान्तं मुख ’’ मित्यादि । एवमेषा महाकवीनां काव्येषु काव्यश्रीः क्कचिदयथायथोपपादितेनापि वस्त्वलङ्कारविन्यासेन भूयसैव दर्शनीयतायातीति निपुणमत्रोदारणम् कालिदासस्य काव्यमर्वाग्रामायणमहाभारताभ्?यो उक्तरूपामेव काव्यश्रियमसुलभासमभिसन्धायाहुः । "" द्वित्रा एव कवयो द्वित्राण्येव काव्यानी "" ति । असकृदनुभूयमाना एव हि लोके विशेषा महाकवीनां काव्येषु दृश्यमानाः खेन चानुभवेन संवादेनीयमानाः शतशोऽपि परिचये नवनावा इव भावुकैव्यन्ते । शाबदाच्च कोकव्यवहारेष्वनारतं परिवर्तमाना एव ग्रथनाविशेषे मण्याइव कामपि श्रियं श्रयन्तिरअभिनवा अपि शब्दार्थाः सं घटनावैगुण्यान्निम्रोतवृन्त यो दन्ता इव मुखशोभां दूषयन्ति काव्यलक्ष्मीम् । तथा हि शब्दार्था श्रयालङ्कारान् संघटनाश्रयांश्ख्? गुणदोषान् विभजन्ति । देशकालवयोविद्याव्यवहारभेदादुत्तमाघममध्यमप्रकृतीनां नारीनराणां नानैव निरूप्यमाणा वैषभाषाचेष्टाप्रवृत्तयो यथालोकं काव्येषु किल काव्यविदां प्रीतिमुपहरन्ति । स चायमभूमिः प्रमेयराशिर्महाकाविप्रतिभायामेव व्युत्पत्तिविमलीकृतायां विविक्तमात्मानं दर्शयति । चर्मचक्षुषां विप्रकर्षेऽपि हि रकुण्ठप्रसरं । जननान्तरशतोपचितसुकृतं कञ्चिदेव हि पुरुषं भादृशा दृशिमन्तमुपस्थापयति लोके विधिः । भास्त्रोतसामपि कवीनां कस्य विदेच रविकरशलाकेव रीकृतप्रकाशा भवति भारती । इयमेव च काव्यश्रीर्नाम । यया तनीयानपि वाक्यखण्डः पुनः पुनरपि विभाव्यमानः प्रत्यग्र इव रोमहर्षणः काव्यज्ञानां । यया च वञ्चितानि निरङ्कुशप्रतिभाविलासविजृम्भितान्यपि भूयसां कवीनां काव्यानि पाकच्युतानीव फलानि दोषासहानां सहृदयानां नाभिलाषपूरणे प्रभवन्ति । रामायणं महाभारतं चोभयं प्रतिभारससंपदोस्सहोदयोपजातं दुग्धोदपूरवद्विपुलं च मधुरं च । यतः काव्यार्थानादाय वाड्भयान्यपरे कवयः प्रणयन्ति । ?अर्वाचां च कवीनां कालिदासः प्रथमः । यस्य परिच्छेदवत्यापि प्रतिभा वर्षधारेवायतृनपातिनी विमला चापर्युषितरसा च । अस्य हि महाकवेः काव्येषु रसमभावालङ्कारयोजना शब्दार्थरेखा वा निपुणाशिर्ल्पिशिल्पकलाया इव विषयवशादुच्दूनतां तनुतां च दधानाऽपि बन्धुरतया रचनाया वैषम्यादनुपलम्भादभिननकान्तिः काव्यदृशां शश्वदपि विमृदिता नयातयामा भवति । यथा हि नानाविधवसनाभरणकुसुमाङ्गरागादि योजनविराचिता नागरिकसैरन्ध्रपिसाधनकला वरतनोरे कामेव रूपश्रियमुपस्कृत्य समग्रयति । इदं चात्र किमपि रहस्यं काव्यरचनायाः । यः किल लोके कामिनोः प्रथमसमागमे चक्षूरागात् प्रभृति यावदङ्गसङ्गं व्रीडाभयौत्सुक्यसंकीर्णवृत्तिर्भावव्यतिकरक्रमः । सोयमुत्तमप्रकृतिषु भवन् दर्शयितुमसुकरः कवीनां । भट्टबाणः प्रोढो गद्यकविर्हर्षचरित सरखतीदधीचयोः प्रथमसौहृदे दधीचेन मालतीप्रेषणं तया चासन्निधौ सावित्र्याः सरखत्यै रहसि दधीचप्रार्थनाऽऽविष्करणमित्यादिकं नायिकानायकयोः प्रथमोपवर्णितगुणप्रकर्षस्यासदृशामिव दर्शयति । कादम्बर्यामपि प्रथमं चन्द्रापीडं दृष्टवत्या एव पुनः प्रासादमारुह्म पश्यन्तृयाः ग्रयत्नेन शृङ्गारचेष्टाऽऽविष्करणं पत्रलेखया च श्लिष्टवचनेन चन्द्रापीडाय कादमृबरीरागावेदनं च तथाविधं । भवभूतेरपि मालतीमाधवे मालत्या लवहिङ्गकाप्रेषणेनमाधवग्रथितवकुलदामोपनायनं सशिष्यायाः कामन्दक्या
महान्यत्नोदेवतागृहे मकरन्दस्य मालतीवेषग्रहणं नायकथोराकस्मिकश्च समागमः इत्यादिकं खभावाद्दवयिः । वीरचरितेऽपि सीतारामयोभोवव्यतिकरः प्रौढवयसोरिव दर्शितः । न मुग्धयोर्गुरुगौरवयन्त्रितयोरिव । एवमन्यत्रापि यूनोः प्रथमसमागमसन्दर्भः किमपि विरूप एव दृश्यते नैवं कालिदासनिबन्धेषु अयमेव हि सन्दर्भो निकषः काव्यपरीक्षायाः । यथा रघुवंशे इन्द्रमतीखयंवरे षष्ठे सर्गे ( 68 ) ““तस्यां रघोः सूनुरुपस्थितायां वृणीत वा नेति समाकुलोऽभूत् । मेतरः संशयमस्य बाहुः केयूरबन्धोच्छ्वसितैर्नुनोद ॥’’ इति 80, 81, 82,
““ततस्सनन्दावचनावसाने लज्जां तनूकृत्य न्द्रकन्या । दृष्ट्या प्रसादामलया कुमारं प्रत्यग्रहीत् संवरणस्त्रजेव सा यूनि तस्मिननाभिलाषबन्धं शशाक शलीनतया न वक्तुं । ञ्चलक्ष्येण स गात्रयष्टिं भित्त्वा निराक्रमदरालकेश्याः ॥ तथा परिहासपूर्वं सख्यां सखी वेत्रभृदावभावे । आर्ये इत्यथैनां वधूरसूयाकुटिलं ददर्श ’’ ॥ इत्यादिना सन्दर्भेण को वधूवरयोः हृदयसङ्गः प्रत्यक्षामिव दर्शितः ॥
यथा च कुमारसम्भवे तृतीयसर्गे 67, 68, ““हरस्तु किञ्चित् परिलन्तधैर्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ विवृण्वती ताऽपि भावमङ्गैः स्फुरद्बालकदम्बकल्पैः । साचीकृता तस्थौ मुखेन पर्यस्तविलोचनेन ॥ ’’ इत्युपक्षेपः, पञ्चमे च सर्गे सि स्थिताया गौर्यास्तापसब्रह्मचारिणा परमेश्वरेण सह प्रियरिवादासहतापर्यन्तेन रागातिरेकेण जिगमिषोर्गौर्यास्तादृशप्रेमर्दिना परमेश्वरेण निरोधनं, तत्कालसद्दशश्चालाः । 8 4, 85, 86, "” इतो गमिष्याम्यथवेति वादिनी चाल बाला स्तनभिननवल्कला । खरूपमासथाय च तां कृतस्मितः समाललम्बे वृषराजकेतनः ॥ तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती । मार्गाचलव्यतिकराकुलितेव सिन्धः शैलाधिराजतनया न यथौ न तस्थौ ॥ अद्यप्रभृत्यवनताङ्गि तवास्मि दासः क्रीतस्तपोभिरिति वादिनि चन्द्रमौलो । अह्नाय सा नियमजं क्लममुत्ससर्ज क्लेशः फलेन हि पुनर्नवतां विधते ॥ ’’ इति श्लोकैर्दर्शितश्चोभयोश्चित्तसमावेशः, तथापि पितृपरतन्त्रतया पित्रवज्ञापनाय सखीमुखेनेश्वरत्य निवेदनं, षष्ठे च स्रर्गे । ( 84 ) "” इति वादिनि देवार्षौ पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ’’ ॥ इति भावप्रदर्शनं च, परश्च सन्दर्भः परस्परभावबन्धं तरुभिवाङ्कुरपल्लवशाखाप्रसवादिग्राहिणमुच्छ्राययन् व्यतीतप्यर्थ वर्तमानमिवापरोक्षयति । यथा च मालविकाग्रिमित्रे चित्रदर्शनाद्राज्ञो मालविकाहासोत्पादनादितरेतरानुरागोदयः, प्रमदवने चाशोकदोहदार्थंमुपगताया राज्ञा समागमनप्रकारः समुद्रगृहे च द्वयोरभिगमः, परञ्च संदर्भः क्रमशो विजृम्भमाणविस्त्रभ्ममनुरागपोषमेव दर्शयति । यथा च विक्रमोर्वशीये असुरबन्दीग्रहान्मोचिताया उर्वश्याः खं रथमारोपिताया प्रभावोपकाररवशीकृतात्मनो गुणगौरवादेकासनवशेन यद्दच्छोपनतादृर्शनादितश्चनुरागोद्भवः पुनः पुनः सङ्गविराभ्यां कामपि भूमिं गमितः । यथा वा शकुन्तलेऽपि वृक्षसेचनप्रसकानां कामपि भूमिं गमितः । यथा वा शकुन्तलेऽपि वृक्षसेचनप्रसक्तानां मुनिकन्यानां विस्त्रब्धविहारदर्शनात् "” अणसूए अदअपिणद्धेण थणवक्कलेण पिअंवदाए दिढं णिअंदिदह्मि दाव णम्, ’’ इति लावचने "” हला एत्थ दाव पयोहरवित्थारइत्तअं अत्तणो उवालंह ’’ इति प्रियंवदाप्रतिवचनस्य, (प्रियंवदा) ““हला अविजाणासि किं णिमित्तं सउंदला वणजोसिणिं अदिमत्तं दित्ति । ( अनसूया ) ण खु विभावेमि कहोहिकहेहि ( प्रियंवदा ) वणजोसिणी अणुरूवेण पाअवेण संगदा एव्वंणाम अहं वि अणुरूवं वरं लहेअति । इत्यादेश्चोक्तिप्रत्युक्तिक्रमस्य रागस्य राज्ञो मधुकरवृत्तान्तव्यपदेशेन प्रवेशः कुमारीभिः वचनव्यतिकरे शकुन्तलाया लज्जामदनसंप्लवः परां भूमिं प्रणयस्य प्रचयक्रमादपक्षिप्तः तदनुरोधी चोत्तरः संदर्भः । थोजनवैदग्ध्यं कालिदासस्याधिगुणं । यत्रान्ये भवभूतिबाणप्रभृतयोऽपि न सिद्धिमध्यरुक्षन् । त्रय एव च कालिदासस्य नाट्यप्रबन्धा लभ्यन्ते मालविकाग्रिमित्रं, विक्रमोर्वशीयं, शाकुन्तलं च । तत्र विकाग्रिमित्रमुत्पाद्यकथावस्तुकं धीरललिताख्येन शृङ्गारिणा नोपेतं प्रकरणं नाम रूपकं । अग्रिमित्र एव हि पराणे निर्दिष्टनिर्देशः पुनरिदं कथावस्तु रेखयाऽपि क्कचिदुन्मीलितपूर्वं । विक्रमोर्वशीयं महाभारतादिप्रसिद्धेतिवृत्तमपि पश्चादुर्वशीविरहसमागमादेः नैव योजनान्मिश्रं दिव्यनायिकाश्रयाच्च त्रोटकाख्यमुपरूपकं । न्तलं तु प्रख्यातेतिवृत्तं धीरोदात्तंनायकं नाटकं रूपकेषु ““महासतृवोऽतिगम्भीरः कृपावानविकत्थनः । स्थिरो हतृयुक्तधीरोदात्तलक्षणसमग्रो हि दुष्यन्तः । शकुन्तला प्रसूतिर्महातेसो विश्वामित्रस्य तेजोविवर्तः काश्यपस्य च सुतेति रूपलावण्यधर्मधैर्यादयोगुणास्सहजा एव ह्मस्याः तदुभयाश्रयं
ब्रह्मक्षत्रप्रभावानुभावप्रवृत्तिनिदर्शनं लोकस्यैव दर्शनाच्छ्रवणाद्वा गुणोन्नतिमादधानं वस्तुनायकादिप्रकर्षसदृशेन वाणगुणविशेषेण च कदाचिदपि काव्यविदां हृदयान्यविजहदिदं शाकुन्तलं नाटकरत्नं समाभ्यधिकवार्तावर्जितं किमपि पदमासादयति । येनाहुः ““नाटकेषु शकुन्तला’’ इति । शाकुन्तलनाम्रा चात्र नायिकाप्राधान्यं प्रतीयते । महाभारतेऽपि शकुन्तलोपाख्यानव्य्रपदेशः शकुन्तलायाः प्राधान्यमवगमयति । सा हि जन्मतो गुणतश्च विशिष्यते । येन राजर्षेर्महाप्रभावस्यापि दुष्यन्तस्य चरितं नानयाऽननुविद्धं किमप्युदाहरणपदवीमुपाश्रितं । तदिह महाभारतवदेव शाकुन्तलव्यपदेशेनेतिवृत्तमुपात्तं । अङ्गुलीयवृत्तान्तस्तु केवलमत्र कविना स्वयं योजितः । यदाश्रयमभिज्ञानशाकुन्तलाभिधानं नाटकस्य । अभिज्ञानवृत्तान्त एव हि षष्ठसप्तमयोरङ्कयोराश्रयः । षष्ठसप्तमौ चाङ्कौ किरीटमिव पुरुषस्य प्रबन्धस्यैव कामापि शोभामावहतः । यतः सपीठादिव शिखरा?द्विमानं प्रबन्धत्नमिदं दर्शनीयामुन्नतिमुपयाति । ये खल्वपल्लवितमनीषा विच्छायवाचः पूर्वप्रबन्धानुहरणजीविताश्च प्राकृताः कवयः । तेषां कविप्रख्याऽभिलाषपरवशानां बहुशः प्रयस्यतामपि काष्ठभारैरिव पुरुषशिरांसि विरसैरवसानैदुर्दर्शानि काव्यानि भवन्ति । महतां तु कवीनां वाग्विलासस्तरुरिव सर्वतः पुष्पपल्लवैर्नवैश्शब्दार्थैरुपचितः प्रकामरमणीयामग्रतो लक्ष्मीं गृह्णति । कथावस्तुनो यस्मिन् पर्वणि विगलितवेद्यान्तरं दशान्तरं सहृदयहृदयान्यनुभवनित, तद्धि पचेलिमं रसमभरनिर्भरं निगमनस्थानं कालिदासीयनाटकानां । विशेषतस्तु शाकुन्तलस्य । अत्र कथावस्तु शेऽपि कवेर्वैदग्ध्यमनुचिन्तनीयं । महाभारतात् किलेदमुद्धृतं वस्तु । महाभारते शाकुन्तलोपाख्यानमेवमुपाख्स्यातं । दुष्यन्तो राजर्षिर्मृगयानुषङ्गात् कण्वाश्रमं विवेश । फलाहरणार्थं गते महर्षौ तस्य दुहित्रा शकुन्तलया यथावदुपपादितार्हणस्तद्गुणविशेषाक्षिप्तचेतास्तस्या एव मुखात्तदुत्पत्त्यादिवृत्तान्मवधार्य तां खयं वरयामास । निजगर्भसम्भवस्य कुमारस्य पितृराज्यभागित्वेन समयेन परिणयमिच्व्छन्तीं प्रतिश्रुत्य महर्षिभयज्वरार्दिते प्रत्यागतो वनान्तराद्दुहितरं व्रीडाविलक्षां यथापूर्वमनुपसर्पन्तीं प्रभावविदितार्थः प्रसन्न एवान्वमन्यत मुनिः । आपन्नसत्त्वा शकुन्तला त्रिषु वर्ष्रूष्वतीतेषु महातेजसमसूयत कुमारं । महर्षिणा दुर्षर्षस्स बालस्सर्वानेव सत्त्वान् बलेन दमयन् इति तापसैः कृतव्यपदेशस्तत्रैव सत्त्वान् बलेन दमयन् इति तापसैः कृतव्यपदेशस्तत्रैव तपोवने विहरन्नतिष्ठत । वर्षं च समधिगतशस्त्रशास्त्रविज्ञानिं यौवराज्ययोग्यमेनमाकलय्य श्यपो महर्षिः सपुत्रां शकुन्तलां शिर्ष्यैर्नीयमानां पतिगृहं नगरप्रवेशमनिच्छत्सु बहिरेव प्रतिनिवृत्तेषु कण्वशिष्येषु सपुत्रा न्तला खयमेव राद्वारमुपगम्य दौवारिकैर्निवेदितागमना च राजानमभिम्य वत्स ! प्रणम पितरमिति पुत्रमादिशे । किं व्यं तव वा पुत्रस्य वा तापसि मयेति चानुयुकृता राज्ञा पुत्रस्य यौवराज्याभिषेकं स्मारयामास । जानन्नपि तमर्थमजानन्निव राजा परिग्रहमेवाप्रतिपद्यमानो धर्मपत्नीं प्रत्याचख्यौ। तयोर्दम्पत्योर्धर्माश्रये विवादे स्वचारित्रविस्त्रम्भान्निश्शङ्कं सदिस राजानमवधूयधर्मवादिन्यां श्याकुन्तलायामशरीरया वाचा सत्यापिते परिणये देवदूतेनानुशिष्टः प्रतिजग्राह दुष्यन्तः सपुत्रां पत्नीं । उवाच च सदस्यान् जाने चाहमेनां परिगृहीतपूर्वां । यदा युष्माकं परोक्षमावयोः सङ्गतं तदा पुत्रमस्या राज्ये निवेशयन् शङ्कनीयः स्यामिति मध्यस्थ इदनर्रामस्मि संवृत्तः । अश्रीरया वाण्या देवदूतशासनेन चावचनीयः सम्प्रति भवद्भिरनुमोदितः कुमारै यौवराज्येऽभिषेक्ष्यामीति । ततश्च तथैवानुमतः कुमारमभ्यषेचयदिति । एवमस्मिन् महति चरिते धीरोदात्तस्य दुष्यन्तस्य प्रतिश्रुतानिर्वहणं तद्ग्रोपनाय च परिणयस्यैवापलापो धर्मपत्न्याश्च प्रत्याख्यानमित्येष विरूपो मिथ्याचारः । महाभारतं तु महतामपि संभावितप्रमादं सुलभस्खलितं च नाकलङ्कं चरितं प्रायेण भवतीति निदर्शयद्यथावृत्तं वृत्तमुपन्यस्यन्न दुष्यति । नाटकस्य तु रसमेव केवलं सामाजिकभावनाभूमौ निषेक्तुं प्रवृत्तिः । अन्यतमं साधनमत्रेतिवृत्तं । तच्च कविण्धीपरिपूतम वगलितदोषतुषमेव समीहिसंपत्तये प्रभवति । तथा चोक्तं ध्वनिकृद्भिः । "” सन्ति सिद्धरसप्राया ये च रामायणादयः । कथाश्रया न तैर्योज्या खेच्छा रसविरोधिनी ’’ ॥ इति कारिकां व्याचक्षाणैः ““तेषु कथाश्रयेषु तावत् खैच्छैव न योजृया । यदुक्तं "” कथामार्गे न चातिक्रम’’ इति । खच्छाऽपि यदि योज्या तद्रसविरोधिनी न योज्या । इदमपरं प्रबन्धस्य रसाभिव्यञ्जकत्वे निबनधनं । इति वृत्तवशायातां कथंचिद्रसाननुगुणां स्थितिं त्यक्त्वा पुनरुत्प्रेक्ष्याप्यन्तराऽभीष्टरसोचितकथोन्नयो विधेयः । यथा कालिदासप्रबन्धेषु यथा च सर्वसेन विचरिचते हरिविजये । यथा च मदीय एवार्जुनचरिते महाकाव्ये । कविना
प्रबन्धमुपनिबध्रता सर्वत्मना रसपरतन्त्रेण भवितव्यं । तत्रेतिवृत्ते यदि रसाननुगुणां स्थितिं पश्येत् तां भंक्त्वाऽपि खतन्त्रतया रसानुगुणं कथान्तरमुतृपादयेत् । न हि कवेरितिव्त्तमात्रनिर्वहणेन किंचित् प्रयोजनं हतिहासदेव तत्सिद्धेः इति । तथा च य एव बीजोपक्षेपात् प्रभृति नैकरूपैः साधनसङ्ग्रहैर्बाधविधूननैश्च यत्नोपपादितपरिपोषो रसः।सकथं वैरस्य दुःस्थो गाय सहृदयानां । तथा च यदर्थः परिश्रमः कवेर्वा नटस्य वा हि समूलकाषं कषितं भविष्यति । यदिह चरिते काष्ठागतेन निवेशेन विभावदिसाधनसामग्रीर्बृहित वृत्तिना यत्नपरिणीतायावद्यगुणभूषणायाः प्रणयिन्याः प्रण्यपरिभावि नायकवृत्तं । स्मरणादस्मरणाद्वा सञ्जातमुपनिबध्यमानं पूर्वरूपविपर्ययाद्गसमेव पङ्कक्षोभाविलमिव सलिलमनादेयमावहेत् । यद्यपि लोकवृतृतमनेकरूपं । यथाभूतार्थदर्शनं चेष्यत एव द्रष्टृभिः तथापि नायिकानां चाभिजनविद्यावृत्तवशादुत्तममध्यमाधमप्रकृतिवशाच्चगुणदोषविभक्तानीतिवृत्तानि बहुधा यथावदुपदर्शयनित रूपकाण्युपरूपकाणि च नानेव लक्ष्यन्ते । विशिष्टाभिजनविद्यावृत्तयोः चोत्तमयोर्नाटकप्रबन्धवस्तुनोः शकुन्तलादुष्यन्तयोरुदात्तो न मनागपि वैगुण्यं सहत इति कथावस्तुलेषो विसदृशोऽपि दृशः प्रणीतः कविना । आलेख्यं च कविकर्म चेत्युभयमिदं न्यविशेषाश्रयमन्यथा चान्यथा च नि?र्मीयते । तत्र विशेषतश्चैत्रमैत्रादिव्यक्तिरूपमालिखितुकामेन शिल्पिना गुणे वा दोषो वा यस्य यथोपलब्धस्तस्य तथोपपादित एव चित्रस्य गुणाय भवति । सामन्यतस्तु परावृत्तविश्रुतगुणान् कोकोत्तरान् पुरुषानालिखता यावता दोषा दूरीक्रियन्ते गुणाश्चोपनीन्ते । तावता यत्नेन कलाकौशलमाविष्कर्तव्यं भवति । कविमिभिरपि रामयुधिष्ठिरादीन्
स्वकालोपलब्धान् विशिष्य वर्णयद्भिर्व्यातसादिभिर्यथोपलम्भं गुणो वा दोषोवा व्यक्तिगतो दर्शितः । नाटककृतस्तु गुणोत्तरस्त्रीपुंसयोश्चरितापदे शेन रसप्रकर्षं दर्शयितुमेव संरमृभ इति सामान्यानुरोधी कथावस्तुविनिवेशो लेशतो विपरिणमय्यापि परां शोभामानीयते महाकविना । यदत्र दुर्वासश्शापनिबन्धनंराज्ञः परिग्रहानाकलनं, ततश्चाधर्मभीरेस्संशयमग्रहृदयस्य सत्यपि रागे सर्वप्रकारहृदयंगमादिन्द्रियार्थादात्मनिरोधः । तदिदमुदात्तगुणस्य कथानायकस्य गुणमेव बहूकरोति । पञ्चमाङ्के हि "” अहिणवमहुलाकलुवो तुमं तह परिचुंबिअ चूदमञजरिं । महुबअर ह्मिरिदोऽसि णं कहं ॥ ’’ तथा परिचुम्बय चूतमञ्जरीं [कमलवसतिमात्रनिर्वृतो मधुकर विस्मृतोऽस्येनां कथं ॥ ] इति हंसपरिकागीतश्रवणात् "” किं नु खलु गीतभेवं विधार्थमाकर्ण्येष्टजनविरहादृतेऽपि इति परिचिन्तनं, अग्रे च "” संदिग्धबुद्धिं मां इवाख्यः कोपो लक्ष्येते । तथाहृमनया ॥ मय्येव वृत्तं रहःप्रणयमप्रतिपद्यमाने । भेदाद्भ्रुवोः भग्रं शरासनमिवातिरुषा स्मरस्य ’’ इत्येवमान्तररगव्यतिकीर्णमेव शापमहिम्रा विस्मरणं रसस्य नापकर्षाय । ““रम्याणि वीक्ष्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति यत् सुखितो1़पि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं जननान्तरसौहृदानि ’’ इति च संस्कारशेषस्य प्रेम्णो भावस्य सद्भवआविष्कृतः । यथा चायं श्शापेनास्तमितव्यक्तिः प्रणयः फ तथा तथा चाभिज्ञानदर्शनाद्विमुक्ते शापे सानुशयं समुच्छ्राययन् पुनः समागमे प्रकामरसनीयतामापदयति । नाम शकुन्तलाहस्तादविच्युमङ्गुलीयं भवेत् । तर्हि न कश्चिदर्थः स्यात् । किंच विस्मृत्य प्रत्याचक्षाणस्य तदात्वङ्गुलीयकदर्शनाद्राज्ञः प्रत्यभिज्ञानमगृहीतस्मृतिप्रमोषनिमित्तानां स्यानां तपखिनां च समक्षं लघूकृतात्मनः खात्मनि विलक्षस्य वैरस्याय वैरस्याय स्यात् । समकालमेव विरूपयोस्तिरस्कारपुरस्कारयोरकस्मात् सम्भवो हि न महापुरुषसुलम महागुणं । अथ च शापो मोक्षो वा यदि शकुन्तलाया ष्यतां तदा नातृमना शुकुन्तलाया राजान्तिकगमनमलप्स्यतावसरं अङ्गुर्लायकमेव हि तर्हि प्रथमं विसृज्येत । येनैष पारिप्लवो न तथा च नोत्तरस्य संविधानस्यावतारः स्यात् । स हि सन्दर्भो म्भाश्रयः । यतः प्रबन्धः सातिशयं स्वदते । द्विप्रकारस्तु योगपूर्वंश्चायोगपूर्यश्च । यस्सङ्गतयोर्वियोगः स योगपूर्वः । यश्च श्रवणादिभिश्चित्तासङ्गमप्रतिबन्धः उभयविधोऽप्यसौ यावता गुरुरनुभूयते तावता कमनीयतां पुनःसङ्गमं शाकुन्तले चायोगविप्रलम्भो तपोवने हि विवाहः । विरहपरिणाहस्य । दर्शितं चेदं कविना चतुर्थाङ्कविष्कम्भे को वा अब्भत्थिअदि ’’ [दुःखशीले तपस्विजने कोवा अभ्यर्थ्यते] इत्यनसूयावचनेन । तदेवं योगविप्रलम्भमेव परिशिष्यमाणमन्ते भवष्यितः सम्भोगशृङ्गारस्य परमभागमादधानमादाय प्रवृत्तो नाटकीयवस्तुनः पश्चिमखण्डः प्रबन्धस्य शेखरायमाणो विजयते । यदत्र निर्वर्तितसुरतकृत्यस्य कश्यपसमक्षं राज्ञः प्रियासङ्गमे काश्यपमुखाद्वितिविस्मयकारणस्य
स्ववृत्तं प्रत्यनवज्ञानं, शकुन्तलायाश्च प्रेयस्यविस्त्रम्भपरिहाणं, तदुभयं भूयोऽपि परस्परतेरतिशयमुपपादयति । तथा च विक्रमोर्वशीये गन्धमादनवने शापाल्लता भावं गतामुर्वर्शी विप्रयुज्य जलदागमोद्दीयिजतोन्मादस्य पुरूरवसःकालेन कृच्छ्रादुपलब्धः सङ्गमः कमपि विशेषं पुष्यति । मालिविकाग्रिमित्रे तु प्रालविकाप्रतिकृतिदर्शनातृ प्रभृति जातरागस्याग्रिमित्रस्य च माधवसेनसङ्कल्पवगमादग्रिमित्रगुणश्रवणाच्च सञ्जातमनःसङृ्रगायाः शद्धान्तमासाद्य च विशेषतो जातरागाया मालविकायाश्च, प्रमदवनसमवायेन चेतरेतरहृदयपरिज्ञाने सति सङ्गमस्य श्रेयानयोगविप्रम्भः । ईदृशेष्वेव गुरुश्चारुश्च भवति । यो हि पदे पदे समागममुपदर्शयन्नाशाबन्धं च दीर्घीकुर्वन् यूनोश्चित्तमाकर्षति, स एव परिणाममधुरो विप्रलम्भः प्रकन्धस्य भूषणं । कुलशशीलादिव्यपदेशशालिनोश्च योगात् पूर्वमुत् पूर्वमुतृकण्ठायाश्चरावस्थायिन्याः सम्भवो न सुलभः । तदत्थिमयोगविप्रलम्भस्य चारुत्वं कविप्रतिभासर्वस्वमेव स्यात् । विशेषस्तु शाकुन्तलस्य लोकोत्तरप्रभावसौभग्ययोः शीलाचारपरिपालनव्यसनिनोर्धार्मिकयोः शकुन्तलादुष्यन्तयोरिति वृत्तविस्तरः कान्तासंमितोपदेशरूपः । काममेष रसधन इव मूलमध्याग्रेषु निर्विशेषमधुरः सहृदयैरास्वाद्यते । तथाऽपि विभावानुभावसात्त्विकव्यभिचारिपचितो रसान्तरैश्च यथायोगं क्रमेण सामाजिकमनीषामेकर?सीकुर्वननवसाने मध्यन्दिन इव दिनमणिः समग्रां दीप्तिमूकरीति । स हि महताऽपि व्ययेनानवाप्तापचयस्य प्रभावो महाकविप्रतिभार्णवस्य । चतुर्थाङ्के तु महर्षेर्दुहितृविरहप्रसङ्गे मनः संक्षोभः- शकुन्तलायाश्च पितृविराहसहता, गैरपि प्रकृतिवासनाया निश्शेषदुस्तरतां, पतिप्रण?णिनीनामपि वधूना शरीरबन्धुवियोगस्य निष्ठुरतां च व्यनक्ति । अङ्कान्ते "” अर्थो हि कन्या परकीय एव तामद्य संप्रेष्य परिग्रहीतुः । मनायं विशदः प्रकामं प्रत्यर्पितन्यास इवान्तरात्मा ’’ इति क्येन "” दुस्त्यजं किं ण्धृतात्मनां ’’ इति भागवतोक्तं स्वयत्तं धैर्यं च दर्शितम् । अपरश्चैष विशेषश्चतुर्थस्याङ्कस्य । मिलितं हि शाकुन्तलं नाटकं । अत्रादिमं दलं नायिकां नाश्रितृय प्रवृत्तं । तपोवने हि पितृभवनोषितां राजा परिजगृहे, अथ दुष्यन्तप्रधानं द्वितीयं दलं । तद्धि कारार्थिनीं राजकुलोपस्थितां शुकन्तलामधिकृत्य प्रवृत्तं । खर्गाधिरोहणमिन्द्रादिनिरसनं च राज्ञ एव हि विशेषः । एवं क्तविशेषयोरुभयोरपि दलयोर्मध्यमणिरिव दीप्तश्रीश्चतुर्थोऽङ्कः हि सप्तमाङ्कावसाने हेमकूटे काश्यपाश्रमे सापत्यायाः प्रियतमसमागमाभ्युदयः प्रस्तुतः स हि सर्वः कण्येन दुहितृवत्सलेनाशासितश्चतुर्थाङ्के । काश्यपश्च कण्वः । तदेवं नाभिरिव नाटकस्य कृतत्नस्य चतुर्थाङ्कः। गुरुशिष्यसमुदाचारश्चात्र कण्वशार्ङ्गरवसंवादे लोके विशेषतः परिगणनामर्हति । तथा हि "” वत्स शार्ङ्गरव ! भगिन्यास्ते मार्गमादेशय’’ इत्यादिषु गुरुर्विनेये पितृवद्वत्सलतां दर्शयति । विज्ञानसंवादे तु दर्शनीये ““पश्य वनरौकसोऽपि सन्तो लोकज्ञा वयं ’’ इत्यादौ मित्रविस्त्रम्भेण शिष्यं सम्भावयति । शिष्योऽपि ““भगवन्निमे स्मः ’’ "” गृहीतस्संशयः ’’ इत्यादिषु पितृवन्निदेशवर्तित्वं, "” भगवन्नोदकान्तात् स्त्रिग्धा जनोऽनुगन्तव्य इति श्रुयते । तदिदं सरस्तीरं अत्र सन्दिश्य नः प्रतिगनतुमर्हसि । ’’ "” न खलु धीमतामविषयो नाम’’ इत्यादिषु च सुहृद्वृत्तिं दर्शयति । एवमयं सौहार्दहृद्यामसंकरविविक्तामुत्रतां गुरुशिष्यस्थितिमभिव्यनक्ति । षष्ठाङ्के च "” स्थिता तिष्ठेत्युच्चैर्वदति गुरुशिष्ये गुरुसमे’’ इति समग्रगृहीतविद्याचारेषु गुरुशिष्येषु सैव हि गुरुवत् । एवमीदृशविशेषशालितामादायेच्यते"“तत्रापि च । ’’ इति । तत्र च ““अस्मान् साधु विचिन्त्य संयमधनानुच्चैः कलं चात्मनस्त्वस्य्यस्याः कथमप्यबान्धवकृतां स्नेहप्रवृत्तिं च । सामान्यप्रतिपत्तिपूर्वकमियं दारेषु दृश्या त्वया भाग्यात्तमतः न खलु तद्वाच्यं वधूबन्धुमिः ’’ इति श्लोको दुष्यन्तानुशासनमपदिश्य नियमनियतात्मनामप्यपत्यस्नेहश्चित्तविक्षेपहेतुरिति, प्रतीदक्ष्यप्रतिपत्तिरनुयानिति, दाम्पत्यमन्यादृशं स्थानं इति च लोकतत्त्वमनुदर्शयन् सामान्यप्रपित्तिप्रार्थनया च सत्यपि स्नेहे स्वार्थे मध्यस्थता महतां स्वो भाव इति च व्यञ्जयन्, शरीरसंबन्धादपि न्याय एवाद्रियते मनीषिभिरिति च ध्वनयन् न्यतो लोकमनुशास्ति । अथ च "” शुश्रूषस्व गुरून् कुरु वृत्तिं सपत्नीजने भर्तुविप्रकृताऽपि रोषणतया मा स्म प्रतीपं भूयिष्टं भवदक्षिणा परिजने भाग्येष्वनुत्सेकिनी यान्त्येवं युवतयो बामाः कुलस्याधयः ’’ इति च शकुन्तलामाश्रित्य कावस्त्रयी कुलवधूचारित्रपथः प्रकटीकृतः । "” अभिजनवतो श्लोध्ये स्थिता गृहिणीपदे विभवगुरुभिः कृत्यैस्तस्य तनयमचिरात् प्राचीवार्कं प्रसूय च पावनं मम विरहजां न शुचं गणयिष्यसि ’’ इति श्लोकश्च महत्यपि विभवे
कृत्यावधानं त्वसुलभमदालस्यलोभादिवर्जनं चेत्यादिगुणसंग्रहं प्रधानं यति । "” भूत्वा चिराय चतुरन्तमहीसपत्नी दौष्यन्तिमप्रतिरथं नयं निवेश्य । भर्त्रा तदर्पितकुटुम्बभरेण सार्धां शान्ते करिष्यसि पुनराश्रमेऽस्मिन् ’’ इत्यनेन च सार्वभौमत्वमपि सायैवान्ततः । वीतरागतैव निर्वृत्तिरात्मवतामित्ययमर्थः तदेवं स्त्रीपुंसयोः समुचितोपदेशसंग्रहं त्रैकालिकहितानुबन्धिनं सार्वलौकिकानुभवसंवादपेशलमेतदिह श्लोकचचतुष्टयं येनोच्यते “6 तत्र श्लेकचतुष्टयं ’’ इति । न चैतावता परि नाटकस्य माधुर्यापचयः शक्यशङ्कः । यतो यथा पार्थिवो मूलादारोहन् पादपस्य रकन्धाग्रे क्षमां सारवत्तां निक्षिपन्नपि क्रमशः पल्लवेषु कुसुमेषु फलेषु रसगन्धानन्यांश्चान्यांश्च सममुपचिनोति, तथैव चास्मिन्नपि सन्दर्भाश्रयो रसः क्रमेणाङ्कादङ्कमारोहंश्चतुर्थेऽङ्के कमपि गृह्णन्नापि यथोत्तरमतिशायिनीं माधुर्यलक्ष्मीमाधुर्यलक्ष्मीमनुदर्शयत्येव । अत्रैके ब्रूयुः महर्षिणा स्वशिष्यजनेनैव प्रापितां गौतमीसनाथां मुनिदुहितरं विस्मृतसम्बन्धोऽपि खैरिणीनिर्विशेषं विरसं निरसितुं प्रवृतो नायकगुणैर्हीयजे राजा । साक्षादनभिज्ञतां प्रति पश्चादङ्गुलीयकदर्शनादनुशयो निबध्यमानः प्रकृतीनां हि पृथग्जनवदनवस्थितवृत्तं प्रभविष्णुं दर्शयन् लघूकुर्यात् । तदेवमुपकल्पितेनाप्यभिज्ञानवृत्तान्तेन न निवारितः। तदप्यभिज्ञानं प्रतृयाख्यानदशायामेव यदि तदानीमिभिज्ञानप्रत्यभिज्ञातां तदात्व एव भर्ता भार्यां । तथा च तिरस्कारपारुष्यमपि नायकस्य विसदृदशं । पञ्चमाङ्केन च नाअकं समाप्तं स्यात् । तदेवं शेषयोरङ्कयोरुत्थानमिति । तदिदमविमर्शसुन्दरं । तथा हि । नाम पञ्चमाङ्कमात्रेण परिसमाप्तं नाटकमिदं स्यात् । प्रौढरसाभिलाषिणां रसविदामाखादपूरणाय न कल्पेत । व्यग्रयोरेव हि यूनोः कृच्छ्रोपपादितः सङ्गमाभ्युदयो भावनीयो भावकानां । चतुर्थे चाङ्के नायिकागमेव केवलं प्रदर्शितं । तदपि कालविलम्वप्रतिसन्धानमात्रनिमित्तं । अपि दवांसश्शापानवाधारणादपायशङ्काविरहेण काष्ठागतं भवति । अन्यश्च, शापविस्मृतप्रणयस्य प्रत्युत कैव कथा नायकस्य विरहोत्कण्ठायाः । तथाविधयोश्च समागमोपनिबन्धो रसं प्रच्यावयेतृ । यत उक्तमनेनैकविरेत्नेन ।
"” तप्तेन तप्तभिव संघटनाय योग्यं ’’ इति "” यदेवोपनतं दुःसात् सुखं तद्रसवत्तरम्। ““निर्वाणाय तरुच्छाया तप्स्य हि विशेषतः ’’ इति च यदि च कविना दुर्वासश्शापो विस्मरणहेतुर्नोपादयिष्यत, तदा तथाविधप्रिणयेनानुपदमेव राज्ञा यानसेनादिपरिकरोपनीतायाः शुद्धान्तप्रवेशनमात्रेणेतिवृत्तस्यः समाप्तेश्चतुर्थ एवाङ्को तरिष्यन् । तत्रापदीदमस्त्यवधारणीयं -न ह्मत्र शकुन्तलानभिसङ्ग्रहे गपि राज्ञौ वैरस्यं गम्यते । विस्मरणादेव हि शापनिमित्तात् परिग्रहभीरुणा धर्मिकेण रागवतैव सता राजर्षिणा कथमपि णीयादपि विषयान्मनः प्रतिवार्यते । जननान्तरानुभव इव च प्रणयो विगलितेत्थंभावो वासनाशेषः यन्ननवधारणविसंष्टुलं राजानं विप्लाचूदमञ्जरिं । व्वुदो महुअर विह्मरिदोऽसि णं कहं ’’ इति शमने सति, “6 किं नु खल गीतमेवंविधार्थमाकर्ण्य दृदतेऽपि बलवत्कुण्ठितोऽस्मि इति कृतचिन्तः पश्चात् ““रम्याणि वीख्य मधुरांश्च निशम्य शब्दान् पर्युत्सुको भवति तोऽपि जन्तुः । तच्चेतसा स्मरति नूनमबोधपूर्वं भावस्थिराणि न्तरसौहृदानि ’’ इति पर्याकुलस्तिष्ठतो ’’ त्येनन । निष्क्रान्तायां शकुन्तलायां "” शापव्यवहितस्मृतिः चिन्तयति ’’ इति गूढरागतृवमेव दर्शितं । उपस्थितायाः लायाः प्रथमदर्शनेऽपि "” का स्विदवकुण्ठनवती लावण्या । मध्ये तपोधनानां किसलयमिव पाण्डुपत्राणां ’’ इत्यनेन विविक्तविवेको रागोदयः प्रदर्शितः । अथ ““इदमुपनतमेवंरूपमल्लिष्टकान्ति प्रथमपरिगृहीतं स्यान्न वत्यव्यवस्यन् । भ्रमर इव विभाते कुन्दमन्तस्तुषारं न च खलु परिभोक्तुं नापि शक्रोति हातुं । ’’ इति च विशदावभासविप्लतं विरहौतृकण्ठ्यमेव स्पष्टीकृतं । एवं "” सन्दिग्धबुद्धिं मां कुर्वन्नकैतव इवास्याः कोपो लक्ष्यते । तथा ह्मनया । मध्य्येव विस्मरणदारुणचित्तवृत्तौ वृत्तं रहः प्रणयमप्रतिपद्यमाने । भेदाद्भ्रुवोः कुटिलयोरतिलोहिताक्ष्या भग्रं शरासनमिवातिरुषा स्मरस्य ’’ इतृयादिकं च रसातिशयमेव धर्मलोपसंशयप्रतिरुद्धप्रसरं गमयति । एवमादिभिरनुभावै राज्ञश्चित्तसमवस्थां जानतैव हि पुरोधसा स्वगृहं शकुन्तला निनीषिता । अनुमतं चेदं राज्ञा । ततश्च ज्ञायते संस्कारमात्रावस्थो राज्ञः शकुन्तलाप्रणयोऽस्त्येव । न तु निश्शेषप्रमुषित इति । दृष्टे चाभिज्ञाने निवृतृतशापस्य सपदि संस्कारोद्वोधादनुस्मरणं गूढानुरागसन्धुक्षणाद्रतिमेव परां कोटिमारोपयति । प्रकृतीनां च शकुन्तलायां
तपोवनादुगतायां स्वबन्धुभिरुपनीतायां न चारित्रलोपशङ्काऽवसरः । प्रभोरनवक्लृप्तिदुस्थामवस्थां शकुन्तलायाश्च स्वात्मप्रत्ययनिष्कम्पां वृतिृतमवलोक्य स्वामिन्येव प्रमादातिशङ्केति च तेनैव प्रकरणेन स्फुटीभवति । पुरोहितगृहगाभिन्याश्चा प्सरस्तीर्थोपान्ते तेजोमयदिव्यवनितापरिग्रहस्तामेव सम्भावनामवस्थापयति । षष्ठाङ्के चो?पनिबद्धो विप्रलम्भातिभारः पूर्वरसमेवाविच्छेदेन बहुलीकुर्वन् समागमस्य महतीं शोभामुनयति ॥
यदिह धममित्रस्य श्रेष्ठिनो व्यसनप्रसङ्गादापन्नसत्त्वाया प्रेयस्याः परित्यागानुशयेन प्रवृद्धेन मूर्च्छनं राज्ञः, यच्च मातलिसमास्क-न्दितस्य विदूषकस्यार्वप्रलापेन तेजोभिभवासहतया महापुरुषसुलभया क्षोभात् प्रतिबोधः, तदेतदखिलमतीव रसनीयमनुभूयते उतृतररामचरितादिषु शश्वन्मोषप्रतिबोधौ लधुनैव हेतुनोपनिबद्धौ महापुरुषगुणानुगुणौ सहृदयानां रसाखादं मनाग्विकलयत एव मारीचाश्रमे पुत्रदर्शने पुत्रस्य क्षत्रियतृवपुरुवंश्यत्वयोस्तत्पितुर्धर्मपत्नीपरित्यागित्वे मातुः शकुन्तलाभिधाने वा विदितेष्वपि सर्वोपाधिव्यभिचरातिशङ्कयाऽन्तर्गतोत्कण्ठाऽतिशयप्रदर्शनं लोकानुभवसंवादादतितरां हृदयङ्गमं । उत्तररामचरिते रामस्य कुशलवानुर्दर्शने र्तनकुमारच्छायायाः खसाद्दश्यस्य सीतासमानतायाश्चात्मनैवावधारणमनुत्सुकस्य तटस्थस्येवं विस्त्रब्धमनुसन्धानं प्रतिभाति । शकुन्तलासङ्गमप्रकारः कश्यपमुखाच्छापपरिज्ञानं च किमपि सहृदयसंवेदनीयं तत्त्वान्रम् ॥
अत्र नायिकासमागमस्य प्रथमं तपोवने पश्चाच्च मारीचाश्रमेदेवभूमौ वृत्ततया विदूषकव्यापारस्य परिमितः प्रसङ्गः । तत्र द्वितीयाङ्के राज्ञ एकाकिनस्तपोवनावस्थानं संविधातुं मृगयाविनिवर्तनाय देवीशासनापदेशेन सेनाप्रतिप्रेषणप्रस्तावाय च चक्षुः प्रीतिमनस्सङ्गपर्वारूढस्य शकुन्तलाश्रयस्य राजानुरागस्य प्रदर्शंनाय च विदूषकस्य नर्मसचिवस्य प्रवेश उपक्षिप्तः । पञ्चमाङ्कारम्भे च हसंपदिकागीतप्रसङ्गेन शकुन्तलादर्शनात् पूर्वं तिरोहितविवेकां सौषुप्तिकविस्फुरणसधर्मिर्णी भूतर्प्वप्रणयप्रतिपत्तिमुत्तरबन्धार्थव्यापिनीमुक्षेप्तुं नर्मसचिववृत्तान्तः स्तोकमवतारितः । षष्ठे चाङ्के व्यक्तिं गतस्य शकुन्तलाविप्रलम्भस्य विनोदोपायस्य च यपं निरूपयितुं भूयः प्रियासङ्ग हेतोस्त्रिदिवारेहणस्य मातलिप्रवेशनोपोद्धातमारचयितुं विरुद्धरसेनामर्षेण विरहविषादं व्यवधातुं च विदूषकवृत्तान्तनिवेशः परां शेभामावहति ॥
अत्र नाअके शकुन्तलार्ख्यो चानसूयाप्रियंवदे रूपशीलविज्ञानादिगुणशालिन्यौ दर्शिते । यथा तृतीयाङ्के ““हला संउंदले अणब्भन्तराखु वअं मअणगदस्य उत्तंदस्स । किंदु जारिसी इतिहासणिबन्धणेसु कामअमाणाणं समवस्था सुणीअदि तारिसिं दे पेक्खामि ‘7 इति प्रियंवदावचनतो युगपदेव शीलविज्ञाने दर्शिते । चतुथाङ्के च "” सहि अणुपजतुत्तभूसणो अ?अं णो । तह वि चित्तकम्मपरिअएण दाणिं दे अंगेषु आहरणविणिजो अं करेमो ’’ इत्यनेन कलाकौशमाविष्कृतम् । तयोश्चानसूया यवयिसी ऋजुभाषिणी च, प्रियंवदा तु मनाग्ज्यायसी वक्रोक्तिशीला च । तदिदमसङ्करेण तत्रालापव्यतिकरे स्फटमवसीयते । शकुन्तलायाश्च श्लोकरचनालेखनादिप्रस्तावेन विद्याविनीतत्वं व्यक्तमेव ॥
अन्यदपयेवमस्य प्रबन्धस्य प्रतृयङ्गसौभगं परामृश्यमानमुत्तरोत्तरं गम्भीरं च मधुरं च सहृदयसर्वस्वं नास्मादृशां वचनविषये भाति इति विरम्यते ॥
ति. ई. श्रीनिवासचार्यः,
शतवधानः.
End Of Book
]