[[अभिज्ञानशाकुन्तलम्-सहृदयसमाख्यानम् Source: EB]]
[
ॐ ॥ प्रथमोऽङ्कः ॥ ॥ अभिज्ञानशाकुन्लव्याख्याआरम्भः ॥ संसूच्छद्धेणुनादश्रवणहृदां संभ्रमादाद्रुतानामावेष्ठ्यासेदुषीणां व्रजहरिणदृशां मण्डलेना ? भिवीतः । एकैकस्याः पुरस्तातुभयतश्चात्तमायाशरीरः शैलूषो गोपवेषः कलयतु कुशालं रामलीलागुरुर्नः ॥ सर्वंमेव लौककं वज्ञतुजातं स्पर्धामोहादिकलिलमपि सरसकाव्येषु निपूणनटकर्मसु च बिम्बिलं ह्लादैकरसमिति स्थितं तावत् । तत्नापि दृष्टे वस्तु सविशेषं भावनालग्रं दृष्टं येनाहुः ; "" सन्दर्भेषु दशरूपकं श्रेमः ’’ इति । यदुपज्ञं चायमाभण्कः ; "" नाटकान्तं कवित्च ’’ मिति ! तदेयं महाकविप्रणीतं "" नाटकेषु शकुन्तले ’’ ति प्रततोत्कर्षं शाकुनतलं नाम नाटकं प्रयोक्ष्यमाणः "" यद्यप्थङ्गोनि भूयांसि पूर्वरङ्गस्य नाटके । तथाप्यवश्यं कर्तंव्या नान्दी विघ्रोपशान्तये ’’ इति निर्दिष्टां नान्दीमाशीरूपामादौ सूत्रधारः प्रयुङ्क्ते । यासूष्टिरितृयादिना । या जलरूपा तनुः स्त्रष्टुः आदौ भवा आह्मा सृज्यत इति सूष्टिः । प्रथमं सुज्यामित्यर्थः । "" अपएव ससर्जादौ ’’ इति स्मरणात् । या चाग्रिमयी तनुः विधिना शास्त्विधानेन विधौ यज्ञादिकर्मणि वा हुतं प्रक्षिप्तं हूयत इति हविः अज्यादिद्व्यं "" अर्चिशुचिहुसूपिच्छदिच्छ र्दिभ्यइसिः ’’ वहति उद्देश्यदेवतां प्रापयति । "" अग्रिमुखा वै देवाः ’’ इति श्रुतेः । या चयजमान्रूपा तनुः होत्रो होमस्य कनर्नौ । ये द्वे रवीन्दुरूपे तनू कालं यथासंख्यमहोरान्नरूपं विधत्तः विभजतः । अथवा मासादिरूपं तिथिनक्षत्रपक्षादिरूपं च यथासंख्यं विभजत इत्यर्थः । श्रुतिविषयः श्रवणग्राह्मः गुणः शब्दरूपो यस्यास्सा या नभोमयी तनुः सर्वेषां भूतानां चिदचिद्रपाणां वस्तूनां प्रकृतिर्मूलकारणमित्याहुः । येन भूतधात्रीव्यपदेश इति भावः । "" निपातेनाप्यभिहिते कर्मणि न कर्मविभक्तिः परिगणनस्य प्रायिकत्वात् ’’ इति वामनोक्या इति शब्देनाख कर्मणोऽभिहितत्वात् प्रकृतिरिति प्रथमा । प्राणिनो जन्तवः यया वायुरूपया तन्वा प्राणवन्तः वायोर्जगत्प्रात्वात् धान्येन धनवानित्यादिवद्ययेतृयभेदे तृतीया । ताभिः पृथिवीजलानलनिलव्योमरवीन्दुयजमानरूपाभिरष्टाभिस्तनुभिः प्रपन्नः प्राप्तः ईशः वस्सामाजिकान् अवतु रक्षतु । एवं जगच्छरीरत्वोक्या परमेश्वरस्य स्वत एव जगद्रक्षणस्वाभाव्यं व्यज्यते । हविर्वहनहोतृत्वादिभिश्च सर्वक्रियाराध्याराधकरूपत्वं विश्वव्याप्त याच परमात्मत्वं प्राणनहेतुत्व्रेन च जीवरूपेणानुप्रवेशनं इत्यादिकमभिव्यञ्चितं भवति । वायोः प्रत्यक्षस्पर्शाश्रयत्वान्नभसश्च तथाविधशब्दाश्रयत्वान्नीलं नभ ? इति प्रतीतृया नीलत्वेनालङ्कारिकैरभ्युपगमाद्वा प्रत्यक्षाभिरित्युपपन्नं सुश्लिष्टस्सामाजिकरज्जनाय भूयादित्यर्थतः प्रार्थितं भवति । "" रङ्गं प्रसाद्य भधुरैः श्लोकैः काव्यार्थसूचकैः ’’ "" अर्थतशशब्दातो वापि मनाक्काव्यार्थसूचनं ’’ इत्याद्यनुरोधात् व्याख्यातृसम्प्रदायाच्च प्राप्तं काव्यार्थसूचनं यथा । ईशो जगन्नियन्त राजा अवतु रक्षतु सीप्यष्टाभिस्तनुभिर्दिक्पालांशैः प्रवन्नः प्राप्तः । "" अष्ठभिर्लोकपालानां मात्ना भेर्निर्मितो नृपः ’’ इति स्मरणात् । प्रत्यक्षाभिरिति विशेषणेनातीन्द्रियाणामपि दिगोशांशानामयमेकः प्रत्यक्षावतार इति व्यतिरेको व्यज्यते । स्त्रष्टुः भुवनान्तरसूष्टिकतर्तुः कौशिकस्य आद्यां प्रथमा सृष्टिः शकुन्तलेत्यर्थः । आद्यशब्दोयमभ्यर्हितार्थः । विधिहुतं ! शास्त्रसिद्धेन गान्धर्वविवाहेन आहितं हविः दुष्यन्ततेजतोरूपं वहतिइति च "" दुष्यन्तेनाहितं तेजो दधानां भूतये भुवः ’’ इति वक्ष्यमाणं गर्मधारणं व्यज्यते । "" वेत्थ यथा पञ्चम्यामाहुतावापः पुरुषवचसो भवन्ति ’’ इत्यादिश्रुतिषु निषेकस्याहुतिव्यपदेशात् । या च होत्रीति धर्मपत्नीत्वं व्यज्यते । येद्वे अनसूयाप्रियंवदेकालं सङ्केतकालं विधत्तः निवेदयतः । "" चक्कवाअवहुए आमन्देहि सहअरं उवट्टिदा रअणी ’’ इत्यादिना सङ्केतकाज्ञापनात् । श्रुतिविषयगुणा प्रतृयादेशानन्तरं "" स्त्रीसंस्थानं चाप्सरस्तीर्थमारदाक्षिप्यैनां ज्बोतिरेकं तिरोभूत् ’’ इति वक्ष्यमाण प्रकारेण तिरोभावाददृश्येत्यर्थः । विश्वं व्याप्य विश्वं अतिरिच्य हेमक्टे मारीचारमे देवभूमौ स्थिता । सर्वाणि भूतानि प्रकृतयः प्रजाः यस्यास्सा पुनः पतिसमागमाद् गाज्ञीभावं प्राप्तेत्यर्थः । यया भरतजननन्या प्रजातन्तुप्रवर्तनादराजकत्वपरिहारेण / द्वाविंशत्या पदैर्वापि सा नान्दी परिकीर्तिता ॥ ’’ इति नान्द्यां पदनियमउक्तः । सचात्र व्यभिचरीति । तथापि यैर्नान्द्यां पदनियमो नाङ्गोकृतः तन्मतेनेदं । नियमेपि "" श्लोकपादां पदं केचित् सुप्तिडन्तमथापरे । नरेवान्तरवाक्यैकस्वरूपं परसूचिरे ’’ इत्युक्त्या अवान्तरवाक्यैरष्टभिर्नियता नान्दीयमित्यव्यभिचारः । स्त्रग्धरावृत्तम् । नान्द्यन्त इति । नन्दिन इयमिति वा नान्दी देवताऽस्या इति वा नान्दी । तदुक्तं भावप्रकाशे "" नन्दी वृषी वृषाङ्कस्य जगदादौ जगत्पतेः । नृत्यतः कल्पनायीगाज्जगाम किल रङ्गतां । तस्य तद्गपूसम्बद्धा पूजा नान्दीति कथ्यत ’’ इति । अथवा नन्द्यते समृद्विंनीयत इति , नन्दयति सम्यानिति वा नान्दी । यथा भावप्रकाशे "" देवतादिनमस्कारमङ्गलाराम्भपाठकैः । या किया नन्द्यते नाठ्यारम्भे नान्दीरूपः योयमन्तः पूर्वरङ्गावसानं तस्मिन् । अथवा नान्द्याः अन्ते अवतसान इति षष्ठीतत्पुरूषु इति नांद्यन्तशब्दो द्वेधा व्याख्यातो नावप्रकाशे । सूत्रं काव्यार्थसूचनं धारयतीति सूत्रधारः । सच स्थापकशब्दिती नान्दीप्रयोक्तुरन्य एव नट इत्येके । तदुक्तं दशरूपके "" पूर्वरङ्गं विधायादौ सूत्रधारे विनिर्गंते । प्रश्यि तद्वदपरः काव्यमास्थापयेनटः ’’ इति , "" नान्द्यन्तेऽनुप्रविष्टेन सूत्रधारेण धीमता । प्रस्तावनाय रङ्गस्य वृत्तिर्योजृया हि भारती ’’ इति च । तन्मते सूत्रधार इत्यनन्तरं प्रविश्य पुष्पाज्जलिं विकीर्यं पठतीत्यध्याहार्यं । ये तु नान्दीप्रयोक्तैव सूत्रधर आसुखं प्रस्तौतीत्याहुः । तेषां मेते पठतीत्येतावदध्याहार्यम् । नेपथ्येति । भूमिकापरिग्रहस्थानाभिमुखभित्यर्थः । भगवन्तोऽवरैर्वाच्या विद्वद्देवर्षिलिङ्गिनः । विप्रामात्याग्रजाश्राया नटीसून्नभृतौ मिथः ’ इति वचनात् । नटीसूत्रधारयोः परस्परमार्यशब्देन सम्बोधनं । नेपथ्यविधानं भूमिकाविरचनं । अवसितं समाप्तं स्यतेरवपूर्वात्कर्मणिक्तः । नियुजृयते प्रवर्त्यते अस्सिन्निति नियोगः व्यापारः । परितस्सीदन्त्यस्यामिति परिषत् सम्पदादित्वात्किपू । अभिलक्ष्यं रूपं दृश्यप्रब्न्धो नाटकादियैस्तेभिरूपाः । "" रूपं दृश्यतयोच्यत ’’ इति दशरूपके । "" रूपं तु श्लोकशब्दयोः । पशावाकारसौन्दर्ये नाणके ।नाटकादिके । ग्रन्थावृत्तौ स्वभावे च ’’ इति हैमः । नाठ्यकलाभिज्ञैरित्यर्थः । "" अभिरूपो बुधे रम्ये ’’ इति मेदिनी । भूयिष्टा प्रचुरा । का ? लिदासेन ग्रयितं विराचितं वस्तु कथाशरीरं यस्य तेन "" यत्तत्रानुचितं किञ्चिन्नायकस्य रसस्य वा । विरुद्धं तत्परित्याजृयमन्यथा वप प्रकल्पयेत् , ’’ "" एकाहरितैकार्थ मित्थमासन्ननायकं । पातृनैस्त्रिचतुरैरङ्कं तेषामन्ते च निर्गमः ’’ इत्याद्युकं दशरूपके । भावप्रकाशे च "" सूच्यमेव भवेत्कॢञ्चिद्दृश्यं श्रव्यमथापरं । नीरसोऽनुचितस्तत्र संसूच्यो वस्तुविस्तरः । विरसं लौकिकापेतमशास्त्रीयं च यद्भवेत् । तद्वस्तु संसूच्यो वस्तुविस्तरः । विरसं लौकिकापेतमशास्त्रीयं च यद्भवेत् । तद्वस्तु सूचनीयं स्यीत् ’’ "" युद्धं राज्यभ्रंशं मरणं नगरोपरोधनं चैव । अप्रतृयक्षकृतानि प्रवेशकैस्संविधेयानि ’’ इ त्या दि । अत इदेतिहासप्रसिद्धेऽपि वस्तुनि राज्ञः परिणयविस्मरणादिकं लोकविरुद्धमिति दुवांसश्शापादिकं कवेस्संविधानमित्याद्यूहनीयं । नवशब् ? देन भासौमिल्लदिकृ तीनां सामाजिकैदृदैष्टपूर्वतृवं क्कालिदासकृतेरिदं प्रथमदर्शनत्वं च व्यजृयेत । अतश्च सामाजिकादरणीयतृवं दर्शितं भवति । नाटकेन करणेन उपस्थातव्यं प्रवर्तितव्यं । तत तस्मातृ अभिरूपाणां साभाजिकानामाराधनीयत्वात् महाकवेः काव्यरयाभिनवस्याभिनेयत्वाच्चेत्यथंः । प्रतिपात्रं क्शिषाकैकस्मिन्नपि पात्रे "" अव्ययं विभक्ती ’’ त्यादिता यथार्थेऽव्थयीभावः । योग्यतावीप्सा पदार्थानतिवृनतिवृत्तिसादृश्यानि ’’ यथार्था इत्युक्ते । यत्नः अवधानं आधीयतां न्यस्यतां । निस्कृ ? तप्राणो वाग्वापारो नटाश्रयः इत्युक्तलक्षणाया भारतीवृत्तेरङ्गेषु प्ररोचना वीथीप्रहसनासमुखेषु प्ररो चवनारूमङ्गं भवति । उन्मुखीकरणं तत्र प्रशंसातः प्ररोचेन ’ ति लक्षणात् । अत्र हि निरूपपदेन कालिदासनामग्रहणेन कवेः सुप्रसिद्धतां व्वञ्चयता , नवशब्देन च नाटकान्तरवैलक्षण्यातात्पर्यं गर्मीकुर्वता सुष्टुकुता कवि काव्ययोः प्रशंसा । अग्रिमेण च "" सुविहितप्पओअदाए ’’ इति नटीवचनेन नटप्रशंसा च कृता भवति । सुविहितः पात्रेषुम्यक् प्रतिष्ठापितः प्रयोगः नाठ्यं येन तथाभूततया पूर्वमेव । किमपीति क्रियापिवशेषणं । परिहीयत इति कर्मकर्तरि लकारः । अल्पमपि वैकल्यं न भवेद्येन प्रतिपात्रं यत्नाधानापेक्षेति भावः । भूतार्थां यथावस्थितं विषयम् । आ परितोषादिति । विदुषां सदसद्विवेकिनां आपरितोषात् प्रीतिं यावत् पदद्वयं चेदं । "" आड्यर्यादाभिविध्योः ’’ इति विभाषाधिकारात् । प्रयोग विज्ञानं नाठ्यकौशलं साधु निर्दोषं । बलवत् दृढं । स्वरादिपाठादव्ययं । शिक्षितानां अभ्यस्तवतामपि शिक्षतेरत्राविवक्षितकर्मत्वेनाकर्मकत्वात् कर्तरिक्तः । चेतः मनः श्रात्मनि स्वस्मिन् विषये अप्रत्य विस्त्रंभरहितम् । विदुषामपि निजरूप प्रतिपत्तिंः परतएव संभवति । ज्ञस्वमहिमदर्शनमक्ष्णोर्मुकुरतले जायते यस्मा ’ दिति न्यायादिति भावः । यत्तु आपरितोषादिति ल्यब्लीपे पञ्चमी । आपरितोषः सम्यक्परितेषः । विदुषां सम्यक्परितोषसुद्दिश्येत्यर्थः । न साधुमन्य इति काकुः साध्येव मन्धइत्यर्थः । तत्र हेतुः बलवच्दिक्षितानां चेतः आत्मनिविषये अप्यप्रतृययं अपिः प्रक्षे सप्रत्ययमेवेत्यर्थः । अशिक्षितानां हि स्वस्मिन्नप्रत्ययः नतु सुशिक्षितानामिति भावः इति व्याख्यानं तत् श्लोकस्वरसविरोधात् , कथयामि ते भूतार्थंमिति प्रकमवैरूप्यात् । काकुपरिल्पनक्केशात् गहांसमुच्चयप्रश्रशङ्कासंभावनास्वपि इति कोशतः प्रश्रार्थस्यापेः प्रति षेधपर्यवसानानौचित्याद्भिन्नक्रमेणान्वयक्लेशाच्च न मनोरमम् । अनन्तरकरणीयं अनुपदकर्तव्यं । तावत् प्रथमं । प्रतिपात्रमाधीयतां यत्न ’ इति तु नाट्यपरिसमासिं यावदनुष्ठेयमिति भावः । अस्याः परिषदः । श्रुतिप्रसादनतः श्रवः प्रीणनात् । कतममिति "" रंगं प्रसा़ मधुरैः श्लोकैः काव्यार्थंसूचकैः । ऋतुं कंचिदुपादाय भारतीं वृत्तिमाश्रयेत् ’’ इत्युक्तमनुस्मृतृय प्रश्रः । अधिकृत्य विषयीकृत्य । नातिचिरप्रवृत्तमिति नजर्थसय नेत्यव्ययस्य सप्सुपेति समासः । समग्रगुणमित्यर्थः अत एव उपभीगस्य जलक्रीडादिरूपस्य क्षमं योग्यं । अतिचिरप्रबृत्तत्वे वर्षतुंधर्मसङ्करात् अचिरप्रवृत्तत्वे वसन्तधर्मानत्ययाचच न समग्रोपभोगाह्रतृवमिति भावः । "" भारती संस्कृतप्रायो वाग्व्यापारो नटाश्रयः ’’ इति वचनात् प्रथमं सूत्रधारस्वयमारभते । सुभगेति । सुभगस्सुखः सलिलावगाह्मो येषु ते पाटलायाः पुष्पं पाटलं "" अवयवे च प्राणयोषधिवृक्षेम्यः ’’ इति विकारावयवयोः प्राप्तस्याणः "" पुष्पमूलेषु बहुलः ’’ मिति वक्तव्याल्लोपे "" पुप्पे क्लीबेऽपि पटला ’ 7 इति कोशात् पाटलमिति रूपं । तस्य संसर्गेण सुरभयो घ्राणतर्पणा वनवता येषु ते , पच्छोषु प्रभूतच्छायेषु प्रदेशेषु सुलभा निद्रा चेषु ते परिणामेषु सार्येसमयेषु रमणीया आतपापगमेन प्रदेशेषु सुलभा निद्रो येषु ते परिणामेषु सायेसमयेषु रमणीया आतपापगमेन हिमामभावेन च सुखीवहाश्च भवनित "" कृत्यल्युटो बहुल ’’ मिति बहुलग्रहणात्कर्यनीयर । अत्र राज्ञश्शकुन्तलासमागमस्य ग्रीष्माकलिकल्योपक्षेप्स्यमानतृवादिहापि ग्रीष्मवर्णनं । सलिकावगाहशम्देन चक्रावतारे अंगुलीयकत्यनिमग्रत्वं , सुभगशव्देन पुलल ? भिेन सुखावहत्वं पाटलसंसर्गपदेन शकुम्तलाया भानुमतीग्रहणं , सुरभिवनवातपदेन मारीचाश्रमावस्थानं , छायाशब्देन दुर्वासश्शापः निद्रापदेन दुष्यन्तस्य परिणयविस्मरणे परिणामरमणीया इति च सुखाचसानतृवमासूत्रितम् । आर्यवृत्तम् । इसीति भ्रमरैः ईषच्चुम्बितानि अत्यर्थसुकुमारतया भ्रमद्भिरेव सद्भिमंनागास्वादितानि सा हि भ्रमरवृत्तिर्यदानिष्पीड्य रसादानं । सुकुमारकेसरशिखानि कोमलकिंजल्काग्राणि शिरीषकुसुमानि ग्रीष्मकालिकानि प्रमदाः दयमानाः क्लेशभयादनतिस्पृशन्त्यस्सत्यः अवतंसयन्ति कर्णपूरीकुर्वन्ति । अत्र च शरीष कुसुमशव्देन शकुन्तला गम्यते । ईषच्चुम्बितशब्देन सकृद्धाजसमागमः । शोभनः कुमारः केसरशिखेव प्राधान्यादुत्सङ्गलालित्वाच्चेति पुत्रलाभः । प्रमदाअवतंसयन्ति इति च सर्वान्तः पुरसम्भावितत्वमित्वेवं प्रकृतार्थः सूचितो भवति । रागेणस्वरसंयोगविशेषेण अनुबद्धा अनुस्युता चित्तवृत्तिर्मनप्रवत्तिर्यस्यासौ रङ्ग । "" मच्चाः क्रो शन्ती ’’ तृयादिवदौपचारिकः प्रयोगः । सामाजिका इत्यर्थः । आलिखितः चित्रार्पितइव । रसपारवश्यान्निष्पंद हत्यर्थः । कतमत् बहुषुकिंरूपं । " अद्ड तरादिभ्यः पञ्चम्यः ’ इत्यदादेशः । प्रक्रियते अभिनीयत इति प्रकरणं रूपकमित्यर्थः । रूपकविशेषपरस्यापि सामान्यवृत्त्याऽत्र प्रकरणशव्दस्य प्रयोगः । आराधयामः प्रीणयामः । प्रथममेव । पूर्वरङ्गात्प्रागेव । आर्यमिश्रैः सामाजिकैः । "" शिरसा प्रथम गृहीता ’ 7 मितृयादिषु दर्शनात "" इदं प्रयोक्ष्ये युष्माभिरनुज्ञा दीयतामिति । संप्राथषिः सूत्रधारेण प्रार्थनीयन्ते ते स्मृताः । त्वया प्रयोगः क्रितामित्युत्कण्ठितचेतसः । ये सूखिणं प्रार्ययन्ते ते सभ्याः प्रार्थनीया स्मृताः ’’ इत्यादिलक्षणानुसाराच्च सामाजिकाभिमतज्ञानान्तरमेव पूवैरङ्गविधानं प्रसिद्धं । येनाभिनेयवस्तुसदृशनान्शन्द्यदिप्रकाभिमतज्ञानानन्तरमेव पूवैरङ्गविधानं प्रसिद्धं । येगिभिनेयवतुसदृशनान्द्यादिप्रवर्तनमितृयवसेयं । एतेन कालिदासग्रांथतवस्तुनेत्यादिपूर्ववाक्ये अभिज्ञानशाकुन्तलनामधेयेनेति पाठकरूपनं केषां ? चिद्धृथेतिस्पष्टं । शकुन्तलाया इदं शाकुन्तलं चरितं उपचारारात्तद्विषयंनिबन्धनमपि शाकुन्तलं "" तस्येदं ’’ इत्यण् अभिज्ञानप्रधानं शाकुन्तलमिति मध्यमपइलीपी समासः । महाभारतगृहीतस्यापीतिवृत्तस्य अभिज्ञानांगुलीयकवृतृतान्तश्चारुतृवातिशयाय हि कविना स्वयमुत्प्रेक्षितः । प्रयोगेण अभिनयेन अधिक्रियतां प्रवत् ? र्यतां । अनुबोधितः स्मारितः । अस्मिन् गीतश्रव्रणक्षणे । तत्सर्वं परिषदादेशः अस्मदारग्भश्चेत्यादिकं । विस्मृर्त चित्तपारवश्यादिति भावः ॥ तवेति —- हारिणा मनोहरेण तव सम्बन्धिना गीतस्य गेयप्रबन्धस्य रागेण स्यरर चनाविशेषेण प्रसमं बलात् हृतः अनन्यमनाः कृतोस्मि । सामाजिकाराधनप्रवृत्ततया जागरूकोपि परवशः कृत इति प्रसभशब्दार्थः । किमुत सामाजिका इत्यर्थापतिृतर्व्यज्यते कथमिब । एष सनिहितप्रवेशः दुष्यन्तो नाम राजा । अतिरंहसा अतिशयितवेगेन । सारं चित्रवर्णमङ्गं यस्य तेन कृष्णसारेणेव "" सारङ्गः पशुपक्षिणाः ’’ इति शकन्ध्वादिः । इदं प्रयोगतिशयो नामामुखाङ्गं । तल्लक्षणमुक्तं भावप्रकाशे "" एषोऽयमित्युपक्षेपात् सूत्नधारप्रयोगतः । पात्रप्रवेशो यत्नैष प्रयोगतिशयो मतः । एव राजेव दुष्धन्त इत्यादौ स प्रतीयते ’’ इति । प्रस्तावनेति । तल्लक्षणमुक्तं भावप्रकाशे "" नटी विदूषको कापि परिपार्श्विक एव वा । सूत्रधारेण सहितास्मल्लापं यत्नप्रकुर्वते । वित्रैवाक्यैः स्वकायार्यैप्रस्तुताक्षेपिभिर्मिथः । आमुखं तत्तु विज्ञोयं नान्ना प्रस्तावनेति सा "" इति । आयुष्मन्निति । "" रथो सूतेन चायुष्मान् पूज्यैश्शिष्यात्मजुजाः ’’ इति दशरूपके ॥ कृष्णेति । कृष्णश्चासौ सारश्शबलश्चेति कृष्णसारः । वर्णोवर्णेने ’ स्मासः । तस्मिन् मृगे अधिज्यं अधिरोपितमौर्वीकं प्रादिभ्यो धातुजस्य वायो वाचोत्तरपत्लोपः ’ इति समासः । कर्वणि प्रभवतीति कार्मुकं । "" र्क्मण उकञ्र ’’ धनुः येन तस्मिरस्तृवयि च च्क्षुः ददत अर्पयन् । "" नाभ्यस्ताच्छतु ’’ रिति निषेधान्नुमभावः । अहं मूगानुसारिणं दक्षाध्वरध्वंसे रुगानुगामिनं पिनाकिनं साक्षातृपश्यामीव पिनाकिवृत्तान्तस्य प्रत्यक्षायमाणत्ववर्णंनाद्भाविकमलङ्कारः । तदुक्तं "" भाविकं भूतभाव्यथंसाक्षात्कारस्य वर्णन ’’ मिति । तच्च धनुर्धंरत्वमृगानुसारित्वरूपसामान्यधर्मभावितामुपमासुजीवतीति तयोरङ्गाङ्गिभावेन संकरः ॥ वयमिति । "" अस्मदो द्वयोश्च ’’ इति बहुवचनम् ॥ ग्रीवेति । अनुपतति अनुयायिनि स्यन्दने ऊस्मद्रथे ग्रीवायाः कन्धरायाः भङ्गेन तिर्यगावर्जनेन अभिरामं मनोहीरे यथा तथा मुहुः पुनः बद्ध न्यस्ता दृदश्टिः येन सा । शरस्य पतनाद्भिया भयेन हेतुना "" भयभीतभीतिभीरितिवाच्य ’’ मिति पश्चमीतत्पुरुषः । पश्चार्धेन शरीत्यापारभागेन "" अपरास्य पश्चभावो वक्तव्य ’’ इति सिद्धम् । भूयसा बाहुरुयेन मृद्वादीनां धर्मपरतृवमुक्तं । भूयसा पश्चार्धेनेति वा । पूर्वकायं शरीरस्य पूर्वभागं " पूर्वापराधरोतृतरमेकदेशिनैकाधिकरणे ’ । प्रविष्टः संक्षिप्ताङ्गइत्यर्थः । " प्रविशन्तीवचांगानि ’ इत्यादिषु लज्जाभया दिभिरङ्गसंकोचे प्रवेशव्यपदेशो दृश्यते । अर्धावलीढैः असमग्रास्वादितैः कतएव श्रमेण विवृतातू मुखात् मुखात् वक्त्रबिलात् भ्रंशिभिः दर्भैः गृहीतपूवैः कुशाग्रासैः कीणवत्मां परिक्षिप्तमार्गः । अत्र किरतेरास्तरणार्थत्वादूदर्माणां करणत्वं मार्गस्य च कर्मत्वं "" अवाकिरन्वयोवृद्धास्तं लाजैः पौरयोषितः ’’ इतृयादिवत् । प्रक्षेपार्थत्वे तु दर्भाणां कर्मत्वं मार्गस्याधिकरणत्वं च स्यात् । अयं मृगः । इदानीं उर्व्या स्तोकमल्पं च प्रयाति । सकुदुत्पतने दूरलङ्धनादिति भावः । स्वभावोक्तिरलङ्कारः । "" सूक्ष्मवस्तु स्वभावयथाद्वणंनं स्वभावोक्ति ’’ रिति तल्लक्षणं । प्रयत्नप्रेक्षणीयः द्रग्गत इत्यर्थः । उत् त्वातिनी निम्रोन्नतस्थलवती । रश्मिसंयमनात् प्रग्रहाणामाविमोक्षणात् । विप्रकृष्टं व्यवहितं अन्तरं मध्यप्रदेशो यस्य सः । दुः खेनासाद्यते प्राप्यत इति दुरासदः । "" ईषुद्दस्सुषु कृच्छ्राकृच्छ्राथैषु खलू ’’ । अमीशवः प्रग्रहाः " अमीशुः प्रग्रहे रश्मौ ’ इत्यमरः । निरूप्य अभिनीय । स्त्रग्धरा वृत्तम । मुक्तेष्विति । रश्मिषु प्रग्रहेषु "" रश्मिः पुमान् दीधितौ स्यात् पक्ष्मप्रग्रहयोरपि ’ 7 इति मेदिनी । मुक्तेषु शिथिलितेषु सत्सु निरायताः पूर्वचरणप्रसारणाद्वेगदीर्धाकृताः पूर्वकायाः शरीरपूर्वभागाः येषां ते । "" पूर्वापराधरोत्तरमेकदेशिनैककाधिकरणे ’’ । निष्कम्पाः चक्रभ्रम्यारूढतृणादिवद्वेगानुरोधातृ पूथक्चलनरहि ? ताः चामारशिखाः कर्णचखमरान्ताः येषां ते । निभृताः निश्चलाः ऊर्ध्वाः उन्नताश्च कर्णा वेषां ते । आतृमना स्वेन हेतुना उत्थितैरपिव रजोभिरलङ्घनीयाः अनतिक्रमणीयाः । रजद्गमातृ पूर्वमेव पदोतृक्षेपादिति भावः । अमी रथंवहन्तीति रथ्याः युग्याः "" तद्वहति रथयुगप्रासङ्गं ’’ इति यत्प्रत्ययः । अमी रथंवहन्तीति रथ्याः युग्याः " ’ तद्वहति रथयुगप्रासङ्गं ’’ इति यत्प्रत्ययः । मृगस्य जवे अक्षमया ईर्ष्ययेव धावन्तीति हेतूत्प्रेक्षा सा च वेगस्वभावोक्त्या च संसृज्यते । वसन्ततिलकं वृत्तम् । हरितः हरित्संज्ञान् हरितवर्णान् वा हयान् सूर्याश्वान् "" हरिद्दिशि स्त्रियो पुंसि हयवर्णविशेषयोः । अस्त्रियां स्या त्तृणे ’’ इति मेदिनो । "" विभिन्नवर्णा गरुडाग्रजेन सूर्यस्य रथ्या परितः स्फरन्तृया । रत्नैः पुनर्यत्र रुचा रुचं स्वामानियिरे बंशकरीरनीलैः ’’ इत्यादितः सूया्रश्वानां हरितवर्णत्वं प्रसिद्धम् । यदिति । यत् वस्तु आलोके प्रथमदर्शने सूक्षृमं दूरत्वादल्पाक्षचारं । तत् वस्तु सहसा अनन्तरक्षण एव विपुलतां सन्निकर्षान्महत्वं व्रजति प्राप्रोति । सूक्ष्मत्वविपुलत्वयोः अव्यवहितपूर्वोत्तरक्षणानुभवेन वेगातिशयो व्यज्यते । किंच यत् तरुगुल्मादिकं वस्तु अर्धे मध्ये विच्छिन्नं विभागेनावस्थितं । तदपि कृतसन्धानं कृतासंयोगमिव भवति । तदपि वस्तुनोरन्तरं ज्ञटित्यतिलङ्धनान्नावसीयत इति भावः । अपि च यत् शाखादिकं वस्तु प्रकृत्या स्वभावतः वकं कुटिलं तदपि नयनयोः समरेखमृज्जरूपं भवति। ज्ञटिदित्यनेन शुक्लपीतांदिरूपमात्रप्रतिभानादिति भावः । रथजवाद्धेतोमे किंचित् किमपि वस्तु क्षणं क्षमात्रीदति आसन्नं च दूरीभवत्यचिरेणेति भावः । अत्न सूक्ष्मत्वस्थूलत्वादीनां विरोधप्रतिभानसय वेगातिशयेन परिहारात् विरोधाभासालङ्कारः । तदनुप्राणिता च वेगस्वभावकथनरूपा स्वभावोक्तिः । शिखरिणीवृतृतम् । व्यापाद्यमानं हन्थमानं सन्तं पश्य वर्तमानसामीप्याद्वर्तमाननिर्देषः । तेनबाणस्य लक्ष्यादनपराधस्मृचितः । तेनबाणस्य लक्ष्यादनपराधस्समचितः । बाणपाते बाणस्य पतनावधौ वर्तत इति तथाभूतसय नातिविप्रकृष्टस्य नचातिसन्निकष्टस्येत्यर्थः । अन्तरे कृष्णसारस्य तव च मध्य इत्यर्थः । संप्राप्तः अतो न बाणाप्रयोगावसर इति भावः । निगृहृमन्तां रश्मिसंयमनेन स्थाप्यन्तां । तृतीयः त्रित्वसंख्यापूरणः "" त्रेस्संप्रसारणं च ’’ इति पूरणार्थे तीयप्रत्ययः । रेफत्य संप्रसरणमृकारः , । " संप्रसारणाच्च इति च पूर्वरूपं । आत्मनश्चेति पूरणप्रतृययान्तेन समासविधानादातृमना तृतीय इति समस्तं पदं । विखलासा प्राक्तं वैखानसं वानप्रस्थधर्मः तदधीते वेदपेति वैखानसः " प्रोक्तल्लुक् ’ । ’’ पुष्पमूलफलैवांपि केवलैर्वर्तयेंत्सदा । कालपक्कैः स्व यं शीणैवैखानसमते स्थितः ’’ इत्युक्तलक्षणो भुनिरित्युक्तलक्षणो भुनिरिर्त्यः । हस्तमुद्यम्येति प्रतिर्षधव्यंजनमिदम् । न खल्विति । हिंसाभीरुत्वमाविकर्तुं प्रथमं निषेधप्रयोगः । द्विरुक्तं च । मृदुनि अस्मिन् मृगत्य हरिणस्य शरीरे अयं निशिततर इत्यर्थः । बाणो न खलु सन्निपातृयः नैव प्रयोज्यः । कथमिव तूलराशौ गिग्रिरिव । यथा स्फुलिङ्गकणपातमात्रेण महानपि तूलराशिर्निरवशेषीभवति तथास्यादित्यर्थः । क्कचित्पुष्पराशाविति पाठः । अनुकभ्यिता हरिणः हरिणकाः अनुकंपायां ’ इति कः । तेषां स्म्बन्धि अतिलोलं अकारणभंगुरं जीवितं च क्क । निशितनिपाताः तीक्ष्णधाराः क्ठोरपतना वा । वज्रस्य कुलिशस्यव सारः स्थिरांशो येषां तथाभूताः । सारपुंखा इति पाठे दृढमुष्टिदेशा इत्यर्थः । वज्रधारइति साधीयान् पाठः । ते तव शराश्च क्क । वज्रसारा इति विशेषणेन गिरिदलनक्षमत्वं व्यंजितं । अत्यन्तुदर्बले निशितायुधप्रयोगो नोचित इति भावः । अयं विरूपघटनारूपो विषमभेदः । तूलराशविवाग्रिरिति वाक्यार्थोमा मूदुनीति विशेषणस्य अनुचिताचरणरूपप्रतीयमानार्थगर्भन्वात् परिकरश्च ’ विशेषणसाभिप्रायत्वं परिकरः ’ इत्यलङ्कारसस्वे " सभिप्रायतृवं प्रीयमानाथगेभींकारः ’ इति च तत्रैव व्याख्यातं । एतेषां म्रयाणामलङ्काराणां तिलतण्डुलवत पृथगवस्थानातृ संसृष्टिः ॥ मालिनीवृत्तम् ॥ तदिति । तत् समगस्यावध्यत्वात साधु सम्यकृ कृतसन्धानं सायकं प्रतिसंहर सन्धानाद्विमोच्य । अथावा तस्माध्विति पृथग्वाक्यं यद्दयनीये वस्तुनि क्ठोररस्मारंभः तत्साघु विपरीतलक्षणयानुचितमित्यर्थः । वः क्षत्नियाणामित्यर्थः । शस्त्रं आयुधं आर्तानां विपन्नानां त्राणाय रक्षणार्थं । न तु अनागसि निरपराधे विषये प्रहतुं पातयितुं । क्षतात्किल त्रायत इतृयुदग्रः " अत्रस्य शब्दो भुवनेषुरूढः इतृयेतदिहानुसन्धेयं । अनुष्टुप् वृत्तम् । जन्मेति । यस्य तव पुरोः यायातस्य शर्मिष्ठासूनोः नाममात्नग्रहणादेवास्युगुणोतरत्वं सुप्रसिद्धमिति व्य़ञ्जितम् । वंशे जम््म तस्य तव इदं पूज्यापूजनं युक्तरूपं प्रशस्तं युक्तं " प्रशंसायां रूपम् ’’ एवं गुणेपेतं त्वत्सदृशगुणयुक्तं । चक्रं राजमण्डले वर्तितुं शीलमस्थेति वा , चक्रं स्वसैन्यं वर्तयितुं सर्वतः प्रवर्ततितुं शीलमस्येति वा चक्रवर्ती । "" सुप्यजातौ णिनिस्ताच्छील्ये ’’ । तथाभूतं पुनातीति पुत्रः " पुवो हस्वश्च ’ अथवा पुतो नाम नरकातृ त्रायत इति पुत्रः तं आप्रुहि । " आशिषि लोट् ’ । " पुखं लभस्वात्मगुणानुरूपं भवन्तमीड्यं भवतः पितेव ’ इति च रघुवंशे । अत्र इतिवृत्ते राज्ञोऽपत्यलाभः फलं । तच्च शकुन्तलालिनिगन्धनं । तदर्थश्च राज्ञा आश्रमप्रवेशः । इत्युपक्षेपो गुखसन्धेरङ्गम् । अनुष्टुम् वृत्तम् । मालिन्या नाम नद्यास्तीरे अनुभानितीरं । विभक्त्यार्थेऽव्ययीभावः । कार्यातिपातः विलम्बेन राजकृत्यस्य अतिक्रमः । अन्यकार्यातिपात इति पाठो न साधुः आतिथ्यस्वीकारस्यार्यत्वेनान्प्यशब्दानर्यक्यातृ । अत्र अस्मिन्नाश्रमे । यद्यपि " कर्तुरीप्सिततमं कर्मं ’ इत्यत्र पुनः कर्मग्रहणत्याधरनिवृत्त्यर्थतया गृहं प्रविशतीत्यादिवत् कर्मणि द्वितीयया भाव्यम् । तथापि अत्नेत्यस्य प्रतिगृह्मतामतिथिसत्कार इत्यनेनान्वयान्न दोषः । सत्कारः आदरः प्रीतिप्रदर्शनव्यापार इति यावत् । " आदरानादरयोस्सदसती ’ इति गतिसंज्ञायाम् " कुगतिप्रादय " ’ इति समासः । प्रवेशे राज्ञः प्रयोजनमप्याह अपि चेति । रम्या इति । प्रतिहतविघ्राः स्वतेजसैव निस्तराक्षसाधुपप्लवाः । अत एव रमयन्ति प्रीणयन्ीति रम्याः मनोज्ञाः । " कृतृलयुटोबहुलं ’ इति बहुलग्रहणात् कर्तंरि यत् । तपोधनानां क्रियाः इष्ट्यादिकर्माणि समवलोक्य मौर्ब्याः किणः ब्रणग्रन्थिरेव अङ्कश्चिह्लं यस्यासौ मे भुजः किं परिमाणमस्येति कियत् इति रक्षणक्रियाविशेणं । क्रिमिदंभ्यो वा घः ’ इति परिमाणार्थत्य वतोर्वस्य घादेशे " इदं किमोरोशू कि ’ इति च किरूपतृवे " यस्येति च ’ इति इकारलोपे च कियदिति रूपिसिद्धिः रक्षतीति ज्ञात्यसि । पाल्यानां क्षेमसात्कारः पालयितुः प्रयोजनमिति भावः । अत्र तपोधनानामित्येन पालनावश्यंभावस्सूचितः । मौर्वीकिणाङ्क इत्यनेन स्वयासमनवेक्ष्य लोकतन्त्रनिर्वहण क्षवं व्यज्यते । तक्तश्च साभिप्रायविशेषणतृवातृ उभयत्र परिकरालंकारः ॥ आर्यावृत्तम् । दुहितरं पुत्रीं शकुन्तलां । शकुन्तलामित्यपि क्कचित्पाठः । अस्याः शकुन्तलायाः प्रतिकूलं इष्टमाप्तिविरोधि , दैवमदृदष्टं , निवर्तयितुं तपसा प्रशमयितुं । सोमतीर्थं नाम सिद्धिक्षेत्रं । विरोधिदैवप्रशमेन विवाहोपपतिृतरभिव्यजृयते । तां शकुन्तलां तयोरदृष्टः कामोभूच्छण्वतोः सततं गुणान् ’ इति रीत्या नामश्रवणमात्नेणापि राज्ञो मनस्सङ्गो जात इति गम्यते । महर्षेः कण्व्त्स्य विदिता ज्ञाता भक्तिः यस्यं तं करिष्यति मद्भक्तिमावेदयिप्यतीत्यर्थः । विंदितभक्तिर्मांमढर्षेः कथयिष्यतीति पाठान्तरं । साधयामः गच्छामः । पुनीमहे " अस्समदोद्वयोश्च ’ इति चकारदेकत्वेऽपि बहुवचनं । क्रियाफलस्य कर्तृगामित्वादात्वादात्मनेपदं " प्वादीनां हस्वः ’ अकथितोऽपि अनुक्तोऽपि यथा तपोवनस्याभोगः तथा ज्ञायतएव तपोवनत्वेन गृह्मत एवेतृयर्थः । यथायमाभेगस्तपोवनस्थेतीपि पाठे अकथितोपवीति पुल्लिङ्गप्रयोगश्चिन्त्य । वाक्यार्थस्यैव कर्मतृवात् तत्र च सामान्ये नपुंसकौचित्यात् । न पश्यतीति अत्र भवच्छव्दप्रयोगात् उपपदं स्थानि वा समानाधिकरणं युष्मत्पदं नास्तीतृयतः शेषे प्रथमः । इहेति । " इदमो हः ’ इति सप्तम्यर्थव्रलादेशो हः । नीवारा इति । शुकाः गर्भेषु येषां तेषां कोटराणां तरुविवराणां मुखेभ्यः अग्रभागेभ्यः भ्रष्टाः प्रच्युताः नीवारा तृणाघान्यानि तरूणां वृक्षाणां अधः मूलसथले सन्तीति शेषः । अस्तिर्भवन्तिपरो 1 ़प्रयुज्यमानोऽप्यस्ति ’ इति शाब्दिकाः । तापसधान्यभूतनीवारदर्शनं तपोवनत्वे लिङ्गमिति भावः । क्कचित् क्कति ’ इति किमः क्केति रूपं त्रलर्थे । प्रस्त्रिग्धाः प्रकर्षेण स्नेहवन्तः तैलकृष्णिकायुक्ता इत्यर्थंः । अत्र भट्टभिनवगुप्तवादाः प्रशब्दः प्रकर्षं द्योतयन्निंगुदी फलानां सरसत्वमाचक्षाणाआश्रमस्य सौन्दयांतिशयं ध्वनयति । तापसस्य फलविषयोऽभिलाषातिरेको ध्वन्यते इति त्वसत् । अभिज्ञानाशाकुन्तले हि राज्ञ इयमुक्तिर्नं तापसस्येत्यलं ’ इत्याहुः । उपलाः इङ्गदीफलानि भिन्दन्तीति तथोक्तः सूच्यन्त एव आत्मनैव निबेद्यन्त इत्यर्थः । कर्मकर्तरि लकारः । प्रस्त्रिग्धा इति च हेतुगर्भ विशेषणं । स्थालोपचति ’ " प्राणाहरश्शरः ’ इत्यादिवत् कर्तृत्वोपचारादुक्तमिंगुदीफलभिद इति । मृगाः हरिणाः । निसर्गभीरवो 1 ़पीति भावः । विश्वामृपोपगमात् विस्त्रम्भप्राप्तेः मुनिषु चिरप्राप्तविस्त्रम्भत्वादकुतोभयत्वादित्यर्थः । अभिन्नगतयः सत्यि रथादौ भयहेतौ दृष्टे भयवशाद्गतिभेदमकुर्वन्त इत्यर्थः । शब्दं रथनिर्घोषादिकं सहन्ते न तूद्विजम््म इत्यर्थः । तोयाधाराणां जलाशयानां पन्थानः अवतारमार्गाग्श्च ऋक्प्रब्धूः पथामानक्षे ’ हत्यप्रयस्मासान्तः । वल्कलशिखानां स्नानार्द्राणां निष्यन्दरेखाभिः जलस्त्रृतिराजिभिः अङ्किताः चिह्निता रजोगाढतया दृश्या इत्यर्थः । अङ्कयतेर्लक्षणार्थात् कर्मणिक्तः एतैर्लक्षणैर्लक्ष्यत इति भावः । शार्दूलविक्रीडितं वृत्तम् । उपपन्नं युज्यते । अन्तरे अवताशंः काला ध्नोरत्यन्तसंयोग ’ इति द्वितीया । " अन्तरमवकाशावधिपरिधानान्तद्विर्घ्भेदतादर्थ्ये । छिदात्मोर्यावनाबहिरवसरमध्वेन्तरातृमनि च ’ इत्यमरः । कुल्येति । पवनेन चपलैश्चञ्चलैः कुल्याम्भोभिः सारिणीजलैः शखिन आश्रमदगुमाः धौतमुलाः । किसकयरुचां पल्लवकान्तीनां रागः रक्तिमा आज्यधूमस्योद्गमेनोत्थानेन भिन्नः निवर्तितः । अर्वाक् इतस्स न्निकृष्टे एते च हरिशिशवः नष्टः शङ्काः व्यपगतसाध्वसाः सन्तः छिन्नधर्माकुरायां ऋषिनिर्लूननवकुशायां उपवनं वनस्य समीपे या भूः तस्थां मन्दमन्दं चरन्ति । अतश्च तपोवनमिति शायत इतिभावः । मन्दाक्रांता वृत्तम् । उपरोधः मार्गनिरीथांद्युपद्रवः । मा भूत् " माडि लुङ् ’ । " नमाङ्योग ’ इत्याडीगमप्रतिषेधः । एतावत्येव प्रदेशे । यावदवतरामि अवत ? रिष्यामि 6 यावत्पुरानिपातयो ’ रिति लद्र । विनीतः शान्तः विश्वह्मनीय इत्यथंः वेष 3 रूपं यस्मिन् कर्मणि तद्यथा तथा प्रवेश्यानि प्रवेष्टुं योग्यानि । आयुधीभरणादिधारणं नोचितमित्यर्थः । यावदुपावर्ते तावत् क्रियान्तामित्यन्वयः । व्रन्ति गच्छन्त्यवश्यमिति वाजिनः आवश्यकाधमर्ण्ययाः ’ इति णिनिः । वाजाः पक्षाः एषां बभूवुरिति वाजिनः अश्वाः । आर्द्रषृष्टाः जलासिक्तशरीरोपरिभागाः स्वेदस्य रज प्रसरस्य चापनोदनेन पुनयनित्साहार्थ पृष्टसेकः संस्कारः । निमित्तं शुभसूचकं बाहुस्पन्दादिकमित्यर्थः । शान्मिति । इदं पुरो वतिं स्थानं । शान्तं उपरतविषयं पह्मत इति पदं आश्रमएव पदं आश्रमिगतं शान्तत्वमुपचारादाश्रमे प्रयुक्तं । बाहुः अर्थादृक्षिणभुजः । स्फुरति स्पन्दते च । इह आश्रमपदे अस्य बाहुस्फुरणस्य फलं कुतः । राज्ञो नार्थ इह सम्भवतीत्यर्थः । नियतिगतेरचिन्त्यहेतुताभिसन्धायाहअथवेति । भवतिव्यानां अवश्यभाविनां , बहुलग्रहणात् कर्तरि तव्यप्रयोगभूप्राप्ताविति धातुग्रहणे प्राप्तव्य नामित्यर्थः । द्वाराणि मार्गा सर्वत्न भवन्ति आक्षेपालंकारः । " आक्षेपः स्वयमुक्तस्य प्रतिषेधो विचारणत् ’ इति तल्लक्षणं । आर्यांवृत्तम् ॥ नेपथ्य इति । आश्रमपश्मत्र यवतिकान्तरितं नेपथ्यं भवति । इदो इति सख्यौ प्रति शकुन्तलावचनं । सेच्नीयवृक्षभेदात् इदो इदो इति द्विरुक्तं । दक्षिणेनेत्येनबन्तमव्ययं एनपा द्वितीया ’ इत्येनबन्तयोगाद् वृक्षवा ’ टिकामिति पाक्षिकी द्वितीया । " वट वेष्टने ’ इति धातोर्ण्वुलि वाद्धिकाशब्दो निष्पन्नः वृक्ष्वीथ्या दक्षिणत इत्यर्थः । " अमात्यगणिकागेहोपवने वृक्षवाटिके ’ ति कोशेऽपि केवलयोगोऽत्न ग्राह्मः । आलाप इवेति । विप्रकर्षतः स्त्रीकण्ठस्य काकलीत्वाच्चास्फुटश्रणमिवशब्देन प्रतीयते । स्वप्रमाणानुरूपैः बालिकाऽऽकासदृशैः तनुभिरितृथः , सेचनघटैः जलसेकार्थैः कनशैः । अश्वघासादिवत्तादर्थ्यषष्टीसमासः । बलापादपेभ्यः अचिरप्ररूढेभ्यः वृक्षेभ्यः । पादैः पिबन्तीति पादपाः " सुपि सथः ’ इत्यत्र सुपीतियोगवियोगात् आतोधातोः कप्रत्ययः । महावृक्षाणां हि सिचनमनपेक्षितं कन्यानामसुकरं च । अतावोलपदं । भिवर्तंन्ते अभ्यागच्दन्ति । निरूप्य दृष्ट्वा । रूपयतिदंर्शनार्थश्चुरादिषु पठितः । मघु माधुर्यमस्यास्तीति मधुरं रसवत् स्वादुनिप्रयेषु मधुरोन्यवत् ’ इति विश्वः । शुद्धान्तेति । शुद्धः विविक्तः अन्तः प्रदेशो यस्य सः अथवा शुद्धाः उपदाशुद्धाः रक्षिणः अन्ते समीपे यस्य सः शुद्धान्तः अन्तः पुरां । अत्रान्तः पुरस्त्रीजन उपचर्यते । शुद्धान्तस्य दुर्लभभिदमीदृशं वपुः आश्रमवासिनः वर्षवातातपव्रतोपवासादिक्लिष्टस्येत्यर्थंः । जनस्य यदि भवति । उद्यानलताः प्रयत्नसंवर्धिता इत्यर्थंः । वनलताभिः यदृच्छारूडाभिः कर्त्रीभिः गुणैः रूपगन्धादिभिर्हेतुभिः दूरीकृताः पराजिताः खलु । केचित्तु आश्रमवासिनो जनस्येदं वपुः शुद्धान्तदुर्लभं यदि शुद्धान्तदुर्लभमेव । अव्ययानामनेकार्थत्वा दत्र यदिरवधारणार्थः । अत एव " अधिवास्य यदि स्वकैर्यशोभिश्चिरमेनामुपर्भुजते नरेन्द्राः ’ इत्यादयः प्रयोगाः । तद्यथा , तनलताभिरुद्यानलताः गुणणैर्दूरीकृताः खलु इति व्याचक्षते । नचैत्तदुपपद्यते वनलातानां उद्यानलतातिशायित्वस्य अप्रसिद्धत्वादविवक्षितत्वाच्च । अन्यथा हि सर्वत्र निसर्गस्यैव प्रकृष्टत्वेन यत्न एय वृथा स्यात् । न किंचिदपि शिल्पं शोमेत । चोद्यानलतासु निसगंरम्यत्वस्य काचिदिस्ति क्षतिः । नह्मेताः कृत्रिमाः । यत्नस्तु दोषापोहेन गुणमेव प्रगुणयति । सहि संस्कारो यद्गुणवति गुणत्न्तराधानं । किंच " सर्वंथा अप्सरस्सम्भवैषा ’ इति राज्ञो निगमनचनेन रूपस्यासमान्यत्वं दर्शंयता विरुध्ये । " मघुरमासां दर्शन ’ मिति सामान्यतः प्रक्रमस्तु शकुन्तलायामेव चक्षुः प्रीत्यादूरे च वयोवेषसाम्यामात्रदर्शंनात् । अत्र चेदं वपूरितृयेकवचनं । अग्रेच वक्ष्यति " इदं किलाव्याजमनोहरं वपुरिति । यद्यर्थोक्तौ च कल्पनमित्युक्तलक्षणातिशयोक्तिः खल्वियं " धर्मात्मा सत्यसन्धश्च रामो दाशरथिर्यदि ’ इतृयादिवत् सिद्धेप्यर्थे यदि प्रयीगः साध्यस्यापि सिद्धकल्पतां व्यंजयति । आर्यावृत्तम् । यावत् प्रतिपालयामि प्रतीक्षिप्ये । झटिति प्रवेशे तासां विस्त्रब्धभाषणं व्याहन्थेतेति भावः । यथाभूतः उक्तः यथोक्तः सुप्सुपेति समासः । उक्तप्रकारइत्यर्थः । व्यापारः सेकरूपो यस्यास्सा । हलविलेखन इति धातोः बहुलग्रहणादप्रत्यथे सति हलेतिरूपं । " हण्डे हञ्जे हलाह्लाने नीचां नेटीं सखीं प्रति ’ इत्यमरः । त्वत्तोऽपीत्यपिशब्देन शकुन्तलाया अत्यर्थप्रियत्वं व्यज्यते । " ध्रुवमपोयेऽपादान ’ मिति सूत्रं अपायशब्दो वैज्ञानिकं विभागमभिप्रति । इदमेव चाभन्धाय " माघुराः पाटलिपुत्रेभ्या आढ्यतराः ’ इतृयदौ पञ्चमी भाष्ये समर्थिता । नवमालिकाकुसुमपेशलेति । कुसुमकोमलाया तलासे ? कनियोगोपि श्रमायेति भावः । किमुत पादपसेक इत्यर्थपत्तिर्व्यज्यते । ममापीति । तातस्यापत्यस्नेह इव ममैतेषु सोदर्यस्नेहो येन न श्रम इत्यर्थः । समानोदरे शयित इत्यर्थे " विभाषोदरे ’ अति समानशब्दस्य सभावविकल्पात् " सोदराद्यः ’ इति सिद्धं सोदर्येति । सोद रेति पाठे सह उदरेण वर्तत इति व्युत्पत्त्यातुल्योगार्थेन सहशब्देन समासः । " वोपसर्जंनस्य ’ इति सहशब्दस्य पक्षे सः । रूपयति अभिनयति । कथमिति विस्मथे । सा " दुहितरं शकुन्तलातिथिसत्काराये ’ ति वैखानसवचनावगता । मुनिपुत्र्था एवंरूपत्वंसम्भावितमिति भावः । असाधुदर्शी सम्यग्ज्ञानरहितः । इदमिति । यः अव्याजमनोहरं कृत्रिमभूवणविभ्रादिनिमित्तसन्तरे णाचित्ताकर्षकं । " व्याजशाढ्येऽपदेशे च ’ इति विश्वः । " अपदेशः पुमान् लक्ष्ये निमितृतव्याजयोरपि ’ इत्यभिधानादत्र निमितृतपर्यायत्वं । इदं किल एतादृशमपि वपुः तपसः बहुतरायाससाव्यत्य धर्मस्य क्षमं सहनं सायितुं कर्तु इच्छति । सः ऋषिः नीलोत्पलपत्रस्य अत्यर्थसुकुमारस्थेत्यर्थः । धारयाप अञ्चलेन समिल्लतां समिद्यष्टिं छेत्तुं लवितुं व्यवस्यति आरभते । सुकुमारस्य परुषे कर्मणि नियोजनसम्यग्दर्शंनफलमिति भावः । अत्र शकुन्तलायास्तपः प्रवर्तनस्य नीलोत्पलपत्रधारयासमिच्छेदनस्य च सदृशायोर्वाक्यार्थंयोः , य इच्छति स व्यत्यजीत्यैक्यारोवाद्वाक्यार्थवृत्तिनिदर्शनालङ्कारः । ध्रुवमिति सम्भावनायां ऋषिरित्यनेनात्रानभिज्ञत्वं सहजमिति व्यज्यते । एवं साभिप्राय विशेषणत्वात् परिकराकङ्कारः । विशेष्यसाभिप्रायत्वमते अपं परिकारांकुरः निदर्शनया चास्य संवृष्टिः । वंशस्थं वृत्तम् ॥ विस्त्रब्धं तिरोधानादविदितं । अदयं दृढं पिनद्वेन बद्वेन । अ ? पिपूवन्निह्मतेर्बन्धनार्थात् क्तपत्यये , " विष्ट भागुरि ’ रियादिना अपेरकारलोपे च पिनद्धेति रूपं । कंचुकव्लकलस्य पश्चाद्गन्थिबन्धाभिपायेण शिथिलयेति सखीप्रार्थनोपदर्शनं । अत्र वल्कनग्रन्थिदार्ढ्ये । धरत इति घरौ " पवाह्मव् ’ पयसः क्षीरस्य धरौ स्तनौ तथोः विस्तारयितृ प्रतिक्षणविजृम्भणनिमित्तं । यूनो भावः यौवनं । " हायनान्तयुवादिभ्योऽण् ’ उपालभस्वेति उपालंभो द्वेधा निन्दापूर्वंः स्तुतिपूर्वश्च । यथा " अविवेकि कुचद्वन्द्वं हन्तु नाम जगत् ? त्रयं । श्रुतिप्रणयिणोरक्षोरयुक्तं जनमारणं । ’ इति । अ 9 पूर्वार्धे निन्दापूर्वं उपालम्भः उत्तरार्धे स्तुतिपूव्रं इति विवेकः । प्रकृते च स्तुतिपूर्वः । नवयौवनेन पयोधरयो प्रतिक्षविजृम्भणात् वल्कलबन्धो दृढीभवतीति स्तुतिपर्यवसनातृ । अतश्च अज्ञातयोवना ना मुग्धाभेद इति ष्यज्यते । अस्याः शकुन्तलायाः वपुषश्शरीरस्य । अस्य वपुष इति तु युक्तः पाठः । महार्हवसनाभरणयोग्यस्येत्यर्थः । अननुरूपं विसदृशं । काममित्यर्धाङ्गीकारे यद्यपीत्यर्थः । " ’ अकामानुमतौ कामं ’ इतृयभिधानात्ः अकङ्कारश्रियं पुनः अलङ्कारशोभां तु । न पुष्णातीति न पुष्णात्येत्यर्थः । अननुरूपयाप्यलङ्कारशोभावहत्वमलङ्कार्यगुणातिशयादित्याह । सरसिजमिति । सरस्यां जायतइति सरसिजं " सप्तम्यां जनेर्हः" " ङ्याषोस्संज्ञाच्छन्दसोर्बहुल ’ मिति पाक्षिको हस्वश्च । अथवा सप्तम्यन्तसरश्शब्दादेव जायतेरिदं रूपं । " तत्पुरुषे कृति बहुलं ’ इत्यलुक्समासः । कमलं शैवले न जलतील्यापि गर्हायामपिः । गर्हासमुच्चयप्रश्रशङ्कासंभावनास्वपि ’ रितृयमरः । अनुहिमांशोः चन्द्गस्य लक्ष्मीं तनोति परभागतया शोभन्तरमादधातीत्यर्थंः । न केवलमविरोधिनेव गुणोत्तरस्य शोभापरिपोषः । अपि तर्हि विरुद्वेनापीति निदशंयितुं तेजस्तमसोरिव विरुद्धयोर्लक्ष्मचन्द्रयोर्ग्रंहणं । अतएव मलिनमपीति विशेषणं । निसर्गशोभिनि प्रत्यनीकरूपमपि परमभागाय भवतीति भावः । तथा इयं तन्वी वल्कलेनाप्यधिकमनोज्ञा । अत्नोपपादकमर्थानतरं न्यस्यति किमिवेति । मधुराणां रम्याणामाकृतीनां किमिव हि न मंडनं सर्वंमेव मण्डनमित्यर्थः । आश्रयगुणादगुणमपि गुणवद्भवति योजयितुरेव तु विसदृशयोजनं द्षणमिति भावः । अत्र केचित् प्रश्रार्थमपिमादय शैव लेनानुविद्वं सरसिजमपि रम्यं न रम्यमित्यर्थः । लक्ष्महिमांशोर्लक्ष्मीमपि तनोति । न तनोतीत्यर्थंः । इयं तन्वी वल्कलेन अप्यधिकमनोज्ञा । न मनोज्ञेत्यर्थः । मधुराणामाकृतीनां किं कुत्सितं वस्तु मण्डनं न भवतीति व्याचक्षते । तत्र न पुनरलंकारश्रियं न पुष्णातीति प्रकमवैरूप्यं तावत् । वर्ण्यंवस्तुनि च न कश्चिदतिशयः प्रतिपादितः स्यात् । प्रश्रार्थस्यापेः प्रतिक्षोपार्थयोजनानौचितृयं प्रथममेवाक्तं । अपिशब्दस्य व्युक्रमेणान्वया स्वरसश्च । यदपि , सरसिजमपि रस्थं हिमांशोरपि लक्ष्मलक्ष्मीं तनोति गर्हायामपिः न्यून्गुणयोरपि शोभा दृश्यतइत्यर्थः । इयमधिकुगुणा वल्कलेनाप्यधिकमनोज्ञेति किमु वक्तव्यमित्यर्थ । शिष्टं स्पष्अमिति । तदप्यपास्तप्रायं समान्येन विशेषसमर्थनरूपोऽथन्तिरन्यासः । रम्यं , लक्ष्मीं तनोति , अधिकमनोज्ञेति शब्दमेदेनेकस्यैव सामान्यस्य ग्रहणात् प्रविस्तूपालङ्कारः । " वाक्ययोरेकसामान्ये प्रतिवस्तूपमामता ’ इति तल्लक्षणं । मालिनी वृत्तम् ॥ कठिनमिति । कटिनं परुस्पर्शमपि मगाक्ष्याः शकुन्तलायास्सम्बन्धिवल्व लं कान्तरूपं मनोज्ञाकारमेव । अतः मनसि मच्चित्ते स्वरुपमपि रुचिभङ्गंरसाहानिं नादधाति न करीति । यथा विवचानि सरसिजानि यस्यां तस्या इति कान्तरूपत्वस्थाने विशेषणं । कमलिन् याः स्तोकमीषन्निर्मुक्तः निर्गतः कण्ठः पाब्लो वृन्तोपस्भिागो यस्य तत् । कर्वशं कटिनं वृन्तजालं प्रसवबन्धनस्यावयवसमूहइव । तदपि कटनं तथापि कमलिन्याः शोभावहमित्यर्थंः । त्वरयतीव सेकार्थं क्षिप्रमाह्वयतीवेत्युत्प्रेक्षा । सा च आह्नानव्रियोपयोगितया पल्लवानामंगुल्यात्मना पिरणामात् परिणामालंकारानुप्राणिता । यावत्संभावयामि सेच्नेनानुग्रहीष्यामि । मूहूर्तं क ? ञ्चित्कालं । अल्यान्तसंयोगे द्वितीया । लतासनाधइवेति तव लतासदृश्यादित्यर्थः । यावत् प्रतिभाति प्रतिभास्यतीत्यर्थः । प्रियमपीति हितं मनोहारिच दुर्लभं वच ’ इति न्यायेन प्रियत्वसत्वयोस्सहावस्थान विरोधो 1 ़पिना दर्शितः । न पुनः प्रियंवदेति पादे केवलप्रिया ? यवादिनी न भवतीत्यर्थः ॥ अधरइति । अधरः किसलयस्य पल्लवास्येव रागो यस्य सः । बाहू कोमलविद्वपानुकारिणौ ललितलताशाखासदृशौ । अङ्गेषु अवयवेषु सन्नद्धं सम्बद्धं यौवनमिति यौवनकालिको लावण्यविशेष उपचर्यते । कुसुममिव लोभनीयं स्पृहणीयं । अत्र किसलयादियपलताधर्मबन्धेन लतासादृश्यप्रतिपादनात् वाक्यार्थोपमा । आर्यावृत्तम् । सह मिलित्वा करोति फलं निष्पादयतीति सहकारः । स्वयमात्मनैव वृणीत इति स्वयंवरा " संज्ञायां भृतृवृजिधारिसहितपिक्षमः ’ इति खच्र । " अरुर्द्विषदजंतस्य मुम् ’ इति भुमागमः । स्वयंवरा च सा वधूष्च । स्वयमेव शाखाभिरासादनादिति भावः ’ इति मुमागमः । स्वयंवरा च सा वधूश्च । स्वयमेव शाखाभिरासादनादिति भावः । ज्येत्स्त्र अत्या अस्तीति ज्योत्स्री । ज्योत्स्त्रादिभ्य उपसैख्यानादण । " ब्ढ्ढिनञू ’ ? इत्यादिना ङीए " संज्ञापूर्वो विधिरनिसय ’ इत्युक्त्या वृद्ध्यभावः । वनज्योत्स्त्री वनस्य प्रकाशिकेत्यर्थंः । नामैव नामधेयं " भागरूपनामभ्यो धेयः ’ विस्मृताऽसि विस्मृतवत्यसि " गतृयथांकर्मकश्लिषशीङू स्थासवसजनरुडजीर्यतिभ्यश्च ’ इति सूत्रे चकाराद्व्यवसितप्रतिपन्नादिष्वपि कर्तरि क्त इति वामनोक्त्या विस्मृतेति कर्तरि क्तः । जइ इति । यद्यातृमानं विस्सरिष्यामि तदानीमेनामपि विस्मृता स्यामिति विपरिणामेनान्वयः । " तह जइ ’ इति पाठे तथा यदि एनां विस्मृता स्यां चेत् तर्ह्मातृमानमपि विस्मरिष्यामीत्यर्थः । उभयमष्यसम्भवीति भावः । नवं कुसुममेव यौवनं यस्याः सा नवकुसुमा लता नवयौवना वधूरिव प्रथमसङ्गमोचितेत्यर्थः । बद्धपल्लवतया आरब्धकिसलयतया उपभोगे लतासंश्वलेषरूपे क्षमश्श्याक्तः प्रदर्शितः । " कुसुमंस्त्रीरजोनेत्ररोगयोः फलपुष्पयोः ’ इति , " पल्लवः किसलये बले । विटपे विस्तरेऽकक्तरागे शृङ्गारषिङृगयो ’ रिति चाभिबानातृ । अत्र विशेषणसाम्यादप्रस्तुतवधूवरवृतृतान्तप्रतीतेस्समासोक्तिरलङ्कारः । ? किं निमित्तं किमर्थंमित्यर्थं । " निमित्तपर्यायप्रयोगे सर्वासां प्रायद्रर्नंनं ’ इत्युक्त्या प्रथमाप्रयोगः । विभावयामि जानामि । खल्विति जिज्ञासाव्यञ्जकं । " खलुस्याद्वाक्यभूषायां जिज्ञासायां च सान्त्वने । वीप्सामाननिषेधेषु पूरणे पादवाक्ययोः ’ इति मेदिनी । अपि नामेति सम्भावनायां । अपि नाम लभेण किं प्रासिप्तस्संभवेदित्यर्थः । आत्मगतः मनसि स्थितः । स्वविषय इति वा । स्वमनोरथ एव मदपदेशेन प्रकाश्यत इत्यर्थंः । आवर्जयति अधोमुखोकरोति इदं क्रियाच्छलेनाकारगोपनार्थ । एष मनोरथः अनुरूपवराभिलाषः । दुः खेन लभ्यत इति दुर्लभः" ईषहुः सुषु कृच्छ्राकुच्छ्रार्थेषु खल् ’ अस्यास्तुल्यरूपो वरो न सम्भवतीत्यर्थः । समानः वर्णः ब्राह्मणत्वादिजातिः । यस्य तत् सवर्णं । " समानस्यच्छन्दस्यमूर्धप्रभृत्युदर्केषु ’ इत्यत्र समानस्येति योगविभाग त् सपक्षसधर्मादिवत्सिद्धिः । सदृशार्यस्य सहशब्दस्य वा सदृशी वर्णो यस्येत्यस्वपदविग्रहे " सहस्थ सस्संज्ञाया ’ मिति सभावः । सवर्णं न भवतीत्यसवर्णं क्षेत्रं पत्नीशरीरयो ’ रित्यमरः । तत्र सम्भवो जम््म यस्यास्साः येन परिग्रहयोग्या स्यादिति भावः । कृतं साध्यं नास्तीत्यर्थः । " गम्यमानापि क्रिया कारकविभक्तेः प्रयोजिका ’ इति गम्यमानसाधनक्रियापेक्षया करणातृवातृसंदेहेनेति तृतीया । असंशयमिति । असंशयं निः संदेहं यथा तथा । क्षतात् त्रायत इति क्षत्नः । पृषोदरादित्वासाघुः । तस्य कर्तृंः , परिग्रहक्षमा विवाहयोग्या भवति । यद्यस्मात् कारणात् आर्थं पापपराङ्मुखं " कर्तव्यमाचरन् काममकर्रांव्यमनाचान् । तिष्टति प्रकृताचारे स तु आर्य इति स्मृतः ’ इति हि वसिष्टः । मे मनः अस्यां शकुन्तलायां अभिलाषि सानुसागं । नन्वकृत्यवर्जनादार्यत्वं न पुनरार्यकृतस्वात् कर्मंणां कृत्यत्वं अत आह - सतामिति । सतां साधूनां सन्देहपदेषु हानोपादानसंशयविषयेषु । वस्तुषु अर्थेषु अन्तः करणप्रवृत्तयः मनसः स्वरसगतयः । प्रमीयते अनेनेति प्रमाणम् निश्चयसाधनं हि । " प्रतृयक्षानुमानशब्दाः प्रमाणम् " ’ जात्याकृतिव्यक्तयः पदार्थः ’ इतृयादिवत् संख्याविशेषस्याविवक्षणादोत्सर्गिकमेकवचनं । अयमातृमत्तुष्टिर्नाम प्रमाणालङ्कारः । अस्याचलङ्कारस्यायमेव च श्लोकः कुवलयानन्देऽप्युदाहृतः । केचिदत्रात्मप्रशंसादोषमसहमाना व्याचक्षते । यदार्यमित्यत्रयदा आर्यमिति पदच्छेदः । यदा असंशयं क्षत्रपिरग्रहक्षमा शकुन्तला भवति । यत्तदोर्नितृयसमृबन्धात्तदेतृयाक्षिप्यते । तदानीमेव अस्यामभिलाषि मे मनः आर्य स्यातृ । अन्यथा अनार्यंमेव स्यादित्यर्थः । नन्वस्ति मनः प्रवृत्तिः प्रमाणमिति चेदाह — सतामिति । सन्देहपदेषु वस्तुष्वन्तः करणप्रवृत्तयः सतां हि प्रमाणम् । न तु मादृशानामित्यर्थ इति । अत्र यदा आर्यमिति क्लिष्टः पदच्छेदः । अथवा कृतं सन्देहेनेति प्रक्रमविरोधश्च । नचात्मनैवातृरूपावधारणामात्मस्तुतिर्भवतीति न र्किविदिदं । वंशस्थं वृत्तम् । तत्त्वतः कथमियं कण्वदुहितेति परमार्थतः । ससम्भ्रमं ससाध्सं । सम्भ्रमस्याध्वसे 1 ़पि स्यात् संवेगादरयोरपि ’ इति हैमः । मधुकरोतीति मधुकरः । " कृञोहे तुताच्दल्यानुलोभ्येषु ’ इति ताच्छील्पेटः । अभिवर्तते अभिमुखमागच्छति । " लक्षणेनाभिप्रती आभिमुख्ये ’ इत्यभेः कर्मप्रवचनीयत्वाद्वदनमिति द्वितीया । साधु बाधनमित्यादि सासूयमिवेत्यन्तं प्रतिक्षप्तमपि व्याख्यायते । नाधनं भ्रमरपीडनमपि साधु मनोज्ञम् । यत इति । षट्रचरणः भ्रमरः यतो यतः अभिवर्तते ततस्ततः तत्र तत्र प्रेरितलोललोचना व्यापारितवच्चलनयना विनर्तितभ्रूः इयमकामापि आरण्यकत्वादजानत्यपि भ्यादेवोपदेष्टु सकाशात् । " आयख्यातोपदेशे ’ आख्यातोपदेशे ’ इत्यपादानत्वात् प़ञ्चमी । भयाद्धेतोवां दृविभ्रमं शिक्षते परिचिनोति नैसर्गिकी चेष्टैव विलासादप्यतिरिच्यत इति भावः । सासूयमिव भ्रमरे शकुन्तलासङ्गिनि सेर्ष्यमिव । अत्र तृवं खलु कृतीत्यनेन स्पृहाया एव व्यञ्जनात् सस्पृहमिति पूर्ववावक्यरथैव सग्बन्धो युज्यते न तु सासूयमिवेत्यस्य तत्र समृबन्धो भवेत् ततश्वच ज्ञायते प्रक्षिप्तमेतावदिति । वंशस्थंवृत्तम् । चलापाङ्गमिति । हे मधुकर चलापांगां कातरललोचनान्तां अत एव वेपथुमीं सकम्पां दृष्टिं बहुशः अनेकवारं स्पृशसि पराभृशसि । रहसि भवं रहस्यं दिगादित्वाद्यत् तदाख्यातुं शीलं अस्येति रहस्याख्यायीव " सुप्यजातौ णिनिस्ताच्छील्ये ’ कर्णान्तिकचरः श्रवणसमीपचारी सन् मृदु स्वनसि । कर्णविवरान्तः स्वनस्य बहिरप्रसरान्मदुत्वं । करौ व्याधून्वत्याः त्वदपनीदनार्थं विक्षिपन्त्यास्सतृयाः , रतेः सर्वस्वभूतं अधरं पिबसि । अधदानं हि स्त्रीणां विर्स्वंभातिशयलक्षणं येन रतिर्महतीं भूमिमारोहतोत्युक्तं रतिसर्वस्वमिति । अतएवोक्तमन्धत्रापि कविना " अपरिक्षतकोमलस्य यावत् कुसुमस्येव नवस्य षट्पदेन । अधरस्य पिपासता मया ते सदयं सुन्दरि गृह्मते रसोस्य ’ इति । इहापि व्क्ष्यते " मुहुरंगुलिसंवृताधरोष्ट ’ मितृयादि । " मितृयादि । " सीत्कारं शिक्षयति व्रणयतृयधरं तनोति रोमाच्चं । नागरिकः किं मिलितो नाहि सखि हैमनः पवनः " ’ सन्द्रष्टाधरपल्लवा सचकितं हस्ताग्रमाधून्वती मा मा मुञ्च शठेति कोपवचनैरानतिंतभ्रलता । सीत्काराञ्चितलोचना सपुलकं यैश्चुंबिता मानिनी प्राप्तं तैरमृतं श्रमाय मथितो मूढैस्सुरैः सागरः ’ इत्यादितो नागरिकरतेरधरपानप्राणत्वं स्फुटं । वयं तत्त्वान्वैषात् क्षत्रपरिग्रहयोग्यकुलविशेषादिपरमार्थान्वेषणाद्धेतोः हताः नष्टस्वार्था अभूमा त्वं खलु अविख्चार्थं स्वैरप्रवृत्तस्त्वमेव कृती धन्यः । कृत्याकृत्यविचारः कार्यंहानये वरमविमृश्यकारित्वमिति भावः । अत्र दृष्टिं स्पृशसीत्यनेन मधुकरस्य कुवलयभ्रमः चलापाङ्गामिति विशेषणेन कर्णान्त विश्चान्ततया कर्णावतंसताबुद्धिश्च भ्रमदार्ढ्यहेतुः प्रतीयते । येन तत्नैव स्वननं । अधरं पिबसीतृयेन अरविन्दजपाकुसुमादिभ्रमो 1 ़भिव्यज्यते इति वस्तुना भ्रान्तिभदलं ? कारध्वनिः सात्त्विकवेपथुमतीं च दृष्टिं पश्चादुपेत्याच्छादयितुं स्पृशति । तथा " अप्यवस्तुनि कथाप्रवृत्तये प्रश्रतत्परमनङ्गशासनं । वीक्षितेन परिगृह्म पार्वतीमूर्धकम्पयमुत्तरं ददौ ’ इत्युक्तरीत्या रहस्यमविवक्षितमपि व्याजीकृतृय कपोलमूलस्पर्शलोभाद्यत्किंचिदेव कर्णान्तिके रणति । ससीत्कारव्याधूतहस्तायाश्चाधरमपि रतिसर्वस्वभूतमन्तः पिबति । तथा त्वमपि सर्वमेव नागरिककामिभोगं भुक्तवानसि केवले शास्त्रविचारपरतन्त्रतया वयंविप्रलब्धाः स्म इति । अत्र भ्रमरस्वनस्य रहस्याख्यानत्वेनाध्यवसानात् उत्प्रेक्षा । प्रस्तुतभ्रमरवृत्तान्तेन विशेषाणसामान्यादप्रस्तुतकामिचरितप्रतीतेश्च समासोक्तिः । तत्त्वान्वेषस्य गुणस्य दोषत्वकल्पनाल्लेशाल्लेशालङ्कारश्च " लेशास्तु दोषगुणयोर्गुणदोषतृवकल्पनमि ’ ति हि तल्लक्षणम् । ते चात्न संसृज्यन्ते । तदुपस्कृतया च भ्रमरस्वभावोक्या परिपुष्यमाणो रसोऽङ्गी ध्वन्यते ध्वनिकृद्भिः । " रसबन्धेष्वतृयादृतमनाः कविर्यमलङ्कारं तदङ्गतया विवक्षति ’ इत्यारभ्य हममेव श्लोकमुदाहत्य " अत्र हि भ्रमरस्वभावोक्तिरलङ्कारो रसानुगुण ’ हत्युपन्यस्तं । अयं श्लोकः भट्टाभिनवगुप्तपादैर्व्याख्यातः । यथा " हे मधुकर वयमेव विधाभिलाषचाटुप्रवणा अपि तत्त्वान्वेषाद्वस्तुवृत्तेऽन्विष्यमाणे हताः आयासमात्रपात्रीभूता जाताः । त्वं खल्विति निपातेनायत्नसिद्धं तवैव चरितार्थंत्वमिति शकुन्तलां प्रत्यभिलाषिणो दुष्यन्तस्येयमुक्तिः । तथाहि कथमेतदीयकटाक्षगोचरा भूयास्म , कथमेषास्मदभिप्रायव्यञ्जकं रहोवचनमाकर्ण्यात् । कथं नु इठादनिच्छन्तृया अपि परिचुम्बनं विधेयास्मेति यदस्सामकं मनोराजृयपदवीमधिशेते तत्तवायत्नसिद्धं । भ्रमरोहि नीलोत्पलधिया तदाशङ्काकातरां दृष्टिं पुनः पुनः स्पृशति । श्रवणावकाशपर्यन्तत्वाच्च नेत्नयोरुत्पलशङ्कानपगमात्तत्रैव ध्वन्यमान आस्ते । सहजसौकुमार्यत्रासकातराथाश्च रतिनिधानभूतं विकसितारिवन्कुवलयामोदमधुरमधरं विबति ’ इति । चलापाङ्गं दृष्टा इति पाठे चलापाङ्गं यथा तथा दृष्टः सन् वेपथुमतीं शकुन्तलां स्पृशसीति व्याख्येयम् । शिखरिणी वृत्तम् ॥ सस्मितं किथं हस्तापनोद्याद्भमरात् परित्राणान्वेषणमिति नर्मगर्ममित्यर्थः । के न केचिदपीति प्रतिषेधे किंशब्दः । उभे मिलितृवापि परित्रातुमसमर्थे इत्यर्थः । दुष्यन्तं राजानं आक्रन्द आहृवय । क्रदि आहृनाने रोदने चे ति धातुः । अत्र हि सेनाशस्त्रादिमता राज्ञा भवितव्यमिति भावः । तपोवनानि राजरक्षितानि नामेति । प्रसिद्धौ । आत्मानं दर्शयितुयम्रतो भावः । तपोवनानि राजरक्षितानि नामेति । प्रसिद्धौ । आत्मानं दर्शयितुमग्रतो भवितुमित्यर्थः । कः क इति त्बरातिशयात् द्विर्वचनम् । विचार्य विचिन्तृय । विरमतीति । " व्याङ्परिभ्यो रम ’ इति परमस्मैपदं । अपदान्तर इति । न विद्यते पदस्यान्यस्य अन्तरमवकाशो यस्मिन् तस्मिन् पूर्वपदन्यासाव्यहितपदन्यास इत्यर्थः । " संक्तके त्वव्यहितमपादान्तरमित्यिप ’ इत्यमरः । पदान्तर इति पाठे अन्यस्मिन् पदनन्यासे इत्यर्थ । सदृष्टिक्षेपं भ्रमरमार्गे दृष्टिं प्रसायं । पदन्यासमात्रेण मधुकरनिवृत्तिसंभावंन र्मापध्यात् । क इति । दुष्टं विनीताः शिक्षिताः दुर्विनीतास्तेषां अपथवृतानां शासतरि शमयितरि पोरवे दुष्यन्ते वसुमतीं शासति रक्षतिसति , कोऽयं सुग्धासु बालिकासु तपस्वि कन्यासु प्रशानस्वि यर्थः । अविनयं बलादास्कन्दनरूपं दुराचरितं आचरति । तपस्विकन्याखित्यनेने " तपष्षङ्भागामक्षय्यं ददातृयारण्यको जनः ’ इति वक्ष्यमाणं सविशेषपालनीयत्वं व्यजृयते । अख पौरव इति परोक्षनिर्देशनं राजभावगोपनार्थं । आर्यावृत्तम्ः सम्भ्रान्ताः महापुरुषदर्शनादनिभृताः । सौम्यदर्शनत्वात्किचिदिवेति । अत्याहिर्त महती भीतिः । " अतृयाहितं महामभीतिः कर्म जीवानपेक्षिच ’ इतृयमरः इयमिति शकुन्तलानिर्देषः । दर्शयति अंगुल्या निर्दिशति । अपीति प्रक्षे । तपोधनत्वात्तपसि कुशलानुयोगः । साध्वसेन त्रासापरनाम्रा व्यभिवारिभावेन " गर्जितादेर्मनः क्षोभस्त्रास ’ इति दशरूपकेः अवनतं मुखं यत्यास्सा । प्रथमदर्शन एव चक्षुः प्रीत्युदयो र्गम्यते । साध्वसादवचनेति पाठान्तरं । अतिथिविशेषस्य विशिष्टातिथेः लाभेने । तपो वर्धत इति प्रश्रस्थेन सम्बन्धः । अतिथिविशेषस्य विशिष्टातिथेः लाभेन । तपो वर्धत इति प्रश्रस्थेन सम्बन्धः । अतिथीनामाराधनं प्रथमं तपः तच्चेदृशप्रकृष्टातिथिलाभेनाभिवृद्धमित्यर्थः । राजभावापरिच्चानादार्थंव्यपदेशः शोभनमागतं आगमनं स्वागतं । अर्घायेदमर्ध्यं ’ पादावर्घाभ्यां चेति यत् ’ । इदं तावत् सेचनकलशस्थं तु । अर्ध्याययोग्यमित्यर्थः । गुरुनियोगात् प्राधिान्याच्च शकुन्तलानियोजनं । सुष्टु नृत्यन्त्यनयेति सूनूता " हलश्च ’ इति घञ्र । संज्ञापूर्वस्य विधेरनित्यत्वादगुणः । " अन्येषामपि दृश्यत ’ इति दीर्धश्च । तया सत्यप्रियया ’ वाक् चतुर्थी च सूनृता ’ अन्येषामपि दृश्यत ’ इति दीर्घश्च । तया सत्यप्रियया " वाक् चतुर्थीं च सूनृता ’ इति मनुः । अतिथय इदं आतिथ्यं " अतिथेर्व्यः" ’ क्रमादातिथ्यातिथेये अतिथ्यर्थेत्र साधुनि ’ इत्यमरः । प्रभूता छाया यस्यां तस्यां अत एव शीतलायां " सञ्जकुव्जादिवत् समासः । सप्तपर्णस्य वेदिकायां अधस्तन्निर्मितभूर्मा परिश्रमस्य विनोदनमयनं । यूयमपि । न केवलमहमित्यर्थः । अनेन वृक्षसे चनरूपेण । परिश्रान्ता अत उपविशतेत्यर्शः । पर्युपासनं सेवनं । तपोवनविरोधिनो विकारस्य मन्मथविकारस्य । गमनीया प्राप्या । अत्र दर्शनमात्रेण निर्विकारस्यापि विकारोदयाद्राज्ञो रम्यताविशेषो व्यज्यते । सुहृदां भावस्सौहार्दं " हृद्भगसिन्ध्वन्ते पूर्वपदस्य च ’ इत्युभयपदवृद्धिः । समाभ्यां परस्परसदृशाभ्यां वयोरूपाभ्यां रमणीयं वयोरूपग्रहणादनुरागो व्यज्यते । रूपसाम्यं चात्रावयवन्यूनातिरेकाभावरूपं सामान्याकाररामणीयकं । तेन शकुन्तलाया विलक्षणसौन्दर्यत्वाविरोधः । जनान्तिकमिति । " त्रिपताकाकरेणान्यानपवर्यान्तरा कथां । अन्योन्यामन्त्रणं यत्स्याज्जनान्ते तज्जनान्तिकम् ’ इति दशरूपके । जनानामन्ते समीपे भवमिति व्युत्पत्तिः । चतुरा गंभीरा च आकृतिराकारः अभिप्राय इत्यर्थः यस्य सः , अवसरोचितवेदित्वाच्चतुरत्वं , गूढाकारतया र्गाभीर्यं च । मधुरं सुशब्दतया श्रोलहृद्यं , प्रियं रुचिरार्थतया चिताकर्षकं च श्चालपन् भाषमाणः । प्रभवन् प्रभुरिव राजेवेत्यर्थः । अन्यरयैवं गांभीर्यं माधुर्यंच नोपपद्यत हतिभावः , कौतूहलं जिज्ञासा । मधुरालापेन सरसवचने जनितः विश्वासः विस्त्रम्भः मां मन्त्रयते आलापयति चुरादेर्हेतुमण्णिच् । अन्यथाऽस्मादृदशजनस्य वागवसरो न भवतीत्यर्थः । कतमः कहूनां मध्ये कः , " वा बहूनां जातिपरिप्रश्र ’ इति डतमच् " जातिरिप्रश्र ’ इति च नप्रत्याख्यातमाकरे । अलं कृत इति — कुलालङ्करणं विदितोसीति भावः । विरेहेण प्रोपितस्य तव वियोगेन पर्युत्सुकाः दर्शनोतृकण्ठिताः जनाः यस्मिन् सः । कृत इति " तमाहितौत्सुक्यमदर्शनेन प्रजाः प्रजाः प्रजार्थव्रतकर्शिताङ्गं । नेस्त्रैः पपुस्तृप्तिमनान्नुवद्भिर्नवोदयं नाथमिवौपधीनां ’ इति न्यायेन सकृतृपश्यतामपि चित्तहरस्य चिरविरहे पादोपजीविनां किमुतेति भावः । किं निमित्तं वेति वाकारश्चार्थे । आत्मा शरीरं तपोवनपरिश्चमस्य फलूलाशनपादचारादेः पात्रतां विषयतां नीतः प्रापितः एवमन्वयो देशस्तपोवनप्रवेशप्रयोजनं चेति त्नितयं पृष्टं । मा उत्ताम्येति । नञर्थे मेत्यव्यं , नतु माङ् अतो न लुङ् । चिन्तितं जिज्ञासितं । मन्त्रयते पृच्छति । इदानीं प्रश्रानन्तरं । कथमित्यादि - आत्मनिवेदने सभ्भ्रमाद्विस्त्रब्धालापविच्छदेः - आन्यथा करणे चात्मापहारो दोष इत्यर्थः । धर्माधिकारे वर्णाश्रमधर्मप्रत्यवेक्षणध्यापारो नियुक्तः नियमितः राजपुरुषत्वप्रतीत्या न विस्त्रम्भविच्छेदः । पौरवेण राजा स्वपित्राधर्माधिकारे नियुक्तेः अभिषिक्त इति च वस्तुवृत्त्यानात्मा बोर्ध्यं । पुरुवंशः उक्तः देशोपि तत एवोक्तकल्पः , तृतीयमुत्तरयति । सोहमिति । अविघ्रानां कियाणां यज्ञादिकर्मणामुपलम्भाय साक्षात्करणार्थं । धर्मस्यारण्यमिति तादर्थ्यंषष्ठीसमासः तपोवनमित्यर्थः । इदानीं आगो त्वयि , धम्रचरिण इति - स्वरक्षणे परतन्त्रा इति भावः । सनाथा इति । अन्यथा प्रतिकर्तुमनीश्वराः प्रत्यूहप्रतिहता अनाथाः स्युरिति भावः । शृङ्गारलजृजां रतित्वमारूढत्यानुरागस्य सम्बन्धिनीं व्याभिचारिभावरूपां लज्जां । अभिनयति मुखनमनक्षितिलेक्षलनादिभिर्दर्शयति । आकारं इङ्गितं आकाराविङ्गिताकृती ’ इत्यमरः । ततः तातसन्निधनिं । किं भवेत् किमपराद्धं मया यत्तातो न मृष्येदिति भावः । अतिथिविशेषं विशिष्टमतिथिं । जीवितसर्वस्वेन स्वजीवनार्थेन सर्वेणापि द्रव्येण कृतः अर्थः आतिथ्यरूरूपं प्रयोजनं यस्य तं करिष्यति , विशिष्टातिथिदर्शने जीवितमपि नगणयन्ति शिष्टा इति भावः । जीवितभूतेन सर्वस्वेन तृवयैव दत्तया कृतार्थे करिष्यतो व्यज्यते । तदिदभमिसन्धायाह – किमपीति । वयमपीति । यथा यूयमस्समि , षयं पृष्टवत्यस्तथे त्यपि शञदार्थः । सखीगतं प्राप्तं सखीविषयमिति यावत् । अभ्यर्थना प्रश्रः अनुग्रहः खलु अतः प्रश्टव्यमित्यर्थः । अथ वा अभ्यर्थ्यत इत्यभ्यथंना । कुशलप्रश्राद्यनुग्रहः प्रार्थनीयः खत्वित्यर्थः । राज्ञः शकुन्तलाविषया प्रार्थनानुग्रहरूपेत्यपि प्रतीयते । भगवान् असंकुचितज्ञानः "" उत्पत्तिं प्रलयच्चैव भूतानामागिं गतिं । वेत्ति विद्यामविद्याच्च वाच्यो भगवानिति ’’ इत्युक्तलक्षणः । शाश्वते नित्ये । ब्रह्मणि ब्रह्मचर्ये ब्रह्मशब्द उपचाराद्वेदग्रहणार्थे व्रते ब्रह्मचर्यरूपे वर्तते । प्रकाशः प्रसिद्धः । तदात्मजाकाश्यपतनयेत्येतत् कथं । कृतं गोत्रप्रयुक्तं नामधेयं यस्य सः । कुशगोत्रज इत्यर्थः । महान् प्रभावः स्वर्गान्तरसर्गादिरूपो यस्यसः । अस्ति श्रूयते " प्रकाशं रूयते ’ " असदीप्ता ’ विति भौवादिवात् क्तिचि अस्तीति तिडन्त्प्रतिरूपकमर्व्य " अस्याह कालसामान्ये तिङन्तप्रतिरूपकौ ’ इति त्रिकाण्डशेषः । प्रभवतृयस्मादिति प्रभवस्तं पितरमित्यर्थः । तेन कौशिकेन उज्झितायास्त्यक्तायास्सत्याः । कौतूहलं जिज्ञासा अपत्यत्यागकारणं जिज्ञास्यत इत्यर्थंः । काश्यपसंवर्धनोक्त्या मातापितृभ्यामुभाभ्यामप्युज्ज्ञितत्वं व्यज्यते तत्र च बलवता हेतुना भाव्यमिति भावः । किलेत्यैतिह्मे । किमपि कुतो वा हेताः जातशङ्कैरुत्पननभयैः । किमपीत्यनेन तस्य देवपदानिच्छया शङ्कानिमित्ताभावस्मूचितः । अप्सरा ? इति । " स्त्रियां बहुष्वप्सरस ’ इत्यमरः । प्रायोवादेन " अनचि चे ’ ति सूत्नेअप्सरा ’ इति भाष्यप्रयोगात् अत एव " स्त्रियां बहुष्वप्सरा अपि ’ इति शब्दार्णवः । अन्यसमाधिमीरुतृवमिति अन्तरेणापि निमितृतमिति भावः । वसन्तावतारसमये वसन्तप्रादुभविकाले उन्मादियितृ चितृतविभ्रमकरं । अवबम्यते अनुकृतमपि ज्ञायत एव । मेनकासङ्ग , अपत्यजम््म , तपोव्ययनिर्विण्णेन पित्रा , शापभीतया च मात्रापरित्यगाः , आनृशंस्याच्च काश्यपेन संवर्धनमित्येतावदम्यूह्मत इत्यर्थः । सवथानियतं अप्सरास्संभवो यस्यास्सा राजषिंसम्भवत्वात्परिग्रहार्हत्वं हृदयस्थितं । मानुषीष्विति । कथं वा मानुषषु अस्य लोकोत्तरस्येत्यर्थः । रूपस्य " अविध्यारोप्यविक्षेप्यबन्धनीयैरभूषितं । यद्भूषितवदाभाति तद्रूपमिति कथ्यते ’ इत्युकृतलक्षणस्य सभवस्समम्भावना स्यात् । अमानुषं रूपं न मानुषीषु सम्भवतीति भावः । प्रभया तरलं ज्योतिवैद्युतं तेजः वसुधातलान्नोदेति " जातेरस्त्रीविषयादयोपधा ’ दिति ङीषि " योपधप्रतिषेधे हयगवयमनुष्यमतस्यानामप्रतिषेध ’ इति वाच्याच्च मनुष्यशब्दग्रहणे " हलस्तद्धितस्ये ’ ति च यकारलोये मानुषी शब्दसिद्धिः ॥ वसन्ततिलकम् वृत्तम् । मनोरथः शकुन्तलाभिलाषः । लब्धावकाशः प्राप्तावसरः क्षत्रपरिग्रहयोग्यत्वादिति भावः । परिहासेनोदाहृतामुक्तां " जह पणजोसिणी अत्तणो अनुरूपेण पाअवेणसंगदा एव्वंणम अहंवि अत्तणो अनुरूवं लहेअहंति ’ इत्युक्तरूपामित्यर्धः । द्वेधमित्यव्ययं द्विधेत्यर्थे " द्विव्योश्च धमुञू ’ द्वैधमेव द्वैधं । " धमु अन्तात्स्वार्थे डदर्शन ’ मिति इप्रत्यये नपुंसको द्वैधशब्दः ततश्चाद्वैधस्य द्वैधस्यभावो द्वैधीभावः संशयः । धृतद्वैधीभावं कातरमलाभीतं चेत्यर्थः । श्रुत्वा स्थितस्येति शेषः । तेन न समानकर्तृकत्वविरोधः । वरप्रार्थनामात्रस्य मनोरथानुकृलत्वेति पररिहासीक्त्या विसंवादश्शंक्य इति भावः । सस्मितमिति । शकुन्तलाभावज्ञानादिति भावः । तर्जयतीति - स्वविषयप्रस्तावकोपादिति भावः । शृङ्गारचेष्टप्युक्ता भवति । सच्चरित्रश्रवणलोभादिति अनुरागाकारगोपनार्थं । अलं विचार्यं न चिन्तयितव्यमित्यर्थः " अल खल्वोः प्रतिषेधयोः प्राचांक्का " " समासेऽनञ् पूर्वे क्त्वो ल्यप् ’ अविद्यमाना नियन्त्नणा प्रतिबन्धो यस्य तथाविधोऽनुयोगो यस्य सः , तपस्विनं गोपनीयाभावात् प्रष्टुं न विचारणीयमित्यर्थः । वैखानसामिति । अनया शकुन्तलया वैखानसं व्रतं वानप्रस्थधर्मः फलमूलाशनतपश्चरणादिः किमाप्रदानादिववाहान्निषेवितव्यं । आहो अथ वा अत्यन्तं यावज्जीवमेव मदिरासदृशीनीक्षणानीति बिंबाधरादिवन्मध्यमपदलोपी समासः , मदावहानीत्यर्थः । तैरेव हेतुभिर्वल्लभाभिः स्त्रिग्धभिः हरिणाङ्गनाभिस्समं निवतस्यति । वैखानसव्रतस्य किं प्रदानमवधिरुच जीवितेवेत्यर्थः । किं मुनियुत्नायैव दातव्येति नियमः उत यथासंभवमिति विकल्पाभिप्रायः । द्वैधीभावविवरणमेतत् । अन्ये तु अतृयन्तमेवेत्यनन्तरं निषेवितव्यमित्यनुषज्यते । तेन परिणयतदभावयोर्विकल्पः । आहो मदिरेक्षणवल्लभ इयं आभिर्हरिणाङ्गनामिस्समं निवत्स्यति आरण्यकपरिगहीता भविष्यतीत्यर्थः किं प्रदास्यते , उत न , प्रदीयमानापि किमारण्यकायैव तापसाय प्रदास्यत उतान्यस्मा इति विकल्पान् कल्पयन्ति । अत्यन्तमातृमसदृशेक्षणवल्भाभिरिति पाठान्तरम् । वसन्ततिलकं वृत्तम् । अय अनः वयं । धर्माचरणे विहितानुष्ठानेपि किं पुनः कामाचरिष्विति भावः । परवशाः पितृपरतन्त्रः । गुरोः पुनः तातस्य तु , अस्याश्शकुन्तलाया अनुरूपवरप्रदाने अमानुषरूपतृवाद्विशिष्टवरार्पणे सङ्कल्पः न्श्चियः । इयं प्रार्थना शकुन्तलाविषयिण्याशंसा दुः खेनावप्यत इति दुरवापा दुर्लंभा नभवति अनुरूप ग्रहणादस्माकं सुलभेति भावः । दुरवापेति पाठे एवंरूपो वरो न लभ्येतेति भावः । भवेति । हृदये संप्रति साभिलाषं भव । सन्दिह्मत इति सन्देहस्सन्दिह्ममानविषयः शकुन्तलाविवाहरूपस्तस्य निर्णयो निश्चयो जातः । अप्सरस्सम्भवत्वात् प्रदेयत्वाच्चेति भावः । यद्वस्तु अग्रिमाशङ्कसे रूपासाम्याद्भम्यासि । तदि ? दं वस्तु स्पर्शक्षममादकत्वात् स्पर्शयोग्यं रत्नं । न केवलं नाग्रिः प्रत्युतधार्यं भूषणमपीत्यर्थः । ललितालङ्कारः । " ललितं वर्ण्यवाक्यार्थप्रतिबिम्बस्य वर्णन " मिति लक्षणातृ । आर्या वृत्तम् । सरीषमिव कृतमककोपमभिनीयेत्यर्थः । असमृबद्धप्रलापिनीं अयुक्तवादिनीं । अकृतसत्कारं अर्ध्यादिभिरसत्कृतं । स्वच्छन्दतो गन्तु स्वेच्छया गमनं " सर्वे चाव्यकृतो भावार्थ ’ इति भावार्थे तुमुन् , गमनमिति च पाठान्तरं । अयुक्तं अयं ह्माश्रमिणां धर्मः यदतिथिपुर्युपासनमित्यर्थः । ग्रहीतुं गच्छन्ती हस्तावबल्म्बेन निवारयितुमिच्छन् न तु तथा कुर्वन्नित्यर्थः । आत्मानं मनः निगृह्म नियम्य विवेकेन निवर्त्येति याव् । कामिजनस्य वित्तवृत्तिः मनः प्रवृत्तिः चेष्टाप्रतिरूपिका क्रियासदृशी विषयेणैकीभूते मनसि शरीरेणाकृतमपि ककृतवदृभातीत्यर्थः । अनुयास्यन्निति । मुनितनयां शकुन्तलामनुयास्यन् अनुयमिष्यन्नेव सहसा तत्क्षणं विनयेन विदेचनेन वारितप्रसरः निषिद्धग्रवृत्तिः अत एव स्थानादासनादनुच्चलन्ननुत्तिष्टन्नपि । का कथा गतप्रत्यागतयोरिति भावः । गत्वातामनुगम्य पुनः प्रतिनिवृत्त इव । मनः प्रवृत्तिर्गतिरिव निवृत्तिश्च प्रत्यावृत्तिरिव प्रतिभातीत्यर्थः । शरीरवृत्तेश्चित्तवृत्तिपरतन्त्रत्वादिति भावः । आर्यावृत्तम् । द्वे वृक्षसेचने वृक्षद्वयसेच्नमित्यर्थंः । मे मह्मं धारयसि ऋणं वहसि "" धारेरुत्तमर्ण ’’ इति संप्रदानत्वाम््म इति चतुर्थी । शकुन्तलाभागं वृक्षद्वयं स्त्रेहात्तस्याः क्लेशं वारयितुं स्वयं सखी सिक्तवती पूर्वमिति व्यक्तं भवति। मोचयितृवाऋणादपकृष्य । लक्षये चिह्नैर्जानामि ॥ स्त्रस्तेति । अस्याः बाहू घटोत्क्षेपणात् सेचनकलशोद्वहनाद्धेतोः स्त्रस्त्रांसौ श्चमशिथिलस्कन्धौ । अतिमात्रलोहिततलौ च । प्रमाणाधिकः अतिमात्रदीर्घइत्यर्थः । श्वासः अद्यापि चिरत्यक्तेऽपि सेचनकर्मणि स्तनयोर्वेवथुं कंपं जनयति , यथा स्तनवेपथुर्नं विरमति तथा प्रवर्ततइत्यर्थः । कर्णशिरीषं अवतंसभूतं रुणद्ध्यावृणोतीति कर्णशिरीषरीधिकर्णावर्तसव्यापीत्यर्थः । कर्णशिरीषेण रोधवत्प्रतिबद्धमिति वा । घर्मांभसां जालकं कोरकाकरा बिन्दवः वदने बद्धं रचितमिवेत्यर्थः । बन्धे स्त्रंसिनि व्यायामश्लथे सति मूर्धजाः एकेन हस्तेन यमिताः बद्धाः हस्तान्तरस्य कलशव्यावृतत्वादिति भावः । अत एव पर्याकुलाः विषमनिवेशाः । पर्याकुलतृवादेकहस्तयामितत्वमवसीयत इत्यर्थंः । सेकश्रमोपि शी ? भां नातिक्रामतीति विशेषणैर्व्यजृयते । इदमात्ररहस्यं । घटा योषित् "" घटा घटनगोष्ठीभघटनासु च योषिति ’’ इति मेदिनी । तस्या उतृक्षेपणादिति पुरुषायितं व्यज्यते । तत्र भूतले भुजावष्टंभेन योषितः स्त्रस्तांसत्वं , करतलयोरतिमात्नलोहितत्वं , अधोमुखतया श्वासातिरेकः स्तनचांचल्यं , स्वेदोद्गमः , केशविस्त्रंसनं , हस्तान्तरस्यावलंबनार्थातृवादेक्हस्तेन केशपाशबन्धश्च संभवतीति । शार्दूलविक्रीडितं वृत्तम् । अनृणां करोमि प्रतिनिधिद्रव्यदानादित्यादिः । बंगुलौ भवमंगुलीयं "" जिह्नामूलांगुलेश्छः ’ अंगुलीयमेवांगुलीयकं । नाममुद्रायाः राजनामन्यासस्याक्षराणि अवलोकयतः प्रभवन्निव दृश्यत इति चिन्तितमवितथमित्यभिप्रायेणेति भावः । अलमन्यथा संभाव्य मदीयत्वेनांगुलीयकं न संभावनीयमित्यर्थः । किं तर्हिराज्ञः परिग्रहः स्वं । अ ? हं तु राजपुरुष इत्युक्तमिति भावः । परमार्थत्स्तु राजकीयत्वोपन्यासेन राजत्वमातृमनो दर्शितं भवति । राजपरिग्रहोयमिति शकुन्तलायाः स्वपरिणेयतृवमपि सूचयति । विधेयप्राघान्यादयमिति पुंलिंगनिर्देशः । आर्यस्यांगुनीवियोगं नार्हंतीति वचनेन राजभावो विहित इति व्यञ्जितं । वचनेनैवेति । न खल्वप्रमाणं महद्वचनमिति भावः । अनुक ? म्पिना दयाशीलेन । अथवा महाराजेनेत्याकारज्ञातां प्रकाशयितुं तस्मै संप्रति ऋणं धारयसीत्यपि विवक्षितं । आत्मनश्शरीस्य यदि प्रभविष्यामि नियन्त्री भविष्यामि । अन्तोमुखे मनसि न शक्यं स्वेच्छया स्पन्दितुमपीत्यर्थः । विसर्जयितव्यस्य गच्छेति विसर्जंनस्य । रोद्धव्यस्य " ण देजुत्तं गंदु ’ मिति निरोधस्य " कृत्यल्युटो बहुल ’ मिति बहुलग्रहणाद्भावे तव्यप्रत्ययः । यथा व्यमस्यां शकुन्तलायां विषये स्म इति विपरिणमनीयं तथा इतृयमस्मान् प्रति अस्मद्विषये "" लक्षणेनाभिप्रती आभिमुख्य ’’ इति कर्मप्रवचनीयतृवाद्द्वितीया । किं नुखलु । लब्धः अवकाशः अङृगीकरणरूपं स्थानं यस्यास्सा । वाचमिति । सा शकुन्तलाया यद्यपि मद्वचोभिस्सह स्वां वाचं न मिश्रयति न सङ्मयति । तथापि मयि भाषमाणे सल्लपति सत्यभिमुखं श्रवणाभिलाषेणेत्यर्थः । कर्णं ददाति अवधत्ते । मदाननसंमुखी कामं यद्यपि न तिष्ठति तथाप्यस्या दृष्टिर्भूंयिष्टमत्यर्थं अन्यविषया न तु नैव भवति । श्रवणादर्शनयोर्मत्परत्वेन प्रार्थंनावकाशो भवेत्येवत्यर्थंः । वसन्ततिलकं वृत्तम् । भो भो इत्यादि कस्यचिदारण्यकस्य वाक्यं । तपोवनसत्त्वानां हरिणादीनां रक्षणार्थं । सन्निहिताः आश्रमस्थिताः । मृग्यन्ते अन्विष्यन्ते मृगादयोऽत्रेति मृगया " परिचर्यापरिसयरिसर्यामृगयाटाट्यानामुपसङ्ख्यानं ’ तदर्थं विहर्तु सञ्चरितुं शीलमस्येति तथोक्तः । तुरगेति। तथा हि राज्ञि प्रत्यासन्ने सति हीत्यर्थः । तुरगाणां सेनाश्वानां खुरै हतः क्षुण्णः ? परिणतसय अस्तोन्मुखस्य अरुणस्य सूर्यस्थेव प्रकाशो यस्य सः अथवा प्रौढसन्ध्यारोगसवण्रः " अरुणो 1 ़व्याक्तरागेऽर्के सन्ध्यारागेऽर्कसारथौ ’ इति मेदिनी । रेणु विटपविषक्तानि वृक्षशाखालग्रानि जलार्द्रवल्कलानि विशोषणाया निक्षिप्तानि येषां तेषयां तेषु आश्रमर्द्रुमेषु शलभसमूहः खद्योतसंघ इव प ? तति । पुष्पिताग्रा वृत्तम् । तीव्रेति । तीव्राघातेन गाढप्रहारेण प्रहिते भग्रे तरुस्कन्धे वृक्षशाखायां लग्रः वेधादन्तः प्रविष्अः एको दन्तो यस्य सः दन्तस्यूतशाखाकर्षीत्यर्थः । पादाकृष्टानां उन्मार्गगामितया पादवेष्टनादुन्मूल्याहृतानां व्रततिवलयानां लतीमण्डलानामासङ्गेन सञ्जातपाशः उदितश्वृङ्खलाबन्धः भिन्नानि ध्वंसितानि सारङ्गाणां मूगाणां यूथानि येन सः । अथवा त्यक्तराजयूथः । " सारङ्ग पुंसि हरिणे चातके च मतङ्गते ’ इति मेदिनो । स्यन्दनालोकेन रथदर्शनेन भीतः गजः वन्यः नस्तपसो मूर्तः मूर्तिमान् . विघ्र इव धर्मारण्यं तपोवनं व्रजति गच्छति च । पूर्वंश्लोकार्थसमुच्चयार्थश्चकारः । के चित्तु तीव्राघातप्रतिहततरुरिति पदच्छेदमिच्छन्ति । स्कन्धे निजांसदेशे लग्रैकदन्तः परिवृत्य दर्शनादिति व्याचक्षते च । परिवृत्यदर्शगे गजानां स्कन्धदेशे दन्तसक्रन्तिर्न भवतृयेव । नहि वृषमहिषादि शृङ्गवङ्गजदन्त उपरि स्थितः । स्वभावोक्तिरलङ्कारः । सा च मूर्तो विघ्रस्तपस इ ? वेत्प्रेक्षया संमृज्यते । मन्दाक्रान्ता वृत्तम् । किंचिदिवे ? ि रक्षितुस्सन्निहितत्वद्धैयाच्च नातिभीता इति भावः । उपरुन्धन्ति पीडयन्ति । पर्याकुलाः भीताः उटजगमनाय उटजं गन्तुं " तुमर्थाच्च भाववचना ’ दिति चतुर्थी । असंपादितसत्कारं अकृतातिथ्यिं । लज्जामहे , सत्कारार्थं पुनर्दर्शनमिच्छाम इतृयभिधातुं न शकुम इत्यर्थः । सव्याजं दर्भांकुरक्षतादिव्याजमुत्पाद्येत्यर्थ । क्कचित् " शकुन्तला । अणसूए अहिणवकुससूइपरिक्खदं मे चलणं कुरवअसाहापरिलरगं च वक्कलं । दाव पडिवालेहि जावणं मिएमि ’ । इत्यधिक पाठो दृश्यते । विलम्बहेतुद्वयमुपन्यस्य मोएमीत्येकस्य परिहारोक्तिरोक्तिविरोधात्सख्या चाप्रतिवचनादं प्रक्षिप्तः । मन्दमौत्सुक्यं यस्य सः । मन्दोत्सुकोऽस्मीति पाठे मन्दमुत्सुकत्वं यस्य स इति व्याख्येयं । उक्तार्थानामप्रयोगात् त्वप्रत्ययस्याप्रयोगः । गच्छतीति । शरीरं पुरः सैनिकस्थानाभिमुखंगच्दति । चेतः असंस्तुत शरीरेणापरिचितं असङ्गतं सदित्यर्थः । पश्चात् शकुन्तलादिशि धावति वेगेन प्रवर्तते । तद्यथा प्रतिवातं वायोः प्रतिमुखं नीयमानस्य केतोर्ध्वंजस्य सम्बन्धि चीनांशुकं सूक्ष्मं वस्त्रमिव । ध्वजदण्डमात्नं वायोः प्रतिमुखं गच्छति । अंशुकं तु पश्चाद्वायुमनुगतमाकर्षतीत्यर्थः । आर्यावृत्तम् । ॥ इति शाकुन्तलव्याख्याने सहृदयसमाख्याने प्रथमोऽङ्कः ॥ ________________ ॐ ॥ अथ द्वितीयाङ्कस्य व्याख्याप्रारम्भः ॥ अथ शकुन्तलासक्तचित्तस्य राज्ञस्तापसक्रियापालनव्याजमाश्रमावस्थानहेतुमुपक्षेप्तुं मृगयानिवर्तनेन संनाप्रतिप्रेषणार्थं विदूषकप्रवेशः प्रस्तूयते — तत ’ इत्यादिना । " हास्यप्रायी विदूषक ’ इति विदूषकलक्षणम् । विषण्णः अनुधावनाखिन्नः । हा इति खे दे । मूगयाशीलस्य अविरतमृयातत्परस्य । वयसा तुल्यो वयस्यः । " नौवयोधर्मविषमूलमूलसीतातुलाभ्यस्तार्यतुल्यप्राप्यवच्यानाम्यसमसम्बिते " ष्विति तुल्यार्थे यत्प्रत्ययः । तस्य भावेन सखितृवेन हतोस्मि दुः खायैव राजसखत्वमिति भावः । तदेव विशदयति अयमिति – प्रतिवाक्यमावृत्तेनेदं शब्देन नानादिक्षु विपरिधावतां दृश्यादृश्यनामनुसरणेन क्लेशबाहुल्यं व्यज्यते । मज्झंदिणे वीतिप्रभाते हि सुप्तोत्थिता एकत्र मृगा लभ्येरन् न तु मध्यन्दिन इति विरोधोऽपिनाद्योतितः । ग्रीष्मेण सन्तापेन विरलाः असंश्लिष्टाः पत्राणां परिम्लानतया गगनमध्यरथे सवितरि मूलमात्रविश्रान्ततया चाल्पा इत्यर्थः । पादपानां छाया यासु तासु । आहिण्ड्यते ? परिभ्रम्यते । वनेषु परिभ्रमणं ग्रीष्मसमयः मध्यन्दिनं वराहाद्यनुधावंन चेति महतीयं दुः खण्रम्परेति भावः । पत्राणां तटद्रुमनिपतितानां सङ्करेण मग्रानां व्यामिश्रतया कषायाणि तुवराणि " तुवरस्तु कषायोऽस्त्री ’ त्यमरः । ईंषदुष्णानि कदुष्णानि " कवं चोष्ण ’ इति सूत्ने चकारेण " कोः कत्तत्पुरुषेची " ति कदादेशः सभुच्चीयते । गिरिनदीजलानि रुजाकरायपीत्यर्थः । तप्त्य च पिपासोः पानीयमपि विरसमित्यर्थः । " गिरिनद्यादीनां वे ’ ति णत्वविकल्पः । पीयन्ते न पुनस्त्यज्यन्त इत्यर्थंः । पिपासा हि न शक्यते सोदुमिति भावः । अनियतवेलं अनिश्चितकालं मूगयाविरामे सतृयेव भीजनावसरादिति भावः । शूल्यैः शूले संस्कृतैः " शूलोरवाद्यत् ’ यात्रसंस्कारानवकाशात् शूलेन गृहीतृवाग्रौ तप्तैर्वृतादिविरहादस्त्रिग्धैरित्यर्थः । मांसैर्भूयिष्टं प्रचुरं य ? था तथा । एव अकालिकेन संत्कारविकलेन भोजनेनापि न सुखमिति भावः । तुरगानुधावनेन स्वयमश्वारोहाक्षमत्वादेकाकिनश्च पश्चदवस्थाने कातरादिति भावः । संक्षुभिताश्शिथिलिताः सन्धयः जानुकटीकन्धरादिसन्धानानि यस्य तस्य मे रात्रिमपि नतु दिवैव केवलमित्यर्थः । अकर्मकधातुभियोगे देशः कालो गन्तव्योध्वा च कम्रसंज्ञ ’ इति परिभाषणानू द्वितीया । " कालाध्वनोरतृयन्तसंयोगे ’ इति वा । तदा कृत्स्त्रां रात्रिमित्यर्थः । शयिया । " कालाध्वनोरत्यन्तसंयोगे ’ इति वा । ततः रात्रावतीतायां महत्येवषत्यूषे प्रत्युषप्रारम्भ एवेत्यर्थंः । दास्याः पुत्रैरिति निन्दायां " पुत्रेन्यतरस्या ’ मिति प्रष्ट्या आक्रीशे पाक्षिकालुग्विधानात् । श्वगणलुब्धैः श्वगणग्राहिभिः किरातैः । शाकपार्थिवादिः । पाक्षिकालुग्विधानात् । श्वगणलुब्धैः श्वगणग्राहिभिः किरातैः । शाकपार्थिवादिः । मनुष्यश्रमानवेक्षिभिरटविकैरित्यर्थः शकुनिलुब्धकैरिति पाठे पक्षिवेधिभिरित्यर्थः । प्रतिबोधितः उन्निद्र कृतोस्मि । न निष्कामति नापैति । न निष्क्रामति नापैति । गण्डस्य व्रणविशेषस्य । पिटका व्रणान्तरं , मममृगवादुः खरूपं प्रथममेव व्रणमसहमानस्य व्रणान्तरमपि जात ? मित्यर्थः " गण्डः स्यात् पुंसि खइगिनि । ग्रहयोगप्रभेद च वीध्यङ्गे पिटकस्त्रिषु ’ इतृयमरश्च । तदेव पिटकास्थानापन्ननं दुः खान्तरमाह — हियो किलेति किलशब्दः स्वयमननुभूतत्वार्थः । अस्मास्विति बहुवचनं सैनिकसंग्रहार्थं । अवहीनेषु अनुधावनाक्षमतया विरहितेषु । मम अधन्यतया कर्त्र्या दर्शिता राज्ञो विषयीकककृता । का नाम तवाधन्यतेत्याह — संपदमिति । कहं वीति — पूर्वमपि नगरमगनकथामात्रमेवासीदिति भावः । तमेव राजानमेव सविशेषं सातिशयं । अक्ष्णोः प्रभातमिति अनिमीलिताक्षस्यैव सतारे भे प्रभातमासीदित्यर्थः । कृतं परिजनरचितं आचारपरिकर्म अरणाधिकरणयोश्चेति ’ ति ल्युद् । राजधनुः तत् . हस्तेषु यासां ताभिः यवनीभिः राज्ञां शलग्राहिण्यो यवन्यः , चामरग्राहिण्यश्च किरात्यो भवन्ति । " किराती चामरधरा यवनी शस्त्रधारिणी ’ इति शब्दार्णवे । यवनकिरातौ म्लेच्छजातिविशेषै । यवशब्दाज्जातिलक्षणो ङीष् । परिवृतः आटविबलान्तर्भावात्परिवेष्टितः इत एवागच्छतीति सएव सूगयाखेदः पुनरुप स्थित इति भावः । अङ्गभङ्गे । अवयवोपघातेन विकलः दुः स्य इव । एवमपि वैकल्याभिनयेनापि । जहणामेति सम्भावनायां । अपि नाम विश्रमं प्राप्नुयामित्यर्थंः । दण्डकाष्टं दण्डरूपं काष्टं शिंशुपावृक्षवत्सामान्यविशेषयोस्समासः । अवलग्बय अवष्टभ्य । प्रवेशकः " तद्वदेवानुदात्तोक्त्या नीचपात्रयोजितः । प्रवेशोङ्कद्वयस्यान्तः शेषार्थस्योपसूचकः ’ इत्युक्तलक्षणः । तत इति । यथोट्टिष्टः निटिंष्टप्रकारः प्रकारार्थस्य यथाशब्दस्य सुप्सुपेति समासः । परिवारः यवन्यादिपरिजनो यस्य सः ॥ काममिति । प्रिया कामं न सुलभा पितृपरतन्त्रत्वाद्यद्यदि दुर्लभा मनन्तु दुर्लभताज्ञानमनादृतृयेति तु शबदार्थः । तस्याः भावदर्शने आयस्यति प्रयतत इति तथाभूतं , न विरमसतीति भावः । किं दुर्लभाया भावदर्शनेनेत्यतआह । अकृतेति ’ । मनसिजः " सप्तम्यां जनेर्डः ’ " तत्पुरुषे कृति बहुतेति ’ । मनसि जायत इति मनसिजः " सप्तम्यां जनेर्डः ’ " तत्पुरुषे कृतिबहुल " मिति बहुलग्रहणादलुक । तस्मिन् बकृतार्थे अकृतवृत्ये सत्यपि असमागमादिति भावः । उभयोः कामिनो प्रार्थना पररपराभिलाषः । उभयपुत्र इतिवत् वृत्तिविषये उभयशब्दस्थाने उभयशब्दप्रयोगः । " कपोल्लोलोभयकालपख , ’ इति च रघुवंशे । कामनामात्रम्पीत्यर्थः । रतिं प्रीतिं कुरुते । अकृतार्थेपि हि मदन इति पाठान्तरे तथाहीति ह्मर्थः । पररपरप्राप्तिनिराशयोर्वरं श् ? रीरनशोपि स्मानुरागयोः ’ इति न् यायेनेतरतानुराग् ? ज्ञानमात्रं कामिनां सुखयेति भाव । तद्भावदर्शनाश्वासीति पाठे तु तस्याः भावदर्शेने प्रेम्णोऽवगतत्वेन आश्वासि तृप्तइत्यर्थः । " अकामां कामयानस्य शरीरमुपतप्यते । इच्छन्तीं कामयानस्य प्रीतिभंवति शीभना ’ । इति च रामायणम् । आर्यावृत्तम् । स्मितमिति आत्मोपहासरूपमित्यर्थः । स्मितशब्दोयं हाससामान्यपरः । एवमिति आत्ममाभिप्रायेण स्वबुद्ध्या संभाविता अध्यवसिता इष्टजनस्य प्रार्थितजनस्य चित्तवृत्तिः उत्कण्ठादिरूपो भावः येन सः प्रार्थयिता जनः कामी विडम्बयत इति स्वाभिप्रायनुरोधेन पंरचित्तोत्प्रेक्षणं कामिनां न केवलं ? वितथार्थं प्रत्युत विडम्बनास्थानमपीत्यर्थः । तदाह — स्त्रिग्धमिति । अन्यतः अन्यत्र विषयान्तरेति प्रेरयन्त्या व्यापारयन्त्या सतृया तया प्रियया स्त्रिग्धं स्नेहयुक्तं यथा तथा वीक्षितं दृष्टमिति यत् एवं निम्बयोर्गुरुतया भरेण हेतुना विलासातृ " तात्कालिको विशेषस्तु विलासोङ् ? ग ? क्रियादिषु ’ इत्युक्तलक्षणादङ्गक्रियाविशेषदिव । मन्दं यथा तथा यातं गतं इति यत् , मा गा इति " इला ण जुत्तं दे गन्दुं रुक्खसेअहणाइ दुवे धोसि ’ इति सखीनिषेधोऽयमर्थतोनूदितः " इणो गालुङी ’ ति गादेशः । " न माङ्योग ’ इत्यडागमप्रतिषेधः । " माङि लुङ्र ’ इति च विध्यादौ लुङ्र । उपरुद्धया प्रतिषिद्धया सत्स सा उपरुद्धवती सखी सासूयं सकोपमुक्ता " का तुमं विसज्जिदव्यस्स वा रोहिदव्वस्स वा ’ इति प्रत्युक्ताइति यदपि , तत्सर्वं स्त्रिग्धदशनमन्दगमनसखी प्रतिवचनरूपं त्रितयमिपि चेष्टितं अहमेव परमयनं परायणं विषयो यस्य तत् किल मदेकविषयमेव , मद्वुध्येति भावः । " आश्रये तत्पराभीष्टे परायणपदं विदु ’ रिति शाश्वतः । " पूर्वपदात् संज्ञायामग ’ इति णत्वं । वस्तुतोन्यपरम ? पि सर्वमिष्टजनचेष्टितं स्वाभिप्रायानुरोधेन स्वपरं मया लोकतन्त्रनिष्णातेनपि व्यवसीयते किमुत परैरिति भावः । अहो जानतोपि व्यामोह इत्याश्चर्यमित्यर्थः । उक्तार्थसमर्थनं सामान्यमर्थान्तरं न्यस्यति । कामी स्वतां स्वीयतां पश्यति स्वाभिप्रायेण जानाति । अर्थान्तरन्यासालङ्कारः । अन्यतोपीतृयपिना किभुत स्वविषये सतीत्यर्थापित्तिरलङ्कारो व्यज्यते । शार्दूलविक्रीडितं वृत्तम् । तथा स्थित एव दण्डकाष्टमवलम्ब्य स्थित एव हस्तपादौ हस्तसहितौ पादाविति मध्यमपदलोपी समासः शाकपार्थिवादेराकृतिगणत्वात् । अतो नैकवद्भावः । न प्रसरतः न व्याप्रियेते । वाङ्मात्रेण उपचर्यस इति शेषः बाहूद्यमनाक्षमतृवादिति भावः । गात्रोपघातः अवयवानां कुण्ठत्वं । स्वयं आत्मना । आकृलीकृतृय कलुषीकृत्य । नखल्ववगच्छामीत्येतदनन्तरं भिन्नार्थंमभिधीयतामिति क्कचिातृपठो दृश्यते तत्र भिन्नार्थमितृयस्य स्पष्टार्थमित्यर्थः । कुब्जस्य गडुलस्य लीलां क्रियां नतिरूपां " लीलाविलासक्रिययो ’ रित्यमरः । विडम्बयति अनुकरोति यत् । तत्र वेतसस्य कुब्जलीलाविडम्बने नदीवेगः कारणं नद्यां दहन्त्यामेव तदुत्त्पत्तेरिति भावः । मह विभवं इति । कुजलीलाविडमृबने कारणमिति शेषः । आकुलप्रदेशेषु विषमप्रदेशेषु वनयचरस्येव वृत्तिर्यंस्य तेन । भवितव्यमवश्यं भाव्यं । अहं पुनः अहं तु अज्ञज्ञतमृगयागन्धो ब्राह्मण इति पुनश्शब्दार्थः । सत्यं परमार्थमेव न तु मषा विडम्बनमित्यर्थंः । शुनामिव पदानि येषां तेषां श्वापदानां समुत्सारणै संक्षुभिताः शिथिलीकृताः सन्धिबन्धाः अवयवसन्धानप्रदेशा येषां तेषां गात्राणां शरीरावयवानां विषये " गात्रं गजाग्रजंघादिभागे स्वाङ्गेकलेबरे ’ इति विश्वः । अनीशः आकुञ्चनप्रसारणाद्यशक्तः सैनिकाकृतेपि श्वापदसमुत्सारणे कातरस्य पृथगवस्थातुमसमर्थस्य अनुधावनसाम्यादवयसंक्षोभः । एकाहमपि । तावत् " उतृतमैकाभ्यां च ’ इत्यहृलादेशप्रतिषेधात् " राजहस्सखिभ्य ’ इति टच्र । विश्रमितुं क्कचिदवस्थातुं । काश्पसुतां शकुन्तलां । सूगयायां विक्लबं निरुत्साहम् । नेति ? । अधिज्यं अधिरोपितमौर्वीकं आहितसायकं संहितबाणमपि इदं धनुः मूगेषु हिरणेषु लक्ष्यभूतेषु विषये नमयितुं न शक्तोस्मिं । का कथा बाणममोक्ष इति भावः । धनुर्नमनं हि शरप्रयोगारंभः । यैः मृगैः प्रियायाः सहवसतिं सहवासमुपेत्य मुग्धविलोकितस्य सुन्दरावतीकनस्य उपदेशः कृतइव आरण्यकत्वातृ भ्रूविलासानभिज्ञायाः शकुन्तलायाः ईदृशो मन्मनोहारिणि विलोकिते विषये मूगैरेवाचर्यमनुष्टितमिवेत्युप्रेक्षा । प्रियायाः गुरुभूतेषु कथं धनुर्नमनमिति भावः । केचित्तु प्रियायास्सकाशात् आख्यातोपदेश इति पञ्चमी । कृतः लब्धइवेत्यर्थः । ततश्च मूगाणां शिष्यत्वमसीयत इति मन्यते । "" प्रवातनीलोत्पलनिर्विशेषमधीरविप्रेविप्रेक्षितमायताक्ष्या । तया गृहीतं नु मृगाङ्गनाभ्यस्ततो गृढीतं नु मृगाङ्गनाभिः ’’ इति कुमारसम्भवादुभयमप्युपपन्नं अत्र "" तस्यापरेष्वपि सगेषु शरान्मुमुक्षोः कर्णन्तमेत्य बिभिदे निबिडीपि मुष्टिः । त्रासातिमात्रचटुलैः स्मरयत्सु नेत्रैः पौढप्रियानविभ्रमचेष्ठितानि ’’ इति रधुवंशोक्तप्रकारेण मृगाङ्गनादशनेन सादृश्यतृ शकुन्तलास्मरणमेव धनुर्नमनप्रयत्नं विहन्तीति स्मृतिमदलङ्कारध्वनिः । पुष्तिाग्रा वृत्तम् । अतृत भवमिति । अन्यपरस्य सती मया स्वदुः खनिवेदनं आत्ण्यरुदितप्रायमित्यर्थंः । अनतिक्रमणीयं सुह्णदो वचनमिति चिन्यन्नेव तूष्णीं स्थित इत्यर्थः । चिमिति आत्मश्रमापनोदनस्य प्रत्युपकारो ब्राह्मणसुकभोयमाशीर्वाद इति भावः । सविशेषं वक्तव्यान्तरवत् न तु समाप्व्तमित्यर्थः । अन्यस्मिन् मृगयातिरिक्ते । अनायासे न तु ममृगयावतृ सायासे । कर्मणि शकुन्तलासंग्रह इति भावः । सह अयते प्रर्वत इति सहायस्तेन सहकारिणा । यत्न यस्मिन् कर्मणि वक्ष्यामि निप्रोक्ष्ये तत्र सहायेन भवितव्यमितृयनुकुष्यते । क्षणः उद्यम इत्यर्थः । गृहीतः अङ्गीकृतः साहायकं कर्तुमुद्युक्तोत्यर्थः । " निर्व्यापारस्थितौ कालविविशेषोत्सवयोः क्षण ’ इत्यमरः । द्वारे नियुक्तः दौवरिकः " तत्र नियुक्त ’ इति प्राग्वहतीयः ठक् । " द्वारादीना ’ मित्यैच् । प्रविचश्येति कार्यत्याल्पत्वात् प्रविशतीयनुक्तिः । रैवतकेति प्रतीहारनामग्रहणं । आहूयतामिति । " वचिस्वपियजादीनां कितीं ’ ति ह्वपतेर्यकि संप्रसारणं । आज्ञाव्चनाय आज्ञां वक्तुमित्यथंः । " तुमर्थाच्च भाववचना " दिति च्तुर्थी । उत्कण्ठः काश् ? र्यादयो यस्य तस्मिन्निति व्याचक्षते । केवलमेकान्तं गुणायैव अनवसादरूपव्यायवगताः दोषाः यस्यास्तथाभूतापीति मृगयाविशेषणं । गुणानेवाह – तथा हीति । अनपवरतेति । अनवरतविश्रान्तं धनुर्ज्यायाः धनुरारूढांया मौर्व्याः " धनुर्ज्याध्वनौ धनुः श्रुतिरारूढैः प्रतिपत्त्या ’ इति चामनः । आस्फालनेन आकर्षणेन व्यायामेन क्ररपूर्वं मेदस्संक्षयातृ कठोवक्षः स्कन्धादिभागमित्यर्थः । रविकिरणानां सहिष्णु सहनशीलं ऊर्जस्वित्नादिति भावः । " अलंकृञ्निराकृञ्प्रजनोत्पतोम्मदरुच्यपत्रपिवृतुवृधुसहचर इष्णुच् ’ इति सहिष्णशब्दस्साधुः ।अत एव स्वेदलेशैः स्वेदकणैः अभिन्नमसंसृष्टं महापुरुस्यातिस्वेदो नास्त्येवेत्यत उक्तं लेशैरिति ’ अपचितमपि श्रमेण कृशमित्यनवगम्यं अव्यायामत्वात् कृताभ्यासतृवेन दृढत्वादिति यावत् । अलक्ष्यं कृशमित्यनवगम्यं अव्यायतस्य हि महदुपचयापचयतारतम्यं स्यात न तु व्यायतस्ये ति भावः । अतः प्राणः बलमेव सारः स्थिरांशो यस्य तत् गात्नं शरीरं गिरिचरोनागो गजइव । बिभर्ति उपमालङ्कारः । मालिनीवृत्तम् ॥ निगृहीतः निरुद्धः शुनामिव पदानि पादाः येषां तेषां श्वापदानां व्याघ्रवराहादीनां " शुनो दन्तदंष्ट्राकर्णकन्दवराहपुच्छपदेषु दीर्घो वाच्च ’ इति श्वापदशब्दसिद्धिः प्रचारः वनान्तरधावनं यस्मिन् तथाभूतं प्रत्यूषे प्रचारात् प्रागेव परितो निरुद्वमित्यर्थ। किं कुतः अद्यपि एतावत्यामपि वेलायां स्थोयते मूगया नारभ्यते । किमितीति पाठे इतिर्हेत्वर्थः कस्य हेतोरित्यर्थः । मूगयां अपवदति निन्दतीति मृगयापवादी तेन अपवादस्तु निन्दायामाज्ञाविस्त्रंभयोरपी ’ ति विश्वः । भग्रोत्साहः कुण्ठितोद्योगः स्थिरा प्रतिज्ञा मूगयापवादविषदियी यस्य सः स्वामिनः राज्ञाः । चित्तवृत्तिं मृगयासक्तिरूपमभिप्रायं अनुवर्तिष्ये चिरपरिश्चान्तस्य विराममिच्छतोऽपि स्वेनैव प्रतिषेधाभ्युयगमो मे सवाधिकारविरुद्ध इति भावः । वैधेयः विधेयं विधानं तदधीनः " तस्येद ’ मित्यण् । विधिपरतन्त्र इत्यर्थः । ’ अज्ञे मूढयथाजातमृर्खवैधेयाबालिशा ’ इत्यमरः । निदर्शनं प्रमाणं निर्णायकः अथवा स्वामिनः शरीमेवात्न मृगयागुणानां निदर्शनं किमस्य मूर्खस्य निन्दयेति भावः । तदाह – मेद इ ? त्ति । वपुः मेदसः वसायाः " मेदस्तु वपा वसे ’ त्यमरः । छेदेन अपनयेन कुशोदरं तनुमध्यमत एवोत्थान उद्योगे योग्यं समर्थं भवति । येनालस्यांगमेजयत्वादिरुत्थानपरिन्थी दोषस्तस्य मेदसो विगमोनाम प्रथमो गुण इति भावः । किञ्च भयक्रोधयोस्सतोः विकृतिमत् प्राप्तान्यथाभावं सत्त्वानां मूगव्याघ्रादीनां प्राणिनामपि चित्तं लक्ष्यते । मुखनयनादविकाराणां भयक्रोधलक्षणानामनुदर्शनादयं भीरुरयं क्रोधन इति सत्त्वेष्वपि व्युत्पत्तिजांयत इत्यर्थः । गुणान्तरञ्चेदं यदभिनवानेकप्राणिचित्तपरिज्ञानमिति भावः । अपि च चलं अस्थिरेपि लक्ष्ये शरव्ये इषवः बाणाः सिद्ध्यन्ति अवितथा भवन्तीति यत् सच धन्विनां धनुरेषामस्तीति धनिवनस्तेषामुत्कर्षोतिशयः । चललक्ष्यवेधित्वं च विशेषान्तारमित्यर्थः । मिथ्या वृथैव हि मगयां व्यसनं वदन्ति नीतिविद इतिशेषः । ईदृक् मृगयासदृशः विनोदः दुः खापनोदनं वस्तु कुतः क्कन्यदस्ति । आश्रयदोष एवारोपितो मृगयायांनीतिविद्भिर्यद्दुः खापनोदसाधनं दुः खसाधनं गण्यत इति भवः । " मृगयाक्षा दिवावस्वप्रः परिवादः स्त्रियो मदः । तौर्यत्रिकं वृथाठ्या च कामजो दशको णण ’ इति मनुः । मृगयारूपस्य दोषस्य गुणत्वकल्पनाल्लेशालङ्कारः " लेशस्तु दोषगुणयोर्गुणदीषत्वकल्पन ’ मिति लक्षणम् । शार्दूलविक्रिडितं वृत्तम्॥ अत्रभवान् राजा । प्रकृतिमापन्नः निवृत्तमृगयापिशाचावेश इत्यर्थः । त्वं ताव् त्वमेव केवलनं । नासिकामिषे लीलुपस्य गृघ्रोः जीर्णऋक्षस्येति उत्थानाक्षमतया चिरोपीषितस्य यदृच्छोपनतपारणाकाङ्क्षिण् ? ा इत्यर्थः । मुखे चक्त्रबिले । आश्रमस्य सन्निकृष्टे समीपदेशो । नाभिनन्दामि आश्रमोपरोधप्रसङ्गन्नाङृगीकरोकरोमि । गाहन्तामिति । महिषाः शृङ्गैर्विषाणैर्मुहुः पुनः पुनस्ताडितं आमस्तकनिमज्जनादुन्नमितमुखानां तिरश्चीनैः शृङ्गैश्चलद्भिराहतमित्यर्थः । निपीयतेऽस्मिन्निति निपानं सरः तस्य सलिलं गाहन्तां विलोडयन्तु । मृगकुलं हरिणयूथं च छायासु बद्धकदम्बकमारचितमण्डलं मण्डलीभूय निषण्णं सदित्यर्थः । रोमन्थं चर्वितचर्वणं अभ्यस्य तु परिचिनोतु । विस्त्रम्भादकातरं भवत्विति भावः । वराहाणां ततिभिः समूहैः नल्वले वेशन्तेषु जात्येकवचनं विस्त्रब्धं विमुक्तुणबन्धनं सद्धिश्रान्तिं निर्व्यापारत्वं लभतां प्राप्तेतु । चिरपरित्यक्तं स्वं स्वं विस्त्रब्धव्यापवारचापव्यापारोपरमादारभन्तां सत्त्वा इति भावः ॥ धुनषो विश्रमविधिना स्वस्य महत्यपि कर्मण्यश्रमो व्यजृयते । अयं श्लोकः " अस्पृष्टा दोषमात्राभिः समग्रगुणगुम्फिता । विपञ्चिस्वरसौभाग्या वैदर्भी रीतिरिष्यते ’ इति लक्षयता वामनेनोदाहतः । " विस्त्रब्धं तनुतां वराहविततिर्मुस्तार्मुस्ताक्षतिं पल्वल ’ इति च पाठान्तरम् । शार्दूलविक्रीडितं वृत्तम् । प्रभवतीति प्रभविष्णुः " कर्तरि भुवः खिष्णुच् खुकञौ ’ " रुच्यर्थानां प्रीयमाण ’ इति चतुर्थी । पूर्वगतान् सत्त्वप्रचारात्पर्वंमेव निरोधाय प्रस्थितान् वनग्राहिणः वनरोधकानाटविकान् निवर्तंय मूगयात्रिरामाद्वनग्रहणं मा भूदिति भावः । यथा येन प्रकारेण । सेनां समवयन्तीति सैनिकाः " समवायान् समवैती ’ ति टक् । निषेद्धव्याः । निवर्तयितव्याः कुतः ? तदाह — शमेति । शमश्चित्तोपरम् एव प्रधानो येषां तेषु तपोधनेषु ग्रढं बहिरनाविष्कृतं दाहो भस्मीकरणमतृमा स्वभावो यस्य तत् तेजः शक्तिविशेषः अस्ति व्ययाभावादेव पुञ्चितं निवसतीत्यर्थः । तदन्तर्हितं तेजः स्पर्शानुकृलाः स्पर्शयोग्याः सुखस्पशां इत्यर्थः । सूर्यकान्ता नाम मणय इव अन्येन क्षात्रादिना तेजसाभिभवादतिलंघनाद्धेतोर्वंमन्ति युगपदुत्सूजन्ति । यथा सुखस्पर्श एव सन्तस्सूर्यकान्तमणयस्समर्यंतेजसाभिभूताः प्रज्वलन्ति तथा मृदउवः सन्तो मुनयः परतेजसा परिभवं न मृष्यन्तीत्यर्थः । तेजः पदश्लेषोत्थापितेयमुपमा । उपजातिवृत्तम् ॥ ध्वंसिनः नाशितः , उत्साहवृत्तान्तः मृगयो़मवातां । परिजनं परिवारं यवनीरूपं । मृगयावेषं बाणासनग्रहणवनपुष्पमालाधारणादिरूपं । नियोगं स्वाधिकारं । अशून्यं कुरु भजस्वेत्यर्थंः । मक्षिकाणामभावो ? ? निर्मक्षिकं अर्थाभावेऽव्ययीभावः । विजनत्वमित्यर्थः । पादपत्यच्छायायां स्थित इति शेषः । अविरलैर्नीरन्घ्रैर्लतावितानैर्लतामण्डपैस्सनाथे आसने शिलापीठे । निषीदत्विति । परिश्रमविनोदाथेति भावः । अहमपीति त्वय्यासीन एव ममाप्यासनाप्तिरिति भावः । सुखेनासीनः सुखासीन . । अनवाप्तं चक्षुषः फलं दर्शनीयदर्शंनरूपं प्रयोजनं येन सः दर्शनीयमिति । शकृन्तलादर्शनमेव चक्षुष्मतां चक्षुः फलमिति भावः । अग्रत एवेति । ननु दर्शनीयतमे सति भवति पुरतः कथं मया दर्शनीयं नदृष्टं भवतीत्यर्थः । सर्वोऽपि जन्तुः आत्मीयं स्वसम्बन्धिनं कान्तं सुन्दरमेव पश्यति स्नेहो ।ह स्वविषये गुणानेकीकरीतीति भावः । आश्रमस्य ललामभूषणमिव तथाभूतां तामेव हृदिस्थितामेव । अधिकृत्य विष्यीकृत्य तटस्थदृष्टेरप्याकर्षकं यतृतदेव हि वस्तुतो गुणोत्तरमिति भावः । शकुन्तलावृत्तान्तः प्रथममेव विदूषकाय राज्ञा निवेटित इति ज्ञायते अत एवोक्तमत्र तामेवेति । पूर्वं च विदूषकवाक्यं " तावसकण्ण्आ सउन्दला णाम मह अधण्णदाए दसिदा ’ इति । होदु दर्शनीया स्यादिप नाम । अस्य राज्ञः । अवसरं शकुन्तलागुणर्णनावकाशं । अद्य अन्तः पुरविरहे सति नेतः पूर्वमेवमितिः भावः । तापसकन्यकापि आरण्यकत्वान्मृगकल्पापीत्यर्थः । अभ्यर्थनीया प्रयत्नप्रार्थनीयां । परिहार्ये हेये वस्तुनि गुणहीने विषय इत्यथः । पौरवाणामिति नागरिकाणां जितेन्द्रियाणामित्यमितृयभिप्रायगर्भं यज्जितेन्द्रियाणां राज्ञामपि चित्तहारि क्थमेतद्रुणोत्तरं न भवतीति भावः । तत कथमतत् यदि न परिहार्ये मनः प्रवृतिृतः तर्हि शकुन्तलायां तवायं मनः सङ्गः कथं स्यात् ? न हि तपस्विकन्या राजृस्पृहणीण भवितुमर्हतीत्यर्थंः । राजा समाधत्तं । निवारितेति । लोको जनः नवामिन्दुकलासुन्मुख उद्गतवदनो दर्शनोत्कण्ठितो वा सन् निवारितो निषिद्धो निमेषः पक्ष्मपातो यासु ताभिरनिमेषाभिरिति यावत् नेत्रपड्क्तिभिः केन भावेन पश्यति दर्शनीयं स्वत एव दृष्टिं हरति तत्र किं स्थानकुलाद्यन्वेषणेनेति ॥ अनुष्टुप् वृत्तम् । सुरयुवतीति । सुरयुवतौ मेनकायां सम्भव उत्पत्तिर्यसय तत् तया सुरयुवत्या उज्झितं त्यक्तं सदधिगतं लब्धं मुनेः काश्यपस्यापत्यं सन्ततिः । यथाच्युतं नवमालिकातो विश्र्लिष्टं सदर्कस्यार्कवृक्षस्योपरि पतितं नवमालिकाकुसुममिव अतस्संसर्गमात्रेण न तापसकन्यका भवति , दिव्याङ्गना च कथं न प्रार्थंनीयेति भावः । वाक्यार्थोपमालङ्कारः ॥ आर्यावृत्तम् ॥ पिण्डखर्जूरैः संघातभूतैः खर्जूरुलैः स्वादुतरैरिति भावः । उद्वेजितस्य एकरसासङ्गाज्जडीकृतरसनेन्द्रियस्य तिन्त्रिण्यां पिण्डखर्जूरसदृशे तिन्त्रिणोफले अभिरस्कारिण् ? ाः दर्शंनीयं न दृष्टमिति ह्मवरोधवधूतिरस्कार इति भावः । " जातौ जातौ युदस्कुष्टं तद्रत्नमिति कथ्यत ’ इत्युक्तं । इयमभ्यर्थना तापसकन्यकाप्रार्थना । विदग्धवनितैकदर्शिनस्तवेदं विच्छित्तिविशेषमात्रं , नतु तापसकन्यकायां गुणान्तरं स्यादिति भावः । तावदत्यर्थं एनां शकुन्तलां न श्यसि न दृष्टवानसि । येनादर्शंनेन एवं तिन्त्रिसदृशतृवेन । सकृतृपश्यनपि नैवं वदेदिति भावः । विदूषकः परमार्थेनाह – तं इति । भवतोपि नागरिकतमस्यापीत्यर्थः । यस्तु विस्मयं अदृष्ट पूर्वतृवादाश्चर्यं उतृपादयति जनयति । ततृ खलु रमणीयं तदेव हि दर्शनाय वस्तु किं मादृशेन दृष्टवतेत्यर्थः । किं बहुना अङ्गपत्यङ्गदिवर्णंनेन प्रयो जनं नास्तीत्यर्थः । अशक्यवर्णनतृवादिति भावः संक्षेपेणाह — चित्र इति । विधिना ब्रहृमणैव कर्त्रा रूपोच्चये न सौन्दर्यसारोद्ग्रहणेन वर्णदव्योकद्गहणेन च उद् ग्रहीणेन च उद्ग्रहीतेन रूपेण करणेनेति यावतृ । चित्रे आलेख्ये निवेश्य संस्थानमाधाय परिकल्पितसत्त्वयोगा विहितप्राणयोजना किं । करस्पष्टष्टं हि नैवमक्लिष्अं रूपं भवतीति भावः । चित्नातिशायित्वाभिसन्धनादाह । मनसेति । मनसा कृता नु मानसी सृष्टिर्वेत्यर्थः । विधिना रूपोच्चयेनेतीहापि सम्बध्यते । मनस्सक्लालितेन रूपसारसमुच्चयेन सृष्टा किमित्यर्थः । कुत इदमवगतं ? तादाह — स्त्रीरत्नेति । धातुर्ब्रहृमणो विभुत्वं सर्वथापि निर्माणकौशलं तस्याः शकुन्तलाया वपुरालोकसदृशं शरीरच्च अनुचिन्त्य आलीच्य सा स्त्रीरत्नसृष्टिः शकुन्तला ? निर्मितिरपराविलक्षणा मे प्रतिभाति ॥ चित्र इत्यनेन नयनाधरकपीलकुन्तलाद्यवयवेषु प्रत्यग्रच्छायतृवं मनसेतृयेन च मनोहरतृवं व्यजृयते । चित्रसृष्टित्वमानसमृष्ब्टित्वोत्प्रेक्षाद्वयोत्थापिता भेदकातिशयोक्तिः । अपरोत्यनेन तस्याएव सृष्टेरन्यत्वप्रतिपादनात् भेदकातिशयोक्तिः स्यात्तस्यैवान्यतृववर्णंनमि ’ ति लक्षणात् ॥ वसन्तीतिलकं वृत्तम् । रूपवतीनामवरोधवधूनां प्रत्यादिश्यतेनेति प्रतृयादेशः अपकर्षहेतुः । इदं च वक्ष्यमाणं च मे मनसि वर्तते हृदयान्नापैति । किं तदित्याह — अनाघ्रातमिति । अनधं अपेताशेषदोषं अन्यत्सर्व " भेको ? हि दोषो गुणसन्निपाते निमज्जतीन्दोः किरणेष्विवाङ्क ’ इति न्यायेन स्तोकतया दोषाणामतस् ? तोकतया च गुणानां प्रशस्यते , इदं पुनरन्यदेवेति भावः । तस्याः शकुन्तलायारूपं अव्याजरमणीयः आकृतिविशेषः अनाघ्रातं कैश्चिदप्यननुभूतगन्धं पुष्पं कुसुमभूतं यथा हि ’ पुष्पं सोरभमयमेवं गुणमयमिति भावः । अनाघ्रतपदेन वनकुसुमवदगृहीतत्वादविदितं बहिः , यत्स्वयं वराणाम ? िप न सुलभं नरेन्द्रकन्यानामिति व्यज्यते । तथा , कररुहैर्नखैरलूनमच्छिन्नं किसलयं अभिनवारागोदयात् नाग ? रिकपरिग्रहे महाइंवेषभूषणविलासादीनां पुष्पभूतानां सम्भवाच्च पल्लवभू ? तमिति भावः । कररुहैरलूनं किसलयं यथा काष्टपणांदिसंसृष्टं प्रयत्नदर्शनीयमेवमारण्यकमध्यगतं तन्न कस्यापि विदितमिति व्यज्यते । तथा च , अनाविद्धमनुल्लिखितं रत्नं रत्नशब्देन लावण्यरूपकान्तिविशेषशालितृवं राज्ञामपि शेखरायमाणत्वमक्लिष्टकान्तित्वं चाभिव्यज्यते । आकरस्थं हि रत्नमविदितगुणं न ग्राहकाणां दृष्टिपथं यातीत्युक्तमनाविद्धमिति । एवं अनास्वादितः कैश्चिदप्यरसिती रसी यस्य तत् इदमेवं रसमित्येतावदप्यननुभूतपूवंमित्यर्थः । नवं मघु मद्यं यत इदं दृष्टमात्रमात्मानं विस्मारयत्यतोऽपूर्वं मधु तदप्यज्ञातगुणतृवादनुपयुक्तपूर्वमिति भावः । एकरसं नानारसमितृयादिवदत्र गुणमात्रपरो रसशब्दः । अपि च , पुण्यानां भोक्तृसुकृतानां समु ? दितानां अखण्डं एकं फलमिवेत्युत्प्रेक्षा । एकैकगुणं पुष्पादिकं , इदं तु समग्रगुणमिति व्यतिरेकादन्यदेवेदं किमपि प्रत्येकमदत्तफलानां चिरार्जितानां महाभागस्य भोक्तुर्भागधेयानां समवेतानां स्वर्गादिवदेकं फलमिति भावः । कस्तर्हिभोक्तेतृयाह — नेति । कं पुनः पुरुषमिह रूपे विषये भोक्तारमनुभवितारं अनुभवितृत्वेनेत्यर्थः । विधिर्नियतिः समुपंस्थस्यति आनुकूल्येन प्राप्स्यतीति न जाने । यां विना सदपि साम्राज्यादिकं वितथमिव , तां लब्ध्वैव कृतार्थो जन्मलाभ इति भावः । मनुष्यलोक एव स्वर्गोयं यदेवंविधस्य दिव्यरूपस्याप्तिरिति च व्यञ्जितं । माला रूपकोत्प्रेक्षयोस्संसृष्टिः । शिखरिणी वृत्तम् । तेन हि तथारूपतृवेन हि । लधु क्षिप्रमेनां शकुन्तलां परित्रायतां रक्षतु । किमत्याहितं यतस्त्रायेतेत्याह - मा खु इति । इंगुदीतैलेन चिक्कणाशीर्षस्य संसृष्टंशिरोरुहस्य अमनोरमस्येतृयर्थः । अरण्ये भव आरण्यकः " अरण्यान्मनुष्यो ’ इति वुञ् । मा खलु पतिष्यति नतेदित्यर्थः । नञर्थे मेत्यव्ययं " लृट् शेषे चे ’ ति चकारादनुक्तिमुच्चयाद्विध्यादिष्वपि लृट् । परवती गुरुपराधीना अतो स्वेच्छय प्रवतितुं प्रभवति येन लघु पिरत्राणावसर इति भावः । गुरुर्वां सदृशवरलाने किमितृयुदासीत , अतः प्रार्थ्यतामितृयत आह । न चेति , गुरुरेव जनः , पितेत्यर्थः । अथेति प्रश्रद्योतकं । अत्र भवन्तमन्तरेण त्वामुद्दिश्येत्यर्थः " अन्तरान्तरेण युक्त ’ इति द्वितीया । अत्र च ’ अन्तरान्तरेण शब्दौ निपातौ साहचर्याट्टृश्येते । आभ्यां योगे द्वितीयाविभक्तिर्भवत । तत्रान्तराशब्दो मध्यमाधेयप्रधानमाचष्टे । अन्तरेणशब्दस्तु तच्च विनार्थं च । अन्तरा त्वां च मां च कमण्डलुः , अन्तरेण त्वां च मां च कमण्डलुः । अन्तरेण पुरुषकार न ? किञ्चिल्लभ्य ’ इति काशिकातोन्तरेणेत्यस्ययमर्थो यद्यपि न लभ्यते । तथापि रागस्याभूर्तस्य विषयिणो विषयाधेयतया तसय च प्राधान्यमेव मध्यत्वमित्यभिप्रायदादव्ययानामनेककार्थत्वाद्वा न दोषः । अस्याः शकुन्तलायाः दृष्टिरागश्चक्षुः प्रीतिः । स हि निदानं प्रणयस्येति भावः । निसर्गेण स्वभावत एव शालीनः अधष्टः । शलाप्रवेशमर्हतीति शालीनः " शालीनकौपीने अधृष्टाकार्ययो " रिति निपातनानात् खञ् । तपस्विकन्याजन इति , न हि राजकन्याजन इव प्रगल्भस्तपस्विकन्याजनः येन भावाविष्कार इति भावः । तथापि अधृष्टत्वे सतृयपि तु । अभिमुख इति । मय्यभिमुखे अवलोकयति सति ईक्षितं तया प्रथमप्रहितं दर्शनं संहृतमा क्षिप्तं । अतः प्रथमदृष्टिपातो रागलक्षणमिति भावः । हसितमन्येन निमितृतेन कृतोदयं अवशात्प्रवृत्त एव हसिते निमित्तान्तरं व्याजीक्रियत इत्यर्थः । हसितोदयश्च रागलिङ्गमिति भावः । अतः उक्तहेतुभ्यां विनयेन लज्जनिबन्धनेनातृमसंयमनेन वारितवृत्तिर्निषिद्धप्रसरः पुनः पुनः प्रकान्तप्रसर एव निरुद्ध इत्यर्थः । मदनो नविवृतः निवारणादनाविष्कृतः । न च संवृतः अवशप्रवृत्ततया च न निश्शेषं गूहितः । लक्ष्यत एवात्या रागो न तु निश्चरयतइति भावः । द्रुतविलम्वितं वृत्तम् । दिट्टमत्तस्सेति । प्रथमानुरागे खल्वेतावदेव बहुतरं सर्वासामेव स्त्रीणममिति भावः । मिथ इति मिथः पृथक् मां विहायेत्यर्थः । सस्वीभ्यां सह प्रस्थाने आश्रमप्रतिगमनविषये शालीनतया अधृष्टतया प्रसथानक्षमतयेवेत्यर्थः भूयिष्ठमत्यर्थं भाव आविष्कृतः प्रकटीकृतः । प्रस्थानाक्षमतैवानुरागपिशुना संवृत्तेत्यर्थः । दर्भेति । तन्वी शकुन्तला कति विदेव पदानि गत्वा अकाण्डे अनिमित्त एव चरणो दर्भांकुरेण कुशसूच्या क्षतो विद्ध इति स्थिता पदान्तरमगता । द्रुमाणां पश्चादतिक्रान्ततरूणां शाखासु विटपेष्वसक्तं वस्तुतोननुषक्तमपि वल्कलमुत्तोरयचीरं विमोचयन्ती विमुच्यमानमभिनयन्ती सती विवृत्तवदना मदभिमुखीभूतमुखी आसीच्च । अतश्च स्पष्टमाविध्कृतो भाव इति सम्बनधः । वसन्ततिलकं वृत्तम् । यद्येवं त्वयि चेद्वद्धरागा । गृहीतं पथि साधु पाथेयं " तत्र साधु ’ रित्यधिकारे " पथ्यतिथिवसतिस्वपतेर्ढञ् ’ येन सः । भवेति एकाकिनः शकुन्तलानुरोधेन कैश्चित मूगवधनिषेधप्रवृत्तैस्त्रिभिस्सेनागजादिभीतैश्च कतिपयैरित्यर्थः । इहस्थः आश्रमस्थितः । चिन्तय तावत् प्रथममालोचय । किं च्चिनतनीयं ? किं तच्चिन्तनीयं ? आह — केनेतिअपदेशेन व्याजेन सकृत् पुनरेकवारमपि । अनिमित्तं हि पुनः प्रवेशः सन्देहाय स्यात् इहस्थताज्ञानं च तस्यैव दार्ढ्यायेति भावः । राजेति , राज्ञः पाल्येषु किमपदेशान्तरेणेति भावः । ततः किं राज्ञोपि पाल्येषु नाप्राप्तावसरं दर्शनं युक्तमिति भावः । नीवाराणां षष्ज्ञ्ठं भागं राजग्राह्मं बलिं आरण्यका मुनयः उपहरन्तु ददात्वित्येवास्त्यपदेश इत्यर्थः । एतेषामारण्यकानां रक्षणे अन्यतृ नीवारषष्टांशादतिरिक्तं भागधेयं भागः ग्राह्मांशा इति यावत् । अत्र भागधेयमिति नपुंसकलिङ्गप्रयोगाद्वलिरित्यर्थो न भवति " भागधेयः करो बलि ’ रिति तस्य सुकृतविषेषस्य भूयांसोऽपि रत्नराशयो न तुलामधिरो ? हन्ति किंपुननींवारषइभाग इत्यर्थः । " भागरूपनामभ्यो धेयः ’ । यदिति । नृपाणां सम्बन्धि यत्फलं कररूपं वर्णेभ्यः वृत्तिकरेभ्यः " वर्णंवर्णक्रियाविस्तारगुणवचने ’ ष्विति धातुपाठात् " सुवर्णं वर्णयती ’ त्युदाहरणाच्चवस्तुनि गुणाधानरूपवर्णक्रियालक्षितं क्रियामात्रमाश्रित्य प्रवृत्तो वर्णशब्दो वृत्तिकरानाचष्टे धर्मो हि द्विविधो वृत्तिनियतः केवलश्च , आद्यो वर्णः अथापर आश्रमः तदाशयेनोक्तं रघुवंशोपि " तपो रक्षन् स विघ्रेभ्यस्तस्करे अत्रोद्धाररूपस्य करस्य तत्त्रद्दव्यादुद्गम ऊर्ध्वक्रियारूप एवाभिमतः ततश्चो " दीनूर्ध्वंकर्मंणी ’ ति नात्मनेपदं । तत्र हृमनूर्ध्वंकमाक्रियारूप एवाभिमतः ततश्चो " दोनूर्ध्वंकर्मणी ’ ति नात्मनेपदं । तत्र ह्मनूर्ध्वकमाणीत्यस्य विवरण " मीहायामेवे ’ दोनूर्ध्वंकर्मणी ’ ति नात्मनेपदं । तत्र हृमनूर्ध्वकर्मणीत्यस्य विवरण " मीहायामेवे ’ ति कृतं वार्तिके । ईहा च कृतिरूप आत्मगुणः । अतश्चोदाहरणं " मुक्तावुत्तिष्टत ’ इति । " ग्रामाच्छतमुत्तिष्ठुती ’ ति च प्रत्युदाहरणं । तत् वणोंत्थितं फलं द्रविणादिरूपं क्षयि क्षयशीलं । आरण्यकस्तु जनः मुनिजनः अक्षय्यं क्षेतुमशकृयं तपसः षइभागं षष्ठमंशं । वृत्तिविषये संख्यायाः पूरणार्थत्वमनुमतं । ददाति । स्वेन परेण वा क्षेतुमशक्यं महाफलं विहाय क्षयिष्णु फल्गुफलं प्रेक्षावतः कथमेषणीयं स्यात् अतो नायमपदेशः प्रकाशयितुं युक्तमिति भावः । अनुष्टुपृ वृत्तम् ॥ सिद्धार्थाविति । राजसन्निकर्षान्निर्विघ्रेष्टिरूपप्रयोजनावित्यर्थः । राज्ञश्चिन्तासमकालं वचनं कांक्षितसिद्धिदर्शंनार्थं । धीरप्रशान्त इति स्वरस्य धीरत्वं नामाक्लिष्टाशयतृवादसंवृतात्वं दूरश्रवत्वरूपं । प्रशान्तत्वं च रागरोषाद्युपहितकाकुर्जितत्वं । प्रतिहारभूमिं द्वारदेशं । अहो ’ इतृयाश्चर्ये । दीप्तिमतोपि प्रशस्ततेजसोपि वपुषः शरीरस्य विश्वसनयता विस्त्रभर्हता अनुद्वेजनीयतेति यावत् । सूर्यादिवहीप्तिमान् दुर्दर्शो भवति , सौम्यदर्शनश्च पाषाणादिवन्निस्तेजी एवेति विरुद्धमर्धसमावेशीयमाश्चर्यं इत्यर्थः । उपपन्नमिति । अविवेकिनामैश्वर्यमदादविश्वसनीयतृव न तु विवेकिनामिति भावः । नातिभिन्न इति असकृतससन्नवे राज्यसुखं विहितमित्यमनुभवति अविहितमिति सुनयस्त्यजन्तीत्येतावदन्तरमिति भावः । साम्यमुपादयति — अध्याक्रान्तेति । अमुना राज्ञापि मुनिनेतृयपेरर्थः । सर्वेषां भोग्येअनुभाव्ये ऋषीणां सर्वत्र ममकारविरहादिति भावः । आश्रमे तपोवने राजपक्षे तु गृहस्थाश्रम इत्यर्थः । सापि ह्माश्रमान्तराणामुपजीव्यः । यतउक्तं " कालीह्मयं संक्रमितुं द्वितीयं सवार्पेपकाक्षममाश्रमं ते ’ इति । अयमपि ( मुनिरिव ) रक्षा वर्णाश्रमधर्मपरिपालनमेव योग उपायः ( मुनीनां समाधिरिव ) तस्माद्धेतोः प्रत्यहं तपः संचिनोति संपादयति । अस्यापि ( मनेरिव ) चारणानां देवयोनिविशेषाणां द्वन्द्वैः स्त्रीपुंसरूपैर्मिथुनैर्गीतः थुनैर्गीतः पुष्यः पावनो मुनिरिति शब्दः द्यां स्पृशति । केवलं रागपूर्वः राजशब्दपूर्वकः मुनिशब्दः रार्षिरिति शब्द शब्द इत्यर्थः । राजर्षिरयं वयमृषय इत्येतावता विशेषः सुखाद्यनभिङ्गणे धर्मपरातया च नान्यदुभयोरन्तरं , यतो दीपितमतोपि विश्वसनीयतृवं नाश्चर्यमिति भावः । व्यतिरेकालङ्कारः " व्यतिरेकोविशेषश्चेदुपमानोपमेययो ’ रिति लक्षणम् । स च अथवेति पूर्वोक्ताश्चर्यत्वति षेघादाक्षेपालङ्कारेण संसृज्ये " आक्षेपः स्वयमुकृतस्य प्रतिषेधी विचारणा ’ दिति च तल्लक्षणम् ॥ मन्दाक्रान्ता वृत्तम् ॥ नैतदिति । नगरपरिधव्युरगोरार्गलत्प्रांशुबाहुहुर्दीर्धंबाहुरयं राजाएकः अद्वितीयस्सन् निस्सपत्न इति यावत् उदधिना श्यामा सीमा सीमा अन्ती यस्यास्तां कृत्स्त्रां धरित्रीं महीं भुनक्ति पालयति । " भुजपालानाम्यवहारयो ’ रिति धातो " र्भुजोनवन ’ इत्यानेपदविधानादवनार्थात्परस्मैपदं । यदेतदेकस्य सतः कृत्स्त्रधरित्रीपालनं तन्न चित्रं नापूर्वं । कुतः हि यस्मातृ दैत्यैः सक्तवैराः संबद्धविरोधः वैरशब्दा वैरकार्ये वर्तते ततश्च बन्दीकृता इत्यर्थः । सुरयुवतयः अधिज्ये अस्यराज्ञो पारुहूते इन्द्रसंबन्धिनि वज्रे च विजयमाशंसन्ते निश्चयेनाभिकाङ्क्षन्ति । स्त्रीणामापद्यप्याशंसनाद्विजयस्याव्यभिचारी दशितः । धनुर्वज्रयोः समुच्चये न धनुषो वज्रसादृश्यं प्रतीयते , धनुषः प्रथमनिवेशादर्शसनस्य धनुष्येव प्राधान्यं , ततश्च वज्रातिशायित्वं व्यज्यते । धन्रर्ग्रहणात् " सेना परिच्छदस्तस्य द्वयमेवाथंसाधनं । शास्त्रेष्वव्याहता बुद्धिर्मोर्वी धनुषि चातता ’ इत्युक्तं सहायान्तरनिरपेक्षं विजयित्वं स्फुटीकृतं । " आशंसन्ते समितिषु सुरा ’ इति पाठे समितिषु युद्धेषु सुरा देवा इत्यर्थः । तुल्ययोगितालङ्कारः " गुणोत्कृष्टैः समीकृत्य वचोन्या तुल्ययोगिते ’ त्युक्तलक्षणः । अनेन नैतच्चित्रमित्यस्य समथंनाद्वाक्याथहेतुकाव्यलिङ्गमलङ्कारः " हेतोर्वाक्यपदार्थत्वे काव्यलिङ्ग ’ मिति लक्षणम् । मन्दाक्रान्तावृत्तम् ॥ स्वस्ति भवते " नमः स्वस्तिस्वाहास्वधालंवषड्योगाच्चे ’ ति चतुर्थी । उपहरतः उपदीकुरुतः" रिक्तहस्तेन नोपेयाद्राजानं देवतां गुरु " मिति शासनानुरोधादिति भावः । सप्रणामं मुनिगौरवादिति भावः । आज्ञापयितुं आज्ञापनमित्यर्थः । अव्ययकृतां भावार्थत्वातृ । इच्छामीति " तवार्हतो नाभिगमेन तृप्तं मनो नियोगक्रिययोत्सकुकं मे ’ । इतिवदाज्ञां निवेर्त्यैव महदृर्शनफलं निर्वृतृतमात्मनो भवेदिति भावः । ते न इहस्थ इति विदितत्वेन । नगरस्थस्य तु नोपरोधं विकीर्षेयुरित्यर्थः । प्रार्थयन्ते न त्वाज्ञापयन्तीतृयर्थः । किमाज्ञापयन्तीति । आज्ञा हि नाम श्रेयसां स्वविधेयेषु कनीयः प्रवर्तनं , प्राथंऩञ्च कनीयसां स्वार्थे ज्यायः प्रवर्तनं अतश्च तपस्विनां विधेयभूतस्य ममेयमाज्ञैव मदिच्छयेति भावः । असान्निध्यात् सोमतीर्थं गतस्यासांन्नकर्षात् । सनिनहिते तु तन्निन्न रक्षांसि प्रभविष्यन्तीति भावः । कतिपयरात्रं काश्चिद्रात्रीः । अत्यन्तसंयोगे द्वितीया । सारथिः द्वितीयः साहयो यस्य तेन । आयुधसघ्रीचेत्यधिकपाठे आयुधं सहाञ्चतीति सध्रयक् सहकारि यस्य तेन चेत्यर्थंः " सहस्य सध्रि " रिति सध्रयादेशः । सनाथीक्रियतमिति एकवीरस्यैतावतैव पर्याप्तमिति भावः । अनुगृहीतः ।आज्ञालाभातृ कृतार्थः । इयं तपस्विसंबन्धिनी अभ्यर्थना आश्रमावरथानप्रर्थना इदानीं आश्रमप्रवेशापदेशान्वेषणमये । स्मितं शृङ्गाराकृव्यञ्जनं । उभौ तापसौ । अनुकारिणीति । पूर्वेषां ययातिप्रभृतीनां पूर्वपुरुषणामनुकारिणि सदृशे त्वयि इदं रक्षाभ्युपगमनं युकृतरूपं प्राशस्तं युक्तं । आपन्नानां आपन्नानां शरणागतानामभयेष्येवव सत्रेषु यज्ञेषु पौरवा र जानो दीक्षिताः खलु शारणागतरक्षणं यज्ञदीक्षावदायासेनाप्यवर्जंनीयः कुलधमां युषमाकमिति भावः । काव्यलिङ्गमलंकारः । " समर्थंनीयस्यार्थंस्य काव्यलिङ्गं समर्थन ’ मि ? ति लक्षणम् । अनुष्टुप् वृत्तम् । पदस्य पश्चदनुदमिति पश्चादर्थेऽव्ययीभावः । अनन्तरमेवेत्यर्थः । आगत एवेति " आशंसायां भूतवच्चे ’ ति सिद्धं । कुतूहलमौत्सुक्यं । अप्यस्ति किमस्ति । प्रथमं राक्षसवृत्तान्तात्पूर्वं सपरिवाहममितमित्यर्थः । राक्षसवृत्तान्तेन इष्टिविध्रकरप्रसवेन हेतुना बिन्दुः कणोपि । नावशेषितः यथा पूर्णं सपरिवाहं सरः कुतश्चिद्विभिन्नतटं जलबिन्दुमात्रेणापि रहितं शुष्यति तथास्मि संवृत्त इति भावः । मम रक्षितुस्समीपे पार्श्वतः अतो मा भैषीरिति संबनधः । एष त्वत्समीपवर्तीं सन्नित्यर्थः । राक्षसादिति ’ भीत्रार्थानां भयहेतु " रित्यपादानत्वात्पञ्चमी । विजयप्रस्थानं राक्षसजयार्थां यात्रां । अपेक्षते प्रतिपालयति । देवीनां मातुः । करमभको नाम । देवीशब्दस्यावरोधसाधरण्यादाज्ञप्तिपदसूचितमादाय पृच्छति किमम्बाभिरिति । पूजायां बहुवचनं अत एव ममेल्येकवचनं देवीलेखे । ननु प्रवेश्यतां प्रवेश्यतामेवेत्यर्थः । किमिति विचार्यत इत्यादरातिशयं दर्शंयितुं ननुशब्दः । आगामिनि भविष्यति चतुर्थे लेखनदिनादारभ्य त्रीणि दिनान्यतीत्येत्येत्यर्थः । निर्वत्ता समासप्ता पारणा व्रतान्तभीजनं यस्य सः उपवासो व्रतं । भविष्यतीति " धातुसम्बन्धे प्रत्यया ’ इति भष्यिदर्थधातुयोगान्निर्वृत्तेति भूतार्थोपि क्तप्रत्ययो भविष्यदथः दीर्घायुषात्वया । सन्निहितेन समीपस्थितेन । इतः एकतः । तपस् विकार्यं इष्टिविघ्रनिवारणरूपं अप्रत्याख्येयमित्यर्थः । इतः अन्यतः गुरुजनस्याज्ञा , सापि गरीयसीत्यर्थः । किमितृयव्ययं केन प्रकारेणेत्यर्थः । " किं प्रश्राक्षेपकुत्सासु तत्नैव च किमव्यय ’ मिति नानार्थरतृनमाला । अत्र कृतृयद्वयसङ्कटे प्रतिविधातुं शक्यं । उभय मप्यविरोधेन समाधेयमित्यर्थः । अथ वा किमत्र प्रतिविधानमित्यर्थः । " बहुलग्रणाद्भावार्थे तव्यप्रत्ययः ? । तिसंकू विअ इति । स ? हि दिवः पतितो भुवमगतश्चतथेत्यर्थः । अन्तराले नगरतपोवनयोर्मध्ये उभयचिन्तया क्कचिदप्यनवस्थानादिति भावः । सत्यमिति , नेदं शकुन्तलां चिन्तयतः कार्यद्वयासक्तिविडम्बनं येन परिहासावसर इति भावः । आकुलीभूतः सन्दिग्धबुद्धिः । कृत्ययोरिति । कृत्योरवश्यकर्तंव्योस्तपस्विकार्यगुरुजनशासनयोः भिन्नदेशत्वाद्विप्रकृष्टस्थानगतत्वाद्धेतीमें मनः द्वैधीभवति सन्दिग्धं भवति । तद्यथा पुरः अग्रतः गन्मव्यस्थान इत्यर्थः । शैले प्रतिहतं प्रतिबद्वप्रसरं स्त्रोतावहो नद्याः सम्बन्धि स्त्रोतः प्रवाह इव । तदपि प्रतिबन्धान्नाग्रतः प्रवर्तंते उपरि च जलवेणीवेगेपनिपातानन पश्चात्प्रतिनिवर्तत इत्यर्थः । अत्र । कि ’’ न्निति योगविभागादन्य दपि क्किन्नन्तमनुमतं अतश्च स्त्रोतोवह इति रूपसिद्धिः । अन्यथा हि वाह ऊठिस्त्रोतौह इति स्यातृ । के चित्तु स्त्रोतोवहाशब्दादणमभिसन्धाय स्त्रौतोवहमिति पठन्ति । तत्र शब्दालङ्कारवैरस्यं । रामायणे " यदतीतं पुनर्नैति स्त्रोतः स्त्रोतोवहो पये " त्युक्तमिह प्रकृतानुगुणमुपातृतमिति यथोक्तएव युक्तः पाठः । अनुष्टुप् वृत्तम् । पुत्न इति परिगृहीतः मद्वयस्यत्वातृपुत्रभावेनाभिमतः । इतो वनात् प्रतिनिवृत्य राजधानीं प्रतिप्रस्थाय । तपस्विकार्ये क्रतुरक्षणरूपे व्यग्रतां व्यवृततां निवेद्य मदप्रतिनिवृत्तिहेतुं ज्ञापयित्वा तत्नमवतीनामम्बानां पुत्रकृत्यं पुत्रेण कर्तव्यं सहावस्थानेन व्रतनिर्वर्तनरूपं । मा खु इति । मां रक्षोभीरु न गणयसि खल्वित्यर्थः । भवतः प्रतिनिधिर्गमिष्यामि । न तु भयादिति गमनस्य केवलराजकार्यार्थंतृवमाविष्कर्तुं । महाब्रह्मणेति , ब्रह्मतेजसि दीप्पमाने कुतो रक्षोभयस्यावसर इति नर्मोक्तिः । तेन हि पुत्रकृत्यार्थमेव गन्तव्यत्वेन हि यथा राजानुजेन गन्तव्यं तथा गमिष्यामि सवाहनपरिच्छदो गमिषामीत्यर्थः । सर्वाननुयात्रिकान् सैनिकान् न तु वाहनपरिच्छदमात्रमितृयर्थः । तेन सेनासमेतत्वेन हि युवा चासो राजी च युवराजः न केवलं राजानुजमात्रं समग्रसेनापुरस्सरतृवादिधकारस्थो युवराज एव संवृत्तोस्मीत्यर्थः । वटुर्बालिशः चपलः अनवस्थितचितः स्वैरजल्पीति यावतृ अस्मत्प्रर्थनां शकुन्तलाभिलाषं । कथयेत् जातोत्साहो ब्रूयात् नत्वात्मानं नियच्छेदित्यर्थः । एवं वक्ष्यमाणप्रकारेण वक्ष्ये एवंविधानां प्रतारणमेवोपायः सतः स्त्रीष्विव स्त्रीकल्पेषु गोपनं न दोष इति हदयं । हस्ते गृहीत्वेति प्रत्यायनार्थ। महर्षिगौरवात् न तु शकुन्तलां द्रष्टुमित्यर्थः । न खलु सत्यमेवेति , त्वदभिप्रायज्ञानाय मूषोक्तमित्यर्थः । तर्हि परस्परविरुद्धयोः कतरत्प्रमाणं गृह्मतामितृयाह — क्केति । वयमत्यर्थनागारिकवृत्तयः क्क ? परोक्षमनमथः अविदितस्मरकथः कुतः ? मृगशबैस्सममेधितोभिबृद्धो जन आरण्यकः क्क ? मृगमानुषाणामिवारण्यक नागरिकाणां का कथानुरागस्येत्यर्थः । विरूपघटनारूपो विषमालङ्कारभेदः । तर्हि किमिति भवता वितथमुक्तं ? तदाह — परिहासेति , सखे इति परिहासस्यानौचित्यपरिहारार्थं । परिहासार्थं विजल्पितं निरर्थमेवोक्तं वचः मद्वाक्यं परमार्थेन यथार्थत्वेन " मृद्वादीनां धर्मपरत्वमनुमत ’ मिति भट्टभिनवगुप्तपादाः । न गृह्मतां नोपादीयतां । अनुपपन्नार्थं पूर्ववाक्यमुपपन्नार्थेनानेन वाक्येन बाधितमिति भावः । पञ्चमाङृके शकुन्तलाप्रत्याख्याने राज्ञो विदूषकेणाप्रतिबोधनं समर्थंयितुमिदमुपन्यस्तम् । वियोगिनी वृत्तम् ॥ ॥ इति शाकुन्तलव्याखृयाने सहृदयसमाख्याने द्वितीयोऽङ्क ॥ ———————– ॐ ॥ अथ तृतीयाङ्कव्याख्यारम्भः: ॥ राज्ञः शकुन्तलासमागमहेतुमाश्रमे वासं वासं प्रसञ्जयिष्यन् वृत्तवर्तिष्यमाणार्थसंग्रहरूपं विष्कम्भमारचयति , तत इति । महान् अनुभावो महिमा यस्य सः प्र प्रविष्टमात्ने सत्येव मात्रपदेन युद्धव्यावृत्तिः । निरुपप्लवानि निर्विघ्रानि । केति । बाणसन्धाने धनुषि गुणसंयोजने का कथा का प्रसक्तिः । हि यतः स राजा धनुषो हुंकारेणेव स्थितेन ज्याशब्देनैव गुणध्वनिमात्नेण विघ्रान्नक्षः प्रभृतीन् दूरतः अपोहति अर्थापत्तिरलङ्कारः । दुंकारौपम्यं तपोमहिमप्रदर्शनार्थं । अयं हि तपसो महिमा यत्पुनर्हुङ्कारमात्नेण प्रतिपक्षनिरसनं । यथा रघुवंशे " तव मन्त्रकृतो मन्त्रैर्दूरात्प्रशभितारिभिः । प्रत्यादिश्यन्त इव मे दृष्टलक्ष्यभिदः शराः ’ इति । न केवलं प्रभावादनुभाबादपि महानिति भावः । अनुष्टुप् वत्तम् ॥ वेद्यास्संस्तरणायाच्छानायेमे वेदिसंस्तरणार्थास्तान् । ऋतुमृतौ वा यजन्तीति ऋत्विजस्तेभ्यः । " ऋत्विग्दृक्त्नेभ्यः । " ऋत्विग्दधृक्त्नग्दिगुण्णिगञ्जुयुजिक्रुञ्चां ’ च इति रूपं । उपहरामि यच्छामि । आकाश इति । आकाशलक्षणमुक्तं " किं ब्रवीष्येवमि दि विनापात्रं ब्रवीति यत् । श्रुत्वेवानुक्तमप्येकस्ततस्यादाकाशभाषित ’ मिति । उशीरसहितमनुलेपनं अङ्गरागः इति मध्यमपदलो समासः समाहरो वा । मृणालवन्ति समूलोत्खातानीत्यर्थंः । मृणालानां वलयादिरूपेणोपयोगाद्विषेषणं । आतपत्त्य लंघनात् आक्रमणात् । बलवत् दृढं । अस्वस्था व्याकुला । शरीरसंतापस्य निवपिणाय प्रशमनाय इति किं ब्रवीषीति समृबन्धः । यत्नात् अनुपेक्षणात् उपक्रम्यतां , प्रतिक्रियतां , उपक्रमशब्दः चिकित्सायां प्रयुज्ये । च्छ्वसितं जीवितं । विताने भवं वैतानिकं " क्रतुयज्ञेभ्यश्चे ’ ति ठञ् । शान्त्युदकं शन्त्याख्यस्य शुद्धिकर्मणस्तीर्थोदकं । अस्यै इति " कर्मणा यमभिप्रैती ’ ति संप्रदानतया चतुर्थी । विसर्जयिष्यामि प्रेषयिष्यामि । शुद्धविष्कम्भ इति ’ कर्मणा यमभिप्रैती ’ ति संप्रदानतया चतुर्थी । विसर्जयिष्यामि प्रेयष्यिामि । शुद्धविप्कम्म इति " वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । संक्षेपार्थस्तु विष्म्भो मध्यपात्रप्रयोजितः ’ इति विष्कम्भलक्षणं । म्रपाकृतासङ्करात् शुद्धविष्क्रम्भः । कामयमानस्येव अवस्था अरतिख्चिन्तानिश्वासादिः यस्य सः । प्रविष्टमात्न एवेत्यादिना सूमचितो राज्ञः प्रवेशाः । कामयामानत्वं च शकुन्तलादर्शनात् प्रनृत्येव विदितं ॥ तामेवावस्थां व्यनक्ति । ?B जान इति तपसः वीर्यं तेजोन्तराभिभवासहत्वं जाने सा बला परवतीपितृपरतन्त्रेति च मे विदितं ज्ञातं । न मया प्रवर्तितव्यं तपसी महाप्रभावतृवातृ । नत तयापि न्रवर्तितव्यं पितृपरतन्त्रत्वातृ इतृयसम्भावनीयोयं मनोरथ इति ज्ञातमित्यर्थः । ननु तर्हि निराशा पामं सुखं तत्राह — अलमिति । तथापि एवं विदितेऽपि ततश्शकुनतलातः इदं एवमासक्तं हृदयं निवर्तयितुं नालमस्मि न समर्थोस्मि । विदितेप्युपायानवसरे परस्परानुरागो वस्तुनश्च स्पृहणीयता चित्तस्याशाबन्धनमिति मावः । चिन्ता माम व्यभिचारी भावः । त्ललक्षणमुंक्तं " ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृत् ’ इति । सत्यपि निवर्तनहेतौ निवर्तनरूपकार्यानुत्पत्त्या विशेषोक्तिरलङ्कारः ॥ आर्या वृत्तम् ॥ निरूपयन् अभिनयन् । भगवन्निति सर्वातिशायिमहिमव्यञ्जनं । कुसुमायुधेति विश्वसनीयताहेतुव्यञ्जनं " क्रियासिद्धः सत्त्वे भवति महतां नोपकरण ’ इति च व्य ? ञ्जितमनेन । " क्क रुजा हृदयप्रमाथिनी क्क च ते विश्वसनीयमायुधं । मृदुजीक्ष्णतरं युच्यते तदिदं मन्मथ दृश्यते त्वयि ’ इति खलूक्तं मालविकग्रिमित्ने । हि चन्द्रमश्शब्दः । विश्वसनीयाभ्यां उक्तहेतुतो विस्त्रम्भार्हाभ्यामेव सद्भ्यां । कामिजनानां सार्थः समूहः आतस्न्धीयते प्रतार्यते गूढशत्रुर्हि सुतरां दुस्साधा इति भावः । तदेव विशदयति । तवेति । तवसम्बन्धि कुसुमशरत्वं इन्दोश्शीतरश्मित्वं चेति द्वयमिदं धर्मद्वयं ममेव विधा प्रकारो येषां तेषु मादृशेषु विरहिषु विषये यथाभूतः अर्थो यस्य तत् यथार्थं तन्नभवतीत्ययथार्थं रूहिमात्रं दृश्यते । तथा हि । इन्दुः हिमं गर्मे येषां तैः मयूखैः अग्रिं विसूजति आपातप्रतीतेन शैत्येन विश्वासनीर्यैरव किरणैः फलानुमेयं तापं जनयति , इति विरूपकार्योत्पत्तिरूपो विषमालङ्कारः । त्वमपि कुसुमबाणान् अवज्रसारानपि वज्रस्येव सारो येषां तथा संपद्यमानान् करोषि । अत्र विरोधालङ्कारः । अग्रिविसर्जनवज्रसारीकरणयोरसम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिश्च । सम्बोधनीयेऽर्थे वाक्यार्थपर्यवसानस्य चारुत्वातिशयात् प्रथमप्रक्रान्तस्यापि मन्मथस्य त्वमपीत्यादिना चरमं निगमनं यथा च मेधसन्देशे हस्ते लीलाकमलमलके बालकुन्दानुविद्धं नीता लोध्रप्रसवरजसा पाण्हुतामानेन श्रीः । चूडापाशे नवकुरवकं वारु कर्णे शिरीषं सीमन्ते च त्वदुगमजं यत्न नीपं वधूनां ’ इति सम्बोध्य मेधे वाक्यार्थपर्यवसानं शरहतुप्रक्रमेण कृतम् ॥ मालिनी वृत्तम् । भगवन् कामदेवेत्यारभ्य भस्मावशेषः कथमित्थमुष्ण इत्यन्तं प्रक्षिप्तमपि व्याख्यायते । कुसुमायुधस्य सतः न तु पुनरद्याप्यायुधान्तरं गृहीतवत इत्यर्थः । तैक्ष्ण्यं उग्रत्वं । आ इति ज्ञाततया हर्षः । ज्ञातमिति तैक्ष्यनिमित्तमिति शेषः तदाह — अद्येति । इरस्य कोपवह्निः अम्बुराशौ और्वः बहबाग्रिरिव त्वय्यद्यापि ज्वलति । नूनमिति सम्भावनायां । नह्मनिश्शेषितदाह्मो दहनश्शम्यति । दाह्मश्च त्वं समुद्र इव चीयसे । अतोद्यापि ज्वलतीवेत्युत्प्रेक्षा । इयं च रकोपाग्रित्वेन आत्मसन्तापरूपस्य वस्तुनोध्यवसानात् स्वरूपोत्प्रेक्षा । नूनं पदप्रयीगाच्च वाच्चया । हे मन्मथ अन्यथा ज्वलनाभावे भस्मावशेषः भस्ममात्रशेषः । शान्तप्रज्वलन इति यावत् । त्वं मद्विधानां विरहिणां एव अनेन प्रकारेण कथमुष्णः । न हि भस्मनो दाहशक्तिरस्ति ताहन्यथानुपपत्त्या च ज्वलनमवसीपत इत्यर्थापित्तः प्रमाणालदाहशक्तिरस्ति दाहान्यथानुपपत्त्या च ज्वलनमवसीयत इत्यर्थावत्तिः प्रमाणालङ्कारः । स चोत्प्रेक्षाङ्गं , अतस्तयोरङ्गपङ्गिभावेन सङ्करः । उपजातिः वृत्तम् । दुः खस्यापि सुखरूपत्वं विषयवशादुपपादयति । अनिशमिति । अनिशमजस्त्रं मनसो रुजं पीडां आवहन्नपि अपिर्विरोधे । सकरकेतुः मन्मथः मे मम अभिमतः प्रिय एव । कुतस्तदाह — मदिरेति । मदिरेव आचरत इति मदिरायिते मदकरे नयने यस्यास्तथाभूतां तां शकुन्तलामधिकृत्य विषयीकृतृय प्रहरति इति यदि इत्येतत् स्याच्चेत् शकुन्तलाधिकारः प्रहारोपि यदि भवेत् प्रिय एव स्यादिति भावः । मदिरायतनयनामिति पाठस्तु प्रामादिकः । " उपमानानि सामान्यवचनै ’ रिति समासस्यात्रासम्भवात् , मदिरान्यनयोः मदकरत्वमेव हि सामान्यं , न त्वायतत्त्वं , तस्य मदिराधर्मत्वाभावात् । केचित्तु मदिरे मदकरे आयते च नयने यस्यास्तामिति मन्यन्ते । अत्र मदिरशब्दस्य विशेष्यनिघ्रस्य सद्भावश्रिन्तृयः । परे तु मदिरौ मत्तखञ्जनाविव आयते नयने यस्याः सा " मदिरो मत्तखञ्जन ’ इति शब्दरत्नावलीति वदन्ति । अन्ये तु यदि शब्दमवधारणार्थां मन्यमानाः तामधिकृत्य प्रहरतीत्येव अनेन हेतुनेव अभिमत इत्यर्थः इति च मन्यन्ते । आर्या वृत्तम् । भगवन्नितृयादि बाणमोक्षइत्यन्तं प्रक्षिप्तं । उपालब्धस्य निन्दितस्य ते मां प्रत्युनुक्रोशो दया न भवति यस्त्वनुपालब्धोपि निरनुंक्रोशः स किं पुनरुपालब्ध इति भावः । वृथैवेत्यादि । अनङ्ग मया सङ्कल्पशतैः बहुभिर्मनोरथैः अजस्त्रमविरतं वृथैव निष्ुलमेव विृद्धिमुपचयं नीत 3 प्रापितोसि । अङ्गवतो हि पोषणे महानायासः किमुतानङ्गस्य केवलैर्मनारेथैरुपचायन इति भावः । न केवलं वेफल्यमात्रं प्रत्युत विपरीतफलमपपीत्याह । आकृष्येति । श्रवणोपकण्ठे चापमाकृष्य मय्येव प्रत्युत विपरीतफलमपीत्याह । आकृष्येति । श्रवणोपकण्ठे चापमाकृष्य मय्येव वृद्धिहेतावेव तव बाणमोक्षः युक्तं न्याय्यः युक्तमित्यव्ययम् । सामान्ये नपुंसकं वा । विरीतलक्षणाया नु युक्तमित्यर्थः । उपजातिः वृत्तम् । संस्थिते समाप्ते सति । सदसि साधवः सदस्याः ऋत्विजः तैरनुज्ञातः गन्तुमनुमतोऽहं क्लान्तं विरहखिन्नं आत्मानं मनः । विनोदयिष्यामि विश्रामथिष्यामि । प्रियादर्शनादृते शकुनतलादर्शनं विहाय " अन्यारादितरर्त ’ इति पञ्चमी । अन्यत् शरणं रक्षकं " शरणं गृहरक्षित्रो ’ रितृयमरः । शरण्यमिति पाठान्तरं शरणे साध्वित्यर्थः । यावदन्विच्छामिं अन्वेषिष्यामि । अग्र आतपो यस्यां तां वेलां गमयतीत्यन्वयः । लतावनयवत्सु लतामण्डपसनाथेषु मालिनीतीरेषु तापापहेष्वित्यर्थः । तत्रैव तावद्गच्छामीतृयनन्तरं प्रक्षिप्तं । बालपादपानां वीथ्या श्रेणीमार्गेण सुतनुः शकुन्तला अचिरं इदानीमेव । तर्कयामि अभ्युहामि । संमीलन्तीति । तया शकुन्तलयावचितानि पुष्पाणि येभ्यस्ते बन्धन कोशाः वृन्तद्रोण्यः तावत् समग्रं न संमीलन्ति संकुचन्ति । अमी किसलयानां छेदाः भङ्गाश्च भूमिपतिता इति भावः । क्षीरेण स्त्रिग्धः आर्द्राः दृश्यन्ते । अतश्चाचिरगतेत भावः । क्षीरेण स्त्रिग्धाः आर्द्गाः दृश्यन्ते । अतश्चाचिरगतेति भावः । एतावाप्रसिक्षप्तम् । स्पर्शसुखं पवनजि ? नितं त्वगिन्द्रियनिर्वाणं अहो इति हर्षे । प्रवातेन प्रभूतेन वायुना सुभ्गः सुखः । उद्देशः प्रदेशः । शक्यमिति । अरविन्दैः मालिनीहदप्ररूढैः सुरभिर्घ्राणतर्पणः , मालिनी तरङ्गाणां कणान् पृषतान् वहतीति तथोक्तः । पवनः अनङ्गतप्तैः अङ्गैः अवयवैः करणैः अविरलं गाढं आलिङ्गितुं शक्यं शक्यत इत्यर्थः " विषवृक्षोपि संवर्ध्य स्वयं चेत्तुमसांप्रतं ’ इत्यादिष्विवत्न शक्यमित्यव्यं सामन्ये नपुंसकं वा । " शक्यमञ्जलिभिः पातुं वाताः कैतकगन्धिनः ’ इति च रामायणे। आर्या वृत्तम् ॥ वेतसैः परिक्षिप्ते परिवृत्ते परिवृत्ते । सन्निडितया अवस्थितया भवतिव्यम् । अभ्युन्नतेति । पुरस्तादग्रभागे अभ्युन्नता भारविरहादुत्ताना पश्चात् गुल्फप्रदेशे जघनयोः उपरितनयोः गोरवात् दुर्वहत्वाद्वेतोः अवगाढा निन्ना अभिनवा सद्यः कृता पदानां पादन्यासनां पङ्क्तिः परंपरा पाण्डुसिकते स्त्रोतस्संक्षालनेन विमलपुलिने अस्य लतामण्डपस्य द्वारे दृश्यते । अतीत्न सन्निहितया भवितव्यमिति सम्बन्धः । अनुमानालङ्कारः ॥ आर्या वृत्तम् । विटपैरन्तरितः तिरोहितः । अये इति हर्षे । नेत्रयोर्निर्वाणं सुखं मनीरथेन प्रियतमा न पुनव्रस्तुतः अपरिप्रहणात् । सकुसुमास्तरणं कुसुममयाच्छादनसहितंशिलापट्टं शिलाफलकं अधिशयानां " अधिशीङ्स्थासां ’ इति कर्मत्वाद् द्वितीया । सखीभ्यामन्वास्यते अन्वासनेन सेव्यते । आसेरनुपूर्वस्य सकर्मकत्वाभिसन्धानात् कर्मणि लकारः । अत एवोक्तं रघुवंशेऽपि " अन्वासितमरुन्धत्या स्वाहयेव हविर्भुजं ’ इति । विस्त्रम्भेण कथितानि रहस्यजल्पितानि। यथानिर्दिष्टो व्यापारः शिलापट्टाधिशयनसखीसेवनादिर्यस्याः सा । उपवीज्य नलिनीपत्रैर्वीजयित्वा । अपि सुखा यन्ते अपि सुखा भवन्तीत्यर्थः । अपि सुखाय ते नलिनीपत्रवाता इति पाठे भवन्तीति शेषः । सुखायेति संपह्ममानत्वाच्चतुर्थी । वात इति पाठे सुखायत इत्येकं पदं । किं मामिति ? । तापातिरेकादनुपलम्भः । विषदं सखीसन्तापात् खेदं । नाट यित्वा मुखवैवण्यांदिनाभिनीय । परस्परमवलोकयत इति अन्तस्सन्तापेन भवितव्यं यन बहिरुपचाराणां वितथीभावः इत्यवलोकनाभिप्रायः । तदस्वास्थ्यं किमातपस्य सम्बन्धी दोष 3 बाधा । आतपजन्यो दोष इत्यर्थः । उत अथ वा यथा मे मनसि सर्तते स्वाभिप्रायेण चिन्त्यते तथा स्यात् । मदनदोषो वेत्ययर्थः । " मदनदोषो वा स्यात् । उभयथापि मे मनसि वर्तत ’ इति क्कचित्पाठः । स्तनेति । स्तनयोर्थंत्समर्पिर्ते उशीरं नलदं यस्य तत् प्रशिथिलं प्रतिक्षणं प्रकोष्टकार्श्याच्छरीरसन्तापग्लातया च बिस्त्रस्तबन्धं मृणालरूपमेकमेव वलयं यस्य तत् प्रियाया इदं वपुः आबाधया सह वर्तत इति साबाधं सव्यथं । तदपि । कमनायं मनोरमं । मनज्ञिजश्च निदाधश्च तयोः प्रसरयोः व्यापनयोस्सतोः तपः कामं यद्यपि समः तुल्यरूपः । अतिभूर्मि गतः कामो निदाघो वां निर्विशेषं दुनुत इत्यर्थः । युवतिषु विषये ग्रीष्मस्यापराद्धं राध्यतेहिंसार्थात् सिद्धभावे वां निर्विशेषं दुनुत इत्यर्थः । युवतिषु विषये ग्रीष्मस्यापराद्धं राध्यतेहिंसार्थात् सिद्धभावे क्तः । अपराधस्तु , तु शब्दो मनसिजापराधं व्यावर्तयति , नैवं सुभगस्सुन्दरः । यथात्यर्थपीडितमपि शरीरं ब मनागपि सौभाग्थं मुञ्चति , तथा मदनबाधैवेयं न ग्रष्मताप इति निश्ररयत इति भावः । अनुमानं नाम सन्ध्यङ्गमिदं " अङ्गैरूहोनुमानं ’ स्यादिति लक्षणात् । अनुमानालङ्कारश्च । शिखरिणीवृत्तम् । प्रथमदर्शनादारभ्य आश्रमप्रविष्टस्य प्राथमिकदर्शनातृ प्रभृति । पर्युत्सुका अत्यर्थमुत्कण्टितेव । शृङ्गारलज्जासाध्वसासूयादिभिर्लंक्षितेति भावः । तन्निमित्तः अ ।त्सुवयहेतुकः अथमातङ्को रोगः । किं नु खलु इति सम्भावनायां । किमपि ? प्रष्टव्यासीति । दुहादित्वादप्रधाने कर्मणि तव्यप्रतृययः । ते सन्तापः संज्वरः बलवान् प्रतीकारातीत इत्यर्थः । अतो रहस्यमपि प्रष्ठव्यासीति भावः । पूर्वार्धेन शरीरपूर्वंभागेन । शयनादुत्थायेति शयनमवष्टभ्यार्धेनोत्थायेत्यर्थ्ज्ञः । शरीरसादादसमग्र मुत्थानं । सखीवचनश्रवणादरेण चार्धोत्थानं । मदनं गतः प्राप्तः मन्मथविषयः , तस्य वृत्तान्तस्य कामयमानचेष्टितस्य मनोवृत्तिविशेषस्य । वयं तापसकन्यकाः । अनभ्यन्तराः बाह्माः अविषयीभूता इत्यर्थः । इतिहासनिबन्धनेषु पुरावृत्तप्रबन्धेषु । कामयमानानां उत्कण्ठितानां समवस्था दशा । तादृशीं श्रुतसदृशीं पश्यामि साक्षादनुभवामि । विकारं रोगं परमार्थतः याथातथ्येन । प्रतीकारस्य चिकित्सायाः अनारम्भः अपग्रयत्नः आरम्भो न युज्यत इत्य ? र्थ । तर्कः मदनबाधेत्येवंरूप ऊहः । अनसूयामप्यनुगतः प्राप्तः । उभयोरप्यत्र संवादात् तथ्यमिदं भवितुमर्हतीति भावः । ( स्वाभिप्रायेण स्वमनोरथानुरोधेन दर्शनं कल्पनं । ) इदञ्च वाक्यं प्रक्षिप्तं । अभिनिवेशः अनुरागः बलवान् दृढ 3 । एतयोरपि विस्त्रम्भस्थानभूतयोस्सख्योरपि सहसा क्षिप्र निवेदयितुं न शक्रोमि लज्जातिरेकान्न समर्थास्मि । सहेतृयनेन निवेदनमगत्या प्राप्तमिति व्यज्यते । आङ्कं मानसं आधिं । किमुपेक्षसे प्रतिकर्तु न यतसे । अनुदिवसं दिने दिने अङ्गैः परिहीयसे मुच्यसे क्षीयमाणङ्गी भवसीत्यर्थः । केवलं लावण्यमयी लावण्यपा छाया कान्तिरेव त्वां न मुञ्चति " मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा। प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्यते ’ इत्युक्तलक्षणायाश्छायाया अनयोहान्मदनबाधेति व्यज्यते । अवितर्थ परमार्थम् । क्षामेति । आननं मुखं क्षामक्षामौ म्लानप्रकारो प्रकारे द्विर्वचनं । अत्यन्तदुर्बंलावित्यर्थः । कपोलौ यस्य तत् । उरो वक्षः काठिन्येन मुक्तौ शरीरकार्श्येनामांसलत्वान्मदुलौ म्तनौ यस्य तत् । म्यः क्लन्ततरः निसर्गकृशोपि कृशतरः । अंसौ प्रकामविनतौ स्वभावस्त्रस्तावेव शरीरसादात् सातिशयावनतौ । च्छविर्देहकान्तिः पाण्डुरा धवला । अ ? परिपोषान्निशावसानचन्द्रिकेव पाण्डिम्रासादितेत्यर्थाः । तदेवं शोच्या च अस्वस्थतया शोचनीया च । प्रियदर्शना च । तनिम्रापि शीभाहेतुना दर्शनीया च , इयं शकुन्तला पत्राणां पुराणपार्णानां शोषणेन परिणामहेतुना मरुता वासन्तिकसमीरेण स्पृष्टा समृबदा माधवी लतेवस्थिता अत एव मदनक्लिष्टा आलक्ष्यते । माधवीलतापि हि पत्रशोषेण शोच्या च नवकिसलयोद्गमहेतुना शोभाविन्नेषेण प्रियदर्शाना च भवतीति भावः ॥ शार्दूलविक्रीडितं वृत्तम् ॥ कस्स वेति । न हि ससीव्यतिरेकेण चिस्त्स्थानमस्तीत्यर्थः । आयासयित्री खेदकादिरणी । समसुखदुः खयोः सख्योः खेदायैव ममातङ्कहेतुनिवेदनमित्यर्थः । मनोरथस्तु दुर्लभ एवेति भावः । अत एव आयासहेतुत्वादेव । निर्बन्धः अवश्यवक्तव्यत्वानुयोगः दुः खसंविभाग एव हि सुहृदां कियानाश्वास इति भावः । तवापि फलमस्तीत्याह । सिणिद्वअणेति । स्त्रिग्धजनैः । संविभक्तं उपात्तैकदेशं । सह्मवेदनं " न दुः खं पञ्चमिस्सहे ’ ति न्यायादिति भावः । पृष्टेति । समे सदृशो दुः खसुखे यस्य तेन जनेन प्रियसखीभ्यामित्यर्थः । पृष्टा आधिहेतुमनुयुक्ता दुहादित्वादप्रधाने कर्मणि क्तः । इयं बाला । वक्तुमसमर्थापीति व्यञ्जयितुं बालेत्युक्तं । मनोगतं हृदयस्थितं आधिहेतुं सन्तापनिमित्तं न वक्ष्यतीति न किं तु वक्ष्यत्येव लज्जया स्वतो वक्तुमसमर्थापि सुहृदनुयुक्ता इदयस्थितं न गोपयिष्यष्यतीत्यर्थः । अनया विवृत्य परावृत्य प्रयत्नेनेत्यर्थः बहुशः अनेकवारमित्यनन्ययासिद्धिद्योतनाय । सतृष्णं सानुरागं । न त्वपूर्ववस्तुदिदृक्षासामान्यादिति भावः । दृष्टोपि " दर्भांकुरेण चरणः क्षतः ’ इत्याद्युक्तरीत्या प्रेक्षितोपि अत्रान्तरे प्रश्रप्रतिवचनसमये श्रवणे तद्वचनाकर्णनविषये कातरतां भीरुतां गोस्मिहेत्वन्तरकथनभयादि ? ति भावः । वसन्ततिलकं वृत्तम् । यतः प्रभृति यत आरभ्य । प्रभृतीत्यव्यं । दर्शनपथं चक्षुर्विषयं । तद्गतेन राजर्षिविषयेण । एषा अवस्था सन्तापदशा यस्यास्यथाभूता संवृत्तास्मि । श्रोतव्यं अनुरागस्याधिहेतुत्वं श्रुतमाकर्णितम् । स्मर इति । स्मर एव मे तापस्य शुकुन्तलाविरहसन्तापस्य हेतुः । स एव निर्वापयिता प्रियायामपि तापोधानत्सन्तपशमनश्च जातः । तद्यथा तपात्यये ग्रीष्मापाये वर्षागम इत्यर्थंः । अभ्रैर्मेधैः श्यामः दिवसो जीवकलोकस्येव यस्तपागमे जीवलोकस्य सन्तापहेतुस्सएव दिवसस्तपात्यये सति मेधुरुद्धातपस्तापापहो भवतीत्यर्थः । आर्या वृत्तम् । तत् तस्माद्वां युवयोरनुमतमभ्युपगमो यादि भावे क्तः । यथा येन प्रकारेण तस्य राजर्षे अनुकम्पनीया इयनीया । दैन्यमत्र व्यभिचारिभावः । तथावर्तेथां प्रयतेथां वर्तयतमित्यपिच्छायोपपद्यते आवचरतमित्यर्थः । अन्यथा तथा प्रवृत्तेरननुमतत्वे उदकं निवापोदकं विसृजं । अत्र सिञ्चतेः क्षरणार्थत्वात् द्रवद्रव्यस्य कर्मत्वं । अयं विकल्पालङ्कारः । " विरोधे तुल्यबलयोर्विकल्यालंकृतिर्मता ’ इति लक्षणम् । विमर्शंच्छेदि संशयापहं न तु स्वाभिप्रायसंभावनीयार्थमिति भावः । दूरगतः अत्यन्तारूढः प्रणात्यागपर्यन्त इति यावत् । मन्मथः यस्यास्सा । कालहरणस्य कालक्षेपस्य अक्षमाअसहा । जस्सिं इति । यस्मिन् पुरुषे बद्धभावा सानुरागा सः पौरवाणां ललामेव ललामभूतः । तत् मदनातिलंघनाद्विषयगुणातिशयाच्च अभिलाषः अनुरागः अभिनन्दितुं अनुमन्तुं । युक्तमित्यव्ययं सामान्ये नपुंसकं वा रागस्यात्यारूढत्वादनुयप्विषयत्वाच्चानुमन्तुमुचित इत्यर्थंः । अनुरूपः सदृशविषयतृवादिति भावः । अभिनिवेशोऽनुरागः । महानदो गङ्गादिका । क्षुद्रनद्यस्तु नद्यशषियतृवादिति भावः । अभिनिवेशोऽनुरागः । महानदी गङ्गदिका । क्षुद्ररूपः सदृशविषयत्वादिति भावः । अभिनिवेशोऽनुरागः । महानदी गङ्गदिका । क्षुद्रनद्यस्तु नद्यन्तरादिष्वपि निपतन्मीत्युक्तं महानदीति । " जलनिधिमनुरूपं जह्नुलद्यस्तु नद्यन्तरादिष्वपि निपतन्तीत्युक्तं महानदीति । " जलनिधिमनुरूपं जहुकन्यावतीर्ण ’ इति रघुवंशेपि । सहकारन्तरेण अतिसौरभं चू ? तविशेषं विना । सह करेति फलादिकमिति सहकारः " सहकरोतिसौरभ ’ इत्यमरः । पल्लवितां संजातपल्लवां । अतिमुक्तलता मधवीलतां प्रथमोपमनेनाभिजातत्वं द्वितीयेन चाभिरूपत्वं व्यज्यते । विशखे नक्षत्रविशेषौ । ’ विशाखयोश्चे ’ ति द्वित्वं । शाशाङ्कलेक्षां यद्यनुवर्तते यद्यनुवर्तते यद्यनुसरतः । लेखाशब्दो विरहकार्श्यं व्यञ्जयति । किमत्रानुवर्तने चित्रमपूर्वं । सहजो हि हृदयसंवादः सख्यस्येतिभावः । येनउपायेन । अविलम्बितं शीघ्रं । निभृतं गूढ़ञ्च प्रथममनुद्भिन्नसखीहृदयमित्यर्थः । सख्याः शकुन्तलायामनोरथमभिलाषं संपादयेम साधयेम चिन्तणिज्यं इति , इतरेतरहृदयं हि कामिनोरिथमभिलाषं संपादयेम साधयेम चिन्तणिज्यं इति , इतरेतरहृदयं हि कामिनोरितरेतरहृदयेनैवं निर्ग्राह्ममिति निभृतत्वमसंभवीति भावः । कुकरमिति शीघ्रत्वमीषत् करमित्यर्थः । कथमिव शीघ्रमिति वा कथं सुकरमित्यर्थः अस्यां शकुन्तलायां स्निग्धदृष्ट्या वृक्षसेचनादेव " परिश्रान्तामन्भवतीं लक्षये ’ इत्यादिसूचितेन सस्नेहदशंनेन सूचिताभिलाषः दर्शितस्वानुरगः । इमानि दिवसानि दर्शनादर्वांचीनानि दिनानि । " आलाध्वनोरत्यन्तसंयोग ’ इति द्वितीया । प्रजागरेण चास्यान्वयः । प्रजागरेण चतुर्थेन मदनावस्थाविशेषेण कृषः पञ्चमीं दशामारूढः । स्त्रिग्धदर्शनादेव चक्षुः प्रीतिर्मनः संगश्च विदितः प्रजागरलक्षणैश्च प्रजागरस्तद्धेतुः सङ्कष्पश्चनुमीयते । कार्शञ्च प्रत्यक्षमेवेति पञ्च मदनदशाः समतीताः अतस्तुल्यानुरागत्वादविलंबेन सकरः परिग्रह इति भावः । " दृङ्मनः सङ्गमसङ्कल्पौ जागरः कृशतारतिः । हीत्यागीन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ’ इत्युक्तं । इत्र्थभूतः प्रजागरकृशः । इदमिति । अन्तस्तापात् मन्स्संज्वरवशात् अशिशिरैः ऊष्मलैः निशि निशि निशि प्रतिनिशं भुजन्यस्तात् शयनीयादिवेरस्याद्भजोपधाननिक्षिप्तात् अपाङ्गात् प्रसर्पिभिः प्रवहद्धिः अश्रुनिर्गमार्थमेकपार्श्वेन शयनाद्विशृङ्खल्प्रवृत्तैरित्यर्थः । अश्रुभिर्बाष्पैतुभिः विवर्णाः निष्प्रभाः मणयो यस्य तद्विवर्णमणि अतादृशं तादृशं संपद्यमानं कृतं इदं कनकवलयं मणिबन्धानात् प्रकाष्टात् स्त्रस्तं तनिम्रा पुनः पुनर्गलितं सत् , अनतिलुलितः शैथिल्यान्नात्यर्थंनिवृष्टः ज्याघातस्याङ्क किणो यस्मिन् कर्मणि तद्यथातथा मुहुः प्रतिक्षणं प्रतिसार्यते स्वथानं प्रत्यानीयते । हरि ? णीवृत्तम् । मदनलेखः रागलेखनं अस्य राज्ञो विषये क्रियतां त्वया कर्तव्यः तं लेखं सुमनोभिः पुष्पैः गोपितं संवृतं गंपुरूदित्वान्निष्ठयामिहूविभाषितः । देवताप्रसादस्य देवतोपयुक्तशेषस्य व्यपदेशेन व्याजेन । सुकुमारः गूढतृवादेव लनतः प्रयुउयते अनेन ति प्रयोगः उपायः मे मह्मं रोचते "" रुच्यर्थांनां प्रोयमाण ’’ इति संप्रदानतृवाच्चतुर्थी । वां युवयोः नियोगः आदेशः किं विकल्प्यते न कदाचिदाक्षिप्यत इत्यर्थः । आत्मन उपन्यासपूर्वं संदेष्टृरानिवेदनोपक्रमं लज्जया स्वानिवेदने हि लिखितमपि वृथा स्यात्संदेष्टुरज्ञानादिति भावः । स्वानुरागावेदनपूर्वं वा ललितपदबन्धनं सुकुमारशब्दरधनं " निर्दयोसि प्राणा मे यास्यन् ? तीं ’ त्यादि पुरषाक्षरं हि विरसमिति भावः । अवधीरणाभोरु प्रत्याख्यानकातरं वेपते चलति सन्दिग्ध इत्यर्थः । अयमिति । हे भीरु भयशीले यतः यत्सकशात् अवधीरणां प्रत्याख्यानं विशङ्कसे । सोयं ते तव संगमे उत्कण्ठितस्ष्टति । सेयमस्थाने शङ्केति भावः । प्रार्थयिता श्रियं प्राप्तुकामः पुरुषः श्रियं लभेत वा नवा । भाग्यतद्विपर्यंयौहि निमित्तान्तरमत्रेति भावः । नहि विपर्यस्तभाग्यं श्रीर्वृणत इति भावः । वंशस्थं वृत्तम् । अमुमेवार्थं प्रियंवदा भङ्ग्यन्तरेणाह , अतृतगुणेति आत्मगुणावमानिनिप्रियगुणपक्षपातेन स्वगुणपरिभाविनि । शरीस्य निर्वापयित्रीं आह्लादजननीं शारर्दी शरत्सम्बन्धिनीं वर्षासु मेघावरुद्धत्वराच् ? िचप्रतीक्षितामित्यर्थः । पटान्तेनेति कस्यात्मनि निरोध इत्यर्थः । सुखोपनतं स्वसुखं को वा परिहरिष्यति , प्रजागरकृशत्वादिना राज्ञस्तापदर्शनात् तन्निर्वापणमन्वेषणीयं हि तस्यापीति भावः । उपविष्टेति बुद्धिसमाधानार्थं । विस्मृतनिमेषेण परित्यक्तपक्ष्मपातेन । स्थाने युक्तं । यदीदानीमपि निमेषो भवेत् का नाम द्रष्टृतेति भावः । उन्नभितेति । उन्नमिता उत्क्षिप्ता एका भ्रूलता यस्य तत् पदानि मदनलेखन्यासोचितानि रयन्त्याः ग्रथ्नत्या अस्यास्संबन्धि आनंन कण्टकितेन पुलकितेन कपोलेन मय्यनुरागं प्रथयति व्यनक्ति। शब्दस्मरणमात्रेणापि कपोलपुलोद्वमो निर्भरानुरागव्यञ्जनमिति भावः । आर्यावृत्तम् । गीतिः " आर्यापूर्वार्धसमं चरमार्थं भवति यत्न हंसगते ’ इत्युक्तलक्षणा । लेखनसाधनानि मषीपत्रलेखिन्यादीनि । शुकोदरसुकुमार इति हरितत्वातिशयोपि विवक्षितः । नखै निक्षिप्ताः वर्णाः अक्षराणि यस्यस्तां नखविलिखिताक्षरामित्यर्थंः । पत्रच्छेद्यं हि कलाविशेषः । गीतिमिति विशेष्यं विपरिणम्यते । रूपयित्वा वर्णंविन्यासमभिनीय । सङ्गतार्थां समृबद्धविषया नवेति शृणुतं अवधारयतं । आत्मन्यप्रत्यादिदमुक्तं। तुज्झेति । तव हृदयं न जाने सानुरागं न वेति नावगच्छामि । मम पुनः मम तु त्वयि युक्तमनोरथानि संसक्ताभिलाषाणि अङ्गानि दिवापि रात्रिमपि अविष्कर्तु युक्तमनोरथानीत्यङ्गविशेषणं । आश्लेषादिविशेषाभिलाषित्वं च अनेन दर्शितं प्रथममज्ञातहृदयस्यापि जनस्य विषये मधुकरबाधामात्रमप्यसोएवति त्वयि रक्षितरि तृवत्रिमित्त एव मदनतापो निवेद्यतइत्यर्थः । अभिरूपमानी मदनस् ? त्वदभिकामामीर्ष्यंयेव मां तपतीत्यापि ध्वन्यते युक्तमनोरथानीत्यङ्कविषेषणेन ॥ गीति र्वृत्तम् । तपतीति । हे तनुगान्नि मदनः त्वामनिशं तपति न तु दहति । मां पुनः मां तु दहत्येव । भस्समकरोत्येव । अनुरागवृत्तेस्साधारण्यादेकत्र तापोऽप्यन्यत्र च दाह इति किं निमित्तमिति निदर्शयान्नाह । ग्लपयतीति । दिवसः शशाङ्कं चन्द्रं यथा ग्लपयति तथा कुमुदान्यास्सन्तीति " कुमुदनडवेतसेभ्य ’ इति हमतुप्तां न हि ग्लपयति । दिवसे शशाङ्को भस्मखण्डवद्विच्छायो भवतीति दाह उपपद्यते । कुमुदिनी तु निमील्येव न पुनस्सौभाग्यमुज्झतीति च दृश्यते । तेनावसीयते विरहः कामिमनं यथा हिदुनोति न तथा कामिनीमितीति भावः । अविलम्बिनः सन्देशाप्रेषणामात्रव्यवधानेनापि वर्जितस्य । मनोरथाथेति विषये मनोरथाभेदोपचारः । अलमलमायासेन उत्थानश्रमो मा भूदित्यर्थः । आयासेन साध्यं नास्ति इत्यर्थाद्गम्यमानसाधनक्रियापेक्षया करणत्वात् तृतीया । सन्दष्टेति । सन्दष्टं तापम्लानतया संश्लिष्टं कुसुमशयनं येषु तानिआशुक्लान्तैः तापातिरेकात् तत्क्षणाक्लिष्टैः बिसभङ्गैः मृणालच्छेदैः । अन्तरार्द्रतया शीतोपचारार्थनिहितैः खण् ? िडतमृणालैरित्यर्थः । सुरभीणि आत्तप्तारतया गन्धवन्ति गुरुः दुस्सहः परितापो येषां तानि ते गात्राण्यवयवाः उपचारं अभ्युत्थानादिरूपं नार्हन्ति सहन्ते । आर्था वृत्तम् । इतः अस्मिन् भाग इति निर्देशः । शिलातलस्यैकदेशं शकुन्तलापार्श्वभागं । वयस्य इति। वयस्याः प्रियो हि वयस्यो भवति । द्वयोपि वां शकुन्तलायास्तव च । अन्योन्यस्मिन्ननुरागः समानुराग इत्यर्थः । प्रत्यक्षः साक्षादावाभ्यामनुभूतः । यतस्सखीमधिकृत्य नास्ति वक्तव्यमिति भावः । पुनरुक्तं वदतीति पुनरुक्तवादिनीं तां करोति उक्तस्थेव सिद्धस्यापि पुनः कथनमसांप्रतमपि स्नेहादुष्यत इत्यर्थ । न परिहासार्थं सिद्धमिति नोपेक्ष्यं । हि यस्मात् विवक्षितं वक्तुमिष्टं वस्तु अनुक्तं सत् अनतापं पश्चात्तापं पश्चात्तापं जनयति तस्मान्मनः प्रसादेनार्थवत्पुनरुक्तमपि दीषायेत्यर्थः । यस्मादस्या विषये न किञ्चिदपि समीहितुं कर्तुं नेच्छामि तस्माद्विस्त्रब्धमुच्यतामिति भावः । आपन्नस्यु दुः खितस्य विषयवासिनो निजदेशस्थितस्य जनस्य पाल्यस्येत्यथ्रः । आर्तिहरेण दुः खापहेन । अस्मात् आपन्नरक्षणात् परं अन्यद्राजकृत्यं नास्ति । उद्दिश्य विषयीकृत्य । एतत् अवस्थान्तरं अन्यामवस्था स्वभावंच्युतिमिति यावत् । आरोपिता प्रापिता । अन्यनिमित्ताप्यार्ति हरतः किं वक्तव्यं स्वनिमित्तबाधानिवारणमिति भावः । अभ्युपपत्त्या अनुग्रहेण । अवलम्बितुं धारयिर्तु । अयं प्रणयः अभ्युपपत्तिप्रार्थनं साधारणः समान्यस्ते । सख्या मम च । अनयापि हि मदभ्युपपत्तिः प्रार्थ्या ममेत्यर्थः । सख्या मम च । अनयापि हि मदभ्युपपत्तिः प्राथ्यां ममेत्यर्थः । सख्या विवक्षितमुत्थापयितुं व्याजेन शकुन्तला प्रियंवदामाह । हलेति । अन्तः पुरविरहेण् ? ा पर्युत्सकुस्य कालाक्षमस्य । राजर्षेः स्त्रीषु जितात्मन इति भावः । उपरोधेन गतिप्रतिबन्धेन अलं उपरुद्धो यद्यपि दक्षिणतया न यास्यति तथापि तन्नोचितमित्यमित्यर्थः । राज्ञो विरहकार्श्यस्यान्तः पुरविरहनिमित्तत्वेन स्वविषयौत्सुक्यनिह्ववो रागपरीक्षार्थं प्रथमप्रार्थनालाघवपरिहारार्थं च । इदमिति । हे हृदयसन्निहिते मन्मानसस्थिते । हृदयस्थितापि हृदयं न जानासीति चित्रमिति भावः । मदकरत्वेन मदिरासदृशे ईक्षणे यस्यास्मा , मदिरौ मत्तखञ्जनाविव ईक्षणे यस्यास्सेति वा तस्यास्संबुद्धिः मदिरेक्षणे त्वदीक्षणबाणविद्धस्य मनसः कथमन्यत्र गतिरिति भावः । अविद्यमानमम्यत्परायणं आश्रयो यस्य तत् अनन्यासक्तं " साकल्यासङ्गवचने पारायणपरायणे ’ इत्यमरः । इदं मम हृदयं अन्यथा अन्तः पुरविरहपर्युत्सुकत्वेन यदि समर्थंयसे तदा मदनबाणेन हतः प्रथममेव विद्धोपि पुनर्हंतोस्मि । त्वदीक्षणमात्रेण मदनबाणहते पुनरन्यासङ्गहेतूद्भवनरूपबाणमोक्षणं क्षते क्षारसेचनमिव सुतरां दुः खायेति भावः । हतस्य पुनईननमनुचितमित्यपि व्यज्यते । द्रुतविलम्बितं वृत्तम् । अन्तः पुराविरहेति शकुन्तलावचनस्मारितं विवाक्षिमादायाह । वयस्येति । बह्वयो वल्लभाः प्रणयिन्यो येषां ते । बन्धुजनेन शोचनोया भर्तुरसम्भावनयेति भावः निर्वहस्व समाधत्स्व । नवं हि सर्वमेव हृद्यं भवति । अतः पूर्वावरोधदशामियं नारोणीयेति भावः । परिग्रहेति। परिग्रहबहुत्वे बहुवल्लभस्वे सत्यपि नः कुलस्य द्वे प्रतिष्टे द्वितयसेव स्थितिसाधनं । स्मुद्री रशना यस्याः सा उर्वी भूमिश्च । महिषी समाधिव्यंजनाय समुद्ररशनेति विशेषणं । युवयोरियं सखी शकुन्तला च अत्र भूमिपक्षे प्रतिष्टाशब्द कीर्तिस्थानवचनः शकुन्तलापक्षे च अविच्छेदसाधनार्थः ततश्च आत्मनस्सन्तानत्वं शकुन्तलापत्यस्यैव च राज्यभागित्वं च सूचितं भावति । अनुष्टुप् वृत्तम् ॥ निर्वृत्ते सुखिते सदृष्टिक्षेपं भ्रूक्षेपेण परस्परमपगमसंज्ञां विभायेत्यर्थः । पयुंत्सुकः मातृदश्रनोत्कण्ठितः । संयोजयेव मात्रा सह संगमयेव । अशरणा असहाया । अन्यतरा एका आगच्छतु कृतमेकया मृगपीतसंयोजनाय गतयेत्यर्थंः । यः पृथिव्याशशरणं रक्षिता स तव समीपे वर्तते । अतो अतो नाशरणासोति भावः । आवेगेन आराधयिता उपचारैः सेविता । यदर्थं सखीसन्निधिरिष्यत इत्यर्थंः । सेवाप्रकारमेव पृच्छति । किमिति । शीतलैः अचिरात्खातत्वाज्जलशीकरशिशिरै अत एव क्लमविनोदिभिः श्रमापहैः नलिनीदलैः कमलिनीपत्रैरिव तालवृन्तैः आर्द्रवातान् किं सञ्चारयामि सञ्चारयेमित्यर्थः ।अप्रत्याख्यानादेतावदनुमतमभिसन्धायाह । अङ्कइति । उत अथवा करभः करोपान्तभाग इवीरुर्थंस्यास्तयाः सम्बुद्धिः करमोरु " मणिबन्धादकानिष्ठं करस्य करभो बहि ’ रित्यमरः । मूले चोन्नतत्वादनुपूर्वं चावनतत्वादूरोः करभौपम्यं । पह्मवत्ताम्रौ रक्ततलौ मृद्रत्वमप्यत्र विवक्षितं । ते तव चरणौ अङ्के मदुत्सङ्गे निधाय मृदुत्वं ह्मन्यत्र निधानासहमिति भावः । यथासुखं नातिगाढं नचातिशिथिलमित्यर्थः । किं संवाहयामि मृद्गीयां । उद्दीपनत्वात्संवा हनमुक्तं । उक्तं च मेघसन्देशे । " संभोगान्ते मम समुचितो हस्तसंवाहनानां यास्यत्यूरुः सरसकदनीस्तंभगौरश्चलत्वं ’ मिति । बाह्मोपचारानुयोगे प्रत्याख्यानविरहमेवानुमतिकल्पमालक्षयतो नागरिकस्य नायकस्याभ्याभ्तरेप्युपचारे प्रश्रावतार इति रहस्यं । वसन्ततिलकं वृत्तम् । माननीयेषु पूज्येषु विषये । नापराधयिष्यामि चरणापणेनापराधवन्तं न करिष्यामि । इच्छन्त्यप्यपराधाद्भीतास्मीति हदयं । अपरिनिर्वाणः असंहृतबाधा। कृतमत्रैकैकेनापि किं पुनर्मिलितेनेति भावः । उत्सृज्योति । नलिनीदलैः कल्पितं स्तनयोरावरणं शोतोपचारार्थं प्रच्दादनं यस्मिस्तत् कुमुमशयनमुत्सृज्य त्यक्त्वा परिबाधया संज्वरेण पेशलैर्दुर्बलेरङ्गै आतपे कथं गमिष्यसि । या कुसुसशयनादिषु सत्स्वेश शीतोपवारेषु सन्तापेन पीडिता तस्या न केवलं तत्परित्यागः प्रत्युतातपेति गमनं नितरामसदृशमित्यर्थः । आर्या वृत्तम् । बलादिति । वचनस्याकिंचित्करत्वादाल्ङ्गिनादिना निवारयितुमारभत इत्यर्थंः । नायमविनयस्ते कुलोचित इति व्यञ्जयितुं पौरवेति सम्बोधनं । आर्यादिपदानुपादानाच्च रागो दर्शितः । विनयं अस्वैरित्वरूपं शीलं रक्ष न परित्यज । ननु कथमात्मनैव निवेदितात्मनि त्वयि स्वरेमविनयः ? तत्राह । मबणेति । मदनहस्तगता मन्मथपरतन्त्रापि आतृमनः शरीरस्य न प्रभवामि । गुरुजनादि परतन्त्रं शरीरं मन एव तु केवलं त्वय्यर्पितं यस्याहं प्रभवामीति भावः । विदितो धर्मो येन स विदितधमां " धर्मादनिच् केवलात् ’ । अत्न स्वेनेव स्वात्मार्पणे । दोषमधर्मं । न ग्रहीष्यति न संस्यते । कुतः ? तदाह — गान्धर्वेणेति । बह्व्योऽनेकाः राजर्षिकम्यकाः धर्मादस्खलिता एवेति भावः । गान्धर्वेण गान्धर्वाख्येन विवाहेन परिणीताः परिगृहीताः धान्येन धनवानित्यादिवदभेदे तृतीया । ताः पितृभिः राजर्षिभिरेव अभिनन्दिताः अनुमताश्च श्रूयन्ते । अतो नायं कामचारः चेह हिताहितान् । अह्मविमान् समासेन स्त्रीविवाहान्निबोधत । बाह्मो दैवस्तथैवार्षः प्राजाजपत्यस्तथासुरः । गान्धर्वो राक्षसश्चैव पैशाचश्चाष्अमो 1 ़धमः । षडानुपूर्व्याविप्रस्य क्षत्रस्य चतुरोऽवरान् । विद्च्छूद्रयोस्तु तानेव विद्याद्धर्म्यानराक्षसा ’ निति । " गान्धर्वो राक्षसश्चैव धर्म्यों क्षत्रस्य तौ स्मृता ’ विति च । गान्धर्वलक्षणं चोक्तं " इच्छयान्योन्योन्यसंयोगः कन्यायाश्च वरस्य च । गान्धर्वः स तु विज्ञेयो मैथुन्यः कामसम्भवः ’ । इति अनुष्टप् वृत्तम् । अद्य तावदिदानीं परं मुञ्च तिष्टतु धर्मविचार इति भावः । भूयोऽपि प्रागेव दत्तानुमतिमपि सखीजनत्वपुनरपि अनुमानयिष्यामि अनुमतं करिष्यामि । अपरिक्षतेति । हे सुन्दरि अपरिक्षतकोमलस्य इदंप्रप्रथमत्वात्पूर्वमसंक्रान्तदशनक्षतस्यात एव कोमलस्य सुमुमारस्य च परिक्षते हि। किणग्रन्थिभिर्मनाक्काठिन्यं भवेदिति भावः । ते तव अस्य अधरस्य रसः नवस्य अचिरोन्मीलितस्य कुसुमस्य रसः षट्पदेनेव पिपासता रितृषिजतेन मया सदयं ललितं यावद्यदा गृह्मते तदा मोक्षयामीति सम्बन्धः यथाषट्पदः कुमुममपीडयन् रसमादाय मुञ्चति तथेति भावः । " अपरिक्षतकोमलस्य तावत् ’ इति पाठे तावत् साकल्येनेत्यर्थः । वसन्तमालिका वृत्तम् । परिहरति । चुम्बनं तृयाजयति । चक्रवाअवहु इति सहचरं पुमांसं आमन्त्रयस्व । आपृव्छस्व । उपस्थिता रजनी विचरहकालस्संप्राप्त इत्यर्थ , । गौतम्यागमनेन दुष्यन्तामन्त्रणं विहितं भवति । सारूप्यनिबन्धनेयमप्रस्तुतप्रशंसा । शरीरबृत्तान्तस्य सन्तापरूपस्य उपलम्भाय विशेषज्ञानाय । सखीवचनादयमर्थंस्ममृभाव्यत इति दर्शयितुसंशयमिति । विटपेन तरुशाख्या अन्तरितः तिरोहितः । आत्मानं शरीरं अरबृत्य आच्छाद्य । पात्रं वैतानिकशान्त्युदकभाजनं हस्ते यस्यास्सा "" वेतानिकं शान्युदकमस्यै गोतमीहस्ते विसर्जयिष्यामि ’’ इति हि मुनिशिष्यवचनेन मूचितं । जातं पुत्रि ! ते अङ्गानि अपि लघुसन्तापानि कच्चित् सद्यबाधानि ? अस्ति मे विशेषः सन्तापशान्तिरस्तीत्यर्थः । अनेन कुम्भोद्धृतेन दर्भोदकेन कृर्चाभ्युक्षितेन जलेन निराबाधं निश्शेषितरोगमेव । परिणतः जीर्णः परिसमाप्त इति यावत् । उटजं आश्रममेव गच्छामः नाख पृथगवस्थातुं युक्तमिति भावः । प्रथममेव मदनलेक्षविर्जजात्पूर्वंमेव सुखेन अयत्नेनन प्राप्ते मनोरथे प्रियसमागमरूपे अभिलाषवस्तुनि कातरभावं भीरुतां । सानुशयं उपस्थितश्रयेः परित्यागात्सानुतापं यथा तथा विघटितस्य विरहितस्य ते कथं प्रतीकारः तापानोदनं सन्निकर्षे कातरभावो विप्रकर्षे च अनुशय इति दुः खमात्रफलमिति भावः । लतावलय लतामण्डप सन्तापहर शैत्यादनातपत्वाच्च तापापनोदेन भूयः पुनरपि परिभोगाय शयनासनादिभिरनुभवाय आमन्त्रये त्वामापृच्छे । अत्र गूढोक्तया राजा सम्बोध्यते तस्य मदतनाहरत्वातृ भूयो 1 ़पि संश्लोषाद्यनुभवाय दर्शनाभ्यर्थनं । दुः खदुः खेन गन्तुमनिच्छया कथञ्चिदित्यर्थंः । पूर्वंस्थानं शकुन्तलया अध्यासितपूर्वं लतामण्डपं प्रार्थितानामभिलषितानां अर्थानां प्रयोजनानां सिद्धयः प्राप्तदः विघ्रवत्यः " श्रेयांसि बहुविघ्रानि ’ इति न्यायादिति भावः । मुहुरिति । मुहुः पुनः पुनः अंगंलिभिः संवृतः आच्छादितः अधरोष्ठः अधस्तादधरः यस्य तत् प्रतिषेधाक्षरेषु ’ पोरव रक्खविणयं ’ " मुञ्च मं ’ इत्यादिषु विक्लबं स्खलितोच्चारणं तत एवाभिरामं मनोहारि अंसविवर्ति चुम्बक्षेपाय स्कन्धपरवृत्तं तत्क्षणं तिर्यगाक्षिप्तमित्यर्थः । पक्षमले सान्द्रपक्षम्णी अक्षिणी यस्यास्तस्याः शकुन्तलायाः मुखं कथमपि कृच्छादुन्नमित्तं करतलालम्बितकपोलमूर्ध्वीकुतं । तथोन्नमितमपि तु न चुम्बितं । लब्धमप्यननुभूतं विधिना विघटितमित्यर्थंः । अत्र मुहुरित्यनेन संवरणमोच्नयोः विक्लबशब्देन प्रतिषेधानिच्छायाः अंसविर्तींत्यनेन अवैमुख्यस्य च अवगमत् लज्जन्तरितो मदनावतारो व्यञ्जितः । ये ताव दिह " ’ तु ’’ शब्दस्य पुनरित्यर्थं चुम्बितपदस्य सम्भोगोपलक्षणत्वं चास्थाय सकृदेव सम्भोगससंवृत्त इति व्याचक्षेते । तेषामास्तां तावत्क्लिष्टकल्पनं । "" हि अअ सुहोवणादे मणोरहे कादश्राभावं ण भुंचेसि ’’ विघ्रवत्यः प्रार्थितार्थसिद्धयः ’’ इति शकुन्तलादुष्यन्तवचनविरोधः कथं परिहर्तव्यः ? सम्भोगो वा कथमभिनयमर्हति ? । अथ कथमन्यथा चतुर्थाङ्के "" गन्धव्येण विवाहविहिणा णिव्युत्तकल्लाणा सउंदला ’’ इति सखीवचनं ? उच्यते "" लदावलय संदावहर आमंदेमि भूयो वि परिभोआअ ’’ इति निवेदितसङ्केतस्य राज्ञस्तत्रैवान्येद्युः शकुन्तलासमागमस्य वृत्तत्वौचित्यानुवाद उपपह्मते । तथा हि समुद्रगृहे सङ्गतयोरेव मालविकाग्रिमित्रयोरिरावतीदर्शनाद्विघटितयोः परिणयप्रस्तावः । उर्वशी पुरूरवसोरिप प्रासादे सङ्गतयोरन्तर्भवन प्रवेशादनन्तरमेव वृत्ततयाध्यसितः सम्भोगः पश्चात्सूचित इति सांप्रदायिकः पन्थाः ॥ वसन्तमालिकावृत्तम् । प्रियया शकुन्तलया आदौ परिभुक्ते पश्चान्मुक्ते " वाहि वात यतः कान्ता तास्पृष्टवा मामपिप स्पृश ’ इति रीत्या साक्षात्सम्बन्धासम्भवे परंपरासम्बन्धोऽपि मनाक्प्रिय इति भावः । तस्या इति । शिलायामियं तस्याश्शरीरेण अनङ्गतप्तेन गात्नेण लुलिता परिवर्तनैविर्षपयांसितरचना पुष्पमयी तस्याश्श्रीरेण अनङ्गतप्तेन गाखेण लुलिता परिवर्तनैर्विपर्यासितरचना पुष्पमयी शय्या । एषः अन्यतो दृश्यमानः क्लान्ते शकुन्तलाहस्ततापनिसरे नलिनीपत्रे नखैः अर्पितो न्यास्तः मन्मथलेखः अनुरागसन्देशलिपिः । इदञ्चान्यत्र दृश्यमानं हस्तस्त्रस्तं उत्थाय गतायाः करात्पतितं बिसाभरणं बिसरूपं वलयं शीतोपचारायार्पितमिति भावः । इति अनेन प्रकारेण आसज्यमानेक्षणः अनुब्ध्यमानदृष्टिरहं शून्यात् प्रियारहितादपि वेतसगृहात् निकुञ्जभवनात् सहसा निर्गन्तुं न शक्रोमि । तस्याश्चादर्शने युकृतं तदनुबन्धिदर्शंनमपीति भावः । शार्दू ? लविक्रीडितं वृत्तम् । सायमिति । सायन्तने सायम्भवे सवनकर्मणि होमक्रियायां संप्रवृत्ते समारब्धे सति हुताशनवतीं त्रेताग्रियुक्तां वेदीं परितः निबद्धभूमेस्सर्वतः भयं द्रष्टॄणां भींतिं आदधानाः विकृतरूपतया कुर्वाणाः सन्ध्यापयोदवत् कपिशा बभ्रवः पिशिताशनां रक्षसां छायाः प्रतिबिम्बाः बहुधा नाना प्राकारं कामरूपत्वादिति भावः । प्रकीर्णाः व्याप्ताः चरन्ति दउकुमृभादिषु नानारूपा रक्षः प्रतिबिम्बा दृश्यन्त इति भावः । केचिच्छायाशब्दस्य अनातपात्मकं रूपमिति व्याख्यानमिच्छन्ति । तन्न युज्यते । तादृशस्य रूपस्य सायमसम्भवात् कपिशात्वानन्वणच्च ॥ वसन्ततिलकं वृत्तम् । ॥ इति शाकुन्तलव्याख्याने सहृदयसमाख्याने तृतीयोऽङ्कः ॥ ——–0——– ? 0 ॐ ? 0 ॥ अथ चतुर्थाङ्कव्याख्याप्रारम्भः ॥ एवं शकुन्तलादुष्यंतयोः कृतसङ्केतयोरन्येद्युर्भिथः संगममनूद्याभिज्ञानवृत्तान्तमुपक्षेप्तुंविष्कम्भमारवयति । तत इति कुसुमानां देवतार्चनाथीनामवचयं ग्रहणं । सख्या शकुन्तलाहचर्यौ प्रियंवदा चामसूया च । सख्योश्च पूर्वं मेव प्रस्तुतत्वेन प्रसिद्धतृवात्प्रथमा द्वितोयेत्युनुक्त्वा प्रथममेव नामग्रहणं अनसूया इति । गान्धर्वेण नाम ? । विवाह एव विधिर्विहितं कर्म तेन निर्वृत्तं कल्याणं कौतुक मङ्ग यस्याः सा सती । अनुयप्मात्मसदृशं गामिनी प्राप्ता गम्पादीनामुपसंख्यानात्ममासः । संवृत्ता सञ्जातेति निर्वृतं कृताथ्रत्वात्सुखितं । आरण्यकहस्तगताया दिव्यरूपायाः सदृशवरलाभः कथंकारें भवेदिति सन्ततचिन्तनादनिर्वृंतं पूर्वंमासीत् येन प्रतिकूलदैवप्रशमनार्थं कुलपितिः सोमतीर्यं गत इति भावः । तथापि सदृशभर्तृंलाभे सत्यपिव एतद्वक्ष्यमाणं चिन्तनीयं शकुन्तलाया यावदन्तः पुरप्रवेशनमेष चिन्ता भवतीत्यर्थंः । बहुलोक्तेश्च भावेऽनीयर् । कथमिव केनप्रकारेण चिन्तनमित्यर्थः । इष्टिं परिसमाप्य निरस्तप्रत्यूहं निर्वर्त्य ऋषिभिर्विसृष्टः अनुज्ञातस्सराजर्षिर्द्रुष्यन्तः अन्तु पुरैः शुद्धान्तवधूभिः सह समागतो मिलितः सनृ इतो गतमरण्ये वृत्तं वृत्तान्तं शकुन्तलासमागमविषयं । स्मरति वा नवेति चिन्तनीयमित्युषङ्गः । यथेह स्थितो नान्तः पुरस्य स्मृतवान् एवं तत्र गतोप्यत्रत्यं वृत्तं किं विस्मरेदिति भावः । विस्त्रब्धा त्यक्तशङ्का । आकृतिर्मूर्तिः गुणविरोधिनी गुणप्रतिकृला न भवति न तथा प्रसन्नं रूपमगुणसहमित्यर्थः । " रूपमेवास्यै तन्महिमानं व्याचष्ट ’ इति श्रुतेः । तथा च कुमारस्म्भवे " यदुष्यते पार्वति पापवृत्तये नरूपमित्यव्यभिचारि तद्वचः । तथा हि ते रूपमुदारदर्शने तपस्विनामप् युपदेशतां गत ’ इति । अन्यदेव तु चिन्त्यमितृयाह तादो इति तातः काश्यपः इमं वृत्तान्तं शकुन्तलाणा दुष्यन्तपरिग्रहरूपं । प्रतिपत्स्यते ज्ञास्यति । अनुरूपवरलाभमुनमोदिप्यते , उत वा स्वच्छन्दवृतृतं न मर्षिष्यत इति भावः । यय । येन प्रकारेणपश्यामि तर्कयामि तथा तेन प्रकारेण तातस्यानुमतं अङ्गीकृतप्रायमित्यर्थः । कथ मिव केन प्रकारेण पश्यसीत्यर्थः गुणवते प्रशस्तगुणाय कन्या शकुन्तला प्रतिपादीया दातव्या " विश्राणनं वितरणं स्पर्शनं प्रतिपादन ’ मित्यमरः । इत्ययं तावत् एवंरूप एव प्रथमः प्रधानः सङ्कल्पो निश्चयः । न तु दातृप्रतिग्रहीविशेषामिसन्धिरिति भावः । तं अनभिसंहितार्विशेषं सङ्कल्पं दैवं नियतिरेव यदि संपादयति भावः । तं अनभिसंहितविषेषं सङ्कल्पं दैवं नियतिरेव यदि संपादयति साधयति तर्हि गुरुजनः पिता अल्पायासेन चिन्ताश्रममात्रेण कृतार्थः स्वायासमन्तरेणैव कृतकृत्य इत्यर्थः । अप्पयासेण इति साधीयान् पाठः । सुखोपनते मनोरथे को वा न प्रमोदेतेति भावः । बलिकर्मणः पूजाक्रियायाः पर्यांसनि समग्राणि । ननु तथाऽपि । सोभाग्यदेवता मङ्गलेदवता लक्ष्म्यादिः । तदेव कर्म पुष्पावचयमेव । सुमरेदि वा ण वेति सूचितं राज्ञो विस्मरणमुत्तगुणत्थानुपपद्यमानमुपपादयितुं दुर्वासः प्रवेशमुपक्षिपति – नेपथ्य इति । अयमहं भो इति आश्रमे हि शकुन्तलैवैका सन्निहिजता । सा विचित्ततया न किं चिद्वेद । अतः क्रोधोद्गारोयं दुर्वाससः । अयमिति दर्शनादेव वेद्यत्वं दर्शयति । भो इति चानवधावारणार्थं । निवेदितमात्मनिवेदनं ऊहार्थं मिवशब्दः । उटजसन्निहिता आश्रमस्थितैव अतो नावभ्यो गन्तव्यमिति भावः । पुनः किन्तु हृदयेन न सन्निहिता शरीरमात्रेण स्थिता भर्तृगतमनसेत्यर्थः । अकिञ्चित्कररसन्निधिरिदानीं तस्या इति भावः । एतावद्भिरवचितमात्नैः । अलं पर्याप्तं गम्यमानपर्याप्तिक्रियापेक्षया करणत्वात् कुसुमैरिति तृतीया । प्रस्थिते आश्रमं प्रतिनिवृत्ते । आः इति क्रोधे अतिथीन् परिभवत्यसत्कारेणोपेक्षत इति तस्याः सम्बुद्धिः अतिथिपरिभाविनि । विचिन्तयन्तीति । अविद्यमानमन्यस्मिन् वस्तुनि मानसं यस्यास्तथाभूता सती यं प्रियं विचिन्तयन्ती ध्यायन्ती त्वमुपसिथतं संप्राप्त उपस्थेयमपि स्वयमुपसिथतमित्यर्थः । तपोनिधिमित्युपस्थेयत्वहेतुः । मां तत्रापि दुर्वासंसं न तु यं कञ्चिदिति भावः । न वेत्सि न जानास्यपि का कथा सत्क्रियाया इति भावः । स चिन्त्यमानः बोधितः स्मारितोपि सनृ त्वां न स्मरिष्यति परिग्रह इति नाभिज्ञास्यते । कथमिव ? प्रमत्तः अनवहितचित्तः पानाद्यन्तरितस्मृतिरिति यावत् । प्रथमं स्मृतिविभ्रमात्पूव्रं कृतां कथां वृत्तान्तमिव । " प्रतिबघ्राति हि श्रेयः पूज्यपूजाव्यतिक्रम ’ इति भावः । साभिप्रायविशेषणत्वारिकरालंकारः । मामित्यस्यापि तनोधनान्तरवैलक्षण्याभिप्रायत्वात्परिकराङ्कुरः । कथां प्रमत्तः प्रथमं कृतामिवेति चोपमा एते चालङ्कारास्संसूजृयन्ते । वंशस्थां वृत्तम् । तदेव चिन्तितमेव । किं तत् आहु - जस्सिं इति दूरतया विशिष्याग्रहणादुक्तं यस्मिन् कस्मिंश्चिदिति । पूजामर्हजतीति पूजार्हः पूज्यस्तस्मिनिवषये अपराद्धा पूजाव्यतिक्रमात्कृतापराधा । अकर्मकत्वात् कर्तरिक्तः । तत्र च शून्यहृदयेति हेतुगर्भं विशेषणं । शून्यं भर्तृगतत्वादसन्निहितं , चिन्ताजड्यान्निर्विषयं वा हृदयं यस्याः सा । विलोक्य व्यक्तिविशेषमवधार्य । ण खु इति । अपराद्धेत्युनषज्यते । यस्मिन् कस्मिश्चित् सुलभ्प्रसाद इत्यर्थः । सुलभः अयत्नलभ्यः कोपो यस्य सः निर्निमितृतक्रोपन इत्यर्थः । निमित्ते तु सति किमुतेति भावः । दुर्वासा इति नाम ग्रहणं क्रोधनम्ब्रान्तया दुर्वारया अनुनयेनाप्यप्रतिनिवत्यप्रतिनिवर्त्यया च गत्या शीघ्रगमनेन निवृत्तः आश्रमात्प्रतिप्रयातः । हुतवहादग्रेरन्यः को वा दग्ध्रं भस्मोकर्तुं प्रभविष्यति शक्ष्यति । भस्मो कर्तुं प्रभविष्यति शक्ष्यति । भस्मोकरणकल्पमीदृशं शापमेतस्मादतन्यो न कश्चिन्मोक्तुमर्हतीत्यर्थः । गच्छशीघ्रं यादि यावन्नात्येत्यर्थः । पादयोः प्रणम्य पादपतनपूर्वं नमस्कृतृय दुर्वाससः कर्मत्वात्यादयोरित्यधिकरणे सप्तमी । एनं दुर्वसिसं निवत्रय प्रत्यानय । अर्धायेदमर्ध्यं " पादार्घाभ्यां चे ’ ति यत्प्रत्ययः । यावदुपसर्पामि समीपं गमिष्यामि । स्खलितं गतिप्रतिरोधं निरूप्याभिनीय । अहो इति विषादे । आवेगेन सम्भ्रमेण स्खलितायाः प्रतिहतगतेः । अग्रं चासौ हस्तश्चाप्रहस्तस्तस्मात्पुष्पमभाजनं नारिकेलसमुद्गकरूपं प्रभ्रष्टं गलितं स्खलनमत्राशुमनिमित्तं । पुष्पोच्चयं भाजनस्थं निरूपयति अनपविद्धं पश्यति । पुष्पोच्चयस्यानपविद्धत्वं शुभोदर्कंताया निमित्तं । अत्र पुष्पभाजनस् ? य भूमौ निपतनं पुष्षाणां वा विशरणं न विवक्षितं । " एहि देवकज्जं दाव से । प्रकृत्या वक्रः कुटिलः दोषैकदर्शीति यावत् । स न केवले ममेत्यर्थः । अनुनयं सान्त्वन प्रतिगुह्णति अङ्गीकरोति प्रकृतिर्हि दुरपाहा यत्रानुनेतृशक्तिरकिंचित्करीति भावः । किं चित्पुनः स्वल्पं तु सानुक्रोशः सदयकृतः पादपतनेनविहितः । सस्मितमिति दुर्वाससोऽपि प्रसादग्रहणं स्मितहेतुः । तस्मिन् प्रकृतिनिरनुक्रोशे एतत् किं चित् सानुक्रोशत्वमपि बहु अण्वपि महद्यद्यत्रासम्भवीत्यर्थः । कथयेति शुश्रूषातिशयाद्द्विरुक्तिः । अनुनीतापि आथ्यिग्रहणं प्रार्थितोऽपि विज्ञापितः गच्दन्नेव निवेदितः । भगवन् " उत्पत्तिं च विनाशं च भूतानामागतिं गतिं । वेत्ति विद्यामविद्यां च स वाच्यो भगवानिती ’ त्युक्तलक्षणज्ञानसंपन्न , हृदयज्ञस्यमबुद्धिपूर्वोपराध इति विदितमेतेति भावः । प्रथमभक्तिं पूर्वकृतां भक्तिं प्रेक्ष्यालोच्य अविज्ञातप्रभावस्य शिशुत्वादविदितभवन्महिम्रः दुहितृजनस्यअपतृयालोच्य अविज्ञातप्रभावस्य शिशुत्वादविदितभवन्महिम्रः दुहितृजनस्य अपत्यनिविषस्य जनस्य नेदृशो भूतपूर्वो न वा भावीत्यर्थः । मर्षितव्यः क्षन्तव्यः दुहितृनिविंशेषत्वं सकृतकृतापराधत्वं च च क्षमाहेतुरित्यर्थः मद्विज्ञापनानन्तरं मन्त्रयन्नेवान्तर्हित इति सम्बन्धः । अन्यथा भवितुं नार्हति न योग्यं भवति । तस्मादनुभवितव्यमेवेत्यर्थः । अभिज्ञायतेऽनेनेत्यभिज्ञानं नामुद्राङ्कित्वादवगमहेतुभृतं यदाभरणं अंगुलीयकरूपमुभयविदितं तसय कर्मणो दर्शनेन भर्तृनेन भर्तृविषयीकरेणेन निवर्तिष्यते प्रतिबन्धके निवृत्ते स स्मरिष्यतीत्यर्थः । अन्तहितः चक्षुर्विषयमतिक्रान्तः । येन प्रार्थनान्तरानवकाश इति भावः । इदानीमेवंरूपे सति शापमोक्षे आश्वसितुनिवेदेन स्थातुं शक्यं शक्नुम इत्यर्थंः । शक्रोतेर्भावे यत्प्रत्ययः । कथं शक्यमित्याह – अत्थीति सं प्रस्थितेन नगरं प्रतिप्रयातुमारब्धेन । स्मरणीयमिति स्मर्तव्यमित्युक्तृवा अङ्गुलीयकदर्शनादात्मनः स्मरणेन शकुन्तलाया भवितव्यमितृयभिप्रायेणेत्यर्थः । स्वयमात्मनैव पिनद्धं शकुनतलांगुलौ निवेशितं । तेनाभिज्ञानाभरणसत्त्वेन स्वाधीनः अयत्नसिद्धः उपायो यस्याः सा भविष्याति विस्मरणकाल इति शेषः । अस्याः शकुन्तलायाः सम्बन्धि देवकार्थं तावद्देवतार्चनमेव , तद्धि दोषशान्तिकरमिति भावः । वामहस्तोपहितवदनां उत्क्षिप्ते वामकरे निक्षिप्तमुखीं आलिखितां चित्रार्पितामिव चिन्तानिष्पनदावस्थानामित्यर्थः । भर्तृगतया भर्तारं प्राप्तया आत्मन्यनवस्थितयेति यावत् । चिन्तया ध्यानेन " ध्यानं चिन्तेहितानाप्तेः शून्यताश्वासतापकृ " दिति लक्षणं । आत्मानं स्वशरीरमपि न विभावयति । न जानाति । आगन्तुकं अतिथिकिं पुनः न विभावयतीति किं वक्तव्यं । मुखे मुखान्तः एष वृत्तान्तः दुर्वासः शापरूपो विषः ? तिष्ठतु । मुखाद्वहिर्नं निर्गच्छत्वित्यर्थः । तत्र हेतुः रक्खणीआ खु इत्यादि — प्रकृत्या पेशला सरलहृदया दुः खासहेति यावत् । रक्षणीया खलु अनन्यचेताश्शपकथाश्रवणाद्विपद्येतेति भावः । नवमालिकां पेशलप्रकृतिमित्यर्थः । शकुन् ? तलायाश्शापवृत्तान्तज्ञानं संविधानप्रपञ्चानुरोधादुपक्षिप्तं अन्यथा ह्मभिज्ञानं रक्षितं सत् स्मरणव्यवधानं न चिरस्यानुवर्ततयेत् शापस्यायं महिमा यस्सख्योरनिवेदनसङ्कल्पः यच्चाभिज्ञानभ्रंश इति रहस्यम् । विष्कग्भ इति । नेपथ्यगतस्य दुर्वाससः संस्कृतचनानुविधानान्मिश्रविष्कम्भ इत्यर्थः । यद्वा मध्यपात्रप्रयोजितत्वमात्रस्य विष्कम्भलक्षणत्वादनसूयाप्रियंवदयोः सख्योरनोचपात्नत्वेन प्राकृतसंस्कृतभेदतिरस्कारेण शु ? द्धविष्कम्भत्वमेवोचितम् । अथ शकुन्तलायाः पतिगृहप्रेषणमङ्कार्थवतारयितुं सोमतार्थात्प्रयागतस्य काश्यपस्य शिष्यः प्रविशति आदौ सुपः पश्चादुत्थितः उषसि प्रबुद्ध इति यावत् । वेलायाः कालस्योपलाक्षणार्थं ज्यीतिर्दर्शनेन परिज्ञानार्थं । प्रवासात् सोमतीर्थगमनरूपं प्रवासं समाप्य ल्यब्लोपे पञ्चमी । उपावृत्तेन प्रत्यागतेन । प्रकाशं निर्गतः उटजाद्वहिरनावृतं देशं प्राप्तः तावत् स्फुटं अवलोकयामि । रजन्याः कियदवशिष्टं कियानवशेष इति । हन्तेति सम्भ्रमे प्रभाते हि कर्तव्यभूयस्त्वाद्भवति सम्भ्रमः । यातीति । एकतः एकस्यां दिशि प्रतीच्यामिति यावत् । ओषधीनां यतिश्चन्द्रः शस्तस्य चरमाचलस्य शिखरमग्रं याति प्राप्रोति । एकतः अन्यतः पूर्वंत्यां दिशीति यावत् । अरुणः पुरस्सरो यस्य सोऽनूरुसारथिरर्कः सूर्यः आविष्कृतः प्रकटीकृतः । कालेनेति शेषः । एवं तेजोद्वयस्य सूर्याचन्द्रमसोर्द्वयोरपि तेजसोरेव सतोः युगपत् समकालमेव व्यसनोदयाभ्यां अपचयोपचयाभ्यां लोको जनः आतृमनो दशान्तरेषु सुखुदः खावस्थाभेदेषु नियम्यते निबध्यत इव । कालगमिनुपतन् सुखदुः खपरिवर्तो महतामपि दुस्तरइति निद्रश्यर्श्यत इवेत्यर्थः । "" कस्थात्यन्तं सुखमुपनतं दुः खमेकान्ततो वा नीचैर्गच्छत्युपरि च दशा चक्रनेमिक्रमेणं " इति च मेघसंदेशे । क्रियया सदसदर्थबोधनरूपो निदर्शनालङ्कारः । असन्ततिलका वृत्तम् । अन्तर्हित इति । शशिनि अन्तर्हिते अस्तद्गतमात्रएव सति सैव कुमुद्वती सति शशिनि प्रियदर्शना भूतपर्वैव कुमुदिनी संस्मरणीयशोभा विच्छाया मे दृष्टिं न नन्दयति न प्रीणयति । उक्तविश् ? ोषसमर्थनं सामान्यमर्थान्तरं न्यस्यति । उक्तविशेषसमर्थंनं सामान्यमर्थान्तरं न्यस्यति । इष्टेति । इष्टस्य कान्तस्य प्रवासेन देशान्तरगमनेन जनितान्यबलीजनस्य दुः खापि अतिमात्नमतिप्रमाणं सुतरां दुस्सहानि सोढ्ढमशक्यानि । किं पुनर्लोकानन्दनस्य चन्द्रमसो विरहदुः खमित्यर्थापत्तिरपि व्यज्यते । नूनमिति संभावनायां संभाव्यतएतत्कुमुदिनीशोभाविपर्ययदर्शनादिति भावः । इतिहासादि विदितमेव हि केवलमिदमारण्यकस्य , तदेतत् कुमुदिनीदशया सत्यापितमिति नूनमित्युक्तं । वसन्ततिलकावृत्तम् ॥ अनेन शकुन्तलाया इष्टप्रवासदुः खावेगमनुस्मारिता रभसादनसूया प्रविशाति । पटस्य यवनिकायाः अक्षेपेणानाकर्षणेन आक्षेपेण स्वयमुत्सारणेन वा सम्भ्रमादिति भावः । एवं नाम इष्ट्रपवासजनितानीत्याद्युक्तप्रकारेण विषयेषु शब्दादिषु पराङ्मुखस्य अनासक्तस्यापि जनस्यारण्यकस्य नैतन्न विदितं स्त्रीणां विरहमहत्वं सुविदितमेव । तथाविधेन विदग्धेनं । यत् अनार्थ अनुचितं आचरितं कृतं नैतन्नविदितमेव । तथाविधेन विदग्धेनं । यत् अनार्थां अनुचितं आचरिंतं कृतं नैतन्नविदितमिति सम्बन्धः । उपस्थितां संप्राप्तां होमवेलां अग्रिहोत्रसमयं गुरवे काश्यपाय यावन्निचेदयामि निवेदयिष्यामि यदर्थमादिष्टोऽस्मीति भावः । प्रतिबुद्धापि राज्ञा शकुन्तलायामनार्यमाचरितमिति संप्रति जानत्यपिं किं करिष्यामि अतीते प्रतिबोधः किंप्रयोजन इत्यर्थः । हस्तपादाः हस्तौ च पादौ च प्राकृतत्वादेकचद्भावानियमः । हस्तपादाविति वा छाया हस्तसहितौ पादाविति मध्यमपदलोपी समासः । उ ? चितेषु अभ्यस्तेष्वपि अवधाननिरपेक्षमुपपादनीयेष्वपीत्यर्थः । करणीयेषु बलिविधानादिषु कायेषु । प्रसरन्ति व्याप्रियन्ते । प्रसरत इति द्विवचनं वा । कामो मन्मथः सकामः समनोरथः सिद्धमनीरथ इति यावत् । भवतु सन्तापाधानं हि तस्य चिकीर्षितं तच्च सिद्धमिति भावः । येन कामेन असत्यसन्धे वितथप्रतिज्ञे जने राजनि शुद्धहृदया तपोवनसंवर्धिततया कैतवानामनभिज्ञासखी शकुन्तला पदं कारिता प्रवेशमापादिता । दुः खायैव हि तथाविधुमनुरागमाहितवान् कामः स इदानीं सकामो भवत्विति भावः । न खलु राजर्षिरसत्यसन्धो भवितुमर्हंतीतृयाह – अथवेति । दुर्वासः कोपः " स्मरिष्यति त्वा न स बोधितोपि सन्नि ’ त्येवं शापरूपः एवमनेन प्रकारेण विकारयति अन्यथयति । अन्यथा शापाभावे सः तथा प्रणयवान् राजर्षिः धार्मिक इत्यर्थः । तादृशानि मन्त्रयित्वा " मां पुनर्दहत्येव ’ " द्वे प्रतिष्टे कुलस्य न ’ इत्यादिकमुक्त्वा एतावतः कालस्य महत्यापि काले गते लेखमात्रं सकृदपि सन्देशलेखनमित्यर्थः । " कृत्वोर्थपयोगे कालेधिकरण ’ इति षष्ठी । अथवा लेखमाखं केवलं लेखमपि । मा भूद्यानाय सेनादिप्रेषणमवरोधोचितमिति भावः । कालस्थेति सम्बन्धसामान्ये षष्टी । तत् यस्मात् राजा तस्मात् । अभिज्ञानं राज्ञो विसर्जयिष्यामि प्रेषयिष्यामि । अभिज्ञानाभरणदर्शनाच्छामोक्षस्य तेनैव मुनिना विधानादिति भावः । अभिज्ञानवविसर्जनस्यापि नेह सम्भव इत्याह दुः खेति । दुः खं कायक्लेशः शीलं स्वभावो वा यस्य तस्मिन् तपस्विजने को वा अभ्यर्थ्यते अङ्गुलीयकं नेतुं प्रार्थनीयः । वीतरागो हि नरागिणं दुः खमवैति येनापनेतुं त्वरेतेति भावः । तातनिवेदनमेवोपायः तत्नाह — णमिति । ननु सखीगामी दोषः शकुन्तलां हि प्राप्रोत्ययमपराधः यत्तातमनपेक्ष्य प्रवृत्तमिति हेतोः , व्यवसितापि वक्तुमुद्युक्तापि प्रवासात्प्रतिनिवृत्तस्य सद्यः प्रत्यागतस्य तातकाश्यपस्य दुष्यन्तेन परिणीतां परिगृहीतां आपन्नसत्त्वां प्राप्तगर्भां शकुन्तलां निवेदयिर्तु न पारयामि न समर्थास्मि । कालेन तु स्वयं विदितं न दोषाय स्यादिति भावः । इत्थं गते एवं संवृत्ते सति सर्वथाप्युपायानामगतौ सत्यामित्यर्थः । परवतीभिः किंनु खलु करणीयं न किञ्चित् कर्तुं शक्यत इत्यर्थंः । आश्लिष्येति । प्रियवचने हि पारितोषिकमेतत् सुहृदां यत्परिष्वङ्गः । प्रियश्च शकुन्तलायाः पतिसमागमः । अद्यैव इदानोमेव नीयते अन्यत्न गम्यत इति हेतोरुत्कण्ठया विरहौत्सुक्थेन साधारणं समानमेव परितोषमनुभवामि उपलभं । शकुन्तलायाः पतिसङ्गप्रीतिरस्माकं च तद्विरहः सङ्कोर्यत इत्यर्थः । कालान्तरेतु यदि नीयेत तर्हि मनाक् चेतः सभाधानान्नैवमुत्क्रण्ठातिरेकः स्यादिति व्यञ्जितमद्यैवेत्यनेन । आवां तावदावां तु उत्कण्ठां सखीविरहोत्सुकतां विनादयिष्यावः तद्विषयाभिः कथाभिस्तस्याश्चाभ्युदयवार्ताभिस्तथाविधैश्चोपायान्तरैर्लघूकरिष्यावः तपेस्विनी प्रियविरहसन्तापाच्छोचनोया सा शकुन्तलेव केवलं निर्वृता अविप्रलम्भास्सुखिता भवतु । अभिन्नसुखदुः खतया सा स्वयं सुखितैव नौ सुखयिष्यतीत्यर्थः ॥ चूतशाख्यामवकम्बिते निबद्धे नालिकेरसमुद्गके नाक्तिकेरपर्णपुटनिर्मिते भाजनविशेषे ? तन्निमित्तं शकुन्तलाया हेतोः कालान्तरक्षमा कालव्यवधानसहा चिरादपि सारभनुज्झन्तीत्यर्थः । केसरमालिकावकुलावलिः " विमहसुरही वहलावलिआ खु अहं ’ इति मालविकाग्रिमित्रे । निक्षिपा रखितेत्यर्थः । कुसुमान्तरणि मार्गेगच्छन्तृया वातातपाभ्यां क्लिष्टानि प्रियमुपगच्छन्त्या न शोभायै स्युरिति भावः । हस्तसन्निहितां शकुन्तलाप्रसाधानार्थ स्वहस्तस्थितां । तद्ग्रहणार्थं गतागतेन प्रस्थानविलम्बो मा भूदिति भावः । तीर्थसृत्तिकां पुण्यां मृदं । समालभ्यते स्पृश्यते एभिरिति समालम्भनानि मङ्गलानि समालम्भनानि शरीरसङ्गोचितानि मडलद्रव्याणि यावद्विरयामि अङ्गे न्यसिष्यामि । दूर्वाकिसलयानां समालनम्भनत्वं स्पर्शमात्नात् । त्वं तु केसरमालया प्रसाधयिष्यसीति भावः । सुमनोभाजनं नारिकेलसमुद्गकरूपं नाठ्येन गृह्णति चूतशाखातो गृह्ममाणमभिनयति । नेपथ्य इति काश्यपवचनमिदं । शार्ङ्गरवेण मिश्रास्सहिताः शार्ङ्गरणरवादय इत्यर्थः । शकुन्तलाया नयनाय पतिगृहप्रापणाय । त्वरस्व मङ्गलसमालम्भ ? नरिचने त्वरिता भव । हास्तिननगरं गामिनः गम्यादीनामुपसङ्ख्यानाद्द्वितीयातत्पुरुषः ऋषयः शार्ङ्गरवादयः शब्दायन्ते । " शब्दवैरकलहाभ्रकण्वमेधेभ्यः करणे ’ इति " तत्करोती ’ ति क्याङ्धिसिद्धस्य शब्दायतैः कम्रणि रूपं । शिखायां शिरसि मज्जिता स्त्रापिता स्त्रीणां शिरोमजनं न सर्वकालिकमिति दर्शितमेतेन । शिखा मार्जितेति च्छायापाठे मार्जिता कङ्कतादिभिर्मसृणीकृतेत्यर्थः । अग्रे सख्या सुखमजनस्यैव पश्चात्पूर्वोक्त एव पाठसाधुः । नीवाराणां तपोवनसुलभानां तृणधान्यानां ये अक्षतास्ते हस्तेषु यासां ताभिः । स्वस्ति मङ्गलं मङ्गल्यमशीर्वचनमिति यावत् । वातृतयन्ति पठन्तीति स्वतिस्तवाचन्यः । स्वार्थिकश्च कः । ताभिः स्वस्तिवाचनिकाभिः । अभिनन्द्यमाना अनुनगृह्ममाणा । यथोद्दिष्टो निर्दिष्टसद्दशः व्यापारस्तापस्थभिनन्दनादिरूपोयस्यास्सा । जाते पुत्रि भर्तुर्महादेवभूतस्य महाराजस्येति भावः । बहुमासूचकं गौरवचिह्भूतं अनुरूपमित्यर्थः । माहदेवशब्दं महाम ? िहषीति व्यपदेशं । वीरं प्रसूत इति वीरप्रसविनी वीरमातेति पुत्रादिप विशेषमनुभवेत्यर्थः । भर्तुर्बहुमता पूजिता नातः परं स्त्रीणां श्रये इति भावः । गौतमीवज्रं गौतमीं विना । सज्जा प्रसाधनग्रहणीद्युक्ता । इदं मङ्गलसमालग्भनं बहुमन्तव्यमादराङ्गीकरणीयं । कुतः । सखीमण्डनं सखीकर्तृकमलङ्करणं दुर्लभं भर्तगृहं गताया न लभ्यमित्यर्थः । बाष्पं । सविस्मयं अशरीरवचनश्रवणं विस्मयहेतुः । ज्ञाजिनस्त्रिग्धाभिः बन्धुजनसौहार्दवतीभिः काश्यपस्य तपोवनदेवताभिरपि गुरुवत् सम्भावितस्वात् , शकुन्तलायाश्च मेनकासम्बन्धात् तपोवनदेवतानां ज्ञातिजनस्नेह इति भावः । प्रणम भगवतीनां तपोवनेवताः प्रणमेत्यर्थः । सम्बन्धसामान्ये षष्टी । भगवतीभ्य इति चतुर्थ्यन्तच्छायापक्षे भगवतीः प्रसादयितुमित्यर्थः । " क्रियार्थोपपदस्य ’ इत्यादिना चतुर्थी । आर्यपुत्रस्य भर्तु दर्शने विषेये उत्सुकायाः उत्कण्ठिताया अपि मे चरतणौ आश्रमपदं परित्यजन्यास्सत्यादुः खदुः खेन कथ कथंचित् पुरोमुखौ अग्रतः प्रसरन्तौ वर्तेते भवतः । सत्यामपि प्रियसंयोगत्वायां पूर्वसंवासविश्लेषो दुनोत्येवेति भावः । सख्योव केवलं त्वेमकैवेत्यर्थः । तपोवनस्य विरह कातरा भीता न यति किंतर्हि त्वया उपहितवियोगस्य आहितविरहस्य तपोवनस्यापि समवस्थां तावदशेषेण पश्य । समवस्थामेवाह — अग्गलिअ इति । मृगाः हरिणाः उद्गीर्णाः अनास्थया वान्ताः दर्भकबलाः कुशग्रासाः येस्ते , मुखस्थानपि भ्रंग्रासान् न विदन्ति का कथा कबलान्तग्रहणस्थेति भावः । मयूराः परित्यक्तं अनुत्साहाद्वर्जितं नर्तनं यैस्ते चिन्ताविष्टा इव निभृतावस्थाना इत्यर्थः । न केवलं चेतनां एव , अचेतनामपीत्याह — ओसरिअ इति । अपसृतानि निपतन्ति पाण्डुपत्राणि शुष्कपर्णानि यासां ताः लताः अश्रूणि स्थूलान् बाष्पबिन्दून् मुञ्चति विसृजन्तीव । यदि नाम तिरश्चामचेतनानां च त्वद्वियोगादेषा समवस्था किं वक्तव्यं तव गुरुजनस्य सखी जनस्य चेति भावः । आर्या वृत्तम् । स्मृत्वेति । लताब्दश्रवणेन लतासामान्याद्वनज्योत्स्त्ररणं । तला रूपां भगिनीं आश्रमे सहसंवृद्धतया भगिनीस्त्रेहविषयभ्तामित्यर्थः । वनज्योत्स्रीं नाम नवमालिकां तावतृ इदानीं आमन्त्रयिष्ये आप्रक्ष्ये । तस्यां वनज्योत्स्न्यां समाने उदरे शयिता सोदयां सोदराद्यः ’ इति निपातनात्समानशब्दत्य सभावः तस्यास्सनेहं अवैमि जानामि । दक्षिणेनेत्येनबन्तव्ययं । चूतेन स्ववल्लभेन सङ्गतापि इतोगताभिः अन्यतः प्रसृताभिः शाखाभिरेव बाहाभिर्भुजैः मां प्रत्यालिङ्ग मयालिह्गिता प्रत्यालिङ्गनेन सम्भावय । अद्य प्रभृति ते तव दूरवर्तिनी असन्निहिता खलु । यतो नगरस्थाया मे तपोवनस्था त्वं दुर्लभा भविष्यसि तत एव हेतोः प्रियसंश्लिष्टापि मामपि प्रत्यालिङ्गत्यर्थः । चूतसङ्गतापीति सूचितमर्थमादाय काश्यप आह — सङ्कल्पितमिति । प्रथममेव प्रागेव त्वद्रूपयौवनदर्शनसमय एवेत्यर्थः । तव अर्थे प्रयोजने विषये मया सङ्कल्पितं मनसा निश्चितं आत्मसदृशं कुलशीलादिभिर्गुर्णस्त्वदनुरूपं भर्तारं त्वं सुकृतैः स्वैरेव भाग्यैः अन्तरेणास्मदारम्भामित्यर्थः । गता प्राप्तासि यस्तवात्मसदृशो भर्तेति मया निर्धारितस्तमेव स्वतस्त्वं प्राप्तासीत्यर्थंः । इदं नवमालिका अपत्यनिर्विशेषा वनज्योत्स्री च चूतेन आत्मसदृशेन सङ्गतवती भिलिता । समत्प्रति द्वयोपि युवयोसदृशभर्तुलाभे सति अस्यां नवमालिक्यां त्वयि च विषये वीतचिन्तः निवृत्तवरचिन्ताभारोस्मि । अनेन नवमालिक्षासमुच्चयेन महर्षोर्निर्विशेष एव भूतसामान्यनेन शकुन्तलायामपत्यस्नेह इति ध्वन्यते । अत्र सुकृतरूपकारणान्तरसिन्नधानेन सदृशाभर्तृलाभरूपकार्यस्य सौकर्यात् समाधिरलङ्गारः " समाधिः कार्यसौकंर्थं कारणान्तरसन्निधेः ’ इति तल्लक्षणं । स्वप्रयत्नरूपकारणं विनापि कार्योत्पत्त्या विभावना वेति तयोस्सन्देहसङ्करः । वसन्तिलकं वृत्तम् । इतः इदानीं पन्थानं प्रतिपह्मस्व मार्गं प्राप्रुहि । किं कालक्षेपेणेति भावः । एषा नवमालिका द्वयोरपि वां सख्योः हस्तनिक्षेपः साक्षात्समर्पितं न्यासवस्तु न्यासवद्गक्षणीयेत्यर्थः । अय जनः सखीजनः इदानीं तृवयि गच्छन्त्यां कस्य हस्तेऽर्पितः तृवि , योगादशरणे स्व इति भावः । विकिरतः नयनाभ्यां वर्षतः । अलं रुदित्वा न रोदितव्यं " अलंखल्वोः प्रतिषेधयोः प्राचां क्त्वा ’ । ननु भवतीभ्यामेव युवाभ्यामेव हि शुकुन्तला स्थिरीकर्तव्या समाश्वासनीया वियुज्य पृथक्प्रवसन्तीस्थानस्थितेन सुहृज्जनेन मनः क्षोभाद्वारणीयेति भावः । उटजपर्यनतचारिणी आश्रमोपकण्ठ एव परिवर्तमाना , तत्र हेतुः गर्भमन्थरा कठोरगर्भतया विश्रान्तप्लुतेत्यर्थः । यदा अनघः अनुपद्रवः प्रसवः गर्ममोक्षो यस्याः सा भवति । तदातत्क्षणमेव ग्रियस्य निवेदयितृ ज्ञापकं किमपि लेखादिकं विसर्जय प्रेषय । भवतु तथैवास्तु । नेदं विस्मरिष्यामः असन्निहिते हि प्रियजने तद्वचनं हदयान्नापैतीति भावः । गतिभङृग चरणोपान्तलग्रेन मृगशिशुना निजगमनप्रतिरीधं । किं नु खलु को वा एषः पुनः प्रतिषिद्धोऽपि भूयो भूयाः । मे निवसनं सजति सम्बघ्राति लग्रो भवतीत्यर्थः । यस्येति । कुशसूचिभिः कुशीग्रैः विद्धे मृदुत्वादग्रासकाले क्षते मृगस्य मुखे वक्त्राभ्यन्तरे व्रणस्य विरोपणं असृक्प्रसरात् प्ररोहहेतुभूतं । इंगुदीनां तापसतरूणां सम्बन्धि तैलं स्त्रेहः । लक्षणयात्न स्त्रोहमात्रपरस्तैलशब्दः । न्यषिच्यत समक्तं । सोयं तथा प्रीतिपात्रं श्यामकानां देवपित्रतिथिप्रयोजनानामपिधान्यानां मुष्टिभिः भूयः कुशसूचिवेधभिया स्वहस्तार्पितैः श्यामाकैरित्यर्थः । परिवर्धितकः अनुकम्पितः परिपुष्टः । " अनुकग्याया ’ मिति कः । पुत्रकुतकः कृन्निमपुनत्रः । मयूरव्यंसकादिः । मूगस्ते पदवीं मार्गे न जहाति न मुञ्चति । तथा संवर्धितः कथं विरहं सहेतेति भावः । किमुत वयमित्यर्थापत्तिर्व्यज्यते । वसन्ततिलकं वृत्तम् । सहवासं त्वया सहावस्थानं परित्यजतीति तां किं कुतोनुसरसिं एवं निस्सनेहामजानन्ननुगच्छसीत्यर्थः । पतिदर्शनोत्सुकानामपि याषितां संस्तुतविप्रलम्भम्समये व्यथां जनयतीति लोकस्थितिरत्र दर्शिशता । अचिरप्रसूतया अभिनवं त्वां प्रसूतवत्या जनन्या मृग्या विनापि मृतायामपि जन्यामित्यर्थः । वर्धित एव पोषित एव । यद्यपि गर्भान्निर्गतमात्रो मातृरहितोऽपि मया त्वं संवध्रित इति युज्यते स्नेहः । तथापीदानीमेवं निर्दयायाः किमनुसरेणेनत्यर्थः । यो मातरमपि विहाय शिशुर्मंया संवर्धितः स मयापि विना सम्प्रति वर्धिष्यसे दैवं हि लोकयात्रां निर्वहति जन्तृनामिति च व्यज्यते । जदेवाह , दाणिं वि इति इदानीं मद्विरहेपि । न्तियिष्यति मत्पुत्रकृतकं न विस्मरिष्यति । रुदती परिचितविप्रयोगाच्छोचन्ती । उत्पक्ष्मणोरिति । उद्गतानि पक्ष्माणि ययोस्तयोः नयनयोरुपरुद्धा प्रतिबद्धा वृत्तिः प्रबृत्तिः प्रसर इति यावत् यस्य तं सान्द्रपक्ष्मणोर्नयनयो पक्ष्मपात उपरुद्धा वृत्तिः प्रबृत्ति प्रसर इति यावत् यस्य तं सान्द्रपक्ष्मणोर्नयनयोः पक्ष्मपात एव हि बहिर्बाष्पप्रसारापरो येन तं नयनयो रिति संबन्धसामान्धे यष्ठी । बृत्त्यन्वयिनी । सापेक्षत्वेपि गमकत्वात्वात्समासः संवृतदृदष्टिप्रसरमित्यर्थः । बाष्यं स्थिरतया धैर्थावष्टंभेन विरतानुबन्धं निवृत्तानुवृत्तिं कुरु यावद्वाष्पो न पतति तावदेव र्धर्यनिश्चलीकृते मनसि पुनरनुद्रमादपतित एव हि पूर्वबाष्पः शुष्यति । प्रकृतिवशादुदद्गच्छन्नपि हि नानुवर्तते शोको धीराणामिति भावः । ननु प्रतिक्रिया नामेयं शोकोत्पीडस्य यद्वाप्पः तदत्रकी दोषः ? तत्राह — अस्मिन्निति । अलक्षिताः बाष्पेण दृष्टिरोधादनुपलब्धाः नता निम्राः उन्नता गाधाश्च भूमिभागाः यस्य तस्मिन्नस्मिन्नारण्यके मार्गे ते तव पदानि पान्यासाः विषमीभवन्ति खलु समबुद्ध्यन्न्यासे न्नारण्यके मार्गे ते तव पदानि पादन्यासाः विषमीभवन्ति खलु समबुद्ध्यान्यासे निम्रेषु पतन्त्युन्नतेषु स्वलन्तीत्यर्थः । वसन्ततिलकं वृत्तम् ॥ ओदकान्तात् आ उदकान्तादिति पदयं जलसमीपावधि स्त्रिग्धो जनः लोकवाक्यमिति शेषः । तदुदकामतिक्रम्य न गन्तव्यं बन्धुभिरित्यर्थः । श्रूयते लोकवाक्यमिति शेषः । तदुकान्तरूपं इदं सरस्तीरं । तत्तस्मादिति वा , प्रतिगन्तुमर्हसीति संवन्धः । अत्र सस्स्तीरे सन्दिश्य राज्ञो वक्तव्यं वाचिकमुक्त्वा प्रतिगन्तुं प्रतिनिवर्तितुमर्हसि । तेन हि सन्देष्टव्यत्वेन हि इमां क्षोरवृक्षस्य न्यप्रोधस्य च्छायां आश्रयामः शिशिरत्वात् प्रामः तत्रभवतो रार्षित्वादभ्यर्हितस्य दुष्यन्तस्य युक्तरूपं प्रशरतं युक्तमस्माभिः सन्देष्टव्यं किं नु खलु स्यात् दुष्यन्तसदृशमस्मदृशं च सन्देष्टव्यमित्यर्थः । चिन्तयति सन्देशप्रकारमिति शेषः । चिन्तावकाशं च सन्देष्टव्यमित्यर्थः । चिन्तयति सन्देशप्रकारमिति शेषः । चिनवकाशं संपादयितुमारयति । जनान्तिकमिति सखीमात्रविदितमित्यर्थः । नलिनीपत्रेण कमलिनीदलमात्रेण न तु देशविप्रकर्षेणेत्यर्थः । अन्तरितं तिरोहितमपि सहचरं पुंश्चक्रवाकं द्वन्द्वरत्वात्सहचरव्यपदेशः । अपश्यन्ती वर्तमानप्रयोगात्तत्क्षणमनवेक्षमाणैव केवलं पूर्वमपि दृष्टवती पश्चादपि द्रक्षयति तथापि सतीत्यर्थः । चक्रचाकी तिर्यग्जातिरपीत्यर्थः । आतुरा अत्कण्ठिता सती आरसत्याक्रन्दति । दुष्करं स्त्रीणामशक्यं भर्तृविरहमर्षणं अहं प्रतिबोधवत्यपि करोमि । मैवं मन्त्नयस्य अहमेव दुष्करं करोमीति न ब्रूहीत्यर्थः । का पुनरन्यापि करो ? तीत्याह । एसावीति । एषापि नलिनीपत्रान्तरितमात्रमपि सहचरमसहमानां चक्रवाकवधूरपि विषादेन विरहशोकेन दीर्घतरांकल्पायमानां रजनीं कृत्स्त्रां रात्रिं अत्यन्तसंयोगे द्वितीया । तातावेकवचनं सर्वा रजनीरित्यर्थः । यः सर्वेषां मदनलीलालास्तं सवंमपीत्यर्थः । प्रियेण विना सहचरं विहाय "" पृथग्विना नानाभस्तृतीयान्यतरस्यां ’’ गमयति यापयत्येव न त्वसहा विपह्मत इत्यर्थः । कुतस्तत् ? उच्यते गुरुअं वीति । अशा समागमाशंसनरूपो बन्धो बन्धनं धारणमिति यावत् । गुरु दुस्सहमपि विरहदुः खं साहयति । क्षणविरहासहैव चक्रवाकी प्राभातिकप्रियसमागमप्रतीक्षया यदि प्रतिनिशं विरहव्ययां सहते किंपुनस्तर्हियावजीवसंगमाशंसिनी कादाचित्कं विप्रम्भमिति भावः । "" आशाबन्धः कुसमसदृशं प्रायशी ह्मङ्गनो हङ्गनानां सद्यः पाति प्रणयि हदयं विप्रयोगे रुणद्धि ’’ इति मेघसंदेशे । आर्या वृत्तम् ॥ त्वया कर्त्रा शकुन्तलां पुरस्कृत्याग्रे निधाय वक्ष्यमाणे श्लोके इदंशब्देन निर्देशानुरोधादिति भावः । मद्वचनात् मद्वक्यमादायेति ल्यब्लोपे पञ्चमी । मामेव वक्तारं प्रदर्श्येत्यर्थंः । स राजा दुष्यन्तः वक्तव्यः ब्रुवो दुहादित्वादप्रधाने कर्मणि प्रयोगः । सन्देशमाह — अस्मानिति । " अस्मदो द्वयोश्चे ’ ति चकारदेकस्मिन्नपि बहुवचनं । अस्मान् साधु सम्यग्विचिन्त्य विमूश्य कर्थभूतान् संयमस्तप एव धनं येषां तान् अर्थपतेस्तवार्थ इव तपोरूपमस्माकमपि धनमस्ति सर्वमेवामीप्सितं साधयितुमिति सदृशः सम्बन्ध इति भावः । आतृमनः सम्बन्धि उच्चैरुत्कृष्टं कुलं रा ? जर्षिवंशं च सम्यग्विचिन्त्य कुलोचितश्चायं सम्बन्ध इति विदित्वेत्यर्थः कथमपि कृच्छ्रात् गुरुजनानुरोधे सत्यापि प्रतिबन्धक इत्यर्थः । " ज्ञातहेतुविवायामप्यादि कथमव्ययं । कथमादि तथाप्यन्तं यत्नगौरवबाढयो ’ रित्युत्पलमाला । अबान्धवकृतां न बान्धवैर्मातापित्रादिभिरुत्पादितां अविद्यमाना आन्धवा यस्मिन् कर्मणि तद्यथा भवति तथा कृतामिति वा । तां तव स्वसंवेद्यां त्वयि विषये अस्याः शकुन्तलायाः स्नेहप्रवृत्तिं रागावतारं च सम्यग्विचिन्त्येत्यनुष्ज्यते स हि गारिमा स्नेहस्य यत्सर्वबान्धवातिरेकेण वर्तनमिति भावः । ततश्च किं कर्तव्यं आह — सामान्येति । इयं शकुन्तला दारेषु धर्मपत्नीषुनिष्ठा व्यपदेशः । यतश्चोच्यते " भिन्नरुचिर्हिलोक ’ इति । अतो न तत्र नियमः । सामान्यप्रतिपत्तिमाखं त्विष्यत इति भावः । कथमिच्छाया एव दरिद्रता विशेषप्रतिपत्तिरेव कुतो नेष्यत इत्याह — भाग्येति । अतः सामान्यप्रतिपत्तेः परमतिरिक्तं वस्तु भाग्ये अनुभवितृभागधेये आयत्तं निघ्रं । सति भाग्ये भवितुर्महति विपर्यये विपर्येतीत्यर्थः । तत् सामान्यप्रतिपत्त्यतिरिक्तं वस्तु वधूबन्धुभिः न खलु वाच्यं इष्यमाणमपि भर्तुः सकाशे न वक्तुं युक्तमित्यर्थः 1 अत्र संयमधनानित्यनेन " शमप्रधानेषु तपोधनेषु गूढं हि दाहात्मकमस्ति तेतः ’ इत्युक्तमनभिभाव्यत्वं , संयमधनानां को विशेष ईध्वरदुर्गतयोः इत्यनपेक्षत्वं च व्यज्यते । उच्चैः कुलमित्यनेन स्वैरवृत्तेः कुलधर्मंप्रतीपत्वं " त्रिलोकनाथेन सता मखद्विषस्त्वया नियम्या ननु दिव्यक्षुषा । स चेत्स्वयं कर्मसधर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः । ’ इति रीत्या धर्मगोप्तुरेव मर्यादालङ्घनं न सम्प्रतीमिति च प्रतीयते । किञ्च " भक्तिः प्रतीक्ष्येषु कुलोकचताते ’ इत्युक्तं कुलोकचतं पूज्यपूजनं कुलोत्तंसेन नातिक्रमणीयमिति च ध्वनितं । तदेवं यदस्मासु समुचितं यच्च तवोचितं तदेवाचरणीयं न तु पृथग्जनेषु पृथग्जनप्रवर्तनमिति च दर्शितं भवति । कथमपीत्येन " गान्धर्वेण विवाहेन बह्ज्यो राजर्षिकन्यकाः ’ " परिग्रहबहुत्वेपि द्वे प्रतिष्टे कुलस्य नः ’ इत्याद्युपच्छन्दनजातमभिसन्धीयते । अबान्धवकृतामित्यनेन प्रेम्णः परमा दशा सूच्यते । उक्तहेतूनामेकैकमपि पर्याप्तमस्यारसम्भावनाय किं पुनस्त्रितयमेव मिलितमिति च गम्यते । दारेष्वित्यनेन धर्मपत्नयां स्वैरवृत्तं न युज्यत इति स्फुटीकृतं सामान्यप्रतिपत्तिपदेन सत्स्वप्यक्तरूपेषु विशेषप्रतिपत्तिनिमित्तेषु धर्मतस्सामान्यप्रतिपत्तिमात्रमिष्यत इति व्यञ्जितं । अतः परमित्यनेन स्वायत्तनायकत्वं महादेवीपदाधिरोहणं पुत्राभिषेचनमित्यादिकमभिसंहितं । वधूबन्धुभिन्रं वाच्यमित्यनेन " द्वे प्रतिष्टे ’ इति प्रतिज्ञातं त्वयैव निर्वोढव्यं यद्यपि नो 1 ़स्माकं विधानाधिकारः इति च स्फुटीकृतं । भाग्यायत्तमित्यनेन सर्वमस्या भविष्यति यद्यपि त्वाया न संविधास्यते इति व्यज्यते … यथा महाभारते शकुन्तलोपाख्याने "" त्वामृतेवि च दुष्यन्तशैलराजावतंसकां । चतुरन्तामिमामुवीं पुत्नो मे पालयिष्यती ’’ ति शकुन्तलाया वाक्यं । यत्तु दारेषु सत्सु सामान्यप्रतिपत्तिपूर्वकं कलत्रान्तरसाम्यज्ञानपुरस्सरमिति व्याखनं , तन्न मनोरमं । दारान्तराणं सत्तया इदानीमविधेयत्वात् सर्वेषु च कलत्रेषु तुल्यरूपस्य प्रीतिप्रकारत्यासम्भवेन कलत्रान्तरसाम्यज्ञानासंभवात् । एतेन बहुकलत्रसंग्रहस्समुचित ज्ञाप्यते इति निरस्तं । अपि च "" तुं भूम्रि दाराः ’’ इति नियतबहुवचनान्ततया विहितस्य दारशब्दस्य बहुत्वावगमहेतुत्वं न युज्यते दारेषु दारेषु मध्य इति निर्धारणसप्तमीव्याख्यानमपि न साम्प्रतं । सामान्यप्रतिपत्तेरन्नवयात् । निर्धाग्णं हि नाम समुदायतः पृथक्करणं यथा नृषु द्विजः श्रेइइति , न चैवं भवति नृषु द्विजो जन्तुरिति । यदपि सेति पृथग्विभज्यसेयं शकुन्तला मान्यप्रतिपत्तिवूर्वकं दृश्या , परं मान्यप्रतिपत्तिव्यतिरिक्तं अभाग्यात्तं , अतो वधृबन्धुभिर्न वाच्यं नाभ्यर्थनीयं इति व्याख्यानं तदतिक्लिष्टम् । तथान्यदपि । शार्दूलविक्रीडितं वृत्तम् ॥ गृहीतः अवधृतः । इदानीं भर्तंर्यनुशिष्टे सति । अनुशासनीया भर्तरि वृत्तिं शिक्षणीयासि । परिणीयासि । परिणीयाप्यद्य यावदसम्भावयितरि भर्तरि वैमनस्यं , विभूतिं वा लब्ध्ध पूज्येष्वनुग्राह्मेषु च प्रतीपवर्तनं मा भूदित्यमुमर्थ स्मृत्यारूढं बोधनी येति भावः । वनं ओकः स्थानं येषां ते सन्तोऽपि अनुनभूतसंसारर्माणोपीति भावः । लोकज्ञा लोकवृत्ताभिज्ञाः " लोकवृत्तं लोक ’ इति वामनः । धीमतां प्रशस्तमतीनां अविषयो नाम अज्ञात इति न खलु नास्ति कश्चिदप्यर्थः । येन न चित्नं लोकज्ञत्वमिति भावः । " प्रत्यक्षे गुरवः स्तुयाः ’ इति न्यायादुक्तं । इतः अस्मत्सकाशात् पतिकुलं भर्तृगृहं प्राप्य अधिष्ठाय गृछिणीत्वाप्येत्यर्थः । शुश्रूषस्वेति । गुरुन् कुलवृद्धान् श्वश्वादीन् गृहागतान् ज्ञानतपोवृद्धांश्च शूश्रूषस्व परिचर । सत्स्वेव परिजनेषु विनयं दंशेयन्ती स्वेनैव गुरुपरिचर्यां विधेत्यर्थः । यथा महाभारते द्रौपदीवचनं "" नित्यमार्यांमहं कुन्तीं वीरसूं सतृयवादिनीं । स्वयं परिचराभ्येनां पानाच्छादनभोजनैः "" इति । " ज्ञाश्रूस्म्दृशं सन ’ इत्यत्मनेपदं । संवको हि स्वामिनियोगं श्रोतुमिच्छतीति श्रुश्रुषापदं संवार्थं । " शुश्रूषा श्रोतुमिच्छायां परिचर्यावधानयो " रिति विश्वः । समानः पतिर्थासां तासां सपत्नीनां जने वर्गे विषये " नित्यं विश्वः । समानः पतिर्यासां तासां सपत्नीनां जने वर्गे विषये " नित्यं सपत्न्यादिष्वि ’ ति निपातनात् साधुः । प्रियसखीषु या या वृत्तिस्तां तुल्यसुख्दुः खतामिति यावत् । कुरु न पुनरीर्ष्यां दर्शयेत्यर्थः । विप्रकृता अपकृता वस्तुत एवान्यसङ्गादिना भत्नां कृतापराधापि रोषणतया क्रोधशीलतया हेतुना भर्तुः प्रतीपं प्रतिकूलं यथा भवति तथा मा स्म गमः न प्रवर्तेर्थाः । किमुतरोषिते दोष " इति भावः । यदा दृष्टापराधेपि निरपराधवदुपसेव्यते तदा स्वात्मनैव गुरुणेव शिक्षितोसौ न भूयोप्यपराधयति । मिथ्यैवापि दर्शितदोषस्तु पुरुषो हठादपि दुष्यतीति नीतिरिह ? दर्शिता । " स्मोत्तरे लङ् च ’ इति चकाराल्लुङ् " न माङ्योग ’ इत्यडागमप्रतिषेधः । परिजने विषये भूयिष्ठं अत्यर्थं दक्षिणा उदरा भव न कश्चिन्नापराध्यतीति मतृवा सापराधेपि क्षान्ता निरपराधे च प्रसन्ना भवेत्यर्थः । भाग्येषु महादेवीत्वपुत्राभिषेकादिरूपेष्वभ्युदवेषु बहुष्वपि सत्सु अनुत्सेकिनी अनुत्सेकिनी अगार्वेता भव । न खलु धीरा प्रकृतिरनित्यैरभ्युदयैस्संक्षीस्संक्षीभमुयाति अल्याशयानां ह्मणुरपि विशेषो महानिव विकाराय स्यादिति भावः । एवमुक्तः प्रकारैः युवतयो बालवयसोऽपि योषितः गृहमसया अस्तीति गृहिणी गृहस्वामिनी तस्याः पदं स्थानं यान्ति गच्छन्ति उक्ताशेषविशेषोपेतं हि श्रीमतां गृहं । यदेतेषामितरेतरानुपरोधेन प्रवतंनं सः गृहिणीधर्मंः । नचायमजितात्मनां सुकर इति भावः । वामाः अतो विपरीतवर्तिन्यो नार्यः कुलस्य गृहस्याधयः मनोव्यथाः यथा ह्माधिरविकलमपि करणकलेबरमवसादयति तथा स्वदोषेण कुदुम्बमेवं दूषयन्तीत्यर्थः । एतेन " मूर्धानं पत्युरोह प्रजया च विराड्भव संराज्ञी श्वशुरे भव संराज्ञो श्वश्रुवां भव ननान्दरि संराज्ञी भव संराज्ञी अधि देवृषु पतीनां च देवृणां च सजातानां विराइभव ’ इति श्रुत्युक्तं गुणोपपादितं सर्वकुटुम्बप्रतीक्ष्यत्वं पतिकुमारभाग्योदयश्च भावी प्रतीयते । धन्तश्शरीरगत एव हि सन्नाधिशशरीरमशेषेण शोषयति तथान्तर्गृहगता एव वामाः स्त्रयः कुलमेवाकुलयन्तीत्युपमया वस्तुघ्वनिः । शार्दूलविक्रीडितं वृत्तम् । गौतमीति । स्त्रीधर्मे हि स्त्रियः प्रमाणं प्रमाणं । तपोवृद्धा च गोतमीति तदनुयोगः । एतावानेतत्प्रमाण एव वधूजनस्य युवतिजनस्य स्नुषाजनस्य वा स्नुषाभावमुपेष्यतो जनस्येत्यर्थः । अन्यपनानतिरिक्तं भगवतैवोणदिष्टं यतो नास्ति वक्तव्यमन्येषामिति भावः । अवधारय न विस्मर इतः । श्रत्रैवोदकान्ते प्रियंवदामिरे सख्यौ प्रियंवदा चानमूया च अत्र नाटके प्रियंवदायाः प्रगलभतृवं तस्या वचक्रमेण दुर्वासः प्रसादनादिषु दुष्करसाधनेषु चावसीयते श्रत उक्तं प्रियंवदा मिरे इति । किं निवार्तिष्येते येन परिष्वङ्ग इति । पतिगृहं यावदपि नानुगमिष्यतः किमित्यर्थः । अविसूष्टदूते राज्ञि साशङ्कायाः शकुन्तलायाः प्रियंवदयानुगतया सवां सुविहितं स्यादिति द्वदयं । इमे अपि प्रियंवदा चानसूया च प्रदेये कन्याभावात् कस्मै चिद्वराय प्रदानार्हे । तत्र गन्तुं परगृहगमनं न युक्तं पितृगृहादन्यत्र गमनं हि कन्यानामनुचितमिति भावः । गौतमी यास्यति नत्वेकाकिन्या गन्तव्यमिति भावः । तातस्याङ्कादुत्सङ्गात् परिभ्रष्ट च्युता दूरगतेत्यर्थः । मलयस्य स्वाभिवृद्धिस्थानस्य तटात् सानोः उन्मूलिता उत्खाता चन्दनलतेव उपमानस्याभिन्नलिङ्गस्वार्थं लताशब्दः कविसमयात् प्रयुक्तः । कथं जीवितं धारयिष्ये । का कथा भोगानामिति भावः । अभिजनवत इति । वत्से अभिजनवतः प्रशस्ताभिजनस्य चन्द्रवंशप्रसूतत्वान्महाकुलीनस्येति यावत् । भर्तुस्म्बन्धिनि श्लाष्ये राजर्पिमहिषीत्वात् सर्वश्लाधनीये गृहिणोपदे गृहस्वामिनीस्थाने विभवेन ऐश्वर्येण गुरुभिर्मद्भिः पृथग्जनदुर्वहैरित्यर्थः । तस्य भर्तुः कृत्यैः आयव्ययचिन्तनानुजीविभरणकृताकृतावेक्षणपूज्यपूजनपात्रप्रतिपादनादिभिः प्रतिक्षणं प्रतिकलं आकुला व्यग्रा अविश्रान्त व्यापारेति यावत् । तथा च महाभारते द्रौपदीसत्यभाववादे द्रौपदीवचनं " सर्वं राज्ञः समुदयमायं च वय्यमेव च । एकाहं वेह्मि कल्याणि ’ इति " तमहं भारमासक्तमनाधृष्यं दुरात्मभिः । सुखं सर्वं परित्यज्य रात्र्यहानि धटामि वै ’ इति च । अचिरात् कठोरगर्भतया स्वल्पेनेव कालेन प्राची पूर्वा दिगर्कमिव पावनं उभयकुलोत्तारकं अनेन पुनातीति पुत्र ति व्युत्पत्तिः स्सार्यते । तनयं प्रसूय जनयित्वा मम विरहजां शुचं त्वं न गणयिष्यसि न स्मरिष्यसि । नास्ति हि भर्त्रा सदृशः पुरन्घ्रीणां बन्धुरन्यः स च सर्वथा विशिष्टः तत्संगम एव प्रथमं श्रेयः । तत्रापि गृहिणीपदं ततश्च गुणनुरोधात् कृत्येषु भर्तुस्साचिव्यं । ततोपि पुत्रलाभ इत्यभ्युदयपरंपरा शैशवोचितपितृसन्निधिविगमं स्मर्तुमवरं न यच्छेदिति भावः । प्राचीवार्कमित्युपमया सुखप्रसवः कुमारस्य निसर्गतेजस्वित्वं लोकप्रतीक्ष्यत्वमित्यादिकं वस्तु व्यजृयते । अपि च सूर्योदयात् पूर्वं यथा प्राची तमसा वृता न प्रकाशते तथा पुत्रोदयात् पूर्वं दुष्यन्तस्य शापमोहादप्रकाशत्वं शकुन्तलाया वक्तृविवक्षानारूढमपि गर्भितं भवति । हरिणी वृत्तम् ॥ यदिच्छसि यद्यदिभलषसि तत् सर्वं ते अस्तु सम्पद्यतां । द्वे अपि युषां समं युगपत् । परिष्वजेथां आलिङ्गतं । सममिति तुल्यस्नेहदर्शनार्थ प्रत्यभिज्ञाने पूर्ववृत्तस्मरणे मन्थरः अक्षमः यदि भवेत् एतावन्तं कालं सन्देशमात्रस्याप्यविसर्जनादिति भावः । दुर्वासः शापस्तु हृदिस्थः । स्वेन राजकीयेन नामधेयेनाङ्कितं अङ्गुलीयकं तेनैव राज्ञा त्वदङ्गुलौ निवेशितं दर्शयः । येनावश्यस्मर्तव्यं भवतीति भावः । शपमोचनं चाभिप्रायस्थं चाभिप्रायस्थं । अनेन सन्देहेन प्रत्यभिज्ञालोपसंशयेन आम्पिता भीतास्मि । किं नाम विस्मृतिनिमितृतं युवयोर्विदितं किमपि भवेदिति भावः । अतिस्नेहः पापमनिष्टं शङ्कते इति तथाविधः । स्निग्धगतं पापशङ्कनं प्रमाधान्यात् स्नेह उपचर्यते । न हि वस्तुतो निमित्तमस्ति विदितं स्नेहातिशयस्त्वसदप्यनिष्टमुपस्थापयतीति भावः । युगान्तरं गुणप्रमाणमवकाशं युगस्यान्तरमिति समासः । अधिरूढः प्राचीमूलादूर्ध्वं गतः । युगप्रमाणं च दृष्टिप्रहणानुरोधात्तथा लोकव्यवहाराच्चोक्तं । त्वरतां अविलम्बं प्रतिष्ठतां । भूयः पुनरपि । श्रूयतां यदा द्रक्ष्यसि स काल उच्यमान आकर्ण्यताम् । भूत्वेति । चिराय दीर्घं कालं चत्वारः समुद्ररूपा अन्ताः सीमानो यस्यास्तस्या मह्माः सपत्नी भूत्वा अनेन भर्तृरभंगुरुरं सार्वभौमत्वं दम्यत्योश्च दीर्घमायुः प्रतीयते । महीसपत्नीशब्देन भर्तृबहुमानातिशयलक्षणमग्रमहिषीत्वं व्यज्यते । दुष्यन्तस्यापत्वं पुमान् दौष्यन्तिः बाह्वादेराकृतिगणत्वादिञ् " ऋष्यन्धकवृष्णिकुरुभ्यश्चे ’ त्यणोपवादः तं । दौष्यन्तमिति पाठन्तरं । अविद्यमानः प्रतिरथः प्रतिकूलो रथिको यस्य तं निस्सपत्नमित्यर्थः । रथशब्दादशंआद्यच् , तथा च महाभारते रथमहारथादिशब्दैरथिव्यपदेशः । तनयं त्वदात्मजं निवेश्य निवेश्य विवाह्म प्रसूयेत्यपपाठः । करोरगर्भायाः प्रसवस्य चिरातिक्रमासम्भवात् प्रसवानुपदमेव कुदुम्बार्पणानौचित्याच्च । तस्मिंस्त्वत्तनये अर्पितो न्यस्तः कुटुम्बस्य राजयपस्य भरो भरणं येन तेन भर्त्रा सार्धं शान्ते तपोयोग्ये अस्मिन्नाश्रमे पुनः पदं पादन्यासं करिष्यसि । राजमहिष्याः पुत्नाभिषेचनात् पूवर्ं र्कां का कथा वनगमनस्थेति भावः । " गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रत ’ मितिवदिक राजर्षेस्तर्पोवनसंवर्धितायाश्च पश्चात्तपोवनमेव श्रिमभूमिरिति सूचितं । भर्त्रा सार्धंमित्यप्रधानतृतीययाअस्मिन्निति स्वाश्रमनिर्देशने च धर्माचरेणेपि शक्रन्तलामनोनुरोधित्वंरिज्ञो दर्शितं । वसन्ततिकलं वृत्तम् ॥ गमनवेला गमनकालः परिहीयते न्यूनो भवति दूरं गन्तव्यं अत्रैव च कालातिलङ्घने दिनस्य शिष्टांशः गन्तुं न पर्याप्त इति भावः । निवर्तय तावद्वचनादेव निवर्तेतेति भावः । शैशवात् प्रथमविरहाच्च शकुनतला न त्यक्तुमिच्छेदिति तमेवाह — अह वा इति । पुनः पुनः नवं नवं किमप्युपेक्ष्य एवमनेन प्रकारोण मन्त्रयिष्यते विरहाक्षमतया वदिष्यति न तु वकृतव्यावश्यंभावादिति भावः । तपसश्चरणेनानुष्टानेन पीडितं प्रथममेव कर्शितं । मम कृते मदर्थं मामुद्दिश्येत्यर्थः । भूयोपि अधिकतरं उत्काण्ठितं विरहपीङ्तिम् । शममिति । वत्से त्वया रचितपूर्वं परिकल्पितं बल्यर्थमुप्तमित्यर्थः । उटजस्य द्वारे द्वाराभ्यर्णदेशे विरूढं विशेषेर्णाकुरपल्लवादिभिरभिवृद्धं नीवारबलिं तृणधान्यरूपं देवपित्रादिपूजोपकरणद्रव्यं विलोकयतः उटजाङ्गनस्थत्वादेव मुहुः पश्यतो मे शोकस्त्वद्विरहदुः खं कथं शममेष्यति त्वया विरहितस्याश्रमे सर्वमेव त्वतृसम्बन्धि दृश्यमानं सन्दीपनमेव शोकस्येत्यर्थः । आर्या वृत्तम् ॥ ते पन्थानः गन्तव्या मार्गाः शिवाः सुखाः सुखाः सन्तु समीहितार्थंसंपत्तिरेव मार्गाणां सुखत्वं । सहयायिनः शार्ङ्गरवादयः । वनारज्या वनपङ्क्या अविरलेन वनेनेत्यर्थः । अन्तरिता व्यवहिता दूरद्वर्शनमपि न भवतीति भावः । वां सहचारिणो चिरायावियुक्ता सखी गतवती । कि ? मतिक्रान्ते चिन्तयेति भावः । सहधर्मचारिणीति पाठान्तरं । शोकं विरहखेदं निगृह्म बुद्ध्या नियम्य । शून्यमिव विजनमिव यद्यप्येकया शकुन्तलया त्यक्तमिति भावः । स्नेहवृत्तिः प्रेभ्यो गतिः एवं पश्यतीत्येवं दर्शिनी एकेनैव संपन्नमेकेनैव च विना शून्यं च प्रीतिः प्रकाशयतीत्यर्थः । स्नेहवृत्तेः प्राधान्यात् कर्तृत्वोपचारः । सविमर्शं सविवेकं आत्मनः प्रसादस्यात्मनैवोपलब्धस्य निमितृतमनुचित्येत्यर्थः । हन्त भी इति हर्षे । शकुन्तलां प्रतिविसूज्य न्यासमिव स्वामिने प्रत्यर्प्यं । स्थितस्येति शेषः । तेन न समानकर्तृकत्वाहानिः । मे मनो निर्वृतं प्रसन्नं । किमयमुत्सवकाले शोकइति भावः । ननु कथमातृमदुहितुः परगृहप्रेषणं प्रतिविसर्जनं स्यात् आह — अर्थ इति । हि यस्मात् कारणातृ कन्या नाम परकीयः परिग्रहीतृसमृबन्ध्येवार्थः द्रव्यं । तस्मात्तां कन्यां परिग्रहीतृस्वभूतां परिग्रहीतुः संप्रेष्य सम्बन्धसामान्ये षष्ठी । स्वामभिनो वशमुपनीय ममायमन्तराशत्म प्रत्यर्पितः पुनर्निक्षेप्तृसात्कृतः न्यस्यतः इति न्यासः निक्षिप्तद्रव्यं येन स इव अद्य शकुन्तलाप्रेषणानन्तरं प्रकाममत्यर्थं विशदः प्रसननः जातः । संवृत्तः । परिग्रहीतृचित्तया पूर्वमेव तु कलुषमासीदिति भावः । अन्तरातृमनः प्राधान्यात् कन्यासंप्रेषणन्यासप्रत्यर्पणयोः कर्तृत्वोपचारः । अतिक्रानते धैर्यावलम्बनं धोराणां प्रकृतिरिति चानेन चयज्यते । ॥ इति शाकुन्तलव्याख्याने सहृदयसमाख्याने चतुर्थोऽङ्कः ॥ ? 0 ________ 0 ________? 0 ? 0 ॐ ? 0 ॥ अथ पञ्चमाङ्कव्याख्याप्रारम्भः ॥ ? 0 ? 0 तपोवनमेव रङ्गमादाय चतुर्भिरङ्कैर्निर्व्यूढमंशः क्थावस्तु । राजकुलं पुनराश्रित्य शेषः प्रवर्तंते । त् ? त्र च शकुन्तला पित्ना प्रहिता भर्तृः सकाशं प्रस्थितेति चतुर्थाङ्के गतं । अथ च " दूराध्वान ’ मित्यादि निषेधात् पात्रनिष्क्रमं विधाय भर्तृ गृहप्राप्तिं प्रस्तोतुं रजविदूषकयोरङ्कार्थयोरेव प्रवेशमङ्कावतारेणारभते । ततः प्रविशतीत्यादिना । अङ्कावतारलक्षणमुक्तं भावप्रकाशे " अङ्कावतारस्त्वङ्कानते पातोङ्कस्याविभागतः । पूर्वाङ्कस्यावानेक्तकथाविच्छेदपूर्वकं । प्रवेशो भाविनोङ्कस्य सोङ्कावतरइष्यते । ’ इति विदूषकश्च आसनस्थ आसनस्थ इत्यनुषज्यते । कर्णं दत्वा किञ्चिदिव श्रूयमाणमभिनीय । सङ्गीतशाला ना राज्ञो नृचगीतादिपरिभोगाय निर्मितं शिल्पिनीवादित्रादिसम्भृतं स्थानं तस्या अन्तरे अन्यतन्प्रदेशे , अवधानं देहि शुश्रूषां प्रवर्तय । स्त्रीकण्ठः काकलीत्वादभ्यन्तरगतवाच्च दूरे स्फुअं न विभाव्यत इत्युक्तमवधानिमिति । कलाया अव्यक्तमधुरायाः " ध्वनौ तु मधुरास्फुटे । कल ’ इत्यमरः । विशुद्धाया अवक्त्रललितस्वरायाः । तदुक्तं गीतयः पञ्च शुद्धाद्या भिन्ना गीढी च वेसरा । साधारणी विशुद्वा स्यादवक्रैर्ललितैः स्वरैः । अखण्डितस्थितिः स्थानत्रये गौडी मता सतां । वेगवद्भिः स्वरैर्वर्णचतुष्केप्यतिरक्तितः । वेगस्वरा रागीतिर्वेसरा चोच्यते बुधैः । चतुर्गी ? तिगतं लक्ष्म श्रिता साधारणी मता ’ इतिभावप्रकाशे च " यथाश्रुति भवाश्शुद्धरगा इति समोरिताः । भिन्नादिकाः क्रमभवा गौढरागाः प्रकीर्तिताः । अधिकन्यूनसंमृष्टिमया वेसरसंज्ञिताः । ? भिन्नन्यूनोपगमनोद्भिन्नरागा इति स्मृताः । साधारणा भवेयुश्च भिन्नन्यूना ? धिकाल्पकाः । " इति । स्त्रीगीतित्वेनात्र शुद्धत्वं । गीतेः गेयप्रबन्धस्येव ऊहार्थ इव शब्दः । स् ? वरसंयोगः षइजाद्यारोहावरोहनियमरूपः सम्बन्धविशेषः । हंसपदिकाया राजाश्रयात्तत्रभवतीत्युपचारो विदूषकस्य । हंसपदिका नाम भोगिनी राज्ञः । वर्णस्य स्थाय्यदिस्वरसन्दर्भ विशेषस्य परिचयं परिशीलनं । तदुक्तं " वर्णः स्वरसमूहः स्यात् ’ इति 1 वर्ण्यते व्यक्तिमानीयते रागः अनेनेति वर्णः । यावादाकर्णयामि श्राष्यामि अतस्तष्णीं भवेति सम्बन्धः । आकशे रङ्गादन्यत्र गीयत इति भावे । अभिनवेति । हे मधुकर भ्रमर अभिनवे मधुनि मकरन्दे अननुभूतपूर्वे नानाकुसुमसम्बन्धिनीत्यर्थः । लोकलुपः चपलः त्वं चूतमञ्जरीं तदात्वोन्मीलितां चूतलतां तथा तेन प्रकारेण अनन्यपरत्वेनेत्यर्थः । परिचुम्बय आस्वाद्य कमलमेव वसतिः वासगृहं तन्मात्रेण निर्वतः सन्तुष्टः सन् एनां तथाभिमतां अनुभूतपूर्वां चूतमञ्जरीं कथं विस्मृतोऽसि । स्त्रीत्वव्यञ्जनाय वसतिशब्दः । यः कमलवसतिमपि विहाय चूतमञ्जर्यां प्रत्यग्रकुसुमितया विलोकभितोऽसि स एवैनां सम्प्रति न स्मरस्यपीति भावः । मधुकरेत्यनेन मदात् स्वैरवृत्तं सूच्यते । भिनावयौवनां मां यः प्रथमं शुद्धान्तमपि परित्यज्य तरित्यज्य तथा रागादनुभूतवानसि स एवेदानीं शुद्धान्तसन्तुष्टो न चिन्तयसीति प्रकृतार्थप्रकाशनाप्रस्तुतप्रशंसालङ्कारः । अत्र शकुन्तलां पूर्वमनुभृय सम्प्रति विस्मृत इति च प्रतीयते । परिचुम्ब्येत्युप भोगस्योपलक्षणं । अत्र शकुन्तलावृत्तान्तस्य विवक्षानारूदतया ध्वनिरेव " आगन्तुकेन भावेन यदिभिव्यक्तिकारकं । वस्तुनो भाव्यवस्थस्य पताकास्थानकं तु तत् । अतीतानागते कार्ये कथ्येते यत्र वस्तुनः । अन्यापदेशव्याजेन पताकासथानकं तु तदि ’ त्युक्तलक्षणं पताकास्थानकम् । अपरवकं वृत्तम् । अहो इति हर्षे । रागं स् ? वरसन्दर्भविशेषं परिवाहयति प्रबन्धातिरिक्तमनुवर्तयतीति रागपरिवाहिणीं अनुरणनुवृत्तरागेत्यर्थः अक्षरार्थः प्राकरणिकार्यः यस्य विवक्षया गीतिः प्रवृत्तेत्यर्थंः । अथयं जनः हंसपदिका सकृदेकवारं कृतः मया विहितः प्रणयः परिचयः भोग इति यावत् यसय सः पश्चदनुलालित इति भावः । अथ वा अयं जनः अहं कृतः प्रणयो हंसपदिकापरिचयो येन सः । तत् भूयोऽप्यसम्भावनात् वसुमी ना देवीं महिर्षी अन्तरेणापदिश्य विषयाकृत्येति यावत् । अस्या हंसपदिकायास्सम्बन्धिनं मम कर्मणः उपालम्भमपराधूसचनं अवगतोऽस्मि गीतेरक्षरार्थं ज्ञातवानस्मि । तथा चात्र मधुकरशब्देन मत्सम्बोधनं चूतमञ्जरीमिति हंसपदिकायाः स् ? वात्मोपक्षेपः कमलवसतिपदेन वसुमतीदेव्या श्रापदेशः इत्यमक्षरार्थं इति भावः । अत्र कमलवसतिपदेन राज्याधिकारः प्रत्यय्यते । अतश्च देवीं वसुमतीमन्तरेणेत्युच्यत इति केचिदाहुः । तदेतत् " परिग्रहबहुत्वेपि ’ बहुवल्लभा राजानः ’ इत्यादिदर्शनाद्राजृयविषये हंसप ? दिकाया ईर्ष्यामानस्य स्वरसविरोधाच्च न चतुरश्रं माठव्येति विदूषकनामग्रहणं । मद्वचनात् मदीयंवाक्यमादाय " ल्यब्लोपे पञ्चमी ’ मामेव वक्तारं प्रकृत्येत्यर्थः । निपुणं अन्यापदे शाच्चतुरं उपालब्धेऽस्मीत्युच्यतामिति सम्बन्धः । तया हंसपदिकया प्रयोजिकया प्रयोजिकया परकीयैः प्रयोज्यसम्बन्धिभिः हस्तैः शिखण्डके अल्पे शिखाजूटे " अल्पार्थे कप्र त्ययः ’ गृहीतस्य हंसपदिकापरिजनगृहीतस्येत्स्यैत्यर्थः । " पञ्चभिर्हलैः कर्षति ग्रमामान् ग्रामणी " रित्यादिवत्प्रयोजत्यकर्तृकेपि फलस्वाम्यात् प्रयोजकस्य कर्तृत्वोपचारः । अप्सरसा गृहीतस्य वशीकृततस्य वीततरागस्य मुनेरिव मोक्षः मोचनं निर्वाणं च नास्ति । अप्सरोवशंवदस्य वीतरागस्यापि रागोपरागात् संसरतो यथा न निर्वाणसिद्धिः तथा ममाप्यनागरिकस्य हास्थरसिकानां नागरिकवधूनां ग्रहणोपेतस्य नैव स्याद्विमोचनमिति भावः । एकवचनान्तस्याप्सरश्शब्दस्य साधुत्वे प्रमाणमवोचाम । " तत्रावश्यं वलयकुलिशोद्धट्टनोद्गीर्णतोयं नेष्यन्ति त्वां सुरायुवयतो यन्त्रधारागृहत्वं । ताभ्यो मोक्षस्तव यदि सखे धर्मलब्धस्य न स्यातृ क्रीडालोला श्रवणपरुषैर्गजिंतैभींषयेथाः ’ । इत्यादिषु व्यक्तं नागरिंकाङ्गनानां क्रीडापरत्वं अत्र त्वद्वचनाद्वदन्नहं तव प्रतिनिधीकृतृय त्वदपराधस्य कृते दण्डितः स्यामित्यपि विवक्षितं । नागरिकवृत्त्या विदग्धरोत्या प्रशस्तवेषभाषादिस्वीकारेणेत्यर्थः । संज्ञपय निवेदय । ज्ञपेर्मित्वादबृद्धिः । न हि नागररिकवृत्तिरुपहासास्पदं भवतीति भावः । का गतिः अनिच्छयापि र्क्त्रव्यमेव जातमित्यर्थः । अत्र विदूषकसन्निधौ शकुन्तलाप्रतृयादेशो न युज्येत स्वयं हि राज्ञा तस्मै स्वानुरागो निवेदितः अतो व्याजेन विदूषको निर्गमिः । विदूषकेणाग्रे ’ परिहासविजल्पित ’ मिति राजवचनं परमार्थंमवगतवता स्वेन कथान्तरेष्वप्रसञ्जनस्य समर्थनेपि कति प्रसङ्गे यथारुतमुक्तमेव हि विदूषकेण सर्वं स्यातृ । किं नु खलु किं नामेदं । यत् पुनः एवंविधार्थं मधुकरोपालम्भविषयं । इष्टजनविराहादृतेपि असत्यपि असत्यपि प्रियावियोग इत्यर्थः " अन्यारादितरर्तं ’ इतृयादिना पञ्चमी । बलवदुत्कण्ठितः विरहादुन्मना अस्मि । तदेत् किं नु खल्विति सम्बन्धः । असति कारेणे कार्यमचिन्त्यसम्भवमिति भावः । " चिन्ता तु स्मृतिराध्यानं स्मरणं सस्मरणं सस्पृहे पुनः । उत्कण्ठोत्कलिके तस्मिन्नि ’ ति शब्दार्णवः । रम्या ? णीति । सुखितः प्रियविरहादेर्दुखहेतोरभावेन निर्वृतचितोऽपि जन्तुर्जनः रम्याणि दर्शनीयानि वस्तृनि सरित्समुद्रचन्द्रतारकादीनि वीक्ष्य दृष्ट्वा च मधुरान् श्रोत्रसुखन् शब्दान् तन्खीकण्ठस्वनान् निशम्य श्रुत्वा च पर्युत्सुकः अलब्धलिप्साक्षुभितः भवतीति यत् तत् पर्युत्सुकत्वं भावेन भावनाख्येन संस्कारेणस्थिराणि शरीरापायेऽप्यनपेतानि जननान्तरसौद्वदानि जन्यजन्मसम्मूतान् स्त्रेहान् चेतसा केवलेन मनसा अबोधपूर्वं इदमित्थमिति विवेकपूर्वं यथा न भवति तथा स्मरति स्मरणरूपं तदित्यन्वयः भावप्रधानमाख्यातमिति हि शाब्दिकाः । अन्येतु यत्तदोर्यदातदेत्यर्थः । तथा च यदा पर्युत्सुका भवति । तदा स्मरतीति व्याचक्षते । यत्तु पर्युत्सुको भवतीति यत्तस्मात् स्मरतीति व्याख्यानं तदिदं न समञ्जसं । सुखितस्याप्योत्सुकयं किं निबन्धनमिति हि निर्णयः प्रकृतः तत्र च कारणमेव वकृतव्यं न पुनः फलमिति । नृनमिति सम्भावनायां असति निमित्तान्तरे परिशेषादिदं स्म्भाव्यत इत्यर्थः । अयमाशयः उद्दीपनं हि विरहिणामेवीपप्लवाय भवति । प्रत्युतेतरेषां भोगाय सम्पद्यते । एवं स्थिते यदहमिदानीमननुभूतविप्रलम्भोपि पर्युत्सुकोस्मि । जन्मान्तरसंस्तुतविरहेणात्र हेतुना भवितव्यं । जन्मान्तरसंसतवश्च मनोमात्रसंवेद्यः " मनो हि जन्मान्तरसङ्गतिज्ञ ’ मित्युक्तं । नीत्विदमित्थमिति विवेक्तुं शक्यः यथा हि कस्य चित् क्वचिदेव स्वरसतः प्रवृत्तिर्द्दश्यते सा च कारणान्तरेष्वनाश्वसन्ती जननान्तरवासनामेव परिशिष्यमाणामुपजीवति । तथै तदपि किञ्चिदातृमसंवेद्यं भवितुमर्हतीति । शापान्तरीतत्वाज्जन्मातरीयानुभंगवद्वसनाशेषं शकुन्तुलासङ्गतमिति दर्शितमनेन । वसन्ततिलकं वृत्तम् । पर्थाकुलः संक्षुभितमनाः । निश्वस्येति दुः खानुभाव इक्तः । अहो नु खल्वितिनिपातसमुदायो दुः खव्यञ्जनः । ईदृशीमनुभूयमानप्रकारां दशां परिणति रूपामवस्थां । दशादीषं दर्शयति । आचार इति । या वेत्रयष्टिः आचारः परंपराप्रासमधिकारलक्षणितिहेतोर्मया अवहितेन यत्नादविस्मरता सता राज्ञः अवरोधगृहेषु अन्तः पुरसइनि " गृहाः पुंसि च भूम्न्येवे ’ त्यभिधानाद्वहुवचनं । गृहीता धृता न त्ववरोधादन्यत्र अनुपयोगादिति भावः । सैवे वेत्रयष्टिबंहूनां पूरणे बहुतिथे " तस्य पूरणे डट् ,’ " बहुयूपगणसंधस्य तिथुक् " । काले गते अतिक्रान्ते सति प्रसथाने देशान्तरगमने विक्कबा असमर्था गतिर्यस्य तस्य मन अवलम्बनार्था जाता अवष्टमृभप्रयोना संवृत्ता । पूर्वमाचभूता संप्रति त्वाधारतां गता , यथा न शक्यं विस्मर्तुमिति भावः । कालजीर्णं हि सर्वमन्यदेव भवतीति सामान्यं वस्तु व्यज्यते । तेन च प्रकृतिशेषसमथ्रनरूपार्थान्तरन्यासालङ्कारध्वनिः । अवम्बनार्थमिति पाठे क्रियाविशेषणं । वसन्ततिलकं वृत्तम्। धर्मः प्रतीक्ष्यभक्यादिः क्षत्रधर्म एव कार्यमवश्यकर्तव्यं देवस्य राज्ञः कामं खल्वनतिपात्यं यद्यपि कृच्छ्रेप्यनतिक्रमणीयं " अकामानुमतौ काम " मिति ह्मुक्तं , " कृत्यानां कर्तरिवे ’ ति षष्ठी । धर्मासनाद्व्यवहारासनात् इदनीं तत्क्षणमेव उत्थिताथ अविश्रान्तायेत्यर्थः । पुनरुपरोधकारि श्रान्तस्यापि निर्बन्धरमापहं । निवेदयर्तुं कथयितुं नोतृसहे नेच्छामि । अनिच्छयापि निवेदनमपरिहार्यमेवत्याह । अथ वेति । लीकस्य तन्त्नः प्रवर्तनं तत्राधिकारः स्वाभ्यं अविश्रमः असम्भवद्विराम एव । न हि जगत्प्रभुत्वं विश्रमसहं स्यात् अतो निदेदनीयमेवेति भावः । उक्तमर्थं निदर्शयति । भानुरिति । भानुः सूर्यः सकृदेकवारं सर्गादावित्यर्थंः । युक्ततुरङ्गः वियुकृतयुग्य एव युग्यमोक्षणस्याप्यलब्धावकाश इत्यर्थः । कोवसरो विश्रमस्येति भावः । तथा गन्धवहो वायुः रात्रिंदिवं रात्नै च दिवा च ’ अचतुरे " त्यादिना निपातितो रात्रिंदिवशब्दः । अविश्ररन्तमित्यर्थः । प्रयाति वाति सदागतित्वादिति भावः । एवं शेषः सदा सन्ततमेव आहितो राज्ञापोपीत्यर्थः । एषः अविश्रमो धर्मः अवर्जनीय इत्यर्थः । यथा क्रमेण मेरुमभितः परिक्रमन् स्वापप्रबोधक्रियासमभिहारेण लोकमेव धिनोति भानुः , यथा चोछ्वासनिश्वासादिभिर्वर्षातपतुषारादिभि श्चान्तर्बहिर्वृत्तितभिरनिलः कृत्स्नं बिभर्ति , यथा च भुवमेव शिरसि निहितां शेषो बिभर्ति , यदि चैतेषामन्यतमो विश्राम्येत् जगदेवोत्सीदेत् , तथेति भावः । " गुणोत्कृष्टष्टैः समीकृत्य वचोन्या तुल्ययोगिता ’ इत्युक्तलक्षणस्तुल्योगिताभेदः । अविश्रमरूपैकधर्मान्वयात् । इन्द्रवज्रावृत्तम् ॥ नियोगं स्वाधिकारं निवेदनरूपं यावदनुतिष्ठामि करिष्यामि । किं परिजनस्य प्रभुवृत्तिचिन्तयेति भावः ॥ एष देव इति । निषेवत इत्यग्रिमेण सम्बन्धः । प्रजा इति । प्रजाः जनान् स्वाः आत्मीयाः प्रजाः सन्तानानिव " प्रजा स्यात् सन्ततौ जन ’ इत्यमरः । तन्त्रयित्वा धारयित्वा अर्थिप्रत्यर्थिव्यवहारनिर्णयेन मर्यादायां स्थापयित्वेत्यर्थ। तन्त्रः कुटुमृबधारणार्थोऽपि कर्मान्तरसमभिव्याहारादिह धारणमात्रार्थः । कुटुम्बेति धात्वन्तरमिति तु चान्द्रमतं । अपत्य निर्विशेषं परिपाल्पेत्यर्थः । शान्तमनाः अव्याक्षिप्तचितस्सन् श्रान्तेति पाठान्तरं । विविक्तं विजनं निषेवते विश्रमार्थं प्राप्रोति । स हि महापुरुषाणां स्वो भावः यद्यथाकालं क्रियामयत्वमनुपदं चाक्रियत्वं चेतसो नटवदिति व्यञ्चियिर्तु शान्तमना इति विशेषणं । तद्यथा , यूथानि करिणोकलभादिमयान् स्ववर्गान् सञ्चार्यं स्त्रानपानघासाद्यर्थं तत्न तत्र नीत्वा दिवा मर्ध्यदिने रविणा कठोरेण सूर्येणा प्रतप्तः । यावद्यथसञ्चारं सोएताप इति भावः । द्विपेन्द्रो पूथपतिः शीतं सन्तापरहितं स्थानं तरुमूलाद्रिप्रदेशमिव । स ह्मेलकालीच्छायां निषेवत इति भावः । अनया चोपमया चोपमया प्रभोरघृघ्वमिभिगम्यत्वं च व्यज्यते । जपजार्तिर्वृत्तम् । एते सन्निकर्षस्थिता , हिमवतो गिरेरुषत्यकारण्ये आसन्नवर्तिनि तपोवन बसन्तीति तथाभूताः " उपाधिभ्यां त्यकन्नामन्नाधिरूडयो ’ रित्युनशासनं । ’ उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका ’ इत्यत्राद्रेरिति परिचायकामत्रं न तु प्रवृत्तिनिमित्तप्रविष्टं , ततश्च न हिमवत्पदान्वयविरोधः । हिमवद्गिरेरिति तु पाठान्तरं । हिमवतो गिरेरिति चान्यत्र । काश्यपस्य कण्वस्य सन्देशं वाचिकमादय निमिचीकृतृय । सस्रीकाः तपस्विनः संप्राप्ता इति राज्ञे निवेदनीयमिति तैरेकञ्चुकी प्रार्थितस्तथा निवेदितवानित्यवगम्यते , तापवतैव राज्ञः शकुन्तलास्मृतिः स्यादिति हि तेषामाशयः । प्रमाणं निर्णेता । देवाज्ञैव तान् प्रतिवक्तुं प्रतीक्ष्यत इत्यर्थः । सादरं काश्यपगौरवात् सबहुमानं । किं काश्यपसन्देशहारिण इति प्रश्रेन सस्त्रीका इत्यस्मिन्नंशोऽनास्था विस्मृतिनिबन्धना व्यज्यते । तेन हि काश्यपसन्देहनैव । उपेत्याधीयतेऽस्मादित्युपाध्यायः सोमरतो नाम — उपाध्याय इति प्रशस्ति शब्दमवाप्तो । आश्रमवासिन इति पूज्यत्वातिशयं दर्शयति । श्रौतेन श्रुतिदृष्टेन विधिना विधानेन " शुक्रमसी ’ त्यादिमन्त्रपूर्वमित्यर्थः । स्वयं साक्षादात्मनैव सत्कुत्यार्ध्यादिभिरर्हयित्वा प्रवेशयितुमस्मत्सकाशं प्रापयितुमर्हसीत्युच्यतामिति सम्बन्धः । सस्त्रीकत्वाद्राज्ञा स्वयमर्हणं न कृतमिति रहस्यं । तपस्विजनानां सन्दर्शनस्य योग्ये समुचिते देशे अग्रिशरण इत्यर्थः । प्रतिपालयामि प्रथममेव सज्जः प्रतीक्षे । तत्नैव प्रवेशयितव्यमिति भावः । कः कोत्र भोः परिजतानामिति शेषः । वेत्रवतीति प्रतिहारिनामग्रहणं । अग्रिशरणस्याग्रिगृहस्य मार्गं " शरणं गृहरक्षित्रो " रित्यमरः । अधिकारस्य अधिष्ठातृव्यापारस्य खेदं दुर्वहत्वं निरूप्य विमूश्य । सर्वो जन्तुः प्राकृतो जनः प्रार्थितमभिलषितमर्थं प्रयोजनमधिगम्य प्राप्य सुखी निर्वतचित्तः संपद्यते भवति , यावत्समीहितसाधनमायस्य कृतार्था विश्राम्यतीत्यर्थः । राज्ञां तु वैलक्षण्यार्थस्तुशब्दः । चरितः कृतः अर्थो येन तस्य भावः । दुः खमुत्तरमुपरितनं यस्यास्तथाभूता । यथा यथा च महीविजयात् सिद्धिर्भंवति तथा प्रत्येवेक्षणश्रमो भूयान् भवतीति भावः । कुतः किं कारणं चरितार्थता दुः खोत्तरा आह – औत्सुक्येति । प्रतिष्ठा प्रातिष्ठा प्रार्थितार्थसिद्धिः औत्सुक्यामात्रं इष्टार्थविषयां चिन्तामेव केवलं अवसाययति समापयति निवर्तयतीत्यर्थः । अवसादयतीति पाठेपि स एवार्थः । लब्धस्य सम्प्राप्तस्यार्थस्य परिपालनं प्रत्यवेक्षणमेव वृत्तिर्व्यापारः । एवमनुभूयमानेन प्रकारेण क्लिश्राति खेदयति । राज्यं राजाधिकारः नातिश्रमापनयानाय अतृयन्तं निश्शेषमेव श्रमस्य परिहाराय न भवति , न च श्रमायएकान्ततः खेदायापि न भवति ।तद्यथा , स्वहस्तेन धृतो दण्डो यस्य तत् आतपात् त्रायत इत्यातपत्रं छत्नमिव – यथा नामातपत्रं आतपश्रमं शमयाति हस्तधारणक्ष्माय च सम्पद्यते तथैव सिषाधयिषादुः खं प्रशमयन्त्यपि सिद्धिः नान्तरीयकं उपर्युपरि पालनखेदमावहत्येव पाल्यहुत्वादिति भापवः । अत्र पूर्वार्धेन नातिश्रमापनयनायेत्यादिसमर्थनाद्वक्यार्थहेतुकं काव्यलिङ्गकारः उपमानुपाणितः । वसन्ततिलकं वृत्तम् ॥ वैतालिकौ । वितालं गायन्तौ । यथा भावप्रकाशे ’ तत्तत्प्रहरकयोग्यैरागैस्तत्कालवाचिभिः श्लोकैः । सरभसमेव वितालं गायन् वैतालिको भवति ’ इति । विजयतां देव इति द्वयोस्समं प्रयोगः । प्रथम इति श्लोकपाठक्रम एव प्राथम्यादिनिमित्तमत्र। स्वेति । स्वस्मिन् आत्मीये सुखे शरीरेन्द्रियानिर्वतौ भोगशब्दितायां निरभिलाषः आसङ्गरहितस्मन् लोक एव हेतुः प्रवर्तकस्स्य " षष्टी हेतुप्रयोगे ’ प्रजार्थमित्यर्थः । प्रतिदिनं खिद्यसे व्याप्रियसे । प्रजानां परैः परस्परेण वा बाधां वारयितुं अगणितात्मखेदो न जातु विश्राम्यसीत्यर्थः । गोप्तृतायाः पारार्थ्यं स्वभा . ़ वायातमित्याह – अथ वेति। ते गोप्तुः वृत्तिः परिपालनव्यापारः एवंविधा स्वात्मा नमनादृत्यापि परार्थघटनरूपैव । तथा हि — पादैः पिबतीति पादपः मूर्घ्रा प्रधानभूतेन शिरसैवेत्यर्थः । तीव्रं सोदुमशक्यं उष्णं ग्रीष्मातपसन्तापं अनुभवति सहते । छायया अनातपेन संश्रितानां पादमूलगतानां परितापमातपतपखेदं शमयति निवारयति । परसुखेन सुखवानुन्नतो नात्मश्रमं गणयतीति स्वो भावः इति भावः दृष्टान्तसंवलित आक्षेपालङ्कारः । मालिनीवृत्तम् ॥ नियमयीति । विमार्गेण विरुद्धेन मार्गेण प्रस्थितान् प्रकान्तप्रवृत्तोनेव सतो जनान् आतृतदण्डः नित्योद्यतनिग्रहस्सन् नियमसि निवारयसि " यम चपरिवेषण ’ इति चकारान्मित्त्वं , येन हस्वः । उपसर्गसन्नियोगाद्वारणार्थत्वं । " नित्यदण्डः स्यात् इति मनुशासनानुरोधेन दण्डप्रदर्शनात् विमार्गमनमेव प्रजानां निवर्तयसि , न पुनर्गच्छत उपेक्ष्य पश्चाद्दण्डेन दुनोपीत्यर्थः । तथा च रधुवंशे " न संयतस्तस्य बभूव रक्षितुर्विसर्जयेद्यं सुतजन्महर्षितः ’ इति । विवादं विरुद्धं वादं धनक्षेत्रादिस्वाम्यतिपत्तिमित्यर्थः । प्रशमयसि प्रकर्षेण शान्तं करोषि । सम्यगवमर्शेण तत्त्वावधारणात् अपुनरुन्मेषं करोषीत्यर्थः । " नान्ये मितोऽहेतौ ’ इति यर्पुदासात् हेतुमण्णिचि शमादीनाममन्तत्वेन मित्वं । उक्तं च रघुवंशे ’ नयविविद्भर्नवे राज्ञि सदसच्चोपदर्शिर्त । पूर्व एवाभवत्पक्षस्तस्मिन्नाभवदुत्तरः । ’ इति । स्मर्यते हि " व्यवहारान् नृपः पश्येद्विद्वदिभर्ब्राह्मणैस्सह ’ इति । रक्षणाय दस्युप्रतिपक्षादिभ्यः परित्राणाय कल्पसे समर्थो भवसि " कपेश्चसम्पदामान ’ इति वक्तव्याच्चतुर्थी । एवं प्रथमवाक्येन विनयाधानमुक्तं द्वितीयेन मर्यादस्थानरूपं भरणं । तृतीयेन च अनिष्टप्रतीकाररूपं रक्षणं इति त्रिविधं पितृकृत्यं दर्शितं । अतनुषु विपुलेषु विभवेषु संपतृसु सतीषु ज्ञातयो बान्धवाः सन्तु नाम कामं वर्तन्तां प्रजानां समृबन्धिबन्धुकृत्यं बन्धुभिः कर्तंव्यंउक्तरूपं त्रयं तु त्वयि परिसमाप्तं न तु बन्धूनां शिष्यत इत्यर्थः । अतः कृतृयविरहात् " एकः स्वादु न भुञ्जीते ’ ति व्याहारमनपुसृत्य विभव एव यथाभागं बन्धुभिर्भुजृयत इति भावः । नामेत्यनास्थायाम् सत्स्वभ्यदयः अन्यया तु नापक्षयः इत्यनासथाहेतुः । नामेत्यवधारणार्थं वा । त्वया नित्योपचितविभवानां संविभागार्थं बन्धुभिर्भवितव्यमेवेति भावः । ज्ञातीनामुपमानभूतानां कैमर्थ्यस्यार्थसिद्धत्वातृ प्रतीपभेदः । मालिनी वृत्तम् ॥ क्लान्तमनसः अधिकारश्रमेण शिथिलात्मानः पुनर्भूयः नवीकृताः मधुरगीत ग्रवणात् प्रजासुखावगमाचच सञ्जातोन्मेषाः ग्रीष्मग्लापितास्तरवो वर्षसेकादिवेति भावः । लोकुसुखाय भवन् श्रमोऽपि महतां न श्रम इति दर्शितं । नवीकृतशाब्देन तपस्विकार्यक्षमत्वं व्यज्यते । अभिनवेन राजप्रवेशार्थमचिरोपपादितेन संमार्जनेन शोधनेन सश्रीकः शोभावान् , सन्निहिता स्थिता होमस्थधेनुः होमार्थागौः यस्मिन् सः पावनतृवात् तपस्विसन्दर्शनयोग्य इति भावः । अग्रिशरणस्य अलिन्दः बहिर्द्वारप्रकोष्टकं " प्रघाणप्रघणालिन्दा बहिर्द्वारप्रकोष्टकं ’ दत्यमरः । उक्तं रघुवंशेपि " त्वं प्रशस्ते महिते मदीये वसंश्चतुर्थोग्रिरिवाग्नयगारे ’ इति । परिजनस्य अंसं अवलंबते अवष्टम्भत इति तथाभूतस्मन् अगृहीतासनेषु तपस्विष्वासनपरिपग्रहानौचित्यादिति भावः । अंसावलम्बनं चोपचारमात्रं किं प्रयोजनमुद्दिश्यअभिसन्धाय भगवता महिमवता । मत्सकाशं रक्षितुस्मनीपमित्यर्थः । प्रभावे णैव सर्वं साधयितुं क्षमेण काश्यपेन बहूनामृषीणां प्रेषणं नाल्पेन हेतुना भवितुमर्हतीति भावः । तपस्विगौरवादनिवेदितमपि स्वयमुत्प्रेक्ष्यागमनप्रयोजनं विकल्पयति । किमिति । उपोढतपसां बद्धव्रतानां तपः विघ्रैः रक्षः प्रभृतिभिः किं दृषितं । तावदिति समृभावनार्थं । शापादिभिस्तपोव्ययमनिच्छतां क्षत्रान्वेषणं भवतीति भावः । उत अथ वा धर्मारण्ये तपोचने चरन्तुति धर्मारण्यचराः " चरेष्टः ’ तेषु प्राणिषु मृगादिषु केन चित् पुरुषेण असत् अयुक्तं चेष्टितं प्रवृत्तं किं भावे क्तः । राजपुरुषापराध ? एव किमथं स्यादित्यातिशङ्क्यते । आहो स्वित् अथवा मम राज्ञापचारो हावग्रहादिना सर्वंमुपहनित , " राजा कालस्य कारणं ’ हत्युक्तेरिति भावः । इति एवं एमिरेवं विधैश्च प्रकारैरित्यर्थः । आरूढाः पूर्वपूर्वोपमर्देनाविर्भूताः बहवः प्रतर्काः विकल्पाः यस्मिंस्तत् मे मनः अपरिच्छेदेन आगमप्रयोजनानाधारणेन आकुलं पारिप्लवं । अवधारिते तु प्रतीकारप्रवत्त्या न स्यादकुलमिति भावः । प्रथमविकल्पेन उदासीनराक्षसाद्यपराधः शङ्कितः स्वजनापराधः । तृतीयेन च स्वापराध इति पूर्वंपूर्वोपमर्दः । प्रथमवाक्येन " रक्षांसि न इष्टिविघ्ज्ञमुत्पादयन्ती ’ तिवृत्तान्त द्वितीयेन मृगयावृतृतान्तः , तृतीये च प्रसवो विष्टम्भित इत्यनेन शकुन्तलागर्भस्थापनं अपचरितशब्देन च तद्विस्मरणं इत्यादिकं स्ववृत्तं , अपरिच्देदाकुलमित्यनेन अविशदस्वप्रदृष्टमिव शापान्तरितस्मृ वासनामात्रस्थितमपरिच्छिद्यमानमाकुलयतीति च गम्यते । " निरागससतु निर्निमित्तं स्वतएव मनः प्रसाद ’ इति " सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तय ’ इत्यत्न व्यक्तं । शार्दूलविक्रीडितं वृत्तम् ॥ सुचरितं धर्मतः पालनादिरूपं त्वदीयं सद्वृत्तं अभिनन्दितुं शीमेषां तथाभूताः निसर्गतस्सुचरितप्रिया इत्यर्थः । ऋषयः वीतरागतया निमित्तान्तरनिरपेक्षाइति भावः । देवं महाराजं सभाजयितुं द्रष्टुं सेवितुं वा सभाज प्रीतिदर्शनयोः । प्रीतिसेवनयोरित्ये ’ इति चुरादिषु पाठः । तर्कयामि असम्भवति निमित्तान्तरे परिशेषादभ्यूहामि । गौतमीसहितां स्त्रीत्वेन स्त्रीत्वेन गौतम्या सहचरितां मुनयः शार्ङ्गरवादयः । यद्यपि शार्ङ्गरवश्शरद्वतश्च द्वावेवोपरिष्टात् प्रस्तूयेते , तथापि तदुपसर्जनभूताः परेऽपि शिष्याः प्रविष्टा अवगम्यन्ते , अत एव चतु ? र्थाङ्के " हास्तिननगरगामिनो मुनयश्शब्दायन्त ’ इत्ययुक्तं । गोतमोसहिता इति पाठे मुनिविशेषणं । शकुन्तलाया एव राज्ञो दर्शनीयतृवातृ पुरस्कारः सः । पुरोहितस्सोमरातश्च प्रविशतीति विपरिणमेन सम्बध्यते। महाभाग इति । असौ नरपतिः युष्यनतः महान् भागः भाग्यं श्रीकीतृर्यादिसमूद्धिः यस्य सः अभिन्ना अविप्लुता रक्षितेत्यर्थः स्थितिः धर्मस्यैर्य येन तथाभूतश्च कामं यद्यपि भवति । वर्णनां ब्रहृमक्षत्रविट्छ्द्राणां चतुर्णां सम्बन्धो अपकृष्टः कुलशीलज्ञानादिभिरवरोऽपि पुरुषः न पन्थाः अपयं " पथो विभाये ’ तिपाक्षिकस्समासान्तः " अपथं नपुंसक ’ मिति नपुसकत्वं " अपन्थास्त्वपथं तुल्ये ’ इत्यमरः । तत् न भवते प्राजा अपि न स्खलन्तीत्यर्थः । काममित्यत्राप्युनषज्यते । तदेवं नास्ति किं चिदुद्वेजनीयमिति भावः । तथापि असत्यप्युद्वेगहेतौ शश्वत्परिचितं सदाभ्यस्तं विक्तिं विजनस्थानं येन तेन मनसा करणे मन्य इत्यनेनास्य सम्बन्धः । नैराकीर्णं व्याप्तं अविरलजनमित्यर्थः । इदं नगररूपं स्थानं दुतवहेन दावनलेन परीतं समन्तादावेष्टितं वनमिव मन्धे जानामि विविक्तरसिकतया केवल जनसङ्गं उद्वेजयति राजनि जनेषु वा न कश्चिदस्ति दोष इत्यर्थः । गृहमिवेति पाठस्तु न मनोरमः , यतः परिचितविवेक्तेनेति वदतो मुनः वननिदर्शनमेव स्वानुभवानुरोधादुपपद्यते । उपमालङ्कारः । शिखरिणी वृत्तम् । स्थान इत्यव्ययं युक्तमित्यर्थः " युक्ते द्वे सांप्रतं स्थाने ’ इत्यमरः । अहमपीति अवैमीग्रिमेणास्य सम्बन्धः । अभ्यक्तमिति । स्नातः जलागवगाहेन निर्मलः पुरुषः अभ्यक्तं तैलाद्यालिप्तमिव , शुचिः आचारपूतः अशुर्षि त्यक्ताचारमिव , प्रबुद्धः त्यक्तनिद्रः सुप्तं निद्राः परवशमिव , स्वैरं स्वच्छन्देन ’ स्वादीरेरिणो " रिति वृद्धिः । गतिः सञ्चारो यस्य सः स्वतन्त्रः बद्धं परतन्त्रमिव च इह नगरे राजगृहे वा सुखेषु दारागाद्युपपभोगेषु सङ्गिनं तत्परं जनं अवैमि जाना ? मि । यथा नाम दोषादुत्तीर्णः । दोषेष्ववगाढं सोद्वेगः पश्यति तथोत्यर्थः । वीतरागाणां सां सारिकेषु सुखेषु निर्वेद इति भावः । अत्र अभ्यक्तपदेन विषायासङ्गस्य दुरपोहतृवं , अशुचिशब्देन पापानुबन्धित्वं , सुप्तशब्देन तमोगुणोद्रेकात सत्त्वानुन्मेषः बद्धशब्देन अविमोक्षश्च व्यज्यते । मनसश्चाप्रसादो भाव्यनिष्टं दर्शयति । वाक्यार्थोपमा कल्पिता मालारूपा च । आर्या वृत्तम् ॥ निमित्तं इष्टानिष्टव्यञ्जनं । अर्थादिहाशुभनिमित्तमर्थः । अम्महे इति खेदे । वामादितरत् दक्षिणं स्त्रीणां हि दक्षिणाक्षिस्पन्दनमतिमित्तमिति भावः भावः । प्रतिहतममङ्गलं अशुभं निरस्तं भवत्वित्यर्थः " आशंसायां भूतवच्च ’ । भर्तृकुलस्य देवताः इष्टदेवताः ते तुभ्यं शुभानि निरस्यन्त्वित्यर्थः । इतः परं भर्तृकुलाधिष्टानादुक्तं भर्तृकुलदेवता इति । अयमसौ द्रष्टुमाशंसित इत्यर्थः । अत्रभवान् पूज्यः वर्णाश्रमाणां ब्राह्मणादीनां ब्रह्मचार्यादीनां च रक्षिता यथासंख्यं वृ ? त्तीनां नियमानां च असङ्करेण स्थापयिता सर्वेषामर्हणीय इति भावः । प्रागेव युष्मदवेक्षया चिरादेव । मुक्तारसनः अभ्युत्थितः सन् । प्रतिपालयति प्रतीक्षते । प्रतीक्ष्योऽपि प्रतीक्षत इत्यर्थः । सेव्यगुणेष्वशेषेण विस्मयावेशस्सेवाधर्म इति दर्शितमनेन । महाब्रह्मणेति , ज्ञानशीलादिकृतं महत्त्वं । ब्राह्मणेति जातिसामान्येन निदर्देशो वृत्तिपरतन्त्रत्वं दर्शयति । इदं राज्ञः प्रश्रयग्रहणं काममभिनन्दनीयं मत्यपि जगदैश्वर्ये न माद्यतीति यद्यपि प्रशंसास्थानमित्यर्थः अत्र अभिनन्दनीयेऽपि विषये वयं मुनयः वृत्तेरपरतन्त्रा इत्यर्थः । मध्यस्थाः उदासीनाः । न हि सहजेषु गुणेषु गुणविदां विस्मय इति भावः । भवन्तीति । तरवो वृक्षाः फलोद्गमैः भूयोभिः फलोदयैः नम्राः अवनताः भवन्ति "" नमिक्पिरम्यजसकमर्हिसदीपो रः ’’ । यथायथा फलभारः चीयते तथा तथा नतिरपि भवतीति किमत्र चित्रमिति भावः । घनाः मेघाः नवाम्बुभिः अचिरसंभृतैरुदकैः दूरं विलम्बिनः अत्यर्थमधोगामिनः भवन्ति । एवं सत्पुरुषाः श् लव्यकुलशीलादिकाः पुरुषाः समृद्धिभिः विभवैः अनुद्धता मदवर्जिताः भवन्ति । अत्र नम्रतृव दूरविलम्बित्वानुद्धतत्वानां धर्माणां बिम्बप्रतिबिम्बभावात् दृष्टान्तालङ्कारः । परोपकारिणां परोपकारशीलानां एषः उक्तरूपः स्वभावः सहजो धर्मः । सर्वमेव विभवं परार्थां परिणमयन्तो नात्मना दृप्यन्ति सन्त इति भावः । अनेन वाक्यार्थेन पूर्ववाक्यार्थानां समर्थनात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । वंशस्थं वृत्तम् ॥ सभाजयितुमागता इति तर्कितं प्रतीहारी संवादयति । देवेति प्रसन्नः क्रोधाद्यनभिभूतः मुखरागः सुखवर्णः येषां ते । विस्त्रब्धं असम्भ्रान्तं कार्यं येषां ते । जानामि तर्कयामि । संभ्रमे तु मुखवर्णविपर्यासः स्यादिति भावः । संभ्रमे तु मुखवर्णविपर्यासः स्यादिति भावः । ऋइषयगृढकारत्यव्यञ्जनम् । अथात्रभवती अत्रभवती तु वाक्यान्तरम्भे अथ शव्द "" भङ्गलानन्तरारम्भप्रश्रकातरारम्भप्रश्रकाम्भप्रश्रकार्त्स्न्येष्वथो अथ ’’ इतृयमरः । शकुन्तला निर्देषोऽयं , का स्विदित्यन्वेति । केति । अवगुण्ठनमस्य अस्तीत्यवगुण्ठनवती । राजदारसमुदाचारत् कृतावगुण्टनेत्यर्थः । अत एव नातिपरिस्फुटं अनतिव्यक्तं भुखे पाणिपादे च स्तोकव्यक्तमित्यर्थः । शरीरस्य लावण्यं छायाविशेषः यस्याः सा । तदक्तं " मुक्ताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभा ? ति यदङ्गेषु तल्लावण्यमिहोच्यते ’ इति । तपोधनानां मध्ये पाण्डुपत्नाणां मध्ये किसलयमिव स्थिता अत्रभवती का स्वित् का नाम स्यात् ? । परकलत्रबुध्योक्तमत्रभवतीति । ऋ ? षीणामस्याश्च दूरमन्तरमित्युपमया व्यज्यते । एवंरूपायाः किमर्थमस्मदुपगमः कर्थ वा ऋषिभिरानयनमिति प्रश्राभिप्रायः । आर्या वृत्तम् ॥ कुतूहलगर्भः श्रेयोविशेषचिन्तासंवलितः मे तर्कः सभाजयितुमागता इत्येवंरूप उहः । प्रसीदति अस्या दर्शनादसंशयो भवति । राजार्हेति तपस्विभिरूपदी ? यत इवेति भावः । अस्या आकृतिः पुनर्भूतिरेव केवलं दर्शनीया मनोज्ञलक्ष्यते दृश्यते । आहार्यशोभां नागरिकोचितामन्तरेणापि रमणीयं रूपमात्रमिति भावः । अनिर्वंर्णंनीयं अदृश्यं । अनेन शापादप्रत्यभिज्ञानं व्यज्यते । उरसि कृत्वेति हदयमाश्वासनार्थमिति भावः । आर्यपुत्नस्य राज्ञः भार्वं दृष्टाया अप्यसम्भावेन निमित्तभूतमभिसान्ध अनवधार्य अविदित्वा किं वेपसे कुतो बिभेषि । धीरं स्थिरं । नहि नर्निमित्तं न सम्भावयिष्यतीति भावः । ओधारिअ इति पाठे भूतपूर्वं दृढानुरागं विदित्वापीत्यर्थः । नास्ति । भयस्थानमिति भावः । तपस्विनश्शार्ङ्गरवादयः । विध्यर्हं विधिवत् श्रोतेन विधिनेत्युकृतप्रकारेणेत्यर्थः । एषां सम्बन्धी उपाध्यायस्य कण्वमहर्षेः कर्तुः सन्देशः ? कश्चित् ममाविदित इत्यर्थः । अस्तीति शेषः । तं सन्देशं । अवहितः एकाग्रः । हस्ताबुद्यम्य आशीः प्रयोगार्थमूर्ध्वींकृत्य हस्तान् , स्तनादीनां द्वित्वविशिष्टा जातिः । हस्तानिति पाठान्तरं । इष्टेन इंप्सितार्थेन युजयस्व सङ्गच्छस्व । प्रियजने सङ्गच्छसवेत्यपि व्यज्यते । निर्विघ्रं रक्षः प्रभृतिप्रतिबन्धरहितं तपो येषां ते । अपिः प्रश्रार्थः । कुत इति । त्वयि सतां साधूनां धर्मचारिणामिति यावत् । रक्षितरि पालयितरि सति धर्मक्रियायास्तपसः विघ्रः प्रत्यूहः कुतः कस्माद्भवति नैव भवतीत्यर्यः । घर्मांशा सूर्ये तपति प्रकाशमाने सति तमः कथमावि ? र्भविष्यति । दृष्टानतालङ्कारः । राजशब्दः राजेति पदं अर्थवान् खलु अन्वर्थ एव " तथैव सोभूदन्वर्थो राजा प्रकृतिरञ्जनलब्धवर्णः ’ इति रघुवंशे । रञ्जेरनुनासिकलोपेन राजपदनिष्पत्तितरिति कवेराशयः । अप्यक्षसाम्यमात्राणि निर्ब्रया ’ दिति नैरुक्ताः । मल्लिनाथस्तु धातूनामनेकार्थत्वाद्राजतेरेव रञ्जनार्थादयं शब्दो निष्पन्नइति मन्यते अथेति प्ररे । भगवान् महाप्रभावः लोकानुग्रहाय लोकमनुग्रहीतुं " तुमर्थाच्च भाववचना ’ दिति चतुर्थी । कुशली स्वार्थनिरपेक्षोऽपि लोकानुग्रहार्थां कृशली प्रार्थ्यत इति भावः । सिद्धिमन्तः सिद्धतपसः स्वाधीनं स्वायत्तं कुशलं येषां ते । किं तर्हि भवदागमनप्रयोजनं आह — स इति । सकाश्यपः अनामय प्रश्रपूव्रं कुशालानुयोगं पुरस्कृतृयेत्यनुग्रहव्यञ्जनं भवन्तमिदं । वक्ष्यमाणमहा — मन्मुखेन ब्रवीति । किमाज्ञापयती गौरवं दर्शयितुं । संदेशमर्थतः संगृह्णति यदिति । इमा मदीयां दुहितरं शकुन्तलां मिथस्ममयात् रहस्संविदं विधाय ममापि पितुरनिवेद्येति यावत् । मिथुनस्य हीतरेतरं प्रति प्रतिज्ञानं विवाहः , सचासाक्षिको गान्धर्वस्त्वया कृत इति भावः । " समयाः शपथाचारकालसिद्धान्तसंविद ’ इत्यमरः । भवानुपार्यस्त परिणीतवानिति यत् " उपह्ममः स्वकरण ’ इत्यात्मनेपदं । तदुपयमनं युवयोर्दुंहितरि त्वयि च विषये प्रीतिमता अनुरूपसङ्गमात् परितुष्टेन मयानुज्ञातमङ्गीकृतं । प्रीतिहेतुं विवृणोति । त्वमिति । त्वमर्हंतां पूजार्हाणां प्राग्रं प्रथमभागं सरति गच्छतीति प्राग्रसरः " ग्रादय ’ इति निपातितस्य प्रेत्यव्ययस्याग्रशब्देन सह " सुप्सुपे ’ ति समासः । हर इति पाठे प्राग्रं हरत्यादत्त इति थाभूतः न अस्माकं स्मृतोभिमतोसि " मतिबुद्धी ’ त्यादिना वर्तमाने क्तः । " क्ततृय च वर्तमान ’ इति षष्ठी । शकुन्तला च नः शकुन्तलेत्यपि वक्तुं युक्तं । मूर्तिमती शरीरिणी सत्क्रिया पूजेव । मूर्तिमतीव सत्क्रियेत्येत्यधिकारूढवैशिष्ट्योपमा । तदेवं पूज्यं पूजासंक्रानितः प्रीतिस्थानमिति भावः । तुल्याः परस्परसदृशा गुणाः कुलशीलादयो यस्य तत् वधूश्च वरश्च समाहृताविति वधूवरं समाहारैकत्वादेकवचनं " द्वन्द्वश्च प्राणितूर्यसेनाङ्गानामिति सूत्रे हि मसाहारैकत्वे सिद्ध नियमार्थं प्रकारणमिति कौमुदो तश्च ज्ञायते पाक्षिकं समाहारैकतृवं सर्वत्र भवतीति । समानयन् सङ्गमयन् प्रजापतिर्विधाता पाक्षिकं समाढारैकत्वं सर्वत्र भवतीति । समानयन् सङ्गमयन् ज्रजापतिर्विधाताचिरस्य दीर्घकालादनन्तरं । चिरायेति पाठान्तरं । वाच्यं विसदृशयोननियमापवादं न गतः न प्राप्तः । आ सूष्टिप्रारम्भादिदमेकमेवोदाहरणं समगुणमिथुनयोजनस्य स्त्रष्टुरिति भावः । यत् प्रजापतेरपि वाच्यनिस्ताराय कथं तदस्माभिर्ताभिनन्दनीयमिति व्यज्यते । अत्र मयानुमतमिति वचनादस्मान् साधुविचिन्त्येत्येत्येत्येतदनूनीयमिति व्यज्यते । अत्र मयानुमतमिति वचनादस्मान् साधुविचिन्त्येत्येतदनूदितमर्थतः । त्वमर्हतां प्राग्रसर इत्यनेन उच्चैः कुलं चात्मन इत्ययमर्थं उक्तः , त्वय्यस्या इतीदंशब्दनिर्देशाभिप्रायः शकुन्तला मूर्तिमतीव सत्क्रियेत्युक्तः । समानयन्नित्यादिप्रजापतिविशेषणेन चाबान्धवकृतामित्येतद्दर्शितं इति संदेशार्थानुवादो द्रष्टव्यः । अत्र च किं वाच्यग्रस्तत्वेन प्रजापतिनिन्दया वधूवरस्तुतेर्व्यञ्जनात् व्याजस्तुतिः , उत वाच्योत्तीर्णतया प्रजापतिस्तुत्यैव प्रस्तुतार्थस्तुतिव्येक्तेरप्रस्तुतप्रशंसेति द्वयोः सन्देहसङ्करः । शंशस्थं वृत्तम् ॥ तत्तस्मात् अनुरूपसमृबन्धादित्यर्थः । आपन्नः प्राप्तः सत्त्वः जन्तुर्यया सा आपन्नसत्त्वा गर्भिणी । " द्रव्यासुव्यवसायेषु सत्वमस्त्री तु जन्तुषु ’ इति । आपन्नसत्त्वा स्याद्गुर्विण्यन्तवीत्नी च गर्मिणी ’ इति चामरः । सह मिलित्वा धर्मस्य गृहाश्रमधर्मस्य आचरणायानुष्टानाय प्रतिगृह्मतां अङ्गीक्रियतां । आपन्नसत्त्वेत्यनेनपुत्रलराभेप्यचिरंण भावीति व्यज्यते । किमपि शकुन्तलाविषये किं चिद्वाक्यं वक्तुकामास्मिअवश्यवक्तव्यं यद्यपि वक्तुमिच्छामीत्यर्थः । तथापीत्यादिः । वचनावकाशः वाक्यावसरः न खल्वस्ति । किमतीते वचनेनेति भावः । अनवकाशमेवाह । णावेक्खिओ इति । त्वया लोकशास्त्रविदा राजर्षिणा सतेत्यर्थः । गुरुजनः शुकुन्तलाया नियन्ता पित्रादिः नापेक्षितः न गणितः नानुज्ञापित इत्यर्थः । अन्या शकुन्तलयापि बन्धुः पित्रादिः न पृष्टः स्वयं मुग्धया हिताहितविदाप्तो जनो न चिकीर्षितं निवेदित इत्यर्थः । " त्वय्यस्याः कथमप्यबान्धवकृता ’ मिति सन्देशार्थोऽनूदितः । एकैकस्य प्रत्येकं तव चास्याश्च चरिते वृत्ते विषये एकैकमेव तव कन्यागुरुजनाविगणनं कन्यायाश्च स्वबन्धुजनानिवेदनमित्येकैकमात्रमपि किं भणामि किमिति वदेयं । तिष्टतु पश्चादसंभावनादिकं शेषमित्यर्थः । उभयोरप्ययमपराधः , तदेवमतिक्रान्ते किमुक्तेनेति भावः । राजमात्नेऽपराधाविष्कारस्यारम्यत्वादुभयोर्ग्रहर्ण , वधूवदेव नुजामातुरप्यशासनीयत्वाभिप्रायं च । " णावेख्खिदा गुरुअणा इमिणा ण तुए वि पुच्छिदा बन्धू । एक्केक्लमेव्यचरिदे किं भण्णदु एक्कएक्कस्स । ’ इति पाठे नापेक्षिता गुरुजना अनया नत्वयापि पृष्टा बन्धव इति बहुवचनं । भण्यतामिति कर्मणि प्रयोगः अनयेति स्थाने इमिणेति पुल्लिङ्गप्रयोगस्तु चिन्तृयः । यदत्र केषां चिद्व्याख्यानं चरिते विवाहव्यापारे एकैकं केवलावेव युवां स्थः । एक एकस्येति चतुर्थपादच्छाया । एकः अन्यः एकस्य तदन्यस्य किं भणति इति । तत्र एकैकमिति द्विरुक्तैकशब्दस्य केवलावेवेत्यर्थकरणं नीचितं । अपि च व्याख्यानमेवेदं प्रथमं व्याख्येयं भवति । न च किञ्चिदत्र विवक्षितं पश्यंवत्यति । किंगुखु कीदृदशं प्रतिवचनं । खल्विति जिज्ञासायां । अत्यादरादन्तरा श्रवणौत्सुक्यं । मालविकाग्रिमित्रेऽपि पञ्चमेऽङ्के परिव्राजिकावचनानन्तरं " किं णु सुसंपदं भट्टाभणादि ’ इति मालविकाया औत्सुक्यमुक्तं । उपन्यस्तं उपन्यासः " भावे क्तः । अभूतमर्थमादय दोषारोपोऽपि कोऽयमिति भावः । वचनोपन्यासः वाक्योच्चरणं अर्थाद्राजसम्बन्धी । पावकः अमिग्रः खलु रोषसंवलितं पावकवत्तीक्ष्णं वचनमित्यर्थः । पावन इति पाठस्तु प्रकरणे न सङ्गच्दते । अत्र दुर्वासइशापमजानन् राज्ञो विस्मृतिमनुत्प्रेक्षमाणः शिष्यः , " किमिदमुपन्यस्त ’ मिति राजवाक्यं , राज्ञो विस्मनुत्प्रेक्षमाणः शिष्यः , " किमिदमुपन्यस्त ’ मिति राजवाक्यं , अपग्रतिग्रहे को दोषः पितृगृह एव हि सेयं वसति इत्येवमाक्षेपर्थमवगच्छन् प्रतृयाह " तत् कथ ’ मिति । यदेतत् किमिदमित्युच्यते , तत् कथमित्यर्थः । लोकतन्त्रे लोकव्यवहारे निष्णाताः कुशलाः । " निनदीभ्यां स्त्रातेः कौशल ’ इति षत्वं , ततश्च ष्टुत्वं । किं चात्र लोकतन्त्रमित्याह — सतीमिति । सतीं साध्वीमपि " सती साध्वी पतिव्रता ’ इत्यमरः । ज्ञातिकुलं पित्रादिस्वबन्धुगृहमेकः केवलः संश्रयः स्थानं यस्यास्तां " एके मुख्यान्य केवला ’ इत्यमरः । कुतश्रित् कारणादत्यक्तज्ञातिकुलामित्यर्थ । भर्तृमतीं कृतोद्वाहां जीवद्भर्तृंकां स्त्रियं जनो लोकः अन्यथा असतीं शङ्कते संदिग्धे । गतो हेतोः प्रमदा स्ववबन्धन्धुभिः मातापित्रादिभिः परिणेतुर्भर्तुः समीये तस्य परिणेतुरप्रियाश्रनभिमतापि इष्यते वर्तमाना आशास्यते । अनभिमन्यमानस्यापि भर्तुरेव समीपगा वरं प्रमदा , न त्वमिभमन्यमानामपि ज्ञातीनां , सुखादपि हि यशः प्रथमं गणयन्ति प्रमदायाः स्वबान्बवा इत्येष लोकव्यवहारः कथं न विदितः , यस्य लोकमर्यादास्थापनमधिकार इति भावः । वंशस्थं वृत्तम् । किं चेति । चोऽवधारणे । अत्रभवती कण्वदुहिता किं मया परिणीतपूर्वा पूर्वं परिणीतैवेत्यर्थः । परिणये प्रथमं सिद्धे हि तत्प्रतिग्रहविचार इति भावः । सांप्रतं एवं वचने श्रुते सति युक्तं सति युक्तं न्याय्यमेव ते आतङ्को भीतिरासोत् प्रागेव जातः । त्वं हि भावि सुखं वा दुः खं वा जानासीत्यर्थः । किमिति । कृतं निर्वर्तितं कार्यं स्वप्रयोजनं येन तस्मिन् जने द्वेषः , कृते कार्येवा द्वेषः किं । चिकीर्षिते कार्ये प्रणयः तितीर्षोरिव नाविके , कृते तु लोभात् प्रद्वेषः तीर्णस्येवतारार्थिनि नाविके दृष्टः , सइदानीं त्वयि जातः किमित्यर्थः । नवनवाभिलाषिणां रागिणामास्वादितरस विषये वैरस्थं भवतीति भावः । किं वा धर्मं प्रति धर्मविषये विमुखता अनादररः , इत्थंभूताख्याने प्रतिः कर्मप्रवचनीयः । ’ इति विधानात् । केवलार्थकामपरतया पत्न्याः प्रतिग्रहो धर्मत्वादेव नेष्यते किमित्यर्थः । परिणीयापलपतस्त्यरूपे धम् ? एव किमनास्थेति वा । अथ वा । केवलधर्मरतेन किमनेन जनेनेति किमुपेक्षेत्यर्थः । किं वा अवज्ञा आरण्यकाः असंपदः दत्यस्मास्वपकर्षबुद्धिः कृता । अत्रोभयत्र कृतकार्यत्वं हेतुरनुबुध्यते । अधिक्षेपासहो धार्भिको राजा वाक्यविराममप्रतीक्षमाणः पृच्छति । कुत इति । अयमुक्तरूपः असतीनामयथार्थानां कल्पनानां आरोपितप्रकाराणां कृतकार्यद्वेषादीनां प्रश्रः कुतः किं निमित्तं क्रियते । कथं मिथ्यैव दोषमारोपयसीत्यर्थः । भूयश्चापलापमिवाशङ्क्यासहमानः शाङ्गंरवः प्रतृयाह – मूर्च्छन्तीति । अमो पूर्वोक्ताः कृतमार्थद्वेषादयः विकाराः चिन्तान्यथाभावाः ऐश्वर्वमत्तेषु विभवोद्धतेषु पुरुषेषु प्रायेण बहुल्येन मूच्छंन्ति वर्धन्ते । पानमद इव श्रीमदः सतामपि विकाराय भवति , विरला हि जगति पुरुषाः ये श्रियमप्यवाप्य न माद्यन्तीति भावः । उक्तं च " ऐश्वर्यमदमत्तो हि सर्वोऽहमिति मन्येते ’ इति । " किं कृतकार्यद्वेषाद्धर्मं प्रति विमुखतोचिता राज्ञः ’ इति पाठे अमी विकारा इति बहुवचनं प युज्येत । दृश्यमाना विकारा इति क्रोधाद्यर्थतया कथं चित् समर्थने च " कुतोयमसत्कल्यनाप्रश्र ’ इति वचनवैरूप्यम् । आर्या वृत्तम् । विशेषणाधिक्षिप्तः उत्तरार्धेनापराधनिर्धारणाद्भूयिष्ठमुपालब्धोस्मीस्यर्थः । मुहूर्तं यावत्यभिज्ञानं मा लज्जस्व अवगुण्ठनापनयनेन लज्जां मा कृथाः प्रत्यभिजानानस्तु न प्रत्यादिशेदिति भावः । ततः अपनयनानन्तरं अभिज्ञास्यते पूर्वदृष्टां स्मरिष्यति । निर्वर्ण्यं अवगुण्ठनापनयनादभिव्यक्तरूपविशेषमालोक्य । इदमिति । उदनतं अन्वेषणीयमपि स्वयमन्विष्योपयातमित्यर्थंः । एवं दृश्यमानप्रकारं रूपं सौन्दर्यं यस्य तत् । अनुपममित्यर्थः । अक्लिष्टकान्ति वनवासदूरयमानप्रकारं रूपं सौन्दय्रं यस्य तत् । अनुपममित्यर्थः । अक्लिष्टकान्ति वनावासदूराध्वगमनादिभिरप्यम्लानच्छायं इदं शरीरं कर्म अव्यवत्यन् , परिभोक्तुं , हातुमित्येभिरस्यान्वयः । प्रथमपरिगृहीतं पूर्वपरिणतं स्यात् , न वा स्यादित्यव्यवस्यन्ननवधारयन् अहं । मुनिवचनप्रत्ययादन्तः करणस्य चाप्रसादात् स्यादिति कोटिः अस्मृतेश्च नं स्यादिति कोटिः प्रतिभातीति भावः । विभाते निशान्ते अन्तस्तुषारं अन्तर्गतहिमं कुन्दं माध्यकुसुमं भ्रमर इव परिभोक्तुं परिग्रहीतुं च न खलु शक्रोमि न समर्थोऽस्मि । यथा तुषारभीतो भ्रमरः कुन्दं नावतरति मधुलुब्धश्च न परिहरति , तथाहमपि परिग्रहणानवगमादन्तर्वत्नीं ग्रहीतुमपि नोत्सहे , अनुपमरूपलावण्यां हातुमपि न प्रभवामीत्यर्थः । कुन्दस्य शैशिरत्वात् प्राभातिकमन्तस्तुषारत्वं । इदमिति सामान्ये नपुंसकं । ततश्च रूपलावण्यात्मकं वस्त्विति प्रतीयते । परिणयानाकलानाच्च स्त्रीत्वमनुद्भाव्य वस्तुसामान्येन निर्देशः । अनतस्तुषारमितिच गर्भिणीत्वाभिप्रायं । कल्पितो वाक्यार्थोपमालङ्कारः । मालिनी वृत्तम् ॥ विचारयन् एकतरकोटौ चित्ताविश्रमाद्विचिन्तयन् । धर्मावेक्षिता धर्मैकदर्शित्वं अहो आश्चर्यं । ईदृशं नाम एवंविधमपि अमानुषमनीत्यर्थः । सुखोपनतं अयत्नोपागतं रूपं दृष्ट्वा कः पुमानन्योस्मद्भर्तृव्यतिरिक्तो विधारयति सन्दिग्धे । मुनिभिरेव परिग्रहम्यर्थितोऽपि धर्मलोपभयान्नप्रवर्तत इत्यर्थः । किमिदं कथमेतत् जोषमास्यते तूष्णीमवस्थानं , न किंचिदुच्यत इत्यर्थः । तपोधनेति धर्मज्ञात्वं दर्शयति । चिन्यन् विशिषवमृशन्नपि । स्वीकणं परिग्रहं न खलु स्मरामि नैवावगच्छामि । ततृतस्मात् अभिव्यक्तस्त्त्वलक्षणां दृष्टगर्मचिह्नां इमां प्रति लक्षणार्थः प्रति कर्मप्रवचनीयः अनया निरूपतिमित्यर्थः । क्षेत्रिणं कलत्रवन्तं भर्तारं आत्मानं मां आशङ्कमानः भवत्प्रत्ययादेव केवलमुत्प्रेक्षमाणः सन् कथं प्रतिपत्स्ये एनामङ्गीकरिष्ये । क्षेत्रिणमित्यनेन प्रजानिषेकस्य तु कैव कथेतृयभिव्यज्यते । " क्षेत्रं शरीरे केदारे सिद्धस्थानकलत्रयो ’ रिति विश्वः । अथ वा आशङ्कमानः सन्दिहानोहमातृमानमिमां प्रति क्षेत्रिणं कथं प्रतिपतस्ये निश्चिनुयां । अपत्रार्य परावृत्य । ननु परिणय एव सन्देहः प्रथमं विवाहमात्रे संशयो जातः । इदानीं एवं स्थिते दूराधिरोहिणी " दोष्यन्तिमप्रतिरथं तनयं निवेश्य ’ इत्यादितातो ? दितप्रकृष्टपद विषयिणी आशास्पृहा कुतः नैव सेत्स्यतीति किमुतेत्यर्थः । मेति नञर्थमव्ययं । तावदित्यवधारणे । यदुक्तं न स्मरामीति नैतदेवमित्यर्थः । किं तहींत्याह — कृतेति । कृताभिमर्शां गुरुजनमनिवेद्य त्वया मिथः कृतस्पर्शां दयितामित्यर्थः । कन्याया अपि पित्राद्यधीनतया परकीयागणनं क्रियते , येन द्षणमेवाभिमर्शं इति भावः । सुतां स्वां दुहितरं उनुमन्यमानः अङ्गीकुर्वन् त्वदीयं दुद्वितुरभिमर्शं मृष्यमाण इत्यर्थः । मुनिः राज्यमादादुपवेक्षार्हो मृदुरिर्त्यः । त्वयाकृतापराधेनेति भावः । विमान्यो नाम अवधीरणीयः खलु । दण्ड्यमदण्डयन् कथं नावमानास्पदमिति भावः । येन मुनिना पात्रीकृतोऽसीति सम्बन्धः । मुष्टं अपहृतं स्वमात्मीयं अर्थं धनं प्रतिग्राहयता इस्यव एव प्रतृयर्पयता सुरुषेण दस्युः स एव मोषक इव पात्रीकृतः अपात्रमपि पात्रं सम्पह्ममानः कृतोसि। अणत्राय चोराय हृतं धनं दक्षिणीकृतमिव येन परिणीतेत्युनुमता सुता स विमाननामर्हि , " मृदुर्हिपरिभूयत ’ इति भावः । यदि दाहक्षमं स्वं तेजउत्सृजेत् तदानीं का ते समवस्थेत्य ? पि व्यज्यते । मुनेरवधीरणमेवाप्रतिग्रहनिमित्त , न पुनरस्मरणं , असंभवादिति समुदितोऽर्थः । के चित्तु मातावदित्यस्यविमान्य हत्यनेन सम्बन्धमादाय न विमान्य इति व्याख्यामारचयनित । तत्र नामेत्यस्य त्वयेत्येन सम्बन्धः अवधारणार्थत्वं च बीध्यम् । उपजाति वृत्तम् ॥ इदानीं सन्देशे निवेदिते विरम , परवता यावत्कर्तंव्यं तावदनुष्टितं किमतः परेणेत्यर्थः । " व्याङ्परिभ्यो रमः ’ इति परस्मैपदं । वक्तव्यं गुरोस्सन्देश इत्यर्थः । सोऽयं त्वयैव परिचितपूर्वः इदानीं साक्षात् ? स्थित इत्यर्थः । अत्रभवान् पूज्यः न तु यः कश्चित् येन नियन्तुं न युज्यत इति भावः । एवं नस्मरामीत्याह । प्रत्ययप्रतिवचनं विस्त्रम्भहेतुरुत्तरं । त्वयैव तु प्रत्यभिज्ञापयित्व्यं , न त्वस्माभिरविदितार्थैः किमपि यक्तं वक्तुमिति भावः । तादृशे " द्वे प्रतिष्ठे कुलस्यनः ’ " मां दंनर्दहत्येव ’ " श्रिया दुरापः कथमीप्सितो जनः ’ " संवाहयामि चरणावुत पह्मताम्रौः ’ इत्यादि ’ प्रियवचनशातोपदर्शिते अनुरागे प्रेमातिशये इदमनुभूयमानप्रकारं अवस्थान्तरं जन्मान्तरवदत्यन्तानभिज्ञानं । स्मारिजतेन प्रत्यायनेन किंवा । यद्यनुराग एव विस्मार्यते किं तत्र बहिरर्ङ्गैर्लिर्ङ्गरिति भावः । आत्मा शरीरमेव शोचनीयः इति व्यवसितं निणींतं यावच्छरीरं दुः खानुभवाय सङ्गतमनेनेत्यर्थः । विस्मृतेरसम्भवेन शठवृत्तिः केन वा प्रत्याय्यत इति भावः । परिणये विवाह एव संशयति मम नास्तीति च राज्ञो विप्रतिषिद्धाभ्यां वचनाभ्यां वचनाभ्यां तठस्थसंशयविषये सति एषः आर्यपुत्रेति सम्बोधनं न समुदाचारः न न्याय्यः क्रमः । पोरवेति । पोरवरक्ख विणर्य ’ इति विवाहात् पूर्वसम्बोधनस्यैवायमनु कारः अभिजनविरुद्धमारभ्यत इति भावः । आश्रमे काश्यपतपोवने स्वभावोत्तानहृदयं निसर्गादेव प्रतारणानभिमित्यर्थः । तेन राज्ञः शठहृदयत्पं आविष्कृतं भवति । समयपूर्वं गान्धर्वविवाहरूपं शास्त्रविर्धि पुरस्कृत्य प्रलोभ्य प्रियवचनैर्व्यामोह्मईदृशैः अवचनीयारित्यर्थः । अक्षरैर्ववनैः अक्षरशब्दोन आशयविरुद्धत्वं व्यज्यते । प्रत्याख्यातुं न युक्तं तिरस्कारो नीचितः । पिधाय कराभ्यामाच्छाद्य आश्रवय श्रवणादिति भावः । " वष्टिभागुरिं रित्यादिना अपेरल्लोपः । शन्तमिति " आर्शसायां भूतवच्च ’ ति साधुः शाम्यत्वित्यर्थः । व्यपदेशमिति । किं कुतः व्यपदेशं कीर्तिं आविलयितुं मिथ्याचारत्वमिथ्यावादितृवादिभिरपवावादैर्मलिनीकर्तुं इमं जनं मां पातयितुं पतितं पातकिनमितियावत् कर्त्तुं च ईहसे यतसे । कस्ते मयि प्रद्वेषः येनैवंवादिनी अनङ्गीकारे लोकस्य निन्द्यं अङ्गीकारे च पातकस्पृष्टं उभयथापि निर्विमोक्षं कर्तुं प्रवर्तंस इति भावः । तद्यथा । कृलंकषति हन्तीति कूलङ्कषा " सवकूलकरीषाभ्रेषु कषः ’ इति खश् । ततश्च ’ अर र्द्विषदजन्तस्य मुम् ’ विजृम्भितपूरेत्यर्थः । ? सिन्धुः प्राव्सरित् प्रसन्नं विमलं अम्भः जलं तटरुहं तीरप्ररूढं वृक्षं चेव । अम्भः आविलयितुं वृक्षं च पात यितुं यथा प्रवर्तते तथेत्यर्थः । अत्र यशः स्थानापन्नं जलं तरुस्थानापन्नो राज , इत्युपमालङ्कारः । अथ वा व्यपदेशं त्वदीयं सतीचरितमित्यर्थः । आविलयितुं भर्तुरनिर्णयात् पांसुलयितुं , यथा पूरोतृपीडेन नदी स्वं जलं कलुषयति तटसथं च तरुं च तरुं पातयति तथा त्वमप्यनया प्रवृत्त्या स्वं चरितं दूषयसि मामपि च अधीनयसीत्यर्थः । तदेवं आत्मदोषेणापि मदनिष्टं विधातुं कस्ते मयि प्रद्वेष इति भावः । आर्या वृत्तम् ॥ परमार्थः न तु च्छह्मद्यनेत्यर्थः । परकलखशङ्किना परकलत्रमिति मन्यमानेन यदि प्रवृत्तं प्रतृयाख्यातुमारब्धं । अभिज्ञानेन अङ्गुलीयकच्छह्मनानेन । एवतु न प्रतीकार इति भावः । उदारः श्लाध्यः कल्पः निर्णयप्रकारः मुद्रास्थानं अंगुलीयकपदं परामूश्य स्पृष्ट्वा । अवेक्षते दैवमेव विरोधीत्यवेक्षणाभिप्रायः । नूनमिति सम्भावनायां । शक्रावतारस्य शक्रतीर्थाख्यस्य मालिनीनदीत्यवेक्षणाभिप्रायः । नूनमिति सम्भावनायां । शक्रतीर्थाख्यस्य मालिनीनदीस्थानविशेषस्य अभ्यान्तरे मध्यप्रदेशे शचीतीर्थं इन्द्राणीतीर्थाख्यमेकदेशं वन्द्रमानायाः आचमनादिभिरसेवानायास्सत्याः प्रभ्रष्टं । अंगुलीयकस्य पुरुषहस्तपरिणाहात् जलल्लेदाच्चाङ्कगुलेः स्त्ररतं सम्भाव्यत इत्यर्थः । सस्मितं स्वाभिप्रायसिद्धिरत्र स्मितहेतुः । प्रतिनवमुत्पन्ना मतिर्यस्य त् । स्त्रैणं स्त्रीत्वं स्त्रीणं आत्मकार्यसाधनीनां सामयिकंप्रतिभानं सहकारीति भावः । इति यदुच्यते तदिदमितृयन्वयः । स्वोक्तिं समर्थंयितुं सिद्धमभिज्ञानं गलितमिवाभिनीयते विषादादिना शकुन्तलया , वृद्धया च शचीतीर्थवन्दनं निमित्तमुद्भाव्यत इति सर्वमिदं मायामात्रमिति भावः । अत्र दृश्याभिज्ञानविषये विधिना दैवेन प्रभुत्वं स्वशक्तिः । विधिदोषादेव हि गलितमभिज्ञानमिति भावः । अन्यदभिज्ञानं प्रत्वक्षादन्येदेव लिङ्गं । इदानीं असति द्रष्टव्ये श्रोतव्यं संवृत्तं पर्यवसितं नान्या गिरित्यर्थः । दृश्यं प्रकम्य श्राव्ये पर्यवसितमिति मृषोद्यमिति भावः । एकस्मिन् दिने समागमानन्तरमेकदा नलिनीपलमेव भाजनं पात्रं गतं पत्रपुटोद्धृतमित्यर्थः । शृगुमस्तावत् शृणुम एव न पुनर्जानीमइति भावः । अथ वा साकत्येन शृगुमः कृतमन्तरा वाक्यावसानेन यतो न प्रत्यभिजानीय इति भावः । पुत्रकृतकः संवर्धितत्वात् कुत्रिमपुत्रः मयूरर्व्यसकादिः । दीर्घापाङ्गो नाम मया कृतनामधेये इतत्यर्थः प्रथमं आत्मनः पानात् पूर्वं एष मूगशिशुः । अनुकम्पिना दयावता । उपच्छन्दितः विलोभितः । अपरिचयात्अभिनवत्वेनाविस्त्रम्भात् । हस्तस्याभ्याशं समीपं । तस्मिन्नेव त्वत्करस्य एव । अपरिचयात्अमिनवत्वेनाविस्त्रम्भात् । हस्तस्याभ्याशं समपं । ? तस्मिन्नेव त्वत्करस्थ एव । गृहीते त्वत्करादुपात्ते सति तेन मृगेण प्रणयः अनाहूतेनापि स्वतः प्रार्थना । प्रहसितः हसितवान् अकर्मकत्वात् कर्तरि क्तः । समानो गन्धो येषां तेषु सगन्धेषु समानगुणेष्वित्यर्थः । अत्र गुणमात्रपरो गन्धशब्दः । द्वावप्यारण्यकौ अतस्सगन्धत्वमित्यर्थः । अत्र गुणमात्रवरो गन्धशब्दः । द्वावप्यारण्यकौ अतस्सगन्धत्वमित्यर्थः । अरण्ये भवौ आरण्यकौ । यद्यपि " पथ्यध्यायन्यायविहारमनुष्यहिस्तषु ’ इति वाच्यादारण्यकशब्दो न मूगे साधुः , तथापि पुत्नकृतक इति शकुन्तलावाक्यानुरोधात् अनागरिकत्वसाम्याद्वा निर्वाहः । एवमादिभिः एतादृशैः आत्मकार्यनिर्वर्तिनीनां स्वाभिमतसाधनीनां न तु धर्मदर्शिनीनामित्यर्थः । " न स्त्री धर्ममधर्म वा 1 ़वेक्षते कामयत एव ’ इति हि वात्स्यायनः । योषितां स्त्रीणां सम्बन्धिभिः अनृतवाड्मधुभिः मकरन्दवत् सह्मः प्रीणनैरसत्यवचनैः विषयिणः शब्दादिविषयप्रसक्ताः आकृष्यन्ते वशीक्रियन्ते । न पुनर्वयमिति भावः । महाभाग एवं पांसुलासामान्येन , नार्हसि , महाभागस्य नेदमुचितमित्यर्थः । तपोवनसंवार्धितः धमैरेव परिपुष्ट इतृयर्थः । कैतवानां छह्मनामनभिज्ञः । तापसी च सा वृद्धा च तापसवृद्धा तस्यास्सम्बुद्धिः तापसवृद्धे । स्त्रीणामिति । स्त्रीणां सामान्यतर्स्वासां अशिक्षितं अनभ्यस्तं जन्मसिद्धमित्यर्थः । पटुत्वं आत्मकार्यनिर्वहणाचातुर्यं अमानुषीषु मानुषीव्यतिरिक्तासु बुद्धिप्रगाल्भ्यपरहितासु तिर्यग्योनिजास्वापि स्त्रष्विवत्यर्थः । सन्दृश्यते साक्षादनुभूयते यास्तु प्रतिबोधवत्यः इष्टानिष्टविवेकशालिन्यः मानुष्य इत्यर्थः । तासु किमुत अशिक्षितपदटुत्वमस्तीति किं वक्तव्यं । आहारनिद्रादिग्राम्यधर्ममात्रवेदिनीष्वपि स्त्रीत्वमात्रं यदि चातुरीमादधाति , किमु वक्तव्यं तर्हि विदग्धास्वित्यर्थः । परभृताः परैर्वायसैः भूताः पुष्टाः कोकिलस्त्रियः । स्वमात्मीयं अपत्यजातं पुत्रवर्गं न तु यद्दच्छया किञ्चिदेवापत्यमिति भावः । अन्तरिक्षगमनात् प्राक् उत्पतनात् पूर्वं यावत् पक्षोदयमित्यर्थः । अन्यैरन्यजातीयैः द्विजैः पक्षिभिः वायसैः प्रयोज्यैः पोषयन्तिसंवर्धयनित खलु । परपुष्टाः किल निजान्यण्डानि वायसनीहेषु गृहं निधाय स्वैरं यान्ति , वायसाश्च निजाण्डभ्रमेण पुष्यन्ति उत्पतनानन्तरमेव " कालः काकः पिकः पिकः ’ इति भिद्यत इति प्रसिद्धिः । अण्डपरिपोषः पुंपक्षिणां कर्म अतो न स्त्रीवौदग्ध्यहानिः । पूर्वार्धे कैमुतृयेनार्थे संसाधनादर्थापत्तिः । उत्तरार्धे परभृतवृत्तान्तरूपविशेषेण स्त्रौणामशिक्षितपटुत्वरूपसामान्यस्य समर्थनादर्थान्तरन्यासः । तदनुप्राणिता चायर्थापत्तिः इति तयोरङ्गाङ्गिभावसंकरः वसन्ततिलकं वृत्तम् ॥ सरोषमिति । सतृयनिह्नवादिति भावः । आत्मनः स्वस्य हृदयं मन एव अनुमीये तर्क्यते अनेनेत्युनमानं दृश्टान्त इत्यर्थः । स हि व्याप्तिनिश्चयभूमित्वादनुमितिसाधनं । पश्यसि अन्यमपि शठवृत्तिमवगच्छसि । स्वयमनार्य एव पराननार्यान् संभावयतीति भावः । धर्मरूपं कञ्जुकं प्रविश्यातीति तस्य धर्मकञ्चुकप्रवेशिनः पापमनसः बहिरेव धर्म व्यञ्जयत द्वत्यर्थः । यथा कञ्चुकः शरीरदोषानेव रजः रवेदादीेन् संवृणोति , तथा तवायं धर्मः मनोगती शठ्यं नापनेतुं प्रभवतीति भावः । तृणच्छन्नः कूपः उपमीयते अनेनेत्युपमा उपमानं यस्य तस्य । बहिस्सुभगस्य विस्त्रंभादुपेयुषां मूगवदवपातहेतोरित्यर्थः । अनुकृतिं साम्यं प्रतिपत्स्यते प्राप्स्यति । त्वमसदृशशशठः त्वामनुकर्तृमपि का शक्तिरस्माकतिति भावः । मां सहजकृतमतिं वुर्वन् अत एव उकैतवः परमार्थं इव लक्ष्यते अनुमीयते । परमार्थको पश्च न मृषाहेतोर्भवितुमर्हतीति भावः । मयीति । मथ्येव विस्मरणेन वस्तुतोवृत्तस्य प्रणयस्याविभावनेन दारुणा निरनुकम्पा चित्तवृत्तिर्यस्य तस्मिन् अत एव वृतं परमार्थतो भूतं न त्वारोपितमित्यर्थः । रहः प्रणयं असाक्षिकं संगतं अप्रतिपह्ममाने अनङ्गीकुर्वाणे सति अति रुषा अतिशयितामर्षया अत एवातिलोहिताक्ष्या अत्यर्थरक्तनेत्नया सतृया बनया कुटिलयोः स्वभावभुग्रयोः भ्रुवोर्भेदात् भङ्गाद्धेतोः स्मरस्य संबन्धि शराः अत्यन्ते क्षिप्यन्ते अनेनेति शरासनं धनुः भग्रमिव । " भञ्जो आमर्दने ’ इति धातोः " ओदितश्च ’ इति निष्ठानत्वं । मय्येवेत्येवकारेण नास्या अभूतार्थकथनं दोष इति व्यवच्छिद्यते । स्त्रीणामभूतार्थकथने हि हसितादिव्यतिकरितो विलासात्मा केवलं कोपत्स्यात् । अस्यास्तु नयनयोर्निकाममरुणिमा , भावान्तरव्यवधायीरोषावेशः , भ्रुवोश्चच्छेदसदृशो भङ्गातिरकेः ममैव परमार्यमपराधं व्यनक्तीति भावः । इव शब्दो विशिष्टवाक्यान्वयी । मय्यैवापराधिनि यथा भ्रूमेदादिः स्यात् तथा ह्मयं जात इति वाक्यार्थः । भ्रुवोर्नतत्वात् स्मरशरासनौपम्यं । भङ्गोत्प्रेक्षया शरासनोपमाध्वनिः । एकत्रैवानुरागाधानवैषम्यात् स्मरधनुर्भङ्ग इति भावः । किञ्च अननुभूतमपि भावनारूढं येन प्रत्यक्षायते तदेव पुरः स्थितेपि वस्तुनि स्मृतिं नादधातीति स्मरशरासनत्याकिञ्चित्करत्वमपि भङ्गहेतुरनेन व्यजृयते । भेदादित्यपह्वगर्भंत्वात् सापह्वोत्प्रेक्षा । वसन्तति ? लकं वृत्तम् ॥ प्रथितं प्रसिद्धं । प्रसिद्धेमेव दर्शयितुं दुष्यन्तचरितमिति परोक्षनिर्देशः । तेन शठ्यादिकं न सम्भाव्यत इति भावः । तथापि सशठस्वेपि इदं त्वात्परिग्रहणं न लक्षये गाभिजाने । सुष्टु तावत् सम्यगेव स्वच्छन्देन अनियमेनचरितुं प्रवर्तितुं शीलमत्या इति स्वच्छन्दचारिणी स्वैरिणी । राज्ञो हि शुद्धचरितत्वमनमिज्ञानं च ममैव पांसुलात्वे पर्यवस्यतीति भावः । युक्तं चेदमित्याह । जेति । याहं प्रत्ययेनापाततोविस्त्रम्भेण मुखे वचने मुधु माधुर्यं यस्य तस्य हृदये मनसि विषं यस्य केवलं मधुरभाषिणः कठोरहृदयस्येत्यर्थः । अस्य राज्ञः इदं भध्यस्थान् प्रति वचनं । हस्ताभ्याशं पाणिसमीपं उपगता विवाहितेत्यर्यः । " नवनीतं हृदयं ब्राह्मणस्य वाचि क्षुरो निशितस्तीक्ष्णधारः । तदुभयमेद्विपरीतं क्षत्रियस्य वाङ्नवनीतं हृदयं तीक्ष्णधारं । ’ इति महाभारतवचनमत्र स्मारितं भवति । साहं स्व्च्छन्दचारिणीकृतास्मीति सम्बन्धः । आत्मकृतं स्वतः प्रयुक्तं चापलं चपलकर्म कामकार इत्यर्थः । अप्रतिहतं अप्रतीकारं सत् दहति सन्तापयति । आत्मकृतमित्यनेन गुरुजनाननुज्ञानं अभिप्रेयते चापलमितृयनेनाविमृश्यकारित्वम् । अत इति । अतः एवं दुः खोदर्कत्वात् सङ्गतं स्नेहमात्रमेव परीक्ष्यशीलं परिशील्य कर्तव्यं । रहः अषडक्षीणं सङ्गतं वधूवरसख्यं तु विशेषात् सख्यमात्रमपेक्ष्य सविशेषं परीक्ष्य कर्तव्यमिति सम्बन्धः । पतिजीवितानां स्त्रीणां पतिप्रातिकूल्यमेव निरयादपि दुः खतरमिति भावः । अज्ञातहृदयेषु अपरीक्षिताशयेषु सौहृदं भैत्री एवं अनुभूयमानेन प्रकारेण वैरीभवति । विद्वेषरूपं परिणमति । अभूततद्भावे च्विः । शीलं संवसता ज्ञेयं तच्च कालेन भूयसा ’ इति ह्मुच्यते । अत एवाप्तैः बन्धुभि 3 परिशीलितशीलेष्वेव कन्यानामुचितस्सङ्गमः अविमृश्य चापलात् कृतस्तु न केवलं स्वयं न भवति , प्रत्युत वैरमपि हि पर्यवस्यतीत्यर्थः । अनुषटुप् वृत्तम् । अत्रभवतीप्रत्ययात् स्त्रीप्रामाण्यनिर्णयात् अस्मान् धर्मसीमभूतानीपीत्यर्थः । सम्भृतरोषैः रोषगर्भैः अक्षरैः वचनैः अधिक्षिपसि निन्दसि । शकुन्तलाविषयेति क्रोधोऽस्मासु अज्ञातहृदयत्वादिदोरीपरूप इति भावः । " सम्भृतदोषैरि ’ ति पाठे मिथ्यैवारोपितैर्दोषैरित्यर्थः । " अधिक्षिपथे ’ ति बहुवचनापाठे शकुन्तलादीन् सर्वान् प्रत्युक्तिरिति व्याख्येयं । क्षिणुथेति पाठे तुदथेत्यर्थः । सासूयं सरोषं भवद्भिरिति पूजायां बहुवचनं कोपव्यञ्जनं । अधरीत्तरं अपकृष्टं प्रतिवचनं । भवांस्तु परिणीतां मुनिपुत्रीं स्त्रीणामशिक्षितपटुत्वमित्यादिभिः स्वैरिणीमिव प्रथयन् युक्तवादी । भवतस्तु विषये एतावदपि प्रतिवचनं अधिक्षेपो भवति हन्तेति भावः । अत्रभवतीप्रत्ययादित्येतृ प्रतिवक्ति — जा जन्मन इति । यः जनः ओ जन्मनः उत्पत्तितः प्रभृति शाठ्यं गूढविविप्रियकारितां प्रतारकतामिति यावत् । अशिक्षितः श्अनुपदिष्टः तस्य जनस्य आ श्रमसंवर्धितस्येयत्वं भवानेव ब्रूयादिति भावः । रावाक्ये अस्मानित्युक्त प्रतिवक्तिपरेति । यैः सुक्षत्रियैः परेषां शूत्रणां ? अतिसन्धानं वञ्चनं सामदानादिभिः सन्धिविग्रहादिभिः तीथैः चारादिभिश्च जम्बुकादिवत् परप्रतारण्मेवेत्यर्थः । विद्येति नीतिशास्त्ररूपं ? विद्यास्थानमिति अधीयते गुरुभ्यसचिवादिभ्यश्च यावज्जीवं परिचीयते , ते तथा शिक्षितातिसन्धानाः आप्तवाचः विश्वसनीयवचसः सन्तु किल भवेयुर्हि । छह्मविदच्छह्मविदोर्मध्ये धार्मिकेऽपि प्रथमे दोषः संभाव्यते । न कथंचिच्चरम् इति भावः । " आप्त प्रत्यतिस्त्रिषु ’ इत्यमरः । उपजातिः वृत्तम् ॥ सत्यावादिन् सत्यवदनीशील अशिक्षितशाठ्येत्यर्थः । स्वस्मिन् दोषाविष्कारानौचित्यसूचननार्थं सम्बोधनं । अभृयुपगतं सत्यं परातिसन्धानमधीमहे इत्यर्थः । इमां तापसकन्यां । किं फलंलभ्यते प्राप्यते न वयं स्तेनवदसिन्धानमधीमहे — अपि तु प्रजापरित्राणोपजीव्यं द्विषदतिसन्धानमात्रं । नचानया अस्मद्राज्यस्य कश्चित् प्रतिरोध इति भावः । " कुतो धर्मक्रियाविध्रस्सतां रक्षिरि त्वयि ’ इति भवदुक्तमेवान्यथा विपर्यस्येत् इत्यभिसन्धायोक्तं सत्यावादिन्निति। विनिपतत्यधो गन्छत्यनेनेति विनिपातः पापं लभ्यत इत्यनुषज्यते । फलाभावादतिसन्धानं न भवतीति राजाभिप्रायः । अतिसन्धानमेवेदं क्रियते पापं तु भविष्यति मुनेरभिप्रायः । पोरवैः शुद्धवंश्यैरित्यर्थः । विनिपातः पातकं अभ्यर्थ्यते फलत्वेनाशास्यत इत्येतत् न श्रद्धेयं न विश्वसनीयं । ये वर्णाश्रमान् विनिपातद्वारयन्ति तैरेव नकिञ्चिदभिसन्धाय विनिपातमात्रमाशास्यत इति तटस्थानामश्रेद्धयमित्यर्थः । उत्तरोत्तरेण प्रतिवचनस्यापि प्रतिवचनेन उपयुपरि वचनप्रतिक्षेपेणेत्यर्थः उत्तरेणेति पाठान्तरं । गुरोर्नियोगः सन्देशार्पणरूपस्न्दिष्टार्थः अनुष्टितः कृतः । सन्देशसमर्पकेषु राज्ञापि स्वमतं न युक्तं , न चास्माभिरपि प्रतिवक्तुं युक्तमिति भावः । प्रतिनिवर्तामहे गुरोस्सकाशं प्रति गच्छामः । तदिति । तत् गुरुसन्देशात् एषा शकुन्तला भवतः कान्ता तवैव प्रिया न हि त्रैकाल्यवेदिनी गुरोर्वितथा वाग्भवति किं नस्तत्त्वविचारेणेति भावः । एनां स्वदारभूतां त्यज वा गृहाण अङ्गीकुरु वा " हलः श्रः शानजूहौ ’ इति ग्रहेः शानच् । न वयं भवन्तं नियन्तुमुत्सहाहे इति भावः । यदि नाम कान्तेति विदतिं कथं तर्हि त्यागाभ्युनज्ञानं । तदाह — उपपननेति । हि यस्मात् दारेषु विषये सर्वतः त्यागाभ्युपगमादिषु सर्वेषु प्रकारेषु मुखं प्रवृत्तिर्यस्यास्सा प्रभुता नियन्तृता उपपन्ना युज्यते । रागविरागानुरोधात् परिग्रहः परित्यागो वा भवति , येनात्र नान्यो नियन्तुमर्हंतीति भावः । स्त्रीस्वभावात् परित्यक्तुनिच्छन्तीं पश्चादवस्थितां गौतमीमाह — गौतमीति । अग्रतः पुरस्तात् गच्छ स्नेहान्न विलम्बस्वेत्यर्थः । प्रस्थिताः गन्तु प्रवृत्ताः । कितवेन विप्रलम्भकेन अनेन राज्ञा विप्रलब्धा व ? ञ्चितास्मि । यूयमपि कथं परित्वजथेति सम्बन्धः । धनुप्रतिष्टते अनुगन्तुमारभते । करणं दीनां परिदेवयति रोदितीति करुणं परिदेविनी तां " संवृचे ’ त्यादिना धिनुण् । प्रत्यादेशेन प्रत्याख्यानेन परुषे निर्दयहृदये सति किं वा करिष्यति अस्माभिरपि त्यक्तायाः कागतिरित्यर्थः । आ इति रोषे । पुरः प्रथमं भजते दोषमादत्त इति पुरोभागिनी " संपृचे ’ त्यादिना भजेर्धिनुण् तस्यास्संबुद्धिः दोषैकदर्शिनि । पतिगृहावस्थान्स्य अवर्जनीयतां विहाय भर्तयंस्मासु च मुधैव त्यागदोषमाविष्कारोषीति भावः । " दोषैकदृक् पुरोभागी ’ त्यमरः । स्वातन्त्रयं स्वेच्छया प्रवर्तनं निवर्तनस्य पित्राद्यननुमतत्वादिति भावः । वेपते शरीरकम्पेन भोति मनुभावयति । प्रत्यादिष्टायाः किमवस्थानेन तदाह — यदीति । क्षितिं पाती पातीति क्षितिपो राजा यथा येन प्रकारेण वदति त्वामपरिणीतामाह तथैव त्वमसि यदि मिथ्याचरा भवसि चेत् तदेति शेषः । उत्कुलया उत्सन्नकुलधर्मया तृवया पितुः किं ? कुलस्त्रियैव सत्या पितृकुलं गन्तव्यं इतरथा पितापि नाभिन ? न्दिष्यतीति भावः । अथ पक्षान्तरे तु परिणयस्य सत्यत्वेत्यर्थः । आत्मनस्सम्बन्धि शुचि दोषरहितं व्रतं साध्वीधर्मं वेत्सि यदीत्यनुषज्यते । आत्ममात्रस्यात्र साक्षित्वात् स्वयं चेदवगच्छसीत्यर्थः । पतिकुले भर्तृगृहे दास्थं दासकर्मापि मा भून्महिषीभाव इति भावः । तव साध्वयास्सजत्या इत्यर्थः । अमं युक्तं । बहुमानो भवतु मा वा भूत् परिकेः शरणं सतीनामित्यर्थः । उभयधाप्यस्मदनुगम्नं न प्राप्तमिति भावः । द्रुतविलम्बितं वृत्तम् । साधयामः । किं कुतः विप्रलभसे त्यजसि । अत्रभवतीव्यपदेशो राज्ञः परकलत्रबुध्या । कुतः अपरिप्रहे को हेतुरित्यर्थः । हेतुं विवृणोति — कुमुदानीति । शाङ्कः चन्द्रः कुमुदान्येव बोधयति विकासयति न तु कदाचित् पङ्कजान्यपीति व्यवच्छेदाभिप्राय एवकारः । सविता सूर्यः पङ्कजानि कमलान्येव बोधयति न तु कुमुदानि । वशयन्तीन्द्रियाणीति वशिनो जितेन्द्रियास्तेषां वृत्तिः परपरिग्रहसंश्लेषे परदारसम्बन्धे पराङ्मुखी अनासक्तेत्यर्थः । परपरिग्रहत्वमेव अस्मदप्रतिग्रहहेतुः न तु विरोवांदिरन्यः , अतः किमत्र अवस्थानेनेति भावः । अत्र विशेषभूताभ्यां रवीन्दुवृत्ताभ्यां सामान्यसय समर्थनादर्थ्राान्तरन्यासोऽलङ्कारः । वृत्तेर्भावरूपतया मुखस्य स्वाह्गत्वाभावेपि कवेर्विवक्षया स्त्रीतृवसम्भावान्हीप् । आर्या वृत्तम् । यदा यदि तु , तुशब्दः परपरिग्रहशङ्काव्यवच्छेदार्थः । पूर्वं वृत्तं भूतपूर्वमेव परिग्रहणं अन्यासङ्गात् वनितान्तरासक्तिवशात् भवान् विस्मृतः नत्वियं मिथ्यावादिनीत्यर्थः । विप्रतिपत्तौ शकुन्तलावाक्यमेव परमार्थं स्याच्चेदित्यर्थः । कथमधर्मभीरुः अधर्मभीरुतृवप्रशस्तिनं तदानीं वक्तुं युज्यत इति भावः । अत्र विप्रतिपत्तिविषये गुरुत्वं लघुत्वं च भावप्रधाननिर्देशाद्गौरवार्थो गुरुशब्दः , मूद्वादिववद्धर्मपरो वा " मृदुप्रभृतयो हि मुख्यतया भाववृत्तय एव ’ इति हि भट्टभिनवगुप्ताः । गौरवं लाघवं च धर्मसङ्कटोपनिपाते कस्याभ्यर्हितत्वं इत्यमुं विषयमित्यर्थः । भवन्तमेव धर्मज्ञमेव शकुनतलापक्षपातिनमेवेति वा वृच्छतेर्दुहादितृवातृ द्विकर्मकतृस्वं । प्ररं विवृणोति । मूढ इति । अहं मूढः अन्यासङ्गादिना विक्षेपेण विस्मृतपरिग्रहः स्या मिति प्रथमकोटिः । अथ वा एषां शकुन्तला मिथ्या वदेत् असत्यमेव परिग्रहमारोप्य ब्रूयात् इति द्वितीयकोटिः— इति एवमुभयकोटिके संशेय सन्देहे सति वादिप्रतिवादिवाक्याभ्यां विरुद्धाभ्यां मध्यस्थसन्देहे जाते सतीत्यर्थः । दारांस्त्यजतीति दारत्यागीं भवामीति काकुः किं दारत्यागी स्यामित्यर्थः । आहो अथ वा परस्त्रियाः स्पर्शेन परामर्शेन पांसवो दोषा अस्य सन्तीति पांसुलः सिध्यादिः पातकीत्यर्थः । भवामीतृयनुषज्यते । मोहादपरिग्रहे दारत्यागो दोषः मिष्यावचनप्रत्ययेन परिग्रहे परदारस्पर्शदीष इति कोटिद्वयेप्यवर्जनीयं दोषभागित्वं , तत्न कतरो दोषः श्रेयानित्यमुमर्थं भवानेव निर्धारयत्वित्यर्थः । सन्हदहानस्य वरं दारत्यागो न पुनः परस्त्रीस्पर्श इति राज्ञः स्वाभिप्रायः । अनुष्टुप् वृत्तम् । विचार्यं उभयोरार्जवं राज्ञस्सन्तानविषयं सिद्धादेशं शकुन्तलां चान्तर्वर्त्नीविचिन्त्येत्यर्थः । यदि तावतृ यदि नामैवमित्यर्थः । एवं वक्ष्यमाणप्रकारेण । अत्रभवती तावत् शकुन्तला तु आ प्रसवात् पुत्रजननं यावतृ अस्मद्गृहे मदावसथे तिष्टतु । अनभिज्ञानात् भवद्गृहवासो नोचितः परिणीतायास्तु प्रत्यादेशो न न्याय्य इतृयतोयमविरोधी कल्प इति भावः । इदं अस्मद्गृहावस्थानं । साघुभिः सिद्धादेशैर्मुनिभिः चक्रवर्तिनं । पुत्रं जनयिष्यसीत्यादिष्टः अभिहितोसि । अनेन मृगानुधावने " पुत्नमेवं गुणोपेतं चक्रवर्तिनमाप्रहि ’ इति वैखानसवचनं प्रत्यागतमात्लेण राज्ञा पुरोहिते निवेदितं , न तु शकुन्तलावृत्तान्तो लज्जया । शापेन चान्तरितं शकुन्तलास्मरणमिति सन्दर्भार्थोवसीयते । स अनया प्रसोष्यमाणः मुनेः काश्यपस्य दुहितुरपत्यं पुमान् दौहित्रः तल्लक्षणैः चक्रवर्तिलक्षणैः उपपन्नः उपेतश्चेतृ प्रतिनन्द्य प्रतिपूज्य एनां शकमुन्तलां शुद्धान्तं अन्तः पुरं प्रवेशयिष्यसि प्रवेशयितुमर्हसि । विपर्यये तथाविधलक्षणाभावे अस्याः पितुः समीपगमनं अवस्थितं अन्तरेणापि विधानं सिद्धमेव । गुरुम्य इति पूजायां बहुवचनं " रुच्यर्थानां प्रीयभाण ’ इति संप्रादनत्वाच्चतुर्थी । विवरं अन्तः प्रवेशाय मार्गं । परिभवलज्जाया अपि वरं भूमौ निमजृजनमिति भावः । अगवतीत्यनेन देवतात्वादप्सरस्म्भावायास्सवजनत्वमवसीयते । सीतावृत्तान्तनिदर्शनमत्र क्रोडीक्रियते । स्त्श्रिय एव हि स्त्री दुः खं जानन्तीत्यपि ध्वन्यते । पितृपतिवर्गपरित्यक्तायाः शरीरावसानमेव शरणमितृयपि प्रतयते । शपेन " स्मरिष्यति त्वां न स बोधितोऽपि सनृ ’ इत्येवं रूपेण व्यवहिता तिरोहिता संस्कारमात्रशेषा व्यक्तिमनुपगतेत्यर्थः । स्मृतिः स्मरणं यस्य सः । चिन्तयति कदा कथं परिगृहीतेति विशेषमालोचयति । आश्चर्यमिति । " आश्चर्यमनित्य ’ इति निपातनात् सुद्र । किन्नु खलु किन्नामाश्चर्यं स्यातॅ भवि तुमर्हंति । अद्भुतंखलु अलोकसाधरणं हि वस्जतु । किमेवं अत्यद्भुतं संवृत्तमित्यर्थः । परावृत्तेषु आश्रमं प्रतिप्रयातेषपु सत्सु । सेति । सा बाला मुग्धाङ्गना स्वानि स्वीयानि भाग्यानि भर्तृविन्रलम्भव्यपदेशदूषणदिभागधेयविपर्ययान् निन्दन्ती गर्हयन्ती सती बाहू उत्क्षिप्य बाहूत्क्षेपं " स्पाङ्गेऽघ्रुवे ’ इति णमुल । बाहूत्क्षेपश्चाशरणत्वव्यञ्जनं । क्रन्दितुं प्रवृत्ता आरब्धा च । देहि मे विवरमिति शकुन्तलोक्तं श्रुतवान् राजा सातिशङ्क सावशेष एव पुरोहितस्य वचने क्रन्दितुं चेति चकारसमुच्चितमर्थं सम्भ्रमात् पृच्छति किं चेति , अन्यच्च किमभूदित्यर्थः । पुरोहितः प्रत्याह — स्त्रीति । स्त्रिया इव संस्थानं अवयवसन्निवेशो यस्य तत् एकं यतृ किं चित् ज्योतिः तेजः एव सत् स्त्रीरूपपरिच्देद्यमित्यर्थंः । देवयोनित्वादुकृतं ज्योतिरिति । एनां शकुन्तलां आक्षिप्य सम्भ्रमादादाय उत्क्षिप्येति पाठे उत्थाप्येत्यर्थः । अप्सरस्तीर्थंमारात् अप्सरस्त्रीर्थाख्यस्य राजकुलान्तिकसरोविशेषस्य मीये तिरोभूत् अन्तर्हितं । " तिरोन्तर्धावि ’ ति गतिसज्ञायां " कुगतिप्रादय ’ इति समासः । सानुमत्या देवयोनित्वादुक्तं जृयोतिरिति । यद्यपि ’ अन्यारादितरते ’ इत्यादिना अप्सरस्तरर्थशब्दस्य पञ्चम्यन्तत्वं प्राप्तंतथापि निरंकुशा कवयः । शालिनी वृत्तम् ॥ रूपयन्ति अभिनयन्ति । प्रागपि तिरोधानात् पूर्वं साखादृशंनका ल एव सः शकुन्तलारूपः अर्थः वस्तु । असंग्राहृमे स्त्रीलिङ्गप्रयोगोऽनुचित इत्यर्थशब्दः । प्रत्यादिष्टः परित्य्तः तस्मादतीतो न खेदायेति भावः । वृथातर्केण तेजः परिग्रहाद्दिव्यत्वाभ्यूहेन , अन्विष्यते पुनः पुनश्चिन्त्यते । वस्तुस्थितिर्थथा तथा वास्तु , अनुपलब्धिर्हिं नः पुमाणं प्रत्यादेश इति भावः । भवानपि अहमिवेत्यर्थः । विरमतु ।इयन्तं कालं परिश्रान्तोसीति भावः । पर्याकुलः अनेन वृत्तान्तेन संक्षुभितमनाः । आदेशय विश्रमार्थमिति भावः । काममिति । प्रत्यादिष्टां प्रतिषद्धसंग्रहां मुनेस्तनयां शकुन्तलां परिग्रहं भार्यां कामं यद्यपि न स्मरामिन प्रत्यभिजाने । अप्रत्याभिजानतः प्रत्यादेशं निर्वृत्तये भवितुमर्हतीति भावः । तु तथापि बलवतृ दृढं दूयमानं अन्तर्विषणं वचेतः मां प्रत्याययतीव परिणयमेव निश्चाययतीव । न हि न्याय्यमाचरितं अन्तस्तापमावहेदितिभावः । " सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तः करणप्रवृत्तय ’ इति ह्मुक्तम् । ॥ इति शाकुन्तलव्याख्याने सहृदयसमाख्याने पञ्चमोऽङ्कः ॥ ? 0———————— ? 0 ? 0 ॐ ? 0 ॥ अभिज्ञानशाकुन्तलव्याख्याने षष्ठोऽङ्कः ॥ एवं दुर्वासः शापनिमीलितस्मृतिना दुष्यन्तेन प्रत्यादिष्ठायाश्शकुन्तलाया व्योम वरेण ज्योतिषाऽभ्युपयत्तिर्दर्शिता । अभिज्ञानदर्शनावसानश्च शापश्चतुर्थाङ्केऽभिहितः शकुन्लाहस्तगतस्य च राजांगुलीयकस्य शक्रावताराभ्यन्तरे प्रभ्रंशः पञ्चमाङृके शकुन्तलावाक्येन निवेदितः । संप्रति तदेव रत्नोगुलोयकं शक्रावतारमत्स्ये नामिषमिति निगीर्णं मत्स्योपलम्भादुपलब्धं विक्रेतुं नागरमागतस्य मुद्रादर्शंनान् स्तेन इति राजपूरुषगृहीतस्य धीवरस्य प्रवेशरूपः प्रवेशकः प्रस्तूयते । तत इति । नगरेनियुक्तः नागरिकः " तत्र नियुक्त इति ठक् । स्यालः असवर्गो राजपत्नीसोदर्यंः स हिं पितृराज्यज्यस्यालब्धांशः स्वसुः पतिगृहं गच्छन्याः योतकेन साहनुप्रहितः कस्मिंश्चिदधिकारे नियुज्यत इयाचारः राज्ञः स्यालस्तु राष्ट्रिय , इत्यमरः । पश्चात् पृष्ठतः बद्धं निगडितभुजं पुरुषं कुम्भोलक्कं आदाय वशोकृत्य रक्षिणौ चोररक्षका स्यालानुवरौ । अहो कुम्भीलकहे चोर मणिबन्धनेन रत्नविनिवेशनेन उत्कीर्ण उत्नलिखितं रत्नरचितमित्यर्थः नामधेयं राजाभिधानं यस्मिँस्तत् अत एव राजकी ? यं राजसम्बन्धि " राज्ञः कच ’ इति छप्रत्ययसन्नियोगेन कादेशः । अङ्गुलौ भवमड्गुलीयं " जिह्वामूलांगुलेश्छः ’ । समासादितं संप्राप्तं । भीतेर्नाटितकेनाभिनयेन भयमभिनीयेति यावत् । भावमिश्रा इति नागरिकं प्रति पूजानिर्देशः । प्रसीदन्तु न कुप्यन्तु । ईदृशं राजस्वापहाररूपं कर्म करोतीति तथा भूतो नास्मि " सुप्यजाता ’ विति णिनिः । रक्षिणोः प्रथमः एकतरस्सूचको नाम । शोभनः अभिजनवि द्यावृत्तादि गुणोपेतः ब्राह्मण इति निश्चित्य ; त्रियासामान्यपरोऽपि कृञत्र त्रियाविशेषमाच्ष्टे । तथा च गाथासप्तशतीव्याखृयां " करोति रत्रानुभवार्थकः । अत एव देवदतृते दुः खमनुभवतीत्यर्थे दुः खे करो ? तीति प्रयोगः ’ इत्युक्तं । प्रतिगृह्मत इति प्रतिग्रहो दक्षिणा । दत्तः किमेतत् पात्रदानमित्यर्थः । अस्तेयेन कथकमिदं हस्तगतं तवेति भावः । शक्रावतारे शक्रावताराख्ये तीर्थे गङ्गाया अवतारविशेषे वसतीति तथाभूतः तीरवासीति पाठान्तरं शक्रावताराभ्यन्तरवासीति पाठस्त्वभ्यतरवासस्यासमृभवान्न साधुः । पाटयन्विदलयंश्चरतीति पाटचचरः स्तेन पृषोदरादिः । जातिरिति — अङ्गुलीयकागमे पृष्टे धीवर इति जातिमुत्तरयन्न पृष्टप्रतिवचनं वदसीति भावः । अनुक्रमेण जातिवृत्त्यादिक्रमेण सर्वं अङ्गुलीयकलाभान्तं वृत्तान्तं । अंन्तरामध्ये मां प्रतिबघ्रीतं अवान्तरवाक्यप्रतिक्षेपेण वचनगतिं न निवारयतं । क्षोदीयस्सु पुरुषेषु मध्ये प्रतिरोधाद्वचनगतिर्न प्रसरेदिति भावः । प्राकृते आवुतृतेति गरीयस्सूपचारः । तथा च मालविकाग्रिमित्रे पितस्मग्रिमत्रं प्रति वसुलक्ष्ग्यास्सम्बोधनं । जालं आनाय उद्गारः मत्स्योद्धारलो ? हविशेषः । आदिपदेन बडिशादयो गृह्मन्ते । मत्यबन्धनोपायैः मत्स्यपग्रहणसाधनैः कुटुम्बस्य भरणं पोणं पोषणं । ते तव आजीवः वृत्तिः तावत् साकल्येन विशुद्धः निर्दोषः विपारीतलक्षणा । भट्टेति राजपुरुषगौरवात् . ॥ शहशे इति । विनिन्दितं प्रतिषिद्धमपि यत् कर्म सहजं कुलागतं तत् कर्म व्यापारः न खलु विवज्रनीयं न कस्यापि हेयं निन्दितेलनापि हि स्वधर्मेण वृत्तिर्न दुष्यति येन नोपासावसर इति भावः । तद्यथा अनुकम्पया दयया मूदुस्सरलंहृदय एव श्रोत्रियः ब्राह्मणः " श्रोत्रियश्छन्दोऽधीते ’ इति निपातनात् साधुः । पशोर्यज्ञियस्य मारणकर्मणि संज्ञपनरूपे धर्मे दारुणः निष्टुरः । यदा नामानृशंस्यधर्मणो ब्राहृमणस्यापि यज्ञपशोविंषये नृशंसकर्मा पि स्वधर्मत्वादपरिहार्यं किं पुनस्तदा ? मद्विधस्येति भावः । अनेन नाहं पापकारी येन मयि स्तेरूमाशंक्येति व्यज्यते । विशेषेण सामान्यसमथनमर्थान्तरन्यासः । वियोगिनी वृत्तम् ॥ तदो तदो इति वृथाकथां वारयितुं । अथैवं कुटुमृबभरणे क्रियमाणे । रोहितो मत्स्यविशेषः ’ रोहितं कुंकुमे रक्ते ऋजौ शक्रशरासने । पुंसि स्यान्मीनमृगयोभेंदे नारोहितद्रमे ’ इति मदिनी । खण्डशः कल्पितः खण्डीकृतः खण्डशः कृत इति पाठन्तरम्। तस्य खण्डितस्य मत्स्यस्योदरस्य जठरस्थानस्याभ्यन्तरेन्तार्भागे रत्नैर्भासुरं दीप्यमानं इदमंगुलीयकं दृष्ट्वा पश्चात् दर्शनानन्तरं विक्रयाय विकेतुं " तुमर्थाच्च भाववचनात् ’ इति चतुर्थी । दर्शयन सनृ भावमिश्रैर्युष्माभिः: गृहीतः स्तेन इति बद्धः मत्स्य ग्राहिणो मत्स्यान्तरुपलब्धस्य ग्रहणा स्तेयन्न भवतीति भावः । मारयतस्तेयदोषमारोप्य र्हिसत वा मुञ्चत आजीवेन सह लब्धमस्तेयमिति न हिंसतवेत्यर्थः अस्यांगुलीयकस्यायमुकृतरूप एवागमः प्राप्तिमागैः न तु स्वदोपषनिह्नवाय यत्किंचिदुनयत इति भावः आगमवृत्तान्त इति पाठान्तरम् । विस्त्रस्य पर्युषितापक्कस्येवगन्धो यस्य सः विस्त्रगन्धिः " उपमानाच्च ’ इति गन्धस्येत् " विस्त्रं स्यादामगन्धियत् ’ इत्यमरः । घोराकृतिः विकृतरूपः मत्स्यान् बघ्रातीति मत्स्यबन्धः भवति भवितुमर्हति गन्धाकृतिभ्यां समृभाव्यत इत्यर्थः । गोधातीति न युक्तः पाठः गोधातस्य धीवरव्यापारबहिर्भावात् । अस्य पुरुषस्य अंगुलीयकदर्शनं राजांगुलीयकप्राप्तिः विमर्शयिव्यं किमेतदुक्तप्रकारेण उतवा अन्यथा स्यादिति विचारणीयं । तस्मातविमर्शनीयत्वात् राजकुलं राजभवनमेव गच्छामः यत्र निर्णेष्यत इति भावः । अरे इति हीनसमृबोधनं । ग्रन्थिं कुड्यादिसन्धिं मंजूषादिमुखबन्धं वा भिनत्तीति ग्रन्थिभेदकश्चोरः । पुरस्य राजगृहस्य " अगरे पुर ’ इत्यमरः । द्वारे निर्गमे अप्रमत्तै अवहितो परिपलयतं यथा नायमतिक्रामेत् तथा रक्षतं । इदमंगुलीयकं आगमन मनतिक्रम्य यथागमनं यथास्माभिरुपलबृधं तथेत्यर्थः । शासनं राजाज्ञां प्रतोष्टप्रतिगृह्म निष्क्रमामि निर्गच्छामि तावत् परिपालयतमिति पूर्वोण समृबन्धः । स्पामिप्रसादाय अंगुलीयकं दर्शयित्वा राजानुग्रहं प्राप्तुं । चिरायति विलम्बते । अवसरेयक्तकाले उपसर्पणीयाः अवसरप्रतीक्षया । विलम्ब द्वति भावः । वध्यस्य स्तेयदण्डार्थं हन्तुव्यस्य अस्य कुमृमभीलकस्य सुमनसः वध्यालङ्कारपुष्पाणि पिनद्धुं शिरसि बद्धुं स्फुरतः तृवरेते । पुरुषं धीवरं निर्दिशति अस्येत्युंगुलया दर्शयति । अकारणमनिमित्तं मारणो घातकः निरागसि न दण्डः प्रणेतव्य इत्यर्थः । स्वामीस्यालः । गृहीत्वेति नागृहीतशासनः प्रतृयागच्छतीति भावः । पत्तहथ्यो इत्योधकपाठे राजशासन पत्रं हसते धारयन्नित्यर्थः । इतोमुखं अस्मदभिमुखं गृध्रेभ्यो बलि उपहारः " करीपहारयोः पुंसि बलिः ’ इत्यमरः । चतुर्थी । तदर्थार्थबलिहितसुखरक्षितैरिति समासः । सुणे वा मूहं दक्खिस्ससि ( शुनोवा मुखं द्रक्ष्यसि ) इति क्कचिदधिकः पाठः अवश्यं भावी ते वध इतिः । जालं उपजीवति आश्रयते इ ? ति जालोपजीवी न तु स्तेन इति भावः । सुच्यातां न दण्डमर्हतीत्यर्थः । अयं धीवरोकृतरूपः आगमः प्राप्तिप्रकारः मत्प्त्योदरोपलम्भरूप इत्यर्थः । उपपन्नः न्याय्यः अस्य शक्रावतारतीर्थवासित्वात् शकुनतलयापि तत्रेवाङ्गुलीयकपातस्य कथनादिति भावः । यमसदनं मूत्योर्गृहं प्रविश्यान्तर्गत्वेव प्रतिनिवृत्तः प्रत्यागतः दृष्टापराधस्तु मुक्तो मृत इव प्रत्युज्जीवित इत्यर्थः । युष्मदीयं अपहर्तुं मोक्तुं वा यूयं प्रभविोति भावः । अह केलिशे मे आजीवे ( अथ कीदृशो म आजीवः ) इति पाठे विशुद्ध आजीव इति रक्षिणः पूर्वोपहासप्रतिवचनंविमोचनेन निरपराध तृवाददुष्टो ममायमाजीव इति भावः । अङ्गुलीयकमूल्येन सम्मितस्सदृशः: मूलेन व्यवहर्तव्यद्रव्येण प्राप्यं मूल्पं नोवयोधर्मविषमूलसीता तुलाभ्यस्तार्युतुरुयपाप्यवध्यानाम्यसमसमितसम्मितेषु ’ इति यत्प्रत्ययः । अर्थः द्रविणं । पारितोषिकः प्रीतिदानं । पुरुषाय धीवराय । अथ राजदत्तं धनं । एषनामधीवरएव खललु अनुगृहीतः कृतप्रसादो भवति । शूलातृ वध्यशङ्कोः अवतार्यावरोप्य हस्तिस्कन्धे गजस्कन्धपीठे प्रतिष्ठापितः उपवेशितः अश्वानां पृष्टं गजानाञ्च स्कन्धः स्थानमुपवेशस्य । तथा च रामायणे " गजस्कन्धेश्वपृष्टे च ’ इति । न केवलं वध्यस्य वधदण्डन्विृत्तिरेव प्रत्युत पारितो षिकमीति महाननुग्रह इत्यर्थः । वाक्यार्थवृत्तितनिदर्शनालङ्कारः । सम्मतेन आदरविशेषविषयेण अन्यथा हि सापराधस्य दण्डो निरपराधस्य मोक्ष इत्येतावतेव प्राप्तं यत् पुनरस्य दृष्टापराधस्य उत्सवेप्विव मोचने ततश्च पारितोषिकमपि तिदेव दर्शयति राज्ञो महीत्सवहेतुरयमितीति भावः । शर्मदेनेतिच्छायापाठे सुखप्रदेनेत्यर्थः । महानर्हो मूल्यं स्य तत् महार्हं " आत्महतः समानाधिकरणजातीययोः ’ इत्यादादेशः । बहुमतं आदृतं । न तर्कयामि न मन्ये । त्स्याङ्गुलीयकस्य । कोपि अरमदपरिज्ञातः अभिमतः प्रियो जनः भत्नां राज्ञा स्मृतः प्रत्यभिज्ञातः नान्यो हेतुः तावतो बहुमानस्येति भावः । उक्तं च रधुवंशे ’ स तुल्य पुष्पाभरणो हि धीरः ’ इति । प्रकृत्यागम्भीरः अक्षोभ्यः सन्नपि परिगतानि अश्रुणि ययोस्तादृशे नयने यस्य सः शोकहर्षादिभिरनभिमाव्यस्याप्यश्रुहेतुः प्रियजनस्मरणादन्यो न भवतीति भावः । आवुत्तेन तादृशमभिमतं द्रव्यमुपहरता सेवितन्नाससेवाफलमवाप्तं खल्वित्यर्थः । मत्स्यशत्रोः कृते धीवरार्थमिति भण ब्रूहि सेवाफलं पारितोषिकमनने हि लब्धमिति भावः । मत्स्यशत्रोरित्यनेन निरपराधजीवघातात् वधार्हृत्वं व्यज्यते पारितोषिकद्रव्यादुत्कोचग्रहणार्थमेवमुक्तं । भच्छियाभस्तुणो [ मत्स्यिकामतुंः ] इति पाठे मत्स्यसजातीयस्येति सोपहासवचनं व्याख्येयं । असूयया द्रव्यलाभामर्षेण पश्यति निमित्तान्तरे द्रक्ष्यामीति दर्शनाभिप्रायः । इतः राजप्रसादद्रव्यात अर्घं कश्चिदंशः प्राकृतत्वात् लेशमात्रार्थेपि नपुंसकत्वमविरुद्धं समांश इत्यपि शक्यै व्याख्यातुं । सुमनोमूल्यं सौमनस्यनिष्कयः इतः प्रभृति मयि सौहार्देन वर्तनार्थं धनमिति यावत् सुमनसां पुष्पाणां वध् यस्त्रज इति ज्जानुकवाक्यस्य सावहेलमुत्तरमिति व्याख्यानं तत्र वध्यस्य कृतानुग्रहस्य राज्पुरुषे गरीयस्युपहासानोच्त्यिं चिन्तनीयं । एतत् विभागार्पणं युज्यते न्याय्यं भवति । त्वाया मत्स्योदराल्लब्धं त्वत्तश्चास्माभिरुपलब्धमिति वयमप्यत्रांशमर्हाम इति भावः । एतृतके इति पाठे एतावान् गरीयानंश इत्यर्थः । युज्यते अल्पांशस्तु नास्माभिर्ग्राह्म इति संवृत्तस्सञ्जातः । कादम्बरी मदिरा साक्षिणो साक्षदूद्रष्ट्री यस्य तत् कादम्बरीसाक्षिकं प्रथमसौहृदं अभिनवसख्यं इष्यतां क्रियतां इष्यत इति पाठान्तरं सपीतिरेव सौहार्दसंभावन मिति भावः । शुण्डा सुरा पण्यमसयेति शौण्डिकः " शुण्डा नानगहे मता । अम्बुहस्तिनि वेश्यासु हस्तिहस्तसुरासु च ’ इति मेदिनी " तदस्य पण्यं ’ इति ठक् । तस्यापणं निषद्यामेव ॥ एवमभिज्ञानदर्शनादपेतशापस्य परिणयस्मरणं राज्ञः प्रस्तुतं अथ शकुन्तलाया आशाबन्धाय शकुन्तलाख्यास्सानुमत्या नामाप्सरसो राजविरहदर्शनं प्रस्तूयते । आकाशयानेन ऊर्ध्वमार्गेण । अप्सु सरतीत्यप्सराः उदधेहिं निर्मथितादप्सरसां जम््म । यतः तीर्थसान्निध्याधिकारः एकवचनोपपत्तिः एकवचनोपपत्तिः प्रथमाङ्के समर्थिता । पर्यायेण वारक्रमेण निर्वर्तनीयं संपादनीयं अप्सरस्तीर्थे अप्सरस्तीर्थाख्ये पुण्ये गङ्गावतारविशेषे सान्निध्यमधिष्ठानं मया निर्वर्तितं समाप्तो मत्पर्यांय इत्यर्थः । साधुजनस्य मुनिजनस्याभिषेककालः स्त्रानसमयः देवताधिष्ठानादेव पवित्रत्वादिति भावः । राजर्रुरुदन्तं शकुनतलाप्रतृयादेशादनन्तरवृत्तान्तं प्रत्यक्षोकरिष् ? यामि प्रत्यादिश्यापि किमत्रतप्यते नवेति तत्त्वतो ज्ञास्यामीत्यर्थः । मेनकायास्मृबन्धेन दुहितृत्वरूपेण । शरी ? रमिव शरीभूता प्रियसखीत्यथ्रः । तया - मेनकया दु हितृनिमित्तं स्वसुतायाः शकुन्तलाया 3 कृते आदिष्टपूर्वा प्रथममेवाज्ञापिता मेनकासमृबन्धो मेनकावचनं च निमितृतं मे राजप्रवत्तिसाक्षात्कारस्येत्यर्थः । ऋतूतृसवकालेपि वसन्तोत्सवावसरेपि उत्सवोवि [ उत्सवेपि ] इति पाठान्तरं निरुत्सवारम्भं डोलाधिरोहकुसुमापचयाद्युत्सवव्यापारशून्यं " इत्सूते हर्षमित्येष उत्सवः परिकीर्तितः ’ इत्युत्सवशब्दव्युत्पत्तिः । राजकुलं राजगृहं । प्रणिघानेन चित्तसमाधानेन । सर्वं परोक्षमपरोक्षं वा । विभवः शक्तिः देवतात्वादिति भावः । सख्याः शुकुन्तलायाः आदरः अभिलाषः मानयितव्यः यत्नेन संपादनीयः निमित्तादिवत् प्रणिघानदर्शनं नालं सखीविस्त्रम्भायेति भावः । पार्श्वपरिर्तिनी समीपस्थिता । तिरस्करिण्या नामतिरोधनविद्यया प्रतिच्छच्चा परैरदृश्या सती तावत् कार्त्स्न्येन उपलप्रये उत्सवनिवृत्तिहेतुं ज्ञास्यामि । नाठ्येनावतीर्य विमानादवरोहणमभिनीय । चूतांकुरं चूतकलिकाम् ॥ चूअमिति । हर्षितः ।ः मदं प्रापिताः पिकाः कीकिलाः येन तत् वसन्त मासस्य चैतस्य जोवितसदृशं प्राणवन्मुख्यतमं षट्चरणानां भ्रमराणां चरणैः पादाक्रमणैः भग्रं विदलितं उन्निद्रितमिति यावत् । अनेन विकासात् पूर्वमेव प्रथमसारभलोलुपानां मधुपानामापतो व्यज्यते । चूतमाम्रकुसुमं ऋतोर्वसन्तस्य मङ्गक्तं प्रारलक्षणत्वादिति भावः । पश्यामि उत्प्रेक्षे पिकषट्चरणप्रमदातिरेकेण चूतकुसुमस्य वसन्तकुसुमेषु प्राथम्यमभ्यमभ्यर्हितत्त्वं च व्यज्यते । षट्चरणचरणभग्रमित्यनेन भ्रमराणा नटसाधर्म्यं हर्षितपिककमिति च पिकानां सामानिकापम्यं सम्भूय च वसन्तावतारस्य नाड्यसादृश्यं प्रतीयते । " आअंमहरिअपुहुर वसंदमासस्सजीअसव्वस्स । दिट्टोसि चूदकोरअ उदुमङृगलं तुमं पसादेमि ’ ॥ [ आताम्रहरितपाण्डुर वसन्तामासस्य जीवसर्वस्व । दृष्टासि चूजतकोरक ऋतुमङ्गलं त्वां प्रसादयामि ॥ ] इति पाठे आताम्रः केसराग्रेषु रक्तः बहिर्दलेषु हरितः अन्तर्दलेषु च पाण्डुरः तस्य सम्बुद्धिः वसन्तमासस्य जीवसर्वंस्व जीविसारोहि चूतकोरक दृष्टः आविभर्मूतोसि ऋतीर्मङ्गलभूतं त्वां प्रसादयामि उत्सवार्थमभ्यर्थय इत्यर्थः । आर्या वृत्तम् । प्रथमा परभृतिका । द्वितीया च मधुकरिका । एकाकिनी असहाया सती " एकादाकिनिच्चसहाये ’ मन्त्रयसे जल्पसि द्वितीया तु पश्चादागता न दृष्ठा प्रथमेत्यत उक्तमेकाकिनीति । उन्मत्ता विभ्रान्तचिता खलु । चुतकलिकादर्शनेन परभृतिकायाः चित्तविकारो नः चित्रमिति भावः । अत्र परभृतिका पदश्लेषः चमत्त्कारी । कथमिति हर्ये । उपस्थितः न चित्रमिति भावः । अत्र परभृतिका पदश्लोषः चमत्त्कारी । कथमिति हर्षे । उपस्थितः संप्राप्तः मधुमासः चैत्रः " मधुश्च माधवश्च वासन्तिकावृतू ’ इति श्रुतेः । ते तव मदविभ्रमगीतानां मधुमदविलास भवानां गानानां एष मधुमासः कालः प्रारम्भसमयः चूतकलिकामासाद्य मधुमत्ताया भ्रमर्या इव वसन्तोतृसवप्रमुदितायास्तवापि मधुकरिकाया गानसमयोयमित्यर्थः । अवलम्बस्व धारय । अग्रं चासौ पादश्चाग्रपादः तेन पादाग्रेण एकदेशस्य समुदायानतिरेकात् कर्मधारयः । कामदेवार्चनाय मन्मथरूपामभीष्टदेवतामर्चयितुं । अपचयमादानं यावत् करोमि यावदवलम्बस्वेति सम्बन्धः । अर्चनफलस्य मन्मथाराधनसुकृतस्यार्धं भागः ममापि यदि तदावलम्बे इति विपरिणामेनानुषङ्गः । अभणिते अनुक्तेपि सति एतत् पूजाफलं एवं उभयोस्साधारणमेव सम्पद्यते पर्यवस्यति । यतो निमित्तातत् । जोवितमेकं एकएवात्मा । शरीरन्तु शरीरमेव परं द्विधास्थितं परेषां रूपभेदेन दृश्यं भवति । नत्वावयोस्तत्नापि भेद हत्यर्थः । तस्मादात्मगामिनि सुकृते साधारण्यं अविप्रतिपन्ननमिति भावः । सख्योरभिन्नसुखदुः खत्वं आत्मैक्यनिमित्तमवगान्तव्यं । सख्या परभृतिकया अवलम्बिता धृता सती सखीमवलम्बयेत पाठान्तरं । अहो आश्चयं अप्रतिबुद्वोपि अप्राप्तविकासोपि , चूतप्रसवः चूतपुष्पं अत्रास्मिन्नुद्याने अन्धनभङृगेन वृन्तछेदमात्नेण सुरभिः सुगन्धिः । अनेन कलिकायाश्चिनिर्गतत्वं वक्ष्यमाणं व्यज्यते । अत्र चूतप्रसवशब्देन राजा व्यजृयते । शकुन्तलाविस्मरणादप्रतिबोधः बन्धनभङृगसुरभिरित्यनेन अभिज्ञानदर्शनजनितेन शापमोक्षेण स्त्रिग्धहृदयत्वं प्रतीयते । कपोतं कामदेवपप्रणाम व्यञ्जक संयुतहस्तविशेषं । यथाह भरतः " उभाभ्यामपि हस्ताभ्यामन्योन्यं पार्श्वसङ्ग्रहात् । हस्तः कपोतको नाम कर्मचास्य निबोधत । विनयोयगमे चैवप्रणामकरणे तथा । गुरोरसमृभाषणे चैव कपोतको नाम कर्मचास्य निबोधत । विनयोपगमे चैवप्रणामकरेण तथा । गुरोरसम्भाषणे चैव कपोतः परिकीर्तित ’ इति । अन्यत्र च " सर्वपार्श्वसमाश्लेषात् कपोतस्सर्पशीर्षकः । भौतौ विज्ञापने चैव विनये च प्रयुज्यते ’ इति । तुंसीति । हे चूतांकुर त्वं गृहीतधनुषे नववसन्तागमादुपात्ताभिनवपुष्पचापाय कामाय मन्मथाय मया दत्तस्सर्पितोसि । परिकुपिताः प्रणयिजनेष्वत्यन्तकलुषिताः । युवतयो लक्ष्यं शरब्यं यस्य सः , पहिअजणजुवइलक्खो ( पथिकजनयुवतिलक्ष्यः ) इति पाठे प्रोषितभतृकावेधीत्यर्थः । पञ्चाभ्यधिकः करोरकतया निशिताग्रो विकस्वरादविन्दादिबाणपञ्चकादधिकगुण इत्यर्थः । अथवा पञ्चसु बाणेषु अभ्यधिकः गुणोत्तर इत्यथैः । भव समानानमुत्तमश्लोको भवेति भावः । अनिवर्तनीयेष्वपि मानिनमात्रेष्वकुष्वकुण्ठशक्तित्वमेवात्राधिक्यम् । आर्या वृत्तम् ॥ पटाक्षेपेण राजशासनानुपालनसम्भ्रमादिति भावः । मा तावत् नैवेदंयुक्तं । अनातृमज्ञे स्वपरिमाणानभिज्ञो राजशासनानुरोधो हि परिजनेन ज्ञातव्य इति भावः । आरभसे अन्येन केनाप्यकृतं त्वमेव प्रथमं करो ? षीत्यर्थः । उभे परभृतिका मधुकरिका च । भीते मधुकरिकाया एव केवलं कञ्चुकिना शिक्षणेपि सख्योः प्रवृत्तिसाम्यादिभन्नसुस्त्रदुः खतृवाच्च द्वे अपि कातरीभूते इत्यर्थः । अगृहीतार्थो अविदितवसन्तोत्सवग्रतिषेधरूपविषये । युवाभ्यां प्रतिबोधवतीभ्यामिति भावः । न किल श्रुतं न्तोत्सवप्रतिषेधरूपविषये । युवाभ्यां प्रतिबोधवतीभ्यामिति भावः । न किल श्रुतं राजशासनमश्रुतमिति कथमित्यर्थः । यदा यस्मिन् काले वासन्तिकैः वसन्ते पुष्यद्भिः कालातृ साघुपुप्यतृपच्यमानेषु ’ इति शेषिकस्याणः " ग्रीष्मवसन्तादन्यतरस्यामि ’ ति विभाषणात् पक्षे " कालात् ठञ् ’ । तरुभिः चूतादिभिर्वुक्षौरपि अत्तेतनैरपीत्यर्थः । शासनं उत्सवप्रतिषेधरूपं प्रमाणीकृतं अनतिलङिधतं । किंच तदाश्रयिभिः वृक्षाधिवासिभिः पत्रिभिः कोकिलादिभिः पक्षिभिश्च चेतनतया प्रवृत्तिक्षमैः तिर्यक्त्वेन शासनगौवानभिज्ञैरपि चेति भावः । प्रमाणहीकृतमित्युनषज्यते कथं तर्हि युवाभ्यां न श्रुतमिति पूर्वेण सम्बन्धः । यद्वासन्तिकैरिति पाठे यत् राजशासनमित्यर्थः । तन्न किल श्रुतमिति सम्बन्धः ॥ चूतानामिति —- चिरग्रितापि दीर्घेणप कोलनांकुरितापि चूतानां सम्बन्धिनी कलिका कोरकः स्वमातृमीयं रजः परागं न ब्रध्राति न सन्धत्ते येन नाद्याप्युन्मीलतीति भावः । यदपि कुरवकं कङ्केलिकुसुमं सनद्धं बद्धपरागं विकासाद्युक्तमित्यर्थः । तत् कोरकावस्थया विकसिष्यदवस्थानेनैव स्थितं प्रभुशासनदशायां यद्यदवस्थारूढं तदिदानीमपितदवस्थमेव भवतीति भवतीति भावः । अनेन कुरवकत्य चूतात् प्राथम्यं गम्यते । तथा च मालविकाग्रिमित्रेपि अग्रे विकीर्णंकुरवमिति कुरवकुसुमस्य पातमतीतं प्रत्युत्य फलजालकभिद्यमानसहकारमिति सहकारकुसुमपरिणामो वर्तमानः प्रप ? ञ्चितः । शिशिरे कण्ठरोधिनि गते व्यतिक्रान्तेति सति पुंस्कीकिलानां सम्बन्धि । पुंस्कोकिलशब्दो मदातिरेकव्यञ्जनाय । रुतं कूजितं कण्ठेषु स्खलितं प्रतिबद्धं कण्ठाद्वहिरनिर्गतमित्यर्थः । सवन्तागमप्रमोदात् प्रकान्तमेव देवशासनादनिर्गतं अन्तः कण्ठं कुण्ठितमिति भावः । किं बहुनेत्याह – शङ्क इति । स्मरोपि सर्वत्राकुण्ठप्रसरो ? पीत्यर्थः । चकितः देवप्रभावकभीतस्मन् तूणात् शारधेः अर्धकृष्टं असमग्रोद्धृतमेव शरं संहरति प्रत्यादत्ते इति शङ्के मन्ये उत्प्रेक्षामदनबाणानां कुसुमानामसमग्रनिर्गमेण कोकिलरुतस्य व सहकारिणः प्रतिबन्धेन मन्मथबाणस्यैव प्रतिसंहारसम्भावनादुत्प्रेक्षा । " मन्येशङ्केध्रुवंप्रायोनूनमित्येवमादयः । उत्प्रेक्षाव्यञ्जकाश्शब्दा इवशब्दापि तादृशः ’ इत्युक्तमाचार्यदण्डिना । राज्ञः स्वाभिज्ञानदर्शनात् पूर्वं यावान् मधुमन्मथयोः प्रचयः तावतैवावस्थानमुत्सवप्रतिषेधादिति भावः । शार्दूलविक्रिडितं वृत्तम् ॥ नास्ति सन्देहः सर्वैः प्रतीक्ष्यशासनो राजेत्यसन्दिग्धभित्यर्थः । राजर्षिरित्यनेन सर्ववशीकारयोग्या प्रभावानुभावसंपत्तिर्व्यज्यते । आर्थमित्रावसुना पूज्येन सर्ववशीकारयोग्या प्रभावानुभावसंपतिृतर्व्यज्यते । आर्थमित्रावसुना पूज्येन मित्रावसुनाम्रा राष्ट्रे नियुक्तः राष्ट्रियः तेन राज्ञः स्यालेन " राज्ञः स्यालस्तु राष्ट्रिय ’ इतृयमरः । " राष्ट्रावारपारत् घखौ ’ इति घः । पादमूलसेवाधिकारं प्रतीत्यर्थः । प्रेषितयोर्विसर्जितयोस्सत्योः कति दिवसानि अल्पान्येव दिनानि जातानीत्यर्थः । प्रमदवनस्य अन्तः पुरोद्यानस्य पालनरूपं कर्म व्यापारः समर्पितं न्यास्तुं अभिवनगतत्वात् आस्थानविप्रकर्षाच्चच नायमर्थो विदित इति भावः । ’ भस्तुणो पादमूलादो एत्थ चरन्दीणं ’ [ भर्तुंः पादमूलादत्र चरन्त्योः ] इति पाठान्तरं तत्र भर्तृसमीपे विहाय बहूनि दिनान्यतीभर्तृसमीपे विहाय बहूनि दिनान्यतीतनानीत्यर्थः । एषः वसन्तोत्सवप्रतिषेधः अश्रुतपूर्वः इतः पूर्वमनाकर्णितः । पुनः श्रवणात् परं एवं आम्रकलिकाभङ्गादिप्रकारेण न प्रवर्तितव्यं न कर्तवृयं । कौतूहलं जिज्ञासा । अनेन जनेन आवाभ्यमित्यर्थः । यदि श्रोतव्यं न चेद्रहस्यमित्यर्थः । मनोरपत्यानि मानुषाः " भनोर्जातावञ्यतौः षुक् च ’ इति साधुः उत्सवप्रतिषेधहेतुना भवितव्यं अवश्यभाव्यं । बहुलीभूतं व्याप्तं एतत् प्रतिषेधनिमित्तं किं कुतो न कथ्यते सर्वतिदितस्य कथनं नानुचितमत्यिर्थः । शकुन्तलाप्रतृयादेशविषयं कौलीनं लोकवादः । कुलीनस्य कर्म कौलीनं युवाद्यण् " स्यात् कौलनीनं लोकवादे युद्धे पश्वहिपक्षिणां ’ इत्यमरः । कर्णपथं कर्णंविषयं " ऋकृपूरबधूः पथामानक्षे " इत्यकारस्समासान्तः । नायातं न प्राप्तं । राष्ट्रियस्य मित्रावसोः मुखाद्वावाक्यात् अंगुलीयकदर्शनं यावतृ राज्ञः स्वमुद्रावलोकनान्तं । स्वांगुलीयकस्य धीवरोपनीतस्य दर्शनाद्धेतोः देवेन राज्ञा रहसि विजने ऊढपूर्वा पूर्वं परिणीता मोहाद्विस्मरणात् प्रतृयादिष्टा अनङ्गीकृता विवाहस्यासाक्षिकत्वेन मम चानभिज्ञानेन निरस्तेत्यर्थः । इति यदैवानुस्मृतं तदा प्रभृत्येव पश्चा त्तापं धर्मपत्नीपरित्यागादनुतापं उपगतः प्राप्तः ॥ रम्यमिति । रमयतीति रम्यं मनः प्रसादनं शब्दादिकमिन्द्रियार्थं द्वेष्टि नाद्रियते । यथा पुरा पूर्वमिव यथापुरमिति पाठान्तरे अव्ययीभावः । प्रकृतिभिर्मन्त्रिप्रभृतिभिः " प्रकृतिर्गुणसाम्ये स्यादमात्यादिस्वभावयोः । योनौ लिङ्गेपौरवर्गे ’ इति मेदिनी 1 अहन्यहनि प्रत्यहं वीप्सारूपे यथार्थेऽव्ययीभावः । न सेध्यते नोपसृप्यते , उत्कण्ठितत्वात् प्रायः प्रकृतय एव राज्यधुरां वहन्तीति भावः । शय्यायाः शुयनीयस्य प्रान्तेषु परिभागेषु विवर्तनैः विलुठनैः उन्निद्रः उत्सन्नस्वाप एव सन् क्षपाः रात्रीः विगमयाति वियोगदीर्घा रात्रीः निद्रानुपगमेन व्यापरान्तरानिच्छया च शयनीयभागविनिमयैरेव कथं कथमपि यापयतीत्यर्थः । दाक्षिण्येन पूर्वपरिग्रहेष्वपि सहृदयत्वेन " दक्षिणोस्यां सहृदयः ’ इति दशरूपके । अन्तः पुरेभ्यः उचितां प्रश्रानुरूपां वाचं ददाति स्वयमन्तः पुरैः पृष्टोपि प्रश्रातिरिक्तं न किञ्चिदतीत्यर्थः । यदा गोखेषु अन्तः रनामप्रहणेषु स्खलितः शकुन्तलानामोपगमादपराद्धः तदा चिरं व्रीडया लज्जया विलक्षः स्तब्धः भवति च । दक्षिणत्वाद्वैमुरूपं न भजत इति भावः । शार्दू लवि ? क्रीडितं वृत्तम् । प्रभवतः राज्ञः अस्मात् उक्तरूपात् विगतं मनो यस्य स विमनास्तस्थ भावो वैमनस्यं तस्मात् दुः खितत्वाद्धेतोः । इदो इदो भवं इति राजानं प्रति विदूषकवचनं । स्वकर्म स्वाधिकारः उद्यानपालनरूपः । पश्चात्तापस्य विरहानन्तरखेदस्यअनुरूपः वेषः मण्डनाल्पत्वादिः यस्य सः । सर्वास्ववस्थासु परिकर्मण्यपरिकर्मणि वा आकृतिविशेषाणां स्वतो विशेषवतां रूपाणां । एवं दृश्यमानेन प्रकारेण उत्सुको विरहखिन्नोपि प्रियं प्रीतिकरं दर्शनं यस्य सः ॥ प्रत्यादिष्टेति । प्रत्यादिष्टः परिवर्जितः विशेषमण्डनानां उत्सवकालीचितानामलङ्कारविशेषाणां विधिर्विधानं येन सः वामन्रकोष्ठे सव्यमणिबन्धे अर्पितं न्यस्तं कार्श्यात् प्रकोष्ठं यावद्गलितमिति भावः । काञ्चनं सुवर्णमयं नियतधायंमेव न पुनर्विशेषेण रत्नमयमिति भावः । एकमेव वलयं कङ्कणं वीलक्षणत्वादपरिहार्यमिति भावः । अत एव वामहस्तधारणमुक्तं । बिभ्रत् धारयन् अनिच्छयाप्युद्वहन्निति भावः । श्वासेन चिन्ताजनितेन निः श्वासेन अपरक्तः शोषाद्विवर्णः अधरोयस्य सः चिन्तया प्रि ? यानुचिन्तनेन जागरणेन निद्रात्यागेन च प्रतान्ते परिम्लने नयने यस्य सः प्रताम्रेति पाठे रक्तनेत्र इत्यथ्रः । तत्र चिन्तायास्तु रक्तिमहेतुत्वं चिन्त्यं । आतृमनः तेजोगुणात् नैसर्गिकतेजः प्रकर्षाद्धेतोः संस्कारेण मन्त्रेण उल्लिखितः उत्तेजितः महामणिर्महार्धं रत्नमिव क्षीणोपि कृशोपि सन् नाल्ख्यते क्षीणत्वेन न ज्ञायते । तेजस्विनां स्पतः कार्श्यमकिञ्चित्करमिति भावः । "" मणिश्शाणोल्लीढः समरविजयी हेति ? दलितो महक्षीणो नागः शरदि सरिदाशनपुलिना । कलाशेषश्चन्द्रः सुरतसृदिता बालवनिता तनिम्रा शोभन्ते गलितविभवाश्चार्थिषु जनाः ॥ ’’ इति चोक्तम् । उपमालङ्कारः । शार्दूलवि ? क्रीडितं वृत्तम् ॥ प्रत्यादेशेन परित्यागेन विमानिता लघूकृतापि अस्य राज्ञः कृते राजानमुद्दिश्येत्यर्थः । क्लम्यति दूयत इत्येतत् स्थाने खलु युक्तेव । एवं प्रियदर्शने प्रणयिनि न परिवर्जनीयो मनः सङ्ग इति भावः । ध्यानेन चिन्तया मन्दमलसम् । प्रथममिति । प्रथमं प्रियासन्निधानसमये सारं चित्रवर्णमङ्ग यस्य सः सारङ्गः शकन्ध्वादिः तस्य हरिणस्येव अक्षिणी यस्याः तया प्रियया प्रति बोध्यमानं प्रत्यभिज्ञाप्यमानमपि सुप्तं अनिवृत्तमोहमभूत् । इदं हतहृदयं दैवहतं मदीयं मनः संप्रति प्रियाव्यवधाने सति अनुशयुदः खाय पश्चात्तापदुः खमनुभवितुं " क्रिया र्थोपपदस्य च कर्मणि स्थानिनः ’’ इति चतुर्थी । विबुद्धं स्वयमुपजातप्रत्यभिज्ञं सन्निधौप्रतिबोधश्चेतृयुभ्यं प्रतिकूलदैवचष्टितमिति भावः ॥ तपस्विन्या शोच्यायाः शकुन्तलायाः भागधेयानि ननु भाग्यान्येव ईदृशानि । दुः खावसानानि । स्त्रिया एव हि भर्तृपरित्यागो महहुः खमिति भावः । स्वगतमित्येव युक्तः पाठः न त्वपवार्येति जनान्तापवारितयोर्द्वयोरपि नियतश्राव्यभेदत्वेन रहस्यं कथ्यते अन्यस्य परावृत्यापवारितमिति लक्षणे च तस्यात्रासम्भवात् । राजा च विदूषकश्च द्वावेव ह्मत्र प्रविष्टौ । तिरकरिणीतिरोहिता च सानुमती । न चोपगतः कञ्चकी त्रितयादन्यूनेषु समवेतेषु नियतश्राव्यं प्रसजति केनचिद्वक्तव्यं अन्येन श्रोतव्यं न चेतरेणेति । भूयः पुनरपि शकुन्तलाव्याधिना शकुन्तलासरूपेण रोगेण दुः खहेतुत्वसाम्यादिति भावः । शकुन्तलाविषयेण मनोव्याधिनेति वा । लंधितः अभिभूतः वशीकृत इति यावत् । भूयः शब्देन मृगयाकालिकं वृत्तं प्रत्यभिज्ञाप्यते । चिकित्सिव्यः व्याधिप्रतीकारार्थमुपः क्रमितव्यः । प्रत्यवेक्षिताः महाराजोपस्थानयोग्यत्वेन परिदृष्टाः । यथाकामं यथेच्छं विनोदनस्थानानि चित्तविश्रमयोग्यान् प्रदेशान् अध्यास्तां "" अधिशीङ्स्थासां कर्मा ’’ इति कर्मैसंज्ञायां कर्मणि द्वितीया । सर्वमेवासनयोग्यं परिकल्पितं स्थानविशेषपरिग्रहे तु स्वाभिरुचिः प्रमाणमिति भावः । वेत्रस्याधिकारलक्षणत्वाद्वेत्रवतीति सम्बोधनं संज्ञा वा । आर्यपिशुनं आयं पिशुननामानं कार्यसूचकत्वादमात्यस्य पिशुन इति नाम । अथवा आर्यलक्षणोपेतत्वार्थं आर्यपिशुन पदं "" पिशुनो खलुसूचकौ ’’ इत्यमरः । चिरप्रबोधात् दीर्धंकालजगाराद्धेतोः विरहौकण्ठ्यं जागरनिमित्तमाकूतस्थं धर्मासनं व्यवहारदर्शनस्थानं अध्यासितुं अधिष्ठातुं न सम्भावितं न सकङ्कलिपतं । आर्येण भवता पोरकार्यं क्षेत्रधनव्यवहारादिरूपं प्रत्यवेक्षितु परामृष्टं । पत्रमारोप्य लेखे विलिख्येत्यर्थः । निष्पन्नमेवार्थं ज्ञातुमिच्छामीति भावः । प्रतिहिसयते प्रतिनिवर्त्यते जनः अनेनेति प्रतीहारः "" उपसर्गस्य घञ्यमनुष्ये बहुलं ’’ इति पक्षे प्रतेर्दीर्घः । "" प्रतिहारो द्वारपालद्वारस्य द्वास्थितदर्शंकाः ’’ इतृयमरः । गौरादितृवादङीष् । वातायनेति तस्य कञ्चुकिनस्संज्ञा । ग्रहणं नियोगं स्वाधिकारं अशून्यं स्वेनावियुक्तं । मक्षिकाणामभावो निर्मक्षिकं अर्थाभावेऽव्ययीभाव 3 विविक्तमित्यर्थः । शिशिरे स्पर्शसुखमारुते तापच्छेदेन छायया तापनोदेन रमणीये मनोज्ञे शिशिरातपच्देदरमणीय इति पाठे शिशिरेचातपच्छेदरमणीये चेत्यर्थः । प्रमदवनस्य उद्देशे प्रदेशे आतृमानं मनः रमयिष्यसि विनोदयिप्यसि अनर्षाः विपतयः विरोधार्थेन नञा समासः । रन्ध्रे व्यनरूपे स्वावकाशे उपनिपातिनः सम्भूय प्रवृत्तिशीलाः । ततलौकिकं वचः अव्यभिचारि अनन्यथासिद्धम् अवितथमिति यावत् । रन्ध्रोपनिपातमुपपादयति । मुनीति । सखे मुनिसुतायाः शकुन्तलायाः प्रणयस्य सख्यस्य विवाहस्येति यावत् स्मृतिं स्मरणं रुणद्धि प्रब्रिघ्रातीति तथाभूतेन तमसी व्यामोहेन प्रत्यक्षेप्यनवबोधसाम्यात्तमश्शब्दः । ममेदं मनः मुक्तं च सद्यः परित्यक्तमितीदंशव्दार्थः । प्रहरिष्यता मनसिजेन मन्मथेन धनुषि स्वचापे चूतशरः चूतकुसुमरूपो बाणः निवेशितः संहितश्च । उत्कण्ठानुपदं वसन्तागमोयमनर्थोपर्यनर्थ इति भावः ॥ समुचचयालङ्कारः । "" गुणक्रियौगपद्यं समुच्चयः ’’ इति लक्षणात् । द्रुतविलम्बितं वृत्तम् ॥ तिष्ठ तावत् स्थिरो भव मा भैषीरित्यर्थः । दण्डकाष्ठेन अवष्टम्भरूपेण काष्टेन काष्ठशब्दो ग्जतहिरण्यादिव्यावर्तनः । कन्दर्पबाणं चूतकुसुमरूपं नाशयिष्यामि पातयिष्यामि येन नानर्थो भवेदिति भावः कन्दप्पव्वाहिं [ कन्दर्पंव्याधिं ] इति पाठे व्याधिहेतौ चूतकुसुमे उपचारतः प्रयोगः । व्याधमिति पाठे व्याधवन्निर्दयं कन्दर्पमित्यर्थः । आयुधपातने निरायुधः कन्दर्पो नष्टकल्य इति भावः । इच्छति यतते । ब्रहृमवर्चसं इत्याध्ययनसम्पत्तिः ब्रह्मणः तपसो वेदस्य वा वर्चो बलमिति ब्रह्मवर्चसं "" ब्रह्महस्तिभ्यां वर्चसः ’’ इत्यच् प्रत्ययः समासान्तः । वसिष्ठादिवहण्डकाष्ठमात्रेण सर्वास्त्रप्रतिरोधसामर्थ्यमित्यर्थः । दृष्टं अनुभूतपूर्वं किमाविष्कारेणेति भावः । प्रियायाः शकन्तलायाः कर्मणः किञ्चित् अल्पं अनुकारिणीषु अनुकरणशीलासु कृद्योगात् कर्मणि षष्ठी । कात्स्न्र्येन साद्दश्यं दुर्लंभमिति भावः । उक्तमन्यत्नापि "" कलमन्यभृतासु भाषितं कलहंसीषु गतं मदालसं । पृषतीषु विलोलमीक्षितं पवनाधूतलतासु विभ्रमः ’’ "" हन्तैकस्मिन् क्कचिदपि न ते चण्डि सादृश्यमस्ति ’’ इत्यादि । दृष्टिं शकुन्तलारूपविलोभितां विलोभयामि रमयामि । आसन्ना समीपवर्तिनीं परिचारिका चतुरिका नाम सन्दिष्टा आज्ञापिता । अतिवाहयिष्यामि गमयिष्यामि । तत्र माधवीमण्डपे चत्रफलके आलेख्योचितफलके मे मम स्वहस्तिलिखितां साक्षादालिखितां चित्रफलकगतामिति पाठान्तरं । प्रतिकृ ? तिं प्रतिमां । हृदयस्य मनसः विनोदस्थानं उत्कण्ठापनोदनिमित्तं ईदृशं प्रतिकृत्यादिरूपमेव । प्रियाचिन्ताविधुरं विनोदान्तरेण न शक्यं मनोविनोर्दायतुमिति भावः । अथवा साक्षात् प्रियाया दुर्लभत्वात् सादृश्यदर्शनमात्रं शरणमिति भावः । तमेव अथवा साक्षात् प्रियाया दुर्लभत्वात् सादृश्यदर्शनमात्रं शरणमिति भावः । तमेव माधवीमण्डपगामिनमेव । मणिशिलापट्टेन स्फटिकशिलाफलकेन सनायः सहितः उपहारैः कुसुमप्रकारादिभिरुपचारैः रमणीयतया मनोहरत्वेन हेतुना प्रतीच्छति प्रतिगृह्णातीव । विशिष्ठानामुपगमे वन्दनमालादिभिः गृहादिप्रसाधनं हि स्वागतव्यञ्जनमिति भावः । लताया सन्निहिता समीपवर्तिनी संश्रितेति पाठान्तरं । सख्याश्शकुन्तलायाः प्रतिकृति मालेख्यं तावत् साकल्येन ततः दर्शनानन्तरं भर्तुस्समृबन्धिनं बहुमुखं मनोवाक्कायाश्रयमनेकप्रकारं अनुरागं प्रेम निवेदयिष्यामि निवेदनमात्रमपिहि संप्रति कियानाश्वास इति भावः । प्रथमवृत्तान्तं मृगयाकालिकं चक्षूरागादिकं सर्वं निरवशेषं इदानीमसन्निधौ स्मरामि किमतीते स्मरणेनेति भावः । ? कथितवान् तादनीमेव निवेदितवानस्मि । स भवान् विदितार्थस्तृवं प्रत्यादेशेवेलायां शकुन्तलापग्रतिषेधसमथे नासीत् हंसपादिकां प्रति प्रहितत्वादिति भावः । पूर्वमपि शकुन्तलोपगमात् प्रागपि त्वया विदितवृत्तान्तेन सतेत्यर्थः । कदाचित् क्कचिदपि प्रस्तावे तत्रभवत्याः शुकुन्तलाया नाम नाममात्रमपि न सङ्कीर्तितं नोक्तं । विस्मृतवानसि न हि स्वयं स्मरन् नमामनुस्मारयिष्यसीति भावः । सर्वं परस्परानुरागप्रकारमशेषं । अवसाने कथान्ते । परिहासजल्प एषः परिहासार्थमुक्तमिदंन भूतार्थः न तु परमांर्थः "" परिहासविजल्पितं सखे परमार्थेन न गृह्मतां वचः ’’ इत्येतादर्थतोऽनूदितं । सखे परमार्थेन न गृह्मतां वचः ’’ इत्येतदर्थतोऽनूदितं । मृत्पिण्डमिव बुद्धिर्यस्य तेन स्थौल्यात् प्रसरणाक्षमबुद्धिना यथाश्रुतग्राहिणेत्यर्थः । न हि भवता मिथ्यैव शकुन्तलानुरागः प्रस्तुतो भवेत् निह्नवस्तु कार्यतस्स्यादिति ज्ञातव्यं पश्चात् प्रस्तोतव्यञ्च मया न कृतमिति भावः । भवितव्यता नियतिः बलवती प्रबला नह्मन्यथा त्वया स्वानुभूतं वस्तु विस्मर्थेतेति भावः । परित्रायस्वेति शोकदैन्याविष्कारः । त्वयि धीर इत्यर्थः । ईदृशं अमिभूमिं गतं दैन्यं अनुपपन्नं अनुचितं । कदापि सत्यपि हेतौ सत्पुरुषाः धीराः शोकपात्रं शोकस्थानभूतः आत्मा मनः येषां तथाविधाः न भवन्ति । प्रवाते प्रबलं वाते सत्यपि गिरयः पर्वताः नुन निष्कम्पाः निश्चला एव खलु दृष्टान्तालङृकारः । "" नपृथग्जनवच्युचो वशंवशिनामुत्तम गन्तुमर्हासि । द्रुमसानुमतां किमन्तरं यदि वायौ द्वितयेपि तेचलाः ’’ इति रघुवंशे । निराकरणेन प्रतिषेधेन विक्लबाया दीनायाः निष्कारणनिराकरणेति पाठानतरं । प्रियायाश्शकुन्तलायाः समवस्थां दशां अनुस्मृत्य इदानीमनुचिन्त्य बलवत् दृढं अशरणः अगतिकः धैर्यरूपावलम्बरहित इत्यर्थः ’ नायंस्वार्थो विषादः किन्तर्हि प्रियार्थ इति भावः ॥ इतइति । इत अस्मात् मत्सकाशादित्यर्थः । प्रत्यादेशात् प्रतिषेधाद्धेतोः स्वजनं ज्ञातिजनं पितृशिष्यवर्गमिति यावत् । अनुगन्तुं व्यवसिता बारब्धाभर्तृपरितृयक्तानां सतीनां शरणान्तरभावादिति भावः । गुरुणा पित्रा समे ज्ञानशीलतपः प्रभृतिभिस्सदृशे ग्राह्मवचन इत्यर्थः । गुरोः पितुः शिष्ये शार्ङ्गरवे तिष्ठेति उच्चैः उन्नतस्वारेण वदति सति स्थिता निवृत्तानुगमना । ततस्तिष्टेत्युच्चैर्वदतीति पाठे उच्चैर्वदति सति पुनर्द्दष्टिमर्पितवतोत्यन्वयः । तत्र च पुनश्शब्दवैयर्थ्यं । मुहुस्तिष्ठंति च पाठान्तरं चिन्त्यं न हि तथा प्रौढाया मुहुः प्रतिंषेधः संभवति । पञ्चमाङृके च सकृ ? देव तिष्ठेति प्रतिषेधो , दृश्यते । युनः स्वजानुगमेऽगमेऽपि प्रतिषिद्धे समीयर्थः । बाष्पप्रसरणेन दुः खाश्रुसन्तानेन कलुवामविशदां दृष्टिं दर्शनं क्रूरे तदानीमप्यकरणे मयि अर्पितवतो दत्तवती त्वमेव शरणमिति स्वात्मार्पणमेव दृष्टदार्शितमिवेति भावः । समानेति प्रत्याख्याने मय्येव दृष्ट्यर्पणं न तु स्वजन इति तादृशं तस्याः प्रेम मम तु ? विपयैय इति भावः । इति यत् तत् सविषं विष ? दिग्धं शल्यं बाणाग्र मिव मामपराधिनं सन्तं दहति सन्तापयति । हृदि निमग्रस्य प्रत्यादेशशल्यस्य विषलेषोयं यद्वाष्पकलुयप्रियादर्शनुदर्शंनभित्यर्थः । उपमालङ्कारः । शिखरिणी बृत्तम् ॥ स्वकार्यपरता स्वार्थप्रधानता ईदृशी नाम एवं विधापि स्वदुः खे सति परदुः खसंवेदनमन्यथा चावधारणमिति गरीयसीति भावः । रमे हृष्यामि सखीसन्तापकारी स्थाने किलायं सन्तप्यत इति भावः । तर्कः ऊहः । केनाप्याकाशचारिणा गन्चवाादिना नीता हृता "" आक्षिः यैनां ज्योतिरेकं तिरोभूत् ’’ इति पुरोहितवचनादवगम्यत इति भावः । पतिर्देवता यस्यास्तां साध्वीं अन्यः कः पुमान् परामुष्टंं स्पुष्टुमपि किंपुनर्नेतुमिति भावः । एत्सहते शाक्रोति । मेनकानामाप्सराः किलेत्यैतिह्मे तव सख्याः शकुन्तलायाः जन्मप्रतिष्टा उत्पत्तिभूभिः इति श्रुतवानस्मि शकुन्तलासखीमुखादिति भावः । तत्सहचारिणीभिः । मेनकास्खीभिः हृतां वात्सल्यापनीतां आशङ्कते अभ्यूहति नत्वस्याः शीलदूषणं संभाव्यत इति भावः । तथा विलुप्तस्मरणस्य कथमिदं सविशेषं स्मरणमित्यनुचिन्त्याह – सम्मोहे इति । सम्भोहः स्त्रलु विस्मरणमेव हि । प्रतिबोधः प्रत्यभिज्ञानं अनुभूतस्य हि स्मरणमुपपद्यते । एवं विधस्य प्रेम्णो विस्मरणमेव तु परं निर्निमित्तमिति भावः । यद्येवं मातृवर्गेण चेन्नीता स्यात् कालेन कालान्तरेण अस्ति सम्भवति भवदभिप्रायज्ञानमात्रमत्र विलम्ब इति भविः । कथमिति समागम इत्यनुषज्यते । माता च पिता च मातापितरौ "" आनडतो द्वन्द्वे ’’ इति मातुरानडादेशः । भर्तृवियोगेन दुः खितां । न खलु पारयतः नैव शक्नुतः ॥ स्वप्रइति । नु इति वितर्के स्वप्रो नु स्वाप्रिकार्थसन्निधानं किं क्षणभङ्गुरत्वात् अपुनर्दर्शनाच्च स्वाप्रिकार्थकल्पमित्यर्थः । नायं स्वप्रो भवति यतोऽन्यैरप्ययमर्थ उपलब्ध इत्याह – मायेति । माया नु इन्द्रजाकादिकं कृतकनिर्माणं किमित्यर्थः । गन्धर्वनगरादेर्मिथ्याभूतस्यापि सर्वानुभाव्यस्य सम्भवादिति भावः । मायापि हि मायाविदः कर्म नचायमुपलभ्यते तदाह — मतीति । मतेः बुद्धेः भ्रमो विपर्यासः अभूतार्थदशीं कश्चिदुन्मादकल्पः चित्तविकारः किमित्यर्थः । अन्यानुभतत्वप्रतिसन्धानमपि हि भ्रान्तमेव स्यादिति भावः । इदानीमपि स्मर्यमाणतथा नायं मतिभ्रम इत्यनाश्वासादाह — क्लिष्टमिति । अथ वा पुण्यं जन्मान्तरसुकृतं किमपि तावत् सकृदनुभवमात्रावसानं फलं सुखरूपं कार्यं यस्य तथाभूतं सत् क्लिष्टं नु निरनुबन्धं निवृत्तं किं । उक्तनां विकल्पानां सामान्यं निमित्तमाह — असन्निवृत्त्यै अपुनर्निवृत्तये तत् शकुन्तलारूपं वस्तु । स्वप्राद्यन्यतमत्वाभिसन्धानात् पूर्वदृष्टत्वसामान्येन नपुंसकं । अतीतमतिक्रान्तमेव । अतो मनोरथानां प्राप्त्यभिलाषाणां प्रपाताः निर्ज्ञंरवत् पतनानिअतटाः भूमिरहिताः अप्राप्तविश्रमा इत्यर्थः । विषयसिद्धिरेव हि विश्रान्तिर्मनोरथानामिति भावः । प्रवाहा इति पाठे अतटाः प्रतिबन्धकराहित्येन निरर्गला इत्यर्थंः । अतटप्रपात इति पाठे अतटे अभूमौ प्रात इत्यर्थः । "" असन्निवृत्त्या तदतीव मन्ये मनोरथानामतटप्रपातं ’ 7 इति पाठे असन्निवृत्तत्वादेव मनोरथानां अतटप्रपातुमुत्प्रेक्ष इत्यर्थः । असन्निवृत्त्यै तदतीतमेवे ? ति वाक्यार्थंस्य मनोरथानामित्यनन्तरवाक्यार्थं प्रति हेतुत्वात् वाक्यार्क्थहेतुकं काव्यलिङ्गमलङ्कारः । तदनुप्राणिता च स्वप्रत्वाद्युत्प्रेक्षेत्यङ्गङ्गिभावसङ्करः । उपजातिवृत्तम् ॥ मैवं नत्वसन्निवृत्त्यै व्यतिक्रान्तं । अवश्यम्भाविनः अवश्यं भवनशीलस्यवस्तुनः समागमः संप्राप्तिः अचिन् ? तनीयः अतर्क्यः इतीमं विषयं प्रति अङ्गुलीयकमेवं अचिन्तितोपनमेवेत्यर्थः । निदर्शनं निश्चयकं अज्ञातपातमपि स्वेनोपयातमंगुलीयकमेव प्रियाप्रतृयावृचिसूचकं निमित्तं यदपायो वियोगनिमित्तमासीदिति भावः । असुलभात् दुर्लभात् स्थानात् शकुन्तलांगुलिदेशात् भ्रंशि लब्धास्पदमपि गलितं इदं तावदंगुलीयकमपि शोचनीयं अहमिव शोकार्हमित्यर्थः ॥ तवेति । हे अंगुलीय तव सुचरितं त्वदीयं सुकृतं ममेव मत्सुकतमिव प्रतनु अतिमात्रकृशं फलंन क्षणिकपदासादनरूपेण कार्येणेंव विभाव्यते अनुमीयते अल्पपुण्यस्य स्वर्गपदमिव क्षणभंगुरमावयोरपि सुकृतफलमिति भावः । यत् यस्मातृ अरुणैस्ताम्रैः नखैः मनोहरासु हृद्यासु तस्याश्शकुन्तलायाः अगंलीषु लब्धपदं लब्धाश्रयं सत् च्युतं भ्रष्टमसि । सुकृतवशादंगुलीपदलाभः सुकृतावसानाच्च प्रच्युतिरिति भावः । नखानामरुणत्वविशेषणेन कैमुतिकन्यायसिद्धमंगुलीनामारुण्यं । ततश्च अरविन्ददलसाम्यं । लक्ष्मीस्थानत्वादुन्नतपदत्वं च व्यञ्जितं भवति । अंगुलीष्विति च बहुवचनेन पुरुषांगुलिप्रमाणपरिणाहस्यांगुलीयस्य सर्वांगुलिविनिवेशनं सुषुमाविशेषदर्शनाभिलाषिणा स्वेनोपपादिततया च प्रेमपरतन्त्रया प्रतिपन्नमिति व्यज्यते । उपमासंसृष्टमनुमानमलङ्कारः । पुष्पिताम्रा वृत्तम् ॥ अन्यस्य दुष्यन्तादितरस्य हस्तगतं हस्तं प्राप्तं । शकुन्तलाहस्तभ्रष्टमपि एतदंगुलीगतं न शोच्यमिति भावः । नाममुद्रा नाममुद्रितमंगुलीयकां उद्वातेन आरम्भेण निमित्तेन "" स्यादभ्यादानमुद्धात आरम्भः ’’ इत्यमरः । तव विस्मरणस्य तस्या वा त्वय्यविस्त्रम्भस्य असम्भावनीयत्वात् कोऽवसर इति भावः । उदेसेण इति पाठे अभिसन्धिनेत्यर्थः । हस्तसंसर्गं हस्तांगुलोसंयोगं प्रापितः लम्भितः । कातुहलेन जिज्ञासया एषः अंगुलीयनिवेशहेतुः आकारितः आहूतः विषयीकृत इति यावत् । ममापि जिज्ञासितोयमित्यर्थः । आकारि इत्यस्य प्रेरित इति व्याख्याने एष इति विदूषकपरं यदृच्छया मम जिज्ञासितमयमेव पृष्टवानित्यर्थः । तदापरिणये जाते स्वनगराय स्वनगरं गन्तु प्रस्थितं आश्रमं त्यक्तुं व्यवसितमित्यर्थः । सबाष्पं विरहासहतयेति भावः । कियच्चिरेण कियता कियता कालेन चिरशब्देन विरहे सति क्षणत्यापि दीर्वत्वं व्यज्यते । प्रतिपत्तिं अङ्गीकारं दास्यति प्रत्यानेष्यतीत्यर्थः विनिवेशयता स्वयमामुञ्चता सता प्रत्यभिहिता प्रत्युक्ता ॥ एकैकमिति । दिवसे दिवसे दिने दिने अत्रांगुलीयके स्थितं एकमेकं मदीयं नाम्रः दुष्यन्ताख्यायास्सम्बन्ध्यक्षरं गणय संख्याहि यावत् येन कालेन अन्तं समाप्तिं गच्छसि ग्राप्रोषि । मन्नान्न इति शेषः । तावत् तं कालमनतिक्रम्यद्वित्रैर्दिनैरिति भावः । मम अवरोधगृहस्य अन्तः पुरभवनस्य कम्रणः प्रवेशं नेता प्रापयिता जनः मत्परिजनः तव समीरयं उपैष्यति प्राप्स्यति । इति प्रत्यभिहितेति पूर्वेणान्वयः । मानसेनापरिकरेण त्वामवरोधमानाययिष्यामीति भावः । नामाक्षरगणनं च विरहविनोदार्थं "" शेषान्मासान्विरहदिवसस्थापितस्यावधेर्वा विन्यस्यन्ती भुविगणजया देहलीदत्तपुष्पैः ’’ इत्युक्तं मेघसन्देशे । नेघसन्देशे । नेतृशब्दस्ताच्छील्यतृननन्तः अत एव “6 न लोकाव्ययनिष्ठाखलर्थतृनां ’’ इति निषेधान्न षष्ठी । अथवा शेषे विभाषेति वार्तिकस्य केचिदविशेषेण विभाषामिच्छन्तीति व्याख्यानत्तृजन्तस्यापि "” कतृ्रकर्मणोः कृति ’ 7 इति विधेर्विकल्पनं बोध्यं । वसन्ततिलकं वृत्तम् ॥ तच्च स्वयमुक्तं च दारुणेन विरसेन । मोहादनभिज्ञानात् । नानुष्टितं नकृतं । तादृशस्य सङ्गतस्यानिर्वहणं हि विरसकर्मेति भावः । अवधिः प्रत्यानयनकालपरिच्छेदः रमणीयः निजाभरणरूपविनोदसंपासढनाभिजातः विसंवादितः अनुरागे तु न वैकल्यमिति भावः । धीवरेण कल्पितस्य खण्डितस्य रोहिताख्यमत्स्यविशेषस्य । शकुन्तलांगुलौ विनिवेशितस्य कर्थं मत्स्येन निगरणमित्यर्थः । शचीतीर्थं नाम गङ्गायां शक्रवतारभ्यन्तरगतं स्थानविशेषं वन्द्रमानायाः उपस्पर्शनेनाभ्यर्हन्यन्त्यास्सत्यांः परिभ्रष्टं विगलितं । युज्यते प्रवाहपतितस्य मत्स्येन निगरणं सम्भवतीत्यर्थः । अत एव अंगुलीयविगमादेव राजर्षेः जितेन्द्रियस्येति भावः । अधर्मभीरोः परदारस्पर्शरूपपापभीतस्य तपस्विन्याः शोच्यायाश्शकुन्तलायाः परिणये विवाह एव । कथमन्यथा धार्मिको धर्मपर्त्नी परित्यजतीति भावः । ईदृशः एवमुत्कटः अनुरागः प्रेमातिशयः अभिज्ञानमपेक्षत इति काकुः असम्भाव्यविस्मरणे विषेय कथमभिज्ञानाधीनं स्मरणमिति भावः । इदमंगुलीयकं उपालप्स्ये । निन्दिष्यामि । उन्मत्तानां विभ्रान्तचित्तानां नन्थाः चेतनाचेतनविशेषानवधारणरूपो मार्गः गृहीतः अङ्गीकृतः । कथमिति । हे अंगुलीयकेति समृबोधनमर्थंसिद्ध । बन्धुरा उन्नतानताः मूलतोविपुलाः आनुपूव्यां च तन्वग्रा इत्यर्थः । कोमला मूदुलाश्च अंगुलयो यस्य तथाभूतं तं शकुन्तलासम्बन्धिनं करं विहाय कथं नु कथं वा अम्भसि निमग्रमसि आभरणस्याप्याभरणभूतं यत्र सविशेषं शोभिष्यसे ततो गलितं जले च निमग्रं मूग्यतां गतमसीति कस्तवायमविवेक इति भावः । अथवा अचेतनं नाम जडं ख्ल्वंगुलीयकं गुण आश्रयोत्कर्षं न लक्षयेतृ न जानीयात् । अचेतनस्य विशेषाग्रहणं नैसर्गि ? कमित्यर्थः । मयैव विशेषविदाचेतनेनैव सता कस्मात् कारणात् प्रिया अवधीरिता निषिद्धा । गुणज्ञा एव सन्ननुभुतप्रियापरित्यागी पर्यनुयोज्य इत्यर्थः । अथवा अचेतनं अंगलीयकं गुणं न लक्षयेत् न गृह्णातु नाम नामेत्यङ्गीकारे । ऊचेतनानामगुणं न लक्षये इति पाठे ज्ञात्वापि कृतावधीरणस्य अचेतनेषु मे दोषदर्शनमनुचितमित्यर्थः । फुले कियदन्तरमग्रहणविस्मरणयोरिति भावः । विपर्यस्यति भागधेये प्रज्ञापि नार्थंकरोति किं मुधाप्राज्ञमानितयेति च - गभ्यते । वंशस्थं वृत्तम् ॥ बुभुक्षया अशनायया खादितव्यः भक्षणीयः भक्षणीयालाभादतिभूमिगतया बुभुक्षया स्वाश्रयाशिन्यहमेव भ ? क्षयितव्योस्मीति भावः । यत् पुनरत्र बुभुक्षया शकुन्तलां प्रति रिरंसया राज्ञ इति शेषः । अहं खलु अहमेव खादितव्सयः भोक्तव्यः शकुन्तला दुर्लंभा निकटेऽन्यः को 1 ़पि न विद्यते शकुन्तलाधिया मामेव ग्रहीष्यतीएलायनचिन्ता व्यज्यते ’ 7 इति व्याखृयानं तत् क्लिष्टं ग्राम्यञ्च । अकारणपरित्यागेन निर्हेतुकेन प्रत्याख्यानेन योयमनुशयः पश्चात्तापः तेन सप्तहृदयः पीडितमनाः अकारणपरित्यक्त इति पाठे शकुन्तलाकसम्बोधनं व्यारूयेयं । अयं जनः अहं अनुकम्पनीयतां दर्शयितुं जनसामान्येन जनसामान्येन व्यपदेशः । अनुकम्पनीयः सकृत् कृतमपराधं विस्मृत्य दर्शनान्तरदानेनेतृयादिः । पटाक्षेपेण सम्भ्रमात् कार्यालन्पत्वाच्च तिरस्करिणीक्षेपं विनैवेत्यर्थः । मघुरेण सुन्दरेण अवस्थानेन अङ्गसन्निवेशेन दर्शनीयः मनोरमः भावस्य अनुभूतार्थसंस्कारस्य अनुप्रवेशः प्रतिकृतावभिव्यक्तिः यथानुभूतमालेक्ष्ये निवेशितमिति भावः । मे मम दृष्टिः आलोकः निम्रोन्नतप्रदेशेषु नयनाधारनाभिप्रदेशप्रभृतिषु नासिकास्तनजघनादिषु च यथासंख्यं निमक्रेषून्नतेषु च सथानेषु स्खलतीव अवरोहत्यारोहति चेवेत्यर्थः । समफलकन्यस्तमपि चित्रं वर्णविन्यासवैदग्ध्यात् उत्सेधानुत्सेधवदिव विभाव्यत इति भावः । एषा ईदृशी वत्तिंकानिपुण्ता लेखिनीग्रहणप्रवीणता । सखी साक्षादेव शकुन्तला अग्रतो वर्तते पुरस्तात् तिष्ठतोति जाने विदितार्पणापि भ्रान्तास्मीत्यर्थः । वर्णिकानैपुणमिति पाठे "" वर्णकश्चारणे स्त्री तु चन्दने च विलेपने । द्वयोर्नील्यादिषु स्त्री स्यादुत्कर्षे काञ्चनस्य च ’’ इति मेदिनीकोशात् नील्यादिपदोपलक्षिते रागमात्रे वृत्तो वर्णिकाशब्दः शिल्पकलामिह लक्षयति ॥ यद्यदिति । चित्रे आलेखृये यद्यत् अवयवस्थान् साधु समीचीनं प्रकृतिसयपमित्यर्थः । न स्यात् तत्तत् सर्वमेव अन्यथा क्रियते अपमृज्य पुनस्साघुतामानीयते हेयहानादुपादेयोपादानाच्च भूयो भूयस्संस्कृत्य चित्रं निर्वंर्त्यत इत्यर्थः । किं वक्तव्यमनन्यमनसो ममेति च व्यज्यते । तथापि यत्नोपपादितत्वेतपि सति तस्याः शकुन्तलायास्सम्बन्धि लावण्यं शोभाविशेषः रेखयामात्रयाप नतु कार्त्स्न्येनेत्यर्थः । कॢञ्चिदन्वितं ईषदेवानुगतं । लेयायेति पाठे बहिरामात्रेणेत्यर्थः । आलेख्येप्यालिखितुमशक्यं तद्रूपमिति भावः । माकविकाग्रिमित्रेऽप्युक्तं "" चित्रगतायामस्यां कान्तिविसंवादशङ्कि मे हृदयम् । संप्रति शिथिलसमाधिमन्ये येनेयमालिखिता ॥ ’’ इति । यस्तु यद्यत् साधु स्वतसुन्दरं न स्यात् तत्तच्चित्रे अन्यथा क्रियते सुन्दरत्वमानीयत इति व्यख्यानम् । तदसुन्दरं प्रतिकृतेहि प्रककृतितो न्यूनातिरेका दूषणमेव न तु भूषणं । नरं वानरयन्निव वानरमपि हि नरयन्न शिक्षितो गण्यते । अपि च वाक्यान्तरस्थस्य चित्र इति पदस्य अन्यस्मिन् वाक्ये योजनया वाक्यगर्मितं नाम दोषस्समानीयत इति । अनुष्टुप् वृत्तम् ॥ एतत् चित्रस्य न्यूनत्वक्रथनं पश्चात्तापेन परित्यागानुशयेन गुरोः गाढस्य स्नेहस्य अनुरागस्य अनवेलपस्य शिल्पविज्ञानमदाभावस्य च सदृशमनुरूपं । प्रियानुरागः सर्वमपि इतरत्तो न्यूनं दर्शयति विनीतत्वाच्च स्वनिर्माणे नाभिमान इति भावः । सर्वाः तिस्त्रोपि दर्शनीयाः येन न वेदितुं शकस्यत इति भावः । कतमा तिसूणां मध्ये का । अनसूया प्रियंवदा चालिखिते इति व्यज्यते । सस्वीरूपस्य शकुन्तलासौन्दर्यस्य अनभिज्ञाः अविवेचकः "" इगुपथाज्ञाप्रीकिरः कः ’’ कृद्योगाच्च कर्मणि षष्ठी । मोघदृष्टिः वितथदर्शनः साध्वसाधुपरिज्ञानं हि फलदृष्टेरिति भावः । स्वं तावत् त्वमात्मनैवेत्यर्थः । कां तर्कयसि तिसृणां मध्ये कतमां शकुन्तलां जानासि । शिथिलं स्त्रस्तं बन्धनं यस्य तेन उद्वान्तान्युन्मुक्तानि कुसुमानि येन तेन च केशान्तेन केशपर्यन्तेन । उद्भिन्नत्वेदबिन्दुना अकंरितश्रमाम्बुलकणन । विशेषतः अत्यर्थं अपसृताभ्यां श्रमशिथिलाभ्यां बाहभ्यां भुजाभ्याच्च उपलक्षितेति शेषः । अवसेकेन सलिलसेचनेन स्त्रिग्धं अम्लानतया मनोज्ञं तरुणकिसलयं नवपल्लवं यस्य तस्य । पार्श्वे समीपे ईंषत्परिश्रान्तेव विकीर्णकेशतृवं स्वेदधाराप्रसरः । गात्रोपघातादिश्च अतिपरिश्रमव्यञ्जनं नोत्तमप्रकृतौ सम्भवतीति भावः । निपुण , विवेककुशलः । अत्र शकुन्तलाचित्रे मे भावस्य सात्त्विकस्य चिह्णं आलेयानसंक्रान्तं लिङ्गं । तदिदमपि लक्षणान्तरमिति भावः ॥ स्विन्नेति । रेखाणां अवयवभक्तिराजीनां प्रान्तेषु पर्यन्तदेशेषु मलिनः अभास्वरः स्विन्नायाः सात्त्विकस्वेदयुक्तायाः अंगुलेः अवष्टम्भभूतायाः कनिष्ठिकायाः विनिवेशः विन्यासः दृश्यते । तदेतत् सात्त्विकचिह्नमिति भाव । कपोलात् मदीयगण्डस्थलात् पतितं इदं अश्रु नयनसलिलं च कपोलं अप्राप्तस्य पतनाभावात् उक्तं कपोलपतितमति स्थूलबिन्दुत्वमनेन व्यज्यते । वर्णिकायाः रागस्य उच्छ्वासात् विच्छेदात् उत्फुल्लत्वाद्वा लक्ष्यं दृश्यं । विर्तकोच्छ्वासादिति पाठे लेखिनीन्यासस्यउच्छूनत्वादित्यर्थः । अयमपि सात्त्विकभावः । अनुमानालङ्कारः । आर्या वृत्तम् ॥ विनोदसथानं उत्कण्ठापनोदनिमित्तं एतदालेख्यं अर्धलिखितं असमाभिप्रायं । वर्णिकाः रागद्रव्याणि । वर्तिकामिति पाठान्तरं । समुद्गच्छत्यास्मादितिसमुद्गः "" अन्येष्वपि दृश्यते ’’ इति डः । स्वार्थे कः समुद्गकः पेटिका । अहमेवेति आलेरूयमात्रमप्यवल्मब्य कृती भवामीति भावः ॥ साक्षादिति ॥ पूर्वं उपगतां स्वतस्सम्प्राप्तां साक्षात् प्रियां परमार्थंशकुन्तलां अपहाय परित्यज्य चित्रार्पितां चित्रन्यस्तां कृत्रिमामिति यावत् । इमां प्रियां स्मरणमात्नहेतुं न त्वनुभाव्यमिति भावः । बहुमन्यमानः स्वहस्तावलबादिभिरुपचारैराद्रियमाणः अहं पथि मार्गे निकामजलां अतिसम्भूतस्त्रोतसं वहतीति वहा स्त्रोतसो वहा तां महानदीं अतीत्य अनुपस्पृशन्नेवातिक्रम्य मृगतृष्णिकायां मरीचिकायां सलिलभ्रमकृतिखेदातिरेकहेताविति भावः । प्रणयवान् प्रार्थनावान् जातः संवृतः वस्तुन्यवस्तुबुद्धि रवस्तुनि च वस्तुबुद्धिरुभयमपि जातमिति वृत्तिनिदर्शनालङ्कारः । तेन च मृगतृष्णानुसारिणः पिपासेव चित्रगतप्रियादर्शिनो नोत्कष्ठा विरमतीति वस्तु व्यज्यते । वसन्ततिलकं वृत्तम् ॥ अपरं । विहितादन्यत् शकुन्तलायाः सख्योश्रालिखितत्वादिति भावः । सख्याः शकुन्तलायाः अभिरूपः मनः प्रियः । तं तं तपोवनादिकम् भावः । सख्याः शकुन्तलायाः अभिरूपः मनः प्रियाः । तं तं तपोवनादिकम् । श्रुयतामिति — लिखितव्यमिति विदूषकवाकृयस्थमनुकृष्यते । कार्येति । सेकतेषु सिकतावत्सु प्रदेशेषु "" सिकताशर्कराभ्या च ’’ इत्यण् । लीनानि निविष्टानि इंसमिथुनापि यस्याः सालीनाशब्देन धावल्यात् सैकतविशिष्टत्वं वस्तुनो व्यज्ये । ततश्च समान्यालङ्कारध्वनिः तदुक्तं "" सामान्यं गुणसामान्याद्यत्र वस्त्वन्तरैकता ’’ इति । किं च हंसानां अचलनात् विम्रम्भविहारयोग्यं विजनतृवं व्यज्यते । मालिनी नाम स्त्रोतोवहा नदी कायां आलेखनीया । तामभितः मालिन्या उभयतः " अभितः परितः समया निकषा हा प्रतियोगेपि ’ इति वकृतव्यात् द्वितीया । निषण्णाः विस्त्रब्धमासीनाः हरिणाः निसर्गभीरवीपीति भावः । येषु ते प्रशान्तत्वमत्र व्यज्यते । गौरीगुरोः हिमवतः पावनाः पवित्राः पादाः प्रतृयन्तपर्वताः कायां इति विपरिणामेनान्वयः । शाखासु विटपेषु आलम्बितानि शोषणार्थं आस ? ञ्जितानि " वल्कलानि यस्य तस्य तरोः तपोवनवृक्षस्य अधः मूलदेशे कृष्णमृगस्य सहचरस्य कृष्णसारस्य शृङ्गे विषाणे वामनयनं निजमदक्षिणं नेत्रं कण्डूयमानां विघर्षवन्तीं । "" कण्डूञ् गात्रविघर्षण ’’ इत्यतः । " चाड्वादिभ्य ’ इति यकि ? ञित्त्वात् पाक्षिकमात्मनेपदं । मूर्गी हरिर्णी निर्मातुं आलेखितुं इच्छामि । स्त्रीणां वामनयनप्राधान्यातृ तस्यापि शृङ्गेकण्डूयनेन विस्त्रम्भातिशयो व्यज्यते । तेन स्वस्य शकुन्तलाविषये रूक्षत्वमनुचितमिति विवक्षितं प्रतीयते । शृङ्गे कृष्णमूगस्येत्यादिः स्वभावोक्तिः “6 स्वभावोक्तिस्तु डिम्भादेः स्वक्रियाद्यभिवणंनं ’’ इति लक्षणातृ । शार्दूलविक्रिडितं वृत्तम् ॥ जह अहं दक्खामि मत्तर्कानुरोधेन । अनेन राज्ञा लम्बकूर्चानामायतश्मश्रूणां तापसनामित्यर्थः । क्कचित्तापसानाभित्यपि पाठः । "” कूर्चमस्त्री भ्रुवीर्मध्ये कत्थनश्मश्रुकैतवे ’’ इत्युक्तम् । सार्थेन समूहेन पूरयितव्यं स्यात् । आरण्यकैः चित्रशोभहानिः स्यादिति भावः । "" लम्बकुआणं तावसीणं [ लम्बकुचानां तापसीनां कदम्बेन ] ’’ इति पाठान्तरम् । "" लम्बकुआणं परिकम्म कुव्वाणेण तावसीणं णिअरेण ( लम्बकुचानां परिकर्म कुर्वाणेन तापसीनां निकरेण ] इति पाठे लम्बानां स्वकुचानामलङ्कारं कुर्वाणेनेत्यर्थः । अन्यच्च आलिखितादतिरिक्तमपि शकुम्तलायाः अभिप्रेतं हृदयङ्गमं प्रसाधनं अत्र विस्मृतमितृयन्वयः । सौकुमार्यस्य कोमलतायाः सदृशमनुरूपम् ॥ कृतमिति । कर्णे अर्पितमासञ्जितं बन्धनं वृन्तं यस्य तत् आगण्डं कपोलं यावत् विम्बीनि केसराणि यस्य तत् केसराणामायतत्वादिति भावः । शिरीषं कर्णावर्तसभूतं न कृतं नास्मिन्नालिखितं । न वा न च शरच्चन्द्रमरीचिवत् कोमलं मनोहरं मृणालसूखं आश्रमसुलभं बिसतन्तुहारदाम् स्तनयोरन्तरे मध्ये रचितं निर्मितं ग्रीष्मे शुकुन्तलादर्शनाद्गीष्मलक्षणं शिरीषकुसुमावर्तसस्तापहरं च बिससूत्रादम निधेयमिति भावः । "" बद्धं कर्णशिरीषरोधि वदने घर्माम्भसां जालकं ’’ "" स्तनन्यस्तोशीरं प्रशिथिलमूणालैकवलयं ’’ इत्याद्यनुभूतपूर्वमिह राज्ञा स्मृतमिति व्यज्यते । आश्रयगुणेन अरण्युसुलभं शिरीपमृणालसूत्रमात्रादिकमपि महार्हाभरणाशोभामुपगतमिति च प्रतीयते । राजकुलमानीताया वनदेवताप्रसादीकृतदिव्याभरणाधारणं परकलत्रशङ्किना न प्रत्यक्षीकृतं राज्ञेति न तन्निर्माणादरः । वंशस्थं मृत्तम् ॥ रक्तकुवलयं रक्तोत्पलमिव शोभत इति तथाभूतेन रक्तकुवलयं कुवलयं जातिविशेषः । सामान्यतः कुवलयस्य नीलतृवेपि सितरक्तादीनामपि सम्भवाभिप्रायतः । तदुक्तम् । "" स्यादुत्पलं कुवलयमथ नोलम्बुजम््म च । इन्दीवरं च नीलेऽस्मिन् सिते कुमुदकैरवे ॥ ’’ इत्यमरसिंहेन । अत्र सितासितयोः पृथगुपादानेन तदतिरिक्तत्यापि सम्भवोऽवगम्यते । उत्पलादिशब्दवज्जलजसामान्यपरत्वमपि भवति । अतश्च "" उत्पलं कुवलयं द्वे कुमुदस्य । कमलसाधारणस्येत्यन्ये । ’’ इतृयमरख्याख्या । अग्रं चासौ हस्तश्च तेन । आवृत्य आच्छाद्य । चकित चकिता चकितप्रकारा । सावधानं एकाग्रतया । दास्याः पुत्र इति निन्दायाम् । "" षष्टचा आक्रीशे ’’ इतृयलुक् । इत्यलुल् । कुसुमासवस्य पुष्परस्य पाटच्चरः चोरः एषः मधुकरः । अतिलङ्घते अभिभवति । कमलभ्रमादिति भावः । धृष्टः निर्भयः । वार्यतां निषिध्यताभ् भावनातिरेकाच्चित्रे 1 ़पि परमार्थभ्रमः विधिनिषेधाविषये विषयत्यभ्रमश्च । अविनीतानुशासी दुष्टनिग्रहणाशीलः दण्डधर इति भावः । प्रभविष्यति न तु पृथग्जनो मद्विध इति भावः । कुमुमलतानां पुष्पितानां लतानां । प्रियश्चासावतिथिश्चेति तस्य सम्बुद्धिः सविशेषमर्हणीयेत्यर्थः । अनेन प्रवासागतप्रियसाधर्ग्यं व्यज्यते । इतः अत्र परिपतनखेदं परिभ्रमणायासं किं कुतः अनुभवसि सहसे । नेयं कुसुमिता लता अपि तु मत्प्रिया यस्ते वृथाश्रम इति भावः । भ्रान्तिमदलङ्कारोऽत्र व्यज्यते ॥ एषेति । एषा पुरस्ताद्दृश्याना मधुकरी कुसुमे मधुमभाजनभूत इत्यर्थः । निषण्णा आसीना प्राप्तार्थापीति भावः । तृषिता पिपासुरपि सती अनुरक्ता कामयमाना भवन्तं सपीतिसखं प्रियतममित्यर्थः । प्रतिपालयति प्रतीक्षते । त्वया विना तृवां विहाय मधु न खलु पिबति नैवास्वादयति । सानुरागप्रियानवेक्षकथनातृ स्ववृत्तान्तो व्यञ्जतः ॥ आर्या वृत्तम् । अभिजातं मनोज्ञं । प्रतिषिद्धापि एषा जातिः मधुपजातिरित्यर्थः । वामा कुटिला हठप्रवृत्तिशीलेत्यर्थः । मे शासितुरित्यर्थंः । शासने निषेधरूपे न तिष्ठसि न यन्त्रितो भवसि ॥ अक्लिष्टेति —- । हे भ्रमर भ्रमणीशील । अक्लिष्टं करस्पर्शादिभिरदूषितं बालतरुपल्लवं अचिरोद्गततरुसमृबन्धि किसलयभिव । तरोरेव बालस्वे पल्लवसौकुमार्यं किमु वकृतव्यमिति भावः । बालशब्दस्य पल्लवविशेवणत्वे तरुशब्दवैयर्थ्यम् । लोभनीयं स्पृहणीयं । अत एव रतोत्सवेषु मोहभरितेष्वपीति भावः । बहुवचनेन प्रकारानन्तृयं व्यज्यते । मया रागवतापीत्यर्थः सदयं सदुलमेव पीतमास्वादितं प्रियायाः सम्बन्धिनं बिम्बाधरं बिम्बसदृशमधरं "" बिम्बाधरादिषु मध्यमपदलोपी समासः । ’’ इति वामनः । अतो " नोपमित ’ मितृयादिना बिम्बशब्दस्य परनिपातः । स्पृशसि चेत् त्वां कमलोदरे पह्माभ्यन्तर एव बन्धने कारागृहे तिष्ठीति तथाभूतं कारयामि । प्रदोषेण प्रयोज्येन प्रयोजयामीत्यर्थः । राजा हि कालस्य कारणमिति भावः । अधरवस्कन्दनं हि दुर्मषंमिति प्रीये उक्तं च "" रतिसर्वस्वमधर ’’ मिति ॥ भोग्येऽपि कमलोदरे स्वैरनिरोधेनावस्थापनं दण्ड इति भावः । केचित्तु अनुभूतलोकोत्तरशकुन्तलामुखसौरभस्य कमलसौरभमेवोद्वेजकमिति कमलोकदराव कमलोदरावस्थानमेव कारागृहावस्थानमित्यभिप्राद इत्याहुः । तन्मते राजाज्ञानुरोधाननुरोधयोविशेषः उभयधापि हि बिम्बाधरालाभ एव पर्यवस्यति । यदपि रतोत्सवेऽपीति न्याय्यः पाठः न तु रतोत्सवेष्विति यतो बहुतोत्सवानुभवे सति रसो न विद्यत इति । तन्न समञ्जसं लोकविरोधातृ कामशास्त्रविरोधाच्च । उक्तं हि रघुवंशे "" सदयं बुभुजे महाभुजं सहसोद्वेगमियं व्रतेदिति । अचिरोपनतां समेदिनीं नवपाणिग्रहणां वधूमिव ’’ इति । अनेन हि ज्ञायते निर्दयोपभोगगोग दत्तरोत्तरं रतेषु भवतीति तत्रापि सदयमेव पानमुच्यमानं सौकुमार्यातिशयमधरस्य राज्ञाश्च नागरिकतृवं दर्शयतीति । बहुवचनस्य प्रकारानन्त्यपरतया व्याख्यानाच्च न किञ्जिदनपपन्नं । वसन्ततिलकं वृत्तम् ॥ तीक्ष्णदण्डस्य उग्रदण्डस्य तव सकाशे किं वा वस्तु न भेष्यतीत्युपहासः । मधुकरसय मघुभाजने कमले बन्धनं न दण्ड इति भावः । एष राजा तावत् स्वयमेव उन्मत्तः भ्रान्तचित्तः एतस्य उन्मत्तस्य सङ्गेन सम्बन्धेन। ईंदृशः सोन्मादः येन उन्मत्तः भ्रान्तचित्तः एतस्य उन्मत्तस्य सङ्गेन समृबन्धेन । ईदृशः सोन्मादः येन द्वयोश्चित्रे परमार्थव्यवहार द्वति भावः । कथमिति किमित्यर्थंः । अहमपि उदासीनाऽपि भ्रमप्रसङ्गरहितापीति यावत् । अनवगताथां अज्ञातयाथाथ्यार्थ्या अत्रिमिति भ्रान्तेति यावत् । किंपुनः किमुत यथालिखितं आलिखितप्रकारमनतिक्रम्य अनुभवतीति यथालिखितानुभावी आलेख्यारम्भात् प्रभृति तन्मयीभूतचित्त इत्यर्थः । पुराभागनिः दोषैकदृशः कर्म ? दभिप्रायेणाचित्रेऽपि चित्रमिति दोषोद्भावनमित्यर्थः । "" गुणवचनब्रह्मादिभ्यः कर्मणि च ’’ इति ष्यञ् । अनुः ष्ठितं कृतं कोर्थस्तवात्र तत्तृवदेनाविष्कारेणेति भावः ॥ दर्शनेति । तन्मयेन भावनाभावितप्रियातादात्म्यापन्नेन विषयान्तरमस्पृशतेत्यर्थंः । हृदयेन मनसा साक्षात् परमार्थंप्रियायामिव दर्शनुसुखमनुभवतस्सतो मे स्मृतिकारिणा चित्रमिति स्माक्षात् परमार्थप्रियायामिव दर्शनसुखमनुभवतस्सतो मे स्मृतिकारिणा चित्रमिति स्मारयता तृवया कान्ता प्रिया पुनरपि अचित्रं चित्नं संपद्यमाना कृता चित्रीकृता । चित्रेऽपि साक्षातृ कान्तामुपस्थापयन् वरं मोहः न तु तवायमुपदेश द्दति भावः । अत्र शकुन्तलालाभजनितहर्षस्य तदवगमजनितविषादस्य च व्यभिचारिणोर्भावयोव्य्रतिकरात् भावसन्धिरलङृकारः । आर्या वृत्तम् ॥ विकिरति वर्षति विसृजतीति पाठान्तरं । विधानमागेः संविधानप्रकारः विधेः प्रवृत्तिर्वा पूर्वापरविरोधी पूर्वोत्तरविरोधवान् अत एव अपूर्वाः अभिनकः अननुभूतपूर्व इत्यर्थः । साक्षादुपस्थितायां प्रियायामनभिज्ञानं तस्या एव सारूपयलेशेन चिखेऽपि तन्मयीभवनमितृयव्यवहितकालभावी भावभेदो दूरविप्रकृष्ट इति भावः । विरहमग्गो [ विरहमार्गः ] इति पाठान्तरम् ॥ प्रजागरादिति । स्वप्रे तस्याः शकुन्तलायाः सम्बन्धः प्रजागरात् अनिद्रत्वादेव हेतोः खिलीमूतः शून्यस्संवृतृतः । बाष्पस्तु चित्रगतरामप्येनां प्रियां द्गष्ठुं चित्नगतप्रियादर्शनमपीत्यर्थः । अव्ययकृत्त्वाद्भावार्थतृवं न ददाति प्रतिखघ्रातीत्यर्थः । अथवा एनामिति ददातेः कर्म दर्शनमात्नार्थमपि न ददाति । चित्नगतायास्तावन्मात्रप्रयोजनत्वात् । का कथा मनोरथान्तरस्येति भावः । ददातीत्येने बाष्पस्य स्वातन्त्र्येण दुर्निवारतृवं व्यज्यते । अनुष्टप् वृत्तम् ॥ शकुन्तलायास्समृबन्धि प्रत्यादेशदुः खं सर्वथा प्रमृष्टं निः शेषं विशोधितं ।पत्युरनुशयवान् प्रणयो हि कश्चिदाश्वास इति भावः । वर्णिकाकरण्डकं वर्णद्रव्यपेटिकां । किं चेति दर्शनात्परं च किं येन सावरोषमिव ते वचनमित्यर्थः । देवी दर्शनात्याहितमयादन्तरा सम्भ्रमात् प्रश्रः । अन्तरा मध्ये तरलिका नाम चेटी द्वितीया यस्यास्तया देव्या महिष्या वसुमत्या नाम सः वर्णिकाकरण्डः गहीत आक्षिप्तः । त्वं मुक्ता — यदि तृवमेव गृही ताभवेः तदानीमज्ञातदेव्यागमश्चित्रहस्तो वयस्यो देवीदर्शने कृच्छ्रागतो भवेदिति भावः । उत्तरीयं संव्यानं मोचयति विटपाद्विश्लेपयति । आतृमा स्वशरीरं निर्वाहितः निर्गमितिः वाह यतिर्गत्यर्थः । निर्वासित इति पाठान्तरम् । उपस्थिता संप्राप्ता बहुमानेन भर्तृवाल्लभ्येन । देवीत्वाद्वहुमानगर्वाच्च नमामन्यासक्तं मूष्येतेति भावः । प्रतिकृतिमालेख्यं रक्षतु देवीदर्शनादपयतु । आत्मानमिति यच्चित्रस्य रक्षणं तत्तवैव देवचीकोपात् परित्राणमिति भावः । अन्तः पुरस्य वसुमतीदेव्याः कलाहत् अन्यासङ्गावगमजनितात् कोपात् । कालकृटादिति पाइे अन्तः पुरं कालकृटमिवेत्युपमितसमासः उद्वेजनीयत्वं व्यज्येत । यदि विमुच्यत इत्यनेन विभोचनस्याशकृयत्वं व्यज्यते । मेघप्रतिच्छन्दे रूपोत्सेधाभ्यां मेघसदृशतृवात् कृतमेवप्रतिच्छन्दाख्ये प्रासादे स्थितमिति शेषः । शब्दा यस्व आह्वय "" शब्दवैरकलहाभ्रमण्वमेघेभृयः करणे ’’ इति क्यङ् । शब्दयेति पाठे शब्दशब्दात् "" तत् करोती "" ति णिच् । शब्दापयेति तु प्रामादिकश्छायापाठः । शब्दशब्ददापुगागमस्यविधानातृ । द्रुतपदं देव्युपस्थानशङ्कया त्वरितपदन्यासं । प्रथमसभ्भावानां पूर्वकृतं देवीगौरवं अवेक्षते दाक्षिण्यादनुरुध्यते अग्य विस्मरणमेवातर्क्यतुकमिति भावः । पत्नहस्ता "" यत् प्रत्यवेक्षितं पौरकार्यमार्येण तत् पत्रअन्तरा मार्गमध्येन खलु दृष्टा खल्विति प्ररे । "" निषेधवाक्यालङ्कारजिज्ञासानुनये खलु ’’ इत्यमरः । अथ किमिति — दृष्टेत्यर्थः । कार्यज्ञा राजकार्यगौरवाभिज्ञा कार्योपरोधं निजागमनेन राजकार्यस्य कालक्षेपं । अर्थजातस्य कार्यवर्गस्य गणनाबहुलतया प्रत्यवेक्षितं परामृष्टं । तत् प्रत्येवेक्षिते कार्यं तावतृ साकल्येन पत्रारूढं पत्रगतं । उपनयति गृहीत्वा वाचनयोग्यान्तरे दर्शयतीत्यर्थः । कथमिति खेदे । समुद्रेतृयादि , तस्यार्थसञ्चय इत्यन्तं पतृनविषयः । समुद्रे व्यवहरति क्रयविक्रयं करोतीति समुद्रव्यवहारी सांयात्रिक इत्यर्थः । सार्थं वणिक्संघं वहति नयतीति सार्थावाहः प्रधानवणिक् "" सार्थो वणिकृसमूहे स्यादपि संघातमात्रके ’’ इति मेदिनी । धनमित्रो नाम नौव्यसनेन वात्यादिजनितेन प्लवविप्लवेन व्यसन इति पाठे निमित्ते सप्तमी "" व्यसनं विपदि भ्रशे कामजकोपजे ’’ इत्यमरः । विपन्नः मूतः । अनपत्यः असन्तानः । तपस्वी शोच्यः । अर्थसञ्चयः धननिधानं राजानं गामी राजगामी गम्यादीनामुपसंख्यानातृ द्वितीयाततत्पुरुषः । अनपत्यता सन्तानाभावः कष्टं दुः खं । महाधनत्वातृ प्रभूतधनतृवात् हेतोः तत्र भवता धनमिखेण बहुवत्नीकेन अनेकभार्येण । तस्य मृबन्धिनी काचित् अन्यतमा भार्या आपन्नः प्राप्तः सत्त्वो गर्भो यषा सा । ? यदीति सम्भावनायां अपि स्यादित्यर्थः साकेतरेष्टिनः अयोध्यास्थस्य प्रधानवणिजः । निर्वृत्तं समाप्तं।पुमान् सूयते अनेनेति पुंसवनं नाम संस्कारविशेषो यस्याः सा । गर्मः गर्भस्थशिशुः पितुरिदं पित्रयं रिक्थं धनं "" द्रव्यं वित्तं स्वापतेयं रिक्थमृक्थं धनं ’’ इत्यमरः । अर्हति जन्मत एव स्वाम्यं जायत इति व्ववहारविदः । एवं गभों रिकथमर्हतीत्युक्तप्रकारेण । एहीति — वक्तव्यत्यान्यत्वादिति भावः । येनेति ॥ प्रजाः जनाः स्निग्धेन प्रियेण येन येन बन्धुना वियुज्यन्ते विरहिता भावन्ति दुष्यनतः तासां प्रजानां स सः अतीतः सर्व एव बन्धुः भवति बन्धुकृत्यं करोतीत्यर्यः । पापादृते असति पाप इत्यर्थः शिष्टस्तस्यार्तस्य यर्थाषधं । त्याज्यो दुष्टः प्रियोप्यासीदङ्गुलीवोरगक्षता ’’ इति रघुवंशे । यत्तु पापाद्दते पतिरहितानां स्वयमेव पतित्वेन प्राप्त्यादिरूपं पापं विनेति व्याख्यानं तदहृद्यं । बन्धुशब्दप्रयोगाच्च न पापप्रसङ्गः । अत एवोक्तं पञ्चमाङ्के "" अतनुषु विभवेषु ज्ञातयः सन्तु नाम त्वयि तु परिसमाप्तं बन्धुकृत्यं प्रजानां इति । इति ‘’— अनेन प्रकारेण घुष्यतां प्रकटीक्रियतां । अनुष्टुप् वृत्तम् ॥ काले योग्यसमये प्रवृष्टं वर्षणमिव अभिनन्दितं अनुमोदितं । सन्ततिच्छेदेन सन्तानाभावे न निरवलमृबानां निराश्रयाणां कुलानां वंशानां संपदः धनानि मूलपुरुषस्य कुलप्रधानभूतस्य पुंसः अवसाने अन्ते सति परं असम्बद्धं यं कञ्चित् उपतिष्ठन्ति प्राप्रुवन्ति । कुरुवंशस्य श्रियः राज्यलक्ष्म्या अपि एषः परगामित्वरूपः वृत्तान्तः स्थितिः "" कुरुवंशरीरकाल इवोप्तबीजा भूरेवंवृत्ता ’’ इति पाठे अकाले उप्तबीजा भूमिर्यथा न फलिता भवति तथा कुरुवंशस्य श्रीरपि एवं परगामित्वरूपं वृत्तं दशा यस्याः सेत्यर्थः । अमङ्गलं सन्तानामभावरूपं प्रतिहतं निवृत्तं भूयात् "" आशंसायां भूयवच्च ’’ ॥ उपस्थितं आत्मनैबोपनतं श्रेयः सूगर्भाया धर्मपत्म्याः संप्राप्तिरूपं अवमन्यते निरस्यतीति तथाभूतं मां धिक् "" उभवर्तसोः कार्या धिगुपर्यादिषु त्रिषु । द्वितीयाऽऽम्रेडितान्तेषु ततोऽन्यत्रापि दृश्यते ’’ इत्युक्तया धिकृशब्दयोगात् द्वितीया । द्वदये कृत्वा श्रेयः पदेन अभिप्रेत्य ॥ संरोपित इति । आत्मनि स्वस्मिन् संरोपिते गर्मरूपेण जनिते सत्यपि "" आतृमा वै पुत्रनामासि इति श्रुतिरिति भावः । कुलस्य वंशस्य प्रतितिष्ठत्यनये ति प्रतिष्ठा सन्तानानामनुच्छेदहेतुः कीर्तिहेतुरित्येके । धर्मपत्नी शकुन्तला मया नाम मयैव त्यक्ता निरस्ता । तद्यथा काले बीजवापयोग्यसमये उप्तानि क्षिप्तानि बीजानि यस्यां सा । अत एव महते प्रभूताय फलाय कल्पिष्यमाणा संपतृयमानां । "" कृपेस्सम्पद्यमाना ’’ दिति वक्तव्याच्चतुर्थी । बसुन्धरा भूमिरिव । अथवा उप्तबीजा महते फलाय कल्पिष्यमाणा वसुन्धरा काले फलपाकसमव इव त्यक्ता । नान्य एवंवृत्ती भूतपूर्त इत्यर्थः । कृतश्रमस्य फललाले परित्यागी मौग्ध्यमिति भावः । उपमालङ्कारः । उपजातिर्वृत्तम् ॥ अपरिच्छिन्ना अविच्छिन्ना भविष्यति पुत्रकलत्रप्राप्तिः सम्भविष्यतीति भावः । सार्थवाहवृतृतान्तेन धनमित्रविपत्तिकथया विमनाः शून्यमना इव आचरति विमनायते विषीदति । विगुणुव्वे ओ [ द्विगुणोद्वेगः ] इति पाठान्तरं । आश्वासयितुं विनोदयितुं । गृहीत्वा आनीय । पिण्डभाजः पिण्डार्डाः पितरः संशयं पिण्डसंदेहं आपन्नाः प्राप्ताः ॥ अस्मादिति ॥ पितरः अस्मातृ दुष्यन्तात् परं अन्नतरं यथाश्रुति यथाविधि सम्भृतानि संपादितानि निवपनानि निवापान् पितृदेयानि जलाञ्जलिप्रभूतीनीत्यर्थः । "" पितृदानं निवापः स्यात् ’’ । नः आत्माकं कुले वंशे क्कः करिष्यति न कश्चित् करिष्यति इति मत्वा प्रसूतिविकलेन सन्तानशून्येन मया कर्त्रा प्रसिक्तं आवर्जितं उदकं निवाषजलं धौतं क्षालितं रु येन तस्य शेषं अवशिष्टभागमेव पिबनित नूनमिति सम्भावनायां । मन्निवापदर्शनसमनन्तरं भाविनिवापभावशोकेन सबाष्पाणां पितॄणं मद्दत्तं सलिलं अरुप्रमार्जनोपयुकृतं स्तोकमेव पानायावशिप्यत इत्यर्थः । "" नूनं मतृतः परं वंश्याः पिण्डविच्छेददशिनः । न प्रकामभुजः श्राद्धे स्वधासंग्रहतत्पराः ’’ इति रघुवंशे । वसन्ततिलक वृत्तम् ॥ 25 ॥ व्यवधानदोषेण कुड्यादितिरोहित्वमात्रेण अन्धकारं अदशंनं कार्ये कारणोपचारः । अन्धआरदोसं इति पाठे तमः प्रयुक्तमान्ध्यमित्यर्थः दीपभूतस्य शकुन्तला पुत्रस्य असन्निकर्षेण सन्तानविरहानुशय इति भावः । निर्वृतं वृत्तान्तकथनेन सुखिर्तं । शकुन्तलां प्रत्यादेशदुः खितां समाश्वासयन्त्याः महेन्द्रजनन्याः अदितेः । यज्ञभागे हविर्गहणे उत्सुका साभिलाषा देवा एव देवताः स्वयमेवेत्येवकारार्थः । अनुष्टास्यन्ति करिष्यन्ति यज्ञद्विषां निरासाय दुष्यन्तस्य आह्वास्मानत्वादिति भावः । त्वया सह दीक्षितेन राज्ञा दत्तं हविर्भागमादातुकामा इति भाव इत्यन्ये । अभिनन्दिष्यति प्रतिग्रहीष्यति । एतं कालं देवप्रवृत्तिसमयं प्रतिपालयितुं प्रतीक्षितुं प्रतिपालनमित्यर्थः । अव्ययकृत्त्वेन भावार्थता । युक्तं न्याय्यं । नियतभाविविनि श्रेयसि स्नेहं परां भूर्मि गमयन् नान्तरीयकः सन्तापो नान्तरा निरसनीय इति देवरहस्यमिति भावः । वृत्तान्तेन पतिप्रणयकथया । उद्भ्रान्तकेन व्योमोत्पतनेन । अब्रह्मण्यं हा ? इतोऽस्मीत्याकथया । ब्रह्मणि साधु ब्रह्मण्यं तन्न भवतीत्यब्रण्यं । "" अब्रहण्यमवध्योक्तौ ’ इत्यमरः । प्रत्यागतप्राणः व्यपगतमोडः रसान्तरोपनिपातादुदुद्धच्त्ति इत्यर्थः । आर्तस्वरः दीनध्वनिः । संशयगतं प्राणसन्देहं प्राप्तं । माणवकः बालः " बालस्तु स्यान्माणवकः ’ इत्यमरः । मनोरयमित्यणि " ब्राह्मणमाणवावबाडबाद्यत् ’ इति णत्वं निपातितम् । आतृतगन्धः अभिभूतः आत्तः अपहृतः गन्धः गर्वः यस्य सः " आत्तगन्धोऽभिभूतः स्यात् ’ इत्यमरः । आत्तकण्ठ इत्यन्यः पाठः गृहीतकन्धरः इत्यर्थः । आर्तकण्ठ इति पाठे केन हेतुना दोनस्वरो जात इत्यर्थः । अदृष्टरूपेण अप्रत्यक्षशरीरेण सत्त्वेन भूतेन अतिक्रम्य अभिभूय आक्रम्येति पाठे गृहीत्केत्यर्थः । अग्रभूर्मि शिरोगृहं । मा तावत् नाथं सत्त्वातिक्रम इत्यर्थः । ममापि नामराजर्षेरपि सत इत्यर्थः । अपिर्विरोधे । नामेति विस्मये । अभिभूयन्ते अतिलङ् च्यन्ते ॥ अहनीति ॥ अहन्यहनि दिने दिने आत्मन एव स्वस्यैकस्येवप्रमादेन अनवधानेन स्खलितं अपराधः तावत् साकल्येन ज्ञातुं च शक्यं । प्रजासु भृयिष्ठेषु पाल् . यजनेषु मध्ये कः पुरुषः केन पथा मार्गेण न्याय्येन अथ् ? ोतरेण प्रयाति प्रवर्तते इति इमं विषयमित्यर्थः । अशेषतः साकल्येन वेदितुं उपलब्धं शक्तिः सामर्थ्यं अस्तीति काकुः नास्तीत्यर्थः । स्खलनस्य सम्भावनीयत्वात् सत्वाभिभवो न विस्मयायेति भावः । शकुन्तलाविषयं स्वापराधमभिसन्धायोक्तं आत्मन एवेति। अत्र प्रजास्खलनानवबोधस्य कैमुत्यसिद्धतृवादर्थापत्तिरलङ्कारः । उपजातिर्वत्तम् ॥ अविधेत्याक्रोशे । गतिभेदेन त्वरित्तगमनेन । ण्श्चासदवनता पृष्टतो भपुग्रा शिरोधरा ग्रीवा यस्य तं सन्तं इक्षुमिव तीक्ष्णभङ्गं कठोरभञ्जनं त्रिखण्डमितिपाठान्तरं । इत्क्षूपमया भूतस्य आस्वादलोभो व्यज्यते । सदृष्टिक्षेपं सर्वतो दृष्टिं विक्षिप्य । तावत् अचिरेण । शार्ङ्गं धनुः हस्ते यस्याः सा यवनी " किराती चामरधरा यवनी शस्त्रधारिणी ’ इत्यमरः । " शार्ङ्गकूजितविज्ञेयप्रतियोधे रजस्यभूत् ’ इत्यादिवदिह धनुर्मात्नपरं शार्ङ्गपरं शार्ङ्गपदं । हस्तावापः हस्तपरिक्षेपः चर्मनिर्मितं तलत्राणमिति यावत् " आवापोभाण्डपचने परिक्षेपालवालयोः ’ इत्युक्तं ॥ एष इति ॥ अभिनवं सद्योविदार्योद्धृतं कोष्णमधुरमित्यर्थः । कण्ठशोणितं हृदयसन्निहितं रुधिरं अर्थयते अभिलषतीति तथाभूतः अथवा अभिनवेन कण्ठशोणितेन अर्थी कार्यवान् " अर्थादसंनिहिते ’ इति मत्वर्थीय इनिः । शार्दूलोऽपि मृगाणां कण्ठादेव शोणितं पिबतीर्त्यापम्यं । एषोहं अभोत इति भावः । शार्दूलो व्याघ्रः पशु अजादिकमिव चेष्टमानं स्फुरन्तं सन्तं । वेष्टमानमिति पाठे भूमौ लुठन्तुमित्यर्थः । त्वां हन्मि मारयामि । आर्तानां आपन्नानां भयं शत्रु भीर्ति अपनेतुमपहर्त्तु आत्तं गृहीतं धनुर्येन स आत्तधन्वा " धनुषश्च ’ इत्यनडादेशः " क्षतात् किल त्रायत इत्युदग्रः क्षत्त्त्रस्य शब्दो भुवनेषु रूढः ’ इति चोक्तं । दुष्यन्तः इदानीं मदाक्रमणावसरे तव प्रियवयस्यस्येत्यर्थः । शरणं रक्षिता भक्तु अन्यथा हि वृथैव स्यादायुधपरिग्रह इति भावः । वयस्यमरक्षत् कमसावन्यं रक्षिष्तीति प्रतीयते । अत्र आत्तधन्वेति विशेषणस्य साभिप्रायत्वात् परिकरालङ्कारः । तस्य च शार्दूलः पशुमिवेत्युपमया सह संसृष्टिः । प्रहर्षिणी वृत्तम् ॥ मामेव निग्रहीतारमपीत्यर्थः । निर्दिशति लक्षीकरोति । कोणपापशदराक्षसाधम् । कुणपाशनेति क्कचित् पाठः । न भविष्यसि नात्मानं धारयिष्यसि विनङ्क्ष्यसीत्यर्थः । सोपानमाग्रं मेघप्रतिच्छन्दारोहणपथं । जीविते विषये निराशः गतप्रायत्वादाशंसारहितः । तिरस्करिण्या नाम आच्छादनविद्यया गर्विता नान्यो द्रक्ष्यतीति दर्पाविष्टदर्शने नावसथातुं प्रभवसीति भावः । अस्त्रं द्रक्ष्यति दिव्यशक्तित्वादद्दश्यमपि लक्षीकरिध्यति । स्थिरो भव न तु भयादपयाहीत्यर्थः । तमिषुं वक्ष्यमाणविशेषणमस्त्राभिमन्त्रितं बाणं सन्दधे योजये । सन्धत्त इति पाठे प्रौढिवशात् परोक्षनिर्देशः । तच्छब्दाक्षिप्तं विशेषणमादत्ते ॥ य इति । य इषुः हन्तव्यं अपराधिनमित्यर्थः । त्वां हनिष्यति रक्ष्यं रक्षणार्हं द्वितं माढव्यं रक्षति त्वन्निग्रहेण त्रायते च वर्तमानसामीप्याद्वर्तमाननिर्देशः । तमिषुमिति पूर्वेणान्वयः । तद्यथा हंसो हि क्षीरं आदत्ते अद्भ्यो विभज्य गृह्णति । तेन क्षीरेण मिश्राः व्यतिकीर्णाः अपोवर्जयति पृक्षक्कृत्य त्यति । तथा ममापि बाणः त्वामदृश्यमप्यादाय त्वद्गृहीतं वयस्यं मोक्ष्यमीत्यर्थः । "" दुष्यन्तस्तव शरणं भवत्विदानी ’’ मित्येतदिहं प्रत्युक्तं । अत्र वध्यमिति विशेषणस्य सापराधत्वरूप्रप्रतीयमानार्थगमर्भत्वात् परिकरालङ्कारः । द्विजमिति च विशेष्यस्य रक्षणावश्यं भावाभिप्रायात् परिकरांकुरः । इति द्वयोस्संसृष्टिः । अनुष्टुप् वृत्तम् ॥ कृता इति । हरिणा इन्द्रेण असुराः तव शरव्यं लक्ष्यं कृताः सङ्कल्पिताः । शरव्यमितृयेकवचनेन एकहेलयैव सर्वसुरारिनिराससमर्थत्वं व्यज्यते । इदं संहितास्त्रमित्यर्थः । शरासनं धनुः तेषु प्रत्यर्थिषु विषये विकृष्यतां अस्त्रप्रयोगाय विनम्यतां । सतां सत्युरुषाणं प्रसादेनाग्रहेण सौम्यानि अतीक्ष्णानि चक्षूंषिदर्शनानि सुहृज्जने मित्रेषु विषये पतन्ति । न तु दारुणास्तीक्ष्णाः शराः । वंशस्थं वृत्तम् ॥ इष्टिपशुमारं मारितः यज्ञियः पशुरिव निहतः "" उपमाने कर्मणि च ’’ इति णमुल् । अभिनन्द्यते प्रतिगृह्मते । कालनेमिर्नाम दानवेन्द्रः प्रसूतिरुत्पत्तिस्थानं यस्य सः । दुः खेन तीयत इति दुज्रयः नामेति प्रसिद्धत्यर्थं । दानवगणः असुरवर्गंः नारदात् वक्तुस्सकाशात् श्रुतपूर्वः प्रथममेवाकर्णितः अस्ति व्यक्तमित्यर्थः " असदीप्ता ’ विति भावादिकात् स्मिप् । तिडन्तप्रतिरूपकमव्ययं । अथवा श्रुतपूर्वो भवतीत्यर्थः ॥ सख्युरिति ॥ सः दुर्जयाख्यो दानवगणः ते सख्युः शतक्रतोरिन्द्रस्य अजय्यः जेतुमशक्यः खलु वरदानबलादिति भावः । "" क्ष्य्यजय्यौ शक्यार्थे ’’ इति निपातितं । तस्य इन्द्रेणाजय्यस्यापि दानवगणस्य त्वं रणशिरसि युद्धाप्रग्रभागे निहन्ता नाशयिता स्मृतः महेन्द्रेण चिन्तितोऽसि लोकनपालांशत्वादिति भावः । यत् तमः सप्तसप्तिः सूर्योऽपि उच्छेत्तुं नाशयितुं न प्रभवति शक्रोति तत् नैशं निशाभवं तिमिरं तमः कर्म चन्द्रः अपाकरोति व्युदस्यति सूर्यतेजसैवाप्ययितोपि यथा चन्द्रः सूर्यस्याप्यविषयं निशातमो निरस्यति तथा दिव्यांशानुग्रहमात्रेणदेवानामप्याविषयं भवान् विषयीकरिप्यतीत्यर्थः । अत्रोपमनोपमेयवाक्यार्थयोर्बिम्बप्रतिबिम्बभावाद्दृष्टन्तालङ्कारः । प्रहर्षिणीवृत्तम् । स भवानिति पूजायां । यद्वा सः सर्ववैरिनिराससमर्थ इत्यर्थः । आत्तशस्त्र एव अनुपसंहृतास्त्र एव । ऐन्द्रमिन्द्रसम्बन्धिनं । विजयाय शत्रुन्विजेतुं । प्रतिष्ठतां प्रस्थानमात्रमेव विजयस्य विजम्ब इति भावः । "" समवप्रविभः स्थाः ’’ इत्यात्मनेपदं । एवमिदानीं तभैन्द्ररथमिति पाठान्तरं । मघवतः इन्द्रस्य सम्भावनया शासपार्पणानुग्रहेण अनुगृहीतः अभिवतिर्धतः । अथेति वाक्यभेदे । माढव्यं प्रति माढव्यस्य विषये एवं प्रयुकृतं दारुणं कृतं । किन्निमित्तादपि यत्किञ्चिद्धेतुकात् अज्ञातहेतुकादिति यावतृ । मनसस्सन्तापात् अस्वास्थ्यात् विक्लबो दीनः दृष्टः उपलक्षितः । कोपयितुं कोपमुत्पादयितुं उत्साह प्रतिकूलस्य दैन्यस्य विरोधिरसेन कोपेन अभिभवार्थमित्यर्थः । विदूषकपीडनभेवानतिदोषः कोपनोपाय इति भावः ॥ ज्वलतीति ॥ चलितानि इत्धनानि यस्य सः अग्रिः ज्वलति । विप्रकृतो दण्डादिना प्रतिहतः पन्नगः सर्पः फणां कुरुते आविष्करोति । प्रायः बाहुल्येन जन्तुः प्राणिमात्रं क्षोभात् उद्दीनपनाद्धेतोः स्वं सहजभेवापीत्यर्थः । महिमानं प्रभावं प्रतिपद्यते अङ्गीकरोति निमीलितमपि क्षिप्रभुन्मीलयतीत्यर्थः । अत्र अग्रिपन्नगवृत्तान्ताभ्यां विशेषाभ्यां उत्तरार्धोक्तस्य सामान्यस्य समर्थनाद्विशेषेण समान्यसमर्थनमर्थान्तरन्यासोऽलङ्कारः । प्रतिपद्यते हि ज्जन इति पाठान्तरं । आर्यावृत्तम् ॥ इतः परं " युक्तमनुष्टितं भवद्भि ’ रिति क्कचिदधिकपाठो दृश्यते तत्र भवद्भिरिति पूजायां वहुवचनं । दिवस्पतेरिन्द्रस्य । अमात्यपिशुनं पिशुननामानं सचिवं राजकार्यरहस्यसूचकत्वात् पिशुननामवपयदेशः । परिग्रतार्थं ज्ञातवृत्तान्तम् ॥ त्वन्मतिरिति । केवला एकाकिनो त्वन्मतिस्तावतृ त्वदुद्धिरेव प्रजाः परिपालयितुं रक्षितुं भवतीति शेषः । अधिज्यमधिरोपितमौर्वीकं इदं मदीयं धनुः अन्यस्मिन् कर्मणि सुरेन्द्रनियोगे व्यापृतं प्रवृत्तं । अथवा प्रजाः पालयितुत्वन्मतिः केवला एकाकिनी भवतीति सम्बन्धः उभयसाब्ये कर्मणि अन्यतरामात्रप्रवृत्तो भूयसावधानेन भाव्यमिति भावः । अनुष्टपु वृत्तम् ॥ 32 ॥ ॥ इति शाकुन्तलव्याख्याने सहृदयसमाख्याने षष्ठोऽङ्कः ॥ ? 0 ॐ ॥ अथ सप्तमाङ्कव्याख्याप्रारम्भः ॥ संप्रति समाप्तसुरकार्यस्य राज्ञः स्वर्गादवरोहमङ्कावतारेण प्रस्तीति । "" अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ’’ इति लक्षणात् । स्यतु "" अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनं ’’ इति लक्षणोदङ्कास्यमिति । ? तचिचन्त्यं । न ह्मत्र पूर्वाङ्कान्तपास्त्रैरुत्तराङ्कार्थः सूचितो भवति । जितदैत्यस्य भूग्यवतरणं हि सप्तमाङ्कार्थः । स्वर्गारोहणमेव च षष्टाङ्कावसानदर्शितम् । षष्टाङ्काथेन सप्तमाङ्कार्थः । सम्बद्ध एव तु भवति । उक्तं च भावप्रकाशे "" यथा हि वीरचरिते द्वितीयाङ्कावसान्के । रामभार्गवयोर्मध्ये सुमन्त्रेण प्रविश्य च ॥ विश्वामित्रवसिष्टौ च तदङ्कान्तेन सूचितौ । रामये स्तत्र कलहाविच्छेदेनैव तौ पुनः ॥ तृतीयाङ्कप्रवेशेन सुमन्त्रेणैव सुचितौ । सूचनं सकलाङ्कानां ज्ञेयमङ्कमुखं बुधैः ’’ ॥ इति । ततश्च पूर्वाङ्कापात्रेभ्योऽतिरिक्तस्य पात्रान्तरस्य भाव्यङ्कार्थसूचनार्थमेव केवलं प्रवेशः तेन च साकल्येन तदङ्कार्थसूचनं अङ्कारये विशेष इत्यवसीयते ॥ अनुष्टितनिर्देशः निर्वर्तितमहेन्द्रशासनोऽपि । सत्क्रियाविशेषात् बहुमानातिशयाद्धेतोः समर्थने चास्यान्वयः । अनुपयुक्तं अकिञ्चित्करमिव । समथैये मन्ये । लघु मत्कृतं गरीयांस्तु सत्कार इति भावः । उभयोरपि न कंवलं तव अपि तर्हि महेन्द्रस्यापीत्यर्थः । अपरितोषः आत्मकृते तृप्तिविरहः । उभयमप्यपरितोषंइति पाठे तव चेन्द्रस्य च द्विथमपिकृत्यं तृप्तेरपदमित्यर्थः । अपरितोषहेतुं दर्शयति ॥ प्रथमेति ॥ प्रथमोपकृतं सत्कारादपि पूर्ववृत्तं स्वीयं साह्मं मरुतः सप्तवायुस्कन्धाः देवा वा सन्ति नियाम्यत्वेनास्येति मरुत्वात् "" ज्ञयः ’’ इति मतोर्मस्य वत्वं "" तसौ मत्वर्थे ’’ इति भसंज्ञया पदसंज्ञानिवृत्तेर्जइत्वाभावः । तस्य इन्द्रस्य प्रतिपत्त्या सत्कारेण भवान् लत्रु अलृपं मन्ये । अवानेन भवदीयकर्मणा दुर्जयदानवजरूपेण विस्मितः आश्चर्यान्वितः स इत्द्रोऽपि सत्क्रियायः स्वीयसतृकारस्य गुणानतिशयान् न गणवति न मन्यते । सत्कारगोरवात् भवतः स्वकर्मण्यनादरः भवत्क्रियागौरवादिन्द्रस्य स्वसत्कारे न वैतृष्ण्यमित्यर्थः । अत्र प्रथमोपकृतमित्यनेन प्रापतफलस्य गरीयानपि सत्कार्ये सतृकारो नातिशयायेति व्यज्यते । अपरितोषतुल्यताप्रतिपादनेन राज्ञो महेन्द्रसादृश्यव्यञ्जनात् तुल्यपयो्रितालङ्कारध्वनिः "" गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता ’’ इति लक्षणात् । वियोगिनीवृत्तम् ॥ विसर्जनावसरे प्रतिप्रेणसमये सत्कारो बहुमानः मनोरथानां सङ्कल्पानामपि अभूमिः अविषयः अचिन्तनीय इत्यर्थः । द्यौः स्वर्गः ओकः स्थानं येषां तेषां दिवौकसां पृषोदरादिः । समीपं अक्ष्णोः समक्षं । अर्धासने निजासनैकदेशे उपवेशितस्य अनिच्छतोपि स्वयं महेन्द्रेण स्थापितस्य मम पिनद्धेत्याग्रिमेणान्वयः । अन्तर्गतेति । अन्तर्गता उदात्तस्वभावतया बहिरदर्शितता प्रार्थना मालाभिलाषो यस्य तं अन्तिकस्थं स्मीपावस्थितं तावतैव दर्शिताभिलाषमिति भावः । जयन्तं नाम स्वतनयं उद्वीक्ष्य दृष्ट्वा कृतस्मितेन स्वार्यतामर्य मन्यत इति विदिजाशयतया जातस्मितेन हरिणा इन्द्रेण आमृष्टं आर्द्रत्वादाहृतं वक्षसः मदुरससम्बन्धि हरिचन्द्रन प्रथममालिप्तं रक्तचन्दन्मेव अङ्कश्चिह्नं यस्याः सा मन्दारः माला मन्दारपूष्पदाम पिनद्धा साक्षत् बद्धा । नह्मतेरपिपूर्वात् कर्मणि क्तः "" नहो धः ’’ इति धत्वं "" वष्टिभागुरि ’’ रित्यादिना अपेरल्लोपः । पुत्रादपि सविशेषा प्रीतिमंयीति भावः । आमृष्टवक्षोहरिचन्दनाङ्केत्यनेन पूर्वं हरिचन्दनालेपनमपि व्यज्यतेततश्च चन्दनानुलेपनस्यार्द्रत्वप्रतिपादनेन प्रीतिप्रकषानिबन्धनो महेन्द्रस्य त्वाराविशेषो गम्यते । केचित्तु । "" आमृष्टवक्षोहरिचन्दनाङ्केत्यनेन दित्सात्वरा व्यज्यते । मन्दारामालेतृयनेन भूलोकविलक्षणमन्दाग्मकालामात्रं लभ्यांशः अन्यत् प्राप्यवस्तु नास्तीति सूच्यते ’’ इत्याहुः । उपजातिर्वृत्तम् ॥ किमिव नापहंति — सर्वथापि प्रसादः कृतो भवादृशो नातिरिच्यत इति भावः ॥ सुखेति ॥ सुखमेव परं प्रधानं यस्य तस्य स्वयमभियोगश्रमरहितस्येत्यर्थः । सुरुसुखस्येति क्कचितू पाठः । तदा सानुगुस्य हरेर्न श्रमः शरमत्रसहायेन त्वया शत्रुनिरासादिति भावः । हरेः हन्द्रस्य समृबन्धि यद्व हरेः सखपरस्य सत एव “6 षष्ठी चानादरे ’’ इति षष्ठी । त्रिदिवं स्वर्गः उभयैः द्विप्रकारैर्वस्तुभिः । "” स्ङ्ख्याय अवयवे तयप् ’’ इति विहतस्य तयपः "" उभादुदात्ती नित्यं ’’ इत्ययच् । उद्धृताः उत्खाताः दानवा एव कण्टकाः यस्मात् तथाविधं कृतं । कैः अधुना असिमन् समथे नतपर्वभिः अनुन्नगतग्रन्थिभिः तव शरैः । पुरा पूर्वकाले पुरुषश्चासौ केसरी च यस्य नरहरेर्भगवतो नखैश्च । पुरुषकेसरिण इत्यनेन यत् पुराभगवतापि रूपद्वयपिरग्रहायासेन कृतं तत् कृतं त्वया केवलैश्शरैरिति व्यतिरेको व्यज्ये । शराणां नखानां च समीकृत्य वचनात् तुल्ययोगितालङ्कारः । दुतविलम्बितं वृत्तम् ॥ शतक्रतोः नियन्तुरेव खलु महिमा प्रभावः स्तोतुं योग्यः स्तुत्यः "" एतिस्तु शास्वृदृजुषः ’’ इति क्यपि "" हस्वस्यं ’’ ति तुक् ॥ सिध्यनतीति ॥ नियोजृयाः प्रेष्याः महत्सु दुष्करेष्वपि कर्मसु कार्येषु सिध्यन्ति फलं प्राप्रुवन्ति इति यत् तमिति विधेयप्राधान्यात् पुंलिङ्गता । ईश्वराणां नियन्तॄणां सम्भावनायाः परिग्रहस्य गुणमुत्कर्षं अवेहि आनीडि । अरुणः सूर्यंसारथिः तमसां बहुवचनेन दुरपोहत्वं व्यजृयते । विभेत्ता निवर्तयिता किंवा अभविष्तृ नैवाभविष्यदित्यर्थः । तं अरुणं सहस्त्रकिरण इति तमोनिवारणशक्तिव्यञ्जनं । धुरि आत्मनः पुरतः नाकरिष्यचचेत् । यस्मादकरोत् तस्मादभवदित्यर्थः । क्रियातिपत्तौ लृङ् । सहस्त्रकिरणशब्दस्य तमोविध्वंससामर्थ्याभिप्रायतया परिकरांकुरः । तदनुप्राणितश्च दृष्टान्तालंकारः । वसन्ततिलकं वृत्तम् ॥ एतदिवकत्थनर्त्वं सदृशं महत्त्वस्यानुरूपमेव । न्पक्कपृष्ठे स्वर्गस्योपरिष्टत् प्रतिष्टितस्य रथैर्यमापन्नस्य प्रबन्धो हि यशसः प्रतिष्ठेति भावः ॥ विच्छित्तीति ॥ सुरसुन्दरीणां देवाङ्गनानां विच्दित्तिशेषौः कुङ्कुमचन्दनादिवर्णिकाविन्यासविशेषैः । "" स्वल्पोऽप्यनादरान्नयासः कुङ्कुमचन्दनादिवर्णिकाविन्यासविशेषैः । "" स्वल्पोऽप्यनादरान्नयासः कुङ्कुमादेस्स्वमण्डने । यः परां जनयेच्छोभां सा विच्छित्तितरुदाहृता ’’ ॥ "" मण्डनानादरान्नयासो विच्छित्तीरूपदर्पतः ’’ ॥ इत्याद्युक्तं । अत्र तु विन्यासमात्रं विवक्षितं । वर्णैः करणैः अमी दिवौकसो देवाः गीतिक्षमं गानयोग्यं तालादिपरिच्छेदपरिच्छिन्न्मित्यर्थः । अर्थो बध्यतेत्यनेनेत्यथ्रबन्धं भूतार्थप्रतिपादकभित्यर्थः । त्वच्चिरितं त्वदीयं दानवविजयादिचरित्रोदाहणप्रबन्धं स ? ञ्चिन्त्य सम्यगालोच्य कल्पतलांशुकेषु कल्पतरुप्रसूतेषु श्लक्ष्णामृबरेषु लिक्षन्ति । सुरसुन्दरीविच्दित्तिशेषाणां कल्पलतांशुकानां च लेखनोपयोजनेन चरिते रसातिशयः सुरुसन्दरीणां प्रतीयते । कल्पवृक्षेषु लताशब्दः कविसमयात् प्रयुक्तो लालित्यं व्यञ्जयन्नंशुकानां श्लक्ष्णतरत्वं दर्शयति । "" तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः ’’ । इति विक्रमोर्धंशीये । इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयं । आकुमारकथोद्धातं शालिगोष्यो जगुर्यशः ’’ इति रघुवंशे । उपजातिर्वृत्तम् ॥ पेर्वुद्युः पूर्वंस्मिन्नहनि । "" सद्यः परुत्परार्यैषमः परेद्युर्व्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युधरेद्युरुभयेद्युत्तरेद्युः ’’ । इति निपातितं । असुरसंप्रहारे असुरयुद्धे उत्सुकेंन आसक्तिमता दिवं स्वर्गमास्त्रेहता सता न लक्षितः कार्यव्यप्रहृदयत्वाद्विशेषेषतो न गृहीत इत्यर्थः । मरुतां वायूनां सप्तानां सम्बन्धिनि कतमस्मिन् बहूनां मध्ये कस्मिन् ॥ त्रिस्त्रोतसमिति ॥ इदं स्थानं , यो वायुः प्रतितिष्ठत्यत्रेति प्रतिष्ठा। गगनमेव प्रतिष्टा स्थानं यस्यास्तां त्रिस्त्रोतसमाकाशगङ्गां वहति प्रवर्तयति । किंच प्रविभक्ताः असङ्करप्रसारिता रश्मयः ज्योतिषां स्वे स्वे किरणाः येन तथाभूतः सन् ज्योतींषि सप्तर्षिमण्डलानि वर्तयति सञ्चारयति तस्य । परिवहाख्यस्य वायुस्कन्धानां सप्तानामन्यतमस्य षष्टस्य वायोस्सम्बन्धिनं द्वितीयेन हरिविक्रमेण त्रिविक्रमचरणन्यासने निस्तमस्कं तमोगुणरहितं मार्गं प्रसारपथं वदन्ति । ज्योतिश्शस्त्रे छायापथ इति प्रथिता व्योमगङ्गोच्यते । "" आवहः प्रवहश्चैव संवहश्चोद्वहस्ततः । विवाहाख्यः परिवहः परावह इति क्रमात् ॥ सप्तैते मारुतस्कन्धा महर्षिभिरुदीरिताः । आवहो वर्तयेदुद्वहश्चापि तथा नक्षत्रमण्डलम् ॥ संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम् । पञ्चमोऽपि विवाहाख्यस्तथैव ग्रहमण्डलम् ॥ सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा । परावहस्तथा वायुर्वर्तयेद्धुवमण्डलम् ॥ ’’ इति ब्रह्माण्डपुराणे सप्तर्षिमण्डलस्थाने स्वर्भुवोर्मध्ये भुवर्लोलोयं गम्यत इत्यर्थः । वसन्ततिलकं वृत्तम् ॥ बाह्मैरन्तश्च करणैः चक्षुरादिभिर्मनसा च सहितः अन्तरात्मा पुरुषशब्दितो जीवः प्रसीदिति शोकमोहादिविगमरूपं नैर्मल्यमायाति । तामसस्थाने तु तमसा बहिरिन्द्रियाणि तदधीनं चमनः उपरज्यते । येनात्मन एवाप्रसादः तमसः परे रूयस्य प्रथमस्य वायुस्कन्धस्य र्मामित्यर्थः । अवतीर्णौ अवरूढौ ॥ अयमिति । शीकरैरम्बुकणैः क्लिन्ननेमिः सिक्तचक्रान्तः अयं ते रथः अराणां चक्रावष्टम्भयष्टि ? विशेषाणां नेमिनाभ्योर्गध्यगतानां विचरेभ्यः अन्तरालेभ्यः निष्पतांद्भर्निर्गच्दद्भिः चातकैः । "" धरणीपतिं तोयं चातकानां रुजाकरं ’’ । इति मेघोदकैकपरत्वादुत्पतितैरित्यर्थः । अचिरभासां विद्युतां तेजसा प्रभया अनुलिप्तैः छुरितैर्हरिभिः रथाश्वैश्च वारिगर्भोदराणां घनानां नवजलधराणां उपरि गतं गमनं पिशुनयति दर्शयति । रथनेमिक्लेदः चातकनिष्पतनं इरीणां च विद्युत्प्रभाच्छुरणमिति त्रिभिर्हेतुभिर्घनोपरिगमनानुमानादनुमानालङ्कारः । हरीणां निजरूपत्यागेन विद्यद्रूपापत्तिप्रतीत्या च तद्गुणालङ्कारध्वनिः । मालिनी वृत्तम् ॥ क्षणत् अविलम्बेन अवरोहणे वेगातिशयादिति भावः । आत्माधिकारभूमौ स्वनिदेशविषयस्थले भूतल इति यावत् । आश्चर्यं दर्शंनं यस्य सः ॥ शैलानामिति ॥ मेदिनी भूमिरुन्मज्जतां उन्नमतां शैलानां शिखरात् अगात् अवरोहतीव । उन्नतानां शैलानां दृष्टिसन्निषाणमुद्गमनमिव भूम्याः पृथक्त्वेन दूरीभवनमवरोहणमिव च भातीति भावः । एवं पादपाः वृक्षाः स्कन्धानां मूलस्तम्भानां उयात् । द्दष्टिगोचरीभावात् पर्णानां दलानामभ्ज्ञ्यन्तरे मघ्ये लीनतां गूढतां विजहति क्रमात् परित्यजन्ति विप्रकर्षे पर्णमात्रं दृश्यते सन्निकर्षे च सवायवस्तरुर्दृश्यत इति भावः । तथा तनुभावेन दूरदर्शने सूक्ष्मोपलमृभतया नष्टसलिलाः अलक्षितोदकाः आपगाः सन्तानैः सन्निकर्षंक्रमेण विस्तारैः व्यक्तिं स्फुटोपलक्ष्यत्वं व्रजन्ति प्राप्रुवन्ति । मर्त्यभुवनं मनुष्यलोकः उत्क्षिपता उद्गह्णता केनापि पुरुषेण मत्पार्श्वं मत्समीपमानीयते प्राप्यत इव । व्येमगमस्य रथस्य स्खलनाभावाद्भूमेरेव न्निकर्षर्ण प्रतीयत अति भावः । अत्र प्रथमान्तिमवाक्ययोः स्वभावोत्यनुप्राणिते वरतूत्प्रेक्षे । अन्यत्र स्वभावोक्तिमात्रं । शार्दूलविक्रीडितं वृत्तम् ॥ सबहुमानं दुष्यन्ताधिकारस्थानत्वबहुमानेनेत्यर्थः । उदग्ररमणीया प्रकाममनोरमा उदाररमणीयेति पाठान्तरं । पूर्वापरौ प्राक्पश्चिर्मा समुद्रौ अवगाढः अवतीणीः । तावद्व्याप्त इत्यथ्रः । "" पूर्वापरौ वारिनिधी विगाह्म स्थितः पृथिव्या इव मानदण्डः ’’ । इति कुभारसम्भवे । कनकरसं सुवर्णद्रयं निष्यन्दते विसूजतीति कनकरसनिष्पन्दी छायैवात्र रसत्वेनाध्यवसीयते । कनकरसशब्दः सुवर्णनिर्ज्ञरपरइत्यन्ये । सान्ध्यरागनिभतृवादिति भावः । हेमकूटो नाम हेममयानि कृटानि शिखराणि यस्य स इत्यन्वर्थनामेति भावः । किंपुरुषाणां किन्नराणां पर्वतः देवभूमिरित्यर्थः । किंपुरुषाख्ये खण्डे वर्तमानः पर्वतो वा । तपरिवनां ऋषीणां सिद्धि ? क्षेत्रं तपः पूर्तिस्थानं तपसामितिपाठान्तरं ॥ स्वायम्भुवादिति । स्वायमृभुवात् ब्रहृमपुत्रात् मरीचेर्नाम प्रजापतेः "" जनिकर्तुः प्रकृतिः ’’ इत्यपादानत्वात् पञ्चमी । यः प्रजापतिः कश्यपः प्रबभूवप्रसूतः । ब्रह्मणैव सर्गाधिकारनियुक्तानामन्यतमः कश्यपः । अत उक्तं प्रजापतिरिति । सुराणामसुराणां च क्रमाददितिसुतानां च गुरुः पिता सः सपवत्नीकः अदितृया पतृन्या सहितस्मन् अस्मिन् हेमकूटे तपस्यति तपश्चरति । "" कर्मणो रोमन्थतपोम्यां वर्तिचरोः ’’ इति क्यङ् । "" तपसः परस्मैपदं च ’’ इति वक्तव्यात् परस्मैपदं । सुरासुरगुरुः सोत्रेति क्कचित् पाठः । प्रजापतेरपि तपः स्थानमिति भावः । उदात्तालङ्कारभेदः "" उदात्तं वस्तुनः संपत् श्लराध्यं र्चान्योपलक्षणं ’’ । इति तल्लक्षणं । अनुष्टुप् वृत्तम् ॥ तेन हीति – प्रदक्षिणीकृतृय भवनतं गन्तुमिच्छामीति समृबन्धः । श्रेयांसि महदुपसदनादीति कल्याणानि अनतिक्रमणीयानि । भगवन्तं कश्यपं । प्रथमः प्रकष्टः कल्पः प्रकारः ॥ उपोढेति । रथाङ्गनेमयः चक्रान्ताः उपोडशब्दाः न भवन्ति । स्खलनाभावादप्राप्तघोषा भवनतीति भावः । प्रवर्तमानं प्रसरत् रजश्च न दृश्यते । अभूतलस्पर्शतया दिव्यतया भूतलस्पशार्सभावेन निरुद्वतः अनुलृबणः गतिस्थित्योर्नि ? र्विशेष इत्यर्थः । भूलस्पर्शे हि स्खलनाद्गमनं इति भावः । तव रथः अवतीर्णो हेमकूटमवरूढोऽपि न लक्ष्यते अवतीर्ण इति न ज्ञायते । भूतलस्पर्शे तु गमने शब्दरजसोस्मम्भवात्तुदुपरमे गमनोपरमो ज्ञायेतेति भावः । निरुन्धत इति पाठे नियच्छतस्तवेति योजना । वंशस्थं वृत्तम् ॥ एतावानेव भूतलस्पर्शास्पर्शमात्र एव । विषेषः व्यतिरेक्तः । अ ? विशिष्टस्तु प्रभाव इति भावः ॥ वल्मीकेति । वल्मीके कृमिभिश्चिते मूत्पुञ्जे अर्धंनिमग्रा अवगाढैकदेशा मूर्तिः शरीरं यस्य सः चिराय समाधिनिश्चेष्टया वल्मीकावरणमपि न पश्यतीत्यर्थः । सन्दष्टसर्पत्वचा संश्लिष्टसपंनिमोंकेण उरसा वक्षसा उपलक्षित इति शेषः । कण्ठे जीर्णानां चिरप्ररूढानां लताप्रतानानां लताविठटानां वलयेन मण्डलेन अत्यर्थमतिमात्रं संपीडितः संनद्धः दारुवन्निभूतत्वादिति भावः । अंसव्यापि आस्कन्धलग्बं शुकुन्तनीहैः गुल्मशङ्कया रचितैः पत्रिणां कुलायैः निचितं नीरन्ध्रंजटामझडलं जटावलयं बिभ्रतृ वहन्नसौ मुनिः यत्र यस्मिन् देशे स्थाणुरिंव छिन्नतरुस्कन्ध इव अचलः निभृतः सन् अभ्यर्कबिम्बं सूर्यमण्डलाभिमुखं स्थितः । "" स्थाणु र्वा ना ध्रुवः शंकु ’’ रितृयमरः । स्थागुरपि वल्मीकच्छन्नैकदेशः सर्पत्वक्संवलितः जीर्णलतावलयितः नीडनिचितः शाखादिविरहान्निश्चलश्च भवतीति साधर्म्यं । उपमालङ्कारः । विस्मृतशरीरत्वमनेन व्यज्यते । शार्दूलविक्रीडितं वृत्तम् ॥ कष्टमितरुदष्करं तपो यस्य तस्मै ते तुभ्यं । "" नमः स्वस्ती ’’ त्यादिना चतुथीं । "" नमोस्त्वस्मैः इति पाठान्तरं । धृताः संयताः प्रग्रहाः हयरश्मयः यस्य तं निवृत्तगमनमित्यर्थः । एतौ आवां अदित्या कश्यपपत्न्या परिवर्धिताः स्वयं पोषिताः मन्दारवृक्षाः सुरद्रुमाः यस्मिंस्तं । अत्र मन्दारशब्दः सुरद्रमाणामुपलक्षकः । प्रजापेर्मारीचस्य । अधिकतरं विशिष्टतरं निर्वृतिस्थानं सुखभूमिः । अमृतहदं अमृतमयं सरः अवगाढः प्रविष्ट इव अन्तर्बहिश्च शरोरधातूनामाप्यानादिति भावः । भाविश्रेयोलक्षणं चेदं । भवान् कथं लिङ्करिष्यतीत्यर्थः । मातर्लि पुरस्कृत्य कश् ? यपमुपगन्तुमभिसन्धिरनेन व्यञ्जितः । अवतरामः यन्त्रितत्वादावतर्तुं शक्यमिति भावः । ततश्च राजानुगमनौ चित्यं दर्शितम् ॥ प्राणानामिति । सन्तः कल्पवृक्षाः समीहितसर्वफलदातारो यस्मिंस्तस्मिन् अत्रापि कल्पवृक्षपदेवतरूणामुपलक्षणं । वने हेमकूटारण्ये अनिलेन नभश्चरेण नभस्वता प्राणानां वृत्तिः धारणमुचिता अभ्यस्ता । अमीभिरिति विभक्ति परिणामेनाकृष्ते । काञ्चनपह्मनां हेमतामीरसानां रेगुभिः पवनविक्षिप्तैः परागैः कपिशे पीतवर्णे उपभोगयोग्य इति भावः । अत्र तीये जले धर्माभिवेकस्य नियम स्त्रानस्य क्रिया विधानमुचितेत्युनुषज्यते । रत्नानामेव शिलानां तलेषु उपरिभागेषु ध्यानं समाधिः उचितमिति विपरिण्म्यते । शिलाशब्देन वैपुल्यं रत्नेष्वपि शिलासामान्यग्रहणमेव वीतरागाणामिति च प्रतीयते । वित्नुधस्त्रीणां अप्सरसां यदुपलम्भाय यज्ञादिक्लेशो याज्ञिकादीनामिति भावः । सन्निधौ शुश्रूषमाणानां सविधएव संयमः इन्द्रियजयः उचित इत्यत्रापि विपरिणामः । अन्यमुनयः भौमस्तपस्विनः तपोभिः यमनियमादिक्लेशैः यत् पदं सुखस्थानं काङ्क्षन्ति फलमिति प्राप्तुमिच्छन्ति तस्मिन् स्थाने अमी मुनयस्तपत्यन्ति । "" आब्रहृमभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ’’ इत्युक्तं सर्वसुखानां परिणामविरसत्वं विज्ञाय वीतरागा आत्मारामास्तपस्यन्तीति भावः । सत्यामपि सामग्र्यां भोगांनुत्पत्त्या विशेषेक्तिः । सति प्रतिबन्धके प्रतिबन्धकाभावघटितसामग्रीमन्तरेणैव तपः स्पत्तिरिति विभा वना वेति तयोः सन्देहसङ्करः । शार्दूलविक्रीडितं वृत्तम् ॥ उतृसर्पिणी ऊर्ध्वगामिनी । वृद्धशाकल् येति काश्यपशिष्याणामन्तमस्समृबोध्ये । दाक्षायण्या अदित्या “6 वा नामेधेयस्य ’’ इति वक्तव्याद्वृद्धंसंज्ञायां "” उदोचां वृद्धादगोत्रात् ’’ इति फिञ् । गौरादित्वाद् ङीष् । पत्युरिव व्रतं यासां तासां पतिव्रतानां धर्मं कर्तव्यभाचारं अधिकृत्य विषयीकृत्य । प्रस्तावः स्त्रीधर्मोप देशप्रकरणं प्रतिपाल्यः प्रतीक्षणीयः अवसरः कालः यस्य सः । प्रतिपाल्याऽवसराः खलु मुनय इति पाठान्तरं । इन्द्रगुरवे इद्रस्य पित्रे पुत्रसाह्मकारिणि प्रसदावश्यंभावव्यञ्जनमिदं । अन्तरान्वेषी समयप्रतीक्षः यावद्भवामि भव्रिष्यामि । तावदास्तामिति पूर्वेण वा समृबन्धः ॥ ?B मनोरथायेति ॥ मनोरथाय प्रियाप्राप्तिरूपाया नाशंसे नेच्छामि । अत्र मनोरथविषये मनोरथोपचारः अनसोरथोपचारः अनन्याभिलाषव्यञ्जनार्थः । "" क्रियया यमभिप्रैति सोऽपि सम्प्रदानं ’’ इति वकृतव्याच्चतुर्थी । हे बाहो बअर्थाद्दक्षिणभुज वृथा निष्फलमेव किं कुतः स्पन्दसे प्रस्फुरसि । पूर्वावधीरितं प्रथमनिरस्तं श्रेयः शुभं दुः खंखरूपमेव हि परिवर्तते परिणमति । यद्वादुः खमिति क्रियाविशेषणं । कृच्छ्रेण हि परिवर्तते प्रत्यागच्छतीत्यर्थः । उपस्थितमवसमतं श्रेयः पुनः प्राप्रुं न शक्यमिति भावः । उत्तरार्धेन निमितृतवैयर्थ्यस्य समर्थनात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । अनुष्टुप् वृत्तम् ॥ चपलस्य कर्म चापलं । सत्वपीडारूपमविनयमित्यर्थंः । प्रकृतिं स्वभावं सत्त्वावस्कन्दन्यपं गतः प्राप्तः निषिद्धोऽपि न जहातीत्यर्थः । अभूमिः अस्थानं सिद्धिक्षेत्रत्वादिति भावः । कोऽन्वेषः पुण्यक्षेत्रस्थितोऽपीत्यर्थः । शिक्ष्यते अविनयान्निवार्यते । शब्दानुसारेण शब्दागमनामार्गमनुस्तृय । अनुवर्तिष्यमानः अनुपदमनुगम्यमानः । बालस्येव सत्त्वं बलं यस्य स न भवतीत्यबालसत्त्वः बालः वयसैव बाल इत्यर्थः ॥ अर्धेति । मातुस्सिंह्माः अर्धपीतः सशेषं पीतः स्तनो येन तं अर्धपीतमातृस्तनमित्यर्थः । स्तनंधयादिवदुपचारात् स्तन्ये स्तशब्दः । पीतशब्दो वा पीतशब्दो वा पीतक्षीरे लाक्षणिक्रः । आमर्देन पीडने आमर्शेति पाठे स्पर्शेनेत्यत्यर्थः । क्लिष्टाः मूदिताः केसराः सटाः यस्य तं सिंहशिशुं प्रक्रीडितुं मृगमार्जारादिशाबानि वोपकरणीकृत्यविहर्तुं बलात्कारेण हठग्रहणेन कर्षति । अनुष्टुप् वृत्तम् ॥ यथानिर्दिष्अं कर्म सिंहडिम्भाकर्षणरूपं यस्य सः । हे डिम्भजृम्भस्व मुखं व्यादेहि । जिम्म सिङ् य [ जृम्भस्व सिंह ] इति पाठान्तरं । नः ऋषीणामित्यर्थः । अपत्यनिविंशेषाणि पुत्रतुल्यानि सत्त्वानि प्राणिनः । विप्रकरोषि अपकरोषि । हन्तेत्याक्षेपे । ते तव संरम्भः हठप्रवृत्तिः वर्धंते प्रतिषेधेन न शाम्यति । सर्वं दमयतीति सर्वदमनः । ऋषिजनेन अनागतवेदिनेत्यर्थः । ? अस्मिन् बाले उरसा निर्मितः औरसः "" स्वजातेत्वौरसौरस्यौ ’’ इत्यमरः । " दरसोण् च ’ इति साधुः । तस्मिन् पुत्र इव । नूनमिति तर्के । अनपत्यता सन्तानाभावः । वत्सलं स्त्रिग्धं करोति वत्सलयति । लंघयति अभिभवति निवर्तनाय वर्तमानभयप्रदर्शनं । अस्याः केसरिण्याः । हंही इति मिथ्याभयाविष्यकरणं । अधरं दर्शयति अनादरसूचनार्थमिति भावः । "" असूयावेदना 1 ़वज्ञालस्यादिषु विवर्तर्न ’’ इत्युक्तलक्षणं विवर्तने ’’ इत्युक्तलक्षणं विवर्तनास्यमधरकर्मेह ज्ञेयम् ॥ महत इति । अयं बालः महतः उपचयेन पृथूभविष्यतः तेजसः प्रभावस्य बीजं निदानं मे मह्मं प्रतिभाति । कथमिव स्फुलिङ्गावस्थया ? अग्रिकणदशया स्थितः एध इन्धनं इतृयते अनेनेति व्युजत्पत्त्या "" अवौदैधोझप्रश्रथहिमश्रथाः ’’ इति निपातनात् साधुः । तमपेक्षत इत्येक्षत इत्येधापेक्षः वह्लिरिव । उपमालङ्कारः "" तेजसां हि न वयस्मीक्ष्यते ’’ इति न्याथो बोध्यः । यया तनुरपि स्फुलिङ्गो दाह्ममासाद्य महान् भवति तथाऽयमपि बहूभविष्तस्तेजसः कारणावस्थामात्रमिति भावः । तेजस्विन इति व्याख्याने तु बीजमिति वीर्यपरं । अनुष्टुप् वृत्तम् ॥ क्रोडनकं क्राडासाधनं । चक्रवर्तिनः लक्षणं जालग्रथितांगुलित्वादि । न पुनस्तेजोमात्रमितृयपेरर्थः ॥ प्रलोभ्येति ॥ प्रलोभ्यस्य स्पृहणीयस्य वस्तुनः क्रीडनकस्य प्रणया प्रार्थनार्थं प्रसारितः विवृतः ? जालेषु विवरेषु ग्रथिताः संश्लिष्टाः श्रविरला इति यावत् । अङ्गुलयो यस्य सः करः बालहस्तः इद्धरागया दीप्तारुष्यया नवोषसा अचिरोदितप्रभातसन्ध्यया भिन्नं तदातृवोनमीलितं अत एव अवलक्ष्याणि अदृश्यानि पत्राणां दलानामन्तराणि विच्छेदस्थानानि यस्य तत् एकं पङ्कजं पहृमभिव विभाति । नवोषसेत्यनेन प्राभातिकरागसंक्रान्तिरसमग्रविकाश्च व्यज्यते । "" उषः प्रत्युषसी अपि ’’ "" उषः प्रत्युषसी क्लीबा ’’ इत्याद्यभिधानापठात् उषः शब्दस्य नपुंसक्रत्वेऽपि "" उषा वा अश्वस्य मेध्यस्य शिसरः ’’ "" अषा वा अपूव्यां व्युच्छति प्रिया दिवः ’’ हतिकौशीतिकोब्राह्मण ऋग्वेदाद्यनुरोधात् कवेश्च निरह्कुशत्वादत्र स्त्रीकिङ्गप्रयोगः । अत एवभवभूतिरप्याह "" जगद्वन्द्यां देवीमुषसभिव वन्दे भगवतीं ’’ इति । यत्तु नवं उषः यस्यास्तया प्रातः सन्ध्ययेति व्याख्यानं , तच्चिन्त्यं उषः प्रातः सन्न्ययोरविशेषेण प्रातः सन्ध्ययेत्येनेन व्यावर्तनीयाभावात् । अध्याहर्तव्यविशेषनुरोधेन लिङ्गविशेषनिवेशानोचित्यात् । अन्यथा सामान्ये नपुंसकशास्त्रस्य निरवकाशत्वापातादिति उपभालङ्कारः । वंशस्थं वृत्तम् ॥ वाङ्मात्रेण क्रीनकमदत्त्वेत्यर्थः । विरमयितुं सिंहशिशुग्रहणान्निवर्तयितुं । मार्कण्डेयस्य मार्कण्डेयाख्यस्य । ऋषिकुमारपेदनास्यानृषिकुमारत्वं व्यज्यते । वर्णैः वर्णंद्रव्यैः चित्रितः नानारूपः कृतः मूत्तिकामयूरः मृण्मयीमयूरप्रतिकृतिः । अनेनैव तावत् सिंहशिशुनैव सांप्रतं । दुर्ललिताय दुष्टविलसिताय अदान्तायेति यावत् । "" स्नृहेरीप्सितः ’’ इति सम्प्रदानत्वाच्चतुर्थीं । स्वपुत्रत्वाज्ञानान्नेप्सिततमत्वम् ॥ आलक्ष्येति ॥ धन्याः भाग्यवन्तः पुरुषाः अलिमित्तैरकारणै हासैः शैशवसहजैः आलक्ष्याः स्पष्टश्याः दन्तमुकुलाः दन्तांकुराः अचिरोद्भेदेन मुकुलसादृश्यं । येषां तान् अव्यक्तवर्णाः व्यतिकीर्णाक्षराः रमणीयाः मनोज्ञाः वचः प्रृत्तयः शब्दोच्चारणानि येषां तान् . अङ्काश्रये उत्सङ्गासादने प्रणयिनः प्रार्थानावतः तनयान् पुत्रान् वहन्तः दधानाः सन्तः तेषां पुत्राणां अङ्गरजसा क्रीडालग्रेन शरीरपांसुना मलिनीभवन्ति अभततद्धावे च्विः । पुत्रशरीरसङ्गि रजो - मालिन्यमपि महद्भागधेयं "" पुत्रः स्पर्शवतां वरः ’’ इत्युक्तेरिति भावः । स्वभावोक्तिरलङ्कारः । "" स्वभावोक्तितस्तु डिम्भादेः स्वक्रियाद्यभिवर्णनं ’’ इति लक्षणात् । वसन्ततिलकं वृत्तम् ॥ अत्र आश्रमे ऋषिकुमाराणां मध्य इत्यथेः । भद्रमुख सौम्य "" सौम्य भद्रमुखेत्येवं मान्ये राजसुते भवे ’’ इत्युक्तं । दुर्मोचः मोक्तुमशक्यः हस्तस्य ग्रहः ग्रहणं यस्य तेन । डिम्भलीलया बालक्रोडया सत्त्वपीषानभिज्ञतपेति भावः । आश्रमसम्बन्धातृ महर्षिपुत्रेति सम्बोधनम् ॥ एवमिति ॥ एवं अनेन प्रकारेण आश्रमस्य भूतसौहार्दरूपस्याश्रमधर्मस्य विरुत्रवृत्तिना विपर्यस्तव्यापारेण वार्तेनेति पाठे विरुद्धं यथातथा प्रवर्तमानेनेत्यर्थः । त्वया कत्रां उन्मनः स्वोत्पत्तेरेव प्रभृतिसत्त्वानां प्राणिनां संश्रयः आश्रयणीयत्वमेव गुणः उत्कर्षो यस्य तथाभूतोपि संयमः तपः किमिति कुतो हेतोः कुष्णसर्वशिशुना चन्दन इव दूष्यते अपरिग्राह्मतां नीयते । जातमात्रस्य कथमयं कारणविरुद्धव्यापार इति भावः । सत्त्वसंश्रयसुखोपीति पाठं सत्त्वानां संश्रये सुखः अनुकूल इत्यर्थः । अथवा जन्मन इति षष्ठी जन्मनः सम्बन्धीति संयमविशेषणं । रथोद्धता वृत्तम् ॥ अकारसदृशं शरीरसंस्थानानुरूपं चेष्टितं व्यापारः कथयति आकारश्च चेष्टाचेप्युभयमपि नायमृषिकुमार इति दर्शयतीत्यर्थः । स्थानप्रत्ययादाश्रमरूपनिवासादेव हेतोः "" प्रत्ययः शपथे रन्ध्रे विश्वासाकारहेतुषु । प्रथितत्वे च सन्नादावधीनज्ञानयोरपि ’’ इति विश्वासाकारहेतुषु । प्रतिथतत्वे च सन्नादावधीनज्ञानयोरपि ’’ इति विश्वः । एवं तर्कयन्तीत्येवं तर्किणः । यथाभ्यर्थितं तापसी प्रार्थितप्रकारेण ॥ अनेनेति ॥ कस्यापि यस्य कस्यचित् सुकृतिन इत्यर्थः । कुलांकुरेण वंशाभिवर्धनेन मदसग्बद्धेनापीति भावः । अनेन बालेन गात्रेषु अवयवेषु स्पृष्टस्य परामृष्टमात्रस्य मम सुखमानन्द एवं अनुभूयमानप्रकारो न तु निर्वक्तुं शक्यइत्यर्थः । अयं बालः यस्य कृतिनो धन्यस्य अङ्गोत् शरीरात् प्ररूढः जातः तस्य जनस्य कां कीदृशीं निर्वृतिमानन्दं कुर्याज्जनयेत् । "" पुत्नः स्पर्शवतां वरः ’’ इति हरिवंशे । अत्र कैमुत्यप्रतीते रर्थापत्तिरलङ्कारः । उपजातिर्वृत्तम् ॥ उभौ राजानं बालं च निर्वर्ण्य दृष्ट्वा । रूपस्य संवादिनी सदृशीत्यर्थः । आकृतिरवयवसन्निवेशः । अपरिचितस्य इदंप्रथमदृष्टस्यापि अप्रतिलोमः वशंवदः । उपलालयन् उपच्छन्दयन् प्रीणयन्निति यावत् । अथ तर्हि । व्यपदिश्यते व्यवहियते अनेनेति व्यपदेश 3 कुलं । एकान्वयः समानाभिजनः । पौरवाणां पुरुवंश्यानामन्ते भवमन्त्यं वार्धककालिकमिति थावत् । कुलव्रतं कुलधर्मः ॥ भवनेष्विति । ये पौरवा राजानः पूर्वं राज्यकाले सुधासितेषु प्रतिपदनवीकृतेष्वित्यर्थः । भवनेषु प्रासादेषु क्षितेः भूमेः रक्षार्थं परित्राणाय न तु स्वसुखार्थमिति भावः । उक्तंहि रघुवंशे " असक्तः सुखमन्वभूत् ’’ । इति । निवासं स्थितिं उशन्ति इच्छन्ति “6 वशकान्तो ’’ इति धातोः संप्रसरिणं । तेषां राज्ञां पश्चात् राज्यतृयागादनन्तरं नियतं अविप्लुतमेकमविच्छिन्नं यतिब्रतं इन्द्रियजयाभ्यासरूपनियमो येषु तानि तरुमूलानि गृहीभवन्ति तत्रैव गृहबुद्धिः क्रियत इत्यर्थाः । यतन्ते जेतुमिन्द्रियाणि इति व्युत्पत्या वानप्रस्थसाधारणो यतिशब्दः अतश्च पुत्रजन्माविरोधः "” वार्धके मुनिवृत्तीनां ’’ इति रधुवंशे । रसादिकेष्विति पाठे स्पृहणीये ? ष्वित्यर्थः । नियतैकपतिव्रतानीति पाठे । नियतमपरित्यक्तमेकस्य अनन्यापेक्षस्य पत्युर्नाथस्य ब्रतं छायाफलादिभिस्सवाथा रक्षणनियमः यैस्तानीत्यर्थः । तेषां पौरवाणामन्यतमस्य अपत्यं भवितुमर्हतीति भावः । वसन्ततिलकं वृत्तम् ॥ आत्मगत्या शरीरगमनेन । विषयः प्राप्यः । सुकृतविशेषास्तु देवतानुग्रहसहायाच्छरीरावाने लभ्य इति भावः । अप्सरसः भेनकायाः सम्बन्धेन दुहितृत्वरूपेण । प्रसूता पुंत्नं जनितवती । अत्र सूयतेः प्राणिगर्भविमोक्षणार्थस्य कर्मणः धात्वर्थेनोपसङ्ग्रुहादकर्मकत्वेन "" गत्यर्थाकर्मक ’’ इत्यादिना कर्तरि क्तः । इदमप्सरस्सम्बन्धरूपं । द्वितीयं पौरवत्वं पौरवत्वं तु प्रथममिति भावः । आशाजननं इच्छासन्धुक्षणमात्रं । सर्वं ह्मनेकान्तं भवतीति भावः । का आख्या यस्य तस्य किन्नाम्रः रार्षेः पौरवत्वाद्राजर्षिव्यपदेशः । चिन्तयिष्यति नामापि तथाविधस्य चिन्त्यमानं पापायेति भावः । लक्षीकरोति विषयीकरोति । नामतः नाम्रा । यदिः प्रश्रार्थः । तह्मंवगतं स्यादिति वाक्यशेषो वा । परदाराणां स्वदारत्वेनानवधारितायाः स्त्रिया इतृयर्थः । व्यवहारः प्रस्तावः न न्याय्यः अन्यथासिद्धिसम्भवादयुक्त इत्यर्थः । परदारपूच्छाव्यापारो इति क्कचित् पाठः । तह्मनर्हः परदारव्यवहार इति चान्यत्र । मूदो मयूरः मृण्मयूरः हस्ते यस्याः या । शकुन्तस्य मृण्मयरूस्य लावण्यं स्त्रिग्धत्वं यश्येत्यर्थके वाक्ये शकुन्तलापदमादाय कर्हि इति बालस्य प्रश्रः । मातृवत्सलः मातृप्रियः "" वत्सांसाभ्यां कामबले ’ इति लच् । नामधेयसादृश्यानि नामैक्यान्यपि सन्ति पुनः बहुशः सम्भवन्ति । नैतावत् पर्याप्तं निश्चयायेति भावः । मृगतृष्णिका मरीचिकेव नाममात्रस्य अर्थसंवादरहितस्य नाम्रः प्रस्ताव व्यवहारः । विषादाय प्रत्युत खेदाय । यथा न केवलं तृष्तिस्य मृगतृष्णा न तृषं शमयति अपि तर्हि परिभ्रमणश्रममपि सविशेषमावहति तथाऽयं प्रस्ताव उत्कण्ठासंवर्धनेन भूयसे सन्तापाय किं भविष्यतीत्यर्थः । भद्रमयूरकः रमत्या मयूरप्रतिकृतिः "" इवे प्रतिकृतौ ’’ । आदत्ते गृह्माति "" आङो दोऽनास्यविहरणे ’’ इत्यात्मनेपदे । रक्षाकरण्डकं रक्षणार्थमन्त्रसंस्कारनिधानमोषधिः ओषधिगर्भा गुलिका वा । मणिब्रनधे प्रकोष्ठे । अपराजिता भूतादिभिरनभिभव्यतया तथा कृतनामधेया । आत्मानं बालं न गृह्णतिन रपृष्टुमर्हति । भूपितितामित्यनेन हस्तस्थितायाः स्पर्शे न दोष इति व्यञ्जितं । अथ गृह्णति यदि स्पृशति तदा किंस्यादिति शोषः । विक्रिया सर्पत्वेन परिणामः । संपूर्णं सर्वथा संपन्नप्रायमपि । नाभिनन्दामि नाद्रिये । नास्ति हि व्यभिचारशङ्केति भावः । इमं अपराजिताया विकाराभावं । नियमे तपसि व्यापृतायै व्यग्रायै । अभिनन्दयिष्यसि प्रीणयिष्यसि । विवादः विवादः तातो दुष्यन्तो न त्वमित्याक्षेप एव प्रतृयाययति मदपतृयतां निश्चाययति । विकारकाले सर्पतया परिणामहेतूपस्थाने प्रकृतिस्थां अविकृतां । श्रुत्वापि श्रवणानन्तरमपीत्यर्थः । भागधे येषु पतिसमागमादिषु । प्रत्यक्षमवधीरितायाः कथं पतिसङ्गमसुखसम्भव इति भावः । सम्भाव्यते स्यादित्याशास्यते ॥ सवने इति । परिधूसरे असंस्कारमलिने वसने वसाना धारयन्ती नियमेन तपश्चरणेन क्षाममुखी दुर्बलकापोला दुर्बलकपोला धृतैकवेणिः बद्धजटा अत एव शुद्धशीला निर्मलचरित्रा यैषा शकुन्तला निष्करुणस्य निर्दयस्यापि मम विषयो दीर्घंमवधिरहितं विरहव्रतं बिभर्ति । समागमस्यानाशंसनीयत्वाद्दीर्घमेव तपश्चरितुं प्रवृत्तेति भावः । वसन्ततिलका वृत्तम् । औच्छन्दसिकं वा ॥ पश्चात्तापेन विरहानुशयेन विवर्णं विच्छायं । नखल्वार्यपुत्र इव आर्यपुत्रसाधर्म्यं न लक्ष्यत इत्यर्थः । कः अन्यः सुरुषः अकृतरक्षामङ्गलं रक्षाकरण्डकभ्रंशामिति भावः । गात्रसंसर्गेण दूषयति अपत्यस्य हि परपुरुषेणालिङ्गनं भावदोषाद्दूषणं सतीनामिति भावः । रक्षा तु सर्वदोषनिवारणमिति भावः । पकरीयः अस्मदसम्बद्ध इत्यर्थः । त्वयि विषये प्रयुक्तं कृतं क्रार्यं प्रत्यादेशरूक्षत्वमपि अनुकूलपरिणामं सुखपर्यवसानं । प्रतृयभिज्ञातं सोऽयमिति स्मूतं न तु मयेव त्वां विस्मृतमिति भावः । समाश्वसिहि कातरतां त्यज । परित्यक्तमत्सरेण पूर्वविरोर्ध मुक्तवता । आर्यपुत्रः खलु आर्यपुत्र एव । स्वरेण प्रत्यभिज्ञात इति भावः । स्मृ ? तीति ॥ हे सुमुखि स्मृत्या प्रणयस्मरणेन भिन्नं निरस्तं मोहतमः अज्ञानान्धकारः यस्य तस्य मे प्रमुखे अग्रतः दिष्ट्येत्यव्ययं भाग्येनेत्यर्थंः । स्थितासि । तृवथि सन्निहितायां स्मृतिरतीता स्मृत्यां च प्राप्तायां त्वं दुर्लभेति विप्रतिषेधोऽयं देवान्निवृत्त इति भावः । तद्यथा उरागस्य ग्रहणस्य अन्ते अवसाने रोहिणी । शशिनश्चन्द्रस्य योगं सम्बन्धं समुपगता संप्राप्ता । अकस्मत् ककञ्चित् कालं स्मरणतिरोधानमुपरगकल्पं मोक्षकल्पश्च प्रतिबोध इति भावः । दृष्टान्तालङ्कारः । आर्या वृत्तम् ॥ "" समुपगतेवाशु रोहिणी योगमि ’’ ति पाठे उपमालङ्कारः ।गीतिर्वृत्तम् ॥ बाष्पः कण्ठे यस्याः सा । बाष्यनिरुद्वकण्ठीति पाठे बाष्पेण निरुद्वः प्रतिबद्धप्रसरः कण्ठः स्वरः यस्याः सा ॥ बाष्पेणेति ॥ जयशब्दे त्वया वकृतुमुपक्रान्ते बाष्पेण कठरोधिनाप्रतिषिद्धे प्रतिबद्धे सत्यपि मया जितं सर्वोत्कर्षेण स्थितं कृतार्थीभूतमित्यर्थः । यद्यस्मात् कारणादसंस्कारेण यावकरञ्जनादिसंस्कारेण विनापि पाटलं रक्तं ओष्ठपुटं अधरदलं यस्य तत् ते मुखं दृष्टं । प्रोषिते मलिना कृशा ’’ इत्यादिसतीक्षणदर्भंनादयमेव मे जय इति भावः । अत्र जयादिशंषं कारणं विनापि जयरूपकार्योत्पत्त्या असंस्कारपाटलोष्टपुटमिति । च संस्कारादृतेऽपि पाटलिमोत्पत्त्या च विभावनालङ्कारौ । असंस्कारमिति व्यस्तापाठे अनलंकृतमिति मुखविशेषणं । क्कचितृ "" पाटलोष्ठमिदं मुखं ’’ इति अन्यत्र "" पाटलोष्टं मुखं प्रिये ’’ इति च पाठो दृश्यते । "" ओत्वोष्टयोः समासे वा ’’ इति वक्तव्यात् वृद्धिविकल्पः । अनुष्टुप् वृत्तम् ॥ भागधेयानि भाग्यानि पृच्छ । यन्मां पृच्छसि तदत्यिर्थसिद्धं । स्वभागधेयस्य विपर्यस्तत्वानुभवातृ पुत्रभागधेयस्यैव विलसितमिदं यद्भूयः समागम इति शकुन्तलाहृदयं । भागधेयानामेवात्र प्रधानकर्मत्वम् ॥ सुतन्विति । हे सुतनु प्रत्यादेशब्यलोकं मदवधीरणारूपमप्रियं ते हृदयादपैतु अपगच्छतु न स्मर्तव्यमिति भावः । तदा प्रत्यादेशावसरे किमपिश्रज्ञातनिमित्तः अत्र किमित्यव्ययं "" किं प्रश्राक्षेपकुत्सासु तत्रैव च किमव्यं ’’ इति नानार्थरतृनमाला । बलवान् दुष्परिहरः मे मनसः संमोहः अज्ञानं अभूत् । तथा हि । प्रबलतमसां उद्रिक्तमोहानां पुरुषाणां शुभेषु रेयस्सु वृत्तयः व्यवहाराः एवं प्रायाः भूयिष्ठमेतादृशा भवन्ति । यथा अन्धः शिरसि क्षिप्तां लीलया विन्यस्तां स्त्रजं पुष्पमालामपि अहिशङ्क्या सर्पभ्रमेण धुनोति निरस्यति । विकस्वरालङ्कारः । "" यस्मिनिवशेषसामान्यविशेषाः स विकस्वरः ’’ इति लक्षणात् । हरिणी वृत्तम् ॥ सुचरितप्रतिबन्धकं सुकृतविरोधि पुराकृतं पूर्वजन्माचरितं कर्मः दुष्कृतं । परिणामाभिमुखं फलोपधानोद्युक्तं । येनैतदशक्यनिरोधं भवतीति भावः । दुः खभगी दुः खशाली इत्यर्थः । उद्धुतमपनीतं विषादरूपं शल्पं येन तथाभूतः सन् कथयिष्यामि विस्मरणनिमित्तमित्यर्थसिद्धं कर्म । शकुन्लयैव स्वयमंगुलीयकोपलम्भे रसपोष इति राज्ञा निवेदनमनुपक्षिप्तम् ॥ मोहादिति । हे सुतनु ! सुतनु ! पूर्वं प्रतृयादेशादशायां बद्धबिन्दुः आरब्ध पृषतः उपचित इत्यर्थः । अतएव अधरं परिबाधमानः एतनाभिघातादुष्णत्वाच् ? च पीडयन् अनेनाधरस्य कोमलत्वं व्यज्यते । ते त्वदीयः यः बाष्वः मया मीहादप्रतिबोधादुपेक्षितः अकृतप्रतीकारः । अद्य तावत् इदानीमपि आकुटिलेषु ईषदरालेषु पक्ष्मसु विचलग्रं सान्द्रेषु संसक्तं अनिसश्शेषगलितमिति यावत् शीकरस्यानपोहाभिप्रायमिदं । तं बाष्पं प्रमृज्य अपनीय विगतानुशयः पश्चात्तापरहितः भवामि । अज्ञानादननुष्टितस्यावश्यानुष्टेयस्य सति ज्ञाने कार्यान्तराव्यवधानेन करणं हि प्रापतमिति भावः । "" योबष्पबिन्दुरि ’’ ति पाठे "" पुनरुक्तिपरिहाराय यत्पदेन बिन्दोस्तत्पदेन च बाष्पस्य परामर्शाद्वैरूप्यपरिहाराय च बाष्यमिति स्थाने "" ति पाठः सांप्रतः । भवामीति स्थाने "" भवेयं ’’ इति च पाठान्तरं । वसन्ततिलकं वृत्तम् ॥ नाममुद्रां राजनामांकितमंगुलीयकं मार्जनरावसरे व्यक्तमिति शेषः । अनेन अङ्गुलीयकेन विषममयुक्तं । प्रत्यायनकाले विस्त्रग्भनसमये । ऋतुसमवायस्य वसन्तसमागमस्य चिह्नं लक्षणभूतं । प्रतिपद्यतां प्राप्रोतु मत्समागमचिह्लभूतं पुनस्त्वमंगुलीयकं गृह्णष्वेति भावः । अत्र अङ्गुलीयके विश्वासो विस्त्रग्मः । अनेन हि व ? ञ्चितास्मीति भावः । आर्ययुत्रएवेति योऽनेनानुगृहीतोऽसीति भावः । सुहृदा शक्रेण संपादितं समर्पितं अत एव सदु अतृयर्थप्रियं फलं यस्य सः । इन्द्रादेश प्रवृत्तस्यैव हि पुनः प्रियासमागम इति भावः । प्रस्तावादनुस्मृतं पृच्छति । मातल इति । अयं शकुन्तलापरित्यागरूपः न खलु विदितः न ज्ञातः किं । ईश्वराणां लोकातिरिक्तशक्तीनां । अक्ष्णः परं परोक्षं किननाम न किंचिदित्यर्थः । पुरस्कृत्य उपहारवदपग्रे निधाय तवैवाप्सरः सम्भवतया प्रीतिविशेषास्पदत्वादत्मनश्चापराधरिहारर्थतृवादिति भावः । अभ्युदयकालेषु मङ्गलावसरेषु एवमाचरितव्यं सहैव देवतागुरुवन्दनं कर्तव्यम् ॥ पुत्रस्येति । अयं पुरुषः ते तुत्रत्य इन्द्रस्य रणशिरसि देवासुरसमरप्रधानभूमौअप्रयायो अग्रेसरः नेतेति सयावत् । दुष्यन्त इत्यभिहितः प्रख्यातः भुवनस्य लोकस्य सुरवैरिविजयात् सामन्यतो लोकग्रहणा । गोप्ता "" भतें ’’ ति पाठान्तरं । पुत्रवदनुग्राह्म इति भावः । यस्य चापेन धनुषा विनिवर्तितं विरमितं कर्म शत्रुदलन्रूपं यस्य तत् तत् प्रसिद्धं कोटिमत् प्रशस्तधरं शतकोटिपसिद्धेरिति भावः । व्यापराभावादभप्रकोटिमित्यपि प्रतीयते । मधोन इत्द्रस्य कुलिगं वज्रं आभरणं वीरस्य हस्भूषणं भवति।नत्वायुधमिति भावः । गम्यस्य भङ्ग्यन्तरेणाभिधानात् । पर्यायोक्तमलङ्कारः । वसन्ततिलकं वृत्तम् ॥ समृभावनीयः संप्रतिपत्तुं योग्यः अनुभावः प्रभावः यस्याः यस्याः सा । आकृतिः रूपं "" रूपमेवास्यैतन्महिमानं व्याचष्टे ’’ इति श्रुतेः । पुत्रप्रीतेः पिशुनेन सूचकेन सूचकेन पुत्रमित्रतृवादिति भावः । माता च पिता च पितरो "" पिता मात्ना ’’ इत्येकशेषः ॥ प्राहुरिति । यददितिकश्यपरूपं द्वन्द्वं कर्म "" स्त्री पुंसौ मिथुनं द्वन्द्वं ’’ इत्मरः । द्वाद्वशधा ? स्थितस्य तेजसः सूर्यत्य कारणं मातापितृरूपं प्राहुः । अनेन लोकोत्तरं तेजस्वित्वं व्यज्यते । यत् द्वन्द्वं कर्तृ भुवनत्रयस्य भर्तारं यज्ञे भागामः येषां तेषां ईश्वरं देवाधिराजं इन्द्रं सुवुवे जनयामास । यस्मिंश्व द्वन्द्वं आत्मभुवः कमलासनातृ परः प्रकृष्टः पुरुषो नारायणोऽपि भवाय जन्मने आस्पदं स्थानं चक्रे । "" उपेन्द्रत्वेनावततारे ’’ त्यर्थः । दक्षश्च मरीचिश्च सम्भवौ उत्पत्तिहेतू यस्य तत् इदं तत् द्वन्द्वं यथासंख्यमदितिश्च कश्यपश्च स्त्रष्टुः ब्रहृमणः सकाशात् एकान्तर एकेन यथासंख्यं दक्षेण मरीचिना च अन्तरं व्यवधानं यस्य तथाभूतं । अत्र (1) धाता ( 2 ) अर्यमा ( 3 ) मित्रः ( 4 ) विष्णुः ( 5 ) विवस्वान् ( 6 ) पूषा ( 7 ) पर्जन्यः ( 8 ) अंशः ( 9 ) भगः (10) त्वष्टा ( 11 ) इन्द्रः ( 12 ) वरुणः इति द्वादशादित्यानां नामानि । "" श्लाध्यंचान्योपलक्षणं ’’ इत्युक्तलक्षणः उदात्तालङ्कारभेदः । शार्दूलविक्रीडितं वृत्तम् ॥ उभाभ्यामिति क्रियया यमभिप्रैति सोऽपि संप्रदानमिति चतुर्थी । चिरं महीं पालय दीर्घायुरस्खलितैश्वर्यंश्च भवेत्यर्थः । अप्रतिरथः निस्सपत्नः । वां युवयोः ॥ आखण्डलेति । भर्ता दुष्यन्तः आखण्डलसमः इन्द्रतुल्यः सुतः पुत्रः सर्वदमनः जयन्तः इन्द्रसूनुः प्रतिमा उपमानं यस्य सः । ते एवं संपन्नसौभाग्यायास्तव अन्या आशीः आशासनीयान्तरं न योग्या नोचिता पुनरुक्तभावादिति भावः । पौलोम्याः इन्द्राण्याः सदृशी भव । दीर्घकालमुनवृत्तसर्वसौभाग्या भवेत्यर्थः । अनुष्टुप्वृत्तम् । उभे कुले मातापितृवंशौ नन्दयति समृद्धीकरोतीत्युभयकुलनन्दनः । प्रापतिमभितः कश्यपाभिमुखं "" अभितः परितः ’’ इत्यादिना द्वितीया । एकैकं अनुग्राह्मान् प्रतृयेकशः निर्दिशन् लक्षीकुर्वन् ॥ दिष्ट्येति —- साध्वी पतिव्रता शकुन्तला इदं सत् श्लाध्यं अपत्यं पुत्र महाप्रभावत्वादिति भावः । भवान् सिद्धानुभावत्वादविशिष्य निर्देशः । वस्त्रयाणां समागतं समागमः श्रद्धा आस्तिक्यबुद्धिः वित्तं द्रव्यं विधिः शास्त्रविधानं च इति त्रितयं । त्रयाणां समवाय इत्यर्थः । धर्मार्थमेव वः सङ्गतमिति भावः । धर्मपत्न्याा आचरासहायत्वाच्छुद्वासाम्यं । ऋणप्री ? कारादपत्यस्य वित्तसादृश्यं । उभयानुगृहीतस्य प्राधान्याद्विधितुल्यत्वं राज्ञः । "" दिप्ठ्येति ’’ हर्षे । अनुष्टुप् वृत्तम् । अपूर्वः लोकदृष्टविलक्षणः । तदाह — उदेतीति । पूर्व फलोत्पत्पत्तेः प्रथमं कुसुममुदेति लोके उद्भवति ततः पश्चात् फलं कार्यं उदेतीत्यनुज्यते । एवं प्राक् प्रथमं धनोदयः मेघोद्गमः तदनन्तरं पयः वर्षोदकं भवति । निमित्तादागतं नैमित्तिकं निमित्तनैमित्तिकयोः हेतुहेतुमतोः अयं उक्तरूपः क्रमः पोर्वापर्यनियमोस्ति । तव तु प्रसादस्य अनुग्रहस्य हेतुभूतस्य पुरः पूर्वमेव संपदः समीहितसिद्धयः कार्यभूता भवन्ति । प्रथमं पुत्रकलत्नसमागमरूपं फलं प्राप्तस्यैव हि मे सर्वकल्याणनिदापनं भवत्प्रसादो लब्ध इति भावः । अयं कार्यकारणपोर्वापर्यविर्ध्वसो नामातिशयोक्तिभेदः । वंशस्थंवृत्तम् । विधातारः स्त्रष्टारः अनेन पुत्रवत्सलता व्यज्यते एवमनेन प्रकारेण प्रसीदन्ति सिषेविषामात्रेण समृद्धार्थान् पश्चदेवानुगृह्णन्तीत्यर्थः । पश्चात् प्रत्याख्यनानन्तरं ऊढपूर्वां प्राक्परिणीतां अवगतः ज्ञातवानस्मि "" गत्यर्थाकर्मके ’’ त्यादिना कर्तरिक्तः । चित्र विरुद्धमिव ॥ यथेति । यथा समक्षरूपे प्रत्यक्षाकारे वस्तुनि गजे गजो नेति नायं गज इति विपर्ययः विपरीतनिश्चयः स्यातृ कस्यचिद्भवेत् । पुनः तस्मिन् वस्तुनि अतिक्रामति च्क्षुर्विषयमतिगच्छति सति संशयः योयं दृष्टपूर्वंः सगजो नवेति सन्देहः स्यात् । अतिक्रान्तस्य पदानि भूतलन्यस्तानि पादचिह्लानि दृष्ट्वा तु प्रतीतिः गज एवेति तत्त्वनिश्चयः भवेत् , तथाविधः मे मनसः विकारः परिणामः अभूदिति विपरिणम्यानुषज्यते । साक्षादुपनतायां शकुन्तलायां नायं मत्परिग्रह इति व्यतिरेकनिश्चयः दिवमारूढायां च "" कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनथां । बलवातु दूयमानं प्रत्ययीव मेहृदय ’’ मिति सम्भावनात्मा संशयः । अंगुलीयकं तु विलोक्य परिग्रह एवेत्यन्वयकोटिनिश्चयः इत्येवं कोसमुन्मत्तरयेव चित्तविकारक्रम इति भावः । उपजातिर्वृत्तम् ॥ आत्मापचारशङ्कया स्वापराभयेन । उपपन्नः न्याय्यः । अप्सरसस्तीर्थस्य अवतरणात् अवतारमार्गात् प्रत्यादेशविक्लबां भवतृप्रतिषेधविषण्णां "" प्रत्यक्षवेक्लव्या ’’ मिति पाठे "" साक्षात्कृ ? तविषादा ’’ मित्यर्थः । आदाय सानुमत्युपनीतां गृहीतृवा । दुवसिः शापात् "" विचिन्तयन्तीयमनन्यमानसा ’’ इत्यादिरूपात् । सचायं शापः । अंगुलीयकस्य दर्शनमेव अवसानं अवधिर्यस्य सः । सोच्छ्वासं ससमाधानं । एषः शापपराधीनोऽहं वचनीयात् दोषात् । सखीभ्यां अनभूया प्रियंवदाभ्यां । वि ? दितः ज्ञातः अर्थः दुर्वासः शापरूपः परमार्थः यया सा । "" चरितार्थेति ’’ पाठान्तरं । सह धर्मचारिणं भर्तारं प्रति मन्धुः प्रत्यादेशरीषः ॥ शापादिति । भर्तरि शापातृ हेतोः स्मृतिरोधेन प्रत्यभिज्ञाप्रतिबन्धेन रूक्षे परुषे सति प्रतिहता नाभिनन्दिताऽसि । अपेततमसि अपगतव्यामाहेहे सति तदैव प्रभुता एश्वर्यं तवैवमिति पाठान्तरं । मलेन उपहतप्रसादे नाशितनैर्मल्ये दर्पणतले छाया प्रतिबिम्बं न मूर्छति नसंक्रामति " विभाति नमलोपहतप्रसाद ’ इति पाठान्तरं । शुद्धे अपनीतमले तु सुलभः । अवकाशः प्रवेशो यस्याः सा भवति । यथा ययोदवातादिना मालिन्ये सति शुद्धमपि दर्पणं बिम्बग्रहणासमर्थं भवति तथा शापदूषिते भर्तुरात्मनि न विषयीभूतासीति नैष पुरुषदोषः येन मन्योर्न स्थानमिति भावः । वसन्ततिलकं वृत्तम् । यथेति नान्यतृ प्रतृयादेशनिमित्तमित्यर्थः । खलु यतः । अत्र शकुन्तलाथामेव । वंशस्य प्रतिष्ठा स्थितिः सन्तानलाभादिति भावः । बालं हस्ते गृह्णातीत्यधिकपाठे अत्र बाल इत्यर्थः ॥ रथेनेति । अयं ते पुत्रः अप्रतिरर्थः निस्सपत्नः सन् अनुत्खातेन व्योमयानादस्खलिततया स्तिमिता निश्चला गतिर्यस्य तेन रथेन तीर्णजलधिः अतिक्रान्तार्णवः सन् सप्तद्वीपां वसुधां कृतृस्नमेव भूतलमित्यर्थः । पुरा जयति जेष्यति "" यावत्पुरानिपातयोः ’’ इति भविष्यदर्थे लट् । इह आश्रमे तत्त्वानां सिंहादीनां प्रसभदमनात् बलादवमर्दनाद्धेतोः सर्वदमनः सर्वदमपाख्यो जातः पुनः हतः परं लोकस्य भरणातृ परिपालनाद्भरत हत्याख्यां यास्यति प्राप्स्यति । बिभर्त्तीति भरतः भूञ औणादिकस्तप्रतृययः । शिखरिणी वृत्तम् ॥ कृतः संस्कारो जातमकर्मादिः यस्य तस्मिन् । सर्वं श्रेयः आशंसामहे सम्भावयामः । मनोरथसंपत्तेः अभीष्टसिद्धेः श्रुतविस्तारः विदितप्रकारः । श्रुतमनोरथसंपत्तिविस्तार इत्यर्थः । अत्रैव तिष्ठति न पृथक्सन्देशमर्हतीति भावः । भगवत्या अदित्या । अनभिकुद्ध अन्यथा हि शप्तवान् स्यादिति भावः । "" क्रुधद्रुहोरुपसृष्टयोः कर्म ’’ इत्यतो द्वितीया । तथापि विदितत्वेपि प्रियं दुहितृ कुशलरूपमिष्टं प्रष्टव्यः अनुयोक्तव्यः । "" प्रियसमभियोगः सन्देष्टव्यः ’’ इति पाठान्तस्म् । समभियोगो वृत्तान्तः ॥ तवेति ॥ बिडति भिनत्तीति बिडं "" इगुपधज्ञाप्रीकिरः कः ’’ । तदोजः तेजो यस्य सः बिडौजाः इन्द्रः तव प्रजासु विषये प्राज्यवृष्टिः प्रभूतवर्षणः भवतु । त्वमपि विततयज्ञः विस्तृताध्वरः सन् स्वर्गिणः देवान् अलमत्यर्थं भावय आराधय "" प्रीणय ’’ इति पाठान्तरं । एवं उभयोर्लोकयोः द्यावावृथिव्योः अनुग्रहेण परिपोषेण श्लाघनीयैः अभिनन्दनीयैः अन्योन्यकृत्यैः वर्षणयजनरूपैः युगशतानां परिवर्तान् पर्यायान् नयतं गमयतं । इन्द्रवतृ तृवमपि स्वैः सुकृतैरायफरैश्वर्यमविकलं प्राप्रुहीति भावः ॥ "" देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयनतः श्रेयः परमवाप्स्यथ ’’ इति भवद्गीता । रघुवंशे च "" दुदोह गां सयज्ञाय सस्याय मघवा दिवं । संपद्विनिमयेनोभौ दघतुर्भुवनद्वयं ’’ इति । अन्योन्यलङ्कारः । मालिनीवृत्तम् । श्रेयसे देवताराधनादिपमुक्तं कर्तृं । भूयः इतोप्यधिकं उपहरामि वितरामि । भरतवाक्यं नटवचनं समाप्तकृत्येन नटेन वक्तव्यमाचारप्राप्तं प्रशस्त्यारूयं निर्वंहणसन्धेरङ्गं । "" प्रशस्तिः शभशंसनं ’’ इति लक्षणात् ॥ प्रवर्ततामिति ॥ पृथिव्या ईश्वरः पार्थिवः प्रकृतीनां प्रजानां हिताय सुखाय प्रवर्ततां प्रयततां । श्रुत्या शास्त्रश्रवणेन महतां पूज्यानां विद्यावृद्धानां कवीनामित्यर्थः । "" श्रुतिमहिते ’’ ति पाठे सरस्वतीविषेषणं । "" श्रुतमाहता "" मिति च पाठान्तरं । सरस्वती सूक्तिः महीयतां पूज्यतां "" महिङ् पूजांया ’’ मिति धातुः । अपि च परिगतशक्तिः सर्वतो व्याप्तप्रभावः सर्वातृमत्वादिति भावः । पार्वत्येव शक्तिपदार्थ इत्यन्ये तदा प्राप्तशक्तिक इत्यर्थः । आत्मना भवतीत्यात्मभूः । अनन्यहेतुकः नित्यइति यावत् । नीललीहितः कण्ठे नीलः शेषांगे च लोहितो महेश्वरः गौरीभागे नीलः अन्यत्र लोहितोवा । मम पुनर्भंवं पुनर्जननं क्षपयतु दूरीकरोतु मोक्षं ददत्वित्यर्थः । रुचिरा प्रभावती च । मतभेदेनवृत्तम् ॥ इति अभिज्ञानशाकुन्तव्याख्यायां सहृदयसमाख्यायां सप्तमोऽङ्कः । शाक्या गम्यमकुण्ठमार्गममलं दीप्तार्थजातोज्जवलं श्लिष्टं शब्दगुणश्रिया नवरसासारप्रसारास्पदम् । काव्यं यत् कविवेधसो बुधगुरोर्वागीश्वरादागतं तद्व्योमेव न मीयते वितरति स्थानं च वाचां पुनः ॥ स्त्रोतोभिस्तटिनीवया नवनवैः शब्दार्थयोगैर्जगत् सिञ्चन्ती रसवेदिभि श्चरतरं तृष्यद्भिरापीयते । तीरक्षोभवेदव तां कविमणेर्विक्षोभयन् भारतीं क्षान्तेरेव कषोपलोगुणवतां व्याख्यापराधो मम ॥ मद्व्याख्यानं यदिह विगुणं नैष दोषो नवो मे श्लाघा सैषा यदि गुणलवः क्कापि दृश्येत सद्भिः । इत्थं धीरव्यवसितिरहं साहसेऽस्मि प्रवृत्तो बालः श्रेयान् पदमपि वदन न स्खलन् द्षणाय ॥ ॥ शुभमस्तु ॥ _____________________ ॐ ॥ अथ सप्तमाङ्कव्याख्याप्रारम्भः ॥ संप्रति समाप्तसुरकार्यस्य राज्ञः स्वर्गादवरोहमङ्कावतारेण प्रस्तीति । "" अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ’’ इति लक्षणात् । स्यतु "" अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनं ’’ इति लक्षणोदङ्कास्यमिति । ? तचिचन्त्यं । न ह्मत्र पूर्वाङ्कान्तपास्त्रैरुत्तराङ्कार्थः सूचितो भवति । जितदैत्यस्य भूग्यवतरणं हि सप्तमाङ्कार्थः । स्वर्गारोहणमेव च षष्टाङ्कावसानदर्शितम् । षष्टाङ्काथेन सप्तमाङ्कार्थः । सम्बद्ध एव तु भवति । उक्तं च भावप्रकाशे "" यथा हि वीरचरिते द्वितीयाङ्कावसान्के । रामभार्गवयोर्मध्ये सुमन्त्रेण प्रविश्य च ॥ विश्वामित्रवसिष्टौ च तदङ्कान्तेन सूचितौ । रामये स्तत्र कलहाविच्छेदेनैव तौ पुनः ॥ तृतीयाङ्कप्रवेशेन सुमन्त्रेणैव सुचितौ । सूचनं सकलाङ्कानां ज्ञेयमङ्कमुखं बुधैः ’’ ॥ इति । ततश्च पूर्वाङ्कापात्रेभ्योऽतिरिक्तस्य पात्रान्तरस्य भाव्यङ्कार्थसूचनार्थमेव केवलं प्रवेशः तेन च साकल्येन तदङ्कार्थसूचनं अङ्कारये विशेष इत्यवसीयते ॥ अनुष्टितनिर्देशः निर्वर्तितमहेन्द्रशासनोऽपि । सत्क्रियाविशेषात् बहुमानातिशयाद्धेतोः समर्थने चास्यान्वयः । अनुपयुक्तं अकिञ्चित्करमिव । समथैये मन्ये । लघु मत्कृतं गरीयांस्तु सत्कार इति भावः । उभयोरपि न कंवलं तव अपि तर्हि महेन्द्रस्यापीत्यर्थः । अपरितोषः आत्मकृते तृप्तिविरहः । उभयमप्यपरितोषंइति पाठे तव चेन्द्रस्य च द्विथमपिकृत्यं तृप्तेरपदमित्यर्थः । अपरितोषहेतुं दर्शयति ॥ प्रथमेति ॥ प्रथमोपकृतं सत्कारादपि पूर्ववृत्तं स्वीयं साह्मं मरुतः सप्तवायुस्कन्धाः देवा वा सन्ति नियाम्यत्वेनास्येति मरुत्वात् "" ज्ञयः ’’ इति मतोर्मस्य वत्वं "" तसौ मत्वर्थे ’’ इति भसंज्ञया पदसंज्ञानिवृत्तेर्जइत्वाभावः । तस्य इन्द्रस्य प्रतिपत्त्या सत्कारेण भवान् लत्रु अलृपं मन्ये । अवानेन भवदीयकर्मणा दुर्जयदानवजरूपेण विस्मितः आश्चर्यान्वितः स इत्द्रोऽपि सत्क्रियायः स्वीयसतृकारस्य गुणानतिशयान् न गणवति न मन्यते । सत्कारगोरवात् भवतः स्वकर्मण्यनादरः भवत्क्रियागौरवादिन्द्रस्य स्वसत्कारे न वैतृष्ण्यमित्यर्थः । अत्र प्रथमोपकृतमित्यनेन प्रापतफलस्य गरीयानपि सत्कार्ये सतृकारो नातिशयायेति व्यज्यते । अपरितोषतुल्यताप्रतिपादनेन राज्ञो महेन्द्रसादृश्यव्यञ्जनात् तुल्यपयो्रितालङ्कारध्वनिः "" गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता ’’ इति लक्षणात् । वियोगिनीवृत्तम् ॥ विसर्जनावसरे प्रतिप्रेणसमये सत्कारो बहुमानः मनोरथानां सङ्कल्पानामपि अभूमिः अविषयः अचिन्तनीय इत्यर्थः । द्यौः स्वर्गः ओकः स्थानं येषां तेषां दिवौकसां पृषोदरादिः । समीपं अक्ष्णोः समक्षं । अर्धासने निजासनैकदेशे उपवेशितस्य अनिच्छतोपि स्वयं महेन्द्रेण स्थापितस्य मम पिनद्धेत्याग्रिमेणान्वयः । अन्तर्गतेति । अन्तर्गता उदात्तस्वभावतया बहिरदर्शितता प्रार्थना मालाभिलाषो यस्य तं अन्तिकस्थं स्मीपावस्थितं तावतैव दर्शिताभिलाषमिति भावः । जयन्तं नाम स्वतनयं उद्वीक्ष्य दृष्ट्वा कृतस्मितेन स्वार्यतामर्य मन्यत इति विदिजाशयतया जातस्मितेन हरिणा इन्द्रेण आमृष्टं आर्द्रत्वादाहृतं वक्षसः मदुरससम्बन्धि हरिचन्द्रन प्रथममालिप्तं रक्तचन्दन्मेव अङ्कश्चिह्नं यस्याः सा मन्दारः माला मन्दारपूष्पदाम पिनद्धा साक्षत् बद्धा । नह्मतेरपिपूर्वात् कर्मणि क्तः "" नहो धः ’’ इति धत्वं "" वष्टिभागुरि ’’ रित्यादिना अपेरल्लोपः । पुत्रादपि सविशेषा प्रीतिमंयीति भावः । आमृष्टवक्षोहरिचन्दनाङ्केत्यनेन पूर्वं हरिचन्दनालेपनमपि व्यज्यतेततश्च चन्दनानुलेपनस्यार्द्रत्वप्रतिपादनेन प्रीतिप्रकषानिबन्धनो महेन्द्रस्य त्वाराविशेषो गम्यते । केचित्तु । "" आमृष्टवक्षोहरिचन्दनाङ्केत्यनेन दित्सात्वरा व्यज्यते । मन्दारामालेतृयनेन भूलोकविलक्षणमन्दाग्मकालामात्रं लभ्यांशः अन्यत् प्राप्यवस्तु नास्तीति सूच्यते ’’ इत्याहुः । उपजातिर्वृत्तम् ॥ किमिव नापहंति — सर्वथापि प्रसादः कृतो भवादृशो नातिरिच्यत इति भावः ॥ सुखेति ॥ सुखमेव परं प्रधानं यस्य तस्य स्वयमभियोगश्रमरहितस्येत्यर्थः । सुरुसुखस्येति क्कचितू पाठः । तदा सानुगुस्य हरेर्न श्रमः शरमत्रसहायेन त्वया शत्रुनिरासादिति भावः । हरेः हन्द्रस्य समृबन्धि यद्व हरेः सखपरस्य सत एव “6 षष्ठी चानादरे ’’ इति षष्ठी । त्रिदिवं स्वर्गः उभयैः द्विप्रकारैर्वस्तुभिः । "” स्ङ्ख्याय अवयवे तयप् ’’ इति विहतस्य तयपः "" उभादुदात्ती नित्यं ’’ इत्ययच् । उद्धृताः उत्खाताः दानवा एव कण्टकाः यस्मात् तथाविधं कृतं । कैः अधुना असिमन् समथे नतपर्वभिः अनुन्नगतग्रन्थिभिः तव शरैः । पुरा पूर्वकाले पुरुषश्चासौ केसरी च यस्य नरहरेर्भगवतो नखैश्च । पुरुषकेसरिण इत्यनेन यत् पुराभगवतापि रूपद्वयपिरग्रहायासेन कृतं तत् कृतं त्वया केवलैश्शरैरिति व्यतिरेको व्यज्ये । शराणां नखानां च समीकृत्य वचनात् तुल्ययोगितालङ्कारः । दुतविलम्बितं वृत्तम् ॥ शतक्रतोः नियन्तुरेव खलु महिमा प्रभावः स्तोतुं योग्यः स्तुत्यः "" एतिस्तु शास्वृदृजुषः ’’ इति क्यपि "" हस्वस्यं ’’ ति तुक् ॥ सिध्यनतीति ॥ नियोजृयाः प्रेष्याः महत्सु दुष्करेष्वपि कर्मसु कार्येषु सिध्यन्ति फलं प्राप्रुवन्ति इति यत् तमिति विधेयप्राधान्यात् पुंलिङ्गता । ईश्वराणां नियन्तॄणां सम्भावनायाः परिग्रहस्य गुणमुत्कर्षं अवेहि आनीडि । अरुणः सूर्यंसारथिः तमसां बहुवचनेन दुरपोहत्वं व्यजृयते । विभेत्ता निवर्तयिता किंवा अभविष्तृ नैवाभविष्यदित्यर्थः । तं अरुणं सहस्त्रकिरण इति तमोनिवारणशक्तिव्यञ्जनं । धुरि आत्मनः पुरतः नाकरिष्यचचेत् । यस्मादकरोत् तस्मादभवदित्यर्थः । क्रियातिपत्तौ लृङ् । सहस्त्रकिरणशब्दस्य तमोविध्वंससामर्थ्याभिप्रायतया परिकरांकुरः । तदनुप्राणितश्च दृष्टान्तालंकारः । वसन्ततिलकं वृत्तम् ॥ एतदिवकत्थनर्त्वं सदृशं महत्त्वस्यानुरूपमेव । न्पक्कपृष्ठे स्वर्गस्योपरिष्टत् प्रतिष्टितस्य रथैर्यमापन्नस्य प्रबन्धो हि यशसः प्रतिष्ठेति भावः ॥ विच्छित्तीति ॥ सुरसुन्दरीणां देवाङ्गनानां विच्दित्तिशेषौः कुङ्कुमचन्दनादिवर्णिकाविन्यासविशेषैः । "" स्वल्पोऽप्यनादरान्नयासः कुङ्कुमचन्दनादिवर्णिकाविन्यासविशेषैः । "" स्वल्पोऽप्यनादरान्नयासः कुङ्कुमादेस्स्वमण्डने । यः परां जनयेच्छोभां सा विच्छित्तितरुदाहृता ’’ ॥ "" मण्डनानादरान्नयासो विच्छित्तीरूपदर्पतः ’’ ॥ इत्याद्युक्तं । अत्र तु विन्यासमात्रं विवक्षितं । वर्णैः करणैः अमी दिवौकसो देवाः गीतिक्षमं गानयोग्यं तालादिपरिच्छेदपरिच्छिन्न्मित्यर्थः । अर्थो बध्यतेत्यनेनेत्यथ्रबन्धं भूतार्थप्रतिपादकभित्यर्थः । त्वच्चिरितं त्वदीयं दानवविजयादिचरित्रोदाहणप्रबन्धं स ? ञ्चिन्त्य सम्यगालोच्य कल्पतलांशुकेषु कल्पतरुप्रसूतेषु श्लक्ष्णामृबरेषु लिक्षन्ति । सुरसुन्दरीविच्दित्तिशेषाणां कल्पलतांशुकानां च लेखनोपयोजनेन चरिते रसातिशयः सुरुसन्दरीणां प्रतीयते । कल्पवृक्षेषु लताशब्दः कविसमयात् प्रयुक्तो लालित्यं व्यञ्जयन्नंशुकानां श्लक्ष्णतरत्वं दर्शयति । "" तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः ’’ । इति विक्रमोर्धंशीये । इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयं । आकुमारकथोद्धातं शालिगोष्यो जगुर्यशः ’’ इति रघुवंशे । उपजातिर्वृत्तम् ॥ पेर्वुद्युः पूर्वंस्मिन्नहनि । "" सद्यः परुत्परार्यैषमः परेद्युर्व्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युधरेद्युरुभयेद्युत्तरेद्युः ’’ । इति निपातितं । असुरसंप्रहारे असुरयुद्धे उत्सुकेंन आसक्तिमता दिवं स्वर्गमास्त्रेहता सता न लक्षितः कार्यव्यप्रहृदयत्वाद्विशेषेषतो न गृहीत इत्यर्थः । मरुतां वायूनां सप्तानां सम्बन्धिनि कतमस्मिन् बहूनां मध्ये कस्मिन् ॥ त्रिस्त्रोतसमिति ॥ इदं स्थानं , यो वायुः प्रतितिष्ठत्यत्रेति प्रतिष्ठा। गगनमेव प्रतिष्टा स्थानं यस्यास्तां त्रिस्त्रोतसमाकाशगङ्गां वहति प्रवर्तयति । किंच प्रविभक्ताः असङ्करप्रसारिता रश्मयः ज्योतिषां स्वे स्वे किरणाः येन तथाभूतः सन् ज्योतींषि सप्तर्षिमण्डलानि वर्तयति सञ्चारयति तस्य । परिवहाख्यस्य वायुस्कन्धानां सप्तानामन्यतमस्य षष्टस्य वायोस्सम्बन्धिनं द्वितीयेन हरिविक्रमेण त्रिविक्रमचरणन्यासने निस्तमस्कं तमोगुणरहितं मार्गं प्रसारपथं वदन्ति । ज्योतिश्शस्त्रे छायापथ इति प्रथिता व्योमगङ्गोच्यते । "" आवहः प्रवहश्चैव संवहश्चोद्वहस्ततः । विवाहाख्यः परिवहः परावह इति क्रमात् ॥ सप्तैते मारुतस्कन्धा महर्षिभिरुदीरिताः । आवहो वर्तयेदुद्वहश्चापि तथा नक्षत्रमण्डलम् ॥ संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम् । पञ्चमोऽपि विवाहाख्यस्तथैव ग्रहमण्डलम् ॥ सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा । परावहस्तथा वायुर्वर्तयेद्धुवमण्डलम् ॥ ’’ इति ब्रह्माण्डपुराणे सप्तर्षिमण्डलस्थाने स्वर्भुवोर्मध्ये भुवर्लोलोयं गम्यत इत्यर्थः । वसन्ततिलकं वृत्तम् ॥ बाह्मैरन्तश्च करणैः चक्षुरादिभिर्मनसा च सहितः अन्तरात्मा पुरुषशब्दितो जीवः प्रसीदिति शोकमोहादिविगमरूपं नैर्मल्यमायाति । तामसस्थाने तु तमसा बहिरिन्द्रियाणि तदधीनं चमनः उपरज्यते । येनात्मन एवाप्रसादः तमसः परे रूयस्य प्रथमस्य वायुस्कन्धस्य र्मामित्यर्थः । अवतीर्णौ अवरूढौ ॥ अयमिति । शीकरैरम्बुकणैः क्लिन्ननेमिः सिक्तचक्रान्तः अयं ते रथः अराणां चक्रावष्टम्भयष्टि ? विशेषाणां नेमिनाभ्योर्गध्यगतानां विचरेभ्यः अन्तरालेभ्यः निष्पतांद्भर्निर्गच्दद्भिः चातकैः । "" धरणीपतिं तोयं चातकानां रुजाकरं ’’ । इति मेघोदकैकपरत्वादुत्पतितैरित्यर्थः । अचिरभासां विद्युतां तेजसा प्रभया अनुलिप्तैः छुरितैर्हरिभिः रथाश्वैश्च वारिगर्भोदराणां घनानां नवजलधराणां उपरि गतं गमनं पिशुनयति दर्शयति । रथनेमिक्लेदः चातकनिष्पतनं इरीणां च विद्युत्प्रभाच्छुरणमिति त्रिभिर्हेतुभिर्घनोपरिगमनानुमानादनुमानालङ्कारः । हरीणां निजरूपत्यागेन विद्यद्रूपापत्तिप्रतीत्या च तद्गुणालङ्कारध्वनिः । मालिनी वृत्तम् ॥ क्षणत् अविलम्बेन अवरोहणे वेगातिशयादिति भावः । आत्माधिकारभूमौ स्वनिदेशविषयस्थले भूतल इति यावत् । आश्चर्यं दर्शंनं यस्य सः ॥ शैलानामिति ॥ मेदिनी भूमिरुन्मज्जतां उन्नमतां शैलानां शिखरात् अगात् अवरोहतीव । उन्नतानां शैलानां दृष्टिसन्निषाणमुद्गमनमिव भूम्याः पृथक्त्वेन दूरीभवनमवरोहणमिव च भातीति भावः । एवं पादपाः वृक्षाः स्कन्धानां मूलस्तम्भानां उयात् । द्दष्टिगोचरीभावात् पर्णानां दलानामभ्ज्ञ्यन्तरे मघ्ये लीनतां गूढतां विजहति क्रमात् परित्यजन्ति विप्रकर्षे पर्णमात्रं दृश्यते सन्निकर्षे च सवायवस्तरुर्दृश्यत इति भावः । तथा तनुभावेन दूरदर्शने सूक्ष्मोपलमृभतया नष्टसलिलाः अलक्षितोदकाः आपगाः सन्तानैः सन्निकर्षंक्रमेण विस्तारैः व्यक्तिं स्फुटोपलक्ष्यत्वं व्रजन्ति प्राप्रुवन्ति । मर्त्यभुवनं मनुष्यलोकः उत्क्षिपता उद्गह्णता केनापि पुरुषेण मत्पार्श्वं मत्समीपमानीयते प्राप्यत इव । व्येमगमस्य रथस्य स्खलनाभावाद्भूमेरेव न्निकर्षर्ण प्रतीयत अति भावः । अत्र प्रथमान्तिमवाक्ययोः स्वभावोत्यनुप्राणिते वरतूत्प्रेक्षे । अन्यत्र स्वभावोक्तिमात्रं । शार्दूलविक्रीडितं वृत्तम् ॥ सबहुमानं दुष्यन्ताधिकारस्थानत्वबहुमानेनेत्यर्थः । उदग्ररमणीया प्रकाममनोरमा उदाररमणीयेति पाठान्तरं । पूर्वापरौ प्राक्पश्चिर्मा समुद्रौ अवगाढः अवतीणीः । तावद्व्याप्त इत्यथ्रः । "" पूर्वापरौ वारिनिधी विगाह्म स्थितः पृथिव्या इव मानदण्डः ’’ । इति कुभारसम्भवे । कनकरसं सुवर्णद्रयं निष्यन्दते विसूजतीति कनकरसनिष्पन्दी छायैवात्र रसत्वेनाध्यवसीयते । कनकरसशब्दः सुवर्णनिर्ज्ञरपरइत्यन्ये । सान्ध्यरागनिभतृवादिति भावः । हेमकूटो नाम हेममयानि कृटानि शिखराणि यस्य स इत्यन्वर्थनामेति भावः । किंपुरुषाणां किन्नराणां पर्वतः देवभूमिरित्यर्थः । किंपुरुषाख्ये खण्डे वर्तमानः पर्वतो वा । तपरिवनां ऋषीणां सिद्धि ? क्षेत्रं तपः पूर्तिस्थानं तपसामितिपाठान्तरं ॥ स्वायम्भुवादिति । स्वायमृभुवात् ब्रहृमपुत्रात् मरीचेर्नाम प्रजापतेः "" जनिकर्तुः प्रकृतिः ’’ इत्यपादानत्वात् पञ्चमी । यः प्रजापतिः कश्यपः प्रबभूवप्रसूतः । ब्रह्मणैव सर्गाधिकारनियुक्तानामन्यतमः कश्यपः । अत उक्तं प्रजापतिरिति । सुराणामसुराणां च क्रमाददितिसुतानां च गुरुः पिता सः सपवत्नीकः अदितृया पतृन्या सहितस्मन् अस्मिन् हेमकूटे तपस्यति तपश्चरति । "" कर्मणो रोमन्थतपोम्यां वर्तिचरोः ’’ इति क्यङ् । "" तपसः परस्मैपदं च ’’ इति वक्तव्यात् परस्मैपदं । सुरासुरगुरुः सोत्रेति क्कचित् पाठः । प्रजापतेरपि तपः स्थानमिति भावः । उदात्तालङ्कारभेदः "" उदात्तं वस्तुनः संपत् श्लराध्यं र्चान्योपलक्षणं ’’ । इति तल्लक्षणं । अनुष्टुप् वृत्तम् ॥ तेन हीति – प्रदक्षिणीकृतृय भवनतं गन्तुमिच्छामीति समृबन्धः । श्रेयांसि महदुपसदनादीति कल्याणानि अनतिक्रमणीयानि । भगवन्तं कश्यपं । प्रथमः प्रकष्टः कल्पः प्रकारः ॥ उपोढेति । रथाङ्गनेमयः चक्रान्ताः उपोडशब्दाः न भवन्ति । स्खलनाभावादप्राप्तघोषा भवनतीति भावः । प्रवर्तमानं प्रसरत् रजश्च न दृश्यते । अभूतलस्पर्शतया दिव्यतया भूतलस्पशार्सभावेन निरुद्वतः अनुलृबणः गतिस्थित्योर्नि ? र्विशेष इत्यर्थः । भूलस्पर्शे हि स्खलनाद्गमनं इति भावः । तव रथः अवतीर्णो हेमकूटमवरूढोऽपि न लक्ष्यते अवतीर्ण इति न ज्ञायते । भूतलस्पर्शे तु गमने शब्दरजसोस्मम्भवात्तुदुपरमे गमनोपरमो ज्ञायेतेति भावः । निरुन्धत इति पाठे नियच्छतस्तवेति योजना । वंशस्थं वृत्तम् ॥ एतावानेव भूतलस्पर्शास्पर्शमात्र एव । विषेषः व्यतिरेक्तः । अ ? विशिष्टस्तु प्रभाव इति भावः ॥ वल्मीकेति । वल्मीके कृमिभिश्चिते मूत्पुञ्जे अर्धंनिमग्रा अवगाढैकदेशा मूर्तिः शरीरं यस्य सः चिराय समाधिनिश्चेष्टया वल्मीकावरणमपि न पश्यतीत्यर्थः । सन्दष्टसर्पत्वचा संश्लिष्टसपंनिमोंकेण उरसा वक्षसा उपलक्षित इति शेषः । कण्ठे जीर्णानां चिरप्ररूढानां लताप्रतानानां लताविठटानां वलयेन मण्डलेन अत्यर्थमतिमात्रं संपीडितः संनद्धः दारुवन्निभूतत्वादिति भावः । अंसव्यापि आस्कन्धलग्बं शुकुन्तनीहैः गुल्मशङ्कया रचितैः पत्रिणां कुलायैः निचितं नीरन्ध्रंजटामझडलं जटावलयं बिभ्रतृ वहन्नसौ मुनिः यत्र यस्मिन् देशे स्थाणुरिंव छिन्नतरुस्कन्ध इव अचलः निभृतः सन् अभ्यर्कबिम्बं सूर्यमण्डलाभिमुखं स्थितः । "" स्थाणु र्वा ना ध्रुवः शंकु ’’ रितृयमरः । स्थागुरपि वल्मीकच्छन्नैकदेशः सर्पत्वक्संवलितः जीर्णलतावलयितः नीडनिचितः शाखादिविरहान्निश्चलश्च भवतीति साधर्म्यं । उपमालङ्कारः । विस्मृतशरीरत्वमनेन व्यज्यते । शार्दूलविक्रीडितं वृत्तम् ॥ कष्टमितरुदष्करं तपो यस्य तस्मै ते तुभ्यं । "" नमः स्वस्ती ’’ त्यादिना चतुथीं । "" नमोस्त्वस्मैः इति पाठान्तरं । धृताः संयताः प्रग्रहाः हयरश्मयः यस्य तं निवृत्तगमनमित्यर्थः । एतौ आवां अदित्या कश्यपपत्न्या परिवर्धिताः स्वयं पोषिताः मन्दारवृक्षाः सुरद्रुमाः यस्मिंस्तं । अत्र मन्दारशब्दः सुरद्रमाणामुपलक्षकः । प्रजापेर्मारीचस्य । अधिकतरं विशिष्टतरं निर्वृतिस्थानं सुखभूमिः । अमृतहदं अमृतमयं सरः अवगाढः प्रविष्ट इव अन्तर्बहिश्च शरोरधातूनामाप्यानादिति भावः । भाविश्रेयोलक्षणं चेदं । भवान् कथं लिङ्करिष्यतीत्यर्थः । मातर्लि पुरस्कृत्य कश् ? यपमुपगन्तुमभिसन्धिरनेन व्यञ्जितः । अवतरामः यन्त्रितत्वादावतर्तुं शक्यमिति भावः । ततश्च राजानुगमनौ चित्यं दर्शितम् ॥ प्राणानामिति । सन्तः कल्पवृक्षाः समीहितसर्वफलदातारो यस्मिंस्तस्मिन् अत्रापि कल्पवृक्षपदेवतरूणामुपलक्षणं । वने हेमकूटारण्ये अनिलेन नभश्चरेण नभस्वता प्राणानां वृत्तिः धारणमुचिता अभ्यस्ता । अमीभिरिति विभक्ति परिणामेनाकृष्ते । काञ्चनपह्मनां हेमतामीरसानां रेगुभिः पवनविक्षिप्तैः परागैः कपिशे पीतवर्णे उपभोगयोग्य इति भावः । अत्र तीये जले धर्माभिवेकस्य नियम स्त्रानस्य क्रिया विधानमुचितेत्युनुषज्यते । रत्नानामेव शिलानां तलेषु उपरिभागेषु ध्यानं समाधिः उचितमिति विपरिण्म्यते । शिलाशब्देन वैपुल्यं रत्नेष्वपि शिलासामान्यग्रहणमेव वीतरागाणामिति च प्रतीयते । वित्नुधस्त्रीणां अप्सरसां यदुपलम्भाय यज्ञादिक्लेशो याज्ञिकादीनामिति भावः । सन्निधौ शुश्रूषमाणानां सविधएव संयमः इन्द्रियजयः उचित इत्यत्रापि विपरिणामः । अन्यमुनयः भौमस्तपस्विनः तपोभिः यमनियमादिक्लेशैः यत् पदं सुखस्थानं काङ्क्षन्ति फलमिति प्राप्तुमिच्छन्ति तस्मिन् स्थाने अमी मुनयस्तपत्यन्ति । "" आब्रहृमभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ’’ इत्युक्तं सर्वसुखानां परिणामविरसत्वं विज्ञाय वीतरागा आत्मारामास्तपस्यन्तीति भावः । सत्यामपि सामग्र्यां भोगांनुत्पत्त्या विशेषेक्तिः । सति प्रतिबन्धके प्रतिबन्धकाभावघटितसामग्रीमन्तरेणैव तपः स्पत्तिरिति विभा वना वेति तयोः सन्देहसङ्करः । शार्दूलविक्रीडितं वृत्तम् ॥ उतृसर्पिणी ऊर्ध्वगामिनी । वृद्धशाकल् येति काश्यपशिष्याणामन्तमस्समृबोध्ये । दाक्षायण्या अदित्या “6 वा नामेधेयस्य ’’ इति वक्तव्याद्वृद्धंसंज्ञायां "” उदोचां वृद्धादगोत्रात् ’’ इति फिञ् । गौरादित्वाद् ङीष् । पत्युरिव व्रतं यासां तासां पतिव्रतानां धर्मं कर्तव्यभाचारं अधिकृत्य विषयीकृत्य । प्रस्तावः स्त्रीधर्मोप देशप्रकरणं प्रतिपाल्यः प्रतीक्षणीयः अवसरः कालः यस्य सः । प्रतिपाल्याऽवसराः खलु मुनय इति पाठान्तरं । इन्द्रगुरवे इद्रस्य पित्रे पुत्रसाह्मकारिणि प्रसदावश्यंभावव्यञ्जनमिदं । अन्तरान्वेषी समयप्रतीक्षः यावद्भवामि भव्रिष्यामि । तावदास्तामिति पूर्वेण वा समृबन्धः ॥ ?B मनोरथायेति ॥ मनोरथाय प्रियाप्राप्तिरूपाया नाशंसे नेच्छामि । अत्र मनोरथविषये मनोरथोपचारः अनसोरथोपचारः अनन्याभिलाषव्यञ्जनार्थः । "" क्रियया यमभिप्रैति सोऽपि सम्प्रदानं ’’ इति वकृतव्याच्चतुर्थी । हे बाहो बअर्थाद्दक्षिणभुज वृथा निष्फलमेव किं कुतः स्पन्दसे प्रस्फुरसि । पूर्वावधीरितं प्रथमनिरस्तं श्रेयः शुभं दुः खंखरूपमेव हि परिवर्तते परिणमति । यद्वादुः खमिति क्रियाविशेषणं । कृच्छ्रेण हि परिवर्तते प्रत्यागच्छतीत्यर्थः । उपस्थितमवसमतं श्रेयः पुनः प्राप्रुं न शक्यमिति भावः । उत्तरार्धेन निमितृतवैयर्थ्यस्य समर्थनात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । अनुष्टुप् वृत्तम् ॥ चपलस्य कर्म चापलं । सत्वपीडारूपमविनयमित्यर्थंः । प्रकृतिं स्वभावं सत्त्वावस्कन्दन्यपं गतः प्राप्तः निषिद्धोऽपि न जहातीत्यर्थः । अभूमिः अस्थानं सिद्धिक्षेत्रत्वादिति भावः । कोऽन्वेषः पुण्यक्षेत्रस्थितोऽपीत्यर्थः । शिक्ष्यते अविनयान्निवार्यते । शब्दानुसारेण शब्दागमनामार्गमनुस्तृय । अनुवर्तिष्यमानः अनुपदमनुगम्यमानः । बालस्येव सत्त्वं बलं यस्य स न भवतीत्यबालसत्त्वः बालः वयसैव बाल इत्यर्थः ॥ अर्धेति । मातुस्सिंह्माः अर्धपीतः सशेषं पीतः स्तनो येन तं अर्धपीतमातृस्तनमित्यर्थः । स्तनंधयादिवदुपचारात् स्तन्ये स्तशब्दः । पीतशब्दो वा पीतशब्दो वा पीतक्षीरे लाक्षणिक्रः । आमर्देन पीडने आमर्शेति पाठे स्पर्शेनेत्यत्यर्थः । क्लिष्टाः मूदिताः केसराः सटाः यस्य तं सिंहशिशुं प्रक्रीडितुं मृगमार्जारादिशाबानि वोपकरणीकृत्यविहर्तुं बलात्कारेण हठग्रहणेन कर्षति । अनुष्टुप् वृत्तम् ॥ यथानिर्दिष्अं कर्म सिंहडिम्भाकर्षणरूपं यस्य सः । हे डिम्भजृम्भस्व मुखं व्यादेहि । जिम्म सिङ् य [ जृम्भस्व सिंह ] इति पाठान्तरं । नः ऋषीणामित्यर्थः । अपत्यनिविंशेषाणि पुत्रतुल्यानि सत्त्वानि प्राणिनः । विप्रकरोषि अपकरोषि । हन्तेत्याक्षेपे । ते तव संरम्भः हठप्रवृत्तिः वर्धंते प्रतिषेधेन न शाम्यति । सर्वं दमयतीति सर्वदमनः । ऋषिजनेन अनागतवेदिनेत्यर्थः । ? अस्मिन् बाले उरसा निर्मितः औरसः "" स्वजातेत्वौरसौरस्यौ ’’ इत्यमरः । " दरसोण् च ’ इति साधुः । तस्मिन् पुत्र इव । नूनमिति तर्के । अनपत्यता सन्तानाभावः । वत्सलं स्त्रिग्धं करोति वत्सलयति । लंघयति अभिभवति निवर्तनाय वर्तमानभयप्रदर्शनं । अस्याः केसरिण्याः । हंही इति मिथ्याभयाविष्यकरणं । अधरं दर्शयति अनादरसूचनार्थमिति भावः । "" असूयावेदना 1 ़वज्ञालस्यादिषु विवर्तर्न ’’ इत्युक्तलक्षणं विवर्तने ’’ इत्युक्तलक्षणं विवर्तनास्यमधरकर्मेह ज्ञेयम् ॥ महत इति । अयं बालः महतः उपचयेन पृथूभविष्यतः तेजसः प्रभावस्य बीजं निदानं मे मह्मं प्रतिभाति । कथमिव स्फुलिङ्गावस्थया ? अग्रिकणदशया स्थितः एध इन्धनं इतृयते अनेनेति व्युजत्पत्त्या "" अवौदैधोझप्रश्रथहिमश्रथाः ’’ इति निपातनात् साधुः । तमपेक्षत इत्येक्षत इत्येधापेक्षः वह्लिरिव । उपमालङ्कारः "" तेजसां हि न वयस्मीक्ष्यते ’’ इति न्याथो बोध्यः । यया तनुरपि स्फुलिङ्गो दाह्ममासाद्य महान् भवति तथाऽयमपि बहूभविष्तस्तेजसः कारणावस्थामात्रमिति भावः । तेजस्विन इति व्याख्याने तु बीजमिति वीर्यपरं । अनुष्टुप् वृत्तम् ॥ क्रोडनकं क्राडासाधनं । चक्रवर्तिनः लक्षणं जालग्रथितांगुलित्वादि । न पुनस्तेजोमात्रमितृयपेरर्थः ॥ प्रलोभ्येति ॥ प्रलोभ्यस्य स्पृहणीयस्य वस्तुनः क्रीडनकस्य प्रणया प्रार्थनार्थं प्रसारितः विवृतः ? जालेषु विवरेषु ग्रथिताः संश्लिष्टाः श्रविरला इति यावत् । अङ्गुलयो यस्य सः करः बालहस्तः इद्धरागया दीप्तारुष्यया नवोषसा अचिरोदितप्रभातसन्ध्यया भिन्नं तदातृवोनमीलितं अत एव अवलक्ष्याणि अदृश्यानि पत्राणां दलानामन्तराणि विच्छेदस्थानानि यस्य तत् एकं पङ्कजं पहृमभिव विभाति । नवोषसेत्यनेन प्राभातिकरागसंक्रान्तिरसमग्रविकाश्च व्यज्यते । "" उषः प्रत्युषसी अपि ’’ "" उषः प्रत्युषसी क्लीबा ’’ इत्याद्यभिधानापठात् उषः शब्दस्य नपुंसक्रत्वेऽपि "" उषा वा अश्वस्य मेध्यस्य शिसरः ’’ "" अषा वा अपूव्यां व्युच्छति प्रिया दिवः ’’ हतिकौशीतिकोब्राह्मण ऋग्वेदाद्यनुरोधात् कवेश्च निरह्कुशत्वादत्र स्त्रीकिङ्गप्रयोगः । अत एवभवभूतिरप्याह "" जगद्वन्द्यां देवीमुषसभिव वन्दे भगवतीं ’’ इति । यत्तु नवं उषः यस्यास्तया प्रातः सन्ध्ययेति व्याख्यानं , तच्चिन्त्यं उषः प्रातः सन्न्ययोरविशेषेण प्रातः सन्ध्ययेत्येनेन व्यावर्तनीयाभावात् । अध्याहर्तव्यविशेषनुरोधेन लिङ्गविशेषनिवेशानोचित्यात् । अन्यथा सामान्ये नपुंसकशास्त्रस्य निरवकाशत्वापातादिति उपभालङ्कारः । वंशस्थं वृत्तम् ॥ वाङ्मात्रेण क्रीनकमदत्त्वेत्यर्थः । विरमयितुं सिंहशिशुग्रहणान्निवर्तयितुं । मार्कण्डेयस्य मार्कण्डेयाख्यस्य । ऋषिकुमारपेदनास्यानृषिकुमारत्वं व्यज्यते । वर्णैः वर्णंद्रव्यैः चित्रितः नानारूपः कृतः मूत्तिकामयूरः मृण्मयीमयूरप्रतिकृतिः । अनेनैव तावत् सिंहशिशुनैव सांप्रतं । दुर्ललिताय दुष्टविलसिताय अदान्तायेति यावत् । "" स्नृहेरीप्सितः ’’ इति सम्प्रदानत्वाच्चतुर्थीं । स्वपुत्रत्वाज्ञानान्नेप्सिततमत्वम् ॥ आलक्ष्येति ॥ धन्याः भाग्यवन्तः पुरुषाः अलिमित्तैरकारणै हासैः शैशवसहजैः आलक्ष्याः स्पष्टश्याः दन्तमुकुलाः दन्तांकुराः अचिरोद्भेदेन मुकुलसादृश्यं । येषां तान् अव्यक्तवर्णाः व्यतिकीर्णाक्षराः रमणीयाः मनोज्ञाः वचः प्रृत्तयः शब्दोच्चारणानि येषां तान् . अङ्काश्रये उत्सङ्गासादने प्रणयिनः प्रार्थानावतः तनयान् पुत्रान् वहन्तः दधानाः सन्तः तेषां पुत्राणां अङ्गरजसा क्रीडालग्रेन शरीरपांसुना मलिनीभवन्ति अभततद्धावे च्विः । पुत्रशरीरसङ्गि रजो - मालिन्यमपि महद्भागधेयं "" पुत्रः स्पर्शवतां वरः ’’ इत्युक्तेरिति भावः । स्वभावोक्तिरलङ्कारः । "" स्वभावोक्तितस्तु डिम्भादेः स्वक्रियाद्यभिवर्णनं ’’ इति लक्षणात् । वसन्ततिलकं वृत्तम् ॥ अत्र आश्रमे ऋषिकुमाराणां मध्य इत्यथेः । भद्रमुख सौम्य "" सौम्य भद्रमुखेत्येवं मान्ये राजसुते भवे ’’ इत्युक्तं । दुर्मोचः मोक्तुमशक्यः हस्तस्य ग्रहः ग्रहणं यस्य तेन । डिम्भलीलया बालक्रोडया सत्त्वपीषानभिज्ञतपेति भावः । आश्रमसम्बन्धातृ महर्षिपुत्रेति सम्बोधनम् ॥ एवमिति ॥ एवं अनेन प्रकारेण आश्रमस्य भूतसौहार्दरूपस्याश्रमधर्मस्य विरुत्रवृत्तिना विपर्यस्तव्यापारेण वार्तेनेति पाठे विरुद्धं यथातथा प्रवर्तमानेनेत्यर्थः । त्वया कत्रां उन्मनः स्वोत्पत्तेरेव प्रभृतिसत्त्वानां प्राणिनां संश्रयः आश्रयणीयत्वमेव गुणः उत्कर्षो यस्य तथाभूतोपि संयमः तपः किमिति कुतो हेतोः कुष्णसर्वशिशुना चन्दन इव दूष्यते अपरिग्राह्मतां नीयते । जातमात्रस्य कथमयं कारणविरुद्धव्यापार इति भावः । सत्त्वसंश्रयसुखोपीति पाठं सत्त्वानां संश्रये सुखः अनुकूल इत्यर्थः । अथवा जन्मन इति षष्ठी जन्मनः सम्बन्धीति संयमविशेषणं । रथोद्धता वृत्तम् ॥ अकारसदृशं शरीरसंस्थानानुरूपं चेष्टितं व्यापारः कथयति आकारश्च चेष्टाचेप्युभयमपि नायमृषिकुमार इति दर्शयतीत्यर्थः । स्थानप्रत्ययादाश्रमरूपनिवासादेव हेतोः "" प्रत्ययः शपथे रन्ध्रे विश्वासाकारहेतुषु । प्रथितत्वे च सन्नादावधीनज्ञानयोरपि ’’ इति विश्वासाकारहेतुषु । प्रतिथतत्वे च सन्नादावधीनज्ञानयोरपि ’’ इति विश्वः । एवं तर्कयन्तीत्येवं तर्किणः । यथाभ्यर्थितं तापसी प्रार्थितप्रकारेण ॥ अनेनेति ॥ कस्यापि यस्य कस्यचित् सुकृतिन इत्यर्थः । कुलांकुरेण वंशाभिवर्धनेन मदसग्बद्धेनापीति भावः । अनेन बालेन गात्रेषु अवयवेषु स्पृष्टस्य परामृष्टमात्रस्य मम सुखमानन्द एवं अनुभूयमानप्रकारो न तु निर्वक्तुं शक्यइत्यर्थः । अयं बालः यस्य कृतिनो धन्यस्य अङ्गोत् शरीरात् प्ररूढः जातः तस्य जनस्य कां कीदृशीं निर्वृतिमानन्दं कुर्याज्जनयेत् । "" पुत्नः स्पर्शवतां वरः ’’ इति हरिवंशे । अत्र कैमुत्यप्रतीते रर्थापत्तिरलङ्कारः । उपजातिर्वृत्तम् ॥ उभौ राजानं बालं च निर्वर्ण्य दृष्ट्वा । रूपस्य संवादिनी सदृशीत्यर्थः । आकृतिरवयवसन्निवेशः । अपरिचितस्य इदंप्रथमदृष्टस्यापि अप्रतिलोमः वशंवदः । उपलालयन् उपच्छन्दयन् प्रीणयन्निति यावत् । अथ तर्हि । व्यपदिश्यते व्यवहियते अनेनेति व्यपदेश 3 कुलं । एकान्वयः समानाभिजनः । पौरवाणां पुरुवंश्यानामन्ते भवमन्त्यं वार्धककालिकमिति थावत् । कुलव्रतं कुलधर्मः ॥ भवनेष्विति । ये पौरवा राजानः पूर्वं राज्यकाले सुधासितेषु प्रतिपदनवीकृतेष्वित्यर्थः । भवनेषु प्रासादेषु क्षितेः भूमेः रक्षार्थं परित्राणाय न तु स्वसुखार्थमिति भावः । उक्तंहि रघुवंशे " असक्तः सुखमन्वभूत् ’’ । इति । निवासं स्थितिं उशन्ति इच्छन्ति “6 वशकान्तो ’’ इति धातोः संप्रसरिणं । तेषां राज्ञां पश्चात् राज्यतृयागादनन्तरं नियतं अविप्लुतमेकमविच्छिन्नं यतिब्रतं इन्द्रियजयाभ्यासरूपनियमो येषु तानि तरुमूलानि गृहीभवन्ति तत्रैव गृहबुद्धिः क्रियत इत्यर्थाः । यतन्ते जेतुमिन्द्रियाणि इति व्युत्पत्या वानप्रस्थसाधारणो यतिशब्दः अतश्च पुत्रजन्माविरोधः "” वार्धके मुनिवृत्तीनां ’’ इति रधुवंशे । रसादिकेष्विति पाठे स्पृहणीये ? ष्वित्यर्थः । नियतैकपतिव्रतानीति पाठे । नियतमपरित्यक्तमेकस्य अनन्यापेक्षस्य पत्युर्नाथस्य ब्रतं छायाफलादिभिस्सवाथा रक्षणनियमः यैस्तानीत्यर्थः । तेषां पौरवाणामन्यतमस्य अपत्यं भवितुमर्हतीति भावः । वसन्ततिलकं वृत्तम् ॥ आत्मगत्या शरीरगमनेन । विषयः प्राप्यः । सुकृतविशेषास्तु देवतानुग्रहसहायाच्छरीरावाने लभ्य इति भावः । अप्सरसः भेनकायाः सम्बन्धेन दुहितृत्वरूपेण । प्रसूता पुंत्नं जनितवती । अत्र सूयतेः प्राणिगर्भविमोक्षणार्थस्य कर्मणः धात्वर्थेनोपसङ्ग्रुहादकर्मकत्वेन "" गत्यर्थाकर्मक ’’ इत्यादिना कर्तरि क्तः । इदमप्सरस्सम्बन्धरूपं । द्वितीयं पौरवत्वं पौरवत्वं तु प्रथममिति भावः । आशाजननं इच्छासन्धुक्षणमात्रं । सर्वं ह्मनेकान्तं भवतीति भावः । का आख्या यस्य तस्य किन्नाम्रः रार्षेः पौरवत्वाद्राजर्षिव्यपदेशः । चिन्तयिष्यति नामापि तथाविधस्य चिन्त्यमानं पापायेति भावः । लक्षीकरोति विषयीकरोति । नामतः नाम्रा । यदिः प्रश्रार्थः । तह्मंवगतं स्यादिति वाक्यशेषो वा । परदाराणां स्वदारत्वेनानवधारितायाः स्त्रिया इतृयर्थः । व्यवहारः प्रस्तावः न न्याय्यः अन्यथासिद्धिसम्भवादयुक्त इत्यर्थः । परदारपूच्छाव्यापारो इति क्कचित् पाठः । तह्मनर्हः परदारव्यवहार इति चान्यत्र । मूदो मयूरः मृण्मयूरः हस्ते यस्याः या । शकुन्तस्य मृण्मयरूस्य लावण्यं स्त्रिग्धत्वं यश्येत्यर्थके वाक्ये शकुन्तलापदमादाय कर्हि इति बालस्य प्रश्रः । मातृवत्सलः मातृप्रियः "" वत्सांसाभ्यां कामबले ’ इति लच् । नामधेयसादृश्यानि नामैक्यान्यपि सन्ति पुनः बहुशः सम्भवन्ति । नैतावत् पर्याप्तं निश्चयायेति भावः । मृगतृष्णिका मरीचिकेव नाममात्रस्य अर्थसंवादरहितस्य नाम्रः प्रस्ताव व्यवहारः । विषादाय प्रत्युत खेदाय । यथा न केवलं तृष्तिस्य मृगतृष्णा न तृषं शमयति अपि तर्हि परिभ्रमणश्रममपि सविशेषमावहति तथाऽयं प्रस्ताव उत्कण्ठासंवर्धनेन भूयसे सन्तापाय किं भविष्यतीत्यर्थः । भद्रमयूरकः रमत्या मयूरप्रतिकृतिः "" इवे प्रतिकृतौ ’’ । आदत्ते गृह्माति "" आङो दोऽनास्यविहरणे ’’ इत्यात्मनेपदे । रक्षाकरण्डकं रक्षणार्थमन्त्रसंस्कारनिधानमोषधिः ओषधिगर्भा गुलिका वा । मणिब्रनधे प्रकोष्ठे । अपराजिता भूतादिभिरनभिभव्यतया तथा कृतनामधेया । आत्मानं बालं न गृह्णतिन रपृष्टुमर्हति । भूपितितामित्यनेन हस्तस्थितायाः स्पर्शे न दोष इति व्यञ्जितं । अथ गृह्णति यदि स्पृशति तदा किंस्यादिति शोषः । विक्रिया सर्पत्वेन परिणामः । संपूर्णं सर्वथा संपन्नप्रायमपि । नाभिनन्दामि नाद्रिये । नास्ति हि व्यभिचारशङ्केति भावः । इमं अपराजिताया विकाराभावं । नियमे तपसि व्यापृतायै व्यग्रायै । अभिनन्दयिष्यसि प्रीणयिष्यसि । विवादः विवादः तातो दुष्यन्तो न त्वमित्याक्षेप एव प्रतृयाययति मदपतृयतां निश्चाययति । विकारकाले सर्पतया परिणामहेतूपस्थाने प्रकृतिस्थां अविकृतां । श्रुत्वापि श्रवणानन्तरमपीत्यर्थः । भागधे येषु पतिसमागमादिषु । प्रत्यक्षमवधीरितायाः कथं पतिसङ्गमसुखसम्भव इति भावः । सम्भाव्यते स्यादित्याशास्यते ॥ सवने इति । परिधूसरे असंस्कारमलिने वसने वसाना धारयन्ती नियमेन तपश्चरणेन क्षाममुखी दुर्बलकापोला दुर्बलकपोला धृतैकवेणिः बद्धजटा अत एव शुद्धशीला निर्मलचरित्रा यैषा शकुन्तला निष्करुणस्य निर्दयस्यापि मम विषयो दीर्घंमवधिरहितं विरहव्रतं बिभर्ति । समागमस्यानाशंसनीयत्वाद्दीर्घमेव तपश्चरितुं प्रवृत्तेति भावः । वसन्ततिलका वृत्तम् । औच्छन्दसिकं वा ॥ पश्चात्तापेन विरहानुशयेन विवर्णं विच्छायं । नखल्वार्यपुत्र इव आर्यपुत्रसाधर्म्यं न लक्ष्यत इत्यर्थः । कः अन्यः सुरुषः अकृतरक्षामङ्गलं रक्षाकरण्डकभ्रंशामिति भावः । गात्रसंसर्गेण दूषयति अपत्यस्य हि परपुरुषेणालिङ्गनं भावदोषाद्दूषणं सतीनामिति भावः । रक्षा तु सर्वदोषनिवारणमिति भावः । पकरीयः अस्मदसम्बद्ध इत्यर्थः । त्वयि विषये प्रयुक्तं कृतं क्रार्यं प्रत्यादेशरूक्षत्वमपि अनुकूलपरिणामं सुखपर्यवसानं । प्रतृयभिज्ञातं सोऽयमिति स्मूतं न तु मयेव त्वां विस्मृतमिति भावः । समाश्वसिहि कातरतां त्यज । परित्यक्तमत्सरेण पूर्वविरोर्ध मुक्तवता । आर्यपुत्रः खलु आर्यपुत्र एव । स्वरेण प्रत्यभिज्ञात इति भावः । स्मृ ? तीति ॥ हे सुमुखि स्मृत्या प्रणयस्मरणेन भिन्नं निरस्तं मोहतमः अज्ञानान्धकारः यस्य तस्य मे प्रमुखे अग्रतः दिष्ट्येत्यव्ययं भाग्येनेत्यर्थंः । स्थितासि । तृवथि सन्निहितायां स्मृतिरतीता स्मृत्यां च प्राप्तायां त्वं दुर्लभेति विप्रतिषेधोऽयं देवान्निवृत्त इति भावः । तद्यथा उरागस्य ग्रहणस्य अन्ते अवसाने रोहिणी । शशिनश्चन्द्रस्य योगं सम्बन्धं समुपगता संप्राप्ता । अकस्मत् ककञ्चित् कालं स्मरणतिरोधानमुपरगकल्पं मोक्षकल्पश्च प्रतिबोध इति भावः । दृष्टान्तालङ्कारः । आर्या वृत्तम् ॥ "" समुपगतेवाशु रोहिणी योगमि ’’ ति पाठे उपमालङ्कारः ।गीतिर्वृत्तम् ॥ बाष्पः कण्ठे यस्याः सा । बाष्यनिरुद्वकण्ठीति पाठे बाष्पेण निरुद्वः प्रतिबद्धप्रसरः कण्ठः स्वरः यस्याः सा ॥ बाष्पेणेति ॥ जयशब्दे त्वया वकृतुमुपक्रान्ते बाष्पेण कठरोधिनाप्रतिषिद्धे प्रतिबद्धे सत्यपि मया जितं सर्वोत्कर्षेण स्थितं कृतार्थीभूतमित्यर्थः । यद्यस्मात् कारणादसंस्कारेण यावकरञ्जनादिसंस्कारेण विनापि पाटलं रक्तं ओष्ठपुटं अधरदलं यस्य तत् ते मुखं दृष्टं । प्रोषिते मलिना कृशा ’’ इत्यादिसतीक्षणदर्भंनादयमेव मे जय इति भावः । अत्र जयादिशंषं कारणं विनापि जयरूपकार्योत्पत्त्या असंस्कारपाटलोष्टपुटमिति । च संस्कारादृतेऽपि पाटलिमोत्पत्त्या च विभावनालङ्कारौ । असंस्कारमिति व्यस्तापाठे अनलंकृतमिति मुखविशेषणं । क्कचितृ "" पाटलोष्ठमिदं मुखं ’’ इति अन्यत्र "" पाटलोष्टं मुखं प्रिये ’’ इति च पाठो दृश्यते । "" ओत्वोष्टयोः समासे वा ’’ इति वक्तव्यात् वृद्धिविकल्पः । अनुष्टुप् वृत्तम् ॥ भागधेयानि भाग्यानि पृच्छ । यन्मां पृच्छसि तदत्यिर्थसिद्धं । स्वभागधेयस्य विपर्यस्तत्वानुभवातृ पुत्रभागधेयस्यैव विलसितमिदं यद्भूयः समागम इति शकुन्तलाहृदयं । भागधेयानामेवात्र प्रधानकर्मत्वम् ॥ सुतन्विति । हे सुतनु प्रत्यादेशब्यलोकं मदवधीरणारूपमप्रियं ते हृदयादपैतु अपगच्छतु न स्मर्तव्यमिति भावः । तदा प्रत्यादेशावसरे किमपिश्रज्ञातनिमित्तः अत्र किमित्यव्ययं "" किं प्रश्राक्षेपकुत्सासु तत्रैव च किमव्यं ’’ इति नानार्थरतृनमाला । बलवान् दुष्परिहरः मे मनसः संमोहः अज्ञानं अभूत् । तथा हि । प्रबलतमसां उद्रिक्तमोहानां पुरुषाणां शुभेषु रेयस्सु वृत्तयः व्यवहाराः एवं प्रायाः भूयिष्ठमेतादृशा भवन्ति । यथा अन्धः शिरसि क्षिप्तां लीलया विन्यस्तां स्त्रजं पुष्पमालामपि अहिशङ्क्या सर्पभ्रमेण धुनोति निरस्यति । विकस्वरालङ्कारः । "" यस्मिनिवशेषसामान्यविशेषाः स विकस्वरः ’’ इति लक्षणात् । हरिणी वृत्तम् ॥ सुचरितप्रतिबन्धकं सुकृतविरोधि पुराकृतं पूर्वजन्माचरितं कर्मः दुष्कृतं । परिणामाभिमुखं फलोपधानोद्युक्तं । येनैतदशक्यनिरोधं भवतीति भावः । दुः खभगी दुः खशाली इत्यर्थः । उद्धुतमपनीतं विषादरूपं शल्पं येन तथाभूतः सन् कथयिष्यामि विस्मरणनिमित्तमित्यर्थसिद्धं कर्म । शकुन्लयैव स्वयमंगुलीयकोपलम्भे रसपोष इति राज्ञा निवेदनमनुपक्षिप्तम् ॥ मोहादिति । हे सुतनु ! सुतनु ! पूर्वं प्रतृयादेशादशायां बद्धबिन्दुः आरब्ध पृषतः उपचित इत्यर्थः । अतएव अधरं परिबाधमानः एतनाभिघातादुष्णत्वाच् ? च पीडयन् अनेनाधरस्य कोमलत्वं व्यज्यते । ते त्वदीयः यः बाष्वः मया मीहादप्रतिबोधादुपेक्षितः अकृतप्रतीकारः । अद्य तावत् इदानीमपि आकुटिलेषु ईषदरालेषु पक्ष्मसु विचलग्रं सान्द्रेषु संसक्तं अनिसश्शेषगलितमिति यावत् शीकरस्यानपोहाभिप्रायमिदं । तं बाष्पं प्रमृज्य अपनीय विगतानुशयः पश्चात्तापरहितः भवामि । अज्ञानादननुष्टितस्यावश्यानुष्टेयस्य सति ज्ञाने कार्यान्तराव्यवधानेन करणं हि प्रापतमिति भावः । "" योबष्पबिन्दुरि ’’ ति पाठे "" पुनरुक्तिपरिहाराय यत्पदेन बिन्दोस्तत्पदेन च बाष्पस्य परामर्शाद्वैरूप्यपरिहाराय च बाष्यमिति स्थाने "" ति पाठः सांप्रतः । भवामीति स्थाने "" भवेयं ’’ इति च पाठान्तरं । वसन्ततिलकं वृत्तम् ॥ नाममुद्रां राजनामांकितमंगुलीयकं मार्जनरावसरे व्यक्तमिति शेषः । अनेन अङ्गुलीयकेन विषममयुक्तं । प्रत्यायनकाले विस्त्रग्भनसमये । ऋतुसमवायस्य वसन्तसमागमस्य चिह्नं लक्षणभूतं । प्रतिपद्यतां प्राप्रोतु मत्समागमचिह्लभूतं पुनस्त्वमंगुलीयकं गृह्णष्वेति भावः । अत्र अङ्गुलीयके विश्वासो विस्त्रग्मः । अनेन हि व ? ञ्चितास्मीति भावः । आर्ययुत्रएवेति योऽनेनानुगृहीतोऽसीति भावः । सुहृदा शक्रेण संपादितं समर्पितं अत एव सदु अतृयर्थप्रियं फलं यस्य सः । इन्द्रादेश प्रवृत्तस्यैव हि पुनः प्रियासमागम इति भावः । प्रस्तावादनुस्मृतं पृच्छति । मातल इति । अयं शकुन्तलापरित्यागरूपः न खलु विदितः न ज्ञातः किं । ईश्वराणां लोकातिरिक्तशक्तीनां । अक्ष्णः परं परोक्षं किननाम न किंचिदित्यर्थः । पुरस्कृत्य उपहारवदपग्रे निधाय तवैवाप्सरः सम्भवतया प्रीतिविशेषास्पदत्वादत्मनश्चापराधरिहारर्थतृवादिति भावः । अभ्युदयकालेषु मङ्गलावसरेषु एवमाचरितव्यं सहैव देवतागुरुवन्दनं कर्तव्यम् ॥ पुत्रस्येति । अयं पुरुषः ते तुत्रत्य इन्द्रस्य रणशिरसि देवासुरसमरप्रधानभूमौअप्रयायो अग्रेसरः नेतेति सयावत् । दुष्यन्त इत्यभिहितः प्रख्यातः भुवनस्य लोकस्य सुरवैरिविजयात् सामन्यतो लोकग्रहणा । गोप्ता "" भतें ’’ ति पाठान्तरं । पुत्रवदनुग्राह्म इति भावः । यस्य चापेन धनुषा विनिवर्तितं विरमितं कर्म शत्रुदलन्रूपं यस्य तत् तत् प्रसिद्धं कोटिमत् प्रशस्तधरं शतकोटिपसिद्धेरिति भावः । व्यापराभावादभप्रकोटिमित्यपि प्रतीयते । मधोन इत्द्रस्य कुलिगं वज्रं आभरणं वीरस्य हस्भूषणं भवति।नत्वायुधमिति भावः । गम्यस्य भङ्ग्यन्तरेणाभिधानात् । पर्यायोक्तमलङ्कारः । वसन्ततिलकं वृत्तम् ॥ समृभावनीयः संप्रतिपत्तुं योग्यः अनुभावः प्रभावः यस्याः यस्याः सा । आकृतिः रूपं "" रूपमेवास्यैतन्महिमानं व्याचष्टे ’’ इति श्रुतेः । पुत्रप्रीतेः पिशुनेन सूचकेन सूचकेन पुत्रमित्रतृवादिति भावः । माता च पिता च पितरो "" पिता मात्ना ’’ इत्येकशेषः ॥ प्राहुरिति । यददितिकश्यपरूपं द्वन्द्वं कर्म "" स्त्री पुंसौ मिथुनं द्वन्द्वं ’’ इत्मरः । द्वाद्वशधा ? स्थितस्य तेजसः सूर्यत्य कारणं मातापितृरूपं प्राहुः । अनेन लोकोत्तरं तेजस्वित्वं व्यज्यते । यत् द्वन्द्वं कर्तृ भुवनत्रयस्य भर्तारं यज्ञे भागामः येषां तेषां ईश्वरं देवाधिराजं इन्द्रं सुवुवे जनयामास । यस्मिंश्व द्वन्द्वं आत्मभुवः कमलासनातृ परः प्रकृष्टः पुरुषो नारायणोऽपि भवाय जन्मने आस्पदं स्थानं चक्रे । "" उपेन्द्रत्वेनावततारे ’’ त्यर्थः । दक्षश्च मरीचिश्च सम्भवौ उत्पत्तिहेतू यस्य तत् इदं तत् द्वन्द्वं यथासंख्यमदितिश्च कश्यपश्च स्त्रष्टुः ब्रहृमणः सकाशात् एकान्तर एकेन यथासंख्यं दक्षेण मरीचिना च अन्तरं व्यवधानं यस्य तथाभूतं । अत्र (1) धाता ( 2 ) अर्यमा ( 3 ) मित्रः ( 4 ) विष्णुः ( 5 ) विवस्वान् ( 6 ) पूषा ( 7 ) पर्जन्यः ( 8 ) अंशः ( 9 ) भगः (10) त्वष्टा ( 11 ) इन्द्रः ( 12 ) वरुणः इति द्वादशादित्यानां नामानि । "" श्लाध्यंचान्योपलक्षणं ’’ इत्युक्तलक्षणः उदात्तालङ्कारभेदः । शार्दूलविक्रीडितं वृत्तम् ॥ उभाभ्यामिति क्रियया यमभिप्रैति सोऽपि संप्रदानमिति चतुर्थी । चिरं महीं पालय दीर्घायुरस्खलितैश्वर्यंश्च भवेत्यर्थः । अप्रतिरथः निस्सपत्नः । वां युवयोः ॥ आखण्डलेति । भर्ता दुष्यन्तः आखण्डलसमः इन्द्रतुल्यः सुतः पुत्रः सर्वदमनः जयन्तः इन्द्रसूनुः प्रतिमा उपमानं यस्य सः । ते एवं संपन्नसौभाग्यायास्तव अन्या आशीः आशासनीयान्तरं न योग्या नोचिता पुनरुक्तभावादिति भावः । पौलोम्याः इन्द्राण्याः सदृशी भव । दीर्घकालमुनवृत्तसर्वसौभाग्या भवेत्यर्थः । अनुष्टुप्वृत्तम् । उभे कुले मातापितृवंशौ नन्दयति समृद्धीकरोतीत्युभयकुलनन्दनः । प्रापतिमभितः कश्यपाभिमुखं "" अभितः परितः ’’ इत्यादिना द्वितीया । एकैकं अनुग्राह्मान् प्रतृयेकशः निर्दिशन् लक्षीकुर्वन् ॥ दिष्ट्येति —- साध्वी पतिव्रता शकुन्तला इदं सत् श्लाध्यं अपत्यं पुत्र महाप्रभावत्वादिति भावः । भवान् सिद्धानुभावत्वादविशिष्य निर्देशः । वस्त्रयाणां समागतं समागमः श्रद्धा आस्तिक्यबुद्धिः वित्तं द्रव्यं विधिः शास्त्रविधानं च इति त्रितयं । त्रयाणां समवाय इत्यर्थः । धर्मार्थमेव वः सङ्गतमिति भावः । धर्मपत्न्याा आचरासहायत्वाच्छुद्वासाम्यं । ऋणप्री ? कारादपत्यस्य वित्तसादृश्यं । उभयानुगृहीतस्य प्राधान्याद्विधितुल्यत्वं राज्ञः । "" दिप्ठ्येति ’’ हर्षे । अनुष्टुप् वृत्तम् । अपूर्वः लोकदृष्टविलक्षणः । तदाह — उदेतीति । पूर्व फलोत्पत्पत्तेः प्रथमं कुसुममुदेति लोके उद्भवति ततः पश्चात् फलं कार्यं उदेतीत्यनुज्यते । एवं प्राक् प्रथमं धनोदयः मेघोद्गमः तदनन्तरं पयः वर्षोदकं भवति । निमित्तादागतं नैमित्तिकं निमित्तनैमित्तिकयोः हेतुहेतुमतोः अयं उक्तरूपः क्रमः पोर्वापर्यनियमोस्ति । तव तु प्रसादस्य अनुग्रहस्य हेतुभूतस्य पुरः पूर्वमेव संपदः समीहितसिद्धयः कार्यभूता भवन्ति । प्रथमं पुत्रकलत्नसमागमरूपं फलं प्राप्तस्यैव हि मे सर्वकल्याणनिदापनं भवत्प्रसादो लब्ध इति भावः । अयं कार्यकारणपोर्वापर्यविर्ध्वसो नामातिशयोक्तिभेदः । वंशस्थंवृत्तम् । विधातारः स्त्रष्टारः अनेन पुत्रवत्सलता व्यज्यते एवमनेन प्रकारेण प्रसीदन्ति सिषेविषामात्रेण समृद्धार्थान् पश्चदेवानुगृह्णन्तीत्यर्थः । पश्चात् प्रत्याख्यनानन्तरं ऊढपूर्वां प्राक्परिणीतां अवगतः ज्ञातवानस्मि "" गत्यर्थाकर्मके ’’ त्यादिना कर्तरिक्तः । चित्र विरुद्धमिव ॥ यथेति । यथा समक्षरूपे प्रत्यक्षाकारे वस्तुनि गजे गजो नेति नायं गज इति विपर्ययः विपरीतनिश्चयः स्यातृ कस्यचिद्भवेत् । पुनः तस्मिन् वस्तुनि अतिक्रामति च्क्षुर्विषयमतिगच्छति सति संशयः योयं दृष्टपूर्वंः सगजो नवेति सन्देहः स्यात् । अतिक्रान्तस्य पदानि भूतलन्यस्तानि पादचिह्लानि दृष्ट्वा तु प्रतीतिः गज एवेति तत्त्वनिश्चयः भवेत् , तथाविधः मे मनसः विकारः परिणामः अभूदिति विपरिणम्यानुषज्यते । साक्षादुपनतायां शकुन्तलायां नायं मत्परिग्रह इति व्यतिरेकनिश्चयः दिवमारूढायां च "" कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनथां । बलवातु दूयमानं प्रत्ययीव मेहृदय ’’ मिति सम्भावनात्मा संशयः । अंगुलीयकं तु विलोक्य परिग्रह एवेत्यन्वयकोटिनिश्चयः इत्येवं कोसमुन्मत्तरयेव चित्तविकारक्रम इति भावः । उपजातिर्वृत्तम् ॥ आत्मापचारशङ्कया स्वापराभयेन । उपपन्नः न्याय्यः । अप्सरसस्तीर्थस्य अवतरणात् अवतारमार्गात् प्रत्यादेशविक्लबां भवतृप्रतिषेधविषण्णां "" प्रत्यक्षवेक्लव्या ’’ मिति पाठे "" साक्षात्कृ ? तविषादा ’’ मित्यर्थः । आदाय सानुमत्युपनीतां गृहीतृवा । दुवसिः शापात् "" विचिन्तयन्तीयमनन्यमानसा ’’ इत्यादिरूपात् । सचायं शापः । अंगुलीयकस्य दर्शनमेव अवसानं अवधिर्यस्य सः । सोच्छ्वासं ससमाधानं । एषः शापपराधीनोऽहं वचनीयात् दोषात् । सखीभ्यां अनभूया प्रियंवदाभ्यां । वि ? दितः ज्ञातः अर्थः दुर्वासः शापरूपः परमार्थः यया सा । "" चरितार्थेति ’’ पाठान्तरं । सह धर्मचारिणं भर्तारं प्रति मन्धुः प्रत्यादेशरीषः ॥ शापादिति । भर्तरि शापातृ हेतोः स्मृतिरोधेन प्रत्यभिज्ञाप्रतिबन्धेन रूक्षे परुषे सति प्रतिहता नाभिनन्दिताऽसि । अपेततमसि अपगतव्यामाहेहे सति तदैव प्रभुता एश्वर्यं तवैवमिति पाठान्तरं । मलेन उपहतप्रसादे नाशितनैर्मल्ये दर्पणतले छाया प्रतिबिम्बं न मूर्छति नसंक्रामति " विभाति नमलोपहतप्रसाद ’ इति पाठान्तरं । शुद्धे अपनीतमले तु सुलभः । अवकाशः प्रवेशो यस्याः सा भवति । यथा ययोदवातादिना मालिन्ये सति शुद्धमपि दर्पणं बिम्बग्रहणासमर्थं भवति तथा शापदूषिते भर्तुरात्मनि न विषयीभूतासीति नैष पुरुषदोषः येन मन्योर्न स्थानमिति भावः । वसन्ततिलकं वृत्तम् । यथेति नान्यतृ प्रतृयादेशनिमित्तमित्यर्थः । खलु यतः । अत्र शकुन्तलाथामेव । वंशस्य प्रतिष्ठा स्थितिः सन्तानलाभादिति भावः । बालं हस्ते गृह्णातीत्यधिकपाठे अत्र बाल इत्यर्थः ॥ रथेनेति । अयं ते पुत्रः अप्रतिरर्थः निस्सपत्नः सन् अनुत्खातेन व्योमयानादस्खलिततया स्तिमिता निश्चला गतिर्यस्य तेन रथेन तीर्णजलधिः अतिक्रान्तार्णवः सन् सप्तद्वीपां वसुधां कृतृस्नमेव भूतलमित्यर्थः । पुरा जयति जेष्यति "" यावत्पुरानिपातयोः ’’ इति भविष्यदर्थे लट् । इह आश्रमे तत्त्वानां सिंहादीनां प्रसभदमनात् बलादवमर्दनाद्धेतोः सर्वदमनः सर्वदमपाख्यो जातः पुनः हतः परं लोकस्य भरणातृ परिपालनाद्भरत हत्याख्यां यास्यति प्राप्स्यति । बिभर्त्तीति भरतः भूञ औणादिकस्तप्रतृययः । शिखरिणी वृत्तम् ॥ कृतः संस्कारो जातमकर्मादिः यस्य तस्मिन् । सर्वं श्रेयः आशंसामहे सम्भावयामः । मनोरथसंपत्तेः अभीष्टसिद्धेः श्रुतविस्तारः विदितप्रकारः । श्रुतमनोरथसंपत्तिविस्तार इत्यर्थः । अत्रैव तिष्ठति न पृथक्सन्देशमर्हतीति भावः । भगवत्या अदित्या । अनभिकुद्ध अन्यथा हि शप्तवान् स्यादिति भावः । "" क्रुधद्रुहोरुपसृष्टयोः कर्म ’’ इत्यतो द्वितीया । तथापि विदितत्वेपि प्रियं दुहितृ कुशलरूपमिष्टं प्रष्टव्यः अनुयोक्तव्यः । "" प्रियसमभियोगः सन्देष्टव्यः ’’ इति पाठान्तस्म् । समभियोगो वृत्तान्तः ॥ तवेति ॥ बिडति भिनत्तीति बिडं "" इगुपधज्ञाप्रीकिरः कः ’’ । तदोजः तेजो यस्य सः बिडौजाः इन्द्रः तव प्रजासु विषये प्राज्यवृष्टिः प्रभूतवर्षणः भवतु । त्वमपि विततयज्ञः विस्तृताध्वरः सन् स्वर्गिणः देवान् अलमत्यर्थं भावय आराधय "" प्रीणय ’’ इति पाठान्तरं । एवं उभयोर्लोकयोः द्यावावृथिव्योः अनुग्रहेण परिपोषेण श्लाघनीयैः अभिनन्दनीयैः अन्योन्यकृत्यैः वर्षणयजनरूपैः युगशतानां परिवर्तान् पर्यायान् नयतं गमयतं । इन्द्रवतृ तृवमपि स्वैः सुकृतैरायफरैश्वर्यमविकलं प्राप्रुहीति भावः ॥ "" देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयनतः श्रेयः परमवाप्स्यथ ’’ इति भवद्गीता । रघुवंशे च "" दुदोह गां सयज्ञाय सस्याय मघवा दिवं । संपद्विनिमयेनोभौ दघतुर्भुवनद्वयं ’’ इति । अन्योन्यलङ्कारः । मालिनीवृत्तम् । श्रेयसे देवताराधनादिपमुक्तं कर्तृं । भूयः इतोप्यधिकं उपहरामि वितरामि । भरतवाक्यं नटवचनं समाप्तकृत्येन नटेन वक्तव्यमाचारप्राप्तं प्रशस्त्यारूयं निर्वंहणसन्धेरङ्गं । "" प्रशस्तिः शभशंसनं ’’ इति लक्षणात् ॥ प्रवर्ततामिति ॥ पृथिव्या ईश्वरः पार्थिवः प्रकृतीनां प्रजानां हिताय सुखाय प्रवर्ततां प्रयततां । श्रुत्या शास्त्रश्रवणेन महतां पूज्यानां विद्यावृद्धानां कवीनामित्यर्थः । "" श्रुतिमहिते ’’ ति पाठे सरस्वतीविषेषणं । "" श्रुतमाहता "" मिति च पाठान्तरं । सरस्वती सूक्तिः महीयतां पूज्यतां "" महिङ् पूजांया ’’ मिति धातुः । अपि च परिगतशक्तिः सर्वतो व्याप्तप्रभावः सर्वातृमत्वादिति भावः । पार्वत्येव शक्तिपदार्थ इत्यन्ये तदा प्राप्तशक्तिक इत्यर्थः । आत्मना भवतीत्यात्मभूः । अनन्यहेतुकः नित्यइति यावत् । नीललीहितः कण्ठे नीलः शेषांगे च लोहितो महेश्वरः गौरीभागे नीलः अन्यत्र लोहितोवा । मम पुनर्भंवं पुनर्जननं क्षपयतु दूरीकरोतु मोक्षं ददत्वित्यर्थः । रुचिरा प्रभावती च । मतभेदेनवृत्तम् ॥ इति अभिज्ञानशाकुन्तव्याख्यायां सहृदयसमाख्यायां सप्तमोऽङ्कः । शाक्या गम्यमकुण्ठमार्गममलं दीप्तार्थजातोज्जवलं श्लिष्टं शब्दगुणश्रिया नवरसासारप्रसारास्पदम् । काव्यं यत् कविवेधसो बुधगुरोर्वागीश्वरादागतं तद्व्योमेव न मीयते वितरति स्थानं च वाचां पुनः ॥ स्त्रोतोभिस्तटिनीवया नवनवैः शब्दार्थयोगैर्जगत् सिञ्चन्ती रसवेदिभि श्चरतरं तृष्यद्भिरापीयते । तीरक्षोभवेदव तां कविमणेर्विक्षोभयन् भारतीं क्षान्तेरेव कषोपलोगुणवतां व्याख्यापराधो मम ॥ मद्व्याख्यानं यदिह विगुणं नैष दोषो नवो मे श्लाघा सैषा यदि गुणलवः क्कापि दृश्येत सद्भिः । इत्थं धीरव्यवसितिरहं साहसेऽस्मि प्रवृत्तो बालः श्रेयान् पदमपि वदन न स्खलन् द्षणाय ॥ ॥ शुभमस्तु ॥ _____________________ ॐ ॥ अथ सप्तमाङ्कव्याख्याप्रारम्भः ॥ संप्रति समाप्तसुरकार्यस्य राज्ञः स्वर्गादवरोहमङ्कावतारेण प्रस्तीति । "" अङ्कावतारस्त्वङ्कान्ते पातोऽङ्कस्याविभागतः ’’ इति लक्षणात् । स्यतु "" अङ्कान्तपात्रैरङ्कास्यमुत्तराङ्कार्थसूचनं ’’ इति लक्षणोदङ्कास्यमिति । ? तचिचन्त्यं । न ह्मत्र पूर्वाङ्कान्तपास्त्रैरुत्तराङ्कार्थः सूचितो भवति । जितदैत्यस्य भूग्यवतरणं हि सप्तमाङ्कार्थः । स्वर्गारोहणमेव च षष्टाङ्कावसानदर्शितम् । षष्टाङ्काथेन सप्तमाङ्कार्थः । सम्बद्ध एव तु भवति । उक्तं च भावप्रकाशे "" यथा हि वीरचरिते द्वितीयाङ्कावसान्के । रामभार्गवयोर्मध्ये सुमन्त्रेण प्रविश्य च ॥ विश्वामित्रवसिष्टौ च तदङ्कान्तेन सूचितौ । रामये स्तत्र कलहाविच्छेदेनैव तौ पुनः ॥ तृतीयाङ्कप्रवेशेन सुमन्त्रेणैव सुचितौ । सूचनं सकलाङ्कानां ज्ञेयमङ्कमुखं बुधैः ’’ ॥ इति । ततश्च पूर्वाङ्कापात्रेभ्योऽतिरिक्तस्य पात्रान्तरस्य भाव्यङ्कार्थसूचनार्थमेव केवलं प्रवेशः तेन च साकल्येन तदङ्कार्थसूचनं अङ्कारये विशेष इत्यवसीयते ॥ अनुष्टितनिर्देशः निर्वर्तितमहेन्द्रशासनोऽपि । सत्क्रियाविशेषात् बहुमानातिशयाद्धेतोः समर्थने चास्यान्वयः । अनुपयुक्तं अकिञ्चित्करमिव । समथैये मन्ये । लघु मत्कृतं गरीयांस्तु सत्कार इति भावः । उभयोरपि न कंवलं तव अपि तर्हि महेन्द्रस्यापीत्यर्थः । अपरितोषः आत्मकृते तृप्तिविरहः । उभयमप्यपरितोषंइति पाठे तव चेन्द्रस्य च द्विथमपिकृत्यं तृप्तेरपदमित्यर्थः । अपरितोषहेतुं दर्शयति ॥ प्रथमेति ॥ प्रथमोपकृतं सत्कारादपि पूर्ववृत्तं स्वीयं साह्मं मरुतः सप्तवायुस्कन्धाः देवा वा सन्ति नियाम्यत्वेनास्येति मरुत्वात् "" ज्ञयः ’’ इति मतोर्मस्य वत्वं "" तसौ मत्वर्थे ’’ इति भसंज्ञया पदसंज्ञानिवृत्तेर्जइत्वाभावः । तस्य इन्द्रस्य प्रतिपत्त्या सत्कारेण भवान् लत्रु अलृपं मन्ये । अवानेन भवदीयकर्मणा दुर्जयदानवजरूपेण विस्मितः आश्चर्यान्वितः स इत्द्रोऽपि सत्क्रियायः स्वीयसतृकारस्य गुणानतिशयान् न गणवति न मन्यते । सत्कारगोरवात् भवतः स्वकर्मण्यनादरः भवत्क्रियागौरवादिन्द्रस्य स्वसत्कारे न वैतृष्ण्यमित्यर्थः । अत्र प्रथमोपकृतमित्यनेन प्रापतफलस्य गरीयानपि सत्कार्ये सतृकारो नातिशयायेति व्यज्यते । अपरितोषतुल्यताप्रतिपादनेन राज्ञो महेन्द्रसादृश्यव्यञ्जनात् तुल्यपयो्रितालङ्कारध्वनिः "" गुणोत्कृष्टैः समीकृत्य वचोऽन्या तुल्ययोगिता ’’ इति लक्षणात् । वियोगिनीवृत्तम् ॥ विसर्जनावसरे प्रतिप्रेणसमये सत्कारो बहुमानः मनोरथानां सङ्कल्पानामपि अभूमिः अविषयः अचिन्तनीय इत्यर्थः । द्यौः स्वर्गः ओकः स्थानं येषां तेषां दिवौकसां पृषोदरादिः । समीपं अक्ष्णोः समक्षं । अर्धासने निजासनैकदेशे उपवेशितस्य अनिच्छतोपि स्वयं महेन्द्रेण स्थापितस्य मम पिनद्धेत्याग्रिमेणान्वयः । अन्तर्गतेति । अन्तर्गता उदात्तस्वभावतया बहिरदर्शितता प्रार्थना मालाभिलाषो यस्य तं अन्तिकस्थं स्मीपावस्थितं तावतैव दर्शिताभिलाषमिति भावः । जयन्तं नाम स्वतनयं उद्वीक्ष्य दृष्ट्वा कृतस्मितेन स्वार्यतामर्य मन्यत इति विदिजाशयतया जातस्मितेन हरिणा इन्द्रेण आमृष्टं आर्द्रत्वादाहृतं वक्षसः मदुरससम्बन्धि हरिचन्द्रन प्रथममालिप्तं रक्तचन्दन्मेव अङ्कश्चिह्नं यस्याः सा मन्दारः माला मन्दारपूष्पदाम पिनद्धा साक्षत् बद्धा । नह्मतेरपिपूर्वात् कर्मणि क्तः "" नहो धः ’’ इति धत्वं "" वष्टिभागुरि ’’ रित्यादिना अपेरल्लोपः । पुत्रादपि सविशेषा प्रीतिमंयीति भावः । आमृष्टवक्षोहरिचन्दनाङ्केत्यनेन पूर्वं हरिचन्दनालेपनमपि व्यज्यतेततश्च चन्दनानुलेपनस्यार्द्रत्वप्रतिपादनेन प्रीतिप्रकषानिबन्धनो महेन्द्रस्य त्वाराविशेषो गम्यते । केचित्तु । "" आमृष्टवक्षोहरिचन्दनाङ्केत्यनेन दित्सात्वरा व्यज्यते । मन्दारामालेतृयनेन भूलोकविलक्षणमन्दाग्मकालामात्रं लभ्यांशः अन्यत् प्राप्यवस्तु नास्तीति सूच्यते ’’ इत्याहुः । उपजातिर्वृत्तम् ॥ किमिव नापहंति — सर्वथापि प्रसादः कृतो भवादृशो नातिरिच्यत इति भावः ॥ सुखेति ॥ सुखमेव परं प्रधानं यस्य तस्य स्वयमभियोगश्रमरहितस्येत्यर्थः । सुरुसुखस्येति क्कचितू पाठः । तदा सानुगुस्य हरेर्न श्रमः शरमत्रसहायेन त्वया शत्रुनिरासादिति भावः । हरेः हन्द्रस्य समृबन्धि यद्व हरेः सखपरस्य सत एव “6 षष्ठी चानादरे ’’ इति षष्ठी । त्रिदिवं स्वर्गः उभयैः द्विप्रकारैर्वस्तुभिः । "” स्ङ्ख्याय अवयवे तयप् ’’ इति विहतस्य तयपः "" उभादुदात्ती नित्यं ’’ इत्ययच् । उद्धृताः उत्खाताः दानवा एव कण्टकाः यस्मात् तथाविधं कृतं । कैः अधुना असिमन् समथे नतपर्वभिः अनुन्नगतग्रन्थिभिः तव शरैः । पुरा पूर्वकाले पुरुषश्चासौ केसरी च यस्य नरहरेर्भगवतो नखैश्च । पुरुषकेसरिण इत्यनेन यत् पुराभगवतापि रूपद्वयपिरग्रहायासेन कृतं तत् कृतं त्वया केवलैश्शरैरिति व्यतिरेको व्यज्ये । शराणां नखानां च समीकृत्य वचनात् तुल्ययोगितालङ्कारः । दुतविलम्बितं वृत्तम् ॥ शतक्रतोः नियन्तुरेव खलु महिमा प्रभावः स्तोतुं योग्यः स्तुत्यः "" एतिस्तु शास्वृदृजुषः ’’ इति क्यपि "" हस्वस्यं ’’ ति तुक् ॥ सिध्यनतीति ॥ नियोजृयाः प्रेष्याः महत्सु दुष्करेष्वपि कर्मसु कार्येषु सिध्यन्ति फलं प्राप्रुवन्ति इति यत् तमिति विधेयप्राधान्यात् पुंलिङ्गता । ईश्वराणां नियन्तॄणां सम्भावनायाः परिग्रहस्य गुणमुत्कर्षं अवेहि आनीडि । अरुणः सूर्यंसारथिः तमसां बहुवचनेन दुरपोहत्वं व्यजृयते । विभेत्ता निवर्तयिता किंवा अभविष्तृ नैवाभविष्यदित्यर्थः । तं अरुणं सहस्त्रकिरण इति तमोनिवारणशक्तिव्यञ्जनं । धुरि आत्मनः पुरतः नाकरिष्यचचेत् । यस्मादकरोत् तस्मादभवदित्यर्थः । क्रियातिपत्तौ लृङ् । सहस्त्रकिरणशब्दस्य तमोविध्वंससामर्थ्याभिप्रायतया परिकरांकुरः । तदनुप्राणितश्च दृष्टान्तालंकारः । वसन्ततिलकं वृत्तम् ॥ एतदिवकत्थनर्त्वं सदृशं महत्त्वस्यानुरूपमेव । न्पक्कपृष्ठे स्वर्गस्योपरिष्टत् प्रतिष्टितस्य रथैर्यमापन्नस्य प्रबन्धो हि यशसः प्रतिष्ठेति भावः ॥ विच्छित्तीति ॥ सुरसुन्दरीणां देवाङ्गनानां विच्दित्तिशेषौः कुङ्कुमचन्दनादिवर्णिकाविन्यासविशेषैः । "" स्वल्पोऽप्यनादरान्नयासः कुङ्कुमचन्दनादिवर्णिकाविन्यासविशेषैः । "" स्वल्पोऽप्यनादरान्नयासः कुङ्कुमादेस्स्वमण्डने । यः परां जनयेच्छोभां सा विच्छित्तितरुदाहृता ’’ ॥ "" मण्डनानादरान्नयासो विच्छित्तीरूपदर्पतः ’’ ॥ इत्याद्युक्तं । अत्र तु विन्यासमात्रं विवक्षितं । वर्णैः करणैः अमी दिवौकसो देवाः गीतिक्षमं गानयोग्यं तालादिपरिच्छेदपरिच्छिन्न्मित्यर्थः । अर्थो बध्यतेत्यनेनेत्यथ्रबन्धं भूतार्थप्रतिपादकभित्यर्थः । त्वच्चिरितं त्वदीयं दानवविजयादिचरित्रोदाहणप्रबन्धं स ? ञ्चिन्त्य सम्यगालोच्य कल्पतलांशुकेषु कल्पतरुप्रसूतेषु श्लक्ष्णामृबरेषु लिक्षन्ति । सुरसुन्दरीविच्दित्तिशेषाणां कल्पलतांशुकानां च लेखनोपयोजनेन चरिते रसातिशयः सुरुसन्दरीणां प्रतीयते । कल्पवृक्षेषु लताशब्दः कविसमयात् प्रयुक्तो लालित्यं व्यञ्जयन्नंशुकानां श्लक्ष्णतरत्वं दर्शयति । "" तुल्यानुरागपिशुनं ललितार्थबन्धं पत्रे निवेशितमुदाहरणं प्रियायाः ’’ । इति विक्रमोर्धंशीये । इक्षुच्छायानिषादिन्यस्तस्य गोप्तुर्गुणोदयं । आकुमारकथोद्धातं शालिगोष्यो जगुर्यशः ’’ इति रघुवंशे । उपजातिर्वृत्तम् ॥ पेर्वुद्युः पूर्वंस्मिन्नहनि । "" सद्यः परुत्परार्यैषमः परेद्युर्व्यद्यपूर्वेद्युरन्येद्युरन्यतरेद्युरितरेद्युरपरेद्युधरेद्युरुभयेद्युत्तरेद्युः ’’ । इति निपातितं । असुरसंप्रहारे असुरयुद्धे उत्सुकेंन आसक्तिमता दिवं स्वर्गमास्त्रेहता सता न लक्षितः कार्यव्यप्रहृदयत्वाद्विशेषेषतो न गृहीत इत्यर्थः । मरुतां वायूनां सप्तानां सम्बन्धिनि कतमस्मिन् बहूनां मध्ये कस्मिन् ॥ त्रिस्त्रोतसमिति ॥ इदं स्थानं , यो वायुः प्रतितिष्ठत्यत्रेति प्रतिष्ठा। गगनमेव प्रतिष्टा स्थानं यस्यास्तां त्रिस्त्रोतसमाकाशगङ्गां वहति प्रवर्तयति । किंच प्रविभक्ताः असङ्करप्रसारिता रश्मयः ज्योतिषां स्वे स्वे किरणाः येन तथाभूतः सन् ज्योतींषि सप्तर्षिमण्डलानि वर्तयति सञ्चारयति तस्य । परिवहाख्यस्य वायुस्कन्धानां सप्तानामन्यतमस्य षष्टस्य वायोस्सम्बन्धिनं द्वितीयेन हरिविक्रमेण त्रिविक्रमचरणन्यासने निस्तमस्कं तमोगुणरहितं मार्गं प्रसारपथं वदन्ति । ज्योतिश्शस्त्रे छायापथ इति प्रथिता व्योमगङ्गोच्यते । "" आवहः प्रवहश्चैव संवहश्चोद्वहस्ततः । विवाहाख्यः परिवहः परावह इति क्रमात् ॥ सप्तैते मारुतस्कन्धा महर्षिभिरुदीरिताः । आवहो वर्तयेदुद्वहश्चापि तथा नक्षत्रमण्डलम् ॥ संवहो मारुतस्कन्धस्तथा शीतांशुमण्डलम् । पञ्चमोऽपि विवाहाख्यस्तथैव ग्रहमण्डलम् ॥ सप्तर्षिचक्रं स्वर्गङ्गां षष्ठः परिवहस्तथा । परावहस्तथा वायुर्वर्तयेद्धुवमण्डलम् ॥ ’’ इति ब्रह्माण्डपुराणे सप्तर्षिमण्डलस्थाने स्वर्भुवोर्मध्ये भुवर्लोलोयं गम्यत इत्यर्थः । वसन्ततिलकं वृत्तम् ॥ बाह्मैरन्तश्च करणैः चक्षुरादिभिर्मनसा च सहितः अन्तरात्मा पुरुषशब्दितो जीवः प्रसीदिति शोकमोहादिविगमरूपं नैर्मल्यमायाति । तामसस्थाने तु तमसा बहिरिन्द्रियाणि तदधीनं चमनः उपरज्यते । येनात्मन एवाप्रसादः तमसः परे रूयस्य प्रथमस्य वायुस्कन्धस्य र्मामित्यर्थः । अवतीर्णौ अवरूढौ ॥ अयमिति । शीकरैरम्बुकणैः क्लिन्ननेमिः सिक्तचक्रान्तः अयं ते रथः अराणां चक्रावष्टम्भयष्टि ? विशेषाणां नेमिनाभ्योर्गध्यगतानां विचरेभ्यः अन्तरालेभ्यः निष्पतांद्भर्निर्गच्दद्भिः चातकैः । "" धरणीपतिं तोयं चातकानां रुजाकरं ’’ । इति मेघोदकैकपरत्वादुत्पतितैरित्यर्थः । अचिरभासां विद्युतां तेजसा प्रभया अनुलिप्तैः छुरितैर्हरिभिः रथाश्वैश्च वारिगर्भोदराणां घनानां नवजलधराणां उपरि गतं गमनं पिशुनयति दर्शयति । रथनेमिक्लेदः चातकनिष्पतनं इरीणां च विद्युत्प्रभाच्छुरणमिति त्रिभिर्हेतुभिर्घनोपरिगमनानुमानादनुमानालङ्कारः । हरीणां निजरूपत्यागेन विद्यद्रूपापत्तिप्रतीत्या च तद्गुणालङ्कारध्वनिः । मालिनी वृत्तम् ॥ क्षणत् अविलम्बेन अवरोहणे वेगातिशयादिति भावः । आत्माधिकारभूमौ स्वनिदेशविषयस्थले भूतल इति यावत् । आश्चर्यं दर्शंनं यस्य सः ॥ शैलानामिति ॥ मेदिनी भूमिरुन्मज्जतां उन्नमतां शैलानां शिखरात् अगात् अवरोहतीव । उन्नतानां शैलानां दृष्टिसन्निषाणमुद्गमनमिव भूम्याः पृथक्त्वेन दूरीभवनमवरोहणमिव च भातीति भावः । एवं पादपाः वृक्षाः स्कन्धानां मूलस्तम्भानां उयात् । द्दष्टिगोचरीभावात् पर्णानां दलानामभ्ज्ञ्यन्तरे मघ्ये लीनतां गूढतां विजहति क्रमात् परित्यजन्ति विप्रकर्षे पर्णमात्रं दृश्यते सन्निकर्षे च सवायवस्तरुर्दृश्यत इति भावः । तथा तनुभावेन दूरदर्शने सूक्ष्मोपलमृभतया नष्टसलिलाः अलक्षितोदकाः आपगाः सन्तानैः सन्निकर्षंक्रमेण विस्तारैः व्यक्तिं स्फुटोपलक्ष्यत्वं व्रजन्ति प्राप्रुवन्ति । मर्त्यभुवनं मनुष्यलोकः उत्क्षिपता उद्गह्णता केनापि पुरुषेण मत्पार्श्वं मत्समीपमानीयते प्राप्यत इव । व्येमगमस्य रथस्य स्खलनाभावाद्भूमेरेव न्निकर्षर्ण प्रतीयत अति भावः । अत्र प्रथमान्तिमवाक्ययोः स्वभावोत्यनुप्राणिते वरतूत्प्रेक्षे । अन्यत्र स्वभावोक्तिमात्रं । शार्दूलविक्रीडितं वृत्तम् ॥ सबहुमानं दुष्यन्ताधिकारस्थानत्वबहुमानेनेत्यर्थः । उदग्ररमणीया प्रकाममनोरमा उदाररमणीयेति पाठान्तरं । पूर्वापरौ प्राक्पश्चिर्मा समुद्रौ अवगाढः अवतीणीः । तावद्व्याप्त इत्यथ्रः । "" पूर्वापरौ वारिनिधी विगाह्म स्थितः पृथिव्या इव मानदण्डः ’’ । इति कुभारसम्भवे । कनकरसं सुवर्णद्रयं निष्यन्दते विसूजतीति कनकरसनिष्पन्दी छायैवात्र रसत्वेनाध्यवसीयते । कनकरसशब्दः सुवर्णनिर्ज्ञरपरइत्यन्ये । सान्ध्यरागनिभतृवादिति भावः । हेमकूटो नाम हेममयानि कृटानि शिखराणि यस्य स इत्यन्वर्थनामेति भावः । किंपुरुषाणां किन्नराणां पर्वतः देवभूमिरित्यर्थः । किंपुरुषाख्ये खण्डे वर्तमानः पर्वतो वा । तपरिवनां ऋषीणां सिद्धि ? क्षेत्रं तपः पूर्तिस्थानं तपसामितिपाठान्तरं ॥ स्वायम्भुवादिति । स्वायमृभुवात् ब्रहृमपुत्रात् मरीचेर्नाम प्रजापतेः "" जनिकर्तुः प्रकृतिः ’’ इत्यपादानत्वात् पञ्चमी । यः प्रजापतिः कश्यपः प्रबभूवप्रसूतः । ब्रह्मणैव सर्गाधिकारनियुक्तानामन्यतमः कश्यपः । अत उक्तं प्रजापतिरिति । सुराणामसुराणां च क्रमाददितिसुतानां च गुरुः पिता सः सपवत्नीकः अदितृया पतृन्या सहितस्मन् अस्मिन् हेमकूटे तपस्यति तपश्चरति । "" कर्मणो रोमन्थतपोम्यां वर्तिचरोः ’’ इति क्यङ् । "" तपसः परस्मैपदं च ’’ इति वक्तव्यात् परस्मैपदं । सुरासुरगुरुः सोत्रेति क्कचित् पाठः । प्रजापतेरपि तपः स्थानमिति भावः । उदात्तालङ्कारभेदः "" उदात्तं वस्तुनः संपत् श्लराध्यं र्चान्योपलक्षणं ’’ । इति तल्लक्षणं । अनुष्टुप् वृत्तम् ॥ तेन हीति – प्रदक्षिणीकृतृय भवनतं गन्तुमिच्छामीति समृबन्धः । श्रेयांसि महदुपसदनादीति कल्याणानि अनतिक्रमणीयानि । भगवन्तं कश्यपं । प्रथमः प्रकष्टः कल्पः प्रकारः ॥ उपोढेति । रथाङ्गनेमयः चक्रान्ताः उपोडशब्दाः न भवन्ति । स्खलनाभावादप्राप्तघोषा भवनतीति भावः । प्रवर्तमानं प्रसरत् रजश्च न दृश्यते । अभूतलस्पर्शतया दिव्यतया भूतलस्पशार्सभावेन निरुद्वतः अनुलृबणः गतिस्थित्योर्नि ? र्विशेष इत्यर्थः । भूलस्पर्शे हि स्खलनाद्गमनं इति भावः । तव रथः अवतीर्णो हेमकूटमवरूढोऽपि न लक्ष्यते अवतीर्ण इति न ज्ञायते । भूतलस्पर्शे तु गमने शब्दरजसोस्मम्भवात्तुदुपरमे गमनोपरमो ज्ञायेतेति भावः । निरुन्धत इति पाठे नियच्छतस्तवेति योजना । वंशस्थं वृत्तम् ॥ एतावानेव भूतलस्पर्शास्पर्शमात्र एव । विषेषः व्यतिरेक्तः । अ ? विशिष्टस्तु प्रभाव इति भावः ॥ वल्मीकेति । वल्मीके कृमिभिश्चिते मूत्पुञ्जे अर्धंनिमग्रा अवगाढैकदेशा मूर्तिः शरीरं यस्य सः चिराय समाधिनिश्चेष्टया वल्मीकावरणमपि न पश्यतीत्यर्थः । सन्दष्टसर्पत्वचा संश्लिष्टसपंनिमोंकेण उरसा वक्षसा उपलक्षित इति शेषः । कण्ठे जीर्णानां चिरप्ररूढानां लताप्रतानानां लताविठटानां वलयेन मण्डलेन अत्यर्थमतिमात्रं संपीडितः संनद्धः दारुवन्निभूतत्वादिति भावः । अंसव्यापि आस्कन्धलग्बं शुकुन्तनीहैः गुल्मशङ्कया रचितैः पत्रिणां कुलायैः निचितं नीरन्ध्रंजटामझडलं जटावलयं बिभ्रतृ वहन्नसौ मुनिः यत्र यस्मिन् देशे स्थाणुरिंव छिन्नतरुस्कन्ध इव अचलः निभृतः सन् अभ्यर्कबिम्बं सूर्यमण्डलाभिमुखं स्थितः । "" स्थाणु र्वा ना ध्रुवः शंकु ’’ रितृयमरः । स्थागुरपि वल्मीकच्छन्नैकदेशः सर्पत्वक्संवलितः जीर्णलतावलयितः नीडनिचितः शाखादिविरहान्निश्चलश्च भवतीति साधर्म्यं । उपमालङ्कारः । विस्मृतशरीरत्वमनेन व्यज्यते । शार्दूलविक्रीडितं वृत्तम् ॥ कष्टमितरुदष्करं तपो यस्य तस्मै ते तुभ्यं । "" नमः स्वस्ती ’’ त्यादिना चतुथीं । "" नमोस्त्वस्मैः इति पाठान्तरं । धृताः संयताः प्रग्रहाः हयरश्मयः यस्य तं निवृत्तगमनमित्यर्थः । एतौ आवां अदित्या कश्यपपत्न्या परिवर्धिताः स्वयं पोषिताः मन्दारवृक्षाः सुरद्रुमाः यस्मिंस्तं । अत्र मन्दारशब्दः सुरद्रमाणामुपलक्षकः । प्रजापेर्मारीचस्य । अधिकतरं विशिष्टतरं निर्वृतिस्थानं सुखभूमिः । अमृतहदं अमृतमयं सरः अवगाढः प्रविष्ट इव अन्तर्बहिश्च शरोरधातूनामाप्यानादिति भावः । भाविश्रेयोलक्षणं चेदं । भवान् कथं लिङ्करिष्यतीत्यर्थः । मातर्लि पुरस्कृत्य कश् ? यपमुपगन्तुमभिसन्धिरनेन व्यञ्जितः । अवतरामः यन्त्रितत्वादावतर्तुं शक्यमिति भावः । ततश्च राजानुगमनौ चित्यं दर्शितम् ॥ प्राणानामिति । सन्तः कल्पवृक्षाः समीहितसर्वफलदातारो यस्मिंस्तस्मिन् अत्रापि कल्पवृक्षपदेवतरूणामुपलक्षणं । वने हेमकूटारण्ये अनिलेन नभश्चरेण नभस्वता प्राणानां वृत्तिः धारणमुचिता अभ्यस्ता । अमीभिरिति विभक्ति परिणामेनाकृष्ते । काञ्चनपह्मनां हेमतामीरसानां रेगुभिः पवनविक्षिप्तैः परागैः कपिशे पीतवर्णे उपभोगयोग्य इति भावः । अत्र तीये जले धर्माभिवेकस्य नियम स्त्रानस्य क्रिया विधानमुचितेत्युनुषज्यते । रत्नानामेव शिलानां तलेषु उपरिभागेषु ध्यानं समाधिः उचितमिति विपरिण्म्यते । शिलाशब्देन वैपुल्यं रत्नेष्वपि शिलासामान्यग्रहणमेव वीतरागाणामिति च प्रतीयते । वित्नुधस्त्रीणां अप्सरसां यदुपलम्भाय यज्ञादिक्लेशो याज्ञिकादीनामिति भावः । सन्निधौ शुश्रूषमाणानां सविधएव संयमः इन्द्रियजयः उचित इत्यत्रापि विपरिणामः । अन्यमुनयः भौमस्तपस्विनः तपोभिः यमनियमादिक्लेशैः यत् पदं सुखस्थानं काङ्क्षन्ति फलमिति प्राप्तुमिच्छन्ति तस्मिन् स्थाने अमी मुनयस्तपत्यन्ति । "" आब्रहृमभवनाल्लोकाः पुनरावर्तिनोऽर्जुन ’’ इत्युक्तं सर्वसुखानां परिणामविरसत्वं विज्ञाय वीतरागा आत्मारामास्तपस्यन्तीति भावः । सत्यामपि सामग्र्यां भोगांनुत्पत्त्या विशेषेक्तिः । सति प्रतिबन्धके प्रतिबन्धकाभावघटितसामग्रीमन्तरेणैव तपः स्पत्तिरिति विभा वना वेति तयोः सन्देहसङ्करः । शार्दूलविक्रीडितं वृत्तम् ॥ उतृसर्पिणी ऊर्ध्वगामिनी । वृद्धशाकल् येति काश्यपशिष्याणामन्तमस्समृबोध्ये । दाक्षायण्या अदित्या “6 वा नामेधेयस्य ’’ इति वक्तव्याद्वृद्धंसंज्ञायां "” उदोचां वृद्धादगोत्रात् ’’ इति फिञ् । गौरादित्वाद् ङीष् । पत्युरिव व्रतं यासां तासां पतिव्रतानां धर्मं कर्तव्यभाचारं अधिकृत्य विषयीकृत्य । प्रस्तावः स्त्रीधर्मोप देशप्रकरणं प्रतिपाल्यः प्रतीक्षणीयः अवसरः कालः यस्य सः । प्रतिपाल्याऽवसराः खलु मुनय इति पाठान्तरं । इन्द्रगुरवे इद्रस्य पित्रे पुत्रसाह्मकारिणि प्रसदावश्यंभावव्यञ्जनमिदं । अन्तरान्वेषी समयप्रतीक्षः यावद्भवामि भव्रिष्यामि । तावदास्तामिति पूर्वेण वा समृबन्धः ॥ ?B मनोरथायेति ॥ मनोरथाय प्रियाप्राप्तिरूपाया नाशंसे नेच्छामि । अत्र मनोरथविषये मनोरथोपचारः अनसोरथोपचारः अनन्याभिलाषव्यञ्जनार्थः । "" क्रियया यमभिप्रैति सोऽपि सम्प्रदानं ’’ इति वकृतव्याच्चतुर्थी । हे बाहो बअर्थाद्दक्षिणभुज वृथा निष्फलमेव किं कुतः स्पन्दसे प्रस्फुरसि । पूर्वावधीरितं प्रथमनिरस्तं श्रेयः शुभं दुः खंखरूपमेव हि परिवर्तते परिणमति । यद्वादुः खमिति क्रियाविशेषणं । कृच्छ्रेण हि परिवर्तते प्रत्यागच्छतीत्यर्थः । उपस्थितमवसमतं श्रेयः पुनः प्राप्रुं न शक्यमिति भावः । उत्तरार्धेन निमितृतवैयर्थ्यस्य समर्थनात् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः । अनुष्टुप् वृत्तम् ॥ चपलस्य कर्म चापलं । सत्वपीडारूपमविनयमित्यर्थंः । प्रकृतिं स्वभावं सत्त्वावस्कन्दन्यपं गतः प्राप्तः निषिद्धोऽपि न जहातीत्यर्थः । अभूमिः अस्थानं सिद्धिक्षेत्रत्वादिति भावः । कोऽन्वेषः पुण्यक्षेत्रस्थितोऽपीत्यर्थः । शिक्ष्यते अविनयान्निवार्यते । शब्दानुसारेण शब्दागमनामार्गमनुस्तृय । अनुवर्तिष्यमानः अनुपदमनुगम्यमानः । बालस्येव सत्त्वं बलं यस्य स न भवतीत्यबालसत्त्वः बालः वयसैव बाल इत्यर्थः ॥ अर्धेति । मातुस्सिंह्माः अर्धपीतः सशेषं पीतः स्तनो येन तं अर्धपीतमातृस्तनमित्यर्थः । स्तनंधयादिवदुपचारात् स्तन्ये स्तशब्दः । पीतशब्दो वा पीतशब्दो वा पीतक्षीरे लाक्षणिक्रः । आमर्देन पीडने आमर्शेति पाठे स्पर्शेनेत्यत्यर्थः । क्लिष्टाः मूदिताः केसराः सटाः यस्य तं सिंहशिशुं प्रक्रीडितुं मृगमार्जारादिशाबानि वोपकरणीकृत्यविहर्तुं बलात्कारेण हठग्रहणेन कर्षति । अनुष्टुप् वृत्तम् ॥ यथानिर्दिष्अं कर्म सिंहडिम्भाकर्षणरूपं यस्य सः । हे डिम्भजृम्भस्व मुखं व्यादेहि । जिम्म सिङ् य [ जृम्भस्व सिंह ] इति पाठान्तरं । नः ऋषीणामित्यर्थः । अपत्यनिविंशेषाणि पुत्रतुल्यानि सत्त्वानि प्राणिनः । विप्रकरोषि अपकरोषि । हन्तेत्याक्षेपे । ते तव संरम्भः हठप्रवृत्तिः वर्धंते प्रतिषेधेन न शाम्यति । सर्वं दमयतीति सर्वदमनः । ऋषिजनेन अनागतवेदिनेत्यर्थः । ? अस्मिन् बाले उरसा निर्मितः औरसः "" स्वजातेत्वौरसौरस्यौ ’’ इत्यमरः । " दरसोण् च ’ इति साधुः । तस्मिन् पुत्र इव । नूनमिति तर्के । अनपत्यता सन्तानाभावः । वत्सलं स्त्रिग्धं करोति वत्सलयति । लंघयति अभिभवति निवर्तनाय वर्तमानभयप्रदर्शनं । अस्याः केसरिण्याः । हंही इति मिथ्याभयाविष्यकरणं । अधरं दर्शयति अनादरसूचनार्थमिति भावः । "" असूयावेदना 1 ़वज्ञालस्यादिषु विवर्तर्न ’’ इत्युक्तलक्षणं विवर्तने ’’ इत्युक्तलक्षणं विवर्तनास्यमधरकर्मेह ज्ञेयम् ॥ महत इति । अयं बालः महतः उपचयेन पृथूभविष्यतः तेजसः प्रभावस्य बीजं निदानं मे मह्मं प्रतिभाति । कथमिव स्फुलिङ्गावस्थया ? अग्रिकणदशया स्थितः एध इन्धनं इतृयते अनेनेति व्युजत्पत्त्या "" अवौदैधोझप्रश्रथहिमश्रथाः ’’ इति निपातनात् साधुः । तमपेक्षत इत्येक्षत इत्येधापेक्षः वह्लिरिव । उपमालङ्कारः "" तेजसां हि न वयस्मीक्ष्यते ’’ इति न्याथो बोध्यः । यया तनुरपि स्फुलिङ्गो दाह्ममासाद्य महान् भवति तथाऽयमपि बहूभविष्तस्तेजसः कारणावस्थामात्रमिति भावः । तेजस्विन इति व्याख्याने तु बीजमिति वीर्यपरं । अनुष्टुप् वृत्तम् ॥ क्रोडनकं क्राडासाधनं । चक्रवर्तिनः लक्षणं जालग्रथितांगुलित्वादि । न पुनस्तेजोमात्रमितृयपेरर्थः ॥ प्रलोभ्येति ॥ प्रलोभ्यस्य स्पृहणीयस्य वस्तुनः क्रीडनकस्य प्रणया प्रार्थनार्थं प्रसारितः विवृतः ? जालेषु विवरेषु ग्रथिताः संश्लिष्टाः श्रविरला इति यावत् । अङ्गुलयो यस्य सः करः बालहस्तः इद्धरागया दीप्तारुष्यया नवोषसा अचिरोदितप्रभातसन्ध्यया भिन्नं तदातृवोनमीलितं अत एव अवलक्ष्याणि अदृश्यानि पत्राणां दलानामन्तराणि विच्छेदस्थानानि यस्य तत् एकं पङ्कजं पहृमभिव विभाति । नवोषसेत्यनेन प्राभातिकरागसंक्रान्तिरसमग्रविकाश्च व्यज्यते । "" उषः प्रत्युषसी अपि ’’ "" उषः प्रत्युषसी क्लीबा ’’ इत्याद्यभिधानापठात् उषः शब्दस्य नपुंसक्रत्वेऽपि "" उषा वा अश्वस्य मेध्यस्य शिसरः ’’ "" अषा वा अपूव्यां व्युच्छति प्रिया दिवः ’’ हतिकौशीतिकोब्राह्मण ऋग्वेदाद्यनुरोधात् कवेश्च निरह्कुशत्वादत्र स्त्रीकिङ्गप्रयोगः । अत एवभवभूतिरप्याह "" जगद्वन्द्यां देवीमुषसभिव वन्दे भगवतीं ’’ इति । यत्तु नवं उषः यस्यास्तया प्रातः सन्ध्ययेति व्याख्यानं , तच्चिन्त्यं उषः प्रातः सन्न्ययोरविशेषेण प्रातः सन्ध्ययेत्येनेन व्यावर्तनीयाभावात् । अध्याहर्तव्यविशेषनुरोधेन लिङ्गविशेषनिवेशानोचित्यात् । अन्यथा सामान्ये नपुंसकशास्त्रस्य निरवकाशत्वापातादिति उपभालङ्कारः । वंशस्थं वृत्तम् ॥ वाङ्मात्रेण क्रीनकमदत्त्वेत्यर्थः । विरमयितुं सिंहशिशुग्रहणान्निवर्तयितुं । मार्कण्डेयस्य मार्कण्डेयाख्यस्य । ऋषिकुमारपेदनास्यानृषिकुमारत्वं व्यज्यते । वर्णैः वर्णंद्रव्यैः चित्रितः नानारूपः कृतः मूत्तिकामयूरः मृण्मयीमयूरप्रतिकृतिः । अनेनैव तावत् सिंहशिशुनैव सांप्रतं । दुर्ललिताय दुष्टविलसिताय अदान्तायेति यावत् । "" स्नृहेरीप्सितः ’’ इति सम्प्रदानत्वाच्चतुर्थीं । स्वपुत्रत्वाज्ञानान्नेप्सिततमत्वम् ॥ आलक्ष्येति ॥ धन्याः भाग्यवन्तः पुरुषाः अलिमित्तैरकारणै हासैः शैशवसहजैः आलक्ष्याः स्पष्टश्याः दन्तमुकुलाः दन्तांकुराः अचिरोद्भेदेन मुकुलसादृश्यं । येषां तान् अव्यक्तवर्णाः व्यतिकीर्णाक्षराः रमणीयाः मनोज्ञाः वचः प्रृत्तयः शब्दोच्चारणानि येषां तान् . अङ्काश्रये उत्सङ्गासादने प्रणयिनः प्रार्थानावतः तनयान् पुत्रान् वहन्तः दधानाः सन्तः तेषां पुत्राणां अङ्गरजसा क्रीडालग्रेन शरीरपांसुना मलिनीभवन्ति अभततद्धावे च्विः । पुत्रशरीरसङ्गि रजो - मालिन्यमपि महद्भागधेयं "" पुत्रः स्पर्शवतां वरः ’’ इत्युक्तेरिति भावः । स्वभावोक्तिरलङ्कारः । "" स्वभावोक्तितस्तु डिम्भादेः स्वक्रियाद्यभिवर्णनं ’’ इति लक्षणात् । वसन्ततिलकं वृत्तम् ॥ अत्र आश्रमे ऋषिकुमाराणां मध्य इत्यथेः । भद्रमुख सौम्य "" सौम्य भद्रमुखेत्येवं मान्ये राजसुते भवे ’’ इत्युक्तं । दुर्मोचः मोक्तुमशक्यः हस्तस्य ग्रहः ग्रहणं यस्य तेन । डिम्भलीलया बालक्रोडया सत्त्वपीषानभिज्ञतपेति भावः । आश्रमसम्बन्धातृ महर्षिपुत्रेति सम्बोधनम् ॥ एवमिति ॥ एवं अनेन प्रकारेण आश्रमस्य भूतसौहार्दरूपस्याश्रमधर्मस्य विरुत्रवृत्तिना विपर्यस्तव्यापारेण वार्तेनेति पाठे विरुद्धं यथातथा प्रवर्तमानेनेत्यर्थः । त्वया कत्रां उन्मनः स्वोत्पत्तेरेव प्रभृतिसत्त्वानां प्राणिनां संश्रयः आश्रयणीयत्वमेव गुणः उत्कर्षो यस्य तथाभूतोपि संयमः तपः किमिति कुतो हेतोः कुष्णसर्वशिशुना चन्दन इव दूष्यते अपरिग्राह्मतां नीयते । जातमात्रस्य कथमयं कारणविरुद्धव्यापार इति भावः । सत्त्वसंश्रयसुखोपीति पाठं सत्त्वानां संश्रये सुखः अनुकूल इत्यर्थः । अथवा जन्मन इति षष्ठी जन्मनः सम्बन्धीति संयमविशेषणं । रथोद्धता वृत्तम् ॥ अकारसदृशं शरीरसंस्थानानुरूपं चेष्टितं व्यापारः कथयति आकारश्च चेष्टाचेप्युभयमपि नायमृषिकुमार इति दर्शयतीत्यर्थः । स्थानप्रत्ययादाश्रमरूपनिवासादेव हेतोः "" प्रत्ययः शपथे रन्ध्रे विश्वासाकारहेतुषु । प्रथितत्वे च सन्नादावधीनज्ञानयोरपि ’’ इति विश्वासाकारहेतुषु । प्रतिथतत्वे च सन्नादावधीनज्ञानयोरपि ’’ इति विश्वः । एवं तर्कयन्तीत्येवं तर्किणः । यथाभ्यर्थितं तापसी प्रार्थितप्रकारेण ॥ अनेनेति ॥ कस्यापि यस्य कस्यचित् सुकृतिन इत्यर्थः । कुलांकुरेण वंशाभिवर्धनेन मदसग्बद्धेनापीति भावः । अनेन बालेन गात्रेषु अवयवेषु स्पृष्टस्य परामृष्टमात्रस्य मम सुखमानन्द एवं अनुभूयमानप्रकारो न तु निर्वक्तुं शक्यइत्यर्थः । अयं बालः यस्य कृतिनो धन्यस्य अङ्गोत् शरीरात् प्ररूढः जातः तस्य जनस्य कां कीदृशीं निर्वृतिमानन्दं कुर्याज्जनयेत् । "" पुत्नः स्पर्शवतां वरः ’’ इति हरिवंशे । अत्र कैमुत्यप्रतीते रर्थापत्तिरलङ्कारः । उपजातिर्वृत्तम् ॥ उभौ राजानं बालं च निर्वर्ण्य दृष्ट्वा । रूपस्य संवादिनी सदृशीत्यर्थः । आकृतिरवयवसन्निवेशः । अपरिचितस्य इदंप्रथमदृष्टस्यापि अप्रतिलोमः वशंवदः । उपलालयन् उपच्छन्दयन् प्रीणयन्निति यावत् । अथ तर्हि । व्यपदिश्यते व्यवहियते अनेनेति व्यपदेश 3 कुलं । एकान्वयः समानाभिजनः । पौरवाणां पुरुवंश्यानामन्ते भवमन्त्यं वार्धककालिकमिति थावत् । कुलव्रतं कुलधर्मः ॥ भवनेष्विति । ये पौरवा राजानः पूर्वं राज्यकाले सुधासितेषु प्रतिपदनवीकृतेष्वित्यर्थः । भवनेषु प्रासादेषु क्षितेः भूमेः रक्षार्थं परित्राणाय न तु स्वसुखार्थमिति भावः । उक्तंहि रघुवंशे " असक्तः सुखमन्वभूत् ’’ । इति । निवासं स्थितिं उशन्ति इच्छन्ति “6 वशकान्तो ’’ इति धातोः संप्रसरिणं । तेषां राज्ञां पश्चात् राज्यतृयागादनन्तरं नियतं अविप्लुतमेकमविच्छिन्नं यतिब्रतं इन्द्रियजयाभ्यासरूपनियमो येषु तानि तरुमूलानि गृहीभवन्ति तत्रैव गृहबुद्धिः क्रियत इत्यर्थाः । यतन्ते जेतुमिन्द्रियाणि इति व्युत्पत्या वानप्रस्थसाधारणो यतिशब्दः अतश्च पुत्रजन्माविरोधः "” वार्धके मुनिवृत्तीनां ’’ इति रधुवंशे । रसादिकेष्विति पाठे स्पृहणीये ? ष्वित्यर्थः । नियतैकपतिव्रतानीति पाठे । नियतमपरित्यक्तमेकस्य अनन्यापेक्षस्य पत्युर्नाथस्य ब्रतं छायाफलादिभिस्सवाथा रक्षणनियमः यैस्तानीत्यर्थः । तेषां पौरवाणामन्यतमस्य अपत्यं भवितुमर्हतीति भावः । वसन्ततिलकं वृत्तम् ॥ आत्मगत्या शरीरगमनेन । विषयः प्राप्यः । सुकृतविशेषास्तु देवतानुग्रहसहायाच्छरीरावाने लभ्य इति भावः । अप्सरसः भेनकायाः सम्बन्धेन दुहितृत्वरूपेण । प्रसूता पुंत्नं जनितवती । अत्र सूयतेः प्राणिगर्भविमोक्षणार्थस्य कर्मणः धात्वर्थेनोपसङ्ग्रुहादकर्मकत्वेन "" गत्यर्थाकर्मक ’’ इत्यादिना कर्तरि क्तः । इदमप्सरस्सम्बन्धरूपं । द्वितीयं पौरवत्वं पौरवत्वं तु प्रथममिति भावः । आशाजननं इच्छासन्धुक्षणमात्रं । सर्वं ह्मनेकान्तं भवतीति भावः । का आख्या यस्य तस्य किन्नाम्रः रार्षेः पौरवत्वाद्राजर्षिव्यपदेशः । चिन्तयिष्यति नामापि तथाविधस्य चिन्त्यमानं पापायेति भावः । लक्षीकरोति विषयीकरोति । नामतः नाम्रा । यदिः प्रश्रार्थः । तह्मंवगतं स्यादिति वाक्यशेषो वा । परदाराणां स्वदारत्वेनानवधारितायाः स्त्रिया इतृयर्थः । व्यवहारः प्रस्तावः न न्याय्यः अन्यथासिद्धिसम्भवादयुक्त इत्यर्थः । परदारपूच्छाव्यापारो इति क्कचित् पाठः । तह्मनर्हः परदारव्यवहार इति चान्यत्र । मूदो मयूरः मृण्मयूरः हस्ते यस्याः या । शकुन्तस्य मृण्मयरूस्य लावण्यं स्त्रिग्धत्वं यश्येत्यर्थके वाक्ये शकुन्तलापदमादाय कर्हि इति बालस्य प्रश्रः । मातृवत्सलः मातृप्रियः "" वत्सांसाभ्यां कामबले ’ इति लच् । नामधेयसादृश्यानि नामैक्यान्यपि सन्ति पुनः बहुशः सम्भवन्ति । नैतावत् पर्याप्तं निश्चयायेति भावः । मृगतृष्णिका मरीचिकेव नाममात्रस्य अर्थसंवादरहितस्य नाम्रः प्रस्ताव व्यवहारः । विषादाय प्रत्युत खेदाय । यथा न केवलं तृष्तिस्य मृगतृष्णा न तृषं शमयति अपि तर्हि परिभ्रमणश्रममपि सविशेषमावहति तथाऽयं प्रस्ताव उत्कण्ठासंवर्धनेन भूयसे सन्तापाय किं भविष्यतीत्यर्थः । भद्रमयूरकः रमत्या मयूरप्रतिकृतिः "" इवे प्रतिकृतौ ’’ । आदत्ते गृह्माति "" आङो दोऽनास्यविहरणे ’’ इत्यात्मनेपदे । रक्षाकरण्डकं रक्षणार्थमन्त्रसंस्कारनिधानमोषधिः ओषधिगर्भा गुलिका वा । मणिब्रनधे प्रकोष्ठे । अपराजिता भूतादिभिरनभिभव्यतया तथा कृतनामधेया । आत्मानं बालं न गृह्णतिन रपृष्टुमर्हति । भूपितितामित्यनेन हस्तस्थितायाः स्पर्शे न दोष इति व्यञ्जितं । अथ गृह्णति यदि स्पृशति तदा किंस्यादिति शोषः । विक्रिया सर्पत्वेन परिणामः । संपूर्णं सर्वथा संपन्नप्रायमपि । नाभिनन्दामि नाद्रिये । नास्ति हि व्यभिचारशङ्केति भावः । इमं अपराजिताया विकाराभावं । नियमे तपसि व्यापृतायै व्यग्रायै । अभिनन्दयिष्यसि प्रीणयिष्यसि । विवादः विवादः तातो दुष्यन्तो न त्वमित्याक्षेप एव प्रतृयाययति मदपतृयतां निश्चाययति । विकारकाले सर्पतया परिणामहेतूपस्थाने प्रकृतिस्थां अविकृतां । श्रुत्वापि श्रवणानन्तरमपीत्यर्थः । भागधे येषु पतिसमागमादिषु । प्रत्यक्षमवधीरितायाः कथं पतिसङ्गमसुखसम्भव इति भावः । सम्भाव्यते स्यादित्याशास्यते ॥ सवने इति । परिधूसरे असंस्कारमलिने वसने वसाना धारयन्ती नियमेन तपश्चरणेन क्षाममुखी दुर्बलकापोला दुर्बलकपोला धृतैकवेणिः बद्धजटा अत एव शुद्धशीला निर्मलचरित्रा यैषा शकुन्तला निष्करुणस्य निर्दयस्यापि मम विषयो दीर्घंमवधिरहितं विरहव्रतं बिभर्ति । समागमस्यानाशंसनीयत्वाद्दीर्घमेव तपश्चरितुं प्रवृत्तेति भावः । वसन्ततिलका वृत्तम् । औच्छन्दसिकं वा ॥ पश्चात्तापेन विरहानुशयेन विवर्णं विच्छायं । नखल्वार्यपुत्र इव आर्यपुत्रसाधर्म्यं न लक्ष्यत इत्यर्थः । कः अन्यः सुरुषः अकृतरक्षामङ्गलं रक्षाकरण्डकभ्रंशामिति भावः । गात्रसंसर्गेण दूषयति अपत्यस्य हि परपुरुषेणालिङ्गनं भावदोषाद्दूषणं सतीनामिति भावः । रक्षा तु सर्वदोषनिवारणमिति भावः । पकरीयः अस्मदसम्बद्ध इत्यर्थः । त्वयि विषये प्रयुक्तं कृतं क्रार्यं प्रत्यादेशरूक्षत्वमपि अनुकूलपरिणामं सुखपर्यवसानं । प्रतृयभिज्ञातं सोऽयमिति स्मूतं न तु मयेव त्वां विस्मृतमिति भावः । समाश्वसिहि कातरतां त्यज । परित्यक्तमत्सरेण पूर्वविरोर्ध मुक्तवता । आर्यपुत्रः खलु आर्यपुत्र एव । स्वरेण प्रत्यभिज्ञात इति भावः । स्मृ ? तीति ॥ हे सुमुखि स्मृत्या प्रणयस्मरणेन भिन्नं निरस्तं मोहतमः अज्ञानान्धकारः यस्य तस्य मे प्रमुखे अग्रतः दिष्ट्येत्यव्ययं भाग्येनेत्यर्थंः । स्थितासि । तृवथि सन्निहितायां स्मृतिरतीता स्मृत्यां च प्राप्तायां त्वं दुर्लभेति विप्रतिषेधोऽयं देवान्निवृत्त इति भावः । तद्यथा उरागस्य ग्रहणस्य अन्ते अवसाने रोहिणी । शशिनश्चन्द्रस्य योगं सम्बन्धं समुपगता संप्राप्ता । अकस्मत् ककञ्चित् कालं स्मरणतिरोधानमुपरगकल्पं मोक्षकल्पश्च प्रतिबोध इति भावः । दृष्टान्तालङ्कारः । आर्या वृत्तम् ॥ "" समुपगतेवाशु रोहिणी योगमि ’’ ति पाठे उपमालङ्कारः ।गीतिर्वृत्तम् ॥ बाष्पः कण्ठे यस्याः सा । बाष्यनिरुद्वकण्ठीति पाठे बाष्पेण निरुद्वः प्रतिबद्धप्रसरः कण्ठः स्वरः यस्याः सा ॥ बाष्पेणेति ॥ जयशब्दे त्वया वकृतुमुपक्रान्ते बाष्पेण कठरोधिनाप्रतिषिद्धे प्रतिबद्धे सत्यपि मया जितं सर्वोत्कर्षेण स्थितं कृतार्थीभूतमित्यर्थः । यद्यस्मात् कारणादसंस्कारेण यावकरञ्जनादिसंस्कारेण विनापि पाटलं रक्तं ओष्ठपुटं अधरदलं यस्य तत् ते मुखं दृष्टं । प्रोषिते मलिना कृशा ’’ इत्यादिसतीक्षणदर्भंनादयमेव मे जय इति भावः । अत्र जयादिशंषं कारणं विनापि जयरूपकार्योत्पत्त्या असंस्कारपाटलोष्टपुटमिति । च संस्कारादृतेऽपि पाटलिमोत्पत्त्या च विभावनालङ्कारौ । असंस्कारमिति व्यस्तापाठे अनलंकृतमिति मुखविशेषणं । क्कचितृ "" पाटलोष्ठमिदं मुखं ’’ इति अन्यत्र "" पाटलोष्टं मुखं प्रिये ’’ इति च पाठो दृश्यते । "" ओत्वोष्टयोः समासे वा ’’ इति वक्तव्यात् वृद्धिविकल्पः । अनुष्टुप् वृत्तम् ॥ भागधेयानि भाग्यानि पृच्छ । यन्मां पृच्छसि तदत्यिर्थसिद्धं । स्वभागधेयस्य विपर्यस्तत्वानुभवातृ पुत्रभागधेयस्यैव विलसितमिदं यद्भूयः समागम इति शकुन्तलाहृदयं । भागधेयानामेवात्र प्रधानकर्मत्वम् ॥ सुतन्विति । हे सुतनु प्रत्यादेशब्यलोकं मदवधीरणारूपमप्रियं ते हृदयादपैतु अपगच्छतु न स्मर्तव्यमिति भावः । तदा प्रत्यादेशावसरे किमपिश्रज्ञातनिमित्तः अत्र किमित्यव्ययं "" किं प्रश्राक्षेपकुत्सासु तत्रैव च किमव्यं ’’ इति नानार्थरतृनमाला । बलवान् दुष्परिहरः मे मनसः संमोहः अज्ञानं अभूत् । तथा हि । प्रबलतमसां उद्रिक्तमोहानां पुरुषाणां शुभेषु रेयस्सु वृत्तयः व्यवहाराः एवं प्रायाः भूयिष्ठमेतादृशा भवन्ति । यथा अन्धः शिरसि क्षिप्तां लीलया विन्यस्तां स्त्रजं पुष्पमालामपि अहिशङ्क्या सर्पभ्रमेण धुनोति निरस्यति । विकस्वरालङ्कारः । "" यस्मिनिवशेषसामान्यविशेषाः स विकस्वरः ’’ इति लक्षणात् । हरिणी वृत्तम् ॥ सुचरितप्रतिबन्धकं सुकृतविरोधि पुराकृतं पूर्वजन्माचरितं कर्मः दुष्कृतं । परिणामाभिमुखं फलोपधानोद्युक्तं । येनैतदशक्यनिरोधं भवतीति भावः । दुः खभगी दुः खशाली इत्यर्थः । उद्धुतमपनीतं विषादरूपं शल्पं येन तथाभूतः सन् कथयिष्यामि विस्मरणनिमित्तमित्यर्थसिद्धं कर्म । शकुन्लयैव स्वयमंगुलीयकोपलम्भे रसपोष इति राज्ञा निवेदनमनुपक्षिप्तम् ॥ मोहादिति । हे सुतनु ! सुतनु ! पूर्वं प्रतृयादेशादशायां बद्धबिन्दुः आरब्ध पृषतः उपचित इत्यर्थः । अतएव अधरं परिबाधमानः एतनाभिघातादुष्णत्वाच् ? च पीडयन् अनेनाधरस्य कोमलत्वं व्यज्यते । ते त्वदीयः यः बाष्वः मया मीहादप्रतिबोधादुपेक्षितः अकृतप्रतीकारः । अद्य तावत् इदानीमपि आकुटिलेषु ईषदरालेषु पक्ष्मसु विचलग्रं सान्द्रेषु संसक्तं अनिसश्शेषगलितमिति यावत् शीकरस्यानपोहाभिप्रायमिदं । तं बाष्पं प्रमृज्य अपनीय विगतानुशयः पश्चात्तापरहितः भवामि । अज्ञानादननुष्टितस्यावश्यानुष्टेयस्य सति ज्ञाने कार्यान्तराव्यवधानेन करणं हि प्रापतमिति भावः । "" योबष्पबिन्दुरि ’’ ति पाठे "" पुनरुक्तिपरिहाराय यत्पदेन बिन्दोस्तत्पदेन च बाष्पस्य परामर्शाद्वैरूप्यपरिहाराय च बाष्यमिति स्थाने "" ति पाठः सांप्रतः । भवामीति स्थाने "" भवेयं ’’ इति च पाठान्तरं । वसन्ततिलकं वृत्तम् ॥ नाममुद्रां राजनामांकितमंगुलीयकं मार्जनरावसरे व्यक्तमिति शेषः । अनेन अङ्गुलीयकेन विषममयुक्तं । प्रत्यायनकाले विस्त्रग्भनसमये । ऋतुसमवायस्य वसन्तसमागमस्य चिह्नं लक्षणभूतं । प्रतिपद्यतां प्राप्रोतु मत्समागमचिह्लभूतं पुनस्त्वमंगुलीयकं गृह्णष्वेति भावः । अत्र अङ्गुलीयके विश्वासो विस्त्रग्मः । अनेन हि व ? ञ्चितास्मीति भावः । आर्ययुत्रएवेति योऽनेनानुगृहीतोऽसीति भावः । सुहृदा शक्रेण संपादितं समर्पितं अत एव सदु अतृयर्थप्रियं फलं यस्य सः । इन्द्रादेश प्रवृत्तस्यैव हि पुनः प्रियासमागम इति भावः । प्रस्तावादनुस्मृतं पृच्छति । मातल इति । अयं शकुन्तलापरित्यागरूपः न खलु विदितः न ज्ञातः किं । ईश्वराणां लोकातिरिक्तशक्तीनां । अक्ष्णः परं परोक्षं किननाम न किंचिदित्यर्थः । पुरस्कृत्य उपहारवदपग्रे निधाय तवैवाप्सरः सम्भवतया प्रीतिविशेषास्पदत्वादत्मनश्चापराधरिहारर्थतृवादिति भावः । अभ्युदयकालेषु मङ्गलावसरेषु एवमाचरितव्यं सहैव देवतागुरुवन्दनं कर्तव्यम् ॥ पुत्रस्येति । अयं पुरुषः ते तुत्रत्य इन्द्रस्य रणशिरसि देवासुरसमरप्रधानभूमौअप्रयायो अग्रेसरः नेतेति सयावत् । दुष्यन्त इत्यभिहितः प्रख्यातः भुवनस्य लोकस्य सुरवैरिविजयात् सामन्यतो लोकग्रहणा । गोप्ता "" भतें ’’ ति पाठान्तरं । पुत्रवदनुग्राह्म इति भावः । यस्य चापेन धनुषा विनिवर्तितं विरमितं कर्म शत्रुदलन्रूपं यस्य तत् तत् प्रसिद्धं कोटिमत् प्रशस्तधरं शतकोटिपसिद्धेरिति भावः । व्यापराभावादभप्रकोटिमित्यपि प्रतीयते । मधोन इत्द्रस्य कुलिगं वज्रं आभरणं वीरस्य हस्भूषणं भवति।नत्वायुधमिति भावः । गम्यस्य भङ्ग्यन्तरेणाभिधानात् । पर्यायोक्तमलङ्कारः । वसन्ततिलकं वृत्तम् ॥ समृभावनीयः संप्रतिपत्तुं योग्यः अनुभावः प्रभावः यस्याः यस्याः सा । आकृतिः रूपं "" रूपमेवास्यैतन्महिमानं व्याचष्टे ’’ इति श्रुतेः । पुत्रप्रीतेः पिशुनेन सूचकेन सूचकेन पुत्रमित्रतृवादिति भावः । माता च पिता च पितरो "" पिता मात्ना ’’ इत्येकशेषः ॥ प्राहुरिति । यददितिकश्यपरूपं द्वन्द्वं कर्म "" स्त्री पुंसौ मिथुनं द्वन्द्वं ’’ इत्मरः । द्वाद्वशधा ? स्थितस्य तेजसः सूर्यत्य कारणं मातापितृरूपं प्राहुः । अनेन लोकोत्तरं तेजस्वित्वं व्यज्यते । यत् द्वन्द्वं कर्तृ भुवनत्रयस्य भर्तारं यज्ञे भागामः येषां तेषां ईश्वरं देवाधिराजं इन्द्रं सुवुवे जनयामास । यस्मिंश्व द्वन्द्वं आत्मभुवः कमलासनातृ परः प्रकृष्टः पुरुषो नारायणोऽपि भवाय जन्मने आस्पदं स्थानं चक्रे । "" उपेन्द्रत्वेनावततारे ’’ त्यर्थः । दक्षश्च मरीचिश्च सम्भवौ उत्पत्तिहेतू यस्य तत् इदं तत् द्वन्द्वं यथासंख्यमदितिश्च कश्यपश्च स्त्रष्टुः ब्रहृमणः सकाशात् एकान्तर एकेन यथासंख्यं दक्षेण मरीचिना च अन्तरं व्यवधानं यस्य तथाभूतं । अत्र (1) धाता ( 2 ) अर्यमा ( 3 ) मित्रः ( 4 ) विष्णुः ( 5 ) विवस्वान् ( 6 ) पूषा ( 7 ) पर्जन्यः ( 8 ) अंशः ( 9 ) भगः (10) त्वष्टा ( 11 ) इन्द्रः ( 12 ) वरुणः इति द्वादशादित्यानां नामानि । "" श्लाध्यंचान्योपलक्षणं ’’ इत्युक्तलक्षणः उदात्तालङ्कारभेदः । शार्दूलविक्रीडितं वृत्तम् ॥ उभाभ्यामिति क्रियया यमभिप्रैति सोऽपि संप्रदानमिति चतुर्थी । चिरं महीं पालय दीर्घायुरस्खलितैश्वर्यंश्च भवेत्यर्थः । अप्रतिरथः निस्सपत्नः । वां युवयोः ॥ आखण्डलेति । भर्ता दुष्यन्तः आखण्डलसमः इन्द्रतुल्यः सुतः पुत्रः सर्वदमनः जयन्तः इन्द्रसूनुः प्रतिमा उपमानं यस्य सः । ते एवं संपन्नसौभाग्यायास्तव अन्या आशीः आशासनीयान्तरं न योग्या नोचिता पुनरुक्तभावादिति भावः । पौलोम्याः इन्द्राण्याः सदृशी भव । दीर्घकालमुनवृत्तसर्वसौभाग्या भवेत्यर्थः । अनुष्टुप्वृत्तम् । उभे कुले मातापितृवंशौ नन्दयति समृद्धीकरोतीत्युभयकुलनन्दनः । प्रापतिमभितः कश्यपाभिमुखं "" अभितः परितः ’’ इत्यादिना द्वितीया । एकैकं अनुग्राह्मान् प्रतृयेकशः निर्दिशन् लक्षीकुर्वन् ॥ दिष्ट्येति —- साध्वी पतिव्रता शकुन्तला इदं सत् श्लाध्यं अपत्यं पुत्र महाप्रभावत्वादिति भावः । भवान् सिद्धानुभावत्वादविशिष्य निर्देशः । वस्त्रयाणां समागतं समागमः श्रद्धा आस्तिक्यबुद्धिः वित्तं द्रव्यं विधिः शास्त्रविधानं च इति त्रितयं । त्रयाणां समवाय इत्यर्थः । धर्मार्थमेव वः सङ्गतमिति भावः । धर्मपत्न्याा आचरासहायत्वाच्छुद्वासाम्यं । ऋणप्री ? कारादपत्यस्य वित्तसादृश्यं । उभयानुगृहीतस्य प्राधान्याद्विधितुल्यत्वं राज्ञः । "" दिप्ठ्येति ’’ हर्षे । अनुष्टुप् वृत्तम् । अपूर्वः लोकदृष्टविलक्षणः । तदाह — उदेतीति । पूर्व फलोत्पत्पत्तेः प्रथमं कुसुममुदेति लोके उद्भवति ततः पश्चात् फलं कार्यं उदेतीत्यनुज्यते । एवं प्राक् प्रथमं धनोदयः मेघोद्गमः तदनन्तरं पयः वर्षोदकं भवति । निमित्तादागतं नैमित्तिकं निमित्तनैमित्तिकयोः हेतुहेतुमतोः अयं उक्तरूपः क्रमः पोर्वापर्यनियमोस्ति । तव तु प्रसादस्य अनुग्रहस्य हेतुभूतस्य पुरः पूर्वमेव संपदः समीहितसिद्धयः कार्यभूता भवन्ति । प्रथमं पुत्रकलत्नसमागमरूपं फलं प्राप्तस्यैव हि मे सर्वकल्याणनिदापनं भवत्प्रसादो लब्ध इति भावः । अयं कार्यकारणपोर्वापर्यविर्ध्वसो नामातिशयोक्तिभेदः । वंशस्थंवृत्तम् । विधातारः स्त्रष्टारः अनेन पुत्रवत्सलता व्यज्यते एवमनेन प्रकारेण प्रसीदन्ति सिषेविषामात्रेण समृद्धार्थान् पश्चदेवानुगृह्णन्तीत्यर्थः । पश्चात् प्रत्याख्यनानन्तरं ऊढपूर्वां प्राक्परिणीतां अवगतः ज्ञातवानस्मि "" गत्यर्थाकर्मके ’’ त्यादिना कर्तरिक्तः । चित्र विरुद्धमिव ॥ यथेति । यथा समक्षरूपे प्रत्यक्षाकारे वस्तुनि गजे गजो नेति नायं गज इति विपर्ययः विपरीतनिश्चयः स्यातृ कस्यचिद्भवेत् । पुनः तस्मिन् वस्तुनि अतिक्रामति च्क्षुर्विषयमतिगच्छति सति संशयः योयं दृष्टपूर्वंः सगजो नवेति सन्देहः स्यात् । अतिक्रान्तस्य पदानि भूतलन्यस्तानि पादचिह्लानि दृष्ट्वा तु प्रतीतिः गज एवेति तत्त्वनिश्चयः भवेत् , तथाविधः मे मनसः विकारः परिणामः अभूदिति विपरिणम्यानुषज्यते । साक्षादुपनतायां शकुन्तलायां नायं मत्परिग्रह इति व्यतिरेकनिश्चयः दिवमारूढायां च "" कामं प्रत्यादिष्टां स्मरामि न परिग्रहं मुनेस्तनथां । बलवातु दूयमानं प्रत्ययीव मेहृदय ’’ मिति सम्भावनात्मा संशयः । अंगुलीयकं तु विलोक्य परिग्रह एवेत्यन्वयकोटिनिश्चयः इत्येवं कोसमुन्मत्तरयेव चित्तविकारक्रम इति भावः । उपजातिर्वृत्तम् ॥ आत्मापचारशङ्कया स्वापराभयेन । उपपन्नः न्याय्यः । अप्सरसस्तीर्थस्य अवतरणात् अवतारमार्गात् प्रत्यादेशविक्लबां भवतृप्रतिषेधविषण्णां "" प्रत्यक्षवेक्लव्या ’’ मिति पाठे "" साक्षात्कृ ? तविषादा ’’ मित्यर्थः । आदाय सानुमत्युपनीतां गृहीतृवा । दुवसिः शापात् "" विचिन्तयन्तीयमनन्यमानसा ’’ इत्यादिरूपात् । सचायं शापः । अंगुलीयकस्य दर्शनमेव अवसानं अवधिर्यस्य सः । सोच्छ्वासं ससमाधानं । एषः शापपराधीनोऽहं वचनीयात् दोषात् । सखीभ्यां अनभूया प्रियंवदाभ्यां । वि ? दितः ज्ञातः अर्थः दुर्वासः शापरूपः परमार्थः यया सा । "" चरितार्थेति ’’ पाठान्तरं । सह धर्मचारिणं भर्तारं प्रति मन्धुः प्रत्यादेशरीषः ॥ शापादिति । भर्तरि शापातृ हेतोः स्मृतिरोधेन प्रत्यभिज्ञाप्रतिबन्धेन रूक्षे परुषे सति प्रतिहता नाभिनन्दिताऽसि । अपेततमसि अपगतव्यामाहेहे सति तदैव प्रभुता एश्वर्यं तवैवमिति पाठान्तरं । मलेन उपहतप्रसादे नाशितनैर्मल्ये दर्पणतले छाया प्रतिबिम्बं न मूर्छति नसंक्रामति " विभाति नमलोपहतप्रसाद ’ इति पाठान्तरं । शुद्धे अपनीतमले तु सुलभः । अवकाशः प्रवेशो यस्याः सा भवति । यथा ययोदवातादिना मालिन्ये सति शुद्धमपि दर्पणं बिम्बग्रहणासमर्थं भवति तथा शापदूषिते भर्तुरात्मनि न विषयीभूतासीति नैष पुरुषदोषः येन मन्योर्न स्थानमिति भावः । वसन्ततिलकं वृत्तम् । यथेति नान्यतृ प्रतृयादेशनिमित्तमित्यर्थः । खलु यतः । अत्र शकुन्तलाथामेव । वंशस्य प्रतिष्ठा स्थितिः सन्तानलाभादिति भावः । बालं हस्ते गृह्णातीत्यधिकपाठे अत्र बाल इत्यर्थः ॥ रथेनेति । अयं ते पुत्रः अप्रतिरर्थः निस्सपत्नः सन् अनुत्खातेन व्योमयानादस्खलिततया स्तिमिता निश्चला गतिर्यस्य तेन रथेन तीर्णजलधिः अतिक्रान्तार्णवः सन् सप्तद्वीपां वसुधां कृतृस्नमेव भूतलमित्यर्थः । पुरा जयति जेष्यति "" यावत्पुरानिपातयोः ’’ इति भविष्यदर्थे लट् । इह आश्रमे तत्त्वानां सिंहादीनां प्रसभदमनात् बलादवमर्दनाद्धेतोः सर्वदमनः सर्वदमपाख्यो जातः पुनः हतः परं लोकस्य भरणातृ परिपालनाद्भरत हत्याख्यां यास्यति प्राप्स्यति । बिभर्त्तीति भरतः भूञ औणादिकस्तप्रतृययः । शिखरिणी वृत्तम् ॥ कृतः संस्कारो जातमकर्मादिः यस्य तस्मिन् । सर्वं श्रेयः आशंसामहे सम्भावयामः । मनोरथसंपत्तेः अभीष्टसिद्धेः श्रुतविस्तारः विदितप्रकारः । श्रुतमनोरथसंपत्तिविस्तार इत्यर्थः । अत्रैव तिष्ठति न पृथक्सन्देशमर्हतीति भावः । भगवत्या अदित्या । अनभिकुद्ध अन्यथा हि शप्तवान् स्यादिति भावः । "" क्रुधद्रुहोरुपसृष्टयोः कर्म ’’ इत्यतो द्वितीया । तथापि विदितत्वेपि प्रियं दुहितृ कुशलरूपमिष्टं प्रष्टव्यः अनुयोक्तव्यः । "" प्रियसमभियोगः सन्देष्टव्यः ’’ इति पाठान्तस्म् । समभियोगो वृत्तान्तः ॥ तवेति ॥ बिडति भिनत्तीति बिडं "" इगुपधज्ञाप्रीकिरः कः ’’ । तदोजः तेजो यस्य सः बिडौजाः इन्द्रः तव प्रजासु विषये प्राज्यवृष्टिः प्रभूतवर्षणः भवतु । त्वमपि विततयज्ञः विस्तृताध्वरः सन् स्वर्गिणः देवान् अलमत्यर्थं भावय आराधय "" प्रीणय ’’ इति पाठान्तरं । एवं उभयोर्लोकयोः द्यावावृथिव्योः अनुग्रहेण परिपोषेण श्लाघनीयैः अभिनन्दनीयैः अन्योन्यकृत्यैः वर्षणयजनरूपैः युगशतानां परिवर्तान् पर्यायान् नयतं गमयतं । इन्द्रवतृ तृवमपि स्वैः सुकृतैरायफरैश्वर्यमविकलं प्राप्रुहीति भावः ॥ "" देवान्भावयतानेन ते देवा भावयन्तु वः । परस्परं भावयनतः श्रेयः परमवाप्स्यथ ’’ इति भवद्गीता । रघुवंशे च "" दुदोह गां सयज्ञाय सस्याय मघवा दिवं । संपद्विनिमयेनोभौ दघतुर्भुवनद्वयं ’’ इति । अन्योन्यलङ्कारः । मालिनीवृत्तम् । श्रेयसे देवताराधनादिपमुक्तं कर्तृं । भूयः इतोप्यधिकं उपहरामि वितरामि । भरतवाक्यं नटवचनं समाप्तकृत्येन नटेन वक्तव्यमाचारप्राप्तं प्रशस्त्यारूयं निर्वंहणसन्धेरङ्गं । "" प्रशस्तिः शभशंसनं ’’ इति लक्षणात् ॥ प्रवर्ततामिति ॥ पृथिव्या ईश्वरः पार्थिवः प्रकृतीनां प्रजानां हिताय सुखाय प्रवर्ततां प्रयततां । श्रुत्या शास्त्रश्रवणेन महतां पूज्यानां विद्यावृद्धानां कवीनामित्यर्थः । "" श्रुतिमहिते ’’ ति पाठे सरस्वतीविषेषणं । "" श्रुतमाहता "" मिति च पाठान्तरं । सरस्वती सूक्तिः महीयतां पूज्यतां "" महिङ् पूजांया ’’ मिति धातुः । अपि च परिगतशक्तिः सर्वतो व्याप्तप्रभावः सर्वातृमत्वादिति भावः । पार्वत्येव शक्तिपदार्थ इत्यन्ये तदा प्राप्तशक्तिक इत्यर्थः । आत्मना भवतीत्यात्मभूः । अनन्यहेतुकः नित्यइति यावत् । नीललीहितः कण्ठे नीलः शेषांगे च लोहितो महेश्वरः गौरीभागे नीलः अन्यत्र लोहितोवा । मम पुनर्भंवं पुनर्जननं क्षपयतु दूरीकरोतु मोक्षं ददत्वित्यर्थः । रुचिरा प्रभावती च । मतभेदेनवृत्तम् ॥ इति अभिज्ञानशाकुन्तव्याख्यायां सहृदयसमाख्यायां सप्तमोऽङ्कः । शाक्या गम्यमकुण्ठमार्गममलं दीप्तार्थजातोज्जवलं श्लिष्टं शब्दगुणश्रिया नवरसासारप्रसारास्पदम् । काव्यं यत् कविवेधसो बुधगुरोर्वागीश्वरादागतं तद्व्योमेव न मीयते वितरति स्थानं च वाचां पुनः ॥ स्त्रोतोभिस्तटिनीवया नवनवैः शब्दार्थयोगैर्जगत् सिञ्चन्ती रसवेदिभि श्चरतरं तृष्यद्भिरापीयते । तीरक्षोभवेदव तां कविमणेर्विक्षोभयन् भारतीं क्षान्तेरेव कषोपलोगुणवतां व्याख्यापराधो मम ॥ मद्व्याख्यानं यदिह विगुणं नैष दोषो नवो मे श्लाघा सैषा यदि गुणलवः क्कापि दृश्येत सद्भिः । इत्थं धीरव्यवसितिरहं साहसेऽस्मि प्रवृत्तो बालः श्रेयान् पदमपि वदन न स्खलन् द्षणाय ॥ ॥ शुभमस्तु ॥ _____________________ ]