[[इन्द्रः Source: EB]]
[
॥ इन्द्राय-स्वाहा ॥
सर्व भूतेषु तल्लीनम् । सृष्टिस्थिति लयालयम् ।
सौरम्महः सदा भक्त्या । वन्दे चैतन्यकं महत् ॥
(नान्द्यन्ते)
सूत्रधारः – तत्र भवन्तः रसिकाः कलाभिमानिनः अद्य वयं इन्द्राय-स्वाहा नाम नाटकं प्रदर्शयितुं समुत्सुकास्मः ।
नटी – (प्रविश्य) आर्य ! नाटक प्रदर्शनार्थं रङ्गमञ्चः यथोचितं यथोक्तं समलङ्कृतः विद्यते । समारम्भोयं उपक्रम्यताम् ।
सूत्रधारः – तिष्ठतावत् किञ्चित् कालम् ।
नटी – किमर्थं विलम्ब्यते ।
सूत्रधारः – प्रथमतः कविपरिचयः कर्तव्यः ।
नटी – सविस्तरं कथय ।
सूत्रधारः – अयं कविः सर्वतोमुख साहित्यसृष्टिं विधाय विंशतितम शताब्दे गीर्वाणभारतीं प्रजाभारतीं चक्रे ।
नटी – कथमयं प्राचीन कथावस्तु केवलं विलिखितवान् ।
सूत्रधारः – अस्ति कारणम् । यतः ।
प्राचीनं शाश्वतं सत्यम् । नवीनं हृदयङ्गमम् ।
ततः प्राच्य कथावस्तु । नावीन्ये रचितं प्रियम् ॥
नटी – अयं कविः प्राचीननवीनसङ्गमं कृतवान् किम् ?
सूत्रधारः – अयं प्राचीन नवीन साम्प्रदाय मेलने सेतुरूपः जातः । अयं भारतीय परम्परार्चकः, संस्कृत भाषाभिमानी च ।
नटी – अस्मिन् सर्वसङ्कर विंशतितमे शताब्दे पद्मपत्र स्थितवारिबिन्दुरिव जीवनं यापयन् गीर्वाणवाणीसेवारतो जातः अयं कविः । तस्मादहं बहु प्रमुदितास्मि । कर्तव्यमादिश्यतां देवः ।
सूत्रधारः – रसिकान् प्रतोषयितुं किश्चित् गीयताम् ।
नटी – आर्य । एतत् गायनस्य स्थानं भवति ।
सूत्रधारः – हञ्जे । त्वं न जानासि । अयमेव योग्यः कालः यतः प्रत्यूष पवनाङ्कुराः मन्दं मन्दं प्रवहन्ति ।
नटी – अधुना सूर्यपुत्रः कर्णः प्रसुप्तः अस्ति । तस्मात् अयं कालः योग्यः नहि । मदीयगानेन तस्य निद्राभङ्गः भविष्यति ।
सूत्रधारः – प्रिये अयमेव पवित्रकालः यतः कर्णस्य पिता लोकचक्षुः सप्ततुरग रथाधिष्ठितः लोकं पवितुं समायाति ।
नटी – हां सत्यमेव । कं विषयमुद्दिश्य केन रागेण गातव्यम् ?
सूत्रधारः – भूपालरागे कर्णं प्रबोधयन्ती सूर्यं स्तुवन्ती गायस्य ।
नटी – शृण्वन्तु भवन्तः ।
निद्रोत्थिताः सर्वदिशश्च सूर्यम् । विलोक्य सप्ताश्व रथोपरिस्थम् ।
महोज्ज्वलैः तस्य हिरण्यरुग्भिः । प्रक्षालिताः भान्ति तनुप्रकाशैः ॥
सूत्रधारः – अहो ते कविता सौन्दर्यं गान माधुर्यं च अपरूपं अद्वितीयम् भवतः ।
नटी – आर्य । सूर्यः क्षिप्रं विसर्पति गगनमण्डलं एहि करणीयेषु मग्नौ भवेव । (इति गच्छतः)
(शय्यायां कर्णः स्वपिति सूर्यः तस्य पादसन्निधौ तिष्ठति)
कर्णः – (ससम्भ्रमं उत्थाय अक्षिणी प्रमार्ज्य) कोऽस्ति भवान् ।
सूर्यः – अहं आदित्योऽस्मि ।
कर्णः – (सहसोत्थाय) भगवन् ज्योतिषाम्पते अभिवादयेऽहम् । (इति नमस्करोति । उपविष्टुं पीठं ददाति सूर्यः उपविशति)
नमस्ते देवदेवेश । कर्मसाक्षी त्रयीतनो ।
किमर्थम्मागतोसित्वम् । नाकलोकात् प्रियं भण ॥
सूर्यः – (विहस्य अपि कुशलं ते ।)
कर्णः – अयि तेजस्विन् । आरोग्यक्षेमकल्याण कारकेण भवता सर्व लोकोऽयं चाल्यते पावनं क्रियते । अनामयं किमुत मद्विषये ।
सूर्यः – कर्ण ! त्वं न जानासि ममागमन कारणम् ।
कर्णः – भगवन् । महौजसां युष्मादृशानां भावना, अस्मादृशानां लौकिकानां कथमनुमेया भति)
सूर्यः – हृद्गत भावनां प्रकटयितुमेव समागतोऽस्मि ।
कर्णः – अहं सन्नद्धोऽस्मि कथयतु भवान् ।
सूर्यः – कर्ण । शृणु ते जन्मरहस्यम् ।
कर्णः – जन्म सहजं भवति । रहस्यं किं विद्यतेऽत्र ।
सूर्यः – अस्ति ।
कर्णः – लौकिकानां अविदितं अलौकिकानां विदितं भवति ।
सूर्यः – कर्ण शृणु, त्वं मे सुतः असि ।
कर्णः – अहं, कथं तव सुतः, महाभाग ।
सूर्यः – कर्ण ! सौहृदादहं ब्रवीमि शृणु ।
कर्णः – अवहितोऽस्मि भगवन् ।
सूर्यः – एकदा दुर्वासाः कुन्तिभोज गृहं समायातः ।
कर्णः – परिव्राजकानां अयं सहजः ।
सूर्यः – भोजकन्या कुन्ती दुर्वास सम्भक्त्या पूजयामास ।
कर्णः – भारतीयानां विशेषतः स्त्रीणां मुनिपूजनं योग्यः । ततस्ततः ।
सूर्यः – स मुनिः तुष्टः तस्यै सूर्यमन्त्रं उपदिष्टवान् ।
कर्णः – साधुकृतम् । ततस्ततः ।
सूर्यः – गङ्गायां स्नास्यन्ती कुन्तीकन्या चापल्यात् अरुण गभस्तिबिम्बं प्रार्थयामास । तेन मन्त्रोच्चारणेन अहं तस्याः सकाशं समागतः आसम् ।
कर्णः – ततस्ततः ।
सूर्यः – तदा तस्यै पुत्रदानमकरवम् । स एव पुत्रः त्वं मदीयः ।
कर्णः – भगवन् । त्वदीय वदनारविन्दात् निसृतां छन्दोमयीं वाणीं शृत्वा मे भवत्याश्चर्यम् ।
सूर्यः – सर्वमेतत् सत्यम् । तस्मात् त्वं कानीनः ।
कर्णः – भगवन् । ज्ञातमधुना मया मे जन्मवृत्तान्तविशेषः । अधुनात्रागमन प्रयोजनं किम् ।
सूर्यः – शृणु । पुत्रप्रेम्णा कथयामि ।
कर्णः – निवेदयतु भवान् ।
सूर्यः – शक्रः त्वां वञ्चयितुं समागमिष्यति ।
कर्णः – मां वञ्चयितुम् ? मां वञ्चयित्वा शक्रः किं प्राप्स्यति ।
सूर्यः – शृणु !
उपयास्यति शक्रस्त्वाम् । पाण्डवानां हितेप्सया ।
ब्राह्मणच्छद्मना प्राप्तुम् । भवतः कर्णकुण्डलौ ॥
कर्णः – शक्रः मां याचितुं कर्णकुण्डलौ आगच्छति ?
सूर्यः – हां शक्रः ।
कर्णः – अहो मे भाग्यम् ।
सूर्यः – तथा मावद त्वं न जानासि ।
कर्णः – एतत् मे भाग्यं जानामि ।
सूर्यः – एतत् ते भाग्यं नहि ।
कर्णः – कथं नहि
सूर्यः – एतत् ते दौर्भाग्यं अस्ति ।
कर्णः – कथम् ।
सूर्यः – कर्ण । ते दौर्बल्यं त्वं न जानासि ।
कर्णः – किं तत् दैर्बल्यम् ।
सूर्यः – त्वं तव दानगुणेन मृत्युं क्रीणासि ।
कर्णः – तत् कथम् ।
सूर्यः – शृणु ।
तवशीलं विदितं सर्वैः । याचसे नत्वं कदापि च ।
किन्तु त्वं भिक्षितः सद्भिः । ददास्येव सदा प्रियम् ॥
एवंविधं त्वां ज्ञात्वा, स्वयं पाकशासनः
कुण्डलार्थाय कवचं चैव भिक्षितुं आगन्ता ।
कर्णः – यदि एतत् सत्यं भवति तर्हि ।
धन्योऽस्मि जातः खलु भूतलेस्मिन् । सान्तत्य दानेन महीसुराणाम् ।
क्रीणामि सत्यं बहुपुण्यराशिम् । अतः प्रियं किं भवतीह देव ॥
भगवन् लोके याचनं दानं च सहजातौ । तौ अन्योन्याश्रयौ भवतः ।
सूर्यः – तस्मादहं वच्मि त्वया तस्मै प्रयाचनाय कुण्डले न देये ।
कर्णः – किमस्ति दोषः अत्र ।
सूर्यः – विद्यतेऽत्र दोषः । तात कुण्डलार्थे ब्रुवन् । अन्यैः बहुविधैः वित्तैः त्वां शक्रः विमोहयिष्यति । त्वया सः निवार्यः ।
कर्णः – ततस्ततः ।
सूर्यः – रत्नैः स्त्रीभि स्तथागोभिः । बहुधैः सकलैर्धनैः ।
कुण्डलेप्सुः समायाति । कर्ण त्वां मघवा ध्रुवम् ॥
कर्णः – ततस्ततः ।
सूर्यः – यदि दास्यसि कर्ण त्वम् । सहजे कुण्डले शुभे ।
क्षीणायुः सपदङ्गत्वा । मृत्योर्वशमवाप्स्यसि ॥
कर्णः – आश्चर्यमेतत् ।
सूर्यः – कर्ण कवच कुण्डलाश्यं समायुक्तः त्वं रणे अरीणां अवध्यः भविष्यसि । मम वचः विद्धि ।
कर्णः – किं कर्तव्यम् ।
सूर्यः – तस्यात् कर्ण ते जीवितम् प्रियं चेत् तत् जीवितं त्वया रक्ष्यम् ।
कर्णः – भगवन् सूर्य । अहं ते प्रियः अस्मि । किन्तु अस्मात् व्रतात् न निवार्यः अहंम् । इदं मे भाग्यं जानामि ।
अत परं नास्ति बृहत्तमं भुवि । यतः स्वयं सो मघवाभ्युपेत्य माम् ।
लघुश्च भूत्वा मम सन्निधौ प्रियम् । नतो ह्रिया वस्तुचयं प्रयाचते ॥
सूर्यः – पुत्र, एवं मा भण ।
कर्णः – भगवन् अनेन जीवितेन लोके कीर्तिं वृणोमि ।
सूर्यः – कीर्तिमान् लोके किं अश्नुते ।
कर्णः – भगवन् । कीर्तिमान् स्वर्गं अश्नुते । हीनकीर्तिः नश्यति । कीर्तिः मातृवत् लोके पुरुषं सञ्जीवयतु । नरस्य कीर्तिः आयुः । कीर्तिः परलोके पुरुषस्य परायणं भवति ।
सूर्यः – कीर्त्या ते किं भवति ।
कर्णः – कीर्तिः आयुर्विवर्धिनी भवति । तस्मादहं शरीरजे ब्राह्मणेभ्यः दत्वा शाश्वतीं कीर्तिं प्राप्स्यामि ।
जित्वा परान् गर्वपरान् प्रकामम् । हुत्वा शरीरं परवीरयुद्धे ।
प्राप्स्यामि लेके विमलां प्रसिद्धिम् । आचन्द्र तारार्कमनन्य कीर्तिम् ॥
जीवितेनापि मे कीर्तिः रक्ष्या । तत् मे व्रतं विद्धि । अहं मघवते भिक्षां दत्वा देवलोके परां गतिं गमिष्यामि ।
सूर्यः – (स्मितङ्कृत्वा) कर्णम् । कीर्तिः पुरुषस्य जीवितसाध्वी भवति । मृतस्य कीर्त्या किं कार्यम् । मृतः कीर्तिं न जानीते । जीवन् कीर्तिं नसमश्नुते । मृतस्य मर्त्यस्य कीर्तिः गातायुषः माला इव भाति ।
कर्तव्यः परमो धर्मः । धर्मान्नान्योऽस्ति भूतले ।
कानीन त्वं विजानीहि । काकीर्तिः किन्नु शाश्वतम् ॥
कर्णः – भगवन् त्वं मां विलोभयसि भवदीय मायावादेन ।
सूर्यः – कर्ण न विलोभयामि । किन्तु सत्यं कथयामि ।
कर्णः – अहमपि सत्यं कथयामि मार्ताण्ड ।
सूर्यः – कन्यकाजात । अत्र विद्यते किञ्चित् देवनिर्मितम् । देवगुह्यं त्वया ज्ञातुं नशक्यम् । तस्मात् ते गृह्यं नाख्यामि । तत् भवान् काले वेत्स्यति ।
कर्णः – भगवन् । भवान् सर्वशक्तिमान् । किं एवं ब्रवीति ।
सूर्यः – महाद्युते । त्वं कुण्डलाभ्यां शोभसे । भिक्षिते वज्रपाणौ ते कुण्डलो न दातव्यौ । कर्ण, पुरन्दरस्य बुद्धिं त्वं अपनुद ।
कर्णः – एवं करणं न मे शक्यं भवति ।
सूर्यः – त्वं नित्यं सव्यसाचिना स्पर्धसे । इह युधि शूरः सव्यसाची त्वया समेष्यति ।
कर्णः – युधि कवचकुण्डलैः किं प्रयोजनम् ।
सूर्यः – कवचकुण्डलैः किं प्रयोजनं इति ब्रूते श्रृणु ।
कुण्डलान्वित वीरं त्वाम् । इन्द्रोवा फल्गुनोऽपिवा ।
नशक्तो युधि जेतुं च । तस्मात् देयौ नते सुत ॥
मे हित वाक्यान्येतानि त्वं श्रृणु ।
कर्णः – तिग्मांशो । मां त्वं रक्षितुं प्रयतसे । नकापि भीतिः विद्यते मे ।
रणेऽर्जुनं विजेष्यामि । भीतिर्नास्ति ममाहवात् ।
बिभ्येहं अनृतान्नित्यम् । किन्तु मृत्योर्नहि प्रभो ।
सूर्यः – भवान् अरीन् कथ जेष्यति ।
कर्णः – भवान् न जानाति । ममास्ति खलु महत् अस्त्रबलं यत् उपात्तं द्रोणात् जामदग्न्याच्च । इन्द्रं अनुजानीहि सुरश्रेष्ठ । भिक्षिते वज्रपाणौ आत्मनः जीवितमपि दद्यां इदं ममव्रतम् ।
सूर्यः – कर्ण । त्वं मम वाक्यं तृणीकरोषि । तत् सर्वथा सत्यं भाति । यतः ।
सम्प्राप्ते मृत्यु कालेतु । बुद्धिनाशो भविष्यति ।
हितमप्यहितं भाति । मित्रं शत्रुर्भवत्यहो ।
तात ! यदि वज्रिमे कुण्डले ददासि त्वं युद्धे अर्जुनेन अवश्यं विनाशं प्रापितः भविष्यसि । तदर्थमेव दानव सूदनः ते कुण्डले जिहीर्षति । यदि त्वं कुण्डले वर्म दास्यसि तर्हि अमित्र निबर्हिणीं शक्तिं अमोघां मे देहीति पुरन्दरम् अभ्यर्थय । एनं उपायं ते कथयाम्यहम् ।
कर्णः – साधूक्तं भवता भगवन् ।
सूर्यः – एतादृशेन भावेन । यदि त्वं कर्णकुण्डले ।
दद्याः शक्राय युद्धेऽस्मिन् । तया शत्रॄन् हनिष्यसि ॥
कर्णः – अभिवादये गभस्तिमान् ।
सूर्यः – भद्रं ते भवतु । (इति गच्छति)
कर्णः – (आत्मगतम्) इन्द्राय कवचकुण्डलानि दत्वा तस्मात् शक्तिं प्राप्य तया अर्जुनं हनिष्यामि (इतिगच्छति)
(यवनिकापतति)
**********************************************************************************
.
द्वितीयं दृश्यम्
(एकाकी शय्यायां उपविश्य आत्मगतम्)
कर्णः – अहो लोकबान्धवः भगवान् सूर्यः पुत्रप्रेम्ना मे समक्षं समागत्य सर्वं सविस्तरं उपदिष्टवान् । धर्मस्तु बलवत्तरः । देशप्रतिष्ठा गौरवश्च धर्मे प्रतिष्ठितौ । यदि महारथिनः धर्मभ्रष्टं कुर्युः तर्हि भव्य भारतं अस्मान् विनिन्दिष्यति । तत् अयोग्यं भवति । वयं मर्तारः किन्तु देशप्रतिष्ठा शाश्वती भवति । स्वार्थाय देशगौरवं नाशयितुं अहमसमर्थः । धर्माद्भिन्नं न कर्तव्यं इति कृत निश्चयोऽहम् । त्यागेन यशश्वी भवेयम् । त्यागेन अनश्वररूपां कीर्तिं लभेयम् । कः कोऽत्र भोः । (इति आह्वयति)
प्रतीहारी – (शस्त्रकटिः प्रविश्य) अहमस्मि आज्ञापयतु महाराज। (इति नतमस्तकः भवति)
कर्णः – मे सारथिं शल्यं आह्वय ।
प्रतीहारी – यथाज्ञापयति भवान् । (इति नत्वा गच्छति ततः प्रविशति शल्यः)
शल्यः – महाराज नमांसि । (इति नमस्करोति)
कर्णः – एहि सारथे । उपविश । (इति पीठं ददाति । शल्यः उपविशति पीठे)
शल्यः – महाराज ! को विशेषः विद्यते, अद्य प्रभाते केवलं आहूतोऽस्मि ।
कर्णः – अस्ति विशेषः ।
शल्यः – कथयतु ।
कर्णः – शृणु ।
शल्यः – अवहितोऽस्मि ।
कर्णः – अद्य प्रभाते अधुना भगवान् सूर्यः मे समक्षं समागत्य जन्मरहस्यं कथयित्वा गतवान् ।
शल्यः – अप्यस्ति जन्मविशेषः ?
कर्णः – अस्ति ।
शल्यः – महापुरुषास्सर्वं विशेष जन्मानः ।
कर्णः – सत्यमेव सर्वोऽपि जानाति जन्मनाऽहं कवचकुण्डलैः समन्वितः इति ।
शल्यः – सर्वोऽपि जानाति ।
कर्णः – कवचकुण्डलौ मम जीवन रक्षकौ इति सूर्येण प्रबोधितः ।
शल्यः – विषयमेनं शृत्वा मे महदानन्दं भवति यतः भवान् शस्त्रास्त्र सम्पदा परिभूषितः, अपिच जीवन रक्षकैः कवचकुण्डलैः परिपूर्णः इति ।
कर्णः – सत्यं ब्रवीति भवान् । जामदग्न्यात् बहु शस्त्रसम्पदं प्राप्तोऽस्मि । द्रोणाचार्यशिष्यत्वे बहु शस्त्रसम्पदं प्राप्तवानस्मि ।
शल्यः – भवान् अधुना पाण्डव जेता भविष्यति ।
कर्णः – नास्ति संशयलेशः । अहं त्वदीय सारथ्येन मम शस्त्रास्त्र बलेन अमूभ्यः कवचकुण्डलैः अवश्यं पाण्डव जेता भविष्यामि ।
शल्यः – वयं भद्राणि द्रक्ष्यामः ।
कर्णः – अहं मे आप्तमित्राय सुयोधनचक्रवर्तिने समस्त धरावलयं जित्वा उपायनमिव दास्यामि ।
शल्यः – महाराज ! प्रफुल्लितेयं भावना । भवतां मनोरथसिद्धिः अवश्यं भविता । कुरुवृद्धः पितामहः तथा शरतल्पगतः अभूत् । गुरुः द्रोणः तथा व्यापादितः । एतावत्पर्यन्तं महाभारत युद्धे पञ्चदश दिवसाः व्यतीताः भीष्मद्रोण सेनाधिपत्ये । तदनन्तरं योग्यः सेनाधिपतिः भवानेव ।
कर्णः – शल्य । तव सारथ्येन मम शस्त्रास्त्र सम्पदा यत् भीष्मद्रोणाभ्यां न साधितं तदहं साधयिष्यामि ।
शल्यः – भवान् अवश्यं साधयिष्यति ।
कर्णः – मे मित्रं सुयोधनः समस्त धरातलस्य शासकः भविष्यति । बहुकालानन्तरं मे अनुकूलः समयः सम्प्राप्तः ।
शल्यः – अवश्यं भवान् पाण्डवजेता भविता ।
कर्णः – अहं एतावत्पर्यन्तं मम त्यागेन दानेन लोकप्रसिद्धः अभवम् । इतः परं अयं कर्णः अर्जुन जेता इति प्रख्यातिं प्राप्स्यति ।
शल्यः – भवतः वदनारविन्दात् प्रसृतं वाक्चयं शृत्वा अहं प्रफुल्लितः भवामि ।
कर्णः – अत्र विद्यते किञ्चित् अधर्मप्रवृत्तिः ।
शल्यः – केयं प्रवृत्तिः ।
कर्णः – मदीय शस्त्रास्त्रबलं कवचकुण्डलानि विलोक्य शक्रः ईर्ष्यायुतः भूत्वा ब्राह्मणरूपे अभ्यर्थयितुं आगमिष्यति । त्वं तस्मै मायच्छ इति च जगाद भगवान् सूर्यः ।
शल्यः – भवान् मा यच्छतु ।
कर्णः – तत् कथं भविष्यति । यदि सः आगत्य ब्राह्मणवेषे मामभ्यर्थयति अवश्यं दातव्यं अस्ति ।
शल्यः – अहं वच्मि, भवान् विना च कवचकुण्डलानि अन्यत् दास्यामीति प्रार्थयतु ।
कर्णः – तथा कथनं कर्णस्य शोभां नावहति ।
शल्यः – असत्यभाषणं पापं न भवति ।
कर्णः – तथा मावद ।
शल्यः – प्राणावसान समये असत्यभाषणं पापं न भवति इति शास्त्र प्रमाणम् ।
कर्णः – स्वार्थाय असत्यभाषणं पापमेव भवति ।
शल्यः – राजतन्त्रे पापकर्म किं पुण्यकर्म किम् ।
कर्णः – स्वार्थाय साधयित्वा जनाः चिरञ्जीविनः भविष्यति किम् ।
शल्यः – नहि । किन्तु अन्ततः सर्वमपि शून्यं भवति ।
कर्णः – तस्मात् अकीर्तिकरं कर्तुं नोत्सहे ।
शल्यः – का कीर्तिः । का अकीर्तिः । द्वावपि दिवारात्ररूपौ । अत्रेयं आभासाकेवलं द्वावपि वस्तुतः अभिन्नौ ।
कर्णः – शल्य त्वं न जानासि धर्मम् । युद्धे अधर्मः अयोग्यः क्षत्रियस्य ।
शल्यः – तर्हि भवान् कवचकुण्डलानि दित्सति ।
कर्णः – यदि वृत्रः बाह्मणरूपे आगत्य मे कवचकुण्डलानि अभ्यर्थयते, तर्हि प्रत्याम्नायं अन्यत् दातुं प्रयतिष्ये । यदि हठेन कवच कुण्डलानि पृच्छति तर्हि तानि तस्मै दत्वा तस्मात् अमोघां शक्तिं प्राप्स्यामि ।
शल्यः – तथा यदि क्रियते तर्हि पर्यवसानं सुखमयं भवति । अधुना भवान् कौरवसेना समुद्रवेला परिपालन महामहीधरः अस्ति ।
कर्णः – (सगर्वं) भवान् रथं सज्जीकुरुष्व । गच्छ । अहं सन्नद्धोभूत्वा आगच्छामि ।
शल्यः – नमस्ते महारथ । शुभं भूयात् । (इति गच्छति)
कर्णः – (आत्मगतम्) अहं अधुना कौरवसेना समुद्रवेला परिपालन महामहीधरः नरपतिः । मदीय सेनाधिपत्ये महाभारत सङ्ग्रामः कर्तव्यः इतः परम् । यदि प्रथमतः अर्जुनं जेष्यामि तर्हि महाभारत युद्धं अवसित प्रायं भविष्यति । भवतु धर्मस्तु बलवत्तरः । यत् भाव्यं तत् भवति । कालाय तस्मै नमः । (इति गच्छति)
(यवनिका पतति)
*********************************************************
.
तृतीयं दृश्यम्
(युद्धसंरम्भः भवति । पणवपटहकाह्लशङ्खानां नादाः दिगन्तरालं बधिरयन्ति । ततः प्रविशति सारथिना शल्येन सहितः महारथी कर्णः । अश्वानां खुरनादाः शल्यस्य अश्वचोदन कण्ठरावाः श्रूयन्ते)
कर्णः – शल्य ! यत्र अर्जुनः तत्र मे रथं स्थापय ।
शल्यः – यथाज्ञापयति भवान् ।
(नेपथ्ये)
(भवान् भिक्षां ददातु) (इति ब्राह्मणकण्ठ स्वरः श्रूयते)
कर्णः – कथमत्र सङ्ग्राममूर्घ्नि याचकस्याविर्भावः ।
ब्राह्मणः – (नेपथ्ये) महत्तरां भिक्षांयाचे ।
कर्णः – शल्य ! यत्र अर्जुनः अस्ति तत्र मे रथं स्थापय ।
शल्यः – यथाज्ञापयति भवान् ।
(ततः प्रविशति ब्राह्मणः)
ब्राह्मणः – अयि दानकर्ण महत्तराम्भिक्षांयाचे ।
कर्णः – अयिभोः महाब्राह्मण स्वागतं ते ।
ब्राह्मणः – ते कीर्तिः आचन्द्रतारार्कं तिष्ठेत् ।
कर्णः – (आत्मगतं) कथमयं चिरञ्जीव इति न वदति । किमेपक्ष्यते भवता ।
ब्राह्मणः – कर्ण ! भवतः याचकाः किमपेक्षन्ते (कर्णः रथादवतरति)
कर्णः – नमो भूदेवताय ब्राह्मणाय । स्वागतं ते ।
ब्राह्मणः – किं स्वागतं कथयति भवान्, ददानि इतिकथय ।
कर्णः – महा ब्राह्मण ! किं ददानि ते ।
ब्राह्मणः – ब्राह्मणाय किं देयं इति मा विचारय ।
कर्णः – हिरण्य कण्ठ्यः ।
ब्राह्मणः – नहि ।
कर्णः – प्रमदाः ।
ब्राह्मणः – कथं प्रमदाः ।
कर्णः – ग्रामान् ।
ब्राह्मणः – नाहं याचे ग्रामान् ।
कर्णः – नोचेत् गोकुलानि ।
ब्राह्मणः – एते ब्राह्मणस्य नोपयुक्ताः ।
कर्णः – किं ददानि ते निश्शङ्कं कथय ।
ब्राह्मणः – प्रष्टुं मे सङ्कोचः भवति ।
कर्णः – ब्राह्मण तक्रार्थमागत्य तक्रभाण्ड गोपनेन किं प्रयोजनम् ।
ब्राह्मणः – दाता याचक हृदयम् ज्ञात्वा यदि ददाति महानानन्दः भवति ।
कर्णः – किं ददानि मे प्राणान् ।
ब्राह्मणः – शान्तं पापम् । (कर्णौ पिधाय)
कर्णः – गृहाण दास्यामि ।
ब्राह्मणः – नहि । नहि ।
कर्णः – भूखण्डं ददामि ।
ब्राह्मणः – (त्वरया) हां देहि । (किञ्चित् विचार्य) मास्तु । मास्तु ।
कर्णः – रत्नखचित हेमाभरणानि ददार्नि ।
ब्राह्मणः – नहि ।
ब्राह्मणः देहि मह्यं समुत्पाट्य । कुण्डले सहजे तव ।
तदात्वं सत्यवान् भूयाः । ते कीर्तिः चन्द्रिका भवेत् ॥
कर्णः – विप्र । ते कामना महत्तमा अनूह्याच भाति ।
ब्राह्मणः – भवान् दाता । अहं प्रति गृहीता । दान समये ते हस्तः उपरि, ममहस्तः अधः भवति । तत् ते गौरवास्पदं भवति ।
कर्णः – विप्र ! ते वर्म सकुण्डलं नदास्यामि तुभ्यं अवनिं प्रमदाः गाश्च दास्यामि ।
ब्राह्मणः – विशां पते ! अन्तरेण सहजवर्म कुण्डले नह्यन्यत् प्रवृणोऽमि ।
शल्यः – राजन् अयं ब्राह्मणः नहि । अत्यशापूरितः महाब्राह्मणः ।
कर्णः – तथा मावद ।
शल्य – सत्यं ब्रवीमि । असन्तुष्टो द्विजोनष्टः ।
ब्राह्मणः – अहं महाब्राह्मणः । मदीया कामना महती भवति ।
कर्णः – (विहस्य) विप्र सहजं वर्म मे कुण्डलेच अमृतोद्भवे । तेनाहं अवध्योऽस्मि । ततः नैतत् जहाम्यहम् । तस्मात् ब्राह्मण, मत्सकाशात् त्वं विशालराज्यं प्रतिगृहीष्व । यतः ।
कुण्डलाभ्यां विमुक्तोऽहम् । तेजोहीनो भवामि च ।
गमनीयो भविष्यामि । शत्रूणामाहवे द्विज ॥
ब्राह्मणः – भवान् महादाता । दानशूरः । इति त्वामहं यशोयुतं समागतोऽस्मि । यदि भवान् दित्सति यत् याचितं तत् सङ्गृह्य गच्छेयम् । नोचेत् भवन्तं कलङ्किनं विधाय प्रतिविवृत्तः भवेयम् ।
(इति अर्थवृतः गच्छति)
कर्णः – (विस्मित्य) देवेश तिष्ठ ।
ब्राह्मणः – (कर्णाभिमुखंआगत्य) धन्योऽस्मि भूपते ।
कर्णः – देवेश त्वं मया विदितोऽसिप्रागेव ।
ब्राह्मणः – अहं कथं विदितोऽस्मि भवता ।
कर्णः – भगवान् कर्मसाक्षी सर्वमकथयत् ।
ब्राह्मणः – भवान् ज्ञातपूर्वोऽस्ति तस्मात् दातुम् उद्युक्तोभव ।
कर्णः – महाब्राह्मण । वृथा वरः मया दातुँ न शक्यः भवति । भवान् देवेश्वरः । साक्षात् । त्वयावरः देयः । भवान् अन्येषां भूतानां अपि ईश्वरः भूतकृत् ।
ब्राह्मणः – भवान् मां सभ्यक् जानाति ।
कर्णः – यदि शतक्रतवे दास्यामि, तर्हि मे शतक्रतु फलं भविष्यति, यत् अन्येषां न भवति ।
ददामि तुभ्यं मम वर्म कुण्डले । ॠते प्रदानान्नहि विद्यते परं ।
महीतलं नश्यति कालपर्ययात् । विभान्ति दत्तानि चिरं हुतानि च ॥
देव ! कुण्डले कवचं यदि दास्यामि वध्यतां उपयास्यामि । मतः विनिमयेन कुण्डलेवर्मच हरस्व ।
ब्राह्मणः – कर्ण ! तवान्तिक आगच्छता मया पूर्वमेव रवेः विदितं आसीत् सर्वम् । मे वज्रं वर्जयित्वा यथेच्छया प्रवृणीष्व ।
कर्णः – धन्योऽस्मि ब्राह्मण । देवेश ।
गृहाण कर्णात् देवेश । कुण्डले वर्म एवच ।
शत्रुघ्नीं शक्तिमेकां मे । देहि दिव्याममोघिनीम् ॥
ब्राह्मणः – (विचिन्त्य मुहूर्तं) शरीरजं वर्मकुण्डले च मे प्रयच्छस्व । भवान् शक्तिं गृह्णात् । शृणु ।
अमोघा शतशः शत्रून् । हत्वा मे पाणिमेष्यति ।
रिपुमेकं निहत्याजि । मामेव सहसा प्रियम् ॥
शल्यः – सूतपुत्र ! त्वरयति भवान् । द्विवारं चिन्तय कार्यारम्भे । सहजाते वर्मकुण्डले मा यच्छतु । शत्रु निबर्हणं अति क्लेशप्रायं भवति ।
कर्णः – शल्य, जानासि खलु मम सान्निध्ये शस्त्रास्त्र सम्पत्तिः विद्यतेऽति ।
ब्राह्मणः – कर्ण ! ते आमोघां मे शक्तिं यच्छामि । (इति यच्छति)
कर्णः – तिष्ठ देवेश ? प्रथमतः मत्सकाशात् कवचकुण्डले गृहाण । अनन्तरं ते शक्तिं मे प्रयच्छ । (इति खड्गेन कवचं विच्छेद्य कवचकुण्डले समुत्कृत्य) इन्द्राय स्वाहा ! इन्द्रायेदं न मम । (इति यच्छति)
ब्राह्मणः – अहं सन्तुष्टोऽस्मि (इति गृह्णाति, शक्तिं प्रयच्छति)
कर्णः – महाब्राह्मण देवेश अनुगृहीतोऽस्मि ।
ब्राह्मणः – (विहसन् गच्छति)
कर्णः – शल्य ! यत्र अर्जुनः तिष्ठति तत्र मे रथं नय । मे कवचकुण्डले प्रदत्ते भारताहव यज्ञे । तस्मात् इन्द्रात् मे यज्ञफलमिव शाक्ति नामकं अस्त्रं प्राप्तमासीत् । रथं चोदय यत्र अर्जुनः वर्तते तत्र ।
शल्यः – यथाऽज्ञापयति देवः । (इति रथं चोदयति)
(यवनिका पतति)
-**********************************************************
]