गोग्रहणम्

[[गोग्रहणम् Source: EB]]

[

उत्तर-गोग्रहणम्

गो-सम्पदं संस्कृति मूलभूतम् । आदित्य रुद्राऽदि परं वसूनाम् ।
बान्धव्य रूपेण विराजमानम् । भजामि मे राष्ट्रहिताय नित्यम् ॥

(नान्द्यान्ते)

सूत्रधारः – अयि भारत परम्परानुरागिणः सभास्ताराः । अद्य वयं शरन्नवरात्रिषु विजय दशमी शर्वर्यां, उत्तर गोग्रहणं नाम नाटकं प्रयोक्तुं उन्मुखाः अभवाम । तन्नाटकस्यादौ शरदृतुमुद्दिश्य वर्णयन्ती नटी मे कुटुम्बिनी गीतिकां गास्यति शृण्वन्तु भवन्तः ।

नटी – (ससम्भ्रमं प्रविश्य) प्रिय प्रथमतः अहं नाटककर्तुः परिचयं विधाय अनन्तरं गास्यामि ।

सूत्रधारः – तथैव कुरु ।

नटी – अयि भोः सदस्याः । अस्य नाटकस्य कर्ता गीर्वाणान्ध्र भाषाप्रवीणः पण्डित ओगेटि परीक्षित् शर्मा । अयं महाकविः अयं स्वीय काव्य सन्तानैः गीर्वाणवाणीं अवाकिरत् भूमण्डले, विंशतितम शताब्दे ।

गीर्वाणवाणी समलङ्कृतोऽयम् । राष्ट्रीय भक्त्या कृतजीवनश्रीः ।
सङ्गीत साहित्य रसग्रहीता । सदा मनोहारि वचः प्रवृत्तिः ॥

सूत्रधारः – प्रिये त्वमधुना प्रकृतमनुसर ।

नटी – तत्र भवन्तः रसिकाग्रेसराः शृणुत ।

  • गीतम् -
    (केदाररागे शरदृतुमुद्दिश्य)

श्वेताम्बर सज्जित वेषा । स्तौमि प्रियं सात्विक हृदयं राजानम् ।
निर्मल देहावृत धवलाम्बर भूषित । सुन्दर शरदृतु नामानम् ॥ ध्रु.

विलसित तारा मण्डन मण्‍डित । विश्वाकृति मधुरलसन्तम् ।
विलसित नीरज गन्धावृत्त । शीतसमीर तरङ्ग विराजन्तम् ॥ 1

सुधाकर निसृत ज्योत्स्ना पुञ्ज । परागाञ्चित देहम् ।
महीकाश मराल पयोधि । प्रभासित मेदुर देहम् ॥ 2

सूत्रधारः – अहो ते गानकुशलता । केदार राग रञ्जित शब्द रचना सृष्टिश्च ।

नटी – अयि भोः (आकर्ण्य) सवत्सानां धेनूनां अम्बरावाः श्रूयन्ते । किमर्थ मेवं गोमातरः आक्रोशन्ति ।

सूत्रधारः – न हि केवलं धेनूनां अम्बरावाः गोपालकानां आक्रोशनमपि श्रूयते ।

नटी – (आकर्ण्य) सत्यमेव तुमुलोयन्नादः । गत्वा पश्यावः । (इति गच्छतः)

(यवनिका पतति)

(रङ्गमञ्जे स्त्रीभिस्साकं भाषमाणः उत्तरः आस्ते)

चतुरिका – अयि उत्तरकुमार ! भवान् योद्धा इति वारंवारं अस्माभिस्साकं सोत्साहं सानन्दं कथयति अन्तःपुरे । अयं अन्तःपुरः विलासिनीनां स्त्रीणां योग्यस्थानं भवति नहि योद्धानां इदं आयतनं भवति ।

उत्तरः – जानामि चतुरिके । योद्धानां स्थानं समर भूमिरिति । मम योध्दुं अवसरः न समागतः तस्मात् अत्र निवसामि ।

चतुरिका – कुमार ! किं अधिक प्रलापैः । कार्य शूरेण भवितव्यं भवता ।

उत्तरः – चतुरिके धीरः समयं प्रतीक्षते ।

निपुणिका – चतुरिके । यदि समयः समापन्नः भवति सर्वोऽपि प्रज्ञाचक्षुः भवति ।

उत्तरः – साधूक्तं भवत्या निपुणिके ।

निपुणिका – कुमार यः खेलन परः भवति सः योद्धा भविष्यति ।

चतुरिका – खेलनेषु, विशिष्य भारतीय खेलनेषु युद्धोपायाः निगूडाः सन्ति ।

निपुणिका – न केवलं युद्धोपायाः वेदान्त भावनाश्च भारतीय खेलनेषु अन्तर्हिताः भवन्ति ।

चतुरिका – तस्मात् सर्वैरपि खेलनपरैः बाल्ये भवितव्यम् ।

निपुणिका – कुमार । त्वं अधुना सम्प्राप्त यौवनोऽसि । त्वया युद्धभेदाः ज्ञातव्याः ।

उत्तरः – अहं जन्मतः योद्धास्मि । यदि युद्धाकालः सम्प्राप्तः अहं अनुपदमेव कालो भूत्वा । सकलारिवर्गं मदीय करवालेन अस्त्रैच खण्डशः कुर्याम् । (इति हस्तं युध्यमानः इव भ्रामयति ।)

चतुरिका – कुमार । त्वया कदापि युद्धं कृतं किम् ?

उत्तरः – न कृतम् । किन्तु समर्थोऽस्मि । मे पिता कथयति अहं शूरः इति ।

निपुणिका – राजपित्र ! अन्तपुरभाषणे, समराङ्गण विहरणे महानन्तरः विद्यते ।

उत्तरः – धैर्यवन्तः शूराः युद्धकर्मणि कुशलाः भवन्ति, न केवलं युद्धानु भवेन ।

चतुरिका – भवता प्रोक्तं सत्यमेव किन्तु भाषणे, आचरणेच अन्तरः महान् अस्ति ।

उत्तरः – यदि समयः आसन्नः भवति, अहं योध्दुं प्रथमः अस्मि ।

निपुणिका – चतुरिके सुदेष्णादिष्टाहं गोक्षीरार्थं गोशालां गच्छामि । मया साकं त्वमपि एहि सत्वरं कार्यं समाप्य पुनरागच्छावः । (इति गच्छतः)

(यवनिका पतति)

*******************************************************************

.

द्वितीयं दृश्यम्

(उत्तरः एकस्यां कुथायां उपविष्टः गानं शृण्वन् भाव प्रकटनां कुर्वन् आस्ते)

– गीतम् –
(सारङ्ग रागे)

भ्रम भ्रम भ्रम भ्रमर । भज भज भज नीरज षण्डम् ।
पिब पिब पिब मधुबिन्दुम् । कुसुमात्कुसुमं विटपाद्विटपम् ॥ ध्रु.

प्रति कुसुमं पीत्वा मकरन्दम् । कुरुषे परिमल कुसुमाकर विटपम् ।
मधुरस सम्भरितं फलभरविटपम् । भ्रमर ते हृदयं रसभर हृदयम् ॥ 1

जम्बूफल सादृश्यं ते रूपम् । कुलुमपरागे लुठितं ते देहम् ।
दृष्ट्वा फल बुद्ध्या सानन्दम् । आगच्छति ग्रसितुं त्वां कीरकुलम् ॥ 2

(नेपथ्ये कोलाहलः भवति । ततः प्रविशति भीतः गोपाध्यक्षः)

गोपाध्यक्षः – (आक्रोशन्) अहो बत अहो बत प्रलयः सञ्जातः । आकाशं भिन्नं भूम्यां पपात । (इति आक्रोशन् भूमिञ्जयं आगच्छति)

उत्तरः – किं रे गोपाध्यक्ष । किमर्थं आक्रोशसि किमर्थं त्वं कम्पसे ।

गोपाः –किं वदेयं महाराज प्रलयः सञ्जातः ।

उत्तरः – कोयं प्रलयः ।

गोपाः – सर्वं गोसम्पद् गतं गतम् । अहं अशक्तः सञ्जातः । [इति क्रन्दति]

उत्तरः – किमर्थमेवं क्रन्दसे ।

गोपाः – मस्त्य पुत्र । गोधनं विजेतुं समुत्तिष्ठ ।

उत्तरः – कथं गोधनस्यापत्तिः सञ्जाता ।

गोपाः – मत्स्यपुत्र । कौरवाः अस्मदीय गोधनं गृहीत्वा गताः ।

उत्तरः – अरे सत्यं अयं वृत्तान्तः ।

गोपाः – सत्यमेव । भवान् राष्ट्रवर्धन हितेप्सुः सत्वरं स्वयं निर्याहि ।

उत्तरः – अस्मदीय राज्ये बहवः सन्ति अन्मिन् कर्मणि शक्ताः ।

गोपाः – न कोपि विद्यते । केवलं भवता गन्तव्यम् ।

उत्तरः – (भीतः) अल्पकृत्यस्यास्य नाहं शक्तः ।

गोपाः – न हि । भवता केवलं गन्तव्यं विद्यते ।

उत्तरः – अहं कथं गच्छेयम् । किमर्थं गच्छेयम् ।

गोपाः – मत्स्यपुत्र । महीपालः त्वां परिषदः मध्ये श्लाघते सर्वदा ।

उत्तरः – भवतु नाम। युक्तमेव। किमिति ।

गोपाः – ममपुत्रः उत्तरः, अनुरूपः, शूरश्च । अयं इष्वस्त्रे निपुणः योधः वीरश्चेति ।

उत्तरः – तत् सत्यमेव । इदानीं अहं किं कुर्याम् ।

गोपाः – सः त्वं मनुष्येन्द्रस्य भाषितं दर्शयितुं, कुरून् जित्वा रणे, महद्यशः अवाप्य पुरीं त्वं प्रविश ।

उत्तरः – गोपाध्यक्ष । अहं कथं गच्छेयम् ।

गोपाः – स्यन्दने अक्षयतूणीरादिकं थनुर्बाणान्श्च नीत्वा याहि ।

उत्तरः – रथचोदकः कः ?

गोपाः –तव सारथिना याहि ।

उत्तरः – मे सारथिः एकस्मिन् महति युद्धे हतः ।

गोपाः – अन्यं निरीक्षस्व ।

उत्तरः – यदि अश्वेषु कोविदः एकः सारथिः स्यात्, अहं गवापदं अनुगच्छेयम् ।

गोपाः – यन्तारं विलोक्य त्वमेव ।

उत्तरः – अहं न जानामि यन्ता कः भवेत् ।

गोपाः – पश्यामः ।

उत्तरः – प्रयास्यतः मम युक्तं सारथिं क्षिप्रं पश्यध्वम् ।

गोपाः – अवश्यं भवान् अवाप्नुयात् सारथिम् ।

उत्तरः – यदि हययानविदं नरं लभेयं, गजवाजि रथाकुलं परानीकं विगाह्य कुरून् जित्वा पशून् आनयेयम् ।

गोपाः – कुमार । तान् सर्वान् त्वं जेष्यसि किम् ।

उत्तरः – (अट्टहासं कृत्वा) पश्य ।

दुर्योधनं शान्तनवम् । द्रोणं कर्णं महारणे ।
त्रासयित्वा परं वीरान् । ग्रहिष्यामि पशून् प्रियम् ॥

(इति स्मश्रू मार्जयन् हसति)

गोपाः – सत्यं महत् युद्धं भविष्यति ।

उत्तरः – यदि अल्प युद्धं नाहगन्ता ।

गोपाः – ततः इदं महत् युद्धं भवति ।

उत्तरः – पश्येयुरद्य ममवीर्यं ते कुरवः एव ।

गोपाः – कथं त्वां ते द्रक्ष्यन्ति ।

उत्तरः – किमयं साक्षात् अर्जुनः अस्मान् प्रबाधते इति ।

गोपाः – मत्स्यपुत्र ! त्वया साकं अहमपि । योद्धुं आगच्छेयम् ।

उत्तरः – मास्तु इदं घोरं महद्युद्धं भविष्यति ।

गोपाः – अहं युयुत्सामि ।

उत्तरः – त्व प्रथमतः लघुयुद्धे योद्धव्यं वर्तते ।

गोपाः – भवता कथं युद्ध्यते, इति द्रुष्टुं त्वां अहं आगच्छेयम् ।

उत्तरः – त्वं मम युद्धं कौरव सेनाञ्च विलोक्य पलायन मन्त्रं पठिष्यसि ।

गोपाः – त्वं मां रक्षस्व ।

उत्तरः – अहं युद्ध निमग्नः भवामि । त्वां कथमहं रक्षयेयम् ।

गोपाः – कुमार ! अहं ते युद्धं द्रष्टुमिच्छामि ।

उत्तरः – त्वं युद्धं न द्रक्ष्यसि ।

गोपाः – कथमहं न द्रक्ष्यामि ।

उत्तरः – गोपाध्यक्ष । कौरवैस्सार्थं युद्धं महत् दुष्करं अतीव भयदं भविष्यति ।

गोपाः – अहं धैर्यमवलम्ब्य युद्धं द्रक्ष्यामि ।

उत्तरः – गावः कौरवैः गृहीताः इति वार्तां कथयितुं क्रन्दन्, आक्रोशन इतः सकम्पं समागतोसि । किं त्वं प्रत्यक्षं युद्धं द्रक्ष्यसि । शृणु ।

आग्नेयास्त्रादि बाणैश्च । गारुडैर्नाग वारुणैः ।
युद्ध्यमानान् विलोक्य त्वम् । पञ्चत्वं प्राप्यसि ध्रुवम् ॥

गुपाः – (भीतः) तथा यदि भवेत् तर्हि नाहमागमिष्यामि । मत्स्यपुत्र । त्वमेव गत्वा सर्वं साधय । अहं गच्छामि । (इति गच्छति ) ।

(यवनिका पतति)

********************************************************************************************

.

तृतीयं दृश्यम्

(उत्तरः एकाकी उपविश्य चिन्तयति ततः प्रविशति सैरन्ध्री)

सैरन्ध्री – उत्तरकुमार ! किमर्थमेवं चिन्ताक्रान्तः एकाकी उपविष्टोसि ।

उत्तरः – न कापि चिन्ता विद्यते मम ।

सैरन्ध्री – ते वदनमण्डलं चिन्ताकुलं भाति त्वं कुमारोऽसि का ते चिन्ता मे कथय ।

उत्तरः – सैरन्ध्रि ! सत्यमेवाहं चिन्ताक्रान्तोऽस्मि । अहं एकस्मिन् सङ्कटे निपतितोऽस्मि ।

सैरन्ध्री – कोयं सङ्कटः ।

उत्तरः – अस्मदीय गावः कौरव हस्तगताः अभवन् । शृणु ।

गावः सर्वाः पराक्रान्ताः । योध्दुमिच्छामि तैः स्वयम् ।
अश्वशास्त्र परिज्ञाता । यदि कोप्यस्ति सारथिः ॥

सैरन्ध्री – कथं ज्ञातमेतत् ।

उत्तरः – गोपाध्यक्षः आगत्य अकथयत् ।

सैरन्ध्री – अहो विराटराजस्य गावः पराक्रान्ताः । किमेतदाश्चर्यम् ।

उत्तरः – तैः साकं योद्धुं गन्तव्यमिति गोपाध्यक्षः अवदत् ।

सैरन्ध्री – तव पिता अस्ति खलु । त्वं कुतः ।

उत्तरः – पिता अन्यत्र योद्धुं गतः ।

सैरन्ध्री – अहो ! तथा यदि, त्वं गच्छ योद्धुम् ।

उत्तरः – अहं योद्धुमेव चिन्तयामि । किन्तु ।

सैरन्ध्री – किन्तु, किं जातम् ।

उत्तरः – यदि कश्चन सारथिः स्यात्, अहं सर्वं साधयिष्यामि ।

सैरन्ध्री – ते सारथिः वर्तते खलु ।

उत्तरः – मे सारथिः महति युद्धे निहतः ।

सैरन्ध्री – बत ! कथं ते सारथिः लभिष्यति ।

उत्तरः – तं विषयमुद्दिस्यैवाहं चिन्तयामि ।

सैरन्ध्री – अधुना सर्वमवहितास्मि ।

उत्तरः – अश्व कोविदः सारथिः अपेक्ष्यते ।

सैरन्ध्री – उत्तर कुमार अहं कथयामि शृणु ।

बृहन्नलेति विख्यातः । स आसीत् सारथिः पुरा ।
अर्जुनस्य परं युद्धे । धैर्यवान् अश्व कोविदः ॥
यः वारणाभः सुप्रियदर्शनः युवा बृहन्नलेति विख्यातः पार्थस्य सारथिः आसीत् । सः मया दृष्टपूर्वः आसीत् । यदा पावकः खाण्डवं अदहत् तदा अर्जुनस्य हयोत्तमाः अनेन सङ्गृहीताः । तादृक् यन्ता कुत्रापि नास्ति ।

उत्तरः – सैरन्ध्रि । अहं तं नपुंसकं प्रष्टुं न शक्नोमि ममहयान् चालयेति । कुत इतिचेत् ।

पुरुषोऽस्मि युवा चाहम् । सङ्ग्रामे परमेश्वरः ।
कथं क्लीबेन कुर्यां मे । भाषणं वनिते वद ॥

सैरन्ध्री – उत्तरकुमार । अधुना ते भावनां जानीतास्मि । ततः वीर । ते भगिन्याः उत्तरकुमार्याः वचनं सः अनुपदं करिष्यति ।

उत्तरः – यदि सः मे सारथिः भविष्यति विना संशयं तान् सर्वान् जित्वा गाः समादाय ध्रुवं आगमिष्यामि । कः कोऽत्र भोः (इति आह्वयति ।)

प्रतीहारी –(प्रविश्य) अहमस्मि (इति नमस्करोति)

उत्तरः – सत्वरं उत्तराकुमारीं आह्वय ।

प्रतीहारी – यथाज्ञापयति भवान् । (इति निर्गतः)

(ततः प्रविशति मुग्धा सालङ्कारा उत्तराकुमारी)

उत्तरा – भ्रातः ! किमर्थमहमाहूतास्मि ।

उत्तरः – स्वसः ! अधुनाहं कौरवैस्सार्थं योद्धुं जिगमिषामि । मे सारथिः महति युद्धे निहतः । यदि सारथिः ते गुरुः बृहन्नलः भवेत् सर्वं सुकरं भविष्यति । तस्मात् त्वं तव गुरुं बृहन्नलं प्रति कथय मदीयं वृत्तान्तं सर्वमपि अपिच तमानय ।

उत्तरा – भ्रातः अहं अधुनैव गत्वा तमानयेयं ।

उत्तरः – तं कथय । अस्मदीय गाः पराक्रान्ताः अभवन्, तस्मात् अधुनैव मे भ्राता योध्दुमुद्युक्तः । किन्तु तस्य अनुरूपः सारथिः नोपलब्धः । सैरन्ध्री त्वामुद्दिश्य सविस्त्तरं जगाद इति ।

उत्तरः – भ्रातः ! अहं सर्वं कथयेयम् । सैरन्ध्रि त्वमपि आगच्छ मया सार्थं मे गुरुगृहम् ।

सैरन्ध्री – तथैव एहि कुमारी गच्छावः । (इति द्वेऽपि गच्छतः)

*****************************************************************

.

चतुर्थं दृश्यम्

(बृहन्नलः नाट्यं शिक्षयन्ती आस्ते । बालिकाः नाट्यं कुर्वन्त्यः वर्तन्ते)

गीतम् (मोहन रागे)

लास्यं स्मर हर मानस दास्यम् । कुरुते सुन्दर नर्तन शीला ।
हृदयाहलादन सज्जित वेषा । शीतल नगराज सुता बाला ॥ धृ.

अतुलित भावास्पद लीला । अभिनव मण्डित शृङ्गारा ।
पदवारिज चालन नूपुर । बम्भर गुञ्जन झं झं झङ्कारा ॥ 1

किंशुक सुम निचयाञ्चित सुषमा । मुखरित भ्रमरी कबरी भारा ।
मधुमय होसेक्षण लज्जा विनमित । पेशल कम्र सुमध्य कुचभारा ॥ 2

लोकत्रय मूर्तीकृत निरुप सन्ध्या । रञ्जित मञ्जुल लीला सुषमास्या ।
प्रावृट् कालाम्बर प्रथम स्फोरक । चपला वल्ली चञ्चल शोभा लास्या ॥ 3

(ततः प्रविशति उत्तराकुमारी)

बृहन्नलः – अयि कुमार्यः । अद्य नाट्यं पर्याप्तं बभूव, भवत्यः गृहं गच्छन्तु । (सर्वाः अपि नमस्कृत्य गच्छन्ति)

उत्तरा – गुरवे नमः । (इति नमस्करोति)

बृहन्नलः – को विशेषः कुमारी ।

उत्तरा – गुरो मे मनः अद्य त्रस्तमासीत् ।

बृहन्नलः – त्रासस्य हेतुः का ?

बाले तव मुखाम्भोजम् । ग्लपितं केन हेतुना ।
कदापि नैव दृष्टासि । विचारवृत वीक्षणैः ॥

उत्तरा – गुरो ! मे सोदरः उत्तरकुमारः अतीव भयदसङ्कटे पतितः ।

बृहन्नलः – तस्मात् ते मुखकमलं म्लानं जातम् ।

उत्तरा – अयि बृहन्नल ! नः राष्ट्रस्य गावः कुरूभिः आक्रमिताः ।

बृहन्नलः – कदा आक्रमिताः ।

उत्तरा – अद्य मध्याह्ने ।

बृहन्नलः – केनोक्तम् ।

उत्तरा – गोपाध्यक्षेण ।

बृहन्नलः – केन श्रुतम् ।

उत्तरा – भ्रात्रा उत्तरकुमारेण ।

बृहन्नलः – भ्राता किमवादीत् ।

उत्तरा – मे सारथिः महति सङ्ग्रामे मृतः । तस्मात् अधुना मे अश्वेषु कोविदः यन्ता आवश्यकः । यदि सः लभ्यः स्वयं गत्वा कौरवान् विजित्य गाः प्रत्यानयेयं इति अवादीत् । तस्मात् ।

मे भ्राता याति योध्दुन्तैः । कौरवैर्धेनु मोचने ।
सारथिर्नैव लब्धोऽस्ति । तस्माच्चिन्तावृता गुरो ॥

बृहन्नलः – विदितं सर्वम् । ततस्ततः ।

उत्तरा – सैरन्ध्री तं अवादीत् यत् बृहन्नला पूर्वं अर्जुनस्य सारथ्यं चकार । यदि त्वं तव सोदरीं बृहन्नलस्य समीपं सम्प्रेष्य विचारयिष्यसि अवश्यं सः बृहन्नलः ते सारथ्यं करिष्यतीति ।

बृहन्नलः – ततस्ततः ।

उत्तरा – तस्मात् त्वां मम भ्रातृ पक्षात् इयन्तमर्थं प्रष्टुं समागता ।

बृहन्नलः – तत् सत्यमेव पुरा च मया कृतम् ।

उत्तरा – ततः बृहन्नल ! त्वं मम भ्रातुः रथसारथ्यं कुरु । नोचेत् ।

सारथ्यं मम भ्रातुस्त्वम् । नैवकर्तुं समीहसे ।
अधुना तव सान्निध्ये । परित्यक्ष्यामि जीवितम् ॥

(इति बृहन्नला समक्षं तिष्टति)

बृहन्नलः – उत्तराकुमारि । मा विचारय अहं त्वया सार्थं आगच्छामि । आवां तव भ्रातुः सकाशं गच्छावः एहि । इति तया सार्थं निर्गच्छति)

(यवनिका पतति)

***********************************************************

.

पञ्चमं दृश्यम्

(उत्तरः चिन्ताक्रान्तः इतस्ततः विचारयन् तिष्टति । ततः प्रविशति उत्तरासहित बृहन्नलः )

उत्तरः – (उत्तरासहित बृहन्नलं वीक्ष्य) एहि बृहन्नल एहि ।

बृहन्नलः – उत्तरकुमार ! किमर्थं त्वं अकारणं चिन्ताग्रस्तोऽसि ।

उत्तरः – अयि बृहन्नल । त्वया सारथिना खाण्डवे पार्थः अग्निमतर्पयत् । पृथ्वीं अजयत् । सैरन्ध्री तं विषयं सर्वं मे समाचष्टे ।

बृहन्नलः – अयि उत्तरकुमार ।

न शक्तिर्विद्यते मेऽत्र । परं सारथ्य कर्मणि ।
तौर्यत्रिके सदा बुद्धिः । प्रसरत्येव पुत्रक ॥

राजपुत्र ! सङ्ग्राम मूर्ध्नि सारथ्यं कर्तुं का शक्तिः मम विद्यते । गीतं वा नृत्यं वा पृथक्विधं वादित्रं वा करिष्यामि । ते सारथ्यं मम कुतः ।

उत्तरः – बृहन्नले त्वं गायकोवा उत नर्तकोवा भवतु । क्षिप्रं हयोत्तमान् निगृहीष्व ।

बृहन्नलः – भवदनुज्ञया अहं निग्रहिष्यामि ।

उत्तरा – बृहन्नल ! भीष्मद्रोण मुखान् कुरून् सङ्ग्रामे विजित्य, सूक्ष्माणि, मृदूनि चित्रविचित्राणि, रुचिराणि वासांसि आनयेथाः पाञ्चलिकार्थम् ।

बृहन्नलः – उत्तराकुमारि !

उत्तरो यदि तान् सर्वान् । विजेष्यति महाबलः ।
पाञ्चालिकार्थं वासांसि । तुभ्यं दास्यामि बालिके ॥

उत्तरः – बृहन्नल ! त्वं इदं कवचं धरस्व । (इति ददाति)

बृहन्नलः – (कवचं अस्तव्यस्तं धरति । उत्तरः उत्तराच तत् दृश्यं विलोक्य प्रहसन्तौ करताल ध्वनिं कुर्वाते)

उत्तरः – बृहन्नल ! कवचं एवं धार्यते किम् ?

बृहन्नलः – अहो ज्ञातं सुष्टु धरामि । (इति धारयति)

उत्तरः – बृहन्नल ! कशां गृहाण शिरस्त्राणं पादत्राणे धरस्व ।

बृहन्नलः – (धरति)

उत्तरः – बृहन्नल ! गच्छावः (इति चलतः)

उत्तरा – भ्रातः ! समस्त सन्मङ्गलानि भवन्तु ।

(यवनिका पतति)

***********************************************************

.

षष्ठं दृश्यम्

(रणदुन्दुभयः श्रूयन्ते, ततः प्रविशति उत्तर-बृहन्नलौ)

उत्तरः – बृहन्नल ! कोयन्नादः ।

बृहन्नलः – अयं दुन्दुभि नादः ।

उत्तरः – मे हृदयं विदलितं भवति । अहं भीतोऽस्मि ।

बृहन्नलः – न भेतव्यम् ।
(नेपथ्ये शङ्खानां नादाः भवन्ति)

उत्तरः – (आकर्ण्य) बृहन्नल कोयं नादः ।

बृहन्नलः – अयं शङ्खनादः ।

उत्तरः – अहं बधिरो भवामि मे कर्णरन्ध्रौ विदलितौ भवतः । (इति कर्णौ पिदधाति)

बृहन्नलः – उत्तरकुमार ! अहमास्मि तव पुरतः चिन्तां मा कुरू ।

उत्तरः – बृहन्नल ! भीतोऽस्मि सैन्यं दृष्ट्वा । एते सर्वे नादाः मां बधिरान्धपङ्गुं कुर्वन्ति ।

बृहन्नलः – उत्तर ! भीतिः कथम् ।

उत्तरः – बृहन्नल ! कुरुभिर्योध्दुं नोत्सहे । कुरुसैन्यमनन्तकम् । अहं प्रतियोध्दुं नशक्ष्यामि । एतान् कुरून् दृष्ट्वैव रोमाणि हृषितानि । मम कश्मलं सञ्जातम् । बालः अहम् । अहं एकः सूनः मे पितुः । अस्त्रशस्त्रेषु अकृतश्रमः । बृहन्नल ! निवर्तस्व । प्रतियोध्दुं न शक्ष्यामि ।

बृहन्नलः – राजपुत्र ! तथा स्त्रीषु प्रतिशृत्य पौरुषं अभिनिर्माय कत्थमानः किमर्थं न युयुत्ससे ।

उत्तरः – भीतोऽस्मि चमूदर्शनेन । अहं गृहं गच्छेयम् ।

बृहन्नलः – ताः गावः न विजित्य त्वं गृहं कथं प्रतियास्यसि ।

उत्तरः – नाहं याचे किमपि ।

बृहन्नलः – अकार्यं त्वं करोषि ।

उत्तरः – कार्याऽकार्यं नाहं जाने । अहं भीतोऽस्मि ।

बृहन्नलः – त्वां नराः नार्यः वीराश्च प्रहसिष्यन्ति ।

उत्तरः – के नराः । काः नार्यः । के वीराः । अहमनभिज्ञः ।

बृहन्नलः – अहमप्यत्र सैरर्न्ध्या सारथ्य कर्मणि ख्यातः ।

उत्तरः – तव ख्यातिं नाहं विचारयामि ।

बृहन्नलः – अनिर्जित्य गाः पुरं प्रतियातुं न शक्ष्यामि ।

उत्तरः – मत्स्यानां भूयान् धनं कामं कुरवः हरन्तु न मे चिन्ता ।

बृहन्नलः – किमर्थं ते हृदयदौर्बल्यम् ।

उत्तरः – नराः नार्यश्च मां प्रहसन्तु । न विचारयेयम् ।

बृहन्नलः – सङ्ग्रामे एवं न प्रवर्तितव्यम् ।

उत्तरः – मे सङ्ग्रामे न च कार्यम् ।

बृहन्नलः – क्षत्रियस्य सङ्ग्रामः कार्यः ।

उत्तरः – सङ्ग्रामो मास्तु । गच्छन्तु गावः ।

बृहन्नलः – ताः भवदीय देशसम्पदः ।

उत्तरः – मे नगरं गच्छतु शून्यम् । पितुः न बिभेम्यहम् । (इति अभिद्रवति)

बृहन्नलः – [बृहन्नलः तं प्रतिगृह्य] मस्त्यपुत्र ! एषः धर्मः शूरैः न स्मृतः ।

उत्तरः – नाहं शूरः ।

बृहन्नलः – क्षत्रियस्य पलायनं योग्यं युद्धे ।

उत्तरः – अहं क्षत्रियकुमारः । किन्तु न मयि विद्यते क्षत्रियत्वम् ।

बृहन्नलः – भीतस्य पलायनं न श्रेयः ।

उत्तरः – कः श्रेयः कथय ।

बृहन्नलः – मरणम् ।

उत्तरः – [कम्पयन्] बृहन्नले रथं क्षिप्रं निवर्तस्व ।

बृहन्नलः – अयोग्यमिदं कर्म ।

उत्तरः – बृहन्नल ! नरः जीवन् भद्राणि पश्यति ।

बृहन्नलः – तादृश जन्मना किं प्रयोजनम् ।

उत्तरः – बृहन्नल ! अहं ते सुवर्ण निष्कशतं दास्यामि । मां विसृज ।

बृहन्नलः – अपिच किं दास्यसि ।

उत्तरः – हेमबद्धान् दश वैदूर्य मणीन् च ते दास्यामि ।

बृहन्नलः – अपिच किं दास्यसि ।

उत्तरः – मत्तान् दश मातङ्गान् ते दास्यामि ।

बृहन्नलः – ततः अहं किं कुर्याम् ।

उत्तरः – मुञ्च मां बृहन्नल !

बृहन्नलः – कुमार ।

सारथिर्नास्ति ते मत्वा । सारथ्यं कर्तुम्मुद्यतः ।
लब्ध्वा मदीय साहाय्यम् । युध्यस्व कृत निश्चयः ॥

उत्तरः – नाहं योत्स्यामि । (इति उपविशति)

बृहन्नलः – राजपुत्र ! यदि नोत्सहे योध्दुं, सारथ्यं कुरु । अहं योत्स्यामि शत्रृभिः । (इति सान्त्वयति)

उत्तरः – ओम् । सारथ्यं करिष्ये । नहि नहि सारथ्यं कर्तुं नोत्सहे ।

बृहन्नलः – कुतः ।

उत्तरः – प्रथमतः शात्रवबाणाः मामेव प्रहरिष्यन्ति । तस्मात् सारथ्यं नाह मनुवहामि ।

बृहन्नलः – कुमार! अरिवीरबाणस्पर्शं विना अहं त्वां रक्षयिष्यामि शास्त्रास्त्रेभ्यः ।

उत्तरः – तथा यदि भवेत् तदा सारथ्यं अहं करिष्यामि ।

बृहन्नलः – उत्तरकुमार । त्वं प्रथमतः अस्य शमीवृक्षस्य समीपं रथं चोदय ।

उत्तरः – किमर्थम् ।

बृहन्नलः – अयि मत्स्य राजनन्दन ! पाण्डवाः तेषां आयुध सम्पदं अस्य वृक्षस्योऽपरि निक्षिप्य गताः ।

उत्तरः – ते अधुना कुत्र गताः ।

बृहन्नलः – ते सर्वे अज्ञातवासं कुर्वन्ति ।

उत्तरः – कोऽयं सम्बन्धः तव च अस्य आयुध सम्पदश्च ।

बृहन्नलः – अस्माकं अविनाभावसम्बन्धः विद्यते । तेषां आयुधाः एव अस्माकमपि आयुधाः ।

उत्तरः – तत्कथं भवति ।

बृहन्नलः – भवितुं शक्यः । पश्य अहं अर्जुनोऽस्मि ।

उत्तरः – (कर्णौ पिधाय) हा शान्तं पापं शन्तं पापम् ।

बृहन्नलः – किमासीत् । किमर्थं तथा वदसि ।

उत्तरः – किं त्वं अर्जुनः ? (इति हसति)

बृहन्नलः – किमर्थं हससि ।

उत्तरः – त्वं नपुंसकः । अर्जुनः महापुरुषः । तत्सादृश्यं त्वं कथं प्राप्स्यसि ।

बृहन्नलः – अयं मे शापः ।

उत्तरः – अयं ते शापः ।

बृहन्नलः – आम् सत्यम् ।

उत्तरः – अन्य ते भ्रातरः कुत्र सन्ति ।

बृहन्नलः – कुमार शृणु ।

युधिष्ठिरस्सभास्तारः । वल्वलो भीम पूरुषः ।
नकुलश्चाश्व बन्धुश्च । गोकुले सहदेवकः ॥

उत्तरः – किमेतदाश्चर्यम् । बृहन्नल ! पाण्डवानां पत्नी द्रौपदी कुत्रास्ति ।

बृहन्नलः – शृणु ।

सैरन्ध्रीं द्रौपदीं विद्धि । शृणु सर्वेऽपि कीचकाः ।
निहताः सुतरां गूढम् । बाल त्वं बहु श्रद्धया ॥

उत्तरः – (आश्चर्येण) यदि त्वं अर्जुनः तस्य दशविध नामानि श्रावय ।

बृहन्नलः – शृणु ।

अर्जुनः फल्गुणो जिष्णुः । किरीटी श्वेतवाहनः ।
बीभत्सुः विजयी कृष्णः । सव्यसाची धनुञ्जयः ॥

उत्तरः – त्वं साक्षात् अर्जुनः । अहं ते दासः । मे मनः स्वास्त्यं जातम् । मे महत् भाग्यमेतत् ।

बृहन्नलः – पुरुषव्याघ्र ते न भयं विद्यते । ते शत्रून् सर्वान् अहं रणे नुदामि ।

उत्तरः – नाहं बिभेमि । त्वां सव्यसाचिनं युधिष्टिरं जानासि । अहं ते सारथिः भवामिी । (इति नमस्करोति)

बृहन्नलः – (तं उद्वहन्) न ते भीतिः चल । (इति द्वावपि गच्छतः)

(यवनिका पतति)

************************************************************

]