Intro
Bhattanarayana: Venisamhara
Bhattanarayana: Venisamhara
Based on:
Venisamhara: Die Ehrenrettung der Königin, Ein Drama in 6 Akten von Bhatta Narayana.
Julius Grill (Ed.). Leipzig : Fues’s Verlag (R. Reisland) 1871.
Venisamhara of Bhatta Narayana.Edited with the commentary of Jagaddhara
by M. R. Kale. Delhi : Motilal Banarsidass 1989.
Input by Yves Codet, Toulouse (August 2002)
THIS GRETIL TEXT FILE IS FOR REFERENCE PURPOSES ONLY!
COPYRIGHT AND TERMS OF USAGE AS FOR SOURCE FILE.
Text converted to Unicode (UTF-8).
(This file is to be used with a UTF-8 font and your browser’s VIEW configuration
set to UTF-8.)
description:multibyte sequence:
long a ā
long A Ā
long i ī
long I Ī
long u ū
long U Ū
vocalic r ṛ
vocalic R Ṛ
long vocalic r ṝ
vocalic l ḷ
vocalic L Ḷ
long vocalic l ḹ
velar n ṅ
velar N Ṅ
palatal n ñ
palatal N Ñ
retroflex t ṭ
retroflex T Ṭ
retroflex d ḍ
retroflex D Ḍ
retroflex n ṇ
retroflex N Ṇ
palatal s ś
palatal S Ś
retroflex s ṣ
retroflex S Ṣ
anusvara ṃ
visarga ḥ
long e ē
long o ō
l underbar ḻ
r underbar ṟ
n underbar ṉ
k underbar ḵ
t underbar ṯ
Unless indicated otherwise, accents have been dropped in order
to facilitate word search.
For a comprehensive list of GRETIL encodings and formats see:
http://gretil.sub.uni-goettingen.de/gretil/gretdiac.pdf
and
http://gretil.sub.uni-goettingen.de/gretil/gretdias.pdf
For further information see:
पाठः
नोते: थिस् ए-तेxत् इस् चोन्वेर्तेद् फ़्रोम् उनिचोदे देवनगरि एन्चोदिन्ग्।
थेरेफ़ोरे wओर्द् बोउन्दरिएस् अरे नोत् स्पचेद्।
॥।* = स्तगे
&॥।&: = स्पेअकेर्
{प्क्त्_न्} = प्रक्रित् तेxत्
स्क्त्छ्_न्: = सन्स्क्रित् छय ओफ़् प्रक्रित् तेxत्
[स्॥।] = दिविसिओन्स् ओफ़् थे प्लोत्
भट्टनारायण: वेणीसंहार
द्रमतिस् पेर्सोनए:
स्तगे दिरेच्तोर्
अस्सिस्तन्त् ओफ़् थे स्तगे दिरेच्तोर्
युधिष्ठिर
भीमसेन
अर्जुन
सहदेव
कृष्ण
धृतराष्ट्र
दुर्योधन
कर्ण
कृप
अश्वत्थामन्
सञ्जय
सुन्दरक, अन् अत्तेन्दन्त् ओन् कर्ण
छम्बेर्लैन् ओफ़् युधिष्ठिर
छम्बेर्लैन् ओफ़् दुर्योधन
राक्षस (रुधिरप्रिय), अन् अत्तेन्दन्त् ओन् हिडिम्बा
राक्षस, अ फ़्रिएन्द् ओफ़् दुर्योधन
छरिओतेएर्स्, दोओर्केएपेर्स्
द्रौपदी
भानुमती, wइफ़े ओफ़् दुर्योधन
गान्धारी
दुःशला, सिस्तेर् ओफ़् दुर्योधन अन्द् wइफ़े ओफ़् जयद्रथ
राक्षसी, wइफ़े ओफ़् रुधिरप्रिय
मोथेर् ओफ़् जयद्रथ
अत्तेन्दन्त्स् ओन् द्रौपदी अन्द् भानुमती
वेणीसंहारम् ।
अच्त्_१
प्रथमो ऽङ्कः ।
वेर्से_१।१
निषिद्धैरप्येभिर्लुलितमकरन्दो मधुकरैः $ करैरिन्दोरन्तश्छुरित इव सम्भिन्नमुकुलः &
विधत्तां सिद्धिं नो नयनसुभगामस्य सदसः ē̃ प्रकीर्णः पुष्पाणां हरिचरणयोरञ्जलिरयम् ॥ १।१ ॥
अपि च
वेर्से_१।२
कालिन्द्याः पुलिनेषु केलिकुपितामुत्सृज्य रासे रसं $ गच्छन्तीमनुगच्छतो ऽश्रुकलुषां कंसद्विषो राधिकाम् &
तत्पादप्रतिमानिवेशितपदस्योद्भूतरोमोद्गते- ē̃ रक्षुण्णो ऽनुनयः प्रसन्नदयितादृष्टस्य पुष्णातु वः ॥ १।२ ॥
अपि च
वेर्से_१।३
दृष्टः सप्रेम देव्या किमिदमिति भयात्सम्भ्रमाच्चासुरीभिः $ शान्तान्तस्तत्त्वसारैः सकरुणमृषिभिर्विष्णुना सस्मितेन &
आकृष्यास्त्रं सगर्वैरुपशमितवधूसम्भ्रमैर्दैत्यवीरैः ē̃ सानन्दं देवताभिर्मयपुरदहने धूर्जटिः पातु युष्मान् ॥ १।३ ॥
नान्द्यन्ते*
&सूत्रधारः&:
अलमतिप्रसङ्गेन ।
वेर्से_१।४
श्रवणाञ्जलिपुटपेयं विरचितवान्भारताख्यममृतं यः ।
तमहमरागमकृष्णं कृष्णद्वैपायनं वन्दे ॥ १।४ ॥
समन्तादवलोक्य*
तद्भवन्तः परिषदग्रेसराः विज्ञाप्यं नः किञ्चिदस्ति ।
वेर्से_१।५
कुसुमाञ्जलिरपर इव प्रकीर्यते काव्यबन्ध एषो ऽत्र ।
मधुलिह इव मधुबिन्दून्विरलानपि भजत गुणलेशान् ॥ १।५ ॥
तदिदं कवेर्मृगराजलक्ष्मणो भट्टनारायणस्य कृतिं वेणीसंहारं नाम नाटकं प्रयोक्तुमुद्यता वयम् । तदत्र कविपरिश्रमानुरोधाद्वोदात्तकथावस्तुगौरवाद्वा नवनाटकदर्शनकुतूहलाद्वा भवद्भिरवधानं दीयमानमभ्यर्थये ।
नेपथ्ये*
भाव त्वर्यतां त्वर्यताम् । एते खल्वार्यविदुराज्ञया पुरुषाः सकलमेव शैलूषजनं व्याहरन्ति । प्रवर्त्यन्तामपरिहीयमानमातोद्यविन्यासादिका विधयः । प्रवेशकालः किल तत्रभवतः पाराशर्यनारदतुम्बुरुजामदग्न्यप्रभृतिभिर्मुनिवृन्दारकैरनुगम्यमानस्य भरतकुलहितकाम्यया स्वयं प्रतिपन्नदौत्यस्य देवकीसूनोश्चक्रपाणेर्महाराजदुर्योधनशिबिरं प्रति प्रस्थातुकामस्येति ।
&सूत्रधारः&:
आकर्ण्य सानन्दम्*
अहो नु खलु भो भगवता जगत्प्रभवस्थितिनिरोधप्रभविष्णुना विष्णुनाद्यानुगृहीतमिदं भरतकुलं सकलं च राजकमनयोः कुरुपाण्डवराजपुत्रयोराहवकल्पान्तानलप्रशमहेतुना स्वयं सन्धिकारिणा कंसारिणा दूतेन । तत्किमिति पारिपार्श्विक नारम्भयसि कुशीलवैः सह सङ्गीतकम् ।
प्रविश्य*
&पारिपार्श्विकः&:
भवतु । आरम्भयामि । कं समयमाश्रित्य गीयताम् ।
&सूत्रधारः&:
नन्वमुमेव तावच्चन्द्रातपनक्षत्रक्रौञ्चहंसकुलसप्तच्छदकुमुदपुण्डरीककाशकुसुमपरागधवलितगगनदिङ्मण्डलं स्वादुजलजलाशयं शरत्समयमाश्रित्य प्रवर्त्यतां सङ्गीतकम् । तथा ह्यस्यां शरदि
वेर्से_१।६
सत्पक्षा मधुरगिरः प्रसाधिताशा मदोद्धतारम्भाः ।
निपतन्ति धार्तराष्ट्राः कालवशान्मेदिनीपृष्ठे ॥ १।६ ॥
&पारिपार्श्विकः&:
ससम्भ्रमम्*
भाव शान्तं पापं प्रतिहतममङ्गलम् ।
&सूत्रधारः&:
सवैलक्ष्यस्मितम्*
मारिष शरत्समयवर्णनाशंसया हंसा धार्तराष्ट्रा इति व्यपदिश्यन्ते । तत्किं शान्तं पापं प्रतिहतममङ्गलम् ।
&पारिपार्श्विकः&:
न खलु न जाने । किं त्वमङ्गलाशंसयास्य वो वचनस्य यत्सत्यं कम्पितमिव मे हृदयम् ।
&सूत्रधारः&:
मारिष ननु सर्वमेवेदानीं प्रतिहतममङ्गलं स्वयं प्रतिपन्नदौत्येन सन्धिकारिणा कंसारिणा । तथा हि
वेर्से_१।७
निर्वाणवैरदहनाः प्रशमादरीणां $ नन्दन्तु पाण्डुतनयाः सह माधवेन &
रक्तप्रसाधितभुवः क्षतविग्रहाश्च ē̃ स्वस्था भवन्तु कुरुराजतनयाः सभृत्याः ॥ १।७ ॥
नेपथ्ये । साधिक्षेपम्*
आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद ।
वेर्से_१।८
लाक्षागृहानलविषान्नसभाप्रवेशैः $ प्राणेषु वित्तनिचयेषु च नः प्रहृत्य &
आकृष्टपाण्डववधूपरिधानकेशाः ē̃ स्वस्था भवन्ति मयि जीवति धार्तराष्ट्राः ॥ १।८ ॥
[सन्ध्यङ्ग । वलुए=“उपक्षेप” रेस्प्=“व् ६।६९” फ़्रोम्=“प्ल्१”]
सूत्रधारपारिपार्श्विकावाकर्णयतः*
&पारिपार्श्विकः&:
भाव कुत एतत् ।
&सूत्रधारः&:
पृष्ठतो विलोक्य*
अये एष खलु वासुदेवगमनात्कुरुसन्धानममृष्यमाणः पृथुललाटतटघटितविकटकीनाशतोरणत्रिशूलायमानभीषणभ्रुकुटिरापिबन्निव नः सर्वान्दृष्टिपातेन सहदेवानुगम्यमानः क्रुद्धो भीमसेन इत एवाभिवर्तते । तन्न युक्तमस्य पुरतः स्थातुम् । तदित आवामन्यत्र गच्छावः ।
इति निष्क्रान्तौ*
प्रस्तावना ।
ततः प्रविशति सहदेवानुगम्यमानः क्रुद्धो भीमसेनः*
&भीमसेनः&:
आः दुरात्मन्वृथामङ्गलपाठक शैलूषापसद ।लाक्षागृहेत्यादि पुनः पठति*
&सहदेवः&:
सानुनयम्*
आर्य मर्षय मर्षय । अनुमतमेव नो भरतपुत्रस्यास्य वचनम् । निर्वाणवैरदहना इति यथार्थमेव । सभृत्याः कुरवः क्षतजालङ्कृतवसुन्धराः क्षतशरीराश्च स्वर्गस्था भवन्त्विति ब्रवीति ।
&भीमसेनः&:
सोपालम्भम्*
न खलु न खल्वमङ्गलानि चिन्तयितुमर्हन्ति भवन्तः कौरवाणाम् । सन्धेयास्ते भ्रातरो युष्माकम् ।
&सहदेवः&:
सरोषम्*
आर्य
वेर्से_१।९
धृतराष्ट्रस्य तनयान्कृतवैरान्पदे पदे ।
राजा न चेन्निषेद्धा स्यात्कः क्षमेत तवानुजः ॥ १।९ ॥
&भीमसेनः&:
एवमिदम् । अत एवाहमद्यप्रभृति भिन्नो भवद्भ्यः । पश्य ।
वेर्से_१।१०
प्रवृद्धं यद्वैरं मम खलु शिशोरेव कुरुभि- $ र्न तत्रार्यो हेतुर्न भवति किरीटी न च युवाम् &
जरासन्धस्योरःस्थलमिव विरूढं पुनरपि ē̃ क्रुधा सन्धिं भीमो विघटयति यूयं घटयत ॥ १।१० ॥
[सन्ध्यङ्ग । वलुए=“परिकर” रेस्प्=“व्” फ़्रोम्=“प्ल्२”]
&सहदेवः&:
सानुनयम्*
आर्य एवमतिसम्भृतक्रोधेषु युष्मासु कदाचित्खिद्यते गुरुः ।
&भीमसेनः&:
किं नाम खिद्यते गुरुः । गुरुः खेदमपि जानाति । पश्य ।
वेर्से_१।११
तथाभूतां दृष्ट्वा नृपसदसि पाञ्चालतनयां $ वने व्याधैः सार्धं सुचिरमुषितं वल्कलधरैः &
विराटस्यावासे स्थितमनुचितारम्भनिभृतं ē̃ गुरुः खेदं खिन्ने मयि भजति नाद्यापि कुरुषु ॥ १।११ ॥
तत्सहदेव निवर्तस्व । एवं चातिचिरप्रवृद्धामर्षोद्दीप्तस्य भीमस्य वचनाद्विज्ञापय राजानम् ।
&सहदेवः&:
आर्य किमिति ।
&भीमसेनः&:
एवं विज्ञापय ।
वेर्से_१।१२
युष्मच्छासनलङ्घनांहसि मया मग्नेन नाम स्थितं $ प्राप्ता नाम विगर्हणा स्थितिमतां मध्ये ऽनुजानामपि &
क्रोधोल्लासितशोणितारुणगदस्योच्छिन्दतः कौरवा- ē̃ नद्यैकं दिवसं ममासि न गुरुर्नाहं विधेयस्तव ॥ १।१२ ॥
इत्युद्धतं परिक्रामति*
&सहदेवः&:
तमेवानुगच्छन्नात्मगतम्*
अये कथमार्यः पाञ्चाल्याश्चतुःशालं प्रविष्टः । भवतु तावदहमत्रैव तिष्ठामि ।इति स्थितः*
&भीमसेनः&:
प्रतिनिवृत्यावलोक्य च*
सहदेव गच्छ त्वं गुरुमनुवर्तस्व । अहमप्यायुधागारं प्रविश्यायुधसहायो भवामि ।
&सहदेवः&:
आर्य नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदम् ।
&भीमसेनः&:
सवितर्कम्*
किं नाम नेदमायुधागारं पाञ्चाल्याश्चतुःशालमिदम् ।किञ्चिद्विहस्य सहर्षम्*
आमन्त्रयितव्या मया पाञ्चाली ।सप्रणयं सहदेवं हस्ते गृहीत्वा*
वत्स आगम्यताम् । यदार्यः कुरुभिः सन्धानमिच्छन्नस्मान्पीडयति तद्भवानपि पश्यतु ।
उभौ प्रवेशं नाटयतः*
&सहदेवः&:
आर्य इदमासनमास्तीर्णम् । अत्रोपविश्य प्रतिपालयत्वार्यः कृष्णागमनम् ।
&भीमसेनः&:
उपविश्य*
वत्स कृष्णागमनमित्यनेनोपोद्घातेन स्मृतम् । अथ भगवान्कृष्णः केन पणेन सन्धिं कर्तुं सुयोधनं प्रति प्रहितः ।
&सहदेवः&:
आर्य पञ्चभिर्ग्रामैः ।
&भीमसेनः&:
कर्णौ पिधाय*
अहह हन्त देवस्याजातशत्रोरप्ययमीदृशस्तेजोपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् ।परिवृत्य स्थित्वा*
तद्वत्स न त्वया कथितं न मया श्रुतम् ।
वेर्से_१।१३
यत्तदूर्जितमत्युग्रं क्षात्रं तेजो ऽस्य भूपतेः ।
दीव्यताक्षैस्तदानेन नूनं तदपि हारितम् ॥ १।१३ ॥
नेपथ्ये*
{प्क्त्_१}समस्ससदु समस्ससदु भट्टिणी ।
स्क्त्छ्_१: समाश्वसितु समाश्वसितु भट्टिनी ।
&सहदेवः&:
नेपथ्याभिमुखमवलोक्यात्मगतम्*
अये कथं याज्ञसेनी मुहुरुपचीयमानबाष्पपटलस्थगितनयनार्यसमीपमुपसर्पति । तत्कष्टतरमापतितम् ।
वेर्से_१।१४
यद्वैद्युतमिव ज्योतिरार्ये क्रुद्धे ऽद्य सम्भृतम् ।
तत्प्रावृडिव कृष्णेयं नूनं संवर्धयिष्यति ॥ १।१४ ॥
ततः प्रविशति यथानिर्दिष्टा द्रौपदी चेटी च । द्रौपदी सास्रं निश्वसिति*
&चेटी&:
{प्क्त्_२}समस्ससदु समस्ससदु भट्टिणी । अबणैस्सदि दे मण्णुं णिच्चाणुबद्धकुरुवेलो कुमालो भीमसेणो ।
स्क्त्छ्_२: समाश्वसितु समाश्वसितु भट्टिनी । अपनेष्यति ते मन्युं नित्यानुबद्धकुरुवैरः कुमारो भीमसेनः ।
&द्रौपदी&:
{प्क्त्_३}हञ्जे बुद्धिमदिए होदि एदं जै महाराअस्स पडिउलो हुविस्सदि ।
स्क्त्छ्_३: हञ्जे बुद्धिमतिके भवत्येतद्यदि महाराजस्य प्रतिकूलो भविष्यति ।
&चेटी&:
{प्क्त्_४}विलोक्य*
एसो कुमालो चिट्ठदि । ता णं उबसप्पदु भट्टिणी ।
स्क्त्छ्_४: एष कुमारस्तिष्ठति । तदेनमुपसर्पतु भट्टिनी ।
&द्रौपदी&:
{प्क्त्_५}हञ्जे एव्वं करेम्ह ।
स्क्त्छ्_५: हञ्जे एवं कुर्वः ।
इति परिक्रामतः*
&चेटी&:
{प्क्त्_६}उपसृत्य*
जअदु जअदु कुमालो ।
स्क्त्छ्_६: जयतु जयतु कुमारः ।
&भीमसेनः&:
अशृण्वन्यत्तदूर्जितमिति पुनः पठति*
&चेटी&:
{प्क्त्_७}परिवृत्य*
भट्टिणि परिकुबिदो विअ कुमालो लक्खीअदि ।
स्क्त्छ्_७: भट्टिनि परिकुपित इव कुमारः लक्ष्यते ।
&द्रौपदी&:
{प्क्त्_८}हञ्जे जै एव्वं ता अवहीरणा बि एसा मं अस्सासअदि । ता एत्थ उबविट्ठा भविअ सुणोमि दाव णाहस्स ववसिदं ।
स्क्त्छ्_८: हञ्जे यद्येवं तदवधीरणाप्येषा मामाश्वासयति । तदत्रोपविष्टा भूत्वा शृणोमि तावन्नाथस्य व्यवसितम् ।
उभे तथा कुरुतः*
&भीमसेनः&:
सक्रोधं सहदेवमधिकृत्य*
किं नाम पञ्चभिर्ग्रामैः सन्धिः ।
वेर्से_१।१५
मथ्नामि कौरवशतं समरे न कोपा- $ द्दुःशासनस्य रुधिरं न पिबाम्युरस्तः &
सञ्चूर्णयामि गदया न सुयोधनोरू ē̃ सन्धिं करोतु भवतां नृपतिः पणेन ॥ १।१५ ॥
&द्रौपदी&:
{प्क्त्_९}सहर्षं जनान्तिकम्*
णाह अस्सुदपुव्वं खु दे ईदिसं वअणं । ता पुणो बि दाव भणाहि ।
स्क्त्छ्_९: नाथ अश्रुतपूर्वं खलु त ईदृशं वचनम् । तत्पुनरपि तावद्भण ।
&भीमसेनः&:
अशृण्वन्नेव मथ्नामीत्यादि पुनः पठति*
&सहदेवः&:
आर्य किं महाराजस्य सन्देशो ऽव्युत्पन्न इव गृहीतः ।
&भीमसेनः&:
का पुनरत्र व्युत्पत्तिः ।
&सहदेवः&:
आर्य एवं गुरणा सन्दिष्टम् ।
&भीमसेनः&:
कस्य ।
&सहदेवः&:
सुयोधनस्य ।
&भीमसेनः&:
किमिति ।
&सहदेवः&:
वेर्से_१।१६
इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् ।
प्रयच्छ चतुरो ग्रामान्कञ्चिदेकं तु पञ्चमम् ॥ १।१६ ॥
&भीमसेनः&:
ततः किम् ।
&सहदेवः&:
तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विषभोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्घाटनमेवेदं मन्ये ।
&भीमसेनः&:
साटोपम्*
वत्स एवं कृते किं कृतं भवति ।
&सहदेवः&:
आर्य एवं कृते लोके तावत्स्वगोत्रक्षयाशङ्कि हृदयमाविष्कृतं भवति कुरुराजस्यासन्धेयता च दर्शिता भवति ।
&भीमसेनः&:
सर्वमप्येतदनर्थकम् । कुरुराजस्य तावदसन्धेयता तदैव निवेदिता यदैवास्माभिरितो वनं गच्छद्भिः सर्वैरेव कुरुकुलस्य निधनं प्रतिज्ञातम् । लोके ऽपि च धार्तराष्ट्रकुलक्षयः किं लज्जाकरो भवताम् । अपि च रे मूर्ख
वेर्से_१।१७
युष्मान्ह्रेपयति क्रोधाल्लोके शत्रुकुलक्षयः ।
न लज्जयति दाराणां सभायां केशकर्षणम् ॥ १।१७ ॥
&द्रौपदी&:
{प्क्त्_१०}जनान्तिकम्*
णाह ण लज्जन्ति एदे । तुमं बि दाव मा विसुमरेहि ।
स्क्त्छ्_१०: नाथ न लज्जन्त एते । त्वमपि तावन्मा विस्मार्षीः ।
&भीमसेनः&:
सस्मरणम्*
वत्स कथं चिरयति पाञ्चाली ।
&सहदेवः&:
आर्य का खलु वेला तत्रभवत्याः प्राप्तायाः । किं तु रोषावेशवशादागताप्यार्येण नोपलक्षिता ।
&भीमसेनः&:
दृष्ट्वा सादराम्*
देवि समुद्धतामर्षैरस्माभिरागतापि भवती नोपलक्षिता । अतो न मन्युं कर्तुमर्हसि ।
&द्रौपदी&:
{प्क्त्_११}णाह उदासीणेसु तुम्हेसु मण्णू ण उण कुबिदेसु ।
स्क्त्छ्_११: नाथ उदासीनेषु युष्मासु मन्युर्न पुनः कुपितेषु ।
&भीमसेनः&:
यद्येवमपगतपरीभवमात्मानं समर्थयस्व ।हस्तं गृहीत्वा पार्श्वे समुपवेश्य मुखमवलोक्य*
किं पुनरत्रभवतीमुद्विग्नामिवोपलक्षयामि ।
&द्रौपदी&:
{प्क्त्_१२}णाह किं उव्वेअकालणं तुम्हेसु सण्णिहिदेसु ।
स्क्त्छ्_१२: नाथ किमुद्वेगकारणं युष्मासु सन्निहितेषु ।
&भीमसेनः&:
किमिति नावेदयसि ।केशानवलोक्य*
अथ वा किमावेदितेन
वेर्से_१।१८
जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेषु च ।
पाञ्चालराजतनया वहते यदिमां दशाम् ॥ १।१८ ॥
&द्रौपदी&:
{प्क्त्_१३}हञ्जे बुद्धिमदिए णिवेदेहि दाव णाहस्स । को अण्णो मह परिहवेण खिज्जदि ।
स्क्त्छ्_१३: हञ्जे बुद्धिमतिके निवेदय तावन्नाथस्य । को ऽन्यो मम परीभवेन खिद्यते ।
&चेटी&:
{प्क्त्_१४}जं देवी आणवेदि ।भीममुपसृत्याञ्जलिं बद्ध्वा*
कुमाल इदो बि अहिअं अज्ज मण्णुकालणं आसी देवीए ।
स्क्त्छ्_१४: यद्देव्याज्ञापयति । कुमार इतो ऽप्यधिकमद्य मन्युकारणमासीद्देव्याः ।
&भीमसेनः&:
किं नामास्मादप्यधिकतरम् । तत्कथय कथय ।
वेर्से_१।१९
कौरव्यवंशदावे ऽस्मिन्क एष शलभायते ।
मुक्तवेणीं स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ १।१९ ॥
&चेटी&:
{प्क्त्_१५}सुणादु कुमालो । अज्ज खु देवी अम्बासहिदा सुभद्दप्पमुहेण सबत्तिवग्गेण परिवुदा अज्जाए गन्धालीए पादवन्दणं कादुं गदा आसी ।
स्क्त्छ्_१५: शृणोतु कमारः । अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेण सपत्नीवर्गेण परिवृतार्याया गान्धार्याः पादवन्दनं कर्तुं गतासीत् ।
&भीमसेनः&:
युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः ।
&चेटी&:
{प्क्त्_१६}तदो पडिणिउत्तमाणा भाणुमदीए दिट्ठा ।
स्क्त्छ्_१६: ततः प्रतिनिवर्तमाना भानुमत्या दृष्टा ।
&भीमसनः&:
सक्रोधम्*
आः शत्रोर्भार्यया दृष्टा । हन्त स्थानं क्रोधस्य देव्याः । ततस्ततः ।
&चेटी&:
{प्क्त्_१७}तदो ताए देविं पेक्खिअ सहीवअणदिण्णदिट्ठीए सगव्वं ईसि विहसिअ भणिदं ।
स्क्त्छ्_१७: ततस्तया देवीं प्रेक्ष्य सखीवदनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् ।
&भीमसेनः&:
न केवलं दृष्टोक्ता च । अहो किं कुर्मः । ततस्ततः ।
&चेटी&:
{प्क्त्_१८}ऐ जण्णसेणि पञ्च गामा पत्थीअन्ति त्ति सुणीअदि । कीस दाणिं बि दे केसा ण सञ्जमीअन्ति ।
स्क्त्छ्_१८: अयि याज्ञसेनि पञ्चग्रामाः प्रार्थ्यन्त इति श्रूयते । कस्मादिदानीमपि ते केशा न संयम्यन्ते ।
&भीमसेनः&:
सहदेव श्रुतम् ।
&सहदेवः&:
किमिहोच्यते । दुर्योधनकलत्रं हि सा । पश्य ।
वेर्से_१।२०
स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि ।
मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥ १।२० ॥
&भीमसेनः&:
बुद्धिमतिके ततो देव्या किमभिहितम् ।
&चेटी&:
{प्क्त्_१९}कुमाल जै परिजणहीणा भवे तदो देवी भणादि ।
स्क्त्छ्_१९: कुमार यदि परिजनहीना भवेत्तदा देवी भणति ।
&भीमसेनः&:
किं पुनरभिहितं भवत्या ।
&चेटी&:
{प्क्त्_२०}मए एव्वं भणिदं । ऐ भाणुमदि तुम्हाणं अमुक्केसु केसेसु कहं अम्हाणं देवीए केसा सञ्जमीअन्ति त्ति ।
स्क्त्छ्_२०: मया एवं भणितम् । अयि भानुमति युष्माकममुक्तेषु केशेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति ।
&भीमसेनः&:
सपरितोषम्*
साधु बुद्धिमतिके साधु । तदभिहितं यदस्मत्परिजनोचितम् ।स्वाभरणानि बुद्धिमतिकायै प्रयच्छति*
अत्रभवति पाञ्चालराजतनये श्रूयताम् । अचिरेणैव कालेन
वेर्से_१।२१
चञ्चद्भुजभ्रमितचण्डगदाभिघात- $ सञ्चूर्णितोरुयुगलस्य सुयोधनस्य &
स्त्यानावनद्धघनशोणितशोणपाणि- ē̃ रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ १।२१ ॥
[सन्ध्यङ्ग । वलुए=“परिन्यास” रेस्प्=“व् ६।७१” फ़्रोम्=“प्ल्३”]
&द्रौपदी&:
{प्क्त्_२१}किं णाह दुक्करं तुए परिकुबिदेण ।
अणुगेण्हन्तु एदं ववसिदं दे भादरो ।
स्क्त्छ्_२१: किं नाथ दुष्करं त्वया परिकुपितेन । अनुगृह्णन्त्वेतद्व्यवसितं ते भ्रातरः ।
[सन्ध्यङ्ग । वलुए=“विलोभन” रेस्प्=“व् ६।७२” फ़्रोम्=“छ्२१” तो=“प्ल्४”]
&सहदेवः&:
अनुगृहीतमेतदस्माभिः ।
नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति*
&भीमसेनः&:
वेर्से_१।२२
मन्थायस्तार्णवाम्भःप्लुतकुहरवलन्मन्दरध्वानधीरः $ कोणाघातेषु गर्जत्प्रलयघनघटान्यो ऽन्यसङ्घट्टचण्डः &
कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः ē̃ केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताड्यते ऽयम् ॥ १।२२ ॥
प्रविश्य सम्भ्रान्तः*
&कञ्चुकी&:
कुमार एष खलु भगवान्वासुदेवः ।
सर्वे कृताञ्जलयः समुत्तिष्ठन्ति*
&भीमसेनः&:
ससम्भ्रमम्*
क्वासौ भगवान् ।
&कञ्चुकी&:
पाण्डवपक्षपातामर्षितेन सुयोधनेन संयन्तुमारब्धः ।
सर्वे सम्भ्रमं नाटयन्ति*
&भीमसेनः&:
किं संयतः ।
&कञ्चुकी&:
न हि न हि संयन्तुमारब्धः ।
&भीमसेनः&:
किं कृतं देवेन ।
&कञ्चुकी&:
ततः स महात्मा दर्शितविश्वरूपतेजःसम्पातमूर्च्छितमवधूय कुरुकुलमस्मच्छिबिरसन्निवेशमनुप्राप्तः । कमारमविलम्बितं द्रष्टुमिच्छति ।
&भीमसेनः&:
सोपहासम्*
किं नाम दुरात्मा सुयोधनो भगवन्तं संयन्तुमिच्छति ।आकाशे दत्तदृष्टिः*
आः दुरात्मन्कुरुकुलपांसन एवमतिक्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् ।
&सहदेवः&:
आर्य किमसौ दुरात्मा सुयोधनो वासुदेवमपि भगवन्तं स्वेन रूपेण न जानाति ।
&भीमसेनः&:
वत्स मूढः खल्वयं दुरात्मा । कथं जानातु । पश्य ।
वेर्से_१।२३
आत्मारामा विहितमतयो निर्विकल्पे समाधौ $ ज्ञानोद्रेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः &
यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्ता- ē̃ त्तं मोहान्धः कथमयममुं वेत्तु देवं पुराणम् ॥ १।२३ ॥
आर्य जयन्धर किमिदानीमध्यवस्यति गुरुः ।
&कञ्चुकी&:
स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः ।
इति निष्क्रान्तः*
नेपथ्ये कलकलानन्तरम्*
भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयो ऽस्मदक्षौहिणीपतयः कौरवचमूप्रधानयोधाश्च शृण्वन्तु भवन्तः ।
वेर्से_१।२४
यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं $ यद्विस्मर्तुमपीहितं शमवता शान्तिं कुलस्येच्छता &
तद्द्यूतारणिसम्भृतं नृपवधूकेशाम्बराकर्षणैः ē̃ क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ १।२४ ॥
&भीमसेनः&:
आकर्ण्य । सहर्षम्*
जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः ।
&द्रौपदी&:
{प्क्त्_२२}णाह किं दाणिं एसो पलअजलहरत्थणिदमंसलो खणे खणे समरदुन्दुही ताडीअदि ।
स्क्त्छ्_२२: नाथ किमिदानीमेष प्रलयजलधरस्तनितमांसलः क्षणे क्षणे समरदुन्दुभिस्ताड्यते ।
&भीमसेनः&:
देवि किमन्यत् । यज्ञः प्रवर्तते ।
&द्रौपदी&:
{प्क्त्_२३}सविस्मयम्*
को एसो जण्णो ।
स्क्त्छ्_२३: क एष यज्ञः ।
&भीमसेनः&:
रणयज्ञः । तथा हि
वेर्से_१।२५
चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः $ सङ्ग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता &
कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं ē̃ राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ १।२५ ॥
&सहदेवः&:
आर्य गच्छामो वयमिदानीं गुरुजनानुज्ञाप्ता किक्रमानुरूपमाचरितुम् ।
&भीमसेनः&:
वत्स एते वयमुद्यता एवार्यस्यानुज्ञानमनुष्ठातुम् ।*
उत्थाय**
देवि गच्छामो वयमिदानीं कुरुकुलक्षयाय ।
&द्रौपदी&:
{प्क्त्_२४}बाष्पं धारयन्ती*
णाह असुरसमराहिमुहस्स हरिणो विअ मङ्गलं तुम्हाणं होदु ।
स्क्त्छ्_२४: नाथ असुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु ।
&उभौ&:
प्रतिगृहीतं मङ्गलवचनमस्माभिः ।
&द्रौपदी&:
{प्क्त्_२५}अण्णं च णाह पुणो बि तुम्हेहिं समरादो आअच्छिअ अहं समासासैदव्वा ।
स्क्त्छ्_२५: अन्यच्च नाथ पुनरपि युष्माभिः समरादागत्याहं समाश्वासयितव्या ।
&भीमसेनः&:
ननु पाञ्चालराजतनये किमद्याप्यलीकाश्वासनया ।
वेर्से_१।२६
भूयः परिभवक्लान्तिलज्जाविधुरिताननम् ।
अनिःशेषितकौरव्यं न पश्यसि वृकोदरम् ॥ १।२६ ॥
&द्रौपदी&:
{प्क्त्_२६}णाह मा खु मा खु जण्णसेणीपरिहवुद्दीबिदकोबाणला अणवेक्खिदसरीरा सञ्चरिस्सह । जदो अप्पमत्तसञ्चरणिज्जाइं रिउबलाइं सुणीअन्ति ।
स्क्त्छ्_२६: नाथ मा खलु मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः सञ्चरिष्यथ । यतो ऽप्रमत्तसञ्चरणीयानि रिपुबलानि श्रूयन्ते ।
&भीमसेनः&:
अयि सुक्षत्रिये
वेर्से_१।२७
अन्यो ऽन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के $ मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ &
स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कबन्धे ē̃ सङ्ग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ १।२७ ॥
इति निष्क्रान्ताः सर्वे*
इति प्रथमो ऽङ्कः ।
अच्त्_२
द्वितीयो ऽङ्कः ।
ततः प्रविशति कञ्चुकी*
&कञ्चुकी&:
आदिष्टो ऽस्मि महाराजदुर्योधनेन । विनयन्धर सत्वरं गच्छ त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ताम्बायाः पादवन्दनसमयान्न वेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृतयो ऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्या इति । तन्मया द्रुततरं गन्तव्यम् । अहो प्रभविष्णुता महाराजस्य यन्मम जरसाभिभूतस्य मर्यादामात्रमेवावरोधव्यापारः । अथ वा किमिति जरामुपालभेय यतः सर्वान्तःपुरिकाणामेव व्यावहारिको वेषश्चेष्टा च । तथा हि
वेर्से_२।१
नोच्चैः सत्यपि चक्षुषीक्षितमलं श्रुत्वापि नाकर्णितं $ शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता &
सर्वत्र स्खलितेषु दत्तमनसा यातं मया नोद्धतं ē̃ सेवास्वीकृतजीवितस्य जरसा किं नाम यन्मे कृतम् ॥ २।१ ॥
परिक्रम्य दृष्ट्वाकाशे*
विहङ्गिके अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती ।कर्णं दत्त्वा*
किं कथयसि । एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुदेवपादवन्दनाद्यप्रभृत्यारब्धनियमा बालोद्याने तिष्ठतीति । तद्भद्रे गच्छ त्वमात्मव्यापाराय यावदहमप्यत्रस्थां देवीं महाराजाय निवेदयामि ।इति परिक्रम्य*
साधु पतिव्रते साधु स्त्रीभावे ऽपि वर्तमाना वरं भवती न पुनर्महाराजः यो ऽयमुद्यतेषु बलवत्स्वबलवत्सु वा वासुदेवसहायेषु पाण्डुपुत्रेष्वरिष्वद्याप्यन्तःपुरविहारमनुभवति ।विचिन्त्य*
इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः
वेर्से_२।२
आ शस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने- $ स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः &
प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो ē̃ बालस्यायमरातिलूनधनुषः प्रीतो ऽभिमन्योर्वधात् ॥ २।२ ॥
सर्वथा दैवं नः स्वस्ति करिष्यति । तद्यावदत्रस्थां देवीं महाराजाय निवेदयामि ।इति निष्क्रान्तः*
विष्कम्भकः ।
ततः प्रविशत्यासनस्था देवी भानुमती सखी चेटी च*
&सखी&:
{प्क्त्_२७}सहि भाणुमदि कीस दाणिं तुमं सिबिणअदंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी भविअ एव्वं विअलिअधीरभावा अदिमेत्तं सन्तप्पसि ।
स्क्त्छ्_२७: सखि भानुमति कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृते ऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवं विगलितधीरभावातिमात्रं सन्तप्यसे ।
&चेटी&:
{प्क्त्_२८}भट्टिणि सोहणं भणादि सुवअणा । सिबिणअन्तो जणो किं ण खु पलबदि ।
स्क्त्छ्_२८: भट्टिनि शोभनं वदति सुवदना । स्वपञ्जनः किं न खलु प्रलपति ।
&भानुमती&:
{प्क्त्_२९}हञ्जे एव्वं एदं । किं दु एदं सिबिणअं अदिमेत्तं अकुसलदंसणं मे पडिभादि ।
स्क्त्छ्_२९: हञ्जे एवमेतत् । किं त्वयं स्वप्नो ऽतिमात्रमकुशलदर्शनो मे प्रतिभाति ।
&सखी&:
{प्क्त्_३०}पिअसहि जै एव्वं ता कहेहि सिबिणअं जेण अम्हे बि पडिट्ठाबअन्तीओ धम्मप्पसंसाए देवदासङ्कित्तणेण दुव्वादिपडिग्गहेण अ पडिहडिस्सामो ।
स्क्त्छ्_३०: प्रियसखि यद्येवं तत्कथय स्वप्नं येनावामपि प्रतिष्ठापयन्त्यौ धर्मप्रशंसया देवतासङ्कीर्तनेन दूर्वादिपरिग्रहेण च परिहरिष्यावः ।
&चेटी&:
{प्क्त्_३१}सोहणं क्खु भणादि सुवअणा । अकुसलदंसणा सिबिणआ देवदाणं पसंसाए कुसलपरिणामा होन्ति त्ति सुणीअदि ।
स्क्त्छ्_३१: शोभनं खलु भणति सुवदना । अकुशलदर्शनाः स्वप्ना देवतानां प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते ।
&भानुमती&:
{प्क्त्_३२}जै एव्वं ता कहैस्सं । अवहिदा दाव होहि ।
स्क्त्छ्_३२: यद्येवं तत्कथयिष्ये । अवहिता तावद्भव ।
&सखी&:
{प्क्त्_३३}अवहिदम्हि । कहेदु पिअसही ।
स्क्त्छ्_३३: अवहितास्मि । कथयतु प्रियसखी ।
&भानुमती&:
{प्क्त्_३४}हला भएण विसुमरिदम्हि । ता चिट्ठ जाव सव्वं सुमरिअ कहैस्सं ।इति चिन्तां नाटयति*
स्क्त्छ्_३४: हला भयेन विस्मृतास्मि । तत्तिष्ठ यावत्सर्वं स्मृत्वा कथयिष्यामि ।
ततः प्रविशति दुर्योधनः कञ्चुकी च*
&दुर्योधनः&:
सूक्तमिदं कस्यचित् ।
वेर्से_२।३
गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः ।
करोति महतीं प्रीतिमपकारो ऽपकारिणाम् ॥ २।३ ॥
येनाद्य द्रोणकर्णजयद्रथादिभिर्हतमभिमन्युमुपश्रुत्य समुच्छ्वासितमिव नश्चेतसा ।
&कञ्चुकी&:
देव नेदमतिदुष्करमाचार्यशस्त्रप्रभावाणां कर्णजयद्रथयोर्वा । का नामात्र श्लाघा ।
&राजा&:
विनयन्धर किमाह भवान् । एको बहुभिर्बालो लूनशरासनश्च निहत इत्यत्र का श्लाघा कुरुपुङ्गवानामिति । मूढ पश्य ।
वेर्से_२।४
हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् ।
या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥ २।४ ॥
&कञ्चुकी&:
सवैलक्ष्यम्*
देव न ममायं सङ्कल्पः । किं तु भवत्पौरुषप्रतीघातो ऽस्माभिर्नावलोकितपूर्व इत्यत एवं विज्ञापयामि ।
&राजा&:
एवमिदम् ।
वेर्से_२।५
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् ।
स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतः सुयोधनम् ॥ २।५ ॥
&कञ्चुकी&:
कर्णौ पिधाय सभयम्*
शान्तं पापम् । प्रतिहतममङ्गलम् ।
&राजा&:
विनयन्धर किं मयोक्तम् ।
&कञ्चुकी&:
सहभृत्यगणं सबान्धवं सहमित्रं ससुतं सहानुजम् । स्वबलेन निहन्ति संयुगे न चिरात्पाण्डुसुतं सुयोधनः ॥ इति पठति*
एतद्विपरीतमभिहितं देवेन ।
&राजा&:
विनयन्धर अद्य खलु भानुमती यथापूर्वं मामनामन्त्र्य वासभवनात्प्रातरेव निष्क्रान्तेति व्याक्षिप्तं मे मनः । तदादेशय तमुद्देशं यत्रस्था भानुमती ।
&कञ्चुकी&:
इत इतो देवः ।
उभौ परिक्रामतः*
&कञ्चुकी&:
पुरो ऽवलोक्य समन्ततो गन्धमाघ्राय*
देव पश्य पश्य । एतत्तुहिनकणशिशिरसमीरणोद्वेल्लितबन्धनच्युतशेफालिकाविरचितकुसुमप्रकरमीषदालोहितमुग्धवधूकपोलपाटललोध्रप्रसूनविजितश्यामलतासौभाग्यमुन्मीलितबकुलकुन्दकुसुमसुरभिशीतलं प्रभातकालरमणीयमग्रतस्ते बालोद्यानम् । तदवलोकयतु देवः । तथा हि
वेर्से_२।६
प्रालेयमिश्रमकरन्दकरालकोशैः $ पुष्पैः समं निपतिता रजनीप्रबुद्धैः &
अर्कांशुभिन्नमुकुलोदरसान्द्रगन्ध- ē̃ संसूचितानि कमलान्यलयः पतन्ति ॥ २।६ ॥
&राजा&:
समन्तादवलोक्य*
विनयन्धर इदमपरममुष्मिन्नुषसि रमणीयम् । पश्य ।
वेर्से_२।७
जृम्भारम्भप्रविततदलोपान्तजालप्रविष्टै- $ र्हस्तैर्भानोर्नृपतय इव स्पृश्यमाना विबुद्धाः &
स्त्रीभिः सार्धं घनपरिमलस्तोकलक्ष्याङ्गरागा ē̃ मुञ्चन्त्येते विकचनलिनीगर्भशय्यां द्विरेफाः ॥ २।७ ॥
&कञ्चुकी&:
देव नन्वेषा देवी भानुमती सुवदनया तरलिकया च पर्युपास्यमाना तिष्ठति । तदुपसर्पतु देवः ।
&राजा&:
दृष्ट्वा*
आर्य विनयन्धर गच्छ त्वं साङ्ग्रामिकं मे रथमुपकल्पयितुम् । अहमप्येष देवीं दृष्ट्वानुपदमागत एव ।
&कञ्चुकी&:
एष कृतो देवादेशः ।इति निष्क्रान्तः*
&सखी&:
{प्क्त्_३५}पिअसहि अबि सुमरिदं तुए ।
स्क्त्छ्_३५: प्रियसखि अपि स्मृतं त्वया ।
&भानुमती&:
{प्क्त्_३६}सहि सुमरिदं । अज्ज किल पमदवणे आसीणाए मम अग्गदो केण बि अदिसैददिव्वरूबिणा णौलेण अहिसदं वाबादिदं ।
स्क्त्छ्_३६: सखि स्मृतम् । अद्य किल प्रमदवन आसीनाया ममाग्रतः केनाप्यतिशयितदिव्यरूपिणा नकुलेनाहिशतं व्यापादितम् ।
&उभे&:
{प्क्त्_३७}अपवार्यात्मगतम्*
सन्तं पाबं पडिहदं अमङ्गलं ।प्रकाशम्*
तदो तदो ।
स्क्त्छ्_३७: शान्तं पापं प्रतिहतममङ्गलम् । ततस्ततः ।
&भानुमती&:
{प्क्त्_३८}अदिसन्दाबोबगहीअहिअआए विसुमरिदं मए । ता पुणो बि सुमरिअ कहैस्सं ।
स्क्त्छ्_३८: अतिसन्तापोपगृहीतहृदयया विस्मृतं मया । तत्पुनरपि स्मृत्वा कथयिष्ये ।
&राजा&:
अहो देवी भानुमती सुवदनातरलिकाभ्यां सह किमपि मन्त्रयमाणा तिष्ठति । भवतु । अनेन लताजालेनान्तरितः शृणोमि तावदासां विश्रब्धालापम् ।इति तथा स्थितः*
&सखी&:
{प्क्त्_३९}सहि अलं सन्दाबेण । कहेदु पिअसही ।
स्क्त्छ्_३९: सखि अलं सन्तापेन । कथयतु प्रियसखी ।
&राजा&:
किं नु खल्वस्याः सन्तापकारणम् । अथ वानामन्त्र्य मामियमद्य वासभवनान्निष्क्रान्तेति समर्थित एवास्या मया कोपः । अयि भानुमति अविषयः खलु दुर्योधनो भवत्याः कोपस्य ।
वेर्से_२।८
किं कण्ठे शिथिलीकृतो भुजलतापाशः प्रमादान्मया $ निद्राच्छेदविवर्तनेष्वभिमुखं नाद्यासि सम्भाविता &
अन्यस्त्रीजनसङ्कथालघुरहं स्वप्ने त्वया लक्षितो ē̃ दोषं पश्यसि कं प्रिये परिजनोपालम्भयोग्ये मयि ॥ २।८ ॥
विचिन्त्य*
अथ वा
वेर्से_२।९
इयमस्मदुपाश्रयैकचित्ता मनसा प्रेमनिबद्धमत्सरेण ।
नियतं कुपितातिवल्लभत्वात्स्वयमुत्प्रेक्ष्य ममापराधलेशम् ॥ २।९ ॥
तथापि शृणुमस्तावत्किं वक्ष्यतीति ।
&भानुमती&:
{प्क्त्_४०}हला हं तदो तस्स अदिसैददिव्वरूबिणो णौलस्स दंसणेण उस्सुआ जादा ।
स्क्त्छ्_४०: हला अहं ततस्तस्यातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता ।
&राजा&:
सवैलक्ष्यम्*
किं नामातिशयितदिव्यरूपिणो नकुलस्य दर्शनेनोत्सुका जाता । तत्किमनया पापया माद्रीसुतानुरक्तया वयमेवं विप्रलब्धाः ।सोत्प्रेक्षमियमस्मदिति पठित्वा*
मूढ दुर्योधन कुलटाविप्रलभ्यमानमात्मानं बहुमन्यमानो ऽधुना किं वक्ष्यसि ।किं कण्ठ इत्यादि पठित्वा दिशो ऽवलोक्य*
अहो एतदर्थमेवास्याः प्रातरेव विविक्तस्थानाभिलाषः सखीजनसङ्कथासु च पक्षपातः । दुर्योधनस्तु मोहादविज्ञातबन्धकीहृदयसारः क्वापि परिभ्रान्तः । आः पापे मत्परिग्रहपांसुले
वेर्से_२।१०
तद्भीरुत्वं तव मम पुरः साहसानीदृशानि $ श्लाघा सास्मद्वपुषि विनयव्युत्क्रमे ऽप्येष रागः &
तच्चौदार्यं मयि जडमतौ चापले को ऽपि पन्थाः ē̃ ख्याते तस्मिन्वितमसि कुले जन्म कौलीनमेतत् ॥ २।१० ॥
&सखी&:
{प्क्त्_४१}तदो तदो ।
स्क्त्छ्_४१: ततस्ततः ।
&भानुमती&:
{प्क्त्_४२}तदो उज्झिअ तं आसणट्ठाणं लदामण्डबं पविट्ठा । तदो सो बि मं अणुसरन्तो एव्व लदामण्डबं पविट्ठो ।
स्क्त्छ्_४२: तत उज्झित्वा तदासनस्थानं लतामण्डपं प्रविष्टा । ततः सो ऽपि मामनुसरन्नेव लतामण्डपं प्रविष्टः ।
&राजा&:
अहो कुटलोचितमस्याः पापाया अशालीनत्वम् ।
वेर्से_२।११
यस्मिंश्चिरप्रणयनिर्भरबद्धभाव- $ मावेदितो रहसि मत्सुरतोपभोगः &
तत्रैव दुश्चरितमद्य निवेदयन्ती ē̃ ह्रीणासि पापहृदये न सखीजने ऽस्मिन् ॥ २।११ ॥
&उभे&:
{प्क्त्_४३}तदो तदो ।
स्क्त्छ्_४३: ततस्ततः ।
&भानुमती&:
{प्क्त्_४४}तदो तेण सगव्वं पसारिअकरेण अपहरिअं मे थणंसुअं ।
स्क्त्छ्_४४: ततस्तेन सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।
&राजा&:
विचिन्त्य*
सगर्वं प्रसारितकरेणापहृतं मे स्तनांशुकम् ।सक्रोधम्*
अलमतः परं श्रुत्वा । भवतु तावत्तस्य परवनितास्कन्दनप्रगल्भस्य माद्रीसुतहतकस्य जीवितमपहरामि ।किञ्चिद्गत्वा विचिन्त्य*
अथ वेयमेव तावत्पापशीला प्रथममनुशासनीया ।इति निवर्तते*
&उभे&:
{न्_४५}तदो तदो ।
स्क्त्छ्_४५: ततस्ततः ।
&भानुमती&:
{प्क्त्_४६}तदो हं अज्जौत्तस्स पभादमङ्गलतूररवमिस्सेण वारविलासिणीसङ्गीदसद्देण पडिबोधिदम्हि ।
स्क्त्छ्_४६: ततो ऽहमार्यपुत्रस्य प्रभातमङ्गलतूर्यरवमिश्रेण वारविलासिनीसङ्गीतशब्देन प्रतिबोधितास्मि ।
&राजा&:
सवितर्कम्*
किं नु प्रतिबोधितास्मीति स्वप्नदर्शनमनया वर्णितं भवेत् ।विचिन्त्य*
भवतु सखीवचनाद्व्यक्तिर्भविष्यति ।
उभे सविषादमन्यो ऽन्यं पश्यतः*
&सुवदना&:
{प्क्त्_४७}जं किं बि एत्थ अच्चाहिदं तं भाईरहीप्पमुहाणं णईणं सलिलेण अवहरीअदु । भअवदाणं बम्हणाणं बि आसीसाए आहुदिहुदेण पज्जलिदेण भअवदा हुदासणेण अ णस्सदु ।
स्क्त्छ्_४७: यत्किमप्यत्रात्याहितं तद्भागीरथीप्रमुखाणां नदीनां सलिलेनापह्रियताम् । भगवतां ब्राह्मणानामप्याशिषाहुतिहुतेन प्रज्वलितेन भगवता हुताशनेन च नश्यतु ।
&राजा&:
अलं विकल्पेन । स्वप्नदर्शनमेवैतदनया वर्णितम् । मया पुनर्मन्दधियान्यथैव सम्भावितम् ।
वेर्से_२।१२
दिष्ट्यार्धश्रुतिविप्रलम्भजनितक्रोधादहं नो गतो $ दिष्ट्या नो परुषं रुषार्धकथने किञ्चिन्मया व्याहृतम् &
मां प्रत्याययितुं विमूढहृदयं दिष्ट्या कथान्तं गता ē̃ मिथ्यादूषितयानया विरहितं दिष्ट्या न जातं जगत् ॥ २।१२ ॥
&भानुमती&:
{प्क्त्_४८}हला कहेहि किं एत्थ सुहसूअअं ।
स्क्त्छ्_४८: हला कथय किमत्र शुभसूचकम् ।
&सखी चेटी च&:
{प्क्त्_४९}अन्यो ऽन्यमवलोक्यापवार्य*
एत्थ णत्थि थोअं बि सुहसूअअं । जै एत्थ अलीअं कहैस्सं ता पिअसहीए अबराहिणी भविस्सं । सो एव्व सिणिद्धो जणो जो पुच्छिदो परुसं बि हिदं भणादि ।प्रकाशम्*
सहि सव्वं एव्व एदं असुहणिवेदणं । ता देवदाणं पणामेण दुजादिजणपडिग्गहेण अ अन्तरीअदु । ण हु दाठिणो णौलस्स वा दंसणं अहिसदवहं अ सिबिणए पसंसन्ति विअक्खणा ।
स्क्त्छ्_४९: अत्र नास्ति स्तोकमपि शुभसूचकम् । यद्यत्रालीकं कथयिष्ये तत्प्रियसख्या अपराधिनी भविष्यामि । स एव स्निग्धो जनो यः पृष्टः परुषमपि हितं भणति । सखि सर्वमेवैतदशुभनिवेदनम् । तद्देवतानां प्रणामेन द्विजातिजनप्रतिग्रहेण चान्तर्यताम् । न खलु दंष्ट्रिणो नकुलस्य वा दर्शनमहिशतवधं च स्वप्ने प्रशंसन्ति विचक्षणाः ।
&राजा&:
अवितथमाह सुवदना । नकुलेन पन्नगशतवधः स्तनांशुकापहरणं च नियतमरिष्टोदर्कं तर्कयामि ।
वेर्से_२।१३
पर्यायेण हि दृश्यन्ते स्वप्नाः कामं शुभाशुभाः ।
शतसङ्ख्या पुनरियं सानुजं स्पृशतीव माम् ॥ २।१३ ॥
वामाक्षिस्पन्दनं सूचयित्वा*
आः ममापि नाम दुर्योधनस्यानिमित्तानि हृदयक्षोभमावेदयन्ति ।सावष्टम्भम्*
अथ वा भीरुजनहृदयप्रकम्पनेषु का गणना दुर्योधनस्यैवंविधेषु । गीतश्चायमर्थो ऽङ्गिरसा ।
वेर्से_२।१४
ग्रहाणां चरितं स्वप्नो ऽनिमित्तान्युपयाचितम् ।
फलन्ति काकतालीयं तेभ्यः प्राज्ञा न बिभ्यति ॥ २।१४ ॥
तद्भानुमत्याः स्त्रीस्वभावसुलभामलीकाशङ्कामपनयामि ।
&भानुमती&:
{प्क्त्_५०}हला सुवअणे पेक्ख दाव उदअगिरिसिहरन्तरिदविमुक्करहवरो विअलिदसञ्झाराअप्पसण्णदुरालोअमण्डलो जादो भअवं दिअहणाहो ।
स्क्त्छ्_५०: हला सुवदने पश्य तावदुदयगिरिशिखरान्तरितविमुक्तरथवरो विगलितसन्ध्यारागप्रसन्नदुरालोकमण्डलो जातो भगवान्दिवसनाथः ।
&सखी&:
{प्क्त्_५१}सहि रोसाणिदकणअपत्तसरिसेण लदाजालन्तरोबहिदकिरणणिवहेण पिञ्जरिदुज्जाणभूमिभाओ दुप्पेक्खणिज्जो भअवं सहस्सरस्सी संवुत्तो । ता समओ दे लोहिदचन्दणकुसुमगब्भेण अग्घेण पज्जुबट्ठादुं ।
स्क्त्छ्_५१: सखि रोषाणितकनकपत्रसदृशेन लताजालान्तरोपहितकिरणनिवहेन पिञ्जरितोद्यानभूमिभागो दुःप्रेक्षणीयो भगवान्सहस्ररश्मिः संवृत्तः । तत्समयस्ते लोहितचन्दनकुसुमगर्भेणार्घेण पर्युपस्थातुम् ।
&भानुमती&:
{प्क्त्_५२}हञ्जे तरलिए उबणेहि मे अग्घभाअणं जाव भअवदो सहस्सरस्सिणो सबरिअं णिव्वत्तेमि ।
स्क्त्छ्_५२: हञ्जे तरलिके उपनय मे ऽर्घ्यभाजनं यावद्भगवतः सहस्ररश्मेः सपर्यां निर्वर्तयामि ।
&चेटी&:
{प्क्त्_५३}जं देवी आणबेदि ।इति निष्क्रान्ता*
स्क्त्छ्_५३: यद्देव्याज्ञापयति ।
&राजा&:
अयमेव साधुतरोवसरः प्रियासमीपमुपगन्तुम् ।इत्युपसर्पति*
प्रविश्य*
&चेटी&:
{प्क्त्_५४}भट्टिणि एदं अग्घभाअणं । ता णिव्वत्तीअदु भअवदो सहस्सरस्सिणो सबरिआ ।
स्क्त्छ्_५४: भट्टिनि इदमर्घ्यभाजनम् । तन्निवर्त्यतां भगवतः सहस्ररश्मेः सपर्या ।
&सखी&:
{प्क्त्_५५}विलोक्यात्मगतम्*
कहं महाराओ आअदो । हन्त जादो से णिअमभङ्गो ।
स्क्त्छ्_५५: कथं महाराज आगतः । हन्त जातो ऽस्या नियमभङ्गः ।
राजोपसृत्य सञ्ज्ञया परिजनमुत्सार्य स्वयमेवार्घ्यपात्रं गृहीत्वा ददाति*
&भानुमती&:
{प्क्त्_५६}दिनकराभिमुखी भूत्वा*
भअवं अम्बरमहासरेक्कसहस्सपत्त पुव्वदिहावहूमुहमण्डलकुङ्कुमविसेसअ सअलभुअणेक्करअणप्पदीब जं एत्थ सिबिणअदंसणे किं बि अच्चाहिदं तं भअवदो पणामेण सभादुअस्स अज्जौत्तस्स कुसलपरिणामि होदु ।अर्घ्यं दत्त्वा*
हञ्जे तरलिए उबणेहि मे कुसुमाइं । अबराणं बि देवदाणं सबरिअं णिव्वत्तेमि ।हस्तौ प्रसारयति*
स्क्त्छ्_५६: भगवन्नम्बरमहासरएकसहस्रपत्र पूर्वदिशावधूमुखमण्डलकुङ्कुमविशेषक सकलभुवनैकरत्नप्रदीप यदत्र स्वप्नदर्शने किमप्यत्याहितं तद्भगवतः प्रणामेन सभ्रातृकस्यार्यपुत्रस्य कुशलपरिणामि भवतु । हञ्जे तरलिके उपनय मे कुसुमानि । अपरासामपि देवतानां सपर्यां निर्वर्तयामि ।
राजा पुष्पाण्युपनयति स्पर्शसुखमभिनीय च कुसुमानि भूमौ पातयति*
&भानुमती&:
{प्क्त्_५७}सरोषम्*
अहो पमादो परिअणस्स ।परिवृत्य दृष्ट्वा ससम्भ्रमम्*
कहं अज्जौत्तो ।
स्क्त्छ्_५७: अहो प्रमादः परिजनस्य । कथमार्यपुत्रः ।
&राजा&:
देवि अनिपुणः परिजनो ऽयमेवंविधे सेवावकाशे । तत्प्रभवत्यत्रानुशासने देवी ।
भानुमती लज्जां नाटयति*
&राजा&:
अयि प्रिये
वेर्से_२।१५
विकिर धवलदीर्घापाङ्गसंसर्पि चक्षुः $ परिजनपथवर्तिन्यत्र किं सम्भ्रमेण &
स्मितमधुरमुदारं देवि मामालपोच्चैः ē̃ प्रभवति मम पाण्योरञ्जलिः सेवितुं त्वाम् ॥ २।१५ ॥
&भानुमती&:
{प्क्त्_५८}अज्जौत्त अब्भणुण्णादाए तुए अत्थि मे कस्सिं बि णिअमे अहिलासो ।
स्क्त्छ्_५८: आर्यपुत्र अभ्यनुज्ञातायास्त्वयास्ति मे कस्मिन्नपि नियमे ऽभिलाषः ।
&राजा&:
श्रुतविस्तार एवास्मि भवत्याः स्वप्नवृत्तान्तं प्रति । तदलमेवं प्रकृतिसुकुमारमात्मानं खेदयितुम् ।
&भानुमती&:
{प्क्त्_५९}अज्जौत्त अदिमेत्तं मे सङ्का बाहेइ । ता अणुमण्णदु मं अज्जौत्त ।
स्क्त्छ्_५९: आर्यपुत्र अतिमात्रं मां शङ्का बाधते । तदनुमन्यतां मामार्यपुत्रः ।
&राजा&:
सगर्वम्*
देवि अलमनया शङ्कया । पश्य ।
वेर्से_२।१६
किं नो व्याप्तदिशां प्रकम्पितभुवामक्षौहिणीनां फलं $ किं द्रोणेन किमङ्गराजविशिखैरेवं यदि क्लाम्यसि &
भीरु भ्रातृशतस्य मे भुजवनच्छायां सुखोपस्थिता ē̃ त्वं दुर्योधनकेसरीन्द्रगृहिणी शङ्कास्पदं किं तव ॥ २।१६ ॥
&भानुमती&:
{प्क्त्_६०}अज्जौत्त ण हु किं बि मे सङ्काकालणं तुम्हेसु सण्णिहिदेसु । किं तु अज्जौत्तस्स एव्व मणोरहसम्पत्तिं अभिणन्दामि ।
स्क्त्छ्_६०: आर्यपुत्र न खलु किमपि मे शङ्काकारणं युष्मासु सन्निहितेषु । किं त्वार्यपुत्रस्यैव मनोरथसम्पत्तिमभिनन्दामि ।
&राजा&:
अयि सुन्दरि एतावन्त एव मनोरथा यदहं दयितया सङ्गतः स्वेच्छया विहरामीति । पश्य ।
वेर्से_२।१७
प्रेमाबद्धस्तिमितनयनापीयमानाब्जशोभं $ लज्जायोगादविशदकथं मन्दमन्दस्मितं वा &
वक्त्रेन्दुं ते नियममुषितालक्तकाग्राधरं वा । ē̃ पातुं वाञ्छा परमसुलभं किं नु दुर्योधनस्य ॥ २।१७ ॥
नेपथ्ये महान्कलकलः । सर्व आकर्णयन्ति*
&भानुमती&:
{प्क्त्_६१}सभयं राजानं परिष्वज्य*
परित्ताअदु परित्ताअदु अज्जौत्तो ।
स्क्त्छ्_६१: परित्रायतां परित्रायतामार्यपुत्रः ।
&राजा&:
समन्तादवलोक्य*
प्रिये अलं सम्भ्रमेण । पश्य ।
वेर्से_२।१८
दिक्षु व्यूढाङ्घ्रिपाङ्गस्तृणजटिलचलत्पांशुदण्डो ऽन्तरिक्षे $ झाङ्कारी शर्करालः पथिषु विटपिनां स्कन्धकाषैः सधूमः &
प्रासादानां निकुञ्जेष्वभिनवजलदोद्गारगम्भीरधीर- ē̃ श्चण्डारम्भः समीरो वहति परिदिशं भीरु किं सम्भ्रमेण ॥ २।१८ ॥
&सखी&:
{प्क्त्_६२}महाराओ पविसदु एदं दारुपव्वअपासादं । उव्वेअकारी खु अअं उत्थिदपरुसरअकलुसीकिदणअणो उम्मूलिदतरुवरसद्दवित्तत्थमन्दुरापरिब्भट्ठवल्लहतुलङ्गमपज्जाउलीकिदजणपद्धई भीसणो समीरणासारो ।
स्क्त्छ्_६२: महाराजः प्रविशत्विमं दारुपर्वतप्रासादम् । उद्वेगकारी खल्वयमुत्थितपरुषरजःकलुषीकृतनयन उन्मूलिततरुवरशब्दवित्रस्तमन्दुरापरिभ्रष्टवल्लभतुरङ्गमपर्याकुलीकृतजनपद्धतिर्भीषणः समीरणासारः ।
&राजा&:
सहर्षम्*
उपकारि खल्विदं वात्याचक्रं सुयोधनस्य । यस्य प्रसादादयत्नपरित्यक्तनियमया देव्या सम्पादितो ऽस्मन्मनोरथः । कथमिति ।
वेर्से_२।१९
न्यस्ता न भ्रुकुटिर्न बाष्पसलिलैराच्छादिते लोचने $ नीतं नाननमन्यतः सशपथं नाहं स्पृशन्वारितः &
तन्व्या मग्नपयोधरं भयवशादाबद्धमालिङ्गितं ē̃ भङ्क्तास्या नियमस्य भीषणमरुन्नायं वयस्यो मम ॥ २।१९ ॥
तत्सम्पूर्णमनोरथस्य मे कामचारः सम्प्रति विहारेषु । तदितो दारुपर्वतप्रासादमेव गच्छामः ।
सर्वे वात्याबाधां रूपयन्तो यत्नतः परिक्रामन्ति*
&राजा&:
वेर्से_२।२०
कुरु घनोरु पदानि शनैः शनैरयि विमुञ्च गतिं परिवेपिनीम् ।
पतसि बाहुलतोपरिबन्धनं मम निपीडय गाढमुरःस्थलम् ॥ २।२० ॥
प्रवेशं रूपयित्वा*
प्रिये अलब्धावकाशः समीरणः संवृतत्वाद्गर्भगृहस्य । विस्रब्धमुन्मीलय चक्षुरुन्मृष्टरेणुनिकरम् ।
&भानुमती&:
{प्क्त्_६३}सहर्षम्*
दिट्ठिआ इह दाव उप्पादसमीरणो ण बाधेदि ।
स्क्त्छ्_६३: दिष्ट्येह तावदुत्पातसमीरणो न बाधते ।
&सखी&:
{प्क्त्_६४}महाराअ आरोहणसम्भमणिस्सहं पिअसहीए ऊरुजुअलं । ता कीस दाणिं महाराओ आसणवेदिं ण भूसेदि ।
स्क्त्छ्_६४: महाराज आरोहणसम्भ्रमनिःसहं प्रियसख्या ऊरुयुगलम् । तत्कस्मादिदानीं महाराज आसनवेदीं न भूषयति ।
&राजा&:
देवीमवलोक्य*
भवति अनल्पमेवापकृतं वात्यासम्भ्रमेण । तथा हि
वेर्से_२।२१
रेणुर्बाधां विधत्ते तनुरपि महतीं नेत्रयोरायतत्वा- $ दुत्कम्पो ऽल्पो ऽपि पीनस्तनभरितमुरः क्षिप्तहारं दुनोति &
ऊर्वोर्मन्दे ऽपि याते पृथुजघनभराद्वेपथुर्वर्धते ऽस्या ē̃ वात्या खेदं कृशाङ्गयाः सुचिरमवयवैर्दत्तहस्ता करोति ॥ २।२१ ॥
सर्व उपविशन्ति*
&राजा&:
तत्किमित्यनास्तीर्णं कठिनं शिलातलमध्यास्ते देवी ।
वेर्से_२।२२
लोलांशुकस्य पवनाकुलितांशुकान्तं $ त्वद्दृष्टिहारि मम लोचनबान्धवस्य &
अध्यासितुं तव चिरं जघनस्थलस्य ē̃ पर्याप्तमेव करभोरु ममोरुयुग्मम् ॥ २।२२ ॥
प्रविश्य पटाक्षेपेण सम्भ्रान्तः*
&कञ्चुकी&:
देव भग्नं भग्नम् ।
सर्वे सातङ्कं पश्यन्ति*
&राजा&:
किं नाम ।
&कञ्चुकी&:
भग्नं भीमेन ।
&राजा&:
आः किं प्रलपसि ।
&भानुमती&:
{प्क्त्_६५}अज्ज किं अणत्थं मन्तेसि ।
स्क्त्छ्_६५: आर्य किमनर्थं मन्त्रयसे ।
&कञ्चुकी&:
सभयम्*
ननु भग्नं भीमेन भवतः ।
&राजा&:
धिक्प्रलापिन्वृद्धापसद को ऽयमद्य ते व्यामोहः ।
&कञ्चुकी&:
देव न खलु कश्चिद्व्यामोहः । सत्यमेव ब्रवीमि ।
वेर्से_२।२३
भग्नं भीमेन भवतो मरुता रथकेतनम् ।
पतितं किङ्किणीक्वाणबद्धाक्रन्दमिव क्षितौ ॥ २।२३ ॥
&राजा&:
बलवत्समीरणवेगात्कम्पिते भुवने भग्नः स्यन्दनकेतुः । तत्किमित्युद्धतं प्रलपसि भग्नं भग्नमिति ।
&कञ्चुकी&:
देव न किञ्चित् । किं तु शमनार्थमस्यानिमित्तस्य विज्ञापयितव्यो देव इति स्वामिभक्तिर्मां मुखरयति ।
&भानुमती&:
{प्क्त्_६६}अज्जौत्त परिहरीअदु एदं अणिमित्तं पसण्णबम्हणवेआणुघोसेण होमेण अ ।
स्क्त्छ्_६६: आर्यपुत्र परिहार्यतामेतदनिमित्तं प्रसन्नब्राह्मणवेदानुघोषेण होमेन च ।
&राजा&:
सावज्ञम्*
ननु गच्छ । पुरोहितसुमित्राय निवेदय ।
&कञ्चुकी&:
यदाज्ञापयति देवः ।इति निष्क्रान्तः*
प्रविश्य*
&प्रतीहारी&:
{प्क्त्_६७}सोद्वेगमुपसृत्य*
जअदु जअदु महाराओ । महाराअ एसा खु जामादुणो सिन्धुराअस्स मादा दुस्सला अ पडिहारभूमीए चिट्ठदि ।
स्क्त्छ्_६७: जयतु जयतु महाराजः । महाराज एषा खलु जामातुः सिन्धुराजस्य माता दुःशला च प्रतीहारभूमौ तिष्ठति ।
&राजा&:
किञ्चिद्विचिन्त्यात्मगतम्*
किं जयद्रथमाता दुःशला चेति । कच्चिदभिमन्युवधामर्षितैः पाण्डुपुत्रैर्न किञ्चिदत्याहितमाचेष्टितं भवेत् ।प्रकाशम्*
गच्छ । प्रवेशय शीघ्रम् ।
&प्रतीहारी&:
{प्क्त्_६८}जं महाराओ आणबेदि ।इति निष्क्रान्तः*
स्क्त्छ्_६८: यन्महाराज आज्ञापयति ।
ततः प्रविशति सम्भ्रान्ता जयद्रथमाता दुःशला च । उभे सास्रं दुर्योधनस्य पादयोः पततः*
&माता&:
{प्क्त्_६९}परित्ताअदु परित्ताअदु कुलुणाहो ।
स्क्त्छ्_६९: परित्रायतां परित्रायतां कुरुनाथः ।
दुःशला रोदिति*
&राजा&:
ससम्भ्रममुत्थाप्य*
अम्ब समाश्वसिहि समाश्वसिहि । किमत्याहितम् । अपि कुशलं समराङ्गणेष्वप्रतिरथस्य जयद्रथस्य ।
&माता&:
{प्क्त्_७०}जाद कुदो कुसलं ।
स्क्त्छ्_७०: जात कुतः कुशलम् ।
&राजा&:
कथमिव ।
&माता&:
{प्क्त्_७१}साशङ्कम्*
अज्ज खु पुत्तवहामरिसुद्दीबिदेण गण्डीविणा अणत्थमिदे दिअसणाहे तस्स वहो पडिण्णादो ।
स्क्त्छ्_७१: अद्य खलु पुत्रवधामर्षोद्दीपितेन गाण्डीविनानस्तमिते दिवसनाथे तस्य वधः प्रतिज्ञातः ।
&राजा&:
सस्मितम्*
इदं तदश्रुकारणमम्बाया दुःशलायाश्च । पुत्रशोकादुन्मत्तस्य किरीटिनः प्रलापैरेवमवस्था । अहो मुग्धत्वमबलानाम् । अम्ब कृतं विषादेन । वत्से दुःशले अलमश्रुपातेन । कुतश्चायं तस्य धनञ्जयस्य प्रभावो दुर्योधनबाहुपरिघरक्षितस्य महारथजयद्रथस्य विपत्तिमुत्पादयितुम् ।
&माता&:
{प्क्त्_७२}जाद पुत्तबन्धुवहामरिसुद्दीबिदकोबाणला अणवेक्खिदसरीरा वीरा परिक्कमन्ति ।
स्क्त्छ्_७२: जात पुत्रबन्धुवधामर्षोद्दीपितकोपानला अनपेक्षितशरीरा वीराः परिक्रामन्ति ।
&राजा&:
सोपहासम्*
एवमेतत् । सर्वजनप्रसिद्धैवामर्षिता पाण्डवानाम् । पश्य ।
वेर्से_२।२४
हस्ताकृष्टविलोलकेशवसना दुःशासनेनाज्ञया $ पाञ्चाली मम राजचक्रपुरतो गौर्गौरिति व्याहृता &
तस्मिन्नेव स किं नु गाण्डिवधरो नासीत्पृथानन्दनो ē̃ यूनः क्षत्रियवंशजस्य कृतिनः क्रोधास्पदं किं न तत् ॥ २।२४ ॥
&माता&:
{प्क्त्_७३}असमत्तपडिण्णाभरस्स अत्तवहो से पडिण्णादो ।
स्क्त्छ्_७३: असमाप्तप्रतिज्ञाभरस्यात्मवधो ऽस्य प्रतिज्ञातः ।
&राजा&:
यद्येवमलमानन्दस्थाने ऽपि ते विषादेन । ननु वक्तव्यमुत्सन्नः सानुजो युधिष्ठिर इति । अन्यच्च मातः का शक्तिरस्ति धनञ्जयस्यान्यस्य वा कुरुशतपरिवारवर्धितमहिम्नः कृपकर्णद्रोणाश्वत्थामादिमहारथद्विगुणीकृतनिरावरणविक्रमस्य नामापि ग्रहीतुं ते तनयस्य । अयि सुतपराक्रमानभिज्ञे
वेर्से_२।२५
धर्मात्मजं प्रति यमौ च कथैव नास्ति $ मध्ये वृकोदरकिरीटभृतोर्बलेन &
एको ऽपि विस्फुरितमण्डलचापचक्रं ē̃ कः सिन्धुराजमभिषेणयितुं समर्थः ॥ २।२५ ॥
&भानुमती&:
{प्क्त्_७४}अज्जौत्त जै बि एव्वं तह बि गुरुकिदपडिण्णाभरो धणञ्जओ णिदाणं क्खु सङ्काए ।
स्क्त्छ्_७४: आर्यपुत्र यद्यप्येवं तथापि गुरुकृतप्रतिज्ञाभरो धनञ्जयः निदानं खलु शङ्कायाः ।
&माता&:
{प्क्त्_७५}जादे साहु कालोइदं तुए मन्तिदं ।
स्क्त्छ्_७५: जाते साधु कालोचितं त्वया मन्त्रितम् ।
&राजा&:
आः ममापि नाम दुर्योधनस्य शङ्कास्थानं पाण्डवाः । पश्य ।
वेर्से_२।२६
कोदण्डज्याकिणाङ्कैरगणितरिपुभिः कङ्कटोन्मुक्तदेहैः $ श्लिष्टान्यो ऽन्यातपत्रैः सितकमलवनभ्रान्तिमुत्पादयद्भिः &
रेणुग्रस्तार्कभासां प्रचलदसिलतादन्तुराणां बलाना- ē̃ माक्रान्ता भ्रातृभिर्मे दिशि दिशि समरे कोटयः सम्पतन्ति ॥ २।२६ ॥
अपि च भानुमति विज्ञातपाण्डवप्रभावे किं त्वमप्येवमाशङ्कसे । पश्य ।
वेर्से_२।२७
दुःशासनस्य हृदयक्षतजाम्बुपाने $ दुर्योधनस्य च यथा गदयोरुभङ्गे &
तेजस्विनां समरमूर्धनि पाण्डवानां ē̃ ज्ञेया जयद्रथवधे ऽपि तथा प्रतिज्ञा ॥ २।२७ ॥
कः को ऽत्र भोः । जैत्रं मे रथमुपकल्पय तावत् । यावदहमपि तस्य प्रगल्भपाण्डवस्य जयद्रथपरिरक्षणेनैव मिथ्याप्रतिज्ञावैलक्ष्यसम्पादितमशस्त्रपूतं मरणमुपदिशामि ।
प्रविश्य*
&कञ्चुकी&:
देव
वेर्से_२।२८
उद्घातक्वणितविलोलहेमघण्टः $ प्रालम्बद्विगुणितचामरप्रहासः &
सज्जो ऽयं नियमितवल्गिताकुलाश्वः ē̃ शत्रूणां क्षपितमनोरथो रथस्ते ॥ २।२८ ॥
&राजा&:
देवि प्रविश त्वमभ्यन्तरमेव ।यावदहमपि तस्य प्रगल्भपाण्डवस्य इत्यादि पठन्परिक्रामति*
इति निस्क्रान्ताः सर्वे*
इति द्वितीयो ऽङ्कः ।
अच्त्_३
तृतीयो ऽङ्कः ।
ततः प्रविशति विकृतवेषा राक्षसी*
&राक्षसी&:
विकृतं विहस्य सपरितोषम्*
वेर्से_३।१
हदमाणुशमंशभालए कुम्भशहश्शवशाहिं शञ्चिदे ।
अणिशं अ पिबामि शोणिअं वलिशशदं शमले हुवीअदु ॥ ३।१ ॥
{प्क्त्_७७}नृत्यन्ती सपरितोषम्*
जै शिन्धुलाअवहदिअहे विअ दिअहे दिअहे शमलकम्म पडिबज्जै अज्जुणे तदो पज्जत्तभलिदकोट्ठागाले मंशशोणिएहिं मे गेहे हुवीअदि ।परिक्रम्य दिशो ऽवलोक्य*
अह कहिं णु खु लुहिलप्पिए हुवीअदि । ता जाव इमश्शिं शमले पिअभत्तालं लुहिलप्पिअं अण्णेशामि ।परिक्रम्य*
होदु शद्दाबैश्शं दाव । अले लुहिलप्पिआ लुहिलप्पिआ इदो एहि इदो एहि ।
स्क्त्छ्_७६: हतमानुषमांसभारके कुम्भसहस्रवसाभिः सञ्चिते । अनिशं च पिबामि शोणितं वर्षशतं समरो भवतु ॥ १ ॥
स्क्त्छ्_७७: यदि सिन्धुराजवधदिवस इव दिवसे दिवसे समरकर्म प्रतिपद्यते ऽर्जुनस्तदा पर्याप्तभृतकोष्ठागारं मांसशोणितैर्मे गृहं भविष्यति । अथ क्व नु खलु रुधिरप्रियो भविष्यति । तद्यावदेतस्मिन्समरे प्रियभर्तारं रुधिरप्रियमन्वेष्यामि । भवतु शब्दायिष्ये तावत् । अरे रुधिरप्रिय रुधिरप्रिय इत एहीत एहि ।
ततः प्रविशति तथाविधो राक्षसः*
&राक्षसः&:
श्रमं नाटयन्*
वेर्से_३।२
पच्चग्गहदाणं मंशए जै उण्हे लुहिले अ लम्भै ।
ता एशे मह पलिश्शमे खणमेत्तं एव्व लहु णश्शै ॥ ३।२ ॥
स्क्त्छ्_७८: प्रत्यग्रहतानां मांसं यद्युष्णं रुधिरं च लभ्येत । तदेष मम परिश्रमः क्षणमात्रमेव लघु नश्येत् ॥ २ ॥
राक्षसी पुनर्व्याहरति*
&राक्षसः&:
{प्क्त्_७९}आकर्ण्य*
अले के एशे मं सद्दाबेदि ।विलोक्य*
कहं पिआ मे वशागन्धा ।उपसृत्य*
वशागन्धे कीश मं शद्दाबेशि ।
वेर्से_३।३
लुहिलाशवपाणमत्तिए लणहिण्डणखलन्तगत्तिए ।
शद्दाअशि कीश मं पिए पुलिशशहश्शं हदं शुणीअदि ॥ ३।३ ॥
स्क्त्छ्_७९: अरे कैषा मां शब्दायते । कथं प्रिया मे वसागन्धा । वसागन्धे कस्मान्मां शब्दायसे ।
स्क्त्छ्_८०: रुधिरासवपानमत्तिके रणहिण्डनस्खलद्गात्रिके । शब्दायसे कस्मान्मां प्रिये पुरुषसहस्रं हतं श्रूयते ॥ ३ ॥
&राक्षसी&:
{प्क्त्_८१}अले लुहिलप्पिआ एदं क्खु मए तुह कालणादो पच्चग्गहदश्श कश्श बि लाएशिणो पहूदवशाशिणेहचिक्कणं कोण्हं णवलुहिलं अग्गमंशं अ आणीदं । ता पिबाहि णं ।
स्क्त्छ्_८१: अरे रुधिरप्रिय इदं खलु मया तव कारणात्प्रत्यग्रहतस्य कस्यापि राजर्षेः प्रभूतवसास्नेहचिक्कणं कोष्णं नवरुधिरमग्रमांसं चानीतम् । तत्पिबैतत् ।
&राक्षसः&:
{प्क्त्_८२}सपरितोषम्*
शाहु वशागन्धे शाहु । शोहणं तुए किदं । बलिअम्हि पिबाशिदे । ता उबणेहि ।
स्क्त्छ्_८२: साधु वसागन्धे साधु । शोभनं त्वया कृतम् । बलवदस्मि पिपासितः । तदुपनय ।
&राक्षसी&:
{प्क्त्_८३}अले लुहिलप्पिआ एदिशे हदणलगअतुलङ्गमशोणिअवशाशमुद्ददुश्शञ्चले शमलाङ्गणे पडिब्भमन्ते तुमं पिबाशिए शि त्ति अच्चलिअं अच्चलिअं ।
स्क्त्छ्_८३: अरे रुधिरप्रिय ईदृशे हतनरगजतुरङ्गमशोणितवसासमुद्रदुःसञ्चरे समराङ्गणे परिभ्रमंस्त्वं पिपासितो ऽसीत्याश्चर्यमाश्चर्यम् ।
&राक्षसः&:
{प्क्त्_८४}ऐ शुत्थिदे णं पुत्तशोअशन्तत्तहिअअं शामिणिं हिडिम्बादेइं पेक्खिदुं गदम्हि ।
स्क्त्छ्_८४: अयि सुस्थिते ननु पुत्रशोकसन्तप्तहृदयां स्वामिनीं हिडिम्बादेवीं प्रेक्षितुं गतो ऽस्मि ।
&राक्षसी&:
{प्क्त्_८५}लुहिलप्पिआ अज्ज बि शामिणीए हिडिम्बादेईए घडुक्कअशोए ण उबशम्मदि ।
स्क्त्छ्_८५: रधिरप्रिय अद्यापि स्वामिन्या हिडिम्बादेव्या घटोत्कचशोको नोपशाम्यति ।
&राक्षसः&:
{प्क्त्_८६}वशागन्धे कुदो शे उबशमे । केवलं अहिमण्णुवहशोअशमाणदुक्खाए शुभद्दादेवीए जण्णशेणीए अ कधं कधं वि शमाशाशीअदि ।
स्क्त्छ्_८६: वसागन्धे कुतो ऽस्या उपशमः । केवलमभिमन्युवधशोकसमानदुःखया सुभद्रादेव्या याज्ञसेन्या च कथं कथमपि समाश्वास्यते ।
&राक्षसी&:
{प्क्त्_८७}लुहिलप्पिआ गेण्ह एदं हत्थिशिलकबालशञ्चिअं अग्गमंशोबदंशं । पिबाहि णवशोणिआसवं ।
स्क्त्छ्_८७: रुधिरप्रिय गृहाणैतद्धस्तिशिरःकपालसञ्चितमग्रमांसोपदंशम् । पिब नवशोणितासवम् ।
&राक्षसः&:
{प्क्त्_८८}तथा कृत्वा*
वशागन्धे अह किअप्पहूदं तुए शञ्चिअं लुहिलं अग्गमंशं अ ।
स्क्त्छ्_८८: वसागन्धे अथ कियत्प्रभूतं त्वया सञ्चितं रुधिरमग्रमांसं च ।
&राक्षसी&:
{प्क्त्_८९}अले लुहिलप्पिआ पुव्वशञ्चिअं जाणाशि जेव्व तुमं । णवशञ्चिअं शिणु दाव । भअदत्तशोणिअकुम्भे शिन्धुलाअवशाकुम्भे दुवे दुबदमच्छाहिबभूलिश्शवशोमदत्तबल्हीअप्पमुहाणं णलिन्दाणं अण्णाणं बि पाकिदपुलिशाणं लुहिलवशामंशश्श घडा अबिणद्धमुहा शहश्शशङ्क्खा शन्ति मे गेहे ।
स्क्त्छ्_८९: अरे रुधिरप्रिय पूर्वसञ्चितं जानास्येव त्वम् । नवसञ्चितं शृणु तावत् । भगदत्तशोणितकुम्भः सिन्धुराजवसाकुम्भौ द्वौ द्रुपदमत्स्याधिपभूरिश्रवःसोमदत्तबाल्हीकप्रमुखाणां नरेन्द्राणामन्येषामपि प्राकृतपुरुषाणां रुधिरवसामांसस्य घटा अपिनद्धमुखाः सहस्रसङ्ख्याः सन्ति मे गेहे ।
&राक्षसः&:
{प्क्त्_९०}सपरितोषमालिङ्ग्य*
शाहु शुग्घलिणीए शाहु । इमिणा दे शुग्घलिणित्तेण अज्ज उण शामिणीए हिडिम्बादेवीए शंविहाणेण अ पणट्ठं मे जम्मदालिद्दं ।
स्क्त्छ्_९०: साधु सुगृहिणि साधु । अनेन ते सुगृहिणीत्वेनाद्य पुनः स्वामिन्या हिडिम्बादेव्याः संविधानेन च प्रनष्टं मे जन्मदारिद्र्यम् ।
&राक्षसी&:
{प्क्त्_९१}लुहिलप्पिआ केदिशे शामिणीए शंविहाणे किदे ।
स्क्त्छ्_९१: रुधिरप्रिय कीदृशं स्वामिन्या संविधानं कृतम् ।
&राक्षसः&:
{प्क्त्_९२}वशागन्धे अज्ज क्खु अहं शामिणीए हिडिम्बादेवीए शवहुमाणं शद्दाबिअ आणत्ते जह लुहिलप्पिआ अज्ज पहुदि तुए अज्जौत्तश्श भीमशेणश्श पिट्ठदोणुपिट्ठं शमले आहिण्डिदव्वं त्ति । ता तश्श अणुमग्गगामिणो हदमाणुशशोणिअणईदंशणप्पणट्ठबुभुक्खापिबाशश्श इह एव्व मे शग्गलोओ हुवीअदि । तुमं बि विश्शद्धा भविअ लुहिलवशाहिं कुम्भशहश्शं शञ्चेहि ।
स्क्त्छ्_९२: वसागन्धे अद्य खल्वहं स्वामिन्या हिडिम्बादेव्या सबहुमानं शब्दाय्याज्ञप्तो यथा रुधिरप्रिय अद्य प्रभृति त्वयार्यपुत्रस्य भीमसेनस्य पृष्ठतो ऽनुपृष्ठं समर आहिण्डितव्यमिति । तत्तस्यानुमार्गगामिनो हतमानुषशोणितनदीदर्शनप्रनष्टबुभुक्षापिपासस्येहैव मे स्वर्गलोको भविष्यति । त्वमपि विस्रब्धा भूत्वा रुधिरवसाभिः कुम्भसहस्रं सञ्चिनु ।
&राक्षसी&:
{प्क्त्_९३}लुहिलप्पिआ किण्णिमित्तं कुमालभीमशेणश्श पिट्ठदोणुपिट्ठं आहिण्डीअदि ।
स्क्त्छ्_९३: रुधिरप्रिय किन्निमित्तं कुमारभीमसेनस्य पृष्ठतो ऽनुपृष्ठमाहिण्ड्यते ।
&राक्षसः&:
{प्क्त्_९४}वशागन्धे तेण हि शामिणा विओदलेण दुश्शाशणश्श लुहिलं पादुं पडिण्णादं । तं च अम्हेहिं लक्खशेहिं अणुप्पविशिअ पादव्वं त्ति ।
स्क्त्छ्_९४: वसागन्धे तेन हि स्वामिना वृकोदरेण दुःशासनस्य रुधिरं पातुं प्रतिज्ञातम् । तच्चास्माभी राक्षसैरनुप्रविश्य पातव्यमिति ।
&राक्षसी&:
{प्क्त्_९५}सहर्षम्*
शाहु शामिणि शाहु । शुशंविहाणे मे भत्ता तुए कदे ।
स्क्त्छ्_९५: साधु स्वामिनि साधु । सुसंविधानो मे भर्ता त्वया कृतः ।
नेपथ्ये महान्कलकलः । उभावाकर्णयतः*
&राक्षसी&:
{प्क्त्_९६}आकर्ण्य ससम्भ्रमम्*
अले लुहिलप्पिआ किं णु क्खु एशे महन्ते कलअले शुणीअदि ।
स्क्त्छ्_९६: अरे रुधिरप्रिय किं नु खल्वेष महान्कलकलः श्रूयते ।
&राक्षसः&:
{प्क्त्_९७}दृष्ट्वा*
वशागन्धे एशे क्खु धिट्ठज्जुण्णेण दोणे केशेशु आकिट्ठिअ अशिबत्तेण वाबादीअदि ।
स्क्त्छ्_९७: वसागन्धे एष खलु धृष्टद्युम्नेन द्रोणः केशेष्वाकृष्यासिपत्रेण व्यापाद्यते ।
&राक्षसी&:
{प्क्त्_९८}सहर्षम्*
लुहिलप्पिआ एहि । गच्छिअ दोणश्श लुहिलं पिवम्ह ।
स्क्त्छ्_९८: रुधिरप्रिय एहि । गत्वा द्रोणस्य रुधिरं पिबावः ।
&राक्षसः&:
{प्क्त्_९९}सभयम्*
वशागन्धे बम्हणशोणिअं क्खु एदं गलअं दहन्ते दहन्ते पविशदि । ता किं एदिणा ।
स्क्त्छ्_९९: वसागन्धे ब्राह्मणशोणितं खल्वेतद्गलं दहद्दहत्प्रविशति । तत्किमेतेन ।
नेपथ्ये पुनः कलकलः*
&राक्षसी&:
{प्क्त्_१००}लुहिलप्पिआ पुणो बि एशे महन्ते कलअले शुणीअदि ।
स्क्त्छ्_१००: रुधिरप्रिय पुनरप्येष महान्कलकलः श्रूयते ।
&राक्षसः&:
{प्क्त्_१०१}वशागन्धे एशे क्खु अश्शत्थामे आकिट्ठिदाशिबत्ते इदो एव्व आअच्छदि । कदा बि दुबदसुदलोशेण अम्हे बि वाबादैश्शदि । ता एहि । अतिक्कमम्ह ।
स्क्त्छ्_१०१: वसागन्धे एष खल्वश्वत्थामाकृष्टासिपत्र इत एवागच्छति । कदाचिद्द्रुपदसुतरोषेणावामपि व्यापादयिष्यति । तदेहि । अतिक्रमावः ।
इति निष्क्रान्तौ*
प्रवेशकः ।
ततः प्रविशत्युत्खातखड्गः कलकलमाकर्णयन्नश्वत्थामा*
&अश्वत्थामा&:
वेर्से_३।४
महाप्रलयमारुतक्षुभितपुष्करावर्तक- $ प्रचण्डघनगर्जितप्रतिरवानुकारी मुहुः &
रवः श्रवणभैरवः स्थगितरोदसीकन्दरः ē̃ कुतो ऽद्य समरोदधेरयमभूतपूर्वः पुरः ॥ ३।४ ॥
विचिन्त्य*
ध्रुवं गाण्डीविना सात्यकिना वृकोदरेण वा यौवनदर्पादतिक्रान्तमर्यादेन परिकोपितस्तातः समुल्लङ्घ्य शिष्यप्रियतामात्मप्रभावसदृशमाचेष्टते । तथा हि
वेर्से_३।५
यद्दुर्योधनपक्षपातसदृशं युक्तं यदस्त्रग्रहे $ रामाल्लब्धसमस्तहेतिगुरुणो वीर्यस्य यत्साम्प्रतम् &
लोके सर्वधनुष्मतामधिपतेर्यच्चानुरूपं रुषः ē̃ प्रारब्धं रिपुघस्मरेण नियतं तत्कर्म तातेन मे ॥ ३।५ ॥
पृष्ठतो विलोक्य*
तदलमिदानीं मम रथप्रतीक्षयानया । सशस्त्र एवास्मि सजलजलधरप्रभाभासुरेण सुप्रग्रहविमलकलधौतत्सरुणामुना खड्गेन । यावत्समरभुवमवतरामि ।परिक्रम्य । वामाक्षिस्पन्दनं सूचयित्वा*
आः कथं ममापि नामाश्वत्थाम्नः समरमहोत्सवप्रमोदनिर्भरस्य तातविक्रमदर्शनलालसस्यानिमित्तानि समरगमनविघ्नमुत्पादयन्ति । भवतु गच्छामि ।सावष्टम्भं परिक्रम्याग्रतो विलोक्य*
कथमवधीरितक्षात्रधर्माणामुज्झितसत्पुरुषोचितलज्जावगुण्ठनानां विस्मृतस्वामिसत्कारलघुचेतसां द्विरदतुरङ्गमचरणचारिणामगणितकुलयशःसदृशपराक्रमव्रतानां रणभूमेः समन्तादपक्रामतामयं महान्नादो बलानाम् ।निरूप्य*
हा धिक्कष्टम् । कथमेते महारथाः कर्णादयो ऽपि समरात्पराङ्मुखा भवन्ति । कथं नु ताताधिष्ठितानामपि बलानामियमवस्था भवेत् । भवतु संस्तम्भयामि । भो भोः कौरवसेनासमुद्रवेलापरिपालनमहामहीधरा नरपतयः कृतं कृतममुना समरपरित्यागसाहसेन ।
वेर्से_३।६
यदि समरमपास्य नास्ति मृत्यो- $ र्भयमिति युक्तमितो ऽन्यतः प्रयातुम् &
अथ मरणमवश्यमेव जन्तोः ē̃ किमिति मुधा मलिनं यशः कुरुध्वे ॥ ३।६ ॥
अपि च
वेर्से_३।७
अस्त्रज्वालावलीढप्रतिबलजलधेरन्तरौर्वायमाणे $ सेनानाथे स्थिते ऽस्मिन्मम पितरि गुरौ सर्वधन्वीश्वराणाम् &
कर्णालं सम्भ्रमेण व्रज कृप समरं मुञ्च हार्दिक्य शङ्कां ē̃ ताते चापद्वितीये वहति रणधुरां को भयस्यावकाशः ॥ ३।७ ॥
नेपथ्ये*
कुतो ऽद्यापि ते तातः ।
&अश्वत्थामा&:
श्रुत्वा*
किं ब्रूथ । कुतो ऽद्यापि ते तात इति ।सरोषम्*
आः क्षुद्राः समरभीरवः कथमेवं प्रलपतां वः सहस्रधा न दीर्णमनया जिह्वया ।
वेर्से_३।८
दग्धुं विश्वं दहनकिरणैर्नोदिता द्वादशार्का $ वाता वाता दिशि दिशि न वा सप्तधा सप्त भिन्नाः &
छन्नं मेघैर्न गगनतलं पुष्करावर्तकाद्यैः ē̃ पापं पापाः कथयत कथं शौर्यराशेः पितुर्मे ॥ ३।८ ॥
प्रविश्य सम्भ्रान्तः सप्रहारः*
&सूतः&:
परित्रायतां परित्रायतां कुमारः ।इति पादयोः पतति*
&अश्वत्थामा&:
विलोक्य*
अये कथं तातस्य सारथिरश्वसेनः । आर्य ननु त्रैलोक्यत्राणक्षमस्य सारथिरसि । किं मत्तः परित्राणमिच्छसि ।
&सूतः&:
उत्थाय सकरुणम्*
कुतो ऽद्यापि ते तातः ।
&अश्वत्थामा&:
सावेगम्*
किं तात एव नास्ति ।
&सूतः&:
अथ किम् ।
&अश्वत्थामा&:
हा तात ।इति मोहमुपगतः*
&सूतः&:
कमार समाश्वसिहि समाश्वसिहि ।
&अश्वत्थामा&:
लब्धसञ्ज्ञः सास्रम्*
हा तात हा सुतवत्सल हा लोकत्रयैकधनुर्धर हा जामदगाÇए᳡न्यास्त्रसर्वस्वप्रतिग्रहप्रणयिन् क्वासि । प्रयच्छ मे प्रतिवचनम् ।
&सूतः&:
कमार अलमत्यन्तशोकावेगेन । वीरपुरुषोचितां विपत्तिमुपगते पितरि त्वमपि तदनुरूपेणैव वीर्येण शोकसागरमुत्तीर्य सुखी भव ।
&अश्वत्थामा&:
अश्रूणि विमुच्य*
आर्य कथय कथय कथं तादृग्भुजवीर्यसागरस्तातो ऽपि नामास्तमुपगतः ।
वेर्से_३।९
किं भीमाद्गुरुदक्षिणां गुरुगदाद्भीमप्रियः प्राप्तवान्
&सूतः&:
शान्तं पापम् । शान्तं पापम् ।
&अश्वत्थामा&:
वेर्से_३।९
अन्तेवासिदयालुरुज्झितनयेनासादितो जिष्णुना ।
&सूतः&:
कथमेवं भविष्यति ।
&अश्वत्थामा&:
वेर्से_३।९
गोविन्देन सुदर्शनस्य नियतं धारापथं प्रापितः
&सूतः&:
एतदपि नास्ति ।
&अश्वत्थामा&:
वेर्से_३।९
शङ्के नापदमन्यतः खलु गुरोरेभ्यश्चतुर्थादहम् ॥ ३।९ ॥
&सूतः&:
कुमार
वेर्से_३।१०
एते ऽपि तस्य कुपितस्य महास्त्रपाणेः $ किं धूर्जटेरिव तुलामुपयान्ति सङ्ख्ये &
शोकोपरुद्धहृदयेन यदा तु शस्त्रं ē̃ त्यक्तं तदास्य विहितं रिपुणातिघोरम् ॥ ३।१० ॥
&अश्वत्थामा&:
किं पुनः कारणं शोकस्यास्त्रपरित्यागस्य वा ।
&सूतः&:
ननु कुमार एव कारणम् ।
&अश्वत्थामा&:
कथमहमेव नाम ।
&सूतः&:
श्रूयताम् ।अश्रूणि विमुच्य*
वेर्से_३।११
अश्वत्थामा हत इति पृथासूनुना स्पष्टमुक्त्वा $ स्वैरं शेषे गज इति किल व्याहृतं सत्यवाचा &
तच्छ्रुत्वासौ दयिततनयः प्रत्ययात्तस्य राज्ञः ē̃ शस्त्राण्याजौ नयनसलिलं चापि तुल्यं मुमोच ॥ ३।११ ॥
&अश्वत्थामा&:
हा तात हा सुतवत्सल हा वृथामदर्थपरित्यक्तजीवित हा शौर्यराशे हा शिष्यप्रिय हा युधिष्ठिरपक्षपातिन् ।इति रोदिति*
&सूतः&:
कुमार अलमत्यन्तपरिदेवनकार्पण्येन ।
&अश्वत्थामा&:
वेर्से_३।१२
श्रुत्वा वधं मम मृषा सुतवत्सलेन $ तात त्वया सह शरैरसवो विमुक्ताः &
जीवाम्यहं पुनरयं भवता वियुक्तः ē̃ क्रूरे ऽपि तन्मयि मुधा तव पक्षपातः ॥ ३।१२ ॥
इति मोहमुपगतः*
&सूतः&:
समाश्वसितु समाश्वसितु कमारः ।
ततः प्रविशति कृपः*
&कृपः&:
सोद्वेगं निःश्वस्य*
वेर्से_३।१३
धिक्सानुजं कुरुपतिं धिगजातशत्रुं $ दिग्भूपतीन्विफलशस्त्रभृतो धिगस्मान् &
केशग्रहः खलु तदा द्रुपदात्मजाया ē̃ द्रोणस्य चाद्य लिखितैरिव वीक्षितो यैः ॥ ३।१३ ॥
तत्कथं नु खलु वत्सं द्रक्ष्याम्यश्वत्थामानम् । अथ वा हिमवत्सारगुरुचेतसि ज्ञातलोकस्थितौ तस्मिन्न खलु शोकावेगमहमाशङ्के । किं तु पितुः परिभवसदृशमुपश्रुत्य न जाने किं व्यवस्यतीति । अथ वा
वेर्से_३।१४
एकस्य तावत्पाको ऽयं दारुणो भुवि वर्तते ।
केशग्रहे द्वितीये ऽस्मिन्नूनं निःशेषिताः प्रजाः ॥ ३।१४ ॥
विलोक्य*
तदयं वत्सस्तिष्ठति । यावदुपसर्पामि ।उपसृत्य ससम्भ्रमम्*
वत्स समाश्वसिहि समाश्वसिहि ।
&अश्वत्थामा&:
सञ्ज्ञां लब्ध्वा सास्रम्*
हा तात हा सकलभुवनैकगुरो ।आकाशे*
युधिष्ठिर युधिष्ठिर
वेर्से_३।१५
आ जन्मनो न वितथं भवता किलोक्तं $ न द्वेक्षि यज्जनमतस्त्वमजातशत्रुः &
ताते गुरौ द्विजवरे मम भाग्यदोषा- ē̃ त्सर्वं तदेकपद एव कथं निरस्तम् ॥ ३।१५ ॥
&सूतः&:
कुमार एष ते मातुलः शारद्वतः पार्श्वे तिष्ठति ।
&अश्वत्थामा&:
पार्श्वे विलोक्य सबाष्पम्*
मातुल मातुल
वेर्से_३।१६
गतो येनाद्य त्वं सह रणभुवं सैन्यपतिना $ य एकः शूराणां गुरुकण्डूनिकषणः &
परीहासाश्चित्राः सततमभवन्येन भवतः ē̃ स्वसुः श्लाघ्यो भर्ता क्व नु खलु स ते मातुल गतः ॥ ३।१६ ॥
&कृपः&:
परिगतपरिगन्तव्य एव भवान् । तदलमत्यन्तशोकावेगेन ।
&अश्वत्थामा&:
मातुल परित्यक्तमेव मया परिदेवनम् । एषो ऽहं सुतवत्सलं तातमेवानुगच्छामि ।
&कृपः&:
वत्स अनुपपन्नं भवद्विधानामिदम् ।
&सूतः&:
कुमार अलमतिसाहसेन ।
&अश्वत्थामा&:
आर्य शारद्वत
वेर्से_३।१७
मद्वियोगभयात्तातः परलोकमितो गतः ।
करोमि विरहं तस्य वत्सलस्य कथं पितुः ॥ ३।१७ ॥
&कृपः&:
वत्स यावदयं संसारस्तावत्प्रसिद्धैवेयं लोकयात्रा यत्पुत्रैः पितरो लोकद्वये ऽप्यनुवर्तनीया इति । पश्य ।
वेर्से_३।१८
निवापाञ्जलिदानेन केतनैः श्राद्धकर्मभिः ।
तस्योपकारे शक्तस्त्वं किं जीवन्किमुतान्यथा ॥ ३।१८ ॥
&सूतः&:
आयुष्मन् यथैव मातुलस्ते शारद्वतः कथयति तत्तथा ।
&अश्वत्थामा&:
आर्य सत्यमेवेआञ्ल्̃म् । किं त्वतिदुर्वहत्वाच्छोकभारस्य न शक्नोमि तातविरहितः क्षणमपि प्राणान्धारयितुम् । तद्गच्छामि तमेवोद्देशं यत्र तथाविधमपि पितरं द्रक्ष्यामि ।उत्तिष्ठन्खड्गमालोक्य विचिन्त्य*
कृतमद्यापि शस्त्रग्रहणविडम्बनया । भगवञ्शस्त्र
वेर्से_३।१९
गृहीतं येनासीः परिभवभयान्नोचितमपि $ प्रभावाद्यस्याभून्न खलु तव कश्चिन्न विषयः &
परित्यक्तं तेन त्वमसि सुतशोकान्न तु भया- ē̃ द्विमोक्ष्ये शस्त्र त्वामहमपि यतः स्वस्ति भवते ॥ ३।१९ ॥
इत्युत्सृजति*
नेपथ्ये*
भो भो राजानः कथमिह भवन्तः सर्वे गुरोर्भारद्वाजस्य परिभवममुना नृशंसेन प्रयुक्तमुपेक्षन्ते ।
&अश्वत्थामा&:
आकर्ण्य शनैः शस्त्रं स्पृशन्*
किं गुरोर्भारद्वाजस्य परिभवः ।
पुनर्नेपथ्ये*
वेर्से_३।२०
आचार्यस्य त्रिभुवनगुरोर्न्यस्तशस्त्रस्य शोका- $ द्द्रोणस्याजौ नयनसलिलक्षालितार्द्राननस्य &
मौलौ पाणिं पलितधवले न्यस्य कृत्वा नृशंसं ē̃ धृष्टद्युम्नः स्वशिबिरमयं याति सर्वे सहध्वम् ॥ ३।२० ॥
&अश्वत्थामा&:
सक्रोधं सकम्पं च कृपसूतौ दृष्ट्वा*
किं नामेदम् ।
वेर्से_३।२१
प्रत्यक्षमात्तधनुषां मनुजेश्वराणां $ प्रायोपवेशसदृशं व्रतमास्थितस्य &
तातस्य मे पलितमौलिनिरस्तकाशे ē̃ व्यापारितं शिरसि शस्त्रमशस्त्रपाणेः ॥ ३।२१ ॥
&कृपः&:
वत्स एवं किल जनः कथयति ।
&अश्वत्थामा&:
किं तातस्य दुरात्मना परिमृष्टमभूच्छिरः ।
&सूतः&:
सभयम्*
कुमार आसीदयं तस्य तेजोराशेर्देवस्य नवः परिभवावतारः ।
&अश्वत्थामा&:
हा तात हा पुत्रप्रिय मम मन्दभागधेयस्य कृते शस्त्रपरित्यागात्तथाविधेन क्षुद्रेणात्मा परिभावितः । अथ वा
वेर्से_३।२२
परित्यक्ते देहे रणशिरसि शोकान्धमनसा $ शिरः श्वा काको वा द्रुपदतनयो वा परिमृशेत् &
स्फुरद्दिव्यास्त्रौघद्रविणमदमत्तस्य च रिपो- ē̃ र्ममैवायं पादः शिरसि निहितस्तस्य न करः ॥ ३।२२ ॥
आः दुरात्मन्पाञ्चालापसद
वेर्से_३।२३
तातं शस्त्रग्रहणविमुखं निश्चयेनोपलभ्य $ त्यक्त्वा शङ्कां खलु विदधतः पाणिमस्योत्तमाङ्गे &
अश्वत्थामा करधृतधनुः पाण्डुपाञ्चालसेना- ē̃ तूलोत्क्षेपप्रलयपवनः किं न यातः स्मृतिं ते ॥ ३।२३ ॥
युधिष्ठिर युधिष्ठिर अजातशत्रो अमिथ्यावादिन्धर्मपुत्र सानुजस्य ते किमनेनापकृतम् । अथ वा किमनेनालीकप्रकृतिजिह्मचेतसा । अर्जुन सात्यके बाहुशालिन्वृकोदर माधव युक्तं नाम भवतां सुरासुरमनुजलोकैकधनुर्धरस्य द्विजन्मनः परिणतवयसः सर्वाचार्यस्य विशेषतो मम पितुरमुना द्रुपदकुलकलङ्केन मनुजपशुना स्पृश्यमानमुत्तमाङ्गमुपेक्षितम् । अथ वा सर्व एवैते पातकिनः । किमेतैः
वेर्से_३।२४
कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं $ मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः &
नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- ē̃ मयमहमसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥ ३।२४ ॥
&कृपः&:
वत्स किं न सम्भाव्यते भारद्वाजतुल्ये बाहुशालिनि दिव्यास्त्रग्रामकोविदे भवति ।
&अश्वत्थामा&:
भो भोः पाण्डवमत्स्यसोमकमागधाद्याः क्षत्रियापसादाः
वेर्से_३।२५
पितुर्मूर्ध्नि स्पृष्टे ज्वलदनलभास्वत्परशुना $ कृतं यद्रामेण श्रुतिमुपगतं तन्न भवताम् &
किमद्याश्वत्थामा तदरिरुधिरासारविघसं ē̃ न कर्म क्रोधान्धः प्रभवति विधातुं रणमुखे ॥ ३।२५ ॥
सूत गच्छ त्वं सर्वोपकरणैः साङ्ग्रामिकैः सर्वायुधैरुपेतं महाहवलक्षणं नामास्मत्स्यन्दनमुपनय ।
&सूतः&:
यदाज्ञापयति कुमारः ।इति निष्क्रान्तः*
&कृपः&:
वत्स अवश्यप्रतिकर्तव्ये ऽस्मिन्दारुणे परिभवाग्नौ सर्वेषामस्माकं को ऽन्यस्त्वामन्तरेण शक्तः प्रतिकर्तुम् । किं तु
&अश्वत्थामा&:
किमतः परम् ।
&कृपः&:
सैनापत्ये ऽभिषिक्तं भवन्तमिच्छामि समरभुवनमवतारयितुम् ।
&अश्वत्थामा&:
मातुल परतन्त्रमिदमकिञ्चित्करं च ।
&कृपः&:
वत्स न खलु परतन्त्रं नाकिञ्चित्करं च । पश्य ।
वेर्से_३।२६
भवेदभीष्ममद्रोणं धार्तराष्ट्रबलं कथम् ।
यदि तत्तुल्यकर्मात्र भवान्धुरि न युज्यते ॥ ३।२६ ॥
कृतपरिकरस्य भवादृशस्य त्रैलोक्यमपि न क्षमं परिपन्थीभवितुं किं पुनर्युधिष्ठिरबलम् । तदेवं मन्ये परिकल्पिताभिषेकोपकरणः कौरवराजो न चिरात्त्वामेवाभ्यपेक्षमाणस्तिष्ठतीति ।
&अश्वत्थामा&:
यद्येवं त्वरते मे परिभवानलदह्यमानमिदं चेतस्तत्प्रतीकारजलावगाहनाय । तदहं गत्वा तातवधविषण्णमानसं कुरुपतिं सैनापत्यस्वयङ्ग्रहणप्रणयसमाश्वासनया मन्दसन्तापं करोमि ।
&कृपः&:
वत्स एवमिदम् । अतस्तमेवोद्देशं गच्छावः ।
इति परिक्रामतः*
ततः प्रविशतः कर्णदुर्योधनौ*
&दुर्योधनः&:
अङ्गराज
वेर्से_३।२७
तेजस्वी रिपुहतबन्धुदुःखपारं $ बाहुभ्यां व्रजति धृतायुधप्लवाभ्याम् &
आचार्यः सुतनिधनं निशम्य सङ्ख्ये ē̃ किं शस्त्रग्रहसमये विशस्त्र आसीत् ॥ ३।२७ ॥
अथ वा सूक्तमिदमभियुक्तैः प्रकृतिर्दुस्त्यजेति । यतः शोकान्धमनसा तेन विमुच्य क्षात्रधर्मकार्कश्यं द्विजातिधर्मसुलभो मार्दवपरिग्रहः कृतः ।
&कर्णः&:
राजन्कौरवेश्वर न खल्विदमेवम् ।
&दुर्योधनः&:
कथं तर्हि ।
&कर्णः&:
एवं किलास्याभिप्रायो यथाश्वत्थामा मया पृथिवीराज्ये ऽभिषेक्तव्य इति । तस्याभावाद्वृद्धस्य मे ब्राह्मणस्य वृथा शस्त्रग्रहणमिति तथा कृतवान् ।
&दुर्योधनः&:
सशिरःकम्पम्*
एवमिदम् ।
&कर्णः&:
एतदर्थं च कौरवपाण्डवपक्षपातप्रवृत्तमहासङ्ग्रामस्य राजकस्य परस्परक्षयमपेक्षमाणेन तेन प्रधानपुरुषवधोपेक्षा कृता ।
&दुर्योधनः&:
उपपन्नमिदम् ।
&कर्णः&:
अन्यच्च राजन् द्रुपदेनाप्यस्य बाल्यात्प्रभृत्यभिप्रायवेदिना न स्वराष्ट्रे वासो दत्तः ।
&दुर्योधनः&:
साधु अङ्गराज साधु । निपुणमभिहितम् ।
&कर्णः&:
न चायं ममैकस्याभिप्रायः । अन्ये ऽभियुक्ता अपि नैवेदमन्यथा मन्यन्ते ।
&दुर्योधनः&:
एवमेतत् । कः सन्देहः ।
वेर्से_३।२८
दत्त्वाभयं सो ऽतिरथो बध्यमानं किरीटिना ।
सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्यथा ॥ ३।२८ ॥
&कृपः&:
विलोक्य*
वत्स एष दुर्योधनः सूतपुत्रेण सहास्यां न्यग्रोधच्छायायामुपविष्टस्तिष्ठति । तदुपसर्पावः ।
तथा कृत्वा*
&उभौ&:
विजयतां कौरवेश्वरः ।
&दुर्योधनः&:
दृष्ट्वा*
अये कथं कृपो ऽश्वत्थामा च ।आसनादवतीर्य कृपं प्रति*
गुरो अभिवादये ।अश्वत्थामानमुद्दिश्य*
आचार्यपुत्र
वेर्से_३।२९
एह्यस्मदर्थहततात परिष्वजस्व $ क्लान्तैरिदं मम निरन्तरमङ्गमङ्गैः &
स्पर्शस्तवैष भुजयोः सदृशः पितुस्ते ē̃ शोके ऽपि यो विकृतिमेति तनूरुहेषु ॥ ३।२९ ॥
आलिङ्ग्य पार्श्व उपवेशयति । अश्वत्थामा बाष्पमुत्सृजति*
&कर्णः&:
द्रौणायन अलमत्यर्थमात्मानं शोकानले प्रक्षिप्य ।
&दुर्योधनः&:
आचार्यपुत्र को विशेष आवयोरस्मिन्व्यसनमहार्णवे । पश्य ।
वेर्से_३।३०
तातस्तव प्रणयवान्स पितुः सखा मे $ शस्त्रे यथा तव गुरुः स तथा ममापि &
किं तस्य देहनिधने कथयामि दुःखं ē̃ जानीहि तद्गुरुशुचा मनसा त्वमेव ॥ ३।३० ॥
&कृपः&:
वत्स यथाह कुरुपतिस्तथैवैतत् ।
&अश्वत्थामा&:
राजन्नेवं पक्षपातिनि त्वयि युक्तमेव शोकभारं लघूकर्तुम् । किं तु
वेर्से_३।३१
मयि जीवति मत्तातः केशग्रहणमवाप्तवान् ।
कथमन्ये करिष्यन्ति पुत्रेभ्यः पुत्रिणः स्पृहाम् ॥ ३।३१ ॥
&कर्णः&:
द्रौणायन किमत्र क्रियते यदा तेनैव सर्वपरिभवत्राणहेतुना शस्त्रमुत्सृजता तादृशीमवस्थामात्मा नीतः ।
&अश्वत्थामा&:
अङ्गराज किमाह भवान्किमत्र क्रियत इति । श्रूयतां यत्क्रियते ।
वेर्से_३।३२
यो यः शस्त्रं बिभर्ति स्वभुजगुरुमदः पाण्डवीनां चमूनां $ यो यः पाञ्चालगोत्रे शिशुरधिकवया गर्भशय्यां गतो वा &
यो यस्तत्कर्मसाक्षी चरति मयि रणे यश्च यश्च प्रतीपः ē̃ क्रोधान्धस्तस्य तस्य स्वयमपि जगतामन्तकस्यान्तको ऽहम् ॥ ३।३२ ॥
अपि च भो जामदग्न्यशिष्य कर्ण
वेर्से_३।३३
देशः सो ऽयमरातिशोणितजलैर्यस्मिन्ह्रदाः पूरिताः $ क्षत्रादेव तथाविधः परिभवस्तातस्य केशग्रहः &
तान्येवाहितशस्त्रघस्मरगुरूण्यस्त्राणि भास्वन्ति मे ē̃ यद्रामेण कृतं तदेव कुरुते द्रौणायनः क्रोधनः ॥ ३।३३ ॥
&दुर्योधनः&:
आचार्यपुत्र तस्य तथाविधस्यानन्यसाधारणस्य ते वीरभावस्य किमन्यत्सदृशम् ।
&कृपः&:
राजन्सुमहान्खलु द्रोणपुत्रेण वोढुमध्यवसितः समरभारः । तदहमेवं मन्ये । भवता कृतपरिकरो ऽयमुच्छेत्तुं लोकत्रयमपि समर्थः किं पुनर्युधिष्ठिरबलम् । अतो ऽभिषिच्यतां सैनापत्ये ।
&दुर्योधनः&:
सुष्ठु युज्यमानमभिहितं युष्माभिः । किं तु प्राक्प्रतिपन्नो ऽयमर्थो ऽङ्गराजस्य ।
&कृपः&:
राजन्नसदृशपरिभवशोकसागरे निमज्जन्तमेनमङ्गराजस्यार्थे नैवोपेक्षितुं युक्तम् । अस्यापि तदेवारिकुलमनुशासनीयम् । अतः किमस्य पीडा न भविष्यति ।
&अश्वत्थामा&:
राजन्कौरवेश्वर किमद्यापि युक्तायुक्तविचारणया ।
वेर्से_३।३४
प्रयत्नपरिबोधितः स्तुतिभिरद्य शेषे निशा- $ मकेशवमपाण्डवं भुवनमद्य निःसोमकम् &
इयं परिसमाप्यते रणकथाद्य दोःशालिना ē̃ व्यपैतु नृपकाननातिगुरुरद्य भारो भुवः ॥ ३।३४ ॥
&कर्णः&:
विहस्य*
वक्तुं सुकरमिदं दुष्करमध्यवसातुम् । बहवः कौरवबले ऽस्य कर्मणः शक्ताः ।
&अश्वत्थामा&:
अङ्गराज एवमिदम् । बहवः कौरवबले ऽत्र शक्ताः । किं तु दुःखोपहतः शोकावेशवशाद्ब्रवीमि न पुनर्वीरजनाधिक्षेपेण ।
&कर्णः&:
मूढ दुःखितस्याश्रुपातः कुपितस्य चायुधद्वितीयस्य सङ्ग्रामावतरणमुचितं नैवंविधाः प्रलापाः ।
&अश्वत्थामा&:
सक्रोधम्*
अरे रे राधागर्भभारभूत सूतापसद ममापि नामाश्वत्थाम्नो दुःखितस्याश्रुभिः प्रतिक्रियामुपदिशि न शस्त्रेण । पश्य ।
वेर्से_३।३५
निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं $ सम्प्रत्येव भयाद्विहाय समरं प्राप्तो ऽस्मि किं त्वं यथा &
जातो ऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले ē̃ क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्रेण नास्त्रेण यत् ॥ ३।३५ ॥
&कर्णः&:
सक्रोधम्*
अरे रे वाचाट वृथाशस्त्रग्रहणदुर्विदग्ध बटो
वेर्से_३।३६
निर्वीर्यं वा सवीर्यं वा मया नोत्सृष्टमायुधम् ।
यथा पाञ्चालभीतेन पित्रा ते बाहुशालिना ॥ ३।३६ ॥
अपि च
वेर्से_३।३७
सूतो वा सूतपुत्रो वा यो वा को वा भवाम्यहम् ।
दैवायत्तं कुले जन्म मदायत्तं तु पौरुषम् ॥ ३।३७ ॥
&अश्वत्थामा&:
सक्रोधम्*
अरे रे रथकारकुलकलङ्क राधागर्भभारभूत अरे आयुधानभिज्ञ तातमप्यधिक्षिपसि । अथ वा
वेर्से_३।३८
स भीरुः शूरो वा प्रथितभुजसारस्त्रिभुवने $ कृतं यत्तेनाजौ प्रतिदिनमियं वेत्ति वसुधा &
परित्यक्तं शस्त्रं कथमिति स सत्यव्रतधरः ē̃ पृथासूनुः साक्षी त्वमसि रणभीरो क्व नु तदा ॥ ३।३८ ॥
&कर्णः&:
विहस्य*
एवं भीरुरहम् । पुनर्विक्रमैकरसं तव पितरमनुस्मृत्य महान्मे संशयो जातः । अपि च रे मूढ
वेर्से_३।३९
यदि शस्त्रमुज्झितमशस्त्रपाणयो $ न निवारयन्ति किमरीनुदायुधान् &
यदनेन मौलिदलने ऽप्युदासितं ē̃ सुचिरं स्त्रियेव नृपचक्रसन्निधौ ॥ ३।३९ ॥
&अश्वत्थामा&:
सक्रोधं सकम्पं च*
दुरात्मन्राजवल्लभ प्रगल्भ सूतापसद असम्बद्धप्रलापिन्
वेर्से_३।४०
कथमपि न निषिद्धो दुःखिना भीरुणा वा $ द्रुपदतनयपाणिस्तेन पित्रा ममाद्य &
तव भुजबलदर्पाध्मायमानस्य वामः ē̃ शिरसि चरण एष न्यस्यते वारयैनम् ॥ ३।४० ॥
इति तथा कर्तुमुत्तिष्ठति*
&कृपदुर्योधनौ&:
गुरुपुत्र मर्षय ।इति निवारयतः*
अश्वत्थामा चरणप्रहारं नाटयति*
&कर्णः&:
सक्रोधमुत्थाय खड्गमाकृष्य*
अरे दुरात्मन्वाचाल ब्रह्मबन्धो आत्मश्लाघ
वेर्से_३।४१
जात्या काममवध्यो ऽसि चरणं त्विममुद्धृतम् ।
अनेन लूनं खड्गेन पतितं वेत्स्यसि क्षितौ ॥ ३।४१ ॥
&अश्वत्थामा&:
अरे मूढ किं नाम जात्या काममवध्यो ऽहम् । इयं सा जातिस्त्यक्ता ।इति यज्ञोपवीतं छिनत्ति । पुनश्च सक्रोधम्*
वेर्से_३।४२
अद्य मिथ्याप्रतिज्ञो ऽसौ किरीटी क्रियते मया ।
शस्त्रं गृहाण वा त्यक्त्वा मौलौ वा रचयाञ्जलिम् ॥ ३।४२ ॥
उभावपि खड्गमाकृष्यान्यो ऽन्यं प्रहर्तुमुद्यतौ । कृपदुर्योधनौ वारयतः*
&दुर्योधनः&:
सखे आचार्यपुत्र शस्त्रग्रहणेनालम् ।
&कृपः&:
वत्स सूतपुत्र शस्त्रग्रहणेनालम् ।
&अश्वत्थामा&:
मातुल मातुल किं निवारयसि । अयमपि तातनिन्दाप्रगल्भः सूतापसदो धृष्टद्युम्नपक्षपात्येव ।
&कर्णः&:
राजन्न खल्वहं निवारयितव्यः ।
वेर्से_३।४३
उपेक्षितानां मन्दानां धीरसत्त्वैरवज्ञया ।
अत्रासितानां क्रोधान्धैर्भवत्येषा विकत्थना ॥ ३।४३ ॥
&अश्वत्थामा&:
राजन्मुञ्च मुञ्चैनम् । आसादयतु मद्भुजान्तरनिष्पेषसुलभमसूनामवसादनम् । अन्यच्च राजन् । स्नेहेन कार्येण वा यत्त्वमेनं ताताधिक्षेपकारिणं दुरात्मानं मत्तः परिरक्षितुमिच्छसि तदुभयमपि वृथैव । पश्य ।
वेर्से_३।४४
पापप्रियस्तव कथं गुणिनः सहायः $ सूतान्वयः शशधरान्वयसम्भवस्य &
हन्ता किरीटिनमहं नृप मुञ्च कुर्यां ē̃ क्रोधादकर्णमपृथात्मजमद्य लोकम् ॥ ३।४४ ॥
इति प्रहर्तुमिच्छति*
&कर्णः&:
खड्गमुद्यम्य*
अरे वाचाट ब्राह्मणाधम अयं न भवसि । राजन्मुञ्च मुञ्च । न खल्वहं वारयितव्यः ।हन्तुमिच्छति*
दुर्योधनकृपौ निवारयतः*
&दुर्योधनः&:
कर्ण गुरुपुत्र को ऽयमद्य युवयोर्व्यामोहः ।
&कृपः&:
वत्स अन्यदेव प्रस्तुतमन्यत्रावेग इति को ऽयं व्यामोहः । स्वबलव्यसनं चेदमस्मिन्काले राजकुलस्यास्य युष्मत्त एव भवतीति वामः पन्थाः ।
&अश्वत्थामा&:
मातुल न लभ्यते ऽस्य कटुप्रलापिनो रथकारकुलकलङ्कस्य दर्पः शातयितुम् ।
&कृपः&:
वत्स अकालः खलु स्वबलप्रधानविरोधस्य ।
&अश्वत्थामा&:
मातुल यद्येवम्
वेर्से_३।४५
अयं पापो यावन्न निधनमुपेयादरिशरैः $ परित्यक्तं तावत्प्रियमपि मयास्त्रं रणमुखे &
बलानां नाथे ऽस्मिन्परिकुपितभीमार्जुनभये ē̃ समुत्पन्ने राजा प्रियसखबलं वेत्तु समरे ॥ ३।४५ ॥
इति खड्गमुत्सृजति*
&कर्णः&:
विहस्य*
कुलक्रमागतमेवैतद्भवादृशां यदस्त्रपरित्यागो नाम ।
&अश्वत्थामा&:
ननु रे अपरित्यक्तमपि भवादृशैरायुधं चिरपरित्यक्तमेव निष्फलत्वात् ।
&कर्णः&:
अरे मुढ
वेर्से_३।४६
धृतायुधो यावदहं तावदन्यैः किमायुधैः ।
यद्वा न सिद्धमस्त्रेण मम तत्केन सेत्स्यति ॥ ३।४६ ॥
नेपथ्ये*
आः दुरात्मन्द्रौपदीकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद चिरस्य खलु कालस्य मत्सम्मुखमागतो ऽसि । क्षुद्रपशो क्वेदानीं गम्यते । अपि च भो भो राधेयदुर्योधनसौबलप्रभृतयः पाण्डवविद्वेषणश्चापपाणयो मानधनाः शृण्वन्तु भवन्तः ।
वेर्से_३।४७
स्पृष्टा येन शिरोरुहे नृपशुना पाञ्चालराजात्मजा $ येनास्याः परिधानमप्यपहृतं राज्ञां गुरूणां पुरः &
यस्योरःस्थलशोणितासवमहं पातुं प्रतिज्ञातवा- ē̃ न्सो ऽयं मद्भुजपञ्जरे निपतितः संरक्ष्यतां कौरवः ॥ ३।४७ ॥
सर्व आकर्णयन्ति*
&अश्वत्थामा&:
सोत्प्रासम्*
अङ्गराज सेनापते जामदग्न्यशिष्य द्रोणोपहासिन्भुजबलपरिरक्षितसकललोक ।धृतायुध इति पठित्वा*
इदं तदासन्नतरमेव संवृत्तम् । रक्षैनं साम्प्रतं भीमाद्दुःशासनम् ।
&कर्णः&:
आः का शक्तिर्वृकोदरस्य मयि जीवति दुःशासनस्य छायामप्याक्रमितुम् । युवराज न भेतव्यं न भेतव्यम् । अयमहमागतो ऽस्मि ।इति निष्क्रान्तः*
&अश्वत्थामा&:
राजन्कौरवनाथ अभीष्मद्रोणं सम्प्रति कौरवबलमालोडयन्तौ भीमार्जुनौ राधेयेनैवंविधेनान्येन वा न शक्येते निवारयितुम् । अतः स्वयमेव भ्रातुः प्रतीकारपरो भव ।
&दुर्योधनः&:
आः शक्तिरस्ति दुरात्मनः पवनतनयस्यान्यस्य वा मयि जीवति शस्त्रपाणौ वत्सस्य छायामप्याक्रमितुम् । वत्स न भेतव्यं न भेतव्यम् । कः को ऽत्र भोः । रथमुपनय ।इति निष्क्रान्तः*
नेपथ्ये कलकलः*
&अश्वत्थामा&:
अग्रतो विलोक्य*
मातुल हा धिक्कष्टम् । एष खलु भ्रातुः प्रतिज्ञाभङ्गभीरुः किरीटी समं दुर्योधनराधेयौ शरवर्षैर्दुर्वारैरभिद्रवति । सर्वथा पीतं दुःशासनशोणितं भीमेन । न खलु विषहे दुर्योधनानुजस्यैनां विपत्तिमवलोकयितुम् । अनृतमनुमतं नाम । मातुल शस्त्रं शस्त्रम् ।
वेर्से_३।४८
सत्यादप्यनृतं श्रेयो धिक्स्वर्गं नरको ऽस्तु मे ।
भीमाद्दुःशासनं त्रातुं त्यक्तमत्यक्तमायुधम् ॥ ३।४८ ॥
इति खड्गं ग्रहीतुमिच्छति*
नेपथ्ये*
महात्मन्भारद्वाजसूनो न खलु सत्यवचनमनुल्लङ्घितपूर्वमुल्लङ्घयितुमर्हसि ।
&कृपः&:
वत्स अशरीरिणी भारती भवन्तमनृतादभिरक्षति ।
&अश्वत्थामा&:
कथमियममानुषी वाग्नानुमनुते सङ्ग्रामावतरणं मम । भोः कष्टम् । आः पक्षपातिनो देवा अपि पाण्डवानाम् । सर्वथा पीतं दुःशासनशोणितं भीमेन । भोः कष्टं कष्टम् ।
वेर्से_३।४९
दुःशासनस्य रुधिरे पीयमाने ऽप्युदासितम् ।
दुर्योधनस्य कर्तास्मि किमन्यत्प्रियमाहवे ॥ ३।४९ ॥
मातुल राधेयक्रोधवशादनार्यमस्माभिराचरितम् । अतस्त्वमपि तावदस्य राज्ञः पार्श्ववर्ती भव ।
&कृपः&:
गच्छाम्यहमत्र प्रतिविधातुम् । भवानपि शिबिरसन्निवेशमेव प्रतिष्ठताम् ।
परिक्रम्य निष्क्रान्तौ*
इति तृतीयो ऽङ्कः ।
अच्त्_४
चतुर्थो ऽङ्कः ।
ततः प्रविशति प्रहारमूर्च्छितं रथस्थं दुर्योधनमपहरन्सूतः । सूतः ससम्भ्रमं परिक्रामति*
नेपथ्ये*
भो भो बाहुबलावलेपप्रवर्तितमहासमरदोहदाः कौरवपक्षपातपणीकृतप्राणद्रविणसञ्चया नरपतयः संस्तभ्यन्तां संस्तभ्यन्तां निहतदुःशासनपीतावशेषशोणितस्नपितबीभत्सवेषवृकोदरदर्शनभयपरिस्खलत्प्रहरणानि रणात्द्रवन्ति बलानि ।
&सूतः&:
विलोक्य*
कथमेष धवलचपलचामरचुम्बितकनककमण्डलुना शिखरावबद्धवैजयन्तीसूचितेन हतगजवाजिनरकलेवरसहस्रसम्मर्दविषमोद्घातकृतकलकलकिङ्किणीजालमालिना रथेन शरवर्षस्तम्भितपरबलपराक्रमप्रसरः प्रद्रुतमात्मबलमाश्वासयन्कृपः किरीटिनाभियुक्तमङ्गराजमनुसरति । हन्त जातमस्मद्बलानामवलम्बनम् ।
नेपथ्ये कलकलानन्तरम्*
भो भोः अस्मद्दर्शनभयस्खलितकार्मुककृपाणतोमरशक्तयः कौरवचमूभटाः पाण्डवपक्षपातिनश्च योधाः न भेतव्यं न भेतव्यम् । अयमहं निहतदुःशासनपीवरोरःस्थलक्षतजासवपानमदोद्धतो रभसगामी स्तोकावशिष्टप्रतिज्ञामहोत्सवः कौरवराजस्य द्यूतनिर्जितो दासः पार्थमध्यमो भीमसेनः सर्वान्भवतः साक्षीकरोमि । श्रूयताम् ।
वेर्से_४।१
राज्ञो मानधनस्य कार्मुकभृतो दुर्योधनस्याग्रतः $ प्रत्यक्षं कुरुबान्धवस्य मिषतः कर्णस्य शल्यस्य च &
पीतं तस्य मयाद्य पाण्डववधूकेशाम्बराकर्षिणः ē̃ कोष्णं जीवत एव तीक्ष्णकरजक्षुण्णादसृग्वक्षसः ॥ ४।१ ॥
&सूतः&:
श्रुत्वा सभयम्*
अये आसन्न एव दुरात्मा कौरवराजपुत्रमहावनोत्पातमारुतो मारुतिः । अनुपलब्धसञ्ज्ञश्च तावदत्र महाराजः । भवतु । सुदूरमपहरामि स्यन्दनम् । कदाचिद्दुःशासन इवास्मिन्नप्ययमनार्यो ऽनार्यमाचरिष्यति ।त्वरिततरं परिक्रम्यावलोक्य च*
अये अयमसौ सरसीसरोजविलोलनसुरभिशीतलमातरिश्वसंवाहितसान्द्रकिसलयो न्यग्रोधपादपः । उचिता विश्रामभूरियं समरव्यापारखिन्नस्य वीरजनस्य । अत्र स्थितश्चायाचिततालवृन्तेन हरिचन्दनच्छटाशीतलेनाप्रयत्नसुरभिणा दशापरिणामयोग्येन सरसीसमीरणेनामुना गतक्लमो भविष्यति महाराजः । लूनकेतुश्चायं रथो ऽनिवारित एव प्रवेक्ष्यति च्छायाम् ।इति प्रवेशं रूपयित्वा*
कः को ऽत्र भोः ।समन्तादवलोक्य*
कथं न कश्चिदत्र परिजनः । नूनं तथाविधस्य वृकोदरस्य दर्शनादेवंविधस्य च स्वामिनस्त्रासेन शिबिरसन्निवेशमेव प्रविष्टः । कष्टं भोः कष्टम् ।
वेर्से_४।२
दत्त्वा द्रोणेन पार्थादभयमपि न संरक्षितः सिन्धुराजः $ क्रूरं दुःशासने ऽस्मिन्हरिण इव कृतं भीमसेनेन कर्म &
दुःसाध्यामप्यरीणां लघुमिव समरे पूरयित्वा प्रतिज्ञां ē̃ नाहं मन्ये सकामं कुरुकुलविमुखं दैवमेतावतापि ॥ ४।२ ॥
राजानमवलोक्य*
कथमद्यापि न चेतनां लभते महाराजः । भोः कष्टम् ।निःश्वस्य*
वेर्से_४।३
मदकलितकरेणुभज्यमाने $ विपिन इव प्रकटैकशालशेषे &
हतसकलकुमारके कुले ऽस्मिम्- ē̃ स्त्वमपि विधेरवलोकितः कटाक्षैः ॥ ४।३ ॥
ननु भो हतविधे भरतकुलविमुख
वेर्से_४।४
अक्षतस्य गदापाणेरनारूढस्य संशयम् ।
एषापि भीमसेनस्य प्रतिज्ञा पूर्यते त्वया ॥ ४।४ ॥
&दुर्योधनः&:
शनैरुपलब्धसञ्ज्ञः*
आः शक्तिरस्ति दुरात्मनो वृकोदरहतकस्य मयि जीवति दुर्योधने प्रतिज्ञां पूरयितुम् । वत्स दुःशासन न भेतव्यं न भेतव्यम् । अयमहमागतो ऽस्मि । ननु सूत प्रापय रथं तमेवोद्देशं यत्र वत्सो मे दुःशासनः ।
&सूतः&:
आयुष्मन्नक्षमाः सम्प्रति वाहास्ते रथमुद्वोढुम् ।अपवार्य*
मनोरथं च ।
&दुर्योधनः&:
रथादवतीर्य सगर्वं साकूतं च*
कृतं स्यन्दनगमनकालातिपातेन ।
&सूतः&:
सवैलक्ष्यं सकरुणं च*
मर्षयतु मर्षयत्वायुष्मान् ।
&दुर्योधनः&:
धिक्सूत किं रथेन । केवलमरातिविमर्दसङ्घट्टसञ्चारी दुर्योधनः खल्वहम् । तद्गदामात्रसहायः समरभुवमवतरामि ।
&सूतः&:
आयुष्मन्नेवमेतत् । कः सन्देहः ।
&दुर्योधनः&:
यद्येवं किमेवं भाषसे । पश्य ।
वेर्से_४।५
बालस्य मे प्रकृतिदुर्ललितस्य पापः $ पापं व्यवस्यति समक्षमुदायुधो ऽसौ &
अस्मिन्निवारयसि किं व्यवसायिनं मां ē̃ क्रोधो न नाम करुणा न च ते ऽस्ति लज्जा ॥ ४।५ ॥
&सूतः&:
सकरुणं पादयोर्निपत्य*
एतद्विज्ञापयामि । आयुष्मन्सम्पूर्णप्रतिज्ञेन निवृत्तेन भवितव्यमिदानीं दुरात्मना वृकोदरहतकेन । अत एवं ब्रवीमि ।
&दुर्योधनः&:
सहसा भूमौ पतन्*
हा वत्स दुःशासन हा मदाज्ञाविरोधितपाण्डव हा विक्रमैकरस हा मदङ्कदुर्ललित हा अरातिकुलगजघटामृगेन्द्र हा युवराज क्वासि । प्रयच्छ मे प्रतिवचनम् ।इति निःश्वस्य मोहमुपगतः*
&सूतः&:
राजन्समाश्वसिहि समाश्वसिहि ।
&दुर्योधनः&:
सञ्ज्ञां लब्ध्वा । निःश्वस्य*
वेर्से_४।६
मुक्तो यथेष्टमुपभोगसुखेषु नैव $ त्वं लालितो ऽपि हि मया न वृथाग्रजेन &
अस्यास्तु वत्स तव हेतुरहं विपत्ते- ē̃ र्यत्कारितो ऽस्यविनयं न च रक्षितो ऽसि ॥ ४।६ ॥
इति पतति*
&सूतः&:
आयुष्मन्समाश्वसिहि समाश्वसिहि ।
&दुर्योधनः&:
धिक्सूत किमनुष्ठितं भवता ।
वेर्से_४।७
रक्षणीयेन सततं बालेनाज्ञानुवर्तिना ।
दुःशासनेन भ्रात्राहमुपहारेण रक्षितः ॥ ४।७ ॥
&सूतः&:
महाराज मर्मभेदिभिरिषुतोमरशक्तिप्रासवर्षैर्महारथानामपहृतचेतनत्वान्निश्चेष्टः कृतो महाराज इत्यपहृतो मया रथः ।
&दुर्योधनः&:
सूत विरूपं कृतवानसि ।
वेर्से_४।८
तस्यैव पाण्डवपशोरनुजद्विषो मे $ क्षोदैर्गदाशनिकृतैर्न विबोधितो ऽस्मि &
तामेव नाधिशयितो रुधिरार्द्रशय्यां ē̃ दौःशासनीं यदहमाशु वृकोदरो वा ॥ ४।८ ॥
निश्वस्य नभो विलोक्य*
ननु भो हतविधे कृपाविरहित भरतकुलविमुख
वेर्से_४।९
अपि नाम भवेन्मृत्युर्न च हन्ता वृकोदरः ।
&सूतः&:
शान्तं पापं शान्तं पापम् । महाराज किमिदम् ।
&दुर्योधनः&:
वेर्से_४।९
घातिताशेषबन्धोर्मे किं राज्येन जयेन वा ॥ ४।९ ॥
ततः प्रविशति शरप्रहारव्रणबद्धपट्टिकालङ्कृतकायः सुन्दरकः*
&सुन्दरकः&:
{प्क्त्_१०२}अज्जा अबि णाम इमस्सिं उद्देसे सारहिदुदीओ दिट्ठो तुम्हेहिं महाराअदुज्जोहणो ण वेत्ति निरूप्य*
कहं ण को बि मन्तेदि । होदु । एदाणं बद्धपरिअराणं पुरिसाणं समूहो दीसै । एत्थ गदुअ पुच्छिस्सं ।परिक्रम्य विलोक्य च*
कहं एदे क्खु सस्सामिणो गाढप्पहारहदस्स घणसण्णाहजालदुब्भेज्जमुहेहिं कङ्कवदणेहिं हिअआदो सल्लाइं उद्धरन्ति । ता ण क्खु एदे जाणन्ति । होदु । अण्णदो विचिणैस्सं ।अग्रतो ऽवलोक्य किञ्चित्परिक्रम्य*
इमे क्खु अबरे पहूददरा सङ्गदा वीरमणुस्सा दीसन्ति । ता एत्थ गदुअ पुच्छिस्सं ।उपगम्य*
हंहो जाणह तुम्हे कस्सिं उद्देसे कुरुणाहो वट्टै त्ति ।दृष्ट्वा*
कहं एदे बि मं पेक्खिअ अहिअदरं रोअन्ति । ता ण हु एदे बि जाणन्ति । हा अदिकरुणं क्खु एत्थ वट्टै । एसा वीरमादा समलविणिहदं पुत्तअं सुणिअ रत्तंसुअणिवसणाए समग्गभूसणाए वहूए सह अणुमरदि ।सश्लाघम्*
साहु वीरमादे साहु । अण्णस्सिं बि जम्मन्तरे अणिहदपुत्तआ हुविस्ससि । होदु । अण्णदो विचिणैस्सं ।अन्यतो विलोक्य*
अअं अबरो बहुप्पहारणिहदकाओ अकिदव्वणप्पडीआरो एव्व जोहसमूहो इमं सुण्णासणं तुलङ्गमं उबालहिअ रोइदि । णूणं एदाणं एत्थ एव्व सामी वाबादिदो । ता ण हु एदे बि जाणन्ति । होदु । अण्णदो गदुअ पुच्छिस्सं ।सर्वतो विलोक्य*
कहं सव्वो एव्व अवत्थाणुरूबं विसणं अणुहवन्तो भाअधेअविमुहदाए पज्जाउलो जणो । ता कं एत्थ पुच्छिस्सं । कं वा उबालहिस्सं । होदु । सअं एव्व एत्थ विचिणैस्सं ।परिक्रम्य*
होदु । देव्वं दाणीं उबालहिस्सं । हंहो देव्व एआदसाणं अक्खोहिणीणं णाहो जेट्ठो भादुसदस्स भत्ता गङ्गेअद्दोणङ्गराअसल्लकिबकिदवम्मस्सत्थामप्पमुहस्स राअचक्कस्स सअलपहुवीमण्डलेक्कणाहो महाराअदुज्जोहणो बि अण्णेसीअदि । अण्णेसीअन्तो बि ण जाणीअदि कस्सिं उद्देसे वट्टै त्ति ।विचिन्त्य निःश्वस्य च*
अह वा किं एत्थ देव्वं उबालहामि । तस्स क्खु एदं णिब्भच्छिअविउरवअणवीअस्स अवहीरिदपिदामहहिदोबदेसङ्कुरस्स सौणिप्पोच्छाहणादिविरूढमूलस्स जदुगेहजूदविससाहिणो सम्भूदचिरआलसम्बद्धवेरालवालस्स पञ्चालीकेसग्गहणकुसुमस्स फलं परिणमदि ।अन्यतो विलोक्य*
जहा एत्थ एसो विविहरअणप्पहासंवलिदसूरकिरणप्पसूदसक्कचाबसहस्ससम्पूरिददसदिसामुहो लूणकेदुवंसो रहो दीसै ता अहं तक्केमि अवस्सं एदिणा महाराअदुज्जोहणस्स विस्सामुद्देसेण होदव्वं । जाव णिरूबेमि ।उपगम्य दृष्ट्वा निश्वस्य च*
कधं एआदसाणं अक्खोहिणीणं णाअको भविअ महाराओ दुज्जोहणो पाइदपुरिसो विअ असलाहणीए भूमिए उपविट्ठो चिट्ठदि । अथ वा तस्स क्खु एदं पञ्चालीकेसग्गहकुसुमस्स फलं परिणमदि ।
स्क्त्छ्_१०२: आर्याः अपि नामास्मिन्देशे सारथिद्वितीयो दृष्टो युष्माभिर्महाराजदुर्योधनो न वेति । कथं न को ऽपि मन्त्रयते । भवतु । एतेषां बद्धपरिकराणां पुरुषाणां समूहो दृश्यते । अत्र गत्वा प्रक्ष्यामि । कथमेते खलु स्वस्वामिनो गाढप्रहारहतस्य घनसन्नाहजालदुर्भेद्यमुखैः कङ्कवदनैर्हृदयाच्छल्यान्युद्धरन्ति । तन्न खल्वेते जानन्ति । भवतु । अन्यतो विचेष्यामि । इमे खल्वपरे प्रभूततराः सङ्गता वीरमनुष्या दृश्यन्ते । तदत्र गत्वा प्रक्ष्यामि । हंहो जानीथ यूयं कस्मिन्नुद्देशे कुरुनाथो वर्तत इति । कथमेते ऽपि मां प्रेक्ष्याधिकतरं रुदन्ति । तन्न खल्वेते ऽपि जानन्ति । हा अतिकरुणं खल्वत्र वर्तते । एषा वीरमाता समरविनिहतं पुत्रकं श्रुत्वा रक्तांशुकनिवसनया समग्रभुषणया वध्वा सहानुम्रियते । साधु वीरमातः साधु । अन्यस्मिन्नपि जन्मान्तरे ऽनिहतपुत्रका भविष्यसि । भवतु । अन्यतो विचेष्यामि । अयमपरो बहुप्रहारनिहतकायो ऽकृतव्रणबन्ध एव योधसमूह इमं शून्यासनं तुरङ्गममुपालभ्य रोदिति । नूनमेतेषामत्रैव स्वामी व्यापादितः । तन्न खल्वेते ऽपि जानन्ति । भवतु । अन्यतो गत्वा प्रक्ष्यामि । कथं सर्व एवावस्थानुरूपं व्यसनमनुभवन्भागधेयविमुखतया पर्याकुलो जनः । तत्कमत्र प्रक्ष्यामि । कं वोपालप्स्ये । भवतु । स्वयमेवात्र विचेष्यामि । भवतु । दैवमिदानीमुपालप्स्ये । हंहो दैव एकादशानामक्षौहिणीनां नाथो ज्येष्ठो भ्रातृशतस्य भर्ता गाङ्गेयद्रोणाङ्गराजशल्यकृपकृतवर्माश्वत्थामप्रमुखस्य राजचक्रस्य सकलपृथ्वीमण्डलैकनाथो महाराजदुर्योधनो ऽप्यन्विष्यते । अन्विष्यमाणो ऽपि न ज्ञायते कस्मिन्नुद्देशे वर्तत इति । अथ वा किमत्र दैवमुपालभे । तस्य खल्विदं
निर्भर्त्सितविदुरवचनबीजस्यावधीरितपितामहहितोपदेशाङ्कुरस्य शकुनिप्रोत्साहनादिविरूढमूलस्य जतुगृहद्यूतविषशाखिनः सम्भूतचिरकालसम्बद्धवैरालवालस्य पाञ्चालीकेशग्रहणकुसुमस्य फलं परिणमति । यथात्रैव विविधरत्नप्रभासंवलितसूर्यकिरणप्रसूतशक्रचापसहस्रसम्पूरितदशदिशामुखो लूनकेतवंशो रथो दृश्यते तथाहं तर्कयाम्यवश्यमेतेन महाराजदुर्योधनस्य विश्रामोद्देशेन भवितव्यमिति । यावन्निरूपयामि । कथमेकादशानामक्षौहिणीनां नायको भूत्वा महाराजो दुर्योधनः प्राकृतपुरुष इवाश्लाघनीयायां भूमावुपवष्टस्तिष्ठति । अथ वा तस्य खल्विदं पाञ्चालीकेशग्रहकुसुमस्य फलं परिणमति ।
उपसृत्य सूतं सञ्ज्ञया पृच्छति*
&सूतः&:
दृष्ट्वा*
अये कथं सङ्ग्रामात्सुन्दरकः प्राप्तः ।
&सुन्दरकः&:
{प्क्त्_१०३}उपगम्य*
जेदु जेदु महाराओ ।
स्क्त्छ्_१०३: जयतु जयतु महाराजः ।
&दुर्योधनः&:
विलोक्य*
अये सुन्दरकः । सुन्दरक कच्चित्कुशलमङ्गराजस्य ।
&सुन्दरकः&:
{प्क्त्_१०४}देव कुसलं सरीरमेत्तेण ।
स्क्त्छ्_१०४: देव कुशलं शरीरमात्रेण ।
&दुर्योधनः&:
ससम्भ्रमम्*
सुन्दरक किं किरीटिनास्य निहता धौरेया हतः सारथिर्भग्नो वा रथः ।
&सुन्दरकः&:
{प्क्त्_१०५}देव ण भग्गो रहो । से मणोरहो बि ।
स्क्त्छ्_१०५: देव न भग्नो रथः । अस्य मनोरथो ऽपि ।
&दुर्योधनः&:
सरोषम्*
किमविस्पष्टकथितैराकुलमपि पर्याकुलयसि मे हृदयम् । तदशेषतो विस्पष्टं कथ्यताम् ।
&सुन्दरकः&:
{प्क्त्_१०६}जं देवो आणबेदि । अए देवस्स मुउडमणिप्पहावेण अबणीदा मे रणप्पहारवेअणा ।इति साटोपं परिक्रम्य*
सुणादु देवो । अत्थि दाणिं कुमालदुस्सासणवह ।इत्यर्धोक्ते मुखमाच्छाद्य शङ्कां नाटयति*
स्क्त्छ्_१०६: यद्देव आज्ञापयति । अये देवस्य मुकुटमणिप्रभावेणापनीता मे रणप्रहारवेदना । शृणोतु देवः । अस्तीदानीं कुमारदुःशासनवध ।
&सूतः&:
सुन्दरक कथय । कथितमेव दैवेन ।
&दुर्योधनः&:
कथ्यताम् । श्रुतमस्माभिः ।
&सुन्दरकः&:
{प्क्त्_१०७}सणादु देवो । अज्ज दाव कुमालदुस्सासणवहामरिसिदेण सामिणा अङ्गराएण कुडिलभिउडीभङ्गभीसणणिडलबट्टेण अविण्णादसन्धाणमोक्खसिलीमुहसङ्घादवरिसिणा अभिजुत्तो सो दुराआरो मज्झमपण्डवो भीमसेणहदओ ।
स्क्त्छ्_१०७: शृणोतु देवः । अद्य तावत्कुमारदुःशासनवधामर्षितेन स्वामिनाङ्गराजेन कुटिलभ्रुकुटीभङ्गभीषणनिटलपट्टेनाविज्ञातसन्धानमोक्षशिलीमुखसङ्घातवर्षिणाभियुक्तः स दुराचारो मध्यमपाण्डवो भीमसेनहतकः ।
&उभौ&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१०८}तदो देव उहअबलमिलन्तदिप्पन्तकरितुरअपदादिसमुब्भूदधूलिणिअरेण पल्लत्थगअघडासङ्घादेण अ वित्थरन्तेण अन्धआरेण अन्धीकिदं उहअबलं । ण हु गगणतलं लक्खीअदि ।
स्क्त्छ्_१०८: ततो देव उभयबलमिलद्दीप्यमानकरितुरगपदातिसमुद्भूतधूलिनिकरेण पर्यस्तगजघटासङ्घातेन च विस्तीर्णमानेनान्धकारेणान्धीकृतमुभयबलम् । न खलु गगनतलं लक्ष्यते ।
&उभौ&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१०९}तदो देव दूराकट्ठिअधणुग्गुणाच्छोडणटङ्कारेण गम्भीरभीसणेण जाणीअदि गज्जिदं पलअजलहरेण त्ति ।
स्क्त्छ्_१०९: ततो देव दूराकृष्टधनुर्गुणाच्छोटनटङ्कारेण गम्भीरभीषणेन ज्ञायते गर्जितं प्रलयजलधरेणेति ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११०}तदो देव दोण्णं बि ताणं अण्णोण्णसिंहणादगज्जिदपिसुणं विविहपरिमुक्कप्पहरणाहदकवअसङ्गलिदज्जलणविज्जुच्छडाभासुरं गम्भीरत्थणिअचापजलहरं प्पसरन्तसरधारासहस्सवरिसं जादं समरदुद्दिणं ।
स्क्त्छ्_११०: ततो देव द्वयोरपि तयोरन्यो ऽन्यसिंहनादगर्जितपिशुनं विविधपरिमुक्तप्रहरणाहतकवचसङ्गलितज्वलनविद्युच्छटाभासुरं गम्भीरस्तनितचापजलधरं प्रसरच्छरधारासहस्रवर्षि जातं समरदुर्दिनम् ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१११}तदो अ देव एदस्सिं अन्तरे जेट्ठस्स भादुणो पराभवसङ्किणा धणञ्जएण वज्जणिग्घादणिग्घोसविसमरसिदधअअग्गट्ठिदमहावाणरो तुरङ्गमसंवाहणवापिदवासुदेवसङ्खचक्कासिगदालञ्छिदचौब्बाहुदण्डदुद्दंसणो आपूरिअपञ्चजण्णदेअदत्तताररसिदप्पडिरवभरिददसदिसामुहकुहरो धाविदो तं उद्देसं रहवरो ।
स्क्त्छ्_१११: ततश्च देव एतस्मिन्नन्तरे ज्येष्ठस्य भ्रातुः पराभवशङ्किना धनञ्जयेन वज्रनिर्घातनिर्घोषविषमरसितध्वजाग्रस्थितमहावानरस्तुरङ्गमसंवाहनव्यापृतवासुदेवशङ्खचक्रासिगदालाञ्छितचतुर्बाहुदण्डदुर्दर्शन आपूरितपाञ्चजन्यदेवदत्तताररसितप्रतिरवभरितदशदिशामुखकुहरो धावितस्तमुद्देशं रथवरः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११२}तदो भीमसेणधनञ्जएहिं अभिजुत्तं पिदरं पेक्खिअ ससम्भमं विअलिअं अवधूणिअ रअणसीसअं आकण्णाकट्ठिदकठिणकोदण्डजीओ दाहिणहत्थुक्खित्तसरपुङ्खविघट्टणतुवराइदसारहिओ तं देसं उबगदो कुमालविससेणो ।
स्क्त्छ्_११२: ततो भीमसेनधनञ्जयाभ्यामभियुक्तं पितरं प्रेक्ष्य ससम्भ्रमं विगलितमवधूय रत्नशीर्षकमाकर्णाकृष्टकठिनकोदण्डजीवः दक्षिणहस्तोत्क्षिप्तशरपुङ्खविघट्टनत्वरितसारथिस्तं देशमुपगतः कुमारवृषसेनः ।
&दुर्योधनः&:
सावष्ठम्भम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११३}तदो अ देव तेण आअच्छन्तेण एव्व कुमालविससेणेण विदलिदासिलदासामलसिणिद्धपुङ्खेहिं कठिणकङ्कबत्तेहिं किसणवण्णेहिं साणसिलाणिसिदसामलसल्लबन्धेहिं कुसुमिदो विअ तरू मुहुत्तएण सिलीमुहेहिं पच्छादिदो धणञ्जअस्स रहवरो ।
स्क्त्छ्_११३: ततश्च देव तेनागच्छतैव कुमारवृषसेनेन विदलितासिलताश्यामलस्निग्धपुङ्खैः कठिनकङ्कपत्रैः कृष्णवर्णैः शाणशिलानिशितश्यामलशल्यबन्धैः कुसुमित इव तरुर्मुहूर्तेन शिलीमुखैः प्रच्छादितो धनञ्जयस्य रथवरः ।
&उभौ&:
सहर्षम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११४}तदो देव तिक्खविक्खित्तणिसिदभल्लबाणवरिसिणा धणञ्जएण ईसि विहसिअ भणिदं । अरे रे विससेण पिदुणो बि दाव दे ण जुत्तं मह कुबिदस्स अभिमुहं ठादुं । किं उण भवदो बालस्स । ता गच्छ । अबरेहिं कुमारेहिं सह आओधेहि त्ति । एव्वं वाअं णिसमिअ गुरअणाहिक्खेबेण उद्दीबिअकोबोबरत्तमुहमण्डलविअम्भिअभिउडीभङ्गभीसणेण चाबधारिणा कुमालविससेणेण बि मम्मभेदएहिं परुसविसमेहिं सुदिवहकिदप्पणएहिं णिब्भच्छिदो गण्डीवी बाणेहिं ण उण दुट्ठवअणेहिं ।
स्क्त्छ्_११४: ततो देव तीक्ष्णविक्षिप्तनिशितभल्लबाणवर्षिणा धनञ्जयेनेषद्विहस्य भणितम् । अरे रे वृषसेन पितुरपि तावत्ते न युक्तं मम कुपितस्याभिमुखं स्थातुम् । किं पुनर्भवतो बालस्य । तद्गच्छ । अपरैः कुमारैः सहायुध्यस्वेति । एवं वाचं निशम्य गुरुजनाधिक्षेपेणोद्दीपितकोपोपरक्तमुखमण्डलविजृम्भितभ्रुकुटीभङ्गभीषणेन चापधारिणा कुमारवृषसेनेनापि मर्मभेदकैः परुषविषमैः श्रुतिपथकृतप्रणयैर्निर्भर्त्सितो गाण्डीवी बाणैर्न पुनर्दुष्टवचनैः ।
&दुर्योधनः&:
साधु वृषसेन साधु । सुन्दरक ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११५}तदो देव णिसिदसराभिघादवेअणोपजादमण्णुणा किरीटिणा चण्डगण्डीवजीआसद्दणिज्जिदवज्जणिग्घादघोसेण बाणणिपदणपडिसिद्धदंसणप्पसरेण पत्थुदं सिक्खाबलाणुरूबं किं बि अच्चलिअं ।
स्क्त्छ्_११५: ततो देव निशितशराभिघातवेदनोपजातमन्युना किरीटिना चण्डगाण्डीवजीवाशब्दनिर्जितवज्रनिर्घातघोषेण बाणनिपतनप्रतिषिद्धदर्शनप्रसरेण प्रस्तुतं शिक्षाबलानुरूपं किमप्याश्चर्यम् ।
&दुर्योधनः&:
साकूतम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११६}तदो अ देव तं तारिसं पेक्खिअ सत्तुणो समरव्वाबारचौरत्तणं अविभाविअतूणीरमुहधणुग्गुणगमणागमणसरसन्धाणमोक्खचडुलकरअलेण कुमालविससेणेण बि सविसेसं पत्थुदं समलकम्म ।
स्क्त्छ्_११६: ततश्च देव तत्तादृशं प्रेक्ष्य शत्रोः समरव्यापारचतुरत्वमविभाविततूणीरमुखधनुर्गुणगमनागमनशरसन्धानमोक्षचटुलकरतलेन कुमारवृषसेनेनापि सविशेषं प्रस्तुतं समरकर्म ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११७}तदो देव एत्थन्तरे विमुक्कसमरव्वाबारो मुहुत्तविस्समिदवेराणुबन्धो दोणं बि कुरुराअपण्डवबलाणं साहु कुमालविससेण साहु त्ति किदकलअलो वीरलोओ अवलोइदुं पौत्तो ।
स्क्त्छ्_११७: ततो देव अत्रान्तरे विमुक्तसमरव्यापारो मुहूर्तविश्रमितवैरानुबन्धो द्वयोरपि कुरुराजपाण्डवबलयोः साधु कुमारवृषसेन साध्विति कृतकलकलो वीरलोको ऽवलोकयितुं प्रवृत्तः ।
&दुर्योधनः&:
सविस्मयम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११८}तदो अ देव अवहीरिदसअलधाणुक्कचक्कपरक्कमसालिणो सुदस्स तहाविहेण समलकम्मालम्भेण हरिसरोसकरुणासङ्कडे वट्टमाणस्स सामिणो अङ्गराअस्स णिपडिआ सरपद्धई भीमसेणे बप्फपज्जाउला दिट्ठी कुमालविससेणे ।
स्क्त्छ्_११८: ततश्च देव अवधीरितसकलधानुष्कचक्रपराक्रमशालिनः सुतस्य तथाविधेन समरकर्मारम्भेण हर्षरोषकरुणासङ्कटे वर्तमानस्य स्वामिनो ऽङ्गराजस्य निपतिता शरपद्धतिर्भीमसेने बाष्पपर्याकुला दृष्टिः कुमारवृषसेने ।
&दुर्योधनः&:
सभयम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_११९}तदो अ देव उहअबलप्पौत्तसाहुकारामरिसिदेण सरवरिसप्पज्जलिदेण गण्डीविणा तुरएसु सारहिं पि रहवरे धणुं पि जीआइं पि णलिन्दलञ्छणे सिदादबत्ते बि अ वाबारिदो समं सिलीमुहासारो ।
स्क्त्छ्_११९: ततश्च देव उभयबलप्रवृत्तसाधुकारामर्षितेन शरवर्षप्रज्वलितेन गाण्डीविना तुरगेषु सारथावपि रथवरे धनुष्यपि जीवायामपि नरेन्द्रलाञ्छने सितातपत्रे ऽपि च व्यापारितः समं शिलीमुखासारः ।
&दुर्योधनः&:
सभयम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२०}तदो देव विरहो लूणगुणकोदण्डो परिब्भमणव्वाबारमेत्तप्पडिसिद्धसरसम्पादो मण्डलेहिं विअरिदुं पौत्तो कुमालो ।
स्क्त्छ्_१२०: ततो देव विरथो लूनगुणकोदण्डः परिभ्रमणव्यापारमात्रप्रतिषिद्धशरसम्पातो मण्डलैर्विचरितुं प्रवृत्तः कमारः ।
&दुर्योधनः&:
साशङ्कम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२१}तदो देव सुदरहविद्धंसणामरिसुद्दीबिदेण सामिणा अङ्गराएण अगणिअभीमसेणाभिजोएण परिमुक्को धणञ्जअस्स उबरि सिलीमुहासारो । कुमालो बि परिजणोबणीदं अण्णं रहं आरुहिअ पुणो बि पौत्तो धणञ्जएण सह आओधेदुं ।
स्क्त्छ्_१२१: ततो देव सुतरथविध्वंसनामर्षोद्दीपितेन स्वामिनाङ्गराजेनागणितभीमसेनाभियोगेन परिमुक्तो धनञ्जयस्योपरि शिलीमुखासारः । कुमारो ऽपि परिजनोपनीतमन्यं रथमारुह्य पुनरपि प्रवृत्तो धनञ्जयेन सहायोद्धुम् ।
&उभौ&:
साधु वृषसेन साधु । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२२}तदो देव भणिदं अ कुमालेण रे रे तादाहिक्खेबमुहल मज्झमपण्डव मह सरा तुह सरीरं उज्झिअ अण्णस्सिं ण णिबडन्ति । त्ति भणिअ सरसहस्सेहिं पण्डवसरीरं पच्छादिअ सिंहणादेण गज्जिदुं पौत्तो ।
स्क्त्छ्_१२२: ततो देव भणितं च कुमारेण रे रे ताताधिक्षेपमुखर मध्यमपाण्डव मम शरास्तव शरीरमुज्झित्वान्यस्मिन्न निपतन्ति । इति भणित्वा शरसहस्रैः पाण्डवशरीरं प्रच्छाद्य सिंहनादेन गर्जितुं प्रवृत्तः ।
&दुर्योधनः&:
सविस्मयम्*
अहो बालस्य पराक्रमो मुग्धस्वभावो ऽपि । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२३}तदो अ देव तं सरसम्पादं समवधूणिअ णिसिदसराभिघादजादमण्णुणा किरीटिणा गहिदा रहुच्छङ्गादो कणन्तकणअकिङ्किणीजालझङ्कारविराइणी मेहोबरोहविमुक्कणहत्थलणिम्मला णिसिदसामलसिणिद्धमुही विविहरअणप्पहाभासुरभीसणरमणीअदंसणा सत्ती सोबहासं विमुक्का अ कुमालाहिमुही ।
स्क्त्छ्_१२३: ततश्च देव तं शरसम्पातं समवधूय निशितशराभिघातजातमन्युना किरीटिना गृहीता रथोत्सङ्गात्क्वणत्कनककिङ्किणीजालझङ्कारविराविणी मेघोपरोधविमुक्तनभस्तलनिर्मला निशितश्यामलस्निग्धमुखी विविधरत्नप्रभाभासुरभीषणरमणीयदर्शना शक्तिः सोपहासं विमुक्ता च कुमाराभिमुखी ।
&दुर्योधनः&:
सविषादम्*
अहह । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२४}तदो अ देव पज्जलन्तिं सत्तिं पेक्खिअ विअलिअं अङ्गराअस्स हत्थादो ससरं धणुं हिअआदो वीरसुलहो उच्छाहो णअणादो बाप्फसलिलं वअणादो रसिदं । हसिदं अ धणञ्जएण सिंहणादं विणादिदं विओदलेण दुक्कलं दुक्कलं त्ति आक्कन्दिदं कुरुबलेण ।
स्क्त्छ्_१२४: ततश्च देव प्रज्वलन्तीं शक्तिं प्रेक्ष्य विगलितमङ्गराजस्य हस्तात्सशरं धनुर्हृदयाद्वीरसुलभ उत्साहो नयनाद्बाष्पसलिलं वदनाद्रसितम् । हसितं च धनञ्जयेन सिंहनादं विनादितं वृकोदरेण दुष्करं दुष्करमित्याक्रन्दितं कुरुबलेन ।
&दुर्योधनः&:
सविषादम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२५}तदो देव कुमालविससेणेण आकण्णाकिट्ठणिसिदखुरप्पेहिं चिरं णिज्झाइअ अद्धपहे एव्व भाईरही विअ भअवदा विसमलोअणेण तिधा किदा सत्ती ।
स्क्त्छ्_१२५: ततो देव कुमारवृषसेनेनाकर्णाकृष्टनिशितक्षुरप्रैश्चिरं निध्यायार्धपथ एव भागीरथीव भगवता विषमलोचनेन त्रिधा कृता शक्तिः ।
&दुर्योधनः&:
साधु वृषसेन साधु । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२६}तदो अ देव एदस्सिं अन्तरे किदकलकलमुहरेण वीरलोअसाहुवादेण अन्तरिदो समरतूररवो । सिद्धचालणगणविमुक्ककुसुमप्पकरेण पच्छादिदं समलङ्गणं ।
स्क्त्छ्_१२६: ततश्च देव एतस्मिन्नन्तरे कृतकलकलमुखरेण वीरलोकसाधुवादेनान्तरितः समरतूर्यरवः । सिद्धचारणगणविमुक्तकुसुमप्रकरेण प्रच्छादितं समराङ्गणम् ।
&दुर्योधनः&:
अहो बालस्य पराक्रमः । ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२७}तदो अ देव भणिअं सामिणा अङ्गराएण । भो विओदल असमत्तो तुह मह बि समलव्वाबारो । ता अणुमण्ण मं मुहुत्तअं । पेक्खाम दाव वच्छस्स तुह भादुणो अ धणुव्वेदसिक्खाणिउणत्तणं । तुह बि एदं पेक्खणीअं त्ति ।
स्क्त्छ्_१२७: ततश्च देव भणितं स्वामिनाङ्गराजेन । भो वृकोदर असमाप्तस्तव ममापि समरव्यापारः । तदनुमन्यस्व मां मुहूर्तम् । प्रेक्षावहे तावद्वत्सस्य तव भ्रातुश्च धनुर्वेदशिक्षानिपुणत्वम् । तवाप्येतत्प्रेक्षणीयमिति ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२८}तदो देव विरदा रणव्वाबारणिब्बन्धादो मुहुत्तअं पसमिदवेरा दुवे बि पेक्खआ जादा भीमसेणङ्गराआ ।
स्क्त्छ्_१२८: ततो देव विरतौ रणव्यापारनिर्बन्धान्मुहूर्तं प्रशमितवैरौ द्वावपि प्रेक्षकौ जातौ भीमसेनाङ्गराजौ ।
&दुर्योधनः&:
साभिप्रायम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१२९}तदो अ देव एदस्सिं अन्तरे सत्तिखण्डणामरिसिदेण गण्डीविणा भणिअं । अरे रे दुज्जोहणप्पमुहा ।इत्यर्धोक्ते लज्जां नाटयति*
स्क्त्छ्_१२९: ततश्च देव एतस्मिन्नन्तरे शक्तिखण्डनामर्षितेन गाण्डीविना भणितम् । अरे रे दुर्योधनप्रमुखाः ।
&दुर्योधनः&:
सुन्दरक कथ्यताम् । परवचनमेतत् ।
&सुन्दरकः&:
{प्क्त्_१३०}सुणादु देवो । अरे दुज्जोहणप्पमुहा कुरुबलसेणापहुणआ अरे अविणअणोकण्णधार कण्ण तुम्हेहिं मह परोक्खं बहुहिं महोरहेहिं परिवारिअ एआई मह पुत्तओ अहिमण्णू वाबादिदो । अहं उण तुम्हाणं पेक्खन्ताणं एव्व एदं कुमालविससेणं सुमरिदव्वसेसं करोमि । त्ति भणिअ सगव्वं आप्फालिदं णेण वज्जणिग्घादणिग्घोसभीसणजीआरवं गण्डीवं । सामिणा बि सज्जीकिदं कालपुट्ठं ।
स्क्त्छ्_१३०: शृणोतु देवः । अरे दुर्योधनप्रमुखाः कुरुबलसेनाप्रभवः अरे अविनयनौकर्णधार कर्ण युष्माभिर्मम परोक्षं बहुभिर्महारथैः परिवृत्यैकाकी मम पुत्रको ऽभिमन्युर्व्यापादितः । अहं पुनर्युष्माकं प्रेक्षमाणानामेवैतं कुमारवृषसेनं स्मर्तव्यशेषं करोमि । इति भणित्वा सगर्वमास्फालितमनेन वज्रनिर्घातनिर्घोषभीषणजीवारवं गाण्डीवम् । स्वामिनापि सज्जीकृतं कालपृष्ठम् ।
&दुर्योधनः&:
सावहित्थम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१३१}तदो अ देव पडिसिद्धभीमसेणसमलकम्मालम्भेण गण्डीविणा विरैदा अङ्गराअविससेणरहकूलङ्कसाओ दुवे बाणणईओ । तेहिं बि दुवेहिं अण्णोण्णसिणेहदंसिदसिक्खाविसेसेहिं अहिजुत्तो सो दुराआरो मज्झमपण्डओ ।
स्क्त्छ्_१३१: ततश्च देव प्रतिषिद्धभीमसेनसमरकर्मारम्भेण गाण्डीविना विरचिते अङ्गराजवृषसेनरथकूलङ्कषे द्वे बाणनद्यौ । ताभ्यामपि द्वाभ्यामन्यो ऽन्यस्नेहदर्शितशिक्षाविशेषाभ्यामभियुक्तः स दुराचारो मध्यमपाण्डवः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१३२}तदो अ देव गण्डीविणा ताररसिदजीआणिग्घोसमेत्तविण्णादबाणवरिसेण तह आअरिदं पत्तिहिं जह ण णहत्थलं ण सामी ण रहो ण धरणी ण कुमालो ण केदुवंसो ण बलाइं ण सारही ण तुलङ्गमा ण दिसाओ ण वीरलोओ अ लक्खीअदि ।
स्क्त्छ्_१३२: ततश्च देव गाण्डीविना ताररसितजीवानिर्घोषमात्रविज्ञातबाणवर्षेण तथाचरितं पत्रिभिर्यथा न नभस्तलं न स्वामी न रथो न धरणी न कुमारो न केतुवंशो न बलानि न सारथिर्न तुरङ्गमा न दिशो न वीरलोकश्च लक्ष्यते ।
&दुर्योधनः&:
सविस्मयम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१३३}तदो अ देव अदिक्कन्ते सरवरिसे खणमेत्तं एव्व सहरिससिंहणादे पण्डवसेण्णे सविसादमुक्कक्कन्दे कोरवबले समुत्थिदो महन्तो कलअलो हा हदो कुमालविससेणो त्ति ।
स्क्त्छ्_१३३: ततश्च देव अतिक्रान्ते शरवर्षे क्षणमात्रमेव सहर्षसिंहनादे पाण्डवसैन्ये सविषादमुक्ताक्रन्दे कौरवबले समुत्थितो महान्कलकलो हा हतः कुमारवृषसेन इति ।
&दुर्योधनः&:
सबाष्परोधम्*
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१३४}तदो देव पेक्खामि कुमालं हदसारहितुलङ्गं लूणादबत्तचाबचामरकेदुवंसं सग्गब्भट्ठं विअ सुलकुमालं एक्केण एव्व हिअअमम्मभेदिणा सिलीमुहेण भिण्णदेहं रहमज्झे पल्लत्थं ।
स्क्त्छ्_१३४: ततो देव प्रेक्षे कुमारं हतसारथितुरङ्गं लूनातपत्रचापचामरकेतुवंशं स्वर्गभ्रष्टमिव सुरकुमारमेकेनैव हृदयमर्मभेदिना शिलीमुखेन भिन्नदेहं रथमध्ये पर्यस्तम् ।
&दुर्योधनः&:
सास्रम्*
अहह कुमार वृषसेन । अलमतः परं श्रुत्वा । हा वत्स हा मदङ्कदुर्ललित हा मदाज्ञाकर हा गदायुधप्रियशिष्य हा शौर्यसागर हा राधेयकुलप्ररोह हा प्रियदर्शन हा दुःशासननिर्विशेष हा सर्वगुरुवत्सल प्रयच्छ मे प्रतिवचनम् ।
वेर्से_४।१०
पर्याप्तनेत्रमचिरोदितचन्द्रकान्त- $ मुद्भिद्यमाननवयौवनरम्यशोभम् &
प्राणापहारपरिवर्तितदृष्टि दृष्टं ē̃ कर्णेन तत्कथमिवाननपङ्कजं ते ॥ ४।१० ॥
&सूतः&:
आयुष्मन्नलमत्यन्तदुःखावेगेन ।
&दुर्योधनः&:
सूत पुण्यवन्तो हि दुःखभाजो भवन्ति । अस्माकं पुनः
वेर्से_४।११
प्रत्यक्षं हतबन्धूनामेतत्परिभवाग्निना ।
हृदयं दह्यते ऽत्यर्थं कुतो दुःखं कुतो व्यथा ॥ ४।११ ॥
इति मोहमुपगतः*
&सूतः&:
समाश्वसितु समाश्वसितु महाराजः ।इति पटान्तेन वीजयति*
&दुर्योधनः&:
लब्धसञ्ज्ञः*
भद्र सुन्दरक ततो वयस्येन किं प्रतिपन्नमङ्गराजेन ।
&सुन्दरकः&:
{प्क्त्_१३५}तदो अ देव तहाविधस्स पुत्तस्स दंसणेण सङ्गलिदं अस्सुजलं उज्झिअ अणबेक्खिदपरप्पहरणाभिओएण सामिणा अङ्गराएण अभिजुत्तो धणञ्जओ । तं अ सुदवहामरिसुद्दीबिदपरक्कमं विमुक्कजीविदासं तह परक्कमन्तं पेक्खिअ भीमणौलसहदेवपञ्चालप्पमुहेहिं अन्तरिदो धणञ्जअस्स रहवरो ।
स्क्त्छ्_१३५: ततश्च देव तथाविधस्य पुत्रस्य दर्शनेन सङ्गलितमश्रुजलमुज्झित्वानवेक्षितपरप्रहरणाभियोगेन स्वामिनाङ्गराजेनाभियुक्तो धनञ्जयः । तं च सुतवधामर्षोद्दीपितपराक्रमं विमुक्तजीविताशं तथा पराक्रमन्तं प्रेक्ष्य भीमनकुलसहदेवपाञ्चालप्रमुखैरन्तरितो धनञ्जयस्य रथवरः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१३६}तदो देव सल्लेन भणिदं । अङ्गराअ क्खलिदतुलङ्गमो मथिदचक्कणेमिकूबरो दे रहो । ता ण जुत्तं भीमज्जुणेहिं सह आजुज्जिदुं । त्ति भणिअ णिवत्तिदो रहो ओदारिदो सामी सन्दणादो बहुप्पआरं अ समस्सासिदो ।
स्क्त्छ्_१३६: ततो देव शल्येन भणितम् । अङ्गराज स्खलिततुरङ्गमो मथितचक्रनेमिकूबरस्ते रथः । तन्न युक्तं भीमार्जुनाभ्यां सहायोद्धुम् । इति भणित्वा निर्वर्तितो रथो ऽवतारितः स्वामी स्यन्दनाद्बहुप्रकारं च समाश्वासितः ।
&दुर्योधनः&:
ततस्ततः ।
&सुन्दरकः&:
{प्क्त्_१३७}तदो अ सामिणा सुइरं विलबिअ परिअणोबणीदं अण्णं रहं पेक्खिअ दीहं णिस्ससिअ मै दिट्ठी विणिक्खित्ता । सुन्दरअ एहि त्ति भणिदं अ । तदो अहं उबगदो सामिसमीबं । तदो अबणीअ सीसट्ठाणादो पट्टिअं सरीरसङ्गलिदेहिं सोणिअबिन्दूहिं लित्तमुहं बाणं कदुअ अवलिहिअ पेसिदो देवस्स सन्देसो ।इति पट्टकामर्पयति*
स्क्त्छ्_१३७: ततश्च स्वामिना सुचिरं विलप्य परिजनोपनीतमन्यं रथं प्रेक्ष्य दीर्घं निःश्वस्य मयि दृष्टिर्विनिक्षिप्ता । सुन्दरक एहीति भणितं च । ततो ऽहमुपगतः स्वामिसमीपम् । ततो ऽपनीय शीर्षस्थानात्पट्टिकां शरीरसङ्गलितैः शोणितबिन्दुभिर्लिप्तमुखं बाणं कृत्वाभिलिख्य प्रेषितो देवस्य सन्देशः ।
&दुर्योधनः&:
गृहीत्वा वाचयति*
स्वस्ति । महाराजदुर्योधनं समराङ्गणात्कर्ण एतदन्तं कण्ठे गाढमालिङ्ग्य विज्ञापयति ।
वेर्से_४।१२
अस्त्रग्रामविधौ कृती न समरेष्वस्यास्ति तुल्यः पुमा- $ न्भ्रातृभ्यो ऽपि ममाधिको ऽयममुना जेयाः पृथासूनवः &
त्वत्सम्भावित इत्यहं न च हतो दुःशासनारिर्मया ē̃ त्वं दुःखप्रतिकारमेहि भुजयोर्वीर्येण बाष्पेण वा ॥ ४।१२ ॥
वयस्य कर्ण किमिदं भ्रातृशतवधदुःखितं मामपरेण वाक्शल्येन घट्टयसि । भद्र सुन्दरक अथेदानीं किमारम्भो ऽङ्गराजः ।
&सुन्दरकः&:
{प्क्त्_१३८}देव अबणीदसरीरावरणो अत्तवहकिदणिच्चओ पुणो बि पत्थेण सह समलं मग्गेदि ।
स्क्त्छ्_१३८: देव अपनीतशरीरावरण आत्मवधकृतनिश्चयः पुनरपि पार्थेन सह समरं मार्गयते ।
&दुर्योधनः&:
आवेगादासनादुत्तिष्ठन्*
सूत रथमुपनय । सुन्दरक त्वमपि मद्वचनात्त्वरिततरं गत्वा वयस्यमङ्गराजं प्रतिबोधय । अलमतिसाहसेन । अभिन्न एवायमावयोः सङ्कल्पः । न खलु भवानेको जीवितपरित्यागाकाङ्क्षी । किं तु
वेर्से_४।१३
हत्वा पार्थान्सलिलमशिवं बन्धुवर्गाय दत्त्वा $ मुक्त्वा बाष्पं सह कतिपयैर्मन्त्रिभिश्चारिभिश्च &
कृत्वान्यो ऽन्यं सुचिरमपुनर्भावि गाढोपगूढं ē̃ सन्त्यक्ष्यावो हततनुमिमां दुःखितौ निर्वृतौ च ॥ ४।१३ ॥
अथ च शोकं प्रति मया न किञ्चित्सन्देष्टव्यम् ।
वेर्से_४।१४
वृषसेनो न ते पुत्रो न मे दुःशासनो ऽनुजः ।
त्वां बोधयामि किमहं त्वं मां संस्थापयिष्यसि ॥ ४।१४ ॥
&सुन्दरकः&:
{प्क्त्_१३९}जं देवो आणबेदि ।इति निष्क्रान्तः*
स्क्त्छ्_१३९: यद्देव आज्ञापयति ।
&दुर्योधनः&:
तूर्णमेव रथमुपस्थापय ।
&सूतः&:
कर्णं दत्त्वा*
देव ह्रेषासंवलितो नेमिध्वनिः श्रूयते । तथा तर्कयामि नूनं परिजनोपनीतो रथः ।
&दुर्योधनः&:
सूत गच्छ त्वं सज्जीकुरु ।
&सूतः&:
यदाज्ञापयति देवः ।इति निष्क्रम्य पुनः प्रविशति*
&दुर्योधनः&:
विलोक्य*
किमिति नारूढो ऽसि ।
&सूतः&:
एष खलु तातो ऽम्बा च सञ्जयाधिष्ठितं रथमारुह्य देवस्य समीपमुपगतौ ।
&दुर्योधनः&:
किं नाम तातो ऽम्बा च सम्प्राप्तौ । कष्टमतिबीभत्समाचरितं दैवेन । सूत गच्छ त्वं स्यन्दनं तूर्णमुपहर । अहमपि तातदर्शनं परिहरन्नेकान्ते तिष्ठामि ।
&सूतः&:
देव त्वदेकशेषबान्धवावेतौ कथमिव न समाश्वासयसि ।
&दुर्योधनः&:
सूत कथमिव समाश्वासयामि विमुखभागधेयः । पश्य ।
वेर्से_४।१५
अद्यैवावां रणमुपगतौ तातमम्बां च दृष्ट्वा $ घ्रातस्ताभ्यां शिरसि विनतो ऽहं च दुःशासनश्च &
तस्मिन्बाले प्रसभमरिणा प्रापिते तामवस्थां ē̃ पार्श्वं पित्रोरपगतघृणः किं नु वक्ष्यामि गत्वा ॥ ४।१५ ॥
तथाप्यवश्यं वन्दनीयौ गुरू ।
इति निष्क्रान्तौ*
इति चतुर्थो ऽङ्कः ।
अच्त्_५
पञ्चमो ऽङ्कः ।
ततः प्रविशति रथयानेन गान्धारी सञ्जयो धृतराष्ट्रश्च*
&धृतराष्ट्रः&:
वत्स सञ्जय कथय कथय कस्मिन्नुद्देशे कुरुकुलकाननैकप्रवालो वत्सो मे दुर्योधनस्तिष्ठति । कच्चिज्जीवति वा न वा ।
&गान्धारी&:
{प्क्त्_१४०}जाद जै सच्चं जीवदि मे वच्छो ता कधेहि कस्सिं देसे वट्टदि ।
स्क्त्छ्_१४०: जात यदि सत्यं जीवति मे वत्सस्तत्कथय कस्मिन्देशे वर्तते ।
&सञ्जयः&:
नन्वेष महाराज एक एव न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।
&गान्धारी&:
{प्क्त्_१४१}सकरुणम्*
जाद एआई त्ति भणासि । किं णु क्खु सम्पदं भादुसदं से पासे भविस्सदि ।
स्क्त्छ्_१४१: जात एकाकीति भणसि । किं नु खलु साम्प्रतं भ्रातृशतमस्य पार्श्वे भविष्यति ।
&सञ्जयः&:
तात अम्ब अवतरतं स्वैरं रथात् ।
उभाववतरणं नाटयतः*
ततः प्रविशति सव्रीडमुपविष्टो दुर्योधनः*
&सञ्जयः&:
उपसृत्य*
विजयतां महाराजः । नन्वेष तातो ऽम्बया सह प्राप्तः । किं न पश्यति महाराजः ।
दुर्योधनो वैलक्ष्यं नाटयति*
&धृतराष्ट्रः&:
वेर्से_५।१
शल्यानि व्यपनीय कङ्कवदनैरुन्मोचिते कङ्कटे $ बद्धेषु व्रणपट्टकेषु शनकैः कर्णे कृतापाश्रयः &
दूरान्निर्जितसान्त्वितान्नरपतीनालोकयंल्लीलया ē̃ सह्या पुत्रक वेदनेति न मया पापेन पृष्टो भवान् ॥ ५।१ ॥
धृतराष्ट्रो गान्धारी च स्पर्शेनोपेत्यालिङ्गतः*
&गान्धारी&:
{प्क्त्_१४२}वच्छ अदिगाढप्पहारवेअणापज्जाउलस्स अम्हेसु सण्णिहिदेसु बि ण पसरदि दे वाणी ।
स्क्त्छ्_१४२: वत्स अतिगाढप्रहारवेदनापर्याकुलस्यास्मासु सन्निहितेष्वपि न प्रसरति ते वाणी ।
&धृतराष्ट्रः&:
वत्स दुर्योधन किमकृतपूर्वः सम्प्रति मय्यप्ययमव्याहारः ।
&गान्धारी&:
{प्क्त्_१४३}वच्छ जै तुमं बि अम्हे णालबसि ता किं सम्पदं वच्छो दुस्सासणो आलबदु दुम्मरिसणो वा अध अण्णो वा ।इति रोदिति*
स्क्त्छ्_१४३: वत्स यदि त्वमप्यस्मान्नालपसि तत्किं साम्प्रतं वत्सो दुःशासन आलपतु दुर्मर्षणो वाथान्यो वा ।
&दुर्योधनः&:
वेर्से_५।२
पापो ऽहमप्रतिकृतानुजनाशदर्शी $ तातस्य बाष्पपयसां तव चाम्ब हेतुः &
दुर्जातमत्र विमले भरतान्ववाये ē̃ किं मां सुतक्षयकरं सुत इत्यवैषि ॥ ५।२ ॥
&गान्धारी&:
{प्क्त्_१४४}जाद अलं परिदेविदेण । तुमं बि दाव एक्को इमस्स अन्धजुअलस्स मग्गोबदेसओ । ता चिरं जीव । किं मे रज्जेण जएण वा ।
स्क्त्छ्_१४४: जात अलं परिदेवितेन । त्वमपि तावदेको ऽस्यान्धयुगलस्य मार्गोपदेशकः । तच्चिरं जीव । किं मे राज्येन जयेन वा ।
&दुर्योधनः&:
वेर्से_५।३
मातः किमप्यसदृशं कृपणं वचस्ते $ सुक्षत्रिया क्व भवती क्व च दीनतैषा &
निर्वत्सले सुतशतस्य विपत्तिमेतां ē̃ त्वं नानुचिन्तयसि रक्षसि मामयोग्यम् ॥ ५।३ ॥
नूनं विचेष्टितमिदं सुतशोकस्य ।
&सञ्जयः&:
महाराज किं वायं लोकवादो वितथो न घटस्य कूपपाते रज्जुरपि तत्र प्रक्षेप्तव्येति ।
&दुर्योधनः&:
अपुष्कलमिदम् । उपक्रियमाणाभावे किमुपकरणेन ।इति रोदिति*
&धृतराष्ट्रः&:
दुर्योधनं परिष्वज्य*
वत्स समाश्वसिहि समाश्वासय चास्मानिमामतिदीनां मातरं च ।
&दुर्योधनः&:
तात दुर्लभः समाश्वास इदानीं युष्माकम् । किं तु
वेर्से_५।४
कुन्त्या सह युवामद्य मया निहतपुत्रया ।
विराजमानौ शोके ऽपि तनयाननुशोचतम् ॥ ५।४ ॥
&गान्धारी&:
{प्क्त्_१४५}जाद एदं एव्व सम्पदं पभूदं जं तुमं बि दाव एक्को जीवसि । ता जाद अकालो दे समरस्स । पसीद । एसो दे सीसञ्जली । णिवत्तीअदु समरव्वाबारादो । अपच्छिमं करेहि मे वअणं ।
स्क्त्छ्_१४५: जात एतदेव साम्प्रतं प्रभूतं यत्त्वमपि तावदेको जीवसि । तज्जात अकालस्ते समरस्य । प्रसीद । एष ते शीर्षाञ्जलिः । निवर्त्यतां समरव्यापारात् । अपश्चिमं कुरु मे वचनम् ।
&धृतराष्ट्रः&:
वत्स शृणु वचनं तवाम्बाया मम च निहताशेषबन्धुवर्गस्य । पश्य ।
वेर्से_५।५
दायादा न ययोर्बलेन गणितास्तौ द्रोणभीष्मौ हतौ $ कर्णस्यात्मजमग्रतः शमयतो भीतं जगत्फाल्गुनात् &
वत्सानां निधनेन मे त्वयि रिपुः शेषप्रतिज्ञो ऽधुना ē̃ मानं वैरिषु मुञ्च तात पितरावन्धाविमौ पालय ॥ ५।५ ॥
&दुर्योधनः&:
समरात्प्रतिनिवृत्य किं मया कर्तव्यम् ।
&गान्धारी&:
{प्क्त्_१४६}जाद जं पिदा दे विउरो वा भणादि ।
स्क्त्छ्_१४६: जात यत्पिता ते विदुरो वा भणति ।
&सञ्जयः&:
देव एवमिदम् ।
&दुर्योधनः&:
सञ्जय अद्याप्युपदेष्टव्यमस्ति ।
&सञ्जयः&:
देव यावत्प्राणिति तावदुपदेष्टव्यभूमिर्विजिगीषुः प्रज्ञावताम् ।
&दुर्योधनः&:
सक्रोधम्*
शृणुमस्तावद्भवत एव प्रज्ञावतः सम्प्रत्यस्मदनुरूपमुपदेशम् ।
&धृतराष्ट्रः&:
वत्स युक्तवादिनि सञ्जये किमत्र क्रोधेन । यदि प्रकृतिमापद्यसे तदहमेव भवन्तं ब्रवीमि । श्रूयताम् ।
&दुर्योधनः&:
कथयतु तातः ।
&धृतराष्ट्रः&:
वत्स किं विस्तरेण । सन्धत्तां भवानिदानीमपि युधिष्ठिरमीप्सितपणबन्धेन ।
&दुर्योधनः&:
तात तनयस्नेहवैक्लव्यादम्बा बालिशत्वात्सञ्जयश्च काममेवं ब्रवीतु । युष्माकमप्येवं व्यामोहः । अथ वा प्रभवति पुत्रनाशजन्मा हृदयज्वरः । अन्यच्च तात अस्खलितभ्रातृशतो ऽहं यदा तदावधीरितवासुदेवसामोपन्यासः । सम्प्रति हि दृष्टपितामहाचार्यानुजराजचक्रविपत्तिः स्वशरीरमात्रस्नेहादुदात्तपुरुषव्रीडावहमसुखावसानं च कथमिव करिष्यति दुर्योधनः सह पाण्डवैः सन्धिम् । अन्यच्च नयवेदिन्सञ्जय
वेर्से_५।६
हीयमानाः किल रिपोर्नृपाः सन्दधते परान् ।
दुःशासने हते ऽहीनाः सानुजाः पाण्डवाः कथम् ॥ ५।६ ॥
&धृतराष्ट्रः&:
वत्स एवं गते ऽपि मत्प्रार्थनया न किञ्चिन्न करोति युधिष्ठिरः । अन्यच्च सर्वदैवाप्रकृष्टमात्मानं मन्यते युधिष्ठिरः ।
&दुर्योधनः&:
कथमिव ।
&धृतराष्ट्रः&:
वत्स श्रूयतां प्रतिज्ञा युधिष्ठिरस्य । नाहमेकस्यापि भ्रातुर्विपत्तौ प्राणान्धारयामीति । बहुच्छलत्वात्सङ्ग्रामस्यानुजनाशमाशङ्कमानो यदैव भवते रोचते तदैवासौ सज्जः सन्धातुम् ।
&सञ्जयः&:
एवमिदम् ।
&गान्धारी&:
{प्क्त्_१४७}जाद उपपत्तिजुत्तं पडिबज्जस्स पिदुणो वअणं ।
स्क्त्छ्_१४७: जात उपपत्तियुक्तं प्रतिपद्यस्व पितुर्वचनम् ।
&दुर्योधनः&:
तात अम्ब सञ्जय
वेर्से_५।७
एकेनापि विनानुजेन मरणं पार्थः प्रतिज्ञातवा- $ न्भ्रात्ःणां निहते शते ऽभिलषते दुर्योधनो जीवितुम् &
तं दुःशासनशोणिताशनमरिं भिन्नं गदाकोटिभि- ē̃ र्भीमं दिक्षु न विक्षिपामि कृपणः सन्धिं विदध्यामहम् ॥ ५।७ ॥
&गान्धारी&:
{प्क्त्_१४८}हा जाद दुस्सासण हा मदङ्कदुल्ललित हा जुअराअ अस्सुदपुव्वा क्खु कस्स बि लोए ईदिसी विपत्ती । हा वीरसदप्पसविणि हदगन्धारि दुक्खसदं पसूदासि ण उण सुदसदं ।
स्क्त्छ्_१४८: हा जात दुःशासन हा मदङ्कदुर्ललित हा युवराज अश्रुतपूर्वा खलु कस्यापि लोक ईदृशी विपत्तिः । हा वीरशतप्रसविनि हतगान्धारि दुःखशतं प्रसूतासि न पुनः सुतशतम् ।
सर्वे रुदन्ति*
&सञ्जयः&:
बाष्पमुत्सृज्य*
तात अम्ब प्रतिबोधयितुं महाराजमिमां भूमिं युवामागतौ । तदात्मापि तावत्संस्तभ्यताम् ।
&धृतराष्ट्रः&:
वत्स दुर्योधन एवं विमुखेषु भागधेयेषु त्वयि चामुञ्चति सहजं मानमरिषु त्वदेकशेषजीवितालम्बनेयं तपस्विनी गान्धारी कमवलम्बतां शरणमहं च ।
&दुर्योधनः&:
श्रूयतां यत्प्रतिपत्तुमिदानीं प्राप्तकालम् ।
वेर्से_५।८
कलितभुवना भुक्तैश्वर्यास्तिरस्कृतविद्विषः $ प्रणतशिरसां राज्ञां चूडासहस्रकृतार्चनाः &
अभिमुखमरीन्घ्नन्तः सङ्ख्ये हताः शतात्मजा ē̃ वहतु सगरेणोढां तातो धुरं सहितो ऽम्बया ॥ ५।८ ॥
विपर्यये त्वस्याधिपतेरुल्लङ्घितः क्षात्रधर्मः स्यात् ।
नेपथ्ये महान्कलकलः*
&गान्धारी&:
{प्क्त्_१४९}आकर्ण्य सभयम्*
जाद कहिं एदं हाहाकारमिस्सं तूररसिदं सुणीअदि ।
स्क्त्छ्_१४९: जात कुत्रैतद्धाहाकारमिश्रं तूर्यरसितं श्रूयते ।
&सञ्जयः&:
अम्ब भूमिरियमेवंविधानां भीरुजनत्रासनानां महानिनादानाम् ।
&धृतराष्ट्रः&:
वत्स सञ्जय ज्ञायतामतिभैरवः खलु विस्तारी हाहारवः । कारणेनास्य महता भवितव्यम् ।
&दुर्योधनः&:
तात प्रसीद । पराङ्मुखं खलु दैवमस्माकम् । यावदपरमपि किञ्चिदत्याहितं न श्रावयति तावदेवाज्ञापय मां सङ्ग्रामावतरणाय ।
&गान्धारी&:
{प्क्त्_१५०}जाद मुहुत्तअं दाव मं मन्दभाइणिं समस्सासेहि ।
स्क्त्छ्_१५०: जात मुहूर्तं तावन्मां मन्दभाग्यां समाश्वासय ।
&धृतराष्ट्रः&:
वत्स यद्यपि भवान्समराय कृतनिश्चयस्तथापि रहः परप्रतीघातोपायश्चिन्त्यताम् ।
&दुर्योधनः&:
वेर्से_५।९
प्रत्यक्षं हतबान्धवा मम परे हन्तुं न योग्या रहः $ किं वा तेन कृतेन तैरिव कृतं यन्न प्रकाशं रणे &
&गान्धारी&:
{प्क्त्_१५१}जाद एआई तुमं । को दे सहाअत्तणं करिस्सदि ।
स्क्त्छ्_१५१: जात एकाकी त्वम् । कस्ते साहाय्यं करिष्यति ।
&दुर्योधनः&:
वेर्से_५।९
एको ऽहं भवतीसुतक्षयकरो मातः कियन्तो ऽरयः ē̃ साम्यं केवलमेतु दैवमधुना निष्पाण्डवा मेदिनी ॥ ५।९ ॥
नेपथ्ये । कलकलानन्तरम्*
भो भो योधाः निवेदयन्तु भवन्तः कौरवेश्वराय । इदं महत्कदनं प्रवृत्तम् । अलमप्रियश्रवणपराङ्मुखतया । यतः कालानुरूपं प्रतिविधातव्यमिदानीम् । तथा हि
वेर्से_५।१०
त्यक्तप्राजनरश्मिरङ्किततनुः पार्थाङ्कितैर्मार्गणै- $ र्वाहैः स्यन्दनवर्त्मनां परिचयादाकृष्यमाणः शनैः &
वार्तामङ्गपतेर्विलोचनजलैरावेदयन्पृच्छतां ē̃ शून्येनैव रथेन याति शिबिरं शल्यः कुरूञ्शल्ययन् ॥ ५।१० ॥
&दुर्योधनः&:
श्रुत्वा साशङ्कम्*
आः केनेदमविस्पष्टमशनिपातदारुणमुद्घोषितम् । कः को ऽत्र भोः ।
प्रविश्य सम्भ्रान्तः*
&सूतः&:
हा हताः स्मः ।इत्यात्मानं पातयति*
&दुर्योधनः&:
अयि कथय कथय ।
&सूतः&:
आयुष्मन्किमन्यत् ।
वेर्से_५।११
शल्येन यथा शल्येन मूर्च्छितः प्रविशता जनौघो ऽयम् ।
शून्यं कर्णस्य रथं मनोरथमिवाधिरूढेन ॥ ५।११ ॥
&दुर्योधनः&:
हा वयस्य कर्ण ।इति मोहमुपगतः*
&गान्धारी&:
{प्क्त्_१५२}जाद समस्सस समस्सस ।
स्क्त्छ्_१५२: जात समाश्वसिहि समाश्वसिहि ।
&सञ्जयः&:
समाश्वसितु समाश्वसितु देवः ।
&धृतराष्ट्रः&:
भोः कष्टं कष्टम् ।
वेर्से_५।१२
भीष्मे द्रोणे च निहते य आसीदवलम्बनम् ।
वत्स्सय मे सुहृच्छूरो राधेयः सो ऽप्ययं हतः ॥ ५।१२ ॥
वत्स समाश्वसिहि समाश्वसिहि । ननु भो हतविधे
वेर्से_५।१३
अन्धो ऽनुभूतशतपुत्रविपत्तिदुःखः $ शोच्यां दशामुपगतः सह भार्ययाहम् &
अस्मिन्नशेषितसुहृद्गुरुबन्धुवर्गे ē̃ दुर्योधने ऽपि हि कृतो भवता निराशः ॥ ५।१३ ॥
वत्स दुर्योधन समाश्वसिहि समाश्वसिहि । समाश्वासय तपस्विनीं मातरं च ।
&दुर्योधनः&:
लब्धसञ्ज्ञः*
वेर्से_५।१४
अयि कर्ण कर्णसुखदां प्रयच्छ मे $ गिरमुद्गिरन्निव मुदं मयि स्थिराम् &
सततावियुक्तमकृताप्रियं प्रियं ē̃ वृषसेनवत्सल विहाय यासि माम् ॥ ५।१४ ॥
पुनर्मोहमुपगतः*
सर्वे समाश्वासयन्ति*
&दुर्योधनः&:
वेर्से_५।१५
मम प्राणाधिके तस्मिन्नङ्गानामधिपे हते ।
उच्छ्वसन्नपि लज्जे ऽहमाश्वासे तात का कथा ॥ ५।१५ ॥
अपि च
वेर्से_५।१६
शोचामि शोच्यमपि शत्रुहतं न वत्सं $ दुःशासनं तमधुना न च बन्धुवर्गम् &
येनातिदुःश्रवमसाधु कृतं तु कर्णे ē̃ कर्तास्मि तस्य निधनं समरे कुलस्य ॥ ५।१६ ॥
&गान्धारी&:
{प्क्त्_१५३}जाद सिढिलेहि दाव खणमेत्तं बप्फमोक्खं ।
स्क्त्छ्_१५३: जात शिथिलय तावत्क्षणमात्रं बाष्पमोक्षम् ।
&धृतराष्ट्रः&:
वत्स क्षणमात्रं परिमार्जयाश्रूणि ।
&दुर्योधनः&:
वेर्से_५।१७
मामुद्दिश्य त्यजन्प्राणान्केनचिन्न निवारितः ।
तत्कृते त्यजतो बाष्पं किं मे दीनस्य वार्यते ॥ ५।१७ ॥
सूत केनैतदसम्भावनीयमस्मत्कुलान्तकरं कर्म कृतं स्यात् ।
&सूतः&:
आयुष्मन्नेवं किल जनः कथयति ।
वेर्से_५।१८
भूमौ निमग्नचक्रश्चक्रायुधसारथेः शरैस्तस्य ।
निहतः किलेन्द्रसूनोरस्मत्सेनाकृतान्तस्य ॥ ५।१८ ॥
&दुर्योधनः&:
वेर्से_५।१९
कर्णाननेन्दुस्मरणात्क्षुभितः शोकसागरः ।
वाडवेनेव शिखिना पीयते क्रोधजेन मे ॥ ५।१९ ॥
तात अम्ब प्रसीदतम् ।
वेर्से_५।२०
ज्वलनः शोकजन्मा मामयं दहति दुःसहः ।
समानायां विपत्तौ मे वरं संशयितो रणः ॥ ५।२० ॥
&धृतराष्ट्रः&:
दुर्योधनं परिष्वज्य रुदन्*
वेर्से_५।२१
भवति तनय सत्यं संशयः साहसेषु $ द्रवति हृदयमेतद्भीममुत्प्रेक्ष्य भीमम् &
अनिकृतिनिपुणं ते चेष्टितं मानशौण्ड ē̃ च्छलबहुलमरीणां सङ्गरं हा हतो ऽस्मि ॥ ५।२१ ॥
&गान्धारी&:
{प्क्त्_१५४}जाद तेण एव्व सुदसदकदन्तेण विओदलेण समं समलं मग्गेसि ।
स्क्त्छ्_१५४: जात तेनैव सुतशतकृतान्तेन वृकोदरेण समं समरं मार्गयसे ।
&दुर्योधनः&:
तिष्ठतु तावद्वृकोदरः ।
वेर्से_५।२२
पापेन येन हृदयस्थमनोरथो मे $ सर्वाङ्गचन्दनरसो नयनामलेन्दुः &
पुत्रस्तवाम्ब तव तात नयैकशिष्यो ē̃ कर्णो हतः सपदि तत्र शराः पतन्तु ॥ ५।२२ ॥
सूत अलमिदानीं कालातिपातेन । सज्जं मे रथमुपाहर । भयं चेत्पाण्डवेभ्यस्तिष्ठ । गदामात्रसहाय एव समरभुवमवतरामि ।
&सूतः&:
अलमन्यथा सम्भावितेन । अयमहमागत एव ।इति निष्क्रान्तः*
&धृतराष्ट्रः&:
वत्स दुर्योधन यदि स्थिर एवास्मान्दग्धुमयं ते व्यवसायस्तत्सन्निहितेषु वीरेषु सेनापतिः कश्चिदभिषिच्यताम् ।
&दुर्योधनः&:
नन्वभिषिक्त एव ।
&गान्धारी&:
{प्क्त्_१५५}जाद कदरो उण सो जहिं एदं हदासं ओलम्बिस्सं ।
स्क्त्छ्_१५५: जात कतरः पुनः स यत्रेमां हताशामवलम्बिष्ये ।
&धृतराष्ट्रः&:
किं वा शल्य उत वाश्वत्थामा ।
&सञ्जयः&:
हा कष्टम् ।
वेर्से_५।२३
गते भीष्मे हते द्रोणे कर्णे च विनिपातिते ।
आशा बलवती राजञ्शल्यो जेष्यति पाण्डवान् ॥ ५।२३ ॥
&दुर्योधनः&:
किं वा शल्येनोत वाश्वत्थाम्ना ।
वेर्से_५।२४
कर्णालिङ्गनदायी वा पार्थप्राणहरो ऽपि वा ।
अनिवारितसम्पातैरयमात्माश्रुवारिभिः ॥ ५।२४ ॥
नेपथ्ये कलकलं कृत्वा*
भो भोः कौरवबलप्रधानयोधा अलमस्मानवलोक्य भयादितस्ततो गमनेन । कथयन्तु भवन्तः कस्मिन्नुद्देशे सुयोधनस्तिष्ठति ।
सर्वे ससम्भ्रममाकर्णयन्ति*
प्रविश्य सम्भ्रान्तः*
&सूतः&:
आयुष्मन्
वेर्से_५।२५
प्राप्तावेकरथारूढौ पृच्छन्तौ त्वामितस्ततः ।
&सर्वे&:
कश्च कश्च ।
&सूतः&:
वेर्से_५।२५
स कर्णारिः स च क्रूरो वृककर्मा वृकोदरः ॥ ५।२५ ॥
&गान्धारी&:
{प्क्त्_१५६}सभयम्*
जाद किं एत्थ पडिपज्जिदव्वं ।
स्क्त्छ्_१५६: जात किमत्र प्रतिपत्तव्यम् ।
&दुर्योधनः&:
ननु सन्निहितैवेयं गदा ।
&गान्धारी&:
{प्क्त्_१५७}हा हदम्हि मन्दभाइणी ।
स्क्त्छ्_१५७: हा हतास्मि मन्दभागिनी ।
&दुर्योधनः&:
अम्ब अलमिदानीं कार्पण्येन । सञ्जय रथमारोप्य पितरौ शिबिरं प्रतिष्ठस्व । प्राप्तो ऽस्मच्छोकापनोदप्रणयी जनः ।
&धृतराष्ट्रः&:
वत्स क्षणमेकं प्रतीक्षस्व यावदनयोर्भावमुपलभे ।
&दुर्योधनः&:
तात किमनेनोपलब्धेन ।
तथा प्रविशतो रथारूढौ भीमार्जुनौ*
&भीमः&:
भो भोः सुयोधनानुजीविनः किमिति सम्भ्रमादयथायथं चरन्ति भवन्तः । अलमावयोः शङ्कया ।
वेर्से_५।२६
कर्ता द्यूतच्छलानां जतुमयशरणोद्दीपनः सो ऽतिमानी $ कृष्णाकेशोत्तरीयव्यपनयनमरुत्पाण्डवा यस्य दासाः &
राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रं ē̃ क्वास्ते दुर्योधनो ऽसौ कथयत न रुषा द्रष्टुमागतौ स्वः ॥ ५।२६ ॥
&धृतराष्ट्रः&:
सञ्जय दारुणः खलूपक्षेपः पापस्य ।
&सञ्जयः&:
तात कर्मणा कृतनिःशेषविप्रियाः सम्प्रति वाचा व्यवस्यन्ति ।
&दुर्योधनः&:
सूत कथय गत्वोभयोरयं तिष्ठतीति ।
&सूतः&:
यदाज्ञापयति देवः ।तावुपसृत्य*
भो वृकोदरार्जुनौ एष महाराजस्तातेनाम्बया च सह न्यग्रोधच्छायायामुपविष्टस्तिष्ठति ।
&अर्जुनः&:
आर्य प्रसीद । न युक्तं पुत्रशोकपीडितौ पितरौ पुनरस्मद्दर्शनेनोद्वेजयितुम् । तद्गच्छावः ।
&भीमः&:
मूढ अनुल्लङ्घनीयः सदाचारः । न युक्तमनभिवाद्य गुरून्गन्तुम् ।उपसृत्य*
सञ्जय पित्रोर्नमस्कृतिं श्रावय । अथ वा तिष्ठ । स्वयं विश्राव्य नामकर्मणी वन्दनीया गुरवः ।इति रथादवतरतः*
&अर्जुनः&:
उपगम्य*
तात अम्ब
वेर्से_५।२७
सकलरिपुजयाशा यत्र बद्धा सुतैस्ते $ तृणमिव परिभूतो यस्य गर्वेण लोकः &
रणशिरसि निहन्ता तस्य राधासुतस्य ē̃ प्रणमति पितरौ वां मध्यमः पाण्डवो ऽयम् ॥ ५।२७ ॥
&भीमः&:
वेर्से_५।२८
चूर्णिताशेषकौरव्यः क्षीबो दुःशासनासृजा ।
भङ्क्ता सुयोधनस्योर्वोर्भीमो ऽयं शिरसाञ्चति ॥ ५।२८ ॥
&धृतराष्ट्रः&:
दुरात्मन्वृकोदर न खल्विदं भवतैव केवलं सपत्नानामपकृतम् । यावत्क्षत्रं तावत्समरविजयिनो जिता हताश्च वीराः । तत्किमेवं विकत्थनाभिरस्मानुद्वेजयसि ।
&भीमः&:
तात अलं मन्युना ।
वेर्से_५।२९
कृष्टा केशेषु कृष्णा तव सदसि पुरः पाण्डवानां नृपैर्यैः $ सर्वे ते क्रोधवह्नौ कृतशलभकुलावज्ञया येन दग्धाः &
एतस्माच्छ्रावये ऽहं न खलु भुजबलश्लाघया नापि दर्पा- ē̃ त्पुत्रैः पौत्रैश्च कर्मण्यतिगुरुणि कृते तात साक्षी त्वमेव ॥ ५।२९ ॥
&दुर्योधनः&:
अरे रे मरुत्तनय किमेवं वृद्धस्य राज्ञः पुरतो निन्दितव्यमात्मकर्म श्लाघसे । अपि च
वेर्से_५।३०
कृष्टा केशेषु भार्या तव तव च पशोस्तस्य राज्ञः तयोर्वा $ प्रत्यक्षं भूपतीनां मम भुवनपतेराज्ञया द्यूतदासी &
अस्मिन्वैरानुबन्धे वद किमपकृतं तैर्हता ये नरेन्द्रा ē̃ बाह्वोर्वीर्यातिरेकद्रविणगुरुमदं मामजित्वैव दर्पः ॥ ५।३० ॥
आः दुरात्मन् । एष न भवसि ।इति सक्रोधमुत्थाय हन्तुमिच्छति*
धृतराष्ट्रो धृत्वोपवेशयति । भीमः क्रोधं नाटयति*
&अर्जुनः&:
आर्य प्रसीद । किमत्र क्रोधेन ।
वेर्से_५।३१
अप्रियाणि करोत्येष वाचा शक्तो न कर्मणा ।
हतभ्रातृशतो दुःखी प्रलापैरस्य का व्यथा ॥ ५।३१ ॥
&भीमः&:
अरे रे भरतकुलकलङ्क
वेर्से_५।३२
अत्रैव किं न विशसेयमहं भवन्तं $ दुःशासनानुगमनाय कटुप्रलापिन् &
विघ्नं गुरू न कुरुतो यदि मद्गदाग्र- ē̃ निर्भिद्यमानरणितास्थनि ते शरीरे ॥ ५।३२ ॥
अन्यच्च मूढ
वेर्से_५।३३
शोकैः स्त्रीवन्नयनसलिलं यत्परित्याजितो ऽसि $ भ्रातुर्वक्षःस्थलविघटने यच्च साक्षीकृतो ऽसि &
आसीदेतत्तव कुनृपतेः कारणं जीवितस्य ē̃ क्रुद्धे युष्मत्कुलकमलिनीकुञ्जरे भीमसेने ॥ ५।३३ ॥
&दुर्योधनः&:
दुरात्मन्भरतकुलापसद द्यूतदास पाण्डवपशो नाहं भवानिव विकत्थनाप्रगल्भः । किं तु
वेर्से_५।३४
द्रक्ष्यन्ति न चिरात्सुप्तं बान्धवास्त्वां रणाङ्गणे ।
मद्गदाभिन्नवक्षो ऽस्थिवेणिकाभीमभूषणम् ॥ ५।३४ ॥
&भीमः&:
विहस्य*
यद्येवं नाश्रद्धेयो भवान् । तथापि प्रत्यासन्नमेव कथयामि ।
वेर्से_५।३५
पीनाभ्यां मद्भुजाभ्यां भ्रमितगुरुगदाघातसञ्चूर्णितोरोः $ क्रूरस्याधाय पादं तव शिरसि नृणां पश्यतां श्वः प्रभाते &
त्वन्मुख्यभ्रातृचक्रोद्दलनगलदसृक्चन्दनेनानखाग्रं ē̃ स्त्यानेनार्द्रेण चाक्तः स्वयमनुभविता भूषणं भीममस्मि ॥ ५।३५ ॥
नेपथ्ये*
भो भो भीमसेनार्जुनौ एष खलु निहताशेषारातिचक्र आक्रान्तपरशुरामाभिरामयशाः प्रतापतापितदिङ्मण्डलस्थापितस्वजनः श्रीमानजातशत्रुर्देवो युधिष्ठिरः समाज्ञापयति ।
&उभौ&:
किमाज्ञापयत्यार्यः ।
पुनर्नेपथ्ये*
वेर्से_५।३६
कुर्वन्त्वाप्ता हतानां रणशिरसि जना वह्निसाद्देहभारा- $ नश्रून्मिश्रं कथञ्चिद्ददतु जलममी बान्धवा बान्धवेभ्यः &
मार्गन्तां ज्ञातिदेहान्हतनरगहने खण्डितान्गृध्रकङ्कै- ē̃ रस्तं भास्वान्प्रयातः सह रिपुभिरयं संह्रियन्तां बलानि ॥ ५।३६ ॥
&उभौ&:
यदाज्ञापयत्यार्यः ।इति निष्क्रान्तौ*
नेपथ्ये*
अरे रे गाण्डीवाकर्षणबाहुशालिन्नर्जुनार्जुन क्वेदानीं गम्यते ।
वेर्से_५।३७
कर्णक्रोधेन युष्मद्विजयि धनुरिदं त्यक्तमेतान्यहानि $ प्रौढं विक्रान्तमासीद्वन इव भवतां शूरशून्ये रणे ऽस्मिन् &
स्पर्शं स्मृत्वोत्तमाङ्गे पितुरनवजितन्यस्तहेतेरुपेतः ē̃ कल्पाग्निः पाण्डवानां द्रुपदसुतचमूघस्मरो द्रौणिरस्मि ॥ ५।३७ ॥
&धृतराष्ट्रः&:
आकर्ण्य सहर्षम्*
वत्स दुर्योधन द्रोणवधपरिभवोद्दीपितक्रोधपावकः पितुरपि समधिकबलः शिक्षावानमरोपमश्चायमश्वत्थामा प्राप्तः । तत्प्रत्युपगमनेन तावदयं सम्भाव्यतां वीरः ।
&गान्धारी&:
{प्क्त्_१५८}जाद पच्चुग्गच्छ एदं महाभाअं ।
स्क्त्छ्_१५८: जात प्रत्युद्गच्छैनं महाभागम् ।
&दुर्योधनः&:
तात अम्ब किमनेनाङ्गराजवधाशंसिना वृथायौवनशस्त्रबलभरेण ।
&धृतराष्ट्रः&:
वत्स न खल्वस्मिन्काले पराक्रमवतामेवंविधानां वाङ्मात्रेणापि विरागमुत्पादयितुमर्हसि ।
प्रविश्य*
&अश्वत्थामा&:
विजयतां कौरवाधिपतिः ।
&दुर्योधनः&:
उत्थाय*
गुरुपुत्र इत आस्यताम् ।इत्युपवेशयति*
&अश्वत्थामा&:
राजन्दुर्योधन
वेर्से_५।३८
कर्णेन कर्णसुभगं बहु यत्तदुक्त्वा $ यत्सङ्गरेषु विहितं विदितं त्वया तत् &
द्रौणिस्त्वधिज्यधनुरापतितो ऽभ्यमित्र- ē̃ मेषो ऽधुना त्यज नृप प्रतिकारचिन्ताम् ॥ ५।३८ ॥
&दुर्योधनः&:
साभ्यसूयम्*
आचार्यपुत्र
वेर्से_५।३९
अवसाने ऽङ्गराजस्य योद्धव्यं भवता किल ।
ममाप्यन्तं प्रतीक्षस्व कः कर्णः कः सुयोधनः ॥ ५।३९ ॥
&अश्वत्थामा&:
स्वगतम्*
कथमद्यापि स एव कर्णपक्षपातो ऽस्मासु च परिभवः ।प्रकाशम्*
राजन्कौरवेश्वर एवं भवतु ।इति निष्क्रान्तः*
&धृतराष्ट्रः&:
वत्स क एष ते व्यामोहो यदस्मिन्नपि काले एवंविधस्य महाभागस्याश्वत्थाम्नो वाक्पारुष्येणापरागमुत्पादयसि ।
&दुर्योधनः&:
किमस्याप्रियमनृतं च मयोक्तम् । किं वा नेदं क्रोधस्थानम् । पश्य ।
वेर्से_५।४०
अकलितमहिमानं क्षत्रियैरात्तचापैः $ समरशिरसि युष्मद्भाग्यदोषाद्विपन्नम् &
परिवदति समक्षं मित्रमङ्गाधिराजं ē̃ मम खलु कथयास्मिन्को विशेषो ऽर्जुने वा ॥ ५।४० ॥
&धृतराष्ट्रः&:
वत्स तवापि को ऽत्र दोषः । अवसानमिदानीं भरतकुलस्य । सञ्जय किमिदानीं करोमि मन्दभाग्यः ।विचिन्त्य*
भवत्वेवं तावत् । सञ्जय मद्वचनाद्ब्रूहि भारद्वाजमश्वत्थामानम् ।
वेर्से_५।४१
स्मरति न भवान्पीतं स्तन्यं विभज्य सहामुना $ मम च मृदितं क्षौमं बाल्ये त्वदङ्गविवर्तनैः &
अनुजनिधनस्फीताच्छोकादतिप्रणयाच्च य- ē̃ द्वचनविकृतिष्वस्य क्रोधो मुधा क्रियते त्वया ॥ ५।४१ ॥
&सञ्जयः&:
यदाज्ञापयति तातः ।इत्युत्तिष्ठति*
&धृतराष्ट्रः&:
अपि चेदमन्यत्त्वया वक्तव्यम् ।
वेर्से_५।४२
यन्मोचितस्तव पिता वितथेन शस्त्रं $ यत्तादृशः परिभवः स तथाविधो ऽभूत् &
एतद्विचिन्त्य बलमात्मनि पौरुषं च ē̃ दुर्योधनोक्तमपहाय विधास्यसीति ॥ ५।४२ ॥
&सञ्जयः&:
यदाज्ञापयति तातः ।इति निष्क्रान्तः*
&दुर्योधनः&:
सूत साङ्ग्रामिकं मे रथमुपकल्पय ।
&सूतः&:
यदाज्ञापयत्यायुष्मान् ।इति निष्क्रान्तः*
&धृतराष्ट्रः&:
गान्धारि इतो वयं मद्राधिपतेः शल्यस्य शिबिरमेव गच्छावः । वत्स त्वमप्येवं कुरु ।
इति परिक्रम्य निष्क्रान्ताः सर्वे*
इति पञ्चमो ऽङ्कः ।
अच्त्_६
षष्ठो ऽङ्कः ।
ततः प्रविशत्यासनस्थो युधिष्ठिरो द्रौपदी चेटी पुरुषश्च*
&युधिष्ठिरः&:
विचिन्त्य निःश्वस्य च*
वेर्से_६।१
तीर्णे भीष्ममहोदधौ कथमपि द्रोणानले निर्वृते $ कर्णाशीविषभोगिनि प्रशमिते शल्ये च याते दिवम् &
भीमेन प्रियसाहसेन रभसात्स्वल्पावशेषे जये ē̃ सर्वे जीवितसंशयं वयममी वाचा समारोपिताः ॥ ६।१ ॥
&द्रौपदी&:
{प्क्त्_१५९}सबाष्पम्*
महाराअ पञ्चालिए त्ति किं ण भणिदं ।
स्क्त्छ्_१५९: महाराज पाञ्चाल्येति किं न भणितम् ।
&यधिष्ठिरः&:
कृष्णे ननु मया ।पुरुषमवलोक्य*
बुधक ।
&पुरुषः&:
देव आज्ञापय ।
&यधिष्ठिरः&:
उच्यतां सहदेवः । क्रुद्धस्य वृकोदरस्यापर्युषितदारुणां प्रतिज्ञामुपलभ्य प्रनष्टस्य मानिनः कौरवराजस्य पदवीमन्वेष्टुमतिनिपुणमतयस्तेषु तेषु स्थानेषु परमार्थाभिज्ञाश्चराः सुसचिवाश्च भक्तिमन्तः पटुपटहरवव्यक्तघोषणाः सुयोधनसञ्चारवेदिनः प्रतिश्रुतधनपूजाप्रत्युपक्रियाश्चरन्तु समन्तात्समन्तपञ्चकम् । अपि च
वेर्से_६।२
पङ्के वा सैकते वा सुनिभृतपदवीवेदिनो यान्तु दाशाः $ कुञ्जेषु क्षुण्णवीरुन्निचयपरिचया बल्लवाः सञ्चरन्तु &
व्याधा व्याघ्राटवीषु स्वपरपदविदो ये च रन्ध्रेष्वभिज्ञा ē̃ ये सिद्धव्यञ्जना वा प्रतिमुनिनिलयं ते च चाराश्चरन्तु ॥ ६।२ ॥
&पुरुषः&:
यदाज्ञापयति देवः ।
&युधिष्ठिरः&:
तिष्ठ । एवं च वक्तव्यः सहदेवः ।
वेर्से_६।३
ज्ञेया रहः शङ्कितमालपन्तः $ सुप्ता रुगार्ता मदिराविधेयाः &
त्रासो मृगाणां वयसां विरावो ē̃ नृपाङ्कपादप्रतिमाश्च यत्र ॥ ६।३ ॥
&पुरुषः&:
यदाज्ञापयति देवः ।इति निष्क्रम्य पुनः प्रविश्य सहर्षम्*
देव पाञ्चालकः प्राप्तः ।
&यधिष्ठिरः&:
त्वरितं प्रवेशय ।
&पुरुषः&:
निष्क्रम्य पाञ्चालकेन सह प्रविश्य*
एष देवः । उपसर्पतु पाञ्चालकः ।
&पाञ्चालकः&:
जयतु जयतु देवः । प्रियमावेदयामि महाराजाय देव्यै च ।
&युधिष्ठिरः&:
भद्र पाञ्चालक कच्चिदासादिता तस्य दुरात्मनः कौरवाधमस्य पदवी ।
&पाञ्चालकः&:
देव न केवलं पदवी । स एव दुरात्मा देवीकेशाम्बराकर्षणमहापातकप्रधानहेतुरुपलब्धः ।
&युधिष्ठिरः&:
साधु । भद्र प्रियमावेदितम् । अथ दर्शनगोचरं गतः ।
&पाञ्चालकः&:
देव समरगोचरं पृच्छ ।
&द्रौपदी&:
{प्क्त्_१६०}सभयम्*
कहं समरगोअरो वट्टै मे णाहो ।
स्क्त्छ्_१६०: कथं समरगोचरो वर्तते मे नाथः ।
&युधिष्ठिरः&:
साशङ्कम्*
सत्यं समरगोचरो मे वत्सः ।
&पाञ्चालकः&:
सत्यम् । किमन्यथा वक्ष्यते महाराजाय ।
&युधिष्ठिरः&:
वेर्से_६।४
त्रस्तं विनापि वषयादुरुविक्रमस्य $ चेतो विवेकपरिमन्थरतां प्रयाति &
जानामि चोद्यतगदस्य वृकोदरस्य ē̃ सारं रणेषु भुजयोः परिशङ्कितश्च ॥ ६।४ ॥
द्रौपदीमवलोक्य*
अयि सुक्षत्रिये
वेर्से_६।५
गुरूणां बन्धूनां क्षितिपतिसहस्रस्य च पुरः $ पुराभूदस्माकं नृपसदसि यो ऽयं परिभवः &
प्रिये प्रायस्तस्य द्वितयमपि पारं गमयति ē̃ क्षयः प्राणानां नः कुरुपतिपशोर्वाद्य निधनम् ॥ ६।५ ॥
अथ वा कृतं सन्देहेन ।
वेर्से_६।६
नूनं तेनाद्य वीरेण प्रतिज्ञाभङ्गभीरुणा ।
बध्यते केशपाशस्ते स चास्याकर्षणक्षमः ॥ ६।६ ॥
पाञ्चालक कथय कथय कथमुपलब्धः स दुरात्मा कस्मिन्नुद्देशे किं वाधुना प्रवृत्तमिति ।
&द्रौपदी&:
{प्क्त्_१६१}भद्द कहेहि कहेहि ।
स्क्त्छ्_१६१: भद्र कथय कथय ।
&पाञ्चालकः&:
शृणोतु देवो देवी च । अस्तीह देवेन हते मद्राधिपतौ शल्ये गान्धारराजकुलशलभे सहदेवशस्त्रानलं प्रविष्टे सेनापतिनिधननिराक्रन्दविरलयोधोज्झितासु समरभूमिषु रिपुबलपराजयोद्धतवल्गितविचित्रपराक्रमासादितविमुखारातिचक्रासु धृष्टद्युम्नाधिष्ठितासु च युष्मत्सेनासु प्रनष्टेषु कृपकृतवर्माश्वत्थामसु तथा दारुणामपर्युषितां प्रतिज्ञामुपलभ्य कुमारवृकोदरस्य न ज्ञायते क्वापि प्रलीनः स दुरात्मा कौरवाधमः ।
&युधिष्ठिरः&:
ततस्ततः ।
&द्रौपदी&:
{प्क्त्_१६२}अयि परदो कहेहि ।
स्क्त्छ्_१६२: अयि परतः कथय ।
&पाञ्चालकः&:
अवधत्तां देवो देवी च । ततश्च भगवता वासुदेवेनाधिष्ठितमेकरथमारूढौ कुमारभीमार्जुनौ समन्तात्समन्तपञ्चकं पर्यटितुमारब्धौ तमनासादितवन्तौ च । अनन्तरं दैवमनुशोचति मादृशे भृत्यवर्गे दीर्घमुष्णं च निश्वसति कुमारे बीभत्सौ जलधरसमयनिशासञ्चारिततडित्प्रकरपिङ्गलैः कटाक्षैरादीपयति गदां वृकोदरे यत्किञ्चनकारितामधिक्षिपति विधेर्भगवति नारायणे कश्चित्संविदितः कुमारस्य मारुतेरुज्झितमांसभारः प्रत्यग्रविशसितमृगलोहितचरणनिवसनस्त्वरमाणो ऽन्तिकमुपेत्य पुरुषः परुषश्वासग्रस्तार्धश्रुतवर्णानुमेयपदया वाचा कथितवान् । कुमार अस्मिन्महतो ऽस्य सरसस्तीरे द्वे पदपद्धती समवतीर्णप्रतिबिम्बे । तयोरेका स्थलमुत्तीर्णा न द्वितीया । परत्र कुमारः प्रमाणमिति । ततः ससम्भ्रमं प्रस्थिताः सर्वे वयं तमेव पुरस्कृत्य । गत्वा च सरस्तीरं परिज्ञायमानसुयोधनपदलाञ्छनां पदवीमासाद्य भगवता वासुदेवेनोक्तम् । भो वीर वृकोदर जानाति किल सुयोधनः सलिलस्तम्भनीं विद्याम् । तन्नूनं तेन त्वद्भयात्सरसीमेनामधिशयितेन भवितव्यम् । एतच्च वचनमुपश्रुत्य रामानुजस्य सकलदिङ्निकुञ्जपूरितातिरिक्तमुद्भ्रान्तसलिलचरशकुन्तकुलं त्रासोद्धतनक्रग्राहमालोड्य सरःसलिलं भैरवं च गर्जित्वा कुमारवृकोदरेणाभिहितम् । अरे रे वृथाप्रख्यापितालीकपौरुषाभिमानिन्पाञ्चालराजतनयाकेशाम्बराकर्षणमहापातकिन्धार्तराष्ट्रापसद
वेर्से_६।७
जन्मेन्दोरमले कुले व्यपदिशस्यद्यापि धत्से गदां $ मां दुःशासनकोष्णशोणितमधुक्षीबं रिपुं मन्यसे &
दर्पान्धो मधुकैटभद्विषि हरावप्युद्धतं चेष्टसे ē̃ त्रासान्मे नृपशो विहाय समरं पङ्के ऽधुना लीयसे ॥ ६।७ ॥
अपि च भो मानन्ध
वेर्से_६।८
पाञ्चाल्या मन्युवह्निः स्फुटमुपशमितप्राय एव प्रसह्य $ व्यासक्तैः केशपाशैर्हतपतिषु मया कौरवान्तःपुरेषु &
भ्रातुर्दुःशासनस्य स्रवदसृगुरसः पीयमानं निरीक्ष्य ē̃ क्रोधात्किं भीमसेने विहितमसमये यत्त्वयास्तो ऽभिमानः ॥ ६।८ ॥
&द्रौपदी&:
{प्क्त्_१६३}णाह अबणीदो मे मण्णू जै पुणो बि सुलहं दंसणं भविस्सदि ।
स्क्त्छ्_१६३: नाथ अपनीतो मे मन्युर्यदि पुनरपि सुलभं दर्शनं भविष्यति ।
&युधिष्ठिरः&:
कृष्णे नामङ्गलानि व्याहर्तुमर्हस्यस्मिन्काले । भद्र ततस्ततः ।
&पाञ्चालकः&:
ततश्चैवं भाषमाणेन वृकोदरेणावतीर्य क्रोधोद्धतभ्रमितभीषणगदापाणिना सहसैवोल्लङ्घिततीरमुत्सन्ननलिनीवनमपविद्धमूर्च्छितग्राहमुद्भ्रान्तमत्स्यशकुन्तमतिभैरवारवभ्रमितवारिसञ्चयमायतमपि तत्सरः समन्तादालोडितम् ।
&युधिष्ठिरः&:
भद्र तथापि किं नोत्थितः ।
&पाञ्चालकः&:
देव कथं नोत्थितः ।
वेर्से_६।९
त्यक्त्वोत्थितः सरभसं सरसः स मूल- $ मुद्भूतकोपदहनोग्रविषस्फुलिङ्गः &
आयस्तभीमभुजमन्दरवेल्लनाभिः ē̃ क्षीरोदधेः सुमथितादिव कालकूटः ॥ ६।९ ॥
&युधिष्ठिरः&:
साधु सुक्षत्रिय साधु ।
&द्रौपदी&:
{प्क्त्_१६४}पडिबण्णो समरो ण वा ।
स्क्त्छ्_१६४: प्रतिपन्नः समरो न वा ।
&पाञ्चालकः&:
उत्थाय च तस्मात्सलिलाशयात्करयुगलोत्तम्भिततोरणीकृतभीमगदः कथयति स्म । अरे रे मारुते किं भयेन प्रलीनं दुर्योधनं मन्यते भवान् । मूढ अनिहतपाण्डुपुत्रः प्रकाशं लज्जमानो विश्रमितुमध्यवसितवानस्मि पातालम् । एवं चोक्ते वासुदेवकिरीटिभ्यां द्वावप्यन्तःसलिलं निषिद्धसमरसमारम्भौ स्थलमुत्तारितौ भीमसुयोधनौ । आसीनश्च कौरवराजः क्षितितले गदां निक्षिप्य विशीर्णरथसहस्रं निहतकुरुशतगजवाजिनरसहस्रकलेवरसम्मर्दसम्पतद्गृध्रकङ्कजम्बूकमुत्सन्नसुयोधमस्मद्वीरमुक्तसिंहनादमपमित्रबान्धवमकौरवं रणस्थानमवलोक्यायतमुष्णं च निःश्वसितवान् । ततश्च वृकोदरेणाभिहितम् । अयि भोः कौरवराज कृतं बन्धुनाशदर्शनमन्युना । मैवं विषादं कृथाः पर्याप्ताः पाण्डवाः समरायाहमसहाय इति ।
वेर्से_६।१०
पञ्चानां मन्यसे ऽस्माकं यं सुयोधं सुयोधन ।
दंशितस्यात्तशस्त्रस्य तेन ते ऽस्तु रणोत्सवः ॥ ६।१० ॥
इत्थं च श्रुत्वानसूयान्वितां दृष्टिं कुमारयोर्निक्षिप्योक्तवान्धार्तराष्ट्रः ।
वेर्से_६।११
कर्णदुःशासनवधात्तुल्यावेव युवां मम ।
अप्रियो ऽपि प्रियो योद्धुं त्वमेव प्रियसाहसः ॥ ६।११ ॥
इत्युत्थाय परस्परक्रोधाधिक्षेपपरुषवाक्कलहप्रस्तावितघोरसङ्ग्रामौ विचित्रविभ्रमभ्रमितगदापरिभासुरभुजदण्डौ मण्डलैर्विचरितुमारब्धौ भीमदुर्योधनौ । अहं च देवेन चक्रपाणिना देवसकाशमनुप्रेषितः । आह च देवो देवकीनन्दनः । अपर्युषितप्रतिज्ञे च मारुतौ प्रनष्टे कौरवराजे महानासीन्नो विषादः । सम्प्रति पुनर्भीमसेनेनासादिते सुयोधने निष्कण्टकीभूतं भुवनतलं परिकलयतु भवान् । अभ्युदयोचिताश्चानवरतं प्रवर्त्यन्तां मङ्गलसमारम्भाः । कृतं सन्देहेन ।
वेर्से_६।१२
पूर्यन्तां सलिलेन रत्नकलशा राज्याभिषेकाय ते $ कृष्णात्यन्तचिरोज्झिते च कबरीबन्धे करोतु क्षणम् &
रामे शातकुठारभासुरकरे क्षत्रद्रुमोच्छेदिनि ē̃ क्रोधान्धे च वृकोदरे परिपतत्याजौ कुतः संशयः ॥ ६।१२ ॥
&द्रौपदी&:
{प्क्त्_१६५}सबाष्पम्*
जं देवो तिहुअणणाहो भणादि तं कहं अण्णहा भविस्सदि ।
स्क्त्छ्_१६५: यद्देवस्त्रिभुवननाथो भणति तत्कथमन्यथा भविष्यति ।
&पाञ्चालकः&:
न केवलमियमाशीः । असुरनिषूदनस्यादेशो ऽपि ।
&युधिष्ठिरः&:
को हि नाम भगवता सन्दिष्टं विकल्पयति । कः को ऽत्र भोः ।
प्रविश्य*
&कञ्चुकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
देवस्य देवकीनन्दनस्य बहुमानाद्वत्सस्य मे विजयमङ्गलाय प्रवर्त्यन्तां तदुचिताः समारम्भाः ।
&कञ्चुकी&:
यदाज्ञापयति देवः ।सोत्साहं परिक्रम्य*
भो भोः संविधात्ःणां पुरःसरा यथाप्रधानमन्तर्वेश्मिका दौवारिकाश्च एष खलु भुजबलपरिक्षेपोत्तीर्णकौरवपरिभवसागरस्य निर्व्यूढदुर्वहप्रतिज्ञाभारस्य सुयोधनानुजशतोन्मूलनप्रभञ्जनस्य दुःशासनोरःस्थलविदलननारसिंहस्य दुर्योधनोरुस्तम्भभङ्गविनिश्चितविजयस्य बलिनः प्राभञ्जनेर्वृकोदरस्य स्नेहपक्षपातिना मनसा मङ्गलानि कर्तुमाज्ञापयति देवो युधिष्ठिरः ।आकाशे*
किं ब्रूथ । सर्वतो ऽधिकतरमपि प्रवृत्तं किं नालोकयसीति । साधु पुत्रकाः साधु । अनुक्तहितकारिता हि प्रकाशयति मनोगतां स्वामिभक्तिम् ।
&युधिष्ठिरः&:
आर्य जयन्धर ।
&कञ्चुकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
गच्छ प्रियख्यापकं पाञ्चालकं पारितोषिकेण परितोषय ।
&कञ्चुकी&:
यदाज्ञापयति देवः ।इति पाञ्चालकेन सह निष्क्रान्तः*
&द्रौपदी&:
{प्क्त्_१६६}महाराअ किण्णिमित्तं उण णाहभीमसेणेण सो दुराआरो भणिदो । पञ्चाणं बि अम्हाणं मज्झे जेण दे रोअदि तेण सह दे सङ्गामो होदु त्ति । जै मद्दीसुदाणं एकदरेण सह सङ्गामो तेण पत्थिदो भवे तदो अच्चाहिदं भवे ।
स्क्त्छ्_१६६: महाराज किन्निमित्तं पुनर्नाथभीमसेनेन स दुराचारो भणितः । पञ्चानामप्यस्माकं मध्ये येन ते रोचते तेन सह ते सङ्ग्रामो भवत्विति । यदि माद्रीसुतयोरेकतरेण सह सङ्ग्रामस्तेन प्रार्थितो भवेत्ततो ऽत्याहितं भवेत् ।
&युधिष्ठिरः&:
कृष्णे एवं मन्यते जरासन्धघाती । हतसकलसुहृद्बन्धुवीरानुजराजन्यासु कृपकृतवर्माश्वत्थामशेषास्वेकादशस्वक्षौहिणीष्वबान्धवः शरीरमात्रविभवः कदाचिदुत्सृष्टनिजाभिमानो धार्तराष्ट्रः परित्यजेदायुधं तपोवनं वा व्रजेत्सन्धिं वा पितृमुखेन याचेत । एवं सति सुदूरमतिक्रान्तः प्रतिज्ञाभारो भवेत्सकलरिपुजयस्येति । समरं प्रतिपत्तुं पञ्चानामपि पाण्डवानामेकस्यापि नैव क्षमः सुयोधनः । शङ्के चाहं गदायुद्धं वृकोदरस्यैवानेन । अयि सुक्षत्रिये पश्य ।
वेर्से_६।१३
क्रोधोद्गूर्णगदस्य नास्ति सदृशः सत्यं रणे मारुतेः $ कौरव्ये कृतहस्तता पुनरियं देवे यथा सीरिणि &
स्वस्त्यस्तूद्धतधार्तराष्ट्रनलिनीनागाय वत्साय मे ē̃ शङ्के तस्य सुयोधनेन समरं नैवेतरेषामहम् ॥ ६।१३ ॥
नेपथ्ये*
तृषितो ऽस्मि भोस्तृषितो ऽस्मि । सम्भावयतु कश्चित्सलिलच्छायासम्प्रदानेन माम् ।
&युधिष्ठिरः&:
आकर्ण्य*
कः को ऽत्र भोः ।
प्रविश्य*
&कञ्चुकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
ज्ञायतां किमेतत् ।
&कञ्चुकी&:
यदाज्ञापयति देवः ।इति निष्क्रम्य पुनः प्रविश्य*
देव क्षुन्मानतिथिरुपस्थितः ।
&युधिष्ठिरः&:
शीघ्रं प्रवेशय ।
&कञ्चुकी&:
यदाज्ञापयति देवः ।इति निष्क्रान्तः*
ततः प्रविशति मुनिवेषधारी चार्वाको नाम राक्षसः*
&राक्षसः&:
आत्मगतम्*
एषो ऽस्मि चार्वाको नाम राक्षसः । सुयोधनस्य मित्रं पाण्डवान्वञ्चयितुं भ्रमामि ।प्रकाशम्*
तृषितो ऽस्मि । सम्भावयतु मां कश्चिज्जलच्छायाप्रदानेन ।इति राज्ञः समीपमुपसर्पति*
सर्व उत्तिष्ठन्ति*
&युधिष्ठिरः&:
मुने अभिवादये ।
&राक्षसः&:
अकालो ऽयं समुदाचारस्य । जलप्रदानेन सम्भावयतु माम् ।
&युधिष्ठिरः&:
मुने इदमासनम् । उपविश्यताम् ।
&राक्षसः&:
उपविश्य*
ननु भवतापि क्रियतामासनपरिग्रहः ।
&युधिष्ठिरः&:
उपविश्य*
कः को ऽत्र भोः । सलिलमुपनय ।
प्रविश्य गृहीतभृङ्गारः*
&कञ्चुकी&:
उपसृत्य*
महाराज शिशिरसुरभिसलिलसम्पूर्णो ऽयं भृङ्गारः पानभाजनं चेदम् ।
&युधिष्ठिरः&:
मुने निर्वर्त्यतामुदन्याप्रतिकारः ।
&राक्षसः&:
पादौ प्रक्षल्योपस्पृशन्विचिन्त्य*
भोः क्षत्रियस्त्वमिति मन्ये ।
&युधिष्ठिरः&:
सम्यग्वेदी भवान् । क्षत्रिय एवास्मि ।
&राक्षसः&:
सुलभश्च स्वजनविनाशः सङ्ग्रामेषु प्रतिदिनमतो नादेयं भवद्भ्यो जलादिकम् । भवतु । छाययैवानया सरस्वतीशिशिरतरङ्गस्पृशा मरुता चानेन विगतक्लमो भविष्यामि ।
&द्रौपदी&:
{प्क्त्_१६७}बुद्धिमदिए वीएहि महेस्सिं इमिणा तालविन्तेण ।
स्क्त्छ्_१६७: बुद्धिमतिके वीजय महर्षिमनेन तालवृन्तेन ।
चेटी तथा करोति*
&राक्षसः&:
भवति अनुचितो ऽयमस्मासु समुदाचारः ।
&युधिष्ठिरः&:
मुने कथय कथमेवं भवान्परिश्रान्तः ।
&राक्षसः&:
मुनिजनसुलभेन कौतूहलेन तत्रभवतां महाक्षत्रियाणां द्वन्द्वयुद्धमवलोकयितुं पर्यटामि समन्तपञ्चकम् । अद्य तु बलवत्तया शरदातपस्यापर्याप्तमेवावलोक्य गदायुद्धमर्जुनसुयोधनयोरागतो ऽस्मि ।
सर्वे विषादं नाटयन्ति*
&कञ्चुकी&:
मुने न खल्वेवम् । भीमसुयोधनयोरिति कथय ।
&राक्षसः&:
आः अविदितवृत्तान्त एव कथं मामाक्षिपसि ।
&युधिष्ठिरः&:
महर्षे कथय कथय ।
&राक्षसः&:
क्षणमात्रं विश्रम्य सर्वं कथयामि भवतो न पुनरस्य वृद्धस्य ।
&युधिष्ठिरः&:
कथय किमर्जुनसुयोधनयोरिति ।
&राक्षसः&:
ननु पूर्वमेव कथितं मया प्रवृत्तं गदायुद्धमिति ।
&युधिष्ठिरः&:
न भीमसुयोधनयोरिति ।
&राक्षसः&:
वृत्तं तत् ।
युधिष्ठिरो द्रौपदी च मोहमुपगतौ*
&कञ्चुकी&:
सलिलेनासिच्य*
समाश्वसितु देवो देवी च ।
&चेटी&:
{प्क्त्_१६८}समस्ससिदु समस्ससिदु देवी ।
स्क्त्छ्_१६८: समाश्वसितु समाश्वसितु देवी ।
उभौ सञ्ज्ञां लभेते*
&युधिष्ठिरः&:
किं कथयसि मुने वृत्तं भीमसुयोधनयोर्गदायुद्धमिति ।
&द्रौपदी&:
{प्क्त्_१६९}भअवं कहेहि कहेहि किं वुत्तं त्ति ।
स्क्त्छ्_१६९: भगवन्कथय कथय किं वृत्तमिति ।
&राक्षसः&:
कञ्चुकिन्कौ पुनरेतौ ।
&कञ्चुकी&:
ब्रह्मन्नेष देवो युधिष्ठिर इयमपि पाञ्चालराजतनया ।
&राक्षसः&:
आः दारुणमुपक्रान्तं मया नृशंसेन ।
&द्रौपदी&:
{प्क्त्_१७०}हा णाह भीमसेण ।इति मोहमुपगता*
स्क्त्छ्_१७०: हा नाथ भीमसेन ।
&कञ्चुकी&:
किं नाम कथितम् ।
&चेटी&:
{प्क्त्_१७१}समस्ससिदु समस्ससिदु देवी ।
स्क्त्छ्_१७१: समाश्वसितु समाश्वसितु देवी ।
&युधिष्ठिरः&:
सास्रम्*
ब्रह्मन्
वेर्से_६।१४
पदे सन्दिग्ध एवास्मिन्दुःखमास्ते युधिष्ठिरः ।
वत्सस्य निश्चिते तत्त्वे प्राणत्यागादयं सुखी ॥ ६।१४ ॥
&राक्षसः&:
सानन्दमात्मगतम्*
अत्रैव मे यत्नः ।प्रकाशम्*
यदि त्ववश्यं कथनीयं तदा सङ्क्षेपतः कथयामि । न युक्तं बन्धुव्यसनं विस्तरेणावेदयितुम् ।
&युधिष्ठिरः&:
अश्रूणि मुञ्चन्*
वेर्से_६।१५
सर्वथा कथय ब्रह्मन्सङ्क्षेपाद्विस्तरेण वा ।
वत्सस्य किमपि श्रोतुमेष दत्तः क्षणो मया ॥ ६।१५ ॥
&राक्षसः&:
श्रूयताम् ।
वेर्से_६।१६
तस्मिन्कौरवभीमयोर्गुरुगदाघोरध्वनौ संयुगे
&द्रौपदी&:
{प्क्त्_१७२}सहसोत्थाय*
तदो तदो ।
स्क्त्छ्_१७२: ततस्ततः ।
&राक्षसः&:
स्वगतम्*
कथं पुनरनयोर्लब्धसञ्ज्ञतामपनयामि ।
वेर्से_६।१६
सीरी सत्वरमागतश्चिरमभूत्तस्याग्रतः सङ्गरः ।
आलम्ब्य प्रियशिष्यतां तु हलिना सञ्ज्ञा रहस्याहिता $ यामासाद्य कुरूत्तमः प्रतिकृतिं दुःशासनारौ गतः ॥ ६।१६ ॥
&युधिष्ठिरः&:
हा वत्स वृकोदर ।इति मोहमुपगतः*
&द्रौपदी&:
{प्क्त्_१७३}हा णाह भीमसेण हा मह परिभवपडिआरपरिच्चत्तजीविअ जडासुरबअहिडिम्बकिम्मीरकीचअजरासन्धणिसूदण सोअन्धिआहरणचाडुआर देहि मे पडिवअणं ।इति मोहमुपगता*
स्क्त्छ्_१७३: हा नाथ भीमसेन हा मम परिभवप्रतीकारपरित्यक्तजीवित जटासुरबकहिडिम्बकिर्मीरकीचकजरासन्धनिषूदन सौगन्धिकाहरणचाटुकार देहि मे प्रतिवचनम् ।
&कञ्चुकी&:
सास्रम्*
हा कुमार भीमसेन धार्तराष्ट्रकुलकमलिनीप्रालेयवर्ष ।ससम्भ्रमम्*
समाश्वसितु महाराजः । भद्रे समाश्वासय स्वामिनीम् । महर्षे त्वमपि तावदाश्वासय महाराजम् ।
&राक्षसः&:
स्वगतम्*
आश्वासयामि प्राणान्परित्याजयितुम् ।प्रकाशम्*
भो भीमाग्रज क्षणमेकमाधीयतां समाश्वासः । कथाशेषो ऽस्ति ।
&युधिष्ठिरः&:
समाश्वस्य*
महर्षे किमस्ति कथाशेषः ।
&द्रौपदी&:
{प्क्त्_१७४}प्रतिबुध्य सभयम्*
भअवं कधेहि कीदिसो कधासेसो त्ति ।
स्क्त्छ्_१७४: भगवन्कथय कीदृशः कथाशेष इति ।
&कञ्चुकी&:
कथय कथय ।
&राक्षसः&:
ततश्च हते तस्मिन्सुक्षत्रिये वीरसुलभां गतिमुपगते समग्रसङ्गलितं भ्रातृवधशोकजं बाष्पं प्रमृज्य भ्रातृवधशोकादपहाय गाण्डीवं प्रत्यग्रक्षतजच्छटाचर्चितां तामेव गदां भ्रातृहस्तादाकृष्य निवार्यमाणो ऽपि सन्धित्सुना वासुदेवेनागच्छागच्छेति सोपहासं भ्रमितगदाझङ्कारमूर्च्छितगम्भीरवचनध्वनिनाहूयमानः कौरवराजेन तृतीयो ऽनुजस्ते किरीटी योद्धुमारब्धः । अकृतिनस्तस्य गदाघातान्निधनमुत्प्रेक्षमाणेन कामपालेनार्जुनपक्षपाती देवकीसूनुरतिप्रयत्नात्स्वरथमारोप्य द्वारकां नीतः ।
&युधिष्ठिरः&:
साधु भो अर्जुन तदैव प्रतिपन्ना वृकोदरपदवी गाण्डीवं परित्यजता । अहं पुनः केनोपायेन प्राणापगममहोत्सवमुत्सहिष्ये ।
&द्रौपदी&:
{प्क्त्_१७५}हा णाह भीमसण ण जुत्तं दाणिं दे कणीअसं भादरं असिक्खिदं गदाए दारुणस्स सत्तुणो अहिमुहं गच्छन्तं उबेक्खिदुं ।मोहमुपगता*
स्क्त्छ्_१७५: हा नाथ भीमसेन न युक्तमिदानीं ते कनीयांसं भ्रातरमशिक्षितं गदायां दारुणस्य शत्रोरभिमुखं गच्छन्तमुपेक्षितुम् ।
&राक्षसः&:
ततश्चाहम्
&युधिष्ठिरः&:
भवतु मुने किमतः परं श्रुतेन । हा तात भीमसेन कान्तारव्यसनबान्धव हा मच्छरीरस्थितिविच्छेदकातर जतुगृहविपत्समुद्रतरणयानपात्र हा किर्मीरहिडिम्बासुरजरासन्धविजयैकमल्ल हा कीचकसुयोधनानुजकमलिनीकुञ्जर हा द्यूतपणप्रणयिन्हा मदाज्ञासम्पादक हा कौरववनदावानल
वेर्से_६।१७
निर्लज्जस्य दुरोदरव्यसनिनो वत्स त्वया सा तदा $ भक्त्या मे समदद्विपायुतबलेनाङ्गीकृता दासता &
किं नामापकृतं मयाधिकमतस्त्वय्यद्य यद्गम्यते ē̃ त्यक्त्वा नाथ सबान्धवं सपदि मां प्रीतिः क्व ते साधुना ॥ ६।१७ ॥
&द्रौपदी&:
{प्क्त्_१७६}सञ्ज्ञामुपलभ्योत्थाय च*
महाराअ किं एदं वट्टै ।
स्क्त्छ्_१७६: महाराज किमेतद्वर्तते ।
&युधिष्ठिरः&:
कृष्णे किमन्यत् ।
वेर्से_६।१८
स कीचकनिषूदनो बकहिडिम्बकिर्मीरहा $ मदान्धमगधाधिपद्विरदसन्धिभेदाशनिः &
गदापरिघशोभिना भुजयुगेन तेनान्वितः ē̃ प्रियस्तव ममानुजो ऽर्जुनगुरुर्गतो ऽस्तं किल ॥ ६।१८ ॥
&द्रौपदी&:
{प्क्त्_१७७}णाह भीमसेण तुए किल मे केसा संअमिदव्वा । ण जुत्तं वीरस्स खत्तिअस्स पडिण्णादं सिढिलेदुं । ता पडिबालेहि मं जाव उबसप्पामि ।पुनर्मोहमुपगता*
स्क्त्छ्_१७७: नाथ भीमसेन त्वया किल मे केशाः संयमितव्याः । न युक्तं वीरस्य क्षत्रियस्य प्रतिज्ञातं शिथिलयितुम् । तत्प्रतिपालय मां यावदुपसर्पामि ।
&युधिष्ठिरः&:
आकाशे*
अम्ब पृथे श्रुतो ऽयं तव पुत्रस्य समुदाचारः । मामेकमनाथं विलपन्तमुत्सृज्य क्वापि गतः । तात जरासन्धशत्रो किं नाम वैपरीत्यमेतावता कालेनाल्पायुषि त्वयि समालोकितं जनेन । अथ वा मयैव बहूपलब्धम् ।
वेर्से_६।१९
दत्त्वा मे करदीकृताखिलनृपां यन्मेदिनीं लज्जसे $ द्यूते यच्च पणीकृतो ऽपि हि मया न क्रुध्यसि प्रीयसे &
स्थित्यर्थं मम मत्स्यराजभवने प्राप्तो ऽसि यत्सूदतां ē̃ वत्सैतानि विनश्वरस्य सहसा दृष्टानि चिह्नानि ॥ ६।१९ ॥
मुने किं कथयसि ।तस्मिन्कौरवभीमयोरित्यादि पठति*
&राक्षसः&:
एवमेतत् ।
&युधिष्ठिरः&:
धिगस्मद्भागधेयानि । भगवन्कामपाल कृष्णाग्रज सुभद्राभ्रातः
वेर्से_६।२०
ज्ञातिप्रीतिर्मनसि न कृता क्षत्रियाणां न धर्मो $ रूढं सख्यं तदपि गणितं नानुजस्यार्जुनेन &
तुल्यः कामं भवतु भवतः शिष्ययोः स्नेहबन्धः ē̃ को ऽयं पन्था यदसि विमुखो मन्दभाग्ये मयीत्थम् ॥ ६।२० ॥
द्रौपदीमुपगम्य*
अयि पाञ्चालि उत्तिष्ठ । समानदुःखावेवावां भवावः । मूर्च्छया किं मामेवमतिसन्धत्से ।
&द्रौपदी&:
{प्क्त्_१७८}लब्धसञ्ज्ञा*
बन्धेदु णाहो दुज्जोहणरुधिलाद्देण हत्थेण दुस्सासणमुक्कं मे केसहत्थं । हञ्जे बुद्धिमदिए तव पच्चक्खं एव्व णाहेण पडिण्णादं ।कञ्चुकिनमुपेत्य*
अज्ज किं सन्दिट्ठं दाव मे देवेण देवईणन्दणेण पुणो बि केसरअणा आरम्भीअदु त्ति । ता उबणेहि मे पुप्फदामाइं । विरएहि दाव कवरिं । करेहि भअवदो णाराअणस्स वअणं । ण हु सो अलीअं सन्दिसदि । अह वा किं मए सन्तत्ताए भणिदं । अचिरगदं अज्जौत्तं अणुगमिस्सं ।युधिष्ठिरमुपगम्य*
महाराअ आदीबअ मे चिदं । तुमं बि खत्तधम्मं अणुवट्टन्तो एव्व णाहस्स जीविअहरस्स अहिमुहो होहि ।
स्क्त्छ्_१७८: बध्नातु नाथो दुर्योधनरुधिरार्द्रेण हस्तेन दुःशासनमुक्तं मे केशहस्तम् । हञ्जे बुद्धिमतिके तव प्रत्यक्षमेव नाथेन प्रतिज्ञातम् । आर्य किं सन्दिष्टं तावन्मे देवेन देवकीनन्दनेन पुनरपि केशरचनारभ्यतामिति । तदुपनय मे पुष्पदामानि । विरचय तावत्कबरीम् । कुरु भगवतो नारायणस्य वचनम् । न खलु सो ऽलीकं सन्दिशति । अथ वा किं मया सन्तप्तया भणितम् । अचिरगतमार्यपुत्रमनुगमिष्यामि । महाराज आदीपय मे चिताम् । त्वमपि क्षत्रधर्ममनुवर्तमान एव नाथस्य जीवितहरस्याभिमुखो भव ।
&युधिष्ठिरः&:
युक्तमाह पाञ्चाली । कञ्चुकिन्क्रियतामियं तपस्विनी चितासंविभागेन सह्यवेदना । ममापि सज्जं धनुरुपनय । अलमथ वा धनुषा ।
वेर्से_६।२१
तस्यैव देहरुधिरोक्षितपाटलाङ्गी- $ मादाय संयति गदामपविध्य चापम् &
भ्रातृप्रियेण कृतमद्य यदर्जुनेन ē̃ श्रेयो ममापि हि तदेव कृतं जयेन ॥ ६।२१ ॥
&राक्षसः&:
राजन्रिपुजयविमुखं ते यदि चेतस्तदा यत्र तत्र वा प्राणत्यागं कुरु । वृथा तत्र गमनम् ।
&कञ्चुकी&:
धिङ्मुने राक्षससदृशं हृदयं भवतः ।
&राक्षसः&:
सभयं स्वगतम्*
किं ज्ञातो ऽहमनेन ।प्रकाशम्*
भोः कञ्चुकिन्तयोर्गदया खलु युद्धं प्रवृत्तमर्जुनदुर्योधनयोः । जानामि च तयोर्गदायां भुजसारम् । दुःखितस्य पुनरस्य राजर्षेरपरमनिष्टश्रवणं परिहरन्नेवं ब्रवीमि ।
&युधिष्ठिरः&:
बाष्पं विसृजन्*
साधु महर्षे साधु । सुस्निग्धमभिहितम् ।
&कञ्चुकी&:
महाराज किं नाम शोकान्धतया देवेन देवकल्पेनापि प्राकृतेनेव त्यजते क्षात्रधर्मः ।
&युधिष्ठिरः&:
आर्य जयन्धर
वेर्से_६।२२
शक्ष्यामि नो परिघपीवरबाहुदण्डौ $ वित्तेशशक्रपुरदर्शितवीर्यसारौ &
भीमार्जुनौ क्षितितले प्रविचेष्टमानौ ē̃ द्रष्टुं तयोश्च निधनेन रिपुं कृतार्थम् ॥ ६।२२ ॥
अयि पाञ्चालराजतनये मद्दुर्नयप्राप्तशोच्यदशे यथा सन्दीप्यते पावकस्तथा सहितावेव बन्धुजनं सम्भावयावः ।
&द्रौपदी&:
{प्क्त्_१७९}अज्ज करेहि दारुसञ्चअं । पज्जलीअदु अग्गी । तुवरदि मे हिअअं णाहं पेक्खिदुं ।सर्वतो दृष्ट्वा*
कहं ण को बि महाराअस्स वअणं करेदि । हा णाह भीमसेण तं एव्व एदं राऔलं तुए विरहिदं परिअणो वि सम्पदं परिहरदि ।
स्क्त्छ्_१७९: आर्य कुरु दारुसञ्चयम् । प्रज्वाल्यतामग्निः । त्वरते मे हृदयं नाथं प्रेक्षितुम् । कथं न को ऽपि महाराजस्य वचनं करोति । हा नाथ भीमसेन तदेवेदं राजकुलं त्वया विरहितं परिजनो ऽपि साम्प्रतं परिहरति ।
&राक्षसः&:
सदृशमिदं भरतकुलवधूनां पत्युरनुसरणम् ।
&युधिष्ठिरः&:
महर्षे न कश्चिच्छृणोति तावदावयोर्वचनम् । तदिन्धनप्रदानेन प्रसादः क्रियताम् ।
&राक्षसः&:
मुनिजनविरुद्धमिदम् ।स्वगतम्*
पूर्णो मे मनोरथः । यावदनुपलक्षितः समिन्धयामि वह्निम् ।प्रकाशम्*
राजन्न शक्नुमो वयमिह स्थातुम् ।इति निष्क्रान्तः*
&युधिष्ठिरः&:
कृष्णे न कश्चिदस्मद्वचनं करोति । भवतु । स्वयमेवाहं दारुसञ्चयं कृत्वा चितामादीपयामि ।
&द्रौपदी&:
{प्क्त्_१८०}तुवरदु तुवरदु महाराओ ।
स्क्त्छ्_१८०: त्वरतां त्वरतां महाराजः ।
नेपथ्ये कलकलः*
&द्रौपदी&:
{प्क्त्_१८१}सभयमाकर्ण्य*
महाराअ कस्स बि एसो बलदप्पिदस्स विसमो सङ्खणिग्घोसो सुणीअदि । अबरं बि अप्पिअं सुणिदुं अत्थि णिब्बन्धो तदो विलम्बीअदि ।
स्क्त्छ्_१८१: महाराज कस्याप्येष बलदर्पितस्य विषमः शङ्खनिर्घोषः श्रूयते । अपरमप्यप्रियं श्रोतुमस्ति निर्बन्धस्ततो विलम्ब्यते ।
&युधिष्ठिरः&:
न खलु विलम्ब्यते । उत्तिष्ठ ।इति सर्वे परिक्रामन्ति*
अयि पाञ्चालि अम्बायाः सपत्नीजनस्य च किञ्चित्सन्दिश्य निवर्तय परिजनम् ।
&द्रौपदी&:
{प्क्त्_१८२}महाराअ अम्बाए एव्वं सन्दिसिस्सं । जो सो बअहिडिम्बकिम्मीरजडासुरजरासन्धविजअमल्लो दे मज्झमपुत्तो सो मम हदासाए पक्खबादेण परलोअं गदो त्ति ।
स्क्त्छ्_१८२: महाराज अम्बाया एवं सन्देक्ष्यामि । यः स बकहिडिम्बकिर्मीरजटासुरजरासन्धविजयमल्लस्ते मध्यमपुत्रः स मम हताशायाः पक्षपातेन परलोकं गत इति ।
&युधिष्ठिरः&:
भद्रे बुद्धिमतिके उच्यतामस्मद्वचनादम्बा ।
वेर्से_६।२३
येनासि तत्र जतुवेश्मनि दीप्यमाने $ निर्वाहिता सह सुतैर्भुजयोर्बलेन &
तस्य प्रियस्य बलिनस्तनयस्य पाप- ē̃ माख्यामि ते ऽम्ब कथयेत्कथमीदृगन्यः ॥ ६।२३ ॥
आर्य जयन्धर त्वयापि सहदेवसकाशं गन्तव्यम् । वक्तव्यश्च तत्रभवान्पाण्डुकुलबृहस्पतिर्माद्रेयः कनीयानस्माकम् । सकलकुरुकुलकमलाकरदावानलो युधिष्ठिरः परलोकमभिप्रस्थितः प्रियानुजमप्रतिकूलं सततमाशंसनीयमसम्मूढं व्यसने ऽभ्युदये च धृतिमन्तं भवन्तमविरलमालिङ्ग्य शिरसि चाघ्रायेदं प्रार्थयते ।
वेर्से_६।२४
मम हि वयसा दूरेणाल्पः श्रुतेन समो भवा- $ न्सहजकृतया बुद्ध्या ज्येष्ठो मनीषितया गुरुः &
शिरसि मुकुलौ पाणी कृत्वा भवन्तमतो ऽर्थये ē̃ मयि विरलतां नेयः स्नेहः पितुर्भव वारिदः ॥ ६।२४ ॥
अपि च बाल्ये संवर्धितस्य नित्याभिमानिनो ऽस्मत्सदृशहृदयसारस्यापि नकुलस्य ममाज्ञया वचने स्थातव्यम् । तदुच्यतां नकुलः । नानुगन्तव्यास्मत्पदवी । त्वया हि वत्स
वेर्से_६।२५
विस्मृत्यास्मान्श्रुतिविशदया प्रज्ञया सानुजेन $ पिण्डान्पाण्डोरुदकपृषतानश्रुगर्भान्प्रदातुम् &
दायादानामपि तु भवने यादवानां कुले वा ē̃ कान्तारे वा कृतवसतिना रक्षणीयं शरीरम् ॥ ६।२५ ॥
गच्छ जयन्धर अस्मच्छरीरस्पृष्टिकया शापितेन भवताकालहीनमिदमवश्यमावेदनीयम् ।
&द्रौपदी&:
{प्क्त्_१८३}हला बुद्धिमदिए भणाहि मम वअणेण पिअसहिं सुभद्दं । अज्ज वच्छाए उत्तराए चौत्थो मासो पडिबण्णस्स गब्भस्स । तुमं एव्व एदं कुलपडिट्ठाबअं सावहाणं रक्ख । कदा बि इदो परलोअगदस्स ससुरौलस्स अम्हाणं बि सलिलबिन्दुदो भविस्सदि त्ति ।
स्क्त्छ्_१८३: हला बुद्धिमतिके भण मम वचनेन प्रियसखीं सुभद्राम् । अद्य वत्साया उत्तरायाश्चतुर्थो मासः प्रतिपन्नस्य गर्भस्य । त्वमेवैतं कुलप्रतिष्ठापकं सावधानं रक्ष । कदापीतः परलोकगतस्य श्वशुरकुलस्यास्माकमपि सलिलबिन्दुदो भविष्यतीति ।
&युधिष्ठिरः&:
सास्रम्*
भोः कष्टम् ।
वेर्से_६।२६
शाखारोधस्थगितवसुधामण्डले मण्डिताशे $ पीनस्कन्धे सुसदृशमहामूलपर्यन्तबन्धे &
दग्धे दैवात्सुमहति तरौ तस्य सूक्ष्माङ्कुरे ऽस्मि- ē̃ न्नाशाबन्धं कमपि कुरुते छाययार्थी जनो ऽयम् ॥ ६।२६ ॥
साधु । इदानीमध्यवसितं करणीयम् ।कञ्चुकिनमवलोक्य*
आर्य जयन्धर स्वशरीरेण शापितो ऽसि तथापि न गम्यते ।
&कञ्चुकी&:
साक्रन्दम्*
हा देव पाण्डो तव सुतानामजातशत्रुभीमार्जुननकुलसहदेवानामयं दारुणः परिणामः । हा देवि कुन्ति भोजराजभवनपताके
वेर्से_६।२७
भ्रातुस्ते तनयेन शौरिगुरुणा श्यालेन गाण्डीविन- $ स्तस्यैवाखिलधार्तराष्ट्रनलिनीव्यालोलने दन्तिनः &
आचार्येण वृकोदरस्य हलिनोन्मत्तेन मत्तेन वा ē̃ दग्धं त्वत्सुतकाननं ननु मही यस्याश्रयाच्छीतला ॥ ६।२७ ॥
इति रुदन्निष्क्रान्तः*
&युधिष्ठिरः&:
जयन्धर जयन्धर ।
प्रविश्य*
&कञ्चकी&:
आज्ञापयतु देवः ।
&युधिष्ठिरः&:
वक्तव्यमिति ब्रवीमि । न पुनरेतावन्ति भागधेयानि नः । यदि कदाचिद्विजयी स्याद्वत्सो ऽर्जुनस्तद्वक्तव्यो ऽस्मद्वचनाद्भवता ।
वेर्से_६।२८
हली हेतुः सत्यं भवति मम वत्सस्य निधने $ तथाप्येष भ्राता सहजसुहृदस्ते मधुरिपोः &
अतः क्रोधः कार्यो न खलु यदि च प्राणिषि ततो ē̃ वनं गच्छेर्मा गाः पुनरकरुणां क्षात्रपदवीम् ॥ ६।२८ ॥
&कञ्चुकी&:
यदाज्ञापयति देवः ।इति निष्क्रान्तः*
&युधिष्ठिरः&:
अग्निं दृष्ट्वा सहर्षम्*
कृष्णे ननूद्धतशिखाहस्ताहूतास्मद्विधव्यसनिजनः समिद्धो भगवान्हुताशनस्तत्रेन्धनीकरोम्यात्मानम् ।
&द्रौपदी&:
{प्क्त्_१८४}पसीददु पसीददु महाराओ मम इमिणा अपच्छिमेण पणएण । अहं दाव अग्गदो पविसामि ।
स्क्त्छ्_१८४: प्रसीदतु प्रसीदतु महाराजो ममानेनापश्चिमेन प्रणयेन । अहं तावदग्रतः प्रविशामि ।
&युधिष्ठिरः&:
यद्येवं सहितावेवाभ्युदयमुपभोक्ष्यावहे ।
&चेटी&:
{प्क्त्_१८५}हा भअवन्तो लोअबाला परित्ताअह परित्ताअह । एसो क्खु सोमवंसराएसी राअसूअसन्तप्पिदहव्ववाहो खण्डवसन्तप्पिदहुदवहस्स किरीडिणो जेट्ठो भादा सुगिहीदणामहेओ महाराअजुहिट्ठिरो । एसा बि पञ्चालराअतणआ देवी जण्णवेदिमज्झसम्भवा जण्णसेणी । दुवे बि णिक्करुणजलणस्स प्पवेसेण इन्धणीहोन्ति । ता परित्ताअह अज्जा परित्ताअह । कधं ण को बि परित्ताअदि ।तयोरग्रतः पतित्वा*
किं ववसिदं देवीए देवेण अ ।
स्क्त्छ्_१८५: हा भगवन्तो लोकपालाः परित्रायध्वं परित्रायध्वम् । एष खलु सोमवंशराजर्षी राजसूयसन्तर्पितहव्यवाहः खाण्डवसन्तर्पितहुतवहस्य किरीटिनो ज्येष्ठो भ्राता सुगृहीतनामधेयो महाराजयुधिष्ठिरः । एषापि पाञ्चालराजतनया देवी यज्ञवेदिमध्यसम्भवा याज्ञसेनी । द्वावपि निष्करुणज्वलनस्य प्रवेशेनेन्धनीभवतः । तत्परित्रायध्वमार्याः परित्रायध्वम् । कथं न को ऽपि परित्रायते । किं व्यवसितं देव्या देवेन च ।
&युधिष्ठिरः&:
अयि बुद्धिमतिके यद्वत्सलेन प्रियानुजेन विना सदृशं तत् । उत्तिष्ठोत्तिष्ठ भद्रे उदकमुपनय ।
&चेटी&:
{प्क्त्_१८६}जं देवो आणबेदि ।इति निष्क्रम्य पुनः प्रविश्य च*
जेदु जेदु महाराओ ।
स्क्त्छ्_१८६: यद्देव आज्ञापयति । जयतु जयतु महाराजः ।
&युधिष्ठिरः&:
पाञ्चालि त्वमपि तावत्स्वपक्षपातिनो वृकोदरस्य प्रियस्यार्जुनस्योदकक्रियां कुरु ।
&द्रौपदी&:
{प्क्त्_१८७}महाराओ एव्व करेदु । अहं पुणो जलणं पविसिस्सं ।
स्क्त्छ्_१८७: महाराज एव करोतु । अहं पुनर्ज्वलनं प्रवेक्ष्यामि ।
&युधिष्ठिरः&:
अनतिक्रमणीयं लोकवृत्तम् । भद्रे उदकमुपनय ।
चेटी तथा करोति*
&युधिष्ठिरः&:
पादौ प्रक्षाल्योपस्पृश्य च*
एष तावत्सलिलाञ्जलिर्गाङ्गेयाय भीष्माय गुरवे । अयं प्रपितामहाय शान्तनवे । अयमपि पितामहाय विचित्रवीर्याय ।सास्रम्*
तातस्याधुनावसरः । अयमपि तत्रभवते सुगृहीतनाम्ने पित्रे पाण्डवे ।
वेर्से_६।२९
अद्य प्रभृति वारीदमस्मत्तो दुर्लभं पुनः ।
तात माद्र्यम्बया सार्धं मया दत्तं निपीयताम् ॥ ६।२९ ॥
वेर्से_६।३०
एतज्जलं जलजनीलविलोचनाय $ भीमाय तस्य मम चाप्यविभक्तमस्तु &
एकं क्षणं विरम वत्स पिपासितो ऽपि ē̃ पातुं त्वया सह जवादयमागतो ऽस्मि ॥ ६।३० ॥
अथ वा सुक्षत्रियाणां गतिमुपगतं वत्समहमुपगतो ऽप्यकृती द्रष्टुम् । वत्स भीमसेन
वेर्से_६।३१
मया पीतं पीतं तदनु भवताम्बास्तनयुगं $ मदुच्छिष्टैर्वृत्तिं जनयसि रसैर्वत्सलतया &
वितानेष्वप्येवं तव मम च सोमे विधिरभू- ē̃ न्निवापाम्भः पूर्वं पिबसि कथमेवं त्वमधुना ॥ ६।३१ ॥
कृष्णे त्वमपि देहि सलिलाञ्जलिम् ।
&द्रौपदी&:
{प्क्त्_१८८}हञ्जे बुद्धिमदिए उबणेहि मे सलिलं ।
स्क्त्छ्_१८८: हञ्जे बुद्धिमतिके उपनय मे सलिलम् ।
चेटी तथा करोति*
&द्रौपदी&:
{प्क्त्_१८९}उपसृत्य जलाञ्जलिं पूरयित्वा*
महाराअ कस्स सलिलं देम्हि ।
स्क्त्छ्_१८९: महाराज कस्मै सलिलं ददामि ।
&युधिष्ठिरः&:
वेर्से_६।३२
तस्मै देहि जलं कृष्णे सहसा गच्छते दिवम् ।
अम्बापि येन गान्धार्या रुदितेन सखी कृता ॥ ६।३२ ॥
&द्रौपदी&:
{प्क्त्_१९०}णाह भीमसेण परिअणोबणीदं उदअं सग्गगदस्स दे पादोदअं भोदु ।
स्क्त्छ्_१९०: नाथ भीमसेन परिजनोपनीतमुदकं स्वर्गगतस्य ते पादोदकं भवतु ।
&युधिष्ठिरः&:
फाल्गुनाग्रज
वेर्से_६।३३
असमाप्तप्रतिज्ञे ऽस्तं याते त्वयि महाभुजे ।
मुक्तकेश्यैव दत्तस्ते प्रियया सलिलाञ्जलिः ॥ ६।३३ ॥
&द्रौपदी&:
{प्क्त्_१९१}उट्ठेहि महाराअ दूरं गच्छदि दे भादा ।
स्क्त्छ्_१९१: उत्तिष्ठ महाराज दूरं गच्छति ते भ्राता ।
&युधिष्ठिरः&:
दक्षिणाक्षिस्पन्दनं सूचयित्वा*
पाञ्चालि निमित्तानि मे कथयन्ति सम्भावयिष्यसि वृकोदरमिति ।
&द्रौपदी&:
{प्क्त्_१९२}महाराअ सुणिमित्तं भोदु ।
स्क्त्छ्_१९२: महाराज सुनिमित्तं भवतु ।
नेपथ्ये कलकलः*
प्रविश्य सम्भ्रान्तः*
&कञ्चुकी&:
परित्रायतां परित्रायतां महाराजः । एष खलु दुरात्मा कौरवापसदः क्षतजाभिषेकपाटलिताम्बरशरीरः समुच्छ्रितदिग्धभीषणगदापाणिरुद्यतकालदण्ड इव कृतान्तो ऽत्रभवतीं पाञ्चालराजतनयामितस्ततः परिमार्गमाण इत एवाभिवर्तते ।
&युधिष्ठिरः&:
हा दैव ते निर्णयो जातः । हा गाण्डीवधन्वन् ।इति मुह्यति*
&द्रौपदी&:
{प्क्त्_१९३}हा अज्जौत्त हा मम सअंवरसअङ्गाहदुल्ललिद पिअं भादुअं अणुगदोसि ण उण महाराअं इमं दासजणं अ ।इति मोहमुपगता*
स्क्त्छ्_१९३: हा आर्यपुत्र हा मम स्वयंवरस्वयङ्ग्राहदुर्ललित प्रियं भ्रातरमनुगतो ऽसि न पुनर्महाराजमिमं दासजनं च ।
&युधिष्ठिरः&:
हा वत्स सव्यसाचिन्हा त्रिलोचनाङ्गनिष्पेषमल्ल हा निवातकवचोद्धरणनिष्कण्टकीकृतामरलोक हा बदर्याश्रममुनिद्वितीयतापस हा द्रोणाचार्यप्रियशिष्य हा अस्त्रशिक्षाबलपरितोषितगाङ्गेय हा राधेयकुलकमलिनीप्रालेयवर्ष हा गन्धर्वनिर्वासितदुर्योधन हा पाण्डवकुलकमलिनीराजहम्स
वेर्से_६।३४
तां वत्सलामनभिवाद्य विनीतमम्बां $ गाढं च मामनुपगुह्य मयाप्यनुक्तः &
एतां स्वयंवरवधूं दयितामदृष्ट्वा ē̃ दीर्घप्रवासमयि तात कथं गतो ऽसि ॥ ६।३४ ॥
मोहमुपगतः*
&कञ्चुकी&:
भोः कष्टम् । एष दुरात्मा कौरवाधमो यथेष्टमित एवाभिवर्तते । सर्वथा सम्प्रत्ययमेव कालोचितः प्रतीकारः । चितासमीपमुपनयाम्यत्रभवतीं पाञ्चालराजतनयाम् । अहमप्येवमेवानुगच्छामि ।चेटीं प्रति*
भद्रे त्वमपि देव्या भ्रातरं धृष्टद्युम्नं नकुलसहदेवौ वावाप्नुहि । अथ वैवमवस्थिते महाराजे ऽस्तमितयोर्भीमार्जुनयोः कुतो ऽत्र परित्राणाशा ।
&चेटी&:
{प्क्त्_१९४}परित्ताअह परित्ताअह अज्जा ।
स्क्त्छ्_१९४: परित्रायध्वं परित्रायध्वमार्याः ।
नेपथ्ये कलकलानन्तरम्*
भो भोः समन्तपञ्चकसञ्चारिणः क्षतजासवमत्तयक्षराक्षसपिशाचभूतवेतालकङ्कगृध्रजम्बुकोलूकवायसभूयिष्ठा विरलयोधपुरुषाः कृतमस्मद्दर्शनत्रासेन । कथयत कस्मिन्नुद्देशे याज्ञसेनी सन्निहितेति । कथयाम्युपलक्षणं तस्याः ।
वेर्से_६।३५
ऊरू करेण परिघट्टयतः सलीलं $ दुर्योधनस्य पुरतो ऽपहृताम्बरा या &
दुःशासनेन कचकर्षणभिन्नमौलिः ē̃ सा द्रौपदी कथयत क्व पुनः प्रदेशे ॥ ६।३५ ॥
&कञ्चुकी&:
हा देवि यज्ञवेदिसम्भवे परिभूयसे सम्प्रत्यनाथा कुरुकुलकलङ्केन ।
&युधिष्ठिरः&:
सहसोत्थाय सावष्टम्भम्*
पाञ्चालि न भेतव्यं न भेतव्यम् ।ससम्भ्रमम्*
कः को ऽत्र भोः । सनिषङ्गं मे धनुरुपनय । दुरात्मन्दुर्योधनहतक आगच्छागच्छ । अपनयामि ते गदाकौशलसम्भृतं भुजदर्पं शिलीमुखासारेण । अन्यच्च रे कुरुकुलाङ्गार
वेर्से_६।३६
प्रियमनुजमपश्यंस्तं जरासन्धमल्लं $ कुपितहरकिरातायोधिनं तं च वत्सम् &
त्वमिव कठिनचेताः प्राणितुं नास्मि शक्तो ē̃ ननु पुनरपहर्तुं बाणवर्षैस्तवासून् ॥ ६।३६ ॥
ततः प्रविशति गदापाणिः क्षतजसिक्तसर्वाङ्गो भीमसेनः*
&भीमसेनः&:
उद्धतं परिक्रामन्*
भो भोः समन्तपञ्चकसञ्चारिणः सैनिकाः को ऽयमावेगः ।
वेर्से_६।३७
नाहं रक्षो न भूतो रिपुरुधिरजलप्लाविताङ्गः प्रकामं $ निस्तीर्णोरुप्रतिज्ञाजलनिधिगहनः क्रोधनः क्षत्रियो ऽस्मि &
भो भो राजन्यवीराः समरशिखिशिखादग्धशेषाः कृतं व- ē̃ स्त्रासेनानेन लीनैर्हतकरितुरगान्तर्हितैरास्यते यत् ॥ ६।३७ ॥
कथयन्तु भवन्तः कस्मिन्नुद्देशे पाञ्चाली तिष्ठति ।
&द्रौपदी&:
{प्क्त्_१९५}लब्धसञ्ज्ञा*
परित्ताअदु परित्ताअदु महाराओ ।
स्क्त्छ्_१९५: परित्रायतां परित्रायतां महाराजः ।
&कञ्चुकी&:
देवि पाण्डुस्नुषे उत्तिष्ठोत्तिष्ठ । सम्प्रति झटिति चिताप्रवेश एव श्रेयान् ।
&द्रौपदी&:
{प्क्त्_१९६}सहसोत्थाय*
कहं ण सम्भावेमि अज्ज बि चिदासमीबं ।
स्क्त्छ्_१९६: कथं न सम्भावयाम्यद्यापि चितासमीपम् ।
&युधिष्ठिरः&:
कः को ऽत्र भोः । सनिषङ्गं धनुरुपनय । कथं न कश्चित्परिजनः । भवतु । बाहुयुद्धेनैव दुरात्मानं गाढमालिङ्ग्य ज्वलनमभिपातयामि ।परिकरं बध्नाति*
&कञ्चुकी&:
देवि पाण्डुस्नुषे संयम्यन्तामिदानीं नयनोपरोधिनो दुःशासनावकृष्टा मूर्धजाः । अस्तमिता सम्प्रति प्रतीकाराशा । चितासमीपमेव द्रुततरं सम्भावय ।
&युधिष्ठिरः&:
कृष्णे न खल्वनिहते तस्मिन्दुरात्मनि दुर्योधने संहर्तव्याः केशाः ।
&भीमसेनः&:
पाञ्चालि न खलु मयि जीवति संहर्तव्या दुःशासनविलुलिता वेणिरात्मपाणिभ्याम् । तिष्ठतु तिष्ठतु । स्वयमेवाहं संहरामि ।
द्रौपदी भयादपसर्पति*
&भीमसेनः&:
तिष्ठ तिष्ठ भीरु क्वाधुना गम्यते ।इति केशेषु ग्रहीतुमिच्छति*
&युधिष्ठिरः&:
वेगाद्भीममालिङ्ग्य*
दुरात्मन्भीमार्जुनशत्रो सुयोधनहतक
वेर्से_६।३८
आशैशवादनुदिनं जनितापराधो $ मत्तो बलेन भुजयोर्हतराजपुत्रः &
आसाद्य मे ऽन्तरमिदं भुजपञ्जरस्य ē̃ जीवन्प्रयासि न पदात्पदमद्य पाप ॥ ६।३८ ॥
&भीमसेनः&:
अये कथमार्यः सुयोधनशङ्कया क्रोधान्निर्दयं मामालिङ्गति ।
&कञ्चुकी&:
निरूप्य सहर्षम्*
महाराज वञ्च्यसे । अयं खल्वायुष्मान्भीमसेनः सुयोधनक्षतजारुणीकृतसकलशरीराम्बरो दुर्लक्षव्यक्तिः । अलमधुना सन्देहेन ।
&चेटी&:
{प्क्त्_१९७}द्रौपदीमालिङ्ग्य*
देवि णिवत्तीअदु णिवत्तीअदु । एसो क्खु पूरिदपडिण्णाभारो णाहो दे वेणीसंहारं कादुं तुमं एव्व अण्णेसदि ।
स्क्त्छ्_१९७: देवि निवृत्यतां निवृत्यताम् । एष खलु पूरितप्रतिज्ञाभारो नाथस्ते वेणीसंहारं कर्तुं त्वामेवान्विष्यति ।
&द्रौपदी&:
{प्क्त्_१९८}हञ्जे किं मं अलीअवअणेहिं आसासेसि ।
स्क्त्छ्_१९८: हञ्जे किं मामलीकवचनैराश्वासयसि ।
&युधिष्ठिरः&:
जयन्धर किं कथयसि । नायमनुजद्वेषी दुर्योधनहतकः ।
&भीमसेनः&:
देव अजातशत्रो भीमार्जुनगुरो कुतो ऽद्यापि दुर्योधनहतकः । मया हि तस्य दुरात्मनः पाण्डुकुलपरिभाविनः
वेर्से_६।३९
भूमौ क्षिप्तं शरीरं निहितमिदमसृक्चन्दनाभं निजाङ्गे $ लक्ष्मीरार्ये निषण्णा चतुरुदधिपयःसीमया सार्धमुर्व्या &
भृत्या मित्राणि योधाः कुरुकुलमखिलं दग्धमेतद्रणाग्नौ ē̃ नामैकं यद्ब्रवीषि क्षितिप तदधुना धार्तराष्ट्रस्य शेषम् ॥ ६।३९ ॥
युधिष्ठिरः स्वैरं मुक्त्वा भीममवलोकयन्नश्रूणि प्रमार्जयति*
&भीमसेनः&:
पादयोः पतित्वा*
जयत्वार्यः ।
&युधिष्ठिरः&:
वत्स बाष्पजलान्तरितनयनत्वान्न पश्यामि ते मुखचन्द्रम् । तत्कथय कच्चिज्जीवति भवान्समं किरीटिना ।
&भीमसेनः&:
निहतसकलरिपुपक्षे त्वयि नराधिपे जीवति भीमो ऽर्जुनश्च ।
&युधिष्ठिरः&:
पुनर्गाढमालिङ्ग्य*
वेर्से_६।४०
रिपोरास्तां तावन्निधनमिदमाख्याहि शतशः $ प्रियो भ्राता सत्यं त्वमसि मम यो ऽसौ बकरिपुः &
&भीमसेनः&:
आर्य सो ऽहम् ।
&युधिष्ठिरः&:
वेर्से_६।४०
जरासन्धस्योरःसरसि रुधिरासारसलिले ē̃ तटाघातक्रीडाललितमकरः संयति भवान् ॥ ६।४० ॥
&भीमसेनः&:
आर्य स एवाहम् । तन्मुञ्चतु मामार्यः क्षणमेकम् ।
&युधिष्ठिरः&:
किमपरमवशिष्टम् ।
&भीमसेनः&:
आर्य सुमहदवशिष्टम् । संयच्छामि तावदनेन सुयोधनशोणितोक्षितेन पाणिना पाञ्चाल्या दुःशासनावकृष्टं केशहस्तम् ।
&युधिष्ठिरः&:
सत्वरं गच्छतु भवान् । अनुभवतु तपस्विनी वेणीसंहारमहोत्सवम् ।
&भीमसेनः&:
द्रौपदीमुपसृत्य*
देवि पाञ्चालराजतनये दिष्ट्या वर्धसे रिपुकुलक्षयेण । अलमलमेवंविधं मामालोक्य त्रासेन ।
वेर्से_६।४०
कृष्टा येनासि राज्ञां सदसि नृपशुना तेन दुःशासनेन $ स्त्यानान्येतानि तस्य स्पृश मम करयोः पीतशेषाण्यसृञ्जि &
कान्ते राज्ञः कुरूणामपि सरसमिदं मद्गदाचूर्णितोरो- ē̃ रङ्गे ऽङ्गे ऽसृङ्निषक्तं तव परिभवजस्यानलस्योपशान्त्यै ॥ ६।४० ॥
बुद्धिमतिके क्व सा सम्प्रति भानुमती योपहसति पाण्डवदारान् । भवति यज्ञवेदिसम्भवे याज्ञसेनि ।
&द्रौपदी&:
{प्क्त्_१९९}आणबेदु णाहो ।
स्क्त्छ्_१९९: आज्ञापयतु नाथः ।
&भीमसेनः&:
स्मरति भवती यन्मयोक्तम् ।चञ्चद्भुजेत्यादिसेए स्तन्ज़ १।२१। पूर्वोक्तं पठति*
&द्रौपदी&:
{प्क्त्_२००}णाह ण केवलं सुमरामि । अणुहवामि अ णाहस्स पसादेण ।
स्क्त्छ्_२००: नाथ न केवलं स्मरामि । अनुभवामि च नाथस्य प्रसादेन ।
&भीमसेनः&:
वेणीमवधूय*
भवति संयम्यतामिदानीं धार्तराष्ट्रकुलकालरात्रिर्दुःशासनविलुलितेयं वेणी ।
&द्रौपदी&:
{प्क्त्_२०१}णाह विसुमरिदम्हि एदं वाबारं । णाहस्स पसाएण पुणो बि सिक्खिस्सं ।
स्क्त्छ्_२०१: नाथ विस्मृतास्म्येतं व्यापारम् । नाथस्य प्रसादेन पुनरपि शिक्षिष्ये ।
भीमसेनः वेणीं बध्नाति*
नेपथ्ये*
महासमरानलदग्धशेषाय स्वस्ति भवतु राजन्यकुलाय ।
वेर्से_६।४२
क्रोधान्धैर्यस्य मोक्षात्क्षतनरपतिभिः पाण्डुपुत्रैः कृतानि $ प्रत्याशं मुक्तकेशान्यतुलभुजबलैः पार्थिवान्तःपुराणि &
कृष्णायाः केशपाशः कुपितयमसखो धूमकेतुः कुरूणां ē̃ सो ऽयं बद्धः प्रजानां विरमतु निधनं स्वस्ति राज्ञां कुलेभ्यः ॥ ६।४२ ॥
&युधिष्ठिरः&:
देवि एष ते वेणीसंहारो ऽभिनन्द्यते नभस्तलसञ्चारिणा सिद्धजनेन ।
ततः प्रविशतः कृष्णार्जुनौ*
&कृष्णः&:
युधिष्ठिरमुपगम्य*
विजयतां निहतसकलारातिमण्डलः सानुजः पाण्डवकुलचन्द्रमा महाराजो युधिष्ठिरः ।
&अर्जुनः&:
जयत्वार्यः ।
&युधिष्ठिरः&:
विलोक्य*
अये भगवान्पुण्डरीकाक्षो वत्सश्च किरीटी । भगवन्नभिवादये ।किरीटिनं प्रति*
एह्येहि वत्स ।
अर्जुनः प्रणमति*
&युधिष्ठिरः&:
वासुदेवं प्रति*
देव कुतस्तस्य विजयादन्यद्यस्य भगवान्पुराणपुरुषो नारायणः स्वयं मङ्गलान्याशास्ते ।
वेर्से_६।४३
कृतगुरुमहदादिक्षोभसम्भूतमूर्तिं $ गुणिनमुदयनाशस्थानहेतुं प्रजानाम् &
अजममरमचिन्त्यं चिन्तयित्वापि न त्वां ē̃ भवति जगति दुःखी किं पुनर्देव दृष्ट्वा ॥ ६।४३ ॥
अर्जुनमालिङ्ग्य*
वत्स परिष्वजस्व माम् ।
&कृष्णः&:
महाराज युधिष्ठिर
वेर्से_६।४४
व्यासो ऽयं भगवानमी च मुनयो वाल्मीकिरामादयो $ धृष्टद्युम्नमुखाश्च सैन्यपतयो माद्रीसुताधिष्ठिताः &
प्राप्ता मागधमत्स्ययादवकुलैराज्ञाविधेयैः समं ē̃ स्कन्धोत्तम्भिततीर्थवारिकलशा राज्याभिषेकाय ते ॥ ६।४४ ॥
अहं पुनर्दुरात्मना चार्वाकेण विप्रकृतं भवन्तमुपलभ्यार्जुनेन सह त्वरिततरमायातः ।
&युधिष्ठिरः&:
कथं चार्वाकेण रक्षसा वयमेवं विप्रलब्धाः ।
&भीमसेनः&:
सरोषम्*
क्वासौ धार्तराष्ट्रसखा पुण्यजनापसदो येनार्यस्य महांश्चित्तविभ्रमः कृतः ।
&कृष्णः&:
निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज किमस्मात्परं समीहितं सम्पादयामि ।
&युधिष्ठिरः&:
एवं पुण्डरीकाक्ष न किञ्चिन्न ददाति भगवान्प्रसन्नः । अहं तु पुरुषसाधारणया बुद्ध्या सन्तुष्यामि । न खल्वतः परमभ्यर्थयितुं क्षमः । पश्यतु देवः ।
वेर्से_६।४५
क्रोधान्धैः सकलं हतं रिपुकुलं पञ्चाक्षतास्ते वयं $ पाञ्चाल्या मम दुर्नयोपजनितस्तीर्णो निकारार्णवः &
त्वं देवः पुरुषोत्तमः सुकृतिनं मामादृतो भाषसे ē̃ किं नामान्यदतः परं भगवतो याचे प्रसन्नादहम् ॥ ६।४५ ॥
तथापि प्रीततरश्चेद्भगवांस्तदिदमस्तु ।
वेर्से_६।४६
अकृपणमरुक्श्रान्तं जीव्याज्जनः पुरुषायुषं $ भवतु भगवन्भक्तिर्द्वैतं विना पुरुषोत्तमे &
दयितभुवनो विद्वद्बन्धुर्गुणेषु विशेषवि- ē̃ त्सततसुकृती भूयाद्भूपः प्रसाधितमण्डलः ॥ ६।४६ ॥
अपि च
वेर्से_६।४७
अवनिमवनिपालाः पान्तु वृष्टिं विधत्तां $ जगति जलधराली शस्यपूर्णास्तु भूमिः &
त्वयि मुरनरकारौ भक्तिरद्वैतयोगा- ē̃ द्भवतु मम सुदीर्घं हव्यमश्नन्तु देवाः ॥ ६।४७ ॥
&कृष्णः&:
एवमस्तु ।
इति निष्क्रान्ताः सर्वे*
इति षष्ठो ऽङ्कः ।
समाप्तमिदं वेणीसंहारं नाम नाटकम् ।
इदं च विदग्धस्निग्धवियोगदुर्मनसा विप्रलपितं तेन कविना ।
काव्यालापसुभाषितव्यसनिनस्ते राजहंसा गता-
स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्यास्तु वाचः सताम् ।
सालङ्काररसप्रसन्नमधुराकाराः कवीनां गिरः
प्राप्ता नाशमयं तु भूमिवलये जीयात्प्रबन्धो महान् ॥