भीष्मप्रतिज्ञा

[[भीष्मप्रतिज्ञा Source: EB]]

[

भीष्मप्रतिज्ञा

ब्रह्मज्ञान नितान्त चिन्तनरतं स्तौमीह विद्यामलम् ।
ध्यानात्तप्रणवादि वेदपठने स्वान्तं परं तोषितम् ।
सन्ध्यावन्दन वीतिहोत्रसवन प्राप्ताधिकश्रीयुतम् ।
नित्यं सक्रमवर्तनावलिरतं श्रीब्रह्मचर्याश्रमम् ॥

नान्द्यन्ते

सूत्रधार – हञ्जे ! हञ्जे ! त्वरस्व त्वरस्व (अनागच्छतीं विलोक्य) बत विलम्बनं भवति । लोके विद्यमान जनशृतिः तथ्या भवति ।

स्त्रियोहि नाम लोकेस्मिन् । प्रसिद्धाः मन्दवर्तने ।
स्वयं ता नविजानन्ति । ज्ञातुं नेच्छन्ति जीवने ॥

नटी – (प्रविश्य) किं भवान् स्त्रीलोकं टीकां करोति । स्त्रीलोकमुद्दिश्य टीकां कर्तुं ते अधिकारः नास्ति । ताः शक्तिस्वरूपिण्यः । सर्वं कर्तुं समर्थाः । पुरुषेभ्यः ते न्यूनाः न भवन्ति । (इति सक्रोधं वदति)

सूत्रधारः – अहो न भणामि । शान्ता भवतु भवती । अहं किं कथयामि तत् शृणु ।

नटी – हां श्रावय ।

सूत्रधारः – हञ्जे ! अद्य भीष्म-प्रतिज्ञा नाम नाटकं प्रयोक्तुं उद्युक्तास्मः ।

नटी – भोः ! भवान् कालपरिवर्तनां विलोक्यापि सर्वदा प्राचीन नाटकानि प्रदर्शयति, न मे रोचते तत् ।

सूत्रधारः – सर्वकर्मणः मूलकारणं भवति।

नटी – किमत्र कारणं विद्यते इति मे प्रश्नः ।

सूत्रधारः – आधुनिक नाटकानि तत्कालीन विषयेण सहितानि कतिपय दिवसेषु रङ्गमञ्चेषु प्रदर्शयन्ते नटनासक्तसामाजिकैः । किन्तु तानि नाटकानि कदापि शाश्वतत्वं न भजन्ते ।तानि सर्वाणि मघानक्षत्रे जनित्वा पूर्वायां म्रियन्ते । प्राचीन नाटकानि सत्यधर्मं प्रतिष्ठितानि सर्वदा रसेन नवनवोन्मेषतां भजन्ते । तस्मात् कारणात् प्राचीन नाटकानि प्रदर्शयितुं समुत्सुकोऽस्मि ।

प्राचीनं सुस्थिरं लोके । नवीनं चञ्चलं सदा ।
तत्वान्वेषण लोकस्य । प्राचीनं शाश्वतं भवेत् ॥

नटी – केचन प्राचीन भावुकान् विमर्शयन्ति निन्दन्ति च ।

सूत्रधारः – भवतु नाम, भिन्न रुचिर्हि लोकः । मह्यं यत् रोचते, योग्यं भासते तदहं करिष्यामि ।

निन्दन्तु मां प्रजा नित्यम् । प्राचीने लग्नमानसम् ।
प्राचीनं दर्शयाम्यत्र । प्राचीने रचयामि च ॥

नटी – भवान् नव समाजे वर्तमानोऽपि, प्राचीन साम्प्रजायवादी भवति ।

सूत्रधारः – अहं प्राचीनवादी । लोके सामाजिकानां यत् नवीनं नवीनमिव भासते, तत् सर्वं मम प्राचीनमिव भासते यतः ।

बालानां प्रकृतिस्सर्वा। नवीना भासते प्रिया ।
प्राचीना सा विभात्येव । तत्वज्ञानां विशेषतः ॥

नटी – सम्पक् समर्थनेन प्रतियादितः भवदीय आशयः । कोऽयं कविः ।

सूत्रधारः – गीर्वाणान्ध्रभाषाप्रवीणः महाकविः संस्कृतभाषा प्रचारकः पण्डित् परिक्षित् शर्मा ।

नटी – किमयं गीर्वाणसाहित्ये प्रथितयशाः ।

सूत्रधारः – सत्यमेवायं प्रथितयशाः । अयं ललित गीतालहरीं यशोधरा महाकाव्यं (विंशति सर्गात्मकं) अक्षयगीत रामायणं (सप्तपदी) इत्यादिकं श्रव्यकाव्यचयं अपिच सप्तविंशति नाटकात्मकं परीक्षिन्नाटकचक्रं नाम दृश्य काव्यं च विलिख्य विंशतितम शताब्दे गीर्वाणवाणीं अवाकिरत् भूमण्डले ।

नटी – अहं पर्युत्सुका भवामि पात्रग्रहणे ।

सूत्रधारः – (आकर्ण्य) स्यन्दनस्य स्निग्धगम्भीरनिर्घोषः श्रूयते । (इतस्ततः पश्यन्) सत्यमेव राजा शन्तनुः यमुनातीरे विहर्तुं समायाति सारथिद्वितीयः । एहि गच्छावः । (इति निष्क्रान्तौ)

(रथादवतीर्य, ततः प्रविशति शन्तनुः)

(यमुना नद्यः तीरे विचरन् शन्तनुः पूल्लकितगात्रः एवं मनुते)

शन्तनुः – (दृष्ट्वा) इयं यमुना । अस्याः जलं कामिनीलोचन कज्जलमिव श्यामलं भवति । अयं भगवतः श्रीकृष्णस्य रहः केलीनां अनुकूलः प्रदेशः अभवत् । राधा-माधवयोः रस स्यन्दिनीभिः केलीकथाभिः इयं परिपूर्णा । अस्याः नद्याः तीरे सर्वोऽपि जन्तुः शृङ्गाररसेन परिप्लावितान्तरङ्गः भवति । इयं नदी प्रेमवाहिनी । सर्वेषां पापक्षालनेन इयं श्यामलतां प्राप्तवती । अत्र सर्वत्र भूरुहाः वल्लर्यश्च पुष्पभारैखनताः । ताः पुष्पवत्यः सञ्जाताः इति मत्वा त्रपाभरेण नितान्त नामिताः भवन्ति ।

अहो एतेषां पुष्पाणां गन्धः प्राक्तन संस्कारदीन् उद्बोधयन् परिमलेन नासापुटं परमसुखदं करोति । चेतः अमन्दानन्द सम्भरितं वर्तन्ते । अत्र कलकण्ठमदकीर कलकलध्वनय श्रुतिपुठं सुखावहं कुर्वन्ति । अयं मन्दसमीरः विचित्रगतिभिः भावनापूर्णं चेतः शरीरञ्च पुलकितं करोति । चित्रमेतत् हरिणाः विश्रम्भयुताः व्यवहरन्ति । इदं स्थानं आनन्दानां आयतनं भवति ।

अचेतनं यदुद्भूतम् । भ्राजते रसनिस्तुलम् ।
चैतन्यविषये वक्तुम् । नैव शब्दा भवन्ति मे ॥

(अन्यत्र दृष्ट्वा) इतः आलिकुलसङ्कुलाकलित सरोजकुडमलानां पङ्क्तयः सरस्सु विराजन्ते । इयं भूमिः शरच्चन्द्र चिह्निकासु पर्वतायित सिकतेषु सर्वदा स्वच्छन्दाच्छ समीरणमालिकाभिः समलङ्कृतः पवित्रतायाः स्थानं भवति । भवतु अहं अस्यां नद्यां पाणिपादं प्रक्षाल्य पानीयं पिबेयम् । (इति नमति)

(सत्यवती यानपत्रे उपविश्य गायन्ती आस्ते)

गीतम् (पीलुरागे)

मदन नव मदन ॥ ध्रु. ॥

नवयौवन हृदयविमोहन । यौवतहृदय प्रशासन ।
सततं सरस विचालन । सुन्दर दर्शन मञ्जुल भावन ॥ 1

मधुरं मधुरं ते हसनम् । मधुरं मधुरं ते भणनम् ।
मधुरं विरहे तपनम् । मधुरं ते संस्मरणम् ॥ 2

तव भावनजनित सुखोऽयम् । जनयति शतवर्षसुखम् ।
कोऽपि न पश्यति तव वदनम् । यौवतहृदय बहुतुदनम् ॥ 3

शन्तनुः – (आकर्ण्य, पानीयं पीत्वा) कुतोऽत्र गीत समुत्पत्तिः (समन्ततः विलोक्य) अहो अत्रायं परिसरः मधुरः गन्धावृतः चेतः उन्मादयति । अयं पुष्पवत्याः लतायाः गन्धः भवति । अयं गन्धः अयं गानविशेषः नाशा पुढं श्रवणेन्द्रियं च उन्मादीकृत्य मनः सन्तोषपारवश्यतां प्रापयति । भवतु गत्वा पश्यामि । (इति कतिचित् पदानि गत्वा, आत्मगतम्) अहो कैषा सौन्दर्यमयमूर्तिः । एषा मम एवं भासते ।

किमेषा गलिता नाकात् । रम्भा काञ्ची गुणाकृती ।
उतस्रस्ता जलेजानाम् । मन्दाकिन्याश्च मालिका ॥

अस्याः दर्शनानुपदमेव सैङ्गिकसुखः मां प्रेरयति तया भाषितुम् । (इति कतिचित् पदानिगत्वा) यानपात्रे आसीना एषा मम एवं प्रतिभाति ।

जलेऽस्मिन् यानपात्रे सा । तन्वीनीलोत्पलाक्षिणी ।
उपविष्टाऽस्ति तूणीरे । मारबाण इव स्वयम् ॥

एषा मां स्वीय सौन्दर्येण शनैः शनैः निकटं समाकर्षति । भवतु पृच्छामि तां किञ्चित् । (समीपं गत्वा) तरुणि ! काऽसि ? किमर्थं एकाकिनी अत्रोऽपविष्ठाऽसि ।

सत्यवती – (ससम्भ्रमं उत्थाय) कोऽसि त्वं एकान्त वासिनीं युवतीं विलोक्य पृच्छसि !

शन्तनुः – युवती ! अहं राजा । मम नाम शन्तनुः ।

सत्यवती – (उत्थाय) भवान् राजा इति मया शृतम् । नमांसि महाराज ।

शन्तनुः – किं त्वया अधुना गीतम् ?

सत्यवती – हां अधुना मया गीतम् । गानं सम्यक् न जानाम्यहम् ।

शन्तनुः – त्वं गानं सम्यक् जानासि । ते गानं अतीव सुन्दरं अस्ति । तव गीतेन समाकृष्टोऽहं अत्रागच्छम् ।

सत्यवती – (लज्जिता) गानं सर्वं प्राणिभ्यः अत्यन्तं रोचते ।

शन्तनुः – गानं सर्वप्राणिभ्यः न रोचकं भवति, किन्तु अल्पसङ्ख्याकेभ्यः रोचकं भवति ।
सत्यवती – सत्यमेव । किन्तु गानं देवदत्तं भवति ।

शन्तनुः – भवत्या सम्यमुक्तम् । त्वं एकाकिनी अत्र किमर्थं उपविष्टाऽसि ।

सत्यवती – अयं मे तात विनियोगः ।

शन्तनुः – तव पितुः नाम किम् ?

सत्यवती – मम पितुः नाम दाशराजः ।

शन्तनुः – त्वया अत्र किं क्रियते ?

सत्यवती – याताऽयात जनसौकर्यार्थं धर्मेण तरीं चालयामि । अयं मम पितुः आदेशः ।

शन्तनुः – तव पिता त्वां अस्मिन् कर्मणि नियोजितः ।

सत्यवती – हां मां अस्मिन् कर्मणि नियोजितवान् मे पिता ।

शन्तनुः – शिरीषमृद्वङ्गी भवती क्व तरीतारणं क्व । शृणु तन्वि ।

मुग्धे सरस तन्वङ्गि । जले लसित पद्मिनि ।
व्याकिरन्त्यसि गन्धन्ते । भावनारूपशालिनी ॥

युवति । ते यौवनमादकता ते रूपलावण्यं तव विलासादिकं ते शरीरधर्म गन्धानिलश्च मां बहुधा उन्मादयन्ति । अहं त्वां चकमे त्वं मे भार्या भवितुमर्हसि ।

सत्यवती – महाराज मे पिता दाशकुलानां राजा । तस्य आज्ञयाविना अत्र पत्रचालनमपि न भवति । तस्याज्ञा अस्माकं सर्वेषां शिरोधार्या भवति ।

शन्तनुः – सुन्दरि ! अहमस्य लोकस्य राजा । अहं किं ब्रवीमि तत् त्वं शृणु । इदं कर्म तवानुचितम् । त्वं त्वदीय रूपलावण्यादिभिः राज्ञी भविता । शृणु मद्वाक्यं, त्वं मे जीवन सहभागिनीभव । स्वर्गसुखमनुभव ।

सत्यवती – राज ! नाहमस्मिन् विषये वक्तुं शक्ताऽस्मि । (इति लज्जां अभिनयति)

शन्तनुः – अहो त्वं लज्जावती जाता । त्वं परमरमणीया भाससे लज्जायाम् ।

लज्जा भूषित तन्वङ्गी । भ्राजते हृदयङ्गमा ।
कुडमलैः पल्लवैर्युक्ता । पुष्पवल्लीब मञ्जुला ॥

अहं तव सौन्दर्येण स्वात्मानं विस्मृत्य तव नामापि प्रष्टुं विस्मृतः । अधुना त्वं कथय ते नाम किम् ।

सत्यवती – मम नाम सत्यवती ।

शन्तनुः – अहो परमरमणीयं भवति सर्वम् ।

त्वयाऽकृष्ट मनोभावः । शरीरेणास्मि साम्प्रतम् ।
भ्रान्तिर्भवति तन्वङ्गि । पाणिग्रहणमस्तुनौ ।

त्वदीयं सर्वमपि मे सुन्दरं भवति तत् मे चित्तं च तुदति । ते पिता कुत्र वसति ।

सत्यवती – अत्रैव अस्याः नद्याः तटे पक्कणे वसति ।

शन्तनुः – रमणि ! त्वं सर्वशः मे कामोन्मादकारयित्री भासि ।

मधुरं बहु पुष्पेषु । भ्रमरोऽयं निपीय च ।
मधुं पातुं समायातलः । सहकारं प्रियं प्रिये ॥

सुन्दरि, मया लोके बह्व्यः तरुण्यः दृष्टपूर्वाः आसन् किन्तु त्वत्समानां नाहमपस्यं अद्यावधि ।

सत्यवती – महाराज !

भाषितं ते प्रभो जाने । नाहं किमपि लज्जया ।
किन्तु जानामि कन्दर्पम् । मदधीनं मदालसा ॥

शन्तनुः – अहो अमृततुल्यं ते भाषणम् । सत्यवति त्वं तव गृहस्य मार्गमादेशय ।

सत्यवती – (उत्तिष्ठति) एहि प्रभो इतः इतः । (इति मार्गमादिशति)

शन्तनुः – तामनुसरन् (आत्मगतम्)

कान्ता प्रिया मन्मथराज्य राज्ञी । प्रशास्ति मां भूतलराज्य भूपम् ।
कामान्धकारेण परीतचित्तः । भजामि तां मोहन मन्त्रमुग्धः ॥

(इति गच्छति)

(यवनिका पतति)

***************************************************************

.

द्वितीयं दृश्यम्

(दाशराजगृहम् । दाशराजः मित्रैस्यार्थं गायन् गायन् जालं संयोजयति)

गीतम् (मालकौसरागे)

दाशराजः – आयाहिरे ! आयाहिरे ! आयाहिरे !
विहायसे सरागरश्मिचन्द्रमाः
तनोति सान्द्ररोचि मञ्जु चन्द्रिकाः
सिन्धुरावघोषिता रोदसी कन्दराः
यान्तु यानपात्र चालकास्सधीवराः ॥

अनुचराः – याहिरे याहिरे याहिरे याहि ॥

दाशराजः – चन्द्रहासमज्जिता तामसी प्रिया
सर्वदेह कान्तिपुञ्ज मञ्जुवल्गुना
निश्चला विभासते तारालोचना
यान्तु यानपात्र चालकास्सधीवराः ॥

अनुचराः – याहिरे याहिरे याहिरे याहि ॥

दाशराजः – तन्तुजाल जाल वेत्रयष्टि वेल्लिताः
कामिनी विलास रासकेलि लोलुपाः
वीरपान घूर्णमान मानसोर्मिकाः
यान्तु यानपात्र चालकास्सधीवराः ॥

अनुचराः – याहिरे याहिरे याहिरे याहि ॥

दाशराजः – आयाहिरे आयाहिरे आयाहिरे ॥

मीनग्राहकः – महाराज शृतोस्म्यहं यत् भवतां कन्यायाः विवाहः अस्मिन् वसन्तर्तौ कर्तुमिच्छतिः भवान् इति ।

दाशराजः – प्रयत्नाः विधीयन्ते वसन्तर्तौ कुर्तुम् । किन्तु अनुरूप वरप्राप्तिः एतावत्पर्यन्तं न जाता ।

नौचालकः – वरान्वेषणं कुतः भोः । अनुरूपोवरः कन्यायाः पादसन्निधिं समागमिष्यति । मा ते चिन्ता भवतु ।

दाशराजः – सम्यक् भणितं त्वया । किन्तु मानवप्रयत्नः कर्तव्यं खलु ?

मीनग्राहकः – वयं निमित्तमात्राः । सर्वं दैवनिर्णयानुसारेण भविष्यति । कुत्र लिखितं अस्यै न कोपि जानाति ।

नौचालकः – यदि समयः अनुरूपः भवति सर्वं विनायासेन भविष्यति ।

दाशराजः – हां वयं समय निरीक्षकाः । यदा वमनस्य कल्याणस्य च समयाविर्भावः भवति तदा विनावरोधं द्वयं भवति ।

नौचालकः – अधुना भवतः पुत्री नौचालने तज्ञा अस्ति ।

दाशराजः – अयं अस्मदीयसाम्प्रदायः यत् बालिका-बालकौ नावं चालयितुं समर्थौ भवतः तौ कुटुम्बचालने योग्यतज्ञौ भवतः इति ।

मीनग्राहकः – अर्थात् भवतः कन्या सत्यवती अधुना कुटुम्बमपि सौख्येन चालयितुं शक्ता भविष्यति ।

दाशराजः – हाम् ! सत्यमेव । सा कुटुम्बं चालयितुं शक्ता भविष्यति ।

नौचालकः – राजवंशजानां अनुरूपेण गान्धर्वविवाहेन विवाहः कर्तव्यः ।

दाशराजः – वयं राजानः । तथैव करिष्यामः । तस्मात् तां नौचालने यातायातजननदीतारणे नियुक्तावानस्मि । यदि यः कोऽपि सुन्दरः युवा तस्याः दृष्टिपथं गमिष्यति तर्हि तयोः प्रेमाविर्भावः भविष्यति तदा अस्मदीयः प्रयत्नः सुलभतमः भविष्यति इति बुद्‌ध्या सर्वं समालोच्य मया कृतम् ।

नौचालकः – राजवंशजानां राजवंशजाः योग्याः भवन्ति न चान्ये । यदि प्रेम अन्य वर्गैः भविष्यति चेत् तत् प्रेम जीवनसौख्ये अन्तरायकारकं भविष्यति, तस्मात् विवाहे समानधर्मः भवितव्यः ।

मीनग्राहकः – अन्नपानविषये सदि समानता स्यात् तर्हि विवाहः येनकेनापि योग्यः भवति । असमानता अन्नपान विहारेषु भवति ।

दाशराजः – मया निश्चितं यदि कन्यायाः विवाहः राजवंशजैः निश्चितः भवति तर्हि विवाहः कर्तव्यः नोचेत् नहि ।

मीनग्राहकः – यदि कन्यायाः प्रेम अन्यैर्भवति चेत् विवाहः न भवति किम् ?

दाशराजः – तं विवाहं नाहमङ्गीकरोमि । अहं साम्प्रदायानुवादी । लोकाः मां निन्दन्तु । नाहं अस्मात् पथः एकम्पदं अपि चलामि ।

(ततः प्रविशति शन्तनुद्वितीया सत्यवती)

सत्यवती – पितः नमांसि । अहं आगतास्मि ।

दाशराजः – (शिरः उन्नमय्य शन्तनु द्वितीयां तां विलोक्य) बाले कोऽयं पुरुषः ।

सत्यवती – (लज्जिता निर्गच्छति गृहस्यान्तः)

शन्तनुः – दाशराजा अहं कथयामि कोऽहं शृणु । अहं राजा शन्तनुः ।

दाशराजः – अयि सुहृदौ यूवां गच्छतात् । (इति आदिशति, तौ गच्छतः) (ससम्भ्रमं उत्थाय विनीतः बद्धाञ्जलिः) अहो भवन्तः महाराजानः । दरिद्रस्य मम गेहं समागताः । धन्योऽस्मि महाराज । इदं मे भाग्यम् । उपविष्टुमपि मम गृहे आसनादिकं पीठादिकमपिनास्ति । (इति सम्भ्रमेण एकं दारुफलकं आनीय उपविष्टुं स्थापयति)

शन्तनुः – (दारु फलकोपरि उपविशति)

दाशराजः – (तिष्ठन्) महाराज । यद्यहं काकेन सन्दिष्टोऽस्मि तर्हि भवतः चरणसन्निधिमागत्य निवासितोऽस्मि । किमर्थं भवन्तः बहु कष्टेन आगतवन्तः । मत्तः कः सहायमपेक्ष्यते ।

शन्तनुः – दाशराज ! त्वमपि उपविश ।

दाशराजः – (उपविशति एकस्मिन् दारुफलके)

शन्तनुः – इदं मम कर्म । तस्मात् स्वयं अहं आगतोऽस्मि ।

दाशराजः – कर्म भवदीयं उत ममाकीनं भवतुनाम अहमेव तव सन्निधि माहूतव्यः ।

शन्तनुः – एतत् मम कार्यं तस्मात् ममागमनं योग्यं भवति ।

दाशराजः – अनृगृहीतोऽस्मि । मया किं कर्तव्यं विद्यते आज्ञापयन्तु भवन्तः ।

शन्तनुः – दाशराज अहं त्वां एकं प्रष्टुं समागतोऽस्मि ।

दाशराजः – भवन्तः राजानः देशपालकाः महापुरुषाः वयं अल्पाः दरिद्राः । अस्मत्तः भवद्भ्यः किमपेक्षणीयं विद्यते कथयन्तु भवन्तः ।

शन्तनुः – अहं भवतः कन्यां परिणेतुं इच्छामि ।

दाशराजः – (ससम्भ्रमम्) अहो भवद्भिः किमुदीर्यते ।

शन्तनुः – अहं सत्यं मनसा कथयामि ।

दाशराजः – महाराज एतत् सर्वं मे स्वाप्निकं भाति ।

शन्तनुः – एतत् सर्वं सत्यं तथ्यं भवति न स्वाप्निकम् ।

दाशराजः – महाराज ! आवयोः समागमः न योग्यः सः असाम्प्रदायकः ।

शन्तनुः – कथं भवान् ब्रवीति ।

दाशराजः – अयं तु साम्प्रदायः ।

शन्तनुः – जानाम्यहं तथापि पृच्छामि ।

दाशराजः – महाराज त्रिदशालयः क्व शृगालः क्व । द्वयोर्मध्ये महदन्तरं विद्यते ।

शन्तनुः – यदि त्वं मम कामनां पूरयसिचेत् अन्तरं नैव भवति ।

दाशराजः – एषा वरवर्णिनी जातमात्रैव योग्यवराय दातव्या इति ।

शन्तनुः – का ते भावना ।

दाशराजः – “समानशील व्यसनेषु सख्यम् ।” कलहस्य सम्बन्धस्य, स्नेहस्य च अर्हता समानता च आवश्यके नोचेत् ते न शोभन्ते ।

शन्तनुः – दाशराज ! समानता असमानता च निर्धारकाः वयं मानवाः एव । यत्र रत्नं विद्यते तत् धराधिपानां ग्राह्यं भवति । अयं साम्प्रदायः अहमपि साम्प्रदायमनुसृत्य कन्यारत्नमिदं ग्रहीतुमिच्छामि ।

दाशराजः – कन्यारत्नविषये परम्परा एवं न विद्यतेऽति मे भावना ।

शन्तनुः – रत्नहारितु पार्थिवः । तस्मात् कन्या रत्नहारिनः मम प्रार्थनां भवान् अङ्गीकरोतु ।

दाशराजः – महाराज ! स्थार्थाय व्यक्तिशः शतशः नियमाः मा भवन्तु ।

शन्तनुः – आहां राजानौ । आवयोः समानशीलता विद्यते ।

दाशराजः – राजन् । भवान् स्वार्थाय कथयसि धर्मतः नहि । अहं मत्स्यराजा । भवान् मर्त्य राजा । अत्र महदन्तरं विद्यते । अत्र समानता नास्ति ।

शन्तनुः – भगवतः सृष्ट्यां तस्य दृष्ट्यां वयं सर्वे मानवाः समानाः ।

दाशराजः – महाराज ! राजानः बहुपत्नीकाः कथमहं कन्यां तुभ्यं दास्यामि ।

शन्तनुः – भवान् जानाति यत् राज्ञां बहुपत्नीकत्वं शास्त्रसम्मतमिति ।

दाशराजः – बहुपत्नीकस्य राज्ञः का धर्मपत्नी भवितुमर्हति ।

शन्तनुः – आदौ परिणीता धर्मपत्नी भवति ।

दाशराजः – तस्मात् अहं मम कन्यां तुभ्यं न दातुमिच्छामि ।

शन्तनुः – धर्मुपत्नी विनियोगेन भवितुमर्हति ।

दाशराजः – तथा यदि स्यात् भवान् एनां धर्मपत्नीं, मत्तः प्रार्थितः सत्येन समयं करोतु मम ।

शन्तनुः – अहं कर्तुं व्यवसितः । किमिति ।

दाशराजः – महाराज । कन्यां इमां ते प्रदद्यां त्वत्समः मे वरः जातु न भविष्यति ।

शन्तनुः – किमपेक्ष्यते भवता पृच्छतु ।

दाशराजः – महाराज धर्मपत्नीव एनां स्वीकृत्य अस्यां यः पुत्रः जायते सः राजा भविता । तवानन्तरं नान्यः कश्चन अभिषेक्तव्यः भवति । तथा यदि विधीयते अहं दित्सामि कन्यामेनाम् ।

शन्तनुः – दाशराज ! अवाञ्छनीयं याचितं भवता ।

दाशराजः – महाराज ! अहं पक्कण निवासी । भवान् स्वयं मत्सकाशं कन्यार्थं समागतः अस्ति । मयाचोक्तं समानशीलता नास्तीति । अनन्तरं यदि कन्यायाः द्रोहः भविष्यति चेत् कथम् ? तस्मात् दीर्घ दृष्ट्या एवं मया पृष्टोस्ति भवान् ।

शन्तनुः – (निर्विण्णः, व्यथया) अहो दाशराज ! अयाच्यं याचितं भवता । दाशराज मे शिरोवेदना भवति गृहं गन्तुं मे मनः इच्छति । (इत्युत्थाय गच्छति)

दाशराजः – अहो किं कृतं मया । (इति मस्तकन्यस्तहस्तः चिन्ताक्रान्तः भवति ।)

(यवनिका पतति)

***********************************************************

.

तृतीयं दृश्यम्

(ततः प्रविशति देवव्रतः वृद्धामात्यश्च, देवव्रतः एकस्मिन् पीठे उपविशति, वृद्धामात्यः तस्य पुरतः बद्धहस्तः तिष्ठति)

देवव्रतः – अमात्यवर्य ! मे पिता ह्यः प्रभृति एकान्ते निवसन् चिन्तयन् आस्ते तत्र कारणं किमिति मे प्रश्नः ।

अमात्यः – देव ! अहमपि तदेव चिन्तयामि । किन्तु महाराजानां स्थितिमुद्दिश्य प्रष्टुं अहं अशक्तः अभवम् ।

देवव्रतः – पिता न केनापि सबन्धं विना मौनेन कालं यापयति ।

अमात्यः – ममापि कारणं दृष्टिपथं नायाति ।

देवव्रतः – इतः पूर्वं अर्थात् दिनद्वयात्प्राक् पिता सन्तोषेण यमुनातीर सञ्चारार्थं जगाम ।

अमात्यः – जानाम्यहम् ।

देवव्रतः – तदा ते अत्युत्साहिनः अदृश्यन्त ।

अमात्यः – अधुना यमुनातीरसञ्चारेण बहु परिश्रान्ताः जाताः इति ममाभिप्रायः ।

देवव्रतः – परिश्रान्ताः उत्साहिनः दृश्यन्ते । ततः एषा चिन्ता यमुनातीर सञ्चारेण सञ्जाता नहि ।

अमात्यः – तर्हि कस्मात् कारणात् उत्पन्ना इयं स्थितिः (इति चिन्तयति)

देवव्रतः – अमात्यवर्य ! भवन्तः अनुभवज्ञाः सर्वमपि जानन्ति किन्तु हृद्गताभिप्रायं सत्वरं न प्रकटयन्ति ।

अमात्यः – तथामावद युवराज । इयं परिश्रान्तेन समुद्‌भूता वेदना भवति न त्वन्या ।

देवव्रतः – पितृपादानामवस्था मे समक्षं दृश्यते ।

परिश्रान्तेन जाता न । मन्ये पितृ विचारणा ।
पिण्डीकृत्यास्य चित्तन्तु । दहतीवाऽस्ति वेदना ॥

अमात्यः – तनय त्ममेव पितुः समीपं गत्वा तद्वेदनायाः कारणं पृच्छ ।

देवव्रतः – अमात्यवर्य ! अहं तस्य पुरतः बालः । ते कदापि वैयक्तिक विषयं मे न कथयन्ति तस्मात् अमात्यवर्याः अनुभवज्ञाः भवन्तः पितरं पृच्छन्तु ।

अमात्यः – वयं तेषां समक्षं गत्वा प्रष्टुं सङ्कोचमनस्काः भवामः । तस्मात्

मूर्धाभिषिक्तं गत्वा त्वम् । आपृच्छस्व परं सुत ।
नान्यः शक्तो तथा गन्तुम् । प्रजानां पितरं स्वयम् ॥

देवव्रतः – अमात्यवर्य मया सार्थं भवानप्यागच्छतु ।

अमात्यः –तत्र मे प्रवेशः अनुचितः तनय ।

देवव्रतः – कथं भवतां प्रवेशः अनुचितः कथयन्तु भवन्तः ।

अमात्यः – तनय ! यदि कौटुम्बिक विषयः स्यात् सः विषयः युवयोर्मध्ये योग्यः भवति । कौटुम्बिक जीवनं रहस्यमयं राजते । लोकोक्तिः विद्यते खलु कौटुम्बिक जीवनं रहस्यमयं भवितव्यम् इति । तस्मात् भवता एकाकिना तत्रगमने औचित्यं विद्यते ।

देवव्रतः – भवन्तः अनुभवज्ञाः । भवदुक्तिमनुसृत्य अहमेवगच्छेयम् ।

अमात्यः – भवान् अधुना गच्छतु ।

देवव्रतः – भवतां वचनेन अहं प्रफुल्लितः अभवम् । अहं अधुनैव गच्छामि ।(इति गच्छति)

अमात्यः – (निश्वस्य गच्छति)

(यवनिका पतति)

*****************************************************************************

.

तृतीयं दृश्यम्

(ततः प्रविशति देवव्रतः वृद्धामात्यश्च, देवव्रतः एकस्मिन् पीठे उपविशति, वृद्धामात्यः तस्य पुरतः बद्धहस्तः तिष्ठति)

देवव्रतः – अमात्यवर्य ! मे पिता ह्यः प्रभृति एकान्ते निवसन् चिन्तयन् आस्ते तत्र कारणं किमिति मे प्रश्नः ।

अमात्यः – देव ! अहमपि तदेव चिन्तयामि । किन्तु महाराजानां स्थितिमुद्दिश्य प्रष्टुं अहं अशक्तः अभवम् ।

देवव्रतः – पिता न केनापि सबन्धं विना मौनेन कालं यापयति ।

अमात्यः – ममापि कारणं दृष्टिपथं नायाति ।

देवव्रतः – इतः पूर्वं अर्थात् दिनद्वयात्प्राक् पिता सन्तोषेण यमुनातीर सञ्चारार्थं जगाम ।

अमात्यः – जानाम्यहम् ।

देवव्रतः – तदा ते अत्युत्साहिनः अदृश्यन्त ।

अमात्यः – अधुना यमुनातीरसञ्चारेण बहु परिश्रान्ताः जाताः इति ममाभिप्रायः ।

देवव्रतः – परिश्रान्ताः उत्साहिनः दृश्यन्ते । ततः एषा चिन्ता यमुनातीर सञ्चारेण सञ्जाता नहि ।

अमात्यः – तर्हि कस्मात् कारणात् उत्पन्ना इयं स्थितिः (इति चिन्तयति)

देवव्रतः – अमात्यवर्य ! भवन्तः अनुभवज्ञाः सर्वमपि जानन्ति किन्तु हृद्गताभिप्रायं सत्वरं न प्रकटयन्ति ।

अमात्यः – तथामावद युवराज । इयं परिश्रान्तेन समुद्‌भूता वेदना भवति न त्वन्या ।

देवव्रतः – पितृपादानामवस्था मे समक्षं दृश्यते ।

परिश्रान्तेन जाता न । मन्ये पितृ विचारणा ।
पिण्डीकृत्यास्य चित्तन्तु । दहतीवाऽस्ति वेदना ॥

अमात्यः – तनय त्ममेव पितुः समीपं गत्वा तद्वेदनायाः कारणं पृच्छ ।

देवव्रतः – अमात्यवर्य ! अहं तस्य पुरतः बालः । ते कदापि वैयक्तिक विषयं मे न कथयन्ति तस्मात् अमात्यवर्याः अनुभवज्ञाः भवन्तः पितरं पृच्छन्तु ।

अमात्यः – वयं तेषां समक्षं गत्वा प्रष्टुं सङ्कोचमनस्काः भवामः । तस्मात्

मूर्धाभिषिक्तं गत्वा त्वम् । आपृच्छस्व परं सुत ।
नान्यः शक्तो तथा गन्तुम् । प्रजानां पितरं स्वयम् ॥

देवव्रतः – अमात्यवर्य मया सार्थं भवानप्यागच्छतु ।

अमात्यः –तत्र मे प्रवेशः अनुचितः तनय ।

देवव्रतः – कथं भवतां प्रवेशः अनुचितः कथयन्तु भवन्तः ।

अमात्यः – तनय ! यदि कौटुम्बिक विषयः स्यात् सः विषयः युवयोर्मध्ये योग्यः भवति । कौटुम्बिक जीवनं रहस्यमयं राजते । लोकोक्तिः विद्यते खलु कौटुम्बिक जीवनं रहस्यमयं भवितव्यम् इति । तस्मात् भवता एकाकिना तत्रगमने औचित्यं विद्यते ।

देवव्रतः – भवन्तः अनुभवज्ञाः । भवदुक्तिमनुसृत्य अहमेवगच्छेयम् ।

अमात्यः – भवान् अधुना गच्छतु ।

देवव्रतः – भवतां वचनेन अहं प्रफुल्लितः अभवम् । अहं अधुनैव गच्छामि ।(इति गच्छति)

अमात्यः – (निश्वस्य गच्छति)

(यवनिका पतति)

*****************************************************************************

.

चतुर्थं दृश्यम्

(शय्यायां उपविश्य राजा शन्तनुः चिन्तयति)

शन्तनुः – (आत्मगतम्) अहो किं तस्याः सौन्दर्यम् । एक दृष्टिपातेन मदनः मां विवशं चकार । कथमहं बाधामिमां सहिष्यामि । दाशराजः हिरण्याक्षवरान् पप्रच्छ । अहं कथं दातुं शक्तः । विद्यते खलु मे पुत्रः देवव्रतः ।

तं विहाय सत्यवत्याः पुत्रं कथमहं कुर्यां राजानम् । अहो मे हृदयं कामेन तप्तं भवति । बुद्धिस्तु चिन्तास्पदा विचेष्टते । अहं मे मनोगताभिप्रायं कस्मै वक्ष्यामि । लोकः मां पितरं विरहेन दूयमानमानसं विलोक्य विनिन्दिष्यति । चोरस्य वृश्चिका दंशनमिव सर्वं सोढ्वा प्रवर्तितव्यम् । अहो मे राज्ञः स्थितिः एवं सञ्जाता । सानितान्तं मे दृष्टिपथं समायाति । मां प्रेरयति परिरम्भसुखाय । यदि वृद्धामात्यादयः ज्ञास्यन्ति मे स्थितिं मां शतथा मनसि निन्दिष्यन्ति । अहं लोके हास्यस्पदस्थानं भजिष्यामि । मे पुत्रः देवव्रतः विवाहयोग्यकालपन्नः राजते । तं विहाय अहं सत्यवत्या विवाहं कर्तुं प्रयते । केयं मम स्थितिः । कथमेषा अघटना घटिता । किमत्र कारणम् । सर्वस्यापि कारणं भवत्येव । विना च कारणं अपिच ईश्वरेच्छां न पत्रमपि चलति । मे हृदयं प्रतिक्षणं सत्यवती सौन्दर्यदर्शनजन्य कामभावनायां अपूर्वजनित वासनायां प्रतिक्षणं संलग्नं परिदूयते । अहं तां कथं विस्मरिष्यामि । सा प्रतिक्षणं मां हावभाव पराकाष्टतां प्रापयति । परं शतथा दग्धोऽहं अनया कामनया । विरहानलसन्दग्धमानसं तदा तदा तदीय रूपाविष्कारेण आनन्दे क्रीडते च ।

स्मारं स्मारं चपलनयनां तां तपत्यन्तरात्मा ।
वारं वारं त्यजति मदनो निष्ठुरं पञ्चबाणान् ।
दर्शं दर्शं हिमकरमुखीं कम्र वक्षोज तन्वीम् ।
श्रावं श्रावं सरस वचनं मे मनः क्रीडते हि ॥

हा अहो बत । (इति शय्यायां परिदूयमानमानसः आस्ते । ततः प्रविशति द्वारपालकः लम्बकर्णः)

लम्बकर्णः – (प्रविश्य नमस्कृत्य) महाराज राजकुमारः देवव्रतः द्वारि तिष्टति भवतः द्रष्टुम् ।

शन्तनुः – (आत्मगतम्) देवव्रतः मां द्रष्टुं द्वारि तिष्टति । लम्बकर्ण तं प्रवेशय । (इति आज्ञापयति)

लम्बकर्णः – यथाज्ञापयति देवः । (इति गच्छति)

(ततः प्रविशति देवव्रतः)

देवव्रतः – नमांसि पितः । (इति नमस्करोति)

शन्तनुः – चिरञ्जीव कुमार । किमत्र कारणं विद्यते तव प्रवेशस्य ।

देवव्रतः – पितः महत् कारणं विद्यते ।

शन्तनुः – एहि उपविश अस्मिन् पीठे (इति पीठं दर्शयति)

देवव्रतः – (पीठे उपविशति)

शन्तनुः – किं कारणं विद्यते कथय अधुना ।

देवव्रतः – अयि पितृचरणाः भवन्तः दिनद्वयात्प्रभृति अतीव दूयमानमानसाः दृश्यन्ते । को हेतुः विद्यते इति सकलराजस्थानं मनसि दूयते ।

शन्तनुः – सकलराजस्थानं चिन्तयति मामुद्दिश्य ?

देवव्रतः – हां सकल राजस्थानं चिन्तयति अपि च भवतः कारणं प्रष्टुं त्रस्ता भवति । तस्मात् भवतः परितापस्य कारणं ज्ञातुम् । वृद्धामात्याः मां पेषितवन्तः ।

शन्तनुः – न कीऽपि विशेषः विद्यते तनय । शरीर धर्मः परिवर्तते । नात्र चिन्ताकार्या ।

देवव्रतः – भवतां तापः शरीर धर्मात् जातः नहि । किन्तु बौद्धिकमिति समस्त कर्मचराणां अनुमेयः ।

शन्तनुः – अनुमेयः निराधारः ।

देवव्रतः – भवन्तः दिनद्वयात् प्राक् यमुनातीर सञ्चारार्थं गतवन्तः । तदा अतिशय सन्तोषभरिताः अदृश्यन्त । यमुनातीरसञ्चारसमाप्त्यनन्तरं गृहमागतानां भवतां वदनमण्डलं चिन्ता राहुग्रस्तमिव जातं इति सर्वेषां अभिप्रायः ।

शन्तनुः – तनय यमुनातीर सञ्चारेण बहुपरिश्रान्तः अभवम् । सर्वमपि शरीरं सिमसिमायते व्यथया ।

देवव्रतः – भवन्तः अपह्नुत्यलङ्कारं कथयन्ति ।

शन्तनुः – तनय तवपुरतः मम अपह्नुत्यलाङ्कारेण प्रयोजनम् किम् ।

देवव्रतः – सः एव ममापि प्रश्नः ।

शन्तनुः – त्वं मम पुत्रोऽसि अत्र गोपनीयं न किमपि विद्यते गच्छ ।

देवव्रतः – जनक ! भवतां क्षेमकारिणः परिचर्यां कर्तुं बहवः परिचारिकाः वर्तन्ते, किमर्थमेकान्ते चिन्तनम् ।

शन्तनुः – वत्स त्वं सर्व राजास्थान मुखात् मां प्रष्टुं समागतोऽसि तस्मात् अहं कथयाभि शृणु ।

देवव्रतः – अवहितोऽस्मि पितः ।

शन्तनुः – त्वं एक एव ममापत्यम् । महति कुले शतपुत्रापेक्ष्या एकः सुपुत्रः अलम् । नाहं भूयः दारान् विवाहितुमुत्सहे । वत्स त्वं च शूरः । युद्धे ते निधनं मा भूयात् । यदि भविष्यति । (कर्णेपिधाय) शान्तं पापं शान्तं पापम् । अहं सर्वदा संशयात्मा भवामि । अयमेव व्यथयाः हेतुः । एकपुत्रत्वं अनपत्यता इति धर्मवादिनः कथयन्ति । तस्मादहं संशयमापन्नः त्वां चिन्तयामि । एतदेव कारणं नान्यत् विद्यते तात ।

देवव्रतः – पितः विदितं मया भवतः व्यथायाः हेतुः ।

शन्तनुः – त्वं न चिन्ताधीनो भव । त्वं योद्धा वीरोऽसि ।

देवव्रतः – अहं चिन्ताधीनो न भवेयम् । किन्तु भवन्तः शान्तचित्तेन स्वपन्तु । विश्रान्तिसुखमनुभवन्तु सर्वं साधु भविष्यति । मां गन्तुमाज्ञापयन्तु भवन्तः ।

शन्तनुः – कुमार त्वं ससुखं निश्चिन्तया व्यवहर । मा ते चिन्ता मां प्रति । त्वं गच्छ ।

देवव्रतः – नमस्ते पितः । (इति नमस्कृत्य गच्छति)

शन्तनुः – अयं विदित वृत्तान्तः इति मन्ये । अयं यदि सत्यं जानाति तर्हि अवश्यं मे मनोरथपूरणाय प्रयतिष्यति । अयं कार्यसाधकः । योद्धा । त्यागी च । अधुना किं कुर्याम् । विवाहयोग्य कुमारेण सहितोऽपि नैकवनिता परिवेष्टितोऽपि राजा पुनर्विवाहाय प्रयतते इति यदि लोकः जानाति मां अवश्यं परोक्षे टीकां करिष्यति । यदि एतत् योग्यं मम ? उत न योग्यम् । किन्तु विना सत्यवतीचिन्तां अहं मूकीभावं प्राप्तुं अशक्तः । एकत्र लोकापवादः अन्यत्र मनस्तापः । मे स्थितिः अधुना सर्वतः प्राणहारिणी भवति । पुरतः वापी पश्चात् पल्वलम् । कुत्र गच्छेयं कथं गच्छेयम् किं कुर्याम् । अहं शतथा चिन्ताक्रान्तः । भवतु सर्वस्य मूलकारकः कर्ता च सर्वेश्वरः । तस्याज्ञायाविना पिपीलिकापि न दंशति । सर्वत्र कार्यस्य सर्वथा कारणं वर्तते । नहि विचारणीयं सर्वं सुखान्तं भविष्यति । निद्रा मां वृणोति । निद्रया व्यपगतचिन्तः भविष्यामि । यतः ।

निद्रापरं स्थावर जङ्गमानाम् । सौख्याय हेतुर्भवतीहलोके ।
योऽयं प्रयासं भजते च निद्राम् । विनैव शान्तस्ससुखी प्रबुद्धः ॥

(इति शय्यायां लुटति)

(यवनिका पतति)

****************************************************

.

पञ्चमं दृश्यम्

(देवव्रतः विचारयन् हस्तौपृष्ठतः बुद्ध्वा इतस्ततः चरन् किञ्चित्कालानन्तरं उपविश्य वैद्युतभावनया सुप्रकाशित बुद्धिविशेषः करतलध्वनिं कृत्वा) कः कोऽत्र भोः । (इति आह्वयति ।

प्रतीहारी – (प्रविश्य) अहमस्मि देवः । (इति नमस्करोति)

देवव्रतः – पितुः रथसारथिं प्रवेशय ।

पतीहारी – यथाज्ञापयति देवः । (इति नमस्कृत्य गच्छति)

(ततः प्रविशति सूतः)

सूतः – (नमस्कृत्य) देव देवव्रत किमर्थमहमाहूतः ।

देवव्रतः – सूत भवान् पितृसमानः अत्रोपविशतु ।

सूतः – (नमस्कृत्य उपविशति)

देवव्रतः – सूत, त्वं, मे पिता शन्तनुमहाराजा च दिनद्वयात्प्राक कुत्र गतवन्तौ ।

सूतः – आवां यमुनातीरं गतवन्तौ ।

देवव्रतः – यमुनातीरे कुत्र ।

सूतः – यमुनातीरे पक्कण समीपम् ।

देवव्रतः – यमुनातीरः सुन्दरः खलु ।

सूतः – यमुनातीरः सुन्दरः ।

देवव्रतः – पक्कण प्रदेशः अति सुन्दरः इति मन्ये ।

सूतः – हां सत्यमेव सः प्रदेशः सुन्दरः । तत्र सर्वेपि वृक्षाः पुष्पफलं सम्भारिताः वर्तन्ते । कोकिलादीनां आलापाः श्रवणपुटं तर्पयिष्यन्ति ।

देवव्रतः – तस्य पक्कणस्य समीपे किं दृष्टं पित्रा ।

सूतः – देव तत्र पित्रा सकलं वनं दृष्टम् । अपि च तत्र यमुनानद्यां याताऽयातान् तारयितुं विद्यमाना यानपात्रसहिता एका युवतिः दृष्टा आसीत् ।

देवव्रतः – (आत्मगतम्) एका युवतिः दृष्टा सा का ? (सूतेन सार्थं) सूत दृष्टा युवतिः का ?

सूतः – सा दाशराजस्य पुत्री ।

देवव्रतः – दाशराजा कः ?

सूतः – सः तस्य पक्कणस्य राजा ।

देवव्रतः – सा कन्या तस्य दुहिता किम् ?

सूतः – हां तस्य दुहिता ।

देवव्रतः – सा कीदृशी ।

सूतः – सा अतीव सुन्दरी।

देवव्रतः – त्वया यथा दृष्टं तथा वर्णय ।

सूतः – तां वर्णयितुमहं अशक्तः ।

देवव्रतः – स्वल्पवचनैः तां वर्णय ।

सूतः – सा त्रिलोकसुन्दरी । तादृश सौन्दर्यवती पक्कणालये कथं जाता इति मम शङ्का भवति । तथापि स्वभावोक्त्या प्रकटी करिष्यामि ।

अस्ति काञ्चन समान वल्गुना । बर्हिबर्ह निभ चारुकैशिका ।
मन्दचालन विलोलनितम्बा । बाहुमूलरुचि दीपितस्तनी ॥

देवव्रतः – सा मम समक्षं त्वया साकारिता । विदितोऽस्मि सर्वम् । अपिच तत्र किं कृतं किं किं वृत्तम् । सर्वं निवेदय ।

सूतः – देव, राजा तां दृष्टवा तयासाकं भाषितवान् ।

देवव्रतः – किं भाषितवान् ।

सूतः – मया तत् सर्वं न शृतम् ।

देवव्रतः – ततः ।

सूतः – किन्तु राजा तां तेन सार्थं परिणेतुं चकमे ।

देवव्रतः – ततः ।

सूतः – तदा सा नाहं स्वच्छन्दवृत्तिमवलम्बामि । अहं अधुनापि पितुः संरक्षणे अस्मि इत्युक्तवती ।

देवव्रतः – साधूक्तम् । ततस्ततः ।

सूतः – तां पदे पदे स्वजाया भवितुं इयेष ।

देवव्रतः – ततः ।

सूतः – सा अन्ततः राज्ञासार्थं गृहं गतवती ।

देवव्रतः – किं त्वमपि तया सार्थं तस्याः गृहं गतोऽस्मि ?

सूतः – अहमपि तावनुसरम् ।

देवव्रतः – ततस्ततः ।

सूतः – शन्तनुमहाराजा स्वीय भावं दाशराजाय प्रकटीचकार ।

देवव्रतः – साधूक्तं तेन ।

सूतः – दाशराजा एकं वरं याचितवान् ।

देवव्रतः – किमिति ।

सूतः – महाराज भवान् पुत्रवानस्ति । ते पुत्रः राज्यस्य उत्तराधिकारी भविष्यति । तस्मात् अहं भवन्तं एवं याचे यत् भवान् सत्यवत्याः आत्मजाय राज्यं दास्यति तर्हि सत्यवती विवाहः भवता साकं भविष्यतीति । नोचेत् नहि । इत्युक्तवान् ।

देवव्रतः – अतीव सुन्दरम् । ततस्ततः ।

सूतः – महाराजा तदीय कामनां नाङ्गीचकार ।

देवव्रतः – तदा प्रभृति पिता एवं आस्ते किम् ।

सूतः – अहमपि एवं मन्ये ।

देवव्रतः – सारथे त्वं मे समादरणीयोऽसि यतः सविस्तरं यथावृत्तं उक्तवानसि । साधुकृतं बहु उपकृतं च भवता ।

सूतः – न किञ्चिदपि विद्यतेऽत्र दोषः मम कथने । यथावृत्तं भवता पृष्टः अवोचम् । मा भूयात् कष्टं मे इति इयन्तं भवन्तं याचे । (इति नमस्करोति)

देवव्रतः – सूत त्वं मे पितृ समानः । अहं त्वयि बद्धानुकम्पः तव न किमपि कष्टं भवति । त्वं निश्चिन्तया कालं यापय ।

सूतः – अनुगृहितोऽस्मि देव !

देवव्रतः – सूत त्वं सत्वरं अधुनैव वृद्धपुरोहितैः मया सार्थं दाशराजागृहमागच्छ । तत्र किं करणीयं मया आज्ञाप्यते ।

सूतः – अवहितोऽस्मि देव । (इति नमस्कृत्य गच्छति)

देवव्रतः – (ईषत् चिन्ताक्रान्तः विचार्य) अहं स्वयमेव पितृकामनां पूरयेयम् । (इति गच्छति)

(यवनिका पतति)

**********************************************************.

.

षष्ठं दृश्यम्

(देवव्रतः वृद्धैः क्षत्रियैः सहितः दाशराजसमीपं आगच्छति)

दाशराजः – (आगतान् सर्वान् विलोक्य, उत्थाय) तत्र भवन्तः के । कस्मात् प्रदेशात् किमर्थं आगताः निवेदयन्तु ।

देवव्रतः – अयि दाशराज अहं शन्तनुमहाराजस्य पुत्रः । मम नाम देवव्रतः ।

दाशराजः – युवराज इदं आसनं उपविशतु । (इति दारुफलकं ददाति ।)

देवव्रतः – दाशराज अहं स्थित्वा भणिष्यामि । मास्तुते प्रयासः आसनदाने ।

दाशराजः – कथं भवन्तः हठात् आगतवन्तः अत्र ।

देवव्रतः – दाशराज ! अहं ते पुत्रिकां सत्यवतीं मातरं विधाय नेतुं समागतोऽस्मि ।

दाशराजः – सर्वमेतत् आश्चर्यं प्रतिभाति मे युवराज । भवतः पिता धर्मज्ञः तां वोढुं शक्तः भवति । पुरा मया बहवः राजानः प्रत्याख्यात्ताः । अहं च कन्यायाः पिता । तस्मात् वचनीयं इदं वच्मि । ममात्र कोऽपि संशयः न विद्यते, किन्तु लोकव्यवहारमनुसृत्य प्रवर्तितव्यम् । अत्र बलवत् सपत्नता दोषं पश्यामि । यदि त्वयि क्रुद्धे सति जातु कोऽपि चिरं नजीवेत् । दानाऽदाने एतत् जानीहि त्वम् ।

देवव्रतः – दाशराज ! अहं सर्वेषां भूमिपालानां समक्षं ब्रवीमि शृणु ।

दाशराजः – मया यत् पृष्ठं तत् विषयमुद्दिश्य प्रस्तावनां करोतु भवान् ।

देवव्रतः – शृणु दाशराज । पुत्रः यः अस्यां जनिष्यति सः वः राजा भविष्यति । अयि भोः नराधिपाः राज्यं पूर्वमेव मया त्यक्तम् । अपत्यहेतोः अद्य विनिश्चयं करिष्ये । दाशराज अद्य प्रभृति मे ब्रह्मचर्यं भविष्यति । दाशराज ! शृणु ।

अस्याः पुत्रस्तु राज्यार्हः । भविता नास्ति कश्चन ।
ब्रह्मचारी सदैवस्याम् । प्रतिज्ञेयं शृणु प्रियम् ॥

दाशराजः – (शृत्वा तस्य ब्रह्मचर्य प्रतिज्ञां) देव अहं तव पित्रे कन्यां ददामि । (इति ददाति)

देवव्रतः – दाशराज त्वदीय कर्मणा अहं सन्तुष्टोऽस्मि । अहं मे मातरं नमामि (इति नमस्करोति) मातः एहि अस्मिन् रथे उपविश । (इति सत्यवत्या पुरोहितैश्च सहितः गच्छति)

दाशराजः – (आत्मगतम्) अहो किमेतत् आश्चर्यम् । युवा देवव्रतः पित्रे स्वीय सौख्यं विहाय भीकर प्रतिज्ञया भीष्मः जातः । अयं महापुरुषः चरित्र प्रसिद्धः भविष्यति । (इति आनन्देन गच्छति)

(यवनिका पतति)

*****************************************************************

.

सप्तमं दृश्यम्

(शन्तनुः शय्यायां उपविश्य चिन्तयति)

शन्तनुः – हा सत्यवती खलु अपरूप सौन्दर्यवती । एक दृष्टिपातेन सा मम हृदयराज्ञी सञ्जाता ।

इयमास्ते प्रिया लोके । सौन्दर्य वरवर्णिनी ।
संलग्ना सततं चित्ते । मदीये कामवागुरे ॥

(ततः प्रविशति प्रतीहारी)

प्रतीहारी – (नमस्कृत्य) अयि महाराज द्वारि कुमारः देवव्रतः मन्त्रि पुरोहितैः भवन्तं द्रष्टुं तिष्टति ।

शन्तनुः – प्रवेशय सर्वान् ।

प्रतीहारी – यथाज्ञापयति देवः । (इति नमस्कृत्य गच्छति)

देवव्रतः – (प्रविश्य) पितः नमांसि ।

शन्तनुः – चिरञ्जीव कुमार । किमत्र कारणं विद्यते तव प्रवेशस्य ।

देवव्रतः – (करतल ध्वनिं ददाति) ततः प्रविशन्ति सत्यवती वृद्ध पुरोहितामात्याः ।

शन्तनुः – किमेतत् सर्वं सुत ।

देवव्रतः – पितः, इयं भवतः पत्नी मे माता सत्यवती । (इति दर्शयति)

शन्तनुः – (आश्चर्येण) तनय किमेतत् कृतम् । (इति शय्यायाः उत्थाय देवव्रतस्य हस्तौ गृह्णाति)

देवव्रतः – जनक भवद्भिः यत् रोचते तत् मया सभक्तिकं कृतम् ।

शन्तनुः – कथङ्कृतं सर्वमेतत् भवता ।

देवव्रतः – अहं भवतः चिन्ताजडं वदनं प्रवीक्ष्य तदनुसारं सर्व विषयं समालोच्य भवतः कामना प्रकारं सर्वमन्त्रिपुरोहितानां समक्षं अहं ब्रह्मचारी भवेयं इति दाशराजाय प्रतिज्ञावचनं दत्वा मातरं सत्यवतीमानयम् । (इति नमस्करोति)

शन्तनुः – कुमार दुष्करं अपिच । भीषणं कर्म त्वया कृतं, तस्मात् त्वं अद्यप्रभृति लोके भीष्मः इति नाम्ना प्रख्यातः भविष्यसि । तव अस्य कर्मणः अहं ते स्वच्छन्दमरणाय वरं ददामि । तवेच्छानुसारं ते मरणं भवति न त्वन्यथा ।

अद्य प्रभृति लोकेऽस्मिन् । भविष्यसि परं सुत ।
ब्रह्मचर्येण भीष्माख्यः । स्वच्छन्दमरणे रतः ॥

(इति सत्यवतीं स्वसकाशं नीत्वा तयासहितः तस्मै आशीः ददाति)

देवव्रतः – धन्योऽहं (इति नमस्करोति)

(सत्यवतीशन्तनुभीष्मादीनां उपरि पुष्पाक्षताः पतन्ति । शहनायी इत्यादि मङ्गलनिस्वनाः भवन्ति)

(यवनिका पतति)

*******************************************************

.

]