मध्यमव्यायोगः

श्रीः ॥
श्रीगणेशाय नमः ।
महाकविश्रीभासप्रणीतः मध्यमव्यायोगः ।
(ततः प्रविशति सूत्रधारः) सूत्रधारः – पायात् स वोऽसुरवधूहृदयावसादः पादो हरेः कुवलयामलखड्गनीलः ।
यः प्रोद्यतस्त्रिभुवनैकमणे रराज वैदूर्यसङ्क्रम इवाम्बरसागरस्य ॥१॥
एवमार्यमिश्रान् विज्ञापयामि ।
अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते ।
अङ्ग! पश्यामि ।
(नेपथ्ये) भोस्तात! कोनुखल्वेषः ।
सूत्रधारः – भवतु, विज्ञातम् ।
भोःशब्दोच्चारणादस्य ब्राह्मणोऽयं न संशयः ।
त्रास्यते निर्विशङ्केन (केन)चित् पापचेतसा ॥२॥
(नेपथ्ये) भोस्तात! कोनुखल्वेषः ।
सूत्रधारः – हन्त दृढं विज्ञातम् ।
एष खलु पाण्डवमध्यमस्यात्मजो हिडिम्बारणिसम्भूतो राक्षसाग्निरकृतवैरं ब्राह्मणजनं वित्रासयति ।
भोः! कष्टं कष्टं खलु पत्नीसुतपरिवृतस्य ब्राह्मणस्य वृत्तान्तः ।
अत्र हि, श्रान्तैः सुतैः परिवृतस्तरुणैः सदारो वृद्धो द्विजो निशिचरानुचरः स एषः ।
व्याघ्रानुसारचरितो वृषभः सधेनुः सन्त्रस्तवत्स(क) इवाकुलतामुपैति ॥३॥
(निष्क्रान्तः) स्थापना ।
(ततः प्रविशति सुतत्रयकलत्रपरिवृतः केशवदासः पृष्ठतो घटोत्कचश्च) वृद्धः – भोः! कोनुखल्वेषः, तरुणरविकरप्रकीर्णकेशो भ्रुकुटिपुटोज्ज्वलपिङ्गलायताक्षः ।
सतडिदिव घनः सकण्ठसूत्रो युगनिधने प्रतिमाकृतिर्हरस्य ॥४॥
प्रथमः – भोस्तात! कोनुखल्वेषः ।
ग्रहनिगलनिभाक्षः पीनविस्तीर्णवक्षाः कनककपिशकेशः पीतकौशेयवासाः ।
तिमिरनिवहवर्णः पाण्डरोद्वृत्तदंष्ट्रो नव इव जलगर्भो लीयमानेन्दुलेखः ॥५॥
द्वितीयः – क एष भोः! कलभदशनदंष्ट्रो लाङ्गलाकारनासः करिवरकरबाहुर्नीलजीमूतवर्णः ।
हुतहुतवहदीप्तो यः स्थितो भाति भीमस्त्रिपुरपुरनिहन्तुः शङ्करस्येव रोषः ॥६॥
तृतीयः – भोस्तात! कोनुखल्वस्मान् पीडयति ।
वज्रपातोऽचलेन्द्राणां श्येनः सर्वपतत्त्रिणाम् ।
मृगेन्द्रो मृगसङ्घानां मृत्युः पुरुषविग्रहः ॥७॥
ब्राह्मणी – अय्य! को एसो अह्माअं सन्दावेइ ।
घटोत्कचः – भो ब्राह्मण! तिष्ठ तिष्ठ ।
किं यासि मद्भयविनाशितधैर्यसारो वित्रस्तदारसुतरक्षणहीनशक्ते! ।
तार्क्ष्याग्रपक्षपवनोद्धतरोषवह्नितीव्रः कलत्रसहितो भुजगो यथार्तः ॥८॥
भो ब्राह्मण! न गन्तव्यं न गन्तव्यम् ।
वृद्धः – ब्राह्मणि! न भेतव्यम् ।
पुत्रकाः! न भेतव्यम् ।
सविमर्शा ह्यस्य वाणी ।
घटोत्कचः – भोः! कष्टम् ।
जानामि सर्वत्र सदा च नाम द्विजोत्तमाः पूज्यतमाः पृथिव्याम् ।
अकार्यमेतच्च मयाद्य कार्यं मातुर्नियोगादपनीतशङ्कम् ॥९॥
वृद्धः – ब्राह्मणि! किं न स्मरसि तत्रभवता जलक्लिन्नेन मुनिनोक्तम् – अनपेतराक्षसमिदं वनमप्रमादेन गन्तव्यमिति ।
तदेवोत्पन्नं भयम् ।
ब्राह्मणी – किं दाणि अय्यो मज्झत्थवण्णो विअ दिस्सदि ।
वृद्धः – किं करिष्यामि मन्दभाग्यः ।
ब्राह्मणी – णं विक्कोसामो ।
प्रथमः – भवति! कस्य वयं विक्रोशामः ।
इदं हि शून्यं तिमिरोत्करप्रभैर्नगप्रकारैरवरुद्धदिक्पथम् ।
खगैर्मृगैश्चापि समाकुलान्तरं वनं निवासाभिमतं मनस्विनाम् ॥१०॥
वृद्धः – ब्राह्मणि! न भेतव्यं न भेतव्यम् ।
मनस्विजननिवासयोग्यमिति श्रुत्वा विगत इव मे सन्त्रासः ।
शङ्के नात्रातिदूरेण पाण्डवाश्रमेण भवितव्यम् ।
पाण्डवास्तु, युद्धप्रियाश्च शरणागतवत्सलाश्च दीनेषु पक्षपतिताः कृतसाहसाश्च ।
एवंविधप्रतिभयाकृतिचेष्टितानां दण्डं यथार्हमिह धारयितुं समर्थाः ॥११॥
प्रथमः – भोस्तात! न तत्र पाण्डवा इति मन्ये ।
वृद्धः – पुत्र! कथं त्वं जानीषे ।
प्रथमः – तस्मादाश्रमादागतेन केनचिद् ब्राह्मणेन (कथितं) – शतकुम्भं नाम यज्ञमनुभवितुं महर्षेर्धौम्यस्याश्रमं गता इति ।
वृद्धः – हन्त हताः स्मः ।
प्रथमः – तात! न तु सर्व एव ।
आश्रमपरिपालनार्थमिह स्थापितः किल मध्यमः ।
वृद्धः – यद्येवं, सन्निहिताः सर्व एव पाण्डवाः ।
प्रथमः – स चाप्यस्यां वेलायां व्यायामपरिचयार्थं वि(प्र)कृष्टदेश इति श्रूयते ।
वृद्धः – हन्त निराशाः स्मः ।
भवतु, पुत्र! व्यपश्रयिष्ये तावदेनम् ।
प्रथमः – अलमलं परिश्रमेण ।
वृद्धः – पुत्रं निवेदप्यर्थिनी खलु प्रार्थना ।
भवतु, पश्यामस्तावत् ।
भोः पुरुष! अस्त्यस्माकं मोक्षः ।
घटोत्कचः – मोक्षोऽस्ति समयतः ।
वृद्धः – कः समयः ।
घटोत्कचः – अस्ति मे तत्रभवती जननी ।
तयाहमाज्ञप्तः – पुत्र! ममोपवासनिसर्गार्थमस्मिन् वनप्रदेशे कश्चिन्मानुषः परिमृग्यानेतव्य इति ।
ततो मयासादितो भवान् ।
पत्न्या चारित्रशालिन्या द्विपुत्रो मोक्षमिच्छसि ।
बलाबलं परिज्ञाय पुत्रमेकं विसर्जय ॥१२॥
वृद्धः – हं भो राक्षसापशद! किमहं श्रुतवान् वृद्धः पुत्रं शीलगुणान्वितम् ।
पुरुषादस्य दत्त्वा हा कथं निर्वृतिमाप्नुयाम् ॥१३॥
घटोत्कचः – यद्यर्थितो द्विजश्रेष्ठ! पुत्रमेकं न मुञ्चसि ।
सकुटुम्बः क्षणेनैव विनाशमुपयास्यसि ॥१४॥
वृद्धः – एष एव मे निश्चयः ।
कृतकृत्यं शरीरं मे परिणामेन जर्जरम् ।
राक्षसाग्नौ सुतापेक्षी होष्यामि विधिसंस्कृतम् ॥१५॥
ब्राह्मणी – अय्य! मा मा एवं ।
पदिमत्तधम्मिणी पदिव्वदत्ति णाम ।
गहीदफलेण एदिणा सरीरेण अय्यं कुलं च रक्खिदुं इच्छामि ।
घटोत्कचः – न खलु स्त्रीजनोऽभिमतस्तत्रभवत्या ।
वृद्धः – अहमनुगमिष्यामि भवन्तम् ।
घटोत्कचः – आ वृद्धस्त्वमपसर ।
प्रथमः – भोस्तात! ब्रवीमि खलु तावत् किञ्चित् ।
वृद्धः – पुत्र कथय ।
प्रथमः – मम प्राणैर्गुरुप्राणानिच्छामि परिरक्षितुम् ।
रक्षणार्थं कुलस्यास्य मोक्तुमर्हति मां भवान् ॥१६॥
द्वितीयः – आर्य! मा मैवम् ।
ज्येष्ठः श्रेष्ठः कुले लोके पितॄणां च सुसम्प्रियः ।
ततोऽहमेव यास्यामि गुरुवृत्तिमनुस्मर ॥१७॥
तृतीयः – आर्यौ! मा मैवम् ।
ज्येष्ठो भ्राता पितृसमः कथितो ब्रह्मवादिभिः ।
ततोऽहं कर्तुमस्म्यर्हो गुरूणां प्राणरक्षणम् ॥१८॥
प्रथमः – वत्स! मा मैवम् ।
आपदं हि पिता प्राप्तो ज्येष्ठपुत्रेण तार्यते ।
ततोऽहमेव यास्यामि गुरूणां प्राणरक्षणात् ॥१९॥
वृद्धः – ज्येष्ठमिष्टतमं न शक्नोमि परित्यक्तुम् ।
ब्राह्मणी – जह अय्यो जेट्ठमिच्छदि, तह अहं पि कणिट्ठं इच्छामि ।
द्वितीयः – पित्रोरनिष्टः कस्येदानीं प्रियः ।
घटोत्कचः – अहं प्रीतोऽस्मि, शीघ्रमागच्छ ।
द्वितीयः – धन्योऽस्मि यद् गुरुप्राणाः स्वैः प्राणैः परिरक्षिताः ।
बन्धुस्नेहाद्धि महतः कालस्नेहस्तु दुर्लभः ॥२०॥
घटोत्कचः – अहो स्वजनवात्सल्यमस्य ब्राह्मणवटोः ।
द्वितीयः – भोस्तात! अभिवादये ।
वृद्धः – एह्येहि पुत्र! विनिमाय गुरुप्राणान् स्वैः प्राणैर्गुरुवत्सल! ।
अकृतात्मदुरावापं ब्रह्मलोकमवाप्नुहि ॥२१॥
द्वितीयः – अनुगृहीतोऽस्मि ।
अम्ब! अभिवादये ।
ब्राह्मणी – जाद! चिरं जीव ।
द्वितीयः – अनुगृहीतोऽस्मि ।
आर्य! अभिवादये ।
प्रथमः – एह्येहि वत्स! परिष्वजस्व गाढं मां परिष्वक्तः शुभैर्गुणैः ।
कीर्त्त्या तव परिष्वक्ता भविष्यति वसुन्धरा ॥२२॥
द्वितीयः – अनुगृहीतोऽस्मि ।
तृतीयः – आर्य! अभिवादये ।
द्वितीयः – स्वस्ति ।
तृतीयः – अनुगृहीतोऽस्मि ।
द्वितीयः – भोः पुरुष! ब्रवीमि किञ्चित् ।
घटोत्कचः – ब्रूहि ब्रूहि शीघ्रम् ।
द्वितीयः – एतस्मिन् वनान्तरे जलाशय इव दृश्यते ।
तत्र मे प्रकल्पितपरलोकस्य पिपासाप्रतीकारं करिष्यामि ।
घटोत्कचः – दृढव्यवसायिन्! गम्यताम् ।
अतिक्रामति मातुराहारकालः ।
शीघ्रमागच्छ ।
द्वितीयः – भोस्तात! एष गच्छामि ।
(निष्क्रान्तः) वृद्धः – हा हा परिमुषिताः स्मो भोः! परिमुषिताः स्मः ।
यस्त्रिशृङ्गो मम त्वासीन्मनोज्ञो वंशपर्वतः ।
स मध्यशृङ्गभङ्गेन मनस्तपति मे भृशम् ॥२३॥
हा पुत्र! ।
कथं गत एव ।
तरुण! तरुणतानुरूपकान्ते! नियमपराध्ययनप्रसक्तबुद्धे! ।
कथमिह गजराजदन्तभग्नस्तरुरिव यास्यसि पुष्पितो विनाशम् ॥२४॥
घटोत्कचः – चिरायते खलु ब्राह्मणवटुः ।
अतिक्रामति मातुराहारकालः ।
किन्नुखलु करिष्ये ।
भवतु दृष्टम् ।
भो ब्राह्मण! आहूयतां तव पुत्रः ।
वृद्धः – अतिराक्षसं खलु ते वचनम् ।
घटोत्कचः – कथं रुष्यति, मर्षयतु मर्षयतु भवान् ।
अयं मे प्रकृतिदोषः ।
अथ किन्नामा तव पुत्रः ।
वृद्धः – एतदपि न शक्यं श्रोतुम् ।
घटोत्कचः – युक्तं भोः! ।
ब्राह्मणकुमार! किन्नामा ते भ्राता ।
प्रथमः – तपस्वी मध्यमः ।
घटोत्कचः – मध्यम इति सदृशमस्य ।
अहमेव यास्यामि ।
भो भो मध्यम! मध्यम! शीघ्रमागच्छ ।
(ततः प्रविशति भीमसेनः) भीमसेनः – भोः! कस्यायं स्वरः ।
खगशतविरुते विरौति तारं द्रुमगहने दृढसङ्कटे वनेऽस्मिन् ।
जनयति च मनोज्वरं स्वरोऽयं बहुसदृशो हि धनञ्जय(स्वर)स्य ॥२५॥
घटोत्कचः – चिरायते खलु ब्राह्मणवटुः ।
अतिक्रामति मातुराहारकालः ।
किन्नुखलु करिष्ये ।
भवतु दृष्टम् ।
उच्चैः शब्दापयामि ।
भो मध्यम! शीघ्रमागच्छ ।
भीमसेनः – भोः! कोनुखल्वेतस्मिन् वनान्तरे मम व्यायामविघ्नमुत्पाद्य मध्यम! मध्यम! इति मां शब्दापयति ।
भवतु, पश्यामस्तावत् ।
(परिक्रम्यावलोक्य) अहो दर्शनीयोऽयं पुरुषः ।
अयं हि, सिंहास्यः सिंहदंष्ट्रो मधुनिभनयनः स्निग्धगम्भीरकण्ठो बभ्रुभ्रूः श्येननासो द्विरदपतिहनुर्दीर्घविश्लिष्टकेशः ।
व्यूढोरा वज्रमध्यो गजवृषभगतिर्लम्बपीनांसबाहुः सुव्यक्तं राक्षसीजो विपुलबलयुतो लोकवीरस्य पुत्रः ॥२६॥
घटोत्कचः – चिरायते खलु ब्राह्मणवटुः ।
अतिक्रामति मातुराहारकालः ।
किमिदानीं करिष्ये ।
भवतु, उच्चैराह्वानं करिष्ये ।
भो भो मध्यम! शीघ्रमागच्छ ।
भीमसेनः – भोः प्राप्तोऽस्मि ।
घटोत्कचः – न खल्वयं ब्राह्मणवटुः ।
अहो दर्शनीयोऽयं पुरुषः ।
य एषः, सिंहाकृतिः कनकतालसमानबाहुर्मध्ये तनुर्गरुडपक्षविलिप्तपक्षः ।
विष्णुर्भवेद् विकसिताम्बुजपत्रनेत्रो नेत्रे ममाहरति बन्धुरिवागतोऽयम् ॥२७॥
भो मध्यम! त्वां खल्वहं शब्दापयामि ।
भीमसेनः – अतः खल्वहं प्राप्तः ।
घटोत्कचः – किं भवानपि मध्यमः ।
भीमसेनः – न तावदपरः ।
मध्यमोऽहमवध्यानामुत्सिक्तानां च मध्यमः ।
मध्यमोऽहं क्षितेर्भद्र! भ्रातॄणामपि मध्यमः ॥२८॥
घटोत्कचः – भवितव्यम् ।
भीमसेनः – अपिच, मध्यमः पञ्चभूतानां पार्थिवानां च मध्यमः ।
भवे च मध्यमो लोके सर्वकार्येषु मध्यमः ॥२९॥
वृद्धः – मध्यमस्त्विति सम्प्रोक्ते नूनं पाण्डवमध्यमः ।
अस्मान् मोक्तुमिहायातो दर्पान्मृत्योरिवोत्थितः ॥३०॥
(प्रविश्य) मध्यमः – अस्यामाचम्य पद्मिन्यां परलोकेषु दुर्लभम् ।
आत्मनैवात्मनो दत्तं पद्मपत्रोज्ज्वलं जलम् ॥३१॥
(उपगम्य) भोः पुरुष! प्राप्तोऽस्मि ।
घटोत्कचः – प्राप्तवानिदानीं खल्वसि ।
मध्यम! मध्यम! इत इतः ।
वृद्धः – (भीममुपगम्य) भो मध्यम! परित्रायस्व ब्राह्मणकुलम् ।
भीमसेनः – न भेतव्यं न भेतव्यम् ।
मध्यमोऽहमभिवादये ।
वृद्धः – वायुरिव दीर्घायुर्भव ।
भीमसेनः – अनुगृहीतोऽस्मि ।
कुतो भयमार्यस्य ।
वृद्धः – श्रूयताम् ।
अहं खलु कुरुराजेन युधिष्ठिरेणाधिष्ठितपूर्वे कुरुजाङ्गले यूपग्रामवास्तव्यो माठरसगोत्रश्च कल्पशाखाध्वर्युः केशवदासो नाम ब्राह्मणः ।
तस्य ममोत्तरस्यां दिश्युद्यामकग्रामवासी मातुलः कौशिकसगोत्रो यज्ञबन्धुर्नामास्ति ।
तस्य पुत्रोपनयनानुभवनार्थं सकलत्रोऽस्मि प्रस्थितः ।
भीमसेनः – अरिष्टोऽस्तु पन्थाः ।
ततस्ततः ।
वृद्धः – ततो मामेष हि, सजलजलदगात्रः पद्मपत्रायताक्षो मृगपतिगतिलीलो राक्षसः प्रोग्रदंष्ट्रः ।
जगति विगतशङ्कस्त्वद्विधानां समक्षं ससुतपरिजनं भो! हन्तुकामोऽभ्युपैति ॥३२॥
भीमसेनः – एवम्, अनेन ब्राह्मणजनस्य मार्गविघ्नः कृतः ।
भवतु, निग्रहीष्यामि तावदेनम् ।
भोः पुरुष! तिष्ठ तिष्ठ ।
घटोत्कचः – एष स्थितोऽस्मि ।
भीमसेनः – किमर्थं ब्राह्मणं परास्यसि ।
पुत्रनक्षत्रकीर्णस्य पत्नीकान्तप्रभस्य च ।
वृद्धस्य विप्रचन्द्रस्य भवान् राहुरिवागतः ॥३३॥
घटोत्कचः – अथकिम् ।
राहुरेव ।
भीमसेनः – आः, निवृत्तव्यवहारोऽयं सदारस्तनयैः सह ।
सर्वापराधेऽवध्यत्वान्मुच्यतां द्विजसत्तमः ॥३४॥
घटोत्कचः – न मुच्यते ।
भीमसेनः – (आत्मगतम्) भोः! कस्य पुत्रेणानेन भवितव्यम् ।
भ्रातॄणां मम सर्वेषां कोऽयं भो! गुणतस्करः ।
दृष्ट्वैतद् बालशौण्डीर्यं सौभद्रस्य स्मराम्यहम् ॥३५॥
(प्रकाशम्) भोः पुरुष! मुच्यताम् ।
घटोत्कचः – न मुच्यते ।
मुच्यतामिति विस्रब्धं ब्रवीति यदि मे पिता ।
न मुच्यते तथाह्येष गृहीतो मातुराज्ञया ॥३६॥
भीमसेनः – (आत्मगतम्) कथं मातुराज्ञेति ।
अहो गुरुशुश्रूषुः खल्वयं तपस्वी ।
माता किल मनुष्याणां दैवतानां च दैवतम् ।
मातुराज्ञां पुरस्कृत्य वयमेतां दशां गताः ॥३७॥
(प्रकाशम्) भोः पुरुष! प्रष्टव्यं खलु तावदस्ति ।
घटोत्कचः – ब्रूहि ब्रूहि शीघ्रम् ।
भीमसेनः – का नाम भवतो माता ।
घटोत्कचः – हिडिम्बा नाम राक्षसी ।
कौरव्यकुलदीपेन पाण्डवेन महात्मना ।
सनाथा या महाभागा पूर्णेन द्यौरिवात्मना ॥३८॥
भीमसेनः – (आत्मगतम्) एवं, हिडिम्बायाः पुत्रोऽयम् ।
सदृशो ह्यस्य गर्वः ।
रूपं सत्त्वं बलं चैव पितृभिः सदृशं बहु ।
प्रजासु वीतकारुण्यं मनश्चैवास्य कीदृशम् ॥३९॥
(प्रकाशम्) भोः पुरुष! मुच्यताम् ।
घटोत्कचः – न मुच्यते ।
भीमसेनः – भो ब्राह्मण! गृह्यतां तव पुत्रः ।
वयमेनमनुगमिष्यामः ।
द्वितीयः – मा मा भवानेवम् ।
त्यक्ताः प्रागेव मे प्राणा गुरुप्राणेष्वपेक्षया ।
युवा रूपगुणोपेतो भवांस्तिष्ठतु भूतले ॥४०॥
भीमसेनः – आर्य! मा मैवम् ।
क्षत्त्रियकुलोत्पन्नोऽहम् ।
पूज्यतमः खलु ब्राह्मणः ।
तस्मान्मच्छरीरेण ब्राह्मणशरीरं विनिमातुमिच्छामि ।
घटोत्कचः – एवं, क्षत्त्रियोऽयम् ।
तेन गर्वः ।
भवतु, इममेव हत्वा नेष्यामि ।
अथ केनायं वारितः ।
भीमसेनः – मया ।
घटोत्कचः – किं त्वया ।
भीमसेनः – अथकिम् ।
घटोत्कचः – तेन हि भवानेवागच्छतु ।
भीमसेनः – एवम्, अतिवीर्यबलं नानुगच्छामि ।
यदि ते शक्तिरस्ति, बलात्कारेण मां नय ।
घटोत्कचः – किं मां प्रत्यभिजानीते भवान् ।
भीमसेनः – मत्पुत्र इति जाने ।
घटोत्कचः – कथं कथं तव पुत्रोऽहम् ।
भीमसेनः – कथं रुष्यति, मर्षयतु मर्षयतु भवान् ।
सर्वाः प्रजाः क्षत्त्रियाणां पुत्रशब्देनाभिधीयन्ते ।
अत एव मयाभिहितम् ।
घटोत्कचः – भीतानामायुधं गृहीतम् ।
भीमसेनः – शपामि सत्येन भयं न जाने ज्ञातुं तदिच्छामि भवत्समीपे ।
किंरूपमेतद् वद भद्र! (तस्य) गुणागुणज्ञः सदृशं प्रपत्स्ये ॥४१॥
घटोत्कचः – एष ते भयमुपदिशामि, गृह्यतामायुधम् ।
भीमसेनः – आयुधमिति ।
गृहीतमेतत् ।
घटोत्कचः – कथमिव ।
भीमसेनः – काञ्चनस्तम्भसदृशो रिपूणां निग्रहे रतः ।
अयं तु दक्षिणो बाहुरायुधं सदृशं मम ॥४२॥
घटोत्कचः – इदमुपपन्नं पितुर्मे भीमसेनस्य ।
भीमसेनः – अथ कोऽयं भीमो नाम ।
विश्वकर्ता शिवः कृष्णः शक्रः शक्तिधरो यमः ।
एतेषु कथ्यतां भद्र! केन ते सदृशः पिता ॥४३॥
घटोत्कचः – सर्वैः ।
भीमसेनः – धिगनृतमेतत् ।
घटोत्कचः – कथं कथम् ।
अनृतमित्याह ।
क्षिपसि मे गुरुम् ।
भवतु, इमं स्थूलं वृक्षमुत्पाट्य प्रहरामि ।
कथमनेनापि न शक्यते हन्तुम् ।
किन्नुखलु करिष्ये ।
भवतु, दृष्टम् ।
एतद् गिरिकूटमुत्पाट्य प्रहरामि ।
शैलकूटं मया क्षिप्तं प्राणानादाय यास्यति ।
भीमसेनः – रुष्टोऽपि कुञ्जरो वन्यो न व्याघ्रं धर्षयेद् वने ॥४४॥
घटोत्कचः – कथमनेनापि न शक्यते हन्तुम् ।
किन्नुखलु करिष्ये ।
भवतु, दृष्टम् ।
नन्वहं भीमसेनस्य पुत्रः पौत्रो नभस्वतः तिष्ठेदानीं सुसन्नद्धो नियुद्धे नास्ति मत्समः ॥४५॥
(इत्युभौ नियुद्धं कुरुतः) घटोत्कचः – (भीमसेनं बद्ध्वा) व्रजसि कथमिह त्वं वीर्यमुल्लङ्घ्य बाह्वोर्गज इव दृढपाशैः पीडितो मद्भुजाभ्याम् ।
भीमसेनः – (आत्मगतम्) कथं गृहीतोऽस्म्यनेन ।
भोः सुयोधन! वर्धते खलु शत्रुपक्षः ।
कृतरक्षो भव ।
(प्रकाशम्) भोः पुरुष! अवहितो भव ।
घटोत्कचः – अवहितोऽस्मि ।
भीमसेनः – (नियुद्धबन्धमवधूय) व्यपनय बलदर्पं दृष्टसारोऽसि वीर! न हि मम परिखेदो विद्यते बाहुयुद्धे ॥४६॥
घटोत्कचः – कथमनेनापि न शक्यते हन्तुम् ।
किन्नुखलु करिष्ये ।
भवतु, दृष्टम् ।
अस्ति मातृप्रसादलब्धो मायापाशः ।
तेन बद्ध्वैनं नेष्यामि ।
कुतः खल्वापः ।
भो गिरे! आपस्तावत् ।
हन्त स्रवति ।
(आचम्य मन्त्रं जपति) भोः पुरुष! मायापाशेन बद्धस्त्वं विवशो न गमिष्यसि ।
राजसे रज्जुभिर्बद्धः शक्रध्वज इवोत्सवे ॥४७॥
(इति मायया बध्नाति) भीमसेनः – कथं मायापाशेन बद्धोऽस्मि ।
किमिदानीं करिष्ये ।
अस्ति महेश्वरप्रसादलब्धो मायापाशमोक्षो मन्त्रः ।
तं जपामि ।
कुतः खल्वापः ।
भवतु, भो ब्राह्मणकुमार! आनय कमण्डलुगता अपः ।
वृद्धः – इमा आपः ।
(भीमसेन आचम्य मन्त्रं जप्त्वा मायां मोचयति) घटोत्कचः – अये पतितः पाशः ।
किमिदानीं करिष्ये ।
भवतु, भोः पुरुष! पूर्वसमयं स्मर ।
भीमसेनः – समय इति ।
एष स्मरामि ।
गच्छाग्रतः ।
(उभौ परिक्रामतः) वृद्धः – पुत्रकाः! किं कुर्मः ।
अयं गच्छति वृकोदरः ।
आक्रम्य राक्षसमिमं ज्वलदुग्ररूपमुग्रेण बाहुबलवीर्यगुणेन युक्तम् ।
एष प्रयाति शनकैरवधूय शीघ्रमासारवर्षमिव गोवृषभः सलीलः ॥४८॥
घटोत्कचः – इह तिष्ठ ।
त्वदागमनमम्बायै निवेदयामि ।
भीमसेनः – बाढम् ।
गच्छ ।
घटोत्कचः – (उपसृत्य) अम्ब! अभिवादये घटोत्कचोऽहम् ।
चिराभिलषितो भवत्या आहारार्थमानीतो मानुषः ।
(प्रविश्य) हिडिम्बा – जाद! चिरं जीव ।
कीदिसो माणुसो आणीदो ।
घटोत्कचः – भवति! वाङ्मात्रेण मानुषो, न वीर्येण ।
हिडिम्बा – किं बह्मणो ।
घटोत्कचः – न ब्राह्मणः ।
हिडिम्बा – आदु थेरो ।
घटोत्कचः – न वृद्धः ।
हिडिम्बा – किं वालो ।
घटोत्कचः – न बालः ।
हिडिम्बा – जै एव्वं, पेक्खामि दाव णं ।
(उभौ परिक्रामतः) हिडिम्बा – किं एसो माणुसो आणीदो ।
घटोत्कचः – भवति! कोऽयम् ।
हिडिम्बा – उम्मत्तअ! दव्वदं खु अअं ।
घटोत्कचः – आः कस्य दैवतम् ।
हिडिम्बा – तव अ मम अ ।
घटोत्कचः – कः प्रत्ययः ।
हिडिम्बा – एसो पच्चओ ।
जेदु अय्यौत्तो ।
भीमसेनः – (विलोक्य) का पुनरियम् ।
अये देवी हिडिम्बा ।
अस्माकं भ्रष्टराज्यानां भ्रमतां गहने वने ।
जातकारुण्यया देवि! सन्तापो नाशितस्त्वया ॥४९॥
हिडिम्बे! किमिदम् ।
हिडिम्बा – (कर्णे) ईदिसं विअ ।
भीमसेनः – जात्या राक्षसी, न समुदाचारेण ।
हिडिम्बा – उम्मत्तअ! अभिवादेहि पिदरं ।
घटोत्कचः – भोस्तात! अहं स धार्तराष्ट्रवनदवाग्निर्घटोत्कचोऽभिवादये ।
पुत्रचापलं क्षन्तुमर्हसि ।
भीमसेनः – एह्येहि पुत्र! व्यतिक्रमकृतं कान्तमेव ।
(इति परिष्वज्य) धार्तराष्ट्रवनदवाग्निपुत्रापेक्षीणि पितृहृदयानि ।
पुत्र! अतिबलपराक्रमो भव ।
घटोत्कचः – अनुगृहीतोऽस्मि ।
वृद्धः – एवं, भीमसेनपुत्रोऽयं घटोत्कचः ।
भीमसेनः – पुत्र! अभिवादयात्रभवन्तं केशवदासम् ।
घटोत्कचः – भगवन्! अभिवादये ।
वृद्धः – पितृसदृशगुणकीर्तिर्भव ।
घटोत्कचः – अनुगृहीतोऽस्मि ।
वृद्धः – भो वृकोदर! रक्षितमस्मत्कुलं, स्वकुलमुद्धृतं च ।
गच्छामस्तावत् ।
भीमसेनः – अनुग्रहात् तु भवतः सर्वमासीदिदं शुभम् ।
आश्रमोऽदूरतोऽस्माकं तत्र विश्रम्य गम्यताम् ॥५०॥
वृद्धः – कृतमातिथ्यमनेन जीवितप्रदानेन ।
तस्माद्गच्छामस्तावत् ।
भीमसेनः – गच्छतु भवान् सकुटुम्बः पुनर्दर्शनाय ।
वृद्धः – बाढम् ।
प्रथमः कल्पः ।
(निष्क्रान्तः सकलत्रपुत्रः केशवदासः) भीमसेनः – हिडिम्बे! इतस्तावत् ।
वत्स! घटोत्कच! इतस्तावत् ।
तत्रभवन्तं केशवदासमाश्रमपदद्वारमात्रमपि सम्भावयिष्यामः ।
यथा नदीनां प्रभवः समुद्रो यथाहुतीनां प्रभवो हुताशः ।
यथेन्द्रियाणां प्रभवं मनोऽपि तथा प्रभुर्नो भगवानुपेन्द्रः ॥५१॥
(निष्क्रान्ताः सर्वे) मध्यमव्यायोगोऽवसितः ॥