श्रीः ॥
श्रीगणेशाय नमः ।
महाकविश्रीभासप्रणीतं कर्णभारम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः – नरमृगपतिवर्ष्मालोकनभ्रान्तनारीनरदनुजसुपर्णव्रातपाताललोकः ।
करजकुलिशपालीभिन्नदैत्येन्द्रवक्षाः सुररिपुबलहन्ता श्रीधरोऽस्तु श्रिये वः ॥१॥
एवमार्यमिश्रान् विज्ञापयामि ।
अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते ।
अङ्ग! पश्यामि ।
(नेपथ्ये) भो भो! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय ।
सूत्रधारः – भवतु, विज्ञातम् ।
सङ्ग्रामे तुमुले जाते कर्णाय कलिताञ्जलिः ।
निवेदयति सम्भ्रान्तो भृत्यो दुर्योधनाज्ञया ॥२॥
(निष्क्रान्तः) प्रस्तावना ।
(ततः प्रविशति भटः) भटः – भो भो! निवेद्यतां निवेद्यतां महाराजायाङ्गेश्वराय – युद्धकाल उपस्थित इति ।
करितुरगरथस्थैः पार्थकेतोः पुरस्ताद् मुदितनृपतिसिंहैः सिंहनादः कृतोऽद्य ।
त्वरितमरिनिनादर्दुःसहं लोकवीरः समरमधिगतार्थः प्रस्थितो नागकेतुः ॥३॥
(परिक्रम्यावलोक्य) अये एषोऽङ्गराजः समरपरिच्छदपरिवृतः शल्यराजसहितः स्वभवनान्निष्क्रम्येत एवाभिवर्तते ।
भोः! किन्नुखलु युद्धोत्सवप्रमुखस्य दृष्टपराक्रमस्याभूतपूर्वो हृदयपरितापः ।
एष हि, अत्युग्रदीप्तिविशदः समरेऽग्रगण्यः शौर्ये च सम्प्रति सशोकमुपैति धीमान् ।
प्राप्ते निदाघसमये घनराशिरुद्धः सूर्यः स्वभावरुचिमानिव भाति कर्णः ॥४॥
यावदपसर्पामि ।
(निष्क्रान्तः) (ततः प्रविशति यथोक्तरूपः कर्णः शल्यश्च) कर्णः – मा तावन्मम शरमार्गलक्षभूताः किं प्राप्ताः क्षितिपतयः सजीवशेषाः ।
कर्तव्यं रणशिरसि प्रियं कुरूणां द्रष्टव्यो यदि स भवेद् धनञ्जयो मे ॥५॥
शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
शल्यः – बाढम् ।
(चोदयति) कर्णः – अहोतुखलु, अन्योन्यशस्त्रविनिपातनिकृत्तगात्रयौधाश्ववारणरथेषु महाहवेषु ।
क्रुद्धान्तकप्रतिमविक्रमिणो ममापि वैधुर्यमापतति चेतसि युद्धकाले ॥६॥
भोः! कष्टम् ।
पूर्वं कुन्त्यां समुत्पन्नो राधेय इति विश्रुतः ।
युधिष्ठिरादयस्ते मे यवीयांसस्तु पाण्डवाः ॥७॥
अयं स कालः क्रमलब्धशोभनो गुणप्रकर्षो दिवसोऽयमागतः ।
निरर्थमस्त्रं च मया हि शिक्षितं पुनश्च मातुर्वचनेन वारितः ॥८॥
भो मद्रराज! श्रूयतां ममास्त्रस्य वृत्तान्तः ।
शल्यः – ममाप्यस्ति कौतूहलमेनं वृत्तान्तं श्रोतुम् ।
कर्णः – पूर्वमेव चाहं जामदग्न्यस्य सकाशं गतवानस्मि ।
शल्यः – ततस्ततः ।
कर्णः – ततः, विद्युल्लताकपिलतुङ्गजटाकलापमुद्यत्प्रभावलयिनं परशुं दधानम् ।
क्षत्त्रान्तकं मुनिवरं भृगुवंशकेतुं गत्वा प्रणम्य निकटे निभृतः स्थितोऽस्मि ॥९॥
शल्यः – ततस्ततः ।
कर्णः – ततस्तेन जामदग्निनाममाशीर्वचनं दत्त्वा पृष्टोऽस्मि – को भवान्, किमर्थमिहागत इति ।
शल्यः – ततस्ततः ।
कर्णः – भगवन्! अखिलान्यस्त्राण्युपशिक्षितुमिच्छामीत्युक्तवानस्मि ।
शल्यः – ततस्ततः ।
कर्णः – तत उक्तोऽहं भगवता – ब्राह्मणेषूपदेशं करिष्यामि, न क्षत्त्रियाणामिति ।
शल्यः – अस्ति खलु भगवतः क्षत्त्रियवंश्यैः पूर्ववैरम् ।
ततस्ततः ।
कर्णः – ततो नाहं क्षत्त्रिय इत्यस्त्रोपदेशं ग्रहीतुमारब्धः ।
शल्यः – ततस्ततः ।
कर्णः – ततः कतिपयकालातिक्रमे कदाचित् फलमूलसमित्कुशकुसुमाहरणाय गतवता गुरुणा सहानुगतोऽस्मि ।
ततः स गुरुर्वनभ्रमणपरिश्रमान्मदङ्के निद्रावशमुपगतः ।
शल्यः – ततस्ततः ।
कर्णः – ततः, कृत्ते वज्रमुखेन नाम कृमिणा दैवान्ममोरुद्वये निद्राच्छेदभयादसह्यत गुरोर्धैर्यात् तदा वेदना ।
उत्थाय क्षतजाप्लुतः स सहसा रोषानलोद्दीपितो बुद्ध्वा मां च शशाप कालविफलान्यस्त्राणि ते सन्त्विति ॥१०॥
शल्यः – अहो कष्टमभिहितं तत्रभवता ।
कर्णः – परीक्षामहे तावदस्त्रस्य वृत्तान्तम् ।
(तथा कृत्वा) एतान्यस्त्राणि निर्वीर्याणीव लक्ष्यन्ते ।
अपिच, इमे हि दैन्येन निमीलितेक्षणा मुहुः स्खलन्तो विवशास्तुरङ्गमाः ।
गजाश्च सप्तच्छददानगन्धिनो निवेदयन्तीव रणे निवर्तनम् ॥११॥
शङ्खदुन्दुभयश्च निःशब्दाः ।
शल्यः – भोः! कष्टं खल्विदम् ।
कर्णः – शल्यराज! अलमलं विषादेन ।
हतोऽपि लभते स्वर्गं जित्वा तु लभते यशः ।
उभे बहुमते लोके नास्ति निष्फलता रणे ॥१२॥
अपिच, इमे हि युद्धेष्वनिवर्तिताशा हयाः सुपर्णेन समानवेगाः ।
श्रीमत्सु काम्बोजकुलेषु जाता रक्षन्त्यमी यद्यपि रक्षितव्यम् ॥१३॥
अक्षयोऽस्तु गोब्राह्मणानाम् ।
अक्षयोऽस्तु पतिव्रतानाम् ।
अक्षयोऽस्तु रणेष्वपराङ्मुखानां यौधपुरुषाणाम् ।
अक्षयोऽस्तु मम प्राप्तकालस्य ।
एष भोः, प्रसन्नोऽस्मि ।
समरमुखमसह्यं पाण्डवानां प्रविश्य प्रथितगुणगणाढ्यं धर्मराजं च बद्ध्वा ।
मम शरवरवेगैरर्जुनं पातयित्वा वनमिव हतसिंहं सुप्रवेशं करोमि ॥१४॥
शल्यराज! यावद् रथमारोहावः ।
शल्यः – बाढम् ।
(उभौ रथारोहणं नाटयतः) कर्णः – शल्यराज! यत्रासावर्जुनस्तत्रैव चोद्यतां मम रथः ।
(नेपथ्ये) भो कण्ण! महत्तरं भिक्खं याचेमि ।
कर्णः – (आकर्ण्य) अये वीर्यवान् शब्दः ।
श्रीमानेव न केवलं द्विजवरो यस्मात् प्रभावो महानाकर्ण्य स्वरमस्य धीरमधुरं चित्रार्पिताङ्गा इव ।
उत्कर्णस्तिमिताञ्चिताक्षिवलितग्रीवार्पिताग्राननास्तिष्ठन्त्यस्ववशाङ्गयष्टि सहसा यान्तो ममैते हयाः ॥१५॥
आहूयतां स विप्रः ।
न न ।
अहमेवाह्वयामि ।
भगवन्! इत इतः ।
(ततः प्रविशति ब्राह्मणरूपेण शक्रः) शक्रः – भो मेघाः! सूर्येणैव निवर्त्य गच्छन्तु भवन्तः ।
(कर्णमुपगम्य) भो कण्ण! महत्तरं भिक्खं याचेमि ।
कर्णः – दृढं प्रीतोऽस्मि भगवन्! यातः कृतार्थगणनामहमद्य लोके राजेन्द्रमौलिमणिरञ्जितपादपद्मः ।
विप्रेन्द्रपादरजसा तु पवित्रमौलिः कर्णो भवन्तमहमेष नमस्करोमि ॥१६॥
शक्रः – (आत्मगतम्) किन्नुखलु मया वक्तव्यम् ।
यदि दीर्घायुर्भवेति वक्ष्ये, दीर्घायुर्भविष्यति ।
यदि न वक्ष्ये, मूढ इति मां परिभवति ।
तस्मादुभयं परिहृत्य किन्नुखलु वक्ष्यामि ।
भवतु, दृष्टम् ।
(प्रकाशम्) भो कण्ण! सुय्ये विअ, चन्दे विअ, हिमवन्ते विअ, सागले विअ, चिट्ठदु दे जसो ।
कर्णः – भगवन्! किं न वक्तव्यं दीर्घायुर्भवेति ।
अथवा एतदेव शोभनम् ।
कुतः, धर्मो हि यत्नैः पुरुषेण साध्यो भुजङ्गजिह्वाचपला नृपश्रियः ।
तस्मात् प्रजापालनमात्रबुद्ध्या हतेषु देहेषु गुणा धरन्ते ॥१७॥
भगवन्! किमिच्छसि, किमहं ददामि ।
शक्रः – महत्तरं भिक्खं याचेमि ।
कर्णः – महत्तरां भिक्षां भवते प्रदास्ये ।
श्रूयन्तां मद्विभवाः, गुणवदमृतकल्पक्षीरधाराभिवर्षि द्विजवर! रुचितं ते तृप्तवत्सानुपातम् ।
तरुणमधिकमर्थिप्रार्थनीयं पवित्रं विहितकनकशृङ्गं गोसहस्रं ददामि ॥१८॥
शक्रः – गोसहस्सं त्ति ।
मुहुत्तअं खिरं पिबामि ।
णेच्छामि कण्ण! णेच्छामि ।
कर्णः – किं नेच्छति भगवान् ।
इदमपि श्रूयतां, रवितुरगसमानं साधनं राजलक्ष्म्याः सकलनृपतिमान्यं मान्यकाम्बोजजातम् ।
सुगुणमनिलवेगं युद्धदृष्टापदानं सपदि बहुसहस्रं वाजिनां ते ददामि ॥१९॥
शक्रः – अस्स त्ति ।
मुहुत्तअं आलुहामि ।
णेच्छामि कण्ण! णेच्छामि ।
कर्णः – किं नेच्छति भगवान् ।
अन्यदपि श्रूयतां, मदसरितकपोलं षट्पदैः सेव्यमानं गिरिवरनिचयाभं मेघगम्भीरघोषम् ।
सितनखदशनानां वारणानामनेकं रिपुसमरविमर्दं वृन्दमेतद् ददामि ॥२०॥
शक्रः – गअ त्ति ।
मुहुत्तअं आलुहामि ।
णेच्छामि कण्ण! णेच्छामि ।
कर्णः – किं नेच्छति भगवान् ।
अन्यदपि श्रूयताम् ।
अपर्याप्तं कनकं ददामि ।
शक्रः – गह्णिअ गच्छामि ।
(किञ्चिद् गत्वा) णेच्छामि कण्ण! णेच्छामि ।
कर्णः – तेन हि जित्वा पृथिवीं ददामि ।
शक्रः – पुहुवीए किं करिस्सं ।
कर्णः – तेन ह्यग्निष्टोमफलं ददामि ।
शक्रः – अग्गिट्ठोमफलेण किं कय्यं ।
कर्णः – तेन हि मच्छिरो ददामि ।
शक्रः – अविहा अविहा ।
कर्णः – न भेतव्यं न भेतव्यम् ।
प्रसीदतु भगवान् ।
अन्यदपि श्रूयताम् ।
अङ्गैः सहैव जनितं मम देहरक्षा देवासुरैरपि न भेद्यमिदं सहास्त्रैः ।
देयं तथापि कवचं सह कुण्डलाभ्यां प्रीत्या मया भगवतो रुचितं यदि स्यात् ॥२१॥
शक्रः – (सहर्षम्) देदु देदु ।
कर्णः – (आत्मगतम्) एष एवास्य कामः ।
किन्नुखल्वनेककपटबुद्धेः कृष्णस्योपायः ।
सोऽपि च भवतु ।
धिगयुक्तमनुशोचितुम् ।
नास्ति संशयः ।
(प्रकाशम्) गृह्यताम् ।
शल्यः – अङ्गराज! न दातव्यं न दातव्यम् ।
कर्णः – शल्यराज! अलमलं वारयितुम् ।
पश्य, शिक्षा क्षयं गच्छति कालपर्ययात् सुबद्धमूला निपतन्ति पादपाः ।
जलं जलस्थानगतं च शुष्यति हुतं च दत्तं च तथैव तिष्ठति ॥२२॥
तस्माद् गृह्यताम् ।
(निकृत्य ददाति) शक्रः – (गृहीत्वा आत्मगतम्) गृहीते एते ।
पूर्वमेवाहमर्जुनविजयार्थं सर्वदेवैर्यत् समर्थितं, तदिदानीं मयानुष्ठितम् ।
तस्मादहमप्यैरावतमारुह्यार्जुनकर्णयोर्युद्धविशेषं पश्यामि ।
(निष्क्रान्तः) शल्यः – अङ्गराज! वञ्चितः खलु भवान् ।
कर्णः – केन ।
शल्यः – शक्रेण ।
कर्णः – न खलु ।
शक्रः खलु मया वञ्चितः ।
कुतः, अनेकयज्ञाहुतितर्पितो द्विजैः किरीटिमान् दानवसङ्घमर्दनः ।
सुरद्विपास्फालनकर्कशाङ्गुलिर्मया कृतार्थः खलु पाकशासनः ॥२३॥
(प्रविश्य ब्राह्मणरूपेण) देवदूतः – भोः कर्ण! कवचकुण्डलग्रहणपश्चात्तापेन पुरन्दरेणानुगृहीतोऽसि ।
पाण्डवेष्वेकपुरुषवधार्थममोघमस्त्रं विमला नाम शक्तिरियं गृह्यताम् ।
कर्णः – धिग्, दत्तस्य न प्रतिगृह्णामि ।
देवदूतः – ननु ब्राह्मणवचनाद् गृह्यताम् ।
कर्णः – ब्राह्मणवचनमिति ।
न मयातिक्रान्तपूर्वम् ।
कदा लभेय ।
देवदूतः – यदा स्मरसि तदा लभस्व ।
कर्णः – बाढम् ।
अनुगृहीतोऽस्मि ।
प्रतिनिवर्ततां भवान् ।
देवदूतः – बाढम् ।
(निष्क्रान्तः) कर्णः – शल्यराज! यावद् रथमारोहावः ।
शल्यः – बाढम् ।
(रथारोहणं नाटयतः) कर्णः – अये शब्द इव श्रूयते ।
किन्नुखल्विदम् ।
शङ्खध्वनिः प्रलयसागरघोषतुल्यः कृष्णस्य वा न तु भवेत् स तु फल्गुनस्य ।
नूनं युधिष्ठिरपराजयकोपितात्मा पार्थः करिष्यति यथाबलमद्य युद्धम् ॥२४॥
शल्यराज! यत्रासावर्जुनः, तत्रैव चोद्यतां मम रथः ।
शल्यः – बाढम् ।
(भरतवाक्यम्) सर्वत्र सम्पदः सन्तु नश्यन्तु विपदः सदा ।
राजा राजगुणोपेतो भूमिमेकः प्रशास्तु नः ॥२५॥
(निष्क्रान्तौ) कर्णभारमवसितम् ।