दूतघटोत्कचम्

श्रीः ॥
श्रीगणेशाय नमः ।
महाकविश्रीभासप्रणीतं दूतघटोत्कचम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः – नारायणस्त्रिभुवनैकपरायणो वः पायादुपायगतयुक्तिकरः सुराणाम् ।
लोकत्रयाविरतनाटकतन्त्रवस्तुप्रस्तावनप्रतिसमापनसूत्रधारः ॥१॥
एवमार्यमिश्रान् विज्ञापयामि ।
अये किन्नुखलु मयि विज्ञापनव्यग्रे शब्द इव श्रूयते ।
अङ्ग! पश्यामि ।
(नेपथ्ये) भो भो! निवेद्यतां निवेद्यतां तावत् ।
सूत्रधारः – भवतु, विज्ञातम् ।
एष खलु संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये तदनन्तरमुपगतभीष्मवधामर्षितैर्धार्तराष्ट्रैः परिवार्य निहतः कुमारोऽभिमन्युः ।
तथाहि, यान्त्यर्जुनप्रत्यभियानभीता यतोऽर्जुनस्तां दिशमीक्षमाणाः ।
नराधिपाः स्वानि निवेशनानि सौभद्रबाणाङ्कितनष्टसञ्ज्ञाः ॥२॥
(निष्क्रान्तः) स्थापना ।
(ततः प्रविशति भटः) भटः – निवेद्यतां निवेद्यतां पुत्रशतश्लाघ्यबान्धवाय विज्ञानविस्तारितविनयाचारदीर्घचक्षुषे महाराजाय धृतराष्ट्राय ।
एष खलु, यौधस्यन्दनवाजिवारणवधैर्विक्षोभ्य राज्ञां बलं बालेनार्जुनकर्म येन समरे लीलायता दर्शितम् ।
सौभद्रः स रणे नराधिपशतैर्वेगागतैः सर्विश्वखेशतस्व पितामहस्य सहसैवोत्सङ्गमारोपितः ॥३॥
इति ।
(ततः प्रविशति धृतराष्ट्रो गान्धारी दुःशला प्रतिहारी च) धृतराष्ट्रः – कथं कथं भोः! केनैतच्छ्रुतिपथदूषणं कृतं मे कोऽयं मे प्रियमिति विप्रियं ब्रवीति ।
कोऽस्माकं शिशुवधपातकाङ्कितानां वंशस्य क्षयमवघोषयत्यभीतः ॥४॥
गान्धारी – महाराअ! अत्थि पुण, जाणीअदि केवलं पुत्तसङ्खअकारओ कुलविग्गहो भविस्सदि त्ति ।
धृतराष्ट्रः – गान्धारि! ज्ञायते ।
गान्धारी – महाराअ! कदाणुखु ।
धृतराष्ट्रः – गान्धारि! शृणु ।
अद्याभिमन्युनिधनाज्जनितप्रकोपः सामर्षकृष्णधृतरश्मिगुणप्रतोदः ।
पार्थः करिष्यति तदुग्रधनुस्सहायः शान्तिं गमिष्यति विनाशमवाप्य लोकः ॥५॥
गान्धारी – हा अभिमञ्ञो! ईदिसे वि णाम उत्तमपुरुसक्खअकारए कुलविग्गहे वत्तमाणे बालभावणिमज्जअं अम्माणं भल्लग्गकमेण करअन्तो कहिं दाणि पोत्तअ! गदो सि ।
दुःशला – जेण दाणि वहूए उत्तराए वेधव्वं दाइदं, तेण अत्तणो जुवदिजणस्स वेधव्वमादिट्ठं ।
धृतराष्ट्रः – अथ केनैष व्यसनार्णवस्य सेतुर्बद्धः ।
भटः – महाराज! मया ।
धृतराष्ट्रः – को भवान् ।
भटः – महाराज! ननु जयत्रातोऽस्मि ।
धृतराष्ट्रः – जयत्रात! केनाभिमन्युर्निहतः कस्य जीवितमप्रियम् ।
पञ्चानां पाण्डवाग्नीनामात्मा येनेन्धनीकृतः ॥६॥
भटः – महाराज! बहुभिः खलु पार्थिवैः सह समागतैर्निहतः कुमारोऽभिमन्युः ।
स्यात् तु जयद्रथो निमित्तभूतः ।
धृतराष्ट्रः – किं किं जयद्रथो निमित्तभूतः ।
भटः – महाराज! अथकिम् ।
धृतराष्ट्रः – हन्त जयद्रथो निहतः ।
(तच्छ्रुत्वा दुःशला रोदिति) धृतराष्ट्रः – कैषा रोदिति ।
प्रतिहारी – महाराअ! भट्टिदारिआ दुश्शला ।
धृतराष्ट्रः – वत्से! अलमलं रुदितेन ।
पश्य, भर्तुस्ते नूनमत्यन्तमवैधव्यं न रोचते ।
येन गाण्डीविबाणानामात्मा लक्षीकृतः स्वयम् ॥७॥
दुःशला – तेण हि अणुजाणादु मं तादो, अहं पि गमिस्सं वहूए उत्तराए सआसं ।
धृतराष्ट्रः – वत्से! किमभिधास्यसि ।
दुःशला – ताद! एवञ्च भणिस्सं – अज्ज कालिअं च दे वेसग्गहणं अहं वि उवधारैस्सामि त्ति ।
गान्धारी – पुत्तिए! माखु माखु अमङ्गलं भणाहि ।
जीवदि खु दे भत्ता ।
दुःशला – अम्ब! कुदो मे एत्तिआणि भाअधेआणि ।
जोजणद्दणसहाअस्स धणञ्जअस्स विप्पिअं करिअ को हि णाम जीविस्सिदि ।
धृतराष्ट्रः – सत्यमाह तिचस्थिनी दुःशला ।
कुतः, कृष्णस्याष्टभुजोपधानरचिते योऽङ्के विवृद्धश्चिरं यो मत्तस्य हलायुधस्य भवति प्रीत्या द्वितीयो मदः ।
पार्थानां सुरतुल्यविक्रमवतां स्नेहस्य यो भाजनं तं हत्वा क इहोपलप्स्यति चिरं स्वैर्दुष्कृतैर्जीवितम् ॥८॥
जयत्रात! अथ तदवस्थं पुत्रं दृष्ट्वा किं प्रतिपन्नं तेन गाण्डीवधन्वना ।
भटः – महाराज! किं वार्जुनसमीपे वृत्तमेतत् ।
धृतराष्ट्रः – कथमर्जुनोऽपि नात्रासीत् ।
भटः – महाराज! अथकिम् ।
धृतराष्ट्रः – कथमिदानीं वृत्तमेतत् ।
भटः – महाराज! श्रूयतां – संशप्तकानीकनिवाहिते जनार्दनसहाये धनञ्जये स बालभावाददृष्टदोषः सङ्ग्राममवतीर्णः कुमारोऽभिमन्युः ।
धृतराष्ट्रः – हन्त! युक्तरूपोऽस्य वधः ।
को हि समर्थः सन्निहितशार्दूलां गुहां धर्षयितुम् ।
अथ शेषाः पाण्डवाः किमनुतिष्ठन्ति ।
भटः – महाराज! श्रूयतां, चितां न तावत् स्वयमस्य देहमारोपयन्त्यर्जुनदर्शनार्थम् ।
तेषां च नामान्युपधारयन्ति यैस्तस्य गात्रे प्रहृतं नरेन्द्रैः ॥९॥
धृतराष्ट्रः – गान्धारि! तदागम्यताम् ।
गङ्गाकूलमेव यास्यावः ।
गान्धारी – महाराअ! णं तहिं गाहामो ।
धृतराष्ट्रः – गान्धारि! शृणु, अद्यैव दास्यामि जलं हतेभ्यः स्वेनापराधेन तवात्मजेभ्यः ।
न त्वस्मि शक्तः सलिलप्रदानैः कर्तुं नृपाणां शिबिरोपरोधम् ॥१०॥
(ततः प्रविशति दुर्योधनो दुःशासनः शकुनिश्च) दुर्योधनः – वत्स! दुःशासन! यातोऽभिमन्युनिधनात् स्थिरतां विरोधः प्राप्तो जयः प्रचलिता रिपवो निरस्ताः ।
उन्मूलितोऽस्य च मदो मधुसूदनस्य लब्धो मयाद्य सममभ्युदयेन शब्दः ॥११॥
दुःशासनः – अहोतुखलु, रुद्धाः पाण्डुसुता जयद्रथबलेनाक्रम्य शत्रोर्बलं सौभद्रे विनिपातिते शरशतक्षेपैर्द्वितीयेऽर्जुने ।
प्राप्तैश्च व्यसनानि भीष्मपतनादस्माभिरस्याहवे तीव्राः शोकशराः कृताः खलु मनस्येषां सुतोत्सादनात् ॥१२॥
शकुनिः – जयद्रथेनाद्य महत् कृतं रणे नृपैरसम्भावितमात्मपौरुषम् ।
प्रसह्य तेषां यदनेन संयुगे समं सुतेनाप्रतिमं हृतं यशः ॥१३॥
दुर्योधनः – मातुल! ।
शकुनिः – वत्स! किम् ।
दुर्योधनः – मातुल! इतस्तावत् ।
वत्स! दुःशासन! इतस्तावत् ।
तत्रभवन्तं तातमभिवादयिष्यामः ।
शकुनिः – वत्स! दुर्योधन! मामैवम् ।
कामं न तस्य रुचितः कुलविग्रहोऽयमस्मांश्च गर्हयति स प्रियपाण्डवत्वात् ।
युद्धोत्थितैर्जयमवाप्य हि तुल्यरूपम् एवं प्रहृष्टवदनैरभिगन्तुमेनम् ॥१४॥
दुर्योधनः – मातुल! मामैवम् ।
यथा तथा भवतु, तत्रभवन्तं तातमभिवादयिष्यामः ।
(परिक्रामति) दुर्योधनः – तात! दुर्योधनोऽहमभिवादये ।
दुःशासनः – तात! दुःशासनोऽहमभिवादये ।
शकुनिः – शकुनिरहमभिवादये ।
सर्वे – कथमाशीर्वचनं न प्रयुज्यते ।
धृतराष्ट्रः – पुत्र! कथमाशीर्वचनमिति ।
सौभद्रे निहते बाले हृदये कृष्णपार्थयोः ।
जीविते निरपेक्षाणां कथमाशीः प्रयुज्यते ॥१५॥
दुर्योधनः – तात! किङ्कृतोऽयं सम्भ्रमः ।
धृतराष्ट्रः – किङ्कृतोऽयं सम्भ्रम इति ।
एका कुलेऽस्मिन् बहुपुत्रनाथे लब्धा सुता पुत्रशताद् विशिष्टा ।
सा बान्धवानां भवतां प्रसादाद् वैधव्यमश्लाघ्यमवाप्स्यतीति ॥१६॥
दुर्योधनः – किं चात्र जयद्रथस्य ।
धृतराष्ट्रः – तेन किल वरविदग्धेन रुद्धाः पाण्डवाः ।
दुर्योधनः – आ तेन रुद्धाः, बहुभिः खल्वन्यैः ।
धृतराष्ट्रः – भोः कष्टम् ।
बहूनां समुपेतानामेकस्मिन्निर्घृणात्मनाम् ।
बाले पुत्रे प्रहरतां कथं न पतिता भुजाः ॥१७॥
दुर्योधनः – तात! वृद्धं भीष्मं छलैर्हत्वा कथं न पतिता भुजाः ।
हत्वास्माकं पतिष्यन्ति तमबालपराक्रमम् ॥१८॥
धृतराष्ट्रः – पुत्र! किं भीष्मस्य निपातनमभिमन्योश्च वधः समः ।
दुर्योधनः – तात! कथं न समः ।
धृतराष्ट्रः – पुत्र! श्रूयताम्, स्वच्छन्दमृत्युर्निहतो हि भीष्मः स्वेनोपदेशेन कृतात्मतुष्टः ।
अयं तु बालः कुरुवंशनाथश्छिन्नोऽर्जुनस्य प्रथमः प्रवालः ॥१९॥
दुःशासनः – तात! बालो न बाल इति ।
अभिमन्युना, धृतराष्ट्रः – किं किं दुःशासनो व्याहरति ।
दुःशासनः – अथकिम् ।
सर्वेषां नः पश्यतां युध्यतां च व्याधामोष्मं गृह्य चापं करेण ।
सूर्येणेवाभ्यागतैरंशुजालैः सर्वे बाणैरङ्किता भूमिपालाः ॥२०॥
धृतराष्ट्रः – कष्टं भोः! बालेनैकेन तावद् भोः! सौभद्रेणेदृशं कृतम् ।
पुत्रव्यसनसन्तप्तः पार्थो वः किं करिष्यति ॥२१॥
दुर्योधनः – किं करिष्यति ।
धृतराष्ट्रः – तत् करिष्यति, यत् सावशेषायुषो द्रक्ष्यथ ।
दुर्योधनः – तात! कस्तावदर्जुनो नाम ।
धृतराष्ट्रः – पुत्र! अर्जुनमपि न जानीषे ।
दुर्योधनः – न जाने ।
धृतराष्ट्रः – तेन हि, अहमपि न जाने ।
किन्तु, अर्जुनस्य बलवीर्यज्ञा बहवः सन्ति ।
तान् पृच्छ ।
दुर्योधनः – तात! केऽर्जुनस्य बलवीर्यज्ञा मया प्रष्टव्याः ।
धृतराष्ट्रः – पुत्र! श्रूयतां, शक्रं पृच्छ पुरा निवातकवचप्राणोपहारार्चितं पृच्छास्त्रैः परितोषितं बहुविधैः कैरातरूपं हरम् ।
पृच्छाग्निं भुजगाहुतिप्रणयिनं यस्तर्पितः खाण्डवे विद्यारक्षितमद्य येन च जितस्त्वं पृच्छ चित्राङ्गदम् ॥२२॥
दुर्योधनः – यद्येतद् वीर्यमर्जुनस्य, किमस्माकं बले न सन्ति प्रतियोद्धारोऽर्जुनस्य ।
धृतराष्ट्रः – पुत्र! यदि, के ।
दुर्योधनः – ननु कर्ण एव तावत् ।
धृतराष्ट्रः – अहो हास्यः खलु तपस्वी कर्णः ।
दुर्योधनः – केन कारणेन ।
धृतराष्ट्रः – श्रूयतां, शक्रापनीतकवचोऽर्धरथः प्रमादी व्याजोपलब्धविफलास्त्रबलो घृणावान् ।
कर्णोऽर्जुनस्य किलयास्यति तुल्यभावं यद्यस्त्रदानगुरवो दहनेन्द्ररुद्राः ॥२३॥
शकुनिः – प्रभवति भवानस्मानवधीरयितुम् ।
धृतराष्ट्रः – शकुनिरेष व्याहरति ।
भोः शकुने! त्वया हि यत् कृतं कर्म सततं द्यूतशालिना ।
तत् कुलस्यास्य वैराग्निर्बालेष्वपि न शाम्यति ॥२४॥
दुर्योधनः – अये, भूमिकम्पः सशब्दोऽयं कुतोनु सहसोत्थितः ।
उल्काभिश्च पतन्तीभिः प्रज्वालितमिवाम्बरम् ॥२५॥
धृतराष्ट्रः – पुत्र! एवं मन्ये, सुव्यक्तं निहतं दृष्ट्वा पौत्रमायस्तचेतसः ।
उल्कारूपाः पतन्त्येते महेन्द्रस्याश्रुबिन्दवः ॥२६॥
दुर्योधनः – जयत्रात! गच्छ, पाण्डवशिबिरे शङ्खपटहसिंहनादरवोन्मिश्रः किङ्कृतोऽयं शब्द इति ज्ञायताम् ।
भटः – यदाज्ञापयति महाराजः ।
(निष्क्रम्य प्रविश्य) संशप्तकानीकनित्राहितप्रतिनिवृत्तेन धनञ्जयेन निहतं पुत्रमङ्कस्थमश्रुभिः परिषिच्य जनार्दनावभर्त्सितेन प्रतिज्ञातं किलानेन ।
दुर्योधनः – किमिति किमिति ।
भटः – तस्यैव व्यवसायतुष्टहृदयैस्तद्विक्रमोत्साहिभिस्तुष्टास्यैर्जितमित्यवेक्ष्य सहसा नादः प्रकर्षात् कृतः ।
आक्रान्ता गुरुभिर्धराधरवरैः सङ्क्षेपितैः पार्थिवैर्भूमिश्चागतसम्भ्रमेव युवतिस्तस्मिन् क्षणे कम्पिता ॥२७॥
धृतराष्ट्रः – प्रतिज्ञास्वरमात्रेण कम्पितेयं वसुन्धरा ।
सुव्यक्तं धनुषि स्पृष्टे त्रैलोक्यं विचलिष्यति ॥२८॥
दुर्योधनः – किमनेन प्रतिज्ञातम् ।
भटः – येन मे निहतः पुत्रस्तुष्टिं ये च हते गताः ।
श्वः सूर्येऽस्तमसम्प्राप्ते निहनिष्यामि तानहम् ॥२९॥
दुर्योधनः – प्रतिज्ञाव्याघाते प्रयत्नमनुतिष्ठामि ।
धृतराष्ट्रः – पुत्र! किं करिष्यसि ।
दुर्योधनः – ननु सर्वाक्षौहिणीसन्दोहेनच्छादयिष्ये जयद्रथम् ।
अपिच, द्रोणोपदेशेन यथा तथैव संयोजये व्यूहमभेद्यरूपम् ।
खिन्नाशयास्ते सगजाः सयोधा अप्राप्तकामा ज्वलनं विशेयुः ॥३०॥
धृतराष्ट्रः – अपि प्रविष्टं धरणीमप्यारूढं नभःस्थलम् ।
सर्वत्रानुगमिष्यन्ति शरास्ते कृष्णचक्षुषः ॥३१॥
भटः – क्रूरमेवं नरपतिं नित्यमुद्यतशासनम् ।
यः कश्चिदपरो ब्रूयान्न तु जीवेत् स तत्क्षणम् ॥३२॥
(ततः प्रविशति घटोत्कचः) घटोत्कचः – एष भोः! प्रयामि सौभद्रविनाशचो(द)कं दिदृक्षुरद्यारिमनार्यचेतसम् ।
विचिन्तयंश्चक्रधरस्य शासनं यथा गजेन्द्रोऽङ्कुशशङ्कितो बलिम् ॥३३॥
(अधो विलोक्य) इदमन्योपस्थानद्वारमुखम् ।
यावदवतरामि ।
(अवतीर्य) आत्मनैवात्मानं निवेदयिष्ये ।
हैडिम्बोऽस्मि घटोत्कचो यदुपतेर्वाक्यं गृहीत्वागतो द्रष्टव्योऽत्र मया गुरुः स्वचरितैर्दोषैर्गतः शत्रुताम् ।
दुर्योधनः – एह्येहि प्रविश स्वशत्रुभवनं कौतूहलं मे महद् धृष्टं श्रावय मां जनार्दनवचो दुर्योधनोऽहं स्थितः ॥३४॥
घटोत्कचः – (प्रविश्य) अये अयमत्रभवान् धृतराष्ट्रः ।
अयं ननु ललितगम्भीराकृतिविशेषः ।
आश्चर्यमाश्चर्यम् ।
वृद्धोऽप्यनाततवलीशतसंहतांसः श्रद्धेयरूप इव पुत्रशतस्य धृत्या ।
मन्ये सुरैस्त्रिदिवरक्षणजातशङ्कैस्त्रासान्निमीलितमुखोऽत्रभवान् हि सृष्टः ॥३५॥
पितामह! अभिवादये घटोत्क, न न, युधिष्ठिरादयश्च मे गुरवो भवन्तमभिवादयन्ति ।
पश्चाद् घटोत्कचोऽहमभिवादये ।
धृतराष्ट्रः – एह्येहि पुत्र! न मे प्रियादारवमिदं ममापि यद् भ्रातृनाशाद् व्यसितस्तवात्मा ।
इत्थं च ते नानुगतोऽयमर्थो मत्पुत्रदोषात् कृपणीकृतोऽस्मि ॥३६॥
घटोत्कचः – अहो कल्याणः खल्वत्रभवान् ।
कल्याणानां प्रसूतिं पितामहमाह भगवांश्चक्रायुधः ।
धृतराष्ट्रः – (आसनादुत्थाय) किमाज्ञापयति भगवांश्चक्रायुधः ।
घटोत्कचः – न न न, आसनस्थेनैव भवता श्रोतव्यो जनार्दनस्य सन्देशः ।
धृतराष्ट्रः – यदाज्ञापयति भगवांश्चक्रायुधः ।
(उपविशति) घटोत्कचः – पितामह! श्रूयतां – हा वत्स! अभिमन्यो! हा वत्स! कुरुकुलप्रदीप! हा वत्स! यदुकुलप्रवाल! तव जननीभ्रातरं जनार्दनं मामपि परित्यज्य पितामहं द्रष्टुमाशया स्वर्गमभिगतोऽसि ।
पितामह! एकपुत्रविनाशादर्जुनस्य तावदीदृशी खल्ववस्था, का पुनर्भवतो भविष्यति ।
ततः क्षिप्रमिदानीमात्मबलाधानं कुरुष्व, यथा ते पुत्रशोकसमुत्थितोऽग्निर्न दहेत् प्राणमयं हविरिति ।
धृतराष्ट्रः – सक्रोधव्यवसायेन कृष्णेनैतदुदाहृतम् ।
पश्यामीव हि गाण्डीवी सर्वक्षत्त्रवधे धृतः ॥३७॥
दुर्योधनः – अहो हास्यमभिधानम् ।
घटोत्कचः – किमेतद्धास्यते ।
दुर्योधनः – एतद्धास्यते ।
देवैर्मन्त्रयते सार्धं स कृष्णो जातमत्सरः ।
पार्थेनैकेन यो वेत्ति निहतं राजमण्डलम् ॥३८॥
घटोत्कचः – हससि त्वमहं वक्ता प्रेषितश्चक्रपाणिना ।
श्रावितं पार्थकर्मेदमहो युक्तं तवैव तु ॥३९॥
अपिच, भवतापि श्रोतव्यो जनार्दनस्य सन्देशः ।
दुःशासनः – मा तावद् भोः! क्षत्त्रियावमानिन्! पृथिव्यां शासनं यस्य धार्यते सर्वपार्थिवैः ।
सन्देशः श्रोष्यतेऽप्यन्यो नराज्ञस्तस्य सन्निधौ ॥४०॥
घटोत्कचः – कथं कथम् ।
अराजा नाम भवतां चक्रायुधः ।
हं भोः! मुक्ता येन नृपतयः प्रभ्रष्टमानोच्छ्रया येनाघं नृपमण्डलस्य मिषतो भीष्माग्रहस्ताद् वृतम् ।
श्रीर्यस्याभिरता नियोगसुमुखी श्रीवत्सशय्यागृहे श्लाघ्यः पार्थिवपार्थिवस्तव कथं राजा न चक्रायुधः ॥४१॥
दुर्योधनः – दुःशासन! अलमलं विवादेन ।
राजा वा यदि वाराजा बली वा यदि वाबली ।
बहुनात्र किमुक्तेन किमाह भवतां प्रभुः ॥४२॥
घटोत्कचः – अथकिम् अथकिम् ।
प्रभुरेव त्रैलोक्यनाथस्तत्रभवान् नारायणः, विशेषतोऽस्माकं प्रभुः ।
अपिच, अवसितमवगच्छ क्षत्त्रियाणां विनाशं नृपशतविनिचितया लाघवं चास्तु भूमेः ।
न हि तनयविनाशादुद्यतोग्रास्त्रमुक्तेः समरशिरसि कश्चित् फल्गुनस्यातिभारः ॥४३॥
शकुनिः – यदि स्याद् वाक्यमात्रेण निर्जितेयं वसुन्धरा ।
वाक्ये वाक्ये यदि भवेत् सर्वक्षत्त्रवधः कृतः ॥४४॥
घटोत्कचः – रे रे! शकुनिरेष व्याहरति ।
भोः शकुने! अक्षान् विमुञ्च शकुने! कुरु बाणयोग्यमष्टापदं समरकर्मणि युक्तरूपम् ।
न ह्यत्र दारहरणं न च राज्यतन्त्रं प्राणाः पणोऽत्र रतिरुग्रफलाश्च बाणाः ॥४५॥
दुःशासनः – हेहेप्रयोगतः, क्षिपसि वदसि रूक्षं लङ्घयित्वा प्रमाणं न च गणयसि किञ्चिद् व्याहरन् दीर्घहस्तः ।
यदि खलु तव दर्पो मातृपक्षोग्ररूपो वयमपि खलु रौद्रा राक्षसोग्रस्वभावाः ॥४६॥
घटोत्कचः – शान्तं शान्तं पापम् ।
राक्षसेभ्योऽपि भवन्त एव क्रूरतमाः ।
कुतः, न तु जतुगृहे सुप्तान् भ्रातॄन् दहन्ति निशाचराः शिरसि न तथा भ्रातुः पत्नीं स्पृशन्ति निशाचराः ।
न च सुतवधं सङ्ख्ये वृत्तं स्मरन्ति निशाचरा विकृतवपुषोऽप्युग्राचारा घृणा न तु वर्जिता ॥४७॥
दुर्योधनः – दूतः खलु भवान् प्राप्तो न त्वं युद्धार्थमागतः ।
गृहीत्वा गच्छ सन्देशं न वयं दूतघातकाः ॥४८॥
घटोत्कचः – किं किं दूत इति मां प्रधर्षयसि ।
मा तावद् भोः! न दूतोऽहम् ।
अलं वो व्यवसायेन प्रहरध्वं समागताः ।
ज्याच्छेदाद् दुर्बलो नाहमभिमन्युरिह स्थितः ॥४९॥
महानेष कैशोरकोऽयं मे मनोरथः ।
अपिच, दष्टोष्ठो मुष्टिमुद्यम्य तिष्ठत्येष घटोत्कचः ।
उत्तिष्ठतु पुमान् कश्चिद् गन्तुमिच्छन् यमालयम् ॥५०॥
धृतराष्ट्रः – पौत्र! घटोत्कच! मर्षयतु मर्षयतु भवान् ।
मद्वचना(व)गन्ता भव ।
घटोत्कचः – न शक्नोमि रोषं धारयितुम् ।
तथापि पितामहवचनाद् दूत एवास्मि ।
किमिति विज्ञाप्यस्तत्रभवान् नारायणः ।
दुर्योधनः – आः कस्य विज्ञाप्यम् ।
मद्वचनादेवं स वक्तव्यः, किं व्यर्थं बहु भाषसे न खलु ते पौरुषसाध्या वयं दूरं नार्हति किञ्चिदेव वचनं युद्धं यदा दास्यति ।
निर्याम्येष निरन्तरं नृपशतच्छत्रावलीभिर्वृतस्तिष्ठ त्वं सह पाण्डवैः प्रतिवचो दास्यामि ते सायकैः ॥५१॥
इति ।
घटोत्कचः – पितामह! एष गच्छामि ।
धृतराष्ट्रः – पौत्र! गच्छ गच्छ ।
घटोत्कचः – भो भो राजानः! श्रूयतां जनार्दनस्य पश्चिमसन्देशः, धर्मं समाचर गुरु स्वजनव्यपेक्षां यत् काङ्क्षितं मनसि सर्वमिहानुतिष्ठ ।
जात्योपदेश इव पाण्डवरूपधारी सूर्यांशुभिः सममुपैष्यति वः कृतान्तः ॥५२॥
इति ।
(निष्क्रान्तः सर्वे) दूतघटोत्कचमवसितम् ।