श्रीः ॥
श्रीगणेशाय नमः ।
महाकविश्रीभासप्रणीतम् ऊरुभङ्गम् ।
(नान्द्यन्ते ततः प्रविशति सूत्रधारः) सूत्रधारः – भीष्मद्रोणतटां जयद्रथजलां गान्धारराजह्रदां कर्णद्रौणिकृपोर्मिनक्रमकरां दुर्योधनस्रोतसम् ।
तीर्णः शत्रुनदीं शराससिकतां येन प्लवेनार्जुनः शत्रूणां तरणेषु वः स भगवानस्तु प्लवः केशवः ॥१॥
एवमार्यमिश्रान् विज्ञापयामि ।
अये किन्नुखलु मयि विञ्जापनव्यग्रे शब्द इव श्रूयते ।
अङ्ग! पश्यामि ।
(नेपथ्ये) एते स्मो भोः! एते स्मः ।
सूत्रधारः – भवतु, विज्ञातम् ।
(प्रविश्य) पारिपार्श्वकः – भाव! कुतोनुखल्वेते, स्वर्गार्थमाहवमुखोद्यतगात्रहोमा नाराचतोमरशतैर्विषमीकृताङ्गाः ।
मत्तद्विपेन्द्रदशनोल्लिखितैः शरीरैरन्योन्यवीर्यनिकषाः पुरुषा भ्रमन्ति ॥२॥
सूत्रधारः – मारिष! किं नावगच्छसि ।
तनयशतनयशून्ये दुर्योधनावशेषे धृतराष्ट्रपक्षे, पाण्डवजनार्दनावशिष्टे युधिष्ठिरपक्षे, राज्ञां शरीरसमाकीर्णे समन्तपञ्चके, एतद् रणाहतगजाश्वनरेन्द्रयौधं सङ्कीर्णलेख्यमिव चित्रपटं प्रविद्धम् ।
युद्धे वृकोदरसुयोधनयोः प्रवृत्ते यौधा नरेन्द्रनिधनैकगृहं प्रविष्टाः ॥३॥
(निष्क्रान्तौ) स्थापना ।
(ततः प्रविशन्ति भटास्त्रयः) सर्वे – एते स्मो भोः! एते स्मः ।
प्रथमः – वैरस्याक्वतनं बलस्य निकषं मानप्रतिष्ठागृहं युद्धेष्वप्सरसां स्वयंवरसभां शौर्यप्रतिष्ठां नृणाम् ।
राज्ञां पश्चिमकालवीरशयनं प्राणाग्निहोमक्रतुं सम्प्राप्ता रणसञ्ज्ञमाश्रमपदं राज्ञां नभःसङ्क्रमम् ॥४॥
द्वितीयः – सम्यग् भवानाह ।
उपलविषमा नागेन्द्राणां शरीरधराधरा दिशि दिशि कृता गृध्रावासा हतातिरथा रथाः ।
अवनिपतयः स्वर्गं प्राप्ताः क्रियामरणे रणे प्रतिमुखमिमे तत्तत् कृत्वा चिरं निहताहताः ॥५॥
तृतीयः – एवमेतत् ।
करिवरकरयूपो बाणविन्यस्तदर्भो हतगजचयनोच्चो वैरवह्निप्रदीप्तः ।
ध्वजविततविमानः सिंहनादोच्चमन्त्रः पतितपशुमनुष्यः संस्थितो युद्धयज्ञः ॥६॥
प्रथमः – इदमपरं पश्येतां भवन्तौ ।
एते परस्परशरैर्हृतजीवितानां देहै रणाजिरमहीं समुपाश्रितानाम् ।
कुर्वन्ति चात्र पिशितार्द्रमुखा विहङ्गा राज्ञां शरीरशिथिलानि विभूषणानि ॥७॥
द्वितीयः – प्रसक्तनाराचनिपातपातितः समग्रयुद्धोद्यतकल्पितो गजः ।
विशीर्णवर्मा सशरः सकार्मुको नृपायुधागारमिवावसीदति ॥८॥
तृतीयः – इदमपरं पश्येतां भवन्तौ ।
माल्यैर्ध्वजाग्रपतितैः कृतमुण्डमालं रत्नैकसायकवरं रथिनं विपन्नम् ।
जामातरं प्रवहणादिव बन्धुनार्यो हृष्टाः शिवा रथमुखादवतारयन्ति ॥९॥
सर्वे – अहोतुखलु निहतपतितगजतुरगनररुधिरकलिलभूमिप्रदेशस्य विक्षिप्तवर्मचर्मातपत्रचामरतोमरशरकुन्तकवचक(ब)न्धादिपर्याकुलस्य शक्तिप्रासहाटकभिण्डिपालशूलमुसलमुद्गरवराहकर्णकणयकर्पणशङ्कुत्रासिगदादिभिरायुधैराकीर्णस्य समन्तपञ्चकस्य प्रतिभयता ।
प्रथमः – इह हि, रुधिरसरितो निस्तीर्यन्ते हतद्विपसङ्क्रमा नृपतिरहितैः स्रस्तैः सूतैर्वहन्ति रथान् हयाः ।
पतितशिरसः पूर्वाभ्यासाद् द्रवन्ति कबन्धकाः पुरुषरहिता मत्ता नागा भ्रमन्ति यतस्ततः ॥१०॥
द्वितीयः – इदमपरं पश्येतां भवन्तौ ।
एते, गृध्रा मधूकमुकुलोन्नतपिङ्गलाक्षा दैत्येन्द्रकुञ्जरनताङ्कुशतीक्ष्णतुण्डाः ।
भान्त्यम्बरे विततलम्बविकीर्णपक्षा मांसैः प्रवालरचिता इव तालवृन्ताः ॥११॥
तृतीयः – एषा निरस्तहयनागनरेन्द्रयौधा व्यक्तीकृता दिनकरोग्रकरैः समन्तात् ।
नाराचकुन्तशरतोमरखड्गकीर्णा तारागणं पतितमुद्वहतीव भूमिः ॥१२॥
प्रथमः – ईदृश्यामप्यवस्थायामविमुक्तशोभा विराजन्ते क्षत्त्रियाः ।
इह हि, सत्रोद्वर्तितनेत्रषट्पदगणा ताम्रोष्ठपत्रोत्करा भ्रूभेदाञ्चितकेसरा स्वमकुटव्याविद्धसंवर्तिका ।
वीर्यादित्यविबोधिता रणमुखे नाराचनालोन्नता निष्कम्पा स्थलपद्मिनीव रचिता राज्ञामभीतैर्मुखैः ॥१३॥
द्वितीयः – ईदृशानामपि क्षत्त्रियाणां मृत्युः प्रभवति ।
न शक्यं खलु विषमस्थैः पुरुषै राजबलादानं कर्तुम् ।
तृतीयः – किं प्रभवति क्षत्त्रियाणामिति ।
प्रथमः – कः संशयः ।
द्वितीयः – मा मा भवानेवम् ।
स्पृष्ट्वा खाण्डवधूमरञ्जितगुणं संशप्तकोत्सादनं स्वर्गाक्रन्दहरं निवातकवचप्राणोपहारं धनुः ।
पार्थेनाद्य बलान्महेश्वररणक्षेपावशिष्टैः शरैर्दर्पोत्सिक्तवशा नृपा रणमुखे मृत्योः प्रतिग्राहिताः ॥१४॥
सर्वे – अये शब्दः ।
किं मेघा निनदन्ति वज्रपतनैश्चूर्णीकृताः पर्वता निर्घातैस्तुमुलस्वनप्रतिभयैः किं दार्यते वा मही ।
किं मुञ्चत्यनिलावधूतचपलक्षुब्धोर्मिमालाकुलं शब्दं मन्दरकन्दरोदरदरीः संहत्य वा सागरः ॥१५॥
भवतु, पश्यामस्तावत् ।
(सर्वे परिक्रामन्ति) प्रथमः – अये एतत् खलु द्रौपदीकेशधर्षणावमर्षितस्य पाण्डवमध्यमस्य भीमसेनस्य भ्रातृशतवधक्रुद्धस्य महाराजदुर्योधनस्य च द्वैपायनहलायुधकृष्णविदुरप्रमुखानां कुरुयदुकुलदैवतानां प्रत्यक्षं प्रवृत्तं गदायुद्धम् ।
द्वितीयः – भीमस्योरसि (तप्त)काञ्चनशिलापीने प्रतिस्फालिते भिन्ने वासवहस्तिहस्तकठिने दुर्योधनांसस्थले ।
अन्योन्यस्य भुजद्वयान्तरतटेष्वासज्यमानायुधे यस्मिंश्चण्डगदाभिघातजनितः शब्दः समुत्तिष्ठति ॥१६॥
तृतीयः – एष महाराजः, शिष्टोत्कम्पनवल्गमान मकुटः क्रोधाधिकाक्षाननः स्थानाक्रामणवामनीकृततनुः प्रत्यग्रहस्तोच्छ्रयः ।
यस्यैषा रिपुशोणितार्द्रकलिला भात्यग्रहस्ते गदा कैलासस्य गिरेरिवोग्रचरिताद्धोता महेन्द्राशनिः ॥१७॥
प्रथमः – एष सम्प्रहाररुधिरसिक्ताङ्गस्तावद् दृश्यतां पाण्डवः ।
निर्भिन्नाग्रललाटवान्तरुधिरो भग्नांसकूटद्वयः सान्द्रैर्निर्गलितप्रहाररुधिरैरार्द्रीकृतोरःस्थलः ।
भीमो भाति गदाभिघातरुधिरक्लिन्नावगाढव्रणः शैलो मेरुरिवैष धातुसलिलासारोपदिग्धोपलः ॥१८॥
द्वितीयः – भीमां गदां क्षिपति गर्जति वल्गमानः शीघ्रं भुजं हरति तस्य कृतं भिनत्ति ।
चारीं गतिं प्रचरति प्रहरत्यभीक्ष्णं संशिक्षितो नरपतिर्बलवांस्तु भीमः ॥१९॥
तृतीयः – एष वृकोदरः, शिरसि गुरुनिखातस्रस्तरक्तार्द्रगात्रो धरणिधरनिकाशः संयुगेष्वप्रमेयः ।
प्रविशति गिरिराजो मेदिनीं वज्रदग्धः शिथिलविसृतधातुर्हेमकूटो यथाद्रिः ॥२०॥
एष गाढप्रहारशिथिलीकृताङ्गं निपतन्तं भीमसेनं दृष्ट्वा, एकाग्राङ्गुलिधारितोन्नतमुखो व्यासः स्थितो विस्मितः ।
द्वितीयः – दैन्यं याति युधिष्ठिरोऽत्र विदुरो बाष्पाकुलाक्षः स्थितः ।
तृतीयः – स्पृष्टं गाण्डिवमर्जुनेन गगनं कृष्णः समुद्वीक्षते ।
सर्वे – शिष्यप्रीतितया हलं भ्रमयते रामो रणप्रेक्षकः ॥२१॥
प्रथमः – एष महाराजः, वीर्यालयो विविधरत्नविचित्रमौलिर्युक्तोऽभिमानविनयद्युतिसाहसैश्च ।
वाक्यं वदत्युपहसन्न तु भीम! दीनं वीरो निहन्ति समरेषु भयं त्यजेति ॥२२॥
द्वितीयः – एष इदानीमपहास्यमानं भीमसेनं दृष्ट्वा स्वमूरुमभिहत्य कामपि सञ्ज्ञां प्रयच्छति जनार्दनः ।
तृतीयः – एष सञ्ज्ञया समाश्वासितो मारुतिः, संहृत्य भ्रुकुटी ललाटविवरे स्वेदं करेणाक्षिपन् बाहुभ्यां प्रतिगृह्य भीमवदनश्चित्राङ्गदां स्वां गदाम् ।
पुत्रं दीनमुदीक्ष्य सर्वगतिना लब्ध्वेव दत्तं बलं गर्जन् सिंहवृषेक्षणः क्षितितलाद् भूयः समुत्तिष्ठति ॥२३॥
प्रथमः – हन्त पुनः प्रवृत्तं गदायुद्धम् ।
अनेन हि, भूमौ पाणितले निघृष्य तरसा बाहू प्रमृज्याधिकं सन्दष्टोष्ठपुटेन विक्रमबलात् क्रोधाधिकं गर्जता ।
त्यक्त्वा धर्मघृणां विहाय समयं कृष्णस्य सञ्ज्ञासमं गान्धारीतनयस्य पाण्डुतनयेनोर्वोर्विमुक्ता गदा ॥२४॥
सर्वे – हा धिक् पतितो महाराजः ।
तृतीयः – एष रुधिरपतनद्योतिताङ्गं निपतन्तं कुरुराजं दृष्ट्वा खमुत्पतितो भगवान् द्वैपायनः ।
य एषः, हेलासंवृतलोचनेन हलिना नेत्रोपरोधः कृतो दृष्ट्वा क्रोधनिमीलितं हलधरं दुर्योधनापेक्षया ।
सम्भ्रान्तैः करपञ्जरान्तरगतो द्वैपायनज्ञापितो भीमः कृष्णकरावलम्बितगतिर्निर्वाह्यते पाण्डवैः ॥२५॥
प्रथमः – अये अयमप्यमर्षोन्मीलितरभसंलोचनो भीमसेनापक्रमणमुद्वीक्षमाण इत एवाभिवर्तते भगवान् हलायुधः ।
य एषः, प्रचलललितमौलिः क्रोधताम्रायताक्षो भ्रमरमुखविदष्टां किञ्चिदुत्कृष्य मालाम् ।
असिततनुविलम्बिस्रस्तवस्त्रानुकर्षी क्षितितलमवतीर्णः पारिवेषीव चन्द्रः ॥२६॥
द्वितीयः – तदागम्यतां वयमपि तावन्महाराजस्य प्रत्यनन्तरीभवामः ।
उभौ – बाढम् ।
प्रथमः कल्पः ।
(निष्क्रान्ताः) विष्कम्भकः ।
(ततः प्रविशति बलदेवः) बलदेवः – भो भोः पार्थिवाः! न युक्तमिदम् ।
मम रिपुबलकालं लाङ्गलं लङ्घयित्वा रणगतमतिसन्धिं मां च नावेक्ष्य दर्पात् ।
रणशिरसि गदां तां तेन दुर्योधनोर्वोः कुलविनयसमृद्ध्या पातितः पातयित्वा ॥२७॥
भो दुर्योधन! मुहूर्तं तावदात्मा धार्यताम् ।
सौभोच्छिष्टमुखं महासुरपुरप्राकारकूटाङ्कुशं कालिन्दीजलदेशिकं रिपुबलप्राणोपहारार्चितम् ।
हन्तोत्क्षिप्तहलं करोमि रुधिरस्वेदार्द्रपाकोत्तरं भीमस्योरसि यावदद्य विपुले केदारमार्गाकुलम् ॥२८॥
(नेपथ्ये) प्रसीदतु प्रसीदतु भगवान् हलायुधः ।
बलदेवः – एवङ्गतोऽप्यनुगच्छति मां तपस्वी दुर्योधनः ।
एषः, श्रीमान् संयुगचन्दनेन रुधिरेणार्द्रानुलिप्तच्छविर्भूसंसर्पणरेणुपाटलभुजो बालव्रतं ग्राहितः ।
निर्वृत्तेऽमृतमन्थने क्षितिधरान्मुक्तः सुरैः सासुरैराकर्षन्निव भोगमर्णवजले श्रान्तोज्झितो वासुकिः ॥२९॥
(ततः प्रविशति भग्नोरुयुगलो दुर्योधनः) दुर्योधनः – एष भोः! भीमेन भित्त्वा समयव्यवस्थां गदानिपातक्षतजर्जरोरुः ।
भूमौ भुजाभ्यां परिकर्षमाणं स्वं देहमर्धोपरतं वहामि ॥३०॥
प्रसीदतु प्रसीदतु भगवान् हलायुधः ।
त्वत्पादयोर्निपतितं पतितस्य भूमावेतच्छिरः प्रथममद्य विमुञ्च रोषम् ।
जीवन्तु ते कुरुकुलस्य निवापमेघा वैरं च विग्रहकथा च वयं च नष्टाः ॥३१॥
बलदेवः – भो दुर्योधन! मुहूर्तं तावदात्मा धार्यताम् ।
दुर्योधनः – किं भवान् करिष्यति ।
बलदेवः – श्रूयताम्, आक्षिप्तलाङ्गलमुखोल्लिखितैः शरीरैर्निर्दारितांसहृदयान्मुसलप्रहारैः ।
दास्यामि संयुगहतान् सरथाश्वनागान् स्वर्गानुयात्रपुरुषांस्तव पाण्डुपुत्रान् ॥३२॥
दुर्योधनः – मा मा भवानेवम् ।
प्रतिज्ञावसिते भीमे गते भ्रातृशते दिवम् ।
मयि चैवं गते राम! विग्रहः किं करिष्यति ॥३३॥
बलदेवः – मत्प्रत्यक्षं वञ्चितो भवानित्युत्पन्नो मे रोषः ।
दुर्योधनः – वञ्चित इति मां भवान् मन्यते ।
बलदेवः – कः संशयः ।
दुर्योधनः – हन्त भोः! दत्तमूल्या इव मे प्राणाः ।
कुतः, आदीप्तानलदारुणाज्जतुगृहाद् बुद्ध्यात्मनिर्वाहिणा युद्धे वैश्रवणालयेऽचलशिलावेगप्रतीसालिना ।
भीमेनाद्य हिडिम्बराक्षसपतिप्राणप्रतिग्राहिणा यद्येवं समवैषि मां छलजितं भो राम! नाहं जितः ॥३४॥
बलदेवः – भीमसेन इदानीं तव युद्धवञ्चनामुत्पाद्य स्थास्यति ।
दुर्योधनः – किं चाहं भीमसेनेन वञ्चितः ।
बलदेवः – अथ केन भवानेवंविधः कृतः ।
राजा – श्रूयतां, येनेन्द्रस्य स पारिजातकतरुर्मानेन तुल्यं हृतो दिव्यं वर्षसहस्रमर्णवजले सुप्तश्च यो लीलया ।
तीव्रां भीमगदां प्रविश्य सहसा निर्व्याजयुद्धप्रियस्तेनाहं जगतः प्रियेण हरिणा मृत्योः प्रतिग्राहितः ॥३५॥
(नेपथ्ये) उस्सरह अय्या! उस्सरह ।
बलदेवः – (विलोक्य) अये अयमत्रभवान् धृतराष्ट्रो गान्धार्या दुर्जयेनादेशितमार्गोऽन्तःपुरानुबन्धः शोकाभिभूतहृदय इति एवाभिवर्तते ।
य एषः, वीर्याकरः सुतशतप्रविभक्तचक्षुर्दर्पोद्यतः कनकयूपविलम्बबाहुः ।
सृष्टो ध्रुवं त्रिदिवरक्षणजातशङ्कैर्देवैररातितिमिराञ्जलिताडिताक्षः ॥३६॥
(ततः प्रविशति धृतराष्ट्रो गान्धारी देव्यौ दुर्जयश्च) धृतराष्ट्रः – पुत्र! क्वासि ।
गान्धारी – पुत्तअ! कहिं सि ।
देव्यौ – महाराअ! कहिं सि ।
धृतराष्ट्रः – भोः! कष्टम् ।
वञ्चनानिहतं श्रुत्वा सुतमद्याहवे मम ।
मुखमन्तर्गतास्राक्षमन्धमन्धतरं कृतम् ॥३७॥
गान्धारि! किं धरसे ।
गान्धारी – जीवाविद ह्मि मन्दभाआ ।
देव्यौ – महाराअ! महाराअ! ।
राजा – भोः! कष्टम् ।
यन्ममापि स्त्रियो रुदन्ति ।
पूर्वं न जानामि गदाभिघातरुजामिदानीं तु समर्थयामि ।
यन्मे प्रकाशीकृतमूर्धजानि रणं प्रविष्टान्यवरोधनानि ॥३८॥
धृतराष्ट्रः – गान्धारि! किं दृश्यते दुर्योधननामधेयः कुलमानी ।
गान्धारी – महाराअ! ण दिस्सदि ।
धृतराष्ट्रः – कथं न दृश्यते ।
अद्यास्मि, योऽहमन्वेष्टव्ये काले पुत्रं न पश्यामि ।
कृतान्तहतक! रिपुसमरविमर्दं मानवीर्यप्रदीप्तं सुतशतमतिधीरं वीरमुत्पाद्य मानी ।
धरणितलविकीर्णं किं स योग्यो न भोक्तुं सकृदपि धृतराष्ट्रः पुत्रदत्तं निवापम् ॥३९॥
गान्धारी – जाद! सुयोधण! देहि मे पडिवअणं ।
पुत्तसदविणासदुक्खिदं महाराअं च मन्दभाअं ।
बलदेवः – अये इयमत्रभवती गान्धारी ।
या पुत्रपौत्रवदनेष्वकुतूहलाक्षी दुर्योधनास्तमितशोकनिपीतधैर्या ।
अस्रैरजस्रमधुना पतिधर्मचिह्नमार्द्रीकृतं नयनबन्धमिदं दधाति ॥४०॥
धृतराष्ट्रः – पुत्र! दुर्योधन! अष्टादशाक्षौहिणीमहाराज! क्वासि ।
राजा – अद्यास्मि महाराजः ।
धृतराष्ट्रः – पुत्रशतज्येष्ठ! देहि मे प्रतिवचनम् ।
दुर्योधनः – (अन्य)न्ददामि खलु वृत्तान्तम् ।
अनेन वृत्तान्तेन व्रीलितोऽस्मि ।
धृतराष्ट्रः – एहि पुत्र! अभिवादयस्व माम् ।
राजा – अयमयमागच्छामि ।
(उत्थानं रूपयित्वा पतति) हा धिक् ।
अयं मे द्वितीयः प्रहारः ।
कष्टं भोः! हृतं मे भीमसेनेन गदापातकचग्रहे ।
सममूरुद्वयेनाद्य गुरोः पादाभिवन्दनम् ॥४१॥
गान्धारी – एत्थ जादा! ।
देव्यौ – अय्ये! इमा ह्म ।
गान्धारी – अण्णेसह भत्तारं ।
देव्यौ – गच्छामि मन्दभाआ ।
धृतराष्ट्रः – क एष भोः! मम वस्त्रान्तमाकर्षन् मार्गमादेशयति ।
दुर्जयः – ताद! अहं दुज्जयो ।
धृतराष्ट्रः – पौत्र! दुर्जय! पितरमन्विच्छ ।
दुर्जयः – परिस्सन्तो खु अहं ।
धृतराष्ट्रः – गच्छ, पितुरङ्के विश्रमयिष्यसि ।
दुर्जयः – ताद! अहं गच्छामि ।
(उपसृत्य) ताद! कहिं सि ।
राजा – अये अयमप्यागतः ।
सर्वावस्थायां हृदयसन्निहितः पुत्रस्नेहो मां दहति ।
कुतः, दुःखानामनभिज्ञेयो ममाङ्कशयनोचितः ।
निर्जितं दुर्जयो दृष्ट्वा किन्नु मामभिधास्यति ॥४२॥
दुर्जयः – अअं महाराओ भूमीए उवविट्ठो ।
राजा – पुत्र! किमर्थमागतः ।
दुर्जयः – तुवं चिरायसि त्ति ।
राजा – अहो अस्यामवस्थायां पुत्रस्नेहो हृदयं दहति ।
दुर्जयः – अहं पि खु दे अङ्के उवविसामि ।
(अङ्कमारोहति) राजा – (निवार्य) दुर्जय! दुर्जय! भोः! कष्टम् ।
हृदयप्रीतिजननो यो मे नेत्रोत्सवः स्वयम् ।
सोऽयं कालविपर्यासाच्चन्द्रो वह्नित्वमागतः ॥४३॥
दुर्जयः – अङ्के उववेसं किण्णिमित्तं तुवं वारेसि ।
राजा – त्यक्त्वा परिचितं पुत्र! यत्रतत्र त्वयास्यताम् ।
अद्यप्रभृति नास्तीदं पूर्वभुक्तं तवासनम् ॥४४॥
दुर्जयः – कहिण्णुखु महाराओ गमिस्सदि ।
राजा – भ्रातृशतमनुगच्छामि ।
दुर्जयः – मं पि तहिं णेहि ।
राजा – गच्छ पुत्र! वृकोदरं ब्रूहि ।
दुर्जयः – एहि महाराअ! अण्णेसीअसि ।
राजा – पुत्र! केन ।
दुर्जयः – अय्याए, अय्येण, सव्वेण अन्तौरेण अ ।
राजा – गच्छ पुत्र! नाहमागन्तुं समर्थः ।
दुर्जयः – अहं तुवं णैस्सं ।
राजा – बालस्त्वमसि पुत्र! ।
दुर्जयः – (परिक्रम्य) अय्या! अअं महाराओ ।
देव्यौ – हा हा महाराओ ।
धृतराष्ट्रः – क्वासौ महाराजः ।
गान्धारी – कहिं मे पुत्तओ ।
दुर्जयः – अअं महाराओ भूमीए उवविट्ठो ।
धृतराष्ट्रः – हन्त भोः! किमयं महाराजः ।
यः काञ्चनरतम्भसमप्रमाणो लोके किलैको वसुधाधिपेन्द्रः ।
कृतः स मे भूमिगतस्तपस्वी द्वारेन्द्रकीलार्धसमप्रमाणः ॥४५॥
गान्धारी – जाद! सुयोधण! परिस्सन्तो सि ।
राजा – भवत्याः खल्वहं पुत्रः ।
धृतराष्ट्रः – केयं भोः! ।
गान्धारी – महाराअ! अहमभीदपुत्तप्पआइणी ।
राजा – अद्योत्पन्नमिवात्मानमवगच्छामि ।
भोस्तात! किमिदानीं वैक्लब्येन ।
धृतराष्ट्रः – पुत्र! कथं विक्लवो भविष्यामि ।
यस्य वीर्यबलोत्सिक्तं संयुगाध्वरदीक्षितम् ।
पूर्वं भ्रातृशतं नष्टं त्वय्येकस्मिन् हते हतम् ॥४६॥
(पतति) राजा – हा धिक् ।
पतितोऽत्रभवान् ।
तात! समाश्वासयात्रभवतीम् ।
धृतराष्ट्रः – पुत्र! किमिति समाश्वासयामि ।
राजा – अपराङ्मुखो युधि हत इति ।
भोस्तात! शोकनिग्रहेण क्रियतां ममानुग्रहः ।
त्वत्पादमात्रप्रणताग्रमौलिर्ज्वलन्तमप्यग्निम् अचिन्तयित्वा ।
येनैव मानेन समं प्रसूतस्तेनैव मानेन दिवं प्रयामि ॥४७॥
धृतराष्ट्रः – वृद्धस्य मे जीवितनिस्स्पृहस्य निसर्गसम्मीलितलोचनस्य ।
धृतिं निगृह्यात्मनि सम्प्रवृत्तस्तीव्रः समाक्रामति पुत्रशोकः ॥४८॥
बलदेवः – भोः! कष्टम् ।
दुर्योधननिराशस्य नित्यास्तमितचक्षुषः ।
न शक्नोम्यत्रभवतः कर्तुमात्मनिवेदनाम् ॥४९॥
राजा – विज्ञापयाम्यत्रभवतीम् ।
गान्धारी – भणाहि जाद! ।
राजा – नमस्कृत्य वदामि त्वां यदि पुण्यं मया कृतम् ।
अन्यस्यामपि जात्यां मे त्वमेव जननी भव ॥५०॥
गान्धारी – मम मणोरहो खु तुए भणिदो ।
राजा – मालवि! त्वमपि शृणु ।
भिन्ना मे भ्रुकुटी गदानिपतितैर्या युद्धकालोत्थितैर्वक्षस्युत्पतितैः प्रहाररुधिरैर्हारावकाशो हृतः ।
पश्येमौ व्रणकाञ्चनाङ्गदधरौ पर्याप्तशोभौ भुजौ भर्ता ते नपराङ्मुखो युधि हतः किं क्षत्त्रिये! रोदिषि ॥५१॥
देवी – बाला एसा सहधम्मचारिणी रोदामि ।
राजा – पौरवि! त्वमपि शृणु ।
वेदोक्तैर्विविधैर्मखैरभिमतैरिष्टं धृता बान्धवाः शत्रूणामुपरि स्थितं प्रियशतान्नव्यंसिताः संश्रिताः ।
युद्धेऽष्टादशवाहिनीनृपतयः सन्तापिता निग्रहे मानं मानिनि! वीक्ष्य मे नहि रुदन्त्येवंविधानां स्त्रियः ॥५२॥
पौरवी – एक्ककिदप्पवेसणिच्चआ ण रोदामि ।
राजा – दुर्जय! त्वमपि शृणु ।
धृतराष्ट्रः – गान्धारि! किन्नुखलु वक्ष्यति ।
गान्धारी – अहं पि तं जव्व चिन्तेमि ।
राजा – अहमिव पाण्डवाः शुश्रूषयितव्याः, तत्रभवत्याश्चाम्बायाः कुन्त्या निदेशो वर्तयितव्यः ।
अभिमन्योर्जननी द्रौपदी चोभे मातृवत् पूजयितव्ये ।
पश्य पुत्र! श्लाघ्यश्रीरभिमानदीप्तहृदयो दुर्योधनो मे पिता तुल्येनाभिमुखं रणे हत इति त्वं शोकमेवं त्यज ।
स्पृष्ट्वा चैव युधिष्ठिरस्य विपुलं क्षौमापसव्यं भुजं देयं पाण्डुसुतैस्त्वया मम समं नामावसाने जलम् ॥५३॥
बलदेवः – अहो वैरं पश्चात्तापः संवृत्तः ।
अये शब्द इव, सन्नाहदुन्दुभिनिनादवियोगमूके विक्षिप्तबाणकवचव्यजनातपत्रे ।
कस्यैष कार्मुकरवो हतसूतयोधे विभ्रान्तवायसगणं गगनं करोति ॥५४॥
(नेपथ्ये) दुर्योधनेनाततकार्मुकेण यो युद्धयज्ञः सहितः प्रविष्टः ।
तमेव भूयः प्रविशाम्यशून्यमध्वर्युणा वृत्तमिवाश्वमेधम् ॥५५॥
बलदेवः – अये अयं गुरुपुत्रोऽश्वत्थामेत एवाभिवर्तते ।
य एषः, स्फुटितकमलपत्रस्पष्टविस्तीर्णदृष्टी रुचिरकनकयूपव्यायतालम्बबाहुः ।
सरभसमयमुग्रं कार्मुकं कर्षमाणः सदहन इव मेरुः शृङ्गलग्नेन्द्रचापः ॥५६॥
(ततः प्रविशत्यश्वत्थामा) अश्वत्थामा – (पूर्वोक्तमेव पठित्वा) भोः! समरसंरम्भोभयबलजलधिसङ्गमसमयसमुत्थितशस्त्रनक्रकृत्तविग्रहाः स्तोकावशेषाः श्वासानुबद्धमन्दप्राणाः समरश्लाघिनो राजानः! शृण्वन्तु शृण्वन्तु भवन्तः ।
छलबलदलितोरुः कौरवेन्द्रो न चाहं शिथिलविफलशस्त्रः सूतपुत्रश्च नाहम् ।
इह तु विजयभूमौ द्रष्टुमद्योद्यतास्त्रः सरभसमहमेको द्रोणपुत्रः स्थितोऽस्मि ॥५७॥
किमनया ममाप्यप्रतिलाभविजयश्लाघया समरश्रिया ।
(परिक्रम्य) मा तावत् ।
मयि गुरुनिवपनव्यग्रे वञ्चितः कुरुतिलकभूतः कुरुराजः ।
क एतच्छ्रद्धास्यति ।
कुतः, उद्यत्प्राञ्जलयो रथद्विपगताश्चापद्वितीयैः करैर्यस्यैकादशवाहिनीनृपतयस्तिष्ठन्ति वाक्योन्मुखाः ।
भीष्मो रामशरावलीढकवचस्तातश्च योद्धा रणे व्यक्तं निर्जित एव सोऽप्यतिरथः कालेन दुर्योधनः ॥५८॥
तत् क्वनुखलु गतो गान्धारीपुत्रः ।
(परिक्रम्यावलोक्य) अये अयमभिहतगजतुरगनररथप्राकारमध्यगतः समरपयोधिपारगः कुरुराजः ।
य एषः, मौलीनिपातचलकेशमयूखजालैर्गात्रैर्गदानिपतनक्षतशोणितार्द्रैः ।
यात्यस्तमस्तकशिलातलसन्निविष्टः सन्ध्यावगाढ इव पश्चिमकालसूर्यः ॥५९॥
(उपसृत्य) भोः कुरुराज! किमिदम् ।
राजा – गुरुपुत्र! फलमपरितोषस्य ।
अश्वत्थामा – भोः कुरुराज! सत्कारमूलमावर्जयिष्यामि ।
राजा – किं भवान् करिष्यति ।
अश्वत्थामा – श्रूयतां, युद्धोद्यतं गरुडपृष्ठनिविष्टदेहं वष्टाष्टभीमभुजमुद्यतशार्ङ्गचक्रम् ।
कृष्णं सपाण्डुतनयं युधि शस्त्रजालैः सङ्कीर्णलेख्यमिव चित्रपटं क्षिपामि ॥६०॥
राजा – मा मा भवानेवम् ।
गतं धात्र्युत्सङ्गे सकलमभिषिक्तं नृपकुलं गतः कर्णः स्वर्गं निपतिततनुः शन्तनुसुतः ।
शतं भ्रातॄणां मे हतमभिमुखं संयुगमुखे वयं चैवम्भूता गुरुसुत! धनुर्मुञ्चतु भवान् ॥६१॥
अश्वत्थामा – भोः कुरुराज! संयुगे पाण्डुपुत्रेण गदापातकचग्रहे ।
सममूरुद्वयेनाद्य दर्पोऽपि भवतो हृतः ॥६२॥
राजा – मा मैवम् ।
मानशरीरा राजानः ।
मानार्थमेव मया निग्रहो गृहीतः ।
पश्य गुरुपुत्र! यत् कृष्टा करनिग्रहाञ्चितकचा द्यूते तदा द्रौपदी यद् बालोऽपि हतस्तदा रणमुखे पुत्रोऽभिमन्युः पुनः ।
अक्षव्याजजिता वनं वनमृगैर्यत् पाण्डवाः संश्रिता नन्वल्पं मयि तैः कृतं विमृश भो! दर्पाहृतं दीक्षितैः ॥६३॥
अश्वत्थामा – सर्वथा कृतप्रतिज्ञोऽस्मि ।
भवता वात्मना चैव वीरलोकैः शपाम्यहम् ।
निशासमरमुत्पाद्य रणे धक्ष्यामि पाण्डवान् ॥६४॥
बलदेवः – एतद् भविष्यत्युदाहृतं गुरुपुत्रेण ।
अश्वत्थामा – हलायुधोऽत्रभवान् ।
धृतराष्ट्रः – हन्त साक्षिमती खलु वञ्चना ।
अश्वत्थामा – दुर्जय! इतस्तावत् ।
पितृविक्रमदायाद्ये राज्ये भुजबलार्जिते ।
विनाभिषेकं राजा त्वं विप्रोक्तैर्वचनैर्भव ॥६५॥
राजा – हन्त कृतं मे हृदयानुज्ञातम् ।
परित्यजन्ति मे प्राणाः ।
इमेऽत्रभवन्तः शन्तनुप्रभृतयो मे पितृपितामहाः ।
एतत् कर्णमग्रतः कृत्वा समुत्थितं भ्रातृशतम् ।
अयमप्यैरावतशिरोविषक्तः काकपक्षधरो महेन्द्रकरतलमवलम्ब्य क्रुद्धोऽभिभाषते मामभिमन्युः ।
इमा उर्वश्यादयोऽप्सरसो मामभिगताः ।
इमे मूर्तिमन्तो महार्णवाः ।
एता गङ्गाप्रभृतयो महानद्यः ।
एष सहस्रहंसप्रयुक्तो मां नेतुं वीरवाही विमानः कालेन प्रेषितः ।
अयमयमागच्छामि ।
(स्वर्गं गतः) (यवनिकास्तरणं करोति) धृतराष्ट्रः – याम्येष सज्जनधनानि तपोवनानि पुत्रप्रणाशविफलं हि धिगस्तु राज्यम् ।
अश्वत्थामा – यातोऽद्य सौप्तिकवधोद्यतबाणपाणिः गां पातु नो नरपतिः शमितारिपक्षः ॥६६॥
(निष्क्रान्ताः सर्वे) ऊरुभङ्गमवसितम् ।