मल्लिनाथः

[[नैषधमहाकाव्यम् Source: EB]]

[

॥ श्रीः ॥

नैषधमहाकाव्यम्

मल्लिनाथकृत ‘जीवातु’ टीका-सहित

सान्वय-सटिप्पण-‘चन्द्रिका’ हिन्दीव्याख्योपेतम्

प्रथमः सर्गः

निपीय यस्य क्षितिरक्षिणः कथां तथाद्रियन्ते न बुधास्सुधामपि ॥
नलस्सितच्छत्त्रितकीर्तिमण्डलस्य राशिरासीन्महसां महोज्जवलः ॥ 1.1 ॥
जीवातु–अथ तत्रमवान् श्रीहर्षकविः ‘काव्यं यशसे1़र्थकृते व्यवहारविदे शिवेतरक्षतये । सद्यः परनिर्वृतये कान्तासम्मिततयोपदेशयुजे ॥’’ इत्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेर्वृतये कान्तासम्मिततयोपदेशयुजे ॥’’ इत्यालङ्कारिकवचनप्रामाण्यात् काव्यस्यानेकश्रेयःसाध्यनत्वाच्च ‘काव्यालापंश्च वर्जयेदि’ति तन्निपरिसमा?प्तिहेतोः ‘आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखमि’ त्या?शीराद्यन्यतमस्य प्रबन्धमुखलक्षणत्वात् कथानायकस्य वस्तुनिर्देशो ललस्य इतिवृत्तरूपं मङ्गलं वस्तु निर्दिदशति-निपीयेति । यस्य क्षितिरक्षिणः क्ष मापालकस्य नलस्य कथाम् उपाख्यानम् । निपीय नितरामास्वाद्य पीङ् स्वादे क्त्वो ल्यबादेशः न तु पिबतेः ‘न ल्ययी’ ति प्रतिषेषादीत्त्वासम्भवात् । बुषास्तज्ज्ञाः सुराश्च ‘ज्ञातृचान्द्रिसुरा बुधा’ इति क्षीरस्वामी । सुधामपि तथा यथेयं कथा तद्वदित्यर्थः, नाद्रियन्ते, सुधामपेक्ष्य बहु मन्यन्ते इति यावत् । सितच्छत्त्रितं सितच्छत्?त्र’ कृतं सितातपत्रीकृतमित्यर्थः, तत् कृताविति ण्यन्तात् कर्मणि क्तः । कीर्तिमण्डलं येन सः । महसां तेजसां राशिः रविरिवेति भावः । महैः उत्सवैः उज्ज्वलः दीप्यमानो नित्यमहोत्सवशलीत्यर्थः । ‘महः उद्धव उत्सव’ इत्यमरः । स नलः आसीत् । अत्र नले महसां राशिरिति कीर्तिमण्डले च सितच्छत्?त्रत्वरूपस्यारोपात् रूपकं कथायाश्च सुधापेक्षया उत्कर्षात् व्यतिरेकश्चेत्यनयोः संसृष्टिः । तदुक्तं दर्पणे ‘रूपकं रूपितारोपाद विषये निरपह्नवे’ इति । ‘‘आधिक्यमुपमेयस्योपमानान्न्यूनताऽथवा । व्यतिरेक’’ इति मिथोऽपेक्षयैतेषं स्थितिः संसृष्टिरुच्यते इति च । अस्मिन् सर्गे वंशस्थं वृत्तं, ‘जतो तु वशंस्थमुदीरितं जरावि’ तल्लक्षात् ॥ 1.1 ॥
अन्वयः–यस्य क्षितिरिक्षणः कथां नियीय बुषाः सुधाम् अपि तथान आद्रियन्ते सितच्छत्रितकीर्तिमण्डलः महसां राशिः महोज्जवलः सः नलः आसीत् ॥ 1.1 ॥
रसैः कथा यस्य सुधावधीरिणी नलस्य भूजानिरभूद् गुणाद्भुतः ॥
सुवर्णदण्डैकसितातपत्?ित्रतज्वलत्प्रापावलिकीतर्तिमण्डलः ॥ 1.2 ॥
जीवातु–इममेवार्थमन्यथा अहा-रसैरिति । यस्य ललस्य कथा रसैःस्वादैः, ‘रसो गन्धो रसः स्वाद’ इति विश्वः । सुधाम् अवधीरयति तिरस्करोति तथोक्ता अमृतातिरिच्यमानस्वादेति यावत्, ताच्छील्ये णिनिः । भुर्जाया यस्य भूजानिःभूपतिरित्यर्थः । ‘जायाया निङि’ति बहुव्रीहौ जायाशब्दस्य निङादेशः । स नलःगुणः शाय्यंदाक्षिण्यादिभिः । अद्भुतः लोकातिशयमहिमेत्यर्थः । अभूत् । कथम्भूतः सुवणैदण्डश्च एकं सितातपत्?त्रञ्च ते कृते द्वन्द्वात् तत्कृताचिति ण्यन्तात् कर्म्मणि क्तः । ज्वलत्प्रतावलिः कीर्त्तिमण्डलञ्च यस्य तथाभूतः । इह कीर्तेः सितातपत्?त्र त्वरूपेण पूर्वोक्तमपि सुवर्णदण्डवैशिष्ट्यात् राज्ञश्च गुणादभुतत्वेन वैचित्र्यात् न पुरुक्तिदोषः । अत्रापि पूर्ववद् व्यतिरेकरूपकयोः ससृष्टिः ॥ 1.2 ॥
अन्वयः–यस्य लनस्य कथा रसैः सुधावधीरिणी गुणादभुतः ( सः ) भूजानिःसुवणैदण्डैकसितातपत्?ित्रतज्वलत्प्रतापावलिकीत्तिमण्डलः अभूत् ॥ 1.2 ॥

पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव तत्कथा ॥
कथं न सा मद्गिरमाविलामपि स्वसेविनोमेव पवित्रयिष्यति ॥ 1.3 ॥
जीवातु–सम्प्रति कविःस्वविनयमाविष्करोति पवित्रमति । अत्र युगे कलो इति यावत् । यस्य नलस्य कथा स्मृता स्मृतिपथं नीतेत्यर्थः । सती जगल्लोकं रसक्षालनयेव जलक्षालनयेवेत्युत्प्रेक्षा, देहधात्वम्बुपारदा’ इति रगपर्य्याये विश्वः ।पवित्रं विशुद्धम् आतनुते करोति, सा कथा आविलां कलुषामपि सदोषामपीति यावत्, स्वसेविनीमेव केवलं स्वकीर्त्तनपरामेवेति भावः । तथा चोक्तं ‘कर्कोटकस्य नागस्य दमयंत्या नलस्य च । ऋतुपर्णस्य रार्षेः कीर्त्तनं कीर्त्तनं कलिनाशनम् ॥’ इति । या सम्तिमात्रेण शोधनी सा कीर्त्तनात् किमुतेति कैमुत्यन्यायेनार्थान्तरापत्त्या अर्थापत्तिरलङ्कारः । तदुक्तम्–‘एकस्य वस्तुनो भावाद यत्र वस्त्वन्यथा भवेत् ।कैमुतृयन्यायतः सा स्यादर्थापत्तिरलङ्क्रिया ॥’ इति ॥ 1.3 ॥
अन्वयः–तत्कथा स्मृता अत्र युगे जगत् पवित्रम् आतनुते, सा आविलाम् अपि स्वसेविनीम् एव मदगिरं रसक्षालनया इव कथं न पवित्रयिष्यति ? ॥ 1.3 ॥
अधीतिबोधाचरणप्रचारणैर्दशश्चतस्त्रः प्रण्यन्नुपाधिभिः ॥
चतुर्दशत्वं कृतवान् कुतस्स्वयं न वेह्मि विद्यासु चतुर्दशस्वयम् ॥ 1.4 ॥
जरवातु–अस्य सर्वविद्यापारदर्शित्वमाह-अधीतीति । अयं अयं नलः चतुर्दशसु विद्यासु ‘अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः। धर्मशास्त्रं पुराणञ्च विद्या ह्मेताश्चतुर्दशे’ त्युक्तासु अधीतिरध्ययनं गुरुमुखात् श्रवणमित्यर्थंः । बोधः, अर्थावगतिः आचरणं तदर्थानुष्ठानं, प्रचारणम् श्रवणमित्थर्थः । बोधः,अर्थावगतिः, आचरणं तदर्थानुष्ठानं, प्रचारणम् प्रचारणम् अव्यापनं शिष्येभ्यः प्रणयन् कुर्वन्नित्यर्थः, स्वयं चतस्त्रो दशा यासां तासां भावः चतुर्दशत्वं ‘संज्ञाजातिव्यातिरिक्ताश्च गुणचना’ इति सम्प्रदायः । चतुर्दशसंखाकत्वं कुतः कस्मात् कृतवान् न बेह्मि न जाने इति स्वतः सिद्धस्य स्वयङ्करणं कथं पिष्टपेशामासष्यम् । चतुरवस्थत्व मिति तत्परिहारश्च । तदुक्तम् ‘आभासत्वे विरोघस्य विरोधाभास उच्यते, इति ॥ 1.4 ॥
अन्वयः–अयं चतुर्दशसु विद्यासु अधीतिबोधात्तरणप्रचारणैः उपाधिभिः चतस्त्रः दशाः प्रणयन् चजतुदैशशत्वं कुतः कृतवान् ( इति ) स्वयं न वेह्मि ॥ 1.4 ॥
अमुष्य विद्या रसनाग्रनर्तकीत्रयीव नीताङगगुणेन विस्तरम् ॥
आगहताष्टादशतां जिगीयया नवद्वयीपपृथग्जयश्रियाम् ॥ 1.5 ॥
जीवातु–अथास्यापरा अपि चतस्त्रो विद्याः सन्तीत्याह-अमुष्येति । अमुष्य नलस्य रसनाग्रनर्त्तकी जिह्वाग्रसञ्चारिणीत्यर्थंः । त्रयीव त्रिवेदीव ‘इति वेदास्त्रयस्त्रयी’त्यमरः । अङ्गानां ‘शिक्षा कल्पो व्याकरणं निरुक्तं छन्दसां चितिः । ज्यौतिषञ्चेति विज्ञेयं षडङ्गं बुधसत्तमैरि’ त्युक्तानां षण्णं मधुराम्लकषायलवणकटुतिक्तानाञ्च रसानां षण्णं गंणेन आवृत्या वैशिष्टयेन च, अथा च अङ्गुणेन शरीरसामर्थ्येन स्वकीयव्युत्पत्तिविशेषेणेति यावत् विस्तरं वृद्धिं नीता प्रापिता सती नवानां द्वयं नवष्यं लक्षणया अष्टादशेत्यर्थः, तेषां द्वीषानां पृथग्भूता जयश्रियः तासां चिगीष या व्यञ्चकाप्रयोगात् गम्योत्पुक्षा । चेतुमिच्छयेवेत्यर्थाः, अष्टादशताम् आगहत अभजत । पूर्वोक्तासु चतुर्दशसु विद्यासु विशिव्युत्पत्त्या आयुर्वेदादीनामनुशीलनसौकयार्‌यात् तत्पारर्दिशत्वेन, सूदविद्यापक्षे च षष्णां रसानाम् उल्वणानुल्वणसमतारूपत्रैविष्येन त्रयीपक्षे च एकैकवेदस्य प्रत्येकशः अङ्गानां शिक्षादीनां षाड्तिध्‌यवैशिष्टयेन चाष्टादशत्वसिद्धिः । प्रागुक्ताश्चतुदैश विद्याः । ‘आयुर्वेदो धनपुर्वेदो गान्धर्वश्चेति ते त्रयः । अर्थशस्त्रं चतुर्थन्तु विद्या ह्मष्टादश स्मृता’ इति । अङ्ग विद्यागुणनेन त्रय्या अष्टादशत्वमित्युपाध्याय-विश्वेवरभटृारकव्याख्याने तु अङ्गा नि वेदाश्चत्वार इत्याथ्तर्वणस्य पृथग्वेदत्वे त्रयीत्वहानिः । त्रय्यन्तर्मावे तु नाष्टादशत्वसिद्धिरिति चिन्त्यम् । उपमोत्प्रेक्षयोः संसृष्टिः ॥ 1.5 ॥
अन्वयः–अमुष्य रसनाग्रनत्र्तकी विद्या त्रयी इव अङ्गुणेन विस्तरं नीता नवद्वयद्वीपपृथग्यश्रियाम् जिगीषिया अष्टादशताम् अगाहत ॥ 1.5 ॥
दिगाशवृन्दांशविभूतिरीशिताता दिशं स कामप्रसभावरीधिनीम् ॥
बभार शास्त्राणि दृशं द्वयाधिकां निजत्रिनेत्रावतरत्वबोधिकाम् ॥ 1.6 ॥
जीवातु–अथास्य देवांशत्वमाह–दिगीशेति । दिशामीश दिगीशा। दिक्पालास इन्द्रायः तेयां वृन्दं समूहः तस्य मात्राभिः अंशैः विभूतिरुदभवः यस्य तथाभूतः । तथा च इन्द्रानिलयमार्कावाामग्नेश्च वरुणस्य च । चन्द्रवित्तेशयोश्चैव मात्रा निर्हृत्य शाश्वतीरि’ ति ।अष्टामिर्लोकपालानां दिशामिति च बहुवचननिर्देशात् इन्द्रादीनामेकैकदिगीशत्वम् अस्य तु सवैदिगीशितृत्वमिति व्यतिरेकोव्यज्यते । कामम् इच्छां मदनञ्चेत्यर्थः । कामप्रसराबरोधिनीमिति पाठे कामस्य प्रसरः विस्तारः वृद्धिरिति यावत् तमवरुणद्धीति तथैवार्थ। । निजम् आत्मीयं यत् त्रिनेत्रावरत्वं दिगीशेश्वरांशप्रमवत्वं तस्य बोधिकां ज्ञापिकाम् अत्र ‘तृजकाभ्यां कर्त्त री’ ति कृद्योगसमास्येव निषेधात् शेषषष्ठीसमासः ‘तत्प्रयोजक’ इत्यादि सूत्रकारप्रयोगदशैनादिति बोष्यम् । द्वयाधिकां तृतीयामित्यर्थः, टृशं नेत्र’ बमार दघ्रे । एतेन अस्य शास्त्रेणैव कार्य्यदर्शित्वं व्सयज्यते । शास्9ाणि टृशमिति उद्देश्यविघेयख्यपर्मद्वयम् । बवरेत्यत्राप्प्रत्ययान्तेन तरशब्देन ‘सुप्-मुपे’ति समासः, न तूपसृष्टात् प्रत्ययोत्पत्तिः। अत्र शस्त्राणि टृशमिति व्यस्तरूपकम् ॥ 1.6 ॥
अन्वयः–दिगीशवृन्दांशविभुतिः ईशिता सः शत्रासत्राणि कामप्रसमावरोधिनीं निजत्रिनेत्रावतरत्ववोधिकां द्वयाधिकं टृशं बमार ॥ 1.6 ॥
पदैश्चतुभिंस्सुकृते स्थिरोकृते कृतेऽमुना के न तपः प्रपेदिरे ? ॥
भुवं यदेकाङ्ध्रिकनिष्ठया स्पृशन् दद्यावद्यर्मोऽपि कृशस्तपस्विताम् ॥ 1.7 ॥
जोबातु–अथास्य प्रभावं दर्शयति-पदैरिति । अमुना नलेन कृते सत्ययुगे सुकुते धर्म वृषखरूपत्वात् चतुर्मिः पदैः चरणैः–‘तपः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेकं कलौ युगे ॥’ इत्युक्तचतुर्विधैरिति भावाः,स्यिरीकृते निश्चलीकृत इति यावत् के जनाः तपः चान्द्रायणादिरूपं कठिनं व्रत का कथा ज्ञानादीनामतिभावः, न प्रपेदिरे ? अपि तु सर्व एव तपचेरुरित्यर्द्यः । यत् यतः अघर्मोऽपि का कथा अन्येषामित्यपि शब्दाथैः, कृशः, दुबैलः सन् एकया अङ्ध्रेश्चरणस्य कनिष्ठय कनिष्ठयाऽङृगल्येत्यर्थः, भुवं स्पृशन् कृतेऽपि अधमैस्य लेशतः विश्वः । दधी धारयामास । अस्य शासनादघर्मोऽपि घर्मेषु आसक्तोऽभूत् । किमुत अन्य इति कैमुत्यन्यायादयचन्तिरापत्त्या अर्थापत्तिरलङ्कारा अधर्मोऽपि धार्मिक इति विरोधश्चेत्यनयोः संसृतिष्ठटः ॥ 1.7 ॥
अन्वयः–अमुना चतुर्भिः पदैः सुकृते स्थिरीकृते कृते के न न तपः प्रपेदिरे यत् कृशः अधर्मः अपि एकाङ्ध्रिनिष्ठया भुवं स्पृशन् तपस्विताम् दधौ ॥ 1.7 ॥
यदस्य यात्रासु बलोद्धतं रजः स्फुरत्प्रतापानलधूमम?ञ्चिम ॥
तदेव गत्वा पतितं सुधाम्बुधो दधाति पङ्कीभवदङ्कतां विघौ ॥ 1.8 ॥
जीवातु–अथास्य सप्तभिः प्रतापं वर्णयति-यदित्यादिभिः । अस्य नलस्ययात्रासु जैत्रयानेषुबलोद्धतं सैन्योत्क्षिप्तं स्फुरतः ज्वलतः ज्वलतः प्रतापानलस्यो धूमःतस्येव म?ञ्चिमा मनोहारित्वं यस्य तथोक्त ‘सप्तम्युपमाने’ त्यादिना बहुव्रीहिः । मञ्चशब्दादिम्बुधौ क्षीरनिधौ पतितम्, अतएव पङ्कीभवमत् सत् विधौ चन्द्रे तद्वासिनीतिः मावः । अङ्कतां कलङ्कत्वं दधाति । अत्रापि व्यञ्चकाप्रयोगात् गम्योत्प्र ‘क्षा तथा च कलङ्कत्वं दधातीवेत्यर्थेः ॥ 1.8 ॥
अन्वयः–अस्य यात्रासु बलोद्धतं स्फुरत्प्रतापानलधूममञ्जिम यत् जिः तत् एव गत्वा सुधाम्बुधौ पतितं पङ्कीमवत् विधौ अङ्कतां दधाति ॥ 1.8 ॥
स्फुरद्धनुर्निस्वनतद्घनाशुगप्रल्भवृष्टिव्ययितस्य सङ्गरे ॥
निजस्य तेजश्शिखिनः परश्शता वितेनुरङ्गारमिवायशः परे ॥ 1.9 ॥
जीवातु–स्फुरदिति । सङ्गरे युद्धे शतात् परे परश्शताः शताधिका इत्यर्थंः, बहव इति यावत्, पञ्चमीति योगविभागात् समासः, राजदन्तादित्वादुपसर्जंनस्य परनिपातः पारस्करादित्वात् सुडागमश्च । परे शत्रवः स्फुरन्तौ प्रसरन्तो धनुर्निस्वनौ चापघोयौ इन्द्रचागर्तिजते–यस्य यत्र वा तथोक्तः स नल एव घनः मेघः
तस्य आशुगानां शराणाम् अन्यत्र आशुगा वेगगामिनी यद्वा आशुगेन वेगगामिना वायुना या प्रगल्मा महनी वृष्टिः ‘आशुगौ वायुविशिखावि’ स्यमरः । तथा व्ययितस्य निर्वापितस्य विपूर्वादयतेः कर्मणि क्तः । निजस्य तेजःशिखिनः प्रतापाग्नेः अङ्गारमिव अयशः अपकीर्ति वितेनुः विस्तारितवन्तः । पराजिता इति भावः । अत्र रूपकोत्प्रेक्षायोरङ्गाङ्गिभावः सङ्करः ॥ 1.9 ॥
अन्वयः–परश्शताः परे संगरे निजस्य स्फुरद्घनुर्निस्वनतदघनांशुगप्रगल्म वष्टिव्ययितस्य तेजः शिखिनः अङ्गारम् इव अयशः वितेनुः ॥ 1.9 ॥
अनल्पदग्धारिपुरानलोज्जवलैर्निज्रप्रतापैर्वंलयं ज्वलद् भुवः ॥
प्रदक्षिणीकृत्य जयाय सृष्टया राज नोराजनया स राजघः ॥ 1.10 ॥
जीवातु–अनल्पेति । राज्ञः प्रतिपक्षाननिति भावः, हन्तीति राजघः शत्रुघातीजत्यर्थः ’ राजघ उपसंख्यानमि’ति निपातः । नलः अलल्पं दग्धानि अरिपुराणि शत्रुराष्टाणि यैः तथोक्ताः अनलवत् उज्जबलाः तैः निजप्रतापैः कोषदण्डसमुत्थतेजोभिः ‘स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजमि ‘त्यमरः । ज्वलत् दीष्यमानं भुवः वलयं भूमण्डलं प्रदक्षिणीकृत्य प्रदक्षिणं परिभ्रम्य क्रमेण सर्वदिगविजेतृत्वादिति भावः । जयाय सृष्टया सर्वभुजयनिमित्तं कृतेत्यर्थाः, पुरोहितैरितिशेषः । नीराजनया आरार्तिकया रराज शुशुभे दिशो विजित्य प्रत्यावृत्तं विजिगीषुं स्वपुरोहिताः मङ्गलसंविधानाय नीराजयन्तीति प्रसिद्धिः । केचित्तु निजन्रतापैरिव जयाय भूचक्रं प्रदक्षिणीकृत्य प्रदक्षिणं परिभ्राम्य रराज । तत्र ज्वलत्प्रतापानलो नानादिग्जैत्रयात्रायां प्राच्यादिप्रादक्षिण्येन भूमण्डलं परिभ्रमन् निजप्रतापनीरा जनया भूदेवतां नीराजयन्निव रराजेत्युत्प्रेक्षा व्यञ्चका।द्यप्रयोगादगम्या । इति व्याचक्षते । तन्न समीचीनम्, निजप्रतापैरित्यस्य नीराजनयेत्यनेन सामानाधिक रण्यासङ्गतेरिति ॥ 1.10 ॥
अन्वयः–स राजद्यः अनल्पदग्धारिपुरालोज्जवलैः निजप्रतार्पंः अवलद् भुवः बलयं प्रदक्षिणीकृत्य जयाय सृष्टया नीरानया रराज ॥ 1.10 ॥
निवारितास्तेन महीतलेऽखिले निरीतिभावं गासितेऽतिबृष्टयः ॥
न तत्यजुर्नूनमनन्यसंश्रयाः प्रतीपभूपाल्मृगीदृशां दृशः ॥ 1.11 ॥
नीवातु–निवारिता इति । तेन नलेन अखिले समग्रे महीतले न सिन्त ईतयःअतिवृष्ट्यादयः यत्र तत् निरीति, तस्य तस्य भावः तम् ईतिराहित्यमित्यर्थः । ईतयश्चोक्ता यथा–‘अतिवृष्टिरनावृष्टिः शलभा मूषिकाः खगाः । प्रत्यासन्नाश्च राजानः षडेता ईतयः स्मृताः’ इति । गमिते प्रापिते सति निवारिताः स्वराष्ट्रात् निराकृता इत्यर्थः । अतिवृष्टयः नास्ति अन्श्यः संश्रयः आश्रयः यासां तथाभूता ।सत्याः प्रतीपभूपालानां प्रतिपक्षनृपतीनां या मृगीटृशः मृगनयनाः कान्ताः तासां टृशः नयनानि न तत्यजुः । नूनं मन्ये इत्यर्थंः । उत्प्रेक्षावाचकमिदं, तदुक्तं दर्पणे ‘मन्ये शङ्के ध्रुवं प्रायोक नूनमित्येवमादयः । उत्प्रेक्षाव्यञ्जाका। शब्दा इवशब्दोऽपि ताटृश’ इति । नलनिहतर्भृका रापत्नरूः सततं रुरुदुरिति भावः ॥ 1.11 ॥
न्वयः–तेन अखिले महीतले निरीतिभावं गमितमावं गमिते निवारिताः अतिवृष्टयः अनन्यसंश्रयाः नूनं प्रतीपभूपालमृगीटृशां टृशः न तत्यजुः ॥ 1.11 ॥
सितांशुवर्णैर्वयति स्म तद्गुर्णैहासिवेम्नस्सकृत्वरी बहुम् ॥
दिगङ्गाङ्गाभरणं रणाङ्गणे यशःपटं तदभटचातुरी तुरी ॥ 1.12 ॥
जीवाजु–सितांश्विति । महान् असिरेव वेमा वायदण्डः ‘पुसि वेमावायदण्ड’ इत्यमरः । तस्य सहकृत्वरी सहकारिणी ‘सहे चे’ति करोतेः क्वनिप्प्रत्ययः । ‘वनो र चे’ति डीप् रश्च । तस्य नलस्य भटनां सैनिकानां यद्वा स नल एव भठः वीरः तस्य चातुरी चतुरता नैपुष्यमिति यावत् एव तुरी वयनसाधनं वस्तुविशेष इत्यर्थः । ‘माकु’ इति प्रसिद्धा, रण एव अङ्गनं चत्वरं तस्मिन्सितांशुवर्णैः शुभ्रैरित्यर्थाः, तस्य ललस्य गुणैः शैर्य्यादिभिः तन्तुभिश्च दिश एव अङ्गनाः तासाम् अङ्गभरणम् अङ्गभूषणम् । ‘अङ्गावरणमि’ति पाठे अङ्गाच्छा दनं बहु यश एव पटः तं वयति स्म ततान । साङ्गरूपकमलङ्कारः । संग्रामे तथा नैपुष्यमनेन प्रकटितं यथा तेन सर्वा दिशो यशसा प्रपूरिता इति भावः ॥ 1.12 ॥
अन्वयः–महासिवेम्नः सहकृत्वरी तद्भटचातुरीतुरी सितांशुवर्णेः तद्गुणैः रणाङ्गणो बहुम् दिगङृगनाङ्गाभरणम् यशः पटं वयति स्म ॥ 1.12 ॥
प्रतीपभूपैरिव किं ततो भिया विरुद्धर्मैरपि भेत्तृतोज्ह्मिता ॥
अमित्रजिन्मित्रजिदोजसा स यद्विचारदृक्चारदृगप्यवर्तत ॥ 1.13 ॥
जीवातु–प्रतीपेति । प्रतीयाः प्रतिकूपाः भूपा राजानः तैः विरुद्धघभैःअसमानाधिकरणधर्मैः विपरीतवृत्तिभिरित्यथ्यर्थ।, अपि तः नलात भिया भयेनेव हेतुना भेत्तृता स्वाश्रयभेदकत्वं परोपजाप इत्यर्थः । उज्ह्मिता त्यक्ता किम् ? यद् यस्मात् स नलः ओजसा तेजसा अमित्रान् शत्रून् जयतीति तथोक्तः मित्रं सूर्य्यं जयतीति तथाभूतः । अत्र यः खलु अमित्राजित् स कथं मित्रजिदिति विरोधाभासः, परिहास्तु पूर्वमुक्तः । तथा
विचारेण पश्यतीति विचारटृक् पश्यन्ति राजान’ इति च नीतिशस्त्रम् । अत्रापि यो विचारटृक् स कथं चारटृग् भवतीति विरोधाभासः, परिहारस्तु पूर्वमुक्तः । अवर्त्तात अवर्त्तत आसीत् । अपि विरोधे । सूर्य्यतेजसं चारटृशञ्च नलं ज्ञात्वा शत्रवो भयात् परस्परोपजातादिवैरभावं तत्यजुरिति भावः । अत्र विरोधोत्प्रेक्षायोरङृगाङ्गिभावः ॥ 1.13 ॥
अन्वयः–किंभिया प्रतीपभूपैः इव विरुद्धधर्मैःअपि ततः भेत्तृता उज्ह्मिता ? यत् सः ओजसा अमिजिद्
( अपि ) मित्रजित्, विचारटृक् अपि अविचारटृक् अवर्त्तत ॥ 1.13 ॥
तदोजसस्तद्यशसः स्थिताविमौ वृथेति चित्ते कुरुते यदा यदा ॥
तनोति भानोः परिवेषकैतवात्तदा विधिः कुण्डलनां विधोरपि ॥ 1.14 ॥
जीवातु-तदिति । तस्य नलस्य ओजः तेजः प्रतापः इतृयर्थः, तस्य तथा तस्य नलस्य यशतस्य स्थितौ सत्तायाम् सत्तायाम् इमौ भनुविधू वृथा निरर्थकौ इति चित्ते यदा यदा करुते विवेचयतीत्यर्थः, विधिः तदा तदा परिवेषः परिवेषः परिधिः ‘परिवेषस्तु परिधिरुपसूर्यकमण्डले’ इत्यमरः । एव कैतवं छलं तस्मात् भानोः सूर्यस्य विघोरपि चन्द्रस्य च कुण्डलनाम् अतिरिक्ततासूचकवेष्टनमित्यर्थः, करोति अधिकाद्वक्षरवजैनार्थ लेखकादिवदिति भावः । विजितचन्द्राकौ अस्य कीर्तिप्रतापौ इति तात्पर्यम् । अत्र प्रकृतस्य परिवेषस्य प्रतिषेधेन अप्रकृतस्य कुण्डलनस्य स्थापनात् अपहनुतिरलङ्कारः, तदक्तं दर्पणे ‘प्रकृतं प्रितिषिद्ध्यान्यस्थापनं स्यादपहनुति’रिति । प्राचीनास्तु परिवेषमिषेण सूर्य्याचन्द्रमसोः कुण्डलनोत्प्रेक्षणात् साप ह्नवोत्प्रेक्षा । सा च गम्या व्यञ्जकाप्रयोगादित्याहुः ॥ 1.14 ॥
अन्वयः–तदोजसः तद्यशसः इमौ वृथा स्थितौ इति विधिः यदा चित्ते कुरुते, तदा परिवेषकैतवात् भानोः विधो कुण्डलानां तनोति ॥ 1.14 ॥
अयं दरिद्रो भवितेति वैधसीं लिपिं ललाटेऽर्थिजनस्य जाग्रतीम् ॥
मृषा न चक्रेऽल्पितकल्पपादपः प्रणीय दारिद्र्यदरिद्रतां नृपः ॥ 1.15 ॥
अल्पीकृतः निर्जित इति यावत्, दानशौण्डत्वादिति भावः, कल्पपादप अल्पतरुः वा?ञ्छितफलप्रदवृक्ष इति यावत्, दति यावत्, येन तथाभूतः स नृपः दारिद्र्यस्य अभावस्य निर्धनत्वस्य इति यावत्, दरिद्रताम् अभावमिति यावत्, प्रणीय कृत्वा दरिद्रेभ्यः प्रभूतधनदानेन तेषां दारिद्र्यम् अपनीयेति ललाटे जाग्रतीं दीप्यमानामिति यावत्, भविता इति अतिअर्थिनस्य याचकजनस्य ललाटे जाग्रतीं दीप्यमानामिति यावत्, वेधसः इय वैधसी तां लिपि मृषा मि?थ्या न चक्रे न कृतवान् । विधातुर्लिपौ सामान्यतः दरिद्रशब्दस्य स्थितौ दरिद्रशब्दस्य यथायथं धनदरिद्रः, पापदरिद्रः, ज्ञानदरिद इत्यादिप्रयोगदर्शनात् अभावमात्रबोधकत्वमङ्गीकृत्य राजा दरिद्राणां धनाभावरूपं दारिद्र्यमपाचकार इति निष्कर्षः ॥ 1.15 ॥
अन्वयः–अल्पितकल्पपादपः नृपः दारिद्र्यदरिद्रतां प्रणीय ‘अयं दरिद्रःभविता’–अर्थिजनस्य ललाटे जाग्रतीं वैधसीं लिपिं मृषा न चके ॥ 1.15 ॥
विभज्य मेरुर्न यदर्थिसात्कृतो न सिन्धुरुत्सर्गजलव्ययैर्मरुः ॥
अमानि तत्तेन निजायशोयुगं द्विफालबद्धाश्चिकुराश्शिरस्स्थितम्॥ 1.16 ॥
जीवातु-विभज्येति । मेरुःहेमाद्रिः विभज्य विभक्तीकृत्य अर्थिसात् अर्थिभ्यो देयः न कृतः अर्थिने ?
देयमिति ‘देये त्रा चे’ति सातिप्रत्ययः । सिन्धुःसमुद्रः उत्सर्गजलानां व्ययैः दानाम्बुप्रक्षेपैः मरुः निर्जलदेशः न कृत इति यत् तस्मात् तेन नलेन द्विफालबद्धाः द्वयोः फालयोः शिरःपार्श्वयोः बद्धौ रक्षिता इति यावत्, फलतेर्विशरणार्थे अप्प्रत्ययः । विलासिनां पुंसां सीमन्तितशिरोरुहत्वात् चिकुराणां द्विफालबद्धत्वमिति भावः, द्विधा विभक्ता इति यावत् । चिकुराः केशाः ‘चिकुरः कुम्तलो बालः कचः केशः शिरोरुह’ इत्यमरः शिरःस्थित मस्तकधृत मिति भावः, निजं स्वीयम् अयशोयुगम् अपकीर्तिद्वयं पूर्वोक्तमेरुविभागसिन्धुजलव्याकरणजनितमिति भावः । अमानि केशरूपेण द्विधास्थितं स्वशिरसि अयशोयुगमेव तिष्ठति इति अमन्यत इत्यर्थः । अयशसः पापरूपत्वात् कृष्णवर्णनं कविसमयसिद्धम् ‘तथा च मालिन्य व्योम्नि पापे’ इत्यादि । उद्देश्यविधेयख्पं कर्मद्वयम् । केशेषु कार्ष्ण्य साम्यात् अयशेखपणमिति व्यस्तरूपकम् ॥ 1.16 ॥
अन्वयः–यत् मेरु विभज्य ?अर्थिसात् न कृतः सिन्धुः उत्सर्गजलव्ययैः मेरुः न कृतः ( अथवा मेरुः उत्सर्गलव्ययैः सिन्धुः न कृतः ) तत् तेन द्विफालबद्धाः चिकुराः शिरः स्थितं निजायशोयुगम् अमानि ॥1.16॥
अजस्त्रमभृयासमुपेयुषा समं मुदैव देवः कविना बुधेन च ॥
दधो पटीयान् समयं नयन्नयं दिनेश्वरश्रीरुदसयं दिने दिने ॥ 1.17 ॥
जीबातु-अस्य विद्वज्जनसम्माननामाह-अजस्रमिति । दिनेश्वरस्येव श्रीर्यस्य, अन्यत्र दिने ईश्वरस्येव श्रीः यस्य तथाभूतः पटीयान् समर्थतरः अयं देवो राजा सूर्यश्च ‘देवः सूर्ये यमे राज्ञी’ति विश्वः । अजस्त्र सततम्. अभ्यासं सान्निध्यम् उपेयुषा प्राप्तवता सहचारिणा इति यावत्, ‘उपेयिवाननाश्वाननूचानश्चे’ति निपातः । कविना काव्यशास्त्रविदा पण्डितेन शुकेण न बुधेन विदुषा धर्मशास्त्रादिदर्शिनेति भावः, सौम्येन च समं सह मुदैव आनन्देनैव न तु दुःखेनेत्येवकारार्थःसमयं नयन् अतिवाहयन् दिने प्रतिपादनम् उदयम् अभ्युन्नतिम् आविर्भाववञ्च दधौ धारयामास । अत्र श्लेषालङ्कारः ॥ 1.17 ॥
अन्वयः–दिनेश्वश्रीःपरीयान् अयं देवः अजस्त्रम् अभ्यासम् उपेयुषा कविना बुधेन च समं मुद्रा एव समयं नयन् दिने दिने उदयं दधौ ॥ 1.17 ॥
अधो धिधानात् कमलप्रवानयोश्श्रिस्सु दानादखिलक्षामाभुजाम् ॥
पुरेदमूर्ध्वं भवतीति वेधसा पदं किमस्याङ्किमूर्ध्वरेखया ॥ 1.18 ॥

जीवातु–अध इति । कमलप्रबालयोः पह्मपल्लवयोः कर्मभूतयोः अधोविधानात् अधःकरणात् न्यककरणादिति यावत् । तथा अखिलानां सर्वेषां क्षमाभुजां प्रतिकूलवर्तिनां राज्ञां शिरःसु दानात् विधानात् इदम् अस्य ललस्य पदम् ऊर्ध्वम् उत्कृष्टम् ऊर्ध्वस्थितञ्च पुरा भवति भविष्यतीत्सयर्थः । ‘यावत् पुरानिपातयोर्लट’ इति पुराशब्दयोगात् भविष्यदर्थे लट् । इति हदं मत्वा इति शेषः, गम्यमानार्थत्वादप्रयोगः । वेकधसा विधात्रा कर्त्रा ऊर्ध्वरेखया अङ्कितं चिह्नितं किम् ? ‘ऊर्ध्वरेखाङ्कितपदः सर्वोत्कर्ष भवेत् पुमानि’ति सामुद्रिकाः । सौन्दर्य सुलक्षणाभ्यां युक्तमस्य पदमिति भावः ॥ 1.18 ॥
अन्वयः–कमलप्रवालयोः अधोविधानात् अखिलक्षमाभुजां शिरस्सु दानात् अस्य पदम् ऊर्ध्वं पुरा भवति–इति वेषसा इदम् ऊर्ध्वरेखया अङ्कितं किम् ? ॥ 1.18 ॥
जगजज्यं तेन च कोशमक्षयं प्रणीतवान् शैशवशेषवानयम् ॥
सखा रतीशस्य ऋतुर्यथा वनं वपुस्तथालिङ्गदथास्य यौवनम् ॥ 1.19 ॥
जीवातु–अथा अस्य योवनागमं क्रमेण वर्णयति-जगदित्यादिभिः । अयं नलः शैशवशेषवान् ईषदवशिष्टशैशव एवेत्यर्थः । अथानन्तरं जयं तेन च जभेनेत्थर्थः । कोषं धनजातम् अक्षयं प्रणीतवान् कृतवान् । अथानन्तरं रतीशस्य कामस्य सखा ऋतुः वसन्त इत्यर्थः । वनं यथा यौवनम् अस्य नलस्य वपुः शरीरं तथा आलिङ्गत संश्लिष्टवत् । उपमालङृकारः ॥ 1.19 ॥
अन्वयः–शैशवशेषवान् अयं जगज्जयं तेन च कोशम् अक्षयं प्रणीतवान्, अथ रतीशस्य सखा ऋतुः यथा वंन तथा यौवनम् अस्य वपुः अलिङ्गत् ॥ 1.19 ॥
अधारि पह्मेषु तदङ्ध्रिणा धृणा क्व तच्छयच्छायलवोऽपि पल्लवे ? ॥
तदास्यास्येऽपि गतोऽधिकारितां न शारदः पार्विवकशर्वरीश्वरः ॥ 1.20 ॥
जीवात-अधारीति । तस्य नलस्य अङ्ध्रिणा चरणेन पह्मे षु घृणा अवज्ञा’घृणा जगुप्साकृपयोरि’ति विश्वः नलस्य अङ्ध्रिणा चरणेन पह्मेषु घृणा अवज्ञा ‘घृणा जगुप्साकृपयोरि’ति विश्वः । अधारि धृता । पललवे नवकिसलये तस्य नलस्य शयः पाणिः ‘पञ्चशाखः शयः पाणि’रित्यमरः । तस्य छाय छाया तच्छ यच्छायं ‘विभाषे’त्यादिना समासे छायाया नपुंसकत्वम् । तस्य लवो लेशोऽपि क्व ? नैव लेशोऽस्तीत्यर्थः । शरीदि भवः शारदः शरत्कालीन इत्यर्थः । सन्धि वेलाद्यृतुनक्षत्रेभ्योऽण् प्रत्ययः । पर्वणि पौर्णमास्यां भवः पार्विकः । ‘पार्वणे’ति पाठान्तरं कालाट्ठव् ‘नस्तद्धित’ इति टिलोपः । स च असौ शर्वरीश्वरश्चेति तथोक्तः पूर्णचन्द्र इत्यर्थः । तस्य नलस्य यत् आस्यं मुखं तस्य दासे कैङ्कर्येऽपि अधिकारितां न गतः न प्राप्तः । एतेनास्य पाणिपादवदनानामनोपम्यं व्यज्यते । अत्र अङ्ध्र्यादीनां पह्मादिषु घृणाद्यसम्भवेऽपि सम्बन्धोक्तेः अतिशयोतिक्त. अलङ्कारः ॥ 1.20 ॥
अन्वयः–तदङ्ध्रिणा पदमेषु धृणा आरि, पल्लवे तच्छयछायलवः अपि क्व ? शारदः पार्विकशर्वरीश्वरः तदास्यदास्यै अपि अधिकारितां न गतः ॥ 20 ॥
किमस्य रोम्णाङ्कपटेन कोटिभिर्वि?धिर्नं रेखाभिरनीगण्द् गुणान् ॥
न रोमकूपौधमिषाज्जगत्कृता कृताश्च किं दूषणशून्यबिन्दवः ? ॥ 1.21 ॥
जीवातु–किमिति । विधिर्विधाता अस्य नलस्य गुणान् रोम्णां कपटेन व्याजेन कोटिभिः कोटिसंख्याभिःलेखभिः न अजीगणत् न गणितवान् किम् ? अपितु गणितवालेवेत्यर्थः तथा जगतृकृता, स्त्रष्टा विधिनेत्यर्थः । रोम्णां कूपाः विवरणि तेषाम् ओधः समूह एव मिषं व्याजः तस्मात् । दूषणानां दोषाणां शून्यस्य अभावस्य विन्दवः ज्ञापकचिह्नभूता वर्त्तुलरेखाः न कृताः किम् ? ?अपि तु कृता एवेत्यर्थः । अस्मिन् गुणा एव सन्ति, न कदाचित् दोषा इति भावः । अत्र रोम्णां रोमकूपाणाञ्च कपटभिषब्ददाभ्याम् उपह्नवे गुणगणनालेक्षत्वदूषणशून्यबिन्दुत्वयोरुत्प्रे क्षणात् सापह्नवोत्प्रेक्षयोः संसृष्टिः ॥ 1.21 ॥
अन्वयः–विधिः अस्य गुणान् रोम्णां कपटेन कोटिभिः रेखाभिः न अजीगणत् किम् ? जगत्कृता रोमकूपमिषात् द्षणशून्यगिन्दघः न कृताः किम् ? ( अपि तु कृता एव ) ॥ 1.21 ॥
अमुष्य दोभ.र्यामरिदुर्गलुष्ठने ध्रुवं गृहीतार्गलदीर्घपीनता ॥
उरःश्रिया तत्र च गोपुरस्फरकत्कपाटदुर्घर्षतिरःप्रसारिता ॥ 1.22 ॥
जीवात्–अमुष्येति । अमुष्य नलस्य दोर्भ्या भुजाभ्यां कृर्तृम्याम् अरिदुर्गलुष्ठने शत्रुदुर्गभञ्जने अर्गलस्य काटविष्कम्भदारुविशेषस्य ‘तद्विष्कम्भोऽर्गलं न ना, इत्यमरः । दीर्धञ्च पीनञ्च तयोर्भावः दीर्धपीनता आयतपीवरत्वमित्यर्थः, किञ्चे ति चार्थः ! उरसः वक्षसः श्रिया लक्ष्म्या कर्त्र्या तत्र अरिदुर्गलुष्ठने गोपरुषु पुरद्वारेषु ‘पुरद्वारन्तु गोपुरसि’त्यमरः । स्फुरतां रातजतां कवाटानां दुर्द्धर्षाणि च तानि तिरःप्रसारीणि च तेषां भावः तत्ता अप्रधृष्यत्वं तिर्य्यक्प्रसारित्वञ्चेर्त्थः । गृहीता ध्रु वम् अवलम्बिता किम् ? ध्रु वमित्युत्प्रे क्षाव्यञ्चकम् । तदुक्तं दर्पणे’मन्ये शङ्के ध्रु वं प्रायो नूनमित्येवमादयः । उत्प्रेक्षाव्यञ्चकाः शब्दा इव शब्दोऽपि ताटृशः’ इति । दीर्घबाहुः कवाटवक्षाश्चायमिति भावः ॥ 1.22 ॥
अन्वया–अमुष्य दोर्भ्याम् अरिदुर्गलुष्ठने अर्गलदीर्धपीनता तत्र उरः श्रिया च गोपुरस्फरत्कपाटदुर्धर्षतिरः प्रसारिता ध्रु वं गृहीता ॥ 1.22 ॥
स्वकेलिलेशस्मितनिर्जितेन्दुनो निजांशटृक्तर्जिपह्मसम्पदः ॥
अतद्वयीतिज्वरसुन्दरान्तरे न तन्मुखस्य प्रतिमा चावरे ॥ 1.23 ॥
जीवातु–स्वकेलीति । स्वस्य ?केलिलेशः विलासबिन्दुर्यत् स्मितं मन्तदहसितं तेन निन्दितः तिरस्कृतः इन्दुश्चन्द्रः येः तथोक्तस्य स्मितरूपकिरणेन निर्जितशीतांशुमयूखस्येति भावः। निजांशः स्ववयवः यद्दक् तेनं तया र्तजिता निर्भर्त्सिता पह्मानां सम्पद् सौभाग्यं येन तथाभूतस्य तन्मुखस्य नलमुखस्य तयोश्चन्द्रपह्मयोः द्वयी तस्या जित्वरं जयशीलं ततोऽधिकमिति यावत् सुन्दरान्तरं नास्ति, यत्र तथाविधे चराचरे जगति ‘चराचरं स्याज्जगदि’ति विश्वः। प्रतिमा उपमानं न आसीदिति शेषः । अत्र चन्द्रारविचन्दजयविशेषणतया मुखस्य
निरौपम्यप्रतिपादनात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । तदुक्तं दर्पणे–‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गं
निगद्यते’इति ॥ 1.23 ॥
अन्वयः–स्वकेलिलैशस्मितनिन्दितेन्दुनः निजांशटृकृर्ष्ताजतपदमसम्पदःतन्मुखस्य अतद्द्वयीजित्वरसुन्दरातनरे प्रतिमा नास्ति ॥ 1.23 ॥
समरोरुहं तस्य दृशैव तर्जितं जिताः स्मितेनैव विधोरपि श्रियः ॥
कुतः परं भव्यमहो महीयसी तदाननस्योपमितौ दरिद्रता ॥ 1.24 ॥
जीवातु–उक्तार्थ भङ्गयन्तरेणाह–सरोरुहमिति । तस्य नलस्य टृशैव नयनेनैव सरोरुहं पद्मं तर्जितं न्ययक्कतम् । स्मितेनैव विघोश्चन्द्रस्य श्रियः कान्तयः इपि जिताः तिरस्कृताः परम् अन्यत् आभ्यामिति शेषः भव्यं रम्यं वस्तु कुतः ? न कुत्राप्यस्तीत्यर्थः । अहो आर्श्चयं तस्य नलस्य यत् आननं मुखं तस्य उपमितौ तोलने महीयसी अतिमहती दरिद्रता अभावः अत्यन्ताभावे इत्यर्थः । सर्वथा निरुपममस्य अतिमहती दरिद्रता अभावः अत्यन्ताभाव इत्यर्थः । सर्वथा निरुपममस्य मुखमित्याश्चर्यम् । अत्र वाक्यार्थहेतुक काव्यलिङृगमलङ्कारः ॥ 1.24 ॥
अन्वयः–तस्य टृशा एव सरोरुहं जितं स्मितेन एव विधोः श्रियः श्रियः अपि जिताः, परं भव्यं कुतः ? अहो, तदाननस्य उपमितौ महीयसी दरिद्रता ! ॥ 1.24 ॥
जीवातु–स्वबालेति । चमरी मृगीविशेषः तस्य लनस्य उत्तमाङ्गजैःशिरोरुहैः समं सहैव तुलाभिलाषिणः साटृश्यकाङ्क्षिणः स्वबालभारस्य निजलोमनिचयस्य अनागसे अनपराधाय नीचस्य उत्तमैः सह साम्याभिगमो1़पि महान् अपराघ इति भावः । क्वचित्तदभावे नञ्छस्य लाङ्गूलस्य विलोलनं विचालनम् एव छलं तस्मात् बालचापलं रोमचाञ्चल्यम् अथ च शिशुचापल्यं शंसति कथयति बालचापल्यं सोढव्यमिति धियेति भावः। अत्र पुच्छविलोलनप्रतिषेधेन अन्यस्य अन्यस्य बालचापलस्य स्थापनादपह्नुतिरलङ्कारः। तदुक्तं दर्पणे-‘प्रकृतं प्रतिषिध्यान्यस्यस्थापनं स्यादपह् नुतिरि’ति ॥ 1.25 ॥
अन्वयः–चमरी मदुत्तमाङ्गजैः समं तुलाभिलाषिण3 स्वबालभारस्य अनागसे पुनः पुनः गाय उस
( नल ) के सिर के केर्शो के साथ साम्य केअभिगसे पुनः पुनः पुच्छविलोलनच्छलात् बालचापलं शंसति
॥ 1.25 ॥
महीभृतस्तस्य च मन्मथश्रिया निजस्य चित्तस्य च तं प्रतीच्छया ॥
द्विधा नृपे तत्र जगयीभुवां नतभ्रुवां मन्मथविभ्रमोऽभवत् ॥ 1.26 ॥
जीवातु–महीभृत इति । तस्य महीभृतो नतभ्रृतो नलस्य मन्मथस्यैव श्रीः कान्तिः तया च निजस्य चित्तस्य तं नलं प्रति इच्छया रागेण च तत्र नृपे नले जगत्त्रयीभुवां त्रिभुवनवर्त्तिनीनां नतभुवां कामिनीनां द्विधा द्विप्रकारेण मन्मथविभ्रमः अयं मन्मथ इति विशिष्टा भ्रन्तिः कामावेशश्च अभवत् । अत्र श्लेषसङ्कीर्णो यथासंख्यालङ्बारः ॥ 1.26 ॥
अन्वयः–तस्य महीभृतः मन्मथश्रिया तं प्रति निजस्य चित्तस्य इत्छया च तत्र नृपे जगत्?त्रयीभुवां नतभु वां द्विधा मन्मथवभ्रमः अभवत् ॥ 1.26 ॥
निमीलनभ्रं शजुषा दृशा भृशं निपीय तं यस्त्रिदशीभिरर्जितः ॥
अमूस्तभ्यासभरं विवृण्वते निमेषनिःस्वैरधुनापि लोचनैः ॥ 1.27 ॥
जीवास्जतु–निमीलनेति । त्रिदशीभिः सुराङ्गनाभिः निमीलनभ्रं शजुषा निर्निमेषयेत्यर्थाः । टृशा नयनेनं तं नलं भृशम् अतिमात्रं निपीय सतृष्णं टृष्टवेत्यर्थः । यः अभ्यासभरः अभ्यासरातिशयः कृतः अमूस्त्रिदशयः देव्यः अधुनापि निमेषनिःस्वैः निमेषशून्यैः लोचनैः तम् अभ्यासभरं विवृण्वते प्रकटयन्ति । तासां स्वाभावकिस्य निमेषाभावस्य ताटृशनिरीक्षणाभ्यासववासनया तत्त्वमुत्प्रेक्ष्यते ॥ 27 ॥
अन्वयः–त्रिदशीभिः निमीलनभ्रं शुजषा टृशा तं भृशं निपीय यः अजितः अमूः अधुना अपि निमेषनिःस्वनैः लोचनैः तम् अभ्यासभरं विवृण्वते ॥ 1.27 ॥
अदस्तदाकर्णि फलाढ्यजीवितं दृशोर्द्वयं नस्तदवीक्षि चाफलम् ॥
इति स्म चक्षुःश्रवसा ंप्रिया लने स्तुवन्ति निप्दन्ति हृदा तदात्मनः॥ 1.28 ॥
जीवातु–अद इति । चक्षुःश्रवसां नागानां प्रियाः पत्नयः इत्यर्थः । अदः इदं नोऽस्माकं टृशोश्चक्षुषोर्द्वयं तं लनम् आकर्णयतीति तदाकर्णि तद्गुणश्रावीत्यर्थः, तासां चक्षुः श्रवस्त्वादिति भावः । अत एव फलाढयजीवितं सफलजीवितम् । न वीक्षते इत्यवीक्षि, अत्रोभयोस्ताच्छील्ये णिनिः । तस्य नलस्य अवीक्षि तदवीक्षि तददर्शीत्यर्थः । अत एव अफलञ्च, इति हेतौः । तदा तस्मिन् काले आत्मना स्वेन हृदा मनसा नले नलविषये स्तुवन्ति प्रशंसन्ति निन्दन्ति कुत्सयन्ति च । अशयो क्तिरलङ्कारः ॥ 1.28 ॥
अन्वयः–अदः नः टृशोः द्वयं तदाकर्णि ( अतः ) फलाढ्यजीवितम्, तद् अवीक्षि च ( अतः ) फलम्–इति चक्षुः श्रवसां प्रियाः तत् आत्मनः हृदा स्सुवन्ति स्म, निन्दन्ति सम च ॥ 1.28 ॥
विलोकयन्तीभिरजस्त्रभानाबलादामुं तत्र निमीलनेष्वपि ॥
अलम्भि मर्त्याभिरमुष्य दर्शने न विध्नलेशोऽपि निपेषनिर्मितः ॥ 1.29 ॥
प्रभावात् अमुं नलं तत्र भावनायामिति भावः । निमीलनेषु अपि निमेषावस्थासु अपि विलोकयन्तीभिःअन्मेषावस्थायामिव साक्षात् कुर्वतीभिः मर्त्याभिः मानवीरभिः अमुष्य नलस्य दर्शने निमेषनिर्मितः नेत्रनिमलनजनितः विध्नलेशोऽपि अन्तरायलबोऽपिन अलम्भि न प्राप्तः । ‘विभाषा चिण्णमुलोः’ इति मुमागमः। मानव्यः दृष्टिगोचरं टृष्टया अटृष्टिगोचरञ्च तं मनसा सततं पश्यन्ति स्मेति भावः । अतिश्योक्तिरलङ्कारः
॥ 1.29 ॥
अनवयः–अजस्त्रभावनराबलालाद अमुं नेत्रनिमोलनेषु अपि विलोकयन्तीभिः मर्त्याभिः अमुष्य दर्शने निमैषनिर्मितः विध्बलेशः अपि न अलम्भि ॥ 1.29 ॥
न का निशि स्वप्यगतं ददर्श तं जगाद गोत्रस्खलिते च का न तम् ? ॥
तदात्मताध्यातधवा रते च का चकार वा न स्वमनोमयोदभवम् ? ॥ 1.30 ॥
जीवातु–नेति । का नारी निशि रात्रौ तं नलं स्वप्नगतं न ददर्श ? सर्वैव ददर्शेत्यर्थः । का च गोत्रस्खलितेषु नामस्खलनेषु तं न जगाद स्वभर्तृनाम्नि उच्चरितव्ये तन्नाम न उच्चरितवती अपि तु सर्वैव तथा कृतवतीइत्यर्थः । का च रते सुरतव्यापारे तदात्मतया नलात्मतया ध्यातः चिन्तितः धवः भर्त्ता यया तथाभूता ‘धवः प्रियः पतिर्भर्त्ते’त्यमरः । स्वस्य आत्मनःमनोभवः कामः तस्य उदभवः तं वा न चकार ? अपि तु सर्वेव तथा चक्रारेत्यर्थः । अतिशयोक्तिरलङ्कारः ॥ 1.30 ॥
अन्वयः–का निशि तं स्वप्यगतं न ददर्श का च गोत्रस्खलिते तं न जगाद,तदात्मताध्यातघवा का च वा रते स्वमनोभवोदभवं न चकार ॥ 1.30 ॥
श्रियास्य योग्याहमिति स्वमीक्षितुंकरे तमालोक्य सुख्पया धृतः ॥
विहाय भैमीमपदर्पया कया न दर्पणः श्वासमलीमसः कृताः ? ॥ 1.31 ॥
जीवातु–श्रियेति । तं नलम् आलोक्य दृष्टा श्रिया सौन्दर्य्येण अहमस्य नलस्य योग्या अनुख्या इति । धियेति शेषः स्वम् आत्मानं स्वावयवमित्यर्थः । ईक्षितुं द्रष्टुं करे धृतः । गृहीतः दर्पणः भैमीं भीमनन्दिनीं दमयन्तीमित्यर्थः । विहाय विनेत्यर्थः कया सुरूपया शोभनरूपवती अहमित्यभिमानवत्या नार्य्या उपदर्पया उर्पशून्यया सत्या सत्या श्वासेन दुःखनिश्वासेन मलीमसः मलदूषितः ‘मलौमसन्तु मलिनं कञ्चरं मलदूषितमि’त्यमरः । न कृतः ? अपि तु सर्वथैव कृत इत्यर्थः । सौन्दय्यैगर्विताः सर्वा एव भैमीव्यतिरिक्ताः कामिन्यः तमवलोक्य अहमेवास्य सदृशीत्यभिमानात् करधृतदर्पणे आत्मानं निर्वर्ण्य नाहमस्य योग्येति निश्चयेन विषण्णाः कदुष्ण्निश्वासेन तं दर्पणं मलिनयन्ति स्मेति निष्कर्षः ॥ 1.31 ॥
अन्वयः–तम् आलोक्य ‘अहं श्रिया अस्य योग्या’–इति स्वम् र्हक्षितुं करे धूतः दर्पणा भैमीं विहाय कया अपर्पया सुरूपया श्वसमलीमसः न कृतः ? ॥ 1.31 ॥
यथोह्मानःखलुभोगभोजिना प्रसह्म वैरोचनिजस्य पत्तनम् ॥
विदर्भजाया मदनस्तथा मनोऽनलावरुद्धं वयसैव वेशित। ॥ 1.32 ॥
जीवातु–एवमस्यालौकिकसौन्दर्यद्योतनाय स्त्रीमात्रस्य तदनुरागसुक्त्वासम्प्रति दमयन्त्यास्तत्रानुनरागं
प्रस्तौति–यथेति । मदनः कामः प्रद्युम्न इति यावत् भोगभोजिना सर्पशरीराशिना वयसा पक्षिणा गरुडेनेत्यर्थः । ऊह्ममानः नीयमानः, वहेः कर्मणि यकि सम्प्रसारणे पूर्वरूपम् । अनलावरुद्धम् अग्निपरिवेष्टितं विरोचनस्य अपत्यं वैरोचनिः बलि तज्जस्य तत्पुत्रस्य बाणासुरस्येत्यर्थः । पत्तनं शेणितपुरमिति यावत् । प्रसह्म सहसा यथा वेशितः खलु प्रवेशित एव, ‘ततो गरुडमारुह्म स्मृतात्रागतं हरिः’ । उषाहरणे विष्णुपुराणात् । तथा नलावरुद्धं नलासक्तं विदर्भजायाः दमयन्त्या मनः भोगभोजिना सुखभोगासक्तेनेत्यर्थः, वयसा यौवनेन ऊह्ममानः परैस्तर्क्यमाणः ऊहेर्वितर्कार्थात् कर्मणि यक् । वेशितः प्रवेशितः । ‘भोगः सुखे स्त्रयादिभृतावहेश्च फणकाययोरि’त्यमरः । पुरा उषानाम्नी बाणदुहिता स्वप्ने प्रद्युम्नपुत्रमनिरुद्धं दृष्ट्व सुप्तप्रतिबुद्धा सहचरीं चित्रलेखामवदत् तया समगमयत् । कालेन नारदमुखात् तदाकर्ण्य कृष्णः प्रद्युम्नबलरामाभ्यां बहुभिर्बलेश्च गत्वा बाणनगरमरैत्सीदिति कथा अत्रानुसन्धेया । अत्र यथोह्ममानो नलावरुद्धमिति शब्दश्लेषः । तदनुप्राणिता उपमा च सा च वयसेति वयसोरभेदाध्यवसायमूलातिशयोक्तिमूला चेत्येषां सङ्करः ॥ 1.32 ॥
अन्वयः–यथा खलु भोगभोजिना वयसा ऊह्मानः मदनः अनलावरुद्धं वैरोचनिजस्य पत्तनं प्रसह्म वेशितः तथा ( वयसा ) एव विदर्भजायाः नलावरुद्धं मनः ( मदनः वेशितः ) ॥ 1.32 ॥
नृपेऽनुरूपे निजरूपसम्पदां दिदेश तस्मिन् बहुशः श्रुर्ति गते ॥
विशिष्य सा भौमनरेन्द्रनन्दना मनोभवाज्ञैकवशंवदं मनः ॥ 1.33 ॥
जीवातु–इह विरहिणां चक्षुःप्रीत्यादयो दशावस्थाः सन्ति, तत्र चक्षुः प्रीतिः श्रवणानुरागस्याप्युपलक्षणमतस्तत्पूर्विकां मनःसङ्गारूयां द्वितीयामवस्थामाह–नृप इत्यादि । सा भीमनरेन्द्रनन्दना दमयन्ती नन्द्यादित्वाल्ल्युप्रत्ययः । निजरूपसम्पदापं स्वलावण्यसम्पत्तीनानुरूपे बहुशः । ‘वह्वल्पार्थाच्छस्कारका दन्यतरस्यामि’ त्यपादानार्थे शस्प्रत्ययः । श्रुतिं श्रवणं गते एतेन श्रवणानुरग उक्तः, तस्मिन् नृपे नले मनोभवाज्ञाया एकं वशंवदम् एकस्यैव विधेये शिवभागवतवत् समासः । ‘प्रियवशे वदः खच्’ ‘अरुर्द्विषदि’ त्यादिना तस्य मुम् । मनोविशिष्य दिदेश अस्येदमिति निश्चित्यातिससजत्यर्थः, तद्गुणश्रवणात्तदासक्तचित्तासीदित्यर्थः ॥ 1.33 ॥
अन्वयः–सा भीमनरेन्द्रनन्दना निजरूपसम्दाम् अनुरूपे बहुशः श्रुतिं गते तस्मिन् नृपे विशिष्य मनोभवाज्ञैकवशंवदं मनः दिदेश ॥ 1.33 ॥
अपासनामेत्य पितुस्स्म रज्यते दिने दिने सावसरेषु वन्दिनाम् ॥
पठत्सु तेषु प्रति भूपतीनलं विनिद्ररोमाजनि शृण्वती नलम् ॥ 1.34 ॥
जीवात्सु–अथास्याः श्रवणानुरागमेव चतुर्भिर्वर्णयति-उपासनामित्यादि ॥
सा भैमी दिने दिने प्रतिदिनं ‘नित्यवीप्सयोरि’ति वीप्सायां द्विर्भावः । वन्दिनां स्तुतिपाठकानामवसरेषु पितुरुपासनां सेवामेत्य प्राप्य तेषु वन्दिषु भूपतीन् प्रतिभूपतीनुद्दिश्य पठत्सु सत्सिवति शेषः । नलं शृण्वती अलं रज्यते स्म रक्ताऽभूदित्यर्थः । रञ्जेर्दैवादिकाल्ट् । अतएव विनिद्ररोमा रोमाञ्चिता अजनीति सात्त्विकोक्तिः । जनेः कर्त्तरि लुङ् ‘दीपजने’त्यादिना च्लेश्चिणादेशः । नलगुणश्रवणजन्यो रागस्तस्या रोमाञ्चेन व्यक्तोऽभूदिति
भावः ॥ 1.34 ॥
अन्वयः-सा दिने दिने वन्दिनाम् अवसरेषु पितुः उपासनाम् एल्य तेषु भूपतीन् प्रति ( प्रतिभूपतीन् वा ) पठस्सु नलं श्रृण्वती विनिद्ररोमा अजनि रज्यते रज्यते स्म ( च ) ॥ 1.34 ॥
कथाप्रसङ्गेषु मिथस्सखीमुखात्तृणेऽपि तन्व्या नलनामनि श्रुते ॥
द्रुतं विधुयान्यदभूयतानया मुदा? तदाकर्णनसज्जकर्णया ॥ 1.35 ॥
जीवातु–कथेति । मिथोऽन्योऽन्यं रहसि कथाप्रसङ्गंषं विस्त्रम्भगोष्ठीप्रस ङ्गेषु सखीमुखाञ्चलनामनि नलाख्ये तृणे श्रुते सति ‘नलः पोटगले राज्ञी’ति विश्वः । अनया तन्वया दमयन्त्या द्रुतमन्यत् कार्य्यान्तरं विधूय निराकृत्य मुदा हर्षेण तदाकर्णने नलशब्दाकर्णने सज्जकर्णया दत्तकर्णया अभूयत अभावि । ‘भुवो भावे’ लङ् । अर्थान्तरप्रयुक्तोऽपि लनशब्दो नृपस्मारकतया तदाकर्षकोऽभूदिति रागातिशयोक्तिः ॥ 1.35 ॥
अनव्यः–तन्व्या अनया मिथः कथाप्रसङगेषु सखीमुखात् तृणेऽपि नलना मनि श्रुते अन्यत् द्रुतं विधूय
मुदा तदकर्णनसज्कर्णया प्रभूयत ॥ 1.35 ॥
स्मरात्परासोरनिमेषलोचनाद बिभेमि तदभन्नमुदाहरेति सा ॥
जनेन युनः स्तुवता तदास्पदे निदर्शनं नैषधमभ्यषेचयत् ॥ 1.36 ॥
जीवातु–स्मरादिति । परासोर्मृ तात् अत एवानिमेषलोचनान्निश्चलाक्षाद्देवादिति च गम्यते । उभयथापि भयहेतुक्तिः । तस्माद्विभेमीति तदिभन्नं ततोऽन्यमुदाहरति तत्सदृशं निदर्शयेत्याह सा दमयन्ती यूनः स्तुवता जनेन प्रयोग कर्त्रा तदास्पदे स्मरस्थाने निदर्शनं टृष्टान्तं नैषधं निषधानां राजानं नलं ‘जनपदशब्दात्क्षत्रियादन्न्’
। अभ्यषेचयत् स्मरस्य स्थने तत्सटृश एवाभिषेक्तुं युक्तः स च लनादन्यो नास्तीति तस्मिन् नल उदाहृतेऽपि षत्वम् ॥ 1.36 ॥
अन्वयः–परासोः अनिमेषलोचनात् स्मरात् बिभेमि, त?दभिन्नम् उदाहर–इति सा यूनः स्तुवता जनेन नैषधं तदास्पदे निदर्शनम् अभ्यषेचयत् ॥ 1.36 ॥
नलस्य पृष्टा निषधागता गुणान् मिषेण दूतद्विजवन्दिचारणाः ॥
निपीय तत्कीर्तिकथामथानया चिराय तस्थे विमनायमानया ॥ 1.37 ॥
जीवातु-नलस्येति । निषधेभ्य आगता दूताः सन्देशहराः, द्विजा ब्राह्मणाः, वन्दिनः स्तावकाः चारणा देशभ्रमणजीविनः ते सर्वे मिषेण व्याजेन व्याजेन नलस्य गुणान् पृष्टाः पृच्छतेर्दुहादित्वात् प्रधाने कर्मणि क्तः । अथा प्रश्?नानन्तरमनया भैम्या तत्कीर्तिकथां नलस्य शःकथामृतं निपीय नितरां श्रुत्वेत्यर्थंः । चिराय विमनायमानया विमनीभवन्त्या मृशादित्वात्क्यङि सलोपश्च ‘अकृत्सार्वधातु कयोर्दीर्धः’ ततो लटःः शानजा?देशः । तदा तस्थे स्थितं तिष्ठतेर्भावेवे लिद् ।अयञ्च दूतादिव्यधाने गुणकीर्त्तनलक्षणः प्रलापाख्यो रत्यनुभवः॥37॥
अन्वयः–अनया निषधागताः दूतद्विवन्दिचारणाः मिषेण लनस्य गुणान् पृष्टा, अथा तत्कीर्त्तिकथां निपीय चिराय विमनायमानया तस्थे ॥ 1.37 ॥
प्रियं प्रियां च त्रिजगज्यिरियो लिखाधिलीलागृहभित्ति कावपि ॥
इति स्म सा कारुतरेण लेखितं नलस्य च स्वस्य च सपमीक्षते ॥ 1.38 ॥
जीवातु–प्रतिकृतिस्वप्नदर्शनादयो विरहिणां विनोदोपायाः, अथा तत्कथनमुखेन दर्शनानुरागञ्चास्या दर्शयन् प्रतिकृतिदर्शनं तावदाह-प्रियमिति । सा भैमी त्रीणि जगन्ति समाहृतानि त्रिजगत् । समाहरो द्विगुरेकवचनम् । तस्य जयिनो लोकत्रयजित्वरी श्रीः शोभा यथोस्ताटृशो कावपि प्रियं प्रियाञ्च तौ अधिलीकत्रयजित्वरी श्रीः शोभा ययोस्ताटृशौ कावपि प्रियं प्रियाञ्च तौ अधिलीलागृहभित्ति विलासवेश्मकुड्ये विभक्त्यर्थेऽव्ययीभावः । लिखेत्युक्तौ कारुतरेण शिल्पिकाण्डेन प्रयोज्येन लेखितं ललस्य चस्वस्य च सख्यं ख्पसाम्यापादनम् ईक्षते स्म ॥ 1.38 ॥
अन्वयः–अधिलीलागृहभित्ति कौ अपि त्रिगजृजयश्रियौ प्रिय प्रियां लिख–इति सा कारुवरेण लेखितं नलस्य स्वस्य च सख्यम् ईक्षते स्म ॥ 1.38 ॥
मनोरथेन स्वपतीकृतं नलं निशि क्व सा ना स्वपती स्म पश्यति ॥
अदुष्टमप्यर्थमदृष्टवैभवात्करोति सुप्तिर्जनदर्शनातिथिम् ॥ 1.39 ॥
जीरवातु–मनोरथेनेति । मनोरथेन सङ्कल्पेन स्वपतीकृतं स्वभतृंकृतं नलम् अभूततदभावेच्वौ दीर्धः । स्वपती निद्राती सा दमयथन्ती क्व निशि कुत्र रात्रौ न पश्यति स्म ? सर्वस्यामपि रात्रौ टृष्टवती । तथा हि सुप्तिः स्वप्नः अटृष्टम् अत्यन्ताननुभूतमप्यर्थं किमुत दृष्टमिति भावः । अदृष्टवैभवात् प्राक्तनभाग्यबलात् जनदर्शनातिर्भि लोकदृष्टिगोचरं करोति, तदत्रापि निमित्ताददृष्टात्तादृक् स्वप्नज्ञानमुत्पन्न मित्यर्थः । सामान्येन विशेषसमर्थनखपोऽर्थान्तरन्यासः ॥ 1.39 ॥
अन्वयः-स्वपती सा मनोरथेन स्वपतीकृतं नलं क्व निशि न पश्यति स्म ? सुप्तिः अटृष्टम् इअति अर्थम् अटृष्टवैभवात् जनदर्शनातिथिं करोति ॥ 1.39 ॥
निमीलितादक्षियुगाच्च निद्रया हृदोऽपि बाह्मे न्द्रियमौनमुद्रितात् ॥
अदर्शि संगोप्य कदाप्यवीक्षितो रहस्यमस्यास्स महन्महीपतिः ॥ 1.40 ॥
जीवातु–निमीलितादिति । निद्रया प्रयोजिकया निमीतिलतान्मुकुलितादुपरतव्यापारादित्यर्थः, अक्षियुगाच्च तथा बाह्मेन्द्रियाणां चक्षुरादीनां मौने न व्यापारराहित्येन मुद्रितात्प्रतिष्टब्धात्, मनसो बहिरस्वातन्त्रयादिति भावः । हृदो हृदयादपि सङगोप्य गोपयित्वेत्यर्थः, ‘अन्तद्वौयेनादर्शनमिच्छती’त्यक्षियुग मनसोरपादानत्वम् । अदर्शनं चात्र मनसो बाह्मे न्द्रियमौनमुद्रितादिति विशेषणसामर्थ्यादिन्द्रियार्थसंप्रयोगजन्यज्ञानविरह एवेति ज्ञायते, स्वप्नज्ञानं तु मनोजन्यमेव । तदजन्यज्ञानमत्रेत्याह-कदाप्यवीक्षित इति । अत्यन्तादृष्टचर इत्यर्थः, महद्रहस्यमतिगोप्यं वस्तु स महीपतिर्नलः । अस्या भैम्या अदर्शि दर्शयाञ्चक्रे, दृशेर्ण्यन्तात् कर्मणि लुङ् । तथा काचिच्चेटी कस्यैचित्कामिन्य कञ्चन कान्तं संगोप्य दर्शयति तद्वदिति ध्वनिः ॥ 1.40 ॥
अन्वयः–नीद निमीलितात्, अक्षियुगात् बाह्मेन्द्रियमौनमुद्रितात् हृदः अपि च संगोप्य कदापि अवीक्षितः स महीपतिः अ?स्याः महत् रहस्यम् अदर्शि ॥ 1.40 ॥
अहो अहोभिर्महिमा हिमागमेऽप्यतिप्रपेदे प्रति तां स्मरार्दिताम् ॥
तपर्तुतूर्तावपि मेदसां भरा विभावरोभिर्विभरांबभूविरे ॥ 1.41 ॥
जीवातु–अथास्याशिचन्ताजारावाह–अहो इति । हिमागते हेमन्तेऽपि स्मरादितां तां दमयन्ती प्रति अहोभिर्दिवसैः अतिमहिमा अतिवृद्धिः प्रपेदे तथा तपत्तुंपूर्त्तावपि ग्रीष्मान्तेऽपि विभावरीभिः निशाभिःमेदसां भरा मांसराशयोऽतिवृद्विरिति यावत् । विभराम्बभूविरे बभ्रिरे, भृञः कर्मणि लिट् आम्प्रत्ययः । अहो आश्चर्यं शास्त्रविरोघादनुभवविरोधाच्चेति भावः । विरहिणां तथा प्रतीयत इतृयविरोधः, एतेनास्या निरन्तरचिन्ता जागरश्च गम्यते । अहोशब्दस्य ‘ओदि’ति प्रगृह्मत्वात् प्रकृतिभवाः ॥ 1.41 ॥
अन्वयः–अहो, हिमागमे अपि स्मरार्दितां तां प्रति अहोभिः महिमा प्रपेदे, तपर्तुपूतौ अपि विभावरीभिः मेदसां भरा विभराम्बभूविरे ॥ 1.41 ॥
स्वकाकन्तिकीर्तिव्रजमौक्तिकस्त्रजः श्रयन्तमन्तर्धटनागुणश्रियम् ॥
कदाचिदस्या युवधैर्यलोपिनं नलोऽपि लोकादशृणोद् गुणोत्करम्॥ 1.42 ॥
जीवातु–स्वेत्यादि । अथ नलोऽपि स्वस्य कान्त्या सौन्दर्येण याः कीर्त्तयः तासां व्रजः पुञ्ज एव मौक्तिकस्त्रक् मुक्ताहारः तस्या अन्तः अम्यन्तरे घटनागुणश्रियं गुम्फनसूत्रलक्ष्मीं श्रयन्तं भजन्तं गुवधैर्यलोपिनं तरुणचित्तस्थैर्य्यपरिहारिणम् अस्या दमयन्त्या गुणोत्करं सौन्दर्यसन्दोहं लोकादागन्तुकजनात् अशृ णोत्, अत्र कीर्तिव्रजगुणोत्करयोर्मुक्ताहारगुम्फनसूत्रत्वरूपणाद्रूपकालङ्कारः ॥ 1.42 ॥
अन्वयः–कदाचित् नलः अपि लोकात् स्वकान्तिकीर्तिव्रजसमौक्तिकस्त्रजः अन्तर्धटनागुणश्रियं श्रयन्तं युवधैयैलोपिनं अस्याः गुणोत्करम् अश्रृणोत् ॥ 1.42 ॥
तमेव लब्ध्वावसरं ततः स्मरश्शरीरशोभाजयजातमत्सरः ॥
अमोघशक्त्या निजयेव मूर्तया तया विनिर्जेतुमियेष नैषधम् ॥ 1.43 ॥
जीवातु–अथास्य तस्यां रागोदयं वर्णयति-तमेवेति । ततो गुणश्रवणानन्तरं शरीरशोभाया देहसौन्दर्य्यस्य जयेन जामत्सरः उत्पन्नवैरः स्मरः तमेवावसरमवकाशं लब्ध्वा मूर्त्तया मूर्तिमत्या निजया अमोधशक्तयेव अकुण्ठितसामर्थ्येनेवेत्युत्प्रेक्षा । ततया दमयन्त्या नैषधं नलं विनिर्जेतुमियेष इच्छति स्म, रन्ध्रान्वेषिणो हि विद्वेषिण इति भावः । तेन रागागदय उक्तः ॥ 1.43 ॥
अन्वयः–ततः शरीरशोभाजयजातमत्सरः स्मरः तम् एव अवसरं लब्ववा मूेर्तया निजया अमोधशक्त्या इव तया नैषधं विनिर्जेतुम् इयेष ॥ 1.43 ॥
अकारि तेन श्रवणातिथिर्गुणः क्षमाभुजा भीमनृपात्मजाश्रितः ॥
तदुच्चधैर्यव्ययसंहितेषुणा स्मरेण च स्वात्मशरासनाश्रयः ॥ 1.44 ॥
जीवातु–अकारीति । तेन क्षमाभुजा नलेन भीमनृपात्मजायाः दमयन्त्याःश्रितः गुणः तदीयः सौन्दर्यादिः श्रवणातिथिः श्रोत्रविषयः अकारि कृतः श्रुतः इत्यर्थः । करोतेः कर्मणि लुङ्‌ । तस्य नलस्य उच्यधैर्य्यनाशायसंहितेषुणा स्मरेण च स्वात्मनः शरासनाश्रयः चापनिष्ठो गुणो मौर्वी श्रवणातिथिरकारि आकर्ण
कृष्ट इत्यर्थः । दमयन्तीगुणश्रवणान्नलमनसि महान् मदनविकारः प्रादुर्भूत इत्यर्थः । अत्रोक्तवाक्यार्थस्य पूर्ववाक्यार्थहेतुकं काव्य लिङ्गमलङ्कारः ॥ 1.44 ॥
अन्वयः–तेनन क्षमाभुजा भीमनृपात्मजाश्रितः गुणः श्रवणातिथिः अकारि तदुच्चर्धर्यव्ययसंहितेषुणा स्मरेण च सवातृमशरासनाश्रयः ( गुणः श्रवणातिथिः अकारि ) ॥ 1.44 ॥
अमुष्य धीरस्य जयाय साहसी तदा खलु ज्यां विशिखैस्समनाथयन् ॥
निमज्ययामास याशांसि संशये स्मरस्त्रिलोकीविजयार्जितान्यपि ॥ 1.45 ॥
जीवातु–अमुष्येति । स स्मरः साहसी साहसकारः ‘न साहसमनारुह्म नरो भद्राणि पश्यती’ति न्यायादविम्बी सन्नित्यर्थः । अमुष्य धीरस्य अविचलितस्य नलस्य जयाय शरशनज्यां निजधनुर्मौर्वीं विशिखैः शरैः सनाथयन् सनाथं कुर्वन् संयोजयनिनत्यर्थः, त्रयाणां लोकानां समाहारस्त्रिलोकी ‘तद्धितार्थे’त्यादिना समासः, ‘अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्यत’ इति स्त्रीलिङ्ग त्वात् ‘द्विगोरि’ति ङीप् । तस्य विजयेनार्पितानि शब्दार्थः । वृद्धयपेक्षया अनुचितकर्मारम्भे मूलमपि नश्येदिति संशयितवानित्यर्थः । अत्र स्मरस्योक्तसंशयाऽसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः ॥ 1.45 ॥
अन्वयः–साहसी स्मरः धोरस्य अममुष्य जयाय तदा ज्यां विशिखैः सनाथयन् त्रिलोकीविजयार्तितानि अपि यशांसि संशये निमज्ज्यामास खलु ॥ 1.45 ॥
अनेन भेमीा घटयिप्यतस्तथा विधेरबन्ध्येच्छतया व्यलासि तत् ॥
अभेदि ततदृगनङृगमार्गणैर्यदस्य पौष्पैरपि धैर्यकञ्चकम् ॥ 1.46 ॥
जीवातु–दैवसहायात् पुष्पेषोरेव पुरुषकारः फलित इत्याह–अनेनेति ।अनेन नलेन सह भैमीं घटयिष्यतः योजयिष्यतो विधेर्विधातुरबन्ध्येच्छतयाअमोधसङ्कल्पत्वेन यत्तस्मात्तथा तेन प्रकारेण योऽग्रे वक्ष्यत इति भावः ।व्यलासि विलसितं लसतेर्भावे लुङ् । यत् पौष्पैरपि न तु कठिनैनङ्गस्य न तु देहवतः मार्गणैर्धैर्य्यमेव कञ्चुकमस्य नलस्य अभेदि भिन्नं, कर्म्मणि लुङ् ।दम-यन्तीनलयोर्दाम्पत्यघटनाय अनङ्गमार्गणैर्नलधैर्यञ्चुकभदेदनाद्विधेरबन्ध्येच्छत्वं विज्ञायत इत्यर्थः, दैवानुकूल्ये किं दुष्करमिति भावः । तत्रानङ्गपौष्पयोः कञ्चुकं भिन्नमिति विरोधः, तस्य विलासेनाभासीकरणाद्विरोधाभासः, स च धैर्य्यकञ्चकमिति रूपकोत्थापित इति तयोरङ्काङ्गिभावेन सङ्करः ॥ 1.46 ॥
अन्वयः–अनेन भेमीं घटयिष्यतः विधेः अबन्ध्येच्छतया तत् तथा व्यलासि यत् पौष्पैः अनङ्गमार्गणैः तत् ताटृक् अस्य धैयंकञ्चुकम् अभोदि ॥ 1.46 ॥
किमन्यदद्यापि यदस्त्रतापितः पितामहो वारिजमाश्रयत्यहो ॥
स्मरं तनुच्छायतया तमात्मना शशक शङ्के स न लङ्घितुं नलः ॥ 1.47 ॥
जीवातु–अथ विधिमपि जितवतःकिं विध्यपेक्षयेत्याशयेनाह-किमिति । किमन्यत् अन्यत् किमुच्व्यते, पितामहो बिधिरपि तस्य स्मरस्यास्त्रैस्तापितःसन्तापितः अद्यापि वारिजमाश्रयति तस्य पह्मासनत्वादिति भावः । सर्वंनीतेर पचारश्च गम्यते, अहो विधेरपि स्मरविधेयत्वमाश्चर्यम् । पितामहतार्पिनं स्मरं स नलः आत्मनस्तनोःछायेव छाया कान्तिर्यस्य तस्सय भावस्तत्ता तया तनुच्छायतया तनोश्छाया अनातपस्तनुच्छाया तत्तयेति च गम्यते ‘छाया त्वनातपे कान्ताविति’वैजयन्ती । लङिद्यतुं न शशक इत्यहं शङ्के, न हि स्वच्छाया
लङ्घितुं शक्या इति भावः । अत्र स्मरलङघेन पितामहोऽप्यशक्तः किमुत नल इत्यर्थापत्तिस्तावदेकोऽलङ्काररः। ‘एकस्य वस्तुनो भावाद्यत्रवस्त्वन्यथा भवेत् । कैमुत्यन्यायतः सा स्यादर्थापत्तिरलङ्क्रिया’ इति लक्षणात् तनोश्छायेवच्छायेत्युपमा छाययोरभेदाध्यवसायादतिशयोक्तिः । एतत्त्रितयोपवनेनालङघयत्वे तनुच्छायताया हेतुत्वोत्प्रेक्षा सङ्कीर्णा,सा च शङ्का इति व्यञ्जकप्रयोगाद्वाच्येति।
अन्वयः–अहो, अन्यत् किम्, यदस्त्रतापितःपितामहः अद्य अपि वारिजम् आश्रयति । शङके सः नलः स्मरम् आत्मनः तनुच्छायतया लङ्घितुम् न शशाक ॥ 1.47 ॥
उरोभुवा कुम्भयुगेन जम्भितं नवोपहारेण वयस्कृतेन किम् ॥
त्रपासरिद्दुर्गमपि प्रतीर्य सा नलस्य तन्वी हृदयं विवेश यत् ॥ 1.48 ॥
जीवातु–उरोभुवेति। सा तन्वी भैमी त्रपैव सरित् सेव दुर्गं नलसम्बन्धि तदपि प्रतीर्य्य नलस्य हृदयं विवेशेति यत् तत्प्रवेशनं ;यत्तदोर्नित्य सम्बन्धात्’ वयस्कृतेन नवोपहारेण नूतननिर्म्माणेन उरोभुवा तज्जन्येन कुम्भयुगेन कुचयुगाख्येनेति भावः, इत्यतिशयोक्तिः । ‘न लोके’त्यादिना कृद्योगषष्ठीप्रतिषेधात्कर्त्तरि तृतीया, ‘नपुंसके भाव उपसंख्यानमि’ति षष्ठी तु शषविवक्षायाम् । जृम्भितं जृम्भणं किमुत्प्रेक्षा सा चोक्तातिशयोतिमूलेक्ति सङ्करः । दमयन्तीकुचकुम्भविश्रयश्रणान्नलस्त्रपां विहाय तस्यामासक्तचित्तोऽभूदित्यर्थः, तेन मनःसङ्ग उक्तः ॥ 1.48 ॥
अन्वयः–सा तन्वी त्रासरिद्दुर्गम् अपि प्रतीर्य यत् नलस्य हृदयं विवेश, ( तत् ) वयस्कृतेन नवोपहारेण कुम्भयुगेन जृम्भितं किम् ? ॥ 1.48 ॥
अपह्नुवानस्य जनाय यन्निजामधीरतामस्सय कृतं मनोभुवा ॥
अबोधि तज्जागरदुःखसाखिणी-निशा च शय्या च शशाङ्ककोमला ॥ 1.49 ॥
जीवातु–अथास्य जागरावस्थामाह-अपह् नुङ्स्थेति’ त्यादिना सम्प्रदान त्वाच्चतुर्थी । अस्य नलस्य मनोभुवा कामेन यज्जागरप्रलापादिकं कृतन्तत्सर्वं जागरदुःखस्य साक्षिणी ‘साक्षाद्द्रष्ठरि संज्ञायामि’ति साक्षाच्छब्दादिनिप्रत्यये ङीप् । शशाङ्केन कोमला रम्या निशा चाबोधि । ‘दीपजने’त्यादिना कर्त्तरि च्लेश्चिणादेशः । तथा शशाङ्कवत्कोमला मृदुला शय्या अबोधि, निशायां शय्यायां जागरणयोस्तत्साक्षित्वमि?ि भावः ॥ 1़.49 ॥
अन्वयः–निजाम् अधीरतां अपह्नु वानस्य अस्य मनोभुवा यत् कृतं तत् जागरदुःखसाक्षिणी शशांककोमला निशा शय्या च अबोधि ॥ 1.49 ॥
स्मरोपतप्तोऽपि भृशं न स प्रभुर्विदर्भराजं तनयामयाचत ! ॥
त्यजन्त्यसूञ्शर्म च मानिनो वरं त्यजन्ति न त्वेकमयाचितव्रतम्॥ 1.50 ॥
जीवातु–ननु किमनेन निबन्धनेन, याच्याताम्भीमभूपतिर्दमयन्तीम्, नेत्याहस्मरेतृयादि भृंशं गाढं स्मरोपतप्तः कामसन्तप्तोऽपि प्रभुः समर्थः स नलः विदर्भ राजं भीमनृपतितनयां दमयन्तीं न अयाचत न याचितवान् ‘दुहियाची’त्यादिना याचेर्द्विकर्मकता । तथाहिन्मानिनो मनस्विनोऽत्युच्चमनस्काः प्राणान् शर्म च सुखञ्च त्यजन्ति एतत्त्यागोऽपि वरं मनाक् वरमिति मनागुत्कर्ष इति महो त्यजन्ति,मानिनां प्राणत्यागदुःखाद् दुःसहं श्याच्?ञाया दुःखमित्यर्थः । सामान्येन विशेषसमर्थनख्योऽर्थान्तरन्यासः ॥ 1.50 ॥
अन्वयः–भृशं स्मरोपतप्तः अपि सः प्रभुः विदर्भराजं तनयां न अयाचत, मानिनः असून् शर्म च त्यजन्ति, एवम् अयाचितव्रतं न त्यजन्ति ॥ 1.50 ॥
मूषाविषादाभिनयायदयं क्वचिज्जुगोप निःश्वसातर्ति वियोगजाम् ॥
विलेवनस्याधिकचन्द्रभागताविभावनाच्चापललाप पाण्डुताम् ॥ 1.51 ॥
जीवातु–मृषेति । अयं लनो वियोगतां दमयन्तीवियोगजन्यां निःश्वासतर्ति निःश्वासपरम्परां क्वचित् कुत्रचिद्वस्त्वन्तरे विषये मृषविषादस्य मिथ्या दुःखस्याभिनयात् छलेन, जुगोप संववार । तथा पाण्डुतां विशदतां शरीरणण्डिमानं च विलेपनस्य चन्दनादधिकः चन्द्रभागः कर्पूरांशो यस्मिन् विलेपने ‘छनसारश्चन्द्रसांः सिताभ्रो हिमवालुका’ इत्यमरः । तस्य भावस्तत्ता तस्या विभावनात् कर्पूरभागाधिकतोतृप्रेक्षणादपललाप निह्नुते स्म । अत्राङ्गगताभ्यां मृषाविषादचन्द्रभागपाण्डिमभ्यां तद्विरहश्वासपाण्डिम्नोर्निगूहनान्मीलानालङ्कारः । ‘मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम् ।’ इति लक्षणात् ॥ 1.51 ॥
अन्वयः–अयं क्वचित् मृषादिवषादाभिनयात् वियोगजां निःश्वासतर्ति जूगोप, विलेपनस्य अधिकचन्द्रभागताविभानात् च पाण्डुताम् अपललाप ॥ 1.51 ॥
शशाक निह्नोतुमनेन तत्प्रियामयं बभाषे यदलीकवीक्षिताम् ॥
समाज एवालपितासु वैणिर्कर्मुमूर्च्छ यत्पञ्चममूर्च्छनासु च ॥ 1.52 ॥
जीवातु–शशकेति । अयन्नलोऽलीऽलीकवीक्षितां मिथ्यादृष्टां प्रियां दमयन्तीं समाजे सभायामेव यत्
वभावे बभाषे बभाण, बीणा शिल्पमेषां तैर्वैणिकैः वीणावादैः’शिल्पमि’ति ठञ् । आलपितासु सूच्चरितासु व्यक्तिं गतास्वित्यर्थः । ‘रागव्यञ्जक आलाप’ इति लक्षणात् । पञ्चमस्सय पञ्चमाख्यस्य स्वरस्य मूर्च्छनेत्युच्यत’इति लक्षणात् । पञ्मग्रहणन्तस्य कोकिलालापकोमलत्वेन उद्दीपकत्वातिशयविवक्षयेत्यनुसन्धेयम् । मुमूर्च्छेत्यपि यत्तदुभयम् अनेन प्रकारेण निह्नोतुमाच्छा दयितुं शशाक । ‘अये’ इति पाठे विषादे इत्यर्थः । ‘अये क्रोधे विषादे चे’ति विश्वः । एतेन ह्नीत्यागोन्मादमूर्च्छावस्यथाः सूचिताः ॥ 1.52 ॥
अन्वयः–यत् अयम् अलीकवीक्षितां प्रियां बभाषे, यत् च वैणिकैः पंचममूर्च्छनासु आलपितासु समाजे एव मुमूर्च्छ तत् अनेन लिह्नोतुं शशाक ॥ 1.52 ॥
अवाप सापत्रतां स भूपतिर्जितेन्द्रियाणां धुरि कीर्तितस्थितिः ॥
असवरे शम्बरवैरिविक्रपे क्रमेण तत्र स्फुटतामुपेयुषि ॥ 1.53 ॥
जीवातु–अवानपेतिु । जितेन्द्रियाणां धुर्यग्रे कीर्त्तितस्थितिः स्तुतमर्यादः स भूपतिः नलः तत्र समाजे असंवरे संबरितुमशक्ये संवरणं संवरः शमश्चेत्यपि, न विद्यते संवरो यस्य तस्मिन् शम्बरवैरिबिक्रमे संवरणं संवरः शमश्चेत्यपि, न विद्यते संवरो यस्य तस्मिन् शम्बरवैरिविक्रमे मनसिजविकारे क्रमेण स्फुटतामुपेयुषि सति सापत्रपतां सलज्जताम् अवाप । धैर्यशालिनां तदभङ्गस्त्रपाकर इति भावः ॥ 1.53 ॥
अन्वयः-जितेन्द्रियणां धुरि कीर्तित्ततस्थितिः स भूपतिः तत्र असंगरे शम्बरवैरिविक्रमे क्रमूण स्फटतामुपेयुषि सापत्रताम् अवाप ॥ 1.53 ॥
अलं नलं रोद्धुममी किलाभवन् गुणा विवेकप्रभवा न चापलम् ॥
स्मरः स रत्यामनिरुद्वमेव यत्सृजत्ययं सर्गनिसर्ग र्हदृशः ॥ 1.54 ॥
जीवातु–ननु विवेकिनः कुत इदं चापल्यम् ? इत्यत आह–अलमिति । युक्तायुक्तविचारो विवेकः तत्प्रभवा रुन्धेर्द्विकर्मकत्वम् । अलं समर्था नाभवन् किल खलु । तथा हि-स्मरः कामः । जनमिति शेषः । जनं रत्यां रागे अनिरुद्धंसृजति अनीश्वरमवशं करोति रत्यां रतिदेव्यामनिरुद्धाख्यं कुमारं सूजतीति ध्वनिः । इति यत् अयं सर्गनिसर्गः सृष्टिस्वभाव इदृशः । ‘रतिः समरप्रियार्या च रागेऽपि सुरतेपि च’ । ‘अनिरुद्धः कामपुत्रेऽरुद्धे चानीश्वरे1़पि चे’ति विश्वःअत्र स्मररगदुर्वारतायाः सर्वसृष्टिसाधारण्येन चापलदुर्वारतासमर्थनात् सामान्येन विशेषसमर्थनख्योऽर्थान्तरन्यासः ॥ 1.54 ॥
अन्वयः–अमी विवेकप्रभवा गुणाः नलं चापलं रोद्धुम् अलं न अभवन्किल, अयम् ईटृशः सर्गनिसर्गः यत् स्मरः रत्याम् अनिरुद्धम् एव सृजति ॥ 1.54 ॥
अनङ्गचिह्नं स विना शशाक नो यदासितुं संसदि यत्नवानपि ॥
क्षणं तदारामविहारकैतवान्निषेवितुं देशमियेष निर्जनम् ॥ 1.55 ॥
जीवातु–अथास्य मनोरथसिद्धर्यापयिकदिव्यहंससंवादनिदानभूतं वनविहारं प्रस्तौति-अनङ्गेति । स नैषधो नलो यत्नवानप्यनङ्गचिह् नं मूर्छाप्रलापादिस्मरविकारं विना संसदि क्षणमप्यासितुं यदा नो शशाक, तदा आरामविहारकैतवादुपवनविहरणव्याजान्निर्जनं देशं निषेवितुम् इयेष देशान्तरं गन्तुर्मच्छदित्यर्थः । एतेन चापलाख्ये सञ्चारिणि भ्रमणलक्षणोऽनुभाव उक्तः ॥ 1.55 ॥
अन्वयः–यत्नवान् अपि यः यदा अनङ्गचिह्नं विना संसदि क्षणम् आसितुं नो शशा तदा आरामविहारकैतावात् निर्जनं देशं निषेवितुम् इयेष ॥ 1.55 ॥
अथ श्रिया भर्त्सितमत्स्यकेतनस्सनं वयस्यैस्स्वरहस्यवेदिभिः ! ॥
पुरोपकण्ठोपवनं किलेक्षिता दिदेश यानाय निदेशकारिणः ॥ 1.56 ॥
जीवातु–अथेति । अथानन्तरं श्रिया सौन्दर्येण भर्त्सितमत्स्यकेतनस्तिरस्कृतस्मरः स नलः स्वरहस्यवेतिदभिः निजभैमीरामर्मज्ञैर्वयसा तुल्या वयस्याःस्निग्धाः ‘स्निगधो वयस्यः सवया’इत्यमरः । तैः सह समं पुरोपकण्ठोपवनं पुरसमीपारममीक्षिता द्रष्टा, तृन्नन्तमेवैतत् अतएव ‘न लोके’ त्यादिना षष्ठी प्रतिषेधः । किलेत्यलीके । निदेशकारिण आज्ञाकरान् यानाय यानमानेतु मित्यर्थः । ‘क्रियार्थोपे’ त्यादिना चतुर्थी । दिदेश आज्ञापयामास ॥ 1.56 ॥
अन्वयः–अथ श्रिया भर्त्सितमत्स्यकेतनः स्वरहस्यवेदिभिः वयस्यैः समं पुरोपकंठं वनम् ईक्षिता यानाय निदेशकारिणः आदिदेश ॥ 1.56 ॥
अमी ततस्तस्य विभूषितं सितं जवेऽपि मानेऽपि च पौरुषाधिकम् ॥
उपाहरन्नश्वमजस्त्रचञ्चलैः क्षोदितमन्दुरोदरम् ॥ 1.57 ॥
जीववातु–अमी इति तत आज्ञापनानन्तरं अमी निदेशकारिणः तस्य विभूषितमलङ्कृतञ्चवेऽपि वेगेऽपि माने प्रमाणेऽपि च पौरुषात् पुरुषगतिवेगात् पुरुषप्रसमाणात् चाधिकं ‘ऊर्ध्वविस्तुतदोःपाणिनृमाने पौरुषं त्रिषु’ इत्यमरः । ’ पुरुषहस्तिभ्यामण् चे’ त्यण्प्रत्ययः । अजस्रचञ्चलैश्चदुलस्वभावैः खुराञ्चलैः शफाग्रैः क्षोदितं मन्दुरोदरं चूर्णीकृताश्वशालाभ्यन्तरं ‘वाजिशाला तु मन्द्ररे’त्यमरः । एतेनोत्तमाश्वलक्षणयुक्तं सितं श्वेतमश्वमुपाहरञ्चनिन्युरित्यर्थः ॥ 1.57 ॥
अन्वयः–ततः अमी तस्य विभूषितं सितं जने अपि माने अपि च पौरुषा धिकार अजस्त्रचंचलैः खुरांचलैः क्षोदितमन्द्रुरोदरम् अश्वम् उपाहरन् ॥ 1.58 ॥
अथान्तरेणावदुगामिनाऽध्वना निशीथिनीनाथमहस्सहोदरैः ॥
निगालगाद् देवमणेरिवोरिवोत्थितैर्विराजितं केथेत्यादि । अथानयनान्तरं स नलो हयमारुरोहेत्युत्तरेणान्वयः । कथंभुतमान्तरेणाभ्यरेण अवदुगामिना कृकाटि-काख्यमस्तकपृष्ठभाजा ‘अवदुर्धाटा कृकाटिके’त्यमरः, अध्वना मार्गेण निगालगाद्गलोद्देशात् ‘निगालस्तु गलोद्देश’ इत्यमरः । देवमणिः आवर्त्तविशेषः, ‘निगालजो देवमणिरि’ति लक्षणात् । दिव्यमाणिक्यं च गम्यते, तस्मादुत्थितैरिव स्थितैरित्युप्रेक्षा । निशीथिनीनाथमहःसहोदरैश्चन्द्रांशुसदृशैरित्युपमा ॥ 1.58 ॥
अन्वयः–अथ निशीथिनीनाथमहःसहोदरैः निगालगात् देवमणेः आन्तरेण अवटुगामिना अध्वना उत्थितैः इव केसरकेशरमिभिः विराजितम् ( तं हयम् आरुरोह–इति ( 64 ) चतुषष्टितमेन श्लोकेन अन्वयः ) ॥1.58॥
अजस्त्रभूमीतटकुट्टनोद्गतैरुपास्यमानं चरणेषु रेणुभिः ॥
रयप्रकर्षाध्ययसनार्थमागतैजैनस्य चेताभिरिवाधिमाङ्कितैः ॥ 1.59 ॥
जीवातु–अजस्त्रेति । अजस्त्रेण भूमीतटकुट्टेन उद्गतै रेणुभिः रयप्रकर्षस्य वेगातिशयस्याध्याध्ययनार्थमभ्यासायागतैरणिमाङ्कितैरणुत्वपरिमाविशिष्टैजैनस्य लोकस्य चेतोभिरिवेत्युतृप्रेक्षा । चरणेषु पादेषु उपास्यमानं सेव्यमानम् । ‘अणुपरिमाणं मन’ इति तार्किकाः ॥ 1.59 ॥
अन्वयः–रयप्रकर्षध्ययनार्थम्‌ आगतैः अणिमाङ्कितैः जनस्य चेतोभिः इव अजस्त्रभूभीतटकुटुनोद्गतैः रेणुभिः चरणेषु उपास्यमानम् इव…..॥ 1.59 ॥
चलाचलप्रोथतया महीभृते स्वयेगदर्पानिव वक्तुमुत्सुकम् ॥
अलं गिरा वेद किलायमाशयं स्वयं हयस्येति च मौनमास्थितम् ॥ 1.60 ॥
जीवातु–चलाचले?ति । पुनः चलाचलप्रोथतथा स्वभावतः स्फुरमाणघोणतया ‘चरिचलिपदीनामुपसंख्याना’च्चलेर्द्विर्वचनं दीर्धश्च । ‘घोणा तु प्रोथमस्त्रियामि’त्यमरः । महीभृते नलाय स्ववेगदर्पात् वेगातिरेकान् वक्तुमुत्युकमुद्युक्तमिवेत्युत्प्रेक्षा । अथावचने हेतुमुतृप्रेक्षते-अलमिति । गिरा उक्त्या अलं, कुतः, अयं नलःस्वयं हयस्याश्व आशयमभिप्रायं वेद वेत्ति किल । ‘विदो लटो वे’ति णलादेशः । इति हेतोरिवेत्यनुषङ्गः मौनं तूष्णीम्भावञ्चास्थितं प्राप्तम् । अश्वहृदयवेदी नल इति प्रसिद्धिः ॥ 1.60 ॥
अन्वयः–चलाचलप्रोथतया स्ववेगदर्पान् महीभृते वक्तुम् उत्सुकम् इव, अयं स्वयं हयस्य आशयं वेद किल–इति गिरा अलम् आस्थितम्…..॥ 1.60 ॥
महाररथस्याध्वनि चक्रवर्तिनः परानपेक्षोद्वहनाद्यशस्सितम् ॥
रदावदातांशुमिषादनीदृशां हसन्तमन्तर्बलमर्वतां रवेः ॥ 1.61 ॥
?B जीवातु–महारथस्येति । महान् रथो यस्य तस्य महारथस्य । ‘आत्मासारनं सारथिञ्चाश्वं रक्षन् युद्धयेत यो नरः । स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः ।’ इत्युक्तलक्षणस्य रथिकविशेषस्येत्यर्थः । अत्यत्र महारथो नलः तस्य महारथस्य चक्रं राष्ट्रं वर्त्तयतीति चक्रवर्त्ती सार्वभौमः तस्य नलस्य, ‘हरिश्चन्द्रो
लनो राजा पुरुः कुत्सः पुरूरवाः । सागरः कार्त्तवीर्य्यश्च षडेते चक्रवर्त्तिनः ॥’ इत्यागमात् अन्यत्र चक्रेणैकेन वर्त्तनशीलस्यैत्यर्थः । अध्वनि मार्गे नापेक्षत इत्यनपेक्षं पचाद्यच्, परेषामनपेक्षं तस्माद्वहनादसहायोद्वहनाद्धेतोर्यशः सितं कीर्त्तिविशदम् अत एवानीदृशामीदृशयशोरहितानाम् । ‘सपत युञ् चन्ति रथमेकचक्रमि’ति सप्तानां दन्तानां ये अवदाताः सिताः अंशवः तेषां मिषाद्धमन्तं हसन्तमिव स्थितमित्यर्थः । अत्र मिषशब्देनांशूनामसत्यत्वमापाद्य हासत्वोत्प्रेक्षणात्सापह्नवोत्प्रक्षेयं गम्या च व्यञ्काप्रयोगात् । ‘रदना दशना दन्ता रदा’ इत्यमरः ॥ 1.61 ॥
अन्वयः–महारथस्य चक्रवर्त्तिनः अध्वनि परानपेक्षोद्वहनात् यशःसितं रदावदातांशुमिषात् अनीटृशां रवेः अर्वतां बलम् अन्तः हसन्तम् ॥ 1.61 ॥
सितत्विषश्चञ्चलतामुपेयुषो मिषेण पुच्छस्य च केस्रस्य च ॥
स्फुटाञ्चलच्चामारयुग्मचिह्नकैरनिह् नुवानं निजवाजिराजताम् ॥ 1.62 ॥
जीवातु–सितेति । पुनः कथम्भूतम् ? सितत्विषः विशदप्रभस्य चञ्चलतामुपेयुषा चञ्ल्स्येत्यर्थः । पुच्छस्य लाङ्गूलस्य केसरस्य ग्रीवास्थबालस्य च मिषेण च्छलेन चलतश्चामरयुग्मस्य चिह्नकैः लक्षणैः स्फुटां प्रसिद्धां निजां वापिराजतां अश्वेश्वरत्वमनिह नुवानं प्रकाशयन्तमिव । अश्वामिनः कथञ्चामरयुग्ममिति भावः । पूर्ववदलङ्कारः ॥ 1.62 ॥
अन्यः–सितत्विषः चंचलताम् उपेयुषः चुच्छस्य केसरस्य च मिषेण चलच्चामरयुग्मचिह्नकैः निजवाजिराजतां स्फुटम् अनिह्नुवानम्…..॥ 1.62 ॥
अपि द्विजिह्वाभ्यवहारपौरुषे मुखानुपक्तायतवल्गुवल्गया ॥
उपेयिवांसं प्रतिमल्लतां रयस्मये जितस्य प्रसभं गरुत्मतः ॥ 1.63 ॥
जीवातु–अपीति । पुनः कथम्भूतं स्थितम् ? रयस्मये वेगप्रयुक्ताहङ्कारे प्रसभं प्रसह्म जितस्य प्रागेव विजितस्य गरुत्मतः मुखानुषक्ता वक्त्रलग्ना आयता दीर्घा बल्गु रम्या च या वल्गा मुखरज्जुः तया तन्मिषेणेत्यर्थाः । द्विजिह्वा नामहीनामभ्यवहारे आहारे यत् पौरुषे सर्पभक्षणपुरुषकारेऽपि प्रतिमल्लतां प्रतिद्वन्द्वितामुपेयिवांसं प्राप्तम् । तथा च गम्येत्प्रेक्षेयम् । ‘अपेयिवाननाश्वाननूचानश्वचे’ति क्वसुप्रत्ययान्तो निपातः ॥ 1.63 ॥
अन्वयः–रयस्मये प्रसभं जितस्य गरुत्मतः द्विजिह्वाभ्यवहारपौरुषे अपि मुखानुषक्तायतवल्गुवल्गया प्रतिमल्लताम् उपेयिवांसम्…..॥ 1.63 ॥
स सिन्धुजं शीतमहस्सहोदरं हरन्तमुच्चैःरवसः श्रियं हयम् ॥
जिताखिलक्ष्माभृदनल्पलोचनस्तमारुरोह क्षितिपाकशासनः ॥ 1.64 ॥
जीवातु–स इति । जिता अखिलाः क्ष्माभृतो भूपा धूधराश्च येन सः अनल्पलोचनो विशालाक्षः अन्यत्र बहुनेत्रः सहस्त्राक्ष इति यावत् । क्षितोपाक शासनः क्षितीन्द्रो नलः देवेन्द्रश्च सिन्धुजं सिन्धुदेशोदभवञ्च समुद्रोदभव़ञ्च ‘देशे नदविशेषेऽब्धौ सिन्धुर्ना सरिति स्त्रियामि’त्यमरः । शीतमहःसहोदरं चन्द्रसवर्णमित्यर्थः, अन्यत्र चन्द्रभ्रातरमेकयोनित्वादिति भावः । उचचैःश्रवस इन्द्राश्वस्य श्रियं हरन्तं तत्स्वरूपमित्यर्थः, तंु हयमारुरोह । अत्रोच्चैःश्रवसः श्रियं हरन्तमिवेत्युपमा । सा च श्लिष्टविशेषणात् सङ्कीर्णेयं क्षितिपाकशासन इत्यतिशयोक्तिः ॥ 1.64 ॥
अन्वयः–जिताखिलक्षमाभृत् अनल्पलोचनः क्षितिपाकशासनः सः सिन्धुजं शीतमहः सहोदरम् उच्चैःश्रवसः श्रियं हरन्तं तं हयम् आरुरोह ॥ 1.64 ॥
निजा मयूखा इव तिग्मदीर्धि?तिं स्फटारविन्दाङ्कितपाणिपङ्कजम् ॥
तमश्ववारा जवनाश्वयायिनं प्रकाशरूपा मनुजेशमन्वयुः ॥ 1.65 ॥
जीवातु–निजा इति । निजा आत्मीयाः प्रकाशख्या उज्जवलाकारः भास्वरख्याश्च अश्वान्वारयन्तीत्यश्ववाराः अश्वारोहाः स्फुटारविन्दाङ्कितपाणिपङ्कजं पह्मरेक्षाङ्कितहस्तम्, अग्यत्र पह्महस्तं
जवनो जवशीलः ‘जुचङ्कम्ये’त्यादिना युच् । तेनाश्वेन अन्यत्र तैरर्श्वर्यातीति तथोक्तं मनुजा मनोर्जाता मनुजा
नरास्तेषामीशं राजनञ्च तं नलं तिग्मदीधितीं सूर्य्य मयूखा इव अन्वयुःअन्वगच्छन् । यातेर्लङि ह्मेर्जुसादेशः
॥ 1.65 ॥
अन्वयः–प्रकाशयाः निजाः मयुखाः इव अश्ववाराः स्फुटारविन्दाङ्कितपाणिपङ्कजं जवनावयायिनं तीक्ष्णदीधितम् इव तं मनुजेशम् अन्वयुः ॥ 1.65 ॥
चलन्नलङ्कृत्य महारयं हयं स वाहवाहोचितवेषपेशलः ॥
प्रमोदनिष्पन्दतराक्षिपक्ष्मभिर्व्यलोकि लोकैर्नगरालर्यर्नलः ॥ 1.66 ॥
जीवातु चलन्निति । वाहवाहोचितवेषपेषलः अश्ववाहोचितनेपथ्यचारुः ‘चारौ दक्षे च पेशल’ इत्यमरः । स नलो महारथमतिजवं हयमलङ्कृत्य चलन् स्वयं हयस्य भूषणीभूय गच्छन्नित्यर्थः । प्रमोदेन निष्पन्दतराणि अत्यन्तनिश्चलानि अक्षिपक्ष्माणि येषान्तैरनिमेषदृष्टिभिरित्यर्थः । नगरालयैर्नगर निवासिभिरित्यर्थः । लोकैजैर्व्यलोकि विस्तयहर्षाभ्यां विलोकित इत्यर्थः । वृतृत्यनुप्रासोऽलङ्कारः ॥ 1.66 ॥
अन्वयः–प्रमोदनिःस्पन्तराक्षिपक्ष्मभिः नगरालयैः लोकैः महारयं हयम् अलङ्कृत्य चलन् वाहवाहोचितवेषपेशलः सः नलः व्यलोकि ॥ 1.66 ॥
क्षणादथैष क्षणदापतिप्रभः प्रभञ्जनाध्येयजवेन वाजिना ॥
सहैव ताभिर्जनदृष्टिवृष्टिभिर्बहिः पुरोऽभूत् पुरुहूतपौरुषः ॥ 1.67 ॥
जोवातु–क्षणादिति । अथानन्तरं क्षणदापतिप्रभचन्द्रतुलृयस्तथा पुरु?हूतपौरुषः इन्द्रस्येव पौरुषं कर्म तेजो वा यस्य तादृश एव नलः । प्रभञ्जनेन वायुना अध्येयः शिक्षणीयः अवो वेगो यस्य तथाविधेन वाजिना अश्वेन क्षणादिति-क्षणात्ताभिःपूर्वोक्ताभिः जनानां दृष्टिभिः दृक्तातैः सह जनैदृश्यमान एवेत्यर्थः । बहिः पुरः पुराद्बहिः स्थितोऽभूदिति बहिर्योगे पञ्चमी । पूर्वं पुरे दृष्टः क्षणादेव पुराद्वहिर्दृष्ट इति वेगातिशयोक्तिः
॥ 1.67 ॥
अन्वयः–अथा क्षणदापतिप्रभः पुरुहूतपौरुषः एषः प्रभंजनाध्येयजवेनवाजिना क्षणात् ताभिः जनदापष्टिवृष्टिभिः सह सव पुरः बहिः अभूत् ॥ 1.67 ॥
ततःप्रतीच्छ प्रहरेति भाषिणी परस्परोल्लासितशल्यपल्वे ॥
मूषा मृधं सादिबले कुतूहलान्नलस्य नासीरगते वितेनतुः ॥ 1.68 ॥
जीवातु–तत इति । ततः पुराद्वहिर्गमनानन्तरं प्रतीच्छ गृहाण प्रहरजहीति भाषिणी भाषमाणे इत्यर्थः । परस्परमन्योपरि उल्लासितानि प्रसारितानि शल्यपल्लवानि तोमराग्राणि याभ्यां ते तथोक्ते ‘शल्यं तोमरमि’त्यमरः । नलस्य नासीरगते सेनाग्रवर्तिनी ‘सेनामुखन्तु नासीरमि’त्यमरः । सादिबले तुरङ्गसैन्ये कुतूहलात् मृषा मृघं मिथ्यायुद्धं युद्धनाटकमित्सयर्थः । वितेनतुश्चक्रतुमृधमायो धनं संख्यमि’ संख्यमि’त्यमरः ॥ 1.68 ॥
अन्वयः–ततः ‘प्रतीच्छ, प्रहर’-इति भाषिणी परस्परोल्कासितशल्यपल्लवे नलस्य नासीरगते सादिबले कुतूहलात् मृषा मृषं वितेनतुः ॥ 1.68 ॥
प्रयातुमस्माकमियं कियत्पदं धरा तदम्भोधिरपि स्थलायताम् ॥
इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥ 1.69 ॥
जीवातु–प्रयातुमिति । अयं धरा भुः समुद्रातिरिक्तेति भावः । अस्माकं प्रयातुं प्रस्थात्तुं कियत् पदं गन्तव्यं स्थानं कि?ञ्चित्पर्याप्तमित्यर्थः । तस्मादम्भोधिरपि स्थलायतां स्थलवदाचरतु, भूरेव भवत्वित्यर्थः । ‘केर्त्तु क्यङ् सलोपश्चे’ति क्यङ्प्रत्ययः । इतीवेति । इतीव इति मत्वेत्यर्थः । इति नैव गम्यमानार्थत्वादप्रयोगः, अन्यथा पौनरुक्त्यात् । क्रियानिमित्तोत्प्रेक्षा । निजवेगेन दर्पितैः सञ्जातदर्पैः वाहैर्नलाश्वैः पयोधिरोक्षमं समुद्रच्छादनपर्याप्तं रज उत्थित मुत्थापितं तथा सान्द्रमिति भावः ॥ 1.69 ॥
अन्वयः–इयं घरा अस्माकं प्रयातुं कियत् पदम्, तत् पयोधिः अपि स्थलायताम्–इति इव निजवेगदर्पितैः वाहैः पयोधिरोघक्षमं रजः उत्थितम् ॥ 1.69 ॥

हरेदक्रामि पदैककेन खं पदैश्चतुर्भिः क्रमणेऽपि यस्य नः ॥
त्रपा हरीणामिति नभ्रिताननैर्न्यवर्ति तैरर्धनभःकृतक्रमैः ॥ 1.70 ॥
जीवातु–हरेरिति । यत् खमाकाशं हरैर्विष्णोरेककेन एकाकिना ‘एकादाकिनिच्चाासहाये’ इति चकारात् कन्प्रत्ययः पदा पादेन ‘पादः पदङ्ध्रिश्चरणोऽस्त्रियामि’त्यमरः । ‘पद्दन्नि’त्यादिना पदादेशः । अक्रामि अलङ्घि, तस्य ख्स्य चतुर्भिः पदैः पदैः क्रमणे लङ्घने कृते सत्यपीति शेषंः । हरीणां वाजिनां विष्णूनां चेति गम्यते, ‘यमानिलेन्द्रचन्द्रार्कविष्णुसिंहाशुवाजिषु । शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिष्वि’त्यमरः । उभयत्रापि नोऽस्माकं त्रपेति वेत्यर्थः । गम्यार्थत्वादिवशब्दस्याप्रयोगः । अत एव गम्योत्प्रेक्षा । नाम्रितानि निम्नीकृतानि आने नानि यैस्तैः हरिभिः अर्द्धे नभसि कृतक्रमैः कृतलङ्घनैः सदिभर्न्यवर्त्तिं निवर्त्तितम्, भावे लुङ् । यदन्येन पुंसा लघुपायेन साधितं तस्य गुख्पायेन करणं समानस्य लाघवाय भवेदि?ति भावः ॥ 1.70 ॥
अन्वयः–यत् रवंः एककेन पदा अक्रामि तस्य चतुर्भिः पदैः अपि क्रमणे नः हरिणां त्रपा-इति नभ्रिताननैः अर्द्धनमःकृतक्रमैः तैः न्यवर्ति ॥ 1.70 ॥
चमूचरास्तस्य नृपस्य सादिनो जिनोक्तिषु श्रीाद्धनयेव सैन्धवाः ॥
विहारदेशं तमवाप्य मण्वलीमकारयन् भूरितुरङ्गमानपि ॥ 1.71 ॥
जीवातु–चमूचरा इति । तस्य नृपस्य चमूचराः सेनाचराः चोष्टच्, सिन्धुदेशभवाः सैन्धवाः अश्वाः, ‘हयसैन्धवसप्तय’ इत्यमरः। ‘तत्र भवः’इत्यण्प्रत्ययः, तत्सम्बंधिनोऽपि सैन्धवा ‘तस्येदमि’त्यणा ते सादिनः अश्वसादिन इत्यर्थः, जिनोक्तिषु श्राद्धतयेव जैनदर्शनश्रद्धालुतयेवेत्युत्प्रेक्षा, ‘श्र’द्धार्चावृत्तिभ्योऽणि’ति मत्वर्थो योऽण्प्रत्ययः, तं विहारदेशं सञ्चारभूर्मि सुगतालयञ्च ‘विहारो भ्रमणे स्कन्धे लीलायां सुगतालय’ इति विश्वः । अवाप्यतुरङगमान् भूरि बहुलं मण्डलीमपि मण्डलाकारं च अकारयन् अपिशब्दोऽवाप्तिसुच्चयार्थः । अन्यत्र मण्डलीमण्डलासनमित्यर्थः । ‘बौद्धाः स्वकर्मानुष्ठाने प्रायेण मण्डलानि कुर्वन्ति’ इति प्रसिद्धिः ॥ 1.71 ॥
अन्वयः–तस्य नृपस्य चमूचराः सैन्धवाः सादिनः जिनोक्तिषु श्राद्धतया इवं तं विहारदेशम् अवाप्य भुरि तुरङ्गतान् अपि मण्डलीम् अकारयन् ॥ 1.71 ॥
द्वियदिभरेवास्य विलङ्घिता दिशो यशोभिरेवचाबिधरकारि गोष्पदम् ॥
इतीव धारामवधार्य्यं मण्डलीक्रियाश्रियाऽमण्डि तुरङ्गमैः स्थली ॥ 1.72 ॥
जीवातु–द्विषदिभरिति । अस्य नलस्य द्विषदिभरेव पलायमार्नरिति भावः दिशो विलङ्घिताः 1 अस्य यशोभिरेवाब्धिः गोः पदं गोष्पदमकारि गोष्पदमात्रः कृतः, ‘गोष्पदं सेवितासेवितप्रमाणार्थै’ इत्यर्थः । ‘आस्कन्दितं धौरितकं रेचितं वल्गितं प्लुतम् । गतयोऽमूः पञ्च धारा’ इत्यमरः । अवधीर्य्यं अनादृत्य मण्डली क्रियारिया मण्डलीकरणलक्ष्म्या मण्डलगत्यैवेत्यर्थः । मडि अभूषि । मडि भूषायामिति धातोर्ण्‌यन्तात् कर्मणि लुङ्, इदित्त्वान्नुमागमः ॥ 1.72 ॥
अन्वयः–अस्य द्विषदिभः एव दिशः विलङ्घिताः तस्य यशोभिः एव अब्धिः गोष्पदम् अकारि–इति इव तुरङ्गमैः घाराम् अवधीयं मण्डलीक्रियाश्रया स्थलो अमण्डि ॥ 1.72 ॥
अचीकरच्चारु हयेन या भ्रमीनिजातपत्रस्य तलस्थले नलः ॥
मरुत् निजातपत्रस्य तल्स्थले अधः प्रदेशे ‘अधः स्वरूपयोरसस्त्री तलमि’त्यमरः । या भ्रमीर्मण्डलगतीरचीकरत् कारितवान्, करोतेर्णो चङ् । तासु भ्रमीषु विषये मयत् अद्यापि वातानां समूहो वात्श्या, ‘वातादिभ्यो यः’ । अत्र तद्भ्रमयोलक्ष्यन्त्रते, तन्मयान् तद्रूयान् चक्रचंमान् मण्डलगतीर्वितत्य विस्तीयार्‌य न शिक्षते किन्नाभ्यस्यते किमित्युत्प्रेक्षा । शिक्षितश्चेत् तथा सोऽपि गर्ति कुर्यादित्यर्थः । वायोरप्यसम्भविता गतीरचीकरदिति भावः ॥ 1.73 ॥
अन्वयः–नलः निजातपत्रस्य तलस्थले हयेन या चारु भ्रमीः अचीकरनत् तासु अद्य अपि मरुत् वात्यायक्रचङ्क्रमान् वित्सय किं न शिक्षते ( अपितु शिक्षत्येव ) ॥ 1.73 ॥
विवेश गत्वा स विलासकाननं ततः क्षणात् क्षोणिपतिर्धृच्छया ॥
प्रवालरागच्छुरितं सुषुष्सया हरिर्घनच्छायमिवाम्भसां निधिम् ॥ 74 ॥
जीवातु–विवेशेति । ततः स क्षोणीपतिः क्षणाद्गत्वा घृतीच्छया सन्तोषकाङ्क्षया प्रवालाः पल्लवाः अन्यत्र प्रवालाः विद्रुमाः ‘प्रवालो वल्लकीदण्डे विद्रुमे नवपल्लव’ इत्यमरः अन्यत्र रागेणारुण्येन छुरितं रूषितं घनच्छायं सान्द्रानातपमन्यत्र मेघकार्न्ति ‘छाया त्वनातपे कान्तावि’ति विश्वः । विलासकाननं प्राणनं सुषुप्सया स्वप्तुमिच्छया हरिर्विष्णुरम्भसान्निधिमब्धिनमिव विदेश ॥ 1.74 ॥
अन्वयः–ततः सः क्षोणीपतिः गत्वा हरिः इव सुषुप्सया प्रवालरागच्छुरितं धनच्छायम् विलासकाननम् अम्भृ ( विलासकाननं ) घृतीच्छया क्षणात् विवेश ॥ 1.74 ॥
वानान्तपर्यन्तमुपेत्य सस्पृहं क्रमेण तस्मिन्नवतीर्णदृक्पथे ॥
न्यवत्तदृष्टिप्रकरैः पुरौकसामनुव्रजद्बन्धुसमाजबन्धुभिः ॥ 1.75 ॥
जीवातु–वनान्तेति । अनुव्रजद्बन्धुसमाजबन्धुभिः स्नेहादनुगच्छद्बन्धुसङ्घसअृशौरित्यर्थः । अत एवोपमालङ्कारः । पुरौकसां टृष्टिप्रकरैर्टृष्टिसमूहैः कर्तृ भिर्वनान्तपर्यन्तं काननोपान्तसीमाम् उदकप्रान्तपर्य्यन्तञ्चेति गम्यते, ‘वने सलिलकानने’ इत्यमरः । सस्पृहं साभिलाषं यथा तथा उपेत्य गत्वा अथ अनन्तरं क्रमेण तस्मिन् नले अवतीर्णटृक्पथे अतिक्रान्तटृष्टिविषये सति न्यवर्ति निवृत्तं, भावे लुङ् । यया बन्धुभिः ’ उदकान्तं प्रियं यान्थमनुव्रजेदि’ त्यागामात्प्रवसन्तमनुव्रज्य निवर्त्त्यते तद्वदित्यर्थः ॥ 1.75 ॥
अन्वयः–क्रमेण अवतीर्णदृक्पथे ?तस्मिन् अनुव्रजद्बन्धुसमाजबन्धुभिः पुरौकसां दृष्टिप्रकरैः कनान्तपर्यन्तं सम्पृहम् उपेत्य न्यवर्ति ॥ 1.75 ॥
ततः प्रसूने च फले च मंजुले स सम्मुखीनाङ्गुलिना जनाधिपः ॥
निवेद्यमानं वनपालपाणिना व्यलोकयत् काननरामणीयकम् ॥ 1.76 ॥
जीवातु–तत इति । ततः वनप्रवेशानन्तरं स जनाघिपो नलः मञ्जले मनोज्ञे प्रसूने कुमुमे फले च विषये सम्मुखीना सन्दर्शिनी सम्मुखावस्थितवस्तुप्रकाशिकेति यावत् ‘यथामुखसम्मुखस्य दर्शनः ख’ इति खप्रत्ययान्तो निपातः ।तादृशी अङ्गुलिर्यस्य तेन वनपालपाणिना विद्यमानम् इदमिदमित्यङ्गुल्या पुष्फलादिनिर्देशेन प्रदर्श्यमानमित्यर्थः । काननरामणीयंकं वनरामणीयकं ‘योपघाद् गुणपोत्तमाद् वुञ्’
इति वुञ्प्रत्ययः । व्यलोकयत् अपश्यदिति स्वभावोक्तिः ॥ 1.76 ॥
अन्वयः–ततः सः जनाधिपः मञ्जुले प्रसूने फले च सम्मुखीनाङ्गुलिना वनपालपाणिना निवेद्यमानं काननरामणीयकं च व्यलोकयत् ॥ 1.76 ॥
फलानि पुष्पाणि च पल्लवे करे वयोऽतिपातोद्गतवातवेपिते ॥
स्थितैः समाधाय महर्षिवार्द्धकाद्वने तदातिथ्यमशित्तिशाखिभिः ॥ 1.77 ॥
जीवातृ-फलानीति । वयोऽतिपातेन पक्षिपातेन वाल्याद्यपगमेन चोद्गतेनोत्थितेन वातेन वायुना वातदोषेण च वेपिते कम्पिते ‘खगबाल्यादिनोर्वय’इत्यमरः । पल्लव एव कर इति व्यस्तरूपकं फलानि पुष्पाणि च समाधाय निधाय स्थितैस्तिष्ठदिभः वने शाखिभिर्वृ क्षैः वेदशाखाध्यायिभिश्च, ‘शाखाभेदे द्रुमे शाखा वेदेऽर्पीति वैजयन्ती । तदातिर्थ्य तस्य नलस्यातिथ्यम् अतिथ्यर्थं कर्म, ‘अतिथेञ्र्य’ इति ञ्यप्रत्ययः । महर्षीणां वार्द्धकाद् वृद्धसमूहात् तत्रत्यवत्यमरः । ‘वृद्धाचचेति वक्तव्यमि’ति समूहार्थे वुञ्प्रत्यः । अशिक्षि शिक्षितमभ्यस्तम्, अन्यथा कथमिदमाचरितममिति भावः । कर्मणि लुङ् उत्प्रेक्षेयं सा च व्यञ्जका प्रयोगाद्गम्या पूर्वोक्तरूपकश्लेषाभ्यामुत्थापिता चेति सङ्करः ॥ 1.77 ॥
अन्वयः–वयोऽतिपातोद्गतवातवेपिते पल्लवे करे फलानि पुष्पाणि च समाधाय स्थितैः शाखिभिः वने
तदातिथ्यम् अशिक्षि ॥ 1.77 ॥
विनिद्रपत्त्रालिगतालिकैतवान्मृगाङ्कचूडामणिवर्जनार्जितम् ॥
दधानमाशसु चरिष्णु दुर्यशः स कौतुकी तत्र ददर्श कैतमकम् ॥ 1.8 ॥
जीववातु-विनिद्रेति । विनिद्रपत्त्रालिगतालिकैतवात् विकचदलावलिसिथतभृङ्गमिषात् मृगाङ्कचूडामणेरीश्वरस्य कर्तुर्वर्ज्जनेन परिहारेणार्जितं सम्पादितं ‘न केतक्या सदादिशवमि’तिनिषेधादिति भावः । आशासु चरिष्णु सञ्चरणशीलं ‘अलंङ्कृ??ञि ‘त्यादिना चरेरिषुच्प्रत्ययः । दुर्यशोऽपकीर्ति दधानं कैतकं
केतवीकुसुमं तत्र वने स नलः कौतुकी सन् ददर्श । अर्हस्य महापुरुषस्य बहिष्कारो दुष्कीत्रिकर इति भावः ।
अत्रालिकैतवादित्यलित्वापह्नवेन तेषु दुर्यशस्त्वारोपादपह्नुत्यलङ्कारः । ‘निषेध्यविषये साम्यादन्यारोपेऽपह् नुतिः’ इति लक्षणात् ॥ 1.78 ॥
अन्वयः–कौतुकी सः तत्र विनिद्रपत्त्रालिगतालिकैतवातृ मूगाङ्कचूडामणिवर्जनार्जितम् आशासु चरिष्णु दुर्यशः दधानं केतकं दर्श ॥ 1.78 ॥
वियोगभाजां हृदि कण्टकैः कटुर्निधीयसे कर्णिशरः स्मरेण यत् ॥
ततो दुराकर्षतया तदन्तकृद्विगीयसे मन्मथदेहदाहिना ॥ 1.79 ॥
जीवातु–वियोगेत्यादि । कैतक ! यद्यस्मात्त्वं स्मरेण वियोगभाजां हृदि कण्टकैः निजीक्ष्यावयवैः कटुस्तीक्षणः केतकविशेषणस्यापि कर्णिशरत्वम् । विशेषणविवक्षया पुल्लिङ्गनिदेषः, किन्तुद्देश्यविशेषणस्य विघेयविशेषणत्वं क्लिष्टम् । कर्णवतृ कर्णि प्रतिलोमशल्यं तद्वान् शरः कर्णिशरः सन्निधीयसे कण्टककटोः केतकस्य कर्णशरत्वरूपणाद्रूपकालङ्कारः । ततः कर्णिशरत्वादिवद् दुराकर्षतया दुरुद्धारतया तद्रन्तकृत्तेषां वियोगिनां मारकं मन्थदेहदाहिना स्मरहरेण विगीयते विगर्ह्मसे । द्वेष्यवत् द्वेण्योपकरणमप्यसह्ममेव, तदपि हिस्त्रं चेत् किमु वक्तव्यमिति भावः । अत्रेश्वरकर्तृ कस्य केतकीविगर्हणस्य चोक्तरूपकोत्थापितेति सङ्करः
॥ 1.79 ॥
अन्वयः–यत् स्मरेण विशेगमाजां हृदि कण्टकैः कटुः कर्णिशरः निधीयसे ततः दुराकर्षतया तदन्टकृत् मन्मथदेहदाहिना विगीयसे ( इति क्रुधा तेन केतकम् अक्रुश्यत-इति एकाशीतितमेन ( 81 ) श्लोकेनान्वयः )
॥ 1.79 ॥
त्वदग्रसूचीसचिवः स कामिनोर्मनोभवः सीव्यति दुर्यशःपटौ ॥
स्फुटञ्च पत्रैः करपत्रमर्तिभिर्वियोगिहृद्दारुणि दारुणायते ॥ 1.80 ॥
जीवातु–त्वदिति । तवाग्राण्येव सूच्यः सचिवाः सहकारिणो यस्य स तथोक्तः स प्रसिद्धो मनोभवः कामिनी च कामी च कामिनौ तयोः, ‘पुमान् स्रिये’त्येकशेषः’ । दुर्यशांसि अपकीर्त्तयस्यताः पटा?विति रूपकं तानि सीव्यति कण्टकस्यूतं करत्रमि’त्यमरः । पत्रैस्तैर्वियोगिनां हृद्येव दारुणि दारयतीति दारुणो विदारको भेत्ता स इवाचरतीति दारुणायते, ‘कर्त्तुः क्यङ् सलोपश्चे’ति सङ्करः ॥ 1.80 ॥
अन्वयः–त्वदग्रसूचीसचिवः सः मनोभवः कामिनः दुर्यशः पटौ सीव्यति करपत्त्रमूर्त्तिभिः पत्?त्रैः च वियोगिहृदारुणि दारुणायते–इति स्फटम् ॥ 1.80 ॥
धनुर्मघुस्विन्नकरोऽपि भीमजापरं परार्गस्तव धूलिहस्तयन् ॥
प्रसूनधन्वा शरसात्करोति मामिति क्रुधाऽऽक्रुश्यत तेन कैतकम् ॥ 1.81 ॥
जीवातु–घनुरिति । कैतक ! प्रसूनं धन्वा धनुर्यस्येति प्रसूनधन्वा पुष्पचापः । ‘वा संज्ञायामि’ त्यवङादेशः । अत एव धनुषो मधुना मकरन्देन स्विन्नकरः आर्द्रपाणिः सन् अत एव परागैः रजोभिः घूलिहस्तयन् पनुः पुनः धूल्यदभावितहस्तमात्मानं कुर्वन् अन्यथा धनुःस्रं सनादिति भावः, तत्करोतेर्ण्यन्ताल्लटः शत्रादेशः । आतिभीमजापरमतिमात्रं दमयन्त्यासक्तं मा शरसात् शराधीनङ्करोति, ‘तदधीने च’ इति श्लोकत्रयोक्तिरिति तेन राजा क्रुधा कैतकमभाक्रुश्यसत अपराधोद्धाटने अधोष्यतेत्यर्थः ॥ 1.81 ॥
अन्वयः–धनुर्मधुस्विन्नकरः अपि प्रसूनधन्वा तव परार्गः धूलिहस्तयन्, भीमजापरं मां सशरसात्करोति–इति तेन क्रुषा केतकम् अक्रुश्यत ॥ 1.81 ॥
विदर्भसुभ्रु स्तनतुङ्गताप्तये घटानिवानश्यदलं तपस्यतः ॥
फलानि धूमस्य ध्यानधोमुखान् स दाडिमे दोहदधूपिनि द्रु मे ॥ 1.82 ॥
जीवातु–विदर्भेति । ‘तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पादुत्पादितं द्रव्यं दोहदं स्यात्तु तत्क्रिया ॥’ इति शब्दार्णवे । दोहदश्चासौ धूपश्च तदुक्तं ‘मेषामिषाम्बुसंसेकस्तत्कैशामिषधूपनम् । श्रेयानयं प्रयोगः स्याद् दाढिमीफलवृद्धये ॥ मत्स्याज्यत्रिफलालेपैर्मांर्संराजाविकोदभवैः ॥ लेपिता धूपिता सूते फलन्तालीव दाडिमी ॥ अविक्वाथेन संसिक्ता धूपिता तप्तरोमभिः । फ लानि दाडिमी सूते सुबहूलिन पृथूनि
च ॥’ इति । तद्वति दाडिमीद्रुमे फलानि विदर्भसुभ्रु वो दमयन्त्याः स्तनयोर्या तुङ्गता तदाप्तये तादृगौन्नत्य लाभायेत्यर्थः । अलमत्यर्थन्तपस्यतस्तपश्चरतः, ‘कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोरि’ति क्यङ्प्रत्यये तपसः परस्मैपदञ्च वक्तव्यं, ‘कर्मणो रोमन्थतपोभ्यां वर्त्तिचरोरि’ क्यङ्त्यय तपसः परस्मैपदञ्च वक्तव्यं’ धूमस्य दोहदधूमस्य धयन्तीति धयान् पातॄन्, धेद्-पाने अत्र ‘अताश्चोपसर्ग’ इति उपसर्गग्रह णान्नानुवर्त्ति-पक्षत्वात् ‘पाध्रे’त्यादिनाऽनुपसष्टादपि धेटः शप्रत्यय इति गतिः । अत एव काशिकायां केचिदुपसर्ग इति नानुवत्तंयन्तीति । अधोमुखान् घटानिव अपश्यदित्युत्प्रेक्षा । महाफलार्थिन इत्थमुग्र’ तपस्यन्तीति । भावः ॥ 1.82 ॥
अन्वयः–सः दोहदधुपिनि दाडिमे द्रु मे विदर्भेसुभ्रू स्तनतुङ्गताप्तये अलं तपस्यतः धूमस्य धयान् इव फलानि अपश्यत् ॥ 1.82 ॥
वियोगिनीमैक्षत दाडिमीमसौ प्रियस्मृतेः स्पष्टमुदीतकण्टकाम् ॥
फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यस्मरकिंशुकाशुगाम् ॥ 1.83 ॥
जीवातु–वियोगिनीमिति । असौ नलः प्रियास्मृतेदैमयन्तीस्मरणादिव स्पष्ट व्यक्तमुदीतेति र्ह गताविति घातोः कर्त्तरि क्तः । उदीता उद्गता कण्टकाः स्वावयवसूचय एव कण्टका रोमाञ्चा यस्यास्तामिति श्लिष्टरूपकम् । ‘वेणौ द्रुमाङ्गे रोमाञ्चे क्षुद्रशत्रौ च कण्टके’ इति वै जयन्ती । फलान्येव स्तनौ तावेव स्थानं तत्र विदीर्णो रागो यस्यास्तीति रागि रक्तवर्णमनुरक्तञ्च यत्तस्मिन् हृदि विशत् बीजभक्षणान्तःप्रविशेच्छुकास्यरूपं शुकतुण्डमेव स्मरस्य किंशुकं पलाशकुङ्मलमेवाशुगो बाणो यस्यास्तां दाडिमीमेव वियोगिनीं विरहिणीमैक्षत उपश्यत् । रूपकालङ्कारः । विः पक्षी तद्योगिनीमिति च गम्यते
॥ 1.83 ॥
अन्वयः–असौ वियोगिनीं प्रियस्मृतेः स्पष्टम् उदीतकण्टकां फलस्तनस्थानविदीर्णरागिहृद्विशच्छुकास्यमरकिंशुकाशुगां दाडिमीम् ऐक्षत ॥ 1.83 ॥
समरार्द्धचन्द्रेषुनिभे क्रशीयसां स्फुटे पलाशेऽध्वजुषाम्पलाशनात् ॥
स वृन्तमालोकत खण्डमन्वितं वियोगिहृत्खण्डिनि कालखण्जम् ॥ 1.84 ॥
जीवातु–स्मरार्द्धेति । नलः स्मरस्य यो।द्यर्द्धचन्द्रः अर्द्धचन्द्राकार इषुस्तन्निभे तत्सदृशे नित्यसमासत्वादस्पदविग्रहः, अत आहामरः-‘स्युरुत्तरपदे त्वमो । निभसङ्काशनीकाशप्रतीकाशोपमादयः’ इति । वियोगिनां हृत्खण्डिनि हृदयवेधिनि क्रशीयसां कृशतराणामध्वजुषामध्यगामिनाम् पलाशनात् मांसभक्षणात् पलाशे अन्वितं सम्बद्धं वृन्तं प्रसवबन्धनं तदेव कालखण्डजं खण्डम् ( इव ) आलोकत ॥ 1.84 ॥
नवा लता गन्धवहेन चुम्बिता करम्बिताङगी मकरन्दशोकरैः ॥
दृशा नृपेण स्मितशोभिकुङ्मला दरादराभ्यां दरकम्पिनि पपे ॥ 1.85 ॥
जीवातु-नवेेति । गन्धवहेन वायुना चुम्बिता स्पृष्टा अन्यत्रानुलिप्तेन पुंसा वीक्षिता मकरन्दशीकरैः पुष्परसकणैः करम्बिताङ्गीत्मयामिश्रितरूया अन्यत्र स्विन्नाङ्गीति च गम्यते । स्मितशोभिनः विकासरम्याः कुङ्मला मुकुला रदनाश्च यस्यास्तां मन्दहासमधुरदन्तमुकुला च गम्यते । दरकम्पिनी वायुस्पर्शादीषत्कमित्नी सात्त्विकवेपथुमती च नवा लता वल्ली तत्सदृशीकान्ता च गम्यते । नृपेण कर्त्रा दृशा करणेन दरादराभ्यां भयतृष्णाभ्यामुपलक्षितेन सता पपे अवेक्षिता गाढं दृष्टा इत्यर्थः। उद्दीपकत्वात् दरा प्रियासादृश्यादादारश्च । ‘दरोऽस्त्री शङ्खभीगर्त्तेष्वल्पार्थे त्वव्ययम्’ इति वैजयन्ती । अत्र प्रस्तुतविशेषणसाम्यादप्रस्तुतनायिकाप्रतीतेः समासोक्तिरलङ्कारः । ‘विशेषणस्य तौल्येन यत्र प्रस्तुतवर्णनात् । अप्रस्तुतस्य गम्यत्वे सा समासोक्तिरिष्यत’ इति लक्षणात् ॥ 1.85 ॥
अन्वयः–गन्धवहेन चुमिृबता मकरन्दशीकरैः करम्बिताङ्गी स्मितशोभिकुङ्ला दरकमिृयनि नवा लता नृपेण दरादराभ्यां टृशा पपे ॥ 1.85 ॥
विचिन्वतीः पान्थपतङ्गहिंसनैरपुण्यकर्माण्यलिकज्जलच्छलात् ॥
व्यलोकयच्चम्पककोरकावलीः स शम्बरारेर्बलिदीपिका इव ॥ 1.86 ॥
जीवातु–विचिन्वतीरिति । पन्थानं गच्छन्ति नित्यमि?ति पान्थाः नित्यपथिकाः, ‘यथोऽणु नित्यमि’
त्यणुप्रतृययः पन्थादेशश्च । स एव पतङ्गाः पक्षिणः ‘पतङ्गः पक्षिसूर्ययोः’ इत्यमरः । तेषां हिंसनैः वधैः अपुष्यकर्माण्येव अलयः कज्जलानीवेत्युपमितसमासः । तेषां छलादित्यपह्नवालङ्कारः । विचिन्वतीः संगृह्णतीः हिंसापापकारिणीरित्यर्थः । चम्पककोरकावलीः शमृबरारेर्मनसिजस्य बलिदीपिकाः पूजादीपिका इवेत्युत्प्रेक्षा, स नलो व्यलोकयत् ॥ 1.86 ॥
अन्वयः–सः अलिकज्जलच्छलात् पान्थपतङ्गर्हिसनैः अपुण्यकर्माणि विचिन्वतीः शम्बरारेः बलिदीपिकाः इव चम्पककोरकावलीः व्यलोकयत् ॥ 1.86 ॥
अमन्यतासौ कुसुमेषुगर्भजं परागमन्धङ वियोगिनाम् ॥
स्मरेण मुक्तेषु पुरा पुरारये तदङ्गभस्मेव शरेषु सङ्गतम् ॥ 1.87 ॥
जीवातु–अमन्यतेति । असौ नलः कुसुमान्येव इषवः कामबाणास्तेषां गर्भजं गर्भजातं वियोगितनामिति कर्मणि षष्ठी । अन्धाः क्रिमयन्तेऽनेनेत्यन्धङ्क रणं ‘गाढयसुभगे’त्यादिना च्वयर्थे ख्नुन्प्रत्ययः, ‘अरुर्द्विषदि’त्यादिना मुमा गमः । तं परागं पुरा पूर्वं पुरारयं पुरहराय स्मरेण मुक्तेषु शरेषु सङ्गतं संसक्तं तस्य पुरारेरङ्गे यदभस्म तदिवामन्यत इति उत्पेक्षितवानित्यर्थः । पुरा पुरारये ये मुकृतास्त एवैते पुरोवर्त्तिनः कुसुमेषव इत्यभिमानः, अन्यथैषां तदङ्गभस्मसङ्गोत्प्रेक्षानुत्त्थनादिति ॥ 1.87 ॥
अन्वयः–असौ कुसुमेषुगर्भजं वियोगिनाम् अन्धङ्करणं परागं पुरा स्मरेण पूरारारये मुक्तेषु शरेषु सङ्गतं तदङ्ग-भस्म इव अमन्यत ॥ 1.87 ॥
पिकरद्वने शृण्वति भृङ्हुङ्कृतैर्दशामुदञ्चत्करुणं वियोगिनाम् ॥
अनास्थया सूनकरप्रसारिणीं ददर्श दूनः स्थलपह्मिनीं नलः ॥ 1.88 ॥
जीवातु–पिकादिति । वने उपवने श्रोतरि पिकाद्वक्तुः सकाशात् भृङ्गहुङ्कृतैर्वियोगिनां दशामलिहुङ्कारकृतां दुःखावस्थामित्यर्थः । उदञ्चत्करुणं विकसद्वृक्षविशेषमुद्यत्कृतञ्च यथा तथा शृण्वनि सति, ‘करुणस्तु रसे वृक्षे कृपायां करुणा मते’ति विश्वः । अनास्थया श्रोतुमनिच्छया सूनं प्रसूनमेव करं प्रसारयतीति प्रसारिणीं पुष्परूपहस्तविस्तारिणीं तथोक्तामनिष्टकथां करेण वारयन्तीमिव स्थितामित्यर्थः । सूनकरेति प्रसारिणीमितिख्यकानुप्राणितागम्योत्प्रेक्षेयम् । स्थलपह्मिनीं नलो दूनः परितप्तः सन् दूङः कर्त्तरि क्तः, ‘ल्वादिभ्यश्चे’ति निष्ठानत्वम् । ददर्श ॥ 1.88 ॥
अन्वयः–दूनः नलः पिकात् भृङ्गहुङ्कृतैः वियोगिनां दशाम् वने उदञ्चत्करुणं शृण्वति सूनकरप्रसारिणीं स्थलपह्मिनीम् अनास्थया ददर्श ॥ 1.88 ॥
रसालसालः समदृश्यतामुना स्फुरद्द्विरेफारवरोषहुङ्कृतिः ॥
समीरलोलैर्मुकुलैर्वियोगिने जनाय दित्सन्निव तर्ज्जनाभियम् ॥ 1.89 ॥
जीवरतु–रसालेति । अमुना नलेन स्फरन्तो द्विरेफास्तेषामारवो भ्रमरह्मङ्कार एव रोषेण या हुङ्कृतिर्हुङ्कारो यस्य सः समीरलोलैर्वायुचलैर्मुकुलैरङ्गुलिभिरिति भावः । वियोगिने जनाय तर्जनामियं दित्सन् दातुमिच्छन्निव स्थितः,ददातेः सन् प्रत्ययः ‘सनिमीमे’त्यादिना इसादेशः, ‘अत्र लोपोऽभ्यासस्ये’त्यभ्यासलोपः, ‘सस्यार्धधातुक’ इति सकारस्य तकारः । रसालसालश्चूत वृक्षः समटृश्यत सम्बयग्टृष्टः । द्विरेफेत्यादियपकोत्थापितेयं तर्जनाभयजननोत्प्रेक्षेति सङ्करः ॥ 1.89 ॥
अन्वयः–अमुना स्फरदद्विरेफारवरोषहुङ्कृतिः समीरलोलैः मुकुलौ हवियोगिने जनाय तर्जनामिभयं दित्सन् इव रसालसानः समदृश्यत ॥ 1.89 ॥
दिने दिने त्वं तनुरेधि रेऽधिकं पुनः पुनर्मुर्च्छ च मृत्युमृच्छ च ॥
इतीव पान्थं शपतः पिकान् द्विजान् सखेदमेक्षिष्ट सलोहितेक्षणान् ॥ 1.90 ॥
जीवातु–दिने दिने इति । रे इति हीनसम्बोधने । त्वं दिने अघिकं तनु एघि अधिकं कृशो भव, अस्तेर्लोट् सिप् ‘हुझल्भ्यो हेर्विरि’ति घित्वम्, ‘ध्वसोरेद्धावभ्यसलोपश्च’ इति एत्वम्, पुनः पुनः मूर्च्छ च मृत्युं मरणमृच्छ च इति पान्थं नित्यपथिकं शपतः शपमानानिव स्थितानित्युत्प्रेक्षा,लोहितेक्षणान् रक्तदृष्ठीन् एकत्र स्वभावतोऽन्यत्र रोषाच्चेति द्रष्टव्यम्, पिकान् कोकिलान् द्विजान् पक्षिणो ब्राह्मणांश्च स नलः सखेदमैक्षिष्ट ।
स्वस्यापि उक्तशङ्कयेति भावः ॥ 1.90 ॥
अन्वयः–रे, त्वं दिने अघिकं तनुः एश्रि, पुनः पुनः मूर्च्छ च, मृत्युम् ऋच्छ च-इति सः पान्थं सः पान्थं शपतः इव लो हितेक्षणान् ( द्विजान् इव ) पिकान् द्विजान् सखेदं ददर्श ॥ 1.90 ॥
अलिस्त्रजा कुङ्मलमुच्चशेखरं निपीय चाम्पेरूमधीरया दृशा ॥
स धूमकेतुं विपदे वियोगिनामुदीतमातङ्कितवानशङ्कत ॥ 1.91 ॥
जीवातु–अलिस्त्रजेति । अलिस्त्रजा भ्रमरपंक्त्या उच्चशेखरमुन्नतशिरोभूषणम् अलिमलिनाङ्गमित्यर्थः । ‘शिखास्वपीडशेखरावि’त्यमरः । चाम्पेयं चम्पकविकारे कुडमलम् ‘अय चाम्पेयः चम्पको हेमपुष्पक’ इत्यमरः । नन्वयुक्तमिदं ‘न षट्पदो गन्धफलीमजिघ्रजिघ्रदि’त्यादावलीनां चम्पकस्पर्शाभावप्रसिद्धेरितिःचेत् नैवं किन्तु स्पृष्टेयन्तावतैवास्पशोक्तिः क्वचितु केषा?ञ्चित् उक्तपरिहारः अथवा चाम्पेयं नागकेसरं’चाम्पेयः केसरो नागकेसरः काञ्चनाहृय’ इत्यमरः । अधीरया दृशा निपीय विक्लवदृष्टया गाढं दृष्ट्वा आशङ्कितवान् कि?ञ्चिदनिष्टमुत्प्रेक्षितवान् । स नलः ‘अनिष्टाभ्यागमोत्प्रेक्षां शङ्कामाचक्षते बुधाः’ इति लक्षणात् । वियोगिनां विपदे उदीतमुत्थितं धूमकेतुमशङ्कत- अतर्कयदित्यु त्प्रे क्षालङ्कारः ॥ 1.91 ॥
अन्वयः–अलिस्त्रजा उचच्शेखरं चाम्पेयं कुङ्लम् अधीरया टृशा निपीय आतङ्कितवान् सः वियोगिनां विपदे उदीतं धूमकेतु म् अशङ्कत ॥ 1.91 ॥
गलत्परागं भ्रमिभङ्गिभिः पतत् प्रसक्तभृङ्गावलि नागकेसरम् ॥
स मारनाराचनिघषर्णस्खलज्जवलत्कणं शाणमिव व्यलोकयत् ॥ 1.92 ॥
जीवातु–गलदिति । स नलो गलो गलत्परागं निर्यद्रजस्कं भ्रमिभङ्गिभि भ्रमणप्रकारैरुपलक्षितं परतद् भ्रश्यत् प्रसक्तभृङ्गावलि सक्तालिकुलं नायकेसरं कुसुविशेषं मारनाराचनिघर्षणैः स्मरशरकर्षणैः स्खलन्तः लुठन्तः ज्वलन्तश्च कणाः स्फलिङ्गा यस्य तं शाणं निकषोत्पलमिवेत्युत्प्रे क्षा व्यलोकयत्, ‘शाणस्तु निकषः कष’ इत्यमरः ॥ 1.92 ॥
अनवयः–सः गलत्परागं भ्रमभङ्गिभिः पतत्प्रसक्तभृरावलि नागकेसरं मारनाराचनिघर्षणस्खलज्जवलत्कणं शाणम् इव व्यलोकयत् ॥ 1.92 ॥
तदङ्गमुद्दिश्य सुगन्वि पातुकाः शिलीमुखालीः कुसुमादू गुणस्पृशः ॥
स्वचापदुर्निर्गतमार्गणभ्रमात् स्मरः स्वनन्तीरवलोक्य लज्जितः ॥ 1.93 ॥
जीवातु–तदङ्गमिति । सुगन्वि शोभनगन्धं ‘गन्एधस्ये’त्यादिना समासान्त इकारः । तदङ्गं तस्य नलस्याङ्गमुद्दिश्य लक्ष्यीकृत्य गुणो गेन्धादिः मौर्वौ च, ‘गुणस्त्वावृत्तिशब्दादिज्येन्द्रियामुख्यतन्तुष्वि’ति वैजयन्ती । तत्स्पृशस्तद्युक्ताः ‘स्पृशोऽनुदके क्विन्’ कुसुमादपानात् पातुका धावन्तीः बाण पंक्तीश्चावलोक्य स्मरः स्वचापात् पौष्पाद् दुर्निर्गताः विषमनिर्गता ये मार्गणा वाणास्तद्भ्रमाद्धेतोर्लज्जितोऽभवत् न्यूनमिति शेषः । दुर्निर्गतेषवो ह्मधिकं स्वनन्तीति प्रिसिद्धेः । अत्र स्वनच्छिषानुप्राणितादुत्थापिता चेयं स्मरस्य लज्जितत्वोत्प्रे क्षेतृयनयोरङ्गाङ्गिभावेन सङ्करः ॥ 1.93 ॥
अन्वयः–सुगन्थि तदङ्ग् उद्दिश्य गुणस्पृशः कुसुमात् पातुकाः स्वनन्तीःशिलीरमुखालीः अवलोक्य स्वचापदुर्निर्गतमार्गणभ्रमात् स्मरः लज्जितः ॥ 1.93 ॥
टिप्पणी–लक्ष्यभ्रष्टता के कारण काम का भ्रम र्मे पड़ लज्जित होना,इस आधार पर भ्रांति और श्लेषानुप्राणिता उत्प्रेक्षा का संकर ॥ 1.94 ॥
मरुल्ललत्पल्लवकण्टकैः क्षतं समुच्चरच्चन्दनासारसौश्रभम् ॥
स वारनारीकुचस?ञ्चितोपमं ददशं मालूरफलं पचेलिमम् ॥ 1.95 ॥
जीवातु–मरुदिति । मरुता वायुना ललत्पल्लवानाञ्चलत्किसलयानां कण्टकैस्तीक्ष्णाग्रै रवयवैः क्षतमन्यत्र विलसद्विदनखैः क्षतमिति गम्यते,समुच्चरत् परितः प्रसर्पत् चन्दनसारस्येव सौरभं यस्य तत् अतएव वारनारीकुचेन वेश्ये’त्यमरः । कुलाङ्गनानखक्षताद्यनौचित्याद्वारविशेषणं, पचेलिमं स्वतःपक्वं कर्मकर्त्तरि ‘केलिमर उपसंख्यानमि’ति पचेः केलिमर्प्रत्ययः । मालूरुलं बिल्वफलं ‘बिल्वे शाण्डिल्यशैलूषौ मालूरः
श्रीफलावपी’त्यमरः । स नलो ददर्श ॥ 1.94 ॥
अन्वयः–सः मरुल्ललत्पल्लवकण्टकैः क्षतं समुच्चरच्चन्दनसासौरभं वार नारीकुचस?ञ्चितोपमं पचेलिमं मालूरुलं ददर्श ॥ 1.94 ॥
युवद्वयोचित्तनिमज्जनोचितप्रसूनशून्येतरगर्भगह्वरम् ॥
स्मरेषुधीकृत्य क्षिया भियाऽन्धया स पाटलायाः स्तबकं प्रकम्पितः ॥ 1.95 ॥
जीवातु–युवेति । युवा च युवती च तयोर्युनोर्द्वयी मिथुनं तस्याश्चित्तयोःकर्मणोर्निमज्जने ण्यन्ताल्लुद् उचितै क्षमैः प्रसूनैः पुघ्ष्पबाणैः शुन्येतरदशून्यं पूर्णं गर्भगह्वरं गर्भकुहरं यस्य तत् पाटलायाः पाटलवृक्षस्य स्तबलं कुसुमगुच्छम्भियान्धया भयमूढया धिया भयजन्यभ्रान्त्सयेत्यर्थः । स्मरेषुधीकृत्य कामतूणीकृत्य तथा विभ्रम्य इत्यर्थः अत एव भयात् प्रकम्पितश्चकम्पे । अत्र पाटलस्तबके मदनतूणीरभ्रमात् भ्रान्तिमदलङ्कारः । ‘कविसंमतसादृश्याद्विषये विहितात्मनि । आरोप्यमाण्यानुभवो यत्र स भ्रान्तिमान्मतः ॥’ इति लक्षणात्
॥ 1.95 ॥
अन्वयः–युवद्वयीचित्तनिमज्जनोचितप्रसयूनशून्येतरगर्भगह्वरं पाटलायाः स्तबकं भियान्धया धिया स्मरेषुधीकृत्य सः प्रकम्पितः ॥ 1.95 ॥
मुनिद्र मः कोरकितः शितिद्युतिर्वनेऽमुनाऽनाऽमन्यत सिंहिकासुतः ॥
तमिस्त्रपक्षत्रुटिकूटभक्षितं कलाकलापं किल वैधवं वमन् ॥ 1.96 ॥
जीवातु–मुनीति । अभुना नलेन वने कोरकितः सञ्जातकोरकः शिति द्यतिः पत्रेषु कष्णच्छविः कुनिद्रकृष्णच्छविः मुनिद्रुमोऽगस्त्यवृक्षः तमिस्त्रपक्षे त्रुटिकूटेन क्षयव्याजेन भक्षितम् भक्षितत्वे कुतः क्षय ? इति भावः । अत्र कूटशब्देन क्षयोपह्नवेनभक्षणारोपादपह्नवभेदः । वैधवं चन्द्रसम्बन्धि ‘विधु3 सधांशुः शुभांशुरि’त्यमरः । कलाकलापङ्कलासमूहं वमन्नुद्गिरन् सिंहिकासुतो राहुरमन्यत किल खलु ? अत्र कोरकितशिद्युतित्त्वाभ्या मुनिद्रुमस्येन्दुकलाकलापवमनविशिष्टराहुत्वोत्प्रेक्षा, सा चोक्तापह्नवोत्थापितेति सङ्करः ॥ 1.96 ॥
अन्वयः–वने कोरकितः शितिद्युतिः मुनिद्रुमः अनेन तमिस्त्रपक्षत्रुटिकूटभक्षित वैधवं कलाकलापं वमन् सिहिकासुतः अमन्यत किल ॥ 1.96 ॥
पुरोहठाक्षिप्ततुषारपाण्डरच्छदा वृतेर्वोरुधि नद्धबिभ्रमाः ॥
मिलन्निमीलं विदधुर्विलोकिता नभवस्तस्तं कुसुमेषु केलयः ॥ 1.97 ॥
जीवातु–पुर इति । पुरोऽग्रे इठात् ह्मटित्याक्षिप्ता आकृष्टा तुषारेण हिमेन पाण्डराणां छानां पत्राणां तुषारवत् पाण्डरस्य च्छदस्याच्छादकस्य वस्त्रस्य चावृतिरावरणं येन तस्य नभस्वतो वायोः वीरुधि लतायां नद्धाः उनुबद्धा विभ्रमा भ्रमणानि विलासाश्च ?यासान्ताः कुसुमेषु विषये केलयः क्रीडाः कुसुमेषु केलयः कामक्रीडज्ञश्च विलोकिताः सत्यस्तं नृपं नलं मिलन्निमीलो मिलनं यस्य तं विदधुः निमीलिताक्षञ्चक्रुरित्यर्थः । विरहिणामुद्दीपकदर्शनस्य दुःसहहुःखहेतुत्वात् अन्यत्र ( ‘नेक्षेतार्कं न नग्नां स्त्रीं न च संस्पुष्टमैथुनामि’ति निषेधादिति भावः । ) अत्र प्रस्तुतनभस्वद्विशेषणसामर्थ्यादप्रस्तुताकामुविरहप्रतीतेः समासोक्तिरलङ्कारः
॥ 1.97 ॥
अन्वयः–पुरः ( पुरा ) हठाक्षिप्ततुषारपाण्डच्डदावृतेः नभस्वतः वीरुधि नद्धबिभ्रमाः कुसुमेषु कलयः तं मिलन्निमीलं विदधुः ॥ 1.97 ॥
गता यदुत्सङृगतले विशालतां द्रु माः शिरोभिः फलगौरवेण ताम् ॥
कथं न धात्रीमतिमात्रनामितैः स वन्दमानानभिनन्दतिस्म तान् ? ॥ 1.98 ॥
जीवातु–गता इति । दुमा यस्य धाम्या उत्सङृगतले उपरि देशे च विशालतां विवृर्द्धि गताः तां धात्रीम्भुवञ्च उपमातरं वा ‘धात्री जनन्यामलकी वसुमतृयुपमातृष्वि’ति विश्वः । ‘कर्मणि ष्ट्रन्नि’ति दधातेः ष्द्रन्प्रत्ययः । फलगौरवेण फलभरेण सुकृतातिशयेन च हेतुना अतिमात्रं नामितैः, प्रह्वीकृतैः,नमेर्मित्त्वविकल्पाद्ध्रस्वाभावः । शिरोभिरग्रैः उत्तमाङ्गैश्च वन्दमानान् स्पृशतोऽभिवादयम?ानांश्च
तान् प्रकृतान् द्रुमान् अत एव यच्छब्दानपेक्षी स नलः कथं नाभिनन्दति स्म अभिननन्दैवेत्यर्थः । वृक्षाणां क्षेत्रानुख्फलस्य सम्पत्तिम पत्यानां च मातृभक्तिञ्च को नाम नाभिन्दतीति भावः । अत्रापि विशेषण सामर्थ्यात् पुत्रप्रतीतेः समासोक्तिरलंकारः ॥ 1.98 ॥
अन्वयः–सः यदुत्सङ्गतले द्रुमाः विशालतां गता फलगौरवेण अतिमात्र नामितैः शिरोभिः तां धात्रीं वन्दमानान् तान् कथं न अभिनन्दतिस्म ? ॥ 1.98 ॥
नपाय तस्मै हिमितं वनानिलैः सुधीकृतं पुष्परसैरहमैहः ॥
विनिर्मितं केतकरेणुभिः सितं वियोगिनेऽधत्त न कौमुदी मुदः ॥ 1.99 ॥
जीवातु–अत्रातपस्य चन्द्रिकात्वनिरूपणाय तद्धर्मान् सम्पादयति-नृपा येति । वनानिलैः उद्यानवातैः हिमं शीतलं कृतं हिमितं, तत्करोतेण्यंन्तात् कमध्र्?णि क्तः । पुष्परसैर्वनचातानीतैः मकरन्दैः सुधीकृतममृतीकृतं तथा केतकरे णुभिः सितं विनिर्मितं शुभ्रीकृतम् अह्नो महस्तेजः अहर्मह आतपः ‘रोः सुपी’ति रेफादेशः । तदेव कौमुदीति व्यस्तरूपकं वियोगिने तस्मै नृपाय मुदः प्रमोदान् नाधत्त न कृतवती, प्रत्युताद्दीपिकैवाभूदिति भावः ॥ 1.99 ॥
अन्वयः-वनानिलैः हिमितिं पुष्परसैः सुधीकृतं केतकरेणुभिः सितं विनिर्मितम् अहर्महः तस्मै वियोगिने नृणाय कौमुदी मुदः न अधत्त ॥ 1.99 ॥
वियोगभाजोऽपि नृपस्य पश्यता तदेव साक्षादमृतांशुमाननम् ॥
पिकेन रोषारुणचक्षुषा मुहः कुहूरुताऽऽहूयत चन्द्रवैरिणी ॥ 1.100 ॥
जीवातु–वियोगेति । वियोग्रभाजोऽपि वियोगिनोऽपि नृपस्य तदाननमेव साक्षादमृतांशुं प्रत्यक्षचन्द्रं पश्यता अत एव रोषादद्यापि चन्द्रतां न जहातीति क्रोधादिवारुणचवक्षुषा पिकेन चन्द्रवैरिणी कुहूर्निजालाय एव कुहूर्नष्टचन्द्रकला अमावास्येति श्लिष्टरूपकं, ‘कुहूः स्यात् कोकिलालापनष्टेन्दुकलयोरपी’ति विश्वः । मुहुराहूयत आहूता किमित्युत्प्रे क्षा पूर्वोक्तरूपकसापेक्षेति संकरः । अस्य चन्द्रस्येयमेव कुहूराह्वानीया स्यात् तत्कान्ति?राहित्यसम्बभवादिति भावः ॥ 1.100 ॥
अन्वयः–वियोगभाजः अपि नृपस्य तत् आननम् एव साक्षात् असृतांशुं पश्यता रोषारुणाचक्षुषा पिकेन कुहूरुता मुहुः चन्द्रवैरिणी आहूयत ॥ 1.110 ॥
अशोकमर्थान्वितनामताशया गतान् शरण्यं गृहशोचिनोऽध्वगान् ॥
अमन्यतावन्तमिवैष पल्लवैः प्रतीष्टकामज्वलदस्त्रजालकम् ॥ 1.101 ॥
जीवातु-अशोकमिति । एव नलःपल्लः पल्लवैःप्रतीष्टानि प्रतिगृहीतानि संच्छन्नानि कामस्य ज्वलदस्त्राणि तद्रूपकाणि जालकानि छादकानि बालमुकुलगुच्छा येन तं पल्लवसंच्छननकुसुमरूपकामास्त्रमित्यर्थः । अन्यथा तद्दर्शनादेव ते भ्रियेरन्निति भावः । अशोकमत एवार्थान्वितनामता नास्ति शोकोऽस्मिन्नित्यन्वर्थसंज्ञा तत्कतया आशया अस्मानप्यशोकान् करिष्यतीत्यभिलाषेण शरणे रक्षणे साधु समर्थं शरण्यं मत्वेति शेषः । ‘शरणं रक्षणो गृह’ इति विश्वः । ‘तत्र साधुरि’ति यत्प्रत्ययः ।
आगतान् शरणागतानित्यर्थः । गृहान् दारान् शोचन्तीति गृहशोचिनः गृहानुह?द्दिश्य शोचन्त इत्यर्थः । ‘गृहः पत्न्यां गृहे स्मृत’ इति विश्वः । अध्वगान् प्रोषितान् अवन्तमिव शरणागतरक्षणे महाफल स्मरणादन्यथा महादोषस्मरणाच्च रक्षन्तमिवेत्यर्थः । अमन्यत ज्ञातवान् । अस्त्रभीरूणां तद्गोपनमेव श्रक्षाय इति भावः
॥ 1.101 ॥
अन्वयः–एषः पल्लर्वः प्रतीष्टकामज्वलदस्त्रजालकम् अशोकम् अर्थान्वितनामताशया शरण्यं गतान् गृहशोचिनः अध्वगान् अवन्तम् इव अमन्यत ॥ 1.101 ॥
विलासवापोतटवीचिवादनात् पिकालिगीतेः शिखिलास्यलाघवात् ॥
वनेऽपि तौर्य्यत्रिकमारराध तं क्व भोगमाप्नोति न भाग्यभाग्जनः ? ॥ 1.102 ॥
जीवातु–विलासेति । विलासवापी विहारदीर्धिका तस्यास्तटे वीचीनां वादनात्पिकानामलीनाञ्च गी?तेर्गानात् शिखिनां मयूराणां लास्यलाघवातनृत्यनैपुष्यात् च वनेऽपि तं नलं तौर्य्यत्रिकं नृत्यगीतवाद्यत्रयं कत्तुं,
आरराघ आराघयामास । तथा हि–भाग्यभाक् भाग्यवान् जनः क्व भुज्यत इति र्थान्तरन्यासः ॥ 1.102 ॥
अन्वयः–( नलः ) विलासवापीचिक्षादात् पिकालिगीतेः शिखिलास्यलघवातृ वने अपि तं तौर्यत्रिकम् आरराघ; भाग्यभाक् जनः क्व भोगम् न आप्नोति ? ॥ 1.102 ॥
तदर्थमध्याप्य जनेन तद्वने शुका विमुक्ताः पटवस्तमस्तुवन् ॥
स्वरामृतेनोपजगुश्च शारिकास्तथैव तत्पौरुषगायनीकृताः ॥ 1.103 ॥
जीवातु–तदर्थमिति । जनेन सेवकजनेन तदर्थं नलप्रीत्यर्थमध्याप्य स्तुर्ति पाठयित्वा तस्मिन् वने विमुक्ता विसृष्टः पटवः स्फुगिरः शुकास्तं नलमस्तुवन् । तथैव शुकवदेव तदर्थमध्याप्य मुक्ताः तत्पौरुषस्य नलपराक्रमस्यगायिन्यो गायकाः कृता गायनीकृताः शारिकाः शुकवध्वः स्वरामृतेन मधुर स्वरेणेत्यर्थः । उपजगुश्च ॥ 1.103 ॥
इतीष्टगन्धाढ्यमटन्नसौ वंनं पिकोपगीतोऽपि शुकस्तुतोऽपि च ॥
अविन्दतामोदभरं बहिश्चरं विदर्भसुभ्रू विरहेण नान्तरम् ॥ 1.104 ॥
जीवातु–इतीति । इतीत्थमिष्टगन्धाढयभिष्टसौगन्धयसम्पन्नं वनमटन्, ‘देशकालाध्वगन्तव्या कर्मसज्ञा ह्मकर्म्मणामि’ति वनस्य देशत्वात् कर्म्मत्वम् । असौ नलः पिकैः कोकिलैरुपगीतोऽपि शुकैः स्तुतोऽपि च परं केवलं ‘परं स्यादुत्तमानाप्तवैरिदूरेषु केवल’ इति विश्वः । बहिरामोदभरं सौरभ्यातिरेकमेवाविन्दत विदर्भसुभ्रू विरहेण हेतुना आन्तरमामोदभमानन्दातिरेक रूपन्नाविन्दत विदर्भसुभ्रू विरहेण हेतुना आन्तरमामोदभरमानन्दातिरेक रूपनविन्दत न लब्धवान्, प्रजत्युत दुःखमेवान्वभूदिति भावः । ‘आमोदो गन्धहर्षयोरि’ति विश्वः ॥ 1.104 ॥
अन्वयः–इति इष्टगन्धाढ्यं वनम् अटन् पिकोपगीतः अपि शुकस्तुतः अपि च असौ परं बदिः आमोदभरम् अविन्दत,विदभ्रसुभ्रू विरहेण आन्तरम् न ( अविन्दत ) ॥ 1.104 ॥
करेण मीनं निजकेतनं दधद् द्रुमालवालाम्बुनिवेशशङ्कया ॥
व्यतर्कि सर्वर्तुघने वने मघुं स मित्रमत्रानुसरन्निव स्मरः ॥ 1.105 ॥
जीवातु–करेणेति । स नलः निजकेतनं निजलाञ्छनं मीनं द्रुमाल वालाम्बुषु निवेशशङ्गया प्रवेशेभिया करेण दधत् दधत् तादृक् शुभरेखाव्याजेन दघान इत्यर्थः, सर्वर्तु घने सर्वर्तुंसङ्कुले अत्र अस्मिन् वने मित्रं सखायं मर्घुं वसन्तमनुसरन् अन्विष्यन् स्मर इव व्यतर्कि इत्युत्प्रे क्षा ॥ 1.105 ॥
अन्वयः–सः निजकेतनं मीनं द्रुमालवालामृबुनिवेशशङकया करेण दधत् सर्वतुंघने अत्र वने मित्र मधुम् अनुसरन् स्मरः इव व्यतर्कि ॥ 1.105 ॥
लताऽबलालास्यकलागुरुस्तरुप्रसूनगन्धोत्करपश्यतोहरः ॥
असेवतामु ’ मधुगन्धवारिणि प्रणीतलीलान्लवनो वनानिलः ॥ 1.106 ॥
जीवातु–लतेति । लता एवाबलास्तासां लास्यकलासु मधुरनुतृतविद्यासु गुरुरुपदेष्टेति मान्द्योक्तिः, तरुप्रसूनगन्धोत्कराणां द्रुमकुसुमसौरभसम्पदां पश्यतोहरः पश्यन्तमनादृत्य हरः प्रसह्मापहर्त्तेत्यर्थः । ‘पश्यतो यो हरत्यर्थं स चौरः पश्यतोहरः’ इति हलायुधः, पचाद्यच् ‘षष्ठी चानादरे’ इति षष्ठी । ‘वाग्दिक्पश्यदभचो युक्तिदण्डहरेष्वि’ति वक्तव्यादलुक् । सौरभ्ययुक्तं मधुमकरन्द एव गन्धवारि गन्धोदकं तत्र प्रणीतलीलाप्लवनः । एतेन कृतलीलावगाहन इति शैत्योक्तिः, ईदृग्वनानिलोऽर्मु नलमसेक्त गुणवान् सेवकः सेव्यप्रियो भवतीति भावः ॥ 1.106 ॥
अन्वयः–लताबलालास्यकलायुरुः तरुप्रसूनगन्धोत्करपपश्यतोहरः मधुगन्ध आरिणि प्रणीतलीलाप्लवनः वनानिलः अमुम् असेवत ॥ 1.106 ॥
अथ स्वमादाय भयेन मन्थनाच्चिरत्नरत्नाधिकमुच्चितं चिरात् ॥
निलीय तस्यिन्निवसन्नपांनिधिवंने तडागो ददृशेऽवनीभुजा ॥ 1.107 ॥
जीवातु–अथेति । अथ वनालोकनानन्तरं मन्धनादभयेन धनार्थ पुनर्मथिष्यतीति भयादित्यर्थः । चिरादुच्चितं स?ञ्चितं चिरत्नं चिरनतनं ‘चिरपरु त्परादिभ्यस्त्नो वक्तव्य’ इति त्नप्रत्ययः । तच्च तद्रतृनाधिकं
श्रेष्ठवस्तु भुयिष्ठं चेति चिरत्नरत्नाधिकं ‘रत्नं स्वजातौ श्रेष्ठेऽपी’त्यमरः । स्वं धनमादाय तस्मिन् वने निलीयान्तर्धाय निवसन् वर्त्तमानोऽपान्निरिवेत्युत्प्रे’क्षा । तेन नलेन तडागः सरोविशेषो1़वनीभुजा राज्ञा ददृशे टृष्टः ॥ 1.107 ॥
अन्वयः–अथ अवनीभुजा मन्थनात् भयेन चिरात् उच्चिं स्वं चिरत्नरत्नाधिकं आादाय तस्मिन् वने निलीय निवसन् अपां निधिः इव तडागः टदृशो ॥ 1.107 ॥
पयोनिलीनाभ्रमुकामुकावलीरदाननन्तोरगपुच्छसच्छवीन् ॥
जलार्द्धरुद्धस्यतटान्तभूमिदो मृणालजालस्य निभाद् बभार यः ॥ 1.108 ॥
जीवातु–यदुक्तं धनमादायेति, तदेवात्र सम्पादयति नवभिः श्लोकैः पय इत्यादिभिः । यस्तडागः जलेनार्द्धरुद्धस्य अर्द्धच्छन्नस्य तटान्तभूमिदस्तट प्रान्तनिर्गतस्येत्यर्थः । मृणालजालस्य बिसवृन्दस्य निभाद्वचाजादित्यपह्न वानङ्कारः ‘निभो व्याजसदृशयोरि’ति विश्वः । अनन्तोरगस्य शेयाहेः, पुच्छेन सच्छवीन् सवर्णान् तद्बद्धवलानित्यर्थः पयोनिलीनानामभ्रमतुकावलीनार्मरावतश्रेणीनां रदान् दन्तान् बभार । तत्रैक एवैरावतः, अत्र त्वसंख्या इति व्यतिरेकः । भ्रमुकामुका इति द्वितीयासमासो मधुपिपासुवत्, ‘न लोके’त्यादिना षष्ठीप्रतिषेधात् ‘लषपते’त्यादिना कमेरुकञ्पत्ययः ॥ 1.108 ॥
अन्वयः–यः जलार्द्धरुद्धस्य तटान्तभूमिदः मृणालनालस्य निभाद् अनन्तो रगपुच्छसच्छवीन् पयोनिलीनाभ्रमुकावलीरदान् बभार ॥ 1.108 ॥
तटान्तविश्रान्ततुरङ्गमच्छटास्फुटानुबिम्बोदयचुम्बनेन यः ॥
बभौ चलद्वीचिकशान्तशातनैः सहस्त्रमुच्चैःश्रवसामिव श्रयन् ॥ 1.109 ॥
जीवातु-तटान्तेति । यस्तडज्ञगस्तटान्ते तीरप्रान्ते विश्रान्ता या तुरङ्गमच्छटा नलानीताश्वश्रेणी तस्याः स्फुटाबिम्बोदयचुम्बनेन प्रकटप्रतिबिम्बाविर्भव्रप्रीत्या निमित्तेन च एकैकशस्तासां वीचीनां कशालनामन्तैः शातनैरुग्रताडनैः, ‘अश्वादेस्ताडनी कशे’त्यमरः चलदुल्ललदुच्चैःश्रवसां सहस्त्रं श्रयन् प्राप्नुन्निव बभा? वित्युत्प्रेक्षा, व्यतिरेकश्च पूर्ववत् । एतेन नलाश्वानामुच्चैःश्रवःसाम्यं गम्यत इत्यलङ्कारेण वस्तुध्व?निः
॥ 1.109 ॥
अन्वयः–यः तटान्तविश्रान्तुरङ्गमच्छटास्फुटानुबिम्बोदयचुम्बनेन वीचिकशान्तशातनैः चलत् उच्चैःश्रवसां सहस्त्रं श्रयन् इव बभौ ॥ 1.109 ॥
सिताम्बुजानां निवहस्य यश्ठलाद् बभावलिश्यामलितोदरश्रियाम् ॥
तमःसमच्छायकलङ्कसङ्कलं कुलं सुधांशोर्बहलं वहन् बहु ॥ 1.110 ॥
जीवातु–सितेति । यस्तडागः अलिभिः श्यामलितोदरश्रियां श्यामीकृत मध्यशोभानां सिताम्बुजानां पुण्डरीकाणां निवहस्य च्छलात् तमःसमच्छायःतिमिरवर्णः सिताम्बुजानां प1ण्डरीकाणां निवहस्य च्छलात् तमःसमच्छायः तिमिरवर्णः यः कलङ्कः तेन सङ्कुलं बहलं सम्पूर्णम्बह्वनेकं सुधांशोश्चन्द्रस्य कुलं वंशं वहन् सन् बभौ । अत्र च्छलशब्देन पुण्डरीकेषु विषयापह्नवेन चन्द्रत्वाभे दादापह्नवभेदः, व्यतिरेकस्तु पूर्ववत्
॥ 1.110 ॥
अन्वयः–यः अलिश्यामलतोदरश्रियां सिताम्बुजानां निवहस्य छलात् तमःसमच्छायकलङ्कसङ्कुलं बहुलं सुधांशोः कुलं वहन् बहु बभौ ॥ 1.110 ॥
रथाङ्गभाजा कमलानुषङ्गिणा शिलीमुस्तोमसखेन शाङ्गिंणा ॥
सरोजिनीस्तम्बकदम्बकदम्बकैतवान्मृणालशोषाहिभुवाऽन्वयायि यः ॥ 1.111 ॥
जीवातु–रथाङ्गेति । यस्तडागो रथाङ्ग चक्रवाकः चक्रयुघञ्च यद्यपि चक्रवाके रथाङ्गनामेति च प्रयोगारूडः तथापि प्रायेणास्य चक्रशब्दपर्य्यायत्वप्रयोगर्शानात् ( रथाङ्ग ) पदस्याप्युभयत्र प्रयोगम्मन्यते कविः, तदभाजा ‘भजो ण्विः’ ,कमलैः कमलया चानुषङ्गिणा संसर्गवता शिलीमुखस्तोमसखेन अलिकुलसहचरेण अन्यत्र सखिशब्दः साटृश्यवचनः तत्सवर्णेनेत्यर्थः, मृणालं शेषाहिरिवेत्युपमितसमासः, तदभुवा तदाकरेण अन्यत्र मृणालमिव शेषाहिः तदभुवा तदाघारेण शाङ्गिणा विष्णुना सरोजिनीनां स्तम्बा
गुल्माः, ‘अप्रकाण्डे स्तम्बगुल्ममि’त्यमरः, तेषां कदम्बस्य कैतवान्मिषात् अन्वयायि अनुयातोऽनुसृतोऽधिष्ठित इति यावत् । अत्रापि कैतवशब्देन स्तम्बत्वमपह् नुजत्य शाङ्गिंत्वारो पादपह् नवभेदः ॥ 1.111 ॥
अन्वयः–यः रथाङ्गभाजा कमलानुषङ्गिणा मृणालशेषाहिभुवा शिलीमुखस्तोमसखेन सरोजिनीस्तम्बकदम्बकैतवात् शाङ्गिणां अन्वयायि ॥ 1.111 ॥
तरङ्गिणीरङ्कजुषः स्ववल्लभास्तरङ्गलेखा बिभराम्बभूव यः ॥
दरोद्गतैः कोकनदौघकोरकैर्धृतप्रवालाङ्कुरसञ्चयश्च यः ॥ 1.112 ॥
जीवातु–तरङ्गिणीरिति । यस्तडागोऽङ्कजुषोऽन्तिकभाजः उत्सङ्.गसङ्गि न्यश्च वा तरङ्गरेखास्तङ्गराजिरेव स्ववल्लभास्तरङ्गिणीरिति व्यस्तरूपक म्बिभराम्बभूव बभार, ‘भीह्रीभृहुवां श्लुवच्चे’ति भृञ्चलीकृताः अबालानां कठोराणां शैवाललतानां परम्पराः पंक्तयः हव्यं वहतीति हव्यवाडवाग्निः ‘वहश्चे’ति ण्विप्रत्ययः । तस्यच्छन्दो मात्रविषयत्वाद् अनादरेण भाषायां प्रयोगः । वाडवहव्यवाहो वाडवाग्नेरेव स्थित्याऽन्तरवस्थानेन प्ररोहत्तमो बहिः प्रादुर्भवत्तमो भूमा येषान्ते च धुमाश्च तेषां भावस्तत्ता तां दधुः । बहिरुत्थितघुमपटलवद्बभुरित्यर्थः । ध्रुवमित्युत्प्रेक्षायाम् ॥ 1.114 ॥
अन्वयः–यत्र तरङ्गिणैः चलीकृता अबालशैवाललतापरम्पराः वाडवह व्यवाडवस्थितिप्ररोहत्तमभूमधूमतां ध्रु वं दधुः ॥ 1.114 ॥
प्रकाममादित्यमवाप्य यकणटकैः करम्बितामोदभरं विवृण्वती ॥
धृतस्फुटश्रीगृहविग्रहा दिवा सरोजिनी यत्प्रभवाप्सरायिता ॥ 1.115 ॥
जीवातु–प्रकाममिति । आदित्यं सूर्यमवाप्य प्रकामं कण्टकैः नालगतैः तीक्ष्णाग्रै रवयवैः करम्बिता अतएवामोदभरं परिमलसम्पदमानन्दसम्पदं च विवृण्वती प्रकटयन्ती दिवा दिवसे धृतानि स्फुटश्रीगृहाणि पह्मानि यस्य स विग्रहः स्वरूपं यस्याः सा, अन्यत्र दिवा स्वर्गेण स्फुटश्रीगृहमुज्जवलशोभास्पदं विग्रहो देहो यसयाः सा स्वर्गलोकवासिनीत्यर्थः । यस्तडागः प्रभबः कारणं यस्याः सा तज्जन्या सरोजिनी पह्निनी अप्सरायिता अप्सरं इवाचरिता । ‘उपमानाद् कर्त्तुः क्यङ् सलोपश्चे’ति कर्त्त्रि क्तः, ‘ओजसोऽप्सरसो नित्यमि’ त्यप्सरसः सकारलोपः । श्लिष्टविशेषणेयमुपमा ॥ 1.115 ॥
अन्वयः–यत्प्रभवा सरोजिनी आदित्यम् अवाप्य कझटकैः प्रकामं काम्विता आमोदभरं विवृण्वती दिवा धृतस्फुटश्रीगृहविग्रहा अप्सरायिता ॥ 1.115 ॥
यदम्बुपुरप्रतिबिम्बितायतिर्मरुत्तरङ्गै स्तरलस्तद्रुमः ॥
निमज्जय मैनाकमहीभृतः सतस्ततान पक्षान् धुवतः सपक्षताम् ॥ 1.116 ॥
जीवातु–यदिति । यस्य तडागस्याम्बुपूरे प्रतिबिम्बितायतिः प्रतिफलि तायामः मरुत्तरङ्गैः वात्वीजनैस्तरलश्चंचलः तटद्रुमैः निमज्जय सतो वर्त्तमानस्य पक्षान् धुम्पयतो मैनाकमहीभृतस्तदाख्यस्य पर्वतस्य सपक्षतां साम्यं ततानेत्युपमा ॥ 1.116 ॥
अन्वयः–यदम्बुपूरप्रतिबिम्बतायतिः मरुत्तरङ्गैः तरलः तटद्रुमः निमज्जय सतः पक्षान् धुवतः मैनाकमहीभृतः सपक्षतां ततान ॥ 1.116 ॥
( युग्मम् )
पयोधिलक्ष्मीमुषि केलिपल्वले रिरंसुहंसीकलनादसादरम् ॥
स तत्र चित्रं विचरन्तमन्तिके हिरण्मयं हंसमबोधि नैषधः ॥ 1.117 ॥
प्रियासु बालासु रतिक्षमासु च द्विपत्रितं पल्लवितञ्च बिभ्रतम् ॥
स्मरार्जितं रागमहीरुहाङ्कुरं मिषेण चञ्चवोश्चरणद्वयस्य च ॥ 1़.118 ॥
जीवातु-पयोधीति । अथ च नैषधो निषधानां राजा नलः, ‘जनपद शब्दात् क्षत्रियाद???ञि’ त्यञ् पयोधिलक्ष्मीमुषि तत्सटृश इत्यर्थः । अत्र केलि पल्वले क्रीडासरसि रिरंसूनां रन्तुमिच्छूनां हंसीनां कलनादेषु सादरं सस्पृहं तत्रान्तिके तत्समीपे विचरन्तं चित्रमदभतं हिरण्मयं सुवर्णमयं ‘दाण्डिनायना’ दिना । पुनस्तमेव साधुः । हंसमबोधि ददर्शेत्यर्थः । ‘दीपजने’त्यादिना कर्त्तरि चिण् । पुनस्तमेव विशिनष्ठि-प्रियास्विति ।
आलासु अरतिक्षमासु किन्तत्वासन्नयौवनास्वित्यर्थः । अन्यथा रागङ्गकुरासम्भवात् । रतिक्षमासु युवतीषु द्विवि धासु प्रियासु विषेण क्रमाञ्चञ्चवोस्त्रोट्योः ‘चञ्चुस्त्रोटिरुभे स्त्रियामि’त्यमरः। चरण्द्वयस्य च मिषेण द्विपत्रितं सञ्जातद्विपत्रं पल्लवितं सञ्जातपल्लवञ्च चञ्चवोर्द्वयोः सम्पुटितत्वे साम्याद् द्विपत्रित्वं चरणयोस्तु तस्मिन् मिषेणे त्युक्त स्मरार्जितं स्मरेणैव वृक्षरोपणेनोत्पादितमित्यर्थः । राग एव महीरुहस्तस्याङ्कुरं रागमहीरुहाङ्कुरं बिभ्रतं चञ्चुपुटमिषेण द्विपत्रितं बालिकागोचरागं चरणमिषेण पल्लवितं युवतीविषये रागञ्च बिभ्रतमित्यर्थः । ईटृशं हंसम बोधीति पूर्वेणान्वयः । ‘नाभ्यस्ताच्छतुरि’ति नुम्प्रतिषेधः, वृक्षाङ्कुरो हि प्रथमं द्विपत्रितो भवति, पश्चात् पल्लवित इति प्रसिद्धम् । तत्र रागं बिभ्रतम् इति हंसविशेषणात्, तद्रागस्य हंसधिकरणत्वोक्तिः, प्रियास्सवधिकरणभूतास्वि त्युपाध्यायविश्वेश्वरव्यख्यानं प्रत्याख्येयम्, अन्यनिष्ठस्य रागस्यान्याधिकरण त्वायोगात्, न चायमेक एवोभयनिष्ठ इति भ्रमितव्यम्, तस्येच्छापरतर पर्य्यायस्य तथात्वायोगात्, बुद्धयादीनामपि तथात्वापत्तौ सर्वसिद्धान्तविरो धात्, विषयानुरागाभावप्रसङ्गाच्च उभयोरपि रागत्वसाम्यादुभयनिष्ठुभ्रमः केषा?ञित्कामिनोरन्योन्याधिकरणरागयोरन्योन्यविषयत्वमेव नाधि करणत्वमेवमिति सिद्धान्तः, प्रियास्विति विषयसप्तमी, न त्वाधारसप्तमीति सर्वं रमणीयम् । अत्र रागमहीरुहाङ्कुरमिति रूपकं चञ्चु चरणमिषेणेत्यपह्नवा नुप्राणितमिति सङ्करः । तेन स बाह्माभ्यन्तररागयोर्भेदे अभेदलक्षणाति शयोत्थापिता चञ्चुचरणव्याजैनान्तरस्येव बहिरङ्कुरितत्वोत्प्रेक्षा व्यज्यत इत्यलङ्कारेणालङ्कारध्वनिः
॥ 1.117-118 ॥
अन्वयः–पयोघिलक्ष्मीमुष्रि तत्र केलिपल्पवले सः नैषधः रिरंसुहंसीकल नादसादरं बालासु रतिसमासु च प्रियासु चञ्चवोः चरणद्वयस्य च मिषैण द्विपत्त्रितं पल्लवितं च स्मरार्जितं रागमहीरुहाङ्कुरं बिभ्रतम् अन्तिके विचरन्तं चित्रं हिरण्मयं हंसम् अबागधि ॥ 1.117-118
महीमहेन्द्रस्तमवेक्ष्य स क्षणं शकुन्तमेकांतमनोविनोदिनम् ॥
प्रियावियोगाद्विधुरोऽपि निर्भरं कुतूहलाक्रांतमना मनागभूत् ॥ 1.119 ॥
जीवातु–महीति । महीमहेन्नद्रो भूदेवेन्द्रः स नलः एकान्तं मनो विनोदयतीति तथोक्तं तं शकुन्तं पक्षिणं क्षणमवेक्ष्य प्रियावियोगन्निर्भरमतिमात्रं विधुरो दुःस्थोऽपि मनागीषत्कुतूहलाक्रान्तमनाः कौतुकितचित्तोऽभूत्, गृहीतकामोऽभूदित्यर्थः ॥ 1.119 ॥
अन्वयः–सः महीमहेन्द्रः एकान्तमनोविनोदिनं तं शुकुन्तं क्षणम् अवेक्ष्य प्रियावियोगात् निर्भरं विधुरः, अपि मनाक् कुतूहलाक्रान्तमनाः अभूत् ॥ 1.119 ॥
अवश्यभव्येष्वनवग्रहग्रहा यया दिशा धावति वेधसः स्पृहा ॥
तृणेन वात्येव तयाऽनुगम्यते जनस्य चित्तेन भृशावशात्मना ॥ 1.120 ॥
जीवातु-कथमीटृशे चापल्ये प्रवृत्तिरस्य धीरोदात्तस्येत्याशङ्कय नात्र जन्तोः स्वातन्त्र्यं किन्तु भाव्यर्थानुसारिणी विधातुरिच्छैव तथा प्रेरयतीत्याह-अवश्येति । अवश्यभव्येष्ववश्यं भाव्यर्थेषु विषये ‘भव्यगेया’दिना कर्त्तरि यत्प्रत्ययान्तो निपातः, ‘लुम्पेदवश्यमः कृत्ये’ इत्यवश्यमो मकारलोपः, अनवग्रहग्रहा अप्रति बन्धनिर्वन्धा निरङ्कुशाभिनिवेशेति यावत्, ‘ग्रहोऽनुग्रहनिर्बन्धग्रहणेषु रणोद्यम’ इति विश्वः । वेधसः स्पृहा विधातुरिच्छा यया दिशा धावति येनाध्वना प्रवर्त्तते तयैव दिशा भृशावशात्मनाऽत्यन्तपरतन्त्रस्वभावेन जनस्य चितेन तृणेन वात्मा वातसमूह इव, ‘पाशादिभ्यो यः’ अनुगम्यते, वेधसः स्पृहा कर्म्म ॥ 1.120 ॥
अन्वयः–अवश्यभव्येषु वेधसः अनवग्रहगब्रहा स्पृहा यया दिशा धाति तया जनस्य भृशावास्मना चित्तेन तृणेन वात्या इव यया दिशा धावति तया जनस्य भृशावशात्मना चित्तेन तृणेन वात्या इव अनुगम्यते
॥ 1.120 ॥
अथावलम्बय क्ष्णमेकपादिकां तदा निद्रदावुपपल्वलं खगः ॥
सतिर्य्यगावर्जितकंधरः शिरः पिधाय पक्षे ण रतिक्लमालसः ॥ 1.121 ॥
जीवातु-चिकीर्षितार्थे दैवानुल्श्यं कार्यतो दर्शयति-अथेति । अथ नलटृष्टिप्राप्तयनन्तरं रतिक्लमालनसः स खगो हंसः तदा नलकुतूहलकाले क्षणेमेकाः पादो यस्यां क्रियायामित्येकपादिका एकपादेनावस्थानं
मत्वर्थीयष्ठन्प्रत्ययः, ‘तद्धितार्थे’त्यादिना सङ्खयासमासः, ‘यस्येति’ लोपस्य स्थानिवदभावेन ताद्रूप्याभावान्न पादः पदादेशः, तामेकपादिकामवलम्ब्य तिर्यगावर्जितकन्धर ।आवान्न पादः पदोशः, तामेकपादिकामवलम्बय तिर्यगावर्जितकन्ण्धर । आवर्त्तितग्रीवः सन् पक्षेण शिरः पिधाय उपपल्वलं पल्वले निदद्रौ सुष्वाप । स्वभावोक्तिरलङ्कारः ‘स्वभावोक्तिरलङ्कारो यथावद्वस्तुवर्णनम्’ इति लक्षणात् ॥ 1.121 ॥
अन्वयः–तदनन्तर उस समय सुरतखेद से शब्द कर वह पक्षी ( हंस ) एक पैर के सहरारे खडा हो थोडॣ-सी टेढ़ी गरदन करके पंख से शिर ढककर सरोवर के ?निकट क्षण भर सो गया ॥ 1.121 ॥
?B सनालमात्यमानननिर्जितप्रभं ह्निया नतं काञ्चनमम्बुन्म किम् ॥
अबुद्ध तं विद्रु मदण्डमण्डितं स पीतमम्भःप्रभुचामरञ्च किम् ? ॥ 1.122 ॥
सनालमात्मानननिर्जितप्रभं ह्निया नतं काञ्चनमम्बुन्म किम् ॥
जीवातु–सनालमिति । स नलःतं निद्राणं हींसम् आत्माननेन निर्जितप्रभं निजमुखनिराकृतशोभम् अत एव ह्निया नतं सनालं नालसहितं काञ्चनं सौवर्णमम्बुजन्माबुजं किम् ? तथा विद्रुमदण्डेन मण्डितं भूषितं पीतवर्णमम्भःप्रभो रपाम्पत्युः वरुणस्य चामरं किम् ? इति शब्दोऽत्राहार्य्याः इति अबुद्ध बुद्धवानु त्प्रेक्षितवानित्यर्थ्तः । बुध्यतेर्लुङि तङः ‘ज्ञषस्तथोर्धो ध’ इति तकारस्य धकारः ॥ 1.122 ॥
अन्वयः–सः तम् आत्मानननिर्जितप्रभं ह्निया नतं सनालम् अम्बुजन्म किम् ( इति ) अबुद्ध, ( अथ ) विद्रुमदण्डमण्डितं पीतम् अम्भःप्रभुचामरं च किम्– ( इति अबुद्ध ) ॥ 1.122 ॥
कृतावरोहस्य हयादपानहौ ततः पदे रेजूतुरस्य बिभ्रती ॥
तयोःप्रबालैर्वनयोस्तथाऽम्बुजैर्नियोद्धुकामे किमु बद्धवर्मणी ? ॥ 1.123 ॥
जीवातु–कृतेति । ततस्तन्निदर्शनानन्तरं हयादश्वाकृतावरोहस्य कुतावत रणस्यास्य नलस्योपानहौ वर्मणी पादत्राणे । ‘पादत्राणे उपानही’ इत्यमरः । पदे चरणे तयोर्वनयोः सलिलकाननयोः ‘वने सलिलकानने’हत्यमरः । प्रवालैःपल्लवैः तथाम्बुजैः जर्ह्मश्रेत्यर्थः, ‘सहार्थे तृतीया’ नियोद्धुं कामोऽभिलाषो ययोस्ते नियोद्धुकामे युद्धकामे इत्यर्थः । ‘तुं काममनसोरपी’ति तुमुनो मका रलोपः, अतो बद्धवर्म्मणी किमु बद्धकवचे इव ते रेजतुः किमित्युत्प्रेक्षा ॥ 1.123 ॥
अन्वयः–ततः इयात् कृतावरोहस्य अस्य उपानहौ बिभ्रती पदे तयोःवनयोः प्रवालैः तथा अम्बुजैः नियोद्धुकामे बद्धवर्मणी रेजतुः किमु ? ॥ 1.123 ॥
विधाय मूर्ति कपटेन वामनीं स्वयं बलिध्वंसिविडम्बिनीमयम् ॥
उपेतपार्श्वश्चरणेन मौनिना नृपः पत्ङ्गं समधत्त पाणिना ॥ 1.124 ॥
जीवातु–विधायेति । अयचं नृपः स्वयमेव कपटेन छह्मना वामनीं ह्लनस्वां गौरादित्वात् ङीप्, बलिध्वंसिविम्बिनीं कपटवामनविष्णुमूर्त्त्यनुकारिणीमित्यर्थः, मूर्ति विधाय कायं सङ्रकुच्येत्यर्थः । मौनिना निःशब्देन चरणेनोपेतपार्श्वः प्राप्तहंसान्तिकः पाणिना पतङ्गं पक्षिणं समधत्त, संधुतवान् जग्राहेत्यर्थः । स्वभावोक्तिरलङ्कारः ॥ 1.124 ॥
अन्वयः–अयं नृपः स्वयं कपटेन बलिध्वंसिविडम्बिनीं वामनीं मूर्त्तिं विधाय मौनिना चरणेन उपेतपार्श्वः पाणिनां पतङ्ग’ समधत्त ॥ 1.124 ॥
तदात्तमात्मात्मानमवेत्य संभ्रमात् पुनः पुनः प्रगायसदुत्प्लवाय सः ॥
गतो विरुत्योङ्डयने निराशतां करौ निरोद्धुर्दंशति स्म केवलम् ॥ 1.15 ॥
जीवाजु–?तदिति । स हंसः आत्मानं तदा तु तेन नलेनात्तं गृहीतमवेत्य ज्ञात्वा सम्भ्रमादुत्प्लवायोत्पतनाय पुनः पुनः प्रायसदायस्तवान् । यसु प्रयत्न इति धातोर्लुङि पुप्षादित्वात् च्छेरङादेशः । उङ्डयने उत्पतने निराशतां गतो विरुत्य विक्रुश्य निरोद्धुः ग्रहीतुः करौ केवलं करावेव दशति स्म दष्टवान् ।अत्रापि स्वभावोक्तिरेव ॥ 1.125 ॥
अन्वयः–सः आत्मानं तदात्तम् अवेत्य संभ्रमात् उत्प्लवाय पुनः पुनः प्रायसत् ( किंतुं ) उछ.्डयने निराशतां गतः विरुत्य केवलं निरोद्धुः करौ दशति स्म ॥ 1.125 ॥
ससम्भ्रमोत्पातिपतत्कुलाकुलं सरः प्रपद्योत्कतयाऽनुकम्पिताम् ॥
तमूर्मिलोलैः पतग्रहग्ननृपं न्यवारयद्वारिरुहैः करैरिव ॥ 1.126 ॥
जीवातु–स इति । समम्भ्रमं सत्वरमुत्पातिना उङ्डीयमानेन पतत्कुलेन पक्षिसङ्धेनाकुलं सरः कर्त्तृ उत्कतया उन्मनस्तया ‘उत्क उन्मना’ इति निपातनादिविधानाच्च साधुः । अनुकम्बिपतां प्रपद्य कृपालुतां प्राप्य तं नृपमूर्मिलोलैश्चर्वारिरुहैःकरैरिति व्यस्तरूपकम्, पतग्रहात्पक्षिग्रहात् न्यवारयदिवेत्यु त्प्रेक्षा । वास्तवनिवारणासम्भवादुतृप्रेक्षा, निवारणस्य करसाध्यत्वात् तत्र रूपकाश्रयणम्, अत एवेवशब्दस्य उपमाबाधेनार्थानुसाराद्वयवहितान्वेनाप्यु त्प्रेक्षाव्यञ्जकत्वमिति, रूपकोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः
॥ 1.126 ॥
अन्वयः–ससंभ्रमोत्पातिपतत्कुलाकुलं सरः उत्कतया अनुकम्म्पिताम् ( अनुकम्प्रताम् ) प्रपद्य तं नृपम् ऊर्मिलोलैः वारिरुहैः करैः इव पतग्ग्रहात्-न्ववारयत् ॥ 1.126 ॥
पतत्?ित्रणा तद्रुचिरेण व?ञ्चितं श्रियः प्रयान्त्याः प्रविहाया पल्वलम् ॥
चलत्पदामृभोरुहनुपुरोपमा चुकूज कूले कलहसमण्डली ॥ 1.127 ॥
जीवातु–पतत्?ित्रणेति । रुचिरेण पतत्?ित्रणा हंसेन व?ञ्चितं विरहितं तत्पल्वलं सरः विहाय प्रयान्त्याः गच्छन्त्याः श्रियो लक्ष्म्याश्चलदभयां पदाम्भो रुहनूपुराभ्याम् उपमा साम्यं यस्याः सा कलहंसमण्डली कूले चूकूज । यूथभ्र’शे कूजनमेषां स्वभावस्तत्र हसेनैव सह गच्छन्त्याः सरःशोभायाः श्रीदेव्या सहाभेदाध्यवसवायेन कूजत्कलहंसमण्डल्यां तन्नुपुरत्वमुतृप्रेक्ष्यते । उपमाशब्दोऽपि मुख्यार्थानुपपत्तेः सम्भावनालक्षक इत्यवधेयम् ॥ 1.27 ॥
अन्वयः–रुचिरेण पतत्?ित्रणा व?ञ्वितं तत् पल्वलं विहाय प्रयान्त्याः श्रियः चलत्पदाम्भोरुहनुपुरोपमा कलहंसमण्डली कूले चुकूज ॥ 1.27 ॥
न वासयोग्या वसुधेयमीदृशस्त्वमङ्ग ! यस्याः पतिरु?ञ्ज्ञितस्थितिः ॥
इति प्रहाय क्षितिमाश्रिता नभः खगास्तमाचुक्रुशुरारवेः खलु ॥ 1.28 ॥
जीवातु–नेति । इयं वसुधा वासयोग्या निवासार्हा न, कुतः अङ्ग भोः ! यस्या वसुधाया उज्ज्ञितस्थितिः त्यक्तमर्य्यादः ईटृशः अनपराघपक्षिघारकःत्वं पतिः पालकः, इत्थं खगाः क्षिति प्रहाय नभ आश्रितास्तं नलमारवैरुच्चध्वनिभिराचुक्रुशुः खलु । उक्तरीत्या सनिन्दोपालम्भनं चक्ररिवेत्यु त्प्रेक्षा गम्या
॥ 1.128 ॥
अन्वयः–‘अङ्ग यस्याः ईटृशः उज्ज्ञितस्थितिः त्वं पतिः ( सा ) वसुधा वासयोग्या न’-इति क्षिर्ति प्रहाय नभः आश्रिताः खगाः तम् आरवैः आचुक्रुशुः खलु ॥ 1.128 ॥
न जातरूपच्छदजातरूपता द्विजस्य दृष्टेयमिति स्तुवन्‌ मुहुः ॥
अवादि तेनाथ स मानसौकसा जलाधिनाथः करपञ्जरस्पृशा ॥ 1.129 ॥
जीवातु–नेति । इत्यमीटृग्जातरूपच्छदैः सुवर्णपक्षैः जातरूपता उत्पन्नसौन्दर्यत्वं द्विजस्य पक्षिणो न टृष्टा हिरण्मयः पक्षी न कुत्रापि टृष्ट इत्यर्थः । इति भुहुः स्तुवन् स जनाधिनाथः अथास्मिन्नन्तरे करप्रञ्जरस्पृशा तद्गतेन मानसं सरः ओकः स्थानं यस्येति सः तेन मानसौकसा हसेनं ‘हंसास्तु श्वेतगरुतचक्राङ्गा मानसौकस’ इत्यमरः । अवादि उक्तः । वदेः कर्मणि लुङ् ॥ 1.129 ॥
अन्वयः–‘अथ इयं जातरूपच्छदजातरूपता द्विजस्य न टृष्टा’–इति मुहुः स्तुवन् सः जनाधिनाथः करपञ्चरस्पृशा तेन मानसौकसा अवादि ॥ 1.129 ॥
धिगस्तु तृष्णातरलं भवन्मनः समीक्ष्य पक्षान्मम हेमजन्मनः ॥
तवार्णवस्येव तुषारशीकरैर्भवेदमीभिः कमलोदयः कियान् ॥ 1.130 ॥
जीवातु–तदेव चतुर्भिराह-धिगित्यादि । हेम्नो जन्म येषां तान् हेमजन्मनो हैमान् मम पक्षान् पतत्त्राणि समीक्ष्य तृष्?णातरलम् आशावशगं भवन्मनो धिगस्त्विति निन्दा ‘धिङ्निर्भत्सननिन्दयोरि’ त्यमरः । ‘धिगुपर्य्यादिषु त्रिष्वि’ति धिग्योगात् मन इति द्वितीया । तुषारशीकरैः हिमणैरर्णवस्येव तव एभिः पक्षैः कियान्
कमलाया लक्ष्म्याः कमलस्य जलजस्य चोदयो वृद्धिर्भवेत्, न कियानित्यर्थः॥ 1.130 ॥
अन्वयः–हेमजन्मनः मम पक्षान् समीक्ष्य तृष्णातरलं भावन्मनः धिक् अस्तु, तुषारशोरैः अर्णवस्य इव तव अमीभिः कियान् कललोदयः भवेत् ॥ 1.130 ॥
न केवलं प्राणिवधो वधो मम त्वदीक्षणाद्विश्वसितान्तरात्मनः ॥
विगर्हितं धर्मधनैर्निवर्हणं विशिष्य विश्वाजुंषां द्विषामपि ॥ 1.131 ॥
जीवातु–नेति । हे नृप ! त्वदीक्षणात् त्वन्मूर्त्तिदर्शनादेव विश्वसितान्तरात्मनो विस्त्रब्धचित्तस्य विश्वस्तस्येत्यर्थः मम वघः केवलं प्राणिमात्रवधो न किन्तु विश्वाघातपातकमित्यर्थः । ततः किमत आह-विश्वासजुषां विस्त्र म्भाभाजां द्विषामपि निबहैणं हिसनं धम्र्मधनैर्धमंपरैः मन्वादिभिः विशिष्यातिरिच्य विगर्हितमत्यन्तनिन्दितमित्यर्थः ॥ 1.131 ॥
अन्वयः–त्वदीक्षणात् विश्वसितान्तरत्मनः मम वधः केवलं प्राणिवधः न, विश्वाजुषां द्विषाम् अपि निबर्हणं धर्मधनैः विशिष्य विगर्हितम् ॥ 1.131 ॥
पदे पदे सन्ति भटा रणोदभटा न तेषु हिंसारस एष पूर्य्यते ? ॥
धिगीदृशन्ते नृपतेः कुविक्रमं कृपाश्रये यः कृपणे पतत्रिणि ॥ 1.132 ॥
जीवातु–पदे पद इति । रणोदभटाः रणेषु प्रचण्डाः भटा योधाः पदे-पदे सन्ति सर्वत्र सन्तीत्यर्थः, वीप्सायां द्विर्भावः एष र्हिसारसो हिसारागस्तेषु भटेषु न पूर्यते अत्र काकुः न पूर्यते किमित्यर्थः । नृपतेर्महाराजस्य ते तव र्हटृशामवध्यवधरूपं कुविक्रमं धिक् यः कुविक्रमः कुपाश्रये कृपाविषये अनुकम्पनीये कृपणे दीने पतत्रिणि क्रियत इति विशेषः ॥ 1.132 ॥
फलेन मूलेन च वारिभूरुहां मुनेरिवेत्थं मम यस्य वृत्तयः ॥
त्वयाऽद्य तस्मिन्नपि दण्डधारिणा कथं न पत्या धरणी हृणीयते ॥ 1.133 ॥
जीवातु–फलेनेति । यस्य मम मुनेरिव बारिभूरुहां जलनरुहां पह्मादीनाम् अन्यत्र वारिरुहां भूरुहाञ्च फलेन मूलेन चेत्थमनेन टृश्यमानप्रकारेण वृत्तयो जीविकाः तस्मिन् अपि अनपराघेऽपीति भावः । दण्डधारिणा दण्डकारिणाअदण्डयदण्डकेनेत्यर्थः । पत्या त्वया हेतुना अद्य घरणी कथं न हृणीयते जुगुप्सत एवेत्सयर्थ, हृणीयते कण्ङ्वादियगन्ताल्लट् तत्र हृणीङिति ङित्करणादात्मनेपदम् । अकार्यकारिणं भर्त्तारमपि हन्ते स्त्रिय इति भावः ॥ 1.133 ॥
अन्वयः–मनेः इव यस्य मम वा?रिभूरुहां फलेन मूलेन च इत्थं वृत्तयः तस्मिन् अपि त्वया दण्डधारिणा पत्या धरणी अद्य कथं न हृणीयते ॥ 1.133 ॥
इतीदृशैस्तं विरचय्य वाङ्मयैः सचित्रवैलक्ष्यकृपं नृपं खगः ॥
दयासमुद्रे स तदाशयेऽतिथीचाकार कारुण्यरसापगा गिरः ॥ 1.134 ॥
जीवातु–इतीति । इतीत्थं खगो हंसस्तं नृपम् नृपम् र्हद्यशैर्दोषालम्भैलम्भैरित्यर्थः,वाङ्मयैर्वाग्निकासरैः ‘एकाचो नित्यं मयटमिच्छती’ति विकारार्थे मयट्प्रत्ययः । पक्षिकथनात् चित्रं, परैः स्वाकार्य्योद्घाटनादपत्रपा वैलक्ष्यं, परार्त्तिदर्शनेनतन्निवर्त्तच्छा वा कृपा, ताभिः सह वर्त्तत इति सचित्रवैलक्ष्यकृतं विरचय्य विधाय ‘ल्यपि लघुपूर्वादि’त्ययादेशः । अयासमुद्रे तदाशये ?तच्चित्ते कारुण्यरसापगाः करुणारसनदीः गिरः अतिथीचकार प्रवेशयामासेत्यर्थः समुद्रे नदीप्रवेशो युक्त इति भावः ॥ 1.134 ॥
अन्वयः–सः खगः इति र्हटृशैः वाङ्मयैः तं नृपं सचित्रवैलक्ष्यकृपं विरचय्य दयासमुद्रे तदाशये कारुण्यरसापगाः गिरः अतिथीचकार ॥ 1.134 ॥
मदेकपुत्रा जननो जरातुरा नवप्रसूतिर्वरटा तपस्विनी ॥
गतिस्तयोरेष जनस्तमर्द्दयन्नहो विधे ! त्वां करुणारुणद्धि नो ॥ 1.135 ॥
जीवातु–तावद्गिरः प्रपञ्चयति-मदित्यादिना । तत्र तावद् दैवमुपाल भते हे विधे ! जननी अहमेवैकः पुत्रो रूस्याः सा मदेकपुत्रा मम नाशे तस्य गत्यन्तरं नास्तीत्यर्थः । जरातुरा स्वयमप्यसमर्थेत्यर्थः, वरटा स्वभार्य्या हंसस्य ‘योषिद्वरटे’त्यमरः । नवप्रसूतिरचिप्रसवा तपास्विनी शोच्या एव जनः
स्वयमित्यर्थस्तयोर्जायाजनन्योर्गतिः शरणं तं जनं मामित्यर्थः, अर्दयन् पीडयन् हे विधे ! विधातः ! त्वां नो रुणद्धि मत्पीडनान्न निवारयतीति काकुः, न रुणद्धि किमित्यर्थः ॥ 1.135 ॥
अन्वयः–मदेकपुत्रा जननी जरातुरा, वरटा नवप्रसूतिः तपस्विनी; एषः जनः तयोः गतिः, अहो विधे, तम् अर्दयन् त्वां करुणा न रुणद्धि ॥ 1.135 ॥
मुहूर्त्तमात्रं भवनिन्दया दयासखाः सखायः स्त्रवदश्रवो मम ॥
निवृत्तिमेष्यन्ति परं दुरुत्तरस्त्वयैव मातः ! सुतशोकसागरः 1.136 ॥
जीवातु–अथ मातर शोचयति-मुहूर्त्तेति । हे मातः ! सखायः सुहृदो दयासखाः सदयााः भवनिन्दया संसारगर्हणेन मुहूर्त्त मात्रं क्षणमात्रं स्त्रवदश्रवो गलिताश्रव एव सन्तो निवृर्त्ति शोकोपरतिमेष्यन्ति, किन्तु त्वयैव सुतशोक एव सागरः परमत्यन्तः दुःखेनोत्तीर्य्यत इति दुरुत्तरो दुस्तरः तरतेः कृच्छ्रार्थे खल्प्रत्ययः ॥ 1.136॥
अन्वयः–मम दयासखः सखायः भवनिन्दया मुहूर्तमात्रं स्त्रवदश्रवः निवृत्तिम् एष्यन्ति, परं मातः त्वया सुतशेकहागरः दुस्तरः एव ॥ 1.136 ॥
मदर्थसन्देशम्णालमन्थरः प्रियः कियद्दूर इति त्वयोदिते ॥
विलोकयन्त्या रुदतोऽथ पक्षिणः प्रियो ! स कीदृग्भविता तव क्षणः ? ॥ 1.137 ॥
जीवातु–अथ भार्य्यामुद्दिश्य विलपति-मदर्थेत्यादिना । हे प्रिये !मह्ममिमे मदर्थे ‘अर्थेन सह नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्’ तयोः सन्देशम्णालयोः वाचिकबिसयोः मन्थरस्तत्प्रेषणे विलम्बितप्रवृत्तिः प्रियःकियद्दूरे देशे वर्त्तत इति त्वया उदिते उक्ते पृष्टक सतीत्यर्थः । अथ प्रश्नानन्तरं रुदतः अनिष्टोच्चारणाशक्त्या अश्रूणि विमुञ्चतः पक्षिणः इतो गच्छतो गतान्विलोकयन्त्यास्तव स क्षणः स कालः कीद्दग्भविता भविष्यति ? वज्रपातप्राय इति भावः । कर्त्तरि लुद् ॥ 1.137 ॥
अन्वयः–प्रिये, मदर्थसन्देशमृण्धालमन्थरः प्रियः कियददूरे–इति त्वया उदिते अथ रुदतः पक्षिणः विलोकयन्त्याः तव स क्षण कीटृक् भविता ? ॥ 1.137 ॥
कथं विधातर्मयि पाणिपङ्कजात्ताव प्रियाशैत्यमृदुत्वशिल्पिनः ॥
वियोक्षातसे वल्लभयेति निगता लिपिर्ललाटन्तपनिष्ठुराक्षरा ॥ 1.138 ॥
जीवातु–कथमिति । हे विघातः ! प्रियायाः वरटायाः शैत्यमृदुत्वशिल्पि नस्ताटृक् तदङ्गशैत्यमादेवनिर्म्माणकात्तव पाणिपङ्कजात्पङ्कजमृदुशिशिरात् पाणेरित्यर्थः । मयि विषये वल्लभया सह वियोक्ष्यसे इत्येवंरूपा अतएव ललाट तपणेरित्यर्थः । मयि विषये वल्लभया सह वियोक्ष्यसे इत्येवंक्ष्पा अतएव ललाट तपन्ति दहन्तीति ललाटन्तपानि ‘असुय्येललाटयोर्द्दशितपोटृ’शिपोरि’ति खलुप्रत्ययः, ‘अरुर्द्विषदि’त्यादिना मुमागमः तानि निष्ठुराणि कर्णकठोराणि चाक्षराणि यस्याः सा लिपिरक्षरविन्यासः कथं निर्गता निःमृता ? अत्र कारणात् विरुद्धकार्य्योत्पत्तिकथनाद्विषमालङ्कारभेदः ‘विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य
भावयेत् । विरूपघटना वा स्याद्विषमालंकृतिर्मते’ति ॥ 1.138 ॥
अन्वयः–विधातः, प्रियाशैत्यमृदुत्वशिल्पिनः तव पाणिपिङ्कजात् मयि वल्लभया वियोक्ष्यसे–इति ललाटन्तपनिष्ठुराक्षरा लिपिः कथं निर्गता ? ॥ 1.138 ॥
अपि स्वयूथ्यैरशनिक्षतोपमं ममाद्य वृत्तान्तमिमं बतोदिता ॥
मुखानि लोलाक्षि ! दिशामसंशयं दशापि शुन्यानि विलोकयिष्यसि ॥ 1.139 ॥
जीवातु–अपीति । अपि चेत्यपेरर्थः । अद्यास्मिन् दिने ‘सद्य.परुदि’त्या दिना निपातः स्वयूथ्यैः स्वसङ्घवरैर्हसैः कर्तृभिरशनिक्षतोपमं वज्रप्रहारप्रायं ममेमं वृत्तान्तम् अनर्थवार्त्ता उदिता उक्ता सती वदेर्ब्रू अर्थस्य दुहादित्वादप्रधाने कर्मणि क्तः ‘वचिस्वपी’स्यादिना सम्प्रसारणं, हे लोलाक्षि ! दशदिशां मुखानि शून्यान्यलक्ष्याकाराणि विलोकयिष्यसि असंशयं सन्देहो नास्तीत्यर्थेः । अर्थाभावेऽव्ययीभावः, वतेति खेदे
॥ 1.139 ॥
अन्वयः–अपि अद्य स्वयूथ्यैः अशन्क्षितोपमं मम वृत्तान्तम् उदिता लोलाक्षि, असंशयं दश अपि दिशां मुखानि शून्यानि विलोकयिष्यसि बत ! ॥ 1.139 ॥
ममैव शेकेन विदीर्णवक्षसा त्वयाऽपि चित्राङ्गि ! विपद्यते यदि ॥
तदस्मि दैवेन हतोऽपि हा हतः स्फुटं यतस्ते शिशवः परासवः ॥ 1.140 ॥
जीवातु–ममैवेति । हे चित्राङ्गि ! लोहितचञ्चुचरणत्वाद्विचित्रगात्रे ! मम शोकेनैव मद्विपत्तिदुःखेनैव विदीर्णवक्षसा विदलितहृदा त्वया विपद्यते म्रियते यदि तत्तर्हि दैवेन हतः स्फटं व्यक्तं पुनर्हतोऽस्मि हेति विषादे, ‘हा विस्मयविषादयोरि’ति विश्वः । कुतः ? यतः ते शिशवः परासवो मातुरभावे पोषकाभावान्मृताः, अतः शिशुमरणभावनया द्विगुणितं मे मरणदुःखं प्राप्तमित्यर्थः ॥ 1.140 ॥
अन्वयः–चित्राङ्गि, यदि मम शेकेन विदीर्णवक्षसा त्वया अपि विपद्यते, हा, तद, दैवेन हतः स्फुटः हतः अस्मि, यतः ते शिशवः परासवः ॥ 1.140 ॥
तवापि हाहा विरहात् क्षु धाकुलाः कुलायाकूलेषु विलुठ्य तेषु ते ॥
चिरेण लब्धा बहुभिर्मनोरथैर्गताः क्षणेनास्फुटितेक्षणा मम ॥ 1.141 ॥
जीवात–ननु मन्मृतौ कथं तेषां मृतिरत आह-तवापरति । हे प्रिसये ! बहुभिर्मनोरर्थश्चिरेण लब्धाः कृच्छ्रलब्धा इत्यर्थः, अस्फुटितेक्षणाः अद्याप्यनुन्मीलितेक्षणा मम ते पूर्वोक्ताः शिशवः तवापि न केवलं ममैवेति भावः । विरहाद्विपत्तेः क्षुधाकुलाः क्षुत्पीडिताः तेषु स्वसम्पादितेष्वित्यर्थः, कुलायकूलेषु नीडान्तिकेषु, ‘कुलायो नीडमस्त्रियामि’ त्यमरः । विलुठ्य परिवृत्य क्षणेन गताः मृतप्रायाः, हा हेति खेदे ॥ 1.141 ॥
अन्वयः–हा हा, बहुभिः मनौरथैः चिरेण लब्धा। अस्फुटितेक्षणाः मम तव अपि विरहात् क्षुधा आकुलाः तेषु कुलायकूलेषु विलुठ्य क्षणेन गताः ॥ 1.141 ॥
सुताः कमाहूय चिराय चूङ्कृतैर्विधाय कम्प्राणि मुखानि कं प्रति ? ॥
कथासु शिष्यध्वमिति प्रमीत्य सःस्त्रु तस्य सेकाद् बुबुधे नृपाश्रुणः ॥ 1.142 ॥
जीवातु–सुता इति । हे सुताः ! चूङ्कृतैश्चूङ्कारश्चिराय कं प्रति कमपि प्रति मुखानि कम्प्राणि चञ्चलानि विधाय कथासु शिष्यध्वं कथामात्रशेषा भवत । कुत्रापि पित्रोरदर्शनाद् म्रियध्वं, प्राप्तकाले लोट्, मरणकालः प्राप्त इत्यर्थः । इतीति इत्युक्त्वेत्यर्थः । गम्यमानार्थत्वादप्रयोगः । प्रमील्य मूर्च्छां प्राप्य स हंसः स्त्रुतस्य दयार्द्रभावोत्प्रवहतो नृपस्याश्रुणः सेकाद् बुबुधे संज्ञां लेभे । प्रायेणात्र स्वभावोक्तिरूह्मा ।: 142 ॥
अन्वयः–सुताः, चूङ्कृतैः चिराय कम् आहूय कं प्रति मुखानि कम्प्राणि विधाय कथासु शिष्यध्वम्,–इति प्रमील्य सः स्त्रुतस्य नृपाश्रुणः सेकात् बुबुधे ॥ 1.142 ॥
इत्थममु’ विलपन्तममुञ्चद्दीनदयालुतयाऽवनिपालः ॥
रूपमदर्शि धृतोऽसि यदर्थं गच्छ यथेच्छमथेत्यभिधाय ॥ 1.143 ॥
जीवातु–अत्र सर्वत्र ‘भिन्नसर्गानतैथ्र’ति काव्यलक्षणाद् वृत्तान्तारेण श्कोकद्वयमाह"हत्थमित्यादिना । इत्थं विलपन्तं परिदेवमानममुं हंसमवनिपालो नलो दीनेष्वार्त्तेषु दयालुतया कारुणिकतया रूपमाकृतिरदर्शि अपुर्वत्वादवलोकितं, यस्मै यदर्थं रूपदर्शनार्थमेव धृतो गृहीतोऽसि, अथ यथेच्छं गच्छंत्यभिधाय अमुञ्वत् मुक्तवान् । ‘दोधकवृत्तमिदम्भभभा गावि’ति लक्षणात् ॥ 1.143 ॥
अन्वयः–इत्थं विलपन्तम् अमु’दीनदयालुतया अवनिपालः–रूपम् अदर्शि यदर्थं धृतः असि,–इति अभिधाय अमुञ्चत् ॥ 1.143 ॥
आनन्दजाश्रुभिरनुस्त्रियमाणमार्गान् प्राक्शोकनिर्गलितनेत्रपयःप्रवाहान् ॥
वक्रे स चक्रनिभचङ्क्रमणच्छलेन नीराजनां जनयतां निजबान्धवनाम् ॥ 1.144 ॥
जीवातु–आनन्देति । हंसः चक्रनिभचङ्क्रमणस्य मण्डलाकारभ्रमणस्य छलेन नीराजनाञ्चनयतां कुर्वतां निजबान्धवानां ‘बन्धमुक्तं बान्धवा नीराजजयन्ती’ति समाचारः । प्राङ्मोचनात्पूर्वं शोकेन निर्गलिता निःसूताः नेत्रपयः प्रवाहाः बाष्पपूरास्तानानन्दजाश्रुभिरान्नदबार्ष्परनुस्त्रियमाणमार्गात् अनुगम्यमानमार्गांश्चके कृतवान् । अत्र पक्षिणां स्वभावसिवद्धं बन्धमुक्तं स्वयूथ्यभ्रमणं छलशब्देनापह्म् नुत्य तत्र नीराजनात्वारोपादपह्नवभेदः । अत्र चमत्कारित्वान्मङ्गलाचाररूपत्वाच्च सर्वत्र सङ्गीतश्लोकेष्वानन्दशब्दप्रयोगः, यथाह भगवान् भाष्यकारः–‘मङ्गलादीनि मङ्गलमध्यानि विहितानि
शास्त्राणि प्रथन्ते वीरपूरुषाण्यायुष्मत्पुरुषाणि च भवन्ति अध्येतारश्च प्रवक्तारो भवन्ती’ति । वसन्ततिलकावृत्तिम् ‘उक्ता वसन्ततिलका तभजा जगौ ग’ इति लक्षणात् । सर्गान्तत्वाद् वृत्तभेदः, यथाह दण्डी-‘सर्गेरनतिविस्तीर्णैः श्राव्यःवृत्तौः सुसन्धिभिः । सर्वत्र भिन्नसर्गान्तैरुपेतं लोकरञ्जनम् ॥’ इति
॥ 1.144 ॥
अन्वयः–सः चक्रनिभचङ्क्रमणच्छलेन नीराजनां जनयतां निजबान्धवानां प्राक्शोकनिर्गलित नेत्रपयःप्रवाहान् आनन्दाश्रुभिः अनुस्त्रियमाणमार्गान् चक्रे ॥ 1.144 ॥
श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
तच्चिन्तामणिमन्त्रचिन्तनफलं शृङ्गारभङ्गया महाः
काव्ये चारुणि नैषधीयचरिते सर्गोऽयमादिर्गतः ॥ 1.145 ॥
तीवातु–?अथ कविः काव्यवर्णनमाख्यातपूर्वकं सर्गसमाप्तिं श्लोकबन्धेनाहश्रीहर्षमिति । कविरालराजिमुकुटानां विद्वव्छ्रेष्ठश्रेणीमुकुटानाम् अलङ्कारभूतो हीरो वज्रमणिः हीरो नाम विद्वान् श्रीहर्षनामानं यं सुतं सुषुवे जनयामास, माम ल्लदेवी नाम स्वमाता सा च यं सुतं सुषु वे, तस्य श्रीहर्षस्य यश्चिन्तामणिमन्त्रः तस्य चिन्तनमुपासना तस्य फले फलभूते शृङ्गारभङ्गया शृङ्गाररसेन चारुणि निषधानां राजा नैषधो नलः तदीयचरिते नलचरितनामके महाकाव्ये अयमादिः प्रथमः सर्गो गतः समाप्त इत्यर्थः । एवमुत्तरत्रापि द्रष्टव्यम् ॥ 1.145 ॥
प्रथमः सर्गः समाप्तः ॥ 1 ॥
अन्वयः–कविराजराजिमुकुटालङ्कारहीरः श्रीहीरः मामल्लदेवी च जितेन्द्रियचयं यं श्रीहर्षं सुतं समुषुवे, तच्चिन्तामणिमन्त्रचिन्तनफलं शृङ्गारभङ्ग्या चारुणि नैषधीयचरिते महाकाव्ये अयम् आदिः सर्ग गतः।

**************************************************************************

.

॥ श्रीः ॥

नै ष ध म हा का व्य म्

मकल्लिनाथकृत ‘जीवातु’ टीकासहित

सान्वय-सटिप्पण ‘चन्द्रिका’ हिन्दीव्याख्योपेतम्

द्वितीयः सर्गः

?0 ?0अधिगत्य जगत्यधीश्वरादथ मुक्तिं पुरुषोतृतमात्ततः ॥
वचसामपि गोचरो न यः स तमानन्दमविन्दत द्विजः ॥ 2.1 ॥
जीवातु–अधिगत्येति । अथ मोचनानन्तरं स द्विजःपक्षी विप्रश्च, ‘दन्तविप्राण्डजा द्विजा’ इत्यमरः । जगत्यधधीश्वरात् क्ष्मापतेः भुवनपतेश्च ‘जगती भुवने क्ष्मायामि’ति विश्वः । पुरुषोत्तमात् पुरुषश्रेष्ठातृ विष्णोश्च ततः तस्मात् प्रकृतान्नलात् अन्यत्र प्रसिद्धाच्च मुक्तिं मोचनं निर्वाणञ्च अधिगत्य प्राप्य आनन्दो वचसामपि न गोचरः वक्तुमशक्यः, ‘यतो वाचो निवर्तन्त’ इत्यादेरवाङ्मनसगोचरश्च तमानन्दं परमानन्दञ्च अविन्दतालभत, विदेर्लाभार्थात् ‘कर्त्रभिप्राये क्रियाफल’ इत्यात्मनेपदं, ‘शे मुचादीनामि’ति नुमागमः । अत्राभिधायाः प्रकृतार्थमात्रनियन्त्रणादुभयश्लेषानुपत्तेर्भेदान्तरानवकाशाल्लक्षणायाश्चमुयख्यार्थबाधमन्तरेणासम्भवात् ध्वनिरेवायं, ब्राह्मणस्य विष्णोर्मोक्षानन्दप्राप्तिलक्षणार्थान्तरप्रतीतेर्न श्लेषः प्रकृताप्रकृतोभयगतः । अस्मिन् सर्गे एकशतश्लो कपर्यन्तं वियोगिनीवृत्तम् । ‘विषमे ससजा गुरुः समे सभरा लोऽथ गुरुर्वियोगिनी ‘ति लक्षणादिति संक्षेपः ॥ 2.1 ॥
अन्वयः–अथ सः द्विजः ततः जगत्यधीश्वरात् पुरुषोत्तमात् मुक्तिम् अधिगम्य यः वचसाम् अपि गोचरः न तम् आनन्दम् अविन्दत ॥ 2.1 ॥
अधुनीत खगः स नैकधा तनुमुत्फुल्लतरनूरुहीकृताम् ॥
करयन्त्रणदन्तुरान्तरे वयलिखच्चञ्चुपुटेन पक्षती ॥ 2.2 ॥
जीवातु–अधुनीतेति । स खगो हंसः उत्फुल्लतनूरुहीकृतां नृपकरपीडनादुद्बुद्धय चतत्रीकृतां ‘पतत्रञ्च तनूरुहमि’त्यमरः । तनु शरीरं नैकधा, नअर्थस्य सुप्सुपेति समासः । नञ्समासे नलोपप्रसङ्गः । अधुनीत धूतवान् । धूञः क्यादेर्लङिति तङ्, ‘प्वादीनां ह्रस्व’ इति हस्वः । किञ्च करयन्त्रणेन नृपकरपीडनेन दन्तुरे निम्नोन्नतमध्यप्रदेशे पक्षती पक्षमूले ‘स्त्री पक्षतिः, पक्षमूलमि’त्यमरः चञ्चुपुटेन त्रोटिसम्पुटेन व्यलिखत् विलेखनेन ऋजूचकारेत्यर्थः । एतदादेः श्लोकचतुष्टयेषु स्वभावोक्तिरलङ्कारः ॥ 2.2 ॥
अन्वयः–सः खगः उत्फुल्लतनूरुहीकृतां तनुम् एकधा न अधुनीत । करयन्त्रणदन्तुरान्तरे पक्षती चञ्चुपुटेन व्यलिक्षत् ॥ 2.2 ॥
अयमेकतमेन पक्षतेरधिमध्योर्ध्वगजङ्घमङ्घ्रिणा ॥
स्खलनक्षण एव शिश्रिये द्रु तकण्डूयितमौलिरालयम् ॥ 2.3 ॥
जीवातु–अयमिति । अयं हंसः स्खलनक्षण एव मोचनानन्तरमेवेत्यर्थः । एकतमेनाङ्ध्रिणा पक्षतेः पक्षमूलस्यधिमध्यं मध्ये पक्षमूलस्याधिमध्यं मध्ये ऊर्ध्वगामिनी जङ्घा यस्मिन् कर्मणि तद्यया तथा कण्डूयनेन तत्तथा द्रुतं कण्डूयितमौलिः सत्वरं कर्षितचूडः सन् आलयं निजावासं शिश्रिये रितवान् ॥ 2.3 ॥
अन्वयः–अयं स्खलनक्षणे एव पक्षतेः अधिमध्योर्ध्वगजङ्घम् एकतमेन अङ्घ्रिणा द्रुतकण्डूयितमौलिः आलयं शिश्रिये ॥ 2.3 ॥

स गरुद्वननदुर्गदुग्रहान् कटु कोटान् दशतः सतः क्कचित् ॥
नुनुदे तनुकण्डु पण्डितः पटुचञ्चूपुटकोटिकुट्टनैः ॥ 2.4 ॥
जीवातु–स इति । पण्डितः निपुणः स हंसः गरुतः पक्षा एव वनदुर्गं तत्र दुर्ग्र हान् ग्रहीतुमशक्यान् कटुतीक्ष्णान्दशतः दन्तैस्तुदतः क्वचित् कुत्रचिदेव सतः वर्त्तंमानान् कीटान् क्षुद्रजन्तून् पटुचञ्चूपूटस्य समर्थत्रोटेःकोट्या अग्रे ण कुट्टनैःघुट्टनैस्तनुरल्पा कण्डूर्यस्मिन् तनुकण्डु यथा तथा ‘गोस्त्रियोरुपसर्जनस्येति’ ह्रस्वः । नुनुदे निवारितवान् ‘स्वरित??ञि’ इत्यात्मनेपदम् ॥ 2.4 ॥
अन्वयः–पण्डितः सः क्वचित् सतः गरुद्वनदुर्ग्रहान् कटु दशतः कीटान् पटुचञ्चुपुटकोटिकुट्नैः तनुकण्डु नुनुदे ॥ 2.4 ॥
अयमेत्यस तडागनीडजैर्लघु पर्य्याव्रियताथ शङ्गितैः ॥
उदडीयत वैकृतात् करग्रहजादस्य विकस्ववरस्वरैः ॥ 2.5 ॥
जीवातु–अयमिति । अयं हंमस्तडागनीडजैः सरःपक्षिभिस्तत्रत्यहंसैः’नीडोदभवा गरुत्मन्त’ इत्यमरः । लुध क्षिप्रेत्यागत्य पर्य्यव्रियत परिवृतः, वृणोतेः कर्मणि लङ् । अथ परिवेष्टनान्तरमस्य हंसस्य करग्रहजान्नलकरपीडजन्याद्विकृतादेव वैकृताद्विलुण्ठितपक्षत्वरूपाद्विकारदर्शनादित्यर्थः, स्वार्थेऽण् प्रत्ययः शङिकतैश्चकितैः अतएव विकस्वरस्वरैरुच्चैर्घोषैस्तैरुदडीयतोङ्डीनम् डीडो भावे लङ् ॥ 2.5 ॥
अन्वयः–तडागनीडजैः लघु एत्य अयं पयंव्रियत, अथ अस्य करग्रहजात् वैकृतात् शङ्कितैः विकस्वस्वरैः उङ्डीयत ॥ 2.5 ॥
दधतो बहुशैवलक्ष्मतां घृतरुद्राक्षमघुव्रतं खगः ॥
स ललस्य ययौ करं पुनः सरसः कोकनदभ्रमादिव ॥ 2.6 ॥
जीवातु–दघत इति । अथ स खगो हंसः बहुशैवला भूरिशैवला क्ष्मा भूर्यस्य तद्बहुशैवलक्ष्य तस्य भावः तत्ता तां दघतो दधानात् सरसः पल्वलात् बहुनि शैवलक्ष्माणि शिवभक्तचिह्नानि यस्य स बहुशैवलक्ष्मा तस्य भावः तत्ता तां दधतो दधानस्य नलस्य रुद्राक्षाणि मधुव्रता इवेत्युपमितसमासः, ते धृता येन तं करं कोकनदभ्रमाद्रक्तोत्पलभ्रान्तेरिव पुनर्ययौ, कोकनदन्तु रुद्राक्षसटृशमधुव्रतं खलु । अत्र बहुशैवलेत्यादौ शब्दश्लेषस्तदनुप्राणिता रुद्राक्षमधुव्रतमित्युपमा तत्सपेक्षा चेयं कोकनदभ्रमादिवेत्युत्प्रेक्षेति सङ्बरः ॥ 2.6 ॥
अन्वयः–सः सगः बहुशैवलक्ष्मतां दधतः ( वहतः ) सरसः नलस्य ( बहुशैवलक्ष्मतां दघतः ) धृतरुद्राक्षमधुव्रतं करं कोकनदभ्रमात् इव पुनः ययौ ॥ 2.6 ॥
पतगश्चिरकाललालनादतिविश्रम्भमवापितो नु सः ॥
अतुलं विदधे कुतूहलं भुजमेतस्य भजन्महीभुजः ॥ 2.7 ॥
जीवातु–अथास्य स्वयमागमनादुतृप्रेक्षते-पतग इति । पतङ्गो हंसश्चिरकाललालनादुपलालनादतिविश्रम्भमतिविश्वासं ‘समौ विश्रम्भविश्वासावि’त्यमरः । अवापितः प्रापितो नु किमित्युत्प्रेक्षा, अन्यथा कथं पुनः स्वयमागच्छे दिति भावः । किञ्च एतस्य महीभुजो भुजम्भजन् स्वयमाप्नुवन् अतुलं कुतूहलं विदधे कौतुकञ्चकारेत्यर्थः । अत्रोत्प्रेक्षावृत्यनुप्रासयोः शब्दार्थाल्ङ्कारयोस्तिलतण्डुलवत् संसृष्टिः । ‘एकद्वित्र्यादिवर्णानां पुनरुक्तिर्भवेद्यदि सङ्ख्यानियममुल्लङ्ध्य वृत्त्यनुप्रास र्हरितः ॥’ इति
॥ 2.7 ॥
अन्वयः–चिरकाललालनात् नु अति विस्त्रम्भम् अवापितः सः पतगः एतस्य महीभुजः भुजं भवन् अतुलं कुतूहलं कुतूहलं विदधे ॥ 2.7 ॥
नृपमानसमिष्टमानसः स निमज्जत्कुतुकामृतोर्मिषु ॥
अवलम्बितकार्णषष्कुलीकलसीकं रचयन्नवोचत ॥ 2.8 ॥
जीवातु–नृपमानसमिति । इष्टमानसः प्रियमानसः स राजहंसः कुतुकं हर्षस्तदेव अमृतं सुधा तस्योर्मिषु निमज्जदन्तर्गतं नृपमानसं नलमनः कणौ शष्कुल्याविव कर्णशष्कुल्यौ ते कलस्यौ ते अवलम्बिते अवघीकृते धृते च येन तत्तथोक्तं ‘नद्यृतश्चे’ति कप् । रचयन् कुर्वन्नवोचत उक्तवान् । जले मज्जन्नपि तरणार्थं
कलसमवलम्बते, तद्वत्कर्ण शष्कुली-कलस्यावित्युपमारूपकयोःसंसृष्टि ॥ 2.8 ॥
अन्वयः–कुतुकामृतोर्मिषु निमज्जत् नृपमानसम् अवलम्बितकर्णशष्कुलीकलसीकं रचयन् इष्टमानसः सः अवोचत ॥ 2.8 ॥
मृगया न विगीयते नृपेरपि धर्मागममर्मपारगैः ॥
स्मरसुन्दर ! मां यदत्यजस्तव धर्मः स दयोदयोज्जवलः ॥ 2.9 ॥
जीवातु-मृगयेति । धर्मागममर्मपारगैर्धर्मशास्त्रतत्त्वपारदर्शिभिरिव ‘अन्तात्यन्ताध्वदूरपारसर्वानन्तेषु डः’ इति गमेर्डप्रत्ययः । नृपैर्मृगया आखेटो न विगीयते न गर्ह्मते । तथापि हे स्मरसुन्दर ! मामत्यज इति यत् स त्यागस्तव दयोदयेनोज्जवलो विमलो निरुपाधिक इति यावत् धर्म्मः सुकृतम् । न केवल माकारादेव सुन्दरोऽसि, किन्तु धर्मतोपीति भावः ॥ 2.9 ॥
अन्वयः–धर्मागममर्मपारर्गः नृपैः अपि मृगया न? विगीयते, स्मरसुन्दर ! यत् माम् अत्यजः सः तव दयोदयोज्जवलः धर्म ॥ 2.9 ॥
अबलस्वकुलाशिनो ह्मषान्निजनीडद्रु मपीडिनः खगान् ॥
अनवद्यतृणार्द्दिनो मृगान् मृगयाऽध्याय न भृभृतां धनताम् ॥ 2.10 ॥
जीवातु–ननु प्राणिर्हिसा कथं न विगीयते तत आह-अबलेति । अबलस्वकुलाशिनो ह्मषाः ‘दुर्बलस्वकुलधातिनो मत्स्या’ इति प्रसिद्धिः, निजनीड द्रुमपीडिनो विण्मोक्षफलभक्षणादिना स्वाश्रयवृक्षपीडाकरान् खगान् अनवद्यतृणार्द्दिनः अनपराधित् णर्हिसकान् मृगान्, ‘अन्तःसंज्ञा भवन्त्येते सुखुदुःखसमन्विता’ इति मनुस्मृत्या तरुतृणादीनामपि प्राणित्वात्तर्द्धिसा पीडैवेति भावः । न भवति । तद्वधस्य दण्डरूपत्वात् प्रत्युताकरणे दोष इति भावः ॥ 2.10 ॥
अन्वयः–अबलस्वकुलाशिनः ह्मषान्, निजनीडद्रुमपीडिनः ख्गान्, अनवद्यतृणार्दिनः मृगान् ध्नतां भूभृतां मृगया अघाय न ॥ 2.10 ॥
यदवादिषमप्रिन्तव प्रियमाधाय नुनुत्सुरस्मि तत् ॥
कृतमातपसंज्वरं तरोरभिवृष्यामृतमंशुमानिव ॥ 2.11 ॥
जीवातु–तथापि किमर्थ पुनरागतन्त्वयेत्यत आह–यदिति । तव यदप्रियमवादिषमवोचम् । प्रियमाधाय प्रियं कृत्वा तदप्रियन्तरोः कृतं स्वकृतमातपसन्तापम् अमृतमुदकमभिवृष्य ‘पयः कीलालममृतमि’त्यमरः । अंशुमानिव नुनुत्सुर्नोदितु’ प्रमार्ष्दुमिच्छुः, नुद-प्रेरण इत्यस्माद्धातोःसन्नन्तादुप्रत्ययः ॥ 2.11 ॥
अन्वयः–यत् तव अप्रियम् अवादिषम् तत् प्रियम् आधाय तरोः कृतम् आतपसंज्वरम् बमृतम् अभिवृष्य अंशुमान् इव नुनुत्सुः अस्मि ॥ 2.11 ॥
उपनम्रमयाचितं हितं परिहर्त्तुं न तवापि साम्प्रतम् ॥
करकल्पजनान्तराद्विधेः शुचितः प्रापि स हि प्रतिग्रहः ॥ 2.12 ॥
जीवातु–तर्हि भवन्मोचनं सुकुतमेव मम पर्याप्तम् र्कि टृष्टोपकारेणेति न वाच्यममित्याह-उपनम्रमिति । अयाचितमप्रार्थितमुपनम्रमुपनतं हितम् इह चामुत्र चोपकारकं तवापि परिहर्त्तुंन साम्प्रतम् युक्तम् । ‘अयाचितं हितं ग्राह्ममपि दुष्कृतमर्म्मण’ इति स्मरणादिति भावः । तदपि माटृशात् पृथग्जनात् कथं ग्राह्ममत आह-करेति । हि यस्मात्कारणात् स प्रतिग्रहः करकल्पङ्करस्थानीयमित्यर्थः । ईषदसमाप्तो कल्पप्प्रत्ययः, यज्जनान्तरं स्वयं यस्य तस्माच्छुचेः शुद्धाद्विधेः ब्रह्मणः प्राप्तः न तु मत्त इति भावः । आप्नोतेः कर्म्मणि लुङ् । विधिरेव ते दाता अहं तस्योपकरणमात्रम्, अतो न याच्ञालाघवन्तवेति भावः ॥ 2.12 ॥
अन्वयः–अयाचितम् उपनम्रं हितं तव अवि परिहर्त्तुं साम्प्रतं न हि सः प्रतिग्रहः करकल्पजनरान्तरात् शुचितः विधेः प्रापि ॥ 2.12 ॥
पतगेन मया जगत्पतेरुपकृत्यै तव किं प्रभूयते ? ॥
इति वेह्मि, न तु त्यजन्ति मां तदपि प्रत्युपकर्त्तुं मर्त्तयः ॥ 2.13 ॥
जीवातु–ननु सार्वभौमस्य मे तिरश्चा त्वया किमुपकरिष्यते, तत्राहपतगेनेति । पतगेन पक्षिमात्रेण मया
जगत्पतेः सार्वभौमस्य तवोपकृत्यै उपकाराय प्रभूयते क्ष्म्थते किं न भूयत एवेत्थर्थः, भावेलट्, इति वेह्मि अक्षमत्वं जानामि । तदपि तथाप्यर्त्तयो यास्तु त्वया विनिवर्तिता इति वेह्मि अक्षमत्वं जानामि । तदपि तथाप्यर्त्तयो यास्तुत्वया विनिवर्तिता इति भावः । मां प्रत्युकारिणस्ते महोपकारं करवाणीति भावः ॥ 2.13 ॥
अन्वयः–जगत्पतेः तव उपकृत्यै मया पतगेन किं प्रभूयते ? किं प्रभूयते ? इति वेद्मि, तदपि अर्त्तयः तु मां प्रत्युपकर्त्तुंन त्यजन्ति ॥ 2.13 ॥
अचिरादुपकर्त्तुरारेदथवात्मौपयिकीमुपक्रियाम् ॥
पृथुरित्थमथाणुरस्तु सा न विशेषे विदुषामिह ग्रहः ॥ 2.14 ॥
जीवातु-अथवा यथाशक्तिपक्षोऽस्त्वियाह-अचिरादिति । अथवा उपकर्त्तुरचिरादविजम्बादुपाय एवौपयिकः, विनयादित्वात् स्वार्थे ठक् ‘उपधाया ह्रस्वत्वञ्चे’ति ह्रस्वः, तत आगता औपयिकी तामात्मौपयिकीं स्वोपायसाध्या मित्यर्थः, ‘तत आगत’ इत्यण् प्रत्यये ‘टिङ्ढाण?ञि’त्यादिना ङीप् । उपक्रियामाचरेत् प्रत्यपकारं कुर्यात्, चरधातोर्विघिलिङ् । इत्थमेवं सति सोपक्रिया पृथुरधिकाऽस्तु अथ अथवा अणुरल्पा।द्यस्तु विदुषां विवेकिनामिहास्मिन् विषये विशेषे ग्रह आग्रहो न । गुणग्राहिणो विवेकिनः कुतज्ञतामेव अस्य पश्यन्ति, न दोषमन्विष्यन्तीत्यर्थः ॥ 2.14 ॥
अन्वयः–अथवा अचिरात् उपकर्त्तुंः औपयिकीं क्रियाम् आचरेत्, इत्थं सा पृथुः अथ अणुः अस्तु, इह विदुषां ग्रहः न ॥ 2.14 ॥
भविता न विचारचारु चेत्तदपि श्रव्यमिदं मदीरितम् ॥
खगवागियमित्यतोऽपि किं न मुदं दास्यति कीरगीरिव ॥ 2.15 ॥
जीवातु–अथ स्ववाक्ये आदरं यावते-भवितेति । हे नृप ! इदं वक्ष्यमाणं मदीरितं मद्वचः मद्वचनं विचारे विमर्शे चारु युक्तं न भविता न भविष्यति चेतदपि अविचारितरमणीयमपि श्रव्यं श्रीोतव्यम् । इयं खगवागित्यतोऽपि हेतोःकीरगीः शुकवागिव मुदं किं न दास्यति दास्यत्येव । प्रयोजनान्तराभावेऽपि हेतोः कीरगीः शुकवागिव मुदं किं न दास्यति दास्यत्येव । प्रयोजनान्तराभावेऽपि कौतुकादपि श्रोतव्यमितृयर्थः, ददातेः लृट् ॥ 2.15 ॥
अन्वयः–इदं मदीरितं विचारचारु न भविता चेत् तदपि श्रव्यम्, इयं खगाकाक्, इत्यथतः अपि कीरगीः इव किं मृदु’ न दास्यति ? ॥ 2.15 ॥
स जयत्यरिसार्थसार्थकोकृतनामा किल भीमभूपतिः ॥
यमवाप्य विदर्भंभुः प्रभुं हसति द्यामपि शक्रभर्तृकाम् ॥ 2.16 ॥
जीवातु–अथ यद्वक्तव्यं तादाह-स इति । अर्थेन अभिधेयेन सह वर्त्तत इति सार्थकम्, ‘तेन यद्वक्तवस्यं तदाह-स इति । अर्थेन अभिधेयेन सह वर्त्तत इति सार्थकम्, ‘तेन सहेति तुल्ययोग’ इति बहुव्रीहिः, ‘वोपसर्जनस्ये’ति सहशब्दस्य विकल्पात् सभावः ‘शेषाद्विभाषे’ति कप् समासान्तः, ततश्च्चिरभूततदभावे । अरिसार्थेषु शत्रुसङ्घेष सार्थकीकृतं नाम भीम इत्याख्या येन स तथोक्तः च प्रसिद्धः बिभ्यत्यस्मादिति भीमः ‘भियो म’ इत्ययपादानार्थे निपातनान्मप्रत्यय औणादिकः, भीम इति भूपर्ति प्रभु’ भर्त्तारमवाप्य शक्रो भर्त्ता यस्यास्तां शक्रभर्तृ कां ‘नद्यृतश्चे’ति कपि द्यान्दिवमपि हसति, किमुतान्यभर्तृकदेशानित्यर्थः । स्त्रियो हि? भर्त्तुरुत्कर्षाद्धासं कुर्वन्तीति भावः । अत्र विदर्भभुवोक1़पि द्युहासासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः॥ 2.16॥
अन्वयः–अरिसार्थकीकृतनामा सः भीमभूपतिः जयति किल, यं प्रभुम् अवाप्य विदर्भभुः शक्रकर्तृका द्याम् अपि हसति ॥ 2.16 ॥
दमनादमनाक् प्रसेदुषस्तनयां तथ्यगिरस्तपोधनात् ॥
वरमाप स दिष्टविष्टपत्रितयानन्यसदृग्गुणोदयाम् ॥ 2.17 ॥
जीवातु–दमनादिति । स भीमभूपतिरमनागनल्पं प्रसेदुषो निजोपास लया प्रसन्नात् ‘भाषायां सदवसश्रुव’ इति सदेर्लिटः क्वस्वादेशेः । दमनाद्दमनाख्यात् तथ्यगिरः अमोरनन्यसटृशीं गुणोदयां कालत्रये लोकत्रये चानन्यसाधा रणप्रकर्षां तनयां दुहितरं वरमाप । वरत्वेन लब्धवानित्यर्थः । ‘देवाद्यते वरःश्रेष्ठे त्रिपु
क्लीबे मनाक्प्रिय’ इत्यमरः ॥ 2.17 ॥
अन्वयः–सः अमनाक् प्रसेदुषः तथ्यगिरः तपोक्ष्धनात् दमनात् दिष्टव्ष्टिपत्रिप्तयान्नयसद्गुणोदयां तनयां वरम् आप ॥ 2.17 ॥
भुवनत्रयसुभ्रुवामसौ दमयन्ती कमनीयतामदम् ॥
उदियाय यतस्तनुश्रिया दमयन्तीति ततोऽभिधां दधौ ॥ 2.18 ॥
जीवातु–अथास्या नामधेयं व्युत्पादयन्नेवाह-भुवनत्रयेति । असौ वरप्रसादलब्धा तनया कर्त्री तनुश्रिया निजशरीरसौन्दर्थेण करणेन भुवनत्रयसुभ्रु वां त्रैलोक्यसुन्दरीणां कमनीयतामदं सौन्दर्यगर्वं दमयन्ती अस्तं गमयन्ती दमेर्ण्यन्ताद् ‘न पादमि’त्यादिना कर्त्रभिप्राय आत्मनेपदापवादः परस्मैपदप्रतिषेधेऽप्यकर्त्रभिप्रायविवक्षायां परस्मैपदे लटः शत्रादेशः । उदियाय उदिता, हणो लिट्, ततस्तस्मादेव निमित्ताद्दमयन्तीत्यभिधामाख्यां दधौ, दधातैर्लिट् ॥ 2.18 ॥
अन्वयः–यतः असौ भुवनत्रयसुभ्रु वा कमनीयतामदं तनुश्रिया दमयन्ती उदियाय ततः ‘दमयन्ती’ इति अभिधां दधौ ॥ 2.18 ॥
श्रियमेव परं धराधिपाद् गुणसिन्धोरुदितामवेहि ताम् ॥
व्यवधावपि यां विधोः कलां मृडचूडानिलयां न वेद कः ॥ 2.19 ॥
जीवातु-अथैकर्विशतिश्लोकैश्चिकुरादारभ्य दमयन्तीं वर्णयति-श्रियमिति । हे नृप ! ताम् दमयन्तीं गुणसिन्धोः गुणसागरादधिपादभीमनरेन्द्रादितामुत्पन्नां श्रियं साक्षाल्लक्ष्मीमेव परं ध्रु व मवेहि जानीहि, अवपूर्वादिणो लोटि ‘सेर्हिरि’ति ह्मादेशे ङित्त्वान्न सार्वधातुकगुणः, संहितायाम् ‘आद्गुणः’ अत्र केवलाव पूर्वस्य
इणो ज्ञानार्थत्वादाङ्प्रश्लेषे तदलाभात्, प्रश्लेषेऽपि ‘ओमाङोश्चे?‘ति पररूपमिति केरूपमिति कंषा?ञ्चित्प्रक्रियोपन्यासो वृथा । प्रक्षाल्य त्यागः ‘अवैहीति वृद्धि रवद्ये’ति वामनसूत्रमप्यनाङ्प्रश्लेष एव भ्रान्तिप्राप्तवृद्धिप्रतिषेघपरं गुण एव युक्त इति व्याख्यानादन्यथा ‘ओमाङोश्चे’ति, पररूपमेव युक्तमित्युच्येत इति । न च देशव्यवधानान्न श्रीरेवेति वाच्यमित्याहन्व्यवधौ व्यवधाने सत्यपि ‘उपसर्गे घोः किरि’ति किप्रत्ययः मृडचूडानिलयां हरशिखाश्रयां कलां विधोरिन्दोरेव कलां को वा न वेद ? सर्वोऽपि वैदैवेत्यर्थः, ‘विदो लटो वे’ति वैकल्पिको णलादेशः । यथा हरशिरोगतापि कला चन्द्रकलैव, तथा भीमभवनोदिताऽप्येषा श्रीरेवेति सौन्दर्यातिशयोक्तिः । अत्र श्रीकलयोः नृपमृडौ वाक्यद्वये बिम्बप्रतिबिम्बभावेन सामान्यधर्म्मवत्तया निर्दिष्टाविति टृष्टान्तालङ्कारः । ‘यत्र वाक्यद्वये बिम्बप्रतिबिम्बतयोच्यते । सामान्यधर्म्मः काव्यज्ञैः स टृष्टान्तो निगद्यते ॥’ इति लक्षणात् ॥ 2.19 ॥
अन्वयः–तां परं गुणसिन्धोः धराधिपात् उदितां श्रियम् एव अवेहि, वा व्यवधौ अपि मृडचूडानिलयां विधोः कलां कः न वेद ? ॥ 2.19 ॥
चिकुरप्रकरा जयन्ति ते विदुषी मूर्द्धनि सा बिभर्ति यान् ॥
पशुनाऽप्यपुरस्कृतेन तत्तुलनामिच्छतु चामरेण कः ॥ 2.20 ॥
जीवातु–चिकुरप्रकरा इति । चिकुरप्रकराः केशसमूहाः जसयन्ति सर्वोत्कर्षेण वर्तन्ते, यान् वेत्तीति विदुषी विशेषज्ञा ‘विदेः शुतुर्वसुः’ ‘उगितश्चे’ति ङीप् ‘वसोः सम्प्रसारणम्’ । सा दमयन्ती मूर्द्धनि बिभर्त्ति, विद्वद्गृह एव सर्वस्याप्युत्कर्षहेतुरिति भावः । अतएव पशुना तिरश्चा चमरीमृगेणाप्यपुरस्कृतेनानाटृतेन चामरेण चमरीपुच्देन सह तत्तुलनान्तेषां चिकुराणां समीकरणं क इच्छतु ? न कोऽपीत्यर्थः । सम्भावनायां लोट् । अत्र तुलनानिषेधस्यापुरस्कृतपदार्थहेतुकल्वात्पदार्थहेतुकं काव्यलिङ्गम्, ;हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतमि’ति लक्षणात् ॥ 2. 20 ॥
अन्वयः–विदुषी सा यान् मूर्द्धनि बिभर्त्ति ते चिकुरप्रकराः जयन्ति, पशुना अपि अपुरस्कृतेन चापरेण तत्तुलनां कः इच्छतु ? ॥ 2.20 ॥
स्वदृशोर्जयनयन्ति सान्तत्वानां खुरकण्डूयनकैतवान्मृगाः ॥
जितयोरुदयत्प्रमीलयोस्तदखर्वेक्षणशोभया भयात् ॥ 2.21 ॥
जीवातु–स्वटृशोरिति मृगाः हरिणास्तस्या दमयन्त्या अखर्वयोरात योरीक्षणयोरक्षणोः शोभया कर्त्र्या जितयोरत एव भयादुदयत्प्रमीलयो रुत्पद्ययोरीक्षणयोरक्षयाः शोभया कर्त्र्या जितयोरत एव भयादुदयत्प्रमीलयो रुत्पद्य माननिमीलनयोः स्वटृशोर्निजनयनयोः खुरै शफैः ‘शफ क्लीबे खुरः पुमानि’ त्यमरः । कण्डूयनस्य कर्षणस्य कैतवाच्छलात्सान्त्वनां जनयन्ति लालनां कुर्वन्ति । यथा लोके परपराजिता निमीलिताक्षाः स्वनैर्भयनिवृत्तये करतलास्फालनादिना परिसान्त्वयन्ते तद्वदिउति भावः । अत्र कैतवशब्देन कण्डुयनमपह् नुत्य सान्त्वानारोपादपह्नवभेदः ॥ 2.21 ॥
अन्वयः–मृणाः तदखर्वेक्षणशोभया जितयोः भयात् उदयत्प्रमीलयोः स्वटृशोः खुरकण्डूयनकैतवात् सान्त्वनां जनयन्ति ॥ 2.21 ॥
अपि लोकयुगं दृशावपि श्रुतदृष्टा रमणीगुणा अति ॥
श्रुतिगामितया दमस्वसुर्व्यतिभाते सुतरां धरापते ! ॥ 2.22 ॥
जीवातु-अपीति । हे धरापते ! दमो नाम भीमस्यैवात्मजस्तस्य स्वसुदैमन्त्याः लोकयुगं ममातापितृकुलयुगं श्रुतिगामितया वेदप्रसिद्धतया सुतरां व्यतिभाते परस्परोत्कर्षेण भति तथा टृशौ नेत्रे इपि रुतिगामितया कर्णान्तविश्रान्ततया व्यतिभोते परमस्परोत्कर्षेण भातस्तथा श्रुताः श्रुतिप्रसिद्धाः ते च ते टृष्टाः लोकप्रसिद्धाश्च विशेषणयोरपि विशेषणविशेष्यभावविवक्षायां विशेषणसमासः, ते रमणीगुणाः स्त्रीधर्म्मा अपि श्रुतिगामितया जनैः श्रुयमाणतया ‘श्रुतिः श्रोत्रे तथाम्नाये वार्त्तायां श्रोत्रकर्म्मणी’ति विश्वः । सुतरां व्यतिभाते व्यतिहारेण भान्ति । ’ आत्मनेपदेष्वनत’ इति ज्ञस्यादादेशः, सर्वत्र ‘कर्त्तरिकर्मव्यतिहार’ इत्यात्मनेपदम्, अदादित्वाच्छपो लुक्, सर्वत्र टेरेत्वम् । अत्र लोकयुगादीनान्त्रयाणामपि प्रकृतत्वात् केवलप्रकृतविषयतुल्ययोगिताभेदः । ‘प्रस्तुताप्रस्तुतानाञ्च केवलं तुल्यधर्म्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिते’ति लक्षणात् ॥ 2.22 ॥
अन्वयः–धरापते, दमस्वसुः लोकयुगं, टृशौ, श्रुतटृष्टाः रमणीगुणाः अपि श्रुतिगामितया सुतरां व्यतिभाते ॥ 2.22 ॥
नलिनं मलिनं विवृण्वती पृषतीमस्पृशती तदीक्षणे ॥
अपि खञ्जनमञ्जना?ञ्चिते विदधाते रुचिगर्वदुर्विधम् ॥ 2.23 ॥
जीवातु–नलिनमिति । नलिनं पह्मं मलिनमचारु विवृण्वती कुर्वाणे पृषतीं मृगीमस्पृशती असमानत्वात् दूरादेव परिहार इत्यर्थः, तदीक्षणे तल्लोचने अञ्जनाञ्चिते कज्जलपरिष्कृते सती खञ्जनं खञ्जरीटाख्यं खञ्जनामकः पक्षिविशेषः ‘खञ्जरीटस्तु खञ्जन’ इत्यमरः । तमपि रुचिगर्चदुर्विधं धारुत्वगर्वनिःस्वं विदधाते कुर्वाते,सर्वथाप्यनुमेये इत्यर्थः । ‘निःस्वस्तु दुविधो दीनो दरिद्रो दुर्गतोऽपि स’ हत्यमरः । र्हक्षणयोर्नलिनादिमलिनीकरणाद्यसम्बन्धे सम्बन्धोक्तेरतिशयोक्तिः, तथा चोपमा व्यज्यत इत्ययलङ्कारेणालङ्कारध्वनिः ॥ 2.23 ॥
अन्वयः–नलिनं मलिनं विवण्वती, पृषतीम् अस्पृशती अञ्जना?ञ्चिते तदीक्षणे खञ्जनम् अपि रुचिगवैदुर्विधं विदधाते ॥ 2.23 ॥
अधरं खलु बिम्बनामकं फलमस्मादिति भव्यमन्वयम् ॥
लभतेऽधरबिम्बमित्यदः पदमस्या रदन्छदं वदत् ॥ 2.24 ॥
जीवातु–अधरमिति । अधुरबिम्बमित्यदः पदम् अधरं बिम्बमिवेत्युपमितसमासाश्रयणेन स्त्रीणामधरेषु यत्पदं प्रयुज्यते तदित्यर्थः । अस्या दमयन्त्याः रदनच्छदम् ओष्ठमविदधत् तदभिधानाय प्रयुक्तं सदित्यर्थः । बिम्बनामकं फलं बिम्बमस्याद्दमयन्तीरदनच्छदादधरं किलापकृष्टं खल्विति अधरशब्दस्यापकृष्टार्थत्वे अधरं बिम्बं यस्मात्तदिति बहुव्रीहिसमासे च सति भव्यमबाधितमन्वयं वृतिृतपदार्थसंसर्गलक्षणं लभते, अन्यथा समर्थसमासाश्रयणे ‘समर्थः पदविधिरि’ति समर्थपरिभाषा भज्येते, तर्हि नोपमा स्यादिति भावः । अत्र दमयन्तीदन्तच्छदस्य बिम्बाधरीकरणासम्बन्धेऽपि सम्बन्धोक्तेरतिशायोक्तिः पूर्ववत् ध्वनिश्च ॥ 2.24 ॥
अन्वयः–अधरबिम्बम् इति अदः पदम् अस्याः रदनच्छदं वदत् बिम्बनामकं फलम् अस्मात् अधरं
खलु-इति भव्यम् अन्वयं लभते ॥ 2.24 ॥
हृतसारमिवेन्दुमण्डलं दमयन्तीवदनाय वेधसा ॥
कृतमध्यबिलं विलोक्यते धृतगम्भोरखनीलिम ॥ 2.25 ॥
जीवात-हृतसारमिति । इन्दुमण्डलं दमयन्तीवदनाय तन्निर्माणायेतृयर्थः । क्रियार्थेपपदस्ये’ति चतुर्थी, वेधसा हृतसारमुद्धृतमध्याङ्कमिव, कुतः ? कृतमध्यबिलं विहितमध्यरन्ध्रमत एव धृतो गम्भीरखनीखस्य निम्नमध्यरन्ध्राकाशस्य नीलिमा नैल्यन्तथा विलोक्यते, ‘खनिः स्त्रियामाकरः स्यादि’त्यमरः । ‘कृदिराकादक्तिन’ इति ङीप् । अत्र कलङ्कापह्नवेन खनीलिमारोपादपह् नवभेदः, स च कृतमध्यबिलमित्येतत्पदार्थतुककाव्यलिङ्गानुप्राणितः, तदपेवत् ध्वनिः ॥ 2.25 ॥
अन्वयः–इन्दुमण्डलं उमयन्तीवदनाय वेधसा हृतसारम् इव कृतमध्यबिलं वृतमम्बभीरखनीखनीलिम बिलोक्यते ॥ 2.25 ॥
धृतलाञ्छनगोमयाञ्चनं विधुमालेपनपाण्डरं विधिः ॥
भ्रमयत्युचितं विदर्भजानननीराजनवर्द्धमानकम् ॥ 2.25 ॥
जीवातु–घृतेति । विधिर्ब्रह्मा धृतं लाच्छनमङ्क एव गोमयाञ्चनं मध्यस्थितगोमयसंश्लेषणम् एनम् आलेपनपाण्डरं निजकान्तिसुधाधवलितमित्यर्थः, विधुं चन्द्रमेव विदभैजाननस्य वैदर्भीमुखस्य नीराजनवर्द्धमानकं नीराजनशरावम् ‘शरावो वर्द्धमानक’ इत्यमरः । किरणदीपकलिकायुक्तमिति भावः । भ्रमयत्युचितम् लोकोत्तरत्वात् इति भावः, एवं नीराजयन्तीति देशाचारः । अत्र विधुतल्लाञ्छनादेर्नीराजनशरावगोमयादित्वेन निरूपणात्सावयवरूपकम् ॥ 2.26 ॥
अन्वयः–विधिः धृतलाञ्छनगोमयाञ्चनम् आलेपनपाण्डरं विधुं विदर्भजानननीराजनवर्द्धमानकं भ्रमयति-
( इति ) उचितम् ॥ 2.26 ॥
सुषमाविषये परीक्षणे निखिलं पह्ममभाजि तन्मुखात् ॥
अनुनापि न भङ्गलक्षणं सलिलोन्मज्जनमुज्ज्ञति स्फुटम् ॥ 2.27 ॥
जीवातु–सुषमेति । सुषमा परमा शोभा सैव विषयः यस्मिन् परीक्षणे जलदिव्यशोवने कृते निखिलं पह्म’ जह्मजातं तन्मुखापादानात् भङ्गावधित्वादभावि अभ?ञ्जि स्वयमेव मग्नमभूदित्यर्थः, स्फटं, कर्त्तरि लुङ्, ‘भञ्जेश्च चिणी’ति वैभाषिको नकारलोपः । अतएवाधुनापि भङ्गलक्षणम्पराजयचिह्न’सलिलादुन्मज्जनं क्षणमपि नोज्ज्ञति न जहाति । जलदिव्योन्मज्जनस्य पराजयलिङ्गत्वमस्मरणादिति भावः । उन्मज्जनक्रियं भङ्गोत्प्रेक्षा ॥ 2.27 ॥
अन्वयः–सूषमाविषये परीक्षणे निखिलं पह्मं तन्मुखात् अभाजि, अधुना अपि भङ्गलक्षणं सलिलोन्मज्जनं न उज्ज्ञति स्फुटम् ॥ 2.27 ॥
धनुषी रतिपञ्चबाणयोरुदिते विश्वजयाय तद्भ्रु वौ ॥
नलिके न तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः ॥ 2.28 ॥
जीवातु-धनुषी इति । तद्भ्रु वौ विश्चजयायोदिते उत्पन्ने रतिपञ्चबाणयोर्धनुषी नूनमित्यादिव्यञ्जकाप्रयोगाद्गम्योगाद्गम्योत्प्रेक्षा, किञ्च तस्याः दमयन्त्याः उच्चनासिके उन्नतनासापुटे त्वयि नालीकानां द्रोणिचापशराणांविमुक्तिं कामयेते इति तथोक्तयोः तयोः ‘शीलिकामिभख्याचारिभ्यो ण’ इति णप्रत्ययः, ‘नालीकं पहृमखण्डे।द्यस्त्री नालीकः शरधल्ययोरि’ति विश्वः । नलिके न द्रोणिचापे न किमिति काकुः । पूर्ववदुत्प्रेक्षा ॥ 2.28 ॥
अन्वयः–तद्भ्रु वौ विश्वजयाय उदिते रतिपञ्चबाणयोः धनुषी, तदुच्चनासिके त्वयि नालीकविमुक्तिकामयोः नलिके न ( नु ) ॥ 2.28 ॥
सदृशी तव शुर ! सा परं जलदुर्गस्थमृणालजिद्भुजा ॥
अपि मित्रजुषां सरोरुहां गृहयालुः करलोलयो श्रियः ॥ 2.29 ॥
जीवातु–सटृशीति । हे शुर ! जलदुर्गस्थानि मृणालानि जयत इति तज्जितौ भुजौ, यस्याः सा
मित्रजुषामर्कसेविनां सुहृत्सलिलानाञ्च सहायकसम्पन्नानामपीत्यर्थः । ‘मित्रं सुहृदि मित्रोऽर्क’ इति विश्वः । सरोरुहां श्रियः शोभा सम्पदश्च ‘न लोके’त्यादिना षष्ठीप्रतिषेधः, करलीलया भुजविलासेन भुजव्यपारेण वलिग्रहणेन च ‘बलिहस्तांशवः कराः’ ‘लीलाविलासक्रियोरि’ति चामरः, गृहयालुः ग्रहीता गृह-ग्रहण इति धातोश्चौरादिकात् ‘स्पृहिगृही’ त्यादिना आलुच प्रत्ययः, ‘अयामन्ते’लीलाविलासक्रिययोरि’ति चामरः, गृहयालुः ग्रहीता गृह-प्रहण इति घातोश्चौरादिकात् ‘स्पृहिगृही’त्यादिना आलुच प्रत्ययः, ‘अयामन्ते’त्वादिना णेरयापदेशः । सा दमयन्तीतव परमत्यन्तं सटअशी अनुरूपेत्युपमालङ्कारः । शूरस्य शूरैव भार्या भवितुमर्हतीति भावः
॥ 2.29 ॥
अन्वयः–शूर, जलदुर्गस्थमृणालजिद्भुजा मित्रजुषाम् अपि सरोरुहां श्रियः करलीलया गृहयालुः सा परं तव सटृशी ॥ 2.29 ॥
वयसी शिशुतातदुत्तरे सुदृशि स्वाभिविर्धि विधित्सुनी ॥
विधिनापि न रोमरेखया कृतसीम्नी प्रविभज्य रत्यतः ॥ 2.30 ॥
जीवातु–वयसी इति । सुटृशि दमयन्त्यां स्वाभिविर्धि स्वव्याप्तिं विधित्सुनी विधातुमिच्छती अहमहमिकया स्वयमेवाक्रमितुमिच्छती इत्यर्थः शिशुतातदुत्तरे बाल्ययौवने वयसी विधिना सीमाभिज्ञेन रोमरेखया सीमाचिह्नेन प्रविभज्य रोमराजेः प्रागेव अत्र शैशवेन स्थातव्यन्ततः परं यौवनेनेति कालतो विभागं कृत्वा, कृतसीम्नी कृतमर्य्यादि अपि ‘विभाषा डिश्यो’ रित्यल्लोपः, न रज्यतः न सन्तुष्यतः । रम्यवस्तु दुस्तयजमिति भावः । एतेन वयःसन्धिरुक्तः । अत्र प्रस्तुतवयोविशेषसाम्यादप्रस्तुतविवादप्रतीतेः समासोक्तिरलङ्कारः ॥ 2.30 ॥
अन्वयः–सुटृशि स्वाभिविर्धि विधित्सुनी शिशुता तदुत्तरे वयसी विधिना रोमरेखया विभजृय कृतसीम्नी अपि न रज्यतः ॥ 2.30 ॥
अपि तद्वपुषि प्रसर्पतोर्गमिते कान्तिह्मरैरगाधताम् ॥
स्मरयौवनयोः खलु द्वयोः प्लवकुम्भौ भवतः कुचावुभौ ॥ 2.31 ॥
जीवात–सम्प्रति यौवनमेवाश्रित्या-अपीति । कान्तिज्ञरैर्लावण्यप्रवाहैरगातां दुरवगाहतां गमिते तद्वपुषि दमयन्तीशरीरे प्रसर्पतोस्तरतोः स्मरयौवनयोर्द्वयोरपि उभौ कुचौ प्लवस्योन्मज्जनस्य कुम्भौ प्लवनार्थं कुम्भावित्यर्थंः, प्रकृतिविकारभावाभावादश्वघासादिवत्तादर्थ्ये षष्ठीसमासः । लोके तरदभः स्मरयौवनप्लवनकुम्भतृवोत्प्रेक्षया तयोरौत्कट्यं कुचयोश्चातिवृद्धिज्यत इतृयलङ्कारेण वस्तुध्वनिः ॥ 2.31 ॥
अन्वयः–कान्तिह्मरैः अगाधतां गमिते तद्वपुषि प्रसर्पतोः स्मरयौवनयोः द्वयोः अपि उभौ कुचौ प्लवकुम्भौ भवतः ॥ 2.31 ॥
कलसे निजहेतुदण्डजः किमु चक्रभ्रमकारितागुणः ? ॥
स तदुञ्चकुचौ भवन् प्रभाह्मरचक्रभ्रममातनोति यत् ॥ 2.32 ॥
जीवातु–कलस इति । निजहेतुदण्डजः स्वनिमित्तकारणजन्यः चक्रभ्रम कारिता कुलालभाण्डभ्रमणजनकत्वं सैव गुणो धर्मो ख्यादिश्च, ‘गुणः प्रधाने रूपादावि’ त्यमरः । स । कलसे किमु ? दण्डकार्य्यं कलसे संक्रान्तः किमु ? इतृयर्थः, कुतः यद्यस्मात् स कलसः तस्या दमयन्त्या उच्चकुचौ भवन् तत्कुचात्मना परिणतः सन् प्रभाह्मरे लावण्यप्रवाहे चकभ्रमं चकवाकभ्रान्ति कुलालदण्डभ्रमणं चातनोति, ‘चक्रो गणे’ चक्रवाके चक्रं सैन्यरथाङ्गयोः । ग्रामजाले कुलालस्य भाण्डे राष्ट्रास्त्रयोरपि’ इत्युभयत्रापि विश्वः । अत्र ‘समवायिकारणगुणा रूपादयः कार्य्ये संक्रामन्ति न निमित्तगुणा’ इति तार्किकाणां समये स्थिते गुण इति चक्रभ्रम इति चोभयत्रापि वाच्यप्रतीयमानयोरभेदाध्यवसाय एव ‘स तदुच्चकुचौ भवन्नि’ति कुचकलसयोरभेदातिशयोक्तयुत्थापितह्मरचक्रभ्रमात्कक्रियानिमित्ता कुचात्मकन कलसे कार्ये चकभ्रमकारितालक्षणनिमित्तकारणगुणसंक्रमणलक्षणेनोत्प्रेक्षेति सङ्क्षेपः । तार्किकसमये विरोधात् विरोधाभावसोऽलङ्कार इति कैश्चिदुक्तम् तदेतदत्यन्ताश्रुतचरमलङ्कारपारटृश्वानः शृण्वन्तु ॥ 2.32 ॥
अन्वयः–निजहेतुदण्डजः चक्रभ्रमकारितागुणः कलसे किमु, यत् सः तदुच्चकुचौ भवन्
प्रमाकरचक्रभ्रमम् आतनोति ॥ 2.32 ॥
भजते खलु षण्मुखं शिखी चिकरैर्निर्मितबर्हगर्हणः ॥
अपि जम्भरिपु’ दमस्वसुर्जितकुम्भः कुचशोभयेभराट् ॥ 2.33 ॥
जीवातु–भजत इति । दमस्वसुर्दमयन्ताश्चिकरैर्निर्म्मितबर्हगर्हणः कृतपिच्छनिन्दः जितबहं इत्यर्थः । शिखी मयुरः षण्मुखं कार्तिकेयं भजते खलु, तया कुचशोभया जितकुम्भ इभरहैरावतोऽपि जम्भरिपुमिन्द्रं भजते । परपरिभूताः प्राणत्रायाण प्रबलमाश्रयन्त इति प्रसिद्धम् । अत्र शिर्ख्यरावतयोःषण्मुखजम्भारिभजनस्य जितबर्हत्वजितकुम्भत्वपदार्थहेतुकत्वात् तद्धेतुके काव्यलिगे तदमम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्श्चि
॥ 2.33 ॥
अन्वयः–दमस्सुः चिकुरैः निर्मितबर्हगर्हणः शिखी षण्मुखं, कुचशोभया जितकुम्भः इभराट् अपि जम्भरिपुं भजते खलु ॥ 2.33 ॥
उदरं नतमध्यपृष्ठतास्फुरदङ्गुष्ठपदेन मुष्टिना ॥
चतुरङ्गुलिम्धननिर्गतत्रिवलिभ्राजि कृतं दमस्वसुः ॥ 2.34 ॥
जीवातु–उदरमिति । दमस्वसुरुदरं नतमध्यं निम्नमध्यप्रदेशं पृष्ठं यस्योदरस्य तस्य भावस्तत्ता तया स्फुरत् टृढफलके पृष्टफलके स्फुटीभवदङ्गुष्ठपदमङ्गुष्ठन्यासस्थानं यस्य तेन मुष्टिना करणेन चतसृणामङ्गुलीनां समा हारश्चतुरङ्गुलि ‘तदद्धिते’त्यादिना समाहारे द्विगुरेकवचननपु सकत्वे । तस्यमध्येभ्योऽन्तरालेभ्यो निर्गतं तत्?ित्रवलि पूर्ववत् समासादिः कार्यः,यत्तूक्तं वामनेन ‘त्रिवलिशब्दः संज्ञा चेदि’ति सूत्रेण सप्तर्षय इत्यादिवत् ‘दिक्संख्ये संज्ञायामि’ति संज्ञायां द्विगुरिति । तदपि चेत्करणसामर्थ्यात् त्रिवलय इति बहुवचनप्रयोगदर्शने स्थितं गतिमात्रं न सार्वत्रिकमितिप्रतीमः । तेन भ्राजत इति तद्भ्राजि वलित्रयशोभि कृतमित्युत्प्रेक्षा, कौतुकिनेति शेषः । मुष्ठिग्राह्ममध्येयमित्यर्थः । मुष्टिग्रहणादङ्गंष्ठनोदनात्पुष्ठमध्ये नम्रता उदरे च चतुरङ्गुलिनोदनाद्वलित्रयाविर्भावश्चेत्युत्प्रेक्षते ॥ 2.34 ॥
?B अन्वयः–दमस्वसुः उदरं नतमव्यपृष्ठतास्फुरदङ्गुष्ठपदेन मुष्टिना चतुरङ्गुलम्धयनिर्गतत्रिवलिभा्रजि कृतम् ॥ 2.34 ॥
उदरं परिमाति मुष्टिना कुतुकी कोऽपि दमस्वसुः किमु ? ॥
धृततच्चतुरङ्गुलीव यद्वलिभिर्भाति सहेमकाञ्चिभिः ॥ 2.35 ॥
जीवातु–उदरमिति । को1़पि कुतुककी दमस्वसूरुदरं मुष्टिना परिमाति किमु ? परिच्छिनत्ति किमित्युत्प्रेक्षा, कुतः ? यद् यस्मात् सहेमका??ञ्चिभिर्वलिभिर्हेमकाञ्चया सह चतसृभिस्त्रिवलिभिरित्यर्थः । एतस्याः कनकसावर्ण्यं सूचितम् धृतं तस्य मातुश्चतुरङ्गुली अङ्गुलीचतुष्टयं येन तदिव भातीत्पुत्प्रे क्ष । अत्रोत्प्रेक्षयोर्हेतुहेतुमद्भूतयोरङ्गाङ्गिभावेन सजातीयः सङ्करः । पूर्वश्लोके वलीनां तिसृणां चतुरङ्.गुंलिमध्यनिर्गतत्वमुत्प्रेक्षितम् । इह तु तासामेव काञ्चीसहितानां चतुरङ्लित्वमुत्प्रेक्षत इति भेदः प्रेक्षितुरिति भावः ॥ 2.35 ॥
अन्वयः–कः अपि कुतुकी मुष्टिना दमस्वसुः उदरं परिमाति किमु यत् सहेमकाञ्चिभिः वलिमिः धृततच्छतुरङ्गुलि इव माति ? ॥ 2.35 ॥
पृथुवर्तुलतान्नितम्बकृन्मिहिरस्यन्दनशिल्पशिक्षया ॥
विधिरेककचक्रचारिणं किमु? निर्मित्सति मान्मथं रथम् ॥ 2.36 ॥
जीवातु–पृथ्विति । पुथु वर्त्तुलं च तस्याः नितम्बं करोतीति नितम्बकृन्नितम्बं कृतवान् विधिः ब्रह्मा मिहिरस्यन्दनशिल्पशिक्षया ?रविरथनिर्माणाभ्यासपाटवेन एककमेकाकि ‘एकादाकिनिच्चासहाये’ इति चकाररात् कप्रत्ययः । तेन चक्रेण चरतीति तच्चारिणं मान्मथं रथं निर्मित्सति किमु ? सूर्यस्येव मन्मथस्यापि एकचक्रं रथं निर्मातुमिच्छति किमु ? इत्युत्प्रेक्षा । अन्यथा किमर्थमिदं नितम्बनिर्माणमिति भावः । मातेः सन्नन्ताल्लट् । ‘सनि मीमे’ त्यादिना र्हसादेशः, ‘सस्यार्द्धधातुक’ इति सकारस्य तकारः, ‘अत्र लोपोऽभ्यासस्ये’ त्यभ्यासलोपः
॥ 2.36 ॥
अन्वयः–पृथुवर्त्तु लतान्नितम्बकृत् विधिः किमु मिहिरस्यन्दनशिल्पशिक्षया एककचक्रचारिणं मान्मथं रथं निर्मित्सति ? ॥ 2.36 ॥
तरुमूरुयुगेन सुन्दरी किमु रम्भां परिणाहिना परम् ॥
तरुणीमपि जिष्णुरेव तां धनदापत्यतपः फलस्तनीम् ॥ 2.37 ॥
जीवातु–तरुमिति । सून्दरी दमस्वसा परिणाहिना विपुलेन ऊरुयुगेन रम्भां रम्भां नाम तरु परन्तरुमेव ‘न लोके’ त्यादिना षष्ठीप्रतिषेधः । जिष्णुः किमु ? किन्तु धनदापत्यस्य नलकूबरस्य तपसः फललस्तनीं फलभूतकुचां तां रम्भान्नाम तरुणीमपि जिष्णुरेव । ‘रम्भाकदल्ययप्सरसोरि’‘ति विश्वः । रम्भे इव रम्भाया इव चोरू यस्याः सा इत्युभयथा रम्भोरुरित्यर्थः ॥ 2.37 ॥
अन्वयः–सुन्दरी परिणाहिना ऊरुयुगेन परं रम्भां तरु’ किमु धनदापत्यतपः फलस्तनीं तां तरुणीम् अपि जिष्णुः एव ॥ 2. 37 ॥
जलजे रविसे9वयेव ये पदमेतत्पदतामवापतुः ॥
ध्रुवमेत्य रुतः सहंसकीकुरुतस्ते विधिपत्रदम्पती ॥ 2.38 ॥
जीवातु–जलजे इति । ये जलजे द्विपह्मे रविसेवया सूर्योपासनयेव एतस्याः पदतां चरणत्वमेव पदम्प्रतिष्ठामवापतुः ते जलजे कर्मभूते विधिपत्रदम्पती द्वन्दचारिणो ब्रह्मवाहनहंसौ एत्यागजत्य रुतः रवात्कूजनादित्यर्थः । रौतेः सम्पदारित्वात् किवपि तुगागमः । महंसकी सपादकटकी सहंसकी च कुरुतः ‘अभूततदभावे च्विः’ । ‘हंसकः पादकटक’ इत्यमरः । हंसपक्षे वैभाषिकः कप्रत्ययः ध्रु व मित्युत्प्रे क्षाण्याम् । पह्महंसयोरविनाभावात् कयोश्चिद्दिव्यपह्मयोस्तत्पदत्वमुत्प्रेक्ष्य दिव्यहंसयोरेवे हंसकत्वञ्चोत्प्रे क्षते ॥ 2.38 ॥
अन्वयः–से जलजे रविसेवया इव एतत्पदतां पदम् अवापतुः ते विधिपत्रदम्यती एत्य रुतः ध्रु वं सहंसकीकुरुतः ॥ 2.38 ॥
श्रितपुण्यसरःसरित्कथं न समाधिक्षपिताखिलक्षपम् ॥
जलजं गतिमेतु मञ्जुलां दमयन्तीपदनाम्नि जन्मनि ॥ 2.39 ॥
जीवातु–श्रितेति । श्रिताः सेविताः पुण्याः सरःसरितः मानसादीनि सरांसि गङ्गाद्याः सरितश्च येन तत्समाधिना ध्यानेन निमीलनेन क्षपिताखिलक्षपं यापितसर्वरात्रं जलजं दमयन्तीपदमिति नाम यस्मिन् जन्मनि मञ्जुलाङ्गतिं रम्यगतिमुत्तमदशञ्च, ‘गतिर्मार्गे दशायां चे’ति विश्वः । कथं नैतु एत्वेवेत्यर्थः । पदस्य गतिसाधनत्वात्तत्रापि दमयन्तीसम्बन्धाच्चोभयगतिलाभः । तथापि जन्मान्तरेऽपि सर्वथा तपः फलितमिति भावः सम्भावनायां लोट् ॥ 2.39 ॥
अन्वयः–श्रितपुण्यसरःसरित् समाधिक्षपताखिलक्षपं जलजं दमयन्तीपद नाम्नि जन्मनि मञ्जु लां गतिं कथं न एतु ? ॥ 2.39 ॥
कर यह सौभाग्य मिला है । ऐसं ही उत्तमा गति प्राप्त होती है । ‘साहित्य विद्याधरी’ के अनुसार यहाँ समासोक्ति है और ‘चंद्रकलाख्या’ के अनुसारसमासोक्ति और अर्थापत्ति का अंगांगिभाव संकर॥2.39॥
सरसीः परिशीलितुं मया गमिकर्मीकृतनैकनीवृता ॥
अतिथित्‌वमनायि सा दृशोः सदसत्संशयगोकृतनैकचरोदरी ॥ 2.40 ॥
जीवातु–अथ कथं त्वमेनां वेत्सीत्यत आह-सरसीरिति । सरसीः सरांसि परिशीलतुं परिचेतु’ तत्र विहर्त्तुमित्यर्थः । चुरादिणेरनित्यत्वादण्यन्तप्रयोगः । गमिर्गमनं शब्दपरशब्देनार्थो गम्यते तस्य कर्मीकृताः कर्मकारकीकृताः नैके अनेके नञर्थस्य नशब्दस्य सुप्सुपेति समासः । नितरां वर्त्तन्ते जना येष्विति नीवृतः जनपदाः येन तेन क्रान्तानेकदेशेनेत्यर्थः । ‘नहिवृती’त्यादिना दीर्धः । मया सदसद्धेति संशयगोचरः सन्देहास्पदमुदरं यस्याः सा कृशोदरी त्यर्थः । ‘नासिकोदरे’ त्यादिना ङीप् । सा दमयन्ती टृशोरतिथित्वामनायि स्वविषयतां नीता टृष्टे त्यर्थः । नयतेः कर्मणि लुङ् ॥ 2.40 ॥
अन्वयः–सरसीः परिशीलितुं गमिकर्मीकृतनैकनीवृता मया सदसत्संशयगोचरोदरी सा टृशोः अतिथित्वम् अनायि ॥ 2.40 ॥
अवधृत्यु दिवोऽपि यौवतैर्न सहाधीतवतीमिमामहम् ॥
कतमस्तु विधातुराशये पतिरस्य वसमीत्यचिन्तयम् ॥ 2.41 ॥
जीवातु–अवधृत्येति । अहमिमान्दमयन्तीं दिवः स्वर्गस्य सम्बन्धिमियौवतैर्यु वतिसमूहैरपि ‘गार्भिणं योवनं गण’ इत्यमरः । भिक्षादित्वात्समूहार्थे अण्प्रत्सययः, तत्राप्यस्य युवतीति स्त्रीप्रत्यान्तस्यैव प्रकृतित्वेन तद्ग्रहणात् तत्सामर्थ्यादेव ‘भस्याढे तद्वित’ इति पुंवदभाव इति वृत्तिकारः । न सहाधीतवतीमसटृशीं ततोऽप्यधिकसुन्दरीमित्यर्थः । ‘नञर्थस्य न शब्दस्य सुप्सुपेति समास’इति वामनः । अवधृत्य निश्चित्य विधातुः ब्रह्मणः आशये हृदि अस्याः पतिः कतमो नु कतमो वा वसतीत्यचिन्तयम्, तदैवेति शेषः ॥ 2.41 ॥
अन्वयः–इमां दिवः यौवतैः अपि सह तु न अधीतवतीम् अवधृत्य विधातुः आशये अस्याः पतिः कतमः वसति-इति अहम् अचिन्तयम् ॥ 2.41 ॥
अनुरूपमिम निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम् ॥
युवसु व्यपनेतुक्षमस्त्वयि सिद्धान्तधियं न्यंवशयम् ॥ 2.42 ॥
जीवातु–अनुरूपमिति । यथेदानीमनुरूपं योग्यं त्वां निरूपयन् तस्याःपतितत्वेनालोचयन् सर्वेष्वपि युवसु पूर्वपक्षतां दूष्यकोटित्वं व्यपनेतुमक्षमः सनु त्वयि सिद्धान्तधियं न्यवेशयम् । त्वमेवास्याः पतिरिति निरचैषमित्यर्थः । अयमेव विधातुरप्याशय इति भावः ॥ 2.42 ॥
अन्वयः–इमम् अनुरूपं निरूपयन् अथ सर्वेषु अपि युवसुपूर्वपक्षतां व्यपनेतुम् अक्षः त्वयि सिद्धान्तधियं न्यवेशयम् ॥ 2.42 ॥
अनया तव रूपसीमया कृतसंस्कारविबोधनस्य मे ॥
चिरमप्यवलो?किताऽद्य सा स्मृतिमारूढती शुचिस्मिता ॥ 2.43 ॥
जीवातु–अथ त्वुद्रूपदर्शनमेव सम्प्रति तत्स्मारकमित्याह–अनयेति । चिरमवलोकिताऽपि सा शुचिस्मिता सुन्दरी अद्याधुना हस्तेन निर्दिशनह–अनया तव रूपसीमया सौन्दर्यकाष्ठया कृतसंस्कारविबोधनस्य उद्बुद्धसंस्कारस्य मे स्मृतिमारूढवती स्मृतिपथङ्गता, सट्शदर्शनं स्मारकमित्यर्थः ॥ 2.43 ॥
अन्वयः–अद्य अनया तव् रूपसीमया चिरम् अवलोकिता अपि सा शुचिस्मिता कृतसंस्कारविबोधनस्य मे स्मृतिम् आरूढवती ॥ 2.43 ॥
त्वयि वीर ! विराते परं दमयन्तीकिलर्किचितं किल ॥
तरुणीस्तन एव दीप्यते मणिहारवलिरामणीकम् ॥ 2.44 ॥
जीवातु–ततः किमत आह–त्वयीत्यादि । हे वीर ! दमयन्त्या किलकिञ्चितम्, ‘क्रोधाश्रुहर्षभीत्यादेः सङ्करः किलकिञ्चितमि’त्श्युक्तलक्षणक्षितशृङ्गारचेष्टितं त्वयि परन्त्व्य्येव विराजते किल शोभते खलु । तथाहि–मणिहारावलेर्मु क्ताहारपङ्क्तेः रामणीयकं रमणीयत्व ‘योपाधाद् गुरूपोत्तमाद् वुञ्’ । तरुणीस्तन एव दीप्यते, नान्यत्रेत्यर्थः । स्तनादीनां द्वित्वविशिष्टा जातिः प्राये णेति प्रायग्रहणादेकवचनप्रयोगाः । अत्र हारकिल?ञ्चितयोरुपमानोपमेययोर्वाक्यद्वये बिम्बप्रतिबिम्बतया स्तननृपयोः समानधर्मत्वोक्तेर्टृ ष्टान्तालङ्कार, लक्षणन्तुक्तम् ॥ 2.44 ॥
अन्वयः–वीर् दमयन्ती किल किञ्चितं परं त्वयि विराजते किल, मणि हारावलिरामणीयकं तरुणीस्तने एव दीप्यते ॥ 2.44 ॥
तव रूपमिदं तया विना विफलं पुष्पमिवावकेशिनः ॥
इत्यमृद्धधना वृथाऽवनी, स्ववनी सम्प्रवदत्पिकापि का ? ॥ 2.45 ॥
जीवातु–तवेति । हे वीर ! तवेदं रूपं सौन्दर्यं तया दमयन्त्या विना अवकेशिनो वन्ध्.यवृक्षस्य ‘पन्ध्योऽफलोऽवकेशी चे’त्यमरः । पुष्पमिव विफलं निरर्थकम्, ऋद्धधना सम्पूर्णवित्ता इयमवनी वृथा निरर्थिका । सम्प्रवदित्पकाकूजत्कोकिला स्ववनी निजोद्यानमपि ‘ङीप्’ का तुच्छा निरर्थिकेत्यर्थः । तद्योगे तु सर्व सफलमिति भावः । ‘कि वितर्के परिप्रश्ने क्षेप निन्दापराद्ययोरि’ति विश्वः । अत्र नलरूपावनीवनीनां दमयन्तया विना रम्बयतानिषेधाद्विनोक्तिरलङ्कारः । ‘विना सम्बन्धि यत्कि?ञ्चिदत्रान्यत्र परा भवेत् । रम्यताऽम्यता वा
स्यात् सा विनोक्तिरनुस्मृते’ति लक्षणात् । तस्याश्च पुष्पमिवेत्युपमया संसृष्टिः ॥ 2.45 ॥
अन्वयः–अवकेशिनः पुष्पम् इव तव इदं तया विना विफलम्, इयम् ऋद्धधना अवनी वृथा, सम्प्रवदत्पिका अपि स्ववनी का ? ॥ 2.45 ॥
अनयाऽरकाम्यमानया सह योगः सुलभस्तु न त्वया ॥
धनसंवृ?तयाऽम्बुदागमे कुमुदेनेव निशाकरत्विषा ॥ 2.46 ॥
जीवातु–अत्रान्यापेक्षां दर्शयितुं तस्या दौर्लभ्यमाह–अनयेति । अमरैरिन्द्रादिभिः काम्यमानयाऽभिलष्यमाणया दमयन्त्या सह योगः बम्बुदागमे धनसवृतया मेधावृतया निशाकरत्विषा सह योगः कुमुदेनेव त्वया न सुलभो दुर्लभ इत्यर्थः । अत्र तत्संयोगदौलैभ्यस्य अमरकामनापदार्थहेतुकत्वात् काव्यलिङ्गभेटः, तत्सापेक्षा चेयमुपमेति सङ्करः ॥ 2.46 ॥
अन्वयः–अमरकाम्पयमानया अनया सह योगः अम्बुदागमे धनसंवृतया शिशाकरत्विया कुमुदेन इव त्वया न सुलभः ॥ 2.46 ॥
तदहं विदधे तथा तथा दमयन्त्याः सविधे तव स्तवम् ॥
हृदये निहितस्तया भवानपि नेन्द्रेण यथाऽपनीयते ॥ 2.47 ॥
जीवातु–अत्र का गतिरित्याह-तदिति । तत्तस्मात्कार्यस्य सप्रतिबन्ध त्वादहं दमयन्त्याः सविधे समीपे तथा तथा तव स्तवं स्तोत्रं विदधे विधास्यइत्यर्थः, सामीप्ये वर्त्तमाने प्रत्ययः । यथा तया हृदये विहितो भवानिन्द्रेणापि नापनीयते नेतुमशक्य इत्यर्थः । यथेन्द्रादिप्रलोभिताऽपि त्वय्येव गाढानुरागा स्यात्तथा कररिष्यामीत्यर्थः ॥ 2.47 ॥
अन्वयः–तत् अहं दमयन्त्याः सविधे तथा तथा तव स्तवं विदधे यथ तया हृदये निहितः भवान् इन्द्रेण अपि न अपनीयते ॥ 2.47 ॥
तव सम्मतिमत्र केवलामधिगन्तु धिगिदं निवेदितम् ॥
ब्रु वते हि फलेन साधवो न तु कण्ठेन निजोपयोगिताम् ॥ 2.48 ॥
जीवातु–तर्हि तथैव क्रियतां किं निवेदनेनेत्यत आह तवेति । अत्रास्मिन् कार्ये केवलामेकां तव्? सम्मतिमङ्गीकारमधिगन्तुमिदं निवेदितं निवेदनं धिक् । तथा हि साधवो निजोपयोगितां स्वोपकारितृवं फलेन कार्येण ब्रुवते बोधयन्ति, किन्तु कण्ठेन वाग्वृत्त्वा न ब्रुवते । सामान्येनविशेषसमर्थनरूपोऽर्थान्तरन्यासः
॥ 2.48 ॥
अन्वयः–अत्र केवलां तव सम्मतिम् अधिगन्तुम् इदं निवेदितम् धिक्, हि साधवः निजोपयोगितां फलेन ब्रुवते न तु कण्ठेन ॥ 2.48 ॥
तदिदं विशदं वचोऽमृतं परिपीयाभ्युदितं द्विजाधिपात् ॥
अतितृप्ततया विनिर्ममे स तदुद्गारमिव स्मितं सितम् ॥ 2.49 ॥
जीवरतु–तदिति । स लनो द्विजाधिपात् हंसाच्चन्द्रच्चाभ्युदितमाविर्भू तं विशदं प्रसन्नमवदातञ्च तत् पूर्वोक्तमिदमनुभूयमानं वच एवामृतमिति रूपकं तत्परिपीय अत एव अतितृप्ततया अतिसौहित्येन तस्य वचोऽमृतस्य उद्गारमिव सितं स्मितं विनिर्ममे निर्मितवान् । माडः कर्तरि लिट् । अतितृप्तस्य किञ्चिन्निःसार उद्गारः । सितत्वसाम्यात् स्मितस्य वागमृतोद्गारोत्प्रेक्षा ॥ 2.49 ॥
अन्वयः–द्विजाधिपात् अम्युदितं विशदं तत् इदं वचोमृतं परिणीय सः अतितृप्ततया तदुद्गारम् इव सितं स्मितं विनिर्ममे ॥ 2.49 ॥
परिमृज्य भुजाग्रजन्मना पतगङ्गोकनदेन नैषधः ॥
मृदु तस्य मुदेऽगिरद् गिरः प्रियवादामृतकूपकण्ठजाः ॥ 2.50 ॥
जीवातु–परिमृज्येति । निषधानां राजा नैषधः नलः ‘जनपदशब्दात् क्षत्रियादञ्’ । भुजाग्रजन्मना कोकनदेन पाणिशोणपङ्कजेनेत्यर्थः । पतगं हंसं परिमृज्य तस्य हंसस्य तथा मुदे हर्षाय प्रियवादानामेवामृतानां कूपः निधिः कण्ठो वागिन्द्रियं तज्जन्याः गिरः मृदु यथा तथा अगिरत्
प्रियवाक्यामृतैरसिञ्चदित्यर्थः । अत्र भुजाग्रजन्मना कोकनदेनेति विषयस्य पाणेर्निगरणेन विषयिणः कोकनदस्यैवोपनिबन्धात् अतिशयोक्तिः, ’ विषयस्यनुपादनाद्विषय्युपनिबध्यते । यत्र साशियोक्तिः स्यात्कविप्रौढोक्तिसम्मता ॥’ इति लक्षणात् । साच पाणिकोकनदयोरभेदोक्तिः अभेदरूपा तस्याः प्रियवादामृतकूपकण्ठेति रूपक संसृष्टिः ॥ 2.50 ॥
अन्वयः–नैषधः भ्रुजाग्रजन्मना कोकनदेन पतगं परिमृज्य तस्य मुदे प्रियवादमृतकूपकण्ठजाः गिरः मृदु अगिरत् ॥ 2.50 ॥
न तुलाविषये तवाकृतिनर्प वचो वतर्‌मनि ते सुशीलता ॥
त्वदुदाहरणाकृतौ गुणा इति सामुद्रिकसारमुद्रणा ॥ 2.51 ॥
जीवातु–न तुलेति । हे हंस ! तव आकृतिः आकरः तुलाविपये साटृश्यभूमौ न वर्त्तते असटृशीत्यर्थः । ते तव सुशील्यं वचो वत्र्मनि न वर्त्तते वक्तुमशक्येत्यर्थः । अत एवाकृतौ गुणाः ‘यत्राकृतिस्तत्र गुणा’ इति सामुद्रिकाणां या सामुद्रणा सिद्धाप्रतिपादनं सा त्वमेवोदाहरणं यस्याः सा तथोक्ता या सामुद्रणा सिद्धाप्रतिपादनं सा त्वमेवोदाहरणं यस्याः सा तथोक्या आकृतिसौशील्ययोः त्वय्येव सामानाधिकरण्यदर्शनादित्यर्थः । अत एवोत्तरवाक्यार्थस्य पूर्ववाक्यार्थहंतुकत्वात् काव्यलिङ्गमलङ्कारः ‘हेतोर्वाक्यार्थहेतुत्वे काव्यलिङ्गमुदाहृतमि’ति लक्षणात् ॥ 2.41 ॥
अन्वयः–तव आकृतिः तुलाविषये न, ते सुशीलता वचो वर्त्मनि न, आकृतौ गुणाः-इति सामुद्रिकसारमुद्रणा त्वदुदाहरणा ॥ 2.41 ॥
न सुवर्णमयी तनुः परं ननु किं वागपि तावमी तथा ॥
न परं पिथ पक्षपातिताऽन्वलम्बे किमु मादृशेऽपि सा ॥ 2.52 ॥
जीवातु–न सुवर्णेति । ननु हे हंस ! तवेयं तावकी ‘युष्मददस्मदोरन्यतरस्यां खञ् चे’ति चकारादणु प्रत्यये ङीष् ‘वममकावेकवचने’ इति तवकादेशः । तनुः परं मूर्तिरेव सुवर्णमयी हिरण्मयी न किन्तु वागपि तथा सुवर्णमयी शोभनाक्षरमयीत्यर्थः । अनवलम्बे निरवलम्बे पथि परमाकाश एव पक्षपातिता पक्षपातित्वं किमु कि वेत्यर्थः । निपातानामनेकार्थत्वात् । अनवलम्बे निराधारे माटृशेऽपि सा पक्षातिता स्नेहवत्तेत्यर्थः । अत्र तनुवाचोः प्रकृताप्रकृतयोः सुवर्णमयीति शब्दश्लेषः एवं पथि माटृशोऽपि पक्षपातितेति सजातीयसंसृष्टिः, तया चोपमा व्यज्यते ॥ 2.52 ॥
अन्वयः–ननु तावकी इयं तनुः परं सुवर्णमयी न किं वाक् अपि तथाअनवलम्बे पथि परं पक्षपातिता न, किं वाक् अपि तथा अनवम्बे पथि परं पक्षपातिता न, माटृशे अपि सा किमु ? ॥ 2.52 ॥
भृशतापभृता मया भवान्मरुदासादि तुषारसावान् ॥
धनिनमितरः सतां पुनर्गु णवत्सन्निधिरेव सन्निधिः ॥ 2.53 ॥
जीवातु–भृशेति । भृशतापभृता अतिसन्तापभाजा मया भवांस्तुषारैः शीकरैः सारवानुत्कृष्टौ मरुत् मारुतः सन् आसादि सन्तापहरत्वादिति भावः । तथा हि-धनिनां धनिकानां कुबेरादीनामितरः पह्मशङखादिः संश्चासौ निधिश्चेति सन्निधिः, सतां विदुषां पुनः गुणवतां सन्निधिः सान्निव्यमेव सन्निधिः महानिधिः । सन्तापहारित्वात् त्वमेव शिशिरमारुतः, अन्यतस्तु दहन एवेति भावः । टृष्टान्तालङ्कारः लक्षणं तूक्तम्
॥ 2.53 ॥
अन्वयः–भृशतापभृता मया तुषारसारवान् मरुत् भवान् आसादि, धनिनां सन्निधिः इतरः पुनः सतां गुणवासन्निधिः एव ॥ 2.53 ॥
शतशः श्रु? तिमागतैव सा त्रिजगन्मोहमहौषधिर्मम ॥
अधुना तव शंसितेन तु स्वदृशैवाधिगतामवैमि ताम् ॥ 2.54 ॥
जीवातु–शतश इति । त्रिजगतः त्रैलोक्यस्य मोहे सम्मोहने महौषधिः सहौषधमिति रूपकम् । सा दमयन्ती शतशो मम श्रुति श्रोत्रमागतैव अधुना तव शंसितेन कथनेन तु स्वटृशा मम टृष्टर्य वाधिगतां टृष्टामवै?मि साक्षाद् टृष्टां मन्ये । आप्तोक्तिप्रामाण्यादिति भावः ॥ 2.54 ॥
अखिलं विदुषामनाविलं सुहृदा च स्वहृदा च पश्यताम् ॥
सविधेऽपि न सूक्ष्मसाक्षिणी वदनालङ्कृतिमात्रक्षिणी ॥ 2.55 ॥
जीवातु–अथ स्वदृष्टेरप्याप्तदृष्टिरेव गरीयसीत्याह-अखिलमिति । सुहृदा आप्तमुखेन स्वहृदा स्वान्तःकरणेन च सुहृद् ग्रहणं तद्वत्सुहृदः श्रद्धेयत्वज्ञापनार्थमखिलं कृत्नमर्थमनाविलमसन्दिग्धम् अविपर्यस्तं यथा तथा पश्यता मवधारयतां विदुषां विवेकिनां सविधे पुरो1़पि न सूक्ष्मसाक्षिणी असुक्ष्मार्थदर्शिनी ‘सुप्सुपे’ति समासः । अक्षिणी वदनालङ्कृतिमात्रं न तु दरसुक्ष्मार्थदर्शनोपयोगिनीनीत्यर्थः ॥ 2.55 ॥
अन्वयः–सुहृदा स्वहृदा च अखिलम् अनाविलिम् पश्यतां विदुषां सविधे अपि न सूक्ष्मसाक्षिणीं अक्षिणी वदनालंकृतिमात्रम् ॥ 2.55 ॥
अमितं मधु तत्कथा मम श्रवणप्राधुणकीकृता जनैः ॥
मदनानलबोधनेऽभवत् खग धाय्या धिगधैर्यधारिणः ॥ 2.56 ॥
जीवातु–अमितमिति । हे खग ! जनैः विदर्भागतजनैः मम श्रवणप्राधुणकीकृता कर्णातिथीकृता तद्विषयीकृतेत्यर्थः । ‘आवेशिकः प्राघुणक आगन्तुरतिथिस्तथे’ति हलायुधः । अमितमपरिमितं मधु क्षौद्रं तद्वदतिमधुरेत्यर्थः । तत्कथा तदृगंणवर्णना अधैर्यधारिणोत्यन्ताधी?रस्य मम मदनानलबोधने मदनाग्निप्रज्वलने धाय्या सामिधेनी भवेत् ‘ऋक् सामिधेनी धाय्या च या स्यादग्निसमिन्धने’ इत्यमरः । ‘पाय्यात्मना प्रकृतमदनाग्नीन्धनोपयोगात् परिणामालङ्कारः, ‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम’ हत्यलङकारसर्वस्वकारः ॥ 2.56 ॥
अन्वयः–खग, जनैः मम श्रवणप्राघुणिकीकृता अ?मितं मधु तत्कथा अधैर्यधारिणः मम मदनानलबोधने धाय्या अभवत्-( इति ?) धिक् ॥ 2.56 ॥
विषपमो मलयाहिमण्डलीविषफूत्कारमयो मयोहितः ॥
बत कालकलत्रदिग्भवः पवनस्तद्विहानलैधसा ॥ 2.57 ॥
जीवातु–विषम इति । विषमः प्रतिकूलः कालकलत्रदिग्भवः यमदिग्भवः प्राणहर इति भावः, पवनो दक्षिणमारुतः तद्विरहानलैधसा दमयन्तीविरहाग्निसमिधा तद्दाह्मेनेत्यर्थः । मया मलये मलयाचले या अहिमण्डली सर्पसङ्घः तस्याः विषफूकारमय ऊहितस्तद्रुप इति तर्कित इत्यर्थः । लोके च ‘अग्निरेघांसि फुत्कारवार्तध्मायत’ इति भावः । बतेति खेदे । विरहानलैधसेतिख्पकोत्थापितेयं दक्षिणपवनस्य मलयाहिमण्डलीफुत्कारत्वोक्षेति संकरः ॥ 2.57 ॥
अन्वयः–काललत्रदिग्भवः विषमः पवनः तद्विरहालौधसा मया मलयाहिमण्डली विषफत्कारमयः ऊहिता बजत ! ॥ 2.57 ॥
प्रतिमासमसौ निशाकरः खग ! सङ्गच्छति यद्दिनाधिपम् ॥
किमु तीव्रतर्रस्ततः करैर्मम दाहाय स धैर्यतस्करैः ? ॥ 2.58 ॥
जीवातु–प्रतिमासमिति । असौ निशाकरो मासि मासि प्रतिमासमासम्प्रतिदर्शमितृयर्थः । वीप्सायामव्ययीभावः । दिनाधिपं सूर्य सङ्गच्छति प्राप्नोतीति यत्ततः प्राप्ते, स निशाकरः तीव्रतररत एव धैर्यतस्करैर्मम धैर्यहारिभिः करै सौरैः तत आनीतैः मम दाहाय सङ्गच्छतीत्यनुषङ्गः, किमुशब्द उत्प्रेक्षायाम् । अत्र सङ्गमनस्य दाहार्थत्वोत्प्रे क्षणात् फलोत्प्रे क्षा ॥ 2.58 ॥
अन्वयः–खग, असौ निशाकरः प्रतिमासं यत् दिनाधिपं सङ्गच्छति किमु ततः सः तीव्रतरैः धैर्यतस्करैः करैः मम दाहाय ? ॥ 2.58 ॥
कुसुमानि यदि स्मरेषवो न तु वज्र्?ं विषवल्लिजानि तत् ॥
हृदयं यदमूमुहन्नमूर्मम यच्चातितमामतीतपन् ॥ 2.59 ॥
जीवातु–कुसुमानीति । स्मरेषवः कुसुमान्येव यदि न तु वज्रमशनिः सद्योमरणाभावादिति भावः । तत्तथा अस्तु किनतु विषवल्लिजानि विषलतोत्पन्नानि । यद्यस्?मादमूः स्मरेषवः ‘पत्री रोप इषुर्द्वयोरि’ति स्त्रीलिङ्गता, मम हृदयममूमुहन अमुर्च्छयन् मुह्मतेणौं चङ्, यद्यस्मादतितमामतिमात्रमव्ययादाम्प्रत्ययः ।
अतीतपन् तापयन्तिस्म, तपतेर्णौ चङ् मोहतापलक्षणविषमकार्यदर्शनाद्विषवल्लिजत्वोत्प्रेक्षा ॥ 2.59 ॥
अन्वयः–स्मरेषवः कुसुमानि यदि न वज्रं तु तत् विषवल्लिजानि ( अथवा यदि स्मरेषवः विषवल्लिजानि कुसुमानि न तु तत् वज्रम् ), यत् मम हृदयम् धमूमहन् यत् च अतितमाम् अतीतपन्॥2.59॥
तदिहानवधौ निमज्जतो मम कन्दर्पशराधिनीरधौ ॥
भव पोत इवावलम्बनं विधिनाऽकस्मिसृष्टसन्निधिः ॥ 2.60 ॥
जीवातु–तदिति । तत्तस्मादिहास्मिन्ननवधौ अपारे कन्दर्पशरैर्य आधि र्मनोव्यथा ‘पुंस्याधिर्मानसी व्यथे’त्यमरः । तस्मिन्नेव नीरधो सुमुद्रे निमज्जते अन्तर्गतस्य मम विधिना दैवेनाकस्मादकाण्डे भवमाकस्मिकमध्यात्मादित्वात् ठक्, अव्ययानाभमात्रे टिलोपेः तद्यथा मृष्टसन्निधिः सन्निधानं भाग्यादात इत्यर्थः । त्वं पोतो यानपात्रमिव ‘यानपात्रन्तु पोत’ इत्यमरः । अवलम्बनं भव ॥ 2.60 ॥
अन्वयः–तत् इह अन्वधौ कन्दर्पशराधिनीरधौ निमज्जतः मम विधि आकस्मिकसृष्टसन्निधिः पोत इव अवलम्बनं भव ॥ 2.60 ॥
अथवा भवतः प्रवर्त्तना न कथं पिष्टमियं पिनष्टि नः ? ॥
स्वत एव सतां परार्थता ग्रहणानां हि यथा यथार्थता ॥ 2.61 ॥
जीवातु–अथवेति । अथवा इयं नोऽस्माकं सम्बन्धिनी ‘उभयप्राप्तौ कर्मणी’ति नियमात् कर्त्तरि कृद्योगे षष्ठीनिषेधेऽपि शेषषष्ठीपर्यवसानात् कर्वर्थलाभः । भवतः ‘उभयप्राप्तौ कर्मणी’ति षष्ठी, प्रवर्त्तन प्रेरणा ‘ण्यासश्रन्थो युच्’; कथं पिष्टं न पिनाष्टि ? स्वतः प्रवृत्तिविषयत्वात् पिष्टपेषणकल्पेत्यर्थः । हि यस्माद् ग्रहणानां ज्ञानाना यथार्थता याथार्थ्य यथा प्रामाण्यमिव स्वतः सर्वप्रमाणानां प्रामाण्यमिव ‘गृह्मतां जाता मनीषा स्वत एव मानमि’ति मीमांसका । सतां परार्थता पराथप्रवृत्तिः स्वत एव न तु परतः । उपमांसृष्टोऽर्थान्तरन्या
॥ 2.61 ॥
अन्वयः–अथवा नः इयं भवतः प्रवर्त्तना कथं पिष्टं न पिनष्टि, हि यथा ग्रहणानां यथार्थता स्वतः एव0 ( तथा ) सतां परार्थता ( अपि स्वतः एव ) ॥ 2.61 ॥
तव वर्त्मनि वर्त्ततां शिवं पुनरस्तु त्वरितं समागमः ॥
अपि साधय साधयेप्सितं स्मरणीया समये वयं वयः ॥ 2.62 ॥
जीवातु–तवेति । हे वयः ! तव वर्त्मनि शिवं मङ्गलं वर्त्ततां, त्वरितं क्षिप्रमेव पुनः समागमोऽस्तु अपि साध्य गच्छ, र्हप्सितमष्टिं साधय सम्पादय समये कार्यकाले वयं स्मरणीयाः । अनन्यगामि कार्थ कुर्या इत्यर्क्थः ॥ 2.62 ॥
अन्वयः–तव वर्त्मति शिवं वर्तताम्, त्वरितं पुनः समागमः अस्तु, अपि साधय, र्हप्सितं साध्य, वयः, समये वयं स्मरणीयाः ॥ 2.62 ॥
इति तं स विसृज्य धैय्र्यवान्नृपतिः सूनृतवाग्बुहस्पतिः ॥
अविशद्वनवैश्म विस्मितः शृतिलग्नैः कलहंसशंसितैः ॥ 2.63 ॥
जीवातु–इतीति । धैर्यवानुपायलाभात् सर्धर्यम्? सूनृतवाक् सत्यप्रियवादिषु बृहस्पतिः तथा प्रगल्भ इत्यर्थः । ‘सूनृतं च प्रिये सत्यमि’त्यमरः । स नृपतिरितीत्थं हंसं विसृज्य श्रुतिलग्नैः श्रीत्रप्रविष्टैः कलहंसस्य शंसितैर्विस्मितः सन् वनवेश्म भोगगृहमविशत् ॥ 2.63 ॥
अन्वयः–धैर्यवान् सूनृतवाग्बृहस्पतिः सः नृपतिः इति तं विसृज्य श्रुतिल्ग्नैः कलहंसशंसितैः विस्मितः वनवेश्म अविशत् ॥ 2.63 ॥
अथ भीमसुतावलोकनैः सफलं कर्त्तु महस्तदेव सः ॥
क्षितिमण्डलमण्डनायितं नगरं कुण्डिनमण्डजो ययौ ॥ 2.64 ॥
जीवातु–अथेति । अथ सोऽण्डजो हंसः तदहरेव भीमसुतायाः भैम्याअवलोकनैः सफलं कर्तुं तस्मिन्नेव दिने तां द्रष्टुमित्यर्थः । क्षितिमण्डलस्यमण्डनायितमलंकारभूतं कुण्डिनं कुण्डिनाख्यनगरं ययौ ॥ 2.64 ॥
अन्वयः–अथ सः अण्डजः तत् अहः एव भीमसुतावलोकनैः सफलं कर्त्तु क्षितिमण्डलमण्डनायितं
कुण्डिनं नगरं ययौ ॥ 2.64 ॥
प्रथमं पथि लोचनातिर्थि पथिकप्रार्थितसिद्धिशंसिनम् ॥
कलसं जलसंभृतः पुरः कलहंसः कलयाम्बभूव सः ॥ 2.65 ॥
जीवातु–अथ श्लोकत्रयेण शुभनिमित्तान्याह-प्रथममित्यादिना । सः कल हंस प्रथममादौ पथि मार्गे लोचनातिर्थि टृष्टिप्रियं पथिकानां प्रसथतॄणां प्रार्थतस्य इष्टार्थस्य सिद्धिशंसिनं सिद्धिसूचकं जलसम्मभृतं जलसं पूर्णकुम्भं पुरोऽग्रे कलयांबभूव ददर्श ॥ 2.65 ॥
अन्वयः–सः कलहंसः प्रथमं पथि पथिकप्रार्थितसिद्धिशंसिनं जलसम्भृतं कलसं पुरः लोचनातिर्थि कलयाम्बभूव ॥ 2.66 ॥
अवलम्बय दिदृक्षयाऽम्बरे क्षणमाश्चर्य्यरसालसं गतम् ॥
स विलासवनेऽवनीभृतः फलमैक्षिष्ट रसालसंगतम् ॥ 2.66 ॥
जीवातु–अवलम्बयेति । स हंसो दिवृक्षया स्वगन्तव्यर्मालोकनेच्छया अम्बरे द्वक्षणमाश्चर्यरसेन तद्वस्तुदर्शनिमित्तेन अद्भुतरसेन अलसं मन्दं गतं गतिमवलम्ब्य अवनीभुजो नलस्य विनासवने विहारवने रसालेन चूतवृक्षेण सङ्गतं सम्बद्धम्, ‘आभ्रश्चूतो रसालोऽसा’ वित्यमरः, फलमैक्षिष्ट द्ष्टवान् ॥ 2.66 ॥
अन्वयः–सः दिटृक्षया अम्बरे क्षणम् आश्चर्यरसालसं गतम् अवलम्बयब अवनीभुजो विलासवने रसालसङ्गतं फलम् ऐक्षिष्ट ॥ 2.66 ॥
नभसः कलभैरुपासितं जलदैर्भूरितरक्षुपन्नगम् ॥
स ददर्श पतङ्गपुङ्गवो विटपच्छन्नतरक्षुपन्तगम् ॥ 2.67 ॥
जीवातु–नभस इति । पुमान् गौः वृषभः विशेषणसमासः, ‘गोरतद्धितलुगि’ति समासान्तष्टच् स इव पतङ्गपुङ्गवः पक्षिश्रेष्ठ उपमिसमासः, नभसः कलभैः खेचरकरिकल्पैरित्यर्थः । जलदैरुपासितं व्याप्तं भूरयः बहवस्तरक्षवो मृगादनाःपन्नगा यस्य तं विटपैः शाखाविस्तारेण, ‘विस्तारो विटपोऽस्त्रियामि’त्यमरः छन्नतराः अतिशयेन छादिताः क्षुपा ह्रस्वाशाखाः, ‘ह्रस्वशाखाशिफः क्षुप’ इत्यमरः । नगं पर्वतं ददर्श ‘पुर्वणुम्भादिदर्शनं पान्थक्षेमकरमि’ति निमित्तज्ञाः ॥ 2.67 ॥
अन्वयः–सः पतङ्गपुङ्गवः कलभैः उलदैः उपासितं भूरितक्षुपं विटपच्छन्नतरक्षुपन्नगं नगं ददर्श
॥ 2.67 ॥
स ययौ धुतपक्षतिः क्षणं क्षणमूर्ध्वायनदुर्विभावनः ॥
विततीकृतनिश्चलच्छदःक्षणमालोककदत्तकौतुकः ॥ 2.68 ॥
जीवातु- स इति । स हंसःक्षणं धुतपक्षतिः कम्पितपक्षमूलःक्षणम् ऊर्ध्वायनने ऊध्र्वगमनेन दुर्विभावनो दुष्करावधारणो दुर्लक्ष इत्यर्थः । पिततीकृतौ विस्तारीकृतौ निश्चलौ निश्चलौ छदौ पक्षौ यस्य सः,तथा क्षणमालोककानां द्रष्टॄणां दत्तकौतुकः सन् ययौ ! स्वभावोक्तिः ॥ 2.68 ॥
अन्वयः–सः क्षणं धुतपक्षतिः क्षणम् ऊर्ध्वायनदुर्विभावनः क्षणं विततीकृतनिचलच्छदः आलोककदत्तकौतुकः सन् ययौ ॥ 2.68 ॥
तनुदीधितिधारया रयाद्गतया लोकविलोकनामसौ ॥
छदहेम कषन्निवालसत् कषपाषणनिभे नभस्तले ॥ 2.69 ॥
जीवातु–तन्विति । असौ हंसो रयाद्धेतोः उत्पन्नयेति शेषः ॥ लोकस्यआलोकिजनस्सय परीक्षकजनस्य च विलोकनां दर्शनं गतया कौतुकाद्वर्णरीक्षां च विलोक्यमानयेत्यर्थः । तनोः शरीरस्य तन्वा सूक्ष्मया च दीधितिघारया रश्मिरेखया निमित्तेन कषपाषणनिभे निकषोपलसन्निभे नभस्तले छदहेम निजपक्षसुवर्ण कषन् धर्षन्निवालसात् अशोभतेत्युत्प्रेक्षा ॥ 2.69 ॥
अन्वयः–असौ रयात् लोकविलोकनां गतया तनुदीधितिधारया कषपाषाणनिभे नभस्तले छदहेम कषन् इव अलसत् ॥ 2.69 ॥

विनमदिभरधः स्थितैःखगैर्ह्मटिति श्येननिपातशङ्किभिः ॥
न निरक्षि दृशैकयोपरि स्यदसांकारिपतत्रिपद्धतिः ॥ 2.70 ॥
जीवातु–विनमदिभरिति । स्यदेन वेगेन सांकारिणी सामिति शब्दं कुर्वाणा पतत्रिपद्धतिः पक्षसरणिर्यस्य सह हंसः श्येननिपातं शङ्क इति तच्छङ्किभिः अत एव विनमदिभलीयमानैरधः स्थितैः ह्मटिति द्राक् एकया टृशा उपरि निरैक्षि निरीक्षितः । कर्मणि लुङ् । स्वभावोक्तिः ॥ 2.70 ॥
अन्वयः–स्यदसाङ्कारिपतत्रिपद्धतिः सः श्येननिपातशङ्किभिः विनमदिभः अधः स्थितैः खगैः ह्मटिति एकया टृश उपरि निरैक्षि ॥ 2.70 ॥
ददृशे न जनेन यन्नसौ भुवि तच्छायमवेक्ष्य तत्क्षणात् ॥
दिवि दिक्षु वितीर्णचक्षुषा पूथुवेगद्रुतमुक्तदृक्पथः ॥ 2.71 ॥
जीवातु–ददृश इति । यन् गच्छन्, इणो लटः शात्रादेशः असौ हंसः भुवि तच्छायं तस्य हंसस्य च्छायां ‘विभाषा सेने’त्यादिना नपुंसकत्वम् । अवेक्ष्य तत् क्षणात् प्रथमं दिशि पश्चात् दिक्षु च वितीर्णवक्षुषा दत्तटृपथमतिक्रान्त इत्यर्थः ॥ 2.71 ॥
अन्वयः– भुवि तच्छयम् अवेक्ष्य तत्क्षणात् दिवि दिक्षु च वितीर्णचक्षुषा जनेन पृथुवेगद्रुतमुक्तदृक्पथः असौ यन् न दटृशे ॥ 2.71 ॥
न वनं पथि शिश्रियेऽमुना क्वचिदप्युच्चतरद्रु चारुतम् ॥
न सगोत्रजमन्ववादि वा गतिवेग्रपसरद्रु चा रुतम् ॥ 2.72 ॥
जीवातु–नेति । गतिवेगेन प्रसरद्रुचा प्रसर्पत्तेजसा अमुना हंसेन क्वचिदपि उच्चतराणामत्युन्नतानां द्रुमाणां चारुता रम्यता यर्स्मिस्तत् वनं न शिश्रिये । सगोत्रजं बन्धुजन्यं रुतं कूजितं वा नान्ववादि नानूदितम् । मध्यमार्गे अध्वश्रमापनोदनं बन्धुसमृभाषणादिकमपि न कृतमिति सुहृत्कार्यानुसन्धान परोक्तिः ‘पलाशो द्रुद्रुमागमा’ इत्त्यमरः ॥ 2.72 ॥
अन्वयः–गतिवेप्रगरद्रचा अमुना पथि क्वचित्, अपि उच्चतरद्रुचारुतं वनं न शिश्रिये सगोत्रजं रुतं वा न अन्ववादि ॥ 2.72 ॥
अथ भीमभुजेन पालिता नगरी मञ्जुरसौ धराजिता ॥
पतगस्य जगाम दृक्पथं हरशैलोपमसयौधराजिता ॥ 2.73 ॥
जीवातु–अथेति । धराजिता भुमिजयिना ‘सत्सूद्विषे’त्यादिना क्विपि तुक् भीमस्य भीमभूपस्य भुजेन पालिता हिमशैलोपमैः सौधैः राजिता मञ्चु र्मनोज्ञा असौ पूर्वोक्ता नगरी कुण्डिनपुरी पतगस्य हंसस्य टृक्पथं जगाम, स तां ददर्शेत्यर्थः । अत्र यमकाख्यानुप्रासस्य हिमशैलोपमेति, उपमायाश्च संमृष्टिः ॥ 2.73 ॥
अन्वयः–अथ धराजिता भीमभुजेन पालिता हरशैलोपमसौधराजिता मञ्जुः असौ नगरी पतगस्य टृक्पथं जगाम ॥ 2.73 ॥
दयितं प्रति यत्र सन्ततं रतिहासा इव रेजिरे भुवः ॥
स्फटिकोपलविग्रहा गृहाःशाभृदिभतृतनिरङ्कभित्तयः ॥ 2.74 ॥
जीवातु–तां वर्णयति-दयितमिति । यत्र नगर्या स्फटिकोपलविग्रहाःस्फटिकमयशरीरा इत्यर्थः । अत एव शशभृदिभत्तनिरङ्कभित्तयः शशाङ्कशकलनिष्कलङ्कानि कुडचानि येषान्ते’भित्तंशकलखण्डे वे’त्यमरः, भिदेः क्विप्प्रत्ययः । ‘भित्तं शकलामि’त्यादि निपातनात् ‘रदाभ्यामि’त्यादिना निष्ठानत्वाभावः । गृहाः दयितं भीमं प्रति सन्ततं भुवः भूमेर्नायिकायाः रतिहासाःकेलिहासा इव रेजिरे इत्युतृप्रेक्षा ॥ 2.74 ॥
अन्वयः–यत्र स्फटिकोपलविग्रहाः शशभृद्.भित्तनिरङ्कभित्तयः गृहाः दयितं प्रति सन्ततं भुवः रतिहासाः इव रेजिरे ॥ 2.74 ॥
नृपनीलमणीगृहत्विषामुपधेयत्र भयेन भास्वतः ॥
शरणाप्तमुवास वासरेऽप्यसदावृत्त्युदयत्तमं तमः ॥ 2.75 ॥
जीवातु–नृपेति । यत्र नगर्यां तमोन्धकारः भास्वतो भास्करात् भयेन नृपस्य ये नीलमणीनां गृहाः तेषां
त्विषः तासामुपधेश्छलादित्त्यपह्नवभेदः । ‘रत्नं मणिर्द्वयोरि’त्यमरः । ‘कृदिकारादक्तिनः’ इति ङीष् । शरणाप्त’ शरणं गृहं रक्षितारमन्वागतं ‘शरणं गृहरक्षित्रोरि’त्यमरः । वासरे दिवसेऽप्यसदावृत्ति अपुनरावृत्ति किञ्चोदयत्तममुद्यत्तमं सदुवास ॥ 2.75 ॥
अन्वयः–यत्र भास्वतः भ्सयेन नृपनीलमणीगृहत्विषाम् उपक्षेः शरणाप्तं तमः वासरे अपि असदावृत्ति उदयत्तमम् उवास ॥ 2.75 ॥
सितदीप्रमणिप्रकल्पिते यदगारे हसदङ्करोदसि ॥
निखिलान्निशि पूर्णिमा? तिथीनुपतस्थेऽतिथिरेकिका तिथिः ॥ 2.76 ॥
जीवातु–सितेति । सितैः दीप्रैश्च मणिभिः प्रकल्पिते उज्जवलस्फटिकनिर्मिते हसदङ्करोदसि विलसदङ्करोदस्के द्यावापृथिवीव्यापिनीत्यर्थः । यदगारे यस्या नगर्या गृहेष्वित्यर्थः । जातावेकवचनं, निशि निखिलान् तिथीनेकिका एकाकिनी एकैवेत्यर्थः । ‘एकादाकिनिच्चासहाय’इति चकारात् कप्रत्ययः । ‘प्रत्ययस्थात् कात् पूर्वस्ये’ तीकारः । पूणिर्पमा तिथी राकातिथिः । ‘तदाद्यास्तिथयोरि’ त्यमरः । अतिथिः सनृ उपतस्थे अतिथिर्भूत्वा सङ्गतेत्यर्थः ‘उपाद्देवपूजे’त्यादिना सङ्गतिकरणे आत्मनेपदम् । स्फटिकभवनकान्तिनित्यकौ मुदीयोगात् सर्वा अपि रात्रयो राकारात्रय इवासन्नित्यथेदोक्तेरतिशयोक्तिभेदः
॥ 2.76 ॥
अन्वयः–सितदीप्रमणिप्रकल्पिते हमदङ्करो?दसि यदगारे निशि निखिलान् तिथिन् अतिथ्ज्ञिः एकिका तिथिः पूर्णिमा उपतस्थे ॥ 2.76 ॥
सुदतीजनमज्जनार्पितैर्धुसृणैर्यत्र कषायिताशया ॥
न निशाऽखिलयापि वापिका प्रससाद ग्रहिलेव मानिनी ॥ 2.77 ॥
जीवातु–सुदतीति । यत्र नगर्यां शोभना दन्ता यासां ताः सुदत्यः स्त्रियः, अत्रापि विधानाभावाद्दत्रादेशाश्चिन्त्य इति केचित् ‘अग्रान्तशुद्धशुभ्रवृषवराहेभ्यश्चे’ति चकारात् सिद्धिरित्यन्ये, सुदत्यादयः स्त्रीषु योगरूढाः, ‘स्त्रियां संज्ञायामि’ति दत्रादेशात् साधव इत्यपरे, तदेतत्सर्वमभिमसन्धायाह वामनः—‘सुदत्यादयः प्रतिविधेया’ इति । ता एव जना लोकाः तेषां मज्जनादवगाहादर्पितैः क्षालितैः धुसृणैः कुङ्कुमैः कषायिताशया सुरभिताभ्यन्तरा भोगचिह् नैः कलुषितहृदया च वाप्येव वापिका दीर्धिका ग्रहिला, ‘ग्रहोऽनुग्रहनिर्बन्धावि’ति विश्वः । तद्वती दीर्धरोषा पिच्छादित्वादिलमच् दिवादिः । मानिनीस्त्रीणामीर्ष्याकृतः कोपो ‘मानोऽन्यासङ्गिनि प्रिये’ इत्युक्तलक्षणो मानः तद्वती नायिकेवअखिलया निशा निशया सर्वरात्रिप्रसादनेनेत्यर्थः । न प्रससादं प्रसन्नहृदया, नाभूत् ताटृक् क्षोभादिति भावः ॥ 2.77 ॥
अन्वयः–यत्र सुदतीजनमज्जनार्पितैः धुसृणैः कषायिताशया वापिका ग्रहिला मानिनी इव अखिलया निशा अपि न प्रससाद ॥ 2.77 ॥
क्षणनीरवया यया निशि श्रितवप्रावलियोगपटृया ! ॥
मणिवेश्ममयं स्म निर्मलं किमपि ज्योतिरब्राह्ममीक्ष्यते ॥ 2.78 ॥
जीवातु–क्षणेति । निशि निशीथे क्षणं नीरवया एकत्र सुप्तजनत्वादन्यत्र धानस्तिमितत्वान्निःशब्दमाश्रितः प्राप्तः वप्रावलिः योगपटृ इव अन्मत्र वप्रावलिरिव योगपट्टो यथा सा तथोक्ता यया नगर्या मणिवेश्ममयं तद्रुपं निर्मलम बाह्ममन्तर्वर्ति किमपि अवाङ्मनसगोचरं ज्योतिः प्रभा आत्मज्योतिश्च ईक्ष्यते सेव्यते स्म । अत्र प्रस्तुतनगरीविशेषसाम्यादप्रस्तुतयोगिनीप्रतीतेः समासोक्तिः ॥ 2.78 ॥
अन्वयः–निशिक्षणनीरवया श्रितवप्रावलियोगपट्टया यथा मणिवेश्ममयं निर्मलम् किमपि अबाह्मं ज्योतिः ईक्ष्यते स्म ॥ 2.78 ॥
विललास जलाशयोदरे क्वचन द्यौरनुबिम्बितेव या ॥
परिरखाकपटस्फुटरत्प्रतिबिम्बानबलम्बिताम्बुनि ॥ 2.79 ॥
जीवातु–विललासेति । या नगरी परिखायाः कपटेन व्याजेन स्फुदं परितो व्यक्तं तथा स्फरता प्रतिबिम्बेनावलम्बिलं मध्ये चागृह्ममाणं चाम्बु यस्मिन् तस्मिन् प्रतिबिम्बाक्रान्तमम्बु परितः स्फुरति
प्रतिबिम्बदेशेन स्फुरति तेनैव प्रतिविम्बादिति भावः कुत्रचिज्जलाशयोदरे ह्रदमध्ये कस्यचित् ह्रदस्य मध्य इत्यर्थः । अनुबिम्बिता प्रतिबिम्बिता द्यौरमरावतीव विललासेत्युत्प्रेक्षा ॥ 2.79 ॥
अन्वयः–या परिखाकपटस्फुरत्प्रतिबिम्बानवलम्बिताम्बुनि क्वचन जलाशयोदरे अनुबिम्बिता द्यौः इव विललास ॥ 2.79 ॥
व्रजते दिवि यद्गृहावलीचलचेलाञ्चलदण्डताडनाः ॥
व्यतरन्नरुणाय विश्रमं सूजते हेलिहयालिकालनाम् ॥ 2.80 ॥
जीवातु–व्रजत इति । यस्यां नगर्यां गृहावलीषु चलाः चञ्चलाः चेलाञ्चलाः पताकाग्राणि ता एव दण्डास्तैः ताडनः कशाघाता इत्यर्थः । ताः कर्त्र्यो दिवि व्रजते खे गच्छते हेलिहयालेः सूर्याश्वपङ्क्तेः ‘हेलिरालिङ्गने रवावि’ति वैजयन्ती । कालनां चोदनां सृजते कुर्वते अरुणाय सूर्यसारथये विश्रमं स्वयं तत्कार्यकरणाद्विश्रार्न्ति ‘नोदात्तापेपदेशे’त्यादिना घ?ञि वृद्धिप्रतिषेधः । व्यतरन् ददुः । अत्रहेलिहयालेश्चे लाञ्चलउण्डताडनासम्बन्धेऽपि तत्सम्बन्धेक्ते रतिशयोक्तिभेदः, तेन गृहाणामर्कमण्डलर्य्यन्तमौन्नत्यं व्यज्यत इति अलङ्कारेण वस्तुध्वनिः ॥ 2.80 ॥
अन्वयः–यद्गृहावलीचलचेलाञ्चलदण्डताडनाः दिवि व्रजने हेलिहयालिकालनां सूजते दरुणाय विश्रमं व्यतरन् ॥ 2.80 ॥
क्षितिगर्भधराम्बरालयैस्तलमध्योपरिपूरिणां पृथक् ॥
जगतां खलु याऽखिलाद्भुताऽजनि सारेर्निजचिह्नधारिभिः ॥ 2.81 ॥
जीवातु–क्षितीति । तलमध्योपरि अधोमध्योर्ध्वदेशान् वूरयन्तीति तत्पूरिणां जगतां पातालभूमिस्वर्गाणां पृथगसङकीर्णं यानि निजानि प्रतिनियतानि निजचिह्नानि निध्यन्नपानस्त्रक्चन्दनादिलिङ्गानि धारयन्तीति तद्धारिभिः तथोक्तैः सारैत्कृष्टैः क्षितिकुहरे घरायां भूपूष्ठे अम्बरे आकाशे च ये आलया गृहाः तैः भूम्यन्तर्बहिः । शिरोगृहैरित्यर्थः । या नगरी अखिला कृत्स्ना अद्भुता चित्रा अजनि जाता । ‘दीरोगृहैरित्यर्थः त्यादिना जनेः कर्त्तरि लुङ्, च्लेश्चिणादेशः । अत्र क्षितिगर्भादीरनां तलम्धयोपरि जगत्सु सतां तच्चिह्नानाञ्च यथासंख्यसम्बन्धात् यथासंख्यालङ्कारः । एतेन त्रैलोक्यवैभवं गम्यते ॥ 2.81 ॥
अन्वयः–तलमध्योपरिपूरिणां जगतां पूथक् चिह्नधारिभिः सारैः क्षिति गभेधराम्बरालयै3 या अखिला अद्भुता अजनि खलु ॥ 2.81 ॥
दधदम्बुदनीलकण्ठतां वहदत्यच्छसुधोज्जवलं वपुः ॥
कथमृच्छतु यत्र नाम न क्षितिभृन्मन्दिरमिन्दुमौलिताम् ॥ 2.82 ॥
जीवातु–दघदिति । यत्र नगर्यामम्बुदैरम्बुदवन्नीलः कण्ठः शिखरोपकण्ठः गजश्च यस्य तस्य भावस्तत्तां ‘कण्ठो गले सन्निधान’ इति विश्वः । दधत् अच्छया सुधया लेपनद्रव्येण च सुधावदम्तवच्चोज्जवलं वपुर्वहत् ‘सुधालेपोऽमृतं सुधे’त्यमरः । क्षितिभन्मन्दिर राजभवनमिन्दुमौलितामिन्दुमण्डलपर्यन्तशिखरत्वं कथं नाम न ऋच्छतु ? गच्छत्वेवेत्यर्थः । राजभवनस्य ताटृगौन्नत्यंयुक्तमिति भावः । अन्यत्र नीलकण्ठस्य इन्दुमौलित्वमीश्वरत्वं च युक्तमिति भावः । अत्र विशेषणविशेष्याणां श्लिष्टानामभिधायाः प्रकृतार्थमात्रनियन्त्रणात् प्रकृतेश्वरप्रतीतेः ध्वनिरेव ॥ 2.82 ॥
अन्वयः–यत्र अम्बुदनीलकण्ठतां दधत् अत्यच्छसुधोज्जवलं वपुः वहत् क्षितिभृन्मन्दिरम् इन्दुमौलितां कथं नाम न ऋच्छतु ? ॥ 2.82 ॥
बहुरूपकशालभ??ञ्जिकामुखचन्द्रे षु कलङ्करङ्कवः ॥
यदनेककसौधकन्धराहरिभिः कुक्षिगतीकृता इव ॥ 2.83 ॥
जीवातु–बह्विति । बहुरूपकाः भूयिष्ठसौन्दर्याः, शैषिकः कप्रत्ययः । तेषु शालभ?ञ्जिकानां ककृत्रिमपुत्रिकाणां मुखचन्द्रेषु कलङ्करङ्कवः चन्द्रत्वात् सम्भाविताः कलङ्कमृगाः ते यस्यां नगर्यामन्द्रेषु कलङ्करङ्कवः चन्द्रत्वात् सम्भा?विताः कलङ्कमृगाः ते यस्यां नगर्यामनेकेषां बहुनां सौधानो कन्धरासु कण्ठप्रदेशेषु य ेहरयः सिंहाः तैः कुक्षिगितीकृता इव ग्रस्ताः किमित्युत्प्रेक्षा मुखचन्द्राणां
निष्कलङ्कत्वनिमित्तात्, अन्यथा कथं चन्द्रे निष्कलङ्कतेति भावः ॥ 2.83 ॥
अन्वयः–बहुरूपकशालभ?ञ्जिकामुखचन्द्रेषु कलङ्करङ्कवः यदनेककसौधकन्धाराहरिभिः कुक्षिगतीकृताः इव ( दृश्यन्ते ) ॥ 2.83 ॥
बलिसद्मदिवं स तथ्यवागुपरि स्माह दिवोऽपि नारदः ॥
अधराथ कृ ता ययेव सा विपरीताऽजनि भूमिभूषया ॥ 2.84 ॥
जीवातु–बलीति । स प्रसिद्धः तथ्यवाक् सत्यवचनः नारदः बलिसह्मदिवं पातालस्वर्गं दिवो मेरुस्वर्गादप्युपरिस्थितामुत्कृष्टञ्चाह स्म उक्तवान् । अथेदानीं भूमिभूषया यया नगर्या अधरा न्यूना अधस्ताच्च कृतेवेत्युत्प्रेक्षा सा वलिसह्मद्यौर्विपरीता नारदोक्तविपरीता अजनि । सर्वोपरिस्थितायाः पुनरधः स्थितिः वैपरीत्यम् ॥ 2.84 ॥
अन्वयः–तथ्यवाक् सः नारदः बलिसद्मदिवं दिवः अपि उपरि आह स्म, अथ भूमिभूषया यया अधरा कृता इव सा विपरीता अजनि ॥ 2.84 ॥
प्रतिहट्टपथे घरद्जात् पथिकाह, वानदसक्तुसौरभैः ॥
कलहान्न धानान् यदुत्थितादधुनाप्युज्ह्मति धर्घरस्वरः ॥ 2.85 ॥
जीवातु–प्रतीति । पन्थानं गच्छन्तीति पथिकाः तेषामाह्वानं ददाति तथोक्तमाह्वकम् अध्वानं गच्छतामाकर्षकमित्यर्थः । सक्तूनां सोरभं सुगन्धो यस्मिन् प्रतिघट्टपथे प्रत्यापणपथे । ‘अव्ययं विभक्ती’त्यादिना वीप्सायाम व्ययीभावः । ‘तृतीयासप्तम्योर्बहुल’मिति सप्तम्या अमभावः । घरट्टाः गोधूमचूर्णग्रावाणः तज्जात् यस्या नगर्याः उत्थितात् कलहात् घर्घरस्वनः निर्ह्मरस्वरः कण्ठध्वनिः धनान् मेघान् अधुनापि नोज्ह्मति न त्यजति । सर्वदा सर्वहटेटषु घरट्टा मेघध्वानं ध्वनन्तीति भावः । अत्र धानानां घरट्टकलहासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः । तथा च धर्घरस्वनस्यश्? तद्धेतुकत्वोत्प्रे क्षा, व्यञ्जकाप्रयोगाद् गम्योत्प्रेक्षेति सङ्करः ॥ 2.85 ॥
अन्वयः–प्रतिहट्टपथे पथिकाह्वानदसक्तुसौरभैः घरट्टजात् यदुत्थितात् कलहात् धर्धरस्वरः अधुना अपि धनान् न उज्ह्मति ॥ 2.85 ॥
वरनणः कनकस्य मानिनीं दिवमङ्कामराद्रिरागताम् ॥
धनरत्नकवाटपक्षतिः परिरभ्यानुनुयन्नुवास याम् ॥ 2.86 ॥
जीवातु–वरण इति । कनकस्य सम्बन्धी वरणः तद्विकारः प्राकारः स एवामराद्रिर्मेरुः यां नगरीमेव मानिनीं कोपसम्पन्नामत एव अङ्कान्निजोत्सङ्गादागतां भूलोकं प्राप्तां दिवमरावतीं धने निबिडे रत्नानां कवाटे रत्नमयकवाटे एव पक्षती पक्षमूले यस्य स सन् परिरभ्य उपूह्म मेरोः पक्षवत्त्वात्पक्षतिरूपत्वमनुसरन् अनुवर्त्तमानः उवास । कामिनः प्रणयकुपितां प्रेयसीमाप्रसादमनुगच्छन्तीति भावः । ख्पकालङ्कारः स्फुट एव, तेन चेयं नगरी कुतश्चित् कारणादागता द्यौरेव वरणश्च स्वर्णाद्रिरेवेत्युत्प्रेक्षा व्यज्यते ॥ 2.86 ॥
अन्वयः–कनकस्य वरणः अमराद्रिः यां मानिनीम् अङ्कात् आगतां दिवं घनरत्नकवाटपक्षतिः परिरभ्य अनुनयन् उवास ॥ 2.86 ॥
अनलैः परिवेषमेत्य या ज्वदर्कोपलवप्रजन्मभिः ॥
उदयं लयमन्तरा रवेरवहद्बाणपुरीपरार्द्ध्यतम् ॥ 2.87 ॥
जीवातु–अनलैरिति । या नगरी रवेरुदयं लयमस्तमयं चान्तरा तयोर्मध्यकाल इत्यर्थः । ‘अन्तरान्तरेण युक्त’ इति द्वितीया । ज्वलतामर्कांशुसम्पर्कात् प्रज्वलतामर्कोपलानां वप्राज्जन्म येषान्तैः सूर्यकान्तैः प्राकारजन्यैः अनलैः परिवेषमेत्य परिवेष्टनं प्राप्य बाणपुर्याः बाणसुरनगर्याः शोणितपुरस्य परार्द्ध्यतां श्रेष्ठतामवहत् । अत्रान्यधर्मस्यान्येन सम्बन्धासंभवात्ताटृशीं परार्द्ध्यतामिति साटृश्याक्षेपान्निदर्शनालङ्कारः
॥ 2.87 ॥
अन्वयः–या रवेः उदयं तयम् अन्तरा ज्वलदर्कोपलप्रजन्मभिः अनलैः परिवेषम् एत्य बाणपुरीपरार्ध्यताम् अवहत् ॥ 2.87 ॥
बहुकम्बुमणिवैराटिकागणनाटत्करकर्कटोत्करः ॥
हिमबालुकयाऽच्छबालुकः पटु दध्वान यदापणार्णवः ॥ 2.88 ॥
जीवातु–बह्विति । बहवः कम्बवः शङ्खा मणयश्च यस्मिन् सः वराटिकागणनाय कपर्दिकासंख्यानाय अटन्तः तिर्यक् प्रचरन्तः कराः पाणय एव कर्कटोत्कराः कुलीरसंघाः यस्मिन् सः, हिमबालुकया कर्पुरेण अच्छबालुकः स्वच्छ सिकतः यस्याः पुरः आपणो विपणिरेवार्णवः पटु धीरं दध्वान ननाद, ‘कपर्दो वराटिके’ति हलायुधः । ‘शङःख स्यात् कम्बुरस्त्रियामि’ त्यमरः । ‘सिताभ्रो हिमबालुका’ ,स्यात्कुलीरः कर्कटक’ इति चामरः ॥ 2.88 ॥
अन्वयः–बहुकम्बुमणिः वराटिकागणनाटत्करककैटोत्करः हिमबालुकया अच्छबालुकः यदापणार्णवः पटु दध्वान ॥ 2.88 ॥
यदगारघटाट्टकुट्टिमस्त्रवदिन्दूपलतुन्दिलापया ॥
मुमुचे न पतिव्रतौचिती प्रतिचन्द्रोदयमभ्रगङ्गया ॥ 2.89 ॥
जीवातु–यदिति । यस्याः नगर्याः अगारघटासु गृह?पङ्क्तिषु अट्टानामट्टालिकानां कुट्टिमेषु निबद्धभूमिषु, ‘कुट्टिमोऽस्त्री निबद्धा भूरि’त्यमरः । स्त्रवदिभरिन्दुसम्पर्कात् स्यन्दमानैरिन्दूपलैश्चन्द्रकान्तैः हेतुभिः तुन्दिलाः प्रवद्धा आपो यस्याः तया, तुन्दादिभ्य इलच् ‘ऋक्पूरि’त्यादिना समासान्तः चन्द्रोदये प्रतिचन्द्रोदयं वीप्सायामव्ययीभावः । पतिव्रतानामौचिती औचित्वं ब्राह्मणादित्वाद् ‘गुणवने’ त्यादिना ष्यञ्प्रत्ययः, ‘षिद्गौरादिम्यश्चे’ति ङीष् । स च ‘मातरि षिच्चे’ति षित्त्वादेव सिद्धे मातामहशब्दस्य गौरादिपाठेनानित्यत्वज्ञापनाद्वैकल्पिकः । अत एव वामनः–ष्यञ्ः षित्कार्यं बहुलमिति स्त्रीनपुंसकयोर्भावक्रिययोः ष्यञ् । क्वचिच्च वुञ् ‘औचित्यमौचिती मैत्र्यं मैत्री वुञ् प्रागुदाहृतमि’त्यमरश्च । न मुमुचे न तत्यजे । भर्तुः समुद्रस्य चन्द्रोदये वृद्धिदर्शनात्तस्य अपि तथा वृद्धिरुचिता । ‘आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते हि म्रियते या स्त्री ज्ञेया पतिव्रता ॥’ इति स्मरणादिति भावः । अत्राभ्रगङ्गायाः यदगारेत्यादिना विशेषणार्थासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः, तथा च यदगाराणामतीन्दुमण्डलमौन्नत्यं गम्यते तदुत्थापितां चेयमस्याः तथा च यदगाराणामतीन्दुमण्डमौन्नत्यं गम्यते तदुत्थापितां चेयमस्याः पातिव्रत्यधर्मापरित्यागोत्प्रेक्षेति सङ्करः, सा च व्यञ्जकाप्रयोगाद् गम्या ॥ 2.89 ॥
अन्वयः–यदगारघटाट्टकुट्टिमस्त्रवदिन्दूपलतुन्दिलापया अभ्रगङ्गया प्रतिचन्द्रोदयं प्रतिव्रतौचिती नप मुमुचे ॥ 2.89 ॥
रुचयोऽस्तमितस्य भास्वतः स्खलिता यत्र निरालयाः खलु ॥
अनुसायमभुर्विलेपनापणकश्मीरजपण्यवीथयः ॥ 2.90 ॥
जीवातु–रुचय इति । यत्र नगर्यामनुसायं प्रतिसायं वीप्सायामव्ययीभावः । विलेपनापणेषु सुगन्धद्रव्यनिपद्यासु कश्मीरजानि कुङ्कुमान्येव पण्यानि पण्नीयद्रव्याणि तेषां वीथयः श्रेणयः अस्तमितस्यास्तङ्गतस्य भास्वतः सम्बन्धिन्यः स्खलिताः अस्तमयक्षोभात् च्युताः अतएव निरालयाः निराश्रयाः रुचयः प्रभाः अभुः खलु कथञ्चित्प्रच्युताः सायन्तनार्कत्विष इव भान्ति स्मेत्यर्थः । कुङ्कुमराशीनां तदा तत्सावर्ण्यादियमुत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । भातुर्लुङिह्मेर्जुसादेशः ॥ 2.90 ॥
अन्वयः–यत्र अनुसायं विलेपनापणकश्मीरजपवीथयः अस्तम् इतस्य भास्वतः स्खलिताः निरालयाः रुचयः अभुः किल ॥ 2.90 ॥
विततं वणिजापणेऽखिलं पणितुं यत्र जनेन वीक्ष्यते ॥
मुनिनेव मृकण्डुसूनुना जगतीवस्तु पुरोदरे हरेः ॥ 2.91 ॥
जीवातु–वततमिति । यत्र नगर्यां वणिजा वणिग्जनेन पणितुं ध्यवहतुंमापणे पण्यवीथ्यां विततं प्रसारितमखिलं जगत्यां लोके स्थितं वस्तु पदार्थजातं पुरा पूर्व हरेर्विष्णोरुदरे प्रसारितमखिलं जगत्यां लोके स्थितं वस्तु पदार्थजातं पुरा पूर्वं हरेर्विष्णोरुदरे मृकण्डुसूनना मुनिना मार्कण्डेयेनेव जनेन लोकेनवीक्ष्यते विष्णूदरमिव समस्तवस्त्वाकरोऽयमवभासत इत्यर्थः । पुरा किल मार्कण्डेयो हरैरुदरं प्रविश्य विश्वं
तत्राद्राक्षी?दिति कथयन्ति ॥ 2.91 ॥
अन्वयः–यत्र वणिजा पणितुम् आपणे विततम् अखिलं जगतीवस्तु पुरा हरेः उदरे मृकण्हुसुनुना ममुनिना इव जनेन वीक्ष्यते ॥ 2.91 ॥
सममेणमदैयदापणे तुलयन् सौरभलोभनिश्चलम् ॥
पणिता न जनारवैरवैदपि कूजन्तमर्लि मलीमसम् ॥ 2.92 ॥
जीवातु–सममिति । यस्या नगर्या आपणे सौरभलोभनिश्चलं गन्धग्रहणनिष्रूपन्दं ततः क्रियया दुर्बोधमित्यर्थः । मलीमसं मलीनं सर्वाङ्गनीलमित्यर्थः । अन्यथा पीतमध्यस्यालेः पीतिर्म्नव व्वच्छेदात्, अतो गुणतोऽपि दुर्ग्रहमित्यर्थः। अन्यथा पीतमध्यस्यालेः पीतिम्नैव व्यवच्छेदात्, अतो गुणतोऽपि दुर्ग्र हमित्यर्थःदुर्ग्र हमित्यर्थः । ‘ज्योत्सनातमिस्लेः पीतिम्नैव व्यवच्छेदात्, अतो गुणतोऽपि दुर्ग्र हमित्यर्थः । ‘ज्योत्स्नातमिस्त्रे’–त्यादिना निपातः । अर्लि भृङ्गमेणमदैः समं कस्तुरीभिः सह तुलयन् तोलयन् पणिता विक्रेता मूजन्तमपि जनानामारवैः कलकलैः नावैत्, शब्दतोऽपि न ज्ञातवचान् इत्यर्थः । इह निश्चलस्यालेः गुञ्जनं कविना प्रौढवादेनोक्तमित्यनुसन्धेयम् । अत्रालेर्नैल्यादेणमदोक्तेः सामान्याल ङकारः ‘सामान्यं गुणसामान्ये यत्र वस्त्वन्तरैकते’ ति लक्षणात् । तेन भ्रान्तिमदलङ्कारो व्यज्यते ॥ 2.92 ॥
अन्वयः–यदापणे सौरभलोभनिश्चलं मलीमसम् अलिम् एणमदैःसमं तुलयन् पणिता कूजन्तम् अपि जनारवैः न अवैत् ॥ 2.92 ॥
रविकान्तमयेन सेतुना सकलाहं ज्वलनाहितोष्मणा ॥
शिशिरे निशि गच्छतां पुरा चरणो यत्र दुनोति नो? हिमम् ॥ 2.93 ॥
जीवातु-रविकान्तेति । यत्र नगर्या सकलाहं कृत्स्नमहं ‘राजाहःसखिभ्यष्टच्’ । ‘रात्राह्नाहाः पु ल्लिङ्गता, अत्यन्तसंयोगे द्वितीया, योगविभागात्समासः । ज्वकान्तमयेन सेतुना सेतुसट्टशेनाध्वना सूर्यकान्तकुन्तुकुट्टिमाध्वनेत्यर्थः । अच्छतां सञ्चरतां चरणौ चरणानित्यर्थः । ‘स्तनादीनां द्वित्वविशिष्टा जातिः प्रायेणे’ ति जातौ द्विवचनम् । शिशिरे शिशिरतौ तत्रापि निशि हिमं पुरा नो दुनोति नापीडयत् । ‘यावत्पुरानिपातयोर्लद्’ अत्र सेतोरूष्मासम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः, तत्रोत्तरस्याः पूर्वसापेक्षत्वात् सङ्करः ॥ 2.93 ॥
अन्वयः–यत्र सकलाहं ज्वलनाहितोष्मणा रविकान्तमयेन सेतुना गच्छतां चरणौ शिशिरे निशि हिमं पुरा नो दुनोति ॥ 2.93 ॥
विधुदीधितिजेन यत्यथं पयसा नैषधशीनशीतलम् ॥
शशिकान्तमयं तपगमे कलितीव्रस्तपति स्म नातपः ॥ 2.94 ॥
जीवातु–विध्विति । विध्विति । विधुदीधितिजेन इन्दुकरसम्पंर्कजन्येन पयसा सलिलेन नैषधस्य लनस्य शीलं वृत्तं स्वभावो वा तद्वच्छीतलं शशिकान्तमयं यत्पथं यस्याः नगर्याः पन्थानं तपागमे ग्रीष्मप्रवेक्षे कलितीव्रः कलिकालवच्च्ण्डः आतपः न तपति स्म । नलकथायाः कलिनाशकत्वादिति भावः । अत्र नगरपथस्य इन्दूपलपयःसम्बन्धोक्तेरतिशयोक्तिः, तत्सापेक्षत्वादुपमयोः सङ्करः ॥ 2.84 ॥
अन्वयः–विधुदीधिजिजेन पयसा नेषधशीलषीतलं शशिकान्तमयं यत्पथं तयागमे कलितीव्रः आतपः न तपति स्म ॥ 2.84 ॥
परिक्षावलयच्छलेन या न परेषां ग्रहणस्य गोचरा ॥
जीवातु–परिखेति । परिखावलयच्छलेन परिखावेष्टनव्याजेन कुण्डलनां मण्डलाकाररेखामवापिता परेषां शत्रुणां ग्रहणस्याक्रमणस्य अन्यत्र अन्येषां ग्रहणस्य ज्ञानस्य न गोचरा अविषया या नगरी विषमा दुर्बोधा फणिभाषितभाष्यफक्तिका पतञ्जलिप्रणीतमहाभाष्यथकुण्डलिग्रन्थः तद्वदिति शेषः । अत्रनगर्याः कुण्डलिग्रन्थत्वेनोत्प्रेक्षा ॥ सा च परिखावलयच्छलेनेति अपह्नवोत्थापितत्वात् सापह्नवा व्यञ्जकाप्रयोगाद् गम्या ॥ 2.95 ॥
अन्वयः–परिखावलयच्छलेन कुण्डलनाम् अवापिता परेषां ग्रहणस्य न गोचरा विषया
फणिभाषितभाष्यफकिकका ॥ 2. 95 ॥
मुखपाणिपदाक्षिण पङ्कजै रचिताऽङ्गेष्वपरेषु चम्पकैः ॥
स्वयमादित यत्र भीमजा स्मरपूजाकुसुमस्त्रः श्रियम् ॥ 2.96 ॥
जीवातु–सुखेति । यत्र नगर्यां मुखञ्च पाणी च पदे च अक्षिणी च यस्मिन् तस्मिन् प्राण्यङ्गत्वाद् द्वन्द्वैकवदभावः । पङ्कजैः रचिता सृष्टा अपरेषु मुसादिव्यतिरिक्तेष्वङ्गषु चम्पकैश्चम्पकपुष्पैः रचिता सर्वत्र साट्टश्याद्व्यपदेशः । भीमजा भैमी स्वयं स्मरपूजाकुसुमस्त्रजः श्रियं शोभामादित आत्तवती । ददातेर्लुङि’स्थाध्वोरिच्चे’ तीत्वं ‘ह्रस्वादङ्गादि’ति सलोपः । अत्र अन्यश्रियोऽन्यस्यासम्भवात् श्रियमिव श्रियमिति साट्टश्याक्षेपान्निदर्शनाभेदः । तथा तदङ्गानां पङ्कजाद्यभेदोक्तेरतियोक्तिः । तदुत्थापिता चेयं निदर्शनेति सङ्करः ॥ 2.96 ॥
अन्वयः–यत्र पङ्कजैः मुखपाणिपदाक्ष्णि चम्पकैः अपरेषु अंगंषु रचिता मीमजा स्मरपूजाकुसुमस्त्रजः रियं स्वयम् आदित ॥ 2.96 ॥
जघनस्तनभारगौरवाद्वियदालम्बय विहर्तुमक्षमाः ॥
ध्रु वमप्सरसोऽवतीर्य यां शतमध्यासत तत्स्खीजनः ॥ 2.97 ॥
जीवातु–जघनेति । जघनानि चस्तनौ च जघनस्तनं, प्राण्यङ्गत्वाद्द्वन्द्वैकवदभावः । तदेव भारः तस्य गौरवात् गुरुत्वाद्वियदालम्बय विहर्तुमक्षमाः शतं शतसंख्याकाः ‘र्विशत्याद्याः सदैकत्वे संख्याः संख्येयसंख्ययोरि’ त्यमरः । अप्सरसोऽवतीर्य स्वर्गादागत्य तत्सखीजनः सख्यः जातावेकवचनम् । यां नगरीमध्यासत अध्यतिष्ठन्, ‘अधिशीङ्स्थासां कर्मे’ति कर्मत्वं घ्रु वमित्युप्रेक्षा । अप्सरःकल्पाः
शतं सख्य एनामुपासत इत्यर्थः ॥ 2.97 ॥
अन्वयः–जघनस्तनभागौरवात् वियत् आलम्बय विहर्त्तुम् अक्षमाः शतम् अप्सरसः अवतीर्य तत्सखीजनः याम् अध्यासत घ्रु वम् ॥ 2.97 ॥
स्थितिशालिसमस्तवर्णतां न कथं चित्रमयी बिभतुं या ? ॥
स्वरभेदमुपैतु या कथ कलितानल्पमुखारवा न वा ? ॥ 2.98 ॥
जीवातु–स्थितीति । चित्रमयी वाश्चर्यप्रचुरा आलेख्यप्रचुरा च, ‘आलेख्याश्वर्ययोश्चित्रमि’ त्यमरः । या नगरी स्थित्या मर्यादया स्थायित्वेन च शालन्ते ये ते समस्ता वर्णा ब्राह्मणादयः शुक्लादयश्च यस्याः तस्या भावस्तत्तां ‘‘वर्णो द्विजादौ शुक्लादावि’ त्यमरः । कथं न बिभर्तु बिभर्त्वेवेत्यर्थः । कलितः प्राप्तः अनल्पानां बूहूनां मुखानामारवो बहुमुखानां ब्रह्ममुख-पञ्चमुख-षण्मुखानां च आरवः शब्दो यस्याः सा या पुरी स्वरस्य ध्वनेर्भेदं नानात्वं स्वः स्वर्गादभेदं च कथं वा नोपैतु उपैत्वेवेत्यर्थः । उभयत्रापि सति धारणे कार्यं भवेदेवेति भावः । अत्र केवलप्रकृतश्लेषालङ्कारः उभायोरप्यर्थयोः प्रकृतत्वात् । किन्तु एकनाले फलद्वयवदेकस्मिन्नेव शब्दे अर्थद्वयप्रतीतेरर्थश्लेषः प्रथमार्धे । द्वितीये तु जतुकाष्ठवदेकवद्भूताच्छब्दद्वयादर्थद्वयप्रतीतेः शब्दश्लेषः
॥ 2.98 ॥
अन्वयः–चित्रयी या स्थितिशालिसमस्तवर्णतां कथं न बिभर्त्तु कलितानल्पमुखारवा या कथं वा स्वरभेदें न उपैतु ॥ 2.98 ॥
स्वरुचाऽरुणया पताकया दिनर्मेण समीयुषोत्तृषः ॥
लिलिहुर्बहुधा सुधाकरं निशि माणिक्यमया यदालयाः ॥ 2.99 ॥
जीवातु–स्वरुचेति । माणिक्यमयाः पह्मरागमयाः यदालयाः यस्यां नगर्यां गृहाः दिनं दिने, अत्यन्तसंयागे द्वितीया । समीयुषा सङ्गतेन अर्केण हेतुना उत्तृषः अर्कसम्पर्कादुत्पन्नपिपासाः सन्तः स्वरुचा स्वप्रभया अरुणया आरुण्यं प्राप्तयेति तद्गुणालङ्कारः, ‘तद्गुणः स्वगुणत्यागादन्थोत्कुष्टगुणाहृतिरि’ति लक्षणात् । पताकया रसनायभानयेति भावः, सुधाकरं बहुधा लिलिहुः आस्वादया गृहाणां सन्तापनिमित्तसुधाकरलेहनात्मकशीतोपचार उत्प्रेक्ष्यते । सा चोक्ततद् गुणोत्थेति सङ्करः, व्यञ्जकाप्रयोगाद्गम्या ॥ 2.99 ॥
अन्वयः–माणिक्यमयाः यदालयाः दिनं समीयुषा अर्केण उत्तृषः निशि स्वरुचा अरुणया पताकया सुधाकरं बहुघा लिलिहूः ॥ 1.99 ॥
लिलिहे स्वरुचा पताकया निशि जिह्वानिभ्श्राया सुधाकरम् ॥
श्रितमर्ककरैः पिपासु यन्नृपह्मामलपह्मरागजम् ॥ 2.100 ॥
जीवातु–अथानयैव भङ्ग्या राजभावनं वर्णयति-लिलिह इति । अमलपद्मरामजं यस्यां नगर्यां नृपसद्म राजभवनम् अर्ककरैः श्रियमतिसामीप्यादभिव्याप्तम् । श्रयतेः कर्मणि क्तः, शृणातेः पक्तार्थादिति केचित् । तदा ह्रस्वश्चिन्त्यः,प्रकृत्यन्तरं मृर्ग्यमित्यास्तां तत् । अत एव पिपासु तृषितं सत् पिबतेःसन्तन्ता दुप्रत्ययः । स्वकीरया रुग् यस्याः तया स्वरुचा तद्रूषितयेत्यर्थंः । अत एव जिह्वानिभया पताकया सुधाकरं लिलिहे आस्वादयामास । लिहेः कर्त्तरि लिट् । त्वरितत्वादात्मनेपदम् अलङ्कारश्च पूर्ववत्, जिह्वानिभयेत्युपमा एङ्करश्च विशेषः ॥ 2.100 ॥
अमृतद्युतिलक्ष्म पीतया मिलितं यद्वलभीपताकया ॥
वनायायितशेषशायिनस्सखितामादित पीतवाससः ॥ 2.101 ॥
जीवातु–अमृतेति । पीतया पीतवर्णया यस्या नगर्याः वलभ्यां ‘कृटागारन्तु वलभि’रित्यमरः । पताकया
मिलितं सामीप्यात्सङ्गतममृतद्युतिलक्ष्म चन्द्रलाञ्छनं वलयायिते वलयीभूते षेषं शेत इति तच्छायिनः पीतवाससः पीताम्बरस्य विष्णोः सखितां सदृशतामादित अग्रहीदित्युपमालङ्कारः ॥ 2.101 ॥
अन्वयः–पीतया यद्रलभीपताकया मिलितम् अमृतद्युतिलक्ष्म वलयायितशेषायिनः पीतवाससः सखिताम् आदित ॥ 2.101 ॥

अश्रान्तश्रुतिपाठपूतरसनाविर्भुतभूरिस्तवाजिह्मब्रह्ममुखौधविध्नितनवस्वर्गक्रियाकेलिना ॥
पूर्व गाधिसुतने सामिधटिता मुक्ता नु मन्दाकिनी यत्प्रासादुकूलवल्लिरनिलान्दोलैरखेलद्दिवि ॥2.102॥
जीवातु–अश्रान्तेति । यस्याः नगर्याः प्रासादे दुकूलं वल्लिरिव दुकूलवल्लिःदुकूलमयी पताकेत्यर्थंः । अश्रान्तेन श्रुतिपाठेन नित्यवेदपाठेन पूताभ्यः पवित्राभ्यः रसनाभ्यो जिह्वाभ्यः आविर्भूतेषु भूरिस्तवेषु अनेकस्तोत्रेषु अजिह्मेन अकुण्ठेन ब्रह्मणो मुखानामोधेन हेतुना विध्निता सञ्जातविध्ना नवस्वर्गक्रिया नूतनस्वर्गसृष्टिरेव केलिः लीला यस्य तेन गाधिसुतेन विश्वामित्रेण पूर्वं ब्रह्मप्रार्थनात्पूर्व सामि घटिता अर्धसृष्टा ‘सामि त्वर्द्धे जुगुप्सन’ इत्यमरः । मुक्ता पश्चान्मुक्ता मन्दा किनी नु आकाशगङ्गा किमनिलस्य कर्तुरान्दोलनौर्दिवि आकाशे अखेलत् विजहारेत्युत्प्रेक्षा । एषा कथा त्रिशङ्कूपाख्याने द्रष्टव्या । शार्दूलविक्रीडितवृत्तं ‘सूर्याश्वैर्मसजास्तताः सगुरवः शार्दुलविक्रीडितमि’ति लक्षणात् ॥ 2.102 ॥
अन्वयः–अनिलान्दोलैः यत्प्रासाददुकूलवल्लिः अभ्रान्तश्रुतिपाठपाठपूतरसनाविर्भूतमुरिस्तवाजिह् मब्रह्ममुखौघविधिनतनवस्वर्गक्रियाकेलिना गाधिसुतेन पूर्वं सामिघटिता मुक्ता मन्दाकिनी नु दिवि अखेलत्
॥ 2.102 ॥
वदतिविमलनीलवेश्मरश्मिभ्रमरितभाश्शुचिसौधवस्त्रवल्लिः ॥
अलभत शमनस्वसुश्शिशुत्वं दिवसकराङ्कतले चला लुठन्ती ॥ 2.103 ॥
जीवातु–यदिति । यस्या नगर्याः अतिविलैलवेश्मनः इन्द्रनीलनिके तनस्य रशिमभिः भ्रमरिता भ्रमरैर्भाव्यमिति भावः । तथाभूता भाः छाया यस्याः सा ध्यामीकृतप्रभेत्यर्थः । अत एव तद्गुणालङ्कारः । शुचिः स्वभावतः शुभ्रा सौधस्य वस्त्रमेव वह्निः पताकेत्यर्थः । ख्पकसमासः । भ्रमरितभा इति रूपका देव साघकात् दिवसकरस्य सूर्यस्य अङ्कतले समीपदेशे उत्सङ्गप्रदेशे च चला चपला लुठन्ती परिवर्त्तमाना सती शमनस्वसुर्यमुनायाः शिशुत्वं शैशवमलभत बालयुमुनेव बभावित्यर्थः । बालिकाश्च पितुरङ्के लुठन्तीति भावः । अत्रान्यस्य शैशवेनान्यम्बन्धासम्भवेऽपि तत्सटृशमिति साटृश्याक्षेपान्निदर्शना पूर्वोक्ततद्गुणरूपकाभ्यां सङ्कीर्णा ॥ 2.103 ॥
अन्वयः–यदतिविमलनीलवैश्मरश्मिभ्रमरितभाः पुचिसौधवस्त्रवल्लिदिक्सकराङ्कतले चला लुठन्ती शमनस्वषुः शिशुत्वम् अलभत् ॥ 2.103 ॥
स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहायोत्सुकं पाथोदं निजकेलिसौधशिखरादारुह्म यत्कामिनी ॥
साक्षादप्सरसो विमानकलितव्योमान एवाभवद्यन्न प्राप निमेषमभ्रतरसा यान्ती रसादध्वनि ॥ 2.104 ॥
जीवातु–स्वेति । यत्कामिनी यन्नगराङ्गना विमानेन कलितं क्रान्तं व्योम याभिस्ताः साक्षाप्सरसो दिव्याङ्गनैवाभवत् । ‘स्त्रियां बहुष्वप्सरस’ इत्यभिधानादेकत्वेऽपि बहुवचनप्रयोगः कृतः, यद्यस्मान्निजकेलिसौधशिखरादपादानात् स्वप्राणेश्वेऽपि बहुवचनप्रयोगः कृतः, यद्यस्मान्निजकेलिसौधशिखरादपादानात् स्वप्राणेश्वरस्य नर्महर्म्यं क्रीडासौघं तस्य कटकान्नितम्बादातिथ्यग्रहाय स्वीकाराय तत्र विश्रमार्थमित्यर्थः । उत्सुकमुद्युक्तं गच्छन्तमित्यर्थः, पाथोदं मेघमारुह्म रसाद्रागाद् यान्ती गच्छन्ती अध्वनि अभ्रतरसा मेधवेगेन हेतुना निमेषं न प्राप । अत्र नगरामराङ्गनयोर्भेदेऽपि अनिमेषमेधारोहणव्योमयानैःसैव इत्यभेदोक्तेरतिशयोक्तिभेदः । शार्दुलविक्रीडितं वृत्तम् ॥ 2.104 ॥
अन्वयः–यत्कामिनी विमानकलितव्योमानः साक्षात् अप्सरसः एव अमवत्, यत् निजकेलिसोधशिखरात् स्वप्राणेश्वरनर्महर्म्यकटकातिथ्यग्रहाय उत्सुकं पाथोदम् आरुह्म रसात् यान्ती अध्वनि अभ्रतरसा निमेषं न प्राप ॥ 2.104 ॥
वैदर्भीकेलिशैले मरकतशिखरादुत्थितैरंशुदर्भैर्ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीधृतावाङ्मुखत्वैः ॥
कस्या नोत्तानगाया दिवि सुरसुरभेरात्यदेशं गताग्रैर्यद्गोग्रासप्रदानव्रतसुकृतमविश्रान्तमुज्जुमृभते स्म
॥ 2.105 ॥
जीवातु–वैदर्भीति । ‘उत्ताना वै देवगवा वहन्ती’ति श्रुत्यर्थमाश्रितृयाहवैदभीर्रकिलिशैले मरकतशिखरादुत्थितैः अथ ब्रह्माण्डाघातेन भग्नो स्यदजमदो वेगगर्वो येषां तत्तथा ह्रिया घृतम् अवाङ्मुखत्वं यैस्तैरधोमुखैः अतएव दिवि उत्तानगाया ऊर्ध्वमुखाया इत्यर्थः । कस्याः सुरसुरभेः देवगव्या आस्यदेशंगताग्रै रशुभिरेव दर्भैर्यस्या नगर्याः सम्बन्धि गोग्रासप्रदानव्रतसुकृतम्भितमित्यर्थः । उत्युत्तमाङ्कारोऽयमिति केचित् । अंशुदर्भाणां ब्रह्माणडाघाताद्यसम्बन्धेऽपि सम्बन्धोक्तरतिशयोक्तिभेदः । स्त्रगघरावृतृतं ‘भ्रभ्नैर्यानां त्रयेण त्रिमुनियतियुतास्त्रग्धरा कीर्तितेयमि’ति लक्षणात् ॥ 2.105 ॥
अन्वयः–वैदर्भीकेलिशैले मरकतशिखरात् उत्थितैः ब्रह्माण्डाघातभग्नस्यदजमदतया ह्रीघृतावाङ्मुखत्वैः दिवि उत्तानगाया कस्याः सुरसुरभेः क्षास्यदेशं गताग्रै यद्गोसप्रदानव्रतसुकृतम् अविश्रान्तम् उज्जृम्भते स्म
॥ 2.105 ॥
विधुकरपरिरम्भादात्तनिष्यन्दपूर्णैः शशिदृषदुपक्लृप्तैरालवालैस्तरूणाम् ॥
विफलितजलसेकप्रक्रिश्यागौरवेण व्यरचि स हृतचित्तस्तत्र भैमीवनेन ॥ 2.106 ॥
जीवातु–विध्विति । तत्र तस्यां नगर्यां शशिदृषदुपक्लृप्तैश्चन्द्रकान्तशिलाबद्धैः अत एव विधुकरपरिरमृभात् चन्द्रकिरणसम्पर्कात् हेतोः आत्तनिष्यन्दैः जलप्रस्त्रवणैरेव पूर्णैस्तरूणामालवालैर्विफलितं व्यर्थाीकृतं जलसेकस्य प्रक्रियायां प्रकारे गौरवं भारो यस्य तेन भैमीवनेन स हंसो हृतचित्तो व्यरवि । कर्मणिलुङ् । अत्रालवालानां चन्द्रकान्तनिष्यन्दासम्बन्धेऽपि सम्बन्धौक्तेरतिशयोक्तिभेदः । एतदारम्य चतुःश्लोकपर्यन्तं मालिर्नावृत्तं-‘ननमयश्ययुतेर्य मालिनी भोगिलोकैरि’ति लक्षणात् ॥ 2.106 ॥
अन्वय–तत्र ‘शशिट्टषदुपक्लप्तैः विधुकरपरिरम्भात् आत्तनिष्यन्दपूर्णैः तरुणाम् आलवालैः विफलिजलसयेकप्रक्रियागौरवेण भैमीवनेन स हृतचित्तो व्यरचि ॥ 2.106 ॥
अथ कनकपतत्रस्तत्र तां राजपुत्रीं सदसि सदृशभासां विस्फुरन्तीं सखीनाम् ॥
उडुपरिषदि मध्यस्थायिशीतांशुलेखाऽनुकरणपटुलक्ष्मीमखिलक्षीचकार ॥ 2.107 ॥
जीवातु–अथेति । अथ दर्शनानन्तरं कनकपतत्रः स्वर्णपक्षी तत्र वने सदृशभासामात्मतुल्यलावण्यानां सखीनां सदसि विस्फुरन्तीं ‘स्फु?रतिस्फुलत्योर्निर्निविभ्य’इति षत्वम् । उडुपरिषदि तारकासमाजे मध्यस्थायिन्याः शीतांशुलेखायाश्चन्द्रकलायाः अनुकरणे पदुः समर्था लक्ष्मीः शोभा यस्याः सा इत्युपमालङ्कारः । तां राजपुत्रीम् अक्षिलक्षीचकार अद्राक्षीदित्यर्थः ॥ 2.107 ॥
अन्वयः–अथ कनकपतत्रः तत्र सट्टशभासां सखीनां सदसि विस्फरन्तीम् उछुपरिषदि
मध्यस्थायिशीतांशुलेखांनुकरणपटुलक्ष्मीम् अक्षिलक्षीचकार ॥ 2.107 ॥
भ्रमणरयविकीणस्वर्णभासां खगेन क्वचन पतनयोग्यं देशमन्विष्यताऽधः ॥
मुखविधुमादसीयं सेवितुं लम्बमानः शशिपरिधिरिवोच्चैर्मण्डस्तेन तेने ॥ 2.108 ॥
जीवातु–भ्रमणेति । अधो भुतले क्वचन कुत्रचित्पतनथोग्यं देशं स्थानम् अन्विष्यता गवेषमाणेन अत एव भ्रमणरयेण विकीर्णा स्वर्णस्य भा दीप्तिर्यस्य तेन खगेन अमुष्या अयम् अयम् अदसीयम् ‘वुद्धाच्छः’ ‘त्यदादीनि चे’ति वृद्धिसंज्ञा । मुखेन्दुं सेवितुं ल्मबमानः स्त्रंसमानः शशिपरिधिः चन्द्रपरिवेष इव उच्चैरुपरि मण्डलो वलयः तेन ेवितेन तनोतेः कर्मणि लिट् । उत्प्रेक्षास्वभावोक्त्योः सङ्ककरः ॥ 2.108 ॥
अन्वयः–अधः क्वचन पतनयोग्यं देशम् अन्विष्यता भ्रमणरयविकीर्णस्वर्णभासा तेन खगेन अदसीयं मुखविधु’ लम्बमानः शशिपरिघिः इव उच्चैः मण्डलः तेने ॥ 2..108 ॥
धनुभवति शचीत्थं सा घृताचीमुखाभि र्न सह सहचरीभिर्नन्दनानन्दमुच्चैः ॥
इति मतिरुदयासीत्पक्षिणः प्रेक्ष्य भैमीं वियपिनभुवि सखीभिस्सार्धमाबद्धखेलाम् ॥ 2.109 ॥
जीवातु–अनुभवतीति । विपिनभुवि वनप्रदेशे सखीभिः सहचरीभिः’सख्याशिश्वीति भाषायामि’ति निगतनात ङीप् । सार्द्धमाबद्धेलामनुबद्धत्रीडां, ‘क्रीडा खेला च कूर्दनमि’त्यमरः । भैमीं प्रेक्ष्य पक्षिणः सा प्रतितद्धा शची इन्द्राणी घृताचीमुखाभिः सहचरीभिः । भैमीं प्रेक्ष्य पक्षिणः सा प्रसिद्धा शची इन्द्राणी घृताचीमुखाभिः सहचरीभिः सह हत्थमुच्चैरुत्कृष्टं नन्दनानन्दं नन्दनमुखं नानुभवतीति मतीः बुद्धिरुदयासीदुत्थिता । अत्र प्रेक्ष्य मतिरिति मननक्रियापेक्षया समानकर्तृकत्वात् पूर्वकालत्वाच्च प्रेक्ष्येति क्त्वानिर्देशोपपत्तिः, तावन्मात्रस्यैव तत्प्रत्ययोत्पत्तौ प्रयोजकत्वात् । प्राधान्यत्वप्रयोजकमिति न कश्चिद्विरोधः । अत्रोपमानादुपमेयस्याधिक्योक्तेर्व्यतिरेकालङ्कारः ‘भेदप्रधानसा धर्म्यमुपमानोपययोः । आधिक्यादल्लपकथनाद्व्यतिरेकः स उच्यते ॥’ इति लक्षणात् ॥ 2.109 ॥
अन्वयः–विपिनभुवि सख्ीभिः सार्धम् आबद्धखेलां भैमीं प्रेक्ष्य-घृताचीमुखाभिः सखीभिः सह सा शची इत्थम् उच्चैः नन्दनानन्दं न अनुभवतिपक्षिणः इति मतिः उदयासीत् ॥ 2.109 ॥
श्रीहर्षः कविराजराजिमुकुटालङ्कारहीरस्सुतं श्रीहीरस्सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ॥
द्वैतीयीकतया मितोऽयमगत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्जवलः
॥ 2.109 ॥
जीवातु–श्रीहर्षमित्यादि । व्याख्यातम् । द्वितीय एव र्द्वती?यीकः, ‘द्वितीयादीकक् स्वार्थे वा वक्तव्य’ इतीकक् द्वैतीयीकतया मिता द्वितीयत्वेन गणितः द्वितीय इत्यर्थाः, अगमत् ॥ 2.110 ॥
इति ‘मल्लिनाथ’सूरिविरचितायां ‘जीवातु’ समाख्यायां नौषधटीकायां
द्वितीयः सर्गः समाप्तः ॥ 2 ॥
अन्वय–( प्रथम सर्ग के समान ) कविराजराजिमुकुटालङ्कारहीरः सुषुवे, तस्य चारुणि प्रबन्धे महाकाव्ये नैषधीयचरिते अयं द्वैतीयीकतया मितः निसर्गोज्जवलः सर्गः अगम् ॥ 2.110 ॥

*************************************************************************

.

॥ श्रीः ॥

नैषर्धायचरितम्

मल्लिनाथकृत ‘जीवातु’ टीकासहित

सान्वय-सटिप्पण ‘चन्द्रिका’ हिन्दीव्याख्योपेतम्

तृतीयः सर्गः

?0 ?0आकुञ्चिताभ्यामथ पक्षतिभ्या नभोविभागात्तरसाऽवतीर्य ॥
निवेशदेशाततधूतपक्षः पपात भूमावुपभैमि हंसः ॥ 3.1 ॥
जीवातु–आकु?ञ्चिताभ्यामिति । अथ मण्डलीकरणानन्तरं हंसः । आकुञ्चिताभ्यां पक्षतिभ्यां पक्षमूलाभ्यां नभोविभागादाकाशदेशात्तरसा वेगेनावतीर्य निवेशदेशे उपनिवेशस्थाने आततौ विस्तारितौ धूतौ कम्पितौ च पक्षौ येन सः तथा सन्नुपभैमि भैम्याः समीये, सामीप्येऽव्ययीभावः, नपुंसकं, ह्रस्वत्वं च । भूमौ पपात । स्वभावोक्तिरलङ्कार ॥ 3.1 ॥
अन्वयः–अथ हंसः बाकु?ञ्चिताभ्याम् पक्षतिभ्याम् नभोविभागात् तरसा अवतीर्य निवेशदेशाततधूतपक्षः भूमौ उपभैमि पपाति ॥ 3.1 ॥
आकस्मिकः पक्षपुटाहतायाः क्षितेस्तदा यः स्वन उच्चार ॥
द्रागन्यविन्यस्तदृशः स तस्याः संभ्रान्तमन्तःकरणञ्चकार ॥ 3.2 ॥
जीवातु–आकस्मिक इति । तदा पतनसममे पक्षपुटाहतायाः क्षितेः । अकस्मादभव आकस्मिकः अट्टष्टहेतुको निर्हेतुक इत्यर्थः । यः स्वनो ध्वनिरुच्चचार चार उत्थितः, स स्वनः अनयविन्यस्तट्टशः विषयान्तरनिविष्टट्टष्टेस्तस्याः भैम्याः अन्तःकरणं द्राक् ह्मटिति समृभ्रान्तं ससंभ्रमं चकार । अकाण्डेऽसम्भावितशब्दश्रवणाच्चमत्कचित्ताऽभूदित्यर्थः । स्वभावाक्तिः ॥ 3.2 ॥
अन्वय–पक्षपुटाहतायाः क्षितेः आकस्मिकः यः स्वनः तदा उच्चार सः अन्यविन्यस्तटृशः तस्याः अन्तःकरणं प्राक् सभ्रान्तं चकार ॥ 3.2 ॥
नेत्राणि वैदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहाणि ॥
प्रापुस्तमेकं निरुपाखपरूपं ब्रह्मेव चेतांसि यतव्रतानाम् ॥ 3.3 ॥
जीवातु–नैत्राणीति । विदर्भाणां राजा वैदर्भः । तस्य सुतायाः भैम्याः सखीनां नैत्राणि विमुक्तास्तत्तद्विषयग्रहाः तत्तदर्थग्रहणानि अन्यत्र तत्तद्विषयासङ्गो यैस्तानि सन्ति एकमेकचरम् अद्वितीयञ्च नोपाख्यायत इति निपरुपाख्यमवाच्यं रूपमाकारः, स्वं स्वरूपं च यस्य तं पुरोवर्त्तिनं हंसं तत्पदार्थभूतञ्च यतव्रतानां योगिना चेतांसि ब्रह्मा परात्मानमिव प्रापुः, अत्यादरेणाद्राक्षुरित्यर्थः ॥ 3.3 ॥
अन्वयः–विदर्भसुतासखीनां विमुक्ततत्तद्विषयग्रहानि नेत्राणि यतव्रतानां चेतांसि ब्रह्म इव एकं निरुपाख्यरूपं तं हसं प्रापुः ॥ 3.3 ॥
हंसं तनौ सन्निहितं चरन्तं मुनेर्मनोवृत्तिरिव स्विकायाम् ॥
ग्रहीतुकामादरिणा शयेन यत्नादसौ निश्चलतां जगाहे ॥ 3.4 ॥
जीवातु–हंसमिति । असौ दमयन्ती मुनेम्रनोवृत्तिरिव स्विकायां स्वकीयायां ‘प्रत्ययस्थात्कात् पूर्वस्ये’तीकारः । तनौ शरीरान्तिके अन्यत्र तदभ्यन्तरे सन्निहितमासन्नमाविर्भुतं च चरन्तं सञ्चरन्तं वर्त्तमानं च हंसं मरालं परमात्मानं च, ‘हंसो विहङ्गभेदे च परमात्मनि मत्सर’ इति विश्वः । अदरिणा निर्भीकेण शयेन पाणिना ‘दरो स्त्रियां भेय श्वभ्रे’, ‘पंचशाखः शयः पाणिरि’त्यमरः । अन्यत्र आदरिणा आदरवता आशयेन
चित्तेन ग्रहीतुकामा साक्षात् कर्त्तुकामा च यत्नात् निश्चलतां निश्चलाङ्गत्वं जगाहे जगाम ॥ 3.4 ॥
अन्वयः–असौ सन्निहितं चरन्तं हंसं दरिणा ( अदरिणा वा ) शयेन ( आरिणा आशयेन वा ) ग्रहीतुकामा मुनेः मनोवृत्तिः इव स्विकायां तनौ यत्नात् निश्चलतां जगाहे ॥ 3.4 ॥
तामिङिगतैरप्यनुमाय मायामयं न धर्याद्वियदुत्पपात ॥
तत्पाणिमात्मोपरिपातुकं तु मोघं वितेने प्लुतिलाघवेन ॥ 3.5 ॥
जीवातु–तामिति । अयं हंसस्तां पूर्वोक्तां मायां कपटमिङ्गितैश्चेष्टितैर नुमाय निश्चित्यापि धैर्यात् स्थैर्यमास्थाय ल्यब्लोपे पंचमी । वियदाकाशं प्रति नोपत्पपात नोत्पतितवान् आत्मन उपरि पातुकम्पतायालुं ‘लषपते’त्यादिना उकञ् प्रत्ययः । तस्याः पार्णि तु प्लुतिलाघवेन उत्पतनकौशलेन मोघं वितेने विफलयत्नम् अकरोत् आशाञ्च जनयति न तु पाणौ लगतीत्यर्थः ॥ 3.5 ॥
अन्वयः–अयं तां भैम्याः मायाम् इङ्गितैः अनुमाय इपि वियत् न उत्पपात, आत्मोपरिपातुकं तत्पाणिं तु प्लुतिलाघवेन मोघं वितेने ॥ 3.5 ॥
व्यर्थीकृतं पत्ररथेन तेन तथाऽवसाय व्यवसायमस्याः ॥
परस्परामर्पितहस्ततालं तत्कालमालीभिरस्यतालम् ॥ 3.6 ॥
जीवातु–व्यर्थीकृतमिति । अस्याः भैम्याः व्वसायं हंसग्रहणीद्योगं तेन पत्ररथेन पक्षिणा व्यर्थीकृतं तथाऽवसाय ज्ञात्वा तत्कालं तस्मिन् काले अत्यन्त संयोगे द्वितीया । स एव कालो यस्येति बहुव्रीहौ कियाविशेषणं वा । परस्परां परस्परस्यामित्यर्थः। ‘कर्मव्यतिहारे सर्वनाम्नो द्विर्भावः समासवच्च बहुलमि’ति बहुलग्रहणादसासवदभावे पूर्वपदस्य प्रथमैकवचने कस्कादित्वाद्विसर्जनीयस्य सत्वमुत्तरपदस्य यथायोगं द्वितीयाद्येकवचनं स्त्रीनपुंसकयोरुत्तरपदस्थाया विभक्तेराम्भावो वक्तव्य’ इति विकल्पादामादेशः । अर्पितहस्ततालं दत्तहस्तताडनं यथा तथा आलीभिः सखीभिरलम् अत्यर्थम् अहस्यत हसितम् । भावे लङ्
॥ 3.6 ॥
अन्वयः–तेन पत्ररथेन अस्याः व्यवसायं तथा व्यर्थीकृतम् अवसाय लीभिः तत्कालं परस्पराम् अर्पितहस्ततालम् अलम् अहस्यत ॥ 3.6 ॥
उच्चाटनीयः करतालिकानां दानादिदानीं भपतीभिरेषः ॥
याऽन्वेति मां द्रुह्मति मह्ममेव साऽत्रेत्युपालम्भि तयाऽऽलिवर्गः ॥ 3.7 ॥
जीवातु–उच्चाटनीय इति । हे सख्यः । भवतीभिरेष हंसः करतालिकानां दानादन्योन्यहस्तताडनकरणादुच्चाटनीयः निष्काशनीयः किमिति काकुः नोच्चाटनीय एवेत्यर्थः । अत्र आसु मध्ये या मामन्वेति सा मह्ममेव द्रुह्मति मां जिघांसतीत्यर्थः । ‘कुघद्रुहे’त्यादिना सम्प्रदानत्वात् चतुर्थीं । इतीत्थं तया भैभ्या आलिवर्गः सखीसंघ उपालम्भि अशापि, शापेनैव निवारित इत्यर्थः ॥ 3.7 ॥
अन्वयः–करतालिकानां दानात् इदानीं भवतीभिः एष3 उच्चाटनीयः? अत्र या माम् अन्वेति, सा मह्मं द्रुह्मति एव–इति तया आलिवर्गः उपालम्भि ॥ 3.7 ॥
धृताल्पकोपा हसिते सखीनां छायेव भास्वन्तमभिप्रयातुः ॥
श्यामाऽथहंसस्य करानवाप्तेर्मन्दाक्षलक्षा लगति स्म पश्चात् ॥ 3.8 ॥
जीवातु–घृतेति । अथ सखीनिवारणानन्तरं सखीनां हसिते हासनिमित्ते धृताल्पकोपा तासु ईषत्कोपा इत्यर्थः । भास्वन्तमभ्रिपयातुः सूर्याभिमुखं गच्छतः छाया अनातपरेखेव श्यामा यौवनमध्या ‘श्यामा यौवनमध्यस्था’ इत्युत्पलमालायाम् । अन्यत्र श्यामा नीला, हंसस्य कर्मणि षष्ठी । करेण हस्तेन अनवासेरग्रहणाद्धेतोर्मन्दाक्षं ह्रीस्तेन लक्ष्या उपलक्ष्या ह्रीणा सतीत्यर्थः । अन्यत्रहंसस्य सूर्यस्य करानवाप्तेः अंशुसंस्पर्शाभावात् मन्दाक्षैरपटुटृष्टिभिर्लक्ष्या ग्राह्म तैः छाया लक्ष्यते न प्रकाश इति भावः । पश्चाल्लगति स्म पृष्ठे लग्नाऽभूत प्राप्तयाशया तमन्वगात् । ‘रविश्वेतच्छदौ हंसौ’, ‘बलिहस्तांशवः करा’ इति चामरः॥ 3.8॥
अन्वयः–अथ? सखीनां हसिते धृताल्पकोपा भास्वन्तम् अभिप्रयातुः छाया इव श्यामा करानवाप्तेः मन्दाक्षलक्ष्या हंसस्य पश्चात् लगति स्म ॥ 3.8 ॥
शस्ता न हंसाभिमुखी तवेयं यात्रेति ताभिश्छलहस्यमाना ॥
साऽऽह स्म नैवाशकुनीभवेन्मे भाविप्रियावेदक एष हंसः ॥ 3.9 ॥
जीवातु–शस्तेति । तवेयं हंसरय श्वेतच्छदस्य चाभिमुखी गमनं न शस्ता न्र प्रशस्ता श्रयेस्करी न शस्त्रविरोधात् श्रमसन्तापटृष्टदोषाच्चेति भावः । इ तीत्थं ताभिः छलेन व्याजोक्त्या हस्यमाना सती भावविप्रियावेदको मङ्गलमूर्त्तित्वादागामिशुभूचकः एष हंसो मे मम नाशकुनीभवेदेव, किन्तुशकुनमेव भवेदित्यर्थः । अपक्षी न भवेदिति च गम्यते ‘शकुनन्तु शुभाशंसानिमत्ते शकुनः पुमानि’ति विश्वः । ‘अभूततदभवि च्विः’ विध्यादिसूत्रेण प्रार्थने लिङ् । इत्याह स्म अवोचत्, ‘व्रु वः पंचानामि’त्याहादेशः । एतेन तदीययात्रानिषेधोक्तदोषः परिहृतो वेदितव्यः ॥ 3.9 ॥
अन्वयः–ते हंसाभिमुखी यात्रा पुनः शस्ता न-इति ताभिः छलहस्यमाना सा आह स्म–भाविप्रियावेदकः एषः हंसः एव, मे न अशुकनीभवेत् ॥ 3.9 ॥
हंसोऽप्यसौ हंसगतेस्मुदत्याः पुरःपुरश्चारु चलन् बभासे ॥
वेलक्ष्यहेतोर्गतिमेतदीयामग्रेऽनुकृत्योपहसन्निवोच्चैः ॥ 3.10 ॥
जीवातु–एवं दमयन्तीव्यापारमुक्त्वा सम्प्रति हंसस्य व्यापारमाहहंसोऽपीति । असौ हंसोऽपि हंसस्य गतिरिव गतिर्यस्यास्तस्याः सुदत्याः शोभनदन्तायाः भैम्याः, सुदती व्याख्याता । पुरःपुरः वीप्सायां द्विर्भावः । अग्रे समन्तात्, चारु मानयमतिविडम्बयतीति तस्या अपि विस्मयजननार्थमित्यर्थः । ‘विलक्षो विस्मयान्वित’ इत्यमरः । ‘विलक्षो विस्मयान्वित’ इत्यमरः । ‘षष्ठी हेतुप्रयोग’ इति षष्ठी । एतदीयाङ्गतिमनुकृत्य अभिनीय उच्चैरुपहसन्निवेत्युत्प्रेक्षा, बभासे बभो लोके परिहासकाः तच्चेष्टाद्यनुकरणेन परान् विलक्षयन्ति ॥ 3.10 ॥
अन्वयः–हंसगतेः सुदत्याः पुरः पुरः चारु चलन् असौ हंसः अपि वैलक्ष्यहेतोः तदीयां गतिम् अनुकृत्य उच्चैः उपहसन् इव बभासे ॥ 3.10 ॥
पदे पदे भाविनि भाविनी तं यथा करप्राप्यमवैति नूनम् ॥
तथा सखेलं चलाता लतासु प्रतार्य तेनाचकृतषे कृशाङ्गी ॥ 3.10 ॥
जीवातु–पदे भाविनि भविष्यत्यनन्तर इत्यर्थः । ‘भविष्यति गम्यादय’इति साधुः । पदे पदे तं हंसं यथा करप्राप्यं करग्रहचं नूनं निश्चितमवैति प्रत्येति, तथा सखेलं चलता गच्छता तेन हंसेन प्रतार्य वञ्चयित्वा लतासु आचकृषे आकृष्टा, एकान्तं नीतेतृयर्थः ॥ 3.11 ॥
अन्वयः–माविनी कृशाङगी भाविनि पदे पदे तं यथा करप्राप्यं नूनम् अवैति तथा सखेलं चलता तेन प्रतार्य लतासु आचकृषे ॥ 3.11 ॥
रुषा निषिद्धालिजनां यदैनां छायाद्वितीयां कलयाञ्चकार ॥
तदा श्रमाम्भःकणभुषिताङगी स कीरवन्मानुषवागावादीत् ॥ 3.12 ॥
जीवातु–रुषेति । रुषानिषिद्धालिजनां निवारितसखीजनां यदा छाया एव द्वितीया यस्यास्तामेका?किनी कलयाञ्चकार वि?वेद, तदा श्रमाम्भःकणभूषिताङ्गीं स्वेदाम्बुलवपरिष्कृतशरीरां स्विन्नगात्रान्तां स हंसः कीरवत् शुकवन्मनुष्यस्येव वाग्यस्य स सन्नवादीत् ॥ 3.12 ॥
अन्वयः–यदा सः रुषा निषिद्धालिजनाम् एनां छायाद्वितीयां कलयाञ्चकार तदा श्रमाम्भः कणभूषिताङ्गीं कीरवत् मानुषवाक् अवादीत् ॥ 3.12 ॥
अये ! कियद्यावदुपैषि दूरं व्यर्थं परिश्राम्यसि वा किमर्थम् ? ॥
उदेति ते भीरपि किन्नु बाले विलोकयन्त्या न धना वनालीः ? ॥ 3.13 ॥
जीवातु–अय इति ! बाले ! व्यर्थं कियद्दूरं यावदुपैषि उपेष्यसि ? ‘यावयत्पुरानिपातयोर्लद्’ । किमर्थं परिश्राम्यसि वा ? घनाः सान्द्रो वनालीर्वनपंक्तीर्विलोकयन्त्यास्ते भीरपि नोदेति किन्नु ? ॥ 3.13 ॥
अन्वयः–अये कियद् दूरं यावत् व्यर्थम् उपैषि, किमर्थं परिश्राम्यसि वा ? बाले, घना वनालीः विलोकयन्त्या ते भीः अपि न उदेति किन्तु ? ॥ 3.13 ॥

वृथाऽर्पयन्तीमपथे पदं त्वां मरुल्ललत्पल्लवपाणिकम्पैः ॥
आलीव पश्य प्रतिषेधतीयं कपोतहुङ्कारगिरा वनाली ॥ 3.14 ॥
जीवातु–वृथेति । वृथा व्यर्थमेव न पन्था उपथम्, ‘ऋक्पूरि’त्यादिना समासान्तः अः, ‘अपथं नपुंसकम्’ । तस्मिन्नपथे दुर्मार्गे अकृत्ये च पदं पाद व्यवसायं च अपंयन्ती ‘पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुष्व’त्यमरः । मरुता ललन् चलन् पल्न् एव पाणिस्तस्य कम्पैः कपोतहुङकारगिरा च वनाली आलीव सखीव प्रतिषेधति निवारयति, पश्य इति वाक्यार्थः कर्म । यथा लोके अमार्गवृत्तं सुहृज्जनः पाणिना वाचा च वारयति तद्वदित्यर्थः । अत एव पल्ललत्पल्लवपाणिकम्पैः कपोतहुङ्कारगिरा आली इव प्रतिषेधति ॥ 3.14 ॥
अन्वयः–व्यृथा अपथे पदम् अपंयन्तीं त्वाम् पश्य इयं बनाली मरुल्ललत्पल्लवपाणिकम्पैः कपोतुङ्कारगिरा आली इव प्रतिषेधति ॥ 3.14 ॥
धार्यः कथंकारमहं भवत्या वियद्विहारी वसुर्धकगत्या ॥
अहो शिशुत्वं तव खण्डितं न स्मरस्य सख्या वयसाऽप्यनेन ॥ 3.15 ॥
जीवातु–धार्य इति । एकत्रैव गतिर्यस्यास्तया एकगत्या वसुधायामेकगत्या भूमात्रचारिण्येत्यर्थः । शिवभवतवत्समासः । भवत्या वियद्विहारी खेचरोऽहं कथङ्कारं कथमित्यर्थः । ‘अन्यथैवं कथमित्थंसुसिद्धाप्रयोगश्चेदि’ति’ कथंशब्दोपपदात्करोतेर्णमुल् । धार्यो धर्तुं ग्रहीतुं शक्य इत्यर्थः । ‘शकि लिङ् चे’ति चकाराच्छक्यार्थे कृत्यप्रत्ययः । अनेन स्मरस्य सख्या सखिना तदुद्दीपकेन वयसा यौवनेन सखिशब्दस्य भाषितपुंस्कत्वात् पुंवदभावः । न खण्डिनं न? निवर्त्तितम् अहो विरुद्धवयसोरेकत्र समावेशादाश्चर्यमित्यर्थः । अत्राधार्यत्वस्य वसुधागतिविय द्विहारपदार्थहेतुकत्वादेकः काव्यलिङ्गभेदस्तथा शैशवाखण्डनस्य पूर्ववाक्यार्थहेतुकतृवादपर इति सजातीयसङ्करः ॥ 3.15 ॥
अन्वयः–वसुधैकगत्या त्वया वियद्विहारी अहं कथङ्कारं धार्यः ? अहोः स्मरस्य सख्या अनेन वयसा अपि तव शिशुत्वं न खण्डितम् ॥ 3.15 ॥
सहस्त्रपप्त्रासनपत्रहंसवंशस्य पत्राणि पतत्रिणः स्मः ॥
अस्मादृशां चादुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥ 3.16 ॥
जीवातु–अथ प्रस्तुतोपयोगितया निजान्वयं निवेदयति-सहस्त्रेति : सहस्त्रपत्रासनस्य कमलासनस्य पत्रहंसाः वाहनहंसाः तेषां वंशस्य कुलस्य वेणोश्च पत्राणि वाहनानि पर्णानि च ‘वंशो वेणौ कुले वर्गे’, ‘पत्रं स्याद्वाहने पर्णे’ इति च विश्वः । पतत्रिणः स्मः ब्रह्मवाहनहंसवंश्याः व्यमित्यर्थः । अस्मानिव पश्यन्तीति अस्माटृशामस्मद्विधानां ‘त्यदादिष्वि’त्यादिना टृशेः क्विन् चादुषु सुभाषितेषु ये रसाः शृंगारादयः त एव अमृतानि स्वलोके लोका अनाः, ‘लोक’तु भुवने जने’ इत्यमरः । तेभ्यः इतरैर्मनुष्यैर्दुर्लभानि लब्धुमशक्यानीत्यर्थः ॥ 3.16 ॥
अन्वयः–सहस्त्रपत्रासनपत्रहंसवंशस्य पत्राणि पतत्रिणः स्मः अस्माटृशां चाटुरसामृतानि स्वर्लोकलोकेतरदुर्लभानि ॥ 3.16 ॥
स्वर्गापगाहेममृणालिनीनां लालामृणालाग्रभुजो भजामः ॥
अन्नानुरूपां तनुरूपऋर्द्धि कार्यं निदानाद्धि गुणानधीते ॥ 3.17 ॥
जीवातु–अथा स्वाकारस्य कनकमयत्वे कारणमाह-स्वर्गेति । स्वर्गापगा स्वर्णदी तस्या हेममृणालिन्यस्तासां या नालाः काण्डाः यानि मृणालानि कन्दाश्च । अत्र नालामृणालशब्दस्य शब्दानुशासनं केषां शब्ददानामितिवत्समासे गुणभूतेन सम्बन्धः सोढव्यः ‘नालो नालमथास्त्रियामि’ त्यमरवचनान्नालेति स्त्रीलिङ्गनिर्देशः न च तत्ररापि स्नदेहः । तद् व्याख्यानेषु देशान्तरकोषेषु च स्त्रीलिङ्गपाठस्यैव दशानात् । तथा च दशमे र्से नप्रयोक्ष्यते ’ ममृदुत्वर्मौढमृणालनालया’ इति, ‘नाला स्याद्विसकन्द’ इतिविश्विः, तेषामग्राणि भुञ्जत इति तद्भुजः वयमिति शेषः । अन्नानुरूपमाहारसटृशीन्तनोः शरीरस्य रूपऋद्धि वर्णसमृद्धिम् ‘ऋत्यक’ इति प्रकृतिभावः । भजामः प्राप्ताः स्म इत्यर्थः । तथा हि कार्य जन्यं द्रव्यं निदानादुनपादानात्,
‘आख्श्यातोपयोग’ इत्यपादानता गुणान् रूपादिविशेषणगुणान् अधीते प्राप्नोतीत्यथ्रः । प्राप्तिविशेषवाचिनस्तत्सामान्यलक्षणात् प्रायेण आहारपरिणतिविशेषपूर्विकाः प्राणिनां कायकान्तय इति भावः । सामान्येन विशेषसमथरूपोऽर्थान्तरन्यासः ॥ 3.17 ॥
अन्वयः–स्वर्गापगाहेममृणालिनीनां नालामृणालाग्रभुजः ( वयम् ) अत्रानुरूपां तनुरूपऋद्धि भजामः, हि कार्यनिदानात् गुणान् अधीते ॥ 3.17 ॥
धातुर्नियोगादिह नैषधीयं लीलासरस्सेवितुमागतेषु ॥
हैमेषु हंसेष्वहमेक एव भ्रमामि भूलोकविलोकनोत्कः ॥ 3.18 ॥
जीवातु–अथातृमनः क्ष्मालोकसञ्चरणे ेकारणमाह-घातुरिति । धातु र्ब्रह्मणो नियोगादादेशादिह भूलोके नैषधीयं नलीयं लीलासरः सेवितुं क्रीडासरसि विहर्तुंमित्यर्थः । आगतेषु हैमेषु हेमविकारेषु । विकारार्थेऽणु प्रत्ययः । ‘नस्तद्धित’ इति टिलोपः । हंसेषु मध्ये अहमेक एव भूलोकवलोकने उत्क उत्सुकः सन् ’ दुर्मना विमना अन्तर्मनाः स्यादुत्क उन्मना’ इत्यमरः । उच्छब्दात्कनु प्रत्ययान्तो निपातः भ्रमामि पर्यटामि ॥ 3.18 ॥
अन्वयः–धातुः नियोगात् इह नैषधीयं लीलासरः सेवितुम् आगतेषु हैमेषु हंसेषु एकः अहम् एव भूलोकविलोकनोतृकनोत्कः भ्रममि ॥ 3.18 ॥
विधेः कदाविचद् र्भमणीविलासे श्रमातुरभ्यस्स्वमहत्तरेभ्यः ॥
स्कन्धस्य विश्रान्तिमदां तदादि श्राम्यामि नाविश्रमविश्वगोऽपि ॥ 3.19 ॥
जीवातु–अनवरतभ्रमणेऽपि श्रमज्ये कारणामाह–विधेरिति ! कदाचिद्विधेः ब्रह्मणा भ्रमणीविलासे भुवनभ्रमणविनोदे श्रमातुरेभ्यः अवसन्नेभ्यः स्वमहत्तरेभ्यः स्वकुलवृद्धेभ्यः स्कन्धस्यांसस्य, ‘स्कन्धो भुजशिरोंऽस्त्री’त्यमरः । विश्रान्तिमदां प्रादाम् । स्वयमेक एवाहमित्यर्थः । ददातेर्लुङि ‘गातिस्थे’त्यादिना सिचो लुक् । तदादि तत्प्रभृति अविश्रममनवरतं ‘नोदात्तापदेश’ त्यादिना श्रमे?र्धञि वृद्धिप्रतिषेधः, विश्वगो विश्वं गच्दन्नपि ‘अन्यत्रापि दृश्यत’ इतिगमेर्हप्रत्ययः । न श्राम्यामि न खिद्ये ॥ 3.19 ॥
अन्वयः–कदाचित् विधेः भ्रमणीविलासे श्रमातुरेभ्यः स्वमहत्तरेभ्यःस्कन्धस्य विश्रान्तिम् अदाम् तदादि अविश्रमविश्वग । अपि न श्रम्यामि ॥ 3.19 ॥
बन्धाय दिव्ये न तिरश्चि कश्चित्पाशादिरासादितपौरुषस्यात् ॥
एकं विना मादृशि तन्नरस्य स्वर्भोगभाग्यं विरलोदयस्य ॥ 3.20 ॥
जीवातु–अथ व्याधादिबन्धनमपि न मेऽस्तीत्याह-बन्धायेति । माद्यशिदिव्ये तिरश्चि विषये विरलोदयस्य दुर्लभजन्मनो नरस्य मर्त्यस्य प्रायेणैवंविधो नास्तीत्यर्थः । अन्यत्र विरो विगतरेफः स चासौ लोदयो लोदयवांश्च मत्वर्थीयोऽकारः । तस्य रेफस्थानाधिष्ठितलकारस्य नलस्येत्यर्थः । शब्दधर्मोऽर्थ उपचर्यते, भुज्यत इति भोगः सुखं स्वर्गभोगस्य स्वर्गसुखस्य भाग्यं तत्प्रापकाटृमित्यर्थः । स्वप्राप्तेस्तत्प्रपकत्वादिति भावः । तदेकं विना कश्चित् पाशादिः पाशाद्युपायः । बन्धाय बन्धनार्थमासादितापौरुषः प्राप्तव्यापारो न स्यात् । स्वर्भोगभाग्यैपदार्थ इति भावः ॥ 3.20 ॥
अन्वयः–माटृशि दिव्य तिरश्चि विरलोदयस्य नारस्य एंक स्वर्भोगभाग्यं विना कश्चित् पाशादिः बन्धाय आसादितपौरुषः न स्यात् ॥ 3.20 ॥
इष्टेन पूर्तेन नलस्य वश्यास्स्वर्भोगमत्रापि सृजन्त्यमर्त्याः ॥
महीरुहा दोहदसेकशक्तेराकालिकं कोरकमुद्गिरन्ति ॥ 3.21 ॥
जीवातु–तच्च भाग्यं नलस्यैवास्तीत्याह–इष्टेनेति । इष्टेन यागेन पूर्त्तेन खातादिकर्मणा च । ‘त्रिष्वय क्रतुर्मेष्टं पूर्त्तं खातादिकर्मणी’त्यमरः । वश्याः बशङ्ग इति प्राग्दीव्यतीयो यत्प्रत्ययः ! अमर्त्या देवा नलस्यात्रापि भूलोके स्वर्भोगं सृन्ति स्वर्गसुखं सम्पादयन्तीत्यर्थः । ननु देवाश्च कथं लोकान्तरकायान्तरभोग्यं स्वर्गमिदानीं सृजन्मतीत्याशङ्कां टृष्टान्तेन परिहरति । महीरुहो वृक्षाः दोहदस्य अकालप्रसवोत्पादनद्रव्यस्य सेकस्य जलनसेकस्य शक्तेः सामर्थ्यात् समानकालावाद्यन्तौ उत्पत्तिविनाशावस्येतृयाकालिकः
उतृपत्त्यनन्तरविनाशीत्यर्थः । ‘आकालिकडाद्यन्तवचनं’ इति समानकालबद्स्याकालशब्दादेशे ठञ्प्रतृययान्तो निपातः । प्रकृते त्वकालभवं कोरकमुद्गिरन्तीत्यर्थः । ‘तरुगुल्मलतादीनामकाले कुशलैः कृतम् । पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्किया’ इति शबदार्णवे । दोहदवशाद् वृक्षा इव देवता अपि उत्कटपुण्यवशाददेशकालेऽपि फलं प्रयच्छन्तीत्यर्थः टृष्टान्तालङ्कारः ॥ 3.21 ॥
अन्वयः-इष्टेन पूर्त्तेन वश्याः अमतृर्याः अत्र अपि नलस्य स्वर्भोगं सृजन्ति, महीरुहः दोहदसेकशक्तेः आकालिकं कोरकम् उदिगरन्ति ॥ 3.21 ॥
सुवर्णशैलादवतीर्य तूर्णं स्वर्वाहिनीवारिकणाकवकीर्णैः ॥
तं वीजयामः स्मरकेलिकाले पक्षेर्नृपं चामरबद्धसख्यैः ॥ 3.22 ॥
जीवातु–स्वभोगेमेवाह–सुवर्णेति । सुवर्णशैलान्मेरोस्तूर्णमवतीर्य्य अवरुह्म स्वर्वाहिनीवारिकणावकीर्णैः मन्दाकिनीजलविन्दुसन्दुसम्पृक्तैः चामरेषु बद्धसख्यैस्तत्सटृशैः पक्षैः पतत्रैः स्मरकेलिकाले तं नृपं वीजयामः ताटृक्पक्षीजनैः सुरतश्रान्तिमपनुदाम इत्यर्थः ॥ 3.22 ॥
अन्वयः–सुगर्णशैलात् तूर्णम् अवतीर्य स्वर्वाहिवाहरिकणावतीर्णैः चामरबद्धसख्यैः पक्षै स्मरकेलिकाले तं नृपं वीजयामः ॥ 3.22 ॥
क्रियेत चेत्साधुविभसक्तिचिन्ता व्यक्तिस्तदा सा प्रथमाभिधेया ॥
या स्वौजसां साधयितुं विलासैस्तावत्क्षमा नामपदं बहु सयात् ॥ 3.23 ॥
जीवातु–क्रियेतेति । साधुविभक्तचिन्ता सज्जनविभागविचारः क्रियेत चेत्सा नलाभिधाना व्यक्तिः मूर्तिः प्रथमाभिधेया प्रथमं परिगणनीया । कुतः या व्यक्तिः स्वौजसां विलासैर्व्याप्तिभिः तावद्बहु तथा प्रभूतं नास्ति नामो नतिर्यस्येति–अनाकमनभ्र पदं परराष्ट्र साधयितुं स्वायत्तीकर्तृं क्षमा समर्था स्यात् । अन्यत्र साधुविभक्तिचिन्ता सप्तविभविचारः क्रियेत चेत् यदा सा प्रथमा व्यक्तिः अभिधेया विचार्य्या, या स्वौजसां ‘वृक्ष’ इत्यादिकं पदं साधयितुं निष्पादयितुं क्षमा । अत्राभिधायाः प्रकृतार्थमात्रनियन्त्रितत्वाल्लक्षणायाश्चानुपपत्त्यभावेनाभावादप्रकृतार्थप्रतीतिर्ध्वनिरेव ॥ 3.23 ॥
अन्वयः–साधुविभक्तिचिन्ता क्रियेत चेत् तदा सा व्यक्तिः प्रथमाभिधेया, या स्वौजसां विलासैः तावत् बहु अनामपदं ( पक्षान्तरे नामपदम् ) साधयितुं क्षमा स्यात् ॥ 3.23 ॥
राजा स यज्वा विबुधव्रजत्रा कृत्वाऽवराज्योपमयेव राज्यम् ॥
भुङ्क्ते श्रितश्रोत्रियसात्कृतश्रीः पूर्वं त्वहो शेषमषेषमन्त्यम् ॥ 3.24 ॥
जीवातु–राजेति । ‘यज्वा तु विधिनेष्टवान् ‘, ‘सुययजोर्ङ्वनिप्’, श्रिता जाश्रिताः ये श्रोत्रियाः छान्दसा अधीतवेदा इत्यर्थः । ‘श्रोत्रियच्छान्दसौ समावि’ त्यमरः । ‘श्रोत्रियश्छन्दोऽधीत’ इति निपातः । तत्सात्कृपमया तत्साटृश्येनैव तद्वदेवेत्यर्थः । राज्यं विबुधा देवा विद्वांसश्च तद्जत्रा दानेन तत्सङ्घाधीनं कृत्वा ‘देये त्रा चे’ति चकारादितरत्र सातिप्रत्ययश्च, ‘तद्धितश्चासर्वविभक्तिरि’त्यव्ययत्वम्, पूर्वं पूर्वनिर्दिष्टमध्वराज्यं शेषं हुतशेष भुङ्क्ते अन्त्यं पश्चान्निर्दिष्टं राज्यन्त्वशेषं कृत्स्नमखण्डं भुङ्क्ते, अहो उपभुक्तादन्यः शेषः पूर्वस्याशेषस्य तथात्म्, अन्त्यस्य अशेषत्वं कथं विरोधादित्याश्चर्यम्, अत एव विरोधाभासोऽलङ्कारः, अखण्डमिति परिहारः ॥ 3.24 ॥
अन्वयः–श्रितश्रोत्रियसात्कृतश्रीः यज्वा सः राजा अध्वराज्योपमया एव राज्यं विबुधव्रजत्रा कृत्वा अहो, पूर्वं शेषम् अन्त्यम् अशेषं भुङ्क्ते ॥ 3.24 ॥
दारिद्र्यदारिद्रविणौघवर्षैरमोघमेघव्रतमर्थिसार्थे ॥
सन्तुष्टमिष्टानि तमिष्टदेवं नाथन्ति के नाम न लोकनाथम् ॥ 3.25 ॥
जीवातु-दारिद्र्येति । दारिद्र्यं दारयति निवर्तयतीति तस्य दारिद्र्यदारिणो द्रविणौघस्य घनराशेर्वर्षैरर्थिसार्थे विषये अमोघमेघव्रतं वर्षु कत्व लक्षणं यस्य तं सन्तुष्टं दानहृष्टमिष्टेवं यज्ञाराधितसुरलोकनाथं तं नलं के नाम इष्टानि न नाथन्ति ? न याचन्ते सर्वेऽपि नाथन्त्येवेत्यर्थः । नायतेर्या-च्?ञार्थस्यदुहादित्वाद् द्विकर्मकत्वम् ॥ 3.25 ॥
अन्वयः–दारिद्र्यदारिद्रविणौघवर्षैः अर्थिसार्थे अमोघमेघव्रतं सन्तुष्टम् इष्टदेवं लोकनाथं तं के नाम इष्टानि न नाथन्ति ? ॥ 3.25 ॥
अस्मत्किल श्रोत्रसुधां विधाय रम्भा चिरं भामुतुलां नलस्य ॥
तत्रानुरक्ता तमनाप्य भेजे तन्नामगन्धान्नलकूबरं सा ॥ 3.26 ॥
जीवातु–अस्मदिति । सा प्रसिद्धा रम्भा नलस्यातुलामनुपमां भा सौन्दर्यमस्मत् मत्तः श्रोत्रसुधां विधाय कर्णे अमृतं कृत्वा रसादाकर्ण्येत्यर्थः । तत्र तस्मिननले अनुरक्ता सती तं नलमनाप्य अप्राप्य, आङ्पूर्वादाप्नोतेः कत्वो ल्यबादेशः नञ्समासः । अन्यथा त्वसमासे ल्यबादेशो न स्यात् तन्नामगन्धात्तस्य नलस्यनामाक्षरंस्पर्शाद्धेतार्नलकूबरं कूबेरात्मजं भेते किल । ताटृक्तस्य सौन्दर्यमिति भावः ॥ 3.26 ॥
अन्वयः–सा रम्भ नलस्य अतुलां भाम् अस्मत् चिरं श्रोत्रसुधां विधाय तत्र अनुरक्ता तम् अनाप्य तन्नामगन्धात् नलकूबरं भेजे ॥ 3.26 ॥
स्वर्लोकमस्माभिरितः प्रयातैः केलीषु तद्गानगुणान्निपीय ॥
हा हेति गायन् यदशोचितेन नार्म्नव हाहा हरिगायनो1़भूत् ॥ 3.27 ॥
जीवातु–स्वर्लोकमिति । केलीषु धिनोदगोष्ठीषु तस्य नलस्य कर्तुर्गाने गुणान्निपीय इतः अस्माल्लोकातृ स्वलोंकं प्रायातेरस्माभिहा रिगायनः इन्द्रगायको गन्धर्वः ‘ण्युट् चे’ति गायतेः शिल्पिनि ण्युट्प्रत्ययः । गायन् यद्यस्मात् हाहेत्य शोति, ततस्तेनैवमाद्या गन्धर्वास्त्रिदिवौकसामि’ त्यमरः । ‘आलापाक्षरानुकारनिमित्तोऽयमाकारान्तः पुंसि चे’ति केचित् । ‘हा हा खेदे हूहू हर्षे गन्धर्वेऽमू अनव्यय’इति विश्वः । अव्यमेवेति भोजः अत्र शोकनिमित्तासम्बन्धेऽपि सम्बन्धादतिशयोक्तिः । तथा च गन्धर्वातिशायि गानमस्येति वस्तु व्यज्यते ॥ 3.27 ॥
अन्वयः–केलीषु तद्गानगुणान् निपीय इतः स्वलों कं प्रयातैः अस्माभिः हरिगायनः गायन् यत् हा हा इति अशोचि, तेन नाम्ना एव हाहा अभुत् ॥ 3.27 ॥
शृण्वन् सदारस्तदुदारभावं हृष्यन्मुहुर्लोम पुलोमजायाः ॥
पुण्येन नालोकत नाक्रपालः प्रमोदवाष्पावृतनेत्रमालः ॥ 3.28 ॥
जीवातु–शृण्वन्निति । नाकपाल इन्द्रः सदारः सवधूकः तस्य नलस्य उदारभावमौदार्यं शृण्वन्नत एव प्रमोदवाष्पैरानन्दाश्रुभिरवृतनेत्रमालस्तिरोहितदृष्टिव्रजः सन् पुलोमजायाः शच्याः मुहुर्हृष्यन्नलानुरागादुल्लोमरोमाञ्चं पुण्येन शच्या भाग्येन नालोकत नापश्यत् अन्यथा मानसव्यभिचारापराधाद् दण्ड्यैवेत्यर्थः ॥ 3.28 ॥
अन्वयः–सदारः नाकपालः तदुदारभावं शृण्वन् प्रमोदवाष्पावृतनेत्रमालः पुलोमजायाः मुहुः हृष्यत् लोम पुण्येन न आलोकत ॥ 3.28 ॥
साऽपीश्वरे शृश्वति तद्गुणौघान् प्रसह्म चेतो हरतोऽर्धशम्भुः ॥
अभूदपर्णऽङ्गु लिरुद्धकर्णा कदा न कण्डूयनकैतवेन ? ॥ 3.29 ॥
जीवातु–सेति । ईश्वरे हरे प्रसह्म चेतो हरतो बलान्मनोहारिणस्तस्य नलस्य गुणौघान् शृण्वति सति सा प्रसिद्धा अर्धं शम्भोरर्धशम्भः शमृभोरर्घाङ्गभूतेत्यर्थः । तथा चापसरणमशक्यमिति भावः । अपर्णा पार्वत्यपि कदाकण्डूयनकैतवेन कण्डूनोदनव्याजेन अङ्गुल्या रुद्धः पिहितः कर्णो यया सा नाभूत् अभूदेवेत्यर्थः । अन्यथा चित्तचलनादिति भावः ॥ 3.29 ॥
अन्वयः–ईश्वरे प्रसह्म चेतः हरतः तद्गुणौघान् शृण्वति सा अर्द्धशम्भुः अपुर्णा अपि कण्डूयनकैतवेन कदा अङ्गुलिरुद्धकर्णा न अभूत् ? ॥ 3.29 ॥
अलं सजन् धर्मविधो विधाता रुणद्धिमौनस्यमिषेण वाणीम् ॥
तत्कण्ठमालिङ्ग्य रसस्य तृप्तां न वेद तां वेदजडः स वक्राम् ॥ 3.30 ॥
जीवातु–अलमिति । विधाता ब्रह्मा अलमत्यन्तं धर्म्विधौ सुकुताचरणं सजन् धर्मासक्तः सन्नित्यर्थः । वाणीं स्वभार्य्यां वाग्देवी वर्णात्मिकाञ्च मौनस्य वाग्यमनव्रतस्य मिषेण रुणद्धि नलकथाप्रसङ्गान्निरुन्धे, तस्या
उभ्य्या अपि तदासङ्गभयादिति भावः । किन्तु वेदजडः छान्दसः विघाता तामुभयीयीमपि वाणीं तस्य नलस्य कठं ग्रीवामालिङ्ग्य मुखमाश्रित्य च सरस्य तृप्तां तद्रागसन्तुष्टामन्यत्र शृङ्गारादिरसपुष्टाञ्च । सम्बन्धसामान्ये षष्ठी, ‘पूरणगुणे’त्यादिना षष्ठीनिषेधादेव ज्ञापकादिति केचित् । वक्रां प्रतिकूलकारिणीं वक्रोक्तयलङ्कारयुक्ताञ्च न वेद न वेत्ति, ‘विदो लटो वे’ति णलादेशः अशक्ययरक्षाः स्त्रिय इति भावः । अत्र प्रस्तुताग्देवीकथनादप्रस्तुतवर्णात्मकवाणीवृत्तान्तप्रतीतेः प्रागुक्तरीत्या ध्वनिरेवेत्युनसन्धेयम् ॥ 3.30 ॥
अन्वयः–धर्मविधौ सजन् विधाता मौनस्य मिषेण अलं वाणीं रुणद्धि ( अथावा वाणीं रुणद्धि अलम् ), वेदजडः सः तत्कण्ठम् आलिङ्ग्य रसस्य तृप्तां तां वक्रां न वेद ॥ 3.30 ॥
श्रियस्तदालिङ्गनभूर्न भूता व्रतक्षतिः काऽपि पतिव्रतायाः ॥
समस्तभूतात्मतया न भूतं तदभर्तुरीर्ष्याकलुषाणुनापि ॥ 3.31 ॥
जीवातु–श्रिय इति । पतिव्रताया? श्रियः श्रीदेव्याः तदभर्तुर्विष्णोः समस्तभूतात्मतया, सर्वभूतात्मकत्वेन नलस्यापि विष्णुरूपत्वेनेत्यर्थंः । तदालिङ्गनभूर्नलाश्लेषभवा कापि व्रतक्षिः पातिव्रतभङ्गो न भूता नाभूत् । अत एव तदभतुर्विष्णोश्च ईर्ष्यया नलालिङ्गनभुवा इव क्षीरस्वामी ‘शस्तं चाथ त्रिषु द्रव्ये पापं पुण्यं सुखादि चे’त्यत्र आदिशब्दाच्छ्रेयःकलुषशिवभद्रादय इति उभयवचनेषु संजग्राह । तस्याणुना लेशेनापि न भूतं नाभावि ॥ नपुंसके भावे क्तः। अत्र शच्यादिचित्तचाञ्चल्योक्तर्नलसौन्दर्ये तात्पर्यान्नानैचित्यदोषः ॥ 3.31 ॥
अन्वयः–पतिव्रतायाः श्रियः तद्भर्त्तुः समस्तभूतात्मतया तदालिङ्गनभुः काऽपि व्रतक्षतिः न भूता, तद्भर्त्तः र्हर्ष्याकलुषाणुना अपि न भूतम् ॥ 3.31 ॥
धिक् तं विधेःपाणियजातलज्जं निर्माति यः पर्वणि पूर्णमिन्दुम् ॥
मन्ये स विज्ञः स्मृततन्मुख्रश्रीः कृतार्धमौज्ह्मदभवमूर्थिन यस्तम् ॥ 3.32 ॥
जीवातु–धिगिति । तमजातलज्जं पर्वस्वित्यर्थः । पूर्वमिन्दुं निर्माति अद्यापीति भावः । स विज्ञः अभिज्ञ इति मन्ये यः पाणिः स्मृततन्मुखश्रीः सन् तमिन्दुं कृतः अर्द्ध एकदेशो यस्य तं कृतार्द्धमर्द्धनिमितमेव भवमूर्धिन हरशिसि औज्ह्मत् । अतिसौन्दर्ययुक्तमस्यास्यमिति भावः ॥ 3.32 ॥
अन्वयः"“स्मृततन्मुखश्रीः यः पर्वणि पूर्वम् इन्दुं निर्माति अजातलज्जं तं विधेः पाणिं धिक्, मन्ये यः भवमूर्ध्नि तं कृतार्द्धम् औजह्मत् सः विज्ञः ॥ 3.32 ॥
निलीयते ह्रीविधुरः स्वजैत्र श्रुतृवा विधुस्तस्य मुखं मुखान्नः ॥
सूरे समुद्रस्य कदापि पूरे कदाचिदभ्रभ्रमदभ्रगर्भे ॥ 3.33 ॥
जीवातु–निलीयत इति । विधुश्चन्द्रः स्वस्य जैत्रं, तृन्नन्तात्प्रज्ञादित्वात् स्वार्थेऽणु प्रत्ययः । तस्य नलस्य मुखं नोऽस्माकं मुखाच्छुत्वा ह्रीविधुरः लज्जाविधुरः सन् कदापि सूरे सूर्ये दर्शेष्वित्यर्थः, कदापि समुद्रस्य पूरे प्रवाहे तदुत्पननत्वात् कदाचिदभ्रभ्रमदभ्रगर्भे आकाशे सञ्चरमाणमेघोदरे निलीयते अन्तर्धत्ते, न कदाचिदग्रतः स्थतुमुत्सहत इति भावः । अत्र विधोः स्वाभाविकयसूर्य्यादिप्रवेशो पराजयप्रयुक्तीनिलीनत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद् गम्या ॥ 3.3 ॥
अन्वयः–विधु नः मुखात् मस्य मुखं स्वजैत्रं श्रुत्वा ह्रीविधुरः कदापि सूरे कदापि समुद्रस्य पूरे अभ्रभ्रमदभ्रगर्मे निलीयते ॥ 3.3 ॥
सज्ञापय नः स्वध्वजभृत्यवर्गान् दैत्यारिरत्यब्जनलास्यनुत्यै ॥
तत्संकुचन्नाभिसरोजपीताद्धातुर्विलज्जं रमते रमायाम् ॥ 3.4 ॥
जीवातु–संज्ञाप्येति । दैत्यारिः विष्णुः स्वध्वजस्य गरुडस्य पक्षिराजस्य भृत्यवर्गाननोऽस्मान् अतिक्रान्तब्जमत्यब्जमब्जवियीत्यर्थः। ‘अतृयादयः क्रान्ताद्यर्थेद्वितीयये’ति समासः । तस्य नलास्यस्य नुतृर्यै स्तोत्राय, ‘स्तवः स्तोत्रं स्तुतिर्नुतिरि’त्यमरः । संज्ञाप्य तत्संकुचता तया नुत्या निमीलतानाभिसरोजेन पीतात्तिरोहिताद्धातुर्ब्रह्मणो विलज्जं यथा तथा तथा रमायां रमते । अत्र विष्णोरुक्तव्यापारासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिः ॥ 3.4 ॥
अन्वयः-दैत्यारिः स्वध्वजभृत्यवर्गात् नः अस्यब्जनलास्यनुतृयै संज्ञाप्य धातुः
तन्सङ्कुचन्नाभिसरोजपीतात् रमायां विलज्जं रमते ॥ 3.34 ॥
रेखाभिरास्ये गणनादिवास्य द्वार्त्रिशता दन्तमयीभिरन्तः ॥
चतुर्दशाष्टादश चात्र विद्या द्वेधाऽपि सन्तीति शशंस वेधाः ॥ 3.35 ॥
जीवातु–रेखाभिरिति । अस्य नलस्य आस्ये दन्तमयीभिर्दन्तरूपाभिर्द्वात्रिंशतारेखाभिर्गणनातृसंख्यानाच्चतुर्दश चाष्टादश च विद्या द्वेधा अपि अत्र आस्ये सन्ति सम्भवन्न्यायेनेति वेधाः शशंसेवेत्युतृप्रेक्षा । ‘अङ्गानि वेदाश्चत्वारो मीमांसा न्यायविस्तरः । पुराणं धर्मशास्त्रञ्च विद्या ह्मेताश्चतुर्दश ॥ आयुर्वेदो धनुर्वेदो गान्धर्वश्चेत्यनुक्रमात् । अर्थशास्त्रऋं परं तस्माद्विद्या हचष्टदश स्मृताः ॥’ इति ॥ 3.5 ॥
अन्वयः–वेधा अस्य आस्य द्वात्रिंशता दन्तमयीभिः रेखाभिः गणनात् चतुर्दश अष्टादश च विद्याः द्वेधा
अपि सन्ति–इति शशंस इव ॥ 3.5 ॥
श्रियौ नरेन्द्रस्य निरीक्ष्य तस्य स्मरामरेन्द्राविव न स्मरामः ॥
वासेन सम्यक् क्षमयोश्च तस्मिन् बुद्धौ न दध्मःखलु षेषबुद्धौ ॥ 3.36 ॥
जीवातु–श्रियाविति । तस्य नरेन्द्रयस्य श्रियौ सौन्दर्यसम्पत्तो निरीक्ष्य, ‘शोभासम्पत्तिपह्मासु लक्ष्मीः श्रीमीः श्रीरि’ति शाश्वतः । स्मरामरेन्द्रावपि न स्मरामः किं च तस्मिन्नरेन्द्रे क्षम्योः क्षितिक्षान्त्थोः ‘क्षितिक्षान्त्यो द्वमे’त्यमरः । सम्यग्वासेन निर्बाधस्थित्या शेषबुद्धौ फणिपिबुद्धदेवौ चित्ते न दध्मः न धारयामः खलु । अत्र द्वयोरपि श्रियोः द्वयोरपि क्षमयोः प्रकृत्वात् केवलप्रकृतश्लेषः । एतेन सौन्दर्यादिगुणैः स्मरादिभ्योऽप्यधिक इति व्यतिरेका व्यज्यते । श्लेषथासंख्ययोः सङ्करः ॥ 33.6 ॥
अन्वयः–तस्य नरेन्द्रस्य श्रियौ निरीक्ष्य स्मरमरेन्द्रौ अपि न स्मरामः तस्मिन् क्ष्मयोः च सम्यक् वासेन बुद्धौ न दष्म खलु ॥ 3.36 ॥
विना पतत्रं विनतातनूजैस्समरणैरीक्षणलक्षणीयैः ॥
मनोभिरसीदनणुप्रमाणैर्न निर्जिता दिक्कतमा तदश्वैः ॥ 3.37 ॥
जीवातु–विनेति । दतत्रं विना स्थितैरिति षेषः । विनतातनुजैः वैनतेयैः, अपक्षतार्क्ष्यैरित्यर्थः । ईक्षणलक्षणीयैः समीरणैचाक्षुषवायुभिःअनणुप्रमाणैः ‘अणुपरिमाणं मन’इति ताकिर्मककाः, तद्विपरीतैर्मतैर्महापरिमाणैर्ननोभिर्वैनतेयादिसमानवे?गैरित्यर्थः । एवंविधैः तदश्वैः कतमा दिक् न लङ्घिताऽऽसीत्? सर्वापि लङ्घितैवासीदित्यर्थः । अत्राश्वानां विशिष्टवैनतेयादित्वेन निरूपणाद्रूपकालङ्कारः ॥ 3.37 ॥
अन्वयः–पतत्रं विना विनतातनूजैः ईद्वक्षणलक्षणीयैः समीरणैःअनणुप्रमाणैः मनोभिः तदश्वैः कतमा दिक् न लङ्घिता आसीत् ? ॥ 3.37 ॥
संग्रामभूमीषु भवत्यरीणामस्त्रैर्नदीमातृकतां गतासु ॥
तद्बाणधारापवनाशनानां राजव्रजीयैरसूभिस्सुभिक्षम् ॥ 3.38 ॥
जीवातु–संग्रामेति । अरीणामस्त्रैरसृग्भिर्नद्येव माता यासां तास्तासां भावस्तत्ता नदीमातृकता नद्यम्बुसम्पननशस्याढ्यता, ‘देशो नद्यम्बुवृष्ट्यम्बुसम्पन्नव्रीहिपालितः । स्यान्नदीमातृको देवमातृकश्च यथाक्रमि’त्यमरः । ‘नद्यृतश्चे’ति कप्, ‘त्वतलोर्गुणवचनस्ये’ ति पु वदभावः । तां गतासु संग्रामभूमीषु तस्य नलस्य बाणघारा बाणपरम्परास्ता एव पवनाशनास्तेषां राजव्रजीयैःराजसंघसम्बन्धिभिः, ‘वृद्धाच्छः’ । असुभिः प्रणावायुभिः सुभिक्षम् । भिक्षाणां समृद्धिर्भवति समृद्धावव्ययीभावः । नदीमात्कदेषेषु सुभिक्षं भवतीति भावः । रूपकालङ्कारः ॥ 3.38 ॥
अन्वयः–अरीणाम् अस्त्रैः नदीमातृकतां गतासु सङ्ग्रामभु?मीषु राजव्रजीयैः असुभिः तद्बाणाधारापवनाशनानां सुभिक्षं भवति ॥ 3.38 ॥
यशो यदस्याजनि संयुगेषु कझडूलभावं भजता भुजेन ॥
हेतोर्गुणादेव दिगापगालीकूलंकषत्वं व्यसनं तदीयम् ॥ 3.39 ॥
जीवातु–यश इति । संयुगेषु कण्डूलभावं कण्डूल्त्वं,‘सिध्मादिभ्यश्चे’ति मत्वर्थीयो लच् । भजता अस्य भुजेन यद्यशः अजनि जनितं, जनेर्ण्यन्तात्कर्मणि लुङ् । तदीयं तस्य यश सम्बन्धि दिशः एव आपगाः नद्यः तासामालिः राजिः तस्याः कूलङ्कषतीति कूलङ्कषं, शिवभागवतवत्समासः,‘सव्रकूले त्यादिना खचि मुमागमः । तस्य भावस्तत्त्वें तत्र व्यसनमासक्तिः हेतोः कारणस्य भुजस्य गुणादेव कण्डूलत्वादागतमिति शेषः । यशसो दिक्कूलकषणानुमितायाः कण्डूलतायाः तत्कारणकण्डूलजगुणपूर्व्वत्वमुत्प्रेक्ष्यते ॥ 3.39 ॥
अन्वयः–कण्डुलभावं भजता अस्य भुजेन संयुगेषु यत् यशः अजनि तदीयं दिगापगालीकूलंकषत्वं व्यसनं हेतोः गुणात् एव ॥ 3.39 ॥
यदि त्रिलोको गणनापरा स्यात्तस्यास्समाप्तिर्यदि नायुषः स्यातृ ॥
पारेपरार्द्धं गणितं यदि स्याद् गणेयनिश्शेषगुणोऽपि स स्यात् ॥ 3.40 ॥
जीवातु–यदीति । किं बहुना, त्रयाणां लोकानां समाहरस्त्रिलोकी ‘तद्धितार्थे’तृयादिना समाहारे द्विगुः, अकरान्तोत्तरपदो द्विगुः स्त्रियां भाष्ते,‘द्विगा’रिति ङीप् । गणना परा नलगणसंख्यानतत्परा स्याद्यदि तस्याःत्रिलोक्याः आयुषः समाप्तिर्न स्याद्यदि अमरत्वं यदि स्यादित्यर्थः । परार्द्धस्य चरमसंख्यायाः पारे पारैपरार्द्धं, ’ पारे मध्ये षष्ठ्या वे’ति अव्ययीभावः गणित्वं स्यात्परार्द्धातृपरतो1़पि यदि संखृया स्यादित्यर्थः । तदा स लनोऽपि गणेया गणितुं शक्याः निःशेषा निखिला गुणा यस्य स स्यात्, गणेय इति औणादिक एयप्रत्ययः । अत्र गुणानां गणेयत्वासम्बन्धेऽपि सम्बन्धाभिधानादतिशयोक्तिः ॥ 3.40 ॥
अन्वयः–यदि त्रिलोकी गणनापरा स्यात् यदि तस्याः आयुषः समाप्तिः न स्यात् यदि गणितं पारेपरार्द्धं स्यात् सः अपि गणेयनिाशेषगुणः स्यात् ॥ 3.40 ॥
अवारितद्वारतया तिरश्चामन्तःपुरे तस्य निविश्य राज्ञः ॥
गतेषु रम्येष्व?धिकं विशेषमध्यापयामः परमागुमध्याः ॥ 3.41 ॥
जीवातु–एवं नलगुणाननुवण्यं गूढाभिसन्धिनाऽऽत्मनस्तदन्तःपुरेऽपि रिचयं दर्शयति-अवारितेत्यादि । तिरश्चां पक्षिणामवारितद्वारतया अप्रतिषिद्धप्रवेशतयेत्यर्थः । तस्य राज्ञो नलस्यान्तःपुरे निविश्य अवस्थाय परमाणुमध्यास्तदङ्गनाः रम्येषु गतेषु अधिकमपूर्वं विशेषं भेदमध्यापयामः अभ्यासयामः । दुहादित्वाद् द्विकर्मतृवम् ॥ 3.41 ॥
अन्वयः–तिरश्चाम् अवारितद्वारतया तस्य राजः अन्तःपुरे निविष्य परमाणुमध्याः रम्येषु गतेषु अधिकं विशेषम् अधापयामः ॥ 3.41 ॥
यीयूषधारानधराभिरन्तस्तासां रसोदन्वति मज्जयामः ॥
रम्भादिसौभाग्यरहःकथाभिः काव्येन काव्यं सूजताऽऽदृताभिः ॥ 3.42 ॥
जीवातु–पीयूषेति । किं च पीयूषाधाराभ्यः अनधरामिरयूनाभिरमृतसमानाभिः काव्यं सृजता स्वयं प्रवबन्धकर्त्रा, कवेरपत्यं पुमान् काव्यस्तेन, ‘शुक्रो दैत्यगुरुः काव्य’ इत्यमरः । ‘कुर्वादिभ्योण्य’ इति ण्यप्रत्ययः । आटृताभिरस्यापि विस्मकारीभिरित्यर्थः । ‘कुर्वादिभ्योण्य’ इति ण्यप्रत्ययः । आटृताभिरस्यापि विस्मयकारीभिरित्यर्थः । रम्भादीनां दिव्यस्त्रीणां सौभाग्यं पतिवाल्लभ्यं तत्प्रयुक्ताभिः रहःकथाभी रहस्यवृत्तान्तवर्णनाभिस्तासां नलान्तःपुरस्त्रीणामन्तरन्तःकरणं रसोदन्वति शृङ्गाररससागरे सजृजयामः अवगाहयामः ॥ 3.42 ॥
अन्वयः–पीयूषाधारानधराभिः काव्यं सृजता काव्येन आहताभिः रम्भादिसौभाग्यरहः कथाभिः तासाम् अन्तः रसोदन्वति मज्जयामः ॥ 3.42 ॥
काभिर्न तत्राभिनवस्मराज्ञाविश्वासनिक्षेपवणिक् क्रियेऽहम् ? ॥
जिह्रेति यन्नैव कुतोऽपि तिर्यक्कश्चित्तिरश्चस्त्रपते न तेन ॥ 3.43 ॥
जीवातु–काभिरिति । किञ्च यद्यस्मात् तिर्यक् पक्षीर कुतोऽपि जनान्न जिह्रेति न लज्जत एव ही-लज्जायामिति घातोर्लट्, ‘श्लावि’ति द्विर्भावः ।तिरश्चोऽपि कश्चिज्जनो न त्रपते न लज्जते, तेन कारणेन तत्रान्नतःपुरे काभिस्त्रीभिरहमभिनवा अपूर्वा स्मराज्ञा रतिरहस्यवृत्तान्तः सैव विश्वासनिक्षेपो विश्वासेन गोपयार्थः
। तस्य वणिक् गोप्ता न कृतोऽस्मि ? । सर्वासामप्यहमेव विस्त्रम्भकथापात्रमस्मीतृयर्थः ॥ 3.43 ॥
अन्वयः–यत् तिर्यक् कुतः अपि नैव जिह्रेति, तिरश्चः कश्चित् अपि न त्रपते तेन तत्र काभिः अहम् अभिनवस्मराज्ञाविश्वासनिक्षेपवणिक् न क्रिये ? ॥ 3.43 ॥
वार्ता च साऽसत्यपि नान्यथेति योगादरन्ध्रे हृदि तां निरुन्धे ॥
विर?ञ्चिनानाननवादधोतसमाधिशास्त्रश्रुतिपूर्णकर्णः ॥ 3.44 ॥
जीवातु–अथ स्वस्य एवंविधविश्वासहेतुत्वमाह-वार्तेति । विरञ्चेब्रर्ह्मणो नानाननैर्बहुमुखैर्वादेन ध्याख्यानने धौतस्य शोधितस्य समाधिशास्त्रस्य संयमविद्यायाः श्रुत्या श्रवणेन पूर्णकर्णः चतुर्मुखाभ्यस्तवाङ्नियमविद्य इत्यर्थः । अहमिति शेषः । योगात् अरन्ध्रे निरवकाशे पूर्णे हृदि हृदये यां वार्त्तां निरुन्धे, सा वार्त्ता लोकवार्त्ता किमुतरहस्यवासर्त्तेति भावः । असत्यपि विनोदार्थं कथितापि, किमुत सतीति भावः । असत्यपि अन्यपुरुषान्तरं नेति न गच्छति । यथा ह्मसती दुश्चरी नीरन्ध्रस्थाने निरुद्धा नान्यमेति तद्वदिति भावः । अतोऽहमासां विश्ववास्य इति पूर्वेणान्वयः । यत्र वार्त्तानिरोधस्य विरञ्चीतृयादिपदार्थहेतुत्वात् काव्यलिङ्गभेदः ॥ 3.44 ॥
अन्वयः–विर?ञ्चिनानाननवादधौतसमाधिशास्त्रश्रुतिकर्णपूर्णः योगान् अरन्ध्रे हृदि यां निरुन्धे सा वार्ता असती अपि अन्यं न एति ॥ 3.44 ॥
नलाश्रयेण त्रिदिवापभोगं तवान-वाप्यं लघते बतान्या ॥
कुमुद्वतीवेन्दुपरिग्रहेण ज्योत्सनेत्सव दुर्लभमम्बुजिन्याः ॥ 3.45 ॥
जीवातु–अथ श्लोकद्वयेयन अस्या नलानुरागमुद्दीपयति-नलेत्यादि । तवानवाप्यं नलपरिग्रहाभावात्त्वया दुरापं, कृत्यानां कर्त्तरि वे’ति षष्ठीतृतीयार्थे । त्रिदिवः स्वर्गः पृषोदरादित्वात् साधुः । तस्य उपभोगं ताटृग् भोगमित्यर्थः । तस्यैन्द्रसदृशैश्वर्यत्वादिति भावः । अम्बुजिन्या दुर्लभमिन्दुपरिग्रहाभावात्तयां दुरापं ज्योत्स्नोतृसवं चन्द्रिकाभोगम् इन्दोः कर्त्तुंः परिग्रहेण कुमुदान्यस्यां सन्तीति कुमुदिनीव, ‘कुमुदनडवेतसेभ्यो ङ्मतुप्’ ‘मादुपघायाश्चे’त्यादिना मकारस्य वकारः । लनस्य कर्त्तु राश्रयेण नलस्वीकरणेन अन्या लभते, बतेति खेदे । ईदृग्भोगोपेक्षिणी त्वं बुद्धिमान्द्यात् न शोचसि इति भावः ॥ 3.45 ॥
अन्वयः–अमृबुजिन्या दुर्लभं ज्योत्स्नोत्सवम् इन्दुपरिग्रहेण कुमुद्वती इव तव अनवाप्यं त्रिदिवोपभोगं नलाश्रयेण अन्या लभते बत ! ॥ 3.45 ॥
तन्नैषधानूढतया दुरापं शर्म त्वयाऽस्मत्कृतचाटुजन्म ॥
रसालवल्ल्या मधुपानुविद्धं सौभाग्यमप्राप्तवसन्तयेव ॥ 3.46 ॥
जीवातु–तदिति । किञ्च तत्प्रसिद्धमस्माभिः कृतेभ्यः प्रयुक्तेभ्यश्चाटुभ्यः प्रियवाक्येभ्यो जन्म तस्य तत्तजृजन्यमित्यर्थः । चाटुग्रहणं पूर्वोक्तनिजवक्षवीजनाद्युपलक्षणं, शर्म सूखं त्वया अप्राप्तो वसन्तो यया तया वसन्तानधिष्ठितयेत्यर्थः।रसालवल्लया सहकारश्रेण्या मधुनानुत्रिद्धं सौभाग्यं रामणीयकमिव नैषधेन नलेन अनुढतया अपरिणीतत्वेन हेतुना दुरापन्तस्मात्ते नलपरिग्रहाय यत्नः कार्य्यं इति भावः ॥ 3.56 ॥
अन्वयः–तत् अस्मत्कृतचाटुजन्म शर्म त्वया अप्राप्तवसन्तया रसालवल्लया मधुपानुविद्धं सौभाग्यम इव नेषधानूढतया दुरापम् ॥ 3.46 ॥
तस्यैव वा यास्यसि किं न हस्तं दृष्टं विधेः केन मनः प्रविश्य ? ॥
अजातपाणिग्रहणाऽसि तावद्रूपस्वरूपातिशयाश्रयश्च ॥ 3.47 ॥
जीवातु–अथ पुनरस्या नलप्राप्त्याशां जनयन्नाह तस्येत्थादि । यदा तस्सय नलस्यैव हस्तं किं यास्यसि ? यास्यस्येवेत्यर्थः । केन विधेर्मन एव प्रविश्यदृष्टं, विधानुकूल्यमपि सम्भावितमिति भावः । कुतस्तावदद्यापि अजातपाणिग्रहणा अकृतविवाहा असि तवायं विवाहविलम्बोऽपि नलपरिग्रहणार्थमेव कि न स्यादिति भावः । रूपं सौन्दर्य स्वरूपं स्वभावः शीलमिति यावत् । तयोरतिशयः प्रकर्षस्तस्याश्रयश्चासि । योग्यगुणाश्रयत्वाच्च तद्धस्तमेव गमिष्यसीति भावः ॥ 3.47 ॥
अन्वयः–तस्य एव हस्तं वाकिं न यास्यसि ? विधेः मनः केन प्रविश्य टृष्टम् ? अजातपाणिग्रहणा
रूपस्वरूपातिशयाश्रयः च तावत् असि ॥ 3.47 ॥
निशाशशाङ्कं शिवया गिरीशं श्रिया हरिं योजयेतः प्रतीतः ॥
विधेरपि स्वारसिकः प्रयासः परस्परं योग्यसमागमाय ॥ 3.48 ॥
जीवातु–सत्यं विधिसङ्कल्पस्तु दुर्ज्ञेय इत्यत आह-निशेति । निशानिशया ‘पद्दन्नि’तृयादिना निशादेशः । शशाङ्कम्, शिवया गौर्या गिरीशं शिवं, श्रिया लम्या हरिं च योजयतो विघेः प्रयासो यतृनोऽपि परस्परं योग्यसमागमाय योग्यसङ्घटनायैव स्वारसिकः स्वरसप्रवृत्तः प्रतीतः प्रसिद्धः ज्ञाता । निशाशशाङ्कादिदृष्टान्ताद्विधिङ्कल्पोऽपि सुरेय इति भावः ॥ 3.48 ॥
अन्वयः–निशाशशाङ्कं शिवया गिरीशं रिया हरि योजयतः विधेः अपि स्वारसिकः प्रयासः पररस्परं योग्यसमागमाया प्र?तीतिः ॥ 3.48 ॥
वेलातिगस्त्रैणगुणाब्धिवेणी न योगयोग्याऽसि नलेतरेण ॥
सन्दर्भ्यते दर्भगुणेन मल्लीमाला न मृद्वी भृशकर्कशेन ॥ 3.49 ॥
जीवातु–नलान्यसम्बन्धस्त्वयोग्य इत्याह-वेलातिगेति । वेलामतिगच्छन्तीति वेलातिगा निःसीमाः स्त्रीणामिमे स्त्रैणाः गुणा ‘स्त्रीपु साभ्यां नञ्स्नञावि’ति वचनात् नञ्प्रत्ययः । त एवाब्धिस्तस्य वेणी प्रवाहभूतः,त्वमिति शेषः । वेलाऽब्धिजलबन्धने । ‘काले सीम्नि च वेणी तु केशब्न्धे जलस्रुतौ’ इति वैजयन्ती । नलादितरेण योगयोग्या योगार्हा नासि । तथाहि मृद्वी मल्लीमाला भृशकर्कशेन दभगुणेन न संदर्भ्यते न सुगुम्फयते । दृभ-ग्रन्थ इति धातोः कर्मणि लट् । व्यतिरेकेण दृष्टान्तालङ्कारः ॥ 3.49 ॥
अन्वयः–वेलातिगस्त्रैणगुणाब्धिवेणी नलेतरेण योगयोग्या न असि, मृद्वी मल्लीमाला भृशकर्कशेन दभगुणेन न सन्दर्भ्यते ॥ 3.49 ॥
विधिं वधूसृष्टिमपृच्छमेव तद्यानयुग्यो नलकेलियोग्याम् ॥
त्वग्रामवर्णाइव कर्णपीता मयाऽस्य संक्रीडति चक्रचक्र ॥ 3.50 ॥
जीवातु-विधिमिति । कि च, विधिं ब्रह्माणां नलस्य केलेः क्रीडायाः योग्यामर्हां वधूसृष्टि स्त्रीनिर्म्माणं तस्य विधेयनिस्य रथस्य युग्यो रथवोढा तत्र परिचित इत्यर्थः । ‘तद्वहति रथयुगप्रासङ्गमि’ति यतृप्रत्ययः । अहमपृच्छमेव दुहादित्वाद् द्विकर्मकत्वम् । मया अस्य तद्यानस्य तद्यानस्य चक्रचके रथाङ्गव्रजे संक्रीडति कूजति सति ‘समोऽकूजन’ इति वक्तव्येऽपि कूजतेर्नात्मनेपदम्, त्वन्नामवर्णा मया कर्णेन पीताः गृहीताः । न केवलं लिङ्गात् किन्त्वागमादपि ज्ञातोऽयमर्थं इतृयर्थ ॥ 3.50 ॥
अन्वयः–तद्यानयुग्यः नलकेलियोग्यां वधूसृष्टिं विधिम् अपूच्छम् अस्य चक्रवक्रे संक्रीडति मया त्वन्नामवर्णाः हंव कर्णपीताः ॥ 3.50 ॥
अन्येन पत्या त्वयि योजितायां विज्ञत्वकीतृर्या गतजन्मनो वा ॥
जनापवादार्णवमुत्तरीतुं विधा? विधातः कतमा तरी स्यात् ? ॥ 3.51 ॥
जीवातु–अन्येनेति । किं च, अन्येन नलेतरेण पत्या त्वयि योगिजतायां घटितायां सत्यां विज्ञत्वकीर्त्त्या गतजन्मनः अभिज्ञत्वख्यात्यैव नीतायुषो विधा तुर्षा जनापवादर्णवमुत्तरीतुं निस्तरीतुं ‘वृतो वे’ति वे’ति दीर्धः । कतमा विघा कः प्रकारः तरी तरणिः स्यात् ? न काऽपीत्यर्थंः । ‘स्त्रियां नौस्तरणिस्तरिः’ इत्यमरः । बतो दैवगत्याऽपि स एव ते भर्तेति भावः ॥ 3.51 ॥
अन्वयः– वा त्वयि अन्येन पत्या कतमा योजितायां विज्ञत्वकीर्त्या गतजन्मनः विधातुः जनापवादार्णवम् उत्तरीतुं, कतमा विधा तरी स्यात् ? ॥ 3.51 ॥
आस्तां तदप्रस्तुतचिन्याऽलं मयाऽसि तन्वि ! श्रमिताऽतिवेलम् ॥
सोऽहं तदागः परिमार्ष्टुकामस्तवेप्सितं किं विदधेऽभिधेहि ॥ 3.52 ॥
जीवातु–इत्थमाशामुतृपाद्य अस्याश्चित्तवृत्तिपरिज्ञानाय प्रसङ्गान्तरेण निगमयति-आस्तामिति । तत्पूर्वोकृतमास्तां तिष्ठतु, अप्रस्तुतचिन्तया अलं, तया साध्यं नास्तीत्यर्थः । गम्यमानसाधनक्रियापेक्षया करणत्वात्तृतीया, अत एवाह ‘न केवलं श्रूयमाणक्रियापेक्षया कारकोत्पत्तिः, किन्तु गम्यमानक्रियाऽपेक्षयाऽपि’
इति न्यासकारः । किन्तु हे तन्वि, कृशाङ्गि ! मया अतिवेलम् अत्यर्थं श्रमिता खेदिताऽसि, श्रमेर्ण्यन्तात् कर्मणि क्तः । तत् श्रमणरूपमागोऽपराधंपरिमार्ष्टु कामः परिहर्तुंकामः । ‘तुं काममनसोरपी’तिमकारलोपः । सोऽहं किं त्वदीप्सितं तव मनोरथं विदधे कुर्वे, अभिधेहि ब्रूहि ॥ 3.52 ॥
अन्वय–तत् आस्ताम्, अप्रस्तु तचिन्तया अलम् तन्वि मया अतिवेलं श्रमिता असि, तत् आगः परिमार्ष्टुकामः सः अहम् अभिधेहि किं तव र्हप्सितं विदघे ? ॥ 3.52 ॥
इतीरयित्वा विरराम पत्री स राजपूत्रीहृदयं बुभुत्सुः ॥
हृदे गभीरे हृदि चावगाढे शंसन्ति कार्यावतर हि सन्तः ॥ 3.53 ॥
जीवातु–इतीति । स पत्री हंसः इति ईरयित्वा राजपुत्र्या भैम्या हृदयं बुभुत्सुज्रिज्ञासुर्विररास तूष्णीं बभूव, ‘व्याङ्रिभ्यो रम’ इति परस्मैपदम् । तथाहि–सन्तः कार्यज्ञाः गभीरे अगाघे हृदि हृदे च अवगाढे प्रविश्च टृष्टे सति र्कास्य स्नानादेः रहस्योक्तेश्च अवतरं तीर्थं प्रस्तावं च शंसन्ति कथयन्ति, अन्यथा अनर्थः स्यादिति भावः । अवतरो व्याख्यातः । अर्थान्तरन्या सोऽलङ्कारः ॥ 3.53 ॥
अन्वयः–इति र्हरयित्वा राजपुत्रीहृदयं बुभुत्सुः सः पत्री विरराम, हि सन्तः गभीरे हृदे च अवगाढे कार्यावतरं शंसन्ति ॥ 3.53 ॥
किञ्चित्तिरश्चीनविलोलमौलिर्विचिन्त्यवाचं मनसा मुहूर्तम् ॥
पतत्रिणं सा पृथिवीन्द्रपुत्री जगाद वक्त्रेण तृणीकृतेन्दुः ॥ 3.54 ॥
जीवातु–किञ्चिदिति । किञ्चित्तिरश्चीना स्वभावादीषत्साचीभूता? विलोला आयासाद्विलुलिता मौलिः केशबन्धो यस्याः सा । ‘मौलयः संयताः कचा’ इत्यमरः । बक्त्रेण तृतणीकृतेन्दुरधःकृतचन्द्रा सापृथिवीन्द्रपुत्री भैमी मुहूर्तमल्पकालं मनसा वाच्यं वचनीयं विचिन्त्य पर्यालोच्य पतत्रिणं जगाद ॥ 3.54 ॥
अन्वयः-कि?ञ्चित्तिरश्चीनविलोलमौलिः वक्त्रेण तृणीकृतेन्दुः सा पृथिवीन्द्रपुत्री मुहूर्त्तं मनसा वाचं विचिन्त्य पतत्रिणं जगाद ॥ 3.54 ॥
धिक्चापले वत्सिमवत्सलत्वं यत्प्रेरणादुत्तरलीभवन्त्या ॥
समीरसङ्गादिव नीरभङ्ग्या मया तटस्थस्त्‌वमुपद्रुतोऽसि ॥ 3.55 ॥
जीवातु–धिगिति । चापले चपलकर्मणि, युवादित्वादण्, ‘वत्सस्य भावः’ वत्सिता शिशुत्वम् पृथ्वादित्वादिमनिच् । तेन निमित्तेन वत्सलत्वं वात्सल्यं बाल्यत्वप्रयंक्तचापलमित्यर्थः । तद्धिक् । कुतः ? यस्य चापलवात्सल्यस्य प्रेरणादुत्तरलीभवन्त्या चपलायमानया समीरसङ्गाद्वाताहतेरुत्तरलीभवन्त्या नीररभङ्ग्या जलवीच्‌येव तटस्थः उदासीनः कूलं गतश्च त्वमुपद्रुतः पीडितो ऽसि । अधर्महेतुतृवाद् बालचापलं सोढव्यमि?ति भावः ॥ 3.55 ॥
अन्वयः–चापले वत्सिमवस्सलत्वं धिक् यत्प्रेरणात् समीरसङ्गात् नीरभङ्ग्या इव उत्तरलीभवन्त्या मया तटस्यः त्वम् उपद्रूतः असि ॥ 3.55 ॥
आदर्शतां स्वच्छतया प्रयासि सतां स तावत्खलु दर्शनीयः ॥
आगःपुरस्कुर्वति सागसं मां यस्यात्मनीदं प्रतिबिम्बितं ते ॥ 3.56 ॥
जीवातु–आदश्रतामिति । स्वच्छतया नेर्मल्यगुणेन आदृश्यते पुरोगतवस्तुख्पमस्मिन्निति आदर्शो दर्पणसस्तत्तां प्रयासि, कुतः यस्य स्वच्छस्य ते तव सम्बि न्धिनि सागसं सापराघां पुरस्कुर्वति पूजयति अग्रे कुर्वाणे च आत्मनि बुद्धौ स्वरूपे च, ‘पुरस्कृतः पूजिते स्यादभियुक्तेऽग्रतः कृते’ । ‘आत्मा यत्नो घृतिर्बुद्धिः स्वभावो ब्रह्मवर्ष्मणी’ति चामरः । इदं मदीयमागोऽपराघः प्रतिबिम्बितं प्रतिफलितम् । पुरोवर्त्ति घर्म्माणामात्मनि संक्रमणादादर्शोऽसीत्यर्थः, ततः किमत आह–सः आदर्शः सतां साघूनां तावत्प्रथमं दर्शनीयः अथवापूज्यश्चेति तावच्छब्दार्थंः खलु ‘रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम् । गुरुमग्निं तथा सूर्यं प्रातः पश्येत् सदा बुधः ॥’ इति शास्त्रादिति भावः ॥ 3.56 ॥
अन्वयः–स्वच्छतया आदर्शतां प्रयासि यस्य ते सागसं मां पुरस्कुर्वति आत्मनि इदम् आगः प्रतिबिम्बितम्, सः सतां तावत् दर्शनीयः खलु ॥ 3.56 ॥
अनायतप्याचरितं कुमार्या भवान्मम क्षाम्यतु सौम्य ! तावत् ॥
हंसोऽपि देवांशतयाऽभिवन्द्यः श्रोवत्सलक्ष्मेव हि मत्स्यमूर्तिः ॥ 3.57 ॥
जीवातु–अनार्यमिति । हे सौम्य ! भवान् कुमार्याः शिशोर्मम सम्बन्धि अनार्यमप्याचरितं त्वदुपद्रवरूपं दुश्चेष्टितं क्षाम्यतु सहतां, हंसोऽपि तिर्यगपीत्यर्थः । त्वमिति शेषः । भसवानित्यनुषङ्गे असीति मध्यमपुरुषायोगात् देवांशतया मत्स्यमूर्तिः श्रीवत्सलक्ष्मा विष्णुरिव वन्द्योऽसि ॥ 3.57 ॥
अन्वयः–सौम्य भवान् कुमार्याः मम धनार्यम् अपि आचरितं तावत्क क्षाम्युतु, हंसः अपि देवांशतया मत्स्यमूर्तिः श्रीवत्सलक्ष्मा इव वन्द्यः असि ॥ 3.57 ॥
मत्प्रीतिमाधित्ससि कां त्वदीक्षामुदं मदक्ष्णोरपि याऽतिशेताम् ॥
निजामृतैर्लोचनसेचनाद्वा पूथक्तिकमिन्दुस्सृजति प्रजानाम् ? ॥ 3.58 ॥
जीवातु–अथा यदुक्तं त्वयेप्सितं किं विदघे ? अभिघेहाति, तत्रोत्तरमाह–मत्प्रीतिमिति । कां मत्प्रीतिं किंवा मदीप्सितमित्यर्थः । आधित्सति आघातुं कर्त्तुमिच्छसि ? दघातेः सन्नन्ताल्लट् । या प्रीतिर्मदक्ष्णोः त्वदीक्षामुदं त्वदीक्षणप्रीतिमतिशेतान्त्वद्दर्शनोत्सवादन्यत्किं ममेप्सितमित्यर्थः । तथाहि इन्दुः प्रजाना ंजनानां निजामृतैर्लोचनसेचनात् पृथक् अन्यत् ‘पृथग्विने’त्यादिना पञ्चमी । किंवा सृजति करोति न किञ्चित् करोतीत्यर्थः । दृष्टान्ता लङ्कारः ॥ 3.58 ॥
अन्वयः–कां मत्प्रीतिम् अधित्सि, या मदक्षणेः त्चदीक्षामुदम् अपि अतिशेताम् ? इन्दुः निजाम्तैः प्रजानां लोचनसेचनात् पृथक् किं वा सृजति ? ॥ 3.58 ॥
मनस्तु यं नोञ्ह्मति जातु यातु मनोरथः कण्ठपथं कथं सः ॥
का नाम बाला द्विजराजपाणिग्रहाभिलाषं कथयेदभिज्ञा ॥ 3.59 ॥
जीवातु–अत्र सर्वथा मनोरथः कथनीयः इत्यभिप्रेत्य तन्न शक्यमित्याहमनस्त्विति । मनो मच्चित्तं कर्त्तृ यं मनोरथं जातु कदापि नोज्ह्मति न जहाति, स मनोरथः कण्ठपथ वाग्विषयम् उपकण्ठदेशं च कथं यातु, सम्भावनायां लोट् । सम्भावनापि नास्तीत्यरूर्थः । केनापि प्रतिबद्धस्य मनोरथस्य कथमन्तिकेऽपि सञ्चार इति भावः । कुतः ? अभिज्ञा विवेकिनी का नाम बाला का वा स्त्री द्विजरास्य इन्दोः पाणिनाग्रहे ग्रहणे अभिलाषं कथयेत् । तथा द्विज ! पक्षिन् ! पक्षिन् ! राजनाणिग्रहाभिलाषं नलपाणिग्रहणेच्छामिति च गम्यते तया च दुर्लभजनप्रार्थना द्विजरापाणिग्रहणकल्पा परिहासास्स्पदीभूतां कथं लज्जावत्या वक्तुं शक्या इतृयर्थः । पूर्व एवालङ्कारः ॥ 3.59 ॥
अन्वयः–सः मनोरथः कण्ठपथंः यातु, मनः यं जातु न उज्ह्मति ? का नाम अभिज्ञा बाला द्विजनराजपाणिग्रहाभिलाषं ( अथवा ‘द्विज, राजपाणि ग्रहाभिलाषम्’ ) कथयेत् ? ॥ 3.59 ॥
वाचं तदीयां परिपीय मृद्वीं मृद्वीकया तुल्यरसां स हंसः ॥
तत्याज तोषं परपुष्टघुष्टे घृणाञ्च वीणाक्वणिते वितेने ॥ 3.60 ॥
जीवातु–वाचमिति । स हंसः मृद्वीकया द्राक्षया, ‘मृद्वीका गोस्तनी दाक्षे’तृयमरः । तुल्परसां समानस्वदां मधुरार्थामित्यर्थः । मृद्वीं मधुराक्षरां तदीयां वाचं परिपीय अत्यादरादाकर्ण्य परपुष्टघुष्टे कोकिलकूजिते तोषं प्रीतिं तत्याज, वीणाक्वणिते च घृणां जुगुप्सां ‘घृणाजुगुप्साकृपयोरि’ति विश्श्वः । वितेने ॥ 3.60 ॥
अन्वयः–सः हंसः मुृदीकया तुल्यरसां तदीयां मृद्वीं वाचं परिपीय परपुष्ट घुष्टे तोषं तत्याज वीणाक्वणिते च घृणां वितेने ॥ 3.60 ॥
मन्दाक्षमन्दाक्षरमुद्रमक्त्वा तस्यां समाकु?ञ्चितवानि हंसः ॥
तच्छंसिते किञ्चन संशयालुर्गिरा मुखाम्भोजमयं युयोज ॥ 3.61 ॥
जीवातु–मन्दाक्षेति । तस्यां र्भेम्यां मन्दाक्षेण ह्रिया मन्दा सन्दिग्धार्था अक्षरमुद्रा ‘?Bद्विजरापाणिग्रहे’त्याद्यक्षरविन्यासो यस्मिन् तत्तथोक्तमुक्त्वा समाकुञ्चितवाचि नियमितवचनायां सत्यामयं हंसस्तच्छंसिते भैमीभाषिते किञ्चन किञ्चित्संशयालुः सन्दिहानः सन्, ‘स्पृहिगृही’त्यादिना आलुच् प्रत्ययः ।
मुखाम्भोजं गिरा युयोज मुखेन गिरमुवाचेत्यर्थः ॥ 3.61 ॥
अन्वयः–अयं हंसः मन्दाक्षमन्दाक्षरमुद्रम् उक्तवा तस्यां समाकु?ञ्चितवाचि तच्छंसिते किञ्चन संशयालुः मुखामृभोजं गिरां युयोज ॥ 3.61 ॥
करेण वाञ्छेव विधुं विधुर्तुं यमित्थमात्यादरिणी तमर्थम् ॥
पातु श्रुतिभ्यामपि नाधिकुर्वे वण रुतेर्वर्ण इवान्तिमः किम् ॥ 3.62 ॥
जीवातु–करेणेति । हे भैमि ! करेण विधुं चन्द्रं विघर्तु’ ग्रहीतुं वाञ्छेव यमर्थमित्थं ‘द्विजरापाणिग्रहे’त्याद्युघतप्रकारेण आदरिणी आदरवती सतीआत्थ ‘ब्रु वः पञ्चानामि’ ति ब्रु वो लटि सिपि थलादेशः ब्रु वश्चाहादेशः’ ‘आहस्थ’ इति हकारस्य थकरीः । तमर्थमन्ते भवोऽन्तिमो वर्णः शूद्रः,‘अन्ताच्चेति वक्तव्यमि’ति इमच् । श्रुतेर्वर्ण वेदाक्षरमिव श्रुतिभ्यां पातुं श्रोतुमपीत्यर्थः । नाधिकुर्वे नाधिकर्यस्मि किम् ? अस्म्येवेत्यर्थः । अतः सोऽर्थो वक्तव्य इति तात्पर्यम् ॥ 3.62 ॥
अन्वयः–करेण विधुं विधर्त्तु वाञ्छा इव यम् इत्थम् आदरिणी आत्थ तम् ‘अर्थम् अन्तिमः वर्णः श्रुते वर्णम् इव श्रुतिभ्यां पातुम् अपि न अधिकुर्वे किम् ? ॥ 3.62 ॥
अर्थाप्यते वा किमियदभवत्या चित्तैकपद्यापमपि वर्त्तते यः ॥
यत्रान्धकाराः खलु चेतसोऽपि जिह्मेतरैर्ब्रह्म तदप्यवाप्यम् ॥ 3.63 ॥
जीवातु–ननु तमर्थमत्यन्तदुर्लभत्वाद्वक्तुं जिह्रेमीत्याशङ्क्याह-अर्थाप्यत इति । हे भैमि ! भवत्या किंवा इयदेतावद्यथा तथा अर्वाप्यते किमर्थमयमर्थो द्विजराजपाणिग्रहवदति दुर्लभत्वेनाख्यायत इत्यर्थः । अर्थशब्दात्तदाचष्टे इत्यर्थे णिचः ‘अर्थवेदसत्यानामापुग्वक्तव्य’ इत्यापुगागमः । कृतस्तथानाख्येय इत्यतआह-योऽर्थ एकः पादो यस्यामित्येकपदी एकपादसञ्चारयोग्यमार्गः । ‘वर्त्तन्येक पदीति चे’त्यमरः । ‘कुम्भीपदीषु चे’ति निपातनात् साधुः । चित्तैकपद्यां मनोमार्गेपि वर्त्तेते चक्षुरा़द्यविषयत्वेऽपीत्यपिशब्दार्थः । स कथं दुर्लभ इति भावः । तथाहि-यत्र यस्मिन् ब्रह्मणि विषये चेतसोऽप्यन्धकारः प्रतिबन्धः तद् ब्रह्म जिह्मेरैरकुटिलैः कुशलधीभिरिति यावत् । अवाप्यं सुप्रापम् अमनोगम्यं ब्रह्मापि कैश्चिद् गम्यते, किमुत मनोगतोऽयमर्थः । अत एवार्थापत्तिरलङ्कारः । ‘कैमुत्वेनार्थान्तरापतनमर्थापत्तिरि’ति वचनात् ॥ 3.63 ॥
अन्वयः–भवत्या किं वा इयत् अर्थाप्यते यः चित्तैकपद्याम् अपि वत्तंते ? यत्र चेतसः अपि अन्धकारः, तद् ब्रह्म अपि जिह्मेतरैः अवाप्यं खलु ॥ 3.63 ॥
र्हशाणिमैश्वर्यविवत्रमध्ये लोकेशलोकेशयलोकमध्ये ॥
तिर्यञ्चमप्यञ्च मृषानभिज्ञरसज्ञतोपज्ञसमज्ञमज्ञम् ॥ 3.64 ॥
जीवातु–अथ मणि मृषावादित्वाशङकया वक्तुं सङ्कोचस्तच्च न शङ्कितव्यमित्याह-र्हशेत्यादिना त्रयेण । र्हशस्य यदणिमैश्वर्यं तस्य विवर्त्तो रूपान्तरंमध्यो यस्याः सा तथोकृता हे कृशोदरीत्यर्थः । लोकेशलोके शेरत इति लोकेशलोकेशयाः ब्रह्मलोकवासिनः तेषां लोकानां जनानां मध्ये जां मूढं तिर्यञ्चं पक्षिणमपि मामिति शेषः । मृषा अनृतं तस्य अनभिज्ञा रसज्ञा रसना यस्य तस्य भावस्तत्ता सत्यवादि’त्यमरः । ‘आतश्चोपसर्गे’ इत्यङ्प्रत्ययः बहुलग्रहणात् कर्मार्थत्वं तथात्वेन ज्ञातं तदुपज्ञम्‌ ‘उपज्ञोपक्रमं तदाद्याचिख्यासायामि’ति नपुंसकत्वम् समं साघारणं सर्वैर्ज्ञायत इति समज्ञा कीर्तिः पूर्ववदङ्प्रत्ययः तदुपज्ञं तथात्वेनादौ ज्ञाता समज्ञा कीर्तिर्येन तं तथोक्तं मामञ्च, सत्यवादिनं विद्वीत्यर्थः अञ्चतेर्गत्यर्थत्वात् ज्ञानार्थत्वम् ॥ 3.64 ॥
अन्वयः–र्हशाणिर्मश्वर्यविवर्तमध्ये लोकेशलोकेशयलोकमध्ये अज्ञं तिर्यञ्चम् अपि मृषानभिज्ञरज्ञरसज्ञतोपज्ञसमज्ञम् अञ्च ॥ 3.64 ॥
मध्ये श्रुतीनां प्रतिवेशिनीनां सरस्वती मुखे नः ॥
ह्रियेय ताभ्यश्चलतीयमद्धापथान्न संसर्गगुणेन बद्धा ॥ 3.64 ॥
जोवातु–मध्य इति । कि च, प्रतिवेशिनीनां प्रतिवेश्मनां श्रुतीनां वेदानां ब्रह्ममुखस्थानां श्रुतीनां मध्ये वासवती निवसन्ती इयं नोऽस्माकं मुखे सस्वती वाक् संगर्गं एव गुणः श्लाध्यघर्मः तन्तुश्च तेन बद्धा सती
ताभ्यः श्रुतिभ्यो ह्रियेवेत्युत्प्रेक्षा । अद्धाऽञ्जसाद्वयमि’त्यमरः ॥ 3.65 ॥
अन्वयः–नः मुखे इयं सरस्वती प्रतिवेशि?नीनां श्रुतीनां मध्ये वासवती संसर्गगुणेन बद्धा ताभ्यः ह्रिया इव अद्धाऽपथात् न चलति ॥ 3.65 ॥
पर्यङ्कतापन्नसरस्वदङ्कां लङ्कापुरीमप्यभिलाषि चित्तम् ॥
कुत्रापि चेद्वस्तुनि ते प्रयाति तदप्यवेहि स्वशये शयालु ॥ 3.66 ॥
जीवातु-ततः किमित्यत आह-पर्यङ्केति । कुत्रापि वस्तुनि द्वीपान्तरस्थेऽपीति भावः । अभिलाषि साभिलाषां ते तव चित्तं कर्तृ पर्यङ्कतां वाससकथिकात्वमापन्नः सरस्वान् सागरोऽङ्कश्चिह्न यस्यास्तामतिदुर्गमामित्यर्थः । तां लङ्कापुरीमपि प्रयाति चेत्तदपि तद्दुर्गस्थमपि स्वशये स्वहस्ते शयालु स्थितमवेहि । पर्यस्ममपि पयंङ्कस्थमिव जानीहि ॥ 3.66 ॥
अन्वयः–ते चित्तं पर्यङ्कतापन्तसरस्वदङ्कां लङ्कापुरीम् अभिलाषि, कुत्र अपि वस्तुनि प्रयाति चेत्
( अथवा ’ कुत्र अपि अभिलाषि ते चित्तं पर्यङ्कतापन्नसरस्वदङ्कां लङ्कारपुरीम् प्रयाति चेत् ’ ) तत् अपि अपि स्वहस्ते शयालु अवेहि ॥ 3.66 ॥
इतीरिता पत्ररथेन तेन ह्रीणा च हृष्टा च बभाण भैमी ॥
चेतो नलं कामयते मदीयं नान्यत्र कुत्रापि च साभिलाषम् ॥ 3.67 ॥
जीवातु–इतीति । तेन पत्ररथेन पक्षिणा हंसेन इतीत्थमीरिता उक्ता भैमी ह्रीणां स्वयमेव स्वाकूतकथनसङ्कोचात् लजिजता, ‘नुदविदे’त्यादिना विकल्पान्निष्ठानत्वम् । हृष्टा उपायलाभान्मुदिता च सती बभाण । किमिति ? मदीयं चेतो लङ्कां नायते, किन्तु नलं राजानं कामयत इति श्लेषभङ्ग्या
बभाणेत्यर्थः । अन्यत्र कुत्रापि वस्तुनि साभिलाषं न ॥ 3.67 ॥
अन्वयः–तेन पत्ररथेन इति ईरिता ह्रीणा हृष्टा च भैमी बभाण–मदीयं चेतः लङ्काम् न अयते, कुत्र अपि अन्यत्र साभिलाषम् न ( अथवा मदीयं चेतः नलं कामयते कुत्र साभिलाषं न , अथावा कुत्र अपि अन्यत्र न साभिलाषं मदीयं चेतः अनलं कामयते ) ॥ 3.67 ॥
विचिन्त्य बालाजनशीर्शलं लज्जानदीमज्जदनङ्गनागम् ॥
आचष्ट विस्पष्टमभाषमाणानेनां स चक्राङ्गपतङ्गशक्रः ॥ 3.68 ॥
जीवातु–विचिन्त्येति । विस्पष्टमभाषमाणां श्लेषोक्तिवशात्संदिग्धमेव भाषमाणामित्यर्थः । एनां दमयन्तीं सः चक्राङ्गपतङ्गशक्रः हंसपक्षिरेष्ठःबालाजनस्य मुग्धाङ्गनाजनस्य शीलं स्वभावमेव शैलं लज्जायामेव नद्यां मज्जदनङ्गनागो यस्य तं विचिन्त्य विचार्य आचष्ट, तस्य लज्जाविजितमन्मथत्वं ज्ञात्वा लज्जाविसर्जनार्थ वाक्यमुवाचेत्यर्थः ॥ 3.68 ॥
अन्वयः–सः चक्राङ्कपतङ्गक्रः विस्पष्टम् अभाषमणाम् ढनां बालाजनशीलशैलं लज्जानदीमज्जदनङ्गनागं विचिन्त्य जगाद ॥ 3.68 ॥
नृपेण पाणिग्रहणे स्पृहेति नलं मनः मनः कामयते ममेति ॥
आश्लेषि न श्लेषकवेर्भवत्याःश्लोकद्वयार्थस्सुविधा मयाकिम् ? ॥ 3.69 ॥
जीवातु–नृपेणेति । श्लेषकवेः श्लेषभङ्ग्या कवयित्र्याः श्लिष्टशब्दप्रयोक्त्रया इत्यर्थः, कवृवर्णन इति धातोरौणादिक इकार्रपत्ययः । भवत्यास्तव सम्बन्धि नृपेण कर्त्रा पाणिग्रहणं पाणिपीडनम्, ‘उभयप्राप्तौ कर्म्मणी’ति विहितायाः षष्ठ्या ‘कर्म्मणि चे’ति समासनिषेधेऽपि शेषे षष्ठीसमासः । तत्र स्पृहेति मन मनो नलं कामयते द्विजराजपाणिग्रहेति चेतो नलं कामयत इति श्लोकद्वयार्थः सुधिया मया विदुषा नाश्लेषि नाग्राहि कि? गृहीत एवेत्यर्थः ॥ 3.69 ॥
अन्वयः–श्लेषकवेः भवत्याः नृपेण पाणिग्रहणे स्पृहा इति मम मनो नलं कामयते इति श्लोकद्वयार्थः सुधिया मया न आश्लेषि किम् ? ॥ 3.69 ॥
त्वच्चेतसः स्थैर्यविपर्ययं तु सम्भाव्यभावयस्मि तदज्ञ एव ॥
लक्षये हि बालाहृदि लोलशीले दरापराद्धेषुरपि ?स्मरःस्यात् ॥ 3.70 ॥
जीवातु–तर्दि किमर्थं करेण वाञ्छेत्यादिकमज्ञवदुक्तवदुक्तमित्यत आह–त्वच्चेतस इति । किन्तु त्वच्चेतसः स्थैर्यविपयार्‌ययमस्थिरत्वं संभाव्यआशङ्कच तदज्ञः कस्य श्लोकद्वयार्थस्य अज्ञः अनभ्ज्ञिज्ञः भावी भविध्यन् ‘भविष्यति गम्यादय’ इति साधुः अस्मि । त्वच्चित्तमनिश्चयपर्यन्तमिर्त्यः । धातुसम्बन्धे प्रत्यया इति भविष्यत्ताया गुणात्वावर्त्तमातानुरोधः । नन्वेवमनु रक्तायां मयि कुत इयं शङ्केत्याशङ्कच स्त्रीणां चित्तचाञ्चल्यसम्भवादित्याहल्य इति । लोलशीले चंचलस्वभावे बालाहृदि चितृत एव स्मरोऽपि दरापराद्धेषुरीषच्चयुतसायकः स्यात् कुशलोऽपि धन्वी चललक्ष्यात्कदाचिदपराध्यत इति भावः । ‘अपराद्धपृषत्कोऽसौ लक्ष्याद् यश्च्युतसायकः’ इत्यमरः । अर्थान्तरन्यासो1़लङ्कारः ॥ 3.70 ॥
अन्वयः–तु त्वच्चेतसः स्थैर्यविर्पयं सै भाव्य तदज्ञ एव भावी अस्मि हि लोलशीले बाहृदि लक्ष्ये हि लोलशीले बालाहृदि ल्क्ष्ये स्मरः अपि दरापराद्धेषुः स्यात् ॥ 3.70 ॥
महीमहेन्द्रः खलु नैषधेन्दुस्तद्वोधनीयः कथमित्थमेव ? ॥
प्रयोजनं सांशयिकम्प्रतीदृक्पृथग्जनेनेव स मद्विधेन ॥ 3.71 ॥
जीवातु–महीति नैषधः इन्दुरिव नैषधेन्दुर्नलचन्द्रः महीमहेन्द्रो भूदेवेन्द्रःखलु तस्मात् स नलः । पुथ्गजनेन प्राकृतजनेनेव मद्विधेन मादृशा विदुषा र्हद्क् सांशयिकं सन्देहदुःस्थम् अस्थिरं प्रयोजनं प्रति इत्यथमेव मुग्धाकारेणैव कथं बोधनीयः ? अनर्हमित्यर्थः । ‘गतिबुद्धी’त्यादिना अणि कर्त्तुर्नलस्य कर्मतृवं, ‘ण्यन्ते कर्तुश्च कर्मण’ इति अभिधानाच्च ॥ 3.71 ॥
अन्वयः–तत् महीमहेन्द्रः सः नेषधेनदुः मद्विधेनेव पृथग्जनेन ईटृक् सांशयिकं प्रयोजनं प्रति इत्थ्रम् एव कथा बोधनीयः ॥ 3.71 ॥
पितुर्नियोगेन निजेच्छया वा युवानमन्यं यदि या वृणीषे ॥
त्वदर्थमर्थित्वकृतिर्प्रतीतिः कीदृङ्मयि स्यान्निषधेश्वरस्य ॥ 3.72 ॥
जीवातु–अथेत्थमेव बोधने को दोषस्तत्राह-पितुरिति । पितुर्निनयोगेनआज्ञया निजेच्छय स्वेच्छया वा अन्यं नलादन्यं युवानं यदि वृणीषे वृणो?षि यदि, तदा निषधेश्वरस्य नलस्य मयि विषये त्वदर्थ तुभ्यं, ‘चतुर्थी तदर्थे’त्यादिना चतुर्थी समासः, ‘अर्थेन सह नित्यसमासो विशेष्यलिङ्गता चेति वक्तव्यम्’ । तद्यत्तथा अर्थित्वकृतिः अर्थित्वकृतिः अर्थित्वभजनं तत्र प्रतीतिर्विश्वासः कीदृक् स्यान्न स्यादित्यर्थः । तस्मादसंदिग्धं वाच्यमिति भावः ॥ 3.72 ॥
अन्वयः–पितुः नियोगेन निजेच्छया वा यदि अन्यं युवानं वृणीषे त्वदर्थम् अर्थित्वकृतिः मयि निषधेश्वरस्य कीटृक् प्रतीतिः स्यात् ॥ 3.72 ॥
त्वयाऽपि किं शाङ्कितविक्रियेऽस्मिन्नधिक्रिये वा विषये विधातुम् ॥
इतः पृथक् प्रार्थयसे तु यद्यत्कुर्वे तदुर्वीपति?पुत्रि ! सर्वम् ॥ 3.73 ॥
जीववातु–अन्यथा तथा वक्तुं न शक्यते तर्हि ततोऽन्यदीप्सितं करिष्येप्रतिज्ञाभङ्गपरिहारायेत्याह–त्वयेति ! हे उर्वीपतिपुत्रि ! भमि ! त्वयापि वा किं विधातुं कि कर्तुं शडिकतविक्रिये सम्भावितविपयंये अस्मिन् विषये राजपाणिग्रहणसंघटनकार्ये अहम्, अधिक्रिये विनियुज्ये, अनियोज्य इत्यर्थः । करोतेः कर्मणि लट्, किन्तु इतः पृथगस्मादन्यत् यद्यत्प्राथैयसे तत्सर्वं कुर्वे करोमीत्यर्थः ॥ 3.73 ॥
अन्वयः–त्वया अपि शङ्कितविरिये अस्मिन् विषये विधातुं किं वा अधिक्रिये ? जर्वीपतिपुत्रि, इतः पृथक् यत् यत् प्रार्थयसे तत् सर्वं कुर्वे ॥ 3.73 ॥
श्रवःप्रविष्ट इव तद्गिरस्ता विधूय वैमत्यधुतेन मूर्ध्ना ॥
ऊचे ह्रिया विश्लथितानुरोधा पुनर्धरित्रीपुरुतपुत्री ॥ 3.74 ॥
जीवातु–श्रव इति । घरित्रीपुरुहूतपुत्री भूमीन्द्रसुता भैमी भ्वःप्रतिष्टा इव न तु सम्यक् प्रविष्टाः तद्गिरो हंसवाचः । वैमत्येन असम्मत्या धुतेन कम्पितेन मूर्ध्ना विधूय प्रतिषिध्य ह्रिया कर्त्र्या विश्लथितानुरोधा शिथिलितवृत्तिस्तृयक्तलज्जा सती पुनरप्युचे उवाच ॥ 3.74 ॥
अन्वयः–धरित्रीपुरुहूतपुत्रो श्रवःप्रविष्टाः तद्गिरः वैमत्यघुतेन मूर्ध्ना विघूय इव ह्रिया विश्लथितानुरोधा पनुः ऊचे ॥ 3.74 ॥
मदन्यदानं प्रति कल्पना वा वेदस्त्वदीये हृदि तावेदषा ॥
निशो1़पि सोमेतरकान्तशङ्कामोङ्कारमग्रेसरमस्य कुर्याः ॥ 3.75 ॥
जीवातु-मदिति । मम अन्यदानमन्यस्य दानं प्रति दानमुद्दिश्य या कल्पना पितुर्नियोगेनेत्यादि श्लोकस्तर्कः । एषा कल्पना त्वदीये हृदि वेदस्तावत्सत्यएवेत्यर्थः । निशो निशाया अपि ‘पद्दन्नि’त्यादिना निशाया निशादेशः सोमाच्चन्द्रादितरकान्तशङ्कां पुरुषान्तरकल्पनामेव ओङ्कारं प्रणवम् अस्य वेदस्याग्रेसरमाद्यं कुर्याः कुरु सर्वस्यापि वेदस्य प्रणवपूर्वकत्वादिति भावः । यथा निशायाः निशकरेतरप्रतिग्रहो न शङ्कनीयः, तथा ममापि नलेतरप्रतिग्रहो न शङ्कनीय इत्यर्थः । रूपकालङ्कारः ॥ 3.75 ॥
अन्वयः–मदन्यदानं प्रति त्वदीये हृदि या एषा कल्ना तावत् वेदः, निशः अपि सोमेतरकान्तशङ्काम् अस्य ओङ्कारं कुर्याः ॥ 3.75 ॥
सरोजिनीमानसरागवृत्तेरनर्कसम्पर्कमतर्कयित्वा ॥
मदन्यपाणिग्रहशङ्कितेयमहो महीयस्तव साहसिक्यम् ॥ 3.76 ॥
जीवातु–सरोजिनीति । सरोजिन्याः मातसरागवृत्तेर्मनोऽनुरागस्थितेरभ्यन्तरारुण्यप्रवृत्तेश्च अनर्कसम्पर्कमर्केतरकतरकान्तसंक्रान्तिमतर्कयित्वा अनूहित्वातवेयं मम अन्यस्य नलेतरस्य पाणिग्रहं शङ्कत इति तच्छङ्कितस्य भावस्तत्ता महीयो महत्तरं साहसिक्यं साहसिकत्वम् अहो असम्मावितसम्भावनादाश्चर्यम् ॥ 3.76 ॥
अन्वयः–सरोजिनीमानसरागवृत्तेः अनर्कसम्पर्कम् अतर्कयित्वा तत इयं मदन्यपाणिग्रहशङ्किता अहो, महीयः साहसिक्तयम् ॥ 3.76 ॥
साधु तृवयाऽतर्कि तदेकमेव स्वेनानलं यत्किल संश्रयिष्ये ॥
विनाऽमुना स्वात्मनि तु प्रहर्तुं मृषागिरं त्वां नृपतौ न कर्तुंम् ॥ 3.77 ॥
जीवातु–साध्विति । कितु स्वेन स्वेच्छया अनलं नलादन्यम् अग्निं च संश्रयिष्ये प्राप्स्यासीति यत् त्वया अतकिं ऊहितं तदेकमेव साधु अतकिं, किन्तु अअमुना नलेन विना तदलाभ इत्यर्थः । स्वात्मनि प्रहर्तुं स्वातृमानं र्हिसितुं कर्मणोऽविवक्षायां सप्तमी । ‘अनेकशक्तियुक्तस्य विश्वस्यानेककर्मणः । सर्वदा सर्वतोभावात् क्वचित् किञ्चिद्विवक्ष्यते ॥’ इति वचनादनलं संश्रयिष्ये इतृयुषङ्गः नृपतौ नलै विषये त्वां मृषागिरमसत्यवाचं कर्तुंमन एव शरणम् अन्यथा मरणमेव शरणमिति भावः ॥ 3.77 ॥
अनवयः–एतत् एव त्वया साधु तर्कितं किल यत् स्वेन अनलम् संश्रयिष्येअमुना विना तु स्वात्मनि प्रहर्त्तुम्, नुपतौ त्वां मृषागिरं कर्तुं न ॥ 3.77 ॥
मद्विप्रलभ्यं पुनराह यस्त्वां तर्कस्स किं तत्फलवाचि मूकः ? ॥
अशक्यशङ्कव्यभिचारहेतुर्वाणी न वेदा यदि सन्तु के तु ? ॥ 3.78 ॥
जीवातु–मदिति । मदिति । किञ्च, यस्तर्कं ऊहः मद्विप्रलभ्यं मया विप्रलम्भनीयं पोरदुपधादि’ति यत्प्रत्ययः । आह बोधयतीत्यर्थः स तर्कः तस्य विप्रलम्भस्य फलवाचि प्रयोजनाभिधाने मूकः अशक्तः किम् ? अतो मय्यासत्यवादित्वशङ्का यस्य सः वेदा यदि न प्रमाणं चेत्तर्हि के तु वेदाः सन्तु ? न केऽपीत्यर्थः समृभावनायां लोट् । वेदवाचामसत्यत्वे मद्वाचोऽप्यसत्व्, नान्यथेंति भावः ॥ 3.78 ॥
अन्वयः–पुनः यः तर्कः मद्विप्रल्भ्यं त्वाम् वाह स तत्फलवाचि मूकः किम् ? अशक्यशङ्कव्यभिचारहेतुः यदि वेदाः न, के तु सन्तु ? ॥ 3.78 ॥
अनैषधायेव जूहोति कि मां तातः कृशानौ न शरीरशेषाम् ? ॥
ईष्टे तनूजन्मतनोस्तथापि मत्प्राणनाथस्तु नलस्स एव ॥ 3.79 ॥
जीवातु-एवं निजेच्छया नलान्यशङ्कां निरस्य पित्राज्ञयापि तां निरस्यतिअनैषधायेति । ततो मम जनकः । ‘तातस्तु जनकः पिता’ इत्यमरः । मामनैषधाय कृशानौ न किं न तु जीवन्तीं नाग्नेरन्यत्र
जुहोतीत्यर्थः तदङ्गीकर्त्तव्यमेकवेति भावः । कुतः ? स जनकः तनूजन्मतनोः आत्मजशरीरस्य ईष्टे स्वामी, भवतीत्यर्थः । मत्प्राणनाथस्तु नल एव प्राणानामतजृजन्यत्वादिति भावः। अतो मय्यविश्वासं मा कुर्वित्यर्थः
॥ 3.79 ॥
अन्वयः–तातः शरीशेषां माम् अनैषधाय जुहोति, कृशानौ एव कि न ? सः तनूजन्मतनोः ईष्टे तथापि मत्प्राणनाथः तु सः नलः एव ॥ 3.79 ॥
तदेकदासीत्वपदादुदग्रे मदीप्सिते साधु विधित्सुता ते ॥
अहेलिना किं नलिनी विधत्ते सुधाकरेणापि सुधाकरेण ॥ 3.80 ॥
जीवातु–फलितमाह-तदेकेति । तस्य नलस्यैकस्यैव दासीत्वं तदेव पदमधिकारस्तस्मादुदग्रे अधिके मदीप्सिते पत्नीत्वरूपे विषये तव तदेव पदमधिकारस्तस्मादुग्रे अविचारेण मनोरथापूरमेव ते युक्तमिति भावः । साध्विति सामान्योपक्रमान्नुपंसकत्वम्, ‘शक्यं श्वमांसेनापि क्षुन्निवर्तयितुमि’ति भाष्यकाप्रयोगात् । ननु किमत्राभिनिवेशेन गुणवत्तरं चेद्युवान्तरस्सवीकारे को दोषस्तत्राह-अहेलिनेति । नलिनी सुधाकरेण अमृतदीधितिनापि अहेलिना असूर्येणसुधाकरेण चन्द्रेण किं विधत्ते ? किं तेन तस्या इक्ष्यर्थः । तद्वन्मपि किं युवान्तरेणेति भावः । टृष्टान्तालङ्कारः ॥ 3.80 ॥
अन्वयः–तदेकदासीत्वपदात् उदग्रे मदीप्तिसते तव विधित्सुता साधु, नलिनी सुधाकरेण अपि अहेलिना सुधाकरेण किं विधत्ते ? ॥ 3.80 ॥
तदेकलुब्धे हृदि मेऽस्ति लब्धुं चिन्ता न चिन्तामणिमप्यनर्धम् ॥
वित्ते ममैकस्स नलीस्त्रिलोकीसारो निधिः पह्ममुखस्स एव ॥ 3.81 ॥
जीवातु–तदिति । तस्मिन्नेवैकस्मिन् लुब्धे लोलुपे हृदि अनर्धं चिन्तामणिमपि लब्धुं चिन्ता विचारो नास्ति, तथा वित्ते धनविषयेऽपि मम स नलस्त्रिलोकीसारस्त्रैलोक्यश्रेष्ठः पह्ममुखः पह्माननः एक स नल एव त्रैलोक्यसारः; पह्मनिधिश्च । नलादन्यत्र कुत्रापि मे स्पृहा नास्ति । किमुत युवान्तर इति भावः ॥ 3.81 ॥
अनवयः–तदेकलब्धे मे हृदि अनर्थं चिन्तामणिम् अपि लब्धु चिन्ता नास्ति । वित्ते (चित्ते वा ) अपि मम सः नलः त्रिलोकीसाः पह्ममुखः एकः एव ॥ 3.81 ॥
श्रुतश्च दृष्टश्च हरित्सु मोहाद् ध्यातश्च नीरन्ध्रितबुद्धिधारम् ॥
ममाद्य तत्प्रप्तिरसुव्ययो वा हस्ते तवास्ते द्वयमेव शेषः ॥ 3.82 ॥
जीवातु–श्रुतश्चेति । कि बहुना स नलः श्रुतः दूतद्विजनन्द्यादिमुखादाकर्णितश्च, मोहात् भ्रान्तिवशत् इरिस्सु टृष्टः साक्षात्कृतश्चः तथापि नीरन्ध्रितबुद्धिघारं निरन्तरीकृततदेकविषयबुद्धिप्रवाहं यथा तथा ध्यातश्च । अथाद्य मम तत्प्राप्तिर्नलप्राप्तिसुव्ययः प्राणत्यागो वा द्वयतेव द्वयोरन्यतर एवेत्यर्थः । शेषः कार्यशेषःस च तव हस्ते आस्ते त्वदायत्तः तिष्ठतीत्यर्थः । अत्र तत्पदार्थश्रवणममनननिदिदिध्यासनसम्पन्नस्य ब्रह्मप्राप्तिदुःखोच्छेदलक्षणमोक्षो गुर्वायत्त एवे त्यर्थान्तरप्रती?तिर्ध्वनिरेव अभिधायाः प्रकृतार्थनियन्त्रणादि संक्षेपः ॥ 3.82 ॥
अन्वयः–धुतः मोहात् हरित्सु च टृष्टः नीर?न्ध्रितबुद्धिधारं ध्यातश्च, अद्य मम त?तत्प्राप्तिः असुव्ययः वा द्वयम् एव शेषः तव हस्ते आस्ते ॥ 3.82 ॥
सञ्चीयतामाश्रुतपालनोत्थं मत्प्राणविश्राणनजं च पुण्यम् ॥
निवार्यतामार्यं ! वृथा विशङ्का भद्रेऽपि मुद्रेयमये ! भृशं का ? ॥ 3.83 ॥
जीवातु–सञ्चीयतामिति । हे हंस ! आश्रुतपालनोत्थं प्रतीज्ञातार्थनिर्वाहणोत्पन्नम् ‘अङ्गीकृतमाश्रुतं प्रतिज्ञातमि’तृयमरः । मत्प्राणानां विश्राणनं दानं तज्जञ्च पुण्यं सुकृतं सञ्चीयतां संगृह्मतां, हे आर्य ! वृथा विशङ्का सन्देहो निवार्यताम् । अये ! अङ्ग ! भद्रे पूवोक्तपुण्यरूपे श्रेयसि विषये भृशङ्केयं मुद्रा औदासीन्यं, श्रेयसि नोदासितव्यमिति भावः ॥ 3.83 ॥
अन्वयः–आश्रुतपालनोत्थं मत्प्राणविश्राणनजं च पुण्यं सञ्चीयताम्; आर्य, वृथा विशङ्का निवार्यताम्, अये भद्रे अपि भृशं का इयं मुद्रा ? ॥ 3.83 ॥
अलं विलङ्घ्य प्रिय ! विज्ञ ! याच्?ञां कत्वापि वाक्यं विविधं विधेये ॥
यशःपथादाश्रवतापदोत्थात् खलु स्खलित्वाऽस्तखलोक्तिखेलात् ॥ 3.84 ॥
जीवातु–अलमिति । हे प्रिय ! प्रियङ्कर विश्र ! विशेषज ! उभयत्र ‘इगुपधे’त्यादिना कप्रत्ययः । याच्ञां प्रार्थनां विलङ्घ्य अलं याच्ञभङ्गो न कार्य इत्यर्थः । विनीतजने विविधं वाक्यं वक्रतां कृत्वापि अलं, तच्च न कार्यमित्यर्थः । आश्रवो यथोक्तकारी, ‘वचने स्थित आश्रव’ इत्यमरः । तस्य भावास्त्तत्ता सैव पदं पदक्षेपः तदुत्थात् अस्ता निरस्ता खलोक्तिखेला मिथ्यावादविनोदो येन तस्माद्यशः पथात् स्खलित्वा चलित्वा खलु न स्खलितव्यमित्यर्थः । अन्यथा हानिः स्यात् । ‘निषेधवाक्यालङ्कारजिज्ञासानुनये’ इत्यमरः । ‘अलं खत्वोः प्रतिषेघयोः प्राचां क्ते’ति उभयत्रापि क्ताप्रत्ययः इह ‘न पादादौ खल्वादय’ इति निषेधस्योद्वेजकत्वाभिप्रायत्वान्नञर्थस्य खलशब्दस्यानुद्वेजकत्वान्नञ्वदेव पादौ प्रयोगो न दुष्यत इति अनुसन्धेयम् ॥ 3.84 ॥
अन्वयः–प्रियविज्ञ, ( अथवा प्रिय, विज्ञ, ) आश्रवतापदेत्थत् अस्तखलोक्तिखेलात् यशःपथात् स्खलित्वा खलु याच्?ञां विलङ्ध्य, विधेये विविधं वाक्यं कृत्वा अपि अलम् ॥ 3.84 ॥
स्वजीवमप्यार्त्तमुदे ददद् भ्यस्तव त्रपा नेदृशबद्धमुष्टेः ॥
मह्मं मदीयान्यदसूनदित्सोर्धर्मः कराद् भ्रष्यति कीर्तिघौतः ॥ 3.85 ॥
जीवातु–स्वेति । ईटृशबद्धमुष्टेरीक्कष्टलुब्धस्य तव आर्त्तानां सुदे प्रीर्त्यै स्वजीवं दद्भ्यः स्वप्राणव्ययेन परत्राणं कूर्वदभयोजीमूतवाहनादिभ्य इत्यर्थः। ‘जीवञ्जीमूतवाहन’ इति प्रसिद्धम् । त्रपा नेति ?काकुः, त्रपाया मनः प्रत्यावृत्तिरूपत्वात्तदपेक्षया तेषामपादानत्वात् पञ्चमी । यद्यस्मान्मदीयानेवासून् प्राणान् मह्ममदित्सोः तव कोर्त्या धौतः शुद्धो धर्मः कराद्धस्तात् भ्रश्यति, न चैततवाहैमिति भावः ॥ 3.85 ॥
अन्वयः–ईटृशबद्धमुष्टेः तव आर्त्तमुदे स्वजीवम् अपि ददद्भ्यः त्रपा न, यत् मदीयान् असून् मह्मम् अत्तिसोः तव कीर्त्तिघौतः धर्मकरात् भ्रश्यति ? ॥ 3.85 ॥
दत्त्वाऽऽतृमजीवं त्वयि जीवदेऽपि शुध्यामि जीवाधिकदे तु केन ॥
विधेहि तन्मां त्वदृणेष्वशोद्धुममुद्रदारिद्र्यसमुद्रमग्नाम् ॥ 3.86 ॥
जीवातु–दत्त्वेति । कि च. जीवदे प्राणदे त्वयि विषये आत्मजीवं मत्प्राणं दत्त्वपि शुध्याभि आनृण्यं गमिष्यामीत्यर्थः । किन्तु जीवादधिकः प्रियः तद्दे त्वयि केन शुध्यामि ? न केनापि, तत्तुस्मादभावादेव मां त्वटृणेषु अशोद्धुमऋणग्रस्तां भवितुमेव अमुद्रे अपरिमिते दारिद्र्यं त्वद्देयवस्त्वभावरूपं तस्मिन्नेवसमुद्रे । मग्नां विधेहि नलसङ्धट्टनेन मामृणग्रस्तां कुर्वित्यर्थः । अशोद्धुं, मग्नामिति मग्नतृवानुादेन अशुद्धिर्विधीयते दरिद्राणामृक्तिर्निस्तीति भावः ॥ 3.86 ॥
अन्वयः–जीवदे त्वयि आत्मजीवं दत्त्वा अपि शुध्यामि, जीवाधिकदे तु केन ( शुध्यामि ) ? तत् मां त्वटृणेषु अशोद्धुम् अमुद्रदारिद्र्यसमुद्रमग्नां विधेहि ॥ 3.86 ॥
क्रीणीष्व मज्जवितमेव पण्यमन्यं न चेद्वस्तु तदस्तु पुण्यम् ॥
जोवेशदातर्यदि ते न दातं यशोऽपि तावत्प्रभवामि गातुम् ॥ 3.87 ॥
जीवातु–क्रीणीष्वेति । हे जीवेशदातः प्राणेश्वरद ! मज्जीवितमेव पण्यं क्रेयं वस्तु क्रीणीष्व, जीवेशरूपमूल्यदानेन स्वीकुरुष्वेत्यर्थः । अन्यदेतन्नमूल्यानुरूपं वस्त्वन्तरं नास्ति वेत्तर्हिपुण्यं सुकृतमस्तु, किञ्चिद्यदि ते तुभ्यं दातु न प्रभावामि न शक्नोमि तावत्तर्हि यशोऽपि कीर्ति गातुं प्रभवामि, या्यातिसुकृतार्थमेवोपकुरुष्वेत्यर्थः ॥ 3.87 ॥
अन्वयः–पण्यं मज्जीवितम् एव क्रीणीष्व, अन्यत, वस्तु न चेत् तत्पुण्यम् बस्तु जीवितेशदाहः यदि ते दातुं न प्रभवामि, तावत् यशः गातुम् अपि ( प्रभवामि ) ॥ 3.87 ॥
वराटिकोपक्रिययाऽपि लभ्यान्नेभ्याः कृतज्ञानथवाद्रियन्ते ॥
प्राणैःपणैः स्वं निपुणं भणन्तः क्रीणन्ति तानेव तु हन्त सन्तः ॥ 3.88 ॥
जीवातु–अथवा साघुस्वभावेनापि लभ्यान् कृतज्ञान् तावदेव बहुमन्यमानान् उपकारज्ञान् इभ्याः
घनिकाः, ‘इभ्य आढ्यो घनी स्वामी’त्यमरः । नीद्रियन्ते धनलोभागन्नोपकुर्वन्तीत्यर्थः । सन्तो विवेकिनस्तु स्वात्मानं निपुंणं भणन्तः, सन्त एते वयं त्वदधीना इति साधु वदन्त इत्यर्थः तानेव कृतज्ञान् प्राणैरेव पणैः ऋणन्ति आत्मसात्कुर्वन्ति, किमुत जनैरित्यर्थः । अतस्त्वयाऽपि सता कृतज्ञाऽहमुपकर्तव्येति भावः । हन्त हर्षे ॥ 3.88 ॥
अन्वयः-वराटिकोपक्रियया अपि लभ्यान् कृतज्ञान् इत्भ्याः न आद्रियते; हस्त, सन्तः तु स्वं निपुणं भणन्तः तान् एव प्राणैः पणैः क्रीणन्ति ॥ 3.88 ॥
स भूभृदष्टावपि लोकपालास्तैर्मे तदेकाग्रधियः प्रसेदे ॥
न हीतरस्माद्धटते यदेत्य स्वयं तदाप्तिप्रतिभूर्ममाभूः ॥ 3.89 ॥
जीवातु–स इति । किञ्च स भूभृन्नलः अष्टावपि लोकपालाः, तदात्मक इत्सयर्थः । ‘अष्टाभिर्लोकपालानां मात्राभिर्निर्मितो नृप’ इति स्मरणात् । अत एव तदेकाग्रधियो नलैः कतानबुद्धेः मे मम म तैर्लोकप’लैः प्रसेदे प्रसन्?नं भावे लिट् । देवता ध्यायतः प्रसदीन्तीति भावः । कुतः ? इतरस्मात् प्रसादादन्यथेत्यर्थः। स्वयं स्वयमेवागत्य मम तदाप्तिप्रतिभूः नलप्राप्तिलग्नकोऽभूरिति यत्, तन्न घटते हि
॥ 3.89 ॥
अन्वयः–सः भूभृत् अष्टौ अपि लोकपालाः, तदेकाग्रधियः ये तैः प्रसेदे, हि यत् स्वयम् एत्य मम तदाप्तिप्रतिभूः अभूः ( तत् ) इतरस्मात् न घटते ॥ 3.89 ॥
अकाण्डमेवात्ममुवाऽर्जितस्य भुत्वाऽपि मूलं मयि वीरणस्य ॥
भवान्न मे किं नलदत्वमेत्य कर्ता हृदश्चन्दनलेपकृत्यम् ॥ 3.90 ॥
जीवातु–अकाण्डेति । हे हंस ! विः पक्षी ‘विर्विष्किरपतत्रिणः’ इत्यमरः ॥
‘रोरी’ति रेफलोपे ‘द्रलोपे पूर्वस्ये’ति दीर्घः । भवान् अकाण्डमनवसर एव ‘अत्यन्तसंयोगे द्वितीया’ आत्मभुवा कामेन मसि विषये अर्जितस्य कृतस्य रणस्य गाढप्रहारलक्षणस्य मुलं हंसानामुद्दीपकत्वेन निदानं भूत्वाऽपि अन्यत्र काण्डो दण्डः तद्वर्जितमकाण्डं यथा तथा आत्मभुवा ब्रह्मणा अर्जितस्य सृष्टस्य वीरणस्य तृणविशेषस्य मूलं मूलावयवो भूत्वा अत एव नलदत्वं नैषघदात्त्वम् । अन्यत्र उशीरेपकारशील्वादिति भावः । ‘काण्डोऽस्त्री दण्डबाणार्ववर्गावसरवारिषु ।’ ‘स्याद्वीरणं वीरतरुर्मृ लस्योशीरमस्त्रियाम् ।’ ‘अभयं नलदं सेव्यमि’ति चामरः वीरणस्येति शब्दश्लेषः । अन्यत्रार्थश्लेषः । तथा च नलदत्वमेत्य चेति प्रकृताप्रकृतयोरभेदाध्यवसायेन हंसे आरोप्यमाणस्योशीरस्य प्रकृत्या तादात्म्येन चन्दनकृतृयलक्षणप्रकृतकार्य्योपयोगात् परिणामालङ्कारः । ‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणाम’ इति लक्षणात्, स चोक्तश्लेषप्रतिबिम्बोत्थापित इति सङ्करः ॥ 3.90 ॥
अन्वयः–अकाण्डम् एवमपि आत्मभुवा अर्जितस्य रणस्य मूलं भुत्वा अपि विः भवान् नलदत्वम् एत्य हृदः चन्दनलेपकृत्यं न कर्त्ता ? अथ च–‘अकाण्डमेव….अर्जिजतष्ट वीरणस्य मूलं भूत्वा अपि भान्….न कर्त्ता
? ॥ 3.90 ॥
अलं विलम्बय त्वरितुं हि वेला कार्ये किलस्थैर्यसहे विचारः ॥
गुरूपदेशं प्रतिमेव तीक्ष्णा प्रतीक्षते जातु न कालमार्तिः ॥ 3.91 ॥
जीवातु–अलमिति । हे हंस ! विलम्बयालं न विलम्बितव्यमित्यर्थः । ‘अलङ्खल्वोरि’त्यादिना क्त्वाप्रत्यये ल्यबादेशः । त्वरितुं वेला हि त्वराकालः खल्वयमित्यर्थः । ‘कालसमयेवेलासु तुमुन्’ कुतः ? स्थैर्यसहे विलम्बसहे कार्ये चिारो विमर्शः किलेति प्रसिद्धौ, अन्यथा विपत्स्यत इति भावः, तथाहि तीक्ष्णा शीघ्रग्राहिणी प्रतिभा प्रज्ञा गुरूपदेशमिव आर्त्तिराधिर्जातु कदापि कालं न प्रतीक्षते; कालक्षेपं न सहत इत्यर्थः । उपमार्थान्तन्यासयोः संसृष्टि ॥ 3.91 ॥
अन्वयः–विलब्य अलम्, हि त्वरितुं वेला, किल स्थैर्यसहे विचारः, तीक्ष्णा प्रतिभा गुरूपदेशम् इव आर्त्तिः जातु कालं न प्रतीक्षते ॥ 3.91 ॥

अभ्यर्थनीयस्स गतेन राजा त्वया न शुद्धान्तगतो मदर्थम् ॥
प्रियास्यदाक्षियबलातृकृतो हि तदोदयेदन्यधक्षूनिषेधः ॥ 3.92 ॥
जीवातु–अथानन्तरकृत्यं सविशेषमुपदिशति"अभ्यर्थनीय इत्यादिश्लोकपञ्चकेन । गतेन इतो यातेन त्वया स राजा पनः शुद्धान्तगतः अन्तपुरस्थो मदर्थमत्प्रयोजनं नाभ्यर्थनीयो न वाच्यः, दुहादित्वाद् द्विकर्मतृवम् ‘अप्रधाने दुहादीनामि’ति राज्ञोऽभिहितर्मत्वम् कुतः ? हि यस्मात्तदा तस्मिन् काले प्रियाणामास्यदाक्षिण्यं मुखावलोकनोत्थापितच्छन्दानुत्तिबुद्धिरित्यर्थः । तेन बलात् कृतो बलात्प्रतिवर्तितो अन्यवधूनिषेधः उदयेत् उत्यद्यते उत्पद्यते ॥ 3.92 ॥
अन्वयः–वातेन त्वया शुद्धान्तगतः सा राजा मदर्थम् न अभ्यर्थनीयः, हि तदा प्रियास्यदाक्षिण्यबलात्कृतः अन्यवधूनिषेधः उदयेत् ॥ 3.92 ॥
शुद्धनतसंभोगनितान्ततृप्ते न नैषधे कार्यमिदं निगाद्यम् ॥
अपां हि? तृप्ताय न वारिधारा स्वादुस्सुगन्धिः स्वदते तुषारा ॥ 3.93 ॥
जीवातु-शुद्धान्तेति । किञ्च शुद्धान्तसम्भोगेन अन्तःपुरस्त्रीसम्भोगेन नितान्ततृप्ते अत्यन्तसन्तुष्टे नैषधे नलविषये इदं कार्यं न निगाद्यं न निगदितव्यम्, ‘ऋहलोर्ण्यत्’ ‘गदमदे’त्यादिना सोपसर्गाद्यतो निषेधात् । यथाहि अपां तृप्ताय अदिभस्तृप्तायेत्यर्थः । ‘पूरणगुणे’त्यादिना षष्ठीसमासप्रतिषेधादेव ज्ञापकात् षष्ठी ‘रुच्यर्थानां प्रीयमाण’ इति सम्प्रदानत्वाच्चतुर्थी । स्वादुर्मधुरा सुगन्घिः कर्पृ रादिवासना शोभनगन्धा । अत्र कवीनां पिरंकुशत्वाद्गन्धास्येत्वे तदेकान्तत्वनियमानादरः । तुषारा शीतला वारिघारा न स्वदते न रोचते हि ।
टृष्टान्तालंकारः ॥ 3.93 ॥
अन्वयः–शुद्धान्तसम्भोगनितान्तुष्टे नैषधे इदं कार्य न निगाद्यम्, हि अपां तृप्ताय स्वादुः सुगन्धिः तुषारा वारिधारां न स्वदते ॥ 3.93 ॥
विज्ञापनीया न गिरो मदर्थाः क्रु धा कटुष्णे हृदि नैषधस्य ॥
पित्तेन दूने रसने सिताऽपि तिक्तायते हंसकुलावतंस ! ॥ 3.94 ॥
जीवातु–विज्ञापनीया इति । हे हंसकुलावतंस ! नैषधस्य हृदि हृदये क्रुघा क्रोधेन ईषदुष्णे चकारात्कोः कदादेशः । मह्ममिमाः मदर्थाः अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या, गिरो वाचो न विज्ञापनीयाः न विघेयाः न विज्ञाप्या इत्यर्थः । तथाहि पित्तेन पित्तदोषेण दूने देषिते रसने रसनेन्द्रिये सिता शर्करापि तिक्तायजते तिक्तोभवति लोहितादित्वात् क्यषु, ‘वाक्यष’ इति आमनेपदम्. । अत्रापि टृष्टान्तालङ्कारः
॥ 3.94 ॥
अन्वयः–हंसकुलवतंसः, नैषधस्य हृदि क्रुधा कदुष्णे त्वया मदर्थाः गिरः न विज्ञपनीयाः रसने पित्तेन दूने सिता अपि तिक्तायते ॥ 3.94 ॥
धरातुरासाहि मदर्थयाञ्चा कार्या न कार्यान्तरचुम्बिचित्ते ॥
तदाऽर्थितस्यानवबोधनिद्रा बिभर्त्यवज्ञाचरणस्य मुद्राम् ॥ 3.95 ॥
जीवातु–घरेति । तुरं त्वरितं सहयत्यभिभवत्यरीनिति तुराषाडिनद्रःसहतेश्चौरादिकत्वातृ क्विप्, ‘नहिवृती’त्यादिना पूर्वपदस्य दीर्घंः, प्रकृतिग्रहणेण्यन्तस्यापि ग्रहणात्, मुग्धभोजस्तु तुराशब्दं टाबन्तमाह । तस्मिन् धरातुरासाहि भूदेवेन्द्रे नले अजादिषु असाड्र पत्वात् ‘सेहः साहः स’ इति ष्त्वं नास्ति । कार्यान्तरचुम्बिचित्ते व्यासक्तचिते मदर्थयाञ्चा मत्प्रयोजनप्रार्थनानिद्रा सा अवज्ञाऽऽचरणस्य अनादरकरणस्यमुद्रामभिज्ञानं बिभर्ति, अनादरप्रतीर्ति करो?तीत्यर्थः । तच्चातिकष्टमिति भावः ॥ 3.95 ॥
अन्वयः–धरातुरासाहि कार्यान्तरचुम्बिचित्ते मदर्थयाच्ञा न कार्या, तदा अर्थितस्य अनवबोधनिद्रा अवज्ञाचरणस्य मुद्रां बिभर्ति ॥ 3.95 ॥
विज्ञे न विज्ञाप्यमिदं नरेन्द्रे तस्मात्त्वयाऽस्मिन् समयं समीक्ष्य ॥
आत्यन्तिकासिद्धिविलम्बसिध्योः कार्यस्य काऽऽर्यस्य शुभा विभाति ॥ 3.93 ॥
जीवातु–विज्ञेनेति । तस्मात् करणाद् विज्ञेन विवेकिना त्वया समयं समीक्ष्य इदं कार्यमस्मिन् नले
विषये विज्ञाप्यम् । विलम्बः स्यादित्याशङ्क्याहआत्यन्तिकेति । हे हंस ! कार्यस्य आत्यन्तिकासिद्धिविलम्बसिद्ध्योर्मघ्ये आर्यस्यविदुषस्ते का कतरा शुभा समीचीना विभाति ? अनवसरविज्ञापने कार्य विघाताद्वरं विलम्बनेनापि कार्यसधनमिति भावः ॥ 3.96 ॥
अन्वयः–तस्मात् विज्ञेन त्वया समयं समीक्ष्य इदम् अस्मिन् नरेन्द्र विज्ञाप्यम् । कार्यस्य आत्यचिन्तका सिद्धिविलम्बसिद्ध्योः आर्यस्य का शुभा विभाति ? ॥ 3.96 ॥
इत्युक्तवत्या दलोपि लज्जा साऽनौचिती चेतसि नश्चकास्तु ॥
स्मरस्तु साक्षी तददोषतायामुन्माद्य यस्तत्तदवीवदत्ताम् ॥ 3.97 ॥
जीवातु–इतीति । अतृथमुक्तवत्या तथा लज्जा अलोपित्यक्तेति यत् । सा, विधेयप्राधान्यात् स्त्रीलिङ्गता, अनौचिती अनौचित्यङ्गतमेतत् नोऽस्माकं शृण्वतां चेतसि चकास्तु । किन्तु अज्जात्यागस्य अदोषतायां स्मरः साधी प्रमाणं, यः स्मरः तां भैमीमुन्माद्य उन्मादावस्थां प्राप्यैतत्तदनुचितं वचनमवीवदत् । प्रकृतिस्थस्यायं दोषो न कामोपहतचेतसि इति भावः ॥ 3.97 ॥
अन्वयः–इति उक्तवत्या यत् लज्जा अलोपि सा नः चेतस्?ि अनैचितीचकास्तु, तु तददोषतायां स्मरः साक्षी, यः ताम् उन्माद्य तत् अवीवदत् ॥ 3.97 ॥
उन्मत्तमासाद्य हरः स्मरश्च दाप्यसीमां म्दमुद्वहेते ॥
पूर्वस्स्मरस्पर्धितया प्रसूनं नूनं द्वितीयो विरहाधिदूनम् ॥ 3.98 ॥
जीवातु–कामा ेवा किमर्थमंव कारयतीत्याशङ्क्य तस्यायं निसर्गो यदुन्मत्तेन क्री?डतीति सटृष्टान्तमाह–उन्मत्तमिति । हरः स्मरश्च द्वावपि उन्मत्त मासाद्य बमीमां दुरन्तां मुदमुद्वहेते दबतुः वहेःस्वरितेत्त्वादात्मनेपदम् किन्तु तत्र निर्देशक्रमात् पूर्वो हरः स्मरस्पर्द्धितया स्मरद्वेषितया प्रसूनं धुत्तूरकूसुमं तस्यायुधतये ति भावः । अन्यस्तु द्वितीयः स्मरस्तु विररस्तु विरहाधिदूनं विरहव्यथादुःस्थमुन्मादावस्थापन्नमित्यर्थः । अन्यत्र विनोदकलाभादित्यर्थः । ‘उन्मत्तउन्मादवति घुत्तुरसमुचुकुन्दयोरि’ति विश्वः । उभयोरभेदाध्यवसात् समानघर्म्मत्वविशेषणमत्राश्लेषात्प्रकृताप्रकृतगोचरत्वाच्च उभयश्लेषः तेन हरवत् स्मरो1़प्युन्मत्तप्रिय इति उपमा गम्यते ॥ 3.98 ॥
अन्वयः–परस्परस्पर्द्धितया नूनं हरः स्मरः च द्वौ अपि उन्मत्तम् आसाद्य असीमां मुदम् उदवहेते, पूर्वः प्रसृनं द्वितीयः विरहाधिदूनम् ॥ 3.98 ॥
तथाऽभिधात्रीमथ राजपुत्रीं निणाय तां नैषधबद्धरागाम् ॥
अमोचि चञ्चू पुटमौनमुद्रा विहायसा तेन विहस्य भूयः ॥ 3.99 ॥
जीवातु–तथेति । तथाऽभिधात्रीं तां राजपुत्रीं भैमीं नैषधे नले बद्धरागां निर्णीय तेन विहायसा विहगेन विहस्य भूयः चञ्चूपूटस्य मौनमुद्रा निर्वचनत्वममोचि आवादीदित्यर्थः ॥ 3.99 ॥
अन्वयः–अथ तथा अभिधात्रीं तां राजपुत्रीं नैषधबद्धरागां निर्णीय तेन विहायसा विहस्य भूयः चञ्चुटमौनमुद्रा अमोचि ॥ 3.99 ॥
इदं यदि क्ष्मापतिपुत्रि ! तत्त्वं पश्यामि तन्न स्वविधेयमस्मिन् ॥
त्वामुच्चकैस्तापयता नलं च पञ्चेषुणैवाजनि योजनेयम् ॥ 3.100 ॥
जीवातु–इदमिति । हे क्ष्मापतिपुत्रि ! इदं त्वदुक्तं तत्त्वं यदि सत्यं यदि तत्तर्हि अस्मिन् विषये स्वविधेयं मत्कुत्यं न पश्यामि, किन्तु त्वां नृपं च उच्चकैरत्यन्तं तापयता पञ्चेषुणैव इयं योजना युकयोः सङ्खटना अजनि जाता ! जनेः कर्मणि ‘चिणो लुक्’ ॥ 3.100 ॥
अन्वयः–क्ष्मापतिपुत्रि, यदि इदं तत्त्वं तत् अस्मिन् स्वविधेयं न पश्यामि, त्वं नृपं च उच्चकैः तापयता पञ्चेषुणा एव इयं योजना अजनि ॥ 3.11 ॥
त्वद्बद्धबुद्धेर्बरिन्द्रयाणां तस्योपवासव्रतिनां तपोभिः ॥
त्वामद्य लब्ध्वाऽमृततृप्तिभाजां स्वं देवभूयं चरितार्थमस्तु ॥ 3.101 ॥
जीवातु–त्वदिति । किन्तु त्वदायत्तचित्तस्य त्वामेव घायत इत्यर्थः । अत एव तस्योपवासव्रतिनां
त्वदासत्तस्य त्वामेव घायत इत्यर्थः । अत एव तस्योपवासव्रतिनां त्वदाङ्गाद्विषयान्तरव्यावृत्तानां तपोभिरुक्तोपवासव्रतरूपेरद्य त्वां लब्ध्वा मन्मुखेन लब्धप्रायां निशिचत्यसाक्षात्कृत्येति च गम्यते, अत एव अमृतेन या तृप्तिस्तदभाजां बहिरिन्द्रियाणां स्वं स्वमीयं देवभूयं देवभूयं देवत्वमिन्द्रियत्वं सुरत्वञ्च, ‘देवः सुरे राज्ञि देवमाख्यातमिन्द्रियमि’ति विश्वः । चरितार्थं सफलमस्तु । अमृतपानैकफलत्वाद्देवत्वं स्यादिति भावः । अर्थान्तरप्रतीतेध्वंनिरेवेत्यनुसन्धेयम् ॥ 3.101 ॥
अन्वयः–त्वदबद्धबुद्धेः तस्य उपवासव्रतिनां तपोभिः अद्य त्वां लब्ध्वा अमृतत्प्तिभाजां वहिरिन्द्रियाणां स्वं देवभुयं चारितार्थम् अस्तु ॥ 3.101 ॥
तुल्यावयोर्मुतिरभून्मदीया दग्धा परं साऽस्य न ताप्यतेऽपि ॥
इत्यभ्सूयन्निव देहतापं तस्याऽतनुस्त्वद्विरहाद्विधत्ते ॥ 3.102 ॥
जीवातु–यदुक्तं नृपं पञ्चेषुस्तापयतीति तदाह–तुल्येति । आवयोर्नलस्य मम चेत्यर्थः । ‘त्यदादीनि सवेर्नितृयमि’ति सर्त्रग्रहणादत्यदादिना नलेन सह त्यदाद्येकशोषः । मूर्तिस्तनुस्तुल्या तुल्यरूपा1़भूत् । तत्र मदीया सा मूर्तिःपरं निःशेषं दग्धा भस्मीकृता, अस्य मूर्तिस्तनुर्न ताप्यते तापमपि न प्राप्यते इति हेतोशेषं दग्धा भस्मीकृता, अस्य मूर्तिस्तनुर्न ताप्यते तापमपि न प्राप्यते इति हेतोरभ्युसूयन् ईर्ष्यन्निवेत्युत्प्रेक्षा । अतनुरनङ्गत्वद्विरहात्त्वद्विरहमेव रन्ध्रमन्विष्येत्यर्थः । तस्य नलस्य देहतापं विधत्ते । तस्मात्सिद्धिपदमुपतिष्ठते ते मनोरथ इति भावः ॥ 3.102 ॥
अन्वयः–आवयोः मूर्त्तिः तुल्या अभूत्, मदीया दग्धा परम् अस्य सा ताप्यते अपि न–इति अभ्यूसूयन् इव अतनुः त्वद्विरहात् तस्य देहतापं विधत्ते ॥ 3.102 ॥
लिर्पि दृशा भित्तिविभूषणं त्वां नृपः पिबन्नादरनिर्निमेषम् ॥
चक्षुर्ह्मरैरर्पितमात्मचक्षूरागं स धत्ते रचितं त्वया नु ॥ 3.103 ॥
जीवातु–अथास्य दशावस्था वर्णयन् चक्षुःप्रीर्ति तावत् श्लोकद्वयेनाह–लिपिमित्यादि । हे भैमि ! स नृपो भित्तिविभूषणं कुड्यालङ्कारभूतां लिर्पि चित्रमयीं त्वां दृशा आदरेणास्थया निर्निमेषं विअन् चक्षुर्ह्मरैरश्रुभिरर्पितं त्वया त्वया वा रचितमात्मचक्षुषो रागमारुण्यमनुरागञ्च धत्ते । अत्रोभयकारणसम्भवादुभयस्मिन्नपि रागे जाते श्लेषमहिम्नैकत्राभिधानात्कारणविशेषः सन्देहः ॥ 3.103 ॥
अन्वयः–सः नृपः भित्तिविभूषणं लिपिं त्वां टृशा आउरनिर्निमेषं पिबन् चक्षुर्ह्मरैः अर्पितं नु त्वया रचितम् आत्मचक्षुरागं धत्ते ॥ 3.103 ॥
पातुर्दृशाऽऽलेख्यमयीं नृपस्य त्वामादरादस्तनिमीलयाऽस्ति ॥
ममेदमित्युश्रुणि नेत्रवृतृतेः प्रीतेर्निमेषच्छिदया विवादः ॥ 3.104 ॥
जीवातु–इममेवार्थ भङ्ग्यन्तरेणाह–पातुरिति । अस्तनिमीलया निर्निमेषया टृशा आलेख्यमयी चिगतां त्वामादरात्पातुर्द्रष्टुरित्यर्थः पिबतेस्तृन् प्रत्ययः । अत एव ‘न लोके’त्यादिना षष्ठीप्रतिषेधात्वमिति द्वितीया । नृपस्यनेत्रवृत्तेः प्रीतेश्चक्षुः प्रीतेर्निमेषस्य च्छिदया च्छेदेन सह नेत्रवृत्त्येति शेषः । भिदादित्वादङ् प्रतृययः । अश्रुणि विषये इदमश्रु ममेति मत्कृतमेवेति विवादः कलहः अस्ति भवतीत्यर्थः ॥ 3.104 ॥
अन्वयः–अस्तनिमीलया टृशा आलेख्यमयीं तृवाम् आदरात् पातुःनृपस्य नेत्रवृत्तेः प्रीतेः निमेषच्छिदया विवादः अस्ति ॥ 3.104 ॥
त्वं हृद्गता भैति ! बहिर्गता1़पि प्राणायिता नासिकयाऽस्य गत्या ॥
न चित्तमाक्रामति तत्र चित्रमेतन्मनो यदभवदेकवृत्तिः ॥ 3.105 ॥
जीवातु–अथ मनःसङ्गमाह-त्वमिति । हे भैति ! त्वं बहिर्गतापि हृद्गता अन्तर्गता, अति विरोघे तेन चाभासाद्विरोधाभासोऽलङ्कारः। कया गत्या केन प्रकारेण अस्य नलस्य प्राणायिता प्राणवदाचरिता प्राणसमा ‘उपमानादाचारे’ कर्तृः क्यङ् प्रत्ययः । नासि अस्येवेत्यर्थः । यतः प्राणोऽपि नासिकया नासाद्वारेणआस्यगत्या मुखद्वारेण उच्छ्वासनिशवारूपेण बहिर्गतोऽप्यन्तर्गतो भवतीति शब्दश्लेषः । अत एव प्राणायितेति श्जिष्टविशेषणेयमुपमा पूर्वोक्तविरोधेन सङ्कीर्णा, किन्तु तत्र प्राणायितत्वे चित्रमाश्चर्यरसः चित्तन्नाक्रामति न
किञ्चिच्चित्रमित्यर्थः । कुतः यद्यस्मादेतन्मनो नलचित्तं भवती त्वमेवैका वृत्तिर्जीविकायस्य तदभवदेकवृत्तिः, भवच्छब्दस्य सर्वनामत्वाद् ?वृत्तिमात्रे पुंवदभावः । जीवितभूतस्य प्राणायितत्वे किं चित्रं, जीवितस्य प्राणधारणात्मकत्वादिति भावः ॥ 3.105 ॥
अन्वयः–हे भैभि, ( 1 ) बहिर्गता अपि हृद्गता त्वं कया गत्या अस्य प्राणापिता न असि ? ( 2 ) बहिर्गता त्वं नासिकया आस्यगत्या अपि प्राणापिता । ( 1 ) यत् भवदेकवृत्ति एतत् मनः चित्रम्, न आक्रामति तत्र चित्रम् । ( 2 ) चित्रं तत्र चितं न आक्रामति यत् एतत् मनः भवदेकवृत्तिः ॥ 3.105 ॥
अजस्त्रमारोहसि दूरदीर्धा सङ्कल्पसोयानतर्ति तदीयाम् ॥
श्वासान् स वर्षत्यधिकं पुनर्यद्ध्यानात्तव त्वन्मयतान्तदायप्य ॥ 3.106 ॥
जीवातु–अथ द्वाभ्यां सङ्कल्पावस्थामाह–अजस्त्रमिति । दूरदीर्धामत्यतन्तायतां तदीयां सङ्कल्श्या मनोरथा एव सोपानानि तेषाम् तर्ति पङ्क्तिमजस्त्रं त्वमारोहसि, श्वासान् पुनः सनलः अघिकं वर्षति मुञ्चतीति यत् तच्छ्वासवर्षं तव ध्यानात् त्वन्मयतां त्वदात्मकत्वमाप्य प्राप्य, प्राप्नोतेराङ्, समासे क्त्वोल्यवादेशः, ‘अन्यथा कथमन्यायासादन्प्यस्य श्वासमोक्ष इति भावः । अत्र श्वास सोपानारोहणयोः कार्यकारणयोर्वेयधिकरण्योक्तेरसङ्गत्यलङ्कारः ‘कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिरि’तिलक्षणात, तन्मूला चेयं तादात्मयोत्प्रेक्षेति सङ्करः ॥ 3.106 ॥
अन्वयः–दूरदीर्घा तदीयां सङ्कल्पसोपानततिम् अजस्त्रम् आरोहसि यत् पुनः सः तव ध्यानात् तदा त्वन्मयताम् अवाप्य अधिकं श्वासयान् वर्षति ॥ 3.106 ॥
हृत्तस्य यां मन्त्रयते रहस्त्वां तां व्यक्तमामन्त्रयते मुखं यत् ॥
तद्वरिपुष्पायुधमित्रचन्द्रसख्यौचिती सा खलु तन्मुखस्य ॥ 3.107 ॥
जीवातु–हृदिति । इत्यमरः । मन्त्रयते स्म्भाषते तां त्वां रहः उपांशु रहश्चोपांशु चालिङ्गे’ इतृयमरः । मन्त्रयते सम्भाषते तां त्वां रहः उपांशु ‘रहश्चोपांशु चालिङ्गे’ इत्यमरः । मन्त्रयते सम्भाषते ां त्वां तन्मुखं कर्तृं व्यक्तं प्रकशमामन्त्रयते । हे प्रिय ! हे प्रिये ! क्व यासि ? मामनुयान्तं पश्य इत्येवमुच्चैरुच्चरतीति यत् सा तद्रहस्यप्रकाशनं, विधेयप्राधान्यात् स्त्रीलिङ्गता । तन्मुखस्य तद्वैरिणो लनद्वेषिणः पुष्पायुधस्य मित्रं सखा शरच्चन्द्रः । तेन यत् सख्यं मैत्रीं साटृयञ्च, तस्य औचिती औचित्यं खलु । अरिर्मित्रस्याप्यरित्वादुचितमेतद्रहस्यभेदनमित्यर्थः । अत्र मुखकर्तृकरहस्योदेभदनस्य उक्तवैरनिमित्तत्वमुत्प्रेक्षते ॥ 3.107 ॥
अन्वयः–तस्य हृत् यां त्वां रहः मन्त्रयते तां मुखं व्यक्तम् आमंत्रयते, सा तनमुख्स्य तर्द्वरिपुष्पायुधमित्रचन्द्रसख्यौचिती खलु ॥ 3.107 ॥
स्थितस्य रात्रावधिशय्य शय्यां मोहे मनस्तस्य निमज्जयन्ति ॥
आलिङ्ग्य या चुम्बति लोचने सा निद्राऽऽधुना न त्वदृतेऽङ्गना वा ॥ 3.108 ॥
जीवातु–अथ्ज्ञ एकेन जागरमरतिञ्चाह-स्थितस्येति । रात्रौ श्य्यामधिश्य्य शय्यायां शयित्वा ‘अधिशीङ्स्थासामि’ति अधिकरणस्य कर्म्मत्वम् । स्थितस्य तस्य मनो मोहे सुखपारवश्ये निमज्जयन्ती सती या आलिङ्ग्यलोचने चुम्बति, सा निद्रा त्वटृते त्वत्तो विना ‘अन्यारादितरर्ते’ इत्यादिना पञ्चमी । त्वद्विरहाद्धेतोस्त्वदन्या चेति द्रष्टव्यम् अङ्ना वा अधुना नास्ति, निद्रानिषेधाज्जगारः अङ्गनान्तरनिषेधाद्विषयद्वेषलक्षणा अरतिश्चोक्ता अत्र निद्राङ्गनयोःप्रस्तृतयोरेवोलिङ्गनाक्षिचुम्बनादिधर्मसाम्यादौपम्यप्रतीतेः केवले प्रकृतगोचरात्तुल्योगितालङ्कारः । ‘प्रस्तुताप्रस्तुतानाञ्च केवलं तुल्यधर्मतः । औपम्यं गम्यते यत्र सा मता तुल्ययोगिता ॥’ इति लक्षणात्
॥ 1.108 ॥
अन्वयः–रात्रौ शयाम् धिशय्या स्थितस्य तस्य मनः मोहे निमज्जयन्ती या आलिङ्ग्य लोचने चुम्बति सा निद्रा त्वटृते अङ्गना वा अधुना नास्ति ॥ 3.108 ॥

स्मरेण निस्तक्ष्य वृथैव बाणैर्लावण्यशेषां कृशतामनायि ॥
अनङ्गतामप्ययमाप्यमानः स्पर्धा न सार्धं विजहाति तेन ॥ 3.109 ॥
जीवातु–अथ काशर्‌यावस्थामाह-स्मरेणेति । अयं नलः स्मरेण बाणैर्निस्तक्ष्य निशातृय वृर्थव लावण्यं कान्तिविशेषः, ‘मुकृताफलेषु च्छायायास्तरलत्वमिवान्तरा । प्रतिभाति यदङ्गेषु तल्लावण्यमिहोच्चते ॥’ इति भूपालः । तदेव शेषो यस्यास्तां तनुतां कार्श्यमनायि नीतः । नयतेद्विकर्मकत्वात्प्रधाने कर्मणि लुङ् ’ प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाभि’ति वचनात् । वृथात्वं व्यनक्ति-अनङ्गतां कृशाङ्गताम् ‘अनुदरे’तिवदीषदर्थे नञसमासः, आप्यमानो आनीयमानोऽपि अत्र पूर्ववत्प्रधाने शानच् तेन स्मरेण सार्द्ध स्पर्धा न विजहाति, तथापि तं जिगीषत्येवेत्यथ्रः । अङ्काशर्येऽपि स्वर्द्धाबीजलावण्यस्याकार्श्य्यादङ्गकर्शनं वृथैवेति भावः । अत एव विशेषोक्तिरलङ्कारः, ‘तत्सामग्र्यामनुत्पत्तिर्विशोषोक्तिरलङ्कृतिः।’ इति लक्षणात् ॥3.109॥
अन्वयः–स्मरेण बाणैः निस्तक्ष्य वृथा एव अयं लावण्यशेषां कृशताम् अनायि, अनङ्गताम् आप्यमानः अपि तेन सार्धं स्पर्द्धां न विजहाति ॥ 3.109 ॥
त्वत्प्रापकात्त्रस्यति नैनसोऽपि त्वय्येव दास्येऽपि न लज्जते यत् ॥
स्मरेण बार्णरेतितक्ष्या तभ्क्ष्णैर्लुनः स्वभावोऽपि कियान् किमस्य ॥ 3.110 ॥
जीवातु–अथा द्वाभ्यां लज्जात्यागमाह-त्वदित्यादि । स्मरेण तीक्ष्णैर्वाणैरतितक्ष्य शरीरमिति शेषः । अस्य नलस्य स्वभावोऽपि पापभीरुत्वनीचत्वगहंत्वताच्छील्यमपि क्रियानल्पोऽपि लूनः किमित्युत्प्रेक्षा, यद्यस्मात्त्वत्प्राकात् त्वत्प्राप्तिसाधनादेनसः पाणदपि न त्रस्यति, भीत्रार्थानां भयहेतुरिति अपादानत्वात् पञ्चमी त्वय्येव दास्येऽपि त्वदधिगतादास्यविषये न लज्जते ॥ 3.110 ॥
अन्वयः–स्मरेण तीक्ष्णैः बाणैः अतितक्ष्य अस्य स्वभावः अपि किं कियान् लुनः, यत् त्वत्प्रापकात् एनसः अपि न त्रस्यति, त्वयि दास्ये अपि न लज्जते ? ॥ 3.110 ॥
स्मारं ज्वरं घोरमपत्रपिष्णेस्सिद्धागदङ्गारचये चिकित्सौ ॥
निदानमौनादविशद्विशाला साङ्क्रामिकी तस्य रुजेव लज्ज ॥ 3.111 ॥
जीवातु–स्मारमिति । घोरं ‘गुप्तिज्किद्भ्यः सन्निति निन्दाक्षमाव्याविप्रतीकारेषु इष्यत’ इति रोगप्रतकारे सन् प्रत्ययः, ‘सनाशंसभिक्ष उः’, ‘नलोके’ त्यादिना षष्ठीप्रतिषेधः । सिद्धागदङ्कारचये सिद्धवैद्यसंधे कर्मष्यणि ‘कारे सत्यागदस्ये’ति मुमागमः । निदानमौनाद्रोगनिदानानभिधानाद्धतोरपत्रिपिष्णोर्लज्जाशीलस्य ‘ललङ्कृ?ञि’त्यादिना इष्णुच् । तस्य नलस्य विशाला महती लज्जा संक्रमादागता सांक्रामिकी रुजेव, ‘अधिरोगो ह्मपस्मारः क्षय कुष्ठो मसुरिका । अर्शनात् स्पर्शनाद्दानात् संक्रमन्ति नरान्नरम् ह्मपस्मारः क्षय कुष्ठो मसूरिका । दर्शनात् स्पर्शनाद्दानातृ संक्रमन्ति नरान्नरम् ॥ इति उक्तताक्ष्यादिरोगा इवेत्यर्थः, भिदादित्वादङ् प्रत्ययः, अविशत् ॥ 3.111 ॥
अन्वयः–घोरं स्मारं ज्वरं चिकित्सो सिद्धाऽगदङ्कारचये निदानमौनात् अपत्रष्णिोः तस्य विशाला जल्ला साङ्क्रमिकी रुजा इव अविशत् ॥ 3.111 ॥
विभेति रुष्टाऽसि किलेत्यकस्मात्स त्वां किलोपेत्य हसत्यकाण्डे ॥
यान्तीमिव त्वामनुयातृयहेतोरुक्तस्त्वयेव प्रतिवक्ति मोघम् ॥ 3.112 ॥
जीवातु–अथ उन्मादावस्थामाह–बिभेतीति । स नलः अकस्मादकाण्डे रुष्टा कुपितासीति बिभेति, अकाण्डे अनवसरे उपेत्य किल प्राप्येव हसति, अहेतोरकस्माद्यान्तीं गच्छन्तीं किल त्वामनुयाति, त्वया उक्त इव मोधं निर्विष्ज्ञयं प्रतिवक्ति । सर्वोऽप्ययमुन्मादानुभावः । उन्मादश्चित्तविभ्रमः ॥ 3.112 ॥
अन्वयः–सः अकस्मात् रुष्टा असि इति बिभेति अकाण्डे उपेत्य हसति किल अहेतोः यान्तीम् त्वाम् अनुयाति इव, त्वया उक्त इव मोघं प्रतिवक्ति ॥ 3.112 ॥
भवद्वियोगाच्छिदुरातिधारायमस्वसुर्मज्जति निश्शरण्यः ॥
मूर्च्छामयद्वीपमहान्ध्ययपङ्के हा हा महीभृदभटकुञ्जरोऽयम् ॥ 3.113 ॥
जीवातु–अथ मूर्च्छावस्थामाह–भवदिति । भवत्या वियोगो भवद्वियोग, ‘सर्वनाम्नो वृत्तिमात्रे
पुंवदभावः’ । आर्तिघारा दुःखपरम्परा तस्या एव यमस्वसुर्य मुनाया मूर्च्छामयं मूर्च्छावस्थारूपं यदद्वीपं तत्र यन्महान्ध्यं महामोहस्तस्मिन्नेव पङ्के महीभृदभटो राजवीरः स एव कुञ्चरः निःशारण्यो निरालम्बः सन् मज्जति हा हेत खेदे । रूपकालङ्कारः । आर्तिधारायास्तमोदिकारत्वेन रूपसाम्याद्यमुना रूपणम् ॥3.113॥
अन्वयः–हा, हा, भवद्वियोगाच्छिुरार्तिघारायमस्वसुः मूर्च्छामयद्वीपमहान्ध्यपङ्के निःशरण्यः अयं महीभृदभटकुञ्चरः मजृजति ॥ 3.113 ॥
सवयापसव्यव्यसनाद् द्विरुक्तैः पञ्चेषुबाणैः पृथगर्जितासु ॥
दशासु शेषा खलु तद्दशा या तया नभः पुष्यतु कोरकेण ॥ 3.114 ॥
जीवातु–दशमावस्था तु तस्य कदापि माभूदित्यत आह–सव्येति ॥
सव्याप्सव्याभ्यां वामदक्षिणाभ्यां व्यसनान्मोचनात् द्विरुक्तैद्विगुणीकुतैर्दशभिरित्यर्थः । पञ्चेषुबाणैः पृथगर्जितासु प्रत्येकमुतृपादितासु दशसु ‘टृङ्मनःसङ्गसङ्गल्पा जागरः कृशताऽरतिः । ह्रीत्यागोन्मादमूर्च्छान्ता इत्यनङ्गदशा दश ।’ इत्यृक्तासु चक्षुःप्रीत्यादिदशावस्थासु शेषा अवशिष्टा या तद्दशा दशमावस्थेत्यर्थः । तयैव कोरकेण कलिकयेति रूपकम् । नभः, पुष्प्यतु पुष्पितमस्तु । अस्य सा दशा खुपष्पकल्पाऽस्तु, कदापि मा भूदित्यथर्ः । तच्च त्वत्प्राप्तिलाभादितिभावः । पुष्प-विकसन इति धातोर्लोट्
॥ 3.114 ॥
अन्वयः–सव्यापसव्यव्यसनात् द्विरुर्क्तेः पञ्चेषुबाणैः पृथक् अर्जितासु दशासु शेषा या तददशा तया कोरकेण नभः खलु पुष्प्यतु ॥ 3.114 ॥
त्वयि स्मराधेस्सततास्मितेन प्रस्थापितो भूमिभृताऽस्मि तेन ॥
आगतृय भूतस्सफलों भवत्या भावप्रतीत्या गुणलोभवत्याः ॥ 3.115 ॥
जीवातु–त्वयाति । त्वयि विषये स्मराघेः स्मरपीडादुःखाद्धेतोः सततमस्मितेन स्मितरहितेन खिन्नेन तेन भूमिभृता प्रस्थापितोऽस्मि । अथ आगत्य गुणलोभवत्याः भवत्यास्तव भावप्रतीत्या अभिप्रायज्ञानेन सफलो भूतः सिद्धार्थोऽस्मीत्यर्थः ॥ 3.115 ॥
अन्वयः–स्मराधेः सततास्मितने तेन भूमिभूता त्वयि प्रस्थापितः आगत्य गुणलोभवत्याः भवत्याः भावप्रतीत्या सफलः भूतः अस्मि ॥ 3.115 ॥
धन्याऽसि वैदर्भि ! गुणैरुदारैर्यया समाकृष्यत नैषधोऽपि ॥
इतः स्तुतिः का खलु चन्द्रिका या यदब्धिमप्युत्तरलहकरोति ॥ 3.116 ॥
जीवातु–घन्येति । हे वैदभि ! भैमि ! वैदर्भीरीतिरपि गम्यते । धनं लब्धा धन्या असि कृतार्थासीत्यर्थः । ‘अनगणं लब्धे’ति यत्प्रत्ययः । कुत ? यया त्वया उदारैरुत्कृष्टैर्गुणैर्लावण्यादिभिरन्यत्र शलेषैः प्रसादादिभिः पाशैश्चेति गम्यते, नैषधो नलोऽपि तादृक् धीरोऽपीति भावः । समाकृष्यत सम्यगाकृष्टो वशीकृत इति भावः । एतेन वैर्श्भीत्यादिविशेषणाद् गुणैर्भावुकमिवेत्युपमालङ्कारो युज्यते । तथाहि चन्द्रिका या अब्धिमपि गुणैर्भादुकमिवेत्पुपमालङ्कारो युज्यते । तथाहि चन्द्रिका या अब्धिका स्तुतिर्वर्णना का खलु ? न कापीत्यर्थः दृष्टान्तालङ्कारः । एतेन नलस्य समुद्रगाम्भीर्य्य दमयन्त्या श्चन्द्रिकाया इव सौन्दर्य च व्यज्ते ॥ 3.116 ॥
अन्वयः–वैदर्मि, घन्या असि, यया उदारैः गुणैः नैषधः अपि समाकृष्यत; चन्द्रिकायाः इतः स्तुतिः का स्यात् यत् अब्धिम् अपि उत्तरती करोति ॥ 3.116 ॥
नलेन भायाशाशिना निशेव्? त्वया स भायान्निशया शशीव ॥
पुनःपुनस्तद्युगयुग्विधाता स्वभ्यासमास्ते नु युवां युयुक्षुः ॥ 3.117 ॥
जीवातु–फलितमाह–नलेति । शशिना निशेव त्वं नलेन भायाः । भातेराशिषि लिङ् । सोऽपि निशया शशीव त्या भायात्, भातेः पूर्ववदाशिषि लिङ् । कि च अत्र दैवानुकूल्यमपि सुभाव्यमित्याह पुनः पुनस्तयोर्निशाशाशिनोर्युगं युनक्ति योजयतीति तद्युकयुक् विधाता युवां नलं त्वाञ्च ‘त्यदादीति सर्वेर्नित्यमि’ति एकशषः । योक्तुमिच्छतोति युयुक्षुर्युजेः सन्नन्तादुप्रत्ययः स्वभ्यासमभ्यासस्य समृद्धौ निरन्तराभ्यास इत्यर्थः । समृद्ध्यर्थेऽव्ययीभावः । ततः परस्याः सप्तम्या वैकल्पिकत्वादम् भावः । आस्ते नु ? तथाऽभ्यस्येति
किमित्यर्थः । अत्र तादर्थ्ये चतुर्थ्या अमृभाव इति व्यारूपानं अभ्यातार्थमभ्यस्यतीत्यर्थः स्यात् तदात्माश्रयत्वादित्यपेक्षणीयम् । अत्र दमयन्तीनलयोरन्योन्यशोभाजननोक्तेरन्योन्यालङ्कारः ‘परस्परक्रियाजननमन्योन्यामि’ति लक्षणात् । उपमाद्वयानुप्राणित इति सङ्करः । तन्मूला चेयं विधातुः पुनर्निशाशशियीजनायां दमयन्तीनलयोजनाभ्यासत्वोत्प्रेक्षेति ॥ 3.117 ॥
अन्वय–शशिना निशा इव नलेन भायाः, सः निशया शशी इव त्वया भायात्, नु पुनः पुनः तद्युगयुक् विधाता युवां युयुक्षुः स्वभ्यासम् आस्ते ॥ 3.117 ॥
स्तनष्ये तन्वि ? परं तवैव पृथौ यदि प्राप्स्यति मैषधस्य ॥
अनल्यवैदग्ध्यविवर्धनीनां पत्रावलीनां रचना समाप्तिम् ॥ 3.118 ॥
जीवातु–स्तनद्वय इति । हे तन्वि ! हे तन्वि ! किञ्च नैषधस्य नलस्य अनल्पेन महता वैदग्धने नैपुण्येन विवर्धनीनामुजृम्भणीनां पत्रावलीनां रचना समाप्तिसम्पुर्णतां प्राप्स्यति यदि, तर्हि पृथौ पृथुनि भाषितपुं स्कत्वाद्विकल्पेन पुंवदभावः । तवैव स्तनद्वये परं प्राप्स्यति, नान्यस्या इत्यर्थः । अन्यस्या अयोग्यत्वादितिभावः ॥ 3.118 ॥
अन्वयः–तन्वि, नैषघस्य अनर्ल्पवैदग्ध्यविवर्घनीनां पत्रावलीनां रचना यदि समाप्ति प्राप्स्यति, पंर तव पृथौ स्तनद्वये एव ॥ 3.118 ॥
एकस्सुधांशुनं कथञ्चन स्यात्तुप्तिक्षमस्त्वन्नयनद्वयस्य ॥
तृवल्लोवनासेचनकस्तदस्तु नलास्यशीतद्युतिसद्वितीयः ॥ 3.119 ॥
जीवातु–एक इति । एकः सुंघांशुस्त्वन्नयशीतद्युतिना कथञ्चन कथञ्चिदपि तृप्तौ प्रीणने क्षमो न स्यात्तत्तस्मान्नलास्यशीतद्युतिना नलमुखचन्द्रेण सद्वितीयः सन् त्वल्लोचनोनयोरासेचनकस्तृप्तिकरोऽस्तु । ‘तदासेचनकं तृप्ते र्नास्त्यन्तो यस्य दर्शनादि’त्यमरः । आसिच्यते अनेनेत्यासेचनकं, करणे ल्युट् स्वार्थे कः
॥ 3.119 ॥
अन्वयः–एकःसुधांशुः त्वन्नयनयस्य कथञ्चन तृप्तिक्षमः न स्यात् तत् नलास्यशीतद्युतिसद्वितीयः त्वल्लोचनाचनकः अस्तु ॥ 3.119 ॥
( युग्मम् )
अहो तपःकल्पतरुर्नलीयस्त्वाणिजाग्रस्फुरदङ्कुरश्रीः ॥
त्वद्भ्रूयुगं यस्य खलु द्विपत्री तवाधरो रज्यति यत्कलम्बः ॥ 3.120 ॥
यस्ये नवः पल्लवितःकराभ्यां स्मितेन यः कोरकितस्तवास्ते ॥
अङ्गभ्रदिम्ना तव पुष्पितो यः स्तनश्रिया यः फलितस्तवेव ॥ 3.121 ॥
जीवातु–अथ द्वाभ्यां नलतपःसाफल्यमाह-अहो इत्यादिना । नलस्यायं नलीयः, ‘वा नामधेयस्ये’ति वृद्धसंज्ञायां वृद्धाच्छः । अत एव कल्पतरुः अभिनव प्रसिद्धकल्पतरुविलक्षण इत्यर्थः । अत एव अहो इत्याश्चर्यं वैलक्षण्यमेवाहत्वदित्यादि । अत्रापि यच्छब्दो द्रष्टव्यः यः कल्पतरुः तव वाणिजाग्रैः कररुहाग्रैर्नित्यं स्फुरन्ती अङ्रन्ती अङ्कुरश्रीर्यस्य सः अङ्कुरवानित्यर्थः, यस्य त्वदभ्रू युगमेव द्वयोः नालिका किसलयकाण्ड इत्यर्थः, ‘अस्य तु नालिका’ कलम्बश्च कडम्बश्चे’त्यमरः ? रज्यति स्वयमेव रक्तो भवति, ‘कुषिरजोः प्राचां श्यन् परस्मैपदञ्च’ति कर्मकर्तरि रूपम् । य इति । यस्ते तव करभ्यां पल्लवितः सञ्जात पल्लवः, यस्तव स्मितेन कोरकितः सञ्जातकोरकः सन् आस्ते, यस्तवाङ्गानां भ्रदिम्ना मार्दवेन पुष्पितः सञ्जातपुष्पः, यस्तवैव स्तनश्रिया स्तनमसोन्दर्येणफलितः सञ्जाततफलः । सर्वत्र तारकादित्वादितच् प्रत्ययः । अत्र श्लोकद्वयेन तपसि दमयन्तीनखादिषु च कल्पतरुतावयवत्वरूपात्सावयवरूपकं तथा अवयविनि कल्पतरोरवयवानां नखाङ्कुरादीनाञ्च मिथः कार्यकारणभूतानां भिन्नदेशत्वादसङ्गत्याश्रितमति सङ्करः, ‘कार्यकारणयोर्भिन्नदेशत्वे स्यादसङ्गतिरि’ति लक्षणात् ॥ 3.120-121 ॥
अन्वयः–अहो, त्वत्पाणिजाग्रस्फुरदङ्करश्रीः नलीयः तपःकल्पतरुः,यस्य द्विपत्?त्री तद्भूयुगं
यतृकलम्बः तव अधरः रज्यति, यः ते कराभ्यां नवः पल्लर्वितः, यः तव स्मितेन कोरकितः आस्ते, यः तव अङ्गभ्रदिम्ना नपुष्पितः, यः तव एव स्तनश्रिया फलितः । ( युग्मम् ) ॥ 3.120-121 ॥
कंसीकृतासीत्खुलु मण्डलीन्दोः ससक्तरश्मिप्रकरा स्मरेण ॥
तुला च नाराचलता निजैव मिथोऽनुरागस्य समीकृतौ वाम् ॥ 3.122 ॥
जीवातु–किञ्च समानुरागतृवाच्च युवयोःसमागमः श्लाध्य इत्याशयेनाहकंसीति । स्मरेण कर्त्रा वां युवयोर्मिथोऽनुरागस्य अन्योन्यरागस्य, यस्तव स्मिन्, यश्च तस्य त्वयि, तयोरनुरागयोरित्यर्थः । समीकृतो समीकरणे निमित्ते तदर्थमित्यर्थः । संसंक्तः संयोजितःरश्मीनामंशूनां सूत्राणाञ्च प्रकरः समूहो यस्यां सा ‘किरणप्रग्रहौ रश्मी’ इत्यमरः । इन्दोर्मण्डली बिम्बं कंसीकृता आसीत् । ‘कंसोऽस्त्री लोहभाजनमि’ति शब्दिकमण्डने । मण्डले निजा नाराचलता बाण वल्ली यैव तुला तुलादन्डीकृतेति शेषः । तत्रेन्दुमण्लादौ कंसादिरूपणादेवस्मरस्य कार्यकारणरूपसिद्धेरेकदेशविवर्तिरूपकम् ॥ 3.122 ॥
अन्वयः–स्मरेण वां मिथोऽनुरागस्य समीकृतौ संसक्तरश्मिप्रकरा इन्दोः मण्डली कंसीकृता आसोत् तुला च निजा नाराचलता एव ॥ 3.122 ॥
सत्त्वस्त्रु तस्वेदमधूत्थसान्द्रे तत्पाणिपह्मे मदनोत्सवेषु ॥
लग्नोत्थितास्त्त्वत्कुपत्ररेखास्तन्निर्गतास्तत् प्रविशन्तु भूयः ॥ 3.113 ॥
जीवातु–सत्त्वेति । किं च मदनोत्सवेषु रतिकेलिषु सत्त्वेन मनोविकारेण स्त्रुतो यः स्वेदः सात्त्विक?विकारविशेषः तेनैव मधूत्थेन मधूच्छिष्टेन सान्द्रे निरन्तरे अत एव तस्य नलस्य पाणिपद्मे लग्नाः संक्रान्ताः । अतएव उत्थिताः त्वत्कुचतटाद्विश्लिष्टः । तन्निर्गताः । तत्पाणिपह्मोत्पन्ना त्वत्कुचत्ररेखाः भूयः तत् पाणिपह्मं ‘वा पुंसि पह्मं नलिनमि’त्यमरः । प्रविशन्तु । कार्यस्यकारणे लयनियमादिति भावः । युवयोः समागमोऽस्तु इति तात्पर्यम् ॥ 3.123 ॥
अन्वयः–मदनोत्सवेषु सत्त्वस्त्रु तस्वेदमधूत्थसान्द्रे तत्पाणिपदमे लग्नोत्थिताः त्वत्कुचपत्त्ररेक्षाः भूयः तत् प्रविशन्तु ॥ 3.123 ॥
बन्धाढ्यनानारतमल्लयुद्धप्रमोदितैः केलिवने मरुदिभः ॥
प्रसूनवृष्टिं पुनरुक्तमुक्तां प्रतीच्छतं भैमि ! युवां युवानौ ॥ 3.1़24 ॥
जीवातु–बन्धेति : किं च हे भैमि ! बन्धैरुत्तानादिकरणैः कामतन्त्रप्रसिद्धैराढ्यं समग्रं नानारतमुत्तानकादिविविधसुरतं तदेव मल्लयुद्धं तेन प्रमोदितः सन्तोषितः सन्तोषितैः केलिवने मरुदिभः वायुभिर्देवैश्च ‘मरुतौ पवनामरौ’इत्यमरः । पुनरुक्तं सान्द्रं यथा तथा मु?क्तां प्रसनवृष्टिं युवतिश्च युवा चयुवानौ,
‘पुमान् स्त्रिये’त्येकशेषः । युवां प्रतिच्छतं स्वीकुरुतम् । युद्धविक्रान्ता हि देवैः पुष्पवृष्टया सम्भाव्यन्त इति भावः ॥ 3.124 ॥

अन्वयः–भैमि, बन्धाढ्यनानरतमल्लयुद्धप्रमोदितै : केलिवने मरुदिभःपुनरुक्तमुक्तां प्रसूनवृष्टिं युवानो युवाम् प्रतीच्छतम् ॥ 3.124 ॥
अन्योन्यसङ्गमवशादधुना विभातां तस्यापि तेऽपि मनसी विकसद्विलासे ॥
स्त्रष्टुं पुनर्मनसिजस्य तनुं प्रवृत्तमादाविव द्व्यणुककृत्परमाणुयुग्मम् ॥ 3.125 ॥
जीवातु–अन्योन्येति । कि च, अधुना अन्योन्यसङ्गमवशाद्विकसद्विलासे वर्धभावोल्लासे तस्यापि ते1़पि नलस्य तव च मनसी मनजिजस्य कामस्य तनुं शरीरं पुनः स्त्रष्टुमारब्धुं प्रवृत्तमत एवादौ द्वाभ्यामारब्धं कार्य
द्व्यणुकं तत्करो?तीति तत्कृत् तदारम्भकं, करोतेः क्विप् । तत्परमाणुयुग्मामवत्युतृप्रेक्षा । ताकिंकमते मनसोऽणुत्वादिति भावः । विभातां कार्यारम्भकपरमाणुयुगलवदविश्लेषेण विराजतामित्यर्थः । भातेर्लोट्, ‘तस्थे’ति तसः तामदेशः ॥ 3.125 ॥
अन्वयः–अधुना अन्योन्यसङ्गमवशात् विकसद्विलासे तस्य अपि ते अपिमनसी मनसिजस्य तनुं पुनः स्त्रष्टं प्रवृत्तम् आदौ द्व्यणुककृत् परमाणुयुग्मम् इव विभाताम् ॥ 3.125 ॥
कामः कोसुमचापदुज्रयममुं जेतुं नृपं त्वां धनुर्वल्लीमव्रणवंशजामधिगुणामासाद्य माद्यत्यसौ ॥
ग्रीवालङ्कृतिपट्टसूत्रलतया पृष्टे कियल्लम्बया भ्राजिष्णुं कवरेखयेव निवसत्सिन्दूरसौन्दर्यया
॥ 3.126 ॥
जीवातु–काम इति । असौ यो नलजिगीषुरिति भावः । कामः कौसुमेन चापेन दुर्जयं जितेन्द्रियत्वादिति भावः । अमुं नृपं नलं जेतुमव्रण्सवंशजां सत्ककुलप्रसूतां टृढवेणुजन्याञ् च, ‘द्वौ वंशौ कुलमस्करावि’त्यमरः । अधिगुणामधिकलावण्यादिगुणामधिज्जाञ्च निवसदनुवर्तमानं सिन्दूरस्याङ्कुरावस्थायां नालान्तराले क्षिप्तस्य सौन्दर्य शोभा यस्या तया कषरेखया कालान्तरे सिन्दूरसंक्रान्तियरीक्षार्थं कृतघर्षणरेखयेवेत्युत्प्रेक्षा । पृष्ठे ग्रीवालङ्करभूता या पट्टसूत्रलता तया भ्राजिष्णुं ताच्छील्ये ‘भुवश्चे’ति चकारादिष्णुच, ! भ्राजमानां त्वामेव धनुर्वल्लीं चापलतामासद्य माद्यति हृष्यति । श्लेषोत्प्रेक्षासङ्कीर्णो रूपकानङ्कारः ॥ 3.126 ॥
अन्वयः–असौ कामः कौसुमचापदुजैयम् अमुं नृपं जेतुम् अव्रवंशजाम् अधिषुणां निवसत्सिन्दून्सौन्दर्यया कषरेक्षया इव धपनुर्वल्लकीम् आसाद्य माद्यति ॥ 3.136 ॥
त्वद्गुच्छावलिमौकिकानि गुटिकास्तं राजहंसं विभोर्वेध्यं विद्धि मनोभुवः स्वमपि तां मञ्जुं धनुर्मञ्जरीम् । यन्नित्याङ्कनिवासलालिततमज्जयाभुज्यमानं लसन्नाभीमध्यबिला विलासमखिलं रोमानिरालम्बते ॥3.137॥
जीवातु–त्वदिति । विभोर्मनोभुवः एव मौक्तिकानि, पक्षिवेद्धुरिति शेषः । तव गुच्छावलेर्मुक्ताहारविशेषस्य मुक्ता एव मौक्तिकानि, ‘विन्यादित्वात् स्वार्थे ठगि’ति वामनः । गुटिकाः गुलिकाः विद्धि जानीहि । तं राजहंसं राजश्रेष्ठे तमेव राजहंसं कलहंसं श्लिष्टक्ष्पकम् । ‘राजहंसो नृपश्रेष्ठे कादम्बकलहंसयो’रिति विश्वः । वेधितुं प्रहर्त्तुमर्हं वेध्यं लक्ष्यं, विध-विधाने ‘ऋहलोर्ण्यत्’ ‘अनेकार्था धतवः’ एवमाह-‘वेघितच्छिद्रितावि’त्यत्र स्वामी । अन्येत्वाहुः-स्वप्नेऽपि विधानार्थ एव प्रयोगाच्च विध-वेधन इत्येवाकारस्थः पाठः, पाठान्तरं तु प्रामादिकमन्धपरम्परायातमिति विद्धि । स्वमात्मानमपि ‘स्वो ज्ञातावत्मनि स्वमि’त्यमरः । तां वक्ष्यमाणप्रकारां मञ्जु मञ्जुलां धनुर्मञ्जरीं चापवल्लरीं विद्धि, यस्याः नित्यमङ्कनिवासेन समीपस्थित्या लालिततमया अत्याटृतया ज्यया मौर्व्या भुज्यमानमनुभूयमानमखिलं विलासं शोभां ज्यारूपतामित्यर्थः । लसन्नाभ्येव मध्यः बिल्ङ्गगुलिकास्थानं यस्याः सा रोमालिस्त्वद्रोमराजिरालम्बते भजति । अत्र मौ?क्तिमादौ गुटिकाद्यवयवरूपणादवयविनि कामे वेद्घृत्वरूपणस्य गम्यमानत्वादेकदेशविवर्तित्तसावयवरूयपमकमलङ्कारः ॥ 3.127 ॥
अन्वयः–विभोः मनोभुवःत्वद्गुच्छावलिमौक्तिकानि गुटिकाः तं राजहंसंवेध्यं स्वम् अपि तां मज्जुं धनुर्मञ्जरीं विद्धि, यन्नित्याङ्कनिवासलालिततमज्याभुज्यमानम् अखिलं विलासं लसनभीमध्यबिला रोमालिः आलम्बते ॥ 3.137 ॥
पुष्पेषुचिकुरेषु ते शरचयं स्वं भालमूले धनु रौद्रे चक्षुषि यज्जितस्तनुमनुभ्राष्टं च यश्चिक्षिपे ॥
सनिर्विद्याश्रयदाश्रमं स वितनुस्त्वां तज्जयायाधुना पत्रालिस्त्वदुरोजशैलनिलया तत्पर्णशालायते
॥ 3.128 ॥
जीवातु–पुष्पेषुरिति । याः पुष्पेषुः कामो यज्जितो येन नलेन सौन्दर्यात्वाभूतः अतएव निविंद्य ईर्ष्यया जीवनर्वयर्थ्यं मत्वेत्यर्थः । तत्त्वज्ञानोदि?तेषर्यादेर्निर्देदो निष्फलत्वधीरि’ति लक्षणात् । ते तव चिकुरेषु केशेषु स्वं स्वकीयं शरचयं त्वद्धृतकुसुमव्याजादिति भावः । भालमूले ललाटभागे धनुः भ्रूव्याजादिति भावः । तथा रौद्रे रुद्रसम्बन्धिनि चक्षुष्येव अनुभ्राष्टुम्बरीषे, विभक्त्यर्थेऽव्ययीभावः । ‘कलीबेऽम्बरीषं भाष्ठ्रे ना’ इत्यमरः । तनुं शरीरं च चिक्षिपे क्षिप्तवान् । पूर्वमेवं दग्धतनुव्याजादिति भावः । स्वरितेत्त्वात्तङ् । स पुष्पेषुर्वितनुरनङ्गः सन् अधुना तज्जयाय नलविजयार्थन्त्वामेवाश्रमं तपोवनमाश्रयत् आश्रितवान् तपश्चयर्‌यार्थमिति शेषः । अन्यथा कथं तं जेष्यतीति भावः । अत एव त्वदुरोज एव शैलो निलयो यस्याः मा तन्निष्ठेत्यर्थः । पत्रालिः पत्ररचनापर्णचयश्च तस्य कामस्य पर्णशालायते सेवाचरति । उपमानात् कर्त्तुः क्यङ् । अत्र पूर्वार्द्धे शरचापादीनां पूर्वोक्तपुष्पादिविषयनिगरणेन तदभेदाध्यवसायादभ’द्रे अभेदलक्षणातिशयोक्तिः, तत्पर्णशालायत
कामस्याश्रमाश्रयणोत्प्रेक्षेति सङ्करः ॥ 3.़128 ॥
अन्वयः–यज्जितः निर्विद्य यः पुष्पेषुः ते चिकुरेषु स्वं शरचयं भालूले धनुः रौद्रे चक्षुषि अनुभ्राष्टं तनुं च चिक्षिपे, वितनुंः सः अधुना तज्जयाय त्वाम् आरमम् आश्रयत्, त्वदुरोजशैलनिलया पत्?त्रालिः तत्पर्णशालायते ॥ 3.128 ॥
इत्यालपत्यथ पतत्?ित्रणि तत्र भेमीं सख्यश्चिरात्तदनुसन्धिपराः परीयुः ॥
शर्मास्तु ते विसूज मामिति सोऽप्युदीर्य वेगाज्जगाम निषधाधिपराजधानीम् ॥ 3.129 ॥
जीवातु–इतीति । तत्र तस्मिन् पत?त्?ित्रणि हंसे भैमीमिति इत्थमालपतिभाषमणे सति अथास्मिन्नवसरे चिरात्प्रभृति तस्या भैम्या अनुसन्धिरन्वेषणम्,‘उपसर्गे घोः किरि’ति किः । तत्पराः सख्यः परीयुः परिवव्रुः, डणो लिट् । हंसोऽपि ‘ते तव्? शर्मास्तु सुखमस्तु, मां विसृज’ इत्युदीयं उक्त्वा वेगान्षिधाधिपराजधानीं जगाम ॥ 3.129 ॥
अन्वयः–अथ तत्र पतत्?ित्रणि इति भैमीम् आलपति चिरात् तदनुसन्धिपराः सख्यः परीयुः सः अपि ते शर्म अस्तु मां विसृज इति उदीर्य वेगात्निषधाधिपराजधानीं जगम ॥ 3.129 ॥
चेतोजन्मशर्रपसूनमधुभिर्ज्यामिश्रितामाश्रयत् प्रेयोदूतपतङ्गपुङ्गवगवीहैयङ्गवीनं रसात् ॥
स्वादं स्वादमसीममृष्टसुरभि प्राप्ताऽपि तृप्तिं न सा तापं प्रा?प नितान्तमन्तरतुलामानर्च्छ मूर्च्छामपि
॥ 3.130 ॥
जीवातु–चेत इति । सा भैमी चेतोजन्मनः कामस्य शरप्रसूनानां शरप्रसूनानां शरभूतपुष्पााणां मधुभिस्तद्रसैः क्षौद्रैश्च ‘मधु मद्ये पुष्परसे क्षौद्र’ इत्यमरः । व्यामिश्रतामाश्रयत् तथा मिश्रं सदित्यर्थः । असीनं निःसीमम् अपरिमितमित्यर्थः । नकारान्तोत्तरपदो बहुव्रीहिः । मृष्टं शुद्धम् । अन्यत्रामलं तच्च तत् सुरभिसुगन्धि च, खञ्जकुब्जवद्विशेषणसमासः । प्रेयसो नलस्य दूतः सन्देशहरो यः पतङ्गः पुङ्गव इव पतङ्गवी पूर्ववत् टचि ‘टिङ्ढाण??ञि’त्यादिना ङीप् । सैव हैयंगवीनं ह्मोगोदोहोदभवं घृतमिति रूपकम् । ‘हैयङ्गवीनं संज्ञायामि’ति निपातः । तद्गवी तद्धेनुंः तस्या इति च गम्यते रसाद्रागात् स्वादं स्वादं पुनरास्वाद्य आभीक्ष्ण्ये णमुल्प्रतृययः । पौनःपुन्यमाभीक्ष्यण्म् ‘आभीक्ष्ण्ये द्वे भवत’ इति उपसंक्ष्यानात् द्विरुक्तिः । तृप्ति प्राप्तापि अपिर्विरोधे अन्तः नितान्तं तापं न प्राप अतुलां मूर्च्छामपि नानर्च्छ न प्राप, ‘ऋच्छत्यॄतामि’ति गुणः । ‘अत आदेरि’त्यभ्यासाकरस्य दीर्धः । ‘तस्मान्नुङ् द्विहल’ इति नुट् । मधुमिधघृतस्य विषत्वात्तत्वाने तापाभावादिति विरोधः । स च पूर्वोक्तपतङ्गपुंगवगवीमधुसर्पिषी’ इति वाग्भटः ॥ 3.130 ॥
अन्वयः–सा चेतोजन्म शरप्रसृनमधुभिः व्यामिश्रताम् आश्रयत् असीमपृष्टसुरभि प्रेयोदूतपतङ्गपुवगवीहैयङ्गीनं रसातृ स्वादं स्सादं तृप्ति प्राप्तानितान्तम् अन्तः तापम् अपि न प्राप अतुलां मूज्र्छाम् अपि न आनर्च्छ । अथवा–‘सा…….स्वादं स्वादम् अपि तृप्ति न प्राप्ता, नितान्तम् अन्तः तापं प्राप, अतुलांमूच्छांम् अपि आनर्च्छ ।’
तस्या दृशोवियाति बन्धुमनुव्रजन्त्यास्तद्वाष्पवानि न चिरदावधिर्बभूव ॥
पार्श्वेऽपि विप्रचकृषे तदनेन दृष्टेरारादपि व्यवदधे न तु चित्तवृत्तेः ॥ 3.131 ॥
जीवातु–तस्या इति । वियत्याकाशे बन्धुमनुव्रजन्मत्यास्तस्या टृशो भैमी टृष्टेः तद्वाष्पवारि बन्धुजनविप्रयोगजन्यं तद्टृग्जलं न चिरादचिरादवधिर्बभूव,‘ओदकान्तं प्रियं पान्थमनुव्रजेदि’ति शास्त्रात्तद्टृक् सीमाभूदित्यर्थः । ततः तस्माद् बाष्पोपगमादेव हेतोरनेन हंसेन टृष्टेः पार्श्ये समीपे विप्रचकृषे विप्र कृष्टेनाभावि । बाष्पावरणातृ समीपस्थोऽपि नालभ्यतेत्यर्थः । चित्तवृत्तेस्तु आराद् दूरेऽपि न व्यवदधे व्यवहितेन नाभावि, स्नेहबन्धान्मनसो नापेत इत्यर्थः । उभयत्रापि भावे लिट् । समीपस्थस्य विप्रकृष्टत्वं दूरस्थस्य सन्निकृष्टत्वं चेति विरोधाभासः ॥ 3.131 ॥
अन्वय–वियति बन्धुम् अनुव्रजन्त्याः तस्याः टृशः तद् वाष्पणारि न चिरात अवधिः बभूव, तत् अनेन टृष्टेः पार्श्ये अपि विप्रचकृषे, चित्तवृत्तेः तु आरात् अपि न व्यवदधे ॥ 3.131 ॥

अस्तित्वं कार्यसिद्धेः स्फुटमथ कथयन् पक्षयोः कम्पभेदैराख्यातुं वृत्तमेतन्निषधनरपतौ सर्वमेकः प्रतस्थे ॥
कान्तारे निर्गतासि प्रियसखि ! पदवी विस्मृता किन्तु मुग्धे ? मारोदोरेहि यामेतृयुपहृतवचसो निन्युरन्यां वयस्याः ॥ 3.132 ॥
जीवातु–अस्तित्वमिति । अथ एकः अनयोरेकतरो हंसः पक्षयोः कम्पभेदैश्चेष्टाविशेषैः कात्ताम् ‘अस्ती’त्यव्ययं विद्यमानपतौयस्तस्मात्त्वप्रत्ययः । स्फुटं कथयन् वृत्तं निष्न्नमेतत्सर्वं निषधनरपतीं वयसातुल्या वयस्याः सख्यः ‘नौवयो’ इति यत्प्रत्ययः । ‘हे प्रियसखि ! मुग्धे ! कान्तारे विषमे निर्गतासि सङ्कटं प्रविष्टासि, पदवी विस्मृता किम् नु ? मा रोदीः एहि, याम गच्छा’ इत्युपहृतवचसो दत्तवचनाः सत्यः एनां निन्युः ॥ 3.132 ॥
अन्वयः–अथ एकः पक्षयोः कम्पभेदैः कार्यसिद्धेः अतित्वं स्फुटं कथयन् एतम् सर्व वृत्तं निषधनरपतौ
आख्यातुं प्रतस्थे, अन्यां वयस्याः प्रियसखि, कान्तारे निर्गता असि, मुग्धे, किा नु पदवी विस्मृता ? मा रोदीः, एहि याम–हति उपहृतवचसः निन्युः ॥ 3.132 ॥
सरसि नृपमपश्यद् यत्र तत्तीरभाजः स्मरतलमशोकोकहस्योपमूलम् ॥
किसलयदलत्पग्लापिनं प्राप तं स ज्वलदसमशरेषुस्पर्थिपुष्पधिंमौलेः ॥ 3.133 ॥
जीवातु–सरसीति । हंसो यत्र सरसि नृपमश्यत् टृष्टवान् तस्य सरसस्तीरभाजस्तटरुहस्य ज्व?लदिभरसमशरस्य पञ्चेषोरिषुभ्ज्ञिः स्पर्द्धत इति तत्स्पर्धिनी तत्सटृशी । पुष्पर्धिः पुष्पसमृद्धिः मौलिः शिखरं यस्य तस्याशोकानोकहस्य अशोकवृक्षस्य उपमूलं मूलं विभक्त्यर्थे अव्ययीभावः । स्मरेण तरलं चञ्चलं किसलयदलतल्पं पल्लवपत्रशयनं ग्लापयति स्वाङ्गदाहेन म्लापयतीति तथोक्तं तं नृपं प्राप ॥ 3.113 ॥
अन्वयः–सः यत्र सरसि नृपम् अपश्यत् तत्तीरभाजः ज्वलदसमशरेषुस्पधिंपुष्पर्धिमोलेः अशोकानोकहस्य उपमंलं स्मरतरलं किसलयदलतल्लपग्लापिनं तं प्राप ॥ 3.113 ॥
परवति ! दमयन्ति ! त्वां न किञ्चिद्वदामि द्रुतमुपनम किं मामाह सा शंस हंस ! ॥
इति वदति नलेऽसौ तच्छशंसोपनम्रः प्रियमनु सुकृता हि स्वज्ञपृहाया विलम्बः ॥ 3.114 ॥
जीवातु–परवमीति । परवति ! परवति ! पराधीने दमयन्ति ! त्वां न किञ्चिद्वदामि नोपानभे किन्तु हे हंस उपनम्रः पुरोगतः सन् कार्यज्ञः तत् वृत्तं शशसं कथयामास । तथाहि-सुकृतां साधुकारिणां
’ सुकर्मपापुण्येषु कृञ’ इति क्विप् । प्रित्सद्धेर्विलम्ब इति भावः । सामान्येन विशेषसमथ्रनरूपोऽर्थान्तरन्यासः ॥ 3.134 ॥
अन्वयः–परवति दमयन्ति, त्वां किञ्चित् न वदामि, हंस, द्रुतम् उपनम, शंस– सा मां किम् आह ?’
–इति वदति नले उपनभ्रः असौ तत् शंशस, हि सुकृतां प्रियम् अनु स्वस्पृहायाः विलम्बः ॥ 3.134 ॥
कथितमपि नरेन्द्रश्शंसयामास हंमं किमिति किमिति पुच्छ भांषितं सप्रियायाः ॥ अधिगतमतिवेलाननछमार्द्वीकमत्तः स्वयमपि शतकृत्वस्तत्तथाऽन्वाचचक्षे ॥ 3.1़35 ॥
जीवातु–कथितमिति । स नरेन्द्रः नलः कथ्ज्ञितमपि प्रियायाः दमयन्त्याःभाषितं वचनं किमिति किमिति पृच्छन् हंसं शंसयामास, पुनराख्यापयामास,किं च तिबेलः अतिमात्रो यः आनन्दः स एव मार्द्वीकं मृद्वीकाविकारो द्राक्षामद्यं ‘मृद्वीका गोस्तनी द्राक्षे’त्यमरः । तेन मत्तः सन् अधिगतं सम्यक् गृहीतं तदुक्तं स्वयमपि शतकृत्वः शतवारं ‘संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्’ । तथा तदुक्तप्रकारेण अन्वाचचक्षे अनूदितवान् । मत्तोऽप्युक्तमेव पुनः पुनर्वक्तीति ‘भावः ॥ 3.135 ॥
अन्वयः–सः नरेन्द्रः कथितम् अपि प्रियायाः भाषितं किम् किम् इति पृच्छन् हंसं शंसयामास, अतिवेलानन्दमार्द्वीकमत्तः अधिगतं तत् स्वयम् अपि शतकृत्वः तथा अन्वाचचक्षे ॥ 3.135 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीस्सुतं श्रीहीरस्ुपुवे जितेन्द्रियचयं मामल्लदेवी च यम् ॥
तासर्तीयीकतया मितोऽयमगमत्तस्य प्रबन्धे महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसगोज्जवलः॥3.136॥
जीवातु–श्रीहर्षमित्यादि । तृतीय एव तांतींयीकः । ‘द्वितीयतृतीयाभ्यामीकक् स्वार्थे ववतव्यः’ तस्य
भावस्तत्ता तया मितस्तृततीय इत्यर्थः । शेषं सुगमम् ॥ 3.136 ॥
इति मल्लिनाथ-सुरिविरचितायं ‘जीवातु’ समाख्यायां ‘नैषध’टीकायां तृतीयः सर्गः ॥ 3 ॥

अन्वयः–तृतीय चरण र्मे ‘द्वैतीयीकतया’ के स्थान में ‘तार्तीयीकतया’, शेष द्वितीय सर्ग केअन्तिम श्लोक के तुल्य ।
‘तार्तीयीकतया’–तृतीय रूप से ॥ 3.136 ॥

॥ नैषधीयचरित का तृतीय सर्ग समाप्त ॥

***************************************************************************

.

॥ श्रीः ॥

नैषर्धायचरितम्

मल्लिनाथकृत’जीवातु’टीकासहित

सान्वय-सटिपप्ण’चन्द्रिका’हिन्दीव्याख्योपेतम्

चतुर्थः सर्गः

?0 ?0अथ नलस्य गुणं गुणमात्मभूः सुरभि तस्य श्याःकुसुमं धनुः ॥
श्रुतिपथोपगतं सुमन्तया तमिषुमाशु विधाय जिगाय ताम् ॥ 4.1 ॥
जीवातु–अथ राज्ञः स्वयंवरं प्रत्युपोद्धातत्वेनास्मिन्सर्गे भेम्या मदनावस्यां वर्णयितुमारभते–अथेत्यादि । अथ भेम्याः प्रियसन्देशश्रवणानन्तरं, आत्भूः कामः, नलस्य गुण आत्मोत्कर्षहेतुशौर्यसौर्न्यादिको धर्मः, तमेव गुणं मौर्वी, विधाय । सुरभि सुगन्धि, मनोजश्च । ‘सुगन्धौ च मनोज्ञे च वाच्यवत् सुरभिः स्मृतः’ इति विश्वः । तस्य नलस्य, श्रुतिपथोपगतं कर्णपथं गतं, पुनःपुनः भैम्या श्रुतमित्यर्थः । आकर्णमाकृष्टश्च, तं नललमेव, इषुं विधाय । तां रूपकालङ्कारः । अस्मिन्सर्गे द्रुतविलम्बितं वृत्तम् । ‘द्रुतविलम्बितमाह नभौ भरो’ इति लक्षणात् ॥ 4.1 ॥
अन्वयः–अथा आत्मभुः नलस्य गुणं गुणं तस्य सुरभि यशः कुसुमं घनुंःसुमनस्तया श्रुतिपथोपगतं तम् इषुं विधाया ताम् आशु जिगाय ॥ 4.1 ॥
यदतनुजृवरभाक्तनुते स्म सा प्रियकथासरसीरसमज्जनम् ॥
सपदि तस्य चिरान्तापिनी परिणतिर्विषमा सपद्यत ॥ 4.2 ॥
जीवातु–यदि?ति । सा भैमी, अतनुज्वरमनङ्गज्वरम्, अधिकज्जवरञ्च, भजतीति तदभाक् सती । भजो ण्विः । प्रियकथैव सरसी सरः तस्यां रसो रागः,जलञ्च तत्र मज्जनमाक्तिमवगाहञ्च, तनुते स्म चकारेति यत् । ‘लट् स्ने’ इति भूते जट् । तस्य मज्जनस्य, । तस्य मज्जनस्य, सपदि चिरं दीर्धकालं, अन्तरमभ्यन्तरं, तापयितीति तत्तापिनी, विषमा उद्दपनात्मिका, परिणतिः, परिपाकः, समपद्यत सञ्जाता । अत एव ज्वरशान्त्यर्थाद्रसमजृजनात्तदुद्रकल्पार्थोत्पत्तेर्विषमालङ्कारभेदः । ‘विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना वा स्याद्विषामालंकृतिस्त्रिधा ॥’ इति लक्षणात् । एतेन द्वादशावस्थापक्षे नवमी संज्वरास्थोक्ता । तदुक्तं–‘चक्षुःप्रीतिर्मनःसङ्गः सङ्कल्पोऽथ प्रलापिता । जागरः कार्श्यमरतिर्लज्जात्यागोऽथ संज्वरः । उन्‌मादो मूर्छनं चैव मरणञ्चरमं विदुः’ ॥ 4.2 ॥
अन्वयः–अतनुज्वरभाक् सा यत् प्रियकथासरसीरसमज्जनं तनुते स्म तस्यसपदि चिरान्तरतापिनी विषमा परिणतिः समपद्यत ॥ 4.2 ॥
ध्रवमधीतवतीयधीरतां दयितादूतपतद्गतिवेगतः ॥
स्थितिविरोधकरीं द्व्यणुकोदरी तदुदितः स हि यो यदनन्तरः ॥ 4.3 ॥
जीवातु–घ्रु वमिति । द्व्यणुकोदरी सूक्ष्ममध्या, इयं दमयन्ती, स्थिति र्मर्यादा गतिनिवृत्तिश्च, तद्विरोधकरीरं, तद्विरोघहेतुमितृयर्थः । गत्युत्पत्तेस्तत्प्रागभावविरोधित्वादिति भावः । ‘कृञो हेतु’ इत्यादिना हेत्वर्थे टप्रत्यये ङीष् । अधीरतां चपलताम्, एकत्रानवस्थानलक्षणां, दयितदूतो यः पतन्पतत्री हंसः । ‘पतत्यत्ररथाण्डजा, एकत्रानवस्थानलक्षणां, दयितदूतो यः यतन् पतत्री हंसः । ‘पतत्पत्ररथाण्डजा’ इत्यमरः । तस्य गतिवेगतः गमनवेगादघीतवती, गृहीतवती, प्राप्तवतीत्यर्थः । ऐतेन चापलाख्यःसञ्चारी भाव उक्तः ‘चापलं त्वनस्थानं घ्रुवमिति । ननु कथामन्यवेगादन्यत्र क्रियोत्पत्तिरित्याशंक्य यदनन्तरन्यायेन समर्थयति ।
योऽर्थो यस्यमानन्तरस्सन्निहितः स तस्मादुदित उत्पन्न इत्युत्प्रेक्षार्थान्तरन्यासयोरङ्गाङ्गिभावेन सङ्करः
॥ 4.3 ॥
अन्वयः–द्व्यणुकोदरी इयं स्थितिविराधकरीम् अधीरतां ध्रु वं दयितदूत पतदगतिवेगतः अधीतवती,हि यः यदनन्तरः सः तदुदितः ॥ 4.3 ॥
अतितमां समपादि जडाशयां स्मितलवस्मरणेऽपि तदाननम् ॥
अजनि पङ्गरपाङ्गनिजाङ्गणभा्रमिकणेऽपि तदीक्षणखञ्जनः ॥ 4.4 ॥
जीवातु–अतितमामिति । तस्या भैम्याः आननं, स्मितलवस्य हासलेशस्यस्मरणेऽपि किमुत करण इति भावः । अतितमामतिमात्रम् । ‘किमेत्तिङ् इत्या दिना अव्ययादाम्प्रत्ययः । जडाशयं मूढचित्तं, समपादि सम्पन्नं, तदज्ञं जातमित्यर्थंः । ‘चिण्ते पदः’ इति कर्तरि चिण् । तस्या ईक्ष्णमेव नयनमेव, खञ्जनः खञ्जरीटः,अपाङ्ग एव निजाङ्गणं, तत्र भ्रमिर्भ्रमणं, तस्याः कणे लेशेऽपि पङ्गुरसमर्थः,अजनि जातः । ‘दीपजन’ इत्यादिना जनेः कर्तरि चिणु । ज्वरवेगात् स्मितवीक्ष्णे लुको भावः ॥ 4.5 ॥
अन्वयः–तदाननं स्मितलवस्मरणे अपि अतितमां जडाशयं समपादि,तदीक्षणखञ्चनः अपाङ्गनिजाङ्गणभ्रमिकणे अपि अतितमां जडाशयं समपादि, तदीक्षणञ्जनः अपाङ्गनिजाङ्गणभ्रमिकणे अपि
पङ्गु अजनि ॥ 4.5 ॥
किमु तदन्तरुभौ भिषजौ दिवः स्मरनलौ विशतः स्म विगाहितुम् ॥
तदभिकेन चिकित्सितुमाशु तां मखभुजामधिपेन नियोजितौ ॥ 4.5 ॥
जीवातु–अथास्याः स्मरनलयोर्निरन्तरान्तःप्रवेशमालक्ष्योत्प्रेक्ष्यते–किम्विति । तदभिकेन भैमीकामुकेन, तां भैमीमाशु चिकित्सितुमगदीकर्तुं, नियोजितौ प्रषितौ उभौ, दिवो भिषजौ स्वर्वैद्यावश्विमौ, स्मरनलौ सन्तौ,विगाहितुं रोगनिदानं निश्चेतुम्, तस्याः दमयन्त्याः, अन्तरन्तश्शरीरं प्रविशतःस्म किमु । प्रविश्य स्थितावश्विनावेव तौ किमित्युत्प्रेक्षा । तेनास्य मदनाश्विसमानसौन्दर्य व्यज्यते । अत्र चिन्ताख्यः सञ्चारी भावः सूचितः । ‘ध्यान ञ्चिन्तेप्सितानाप्तिः शुन्यताशवासतापकृत्’ इति लक्षणात् ॥ 4.5 ॥
अन्वयः–तदभिकेन मखभुजाम् अधिपेन ताम् आशु चिकित्सितुं नियोजितौ अभौ दिवः भिषजो स्मन्नलौ विगाहितुं तदन्तः विशतः स्म किमु ? ॥ 4.5 ॥
कुसुमचापजातपसमाकुलं कमलकोमलमैक्ष्यत तन्मुखम् ॥
अहरर्विदभ्यधिकाधिकां रविरुचिग्लपितस्य विधोर्विधाम् ॥ 4.6 ॥
जीवातु-अथ चिन्तानुभावं सन्तापं वर्णयति-कुसुमेत्यादि । कुसुमचापजेन स्मरसमुत्थेन, तापेन समाकुलं विह्वलम्, अत एवाहरहः अहन्यहनि । अत्यन्तसंयोगे वीप्सायां द्विर्वचनम् । ‘रोः सुपि’ इत्यह्वदो नकारस्य रेफादेशः । अभ्यधिकाधिकामतृयन्ताधिकाम् । आभीक्ष्ण्ये द्विर्भावः । रविरुचिग्लपितस्य अकांशुहतस्य , विधोरिन्दोः, विघां प्रकारं, ताटृशीमवस्थामित्यर्थः । अत एव साटृश्याक्षोपादसम्बववस्तुसम्बन्धान्निदर्शनालङ्कारः । वहत् प्राप्नुवत्, कमलोमलं तमलकोमलं तन्मुखमैक्ष्यत टृष्टं सखीजनेनेति शेषः । सकरुणमिति भावः ॥ 4.6 ॥
अन्वययः–कुसुमचापतापसमाकुलम् अहः अहः अम्यधिकधिकां रवि रुचिग्लपितस्य विधोः विधां वहत् कमलकोमलं तन्मुखम् ऐक्ष्यत ॥ 4.6 ॥
तरुणतातपनद्युतिनिर्मितद्रढिम तत्कुचकुम्भयुगं तथा ॥
अनलसङ्गतितापमुपैतु नो कुसुमचाकुलालविलासजम् ॥ 4.7 ॥
जीवातु-तरुणतेति । तस्याः कुचावेव कुम्भौ तयोर्युगं ( कर्तृ ), तरुणता तारुण्यमेव, तपनद्युतिरातपस्तया निर्मितः कृतो द्रढिमा काठिन्यं यस्य तत्तथा,कुसुमचाप एव कुलालः कुम्भकारस्तस्य विलासेन व्यापारेण जातं तज्जम्, अनलसङ्गतिः नलसङ्गत्यभावः । क्वचित् प्रसज्ययप्रतिषेधे नञ्समास इष्यते । अर्थाभावेऽव्ययीभावे वा नपुसकत्वम् । सैवानलसङ्गतिरग्निसंयोग इति श्लिष्टरूपकम्, तथा तापमुपैतु नो काकुः, उपेयादेवेत्यर्थः प्राप्तकाले लोट् । तथा हि–आमो घटः कुलालेन दार्ढ्याय प्रथममातपेन
पक्त्वा पश्चादग्निना पच्यते । रूपाकालङ्कारा ॥ 4.7 ॥
अन्वयः–तरुणतातपनद्युतिनिर्मितद्रडिम कुसुमचाकुलालविलासजं तत्कुचकुम्भयुगम् अनलसङ्गतितापं नी उपैतु ? ( उपैत्वेव ? ) ॥ 4.7 ॥
अधृत यद्विरहोष्मणि मज्जितं मनसिजेन तदूरुयुगं तदाः ॥
स्पृशति तत्कदनं कदलोतरुर्यदि मरुज्वलदूषरदूषितः ॥ 4.8 ॥
जीवातु–अधृतेति । तदा यत्तस्या ऊरुयुगं मनसिजेन विरहोष्मणि विरहदाहे मज्जितम्, अधृत अवस्थितम् । धृङ्वस्थान इति धातोर्लुङि तङ् । ह्रस्वादङ्गात्’ इति सलोपः । कदलीतरुः, मरौ मरुदेशे ज्वलता तप्यमानेन ऊषरेणोषरक्षेत्रेण, दूषितो यदि दूषितश्चेत् । तत्कदनं, तेनरोरुयुग्मेन कदनं कलहं साम्यमित्यर्थः । स्मृशाति । अत्रोपमानस्य कदलीतरोरुपमेयत्वकल्पनात् प्रतीपालङ्कारभेदेः । ‘उपमानस्याक्षेपे उपमेयत्वकल्पनं प्रतीयम्’ इति लक्षणात् । ऊषरप्ररूढकदलीकाण्डकल्पं तदासीदित्यर्थः ॥ 4.8 ॥
अन्वयः–तदा यत् तदूरुयुगं मनसिजेन विरहोष्मणि मज्जितम् अधृत, यदि कदलहतरुः मरुज्वलदूषरदूषितः ( स्यात् ) तत्कदनं स्पृशति ॥ 4.8 ॥
समरशराहतिनिर्मितसंजृवरं करयुगं सहति स्म दमस्वसुः ॥
अनपिधानपतत्तपनातपं त?पनिपीतसरसीरुहम् ॥ 4.9 ॥
जीवातु–स्मरेति । स्मरशराहत्या निर्मितसंज्वरं जनिततापं, दमस्वसुः करयगं ( कर्तु ) अनपिधानादनावरणात् ( हेतोः ), पतन् प्रविशन् , तपनातपः सूर्यातपः, यस्मिन् तत्तथा, तपेन ग्रीष्मेण निपीते शोषिते शोषिते सरसि यत्सरसीरुहं पह्मं, तद्वसति स्म तत्सटृशमभूदित्यर्थः । ‘हसतीर्ष्यत्यसूयती’ति दण्डिना सटृशपर्याये पठितत्वात् । अत एवोपमाल्ङ्कारः ॥ 4.9 ॥
अन्वयः–स्मरशराहतिनिर्मितज्वरं दमस्वसु करयुगम् अनपिषापनतत्तपनातपं तपनिपीतसरस्सरसीरुहं हसति स्म ॥ 4.9 ॥
मदनतापभरेण विदीर्य नो यददपाति हृदा दमनस्वसुः ॥
निबिडपीनकुचद्वययन्त्रणा तमपराघमाधात्प्रतिबध्नती ॥ 4.10 ॥
जीवातु–मदनेति । दमनस्वसुः हृदा हृदयेन कर्त्रा मदनतापस्य भरेष औत्कट्येन ( हेतुना ) विदीर्य, नो उपाति नोत्पतितमिति यत्, भावे लुङ् । तमनुत्पतनरूपमपराधं प्रतिबध्नती निरुन्धती, निबिडपीनकुचद्वयेन यन्त्रणा बन्धः ( कर्त्री ), अधात् । हृदयकृतापराधं स्वयमुवाहेत्यर्थः । अत्रातिदाहेऽप्यस्फुटनं हृदयस्युःशोषनिबन्धनं तस्य कुचयन्त्रणानिमित्तत्वमुत्प्रेक्ष्यते । सा च व्यञ्जकाप्रयोगाद्गम्या ॥ 4.10 ॥
अन्वयः–दमस्वसुः हृदा मदनतापभरेण विदीर्य यत् नो उदपादि, तम् अपराधं निबिडपीनकुचद्वययन्त्रणा प्रतिबध्नती अधात् ॥ 4.10 ॥
निविशते यदि शूकशिखा पदे सूजति सा कियतीमिव न व्ययान् ॥
मृदुतनोर्वितनोतु कथं न तामवनिभृत्तु निविश्य हृदि स्थितः ॥ 4.11 ॥
जीवातु–निविशत इति । शुकशिखा कण्टकाग्रं, पदे चरणे निविशते प्रविशति यदि, ‘नेर्विश’ इत्यात्मनेपदम् । सा प्रविष्टा शुकशिखा । कियतीमिव व्यथां पीडाम्, इवशब्दो वाक्यालङ्कारे । कीटृर्शी व्याथमत्यिर्थः । न सृजति नोत्पादयति, महतीमेव सृजतीत्यर्थः । अवनिभुद्राजा नलः, नलः, पर्वतश्च । स तु, हृदि निश्यि स्थितः सन्, मृदुतनोः कोमलांग्याः, तां तथाविधां, व्यथां कथं न वितनोतु तनोत्वेत्यर्थः । सम्भावनायां लोट् । अत्र पदे सूक्ष्मकष्टकप्रवेशे दुस्सहा व्यथा । किमुत मृद्रंग्या हृदि महत्प्रवेशेनेति कैमुत्यन्यायेनार्थापत्तेरर्थापत्तिरलङ्कारः ॥ 4.11 ॥
अन्वयः–यदि शूकशिखा पदे निविशते सा कियतीम् इव व्यथां न सृजति ? मृदुतनोः हृदि निविश्य स्थितः अवनिभृत् तु तां कथं न ?वितनोतु ? ॥ 4.11 ॥
मनसि सन्तमिव प्रियमीक्षितुं न यनयोः स्पृहयान्तरुपेतयोः ॥
ग्रहषशक्तिरभूदिदमीययोरनि न सम्मुखवास्तुनि वस्तुनि ॥ 4.12 ॥
जोवातु–मनसीति । मनसि सन्तं हृदि वर्तमानं प्रियमीक्षितुं स्पृहया अन्तरुपेयोरन्तःप्रविष्टयोरिव, इदमीययोरस्याः सम्बन्धिनोः । इदंशब्दात्त्वयदादेः ‘वृद्धाच्छः’ । नयनयोः सम्बुखं पुरोदेशः वास्तु स्थानं यस्य तस्मिन्नपि पुरोवर्तिन्यापि वस्तुनि, ग्रहणशक्तिः साक्षात्करणसमर्थ्यं नाभूत् । नलव्यासङ्गान्न किञ्चिदन्यद्राक्षीदित्यर्थः । तद्व्यासङ्गनिमित्तस्य बाह्मादर्शनस्य चक्षुषोरन्तःप्रवेशनिमित्तत्वमुत्प्रेक्षते । चिन्तैव सञ्चारी भावः ॥ 4.12 ॥
अन्वयः–मनसि सन्तं प्रियम् ईक्षितुं स्पृहया अन्तः उपेतयोः इदमीययोः नयनयोः सम्मुखवास्तुनि अपि वस्तुनि ग्रहणशक्तिः न अभूत् ॥ 4.12 ॥
हृदि दमस्वसुरश्रुह्मरप्लुते प्रतिफलद्विरहात्तमुखानतेः ॥
हृदयभाजमराजत चुम्बितुं नलमुपेत्य किलागमितं मुखम् ॥ 4.13 ॥
जीवातु–हृदीति । विरहेणात्ता प्राप्ता मुखानतिर्यया सा तस्या नम्रमुखायाः दमस्वसुः मुखम् । अश्रुह्मरेणाश्रुप्रवाहेण, प्लुते सिक्ते,हृदि हृदये प्रति फलम् प्रति?बिम्बितं सत्, हृदयभाजं हृदि स्थितं, नलं चुम्बितुमुपेत्य गत्वा,आगमितं सञ्जातागमनं किल,प्रत्यागतमित्युत्प्रेक्षा । तारकादित्वदितच् । किलेति सम्भावनायाम् । ‘वार्तासम्भाव्ययोः किल’ इत्यमरः । अराजत रराज । सम्भावनायामुतृप्रेक्षा ॥ 4.13 ॥
अन्वयः–विरहात्तमुखानतेः दमस्वसुः मुखम् अश्रुह्मरप्लुते हृदि प्रतिफलत् हृदयभाजं नलं चुम्बितुम् उपेत्य किल आगतिम् अराजत ॥ 4.13 ॥
सुहृदमग्निमुदञ्चयितुं स्मरं मनसि गन्धवहेन मृगीदृशः ॥
अकलि निःश्वसितेन विनिर्गमानुमितनिह् नु तवेशनमायिता ॥ 4.14 ॥
जीवातु-सुहृदमिति । गन्धवहेन बाहृमवायुना, सुहृदं मखायम् । ‘रोहिताश्वो वायुसखः’ इत्यग्नेर्वायुसखत्वाभिधानात् । मृगीटृशः भैम्याः, मनसि, स्मरमेवाग्निमुदञ्चयितुमुद्दपयितुं, निःश्वसितेन निःश्वासवातव्याजेन, विनिर्गमेण बहिर्निनस्सारणेन, अनुमितं निह् नुतं, प्रागज्ञातं, यद्वेशनमन्तःप्रवेशस्तत्र मायिता मायावितृवम् । तत्कल्पनापाटवं व्रीह्मादित्वादिनिः अकलि कलितं प्राप्तम्,नुनमिति शेषः । अग्निदो हि गूढं प्रविश्य प्रकाशं निर्गच्छति, तद्वद्वायुरपि याटृङ्निःश्वासव्याजेन तथा कृत्वा निर्गत इतृयुत्प्रेक्षा ॥ 4.1़4 ॥
अन्धवयः–मगीटृशः मनसि सुहृदं स्मरम् अग्निम् उदञ्चयितुं निःश्वसितेन गन्धवहेन विनिर्गमानुमितनिह् नुतवेशनमायिता अकलि ॥ 4.14 ॥
विरहपाण्डिमरागतमोषीर्शितिमतनिनपीतिमवर्णकैः ॥
दश दिशः खलु तद्दृगकल्पयल्लिपिकरी नलस्पकचित्रिताः ॥ 4.15 ॥
जीवातु–विरहेति । तस्या दमयन्त्याः, टृग्टृष्टिरेव, लिपिकरी चित्रकरी,विरहेण पाण्डिमा शरीरश्वैत्यं, रागोऽनुरागः स एव रागो रक्तिमा । श्लिष्टरूपकम् । तमो मोहस्तदेव मषी तस्याः शितिमा नीलिमा । तस्या भैम्याः निजो नैसर्गिकः पीतिमा कनकवर्णः, चतुर्णा द्वनछः, तैरेव वर्णकैः चित्र साघनैः, दश दिशस्ता एव भित्तीरिति शेषः । नलस्य रूपकैः प्रतिकृतिभिःचित्रिताः सञ्जातचित्राः, तारकादित्वादितच् । अकल्यदसृजत्खलु । निरन्तरचिन्ताजनितया भ्रान्तृया प्रतिदिशं मिथ्यानलानद्राक्षीतिदत्यर्थः ॥ 4.15 ॥
अन्वयः-तद्टृक् किपिकारी विरहपाण्डिमरागतमोमषीशितिमतन्निजपीतिम धर्णकैः दश दिशः नलरूपकचित्रिताः अकल्पयत् खलु ॥ 4.15 ॥
स्मरकृतिं हृदयस्य मुहुर्दशां बहु वदन्निव निःश्वसितानिलः ॥
व्यधित वाससि कम्पमदःश्रिते त्रसति कः सति नाश्रयबाधने ॥ 4.16 ॥
जीवातु–स्मरकृतिमिति । निःश्वसितानिलः, स्मरकृतिमदनकर्तुकमृष्टि रूपां, हृदयस्य हृत्पिण्डस्य, दशामवस्थां बहु बहुवारं ( क्रियाविशेषणम् ), वदन्निव एवं कम्पत इति कथयन्निवेत्युत्प्रेक्षा । अदो हृदयं, श्रिते वाससि,कम्पञ्चलनं, तत्कारणं त्रासञ्च,मुहः व्यधित विहितवान् । दधातेर्लुङि तङ् । ‘स्थाध्वोरिच्च’ इतीकारः । ‘हृस्वादङ्गात्’ इति सिचो लोपः । तथा हिआश्रयबाधने सति, को नाम न त्रसति । सर्वोऽपि त्रसत्येवेत्यर्थाः । तद्वाधे तदाश्रितस्य स्वस्थापि बाधादिति भावः । अर्थान्तरन्यासोऽलङ्कारः ॥ 4.16 ॥
अन्वयः–निश्वसितानिलः स्मरकृर्ति हृदयस्य दशां बहु वदन् इव अदः श्रिते वाससि कम्पं मुहुः व्यथित्
आश्रयबाधने सति कः न त्रसति ? ॥ 4.16 ॥
करपदाननलोचननामभिः शतदलैः सुतनोर्विरहज्वरे ॥
रविमहो बहु पीतचरं चिरादनिशतापमिषादुदसृजृयत ॥ 4.17 ॥
जीवातु–करेति । करौ पदे आननं लोचने इति नामानि येषां तैः, तदाकारपरिणामसात्तन्नामधारिभिः शतदलैः कुशेशयैः ( कर्तृभिः ) चिरात् चिरात्प्रभृति, पीतचरं रसवशात् पूर्वपीतं, भूशेषयैः ( कर्तृभिः ) चिरात् चिरात्प्र?भृति, पीतचरं रसवशात् पूर्वपीतं, भूतपूर्वे चरट्न्रत्सययः । बहु भूरि, रविमहः सूर्यतेजः, सुतनोः दमयन्त्याः, यमदयन्त्याः, विचरहज्वरे ज्वरावस्थायां, अनिशतापमिषान्निरन्तरोष्मव्याजात्, उदसृज्यत उत्सष्टम् । नूनमिति शेषः । अत्र पह्मानां भैमीकरचरणादिभ्यो नाममात्रभेदः । न रूपभेद इत्यभेदोक्तेरति शयोक्तिः । तन्मूला चेयं पूर्वपीततेजोवमनोत्प्रेक्षा । सा च तापव्याजादित्य पह्नवानुप्राणितेति सङ्करः ॥ 3.17 ॥
अन्वयः–करपदाननलोचननामभिः शतदलैः चिरात् पीतचरं बहु रचिमहः सुतनोः विरहज्वरे अनिशतापमिषाद् उदसृज्यत ॥ 4.17 ॥
उदयति स्म तदद्भुतमालिभिर्धरणिभृद्भुवि तत्र विमृश्य यत् ॥
अनुमितोऽपि च वाष्पनिरीक्षणद्व्यभिचचार न तापकरो नलः ॥ 4.18 ॥
जीवातु–उदयतीति । आलिभिः सखीभिः, तत्र तस्यां, धरणिभृतो भीमभूपादभवतीति तद्भः भैमी तस्यां पर्वतभूमौ च विमृश्य व्याप्तिमनुसन्धाय, बाष्पनिरीक्षणादश्रुलिङ्गदर्शनात् । अन्यत्र, धूमदर्शनात् । ‘बाष्णोऽश्रुण्यम्बुण्यम्बुधूमे च’ च’ इति वैजयन्ती । अनुमितः अम्यूहितः, अन्यत्र लिङ्गमाप्तवधारितोऽपि तापकथा बभूवेति यत्, तदद्भुतमुदयति स्म उत्पन्नमित्यर्थः । ‘अय गतौ’ इतिधातोर्भूते लट् । नलचिन्ताजन्योऽयं सन्ताप इत्यश्रुदर्शनात्सखीभिरूहितमहो इति परमार्थः । अग्रवाष्पलिङ्गदर्शनादनलज्ञानम् । तच्चाव्यभिचारीति स्फुरतो विरोधस्याश्रुलिङ्गात्सन्तापकरो नलो निश्चित इत्यभासीकरणाद्विरोधाभासः । स च श्लेषानुप्राणितः । सन्तापकरो नल इति शब्दश्लेषः । अन्यत्रार्थश्लेषः । अपि विरोधे ॥ 4.18 ॥
अन्वय–आलिभिः तत्र धरणिभृद्भुवि विमृश्य वाष्पनिरीक्षणात अनुमितः अपि तापकरः नलः ( अनलः )
यत् न व्यभिचचार, तत् अद्भुतम् उदयति स्म ॥ 4.18 ॥
हृदि विदर्भभुवं प्रहरन् शरैः रतिपतिर्निषधाधिपेः कृते ॥
कृततदन्तरगस्वदृढव्यथः फलदनोतिरमूर्च्छदलं खलु ॥ 4.19 ॥
जीवातु–हृदीति । निषधाधिपतेः कृते नलस्यार्था, तत्प्रहारार्थमित्यर्थः । ‘अर्थे कृते च शब्दौ द्वौ तादर्थ्येऽव्ययसं ज्ञितौ’इति वचनात् । विदर्भभुवं दम यन्तीं, शरैर्हृदि प्रहरन्, नलस्य सदा तद्गतत्वादिति भावः । रतिपतिः कामः,कृता तदन्तरगस्य भैमीहृद्गतस्य स्वस्य टृढव्यथा येन सः, स्वयमपि तद्गत त्वात् प्रहृतः सन्नितृयर्थः । फलन्ती अनीतिर्दंर्नीतिर्यस्य सोऽलमत्यन्तममूर्च्छद वर्धत खलु । अमुह्मादिति च गम्यते च गम्यते । ‘मूर्च्छामाहसमुच्छ्राययोः’ इत्नुशासनात्, तदभेदेन मूर्च्छालक्षणकार्यदर्शनाद्रतिपतेः स्मरस्यापि प्रहार उत्प्रेक्ष्यते व्यञ्जकाप्रयोगाद्गम्या । सा च श्लेषमूलातिशयोक्तुत्था?पितेति शङ्करः । परप्रहारोद्यतस्य स्वप्रहाररूपानथोत्पत्पत्तविषमभेदश्च व्यज्यते ॥ 4.19 ॥
अन्वयः–निषधाधिपतेः कृते विदर्भभुवं हृदि शरैः प्रहरन् रतिपतिः कृततदन्तरगस्वटृढव्यथः फलदनीतिः अलम् अमुर्च्छत् खलु ॥ 4.19 ॥
विधुरमानि तया यदि भानुमान् कथमहो स तु तद्धृदयं तथा ॥
अपि वियोगभरास्फटनस्फटीकृतदृषत्त्वमजिज्वलदंशुभिः ॥ 4.20 ॥
जीवातु–विवृरिति । तया दमयन्त्या, विधुश्चन्द्रः,भानुमान् सूर्यः, अमानि मेने यदि विरहिणस्तन्न चित्रम् । किन्तु सः सूर्यत्वाभिमतो विधुः, अमानि एव भरो भारस्तेनापि यदस्फटनामविशरणं, तेन स्फटीकृं टृषत्त्वं सूयोपलत्वं यस्य तत् । अन्यथातिभाराल्लोष्ठादिवद्विशीर्येतेति भाषः । तदधृदयमपि भैमीहृदयरूपं सूर्यकान्तमपीत्यर्थः । कथं तथा सूर्यवत् अंशुभिः स्वतेजोभिः, अजिज्वलत् ज्वलयति स्म । ज्वलतेर्णो चङ् ।
अहो विधुर्विरहिणामुद्दीपकत्वात्-सूर्यवत्तपतु नाम । तद्वदर्कोपज्वलयितृत्वं तु चित्रमित्यर्थः ॥ 4.20 ॥
अन्वयः–तया यदि विघुः भानुमान् अमानि, सः तु वियोगमरास्फठनस्फुटीकुतटृषत्वं तद्घृदयम् अपि कथं तथा अंशुभिः अजिज्वलङ् अहो ! ॥ 4.20 ॥
हृदयदत्तसरोरुहया तया क्व सदृगस्तु वियोगनिमग्नया ॥
प्रियधनुः परिरभ्य हृदा रतिःकिमांनुमर्तुमशेत चितार्चिषि ॥ 4.21 ॥
?B जीवातु–हृदयेति । वियोगनिमग्नया विरहाग्निमग्नया, अत एव हृदयदत्तसरोरुहया सन्तापशान्तये वचोनिक्षिप्तपह्मया, तया समाना टृश्यतइति सटृक् सटृशी स्त्री ‘समानान्ययोश्च’ इत्युपसङ्ख्यानापपाद्टृशेःक्विन्प्रत्ययः । ‘टृग्शवतुषु’ इति समानशब्दस्य सभावः । क्वास्तु न क्वपी त्यर्थः । रतिः कामपत्नी, हृदा वक्षक्षाद्रतिरेवेयमित्युत्प्रेक्षा । तज्जवराग्निस्तथा प्रज्वलतीति भावः ॥ 4.21 ॥
अन्वय–वियोगनिमग्नया हृदयदत्त्सरोरुहया तया सदृक् क्व अस्तु ? हृदा प्रियधनुः परिरभ्य अनुमर्तुं चितार्चिषि रतिः अशेत किम् ? ॥ 4.21 ॥
अनलभावमियं स्वनिवासिनो न विरहस्य रहस्यमबुद्ध्यत ॥
प्रशमनाय विधाय नृणान्‌यसूञ् ज्व?लति तत्र युज्ह्मितुमैहत् ॥ 4.22 ॥
जीवातु–अनलभावमिति । इयं दमयन्ती, स्वनिवासिनः स्वनिष्ठस्य, विरहस्य नलवियोगस्य, रहस्यं शमीवाह्विन्निगूएम्, अनलभावमग्नित्वं, नलरहितत्वञ्च गम्यते । नाबुद्धयत नाजानादित्यर्थः । कुतः, यद्यस्मात्, तत्र तस्मिन्विरहे, ज्वलि सति, प्रशमनाय प्रज्वलनप्र?तीकारार्थम्, असून्, तृणानि विधाय तृणप्रायान् कृत्वा तृणात्मकानिति । उज्ह्मितुं त्यक्तुं प्रक्षेप्तुञ्च । ऐहत ऐच्छत् । अग्नित्वज्ञाने कथं तच्छान्तये तत्र तृणप्रक्षेप इत्यर्थः । विरहदुःखान्मतुंमैच्छदिति तात्पर्यार्थः ॥ 4.22 ॥
अन्वयः–इयं स्वनिवासिनः विरहस्य रहस्यम् अनलभावं न अबुध्यत, यत् तत्र ज्वलति प्रशमनायं असून् तृणानि विधाय उज्ह्मितुम् ऐहत ॥ 4.22 ॥
प्रकृतिरेतु गुणस्य न योषितां कथमिमां हृदयं मुदु नाम यत् ॥
तदिषुभिः कुसुमैरपि धुन्वता सुविवृतं विबुधेन मनोभुवा ॥ 4.23 ॥
जीवातु–प्रकृतिरिति । योषिता हृदयं मृदु नामेति यत् । नामेति प्रसिद्धौ । स प्रकृतिरिति । योषिता हृदयं मृदु नामेति यत् । नामेति प्रसिद्धौ । स इति विधेयप्राधान्यात् पुल्लिङ्गता । प्रकृतिः प्रकृतिसिद्धः,गुणोमार्दवगुणः, इमां दमयन्तीं कथं नैतु प्राप्नोत्वेवेत्यर्थः । कुतः ? तन्मुदुत्वं कुसुमैरपि इषुभिः, धुन्वता विबुधेन देवेन विदुषा च मनोभुवा, सुविवृतं सम्यग्व्याख्यातम्, विद्वदधिकारत्वात्सन्दिग्धार्थनिर्णयस्यैत्यर्थः । कुसुमापि सुकुमारमस्या हृदयमित्यर्थः ॥ 4.23 ॥
अन्बयः-योषितां हृदमं ममृदु नाम, यत् सः प्रकृतिः गुणः इमां कथं न एतु ? तत् कुसुमैः अपि धुन्वता विबुधेन मनोभुवा सुविवृतम् ॥ 4.23 ॥
रिपुतरा भवनादविनिर्यतीं विधुरुचिर्गृहजालबिलैर्नुताम् ॥
इतरथात्मनिवारणशङ्कया ज्वलयितुं बिसवेषधराविशत् ॥ 4.24 ॥
जीवातु–रिपुतरेति । रिपुतराऽलिद्वेषिणी, विधुरुविश्चन्द्रप्रभा, भवना दविनिर्यतीमनिर्गच्छन्तीं, इणश्शतरि ङीप् । तां भैमीं जृवलयितुं सन्तापयितु, इतरथा निजरूपेण प्रवेशे आत्मनिवारणशङ्कया । स्वप्रवेशप्रतिषेधभिया, बिसवेषस्य धरा सती, गृहस्य जालबिलैर्गवाक्षरन्ध्रैः अविशन्नु प्रविष्टा किम् । शिशिरोपचारबिसाङ्कुरा निरन्तरान्तःस्थितभैमीबाधनाय प्रच्छन्नप्रविष्टेन्दुकरा इव प्रविभन्ति स्मेत्युत्प्रेक्षा
॥ 4.24 ॥
अन्वयः–रिपुतरा विधुरुचिः भवनात् अविनिर्यतीं तां ज्वलयितुम् इतरथा आत्नकनवारणशङ्कया बिसवेषधरा गृहजालबिलैः अविशत् नु ॥ 4.24 ॥
हृदि विदभैभुवोऽश्रुभृति स्फुटं विनमदास्यतया प्रतिबिम्बितम् ॥
मुखृगोष्ठमरापि मनोभ्वा तदुपमाकुसुमान्यखिलाः शराः ॥ 4.25 ॥
जीवचातु–हृदीति । विदर्भभुवो वैदर्भ्याः, विनमदास्यस्तया नभ्राननत्वेन ( हेतुना ) अरूणि बिभर्तीत्यश्रुभृत्, क्विप् । तस्मिन्नश्रुसिक्त इत्यर्थः । हृदि वक्षसि, वैमल्यात् स्फुटं यथा प्रतिबि?म्बितं, मुखं च टृशौ च ओष्ठश्च मुखटृगोष्ठम् । प्राण्यङ्गत्वादेकवदभावः । मनोभुवा कामेन, तस्य मुखादेः उपमाकुसुमानि पह्मम् उत्पले बन्धूके च पञ्चधा स्थितान्युपमानपुष्पाणि तान्येव अखिलाः पञ्चापि शराः खदरोपि रोपितम् । तस्यास्तथाविधे वक्षसि प्रतिफलितं मुखाद्यवयवपञ्चकं पञ्चशरनिखातम्, तदुपमानकुसुमशरपंचकमिवालक्ष्यतेत्युत्प्रेक्षार्थः ॥ 4.25 ॥
अन्वय–विदर्भभुवः विनमदास्यतया अश्रुभृति हृदि स्फुटं प्रतिबिम्बितं मुखदृश्गोष्ठं मनोभुवा तदुपमाकुसुमानि अखिलाः शराः अरोपि ॥ 4.25 ॥
विरहपाण्डुकपोलतेले? विधुर्व्याधित भीमभुवः प्रतिबिम्बतः ॥
अनुपलक्ष्यसितांशुतया मुखं निजसखं सुखमङकमृगार्पणात् ॥ 4.26 ॥
जीवातु–विरेहेति । विधुः, भीमभूवः भैम्याः, विरहेण पाण्डुनि कपोल तले गण्डस्थले, प्रतिबिम्बितः सन्, अनुपलक्ष्यसितांशुतया सावर्ण्यात् दुर्लक्ष्यशुभ्रकिरणतया, सुखमनायासेन, अङ्कमृगापग्णादिसितकलङ्कमृगसमर्पणात्, मुखं भैमीमुखं निजसखं स्वसटृशं, व्यधित विहितवान् । दोषिणो हि स्वदोषं नि दोषेऽपि स्वसंसर्गिणि सङ्क्रमय्य समीकुर्वन्तीति भावः । केचिर्त्किचद्दानेनामित्रं मित्रं कुर्वन्तीति भावं वर्णयन्ति । अत्र चन्द्रस्य कपोलसावणर्येन तदेकत्वकथनात् सामान्यालङ्कारः । ‘सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता’ इति लक्षणात् ॥ 4.26 ॥
अन्वयः–भीमभुवः विरहपाण्डुकापोलतले प्रतिबिम्बितः विश्रुः अनुपलक्ष्यसितांशुतया सुखम् अङ्कमृगार्पणात् मुखं निजसखं व्यधित ॥ 4.26 ॥
विरहतापिनि चन्द्रनपांसुभिर्वपुषि सार्पितपाण्डिममण्डना ॥
विषधराभबिसाभरणा दधे रतिपतिं प्रति शम्भुविभीषिकाम् ॥ 4.27 ॥
जीवातु–विरहेति । सा दमयन्ती, विरतापिनि वपूषि, चन्द्रनपांसुभिः, भस्मघवलैरिति भावः, बिसमेवाभरणं यस्याः सा सती, रतिपतिं स्मरं, प्रति शम्भुरेवेयमिति विभीषिकां विशेषेण भयोत्पादनं, भीषयतेर्धातृवर्थनिर्देशे ण्वुल् । ‘सुप्सुपा’ इति समासः । न तु शम्भोर्वि?भीषिकेति कर्तरि षष्ठीसमासः ‘तृजकाभ्यां कर्तरि’ इति निषेधात् । दधे दधार, नुनमिति शेषः । गम्योत्प्रेक्षा ॥ 4.27 ॥
अन्वयः–विरहतापिति वपुषि चन्द्रनपांसुभिः अर्पितपाण्डिममण्डना विषधराभबिसामभरणा सा रतिपर्ति प्रति शम्भूविभीषिकां दधे ॥ 4.27 ॥
विनिहितं परितापिनि चन्दनं हृदि तया भृतबुद्बुदमाबभौ ॥
उपनमन् मुहृदं हृदयेशयं विधुरिवाङ्कगतोडुपरिग्रहः ॥ 4.28 ॥
जीवातु–विनिहितमिति । तया भैम्या, परितापिनि हृदये वक्षसिविनिहितं भृतबुदम् अतिक्वाथकृपीटकं, चन्दनं सुहृदं सखायं, हृदये शेत इति ( तं ) हृदयेशयं मन्मथम् ‘अधिकरणे शेतेः’ इत्यच्प्रत्ययः । ‘शयवास वामिष्वकालात्’ इत्यलुक् । उपनमन्नुपसर्पन्, अङ्कगतोडुपरिग्रहः अन्तिकस्थतारकापरिकरः, विधुरिवाबभावित्युत्प्रेक्षा ॥ 4.28 ॥
अन्वयः–परितापिनि हृदये तया विनिहितं भृतबुद्बुदं चन्दनं हृदयेशयंसुहृदं उपनमन् अङ्कगतोडुपरिग्रहः विधुः इव आबभौ ॥ 4.28 ॥
स्मरहुताशनदीपिनया तया बहु मुहुः सरसं सरसीरुहम् ॥
श्रयितुमर्धपथे कृतमन्तरा श्वसितनिर्मितमर्मरमुज्ह्मितम् ॥ 4.29 ॥
जीवातु–स्मरेति । स्मरहुताशनदीपितया कामाग्नितप्तया तया बहु भूरि, सरसं सार्द्रं सरसीरुहं सरोजं, मुहुः श्रयितुं शैत्याय सेवितु, अर्धे पथि अर्धपथे कृतं, तत्पर्यन्तमानीतं सत्, अन्तराकमध्ये, श्वसितेन भैमीनिःश्वासेन, निर्मितं स्मरं स्मरं सद्यःशोषात् कृतमर्मरशब्दं सत्, उउज्ह्मितं वैरस्यात्त्यक्तम् तथोष्णस्तन्निःश्वास इति भावः । ‘अथ मर्मरः । स्वनिते वस्त्रपर्णानाम्” इत्यमरः ॥ 4.29 ॥
अन्वय–स्मरहुताशनदीपितया तया बहु सरसं सरसीरुहं श्रयितुं मुहुः अर्धपथे कृतम् अन्तरा श्वसितनिर्मितमर्मरम् उज्ह्मितम् ॥ 4.29 ॥
प्रियकरग्रहमेवमवाप्स्यति स्तनयुगं तव ताम्यति किं न्विति ॥
जगदतुर्निहिते हृदि नीरजे दवथुकुङ्मलने पृथुस्तनीम् ॥ 4.30 ॥
जीवातु-प्रिये?ि । हृदि वक्षसि, निहिते न्यस्ते, नीरजे पद्मे, दवथुःपरितापः, दूङः टित्त्वादथुच्प्रत्ययः । तेन यत्कुङ्मलनं मुकुलनं निपीड्य ग्रहणमिति यावत् । तेन पृथुस्तनीं दमयन्तीं, तव स्तनयुगं ( कर्तृ ) एवमनेन प्रकारेण, प्रियकरेण ग्रहं निपीड्य ग्रहणम्, अवाप्स्यति । किं नु किमर्थ, ताम्यतीति जगदतुः ऊचतुः । नुनमिति शेषः ॥ 4.30 ॥
अन्वयः–हृदि निहिते नीरजे दवथुकुङ्मलेन पृथुस्तनीम् इति जगदतुःकि नु तव स्तनयुगम् एवं प्रियकरग्रहम् अवाप्स्यति ? ॥ 4.30 ॥
त्वदितरो न हृदापि मया धृतः पतिरितीव नलं हृदयेशयम् ॥
स्मरहविभुजि बोधयति स्स सा विरहपाण्डुतया निजशुद्धताम् ॥ 4.31 ॥
जीवातु–त्वदिति । सा भैमी, हृदयेशयं हृदि स्थितं, नलं त्वदितरस्त्वत्तोऽन्यः, समानो वाऽन्यो वा पतिः, मया हृदापि न घृतः मनसापि न चिन्तितः, इति निजशुद्धताम् आत्मनिर्दोषतां,पाण्डुत्वञ्च । विरपाण्डुतया तद्व्याजेनेत्यर्थः स्मरहविर्भुंजि बोधयति स्मेव मदनाग्निमग्ना सा अग्निदिव्येनस्वशुद्धि सीता राममिव नलं बोधयामासेवेत्युत्प्रेक्षा । ‘गतिबुद्धि’ इत्यादिना अणिकर्त्तुर्नलस्य णौ कर्मत्वम् ॥ 4.31 ॥
अन्वयः–त्वदितरः पतिः मया हृदा अपि न धुतः–इति इव सा हृदयेशयं नलं निजशुद्धतां विहपाण्डुतया स्मरहविर्भुजि बोधयति स्म ॥ 4.31 ॥
विरहतप्ततदङ्गनिवे?शिता कमलिनी निमिद्दलमुष्टिभिः ॥
किमपनेतुमचेष्टत किं पराभवितुर्महत तद्दवथुं पृथुम् ॥ 4.32 ॥
जीवातु–विरहे?ति । विरहतप्ते तदङ्गे भैमीशरीरे, निवेशिता निहिता, कमलिनी पह्मलता, निमिषदिभरनमदिभर्दलैः पत्रैरेव मुष्टिभिः मुष्टिबन्धैः ( करणैः ) पृथुं तद्दवथुं तस्यास्तापम्, अपनेतुमपच्छेत्तुमचेष्टत व्याप्रियत किम् । पराभवितुं तिरस्कर्तुमहत किम् । अचेष्टत किमित्युत्युप्रेक्षा । वस्तुतस्तु, न किञ्चित्कर्तुं शशाक । प्रत्युत स्वयमेव दग्धेत्यर्थः । सौऽयं भीषकस्य भय प्रवेश इति भावः । अत एवानर्थोत्पत्तिलक्षणो विषमालङ्कारः । तदुत्थापिता चेयमुत्प्रेक्षेति सङ्करः ॥ 4.32 ॥
अन्वयः–विरतप्तदङ्गनिवेशिता कमलिनी निमिषब्दलमुष्टिभिः पृथुं तद्दवथुम् अपनेतुम् अचेष्टत किम्, पराभवितुम् ऐहत ऐहत किम् ? ॥ 4.32 ॥
इयमनङ्गशरावलिपननगक्षतविसारिवियोगविषावशा ॥
शशिकलेव खीरांशुकरार्दिता करुणनीरनिधौ निदधौ न कम् ॥ 4.33 ॥
जीवातु–इयमिति । इयं भैमी, अनङ्गशरावलिरेव पन्नगाः तैः क्षतं क्षतिः, नपुंसके भावे क्तः । तेन विसारिणा व्यापिना, वियोगेनैव विषेण अवशा सतौ, खरांशोस्तिग्मांशोः करैरर्दिता पोडिता, शशिकलेव कं जनं करुणनीरनिधौ शोकर साब्धौ । ‘करुणस्तु रसे वृक्षे कृपायां करुणा मता’ इति विश्वः । न निदधो निदधावेव, निमजृजयामासैवेत्यर्थः । अत्र रूपकोपमयोरङ्गाङ्गिभावेन एङ्करः ॥ 4.33 ॥
अन्वयः–अनङ्गशरावलिपननगक्षतविसारिवियोगविषावशा इयम् खरांशुकरार्दिता शशिकला इव कं करुणनीरविधौ न निदधौ ? ॥ 4.33 ॥
ज्वलति मन्मथवेदनया निजे हृदि तयार्द्रमृणाललतार्पिता ॥
स्वजयिनोस्त्रपया सविधस्थयोर्मलिनतामभजद् भुजयोर्भृ शम् । 4.34 ॥
जीवातु–ज्वलदिति । तया भैम्या, मन्मथवेदनया मदनज्वरदुःखेन, ज्वलिते प्रज्वलिते निजे हृदि वक्षसि, अर्पिता आर्द्रा सरसा, मृणाललता बिसवल्ली, स्वजयिनोः स्वीर्जत्रोः ‘जिटृक्षि’ इत्यादिना इनिप्रत्ययः । भुजयोस्तदीययोरेव, सविधस्थयोः समीपस्थयोः सतोः, त्रपया त्रसयेवेत्यर्थः । गम्योत्प्रेक्षा । भृशं मलिलनतां
वैवर्ण्यमभजत् । जितो जेतुरग्रे लज्जया वैवर्ण्यं भवतीति भावः ॥ 4.34 ॥
अन्वयः–तया मन्मथवेदनया ज्वलति निबे हृदि हदि अर्पता आर्द्रमृणाललता स्वजयिनोः सविधस्थयोः भुजयोः त्रपया भृशं मलिनताम् अभजत् ॥ 4.34 ॥
पिकरुतश्रुतिकम्पिनि शेवलं हृदि तया निहितं विचलद्ब्रभौ ॥
सतततद्गतहृच्छयकेतुना हतमिव स्वतनूघनघ?षिणा ॥ 4.35 ॥
जीवातु–पिकेति । तया भैम्या, पिकरुतश्रुत्या कोकिलकूजितश्रवणेन्कम्पिनि वेपमाने, हृदि वक्षसि, निहितं शैत्यार्थं न्यस्तं विचलत् आधारचलनादिति भावः । शैवलं, स्वतन्वा शैवलशरीरेण सह, घननघर्षिणा, भृशसङ्धर्षिणा,द्वयोरपि जलचरत्वादिति भावः । सततं तद्गतस्य भैमीहृद्गतस्य हृच्छयस्य कामस्यस, केतुना चिह्नेन, मत्स्येन हतं ताडितामिव, बभावित्युत्प्रेक्षा ॥ 4.35 ॥
अन्वयः–तया पिकरुतिश्रुतिकम्पिनि हृदि निहितं विचलत् शैदलं स्वतनूघनघर्षिणा सतततद्गतहृच्छयकेतुना हतम् इव बभौ ॥ 4.35 ॥
न खलु मोहवशेन तदाननं नलमनः शशिकान्तमबोधि तत् ॥
इतरथा1़भ्युदये शशिनस्ततः कथमसुस्त्रवदश्रुमयं पयः ॥ 4.36 ॥
जीवातु–नेति । नलमनः ( कर्तृं ), मोहवशेना विरहप्रयुक्ता ज्ञानवलेन, तदाननं भैमीमुखं ( कर्म ), शशिकान्तमिन्दुसुन्दरम् इन्दूपमञ्च, नाबोधि खलु नाबुद्ध किमिति काकुः । अबुध्यत एवेत्यर्थः । तच्च सत्यमिति भावः । ‘दीपजन’ इत्यादिना कर्त्तरि चिणु । इतस्था, तदसत्यत्वे शशिनोऽभ्युदये ततो भैमीमुखादश्रुमयमश्रुरूपं, पयः कथं असुस्त्रवत् स्त्रुतं चन्द्रोदये पयःस्त्रावाच्चन्द्रकान्ततत्वत्वं स्त्य मित्यर्थं । चन्द्रोदये दाहोद्रेकाद्रुरोदेति भावः । द्रवतेर्लुङ्णिश्रीत्यादिना च्लेश्चङि धातोरुवङादेशः ॥ 4.36 ॥
अन्वयः–नलमनः मोहवशेन तदाननं शशिकान्तं न अबोधि खलु, ( अपितु तत्त्वत एव अबोधि )इतर?था शशिनः अभ्युदये ततः अश्रुमयं पयः कथम् असुस्त्रवत् ? ॥ 4.36 ॥
रपिपतेर्विजयास्त्रमिषुर्यथा जयति भीमसुतापि तथैव सा ॥
स्वविशिखानिव पञ्चतया ततो नियतमैहत याजयितुं स ताम् ॥ 4.37 ॥
जीवातु–रतिपतेरिति । रतिपतेः कामस्य यथेषुः विजयस्यास्त्रं विजयास्त्रं विजयसाधनायुधं जयति । तथौव सा भसीमसुतापि विजयास्य सती जयति । ततस्तस्मात् ( हेतोः ) स कामः, स्वस्य विशिखानिषूनिव, तां भैभीं, पञ्च तया पञ्चसङ्ख्याकत्वेन, मरणेन च । ‘पञ्चता पञ्चभावे स्यात् पञ्चता मरणेऽपि च’ इति विश्वः । सत्यमित्युत्प्रेक्षार्थः । अन्यथा, किमर्थनामितथं पीड्येदिति भावः । उपमानोत्प्रक्षयोः सङ्बरः॥4.37॥
अन्वयः–रतिपतेः इषुः यथा विजयास्त्रं जयति तथा एव सा भीमसुता अपि ततः स्वविशिखान् इव यथा विजयास्त्रं नियतं योतयितुम् ऐहत ॥ 4.37 ॥
शशिमयं दहनास्त्रमुदित्वरं मनसिजस्य विमृश्य वियोगिनी ॥
ह्मटिर्ति वारुणमश्रुमिषादसौ तदुचितं प्रतिशस्त्रमुपाददे ॥ 4.38 ॥
जीवातु–शशिमयमिति । वियोगिन्यसौ भैमी, उदेतीत्युदित्वरमुद्यत्, ‘इण्नशजिसर्तिभ्यः क्वरप्’ शशिमयं शशिरूपं, मनसिजस्य दहनास्त्रम् आग्नेयास्त्रं विमृश्यलोच्य, ह्मटिति द्राक् । अश्रुमिषाद्वारुणं वरुणदेवताकं, ‘सास्य देवता’ विमृश्यालोच्य, ह्मटिति द्राक् । अश्रुमिषाद्वारुणं वरुणदेवताकं, ‘सास्य देवता’ इत्यण्प्रत्ययः । चन्द्रतापसहिष्णुरशरणा केवलमरोदीत्यर्थः । सापह्नवोत्प्रेक्षा ॥ 4.38 ॥
अन्वयः–वियोगिनी असौ मनसिजस्य शशिमयं दहनास्त्रम् उदित्वरं विमृश्य ह्मटिति अश्रुमिषात् तदुचितं वारुणं प्रतिशस्त्रम् उपाददे ॥ 4.38 ॥
अतनुना नवमम्बुदमाम्बुदं सुतनुरस्त्रमुदस्तमवेक्ष्य सा ॥
उचितमायतनिश्व सतच्छलाच्छवसनमस्त्रममुञ्चदमुं प्रति ॥ 4.39 ॥
जीवातु–अतुननेति । सा सुतनुर्भैमी, नवं नृतनम्, अम्बंदं मेधमेव, अतनुना अनङ्गेन, उदस्तम् उत्क्षिप्तं, आम्बुदसम्बदसम्बन्धरूत्रं पर्जन्यास्त्रम् अवेक्ष्य आयतनिश्वसितच्छलाद्दीर्धनिश्वासमिषादमुम्बुदं प्रति,
उचितं प्रतीकारक्षमं श्वसनं श्वसनात्मकमस्त्रं वायव्यास्त्रममुञ्चत् प्रायुङ्क्त । मेघदर्शनात् दीप्तमदनज्वरा दीर्धमुष्णं च निशश्वाहेत्यर्थः । अत्रापि सापह्नवोत्प्रेक्षा ॥ 4.39 ॥
अन्वयः–सा सुतनुः अम्बुदम् अतनुना उदस्तम् आम्बुदम् अस्त्रम् अवेक्ष्य आयतनिःश्वसच्छलात् अमुं प्रति उचितं श्वसनम् अस्त्रम् अमुञ्चत् ॥ 4.39 ॥
रतिपतिप्रहितानिलहेतितां प्रतियती सुदती मलयानिले ॥
तदुरुतापभयात्तमुणालिकामयमियं भुजगास्त्रमिवादित ॥ 4.40 ॥
जीवातु–रतिपतीति । सुदतीयं भैमी मलयानिले विषये रतिपतिप्रतिप्रहितानिलहेतितां कामप्रयुक्तवासव्यास्त्रताम् । ‘हेतिः शस्त्रं प्रहरणं ह्मायुध्सञ्चास्त्रमेव च’ इति हलायुधः । प्रतियती जानती । इणः शतरि ङीष् । तेनास्त्रेण य उरुस्तापः ततो भयात्, आत्ता अङ्गीकृता या मृणालिका तन्मयं बिसख्पं, भुतगास्त्रम् अदितेव आत्तवती किमित्युत्प्रेक्षा । भुजगानां वाताहारत्वादिति भावः । ‘स्थाध्वोरिच्च’ हतीकारः । ‘ह्रस्वादङ्गात्’ इति सलोपः ॥ 4.40 ॥
अन्वयः–सुदती इयं मलयानिले रतिपतिप्रहितानिलहेतितां प्रतियती तदुरुतापभयात्तमृणालिकामयं भुजगास्त्रम् इव आददे ॥ 4.40 ॥
न्यधित तद्धृदि शल्यमिव द्वयं विरहितां च तथापि च जीवितम् ॥
किमथ तत्र निहत्य निखातवान् रतिपतिः स्तनबिल्वयुगेन तत् ॥ 4.41 ॥
जीवातु–न्यधितेति । रतिपतिस्तद्धृदि भैमीहृदये, विरहितां विरहित्वं च, तथापि विरहित्वेऽपि, जीवितं चेति द्वयं, शल्यं शङ्कुमिव, न्यधित निखातवानित्यर्थः । तीवतो विराहः विरहिणो जीवनं च द्वे अपि शल्पप्राये इत्यर्थः । दधातेर्लुङि तङ् । ‘स्थाध्वोरिच्च’ इतीकारः । ‘ह्रस्वादङ्गात्’ इति सलोपः । अथ हृदि निहत्य आहत्य, निखातवान् किम् । यथा लोके निखातं शङ्कुं दार्ढ्याय निहत्य निहननोत्प्रेक्षा । निखातवानित्यनुवादः ॥ 4.41 ॥
अन्वयः–रत्तिपतिः तद्धुदि विरहितां तथा अपि जीवितं च द्वयं शल्यम् अवन्यधित ?अथ तत् स्तनविल्वयुगेन तत्र निहत्य निखातवान् किम् ??B ॥ 4.41 ॥
अतिशरव्ययता मदनेन तां निखिलपुष्पमयस्वशरव्ययात् ॥
स्फुटमकारि फलान्यपि मुञ्चता तदुरसि स्तनतालयुगार्पणा ॥ 4.42 ॥
जीवातु–अतीति । तां दमयन्तीम् अतितरां, शरव्ययता शरव्यं लक्ष्यं कुर्वता, शरव्यशब्दात् ‘तत्करोति’ इति ण्यन्ताल्लटः शतृप्रत्ययः । अत एव निखिला ये पुष्यमयाः स्वशरास्तेषां क्षयात् फलान्यपि मुञ्चता क्षिपता मदनेन तदुरसि भैमीवक्षसि, स्तनावेव ताले तालफले, तयोर्युगस्यार्पणाक्षेपः, अकारि । स्फुटमित्युत्प्रेक्षा । शरक्षये पाषाणादिनापि प्रहरन्तीति भावः ॥ 4.42 ॥
अन्वयाः–ताम् अतिशरव्ययता निखिलपुष्पमयस्वशरव्ययात् फलनि अपि मुञ्चता मदनेन तदुरसि स्तनतालयुगार्पणा अकारि स्फटम् ॥ 4.42 ॥
अथ मुहुर्बहुनिन्दितचन्द्रया स्तुतविधुन्तुदया च तया बह ॥
पतितया स्मरतापमये गदे निजगदेऽश्रुविमिश्रमुखी सखी ॥ 4.43 ॥
जीवातु–अथेति । अथानन्तरं स्मरतापमये कामज्वररूपे, गदे रोगे ‘रोगव्याधिगदामयाः’ इत्यमरः । पतिया मग्नया । अत एव, मुहः बहु बहुधा,निन्दितचन्द्रया, तस्योद्दीपकत्वादिति भावः । मुहः स्तुतो विधुं तुदतीति विधुन्तुदो राहुर्यया तया, विधुन्तुदत्वादेवेति भावः । ‘तमस्तु राहुः स्वर्भानुः सैहिकेयो विधुन्तुदः’ इत्यमरः । तया दमयन्त्या, अश्रुविमिश्रं मुखं यस्याः सा अनिष्टाशङ्कया रुदती सखी, निजगदे निगदिता । विप्रकृतो ह्मपकर्तारं निन्दति तदपकर्तारञ्च स्तौतीति भावः ॥ 4.43 ॥
अन्वयः–अथ स्मरतापमये गदे पतितया मुहुः बहुनिन्दितचन्द्रया बहु च स्तुतिविधुन्तुदया तया अश्रुविमिश्रमुखी सक्षी निजगदे ॥ 4.43 ॥

नरसुराब्जभुवामिव यावता भवति यस्य युगं यदनेहसा ॥
विरहिणामपि तद्रतवद्युक्षणमितं न कथं गणितागमे ॥ 4.44 ॥
जीवातु–नरेति । नरसुरांब्जभुवां मनुष्यदेवव्रह्मणामिव, यावता अनेहसा कालेन, यस्य जन्तोर्य।द्युगं भवति, गणितागमे ज्योतिश्शस्त्रे तत्सर्वं वक्तव्यमेवेति शेषः । यथा ब्रह्मणो दिनं देवादीनां युगादिकमित्युक्तम्, तद्वदन्यस्यापि गणितशास्त्रे वक्तव्यमिति भावः ॥ 4.44 ॥
ततःकिमित्याशङ्क्य आह । विरहिणां तद्युगं कथं किमिति रतवतामविद्युक्तानां यूनां क्षणेन मितं गणितं न । अवियुक्तानां क्षणो वियुक्तानां युजमिति किमिति नोक्तमित्यर्थः । तथा तस्या एकैकक्षण एकैकयुगकल्पोभूदित्यर्थः।
अन्वयः–नरसुराब्जभुवाम् इव यावता अनेहसा यस्य यत् युगं भवति गणितागमे विरहिणां तत् कथं रतवद्युवक्षणमितं न ? ॥ 4.44 ॥
जनुरधत्त सती स्मरतापिता हिमवतो न तु तन्महिमादृता ॥
ज्वलति भालतले लिखितः सतीविरह एव हरस्य न लोचनम् ॥ 4.45 ॥
जीवातु-जनुरिति । सती भवपूर्वपत्नी दक्षकन्या, स्मरतापिता विरहाग्नितप्ता सती, हिमवतो जनुर्जन्माधत्त । तस्य हिमवतो महिमा आटृतो यया सा तन्महिमाटृता, आटृततन्महिमा सती तु न । आहिताग्नायादित्वान्निष्ठायाः परनिपातः । विरहतापशान्त्यर्थं हिमाद्रेर्जाता । न तु तत्तु परसामर्थ्यानुरोधादित्युत्प्रेक्षा । हरस्य भालतले लिखितो ब्रह्मणा लिखितः सतीविरह एव ज्वलति, लोचनं नेत्यारोप्यापह्नवालङ्कारः ॥ 4.45 ॥
अन्वयः–स्मरतापिता सती हिमवतः पनुः अधत्त तन्महिमाटृता तु न, हरस्य फालतले लिखितः सतीविरहः एव ज्वलति, लोचनं न ॥ 4.45 ॥
दहजा न पृथुर्दवथुव्यथा विरहजैव पृथुर्यदि नेदृशम् ॥
दहनमाशु विशन्ति कथं स्त्रियः प्रियमपासुमुपासितुमुद्घुराः ॥ 4.46 ॥
जीवातु–दहनेति । दहनजा अग्निदाहजन्या, दवधुथुव्यथा तापदुःखं, पृथुः अधिका न । किन्तु विरहजैव पुथुः । र्हटृशं न यदि इदमित्वथं न चेत् । स्त्रियः, अपासुमपगतप्राणं मृतं, प्रियम्, उपासितुं प्राप्तम्, उत्कृष्टा धूर्भारो यासां ता उद्धुराः अनर्गलाः सत्य इत्यर्थः । ‘ऋक्नपूः’ इत्यादिना समासान्तो ऽकारः । कथमाशु दहनं विशन्ति । अग्निदाहाद्विरहदाह एवाधिक इत्यर्थः । तस्य तत्परिहारार्थेन स्त्रीणामग्निप्रवेशकार्येण समर्थनात् कार्येण कारणसमर्थनरूपोऽर्थारन्तरन्यासः ॥ 4.46 ॥
अन्वयः–दहनजा दवथुंव्यथा पृथुः न विरहजा एव पृथुः, यदि ईटृशं न अपांसुम् प्रियम् उपासितुम् उद्धुराः स्त्रियः आशु दहनं कथं विशन्ति ? ॥ 4.46 ॥
हृदि लुठन्ति कला नितराममूर्विरहिणीवधपङ्ककलिङ्किताः ॥
कुमुदसख्यकृतस्तु बहिष्कृताः सखि ! विलोकय दुर्विनयं विधोः ॥ 4.47 ॥
जीवातु–हृदीति । किवरहिणीवघाद्यः पङ्कः पाप्मा । ‘अस्त्री पङ्कं पुमान् पाप्मा’ इत्यमरः । तेन कलङ्किताः सञ्जाजकलङ्काः, अमूः कलाः,हृदि अभ्यन्तरे नितरां लुठन्ति वर्तन्ते । कुमुदैः सख्यं कुर्वन्तीति तत्कृतः, विशुद्धा इत्यर्थः । तास्तु कलाः बहिष्कृताः । हे सखि, विधोर्दुर्विनयं, दोर्जन्यं, विलो कय । दुर्जनाः पापिष्ठानन्तःकुर्वन्ति विशुद्धान् बहिष्कुर्वन्तीति भावः ॥ 4.47 ॥
अन्वयः–सखि, विधोः दुर्विनथं विलोकय–अमुः विरहिणीवधपङ्क कलङ्किताः कलाः हृदि नितरां लुठन्ति कुमुदसख्यकृतस्तु बहिष्कृताः ॥ 4.47 ॥
अयि विधुं परिपृच्छ गुरोः कुतः स्फुटमशिक्ष्यता दाहवदान्यता ॥
गल्पितशम्भुगलाद्गरलात्त्वया किमुदधो जड ! वा वडवानलात् ॥ 4.48 ॥
जीवातु–अयीति । अयि सखि ! विधुं परिपुच्छ । हे जड मूढ ! त्वया दाहवदान्यता दाहदातृत्वं दाहकत्वमित्यर्थः । किं ग्लपितशम्भुगलाच्छोषितशम्भुकण्ठात् गरलात् कालकूटात्, उदधो वडवानलाद्वा कुतः
कस्माद् गुरोः स्फुटमशिक्ष्यत शिक्षिता, अभ्यस्तेत्यर्थः ॥ 4.48 ॥
अन्वयः–?अयि, विधु स्फुटं परिपृच्छ–जड, त्वया दाहवदान्यता कुतःगुरोः अशिक्ष्यत, किं ग्लपितशम्भुगलात् गरलात् वा उदधौ वडवानलात् ? ॥ 4.48 ॥
अयमयोगिवधूवधपातर्कर्भ्रमिमवाप्य दिवः खलु पात्यते ॥
शितिनिशादृषदि स्फुटदुत्पत्कणगणाधिकतारकिताम्बरः ॥ 4.49 ॥
जीवातु–अयमिति । अयं विधुः, अयोगिधधूवधपातकैः वियोगिस्त्रीहिंसापापैः, करणः, भ्रमिं भ्रमणम्, अवाप्य प्रापय्य प्रापय्य आप्नोतेर्ण्यन्तात् क्वो ल्यबादेशः ‘विभाषाऽऽपः’ इति विकल्पादयादेशाभावः । शितिनिश कृष्णपक्षरात्रिस्तस्यामेव टृषदि शिलायां स्फटन्तः पातवैगाद्विदलन्तः तत उत्पतन्ताश्च ये कणाः खण्डाः, खण्डाः, तेषां गणैरधिकं तारकिताम्बरं भूम्ना तारकत्वकृताकाशः सन् । अत एव कृष्णपक्षे तारकबाहुल्यमिति भावः । तारकवच्छब्दात् ‘तत्करोति’ इति ण्यन्तात् कर्मणि क्तः । ‘विन्मतोर्लुक्’ मतुपो लुक् दिवोऽन्तरिक्षान्निपात्यते खलु । उत्कटपापकारिणः पुरे परिभ्राम्य शिलायां निपात्य हन्यन्त इति भावः॥4.49॥
अन्वय–अयम् अयोगिवधूवघपातकैः भ्रमिम् अवाप्य शितनिशाटृषदि स्फुटदुत्पतत्कणगणधिकतारकिताम्बरः दिवः पात्यते खलु ॥ 4.49 ॥
त्वमभिधेहि विधुं सखि ! मद्गिरा किमिदमीदृगधिक्रियते त्वया ॥
न गणितं यदि जन्म पयोनिधौ हरधिरःस्थितिभूरपि विस्मृता ॥ 4.50 ॥
जीवातु–त्वमिति । हगे सखि ! त्वं मद्गिरा विधुमभिधेहि उपालभस्व । तत्प्रकारमेवाहत्वया महात्मनेति भावः । किं किमर्थमिदमीट्टक् स्त्रीवधात्मकं ( कर्म ), अधिक्रियते आचर्यते ? पयानिधौ ध्जन्म न गणितं यदि मास्तु । हरशिर एव स्थितिभूचितमित्यर्थः ॥ 4.40 ॥
अन्वयः–सखि, त्वं मद्गिरा विधुम् अभिधेहि–त्वया ईटृक् इदं किम् अधिक्रियते, यदि पयोनिधौ जन्म न गणितम् हरशिरःस्थितिभूः अपि विस्मृता ? ॥ 4.40 ॥
निपततापि न मन्दरभूभृता त्वमुदधौ शशलाञ्छन ! चूर्णितः ॥
अपि मुनेर्जठरर्चिषि जीर्णतां बत गतोऽसि न पीतपयोनिधिः ॥ 4.41 ॥
जीवातु–निपततेति । हे शशलाञ्छन सकलङ्केत्यर्थः । त्वमुदधौ निपतता मथनसमय इति शेषः । मन्दभूभृता मन्दराद्रिणापि न चूर्णितः, पीत पयोनिधेः आचमितसमुद्रस्य मुदेःअगस्त्यस्य, जठरार्चिषि जठरानलेऽपि जीर्णतां न गतोऽसि । वातापिवदिति भावः । बतेति खेदे । मद्भाग्यविपर्यय एवाय मिति भावः ॥ 4.51 ॥
अन्वयः–शशलाञ्छन बत त्वम् उदधौ निपतता मन्दरभूभृता अपि न वूर्णितः पीतपयोनिधेः मुनेः जठरार्चिषि अपि जीर्णतां न गतः असि ॥ 4.51 ॥
किमसुभिर्गलिर्तर्जड ! मन्यसे विभावना अलंकार ॥
मम किल श्रुतिमाह तदर्थिकां नलमुखेन्दुपरा विबुधस्मरः ॥ 4.52 ॥
जीवातु–किमिति । हे जड मूढ ! गलितैर्निष्क्रमितैः, असुभिः, प्राणैःस्वमारणेनेत्यर्थः । भीमसुतामनो मयि चन्द्रे निमज्जतु निमहज्जेत् । सम्भावनायां लोट् । अति मन्यसे किम् ? ‘यत्रास्य पुरुषस्याग्निं वागस्येति वातं प्राणश्चक्षुरादित्यं मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् मनश्चन्द्रं दिशः श्रोत्रं पृथिवीं शरीरमाकाशमात्मौषधीर्लोमानि वनस्पतीन् केशा अप्सु रोहितं च हेतश्च निधीयत’ इति श्रुतिप्रमाण्यादिति भावः । सोऽपि वृथाभिमान इत्याह-स मृतमनश्चन्द्रमेतीत्येवं रूपोऽर्थोऽभिधेयो यस्यास्तां तदर्थिकां, ‘शेषाद्विभाष’ इति कप्समासान्तः । ‘प्रत्ययस्थात्कात्पूर्वं यस्यात् इदाप्यसुप’ इतीकारः, श्रुतिं पूर्वोक्तवेदवाक्यम् । विबुधो देवो विद्वांश्च, स्मरः नलस्य मुखेन्दुः, मुखचन्द्रः, परो मुख्यार्थे यस्यास्तां तत्पराम् । ‘परं दूरान्यमुख्येषु’ इति वैजयन्ती । मम आह किल ब्रूतेखलु । विद्वदुक्त एवार्थो ग्राह्म इत्यर्थः । परतोऽपि मे भर्ता नल एव नान्य इति भावः ॥ 4.52 ॥
अन्वयः–जड, गलितैः असुभिः भीमसुतामनः मयि निमज्जतु-इति मन्यसे किम् ? विबुधस्मरः तदर्थिकां
श्रुर्ति नलमुखेन्दुपरा मम आह किल ॥ 4.52 ॥
मुखरयस्व यशोनवाडिण्डिमं जलनिधः कुलमुज्जवलयाऽधुना ॥
अपि गृहाण वधूवधपौरुषं हरिणलाच्छन । मुञ्च कदर्थनाम् ॥ 4.53 ॥
जीवाजु–मुखरयस्वेति । हे हरिणलाञ्छन शशाङ्क ! यशसः नवडिण्डिमं कीर्तिप्रकाशं नूतनवाद्यविशेषं मुखरयस्य मुखरं रवणं कुरु, अधुना जलनिधेस्त्वज्जनकस्य कुलमुज्जवलय प्रकाशय, वधूवधपौरुषमपि स्त्रीवधशौर्यञ्च, गृहाण स्वीकुरु । किंतु, कुत्सितोऽर्थः कदर्थः पीडाकरः ‘कोः कत्तत्पुरुषेऽचि’ इति कुशब्दस्य कदादेशः । कदर्थीकरणं कदर्थना कदर्थनशब्दात् । ‘?तत्करोति’ इति ण्यन्ताद्युच । तां मुञ्च शीघ्रं मारय । न तु पीडयेत्यर्थः । अत्र वधूवधस्यानिष्टत्वेनाविधेयस्य विधानात् । ‘विषं भुङ्ध्व’ इतिवन्निषेधपरो विध्याभासः अनिष्टनिषेधाभासपराक्षेपालङ्कारभेदः । तथा चालङ्कारसूत्रम्,अनिष्टं विधायाभासश्चे’ति ॥ 4.53 ॥
अन्वयः–हरिणलाञ्छन, यशोनवडिण्डिमं मुखरयस्व, अधुना जलनिधेः कुलम् उज्जलय, वधूबधपोरुम् अपि गृहाण, कदर्थनां मुञ्च ॥ 4.53 ॥
निशि शशिन् ! भज कैतवभानुतामसति भास्वति तापय पाप माम् ॥
अहमहन्यवलोकयितास्मि ते पुनरर्हतिनिर्धुतदर्पताम् ॥ 4.54 ॥
जीवातु–निशीति । हे शशिन् ! पाप ! त्रूर ! ‘नृशंसो घातुकः क्रूरः पापः’ इत्यमरः । शिशि भास्वत्यसति । कैतवभानुतां कपटसूर्यत्वं भज । मां तापय, किं त्वहञ्चाहनि, अहर्पतिना सूर्येण, ‘अहरादीनां पत्यादिषु’ इति रेफादेशः । ते तव, निर्धुत?दर्पतां निरहङ्कारताम्, अवलोकयितास्मि द्रक्ष्यामीत्यर्थः । लुटि मिपि तासिप्रत्ययः । पापिष्ठाः स्वनाशमासन्नमपश्यन्तः परान् हिंसन्तीति भावः ॥ 4.54 ॥
अन्वयः–शशिन्, निशि भास्वति असति कैतवभानुतां भज, पापा, मां तापय, अहम् पुनः अहनि ते अहपंतिनिर्धुतदर्पताम् अवलोकयितास्मि ॥ 4.54 ॥
शलकलङ्क ! भयङ्कर !मादृशां ज्वलसि यन्निशि भूतपतिं श्रितः ॥
तदमृतस्य तवेदृशभूतताऽदभुतकरी परमूर्धविधूननी ॥ 4.55 ॥
जीवातु–शशकलङ्केति । हे शशकमलङ्क शशङ्क ! माटृशं वियोगिनामित्यर्थः । भयं करोतीति भयंकर उद्वेजक ! ‘मेधतिभयेषु कृञः’ इति खच्प्रत्ययः । ’ अरुर्द्विषत्’ इत्यादिना मुममागमः । यद्यस्मात्, भूतपतिं शिवं पिशाचपतिञ्च, श्रितः सन् निशि ज्वलसि प्रदीप्यसे । तत्तस्मादमृतस्यामृतमयस्य मृतेतरस्य च, तव परेषां द्रष्टॄ णा स्वाविष्टानां च, मूर्धविधूननी एकत्र विस्मयादन्यद्धापवेशाच्च शिरःकम्पकरी, ईटृशभूता इत्थंभूतत्वाम् ईटृशपिशाचत्वञ्च, अदभतकरी विस्मयकरी । हरशिरोमणेरमृतस्य इव इत्थं प्रज्वलनात्कत्वमदभतमिति वाक्यार्थः । जीवत ईटृगलातपिशाचत्वमदभुतमिति व्यङ्ग्यार्थः ॥ 4.55 ॥
अन्वयः–शशकलङ्क, माटृशां भयङ्कर, यत् भूतपतिं श्रितः निशि ज्वलसि यत् अमृतमयस्य तव परमूर्धविधूननी ईटृशभूतता अद्भुतकरी ॥ 4.55 ॥
श्रवणपूरतमालदलाङ्कुरं शशिकुरङ्गमुखे सखि ! निक्षिप ॥
किमपि तुन्दिलितः स्थगयत्वमुं सपदि तेन तदुच्छ्वसिमि ?क्षणम् ॥ 4.56 ॥
जीवातु–श्रवणेति । हे सखि ! श्रवणूपरः कर्णवतंसः, यस्तमालदलाङ्कुरस्तमापल्लवस्तं, शशिकुरङ्गस्य मुखे वक्त्रे, निक्षिप । तेन दलाङ्कुरेण, सपदि, किमपि कियदपि, तुन्दिलितस्तुन्दिलीकृतः, स्थुलीकृतस्सन्, अमुं शशिनं, स्थगयतु छादयतु । तत्ततस्माद्धेतोः, क्षणमुच्छ्वसिमि प्रातिणमि, ‘रुद्रादिभ्यः सार्वधातुक’ इतीडागमः ॥ 4.56 ॥
अन्वयः–खखि, श्रवणपूरतमालदलाङ्कुरं शशिकुरङ्गमुखे सपदि निखिप,तेन किमपि तुल्दिलितः अमुं स्यगयतु तत् उच्छ्वसिति ॥ 4.56 ॥
असमये मतिरुन्मिषति घ्रुवं करगतैव गता यदियं कुहूः ॥
युनरुपैति निरुध्य निवास्यते सखि ! मुखं न विधो नुनरीक्ष्यते ॥ 4.57 ॥
जीवातु–असमय इति । हे मखि ! उसमये मतिः कार्यधीः, उन्मिषतिउदेति, ध्रुवम् । न तु योग्यकाल इत्यर्थः । कुतः, यद्यस्मादियं कुहूः नष्टचन्द्राभावास्या करगता स्वायत्तैव, हस्तनक्षत्रगता च गता । तदास्तां, पुनरुपैति पुरागच्छति चेदित्यर्थः । निरुध्य निवास्यते स्थाप्यते । तस्य फलमाहविधोर्मुखं पुनर्नेक्ष्यते । तस्यातन्नशकत्वादिति भावः । पापिष्ठस्य तस्यादर्शनमेव फलमित्यर्थः ॥ 4.57 ॥
अन्वयः–सखि, ध्रु वम् असमये मतिः उन्मिषति, यत् इयं करगता एव कुहूः गता,पुनः उपैति चेत् निरुध्य निवास्येत, विधोः मुखं पुः न ईक्ष्यते ॥ 4.57 ॥
अयि ! ममैष चकोरशिशुर्मुंनेर्व्रजति सिन्धुपिबस्य न शिसष्यताम् ॥
अशितुमब्धिमधीतवतोऽस्य वा शशिकराः पिबतःकति शीकराः ॥ 4.58 ॥
जीवातु–अयीति । अयि सखि ! एष मम चकोरशिशुर्विषपरीक्षार्थं गृहसंवर्धितो बालचकोरः 1 यथाह कामन्दकः–‘चकोरस्य विरज्येते नयने विषदर्शनात्’ इति । पिबतीति पिबः, ‘पाघ्राध्मा’ इत्यादिना शतृप्रत्यये पिबा देशः । सिन्धोः पिबस्य समुद्रपायिनो मुनेरगस्त्यस्य शिष्यतां, न व्रजतीति काकुः । व्रजतीत्यर्थः । तथा
च अयं चकोरश्चन्द्रं निश्शेषं पास्यतीत्याशयः,न चैतदशक्यमित्याह–अब्धिमशितुं पातुमधीतवतः अत एव, पिबतः अब्धिपानप्रवृत्तस्यास्य चकोरस्य, शशिकराः कति वा शीकराः कतिचित्कणा इत्यर्थः । अत्र समुद्रपायिनो दण्डापूपिकया शशिकरप्रानसिद्वेरर्थापत्तिरलङ्कारः ॥ 4.58 ॥
अन्वयः–अयि एष मम चकोरशिशुः सिन्धुपिबस्य मुनः शिष्यतां न व्रजति ? अब्धिम् अशितुम् अधीतकतः पिबतःअस्य शशिकराः कति वा शीकराः? ॥ 4.58 ॥
कुरु करे गुरमेकमयोधनं वहिरितो मुकुरञ्च कुरुष्व मे ॥
विशति यत्र यदैव विधुस्तदा सखि ! सुखादहितं जदि तं द्रुतम् ॥ 4.59 ॥
जीवातु–कुर्विति । हेसखि ! एकं गुरुं महान्तम् अयोदधनं तप्तायःपिण्डघट्टनमयोमुद्गरं करे विगृहीत्यर्थः । इतोऽस्मत्साधनाद्वहिः, मे मम मुकुरं दप्रणं च कुरुष्व विधेहि । तत्र मुकुरे यदा विधु विशति प्रतिफलति, तदैव, सुखादनायासात्, अहितं शत्रु, तं विधुं, द्रुतं जहि मारय । हन्तेर्लोटि सिपि हिरादेशः । ‘हन्तेर्ज’ इति जादेशस्य ‘असिद्धवदत्राभात्’ इत्यसिद्धत्वाच्च हेर्लुंक् । अत्र चन्द्रप्रहारादिप्रलापा मेधसन्देशादिवन्मदनोन्मादविकारा इत्यनुसन्धेयम् ॥ 4.59 ॥
अन्वयः–सखि, करे एकं गुरुम् अयोधनं कुरु मे मुकुरं च इतः बहिः कुरुष्व तत्र यदा पिधुः वि?शति अहितं तं सुखात् द्रुतं जहि ॥ 4.59 ॥
उदर एव धृतः किमुदन्वता न विषयो वडवानलवद्विधुः ॥
विषवदुज्ह्मितमप्यमुना न स स्मरहरः किममुं बुभुजे विभुः ॥ 4.60 ॥
जीवातु–उदर इति । विषमः कूरकर्मा, विधुः, उदन्वता उदधिना, ‘उदन्वानुदधौ च’ इति निपातः । वडवानलवद्वडवाग्निना तुल्यं, ‘तेन तुल्यं किया चेद्वतिः’ उदरे कुक्षावेव किं न धृतः । अथवा, अमुना उदन्वता उज्ह्मितमप्यमुं विधुं समर्थः स्मरहरः, विषवद्विषेण कालकूटेन तुल्यं, पूर्ववद्वतिः । किं न बुभुजे न ग्रसजतेस्म । उभयथापि स्वयं जीवेम इति भावः ॥ 4.60 ॥
अन्वयः–विषमः विधुः उदन्वता वउवानलवमत् उदरे एव किं न धृतः अमुना उज्ह्मितम् अपि अमुं सः विभुः स्मरहरा विषवत् किं न बुभुजे ? ॥ 4.60 ॥
असितमेकसुराशितमप्यभून्न पुनरेष पुनर्विशदं विषम् ॥
अपि निपीय सुरैर्जनितक्षयं स्वयमुदेति पुनर्नवमार्णवम् ॥ 4.61 ॥
जीवातु–असितमिति । आर्णवमर्णवे जातं, ‘तत्र जातः’ इत्यण्प्रत्ययः । अशितं मेचकं विषं कालकूटायख्यमेकेनैव सुरेण महादेवेन, अशितं गिलितमपि, पुनर्नाभून्नाजनि । एष चन्द्रो नामार्णवं विशदं ?विषं पुनः सितविषं तु सुरैर्बहु भिर्देवैः ‘प्रथमा पिबते वह्निः’ रित्याद्युक्तक्रमेण, निपीय जनितक्षयं कृतनाशमपि, स्वयं नवं तद्रूपेणैव, पुनरुदेत्यागच्छतीति व्यतिरेकः ॥ 4.61 ॥
अन्वयः –असितम् आर्णवं विषम् एकमुराशितम् अपि पुनः न बभूव, एषः विशदं सुरैः निपीय
जनितक्षयम् अपि स्वयं पुनः नवम् उदेति ॥ 4.61 ॥
विरहिवर्गवधव्यसनाकुलं कलय पापमशेषकलं विधुम् ॥
सुरनिपीतसुधाकमपापकं ग्रहविदो विपरोतकथाः कथम् ॥ 4.62 ॥
जीवातु–विरहीति । हे सखि ! विरहवर्गवधे व्यसनेनासक्त्या, आकुलं सङ्कुलं, सशब्दम् अशेषकलं पूर्णकलं, विधुं पापं कलय कूरं विद्धि सुरैर्निपीता सुक्षा यस्य तं क्षीणमित्यर्थः । शैषिणः कप्समासान्तः । ‘अपोऽन्यतरस्याम्’ इति विकल्पाद् ह्स्वभावः । अपाप एवापापकस्तं सौम्यं कलम् । तथा कार्यदर्शनादिति भाव । किन्तु ग्रविदो दैवज्ञास्तु कथं विपरीतकथाः ‘क्षीणेन्द्वर्कार्किभूपुत्राः पापास्तत्संयुतो बुधः । पूर्णचन्द्रबुधाचार्यशुक्रास्ते स्युः शुभग्रहाः ॥’ इत्येवं विरुद्धवाचः । अनुभवविरोधादग्राह्मं तद्वाक्यमिति भावः
॥ 4.62 ॥
अन्वयः–विरहिवर्गवधव्यसनाकुलम् अशेषकलं विधुं पापं कलय, सुरनिपीतसुधाकरम् अपापकं, ग्रहविदः कथं विपरसयीतकथाः ? ॥ 4.62 ॥
विरहिभिर्बहुमानमवापि यः स बहुलः खलु पक्ष इहाजनि ॥
तदमितिः सकलैरपि यत्र तैर्व्यंरचि सा च तिथिः किममा कृता ॥ 4.63 ॥
जीवातु–विरहिभिरिति । यः पक्षो विरहिभिः बहुमानं सत्कारमवापि प्रापितः, क्षीयमाणचन्द्रत्वादिति भावः । अवपूर्वादाप्नोतेर्ष्यन्तात् कर्मणि लुङ् । ‘गतिबुद्धि’–इत्यादिना अणि कर्तुः कर्मत्वम् । ‘ण्यन्ते कर्तुश्च कर्मणः’ इत्यभिधानात् । स विरहिभिर्बहुकृतः पक्षइह्मास्मिन् लोके बहुप्रकारः लाति आदत्त इति ष्युत्पत्त्या बहुलः ‘आतोऽनुपसर्गे कः’ न तु ‘बहोरुलच्’ इति भावः । अजनि जातः । खल्वित्युत्प्रेक्षा । किञ्समासे मत्वर्थीये चाकारप्रत्यये ‘यस्येति चे’तिय लोपे ‘अजाद्यतष्टाप्’ । न त्वमा सह भावो1़स्यां सूर्याचन्द्रत्यये ‘यस्येति चे’ति लोये ‘अजाद्यतष्टाप्’ । न त्वमा सहभावोऽस्यां सूर्याचन्द्रमसोरिति व्युत्पत्पयुत्प्रेक्षा । अमेति सहार्थे अव्ययं, ततो भावप्रधानान्मत्वर्थीयाकाराट्टप् ॥ 4.63 ॥
अन्वयः–विरहिभिः यः पक्षः बहुमानम् अवापि सः खलु इह बहुलःअजनि, तैः सकलैः अपि यत्र तदमितिः व्यरचि किम् सा तिथिः अमा कृता ? ॥ 4.63 ॥
स्वरिपूतीक्षणसुदर्शनविभ्रमात् किमु विधु ग्रसते न विधुन्तुदः ॥
निपतितं वदने कथमन्यथा बलिकरम्भनिभं निजमुज्ह्मति ॥ 4.64 ॥
जीवातु–स्वेति । विधुन्तुदो राहुः, विधुं चन्द्रं, स्वरिपोर्विष्णोस्तीक्ष्णं निशितं यत् सुदर्शनं तदिति बिभ्रमात् साटृश्यमूलभ्रमान्न ग्रसते किमु ? तालु च्छे दभयादिति भावः । अन्यथा भयाभावे, वदने निपतितं
वक्त्रान्तर्गतम् । अत एव, निजं स्वायत्तं, बलिकरम्भनिभम् उपहृतदध्युपसिक्तसक्तुसट्टशं, स्वाधिष्ठितमित्यर्थाः ‘करम्भा दधिसक्तव’ इत्यमरः । एनमिति शेषः । कथमुज्झति उद्गिरतीत्युत्प्रेक्षा ॥ 4.64 ॥
अन्वयः–विधुन्तुदः विर्धुं स्वरिपुतीक्षणसुदर्शनविभ्रमात् न ग्रसते किमु,अन्यथा वदने निपतितं बलिकरम्भनिभं कथम् उज्झति ? ॥ 4.64 ॥
वदनगर्भगतं न निजेच्छया शशिनमुज्झति राहुरसंशयम् ॥
अशित एव गलत्ययमत्ययं सखि ! विना गलनालबिलाध्वना ॥ 4.65 ॥
जीवातु–वदनेति । हे सखि ! यद्वा राहुः वदनगर्भगतमास्यान्तःप्रविष्टं शशिनं निजेच्छया स्वेच्छया, नोज्झति । असंशयं संशयो नास्ति । अर्थाभावेऽव्ययीभावः । किं स्वयं शशी अशितो गिलित एव अत्ययं विना
अकृच्छ्रेणेत्यर्थः । ‘अत्ययोऽतिक्रमे कृच्छ्रे’ इति वैजयन्ती । गलनालबिलाध्वना कण्ठनालान्तःकुहरमार्गेण, गलति निस्मसरति । राहोः शिरोमाद्धत्वेन कण्ठनालनिस्सृतस्याशितस्य जठराग्निसंयोगविराहादस्य पापिष्ठस्येन्दोः पुनरुदय इत्युत्प्रेक्षार्थः ॥ 4.65 ॥
अन्वयः–सखि, राहः वदनगर्भगतं शशिनम् असंशयं निजेच्छया न उज्झति, अशितः एव अयम् प्रत्ययं विना गलनाबिलाध्वना गलति ॥ 4.65 ॥

ऋजुदृशः कथयन्ति पुराविदो मधुभिर्द किल राहुशिरश्छिदम् ॥
विरहिूर्धभिदं निगदन्ति न क्व नु शशी यदि तज्जठरानलः ॥ 4.66 ॥
जीवातु-ऋजुटृश इति । ऋजुटृशः तदात्विककार्यमात्रदर्शिनः, न त्वागामिकार्यदर्शिन इत्यर्थः । पुराविदः पुराणज्ञाः पूर्वपुरुषाः, मधुभिदं विषुं, राहुशिरश्छिदं कथयन्ति किल । किलेति वार्तायाम् । विरहिमूर्धभिदं वियोगिशिरश्छिदं न निगदन्तीति काकुः । तथैव कथनीयमित्यर्थंः । कुतस्तस्य राहोर्जठराललो यदि अस्तीति शेषः । शशी क्व नु ? न क्वापि स्यापि स्यादित्यर्थः । राहुशिर श्छेदेन तदीयजठराग्निविच्छेदत्वाद्विरहिमारकं शशिनमुज्जीवयन्नयं विष्णुविरहिशिरश्छेदीत्येवं व्यपदेश्यः न राहुशिरश्छदीत्यर्थः ॥ 4.66 ॥
अन्वयः–ऋजुटृशः पुराविदः मधुभिदं राहुहशरच्छिदं कथयन्ति किल, विरहिमूर्धभिदं न निगदन्ति, यदि तज्जठरानलः शशी क्व नु ? ॥ 4.66 ॥
स्मरासखौ रुविभिः स्मरवैरिणा मखमृगस्य यथा दलितं शिरः ॥
सपदि संदधतुर्भिषजौ दिवः सखि !?B तथा तमसोऽपि करोतु कः ॥ 4.67 ॥
जीवातु–स्मरसखाविति । रुचिभिः स्मरसखौ कायकान्तिभिः स्मरसटृशौ तन्मित्रे च, दिवो भिषजौ स्वर्वेद्यौ, स्मरवैरिणा हरेण, दलितं भिन्नं, मख एव मृगः तस्य मृगरूपधारिणो मखस्येत्यर्थः । शिरो यथा सपदि संदधतुः, संयोजयामासतुः । यो यस्य मित्र स तथा शिरस्सन्धानं करोतु । न कोऽपीत्यर्थः । हस्य मखमृगशिरश्छेदे पुराणं प्रमाणम्, अश्विनोः पुनस्तत्सन्धाने ‘ततो वै तौ यज्ञस्य शिरः प्रत्यधत्ताम्’ इति श्रुतिः ॥ 4.67 ॥
अन्वयः–सखि, रुचिभिः स्मरसखौ दिवो भिषजौ स्मरवैरिणा दलितं मखमृस्य शिरः यथा सपदि सन्तदधतुः तथा तमसः अपि कः करोतु ? ॥ 4.67 ॥
नलविमस्तकतस्य रणे रिपोर्मिलति किं न कबन्धगलेन वा ॥
मूतिभिया भृशमुत्पततस्तमोग्रहशिरस्तदसृग्दृढबन्धनम् ॥ 4.68 ॥
जीवातु–नलेति । अथवा, रणे नलेन विमस्तकितस्य तथापि मृतिभिया मरणभयेन भृशमुत्पतत उद्गच्छतो रिपोः, कबन्धगलेन उपमूर्धकले वरकण्ठेन सह तमोग्रहस्य शिरः, तस्य गलस्यासृजा रक्तेन टृढबन्धनं निविडसंयोगं सत् किं न मिलति न सङ्गच्छते ? तथा च तज्जठराग्निना चन्द्रो जीर्येति भावः
॥ 4.68 ॥
अन्वयः–वारणे मृतिभिया भृशम्ःनलविम्तकितस्य रिपोः कबन्धशलेन तमोग्रहशिरः तदसृग्टृढबन्धनं किं न मिलति ? ॥ 4.68 ॥
सखि ! जरां परिपृच्छ तमश्शिरस्मसौ दधतापि कबन्धताम् ॥
मगधराजवपुर्दलयुग्मवत् किमिति न प्रतिसीव्यति केतुना ? ॥ 4.69 ॥
जीवातु–सखीति । अथवा, हे सखि ! जरां जराख्यां निशाचरीं परिपृच्छ । असौ जरा कबन्धताम्, अशिरस्कतां दधतापि केतुना समं केतुग्रहेण सह, तमसो राहोः शिरः किमिति न प्रतिसीव्यति न सन्धत्ते ? । शिरोमात्रं राहुः शरीरमात्रं केतुः तयोः सन्धाने पूर्ववत्तज्जठ्यति न सन्धत्ते ? । शिरोमात्रं राहुः शरीरमात्रं केतुः तयोः सन्धाने पूर्ववत्तज्जठराग्निना चन्द्रो जीर्यिदिति भावः । जराकृताङ्गसन्धानो जरासन्ध इति भारती कथानुसन्धेया ॥ 4.69 ॥
अन्वय–सखि, जरां परिपृच्छ–असौ कबन्धतो दधत केतुना समं तमःशिरः अपि मगधराजवपुर्दलयुग्मवत् किमिति न प्रतिसीव्यति ? ॥ 4.69 ॥
वद विधुन्तुदमालि । मदीरितैस्त्यजसि किं द्विजराजधिया रिपुम् ॥
किमु दिवं पुनरेति यदीदृशः पतित एष निषेव्य हि वारुणीम् ॥ 4.70 ॥
जीवातु–वदेति । हे आलि सखि ! मदीरितैः मद्वाक्यैः विधुन्तुदं राहं उ वद, रिपुं द्विजराजश्चन्द्रो ब्राह्मणश्चेष्ठश्च, तद्धिया त्यजसि किम् ? तन्नास्तीत्याहयद्यस्मादेव चन्द्रो वारुणीं प्रतीची सुराञ्च । ‘वारुणी
गगन्धदूर्वायां प्रतीचीसुरयोरपि’ इति विश्वः । निषेव्य गत्वा पीत्वा च । पतितः च्ृयुतः पातकी च । ईटृशः पतितो1़पि पुनर्दिवमन्तरिक्षं स्वर्गञ्च एति यदि किमु । द्वयोरपि पतितयोरधोगतिरेव नोर्ध्वगतिरित्यर्थः । अतः पतितस्य कुतः श्रैष्ठ्यं कुतस्तरां तद्वधे दोषश्चेति भावः ॥ 4.70 ॥
अन्वयः–आलि, मदीरितैः विधुन्तुदं वद–रिपुं द्विजराजधिया त्यजसि किम् यत् एषः ईटृशः पतितः हि वारुणो निषेव्य दिवं पुनः किमु एति ? ॥ 4.70 ॥
दहति कण्ठमयं खलु तेन किं गरुडवद् द्विजवासनातोज्झितः ? ॥
प्रकृतिरस्य विधुन्तुद ! दाहिका मयि निरागसि कावद विप्रता ? ॥ 4.71 ॥
जीवातु–द?हतीति । विधुन्तुद ! विधुन्तुद ! अयं विधुः द्विजवासनया द्विजत्वसामान्ये नेत्यर्थः । पातित्येऽपि जातेरननपायादिति भावः । गरुडवद् गरुडस्येव ‘तत्रतस्येव’ इति वतिप्रत्ययः । ते तव कण्ठं दहति खलु । विधुः तेन दाहेनोज्झितः किम् ? अस्य विप्रता का वद, न कापीत्यर्थः । तथा हि, अस्य विधोः प्रकृति ब्राह्मणत्वमित्यर्थः। ‘आगोऽपराधो मन्तुश्च’ इत्यमरः । पुरा किल क्षुधितेन गरुत्मता पित्रादेशेन म्लेच्छान् भक्षयता तन्मिलितः भ्रष्टद्विजः कश्चित् तद्दग्धगलेन सहसो द्गीर्ण इति पौराणिकी कथा । तथा माघश्चाह–‘विप्रं पुरा पतगराडिव निर्जगार’ इति ॥ 4.71 ॥
अन्वयः–विधुन्तुद, अयं किं कण्ठं दहति गरुडवत् द्विजवासनया उज्झितः ? अस्य प्रकृतिः दाहिका, निरागसि मयि का विप्रता ? वद ! ॥ 4.71 ॥
सकलया कलया किल दंष्ट्रया समवधाय यमाय विनिर्मितः ॥
विरहिणीगणचर्वणसाधनं विधुरतो द्विजराज इति श्रुतः ॥ 4.72 ॥जीवातु–सकलयेति । विधुः सकलया कलया सकलाभिः, कलाभिरेव दंष्टुया दंष्ट्राभिः, दन्तविशेषैः प्रकृतिद्रव्येण । उभयत्र जात्येकवचनम् । यमाय अन्तकार्थ समवधाय सम्यगवहितीभूय, विरहिणीगणस्य चर्वणसाधनं किञ्चिदभक्षणसाधनं विनिर्मितः, किल ब्रह्मणेति शेषः । अतोऽस्माद्दंष्ट्राविशेषत्वाद् ‘द्विज’ इति श्रुतः न तु विप्रविशेषत्वादित्यर्थः। ‘दन्तविप्राण्डजा द्विजा’ इत्यमरः। अतो नायमुपंक्ष्य इति भावः ॥ 4.72 ॥
अन्वयः–विधुः सकलया कलया दंष्ट्र्या समवधाय किं यमाय विरहिणी गण चर्वणसाधनं विनिर्मितः अतः द्विजराजः इति श्रुता ? ॥ 4.72 ॥
स्मरमुखं हरनेत्रहुताशलनाज्ज्वलदिदं विधिना चकृषे विधुः ॥
बहुविधेन वियोगिवधैनसया शशमिषादथ कालिकायाङ्कितः ॥ 4.73 ॥
जीवातु-स्मरमुखमिति । अथ विधुश्चन्द्रो नामेदं स्मरमुखं ज्वलत् प्रत्वल देव विधिना वैवेन हरनेत्रहुताशनाच्चकृततषे मध्ये आकृष्टः । अथवा बहुविधेन वियोगिवधेन यदेनः पापं, तेनैव कालिकया श्यामिकया, शशमिषादङ्कितः । दाहकालिमा वा, पापकालिमा वा शशमिषाद् टृश्यत इति सापह्नवोत्प्रेक्षाद्वयम् ॥ 4.73 ॥
समरमुखं हरंनेत्रहुताशनाज्जवलदिदं विधिना चकृषे विधुः ॥
बहुविधेन वियोगिवधैनसा शशमिषादथ कालिकयाङ्कितः ॥ 4.73 ॥
जीवातु–स्मरमुखमिति । अथ विधुश्चन्द्रो नामेदं स्मरमुखं ज्वलत् प्रज्वल देव विधिना वैवेन हरनेत्रहुताशनाच्चकृषे मष्ये आकृष्टः । अथवा बहुविधेन वियोगिवधेन यदेनः पापं,तेनैव कालिकया श्यामिकया, शशमिषादङ्कितः । दाहकालिमा या, पापकालिमा वा शशमिषाद् टृश्यत इति सापह्नवोत्प्रेक्षाद्वयम् ॥ 4.73 ॥
अन्वयः–अथ विधुः इदं ज्वलत् स्मरमुखं विधिना हरनेत्रहुताशनात् चकृषे,बहुविधेन वियोगिधर्धनसा कालिनया शशमिषात् अङ्कितः ॥ 4.73 ॥
[ द्विजपतिप्रसनाहितपाकप्रभकुष्ठसितीकृतविग्रहः।
विरहिणीवदनेन्दुजिधित्सया स्फुरति राहुरयं न निशाकरः ॥ 1 ॥ ]

इति विधोर्विविधोक्तिविगहैणं व्यवहितस्य वृथेति विमृश्य सा ॥
अतितरां दधती विरहज्वरं हृदयभाजमुपालभत स्मरम् ॥ 4.74 ॥
जीवातु–इतीत्थं, अतितरामतिमात्रम्, अव्ययादाम्प्रत्ययः । विरहज्ववरं दषती सा दमयन्ती इतीत्थं, व्यवहितस्य विप्रकृष्टस्य, विधोर्विविधोक्तिभिविगर्हणं निन्दा वृथेति विमृश्य, अरण्यरुदितप्रायमिति विचार्य, हृदयभाजं सन्निहितं स्मरमुपालभत निनिन्द । पाक्षिकफलसम्भावनयेति भावः ॥ 4.74 ॥
अन्वयः–अतितरां विरहज्वरं दधती सा व्यवहितस्य विधोः इति विविधोक्तिविगर्हणं वृथा इति विमृश्य हृदयभाजं स्मरम् उपालभत ॥ 4.74 ॥
हृदयमाश्रयसे बत मामकं ज्वलयसीत्थमनङ्ग ! तदेव किम् ? ॥
स्वयमपि क्षणदग्धनिजेन्धनः क्व भवितासि ? हताश ! हुताशवत् ॥ 4.75 ॥
जीवातु–हृदयमिति 1 हे अनङ्ग ! ममेदं मामकम् । ‘तवकममावेकवचने’ इत्यणि मम3 कमादेशः । हृदयमाश्रयसे । तदेवेत्थं किं ज्वलयसि दहसि ? बत । हताश दुर्बुद्धे ! स्वयं त्वमपि, हुतमश्नातीति हुताशोऽग्निः, कर्मण्यण् । तद्वत् क्षणदग्घनिजेन्धनो दग्धाश्रयः सन्नित्यर्थः । क्व भवितासि क्व भविष्यसि ? न क्वापीत्यर्थः । अनद्यतने लुट् । परहिसाव्यसनेनात्मनाशं न पश्यसीत्याशयेन हताशेत्यामन्त्रणम् ॥ 4.75 ॥
अन्वः–अनङ्ग, बत मामकं हृदयम् आश्रयसे, तत् एव इत्थं किं ज्वलयसि ? हताश, स्वयं हुताशवत् क्षणदग्धनिजेन्धनः क्व भवितासि ? ॥ 4.75 ॥
पुरभिदा गमितस्त्वमदृश्यतां त्रिनयन्त्वपरिप्लुतिशङ्क्या ॥
स्मर ! निरैक्ष्यत कस्यचनापि न त्वयि किमक्षिगते नयनेस्त्रिभिः ॥ 4.76 ॥
जीवातु–पुरभिदेति । हे स्मर ? त्वम् अक्षिगत इति शेषः । अनक्षिससन्निकृष्टस्याक्ष्णा दग्धुमशक्यत्वादटृश्यस्य च दाहायोगादिति भावः । पुरभिदा हरेण, त्रिनयनत्वं त्र्यक्षतृवं, क्षुभ्नादित्वाण्ण्त्वाभावः । तस्य परिप्लुतिशङ्कया तृतीयाक्षिवैयर्थ्यभयेनेत्यर्थः । अटृश्यतां गमितो नाशं प्रापितः, ‘गतिबुद्धि’इत्यादिना अणिकर्तृः कर्मत्वे तत्रैव क्तः ‘ण्यन्ते कर्तुश्च कर्मण’ इति वचनात् । किन्तु, कस्यचनापि यस्य कस्यचिदपि जनस्याक्षिगते टृग्गोचरे द्वेष्ये च । ‘द्वेष्ये त्वक्षिगतो बध्यः’ इत्यमरः । त्वयि त्रिभिर्नयनैः किं न निरैक्ष्यत, किमिति न निरीक्षितम् अतोऽस्य त्रिनयनत्वं व्यर्थमेवेत्यर्थः । स्वाक्षिगत इव माटृशाक्षिगतेऽपि त्वयि तृतीयाक्षिनिरीक्षणाभावादपरोपकारिणस्तस्य वैयर्थ्यं, निरीक्षणञ्च देवस्य जितकामत्वादन्येषां तु कामजितत्वादुत्प्रेक्ष्यत इति । त्वयि निरैक्ष्यते त्यत्र कर्मणोऽपि स्मरस्य अनेकशक्तियुक्तस्येति न्यायेन मातरि प्रहृतमित्या दिवदाधारत्वविवक्षायासमविवक्षितकर्मकादीक्षतेर्भावे लकारः । ‘प्रसिद्धेरविवक्षातः कर्मणो1़कर्मिका क्रिया’ इति वचनात् ॥ 4.76 ॥
अन्वयः–स्मर, त्वम् पुरभिदा त्रिनयनत्वपरिप्लुतिशङ्कया अटृश्यतां गमितः, कस्यचन अपि अक्षिगते त्वसिय त्रिभिः नयनैः कि न न निरैक्ष्यत ? ॥ 4.76 ॥
सहचरोऽसि रतेरिति विश्रुतिस्त्वयि वसत्यपि मे न रतिःकुतः ? ॥
अथ न सम्प्रति सङ्गतिरस्त वामनुमृता न भवन्तमियं किल ॥ 4.77 ॥
जीवातु–सहचर इति । हे स्मर ! रतेः रतिदेव्याः, सन्तुष्टेश्च सहचरोऽसीति विश्रुतिः प्रसिद्धिः त्वयि वसति ह्रदयस्थे सत्यपि, मे कुतो रतिर्न ? अयवा, सम्प्रति वां युवयोः सङ्गतिर्नास्ति । कुतः, इयं रतिर्भवन्तं नानुमृताकिल । किलेति वार्तायाम् । अनुमरणाभावादसङ्गतिर्युक्तेत्यर्थः । अत्र प्रीति लक्षणाया रतेर्देव्या सहाभेदाध्यवसानादयमुपालम्भः । अत एवातिशयोक्तिरलङ्कारः ॥ 4.77 ॥
अन्वयः–रतेः सहचरः असि इति विश्रुतिः, त्वयि वसति अपि ये कुतः रतिः न ? अथ सम्प्रति वा सङ्गतिः न अस्ति, इयं भवन्तं न अनुमृता किल ॥ 4.77 ॥
रतिवियुक्तमनात्मपरज्ञ ! किं स्वमपि मामिव तापितवानसि ? ॥
कथमतापभृतस्तव सङ्गमादितरथा हृदयं मम दद्यते ? ॥ 4.78 ॥
जीवातु–रतीवियुक्तं स्वमानं परञ्च न जानातीत्यनात्मपरज्ञ सर्वधातुक मार ! मामिव रतिवियुक्तं
स्वमात्मानमपि तापितवानीसमत्युत्प्रेक्षा । कुतः, इतरथा स्वाऽसन्तापने, अतापभृतस्तापरहितस्य तव एङ्कमात् सम्पर्कान्मम हृदयं कथं दह्मते ? तप्तस्पर्शात्तापो नातप्तस्पर्शादित्यर्थः । सन्तापना?दपि, स्वयमतप्तेन त्वया परसन्तापः कियते यथा तच्छीलैस्तप्तमुखैः शिलीमुखैरिति भावः ॥ 4. 78 ॥
अन्वयः–अनातृमपरज्ञ, त्वं रतिवियुक्तं स्वम् अपि माम् इव किं तापितवान् असि, इतरथा आपभृतः तव सङ्गमात् मम हृदयं कथं दह्मते ? ॥ 4.78 ॥
अनुममार न मार ! कथं नु सा रतिरिति प्रथितापि पतिव्रता ॥
इयदनाथवधूवधातकी दयितयापि तयासि किमुज्झितः ? ॥ 4.79 ॥
जीवातु–अनुममारेति । हे मार मारक ! पतिव्रतेति प्रथितापि सा रतिः कथं नानुममार कथं नानुमृता? ‘मृते भ्रियेत या नारी सा स्त्री ज्ञेया पतिव्रता’इत्यनुस्मरणादिति भावः । अथवा, इयदिभरेतावदिभरसंख्यैरित्यर्थः । अनाथवधूनां वियोगिस्त्रीणां, वधैः पातकी त्वं तया दयितयापि विरहमसहमानयापीति भावः । उज्झितः त्याक्तोऽसि किमित्युत्प्रेक्षा । ‘आशुद्धेः संप्रतरक्ष्यो हि महा पातकदूषित’ इति स्मरणादिति भावः ॥ 4.79 ॥
अन्वयः–मार, पतिव्रता इति प्रथिता अपि सा रतिः कथं न अनुममार, इयददनाथधवधपातकी दयितया अपि तया किम् उज्झि तः असि ? ॥ 4.79 ॥
सुगत एव विजित्य जितेन्द्रियस्त्वदरुकीर्तितनुं यदनासयत् ॥
तव तनूमवशिष्ज्ञ्टवतीं ततः समिति भूतमयीमहरद्धरः ॥ 4.80 ॥
जीवातु–सुगत इति । जितोन्द्रियो वशी सुगतो बुद्ध एव विजित्य, तव उरु’महती कीर्ति एव तनुं शरीरं, यद्यस्मादनाशयत् नाशितवान् । ततः कारणादवशिष्टवतीमवशिष्टां भूतमर्यी पाञ्चभौतिकीं तव तनुं समिति युद्धे हरः शभ्भुरहरत् भस्मीचकारेत्यर्थः । तथापि निर्लज्जः कथमित्थमस्माटृशानकरुणं व्यथयसीति विस्मिताः स्म इति भावः ॥ 4.80 ॥
अन्वयः–यत् जितेन्द्रियः सुगतः एव विजित्य त्वदुरुकीर्तिततनुं अनाशयत्, ततः अवशिष्टमयीं भूतमयीं तव तनुं समिति हरः अहरत् ॥ 4.80 ॥
फलमलभ्यत यत्कुसुमैस्त्वया विषमनेत्रमनङ्ग ! निगृह्णता ॥
अहह नीतिरवाप्तभया ततो न कुसुमैरपि विग्रहमिच्छति ॥ 4.81 ॥
जीवातु–फलमिति । हे अनङ्ग ! विषमनेत्र्यक्षं, कुसुर्मर्निगृह्णता निरुन्धता प्रहरतेत्यर्थः । त्वया यत्फलं मरणरूपमलभ्यत । ततस्तस्मात् फलादवाप्तभया प्राप्तभया नीतिः, सर्वथा साधनान्तरेणापि वैननिर्यातनं कार्यमित्येवरूपः ( कर्त्री ), कुसुमैरपि विग्रहं नेच्छति । अहहेत्सयद्भुते । किमुत साधनान्तरैः ‘पुष्पैरपि न योद्धव्यं किं पुनर्तिशितैः शरै’रिति नीत्या कुसुमान्यपि मोक्तुं विभेषीति भावः ॥ 4.81 ॥
अन्वयः–अनङ्ग, विषमनेत्रं कुसुमैः निगृह्णता त्वया यत् फलम् अलभ्यतइअहह ततः अवाप्तभया नीतिः कुसुमैः अपि विग्रहं न इच्छति ! ॥ 4.81 ॥
अपि धयन्नितरामरवत्सुधां त्रिनयात्कथमपिथ तां दशाम् ? ॥
भण रतेरधरस्य रसादरादमृतमात्तधृणः खलु नापिबः ? ॥ 4.82 ॥
जीवातु–अपीति । हे स्मर ! इतरामरवद् देवतान्तरवत्, सुधां धयन् पिबन्नपि, घेटः प्रतृययः । त्रिनयनादीश्वरात्, कथं तां दर्शा मरणा वस्थाम्, आपिथ प्राप्तोऽभूः ? आप्नोतेर्लिटि थलि क्रयादिनियमादिडागमः । भण वद । अथवा, रतेर्देव्याः, अधरस्योष्ठस्य, रसे स्वादे, आदरादास्थावशात् नापिबः खलु । बमृतपाने कथमन्येष्वमरेषु त्वमेको मृत इति भावः ॥ 4.82 ॥
अन्वयः–इतरामरवत् सुधां धयन् अपि त्रिनयनात् कथं तां दशाम् आपिथ ? भण, रतेः अधरस्य रसादरात् आत्तधृणः अमृतं न अपिबः खलु ? ॥ 4.82 ॥
भुवनमोहनजेन किमेनसा तव परेत ! बभूव पिशाचता ? ॥
यदधुना विरहाधिमलीमसामभिभवन् भ्रमसि स्मर ! मद्विधात् ॥ 4.83 ॥
जीवातु–भुवनेति । परेत प्रेत ! तव भुवनानां मोहनमचेतनीकरणं तज्जेनैसा पापेन पिशाचता बभूव किम् ? कुतः स्मर ! यद्यस्मादधुना विरहाधिना वियोगव्यथया मलीमसां मलिनां, मद्विधां माटृशीमबलामभिभवन् पीडयन् भ्रमसि । पापिष्ठाः किल पिशाचतां, गताःदुर्बलत्रीबालादीन् पीडयन्ति, त्वञ्च ताटृक्कोऽपि पिशाच इतृयुत्प्रेक्षा ॥ 4.83 ॥
अन्वयः–परेत, स्मर, किं तव भुवनमोहनजेन एनसा पिशाचता बभुव, यत् बधुना विरहाधिमलीमसां मद्विधाम् अभिभवन् भ्रमसि ? ॥ 4.83 ॥
बत ददासि न मृत्युमपि स्मर ! स्खलति ते कृपया न धनुः करात् ॥
अथ मृतोऽसि ! मृतेन च मुच्यते न किल मुष्टिरुरीकृतबन्धनः ॥ 4.84 ॥
जीवातु–वतेति । हे स्मर ! मृत्युमपि न ददासिय । तेन दुःखान्तो भवेदिति भावः । अथवा कृपया ते कराद्धनुरपि न स्खलति न भुश्यति । पूर्व वदभावः अथ मृतोऽसि । तथापि न स्खलतीत्याह–मृतेन च मृतेनापि, उरीकृतबन्धनः अङ्गीकृतबन्धनः टृढबद्ध इत्यर्थः । ‘उर्यङ्ग्य् युररीभ्यश्च करोति कुरुते परः’ इति भट्टमल्लः । मुष्टिर्न मुच्यते खलु । बतेति खेदे । ततः कृतान्तादपि कूरोऽसीति भावः ॥ 4.84 ॥
अन्वयः–स्मर, बत मृत्युम् अपि न ददासि; कृपया ते करात्, धनुः अपि न स्खलति, अथ मृतः असि, मृमतेन च उरीकृतबन्धनः मुष्टिः न मुच्यते किल ॥ 4.84 ॥
दृगपहत्यपमृत्युविरूपताः शमयते परजिर्जरसेविता ॥
अतिशयान्ध्यवपुःक्षतिपाणडुताः स्मर ! भवन्ति भवन्तमुपासितः ॥ 4.85 ॥
जीवातु–टृगिति । हे स्मर ! परनिर्जरसेविता त्वत्तोऽन्यदेवतासेवको जनः तृच् । टृशो रूप हतिः आन्धृरूम्, अपमृत्युरकालमरणं, विरूपता अङ्गवैवर्ण्यञ्च, शमयते निवर्तयति । ‘णिचश्च’ इत्यात्मनेपदम् । मित्त्वाद्ध्रस्वत्वम् । भवन्तमुपासितुः त्वत्सेविनो जनस्य तु । ताच्छील्ये तृन् । ‘न लोक’-इत्यादिना षष्ठीप्रतिषेधः । अतिशयेनान्ध्यं दृष्ट्यु पधातः, वपुःक्षतिःशरीविपत्तिः पाण्डुता वैवर्ण्यञ्च, ता भवन्तीति देवतान्तरभक्तस्य उक्तदोषशान्तिः फलं, त्वदभक्तस्य तदुद्रेक इत्यहो भक्तवात्सल्यं कामदेवस्येत्युपहासः । अत्रानर्थोत्पत्तिलक्षणो विषमालङ्कारभेदः ॥ 4.85 ॥
अन्वयः–स्मर, परजिर्जरसेविता टृगुपहत्यपमृत्युविरूपताः शमयते, भवन्तम् उपासितुः अतिशयान्ध्यवनपुःक्षतिपाहुताः भवन्ति ॥ 4.85 ॥
स्मर ! नृशंसतमस्त्वमतो विधिःसुमनसःकृतवान् भवदायुधम् ॥
यदि धनुः दृढमाशुगमायसं तव सूजेत् प्रलयं त्रि?जगद् व्रजेत् ॥ 4.86 ॥
जीवातु–स्मरेति । स्मर ! नॄन् शंसति हिनस्तीति नृशंसो धातुकः, ‘शंस हिसायाम्’ इति धातोः पचाद्यच् । त्वमतिनृशंसतमः अतो ( हेतोः ) विधिः स्त्रष्टाः सुमनसः पुष्पाणि, भवतः आयुधं कृतवान् । तव टृढं धनुरायतमयोमयम् आशुगं शरञ्च मृजेद्यदि । त्रयाणां जगतां सामाहारस्त्रिजगत् ( कर्तृ ), प्रलयं विनाशं व्रजेत् । तव पापिष्ठता टृष्ट्षा परमेष्ठिना सम्यगनुष्ठितमिति भावः ॥ 4.86 ॥
अन्वयः–स्मर, त्वं नृशंसतमः अतः विधिः सुमनसः भवदायुधं कृतवान्, यदि तव धनुः टृढम् आशुगं च गायसं सृजेत् त्रिजगत् प्रलयं व्रजेत् ॥ 4.86 ॥
स्मररिपोरिव रोपशिखी पुरां दहतु ते जगतामपि मा त्रयम् ॥
इति विधिस्त्वदिषून् कुसुमानि किं मधुभिरन्तरसिञ्चदनिर्वृतः ॥ 4.87 ॥
जीवातु–स्मरेति । स्मररिपोस्त्वदरेर्हरस्य रोपशिखी बाणाग्निः ‘पत्री रोप इषुर्द्वयोः’ इत्यमरः । पुरां त्रयामिव ते तव रोपशिखी जगतां त्रयं मा दहत्विति मत्वेति शेषः । गम्यमानार्थत्वादप्रयोगः । विधिः स्रष्टाः, अनिर्वृतस्त्वां कुसुमेषुं कृत्वाप्यपरितुष्टः सन्, त्वदिषून् कुसुमानि मधुभिर्मकरन्दैः, अन्तरसिञ्चत् भावः
॥ 4.87 ॥
अन्वयः–स्ममररिपोः रोपशिखी पुराम् इव ते जगतां त्रयम् अपि मा दहुतु–इति अनिर्वृतः विधिः त्वदिषून् कुसुमानि मधुभिः किम् अन्तः असिञचत् ? ॥ 4.87 ॥
विधिरनङ्गमेद्यमवेक्ष्य ते जनमनः खलु लक्ष्यमकल्पयत् ॥
अपि स वज्रमदास्यत चेत्तदा त्वदिषुभिर्व्यदलिष्यदसावपि ॥ 4.88 ॥
जीवातु–विधिरित । विधिर्ब्रह्मा अनुङ्गमनवयवम् । ‘अङ्गं प्रतीकोऽवयवः’ ते तव, लक्ष्यमकल्पयदित्युत्प्रेक्षा । सावयवलक्ष्यदानपक्षे स विधिर्वज्रमदास्यत् चेद्दद्याद्यदि, तदा त्वदिषुभिरसौ वज्रोऽपि व्यलिष्यद्विशीर्णो भवेत् । अतो युक्तकारी स्त्रष्टेति भावः ॥ 4.88 ॥
अन्वयः–विधिः अनङ्गम् अभेद्यम् अवेक्ष्य जनमनः ते लक्ष्यम् अकल्पयत् खुलु, सः वज्रम् आदास्यत चेत् तदा त्वदिषुभिः अ?सौ अपि व्यदलिनष्यत् ॥ 4.88 ॥
अपि विधिः कुसुमानि तवाशुगान् स्मर ! विधाय न निर्वृतिमाप्तवान् ॥
अदित पञ्च हि ते स नियम्य ताम् तदपि तैर्बत जर्जरितं जगत् ॥ 4.89 ॥
जीवातु–अपीति । हे स्मर 1 विधिः कुसुमान्येव तवाशुगान्विधायापि, निर्वृर्ति कृतकृत्योऽस्मीति परितोषं नाप्तवानित्युत्प्रेत्प्रेक्षा । कुतः, हि यस्मात् सो1़निर्वृ तो विधिस्तान् कुसुमान्याशुगानपि,निर्वृति कृतकृत्योऽस्मीति परितोषं नाप्तवानित्युत्प्रेक्षा । कुतः, हि यस्मात् सोऽनिर्वृ तो विधिस्तान् कुसुमकान्याशुगानपि, नियम्य इत्यन्त एवेति नियमं कृत्वा । ते तव, पञ्चैवादित दत्तवान् तदपि तथापि तैः पञ्चभिरेव जगत् जर्जरितं जर्जरीकृतम् । बतेति खेदे । विध्वनियन्ताप्येवं विफलयत्नः, कोऽन्योऽस्ति नियन्तेति भावः ॥ 4.89 ॥
अन्वयः–स्मर, विधिः कुसुमानि तव आशुगान् विधाय अति निर्वृति न आप्तवान्, हि सः तान् नियम्य पञ्च एव ते जदित, बत, तदपि तैःजगत् जर्जरितिम् ॥ 4.89 ॥
उपहरन्ति न कस्य सुपर्वणः सूमनसःकति पञ्च सुरद्रुमाः ? ॥
तव तु हीनतया पृथगेकिकां धिगियतापि न तेऽङ्गविदारणम् ॥ 4.90 ॥
जीवातु–उपहरन्तीति । स्मर ! पञ्च सुरद्रुमाः मन्दारादयः कस्यसुपर्वणः कति सुमनसः कियन्ति कुसुमानि, नोपहरन्ति नोपायनीकुर्वन्ति ? सर्वस्याप्यमितमुपहरन्तीत्यर्थंः । ‘उपायनमुपग्राह्ममुपहारस्तथोपदा’ इत्यमरः । तव तु हीनतया नीचतया पृथक् प्रत्येकमेकिकामेकाकिनीमेकैकां सुमनोव्यक्तिमुपहरन्तीत्यर्थः । अत एव पञ्यबाणत्वं तवेति भावः । ‘एकावदवमनेनापि ते तवाङ्ग विदारणं शरीरविपत्तिर्नास्ति । धिक् । अवमतस्य जीवनान्मरणमेव वरमिति भावः ॥ 4.90 ॥
अन्वय–पञ्च सुरदुमाः कस्य सुपर्वणः कति सुमनसः न उपवहरन्ति तव तु हीनतया पृथक् एकिकाम्, इत्यता अति ते अङ्कविदारणम् न ! धिक् ! ॥ 4.90 ॥
कुमुममप्यतिदुर्नयकारि ते किम् वितीर्य धनुर्विधिरग्रहीत् ॥
किमकृतैष यदेकतदास्पदे द्वयमभूदधुनापि नलभ्रु वोः ॥ 4.91 ॥
जीवातु–कुसममिति । विधिः कुसुममपि दुर्बलमपीत्यर्थः । अतिदुर्नकारिअनर्थर्थकारकं घनुस्ते तव वितीर्य दत्वा, अग्रहीत् किमु पुनर्जहार किमित्युत्प्रे क्षा । पापीयसे दत्तं हन्तव्यमेवेति भावः । किंत्वेष विधिः, किमकृतम् अकार्यमेव कृतानित्यर्थः । कुतः, यद्यस्मादेकस्य तस्यस धनुष आस्पदे स्थाने, अधुना नलभ्रुवोर्द्वयमभूद्धि । तेनैव धनुषा नलभ्रुवौ द्वे निर्मितवता तेन कण्टकमुद्धृत्यशल्यमारोपितं यदेकासहिष्णोर्द्वयमसह्मं सम्पादितमिति भावः ॥ 4.91 ॥
अन्वयः–विधिः कुसुमम् अपि अतिदुर्नयकारि धनुः ते वितीर्य अग्रहीत् किमु, किन्तु एषः किम् अकृत, यत् एकतदास्पदे अधुना नलभ्रुवोः द्वयम् अभूत् ॥ 4.91 ॥
षडृतवः कृपया स्वकमेककं कुसुममक्रमनन्दितनन्दना ॥
ददाति षङ् भवते कुरुते भवान् धनुरिवैकमिषूनिव पञ्च तैः ॥ 4.92 ॥
जीवातु–षडिति । अक्रमेण यौगपद्येन, नन्दितनन्दनाः प्रकाशितसुरोद्यानाः, युगपन्निजकुसुमदानसमर्था इत्यर्थः । षडृतवो वसन्तादयः, कृपया, न तु प्रतीत्येति भावः । स्वकं स्वसम्बन्धिनम् ( न्धि ) एककमेकैकमेव असहाये कन्प्रतृययः । कुसुमं ददाना इति शेषः । तथा चोक्तरीत्या, प्रत्येकमेकैकदानान्मिलित्वा, षङ्, भवते
तुभ्यं ददाति । तैः षङ्भिः कुसुमैरेकं धनुरिव, एकेनेति शेषः । पञ्चेषूनिव, पञ्चभिरिति शेषः । भवान् कुरुते । अहो ! अवमानेऽपि निर्लज्जस्य ते परर्हिसाव्यसनमिति भावः ॥ 4.92 ॥
अन्वयः–अक्रमनन्दितनन्दनाः षद् ऋतवः कृपया स्वकम् एककं कुसुमं भवते ददाति, तैः एकं धनु इव पञ्च इषून् इव भावान् कुरुते ॥ 4.82 ॥
यदतनुस्त्वमिदं जगते हितं क्व स मुन्स्तिव यः सहते क्षतीः ॥
विशि?खमाश्रवणं परिपूर्य चेदविचलद्भुजमुज्झितुमीशिषे ॥ 4.93 ॥
जीवातु–यदिति । हे मार ! त्वमतनुरीरीति यत्तदिदमतनुत्वं जगते हितं ‘हितयोगे च’ इति मार ! त्वमतनुरशरीति यत्तदिदमतनुत्वं जगते हितं ‘हितयोगे च’ इति चतुर्थी वक्तव्या । तथा हि, विधिखं बाणमविचलद्भुजमकम्पहस्तं यथा तथा आश्रवणं परिपूर्याकर्णमाकृष्य उज्झितुं भोक्तुमीतिशषे शक्नोषि चेद्यस्तव क्षतीः प्रहारान् सहते, स मुनिः क्व, न क्वापीत्यर्थः । अनङ्‌गत्वेऽप्येवं जगद्द्रोहिणस्तव घातुष्कान्तरवत् कायव्यापारे जगति जि?तेन्द्रिय कथैवास्तमियादित्यन ङ्गत्वमेव जगद्धितमित्यर्थः ॥ 4.93 ॥
अ?न्वयः–यत् त्वम् अतनंः इदं जगते हितम्ः विशिखम् अविचलद् भुजम् आश्रवणं परिपूर्य उज्झितुम् ईशिषे चेत् यः तब क्षतोः सहते सः मुनिः क्व ? ॥ 4.93 ॥
सह तया स्मर ! भस्म झटित्यथूः पशुपर्ति प्रति यामिषुमग्रहीः ॥
ध्रुवमभूदघुना वितनोः शरस्तव पिकस्वर एव स पञ्यमः ॥ 4.94 ॥
जीवातु–सहेति । हे स्मर ! पशपुतिं प्रति यामिषुमग्रहीस्तया सह झटिति सहसा भस्माभूः । अधुना वितनोरनङ्गस्य तव पिकस्वरः कोकिलालाप एव, सः दग्धः पञ्चमः, पिकस्वरे पञ्चमसंज्ञाप्रवृत्तिश्चेति भावः । ‘पञ्चमो रागभेदे स्यात् पञ्चानामपि पूरण’ इति विश्वः ! शरकार्यकारित्वात् पिक स्वरस्या शरत्वोत्प्रेक्षा
॥ 4.94 ॥
अन्वयः–स्मर, पशुपर्ति प्रति याम् इषुम् अग्रहीः तथा सह झटिति भस्म अभूः, अधुना वितनोः तव ध्रुवं पिकस्वरः एव सः पञ्चमः अभूत् ॥ 4.94 ॥
स्मर ! समं दूरतरुलोकृतो भगवतोऽपि भवद्दहनश्रमः ॥
सुरहिताय हुतात्मतनुः पुनर्ननु जनुर्दिवि तत्क्षणमापिथ ॥ 4.95 ॥
जीवातु–स्मरेति । हे स्मर ! भगवतो ह?रस्यापि, दुरितैः समं भवत्यापैःसह भगवद्टृष्टिपातस्या पापहरत्वादिति भावः । भवद्दहनश्रमोऽफलीकृतो निष्फलीकृतः, सुरहिताय हुतात्मतनुर्हरकोपानले त्यक्तस्वदेहः सन्, तत्क्षणं तस्मिन्नेव क्षणे अतृयन्तसंयोगे द्वितीया । दिवि द्युलोके, पुनर्जनुः पुनरुत्पत्तिमापिथ ननु प्राप्नोषि खलु । सुरप्रार्थितात्तास्मादेवेति शेषः । तच्चास्मत्पाफलमिति भावः ॥ 4.15 ॥
अन्वय–स्मर, भगवतः अपि भवद्दहनश्रमः दुरितैः समम् अफलीकृतः ननु सुरहिताया हुतात्मतनुः तत्क्षणं दिवि पुनः जनुः आपिथ ॥ 4.15 ॥
विरहिणो विमुखस्य विधुदये शमनदिक्यवनः स न दक्षिणः ॥
सूमनसो नमयन्नटनौ धूनस्तव तु बाहुरसौ यदि दक्षिणाः ॥ 4.16 ॥
तीपरतु–विरहिण इति । हे शूर ! तवासौ बाहुयांदि विधूदये चन्द्रोदये सहायलाभे सतीत्यर्थः सुमनसः पुष्पं नाम धपनुः, अटतौ बाहुयंदि विधुदये चन्द्रोदये सहायलाभे सतीत्यर्थः सुमनसः पुष्पं नाम धनुः, अटतौ कोटो । ‘कोटिरिस्याटनिर्गोधा’ इत्यमरः । नमयन् दक्षिणो विरहिजनप्रहारदक्षः स्यात्, प्रहर्तुं प्रवृत्तश्चेदित्यर्थः । ‘सव्येतरश्च’ इति ध्वनिः । तदा विमुखस्य विक्वलमुखस्यचन्द्रोदयपराङ्मुखस्य विरहिणो वियोगिजनस्य स दक्षिणत्वेन प्रसिद्धः शमनदिक्पवनो याम्यादिङ्मारुतः, दक्षिणो दाक्षिण्यवान् सव्येतरश्च न । किन्तु सोऽपि त्वत्सहकारित्वान्निर्दयप्रहतैवेत्यर्थः । अतः सर्वानर्थमलत्वात् त्वेमेव पापिषु इत्यर्थः । प्रत्यङ्मुखस्य दक्षिणोऽपि वाम इति व्वनिः । शमनदिक्पवनोऽपि न दक्षिण इति स्फुरण द्विरोधाभासोऽलङ्कासः ॥ 4.96 ॥
अन्वयः–विधुदये सुमनसः धनुः, अटयन् तव असौ बाहुः, यदि दक्षिणः, विमुखस्य विरहिण, स शमनदिक्पवनः दक्षिणः न ॥ 4.96 ॥
किमु भवन्तमुमापतिरेककं मदमुदान्धमयोगिजनान्तकम् ॥
यदजयत्तत एव न गीयते स भगवान् मदनान्धकमृत्युजित् ॥ 4.97 ॥
जीवातु–किम्बिति । हे मदन ! उमापतिः मदश्च मुच्च द्वन्द्वैकवदभावः । तेन मदमुदाभ्यां मदानन्दाभ्याम् अन्धयति व्यामोहयति काभिजनमित्यधम् अन्धकम् । ‘अन्धटृष्टप्रतीघाते’ इति धातोश्चौरादिकात् पचाद्यच् । अयोगिजनान्तकं वियोगिजनमृत्युम्, एककमेकानिं, भवन्तमेव अज्यदिति । तत एव स भगवान् उमपातिः । मदनान्धकमृत्युजित् मदनजिदन्धकजिन्मृत्युजिदिति गीयते किमु गीयत एवेत्यर्थः । मदनवदन्धकम्त्यू अपि त्वात्तोऽन्यौ न स्त इति भावः । अत्र मदनादीनां मिथो भेदेप्यभेदोक्तेरतिशयोक्तिः
॥ 4.97 ॥
अन्वयः–उमापतिः मदमुदान्धम् अयोगिजनान्तकम् एककं भवन्तम् एव यत् अलयत्, किमु ततः एव स भगवान् मदनान्धकमृत्युजित् न गीयते ? ॥ 4.97 ॥
त्वमिव कोऽपि परापकृतौ कृती न ददृशे न च मन्मथ ! शुश्रुवे ॥
स्वमदहद्हलाज्जवलतात्मना ज्वलयितुं परिरभ्य जगन्ति यः ॥ 4.98 ॥
जीवातु–स्वमिति । हे मन्मथ ! त्वमिव परापकृतौ परापकारे कृती कुशलः कोऽपि न दटृशे न टृष्टः, न शुश्रुवे न च श्रुतः, यः अपकर्ता दहनादग्निसंयोगात्, ज्वलता प्रज्वलता आत्मना स्वाङ्गेन जगन्ति परिरभ्याश्लिष्य ज्वलयितुं दग्धुं, स्वमात्मानमदहत् परिरभ्य परगात्रदूषणाय स्वगात्रे पङ्कलेपवत्, परदाहव्यसनादेवात्मदाहाङ्गीकारस्तवेत्यहो दुर्व्यसनमिति भावः ॥ 4.98 ॥
अन्वयः–मन्मथ, त्वम् इव परापकृतौ कृती कः अपि न दटृशे न च शुश्रुवे यः दहनात् जृवलता आत्मना जगन्ति परिरभ्य जृपलयितुं स्वम् अदहत् ॥ 4.98 ॥
त्वमुचित नयनार्चिषि शम्भाुना भुनवनशान्तिकहोमहविः कृतः ॥
तव व्यस्यमपास्य मधुं मधुं हतवता ?हरिणा बत किं कृतम् ? ॥ 4.99 ॥
जीवातु–त्वमिति । हे वीर ! शम्भुना नयनार्चिषि नेत्राग्निशिखायां त्वं भुवनानां शन्तिके शान्तिप्रयोजके । ‘प्रयोजनम्’ इति ठक् । होमहविरहुतिः उचितं वध्यस्य वधादिति भावः । तव वयस्यं सखायं, मधुं वसन्तम् अपास्यो पेक्ष्य मधुं मध्वाखं, दैत्यं हतवता हरिणा किं कृतम् ? बतेति खेदे । वध्यव धाद्धरः साधुकारी । हरिस्तदुपेक्षणादसाधुकारीत्यर्थः । समित्रः स्मरो वध्य इति भावः ॥ 4.99 ॥
अन्वयः–त्वम् शम्भुना नयनार्चिषि नेत्राग्निशिखायां त्वं भुवनानां शान्तिके शान्तिप्रयोजके । ‘प्रयोजनम्’ इति ठक् । होमहविरहूतिः उचितं मधुं मध्वाख्यं, दैत्यं हतवता ?हरिणा किं कृतम् ? बतेति खेदे । वध्य इति भावः ॥ 4.99 ॥
अन्वयःत्वम् शम्भुना नयनार्चिषि उचितं भुवनशन्तिकहोमहविः कृतः, तव वयस्यं मधुम् अपास्य मधुं हतवता हरिणा किं कृतम् ? ॥ 4.99 ॥
इति कियद्वचसैव भृशं प्रियाधरपिपासु तदाननमाशु तत् ॥
अजनि पांसुलपप्रियवाग्जवलन्मदनशोषबाणहतेरिव ॥ 4.100 ॥
जीवातु–हतीति । प्रियस्य नलस्याधरमोष्ठं पिपासु पातुमिच्छु मधुपिपासुप्रभृतीनां गम्यादिपाठात् समास’ अप्रियवाग्भिर्निष्ठुरोक्तिभिः, ज्वलतः ऋक्ष्यतो मदनस्य यः शोषणबाणः तस्य हतेः प्रहारादिवेति हेतूत्प्रेक्षा । आशु भृशं, पांसुलं पांसुमद् अजनि जातम् ॥ 4.100 ॥
अन्वयः–प्रियाधरपिपासु तत् तदाननम् इति कियद्वचसा एव अप्रियवाग् ज्लन्मदनेशोषणबाणहतेः इव आशु पांसुलम् अजनि ॥ 4.100 ॥
प्रियसखीनिवहेन सहाथ सा वृरूरचयद्गिरमर्धसमस्यया ॥
हृदयमर्माणि मन्मथसायकैः क्षततमा बहु भाषितुमक्षमा ॥ 4.101 ॥
जीवातु–प्रियसखीति । अथ सा दमयन्ती, मन्मथसायकैः हृदयमर्मणि क्षततमा गाढं प्रहृता । अत एव बहु भाषितुं प्रपञ्चय वक्तुमक्षमा सती, प्रिय सखीनिवहेन सह आप्तसखीसङ्धेन सार्धम्, अर्द्धरूपया समस्यया
संग्रहकारिकया । ‘समस्या तु समासार्था’ इत्यमरः । ‘संज्ञायां समजनिषदे’त्यत्र संपूर्वादस्यतेर्बाहुलहः क्यङ् इति क्षीरस्वामी । गिरं व्यरयत् । पूर्वार्धं सखीजनसमस्या, तदुत्तरत्वेनोत्तरार्धं स्वयमरचयदित्यर्थः ॥ 4.101॥
अन्वयः– अथ मन्मथसायकैः हृदयमर्मणि क्षततमा बहु भाषितुम् अक्षमा सा प्रियसखीनिवहेन सह अर्धसमस्यया गिरं व्यरचयत् ॥ 4.101 ॥
अकरुणादव सूनशरादसून् सहजयाऽऽपदि धीरतयाऽऽत्मनः ॥
असव एव भमाद्य विरोधिनः कथमरीन् सखि ! रक्षितुमात्थ माम् ॥ 4.102 ॥
जीवातु–अकरुणादिति । हे भैमि ! आपदि सहजया धीरतया धैर्येण । ‘विपदि धेर्यमि’ति नीतेरिति भावः । अकरुणान्निर्दयाद् सूनशरात् कुसुमेषोः, आत्ननः स्वस्यासून् प्राणान् अव रक्ष । अद्येदानीमसव एव मम विरोधिनः शत्रवः । तन्मूलत्वातृ दुःखं सवेदनस्येति भावः । हे सखि ! मां कथमरीन् रक्षितुमात्थ ब्रवीषि ? ‘ब्रुवः पञ्यानाम्’ इति साधुः । साधुः । सम्प्रति मे प्राणरक्षणमाशीविषपोषणं पयोभिरिति भावः ॥ 4.102 ॥
अन्वयः–अकरुणात् सूनशरात् सहजया धीरतया आपदि आत्मनः असून् अव । ?सखि, अद्य असवः एव मम विरोधिनः, माम् अरीन् रक्षितुं कथम् आत्य ॥ 4.102 ॥
हितगिरं न शृणोषि किमाश्रपवे ! प्रसभमप्यव जीवितमात्मनः ॥
सखि ! हिता यदि मे भवसीदृशी मदरिमिच्छसि या मम जीवितम् ॥ 4.103 ॥
जीवातु–हितगिरमिति । आशृणोति वाक्यमिति आश्रवा । पचाद्यच् । हे आश्रवे ! वाक्यकारितिण ! ‘वचने स्थित आश्रव’ इत्यमरः । प्रसभं बलादप्यात्मनो जीवितं प्राणमव रक्ष । ‘एति जीवन्तमानन्दो नरं वर्षशतादपि’इति न्यायादिति भावः । हितगिरमाप्तवाक्यं कि न शृणोषि ? । हे सखि ! या त्वं मदरिं मम जीवितमिच्छस्यपेक्षसे । इटृशीत्थंः ॥ 4.103 ॥
अन्वयः–आश्रवे, हितगिरं किं न शृणोषि ? प्रसभम् अपि आत्मनः वीवितम् अव । सखि, यदि या मदरिं मम जीवितम् इतच्छसि, र्हटृशी मे हिता भवसि ? ॥ 4.104 ॥
अमृतदीधितिरेष विदर्भजे ! भजसि तापममुष्य किमंशुभिः ? ॥
यदि भवन्ति मृताः सखि ! चन्द्रिकाः शशभृतः क्व तदा? परितप्यते ॥ 4.105 ॥
जीवातु-भमृतदीधितिरिति 1 हे विदर्भजे दमयन्ति ! उष इति पुरोवर्तिनो हस्तेन निर्देशः । अमृतदीधितिः सुधांशुः । अमुष्य सधांशोरशुभिः किमिति तापं भजसि ? अत्रामृतशब्दस्यार्थान्तराश्रयेणोत्तरमाह-यदीति । हे-सखि ! शशभृतश्चन्द्रिकाः मृताः भवन्ति यदि, तदा क्व परितप्यते ? न क्वापीत्यर्थः । अस्यामृतदीधितित्वादेवेदं दुःखं, मृतदीधितिश्रेत् सर्वारिष्टशान्तिः स्यादिति भावः । अत्र अमृतेति सुधाविवक्षया प्रत्युक्तस्य मृतेतरार्थत्वेन योजनाद्वक्रोक्तिरलङ्कारः ।‘अन्यथोक्तस्य वाक्यस्य काक्वा श्लेषेण वा भवेत् । अन्यथा योजनं यत्र सा वक्तोक्तिर्निगद्यते ॥’ इति ॥ 4.104 ॥
अनवयः–विदर्भजे, एषः अमृतदीधितिः, किम् अमुष्य अंशुभिः तापं भजसि ? सखि, यदि शशभृतः चन्द्रिकाः मृताः भवन्ति तदा क्व परितप्यते ? ॥ 4.104 ॥
व्रज धृति त्यज भोतिमहेतुकामयमचण्डमरीचिरुदञ्चति ॥
ज्वलयति स्फुटमातपर्म्मुरैरनुभवं वचसा सखि । लुम्पसि ॥ 4.105 ॥
जीवातु–व्रजेति । ( हे मुग्धे ! ), धृर्ति व्रज धैर्य भज । अहेतुकां भीति त्यज । अयमचण्डमरीचिः शीतांशुरुदञ्चत्युदेति, न चण्डांशुरित्यर्थः । आतपैरेव मुर्मुरेस्तुषानलैः । ‘मुर्मुरन्तु तुषानल’ इति वैजयन्ती । स्फुटं प्रत्यद्वक्षं यथा तथा, ज्वलयति दहति । हे सखि ! अनुभवं प्रत्यक्षं वचसा आगमेन लुम्पसि वाधसे । तदयुक्तं प्रावप्लवनवाक्यवत्, प्रतृयक्षेणैवास्य बाधादित्यर्थः । अत्राचण्डकरे चण्डकर भ्रान्तत्या भ्रान्तिमदलङृकारः ॥ 4.105 ॥
अन्वयः–धृर्ति व्रज, अहेतुकां भीर्ति त्यज, अयम् अचण्डमरीचिः उदञ्चति । सखि, आपमुर्सरैः स्फटं ज्वलयति, अनुभवं वचसा लुम्पसि ? ॥ 4.105 ॥

अतिय ! शपे हृदयाय तवैव यद्यदि विधोर्न रुचेरसि गोचरः ॥
रुचिफलं सखि ! दृश्यत एव यज्जवलयति त्वचमुल्ललयत्यसून् ॥ 4.106 ॥
जीवातु–यदुक्तमयममचण्डमरीचिरिति तद्विश्वासयति–अयीति । अयि ( मुग्धे मैमि ! विश्वसिहीति शेषः । विधोश्चन्द्रस्य रुचेस्तेजसो गोचरो विषयो नासि यदि, त्वदङ्गसङ्गीदं तेजश्चान्द्रं न चेदित्यर्थः । तत्तर्हि तवेव हृदयाय शपे । त्वज्जीविताय द्रुह्मामीत्यर्थः । ‘श्लाघह्नु ङ्’ इत्यादिना सम्प्रदानत्वाच्चतुर्थीं । र्हि, सखि ! रुचिफलमेव तेजोमात्रकार्यमेव टृश्यते । न तु चन्द्रकार्यम् । मदभग्यविपर्ययेणाभिभवनिवृत्तेरिति भावः । कुतः, यद्यस्मात्त्वचं ज्वलयति दहति । असून् प्राणान् उल्ललयति उन्मूलयति । सर्व तेजः उष्णत्वाद्दाहकमेव, अभिभवात्तु विपर्यय इति पदार्थतत्त्ववादिनः ॥ 4.106 ॥
अन्वयः–अयि, यदि विधोः रुचेः गोचरः न असि तत् तव एव हृदयाय शेप । ?सखि, रुचिफलं टृश्यते एव यत् त्वचं चलयति असून् उल्ललयति ॥ 4.106 ॥
विधुविरोधितिथेरभिधायिनीमयि ! ?न किं पुनरिच्छसि कोकिलाम् ॥
सखि ! किमर्थगवेषणया ? गिरं किरति सेयमनर्थमयीं मयि ॥ 4.107 ॥
जीवातु–विध्विति । अयि भैमि !विधुविरोधितिथेः कुहृवारूपाया नष्टे न्दुतिथेरभिधायिनीं, तदभिधायककफहूशब्दोच्चारिणीं ‘कुह्वि’ति नामग्रहं तदाह्वायिनीमित्यर्थः । कोकिलां पुनः किं नेच्डसि । मा भूरुच्चन्द्रः तद्विरोधिनीमेनां किं नेच्छसीत्यर्थः ? । हे सखि ! अर्थगवेषणया कुहूशब्दस्य नष्टचन्द्रो तिथिरर्थः इति विचारेण किम् ? तत्साध्यं किमपि नास्तीत्यर्थः । गम्यमानसाधनक्रिया पेक्षयाकरणत्वात्तृतीया । कुतः सेयं कोकिला मयि विषये गवादिशब्दवदभिधे यवती न भवतीतृयर्थमयी, रथघोषादिवदर्थशून्श्यत्वात् । किञ्च, अनर्थम्यी अशनिघोषवदापद्रूपा च, ताम् । अनर्थशब्दान्मयट्प्रत्ययः । गिरं किरति विक्षिपति ॥ 4.107 ॥
अन्वयः–अयि, विधुविरोधतिथेः अभिधायिनीं कोकिलां पुनः किं न इच्छसि ? सखि, अर्थगवेषणया किम् ? सा इयं मयि अनर्थमयीं गिरं किरति ॥ 4.107 ॥

हृदयं एव तवास्मि स वल्लभस्तदयि किं दमयन्ति ! विषीदसि ? ॥
हृदि परं न बहिःखलु वर्तते सखि ! यतस्तत एव विपद्यते ॥ 4.108 ॥
जीवातु–हृदय इति । हे दमयन्ति ! सः ते वल्लभः नलः तव हृदय एवास्ति वर्तते । तदपि तथापि किं विषीदसि खिद्यसे ? हे सखि ! यतो हृदि परं हृद्येव वर्तत बहिर्न वर्तते खलु । तत एव विपद्यते खिद्यते । सदेर्भावे लट् । यतः स्मर्यत एव, न तु टृश्यते, अतो मे विषाद इत्यर्थः ॥ 4.108 ॥
अन्वयः–दमयन्ति सः वल्लभः तव्? हृदये एव अस्ति तदपि किं विषीदसि ? सखि, हृदि परं वर्तते न खलु बहिः ततः एव विपद्यते ॥ 4.108 ॥
स्फुटति हारमणौ मदनोष्मणा हृदयमप्यनलङ्कृतमद्य ते ।
साख ! हतास्मि तदा यदि हृद्यपि प्रियतमः स मम व्यवधापितः ॥ 4.109 ॥
जीवातु–स्फटतीति । हे भैमि ! मदनोष्मणा कामज्वरेण, हारमणौ हृदयालङ्काररत्ने स्फु?टति विदलति सति, अद्य ते तव हृदयं वक्षोऽपि अलंकृतं न भवतीत्यनलङ्कृतम् आपरिष्कृतं जातम् । अथ हृदयमन्तरङ्गमप्यनलं नलरहितं कृतमितृयर्थान्तरं मत्वोतृतरमाह–हे सखि ! स प्रियतमः मम हृद्यपि व्यवधापितो यदि दूरीकृतश्चेत् । दघातेर्ण्यन्तात्कर्मणिक्तः । ‘अर्तिह्री’ इतृयादिना पुगागमः । तदा हतास्मि । वक्रोक्तिरलङ्कारः । लक्षणमुक्तम् ॥ 4.109 ॥
अन्वयः–मदनोष्मणा हारमणौ स्फटति अद्य ते हृदयम् अपि अनलङ्कृटम् । सखि, यदि सः मम प्रियतमः हृदि अपि व्यवधापितः तदा हता अस्मि ॥ 4.109 ॥
इदमुदीर्यं तदैव मुमूर्च्छ सा मनसि मूर्च्छितमन्मथपावका ॥
क्व सहतामवलम्बलवच्छिदामनुपपत्तिमतीमपि दुःखिता ॥ 4.110 ॥
जीवातु–इदमिति । सः भैमी, इदं पूर्वोक्तं ’ सखि ! हतास्मी’ति वाक्यम् उदीय उच्चार्य, तदैव मनसि मूर्च्छितमन्मथपावका प्रवृद्धकामानला सती, मुमूर्च्छ मुमोह ‘मूच्र्छा मोहममुच्छाययोरि’त्यर्थद्वयेऽपि धातोः
स्मरणात् । तथाहि दुखिता सञ्जातदुःखा, दुःखिनी सा । अनुपपत्तितमतीमनलङ्कृतमिति श्लेषशब्दश्रवणजन्यभ्रान्तिविषयत्वादनुपपन्नामनीत्यर्थः । अवलम्बलवस्य हृदयसङ्गतिमात्रलक्षणस्य प्राणाधारलेशस्यापि छिदामुच्छेदकं क्व सहतां, कथं सहेतेत्यर्थः । दुःखोद्विग्लस्य भ्रान्तमभ्रान्तं वानिष्टसवेदनमतिदुःसहमतो युक्तमस्या मूर्च्छन मिति भावः । अर्थान्तरन्यासोऽलङ्कारः ॥ 4.110 ॥
अन्वयः–मनसि मूर्च्छितमन्मथपावका सा इदम् उदीर्य तदा एव मुमूर्च्छ, दुखिता अनुपपत्तिमतीम् अपि अवच्छम्बलवच्छिदां क्व सहताम् ? ॥ 4.110 ॥
अधित कापि मुखे सलिलं सखी प्यधित कापि सरोजदलैः स्तनौ ।
व्यधित कापि हृदि व्यजनानिलं न्यधित कापि हिमं सुतनोस्तनौ ॥ 4.111 ॥
जीवातु–अधितेति । कापि सखी सुतनोर्भेम्या मुखे सलिलम् अधित आहितवतीत्यर्थः । कापि स्तनौ सरोजदलौः प्याश्रित पिहितबती, ‘वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः’ इत्यपेरकारलोपः । कापि हृदिव्यजनानिलं व्यधित विहितवती । तालवृन्तेन वीजयामासेत्यर्थः । कापि तनौ शरीरे हिमं चन्दनम् । ‘चन्दनेऽपि हिमं विदुः’ इति विश्वः । व्यधित निहितवती ॥ 4.111 ॥
अन्वयः–का अपि सखी सुतनो मुखे सलिलम् अधित, का अपि हृदि व्यजनानिलं व्यधित, का ?अपि तनौ हिमम् व्यधित ॥ 4.111 ॥
उपचार चिरं मृदुशीतलैर्जलजजालमृणालजलादिभिः ॥
प्रियसखीनिवहःस तथा क्रमादियमवाप यथा लधु चेतनाम् ॥ 4.112 ॥
जीवातु–उपचचारेति । स प्रियसखीरिवहः मृदुशीतलैर्जलजजालमृणालजलादिभिः जलजजालैः पह्मससूहैः पह्मससूहैः, मृणालैः जलैः । आदिशब्दाद्व्यजनादिसाधनविशेषैः क्रमा?च्चिरं तथोपचचार, यथेयं लधु क्षिप्रं चेतनां संज्ञामवाप ॥ 4.112 ॥
अन्वयः–सः प्रियसखीनिवहः मृदुशीतलैः जलजजालम्णालजलदिभिः कामात् चिरम तथा उपचचार यथा इयं लधुचेतनाम् अवाप ॥ 4.112 ॥
टिप्पणी–विद्याधर के अनुसार अनुप्रास और हो गयी ॥
अथ ‘कले !कलय श्वसिति स्फुटं चलति पक्ष्म चले ! शृणु ॥ 4.113 ॥
रचय वारुमते ! स्तनयोर्वृति गणय केशिनि ! केश्यमसंयतम् ॥
अवगृहाण तरङ्गिणि 1 नेत्रयोर्जलझरावि’ति शुश्रुविरे गिरः ॥ 4.114 ॥
जीवातु–अथ भैभ्याः कलादयः सप्त सख्यस्तासां तद्दशापरीक्षाव्यग्राणां मिथः कलकलं श्लोकद्वयेनाह –अथेति ! स्फुटं व्यक्तं, श्वसिति प्राणिति, कलय आकलय । हे चले ! पक्ष्मनेत्रलोम, चलति चक्षुरुन्मिषतीत्यर्थः । परिभावय’परामृश । हे मेनके ! अघरकम्पनमोष्ठचलनमुन्नय तर्कय । हे कल्पलते ! किमपि जल्पति, शृणु रचयेति । हे चारुमते । स्तनयोर्वृतिमावरणं रचय । हे केशिनि ! असंयतं विस्त्रस्तं कैश्यं केशसमूहं, ‘केशाश्वाभ्यां यञ्छावन्यतरस्याम्’ इति यञ्प्रत्ययः । गणय चिन्तय । बधानेत्यर्थः । हे तरङ्गिणि ! नेत्रयोर्जलझरावश्रु प्रवाहौ, अवगृहाण बधान । अति गिरः शुश्रुविरे श्रुताः ॥ 4.113-114 ॥
अन्वयः–अथा कले, स्फुटं श्वसिति, कलय, चले, पक्ष्म चलति, परिभावय, मेनके, अधरकम्पनम् उन्नय; कल्पलते, कलय, चले, चले, पक्ष्म चलति, परिभावय, मेनके, अधरकम्पनम् उन्नय; कल्पलते, किम् अपि जल्पति, शृणु । चारुमते,स्तनयोः वृतिं रचय केशिनि, असंयतं कैश्यं गणय; तरङ्गिणि, नेत्रयोः जलझरो अवगृहाण–इति गिरः शुश्रुविरे ॥ 4.113-114 ॥
कलकलः स तदालिजनाननादुदलसद्विपुलस्त्वरितेरितः ॥
यमधिगम्य सुतालयमेतवान् द्रु ततरः स विदर्भपुरन्दरः ॥ 4.115 ॥
जीवातु-कलकल इति । तदा तस्मिन् सखीजनव्याकुलकाले, आलिजनाननात् सखीमुखात्त्वरितेरितैः सम्भ्रमोक्तिभिः, विपुलो महान्, सः कलकालः उदलसदुत्थितः । यं कलकलधिगम्याकर्ण्य, स विदर्भपुरन्दरः मीमभूनतिः द्रुततरोऽतित्वरितः । यं कलकलमधिगम्याकर्ण्य, स विदर्भपुरन्दरः मीमभूपतिः द्रुततरोऽतित्वरितः,
सुतालयमेतवान् कन्यान्तपुरं ?प्राप्तवान् ॥ 4.115 ॥
अन्वयः–तदा आलिजनात् त्वरि?तेरितैः सः विपुलः कलकलः उदलत् यम् अधिगम्य सः विदर्भपुरन्दरः द्रुततरः सुतालयम् एतवान् ॥ 4.115 ॥
द्वौ मन्त्रिप्रवरश्च तुल्यमगदङ्कारश्च तामूचतुः ॥
देवाकर्णय सुश्रुतेन चरकस्योक्तेन जानेऽखिलं
स्यादस्या नलदं विना न दलने तापस्य कोऽपि क्षमः ॥ 4.116 ॥
जीवातु–कन्येति । कन्यान्तःपुरस्य बोधनाय योगक्षेमानुसन्धानाय, यदधीकाराद्ययोर्मन्त्रिर्वद्ययोरधीकारान्नियोगात् । ‘उपर्गस्य धञ्यमनुष्ये बहुलम्’ इति दीर्घः । दोषाः परपुरुप्रवेशादयो वातादयश्च, न सन्तीति शेषः । अस्तिर्भवतिपरोऽप्रयुज्यमानोऽप्यस्तीति वाचनात् । तौ मन्त्रिप्रवरश्च ?अगदमरोगं करोतीत्यगदङ्कारो वैद्यञ्च । ‘रोगहार्यगदङ्कारो भिषग्वैद्यश्चिकितृसक’इत्यमरः ।
‘कर्मण्यण्’ ‘कारे सत्यागदस्य’ इति मुमागमः । द्वौ नृपं तुल्यमेकवाक्यमूचतुः । देव राजन् ! आकर्णय सुरुतेन सम्यक्छु तेन, चर एव चकरको गूढचारः, तस्योक्तेन वाक्येन । अन्यत्र सुरुतेन चरकस्योक्तेन चरकाचार्यप्रणीतग्रन्थेन, अखिलं तापनिदानं जाने । अस्यातापस्य दलने निवर्तने, नलं राजनानं ददा?तीति नलद, तत्संघटकं विना । ‘आतोऽनुपसर्गे कः’ इत्यमरः । कोऽपि न क्षमो न स्यात् । ‘शकि लिङ्’ इति शक्यार्थे लिङ् अत्र द्वयोरपि नलदयोः प्रकृतत्वात् केवलप्रकृतश्लेषोऽलङ्कारः ॥ 4.116 ॥
अन्वय–कन्यान्तःपुरबोधनाय यदधीकारात् दोषाः न मन्त्रिपवरः अगदङ्कारश्च द्वौ नृपं तुल्यम् ऊचतुःदेव, आकर्णय, सुश्रुतस्य चरकस्य उक्तेन अखिलं जाने; अस्याः तापस्य दलने नलदं विना कः अपि क्षम न स्यात् ॥ 4.116 ॥
ताभ्यामभूद्युगपदप्यभिधीयमानं भेदव्ययाकृति मिथःप्रतिघातमेव ॥
श्रोत्रे तु तस्य पपतुर्नृ नतेर्न किञ्चिदर्भम्यामनिष्टशतशङ्कितयाकुलस्य ॥ 4.117 ॥
जीवातु–ताभ्यामिति । ताभ्यां मन्त्रिभिषग्भ्यां, भेदव्ययो नामाभेदः स एवाकृतिर्वस्य तद् भेदव्ययाकृति, अभिन्नाकारमेकरूपं यथा तथा, युगपदेकदा, अभिधीयमानं नलदादिवाक्यमिति शेषः । मिथोऽन्योन्यं प्रतिघातो विरोधोयस्य तन्मिथःप्रतिघातं मिथोभिन्नमेवाभूत् । अभिधानयौगपद्यादेकशब्दाच्चाभिन्नार्थैकवाक्यवत् प्रतीयमानमपि तद् भिन्नार्थं वाक्यद्वयमेवासीदित्यर्थः । राज्ञस्तु न तत्र टृष्टिरित्याह-भैम्यां विषये अनिष्टशतशङ्कितया अनिष्टानेक शङ्कावत्त्वेन आकुलस्य विह्वलचित्तस्य, ‘प्रेम पश्यति भयान्यपदेऽपि’ इति
न्यायादिति भावः । तस्य नृपतेः भीमस्य श्रोत्रे तु किञ्चिन्न पपतुः न किञ्चिदर्थं जगृहतुः । व्याकुलान्तःकरणतया तद्वाक्ये नातीव कर्णं दत्तवानित्यर्थंः ॥ 4.117 ॥
अन्वयः–ताभ्यां भेदव्ययाकृति अपि युगपत् अभिधीयमानं मिथःप्रतिघात एव अभूत्, भैग्याम् अनिष्टशङ्कितया आकुलस्य तस्य नृपतेः श्रोत्रे तु किञ्चित् न पपतुः ॥ 4.117 ॥
द्रुतविगमितविप्रयोगचिह्न्रामपि तनयां नृपतिः पदप्रणम्राम् ॥
अकलयदसमाशुगाधिमग्नां झटिति पराशयवेदिनो हि विज्ञः ॥ 4.118 ॥
जीवातु–द्रुतेति । नृपतिः द्रुतविगमितविप्रयोगचिहृनां द्रागपसारितशिशिरोपचारचिह्नामपि, पदे प्रणम्रां पादपतिताम् ‘उपसर्गादसमासेऽपि णोपदेशस्य’ इति णत्वम् । तनयामसमाशुगाधिम्ग्नां मदनव्यथामग्नाम् अकलयन्निश्चिकाय । तथाहि विज्ञाः प्रवीणाः ‘प्रवीणे निपुणाभिज्ञविज्ञनिष्णातशिक्षिताः’ इत्यमरः । झटित्यविलम्बेन पराशयवेदिनो हि, प्रकाशकलिङ्गमन्तरेण आकारमात्रेण परेङ्गितं निश्चिन्वतीत्यर्थः । कामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ 4.118 ॥
अन्वयः–नृपतिः द्रुतविगमितविप्रयोगचिह्नाम् अपि पदप्रणभ्रां तनयाम् असमाशुगाधिमग्नाम् अकलयत्, हि विज्ञाः झटिति पराशयवेदिनः ॥ 4.118 ॥
व्यतरदथ पिताशिषं सुतार्य नतशिरसे मुहुरुन्नमय्य मौलिम् ॥
‘दयितमभिमतं स्वयंवरे त्वं गुणमयमाप्नुहि वासरैः कियदिभः’ ॥ 4.119 ॥
जीवातु–व्यतरदिति । अथ पिता भीमः, नतशिरसे लज्जानतमुखयै सुतायै दमयन्त्यै, मौर्लि मुखमुननमय्य, हे वत्से ! कियदिभः कतिपयैरेव वासरैःस्वयंवरे त्वं गुणमयं गुणाढ्‌यमभिमतं दयिताप्नुहीत्याशिषं मुहुर्व्यतरत् ॥ 4.119 ॥
अन्वयः–अथ पिता नतशिरसे सुतायै मुहुः मौलिम् उन्नमय्य आशिषं व्यतरत्–स्वयंवरे, त्वं कियदिभः एव वासरैः स्वयंवरे गुणमयम् अभिमतं दयितम् आप्नुहि । ( अथवा त्वं कियदिभः एव वासरैः स्वयंवरे गुणमयम् अभिमतं दयितम् आप्नुहि ) ॥ 4.119 ॥
तदनु स तनुजासखीरवादोत्तुहिनऋतौ गत एव हीदृशीनाम् ॥
कुसुममपि शरायते शरीरे तदुचितमाचरतोपचारमस्याम् ॥ 4.120 ॥
जीवातु–तदन्विति । तदनु आशीर्वादानन्तरम् ‘अनुर्लक्षणे’ इति कर्मप्रवचनीयसंज्ञा । स नृपस्तनुजासखीः सुतावयस्याः अतादीदूचे । किं तत्तदाहयस्मात्, तुहिनऋतौ शिशिरकाले, ‘ऋत्यकः’ इति प्रकृतिभावः । गते निर्गत एव, वसन्ते पुष्पपरिणत्तापस्य दुःसहत्वाच्चेति भावः । ईटृशीनां कोमेला ङ्गीनां यौवनप्रविष्टानां शरीरे कुसुममपि शरायते शरवदाचरति, तद्वद् दुःसहं भवति । एकत्र गात्रमार्दवादन्यत्र मदनबाणत्वाच्चेति भावः । तत्तस्मादस्यां कोमलाङ्ग्यां युवत्यां च, उचितं योग्यमुपचारं प्रतीकारमाचरत
॥ 4.120 ॥
अन्वयः–तदनु सः तनुजासखीः अवादीत्–हि तुहिनऋतौ गते एव ईटृशीनां शरीरे कुसुमम् अपि शरायते तत् अस्याम् उचिभ् उपचारम् आचरत ॥ 4.120 ॥
कतिपयदिवसैर्वयस्यया वः स्वयमभिलष्य वरिष्यते वरीयान् ॥
क्रशिमशमनयानश्या तदान्तुं रुचिरुचिताथ भवद्विधाभिधाभिः ॥ 4.121 ॥
जीवातु–कतीति । किंच, कतिपयदिवसैः अल्पदिनैरेव, वो युष्माकं, वयस्यया सख्या भैम्या, वरीयान् श्रेषुः पुमान्, स्वयममिलष्य कायित्वा वरिष्यते । यं कामयते तं वरिष्यतीत्यर्थः । तत्तस्माद् अथेदानीम्, अनया दम यन्ता ( कर्त्र्या ), भवतीनां विधेव विघा यासां तासां भवद्विधानां सखीनां, सर्वनामृनो वृत्तिमात्रे पुंवदभवः । अभिधाभिरुक्तिभिर्या ऋशिमशमना कार्श्यनिवर्तना, तथा उपायभूतया रुचिः कान्तिः प्रीतिश्च, आप्तुमुचिता आप्तव्या, स्वयंवरपर्यन्तं भवदुपलालानावचनैः खेदं विहाय प्रसन्नया सन्तुष्टया च स्थातव्यमित्यमित्यर्थः । द्रुतेतृयादिश्लोकचतुष्टयं पुष्पिताग्रावृत्तम् ॥ 4.121 ॥
अन्वयः–कतिपयदिवसैः वः वयस्यया स्वयम् अभिलष्य वरीयान् वरिष्यते तत् अथ अनया भवद्विधाभिधभिः क्रशिमशमनया रुचिः आप्तुम् उचिता ॥ 4.121 ॥
एवं यद्वदता नृपेण तनया नापृच्छि लज्जापदं यन्मोहः स्मरभूरकल्पि वपुषः पाण्डुत्वतापादिभिः ॥
यच्चाशीःकपटादवादिसदृशी स्यात्तत्र या सान्त्वना तन्मत्वालिजनो मनोऽब्धिमतनोदानन्दमन्दाक्षयोः
॥ 4.122 ॥
जीवातु-एवमिति । एवं वदता नृपेण, तनया दमयन्ती, लज्जापदं लज्जाहेतुं, नापुच्छि न पष्टेति यत् ।
ज्ञातांशे प्रश्नायोगादिति भावः । पृच्छेर्दुहादित्वादप्रधाने कर्मणि लुङ् । मोहो मूर्च्छा च वपुषः पाणडुत्वतापादिर्भिर्लिङ्गैः स्मरभुः कामजोऽकल्पि निश्चित इति यत् । तत्र तस्यां पुत्र्यां सटृशी अनुरूपा या सान्त्वना लालनोक्तिः स्यात्, सा चाशीःकपटाद्दयितमाप्नुहीत्याशीर्वादव्याजादवदीति च यत्, तत्सर्वं मत्वालोच्य, आलिवर्गः मनः स्वचित्तम् आनन्दमन्दाक्षयोः अब्धिमतनोत् । लजजनन्दसागरीचकारेत्यर्थः । स्वेष्टसिद्धरानन्दः स्वरहस्यप्रकाशनाल्लज्जा ॥ 4.112 ॥
अन्वयः–एवं वदता नृपेण तनया लज्जापदं यतृ न अप्च्छि, यत् बपुषः पाण्हुत्वतापादिभिः स्मरभूः मोहः अकल्पि, तत् मत्त्वा आलिवर्गः मनः आनन्दामन्दाक्षयोः अब्धिम् अतनोत् ॥ 4.112 ॥
श्रोहर्षकविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ॥
तुर्यः स्थैयविचारणप्रकरणभ्रातर्ययं तन्महाकाव्येऽत्र व्यगलन्नलस्य चरिते सर्गो निसर्गोज्जवलः
॥ 4.123 ॥
जीवातु–श्रीह?र्षमिति । श्रीहर्षभिभित्यादि सुगमम् । तुर्यश्चतुर्थः ! ‘चतुरश्छयतावाद्यक्षरलोपश्च’ इति साधुः । स्थैयंविचारणं नाम स्वप्रणीतप्रकरणं तद्भ्रातरि तत्समानकर्तृक इत्यर्थः ॥ 4.123 ॥
इति मल्लिनाथविरचिते ‘जीवातु’ समाख्याने चतुर्थः सर्गः समाप्तः ॥ 4 ॥
अन्वय;–तृतीयसर्गवत्–कविराजराजिमुकुटालङ्कारहीरः ……..सुषुवे ।र्स्थर्यविचारणप्रकरण भ्रातरि नलस्य चरिते अत्र तन्महाकाव्ये अयं निसर्गौज्जवलः तुर्यः सर्गा व्यगलत् ॥ 4.123 ॥

नैषधीयचरिते चतुर्थः सर्गः समाप्तः

*****************************************************************************

.

नैषर्धायचरितम्

पञ्चमः सर्गः

?0 ?0यावदागमयतेऽथ नरेन्द्रान् स स्वयंवरमहाय महीन्द्रः ॥
तावदेव ऋषिरिन्द्रेदिदृक्षुर्नारदिस्त्रिदशधाम् जगाम ॥ 5.1 ॥
जीवातु–अथ दमयन्तीस्वयंवराय इन्द्राद्यागमनं वक्तुं तदुपयोगितया नारदस्येन्द्रलोकगमनमाह–यावदिति । अथ स महीन्द्रो भीमभूपतिः, स्वयंवरमहाय स्वयंवरोत्सवाय, नरेन्द्रान्, यावदागमयते आगमनेनानयनेन विलम्बत इत्यर्थः । ‘आगमे क्षमायामात्मनेपदं वक्तव्यम्’ । ‘क्षमोपेक्षा कालहरणे’ति काशिका । तावदेव ऋषिर्नारदः, ‘ऋत्यक’ इति प्रकृतिभावः । इन्द्रं दिटृक्षुरिन्द्रदिटृक्षुः सन्, मधुपिपासुवत् गम्यादिपाठाद् द्वितीरयसमासः । त्रिदशधाम स्वर्ग प्रति जगाम् । सर्गेऽत्र स्वागतावृत्तम् । ‘स्वागतेति रनभाद् गुरुयग्मम्’ इति प्रति जगाम् । सर्गेऽत्र स्वागतावृत्तम् । ‘स्वागतेति रनभाद् गुरुयग्मम्’ इति लक्षणात् ॥ 5.1 ॥
अन्वयः–अथ सः महीन्द्र3 स्वयंवरमहाय यावत् नरेन्द्रान् आगमयते तावत् एव इन्द्रदिटृक्षुः ऋषिः नारदः त्रिदशधाम् जगाम ॥ 5.1 ॥
नात्र चित्रमनु तं प्रययौ यत्पर्वतः स खलु तस्य सपक्षः ॥
नारदस्तु जगतो गुरुरुच्चैर्विस्मयाय गमनं विललङ्धे ॥ 5.2 ॥
जीवातु–अथ षङ्भिस्तद्गमनप्रकारं वर्णयति-नेत्यादि । पर्वत्तो नारदसखो मुनिः शैलश्च । ‘लश्च । ‘पवर्वतः शैलदेवर्ष्योः’ इति विश्वः । तं नारदमनु प्रययाविति यत् अत्र चित्रमाश्चर्यं न । कुतः, स पर्वतस्तस्य तारदस्य सपक्षः सखा खलु पक्षवांश्चेति गम्यते । उभयथाप्यनुयानं युक्तमेवेति न चित्रमित्यर्थः । कितु, जगतो लोकस्य उच्चैरुन्नतः, गुरुराचार्यः तस्मादलधुश्च, स नारदस्तु, विस्मयाय गमनं विललंधे लंघयामास । तल्लंधे लंघयामास । तल्लंघनं विस्मयाय भवतीत्यर्थः । गुरुद्रव्यस्य पातनार्हस्य उत्पतनं विरुद्धमिति श्लेषोत्थापितो वियरोधाभासोऽ लङ्कारः ॥ 5.2 ॥
अन्वयः–यत् पर्वतः तम् अनुययौ अत्र चित्रं न, खलु सः तस्य सपक्षः, जगतः गुरुः नारदः तु गगनं विललङ्घे, उच्चैः विस्मयाय ( अथवा ‘जगतःउच्चैःगुरुः नारदः तु गगनं विललङ्धे, विस्मयाय’ । अथवा ’ उच्चैः गगनं वितः उच्चैः गुरुः नारदः तु गगनं विललङ्घे, विस्मयाय’ । अथवा ‘उच्चैः गगनं विल लङ्घे, विस्मयाय ।’ ) ॥ 5.2 ॥
गच्छता पथि विनैव विमरानं व्योम तेन मुनिना विजगाहे ॥
साधने हि नियमोऽन्यजनां योगिनां तु तपसाऽखिलसितद्धिः ॥ 5.3 ॥
जीवातु–गच्छतेति । पथि विमानं व्योमयानं विनैव गच्छता तेन मुनिना, व्योम विजगाहे प्रविष्टम् । तथा हि, साधने उपाये नियमोऽवश्यंभावः क्रियासिद्धै नियमेन साधनान्तरापेक्षेत्यर्थः । अग्यजनानामस्मदादीनां, योगिनां तु तपसा योगधर्मणैवाखिलसिद्धिः सर्वकार्यसिद्धिर्हि । तस्मान्महायोगिनोऽस्य किं विमानेनेति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ 5.3 ॥
अन्वयः–विमानं विना एव ?पथि गच्छता तेन मुनिना व्योम? वजगाहे; हि साघने अन्यजनानां नियमः योगिनां तु तपसा अखिलसिद्धिः ॥ 5.3 ॥
खण्डितेन्द्रभवनाद्यभिमानाल्ँलङ्धते स्म मुनिरेष विमानान् ॥
अर्थितोऽप्यतिथितामनुमेने नैव तत्पतिभिरंध्रिविनम्रैः ॥ 5.4 ॥
जीवातु–खण्डितेति । एष मुनिः, खण्डितो निरस्तः इन्द्रभवनादीनामभिमानोऽहङ्कारो यैस्तान्, ततोऽपि समृद्धानित्यर्थः । विमानान् देवगुहान्, लङ्कते स्म अतिचक्राम । किं बहुना, अङ्घ्रिविनम्रैः पादपतितैः पादपतितैः, तत्पतिभिर्विमानाध्युषितैर्देवैः अर्थितः प्रार्थितः प्रार्थितोऽपि, अतिथितामाथ्यिं, नैवानुमेने । एतन्मात्रविलम्बं च नासहिष्टेत्यर्थः ॥ 5.4 ॥
अन्वयः–एषः मुनिः खण्डितेन्द्रभवनाद्यभिमानान् विमानान् लङ्ते स्म, अङृध्रिविनर्मैः त्पतिभिः अथ्रितः अपि अतिथितां न एव अनुनमेने ॥ 5.4 ॥
तस्य तापनभिया तपनः स्वं तावदेव सम?कोचयदर्चिः ॥
यावदेष दिवसेन शशीव द्रागतप्यत न तन्महसैव ॥ 5.5 ॥
जीवातु–तस्येति । तपनोऽकैः, तस्य मुनेः ( कर्मणः ), तापनादिभया, सन्तापोऽस्य भविष्यतीति भयेन स्वमात्मीयमर्चिस्तेजस्तावदेव प्रागेव, समकोचयत् सङ्कोचितमवान् । यावदेष तपनो दिवसेन दिवा, आतपेन स्वौजसा, शशीव, तन्महसा तस्य तेजसेव, द्राक् सपदि, स्वयमेव नातप्यत, मुनितापनादात्महानेर्वरमात्मसङ्कोच इति भावः ॥ 5.5 ॥
अन्वयः–तस्य तापनभिया तपनः स्वम् ?अर्चिः तावत् एव समकोचयत् यावत् एषा तन्महसा दिवसेन शशी इव द्राक् न अतप्यत ॥ 5.5 ॥
पर्यभुद्दिनमणिर्द्विजराजं यत्करैरहह तेन सदा तम् ॥
ययभूत् खलु करैर्द्विजराजः कर्म कः स्वकृतमत्र न भुङ्क्ते ? ॥ 5.6 ॥
जीवातु–पर्यभूदिति । दिनमणिः सूर्यः, द्विजराजं चन्द्रे ब्राह्मणोत्तमपञ्च, करैरंशुभिः हस्तैश्च, पर्यश्च, पर्यभूत् परिभूतवानिति यत् । तेन परिभवेन ( हेतुना ) तदा नारदागमनकाले, तं दिनमर्णि, द्विजराजो ब्राह्मणोत्तमश्चन्द्रश्च, करैरंशु भिर्हस्तैश्च, पर्यभूत् । अहह अद्भुतम् । ‘अहहेतृयद्भुते खेदे’ इत्यमरः । स्वकृतद्विजराजपरिभवदोषात् स्वयमद्य तेन परिभुत इत्यर्थः । तथा हि, अत्र जीवलोके कः स्वकृते ( कर्म ) न भुङ्क्ते । सर्वेणापि स्वकर्मफलमनुभाव्यमेवेत्यर्थान्तरन्यासः ॥ 5.6 ॥
अन्वयः–अहह यत् दिनमणिः द्विजाराजं करैः पर्यभुत् तेन खलु तदा तं द्विजराजः करैः पर्यभूत्, अत्र कः स्वकृतं कर्म न भुङ्क्ते ॥ 5.6 ॥
विष्टरं तटकुशालिभिरदिभः पाद्यमध्येमथ कच्छरुहाभिः ॥
पह्मवृन्दमधुभिर्मधपुर्कं स्वर्गसिन्धुरदितातिथयेऽस्मै ॥ 5.7 ॥
जीवातु-विष्टरमिति । अथ स्वर्गसिन्धुर्मन्दाकिनी, अतिथये अस्मै नारदाय, तटकुशानामालिभिरावलिभिर्विष्टरमासनं, ‘वृक्षासनयोविष्टरः’ इति षत्वनिपातः, अदिभः पाद्यं पादार्थं जलं, कच्छरुहाभिर्जलप्रायभूम्युत्पन्नाभिर्लताभिः अर्ध्यम् अर्घार्थ पुष्फलादि, ‘पादापर्घाभ्याञ्च’ इति तादर्थ्ये यत्प्रत्ययः । पह्मवृन्दानां मधुभिर्मकरन्द्रैः, ‘पादार्द्याभ्याञ्च’ इति तादर्थ्ये यत्प्रत्ययः । पह्मवृन्दानां मधुभिर्मकरन्दैः, मधुपर्कञ्च अदित दत्तवती । ददातेर्लङि तङ् ॥ 5.7 ॥
अन्वयः–अथ स्वर्गसिन्धुः अतिथये अस्मै तटकुशालिभिः विष्टाम् ?अदिभः पाद्यम् कच्छरुहाभिः अर्ध्यं पह्मवृन्दमधुभिः च मधुपर्कम् अदित ॥ 5.7 ॥
स व्यतीत्य वियदन्तरगाधं नाकनायकनिकेतनमाप ॥
सम्प्रतीर्यं भवसिन्धुमनादि ब्रह्म शर्मभरचारु यतीव ॥ 5.8 ॥
जीवातु-स इति । मुनिः, अगाधं, वियदन्तर्नभोऽभ्यन्तरं व्यतीत्य, नाकनायकनिकेतनम् इन्द्रभवनं, यती योगी, अनादि, भवसिन्धुंसंसाराब्धिम्, सम्प्रतीर्य शर्मभरचारु परमानन्दसुन्दरं ब्रह्म परमात्मानमिव आप॥5.8॥
अन्वयः–अनादि भवसिन्धु संप्रतीर्यं शर्मभरचारु ब्रह्मा यती इव सः अन्तः आगाधं वियत् व्यतीत्य नाकनायकनिकेतनम् आप ॥ 5.8 ॥
अर्चनाभिरुचितोच्चतराभिश्चारु तं सदकुतातिथिमिन्द्रः ॥
यावदर्हकरणं किल साधो3 प्रत्यवायघुतये न गुणाय ॥ 5.9 ॥
जीवातु–अर्चनाभिरिति । इन्द्रः तमतिथिं मुनिम्, उचिताद्विहिता, आद्यतवानित्यर्थः । ‘आदरानादरयोः सदसती’ इति निपातनात् प्राक् प्रयोगः । अधिकाचरणे हेतुमाह यावदर्हं यावद्यु क्तम् ‘यावदवधारणे’ इत्यव्ययीभावः । ’ यावदर्हस्य करणम्’ इति षष्ठीतत्पुरुषः । साधोः श्रद्धालोः प्रत्यवायधुतये अकरणदोषनिवारणाय, गुणायोत्कर्षाय न किल खलु । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ 5.9 ॥
अन्वयः–इन्द्रः तम् अतिथिम् उचितोच्चतराभिः अर्चनाभिः चारु सदकृत, साधोः यावदर्हकरणं प्रत्यवायधुतये किल, गुणाय न ॥ 5.9 ॥
नामधेयसमतासखमद्रेरद्रिभिन्मुनिमथाद्रियत द्राक् ॥
पर्वतोऽपि लभतां कथमर्चा न द्विजः स विबुधाधिपलम्भी ? ॥ 5.10 ॥
जीवातु–नामधेयेति । अथ नारदसत्कारानन्तरम्, अद्रिभिदिन्द्रः, अद्रेः पर्वतस्य, नामधेयसमतया नामसामान्येन सखायं तत्सखं मुर्नि पर्वताख्यं, द्राक् द्रुतमाद्रियत सत्कृतवान् । पर्वतः पर्वतारेः कथं सत्कारमलभतेत्यत्राहपर्वतोऽपि स द्विजो विबुधाधिपं देवेन्द्रं पण्डितोत्तमं च, लभते प्राप्नोतीति तल्लम्भी । ‘विबुधः पण्डिते देवे’ इति विश्वः । स मुनिः, कथमर्यां पूजां, न लभम्भी । ‘विबुधः पण्डिते देवे’ इति विश्वः । स मुनिः, कथमर्चा पूजां, न लभताम् ? लभतामेवेत्यर्थः । द्विजोऽभ्यागतो महतः स मुनिः, कथमर्चां पूजां, न लभताम् ? लभत इति भावः ॥ 5.10 ॥
अन्वयः–अथ अद्रिभित् अदद्रेः नामधेयसमतासखं मुनिं द्राक् आद्रियत विबुधाधिपलम्भी सः द्विजः पर्वतः अपि कथम् अर्चां न लभताम् ? ॥ 5.10 ॥
तद्भुजादतिवितीर्णसपर्याद् द्योद्रुमानपि विवेद मुनीन्द्रः ॥
स्वःसहस्थितिसुशिक्षितया तान् दानपारमितयैव वदान्यान् ॥ 5.11 ॥
जीवातु–तदिति । मुनीन्द्रो नारदस्तान्, प्रसिद्धान् द्योद्रुमान् कल्पवृक्षानपि अतिवितीर्णसनर्यादतिमात्रदत्तपूजात्, तस्येन्द्रस्य, दानपारमिता नाम दानकर्त व्यताप्रतिपादको ग्रन्थविशेषः, तयैव कारणेन वदान्यान् विवेद । इन्द्रहस्तः कल्पवृक्षाणामर्पि दानविद्योपदेष्टे त्युत्प्रेक्षितवानित्यर्थः । कल्पवृक्षातिशाय्यौदार्य मस्येति भावः ॥ 5.11 ॥
अन्वयः–मुनीन्द्रः अतिवितीर्णसपर्यात् तदभुजात् स्वःसहस्थितिसुशिक्षितया दानपारमितया एव तान् द्योद्रुमान् अपि वदान्यान् विवेद ॥ 5.11 ॥
मुद्रितान्यजनसकथनः सन्नारदं बलरिपुः समवादीत् ॥
आकरः स्वपरभूरिकथानां प्रायशो हि सुहृदाः सहवासः ॥ 5.12 ॥
जीवातु–मुद्रितेति । बलरिपुरिन्द्रः, मुद्रितान्यजनसंकथनो निवारितेतरजनालापः सन्, नारदं समवादीत्, तेन सह संल्लापमकार्षीदित्यर्थः । किं संवाद्यतदाह–प्रायशः सुहृदोर्मित्रयोः सहवासः सङ्गमः, स्वे आत्मीयाः परे च स्वपरे तेषां यः भुरयः कथाः प्रसङ्गास्तासाम् आकरः खनिर्हि । इष्टालापानामिथत्ताभावान् संवादसिद्धिरित्यर्थान्तरन्यासाभिप्रायः । ‘खनिः स्त्रियामाकरः स्यात्’ इत्यमरः
॥ 5.12 ॥
अन्वयः–मुद्रितान्यजनसंकथनः सन् बलरिपुः नारदं समवादीत्, हि सुहृदोः सहवासः प्रायशः स्वपरभुरिकथानाम् आकरः ॥ 5.12 ॥
तं कथानुकथनप्रसृतायां दूरमालपनकौतुकितायाम् ॥
भूभृतां चिरमनागमहेतुं ज्ञातुमिच्छुरवदच्छतमन्युः ॥ 5.13 ॥
जीवातु-तमिति । शतमन्युः शतक्रतुः । ‘मन्युर्देन्ये क्रतौ क्रुधि’ इत्यमरः । आलपनकौतुकितायामाभाषणोत्कण्ठायां, दूरं कथनुकथनप्रसृतायाम् उत्तरप्रत्युत्तराभ्यां दूरं गायां सत्यां, पसक्तानुप्रसक्तया सङ्गत्येत्यर्थः । चिरं चिरात्प्रभृतिृत भूभृतां राज्ञाम्, अनागमहेतुं ज्ञातुमिच्छुः सन् । तं
नारदम्, अवददपृच्छदित्यर्थः ॥ 5.13 ॥
अन्वयः–शतमनन्युः आलपनर्कातुकितायां दूरं कथानुकथनप्रसृतायां चिरं भूभृताम् अनागमनहेतुं ज्ञातुम् इछुः तम् अवदत् ॥ 5.13 ॥
प्रागिव प्रसुवते नृपर्वशाः किन्तु सम्प्रति न वीरकरीरान् ? ॥
ये परप्रहरणैः परिणामे विक्षताः क्षितितले निपतन्ति ॥ 5.14 ॥
जीवातु–प्रागिति । नृपंशाः राजकुलानि, नृपः एव वंशाः वेणवश्च । वंशी वेणौ कुले वर्गे’ इति विश्वः पूर्वभिव, सम्प्रकते न जनयन्ति । किंतु ? किं तैरत आह-य इति ये वीरकरीराः, परिणामे परिपक्वावस्थायां, परेषामरीणाम् अन्येषां च । ‘परं दूनान्यमुख्येषु परोऽरिपरमात्मनोः’ इति वैजयन्ती । प्रहरणैरायुधैः दात्रादिभिश्च, विघताः सन्त क्षितितलं निपतन्ति ॥ 5.14 ॥
अन्वयः–नृपवंशाः प्राक् इव सम्प्रति किं वीरकरीरान् न प्रसुवते तु, ये परिणामे परप्रहरणैः विक्षतक्षितितले निपतन्ति ? ॥ 5.14 ॥
पार्थवं हि निजमाजिषु वीरा दूरमूर्ध्वगमनस्य विरोधि ॥
गौरवाद्वपुरपास्य भजन्ते मत्कृतामतिथिगौरवऋद्धिम् ॥ 5.15 ॥
जीवातु–ततः किमत आह-पार्थिवमिति । वीराः पूर्वोक्ता रणपातिनः,पार्थवं पृथिवीविकारम् अत एव गौरवात् गुरुत्वगुणयोगित्वातृ, उर्ध्वगमनस्यो त्पतनकर्मणः, पाथिवत्वादूर्ध्वलोकप्राप्तेश्च, दूरमायन्तं विरोधि निजं वपुः, आजिषु युद्धेषु अपास्य मत्कृतामतिथिसत्कारतसय ऋद्धिम्, ‘ऋत्यकः’ इति प्रकृतिभावः । भजन्ते हि । ताटृग्वीरालाभे स्वस्यातिथिलाभो न स्यादिति भावः ॥ 5.15 ॥
साभिशापमिव नातिथयस्ते मां यदद्य भगवन्नुपयान्ति ॥
तेन न श्रियमिमां बहु मन्ये स्वोदरैकभृतिकार्यकदर्याम् ॥ 5.16 ॥
जीवातु–ननु तदलाभे तेषामेव सत्त्कारहानिस्तव तु न काचित् क्षतिरित्यत आह-साभिशापमिति । हे भगवन् मुने ! ते वीराः अतिथयः, अभिशपेन सह वर्तत इति साभिशापं मिथ्याभिशस्तमिव । ‘अथ मिथ्याभिशंसनम् । अभिशापः’ इतृयमरः । मामद्य नोपयान्तीति यत् । तेन हेतुना । स्वोदरस्यैकस्यैव, भृतिकार्येण, पोषणकृत्वेन, कदर्यां कृपणम् । ‘कदर्थे कृपणः क्षुद्र’ इत्यमरः । ‘आत्मानं धर्मकृत्यं च पुत्रदाराश्च पीडयेत् । लोभाद्यः पितरौ भ्रतॄन् स कदर्य इति स्मृतः ॥’ इति च । इमां श्रियं न बहु मन्ये । अतिथिसत्कारशून्यस्य श्रीवैफल्यमेव क्षतिरिति भावः ॥ 5.16 ॥
अन्वयः–भगवन्, ते अतिथयः साभिशापम् इव माम् यत् अद्य न उपथान्ति तेन स्वोदरैकभृतिकार्यकदर्याम् इमां श्रियं बहु न मन्ये ॥ 5.16 ॥
पूर्वपुष्यविभवव्ययलब्धा सम्पदो विपद एव विमृष्टाः ॥
पात्राणिकमलार्पणमासां तासु शान्तिकविधिर्विधिदृष्टः ॥ 5.17 ॥
जीवातु–पूर्वेति । पूर्वपुण्यविभवस्य व्ययेन लब्धाः सम्पदो विमृष्टाः विचारितः विषद एव । सद्यः स्वोदयेन पुराकृतसुकृतनाशकत्वादिति भावः । तासु विपत्सु सम्पद्रूपास्वापत्सु । आसां सम्पदां, पात्राणां विद्याजातितपोवृत्तसम्पन्नानां पाणिकमलेष्वर्पणं दानमेव विधिटृष्टः शास्त्रटृष्टः, शान्तिकविधिः शान्तिकर्मानुष्ठानम्, नष्टसुकृतादपि अत्युत्कृष्टसुकृतोतृपादनादिति भावः । अनेन बीजाङ्कुरन्याय उक्तः
॥ 5.17 ॥
अन्वय–पूर्वपुण्यविभवव्ययलब्धाः सम्पदः विमृष्टः विपदः एव, तासु आसां पात्रपाणिकमलार्पणं विधिटृष्टः शान्तिकविधिः ॥ 5.17 ॥
तद्विमृज्य मम संशयशिल्पि स्फीतमत्र विषये सहसाघम् ॥
भूयतां भगवतः श्रुतिसारैरद्य वाग्भिरघमर्षणऋग्भिः ॥ 5.18 ॥
जीवातु–तदिति । तत्तस्मात्, तत्र विषये अस्मिन्नर्थे, मम, संशयस्य शिल्पि तज्जनकं, स्फीतं, प्रभूतम्, अधमेनः, तन्मूलत्वान्मिथ्याज्ञानस्येति भावः । यद्वा, संशयः शिल्पी जनको यस्य तदघं दुः,खं,
दुःखहेतुत्वात्संशयस्येति भावः । ‘दुःखैर्नोव्यसनेष्वघम्’ इति वैजयन्ती । सहसा विमृज्य निवर्तय, भगवतो वाग्भिरद्य श्रुतिसारैर्वेदसारैः कर्णाममृतैश्च । अधमर्षणऋग्भिः अघमर्षणीभिः ऋग्भिः ‘स्त्रियाः पुंवत्’ इत्यादिना पुंवदभावः । ‘ऋत्यकः’ इति प्रकृतिभावः । भूयताम् । भावे लोट् । राज्ञामनागमनकारणमसंदिग्धं ब्रूहीत्यर्थः । अत्र मुनिवाक्येष्वारोप्यमाणस्य अघमर्षणत्वस्य प्रकृ?ताघहरणोपयोगात् परिणामालङ्कारः । ‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः’ इति लक्षणात् ॥ 5.18 ॥
अन्वयः–तत् अत्र विषये मम संशयशिल्पि स्फीतम् अधं सहसा विमृज्य भगवतः वाग्भिः श्रुतिसारैः अघमर्षणऋग्भिः भूयताम् ॥ 5.18 ॥
इत्युदीर्य मघवा विनयर्धि वर्घयन्नवहितत्वभरेण ॥
चक्षुषां दशशतीमनिमेषां तस्थिवान्मुनिमुखे प्रणिधाय ॥ 5.19 ॥
जीवातु–इतीति । मघवा इन्द्रः, इत्युदीर्य, अवहितत्वभरेण एकाग्रतातिशयेन, विनयर्धि विनयातिशयं, वर्धयन्ननिमेषां चक्षुषां दशशतीं दशानां शतानां समाहारः दशशतीं सहस्त्रं, ‘तद्धितार्थ-’ इत्यादिना सामहारे द्विगाव कारान्तोत्तरपदत्वात् स्त्रियां ‘द्विगोः’ इति ङीप् । एतेन शतमखी व्याख्याता । मुनिमुखे प्रणिधाय तस्थिवान् तस्थौ । लिटः ङीप् । एतेन शतमखी व्याख्याता । मुनिमुखे प्रणिधाय तस्थिवान् तस्थौ । लिटः क्वसुरादेशः ॥ 5.19 ॥
अन्वयः–मघवा इति उदीर्य अवहितत्वभरेण विनयर्धिं बर्द्धयन् अनिमेषां वक्षुषां दशशतीं मुनिमुखे प्रणिधाय तस्थिवान् ॥ 5.19 ॥
वीक्ष्य तस्य विनये परिपाकं पाकशासनपदं स्पृशतोऽपि ॥
नारदः प्रमदगद्गदयोक्त्या विस्मितः स्मितपुशतोऽपीन्द्रत्वे तिष्ठतोऽपि ।तस्येन्द्रस्य, विनये परिपाकं प्रकर्षं वीक्ष्य पिस्मतः सन् सविस्मयः सन्,कर्तरि क्तः । प्रमदगदयोक्त्या हर्षविस्वरया वाचा स्मितपुरसरं स्मितपूर्वमाख्या दाचचक्षे । ‘अस्यति वक्तिख्यातिभ्योऽङ्’ इत्यङ्प्रत्ययः ॥ 5.20 ॥
अन्वयः–पाकशासनपदं स्पृशतः अपि तस्य विनये परिपाकं वीक्ष्य विस्मितः नारदः प्रमदगद्गदया उक्त्या स्मितपुरस्सरम् अराख्यत् ॥ 5.20 ॥
भिक्षिता शतमखी सुकृतं यत्तत्परिश्रमविदः स्वविभूतौ ॥
तत्फले तव परं यदि हेला क्लेशल्बधमधिकादरदं तु ॥ 5.21 ॥
जीवातु–भिक्षितेति । शतानां मखानां समाहारः शतमखी ( दात्री ), यत् सुकृतं भिक्षिता याचिता । भिक्षेर्दु हादित्वादप्रधाने कर्मणि क्तः । तत्फले तस्व सुकृतस्य फले, स्वविभूतौ निजैश्वर्ये हेला अवाज्ञा आस्था यदि, ‘हेलाऽवज्ञा’ इति वैजयन्ती । तत्परिश्रमविदो याच्?ञ्ावलेशाभिज्ञस्य तव परं केवलं तर्वव । नान्यस्येत्यर्थः । ‘परं स्यादुक्तमानाप्तवैरिदूरेषु केवले’ इति विश्वः । याचक एव यावकदुःखं जानातीति भावः ।
ननु धनिनां दातृत्वं किं चित्रं तत्राह-क्लेशेति । सत्यं क्लेशबलब्धं तु अधिकादरदम् अतिलोभकारि दुस्त्यजम् ।
त्वं तु मखशतक्लेशलब्धमप्यैश्वर्यमर्थिसात्त्करोषीति कथं न चित्रमित्यर्थः । अत्र क्लेवाक्येन हेलात्वसमर्थनाद्वक्यार्थहेतुकं काव्यलिङ्गलङ्कारः । ‘हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्’ इति लक्षणात् ॥ 5.21 ॥
अन्वयः–शतमखी, यत् सुकृतं भिक्षिता तत्फले स्वविभूतौ यदि हेला तत्परिश्रमविदः तव परम्, क्लेशलब्धं तु अधिकादरदं तु ॥ 5.21 ॥
सम्पादस्तव गिरामपि दूरा यन्न नाम विनयं विनयन्ते ॥
श्रद्दधाति के इवेह न साक्षादाह चेदनुभवः परमाप्तः ॥ 5.22 ॥
जीवातु-सम्पद इति । किं बहुना, तव सम्पदो गिरामपि दूराः अगोचराः,कुतः, यद्यस्माद्विनयं न विनयन्ते नाम न लुम्पन्ति खलु । नयतेर्लट् ‘स्वरितइत्यादिना आत्मनेपदम्, ‘कर्तृ स्थे चाशरीरे कर्मणि’ इत्यस्मादिति केचित् । तदसत् । सम्पदां कर्तृणाम् अचेतनत्वेन कर्मणो विनयस्येन्द्रियनिष्ठत्वेन चाकर्तृस्थत्वादिति । अतः स्तोतुमशक्या इत्यर्थः । किं त्विह विनयोत्तरत्वे परमाप्तः प्रमाणूभतः साक्षादनुभवः
प्रत्यक्षानुभवसिद्धः नहि चेत्क इव को वा, श्रद्दधाति विश्वसिति, न क?ञ्चिदित्यर्थः । त्वत्सम्पदां विनयोत्तरत्वे साक्षादनुभवतां माटृशामेव श्रद्धा जायते नान्येषां, प्रायेणान्यत्र सम्पदां विनयहारित्वात् । किं बहुना, वयमपि न श्रद्दध्म इति भावः । अत्र सम्पदां वाग्गोचरत्वेऽपि तदगोचरत्वोक्त्या असम्बन्धरूपातिशयोक्तिः ॥ 5.22 ॥
अन्वयः–तव सम्पदः गिराम् अपि दूराः यत् विनयं नाम नविनयन्ते; इह परम् आप्तः साक्षात् अनुभवः न आह चेत् क इव श्रद्दक्षाति ? ॥ 5.22 ॥
श्रीभरानतिथिसात्करवाणि स्वोपभोगपरता न हितेति ॥
पश्यतो बहिरिवान्तरपीयं दृष्टिसृष्टिरधिका तव कापि ॥ 5.23 ॥
जीवातु–श्रीभरानिति । श्रीभरान् सम्पदुच्छुयान्, अतिथिसात् दाने नातिथ्यधीनं, ‘देयेत्रा च’ इति चकारात् सातिप्रत्ययः । स्वोपभोगपरता आत्मम्भरित्वं; न हित्ता न श्रेयस्करीति पश्यतो जानतः प्रेक्षमणस्य च तव बहिरिव देह इव अन्तरात्मन्पि कापीयं टृष्टिसृष्टिः ज्ञानसृष्टिरक्षिम्ष्टिश्च । ‘टृष्टिर्ज्ञानेऽक्षिदर्शने’ इत्यमरः अधिका असाधारणी, द्वयोरपि टृष्ट्योः श्लिष्टशब्दोपात्तयोरभेदाध्यवसायेन बहिरिवेत्युपमा ॥ 5.23 ॥
अन्वयः–श्रीभरान् अतिथिसात्करवाणि, स्वोपभोगपरता हिता नइति पश्यतः तव बहिः इव अन्तः अपि कापि अतिथियों को दे ड़ालूँ, ( उनको ) अपने पश्यतः तव बहिः इव अन्तः अपि कापि इयम् अधिका टृष्टिसृष्टिः ॥ 5.23 ॥
आः स्वभावमधुरैरनुभावैस्तावकैरतिरां तरलाः स्मः ॥
द्यां प्रशाधि गलितावधिकालं साधु साधु विजयस्व विडौजः ! ॥ 5.24 ॥
जीवातु–आ इति । विडं भेदकम् । विड भेदने । इगुपघलक्षणः कः,तदोजो यस्य तस्य सम्बुद्धिः हे विडौजः !, स्वभावमधुरैः निसर्गरमणीयैः, तवेमे तावकाः ‘तवकममकावेकवचने’ इत्यणि तावकादेशः । तैरनुभवैरेश्वर्यैरतितरामत्यन्तम्, अव्ययादामुप्रत्ययः । तरलाः लोलाः आनन्दलहरीमग्नाः स्म इत्यर्थः । आ इत्यानन्दास्वादानुकारः । गलितावधिकालमनन्तकालम् । अत्यन्तसंयोगे द्वितीया । द्यां स्वर्गं साधु प्रशाधि पालय । साधु, विजयस्व सर्वोत्कृष्टो भव । ‘विपराभ्यां जेः इतृयात्मनेपदम् ॥ 5.24 ॥
अन्वयः–विडौजः स्वभावमधुरैः तावकैः अनुभावैः अतितरां तरलाः स्म, आः, गलितावधिकालं द्यां प्रशाधि, साधु विजयस्व ॥ 5.24 ॥
सङ्ख्यविक्षततनुस्त्रवदस्त्रक्षालिताखिलनिजाघलघूनाम् ॥
यत्त्विहानुपगमः शृणु राज्ञां तज्जगद्युवमुदं तमुदन्तम् ॥ 5.25 ॥
जीवातु-एवमिन्द्रमभिन्द्य तत्प्रश्नोत्तरमाह–सङ्ख्येति । सङ्ख्ये समरे, विक्षताभ्यः प्रहृताभ्यः तनुभ्यो निजान्यधानि येषां तेषामत एव लघूनां निर्भाराणां राज्ञां यद्यस्मात् कारणादिह स्वर्गेऽनुपगमो नागसः तत्कारणभूतं जगत्सु ये युवानः तेषां मुदमानन्दकारणम् असाधारणार्थम्, अभेदेनः व्यपदेक्षः । तं प्रसिद्धम् उदन्तं वार्ताम् । ‘वार्ता प्रवृत्तिर्वृ त्तान्त उदन्तः’ इतृयमरः । शृणु । अत्र क्षालिताघपदार्थस्य विषेषणगतृवा लघुतृवहेतुत्वात् पदाथंहेतुकं काव्यलिङ्गमलङ्कारः ॥ 5.25 ॥
अन्वयः–सङ्ख्यविक्षततनुस्त्रवदस्त्रक्षालिताखिलनिजाघलघूतानां राज्ञां यत् इह अनुपगमः तत् जगद्युवमुदं तम् उदन्तम् शृणु ॥ 5.25 ॥
सा भुवः किमपि रत्नमनर्धं भूषणं जयति तत्र कुमारी ॥
भीमभूपतनया दमयन्ती नाम या मदनशस्त्रममाघम् ॥ 5.26 ॥
जीवातु–सेति । भुवो भूषणं किमप्यनर्धममूल्यं रत्नम् । असाधारणं स्त्रीरत्नमित्यर्थः । कुमारी कन्या, अनूढेत्यर्थः । सा दमयन्ती नाम भीमभूपतनया तत्र भुवि जयति । सर्वोत्कर्षेण जागर्ति, या अभोधं मदनशस्त्रम् ॥ 5.26 ॥
अन्वयः–भुवः भूषणं किमपि अनर्धं रत्नं सा कुमारी दमयन्ती नाम भीमभूपतनया तत्र जयति, या अमोघं मदनशस्त्रम् ॥ 5.26 ॥

सम्प्रति प्रतिमुर्तमपूर्वा कापि योवनजवेन भवन्ती ॥
आशिखं सकृतसारभृते सा क्वापि यूनि भजते किल भावम् ॥ 5.27 ॥
जीवातु–अथेन्द्रस्य मात्सर्योत्पादनाय तस्याः पुरुषान्तरासक्तिञ्च वक्तिसम्प्र?तीति । सम्प्रतीदानीं, सा दमयन्ती, यौवनस्य जवेनोदभववेगेन, प्रतिमुहूर्तं काप्यपूर्वा लावण्यमथावयवपोषविषेषेणान्येव भवन्ती । आशिखं शिखापर्यन्तम्, अभिविधावव्ययीभावः सुकृतसाभृते उत्कृष्टपुण्यभृते ईटृग्भाग्यसम्पन्न इत्यर्थः ॥ 5.27 ॥
अन्वयः–सम्प्रति सा यौवनजवेन प्रतिमुहूर्त्तं कापि अपूर्वा भवन्ती आशिखं सुकृसारभृते क्व अपि यूनि भावं भजते किल ॥ 5.27 ॥
कथ्यते न कतमः स इति त्वं मां विवक्षुरसि किं चलदोष्ठः ? ॥
अर्धवतर्‌मनि रुणत्सि न पृच्छां निर्गमेण न परिश्रमयैनातृ ॥ 5.28 ॥
जीवातु-कथ्यत इति । किञ्च, चलदोष्ठस्त्वं स युवा कतम इति मां विवक्षुर्वक्तुमिच्छुरसि किम् । तर्हि अर्धवर्त्मन्यर्धोक्ते पृच्छां प्रश्नम् । भिदादित्वायादङ् । न रुणतृसीति काकुः । एनां पृच्छां निर्गमेणोच्चारणेन न परिश्रमय मा खेदय । कुतः न कथ्यते । यतः पृष्टोऽपि न कथयामि, अतो न प्रष्टव्यमेवेत्यर्थः ॥ 5.28 ॥
अन्वयः-चलदोष्ठः त्वं सः कतमः इति मां विवक्षुः असि किम् ? । अर्घवर्त्मति नृच्छां न रुणत्सि ? एनां निर्गमेण न परिश्रमय ॥ 5.28 ॥
यत्पथावधिरणुः परमः सा योगिधीरपि न पश्यति यस्मात् ॥
बालया निजमनःपरमाणौ ह्रीदरीशयहरीकृतमेनम् ॥ 5.29 ॥
जीवातु–किं कपटादकथनं, नेत्याह–यत्पथेति । परमो अणुर्यस्या योगिधियः पन्थाः, यत्पथस्तस्यावधिः सीमा, सा योगिधीरपि । बालया निजमन एव परमाणुः । ‘अणुपरिमाणं मनः’ इति सूत्रणात् । तस्मिन् ह्रीरेव दरी गुहा तच्छयहरीकृतं तद्गतसिंहीकृतम् एनं युवानं, यस्मान्न पश्यति तस्मान्न कथ्य इति पूर्वेणान्वयः । योगिबुद्धेरपि परमाणुस्वरूपग्राहित्वमेव नान्तःप्रवेशे शक्तिरित्यज्ञानादकथनं, न कपटात् । सा तु मन्दाक्षमन्थरतया न कथयतीत्यर्थः ॥ 5.29 ॥
अन्वयः–परमः अणुः यत्पथावधिः सा योगिधीः अपि बालया निजमनापरमाणो ह्रीदरीशयहरीकृतम् एनं यस्मात् न पश्यति ॥ 5.29 ॥
सा शरस्य कुसुमस्य शरव्यं स2ूचिता विरहवाचिभिरङ्गैः ॥
तातचित्तमपि धातुरधत्त स्वस्वयंवरमहाय सहायम् ॥ 5.30 ॥
जीवातु–तर्हि कामुकीत्वमात्रं वा कथमस्याः प्रतीतमत आह-सेति । साभैमी, विरहवाचिभिः विरहव्यञ्जकरङ्गैः कार्श्यपाण्डिमादिपरिक्तिष्टैरिति भावः । कुसुमशरस्य कामबाणस्य शरव्यं लक्ष्यं, सूचिता । कुत्रचिद्यूनि बद्धभावेत्येतावन्मात्रमवगतेत्सयर्थः । तार्हि तत्पित्रा वा वरविशेषज्ञानं विवाहोपायः कथं चिन्तितस्तत्राह-तातचित्तमपि ( कर्म ), स्वस्वयंवरमहाय धातुः सहायमघत्त अकरोत् । सहकारीचकारेत्यर्थः ।
तत्पित्रापि धातृप्रेरणया स्वयंवर एवोपाय श्चिन्तित इति भावः ॥ 5.30 ॥
अन्वयः–सा विरहवाचिभिः अङ्गैः कुसुमस्य शरस्य शख्यं सूचिता तातचितृतम् अपि स्वस्वयंवरमहाय धातुः सहायम् अधत्त ॥ 5.30 ॥
मन्मथाय यदथादितं राज्ञां हूतिदूत्यविधये विधिराज्ञाम् ॥
तेन तत्परवशाः पूथिवीशाः सङ्गरं गरंमिवाकलयन्ति ॥ 5.31 ॥
जीवातु–अस्तु राज्ञामनागमे किं कारणमुक्तं तत्राह-मन्मथायेति । अथ विधिर्विघाता, राज्ञां हूतिः स्वयंवराह्वानं, तदेव दूत्यं दूतकर्म । ‘दूतस्य भाग कर्मणि’ इति यत्प्रत्ययः । तस्य विधये करणाय मन्मथायाज्ञामादेशमदित दत्तवानिति यत् । तेनाज्ञादानेन तत्परवशाः मन्मथपरतन्त्राः। शिवभागवातवत्समासः।
पृथिवीशाः सङ्गरं गरमिवाकलयन्ति विषमिव मन्यन्ते । ‘विषं स्याद्गरलं गरः’ इति हलायुघः ॥ 5.31 ॥
अन्वयः–अथ विधिः राज्ञां हूतिदूत्यविधये मन्मथाय यत् आज्ञाम् अदित तेन तत्परवशाः पृथिवीशाः सङ्गरं गरम् गरम् इव आकलयन्ति ॥ 5.31 ॥
येषु येषु सरसा दमयन्ती भूषणेषु यदि वापि गुणेषु ॥
तत्र तत्र कलयापि विशेषो यः स हि क्षितिभृतां पुरुषार्थः ॥ 5.32 ॥
जीवातु–येष्विति । किञ्य, दमयन्ती, भूषणेषु हारादिषु, यदि वा, गुणेषु दयादाक्षिण्यादिषु वा, येषु येषु सरसा साभिलाषा, तत्र तत्र तेषु तेषु भूषणेषु गुणेषु च कलया मात्रयापि यो विशेषः क्षितिभृतां स हि स एव । ‘हि हेताववघारणे’ इत्यमरः । पूरुषार्थः प्रयोजनम्, यथाकथञ्चिदभैमीमनोरञ्जनमेव पुषार्थो न तु क्षात्रधर्मः सङ्गर इत्यर्थः ॥ 5.32 ॥
अन्वयः–दमयन्ती येषु येषु भूषणेषु यदि वा गुणेष अपि सरसा तत्र तत्र कलया अपि यः विशोषः सः हि क्षितिभृतां पुरुषार्थः ॥ 5.32 ॥
आदरावव्ययदिनावधि तस्या यौवनोदयिनि राजसमाजे ॥
आदराहरहः कुसुमेषोरुल्ललास मृगयाभिनिवेशः ॥ 5.33 ॥
जीवातु-शैशवेति । कुसुमेषोः कामस्य, यौवनोदयिनि यौवनप्रादुर्भाववति,राजसमाजे राजसमूहे विषये, भैम्याः, शैशवव्ययदिनं बात्ल्यापगमदितम्, अवधिः सीमा यर्स्मिमस्तत्तथा,?B तद्दिनमारभ्येत्यर्थः । अहरहः प्रत्यहम् । वीप्सायां द्विर्भावः । अत्यन्तसंयोगे द्वितीया । आदरात् मृगयायामभिनिविवेशः आग्रिः । उल्ललास ववृधे । सर्वेषामपि यूनां भैमीयौवनोदभेदात् प्रभृति स्मरव्यसनेव वर्तते, न समरव्यसनमित्यर्थः ॥ 5.33 ॥
अन्वयः–कुसुमेषोः यौवनोदयिनि राजसमाजे तस्याः शैशवव्ययदिनावधि अहरहः आदरात् मृगयाभिनिवेशः उल्ललास ॥ 5.33 ॥
इत्यमी वसुमतीकमितारः सादरास्त्वदतिथिर्भवितुं न ॥
भीमभसूसुरभूवोरभिलाषे दूरमन्तरमहो नृपतीनाम् ॥ 5.34 ॥
जीवातु–इतीति । इतीत्थममीं नृपाः वसुमत्याः कमितारः कामयितारः सन्तः तृच् । वसुमतीं वा कमितारः । ताच्छील्ये तृन् । ‘न लोक-‘इत्यादिना षष्ठीप्रतिषेधः । ‘आयादय आर्धधातुके वा’ इति विकल्पादुभयत्रापि णिजभावः । त्वदतिथिर्भवितुं सादराः साकाङ्क्षाः न । तथा हि, नृपतीनां भीमभूः भैमीसुरभूः द्यौस्तयोरभिलाषे तद्विषयानुरागे दूरमन्तरं महत्तारतम्यम्, अहो, स्वर्गेऽप्यरुचिरित्याश्चर्यम् । एतेन सुराङ्गनातिशायिसौन्दर्यं दमयन्त्या इति व्यज्यते । भीमदेशसुरदेशयोः महान् विप्रकर्ष इत्यर्थान्तरप्रतीति । अत्रोत्तावाक्यार्थेन स्वर्गारुच्या पूर्ववाक्यार्थातिथ्यानादरस्य समर्थनाद्वक्यार्थहेतुकं काव्यलिङ्गम लङ्कारः
॥ 5.34 ॥
अन्वयः–इति अमी वसुमतीकमितारः त्ववदतिथिर्भवितुं सादराः न, गहो पृपतीनां भीमभुसुरभुवोः अभिलाषे दूरम् दूरम् अन्तरम् ! ॥ 5.34 ॥
तेन जाग्रदधृत्तिर्दिवमागां संख्यसौख्यमनुकर्तुमनु त्वाम् ॥
यन्मृधं क्षितिभृतां न विलोके तन्निमग्नमनसां भुवि लोके ॥ 5.34 ॥
जीवातु–एवं राज्ञां स्वर्गानागमने हेतुमुक्तवाथ स्वस्यागमने हेतुमाह तेनेति । यद्यस्मादभुवि लोके भूलोके तस्यां दमयन्त्यां, निमग्नमनसाम् आसक्तचेतसां क्षितिभृतां मृघं युद्धं न विलोके न पश्यामि । तेन युद्धालाभेन जाग्रदधृतिः संमूर्च्छंदसन्तोषः असन्तुष्टः सन्, सङ्ख्यसौख्यं युद्धसुखम् । ‘मृधमास्कन्दनं सङ्ख्यम्’ इत्यमरः । अनुसर्तुमनुभवितुं, त्वामनु त्वामुद्दिश्य, दिवं र्स्वमागाम् ॥ 5.34 ॥
अन्वयः–यत् भुविलोके तन्निमग्नमनसां क्षितिभृतां मृधं न विलोके तेन जाग्रदधृतिः त्वाम् अनु सङख्यसौख्यम् अनुसर्त्तुं दिवम् आगाम् ॥ 5.34 ॥
वेद यद्यपि न कोऽपि भवन्तं हन्त हन्त्रकरुणं विरुणद्धि ॥
पृच्छ्यसे तदपि येन विवेकप्रोञ्छनाय विषये रससेकः ॥ 5.36 ॥
जीवातु–वेदेति । हन्तृष्वकरुणं समुलघातं हन्तारं भवन्तं कोपि न विरुणद्धि विगृह्णति । हन्तेति हर्षे । वेद यद्यपि एतावद्वे द्म्येव । ‘विदो लटो वा’ इति विदो णलदेशः । यद्यपीत्यवधारणे, तदपि तथापि पृच्छ्यसे । अज्ञः पृच्छति न विद्वानत आह–येन कारणेन विषये भाग्ये रससेको रागानुबन्धो जलसेकञ्च
विवेकस्य विशेषज्ञानस्य चित्राद्यसाङ्कर्यस्य प्रोञ्छनाय प्रमकार्जनाय, विषयतृष्णालुप्तविवेकः पृच्छामीत्यर्थः ॥ 5.36 ॥
अन्वयः–हन्त, कः अपि हन्त्रकरुणं भवन्तं न विरुणद्धि–यद्यपि वेदतदपि पृच्छ्यसे; येन विषये रससेकः विवेकप्रोञ्छनाय ॥ 5.36 ॥
एवमुक्तवति देवऋषीन्द्रे द्रागभेदि मघवाननमुद्रा ॥
उत्तरोत्तरशुभो हि विभूनां कोऽपि मञ्जुलतमः क्रमवादः ॥ 5.37 ॥
जीवातु–एवमिति । देवऋषीन्द्रे नारदे । ‘ऋत्यकः’ इति प्रकृतिभावः । एवमुक्तवति सति, मघोमनः आननमुद्रां मौनं मघवाननमुद्रा । ‘मघवा बहुलम्’इति विकल्पान्मतुबादेशाभावः । द्राक् झटित्यभेदि स्वयमेव भिद्यते स्म । ‘कर्मवत्कर्मणा तुल्यक्रियः’ इति कतुंः कर्मवदभावात् ‘कर्मकर्तरि लुङ्’ । तङादिकार्यं ‘यगात्मनेपदचिणुचिण्वदभदभावाः प्रयोजनम्’ इति वचनात् । ‘क्रियमाणं तु यत्कर्म स्वयमेव प्रसिध्यति । सुकरैः स्वगुणैर्यस्मात् कर्मकर्तेति तं विदुः ॥’ इति ॥ तथाहि,विभूनां प्रभूणां, कोऽपि मञ्जुलतमो1़तिहृद्यः क्रमवादः प्रश्नोत्तरक्रमेणोक्तिः ॥ 5.37 ॥
अन्वयः–देवऋषीरन्द्रे एवम् उक्तवति मघवाननमुद्रा द्राक् अभेदि, हि विभूनां मञ्जुलमः कः अपि कमवादः उत्तरोत्तरोत्तरशुभः ॥ 5.37 ॥
कानुजे मम निजे दनुजारौ जाग्रति स्वशरणे रणचर्चा ॥
यद्भुजाङ्कमुपधाय जयाङ्कं शर्मणा स्वविमि वीतविशङ्कः ॥ 5.38 ॥
जीवातु–कानुज इति । जिजे स्वीये अनुजे दनुजारौ उपेन्द्रे स्वशरणे स्वरक्षके स्वगृहे वा ‘शरणं गृहहरक्षित्रोः’ इत्यमरः । जाग्रति जागरूके सति । मम रणचर्चा रणचिन्ता का ? न कापीत्सयर्थः । जयोऽङ्कश्चिह्नं यस्य तं तद्भुजाङ्कं, यस्यानुजस्य भुजोत्सङ्गमुपघायोपघानीकृत्य वीतविषङ्को निरातङ्कः सन् शर्मणा सुखेन स्वपिमि शये । यथा रक्षिजने जाग्रप्ति राजा शय्यागारे सुखेन भुजमुपधाय स्वपिति तद्वदिति भावः । इह निरातङ्कवृत्तिस्सुप्तिः अस्वप्नत्वा दमराणाम् ॥ 5.38 ॥
अन्वयः–स्वशरणे निजे अनुजे दनुजारौ जाग्रति मम रणचर्चा का,जयाङ्कं यदभुजाङ्कम् उपधाय वीतविशङ्कः शर्मणा स्वपिमि ॥ 5.38 ॥
विश्वरूपकलनामुपपन्नं तस्य जैमितिमुनित्वमुदीये ॥
विग्रह मखभुजामसहिष्णुर्व्यर्थतां मदशर्नि स निनाय ॥ 5.39 ॥
जीवातु-विश्वेति । तस्योपेन्द्रस्य विश्वरूपकलनातृ सर्वार्थसाक्षात्करणात्, यद्वा एकत्र मत्स्यकूर्माद्यनन्तरूपधारणादन्यत्र विश्वार्थरूपणात्, विश्वरूपाणि सूत्राणि तत्प्रणयनात् ( हेतोः ), जैमिनिमुनित्वमुदीये उत्पन्नम् । हण् गतौ कर्तरि लिट् । उपपन्नं तञ्च युक्तमित्यर्थः । कुतः, स उपेन्द्रः, मखभुजां विग्रहं विरोधमन्यत्र शरीरम्, असहिष्णुर्मदशर्नि मम वज्रायुधम्, नन्वत्र ‘वज्रहस्तः पुरन्दर’ इत्यादिवाक्यजातं, व्यर्थतां स्वायुघेनैव तत्कार्यकरणान्निष्प्रयोजनत्वम्, अन्यत्र विग्रहवद्देवतानिरसेन आर्वादत्वान्निरभिधेयत्वं च निनाय । अतो जैमिनिमुनित्वं युक्तमित्यर्थः । प्रकृताप्रकृतश्लेषः ॥ 5.39 ॥
अन्वयः–तस्य विश्वरूपकलनातृ उपपन्नं जैमितिमुनित्वम् उदीये, सा मखभुजां विग्रहम् असहिष्णुः मदशनिं व्यर्थतां निनाय ॥ 5.39 ॥
ईदृशानि मुनये विनयाब्धिस्तस्थिवान् स वचनान्युपहृत्य ॥
प्राशुनिःश्वसितपृष्ठचरी वाङ् नारदस्य निरियाय निरोजाः ॥ 5.40 ॥
जीवातु-र्हटृशानीति । विनयाब्धिः स इन्द्रो मुनये ईटृशार्नि युद्धनिराशानि वचनानि उपहृत्य समर्प्य, तस्थिवान् तमष्णीं स्थितः । अथ नारदस्य प्रांशुनिःश्वसितस्य पृष्ठे चरतीति पृष्ठचरी पश्चाद्गामिनी दीर्घनिश्वासपूर्विकेत्यर्थः । निरोजाः दीना वाक् निरियाय निर्जगाम् ॥ 5.40 ॥
अन्वयः–विनयाब्धिः मुनये ईटृशानि वचनानि उपहृत्य तस्थिवान्, नारदस्य प्रांशुनिश्वसितपृष्ठचरी निरोजाः वाक् निरियाय ॥ 5.40 ॥
स्वरसातलभवाहवशङ्कीं निर्वृणो?मि न वसन् वसुमत्याम् ॥
द्यां गतस्य हृदि मे दुरुदकैः क्ष्मातलद्वयभटाजिवितकैः ॥ 5.41 ॥
जीवातु–त्वरिति । वसुमत्यां भूलोके वसन् स्वश्च रसातलं च स्वारसातले स्वर्गपाताले ‘रो रि, इति रेफलोपे दीर्घः । तयोर्भवमाहवं शङ्कत इति तच्छङ्की सन् । न निर्वृणोमि न सन्तुष्यामि । द्यां स्वर्गां गतस्य मे हृदि क्ष्मातले भूपाताले । ‘अधः स्वरूपयोरस्त्री तलम्’ इत्यमरः । तयोर्द्वये भटानामाजिवितर्को युद्धशङ्का दुरुदर्को दुरुत्तरः । ‘उदर्कः फलमुत्तरम्’इत्यमरः । एवं पातालगतस्य इतरलोकाजिवितर्क इति शेषः
॥ 5.41 ॥
अन्वयः–वसुमत्यां वसन् स्वारसातलभवाहवशङ्की न निर्वृणोमि, द्यां गतस्य मे हृदि क्ष्मातलद्वयभटाजिवितर्कः दुरुदर्कः ॥ 5.41 ॥
वीक्षितस्त्वमसि माथा गन्तुं तन्मनुष्यजगतेऽनुमनुष्व ॥
किं भुवः परिवृढा न विवोढुं यत्र तामुपगता विवदन्ते ॥ 5.42 ॥
जीवातु–वोक्षित इति । त्वं वीतक्षितोऽसि । एतदेवागमनफलमित्यर्थाः । तत्तस्मात्फलान्तराभावात् अथानन्तरं मां मनुष्यजगते गन्तु मर्त्यलोकं गन्तुर्त्यंः । ‘गतृयर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि" इति चतुर्थी । अनुमनुष्व अनुजानीहि । तत्र मर्त्यलोके, तां दमयन्तीं, विवोढुंपरिणेतुम् उपगता भूवः परिवृढाः, प्रभवो भूपतयः ‘प्रभौ परिवृढः’ इति निपातः । न बिवदन्ते न कलहायिष्यन्ते किम् ? अपि तु सर्व एव विवादं करिष्यन्तीति भावः । सामीष्ये । लट् । भावनादिसूत्रेण वदेरकर्मकत्वात् विमतावात्मनेपदम् । भैमीं परिणेतुमा गतानां राज्ञां तत्सौन्यर्यमुग्धानामहमेवास्या अनुरूप इत्यादि विवदो भविष्य तीति भावः ॥ 5.42 ॥
अन्वयः–त्वं वीक्षितः असि, अथ तत् मनुष्यजगते गन्तु माम् अनुमनुष्व, तत्र तां विवोढुम् उपगता किं भुवः परिवृढाः न विवदन्ते ? ॥ 5.42 ॥
इत्युदीयं स ययौ मुनिरुर्वी स्वर्पर्ति प्रतिनिवर्त्य जवेन ॥
वारितोऽप्यनुजगाम सः यन्तं तं कियन्त्यपि पदान्यपराणि ॥ 5.43 ॥
जीवातु–इतीति । स मुनिरित्युदीर्य स्वार्पतिमिन्द्रम् ‘अहरादीनां पत्यादिषु’ इति वैकल्पको रेफादेशः । प्रतिमिवर्त्य जवेनोर्वी’ ययौ । स इन्द्रो वारितो निवर्तिततोऽपि यन्तं गच्छन्तम् । इणो लटः शत्रादेशः । तं मुनिमपराण्यपि कियन्ति कतिचन पदानि । आसीममिल्यर्थः । अत्यन्तसंयोगे द्वितीया । अनुजगाम॥ 5.43॥ अन्वयः–सः मुनिः इति उदीर्यतिं प्रतिनिवर्त्य जवेन उर्वी ययौ, वारितः अपि सः यान्तं तम् अपि अपराणि कियन्ति पदानि अनुजगाम ॥ 5.43 ॥
पर्वतेन परिपीय गभीरं नारदीयमुदितं प्रतिनेदे ॥
स्वस्य कश्चिदपि पर्वतपक्षच्छेदिनि स्वयमदर्शि न पक्षः ॥ 5.44 ॥
जीवातु–पर्वतेनेति । पर्वतेन मुनिना गिरिणा च गभीरं, नारदीयमृदितं नारदवाक्यं, परिपीय प्रतिदध्वने तदेचानुकृतमित्यर्थः । पर्वते । सन्निकृष्टे प्रतिनादो युक्त इति भावः । नदेर्लिट् । ‘अत एकहल्मध्येऽनादेशादेर्लिटि’ इत्येत्त्वभ्यासलोपौ । स्वयं तु न किञ्चिन्निन्निवेदिततानित्याहःःपर्वतपक्षच्छेदिनीन्द्रे स्वस्य कश्चिदपि पक्षः साध्यं प्रयोजनं गरुच्च । पक्षः पार्श्वगरुत्साध्यसहायबलभितिृतषु’ इति वैजन्यन्ती । स्वयं नादर्शि न दर्शितः । तत्साह्मर्यमात्रलोभादागत्य स्वस्य पृथ्क्साध्याभावात्तदुक्तमेवानुकृतम् । न तु पृथक्किञ्चिन्निवेदितमित्यर्थः । पर्वतपक्षच्छेदित्वादिन्द्रस्याग्रे पर्वतेन स्वपक्षो न प्रकाशित इति ध्वनिः॥ 5.44॥
अन्वयः-पर्वतेन गभीरं नारदीयम् उदितं परिपीय प्रतिनेदे,पर्वतपक्षच्छेदिनिस्वस्य कशिचयत् अपिः पक्षः स्वयं न अदशिं ॥ 5.44 ॥
पाणये बलरिपोरथ भैमीशीलकोमलकरग्रहणार्हम् ॥
भेषजं चिरचिताशनिवासव्यापदामुपदिदेश रतीशः ॥ 5.45 ॥
जीवातु–इन्द्रस्तु भैम्यामनुरक्तोऽभूदित्याह–पाणय इति । अथ नारदनिर्गमनान्तरं, रतीशः कामो बलरिपोरिन्द्रस्य पाणये चिरचितानां चिरसञ्चितानाम्, अशनिवासेन वज्राग्निसम्पर्केण याः व्यापदो विदाहाः
तासां भैमीशीतकोमलकरस्य ग्रह ग्रहणमेवार्ह योग्यं, भेषजमौषधमुपदिदेश । वीरभिभवेनशृङ्गारः प्रवृद्ध इति भावः । अत्र कामनिबन्धस्य भैमीपाणिग्रहणस्याशनिवावासतापशमनार्थत्वोत्प्रेक्षा व्यञ्जकप्रयोगाद् गाम्या
॥ 5.45 ॥
अन्वयः–अथ रतीशः बलरिपोः पाणये चिरचिताशनिवासव्यापदां भैमीशीतकोमलकरग्रहणार्ह भेषजम् उपदिदेश ॥ 5.45 ॥
नाकोकभिषजोः सुषमा या पुष्पचापमपि चुम्बुति सैव ॥
वेह्मि तादृगभिषज्यदसौ तद्द्वारसंक्रमितवैद्यकविद्यः ॥ 5.46 ॥
जीवातु-ननु कामस्य कुतो वैद्यविद्येत्यत आह-नाकेति । नाकलोकभिषजोरश्विनोर्या सुषमा सौन्दर्यं सैव पुष्पचापं काममपि चुम्बति स्पृशति, तस्मादपि । तावेव सुषमावन्ताविति भावः । असौ कामः सा सुषमैव द्वारं तेन सङ्क्रमिता वैद्यकं वैद्यस्य भैषज्यम् र्स्व्वैद्यसटृशः सन् अभिषज्यत् चिकिस्सितवान् । भिषज्यतेःकण्ड्वादियगन्ताल्लङ् । वेद्मीत्युत्प्रेक्षायाम् । वाक्यार्थः कर्म ॥ 5.46 ॥
अन्वयः–नाकलोकभिषजोः या सुषमा सा एव पुष्पचापम् अपि चुम्बतिवेद्यि; तद्द्वारसङ्क्रमितवैद्यकविद्य असौ ताटृक् अभिषज्यत् ॥ 5.47 ॥
मानुषीमनुसरत्यथ पत्यौ खर्वभावमवलम्बय मघोनी ॥
खण्डितं नितमसूचयुच्चैर्मानमाननसरोरुहनत्या ॥ 5.48 ॥
जीवातु-अथेन्द्राण्या ईर्ष्यानुभावमाह-मानुषीमिति । अथेन्द्रस्य भैमीरागानन्तरं मघोनः स्त्र्?ी मघोनी शची । ‘पुंयोगादाख्यायाम् ’ इति ङीष् । ‘श्वयुवमघोनामतद्धित’ इति सम्प्रसारणे गुणः । पत्यौ खर्वभाव नीचत्वमवलम्वय मानुषीं मानुषस्त्रीं, ‘जातेरस्त्री’ इत्यादिना ङीष् । अनुसरत्यनुवर्तमाने सति आननसरोरुहनत्या शिरोनमनेन, उच्चैरुन्नतं निजं मानं सर्वोत्तरत्वाहंकारं खण्डितं भग्नमसूचयत् । आकरेणेव निजनिर्वंदमवेदयत् । न तु वाचा किञ्चदूचे । गम्भीरनायिकात्वादिति भावः ॥ 5.47 ॥
अन्वयः–अथ पत्यौ खर्वभावम्, अवलम्बय मानुषीम् अनुसरति मघोनीआननसरोरुहनत्या उच्चैः निजं मानम् खण्डितम् असूचयत् ॥ 5.47 ॥
यो मघोनि दिवमुच्चरमाणे रम्भया मलिनिमालमलम्भि ॥
वर्ण एव स खलूज्जवलमस्याः शान्तमन्तरमभाषत भङ्ग्या ॥ 5.48 ॥
जीवातु-अथान्याषामपि कासांचिदप्सामीर्ष्यानुभावानाह-य इत्यादि । मघोनीन्द्रे ‘श्वयुवमधोनाम् ’ इत्यादिना सम्प्रसारणे गुणः । दिवमाकाशम् , अलमत्यन्तम्, अलम्भि अलाभि । ‘विभाषा चिण्णमुलोः’ इति वा नुमागमः । स वर्णो मलिनिमैव, सत् भङ्ग्या कयाचिद्रीत्या भवितव्यताप्राबल्यधियेत्यर्थः । अन्तःकरणवैवर्ण्यमूलत्वाद्वातवैवर्ण्यस्तेति भावः ॥ 5.48 ॥
अन्वयः–मघोनि दिवम् उच्चरमाणे रम्भया यः मलिनिमा अलम् अलम्भि सः वर्णः एव अस्याः उज्जवलम् अन्तरम् भङ्ग्या शान्तम् अभाषत खलु ॥ 5.48 ॥
जीतिवतेन कृतमप्सरसां तत्प्राणमुक्तिरिह युक्तमती नः ॥
इत्यनक्षरमवाचि घ्ज्ञृताच्या दीर्घनिःश्वसितनिर्गमनेन ॥ 5.49 ॥
जीवातु–जीवितेनेति । अप्सरसां नोऽस्माकं जीवितेन कृतं,कष्टत्वादिति भावः । तत्तस्मादिहास्मिन्समये प्राणमुक्तिः प्राणत्याग, एव युक्तिमतीयुक्तेति घृताच्या नाम दवेया दीर्घनिःश्वसितस्य निर्गमनेन निष्क्रमणमुखेन, अनक्षरमशब्दप्रयोगं, यथा तथा अवाचि । वचेर्ब्रूञो वा कर्मणि लुङ् । उक्तमिवे त्यर्थः । अत एव व्यञ्जकाप्रयोगाद् गम्योत्प्रेक्षा ॥ 5.49 ॥
अन्वयः–घृताच्या दीर्घनिःश्वसितनिर्गमनेन इति अनक्षरम् अवाचि’नः अप्सरमां जीवितेन कृतं तत् इह प्राणमुक्तः युक्तिमती ॥ 5.49 ॥
साधु नः पतनमेवमितः स्यादित्यभण्यत तिलोत्तमयपि ॥
चामरस्य पतनेन कराब्जात्तद्विलोलनवलद्भुजनालात् ॥ 5.50 ॥
जीवातु–साध्विति । तिलोत्तमयापि देव्या तस्य चामरस्य विलोलनेन आन्दोलनेन वलन् बलमानो भुजो बाहुरेव नालो यस्य तस्मात्’ ‘वलतेरात्मनेपदमनित्यं ज्ञापकात्’ इत्याह वामनः । चक्षिङो ङित्करणम् ज्ञापकम् । कराब्जात् पाणिकमलाच्चामरस्य पतनेन, अवयवपारवश्यादिति भावः । एवञ्चामरवदेव नोऽस्माकमपि इतः स्वर्गात् पतनमेव साधु स्यादित्यभण्यत । भणितमिवेति पूर्ववदुत्प्रेक्षा भुजनालात् कराब्जादिति सावयवरूपकेण संसृष्टा ॥ 5.50 ॥
अ?न्वयः–तिलोत्तमया अपि तद्विलोलनवलदभजनालात् कराब्जात् चामरस्य पतनेन इति अभण्यत–‘एवं नः इतः पतनं साधु स्यात् ॥ 5.50 ॥
मेनका मनसि तापमुदीतं यत्पिधित्सुरकरोदवहित्थाम् ॥
तत्स्फटं निजहृदः पुटपाके पङ्कलिप्तिमसृजद् बहिरुत्थाम् ॥ 5.51 ॥
जीवातु–मेनकेति । मेनका नाम काचिद् देवी मनस्युदीतमुत्पन्नं, तपमाधिं, पिधित्सुः पिघातुमिच्छुः सती, अवहित्यामाकारगुप्तिमकरोदिति यत्, तदाकारगोपनमेव, निजहृदः स्वमनसः, पुटपाके गूढापके, बहिरुत्थामुत्थितां, बाह्मामित्यर्थः । ‘आतश्चोपसर्गे’ इति कर्तरि क्तप्रत्ययः । पङ्कलिर्प्ति पङ्कलेपं’, सफुटमजत् । पुटपाके बाह्मः पङ्कलेपोऽन्तः पच्यमानद्रव्यस्येवाकारगोपनमेव बलात् क्रियमाणं गोप्यस्यान्तस्तापस्य व्यञ्चकमभूदित्यर्थः ॥ 5.51 ॥
अन्वयः–मेनका मनसि उदीतं तापं विधित्सुः यत् अवहित्थाम् अकरोत् तत् निजहृदः पुटके बहिः उत्थां पङ्कलिसिपं स्फटम् असृजत् ॥ 5.51 ॥
अर्वशी गुणवशीकृतविश्वा तत्क्षणस्तिमितभावनिभेन ॥
शक्रसौहृदसमापनसीम्नि स्तम्भकार्यमपुषद्वपुषैव ॥ 5.52 ॥
जीवातु-उर्वशीति । गुणैः सौन्दर्यादिभिवैशीकृतविश्वा रञ्चिताखिलप्रपञ्च, उर्वशी नाम काचिद्देवी, तत्क्षणे तत्स्मये, यः स्तिमितभावः स्तैमित्यं निष्विक्रयाङ्गत्वलक्षणः स्तम्भो नाम सात्त्विकस्तस्य निभेन मिषेण । ‘मिषं निभञ्चनिर्दिष्टम्’ इति हलायुघः । वपुषैव सुहृदयशब्दाद्युवादित्वादण्प्रत्यये हृदभावान्नो भयपदवृद्धिः । अत एव ‘सौहृददौर्हृदशब्दाशब्दावणि हृदभावौ’ इति वामनः । शक्रसौहृदस्ण्य समापनसीम्नि समाप्तिस्थायोः’ इति विश्वः । स्तभोत्थानावघिकं मे शकसौहृदमिति निर्णयमकरोदित्यर्थः । ‘पुषादि’ इत्यादिना च्लेरङादेशः ॥ 5.52 ॥
अन्वयः–गुणवीशकृतिवश्वा उर्वशी तत्क्षणास्मितभावनिभेन वपुषा एव शक्रसौहृदसमापतसीम्नि स्तम्भकार्यम् अषुषत् ॥ 5.52 ॥
कापि काम?पि बभाण बुभुत्सुंशृण्वति त्रिदशभर्तरि किञ्चित् ॥
एष कश्यपसुतामभिगन्ता पश्य कश्यपसुतः शतयज्ञः ॥ 5.52 ॥
जीवातु–अथ कासा?ञ्चिदप्सरसां वागारम्भानाह-कापीत्यादि । कापि देवी, शृण्वति सत्येव । गमेर्लुट् । पश्य । दिवं विहाय भुवं गच्छतीत्याश्चर्यं पश्येत्यर्थः । स्वयं कश्यपसुतस्तत्सुतां भगिनीमेव गच्छतीत्याश्चर्यं व्यज्यते ॥ 5.53 ॥
अन्वयः–का अपि बुभुत्सुं काम् अपि त्रिदशभर्तरि शृण्वति किञ्यित् बभाण–‘पश्य, एषः शतयज्ञः कश्यपसुतः कश्यपसुताम् अभिगन्ता ॥ 5.53 ॥
आलिमात्ससुभगत्वसगर्वा कापि शृण्वति मघोनि बभाषे ॥
वीक्षणेऽपि सघृणासिनृणां किं यासि न त्वमपि सार्थगुणेन ॥ 5.54 ॥
जीवातु–आलिमिति । आत्मनः सुभत्वेन सगर्वा सुभगमानिनीत्यर्थः । कापि, मघोनि शक्रे शृश्वति स्त्येव, आलिं सखीं बभाषे । तदेवाह–नृणां मनुष्याणां वीक्षणेऽपि । किमुत एङ्गतावित्यर्थः । सघृणा सजुगुप्सासि । सा त्वमपि सार्थगुणेन शङ्धर्मेण, गतानुगतिकत्वरूपेणाविवेकित्वेनेति यावत् । न यासि किम् ? विवेकेन चेन्न यास्येवेत्यर्थः ॥ 5.54 ॥

अन्वयः–आत्सुभगत्वसगर्वा का अपि मधोनि शृण्वति आलिं बभाषे–‘त्वम् सार्थगुणेन अपि नयासि किं नृणां वीक्षणे अपि सघृणा असि ?’ ॥ 5.54 ॥
अन्वयुर्द्युत्तिपयःपितृनाथास्तं मुदाथ हरितां र्कामतारः ॥
वत्र्म कर्षतु परुः परमेक्रस्तदृगतानुगतिको न महार्घः ॥ 5.54 ॥
जीवातु–अन्वयुरिति । अथेन्द्रप्रयाणानन्तरं, ?हरतां कमितारो दिशां कामयितारो दिक्पतयः, इन्द्रानुयानार्हा इत्यर्थः । व्याख्यातमेतत् । द्युतिपयःपितॄणां नाथा वह्निवरुणयमाः, तमिन्द्रं, मुदा औत्सुक्येन्, अन्वयुरनुयाताः । ‘लङः शकटायनस्यैव’ इति ज्ञेर्जुसादेशः । तथा हि, एकः वरमेक एव पुरः, वतर्त्म कर्षतु मार्ग करोतु । तस्य तस्य मार्गकर्तुः गतमनुगतिर्यस्य स महार्घो माहामूल्यः दुर्लभ इति यावत् । न भवति । पुरोग एव दुर्लभस्तत्पुष्ठानुयायिनस्तु सर्वत्र सुलभा एवेति न किञ्चिदत्र चित्रमित्यर्थः ॥ 5.55 ॥
अन्वयः–अथ हरितां कमितारः द्युतिपयः पितृनाथाः तं मुदा अन्वयुः, एकः परं पुरः वर्त्म कर्षतु तद्गतानुगतिकः महार्घः न ॥ 5.55 ॥
प्रेषिताः पृथगथो दमयन्त्यं चित्तचौर्यचतुरा निजदूत्यः ॥
तद्गुरुं प्रति च तैरुपाराः सख्यसोख्यकपटेन निगूढाः ॥ 5.56 ॥
जीवातु-प्रेषिता इति । अथो अनन्तरं, तैरिन्द्रादिभिः, चित्तचौर्ये दमयन्त्याश्चित्ताकर्षणे, चतुरा निजदूत्यः दमयन्त्यै पृथक् प्रेषिताः । तद्गुरुं तत्पितरं भीमञ्च प्रति, सख्यसौख्यकपटेन मैत्रीसुखव्याजेन, निगूढः गुप्ताः,उपहारा उपायनानि प्रेषिताः ॥ 5.56 ॥
अन्वयः–अथ तैः चित्तचोर्यचतुराः निजदूत्यः दमयन्त्यै पृथक् प्रेषिताः, तद्गुरुं प्रति च सख्यसौख्यकपटेन निगूढाः उपहाराः ॥ 5.56 ॥
चित्रमत्र विबुधैरपि यत्तैः स्वर्विहाय बत भूरनुसस्त्रे ॥
द्यौर्न काचिदथवास्ति निरूढा सैव सा चरति यत्र हि चित्तम् ॥ 5.57 ॥
जीवातु–चित्रमिति । विबुघैर्देवैः विद्वदिभश्च, तैरिन्द्रादिभिः, स्वः स्वर्ग, विहाय, बत हन्त, भूरनुस्रे अनुसृतेति यत् । अत्र चित्रं काकुः, न चित्र किन्तु यत्र चित्तं चरति रमते सैव सा द्यौर्हि ॥ 5.57 ॥
अन्वयः–तैः बिुधै अपि स्वः विहाय यत् भूः अनूसस्त्रं, बत अत्र चित्रम्, अथवा द्यौः काचित् निरूढा न, हि यत्र चित्तं चरति सा एव सा ॥ 5.57 ॥
शीघ्रलंघितपथैरथ बाहैर्लम्भिता भूवममी सुरसाराः ॥
वक्रितोन्नमितकन्धरब्रन्धाः शुश्रुवुर्ध्वनितमध्वनि दूरम् ॥ 5.58 ॥
जीवातु–शीघ्रेति । शीघ्रं लंचितपथैरतिकान्ताध्वभिः रथावाहै रथाश्वैर्भुबं लम्भिताः प्रापिताः, अमी सुरसाराः सुरश्रेष्ठाः, वक्रिताश्चलिताः, उन्नमिताच कन्धराः ग्रीवाः, यस्मिन् स बन्धः कायसंस्थानविशेषो येषां ते सन्तः, अध्वनि दूरं ध्वनिं शुश्रुवुः ॥ 5.58 ॥
अन्वयः–अथ शीघ्रलङ्घितपथैः वाहै भुवं लम्भिताः अमी सुरसाराः वक्रितोननमितकन्धरबन्धाः अध्वनि दूरं ध्वनिं शुश्रुवुः ॥ 5.58 ॥
किं घनस्य जलघेरथवैवं नैव संशयितुमप्यलभन्न ॥
स्यदनं परमदूरमपश्यन्निःस्वनश्रुतिसहोपनतं ते ॥ 5.51 ॥
जोवातु-किमिति । ते देवाः, किं घनस्य ध्वनितम्, मेघस्तनितम्, अथवा जलधेः ध्वनितम्, एवं संशयितुमपि नालभन्तैव । एतावन्मात्रविलम्बोऽपि नास्तीत्यर्थः । ‘शकधृष’ इत्यादिना तुमुन्प्रत्ययः । किन्तु, निःस्वनस्य पूर्वोक्तध्वनितृस्य, श्रुत्या श्रवणेन, सहोपनतं प्राप्तम्, अदूरमासन्नं स्यन्दनं परं रथमेवापश्यन्निति । रथवेगोक्तिः । अत्र सन्देहसहोक्त्योः संसृष्टिः ॥ 5.51 ॥
अन्वयः–ते किं घ्ज्ञनस्य अथवा जलघेः एवं संशयितुम् अति न एव अलभन्त, परं निःस्वनश्रुतिसहोपनतम् अदूरं स्यन्दनम् अपश्यन् ॥ 5.51 ॥

सूतविश्रमदकौतुकिभावं भावबोधचतुरं तुरगाणाम् ॥
तत्र नेत्रजनुषः फलमेते नैषधं बुबुधिरे विबुधेन्द्राः ॥ 5.60 ॥
जीवातु–सूतेति । एते विबुधेन्द्रास्तत्र रथे सूतस्य सारथेः, विश्रमदो विश्वान्तिप्रदः, कौतुकिभावो दिनोदित्वं यस्य तं, विनोदार्थं स्वयं प्रतिपन्नसारथ्यमित्यर्थंः । अत्र हेतुः तुरगाणां भावबोधचतुरम् अश्वहृदयवेदिनं,नेत्रजनुषो नेत्रदत्तायाः फलं, लोचनासेचनकमित्यर्थः । नेषधं निषधानां राजानं नलम् । जनपदशब्दात् क्षत्रियादण् । बुबुधिरे ज्ञातवन्तः ॥ 5.60 ॥
अन्वयः–एते विबुधेन्द्राः तत्र सूतविश्वमदकौतुकिभावं तुरगाणां भावबोधचतुरं नेत्रजनुषः फलं नैषधं बुबुधिरे ॥ 5.60 ॥
वीक्ष्य तस्वय वरुणस्तरुणत्वं यद्वभार निबिडं जडभूयम् ॥
नौचिती जडपतेः किमु सास्य प्राज्यविस्मयरसमितस्य ॥ 5.61 ॥
जीवातु-वीक्ष्येति । वरुणस्तस्य चलस्य, तरुझात्वं तारुण्यं, तारुण्यभूषितरूपमित्यर्थः । वीक्ष्य यन्निबिडं जउभूयं जहत्वं स्तम्भाखं सात्त्विकमित्ययर्थः । ‘भुवो भावे’ इति क्यम् । बभार । प्राज्येन प्रभूतेन, विस्मयरसेनाद्भुतरसेन, जलेन च । स्तिमितस्य निश्चलस्य, जलपतेः स्तब्धपतेश्चेति डलयोरभेदात् सा जडभूयं, दिघेयप्राद्यान्यात् स्त्रीलिङ्गता । औचिती उचितकर्म, न किमु ? भवत्येवेत्यर्थः । विस्मयरसाविष्टस्य स्तम्भसत्वादिति भावः । जलसिक्तस्य स्वयं जडभावस्य जाङयमुचितमिति व्यज्यते ॥ 5.61 ॥
अन्वयः–वरुणः तस्य तरुणत्वं वीक्ष्य यत् निबिडं जडभूयं बभार प्राज्यविस्मयरसस्तिमितस्य अस्य जडपतेः सा किमु औचिती ? ॥ 5.61 ॥
रूपमस्य विनिरूप्य तथातिम्लानिमाप रविवंशावतंसः ॥
कीत्यंते मदधुनापि स देवः काल एव सकलेन जनेन ॥ 5.62 ॥
जीवातु–रूपमिति । रविवंशवतंसो यमः, अस्य नलस्य, रूपं सौन्दर्यं, विनिरूप्य विभाव्य । तथा तेन प्रकारेण, अतिम्लानिगतिवैर्ण्यम्, अतिकालिमानमित्यर्थः । आप । यद्यथा, अनुनामि स देवो यमः, सकलेन जनेन, काल एव काल इत्येव, कीर्त्यते । तथा म्लानिमापेति पूर्वेणान्वयः । नलेर्ष्यानुभावकालिमयोगादयं कालो न तु प्राण्यायुःकलनादिति भावः । अत्र यच्छब्दस्य कारणपरत्वेन व्याख्याने त्वनपेक्षितार्थाक्षितार्थाभिधानन्वयश्च स्यात् । प्रकमारार्थत्वे तु न क?ञ्चिद्विरोधः । प्रकारार्थत्वञ्च निपातानामनेकार्थत्वदविरुद्धमित्यर्थः ॥ 5.62 ॥
अन्वयः–रविवंशवतंसः अस्य रूपं विनिरूप्य तथा अतिम्लानिम् आप यत् सः देवः अधुना अपि सकलेन जनेन कालः एव कीर्त्यते ॥ 5.62 ॥
यद् बभार दहनः खलनु तापं रूपधेयभरमस्य विमृश्य ॥
तत्र भूदनलता जनिकर्त्री मा तदप्यनलर्तैव तु हेतुः ॥ 5.63 ॥
जीवाजतु–यदिति । दहनोऽग्निरस्य नलस्य, रूपमेव रूपधेयं सौन्दर्यम् । ‘नामरूपभागेभ्य स्वार्थे धेयो वक्तव्य’ इति स्वार्थे धेयप्रत्ययः । तस्य भरं समृद्धिं, विमृश्य विचार्य तापं बभार खल्विति यत् । तत्र तापभरणे, अनलताअग्नित्वं जनिकर्त्री जन्मकरी, उत्पादिका मा भूत् । नलद्वपदर्शनजन्यतापे तस्या अप्रयोजकत्वादिति भावः । किन्तु तदपि तथापि चित्रमनलतैवाग्नित्वमेव हेतुरिति विरोधः । नलत्वाभावहेतुरिति परिहारः । अतएव विरोवाभासोऽलङ्कारः ॥ 5.63 ॥
अन्वयः–दहनः अस्य रूपधेयभरं विमृश्य यत् तापं बभार खलु तत्र अनलता जनिकर्त्री मा भूत् तु तदपि अनलता एव हेतुः ॥ 5.63 ॥
कामनीयकमधःकृताकामं काममक्षिसभिरवेक्ष्य तदीयम् ॥
कौशिकः स्वमखिलं परिपश्यन् मन्यते स्म खलु कौशिकमेव ॥ 5.64 ॥
जीवातु-कामनीयकमिति । कौशि इन्द्रः, अघ्ज्ञःकृतकामं, तिरस्कृतमदनं, तदीयं नलीयं, कामनीयकं कमनीयत्वं सौन्दर्यम् । ‘योपघाद् गुरूपोत्तमाद् बुञ्’ । कामं प्रकाममक्षिभिः । सहस्त्रेणेति भावः। अवेक्ष्य, अथा
तथा साकल्येनेत्यर्थः । परिपश्यन् कौशिकमुलूकमेव । ‘महेन्द्रगुग्गुलूलूकव्यालग्ररहिषु कौशिकः’ इत्यमरः । मन्यते स्म खलु । नलस्यात्मनर्श्चतावदन्तरत्यिमंस्तेत्यर्थ3 । तथा चास्य भैमीनिराशं मनो बभूवेति भावः
॥ 5.64 ॥
अन्वयः–कौशिकः अधःकृतकामं तदीयं कामनीयकम् अक्षिभिः कामम् अवेक्ष्य स्वम् अखिलं परिपश्यन् खलु कौशिकम् एव मन्यते स्म ॥ 5.64 ॥
रामणीयकगुणाद्वक्ष्यवादं मूर्तमुत्थितममुं परिभाव्य ॥
विस्मयाय हृदयानि वितेरुस्तेन तेषु न सुराः प्रबभूवुः ॥ 5.65 ॥
जीवातु–रामणीयकेति । सुरा इन्द्रादयः, अमु नलं, मूर्तं मूर्तिमन्तम्, उत्थितमुत्पन्नं रामणीयकं सौन्दर्यं, कामनीयकवत्सिद्धं तदेव गुणस्तस्याद्वयमेकमेवेति वादं प्रवादं, परिभाव्य त्रिजगदेकसुन्दरं मत्वेत्यर्थः । हृदयानि
चितत्तानि, विस्मयायाद्भुतरसाय, वितेरुदंदुः । तेन दानेन, तेषु हृदयेषु विषये न प्रबभूवुः तेषां नेशिरे । दत्तद्रव्यं स्वत्वनिवृत्तेरिति भावः । विस्मायाकृष्टचित्ताबभूवुरिति परमार्थ ॥ 5.65 ॥
अन्वयः–सुराः अमुं मूर्त्तम् उत्थितं रामणीयकगुणाद्वयवादं परिभाव्य हृदयानि विस्मयाय वितेरुः तेन तेषु न प्रबभू न प्रबभूवुः ॥ 5.65 ॥
प्रैयरूपकविशेषनिवेशैः संवददिभरमराः श्रुतपूर्वैः ॥
एष एव स नलः किमितीदं मन्दमन्दसित्तरेतरमूचुः ॥ 5.66 ॥
जीवातु–प्रैयप्कमिति । अमरा इन्द्रादयः, श्रुतपूवैः पूर्व श्रुतैः, ‘सुप्सुपा’ इति समासः । सम्प्रति, संवददिभः प्रत्यक्षसंवादं व्रजदिभः, प्रियरूपस्य भावः प्रैयरूपकं सौन्दर्यम् । ममनोज्ञादित्वाद् वुञ । तस्य विशेषेषु तत्तदवयवेषु । ‘विशेषोऽवयवे व्यक्त’ इत्युत्पलमालायाम् । निवेशैस्संस्थानैर्लिङ्गैः सः श्रुतपूर्वो नल एष एव किमिति हस्तनिर्देशः । इतीदं वाक्यं मन्दमन्दं मन्दप्रकारं, ‘प्रकारे गुणवचनस्य’ इ?ि द्विर्भावः । इतरेतरमुचुः ॥ 5.66 ॥
अन्वयः–अमराः श्रुतपूर्वेः संवददिभः प्रैयरूपकविशेषनिवेशैः सः नलः एषः एव किम्–इति इदम् हतरेतरं मन्दमन्दम् ऊचुः ॥ 5.66 ॥
तेषु तद्विधवधूवरणार्हं भूषणं स समयः स रथाध्वा ॥
तस्य कुण्डिनपुरं प्रतिसर्पन् भूपतेर्नवसितानि शशंसुः ॥ 5.67 ॥
जीवातु–तेष्विति । तस्य भूपतेर्नलस्य, सा प्रसिद्धा विघा प्रकारः सौन्दर्याद्यसाधारणधर्मो यस्यास्तस्यां वध्वाः वरणे अर्हमुचितं भूषणं, सं समयः स्वयंवरकालः, कुण्डिनपुरं प्रतिसर्पन्, तदभिमुखः स रथाध्वा च व्यवसितानि नलोद्योगान् तेषु तानधिकृत्य शशंसुः तेभ्यः शशंसुरित्यर्थः । आ?धारत्वविवक्षायां सप्तमी । एतैर्लिङ्गैरेतस्य स्वयंवरयात्रेयमिति निश्चिक्युरित्यर्थः ॥ 5.67 ॥
अन्वयः–तस्य तद्विधवघूवरणार्हं भूषणम्, सः समयः, कुण्डिनपुरं प्रतिसर्पन् सः रथाध्वा भूपतेः व्यवसितानि तेषु शशंसुः ॥ 5.67 ॥
धम्रराजसलिलेशहुताशैः प्राणतां श्रितममुं जगतस्तैः ॥
प्राप्य हृष्टचलविस्ततापैश्चेतसा निभृतमेतदचिन्ति ॥ 5.68 ॥
जीवातु–धर्मेति । जगतः प्राणतां प्राणत्वं जगज्जीवनत्वं, तत्प्रियतां वा । श्रितममुं नलं, प्राप्यासाद्य, हृष्टाः जगत्प्राणभूतपुरुषदर्शनात्सन्तुष्टः चलास्तल्लावण्यदर्शना दभैभ्यां श्लथानुरागाः, विस्तृततपापा रागशैथिल्यादेव विस्तृतविरहतापाश्च तैस्तथोक्तैस्तैः प्रकृतैर्धर्मराजसलिलेशहुजताशैः चेतसा, निभृतं निगुढम् । एतदनन्तरश्लोकत्रये वक्ष्यमाणाचिन्ति चिन्तितम् । अत्र ‘यमो हृष्टो वरुणश्चलो वह्निर्विस्तृततापः क्रमात्प्रतिपादनपरश्चोत्तरश्लोकत्रयमिति कैश्चिद्’ व्याख्यातम् । तदयुक्तम् 1 न ह्मतेषामेते धर्माः प्रतिनियताः । किंतु, त्रयाणामेकाभिप्रायेणाप्येते धर्मास्साधारणाः, अत एवोत्तरश्लोकत्रयमपि सर्वविषयम् । अत एवान्तरश्लोके ‘नः’ इति बहुवचनोपादानम् । यद्यपि तदनन्तरश्लोकद्वये एकवचनोपादानम् , तदपि प्रत्येकाभिप्रायादविरुद्धम् । किञ्च, इत्यवेत्सय मनसेत्याद्युपसंहारश्लोके परस्परमुखदर्शनोक्त्या त्रयाणामेकाभिप्रायावगमाच्च
अस्मदुक्तमेव युक्तमुतृपश्यामः ॥ 5.68 ॥
अन्वयः–जगतः प्राणतां श्रितम् अमुं प्राप्य हृष्टचलविस्तृततापैः तैः धर्मराजसलिलेशहुताशैः चेतसा निभृतम् एतत् अचिन्ति ॥ 5.68 ॥
नव नः प्रियतमोभयथासो यद्यमुं न वृणुते वृणुते वा ॥
एकतो हि धिगमुमगुणज्ञामन्यतः कथमदःप्रातलम्भः ॥ 5.69 ॥
जीवातु–चिन्ताप्रकारमेवाह-नैवेत्यादिना श्लोकत्रयेण । असौ दमयन्ती, अमुं नलं यदि न वृणुते, वृणुते वा । उभयथापि पक्षद्वयेऽपि नोऽस्माकं प्रियतमा न भवत्येव । कुतः हि यस्मादेकतः प्रथमपक्षे अगंणज्ञाममुं धिक् । तत्सङ्गतेरसुखावहत्वादिति भावः । अन्यतो नलवरणपक्षे कथमदःप्रतिलम्भः अमुष्याः परिग्रहः । परदारत्वादिति भावः ॥ 5.69 ॥
अन्वयः–असौ यदि अमुं न वृणुते, वा–उभयथा नः प्रियतमा न, हि एकतः अगुणज्ञाम् अमुं धिक्, अन्यतः कथम् अदः प्रतिलम्भः ? ॥ 5.69 ॥
मामुपैष्यति तदा यदि मत्तो वेद नेयमियदस्य महत्त्वम् ॥
र्हदृशौ न कथमाकलयित्री मद्विशेषमपरान्नृपपुत्रो ॥ 5.70 ॥
जीवातु–मामिति । इयं दमयन्ती, तदा मामुपैश्यति । तर्हि त्वद्गतदेवत्वाद्युत्कर्षज्ञानात्त्वामेव वरिष्यतीत्ययत आ–ईटृशीति । र्हटृशी सर्वापरोक्षनलगत विशेषानभिज्ञा नृपपुत्री अपरादपरस्माद्बलादित्यर्थंः । ‘पूर्वादिभ्यो नवम्यो वा’ इति विकल्पान्न स्मदादेशः । मद्विशेषं मदीयोत्कर्षं च कथमाकलयित्री ज्ञात्री । तृन्नन्नतादीकारः । ‘न लोक-‘इत्यादिना षष्ठीप्रतिषेश्रः ॥ 5.70 ॥
अन्वयः–इयम् इयत् अस्य मत्तः महत्त्वं यदि न वेद तदा माम् उपैष्यति, ईटृशी नृपपुत्री अपरात् मद्विशेषं च कथम् आकलयित्री ? ॥ 5.70 ॥
नैषधे ब्रत वृते दमयन्त्या व्रीडितो हि न बहिर्भवितास्मि ॥
स्वां गृहेऽपि वनितां कथमास्यं ह्रीनिमीलि खलु दर्शयिताहे ॥ 5.71 ॥
जीवातु–नैषध इति । किंच, दमयन्त्या नषधे नले, वृते सति, व्रीडितः सन् बहिस्तावन्न भवितास्मि हि । बहिः क्वापि जनसमक्षं स्थातुं न शक्ष्यामीत्यणि कर्त्र्या वनितायाः वैकल्पिकं कर्मत्वम् । अत्र णेरणादिसूत्रस्थयद्ग्रहणसामर्थ्यलब्धाश्रुयमाणकर्मत्वाभावेन तद्विषयत्वात् ‘णिचश्च’ इत्यात्मनेपदमिति केचित् । अणिकर्तृकर्मश्रवणेऽपि तदतिरिक्तकर्माश्रवणादश्रूयमाणकर्मत्वमस्त्येवेति णेरणादिसूत्रविषयत्वेमेवेति भाष्येकारः ।
तदेतत्सम्यग्विवेचितमस्माभिः किरातार्जुनीयव्यख्याने घण्टापथे ‘स सन्ततं दर्शयते गतस्मयः’ इत्यत्र॥ 5.71॥
अन्वयः–दमयन्त्या नेषधे वृते बहिः हि व्रीडितः न भवितास्मि बत गृहे अपि स्वां वनितां ह्रीनिमीलि आस्यं कथं खलु दर्शयिताहे ॥ 5.71 ॥
इतृयवेतृय मनसात्मविधेयं किञ्चन त्रिविबुधी बुबुधे न ॥
नागनायकमपास्य तमेकं सा स्म पश्यति परस्परमास्यम् ॥ 5.72 ॥
जीवातु–इतीति । त्रयाणां विबुधानां समाहारस्त्रिविबुधी यमादिदेवत्रयम्, इति पूर्वश्लोकत्रयोक्तप्रकारेण । मनसाऽवेत्यालोक्य, किञ्च नात्मैविशेषं स्वकर्तवृयं न बुबुधे न विवेद । किञ्च, सा त्रिबिबुधी, तमेकं नाकनायकमिन्द्रमपास्य अपवायं परस्परमास्यं पश्यति स्म । इतिकर्तव्यतामूढास्त्रयोऽपि केवलमन्योन्यमुखान्यपश्यन्नित्यर्थंः ॥ 5.72 ॥
अन्वयः–सा त्रिविबुधी इति मनसा अवेत्य किञ्च न आत्मविधेयं न बुबुधे, तम् एकं नाकनायकम् अपास्य परस्परम् आस्यं पश्यति स्म ॥ 5.72 ॥
किं विधेयमधुनेति विमुग्धं स्वानुगाननमवेक्ष्य ऋभुक्षाः ॥
शंसति स्म कपटे पटुरुच्चैर्वञ्चने, पुटुः, ऋभुक्षा इन्द्रः । अधुना किं विधेयमिति विभुग्धमितिकर्तब्यतामूढम् । स्वस्यानुगानामनुयायिनां यमादीनामाननमवेक्ष्य तेषां दैन्यं टृष्ट्वेत्यर्थः नलस्य वञ्चनं समभिलष्य अभिसन्धाय,उच्चै3 शंसति स्म जगाद ॥ 5.73 ॥
अन्वयः–उच्चैः कपटे पटुः ऋभुक्षाः अधुना किं विधेयम् इति विमुग्धं स्वानुगाननम् अवेक्ष्य नलस्य वञ्चनं समभिलष्य शंसति स्म ॥ 5.73 ॥
सवंतःकुशलभागसि कच्चित्त्वं स नैषध इति प्रतिभा नः ॥
स्वासनार्धसुहृदस्तव रेखां वीरसेननृपतेरिव विद्यः ॥ 5.74 ॥
जीवातु–सर्वत्र इति । सर्वतः सप्तस्वङ्गेषु, कुशलभागसि कच्चित् । ‘कच्चित् कामप्रवेदने’ इत्यमरः । न च त्वां न वेह्मीत्याह–त्वं स प्रसिद्धो नैषधः नलः इति नोऽस्माकं, प्रतिभा प्रतीतिः । कुतस्तव रेखामाकृतिं, स्वासनार्धसुहृदो ममार्धासनभाजो, वीरसेननृपतेरिव तत्सटृशीं विह्मः तत्साटृश्यात्तत्पुत्रो नलस्त्वमिति प्रती?म इत्यर्थः ॥ 5.74 ॥
अन्वयः–त्वं सर्वतः कुशलभाक् असि कच्चित् ? ( त्वं ) सः नैषधः इति नः प्रतिभा, तव रेखां स्वासनार्धसुहृदः वीरसेननृपतेः इव विद्मः ॥ 5.74 ॥
क्व प्रयास्यसि नलेत्यलसुक्त्वा यात्रयात्र शुभयाजनि यन्नः ॥
तत्तयैव फलसत्वरया त्वं नाध्वनोर्धभिदमागकमतः किम् ॥ 5.75 ॥
जीवातु–क्वेति । हे नल, क्व प्रयास्यसीत्युक्त्वा पृष्ट्वा अलं, न प्रष्टव्यमिर्त्यः । ‘अलंखल्वोः’ इअत्यादिना क्त्वाप्रत्ययः । कुतः, यद्यस्मान्नोऽस्माकमत्रयात्रदा इहामगमनेन, शुत्यादिना क्त्वाप्रत्ययः । कुतः, यद्यस्मान्नोऽस्माकमत्रयात्रया इहागमनेन, शुभया त्वद्दर्शनेन सफलवा, अजन्यभावि । भावे लुङ् । तत्तस्मात्, फलेन सत्वरया फलार्थिन्या तया, यात्रयैव फर्त्र्या, त्वमिदमध्वनोऽर्धर्धममार्गमागमितो न किम् ? अस्मदर्थमेवेदं तवागमनमित्यर्थं : ॥ 5.75 ॥
अन्वयः–नल, क्व प्रयास्यसि–इति उक्त्वा अलम्, यत् नः अत्र यात्राया शुभयाअजनि, तत् फलसत्वरया तया एव त्वम् इदम् अध्वनः अर्धं न आगमितः न किम् ? ॥ 5.75 ॥
एष नैषध ! स दण्डभृदेष ज्वालजलजटिलः स हुताशः ॥
यादसां स पतिरेष च शेषं शासितारमवगच्छ सुराणाम् ॥ 5.76 ॥
जीवातु–के यूयूमत आह–एष इति । हे नैषध ! नल ! एष इति पुरोवर्तिनो हस्तेन निर्देशः । स प्रसिद्धो दण्डभृद्यमः, एष ज्वालजालैर्जटिलो जटावान् । ज्वालामालाकुलीत्यर्थः । ‘वह्नेर्द्वयोर्ज्वालकीलौ’ इत्यमरः । पिच्छादित्वादिलच् । स हुताशोऽन्निः, एष च सयादसां पतिर्वरुणः, शेषं शिष्टं स्वमित्यर्थ्राः । सुराणां शासितारम् अवगच्छ देवेन्द्रं विद्धि ॥ 5.76 ॥
अन्वयः–नैषध, एषः सः दण्डभृत् एषः ज्वालजालजटिजः सः हुताशः, एषः सः यादसां पतिः, शेषं सुराणां शासितारम् अपगच्छ ॥ 5.76 ॥
अर्थिनो वयममी समुपैमस्त्वां किलेति फलितार्थमवेहि ॥
अध्वनः क्षणमपास्य च खेदं कुर्महे भवति कार्यनिवेदम् ॥ 5.77 ॥
जीवातु–अर्थिन इति । हे नल ! अमी वयमर्थिनः सन्तस्त्वां समुपैमः किल प्राप्नुमः खलु समुपपूर्वादिणो लटि मम् । इति फलितार्थमवेहि विद्धि । क्षणमध्वनः खेदमपास्य अध्वश्रमं नीत्वा भवति त्वयि कार्यनिवेदं कार्यविशेषनिवेदनम् विदेर्ण्यतन्तादञ्प्रत्ययः । कुर्महे ॥ 5.77 ॥
अन्वयः–अमी वयम् अर्थिनः त्वां समुपेमः किल–इति फलितार्थम् अवेहि, क्षणं च अध्वनः खेदम् अपास्य भवति कार्यनिवेदं कुर्महे ॥ 5.77 ॥
र्हदृशी गिरमुदीर्य विडौजा जोषमाप न विशिष्य बभाषे ॥
नात्र चित्रमभिधाकुशलत्वे शेशवावधि गुरुर्गुरुस्य ॥ 5.78 ॥
जीवातु–ईटृशीमिति । विडौजाः हन्द्रः ईटशी सामान्यनिर्दिष्टां, गिरमुदीर्य जोषं मौनमाप । ‘तूष्णीं जोषं भवेन्मौनम्’ इति हलायुधः । विशिष्य विविच्य, न बभाषे विशेषं नाचचष्टेत्यर्थः, अत्रास्मिन्नभिधाकुशलत्वे उक्तिचातुर्ये, चित्रं विस्मयो न । कुतः, अस्येन्द्रस्य शैशवमवधिर्वस्मिन् कर्मणि तद्यथा तथातदारभ्येत्यर्थः । गुरुराचार्यो ‘गुरुर्गींष्पतिपित्रादौ’ इति वैजयन्ती ॥ 5.78 ॥
अन्वयः–विडौजाः ईटृशीं गिरम् उदीर्य जोषम् आप विशिष्य न बभाषे; अत्र अभिधाकुशलत्वे चित्रं न, शैषवावधि गुरुः अस्य गुरुः ॥ 5.गुरुः अस्य अस्य गुरुः ॥ 5.78 ॥
अर्थिनामहृषिताखिललोमा स्वं नृपः स्फुटकदम्बकदम्बम् ॥
अर्चनार्थमिव तच्चरणानां स प्रणामकरणादुपनिन्ये ॥ 5.79 ॥
जीवातु–अर्थीति । अर्थिनाम्ना अर्थिनामश्रवणेन, हृषिताखिललोमा रोमा?ञ्चिततनुः, ‘हृषेर्लोमसु’ इति वैकल्पिक इडागमः । नृपः, स्वमात्मानं, तच्चरणानामर्चना स्फुटकदाम्बकम्बं विकसितनीपकुसुमवृन्दमिवेत्युत्प्रेक्षा । प्रणामकरणात्तद्व्यासजादुपनिन्ये समर्पयामास ॥ 5.79 ॥
अन्वयः–अर्थिनामहृषिताखिललोमा सः नृपः प्रणामकरणात् तच्चरणानाम् अर्चनार्थं स्वं स्फुटकदम्बकदम्बम् उपनिन्ये ॥ 5.79 ॥
दुर्लभं दिगधिपेः किममीभिस्तादृशं कथमहो मदधीनम् ! ॥
ईदृशं ममनसिकत्य विरोधं नैषधेन समशायि चिराय ॥ 5.80 ॥
जीवातु–दुर्लभमिति । दिगधिपैरमीभिरिन्द्रादिभिः, दुर्लभं किं ताटृशं दुर्लभं वस्तु कथं मदधीनं मदायत्तम्, अहो, ईटृशं विरोधं मनसिकृत्य निधाय । ‘अनत्याधान उरसिमनसी’ इति गतिसंज्ञापक्षे ‘कुगतिप्रादयः’ इति समासे क्त्वो त्यबादेशः । भावे लुङ् ॥ 5.80 ॥
अन्वयः–अहो, अमीभिः दिगधिपैः दुर्लभं किम्, ताटृशं मदीधीनं कथम् ? ईटृशं विरोधं मनसिककृत्य नेषधेन चिराय समशायि ॥ 5.80 ॥
जीवितावधि वनीपकमात्रेर्याच्यमानमखिलैः सुलभं यत् ॥
अर्थिने परिवृढाय सुराणां किं वितीर्य परितुष्यतु चेतः ॥ 5.81 ॥
जीवातु–विचाप्रकारमेवाह द्वादशश्लोक्या-जीवितेत्यादि । यद्यसमादखिर्लवैनीपकमात्रैर्यैः कैश्चिद्यसचकैः । ‘वनीपको याचनको मार्गणो मार्गणो याचकार्थिनौ’ इत्यमरः । जीवितावधि प्राणपर्यन्तं, याच्यमानं वस्तु सुलभम् । सुराणां परिबृढाय पभवे अर्थिने किं वस्तु वितीर्य दत्त्वा, चेतः परितुष्यतु सन्तुष्येत्।
प्राणान्तं वस्तु सर्वार्थिसाधारणं ततोऽधिकिमन्द्राय देयं किमस्तीति विचारितमितृयर्थः । वितरणे चेतसः कर्तृत्वविवक्षया वितरणपरितोषयौः समानकर्तृत्व सिद्धिः ॥ 5.81 ॥
अन्वयः–यत् अखिलैः वनीपकमात्रैः जीवितावधि याच्यमानं सुलभं सुराणां परिवृढाय अर्थिने किं वितीर्य चेतः परितुष्यतु ? ॥ 5.81 ॥
भोमजा च हृदि मे परमास्ते जीवितादपि धनादपि गुर्वी ॥
न स्वमेव मम सार्हति यस्याः षोडशीमपि कलां किल नोर्वी ॥ 5.82 ॥
जीवातु–नन्वस्ति लोकोत्तरं वस्तु भौमी, सा दीयतामित्यत आहभीमजेति । उर्वी भूर्यस्या भैम्याः षीडशीमपि कलां नार्हति षोडशांशसाम्य?मपि न प्रानोतीर्त्यः । अत एव धनादपि । किं बहुना, जीवितादपि गुर्वी अधिका सा भीमजा दमयन्ती च । मे हृदि हृदये, परं सम्पयगास्ते । कितु मम स्वमेव न भवति । अद्याप्यस्वकरणादस्यादेयत्वात् । स्वत्वेऽपि ‘देयं दासुताटृते’ इति दाराणां दाननिषेधाच्च विचारस्तदवस्थ एवेति भावः ॥ 5.82 ॥
अन्वयः–यस्याः षोडशीम् अपि कलाम् उर्वी न अर्हति जीवितात् अपि धनात् अपि गुर्वी भीमजा मे हृदि परम् आस्ते, सा सा मम स्वयम् एव न ॥ 5.82 ॥
मीयतां कथमभीप्सितमेषां दीयतां द्रुतमयाचितमेव ॥
तं धिगस्तु कलयन्नपि वाञ्छामर्थिवागवसरं सहते यः ॥ 5.83 ॥
जीवातु–पुनर्विचारमेवाह–मीयतामिति । एषामभीप्सितं वस्तु कथं मीयतां ज्ञायेत । ज्ञानस्योपयोगमाह-अयाचितुं यथा तथा द्रुतं कथं दीयताम्, दातव्यमित्यर्थः कलयन् जानन्नपि । अर्थिवागवसरं सहते याच्?ञाकालं प्रतीक्षते, तं दातारं धिगस्तु । स गर्ह्मं इत्यर्थः ॥ 5.83 ॥
अन्वयः–एषाम् अभीप्सितं कथं मीयताम् ? अयाचितम् एव द्रुतं दीयताम्; यः वाञ्छां कलयन् अपि
अर्थिवगवसरं सहते तं धिक् अस्तु ॥ 5.83 ॥
प्रापितेन चटुकाकुविडम्बं लम्भितेन बहुयावनलज्याम् ॥
अर्थिना यदघमर्जति दाता तन्न लुम्पति विलम्बय ददानः ॥ 5.84 ॥
जीवातु–शीघ्राप्रदाने दोषमाह–प्रापितेनेति । चटुकाकुभ्यां चटूक्ति काकुयोगभ्यां करणाभ्यां, विडम्बं विडम्बनां हास्यत्वं प्रापितेन, दात्रैति शेशः । बह्वधिकं, यथा तथा याचनेन देहीति वादेन, लज्जां लम्भितेन प्रापितेन अत्रापि दात्रेति शेषः । अर्थिना करणभूतेन, उक्तरूपेणार्थिपीडनेनेत्यर्थः । यदघं पापमजति सम्पादयति, विलम्व्य ददानो दाता, तदघं न लुम्पति न विहन्ति । तस्य पापस्य प्रायश्चित्तमपि नास्तीत्यर्थः
॥ 5.84 ॥
अन्वयः–चटुकाकुविडम्बं प्रापितेन बहुयाचनलज्जां लम्भितेन अर्थिनादाता यत् अधम् अजंति तत् विज्मब्य ददानः न लुम्पति ॥ 5.84 ॥
यत्प्रदेयमुपनीय वदान्यैर्दीयते सलिलमर्थिजनाय ॥
याचनीक्तिविफलत्वविशङ्कात्रासमूर्च्छनचिकित्सितमेतत् ॥ 5.85 ॥
जीवातु–यदिति । वादान्यैदर्रातृभिः, प्रदेयं देयद्रव्यमुपनीयार्थिजनाय सलिलं दीयत इति यत् । एतत्सलिलदानं याचनोक्तिविफलत्वविशङ्कया देहीति वादवैफल्यशङ्कया त्रासो भयं तेन यन्मूर्च्छनं तस्य चिकित्स्तिमित्युत्प्रेक्षा । अन्यथा किमर्थं तत्सलिलदानमिति भावः ॥ 5.85 ॥
अन्वयः–वदान्यैः प्रदेयम् उपनीय अर्थिजनाय यत् सलिलं दीयते एतत् याचनोक्तिविफलत्वविशङ्कात्रासमूर्च्छनचिकित्सतम् ॥ 5.85 ॥
अर्थिने न तृणवद्धनमात्रं किन्तु जीवनमपि प्रतिपाद्यम् ॥
एवमाह कुशवज्जलदायी द्रव्यदानविधिरुक्तिविदग्धः ॥ 5.86 ॥
जीवातु–अर्थिन इति । कुशवतो जलस्य दायो दानम् । ददातेर्धञ् । युगागमः । स प्रतिपाद्यतया अस्मिन्निघावस्तीति कुशवज्जलदायी सकुशजलदानप्रतिपादक इत्यर्थः । अतः एवोक्तिविदग्धः । अभिधाव्यापारमन्तरेणार्थादेवार्थान्तरप्रतिपादनचतुर इत्यर्थः । द्रव्यदानविधिर्धनदायकशास्त्रमेवमाह । किमिति अर्थिने घनमात्रं धनमेव । ‘मात्रं कार्त्स्न्येऽवधारणे’ इत्यमरः । तृणवत्तृणमिव न प्रतिपाद्यं देयम् । किंतु जीवनमपि जीवितमपि तथा देयमिति । सकुशं जलं देयमिति च गम्यते । अर्थ्यनपेक्षितुकुशजलदानां विदघतो द्रव्यदानविघेरय मेवाभिप्राय इ?ति भावः ॥ 5.86 ॥
अन्वयः–अर्थिने धनमात्रं तृणवत् न प्रतिपाद्यं कितु जीवनम् अपिकुशवज्जलदायी उक्तिविदग्धः द्रव्यदानविधि : एवम् आह ॥ 5.86 ॥
पङ्कसङ्करविगर्हितमर्हं न श्रियः कमलमाश्रयणाय ॥
अर्थिपाणिकमलं विमलं तद्वासवेश्म विदधीत सुधीस्तु ॥ 5.87 ॥
जीवातु–पङ्केति । पङ्कः पाप कर्दमश्च । ‘पङ्कोऽस्त्री कर्दमैनसोः’ इति वैजयन्ती । तत्सङ्करेण विगर्हितं, कमलं श्रियः आश्रयणाय नार्हम् । तत्तस्मात्सुधीविमलं निष्पङ्कमर्थिपाणिकमलं तद्वासवेश्म लक्षमीनिवासथानं, विदधीत । सव्रथा धनं पात्रपाणिष्वेव निक्षेतप्तव्यम् । न तु भूमाविति भावः ॥ 5.87 ॥
अन्वयः–पङ्कसङ्करविगर्हितम् कमलं श्रियः आश्रयणाय न अर्हम्, तत् सुधीः तद्वासवेश्म विमलम् अर्थिपाणिकमलं विदधीत ॥ 5.87 ॥
याचमानजनमानसवृत्तेः पूरणाय बत जन्म न यस्य ॥
तेन भूमिरतिभारवतीयं न द्रुमैर्न गिरिभिर्न समुद्रैः ॥ 5.88 ॥
जीवातु–याचमानेति । यस्य धनिनोजन्म याचमानजमानसवृत्तैरर्थिजनमनोरस्य पूरणाय न भवति । बतेति खेदे । तनैकनेव पापीयसा । इयं भूमिरतिभारवती । न भवति । बतेति खेदे । तनैकनैव पापीयसा । इयं भूमिरतिभारवती । न द्रुमादिभिर्बहुभिरपीत्यर्थः । तेभ्यः प्रजानां बहूपकारलाभादिति भावः ॥ 5.88 ॥
अन्वयः–यस्य जन्म यावचमानजनमानसवृत्तेः पूरणाय न, बत तेन इयं भुमिः अतिभारवती, न द्रुमैः,
न गिरिभिः, न समुद्रैः ॥ 5.88 ॥
मा धनानि कृपणः खलु जीवन् तृष्णयार्पयतु जातु परस्मै ॥
तत्र नैष कुरुते मम चित्रं यत्तु नार्पयति तानि मृतोऽपि ॥ 5.89 ॥
जीवातु–मेति । कृपणः कष्ठलुब्धो, जीवन् प्राणन्, तृष्णया अतिगर्धनेन, जातु कदापि, परस्मै याचमानाय धनानि, ना ( मा ) र्पयतु न प्रयच्छतु । एष कृपणस्तत्र जीवनक्षणानर्पणे, मम चित्रं विस्मयं न कुरुते । किंतु, मृतोऽपि तानि धनानि, नार्पयति प्रयच्छतीति यत्तत्र चित्रं विस्मयं न कुरुते । कितु, मृतोऽपि तानि धनानि, नार्पयति प्रयच्छतीति यत्तत्र चित्रं कुरुते विरोधात् । नार्पाणि नृपसम्बन्धीनि कुरुत इति तदाभासीकरणाद्विरोधाभासोऽलङ्कारः ॥ 5.89 ॥
अन्वयः–कृपणः जीवन् तृष्णया जातु परस्मै धनानि मा अर्पयतु, तत्र मम चित्रं न कुरुते, यत् एषः तु मृतः अपि तानि न अर्पयति ॥ 5.89 ॥
माममीभिरिह याचितवदिभर्दातृजातमवमत्य जगत्याम् ॥
यद्यशो मयि निवेशितमेतन्निष्कयोऽस्तु कतमस्तु तदीयः ॥ 5.90 ॥
जीवातु–मामिति । जगत्यां भुवि भुवने वा । ’ जगती भुवने भूम्यान्’ अति विश्वः । दातृजातमवमत्यावधीर्य, मां याचितवदिभरमीभिर्देवैर्यद्यशो मयिनिवेशितं स्थापितम्, एतन्निष्कयः एतस्य यशसो निष्क्रयः प्रतितिधिभूतः । कतमस्तु पदार्थस्तदीयोऽस्तु हन्द्रादिसम्बन्धी स्यात् । किं वितीर्य अनुणो भविष्यामीत्यर्थः ॥ 5.90 ॥
अन्वयः–जगत्यां दातृजातम् अवमत्य मां याचितवदिभः अमीभिः यत् यशः मयि निवेशितम्, एतन्निष्क्रयः तु कतमः अस्तु ? ॥ 5.90 ॥
लोक एष परलोकमुपेता हा विहाय निधने धनमेकः ॥
इत्यमुं खलु यदस्य निनीषत्यर्थबन्धुरुदयद्दयचित्तः ॥ 5.91 ॥
जीवातु - लाके इति । एष लोको जनः, हा कष्टं, निधने अन्त्यकाले, धनं विहाय, एकः एकाकी, परलोकमुपेता उपैष्यति । इणो लुट् । इति हेतोरुदयद्दयमुद्यत्कृपञ्चित्तं यस्य सोऽर्थ्येव, बन्धुरस्य लोकस्य, तद्धनम् अमुं परलोकं, निनीषति नेतुमिच्छति खलु । अन्ये तु बन्धवः स्वयमेव सर्वस्वं गृह्णन्ति । नैवं प्रापयन्तीत्ययमेवापद्वन्धुः सङ्ग्राह्म इति भावः ॥ 5.91 ॥
अन्वयः–हा, उषः लोकः निधने धनं विहाय एकः परलोकम् उपेता,इति उदयद्दयिचित्तः अर्थिबन्धुः अस्य तत् अमुं निनीषति खलु ॥ 5.91 ॥
दानपात्रमधमर्णमिहैकग्राहि कोटिगुणितं दिवि दायि ॥
साधुरेति सुकृतैर्यदि कर्तुं पारलौकिककुसीदमसीदत् ॥ 5.92 ॥
जीवातु–दानेति साधुः सज्जनो वार्धुषिकश्च । ‘साधुः त्रिषु हिते रम्ये वार्धुषौ सज्जने पुमान्’ इति वैजयन्ती । इहास्मिन् लोके, एकं गृह्णतीत्येकग्राहि । दिवि परलोके, एकं कोटिग्रणितं कोटिश आवृत्तुं, वृद्धेः परिमितिरस्ति । इदं त्वपरिभिमदायीत्यर्थः । ‘आवश्यकाधमर्ण्ययोर्णिनिः’ इत्याधमर्ण्ये णिनिप्रत्ययः । ‘अकेनोर्भविष्यदाधमर्ण्ययोः’ इति षष्ठीप्रतिषेधाद् द्वितीया । दानपात्रं नामाधमर्ण धनग्रहीति रूपकम् । ‘उत्तमर्णाधमणौ द्वौ प्रयोक्तृग्रहकौ क्रमात्’ इत्यमरः । सुकुतैरेति यदि । तदा असीददविनश्यत् । परलोके भवं पारलौकिकं, ‘परलाकाच्चेति वक्तव्यम्’ इति भवार्थे ठक्प्रत्ययः । कुसीदं वृद्धिजीवनं कर्त्तुः अलमिति शेषः । ‘कुसीदं वृद्धिजीविका’ इत्यमरः । ‘नादत्त मुपतिष्ठते’ इति न्यायाददातुः न किञ्चिदामुष्मिकं सुखम् । दातुः पुनरनन्तरमिति सर्वथा अर्थिने दातव्यमिति भावः ॥ 5.92 ॥
अन्वयः–इह एकग्राहि दिवि कोटिगुणितं दायि दानपात्रम् अधमर्णं सुकृतैः पारलौकिककुसीदम् असीदत् कर्तुं यर्दि ( एति तर्हि ) साधुः एव एति ॥ 5.92 ॥
एवमादि स विचिन्त्य मूहूर्त तानवोचत पितिर्निषधानाम् ॥
अर्थिदुर्लभमवाप्य च हर्षाद्याच्यमानमुखल्लसितश्रि ॥ 5.93 ॥
जीवातुः–एवमादीति । स निषधानां पतिः नलः, एवमादि मुहूर्तमल्पकालं, विचित्य, अथिभिर्दुर्लभं हर्षादुल्लासितश्रि वर्धमानश्रीक, प्रसन्नमित्यर्थः । शैषिकस्य कपो वैभाषिकत्वान्नपुंसकत्वं ह्रसवत्वम् । याच्यमानमुखं दातृमुखं चावाप्य प्रसन्नमुखो भूत्वेत्यर्थः, तानिन्द्रादीनवोचत ॥ 5.93 ॥
अन्वयः–एवमादि मुहूर्त्त विचिन्त्य सः विषधानां पतिः अर्थिदुर्लभं हर्षात् उलसितश्रि याच्यमानमुखं च अवाप्य तान् अवोचत ॥ 5.93 ॥
नास्ति जन्यजनकव्यतिभेदः सत्यमन्नजनितो जनदेहः ॥
वीक्ष्य वःखलु तनूममृतादां दृङ्निमज्जनमुपैति सुधायाम् ॥ 5.94 ॥
जीवातु–नास्तीति । जन्यजनकयोः ?कार्यकारणयोर्व्यतिभेदो नास्ति, कार्य स्वोपादानादभिन्नमित्यर्थः । जनदेहः अन्नजनितः मुक्ताहारपरिणामश्चेतृयेदुभयं सतृयमित्यर्थः । कुतः, अमृतमदन्तीत्समृतादः । ‘अदोऽपन्ने’ इति विट्प्रत्ययः । तेषाममृतादाममृतभुजां, वो युष्माकं, तनुं मूर्ति, वीक्ष्य टृष्टिः सुधायां निमज्जनमुपैति खलु सुधामज्जनमुखमनुभवतीत्यथ्रः । जनदेहानामन्नजन्यत्वे तद्वदेव युष्मदेहानामपि तथात्वे कथमेतत्सुधाकार्यकारित्वं
न स्यादित्यर्थः । युष्मद्दर्शनादेव तावत्कृतार्थोऽस्मीति भावः ॥ 5.94 ॥
अन्वयः–जन्यजनकक्ष्यतिभेदः न अस्ति, जनदेहः अन्नजनितः, सत्यम्; अमृतादां वः तनुं पीक्ष्य टृक् खलुसुधायां निमज्जनं उपैति ॥ 5.94 ॥
मत्तपः क्व नु तनु क्व फलं वा यूयमीक्षणपथं व्रजथेति ॥
ईदृशान्यपि दघन्ति पुपर्पः पूर्वपूरुषतपांसि जयन्ति ॥ 5.95 ॥
जीवातु–मदिति । तनु स्वल्पं मत्तपः क्वः ? । यूयमीक्षणपथं व्रजथेति फलं युष्मद्दर्शनरूपं महाफलं वा क्व ? वैरूप्यादिति भावः । अत एव विरूपघटनारूपो विषमालङ्कारः अथवा ईटृशानि ईटृङ्महाफलान्यपि दधन्ति पुष्णन्ति । ‘वा नपुंसकस्य’ इति नुमागमः पुनःशब्दो वाक्यालङ्कारे । नोऽस्माकं पूर्वपूरुतपांसि जयन्ति तानीदानीं फलन्तीत्यर्थः ॥ 5.95 ॥
अन्वयः–तनु मत्तपः क्व, यूयम् ईक्षणपथं व्रजग इति फलं वा क्व ? र्हटृशानि अपि दधन्ति नः पूर्वपुरुषतपांसि पुनः जयन्ति ॥ 5.95 ॥
प्रत्यतिष्ठिपदिलां खलु देवी कर्म सर्वसहनव्रतजन्म ॥
यूयमप्यहह पूजनमस्या यन्निजैः सृजथ पादपयोजैः ॥ 5.96 ॥
जीवातु–प्रतीति । इलां देवीं भूदेवतां, सर्वसहनं विश्वावमानसहनमेव व्रतं येन सा सर्वसहेति ख्यायते । तस्माज्जन्म यस्य तत्तज्जन्यमित्यर्थः । कियत इति कर्म सुकृतं ( कर्तृ ) प्रत्यतिष्ठिपत् प्रतिष्ठापयामास खलु । ‘तिष्ठतेरित्’ इति णौ चङ्युपधाया इकारः । यद्यस्माद्यूयमपि निजैः पादैरेव पयोजैरिति रूपकम् । अस्या इलायाः पूजनं पूजां सृजथ कुरुध्वमित्यर्थः । अहहेत्यद्भुते ॥ 5.96 ॥
अन्वयः–सर्वसहनव्रतजन्म कर्म इलां देवीं प्रत्यतिष्ठिपत् खलु अहह, यत् यूयम् अपि निजैः पादपयोजैः अस्याः पूजनं सृजथ ॥ 5.96 ॥
जीवितावधि किमप्यधिकं यन्मनीषितमितो नरडिम्भात् ॥
तेन वश्चरणमर्चतु सोऽयं ब्रूत वस्तु पुनरस्तु किमीदृक् ॥ 5.97 ॥
जीवातु-जीवितेति । इतो नरडिम्भान्मानुषशिशोः जीवितावधि प्राणान्तंततोऽधिकं वा किमपि मनीषितमीप्सितं यद्वस्तु सोऽयं नरडिम्भः, तेन वस्तुना, वश्चरणमर्चतु पूजयतु । ईटृगलभ्यं वस्तु पुनः किमस्तु किं स्याद्, ब्रुत ॥ 5.97 ॥
अन्वयः–इतः नरडिम्भात् जीवितावधि ततः अधिकं वा किम् किम् अपि मनीषितं यत् वस्तु सः अयं तेन वः चरणम् अर्चतु, ब्रूत-र्हटृक् पुनः किम् अस्तु ? ॥ 5.97 ॥
एवमुंक्तवति मुक्तविशङ्के वीरसेनतनये विनयेन ॥
वक्रभावविषमामथ शक्रः कार्यकैतवगुरुर्गिरमूचे ॥ 5.98 ॥
जीवातु–एवमिति । एवं वीरसेनतनये नले, विनयेन अकापटेन, मुक्तविशङ्के विस्त्रब्धमुक्तवति सति
। अथ कार्येषु कर्तव्यार्थेषु यानि कैतवानि कपटानि तेषां गुरुरुपदेष्टा शक्रः । वक्रभावः प्रतिकूलाभिप्रायः, तेन विषमां प्रतिकूलां गिरमूचे उवाच ॥ 5.98 ॥
अन्वयः–मुक्तविशङ्के वीरसेनतनये विनयेन एवम् उक्तवति अथ कार्य केतवगुरुः शक्रः वक्रभावविषमां गिरम् ऊचे ॥ 5.98 ॥
पाणिपीडनमहं दमयन्त्याः कामयेमहि महीमिहिकांशो ! ॥
दूत्यमत्र कुरु नः स्मरभीतिं निर्जितस्मर ! चिरस्य निरस्य ॥ 5.99 ॥
जीवातु–पाणीति । हे महीमिहिकांशो भूतलहिमांशो ! ‘प्रालेयं मिहिका च’ इत्यमरः । वयं दमयन्त्याः पाणिपीडनमहं विवाहोत्सवं कामयेमहि अभिलषेमहि । हे निर्जितस्मर ! अत एव स्मरभीतिं चिरस्य निरस्य दूरतो निरस्येत्यर्थः । ‘चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः’ इत्यमरः । अत्रोद्वाहकृत्ये नोऽस्माकं दूत्यं दूतकर्म । ‘दूतस्य भागकर्मणी’ इति यत्प्रत्ययः । कुरु ॥ 5.99 ॥
अन्वयः–महीमिहिकांशो, दमयन्त्या पाणिपीडनमह कामयेमहि ( अथवा अहं महि पाणिपीडनं कामये),
निर्जितस्मर, स्मरभीर्ति चिरस्य निरस्य अत्र नः दूत्यं कुरु ॥ 5.99 ॥
आसते शतमधिक्षिति भूपास्तोयराशिरसि ते खलु कूपाः ॥
कि ब्रहा दिवि न जाग्रति ते ते भास्वतस्तु कतमस्तुलयाऽस्ते ॥ 5.100 ॥
जीवातु–आसत इति । अधिक्षिति क्षितौ । विभक्त्थऽर्थेव्ययीभावः । शतं भूपाः आसते अपरिमिताः सन्तीत्यर्थः । अत्र त्वं तोयराशिरसि । ते भूपाः कृपाः खलु, भूपत्वसाम्येऽपि तेषां तव च समुद्रकूपयोरिव महतदन्तरमित्यर्थः । तथा हि-दिव्याकाशे । ते ते ग्रहाश्चन्द्रादयो न जाग्रति न प्रकाशन्ते किम् ? कितुं कतमो ग्रहो भास्वतस्तुलया साम्येनास्ते । कोऽपीत्यर्थः । तद्वत्तवापि न कोऽपि भूपस्तुल्य इति टृष्टान्तालङ्कारः
॥ 5.100 ॥
अन्वयः–अधिक्षिति शतं भूपाः आसते; तोयराशिः असि, ते खलु कूपाः; दिवि ते ते ग्रहाः न जाग्रति, भास्वतः तु तुलया कतमः आस्ते ? ॥ 5.100 ॥
विश्वदृश्वनयना वयमेते त्वद्गुणाम्बुक्षिमगाधमवेमः ॥
त्वामिहैव विनिवेश्य रहस्ये निर्वृतिं न हि लभेमहि सर्वे ? ॥ 5.101 ॥
जीवातु-विश्वेति । विश्वं पश्यन्तीति विश्वटृष्वानि, सर्वदर्शीति । टृशीर्ण्यन्तात् क्वनिप् । तानि नयनानि येषां ते वयमेवागाधं अवगच्छामः । इणो लटो मस् । हि यस्मात्, रहस्ये रहस्यकृत्ये, त्वामेव विनिवेश्य नियोज्य, सर्वे वयं निर्वृति मुखं न लभेमहीति काकुः । अभेमह्मेष, प्रागुक्त गुणाढ्यत्वादिति भावः ॥ 5.101॥
अन्वयः–विश्वटृश्चनयना एते वयम् आगधं त्वद्गुणामृबुधिम् अवेमः,हि इह रस्ये तृवाम् एव विनिवेश्य सर्वे निर्वृतिं न लभेमहि ? ॥ 5.101 ॥
शुद्धवंशजनितोऽपि गुणस्य स्थानतामनुभवन्नपि शक्रः ॥
क्षिन्नुरेरनमृजुमाशु सपक्षं सयाकं धनुरिवाजनि वक्रः ॥ 5.102 ॥
जीवातु–शुद्धेति । शुद्धे अव्रणे, वेशं कुले, वेणौ च । जनितोऽपि । ‘वंशोवेणौ कुले वर्गे, इति विश्वः । गुणस्य शौर्यादेः मौर्व्याश्च । ‘सत्त्वादौ रूपादौ शौर्यादौ तन्तुषु प्रयोगज्ञाः । गुणशब्दः शिञ्जिन्याम्’ इति हलायुधः । स्थानतामाश्रयत्वमनुभवन्नपि शक्रः ऋजुमकुटिकबुद्धिम्, अवक्रश्च । सपक्षं सुहृदं सपत्रं च, एनं नलं, सायकं धनुश्चाप इव । ‘अथास्त्रियौ धनुचापौइत्यमरसिंहाभिधानार्त्पुल्लिङ्गप्रयोगः । अथवायंशब्द उकारान्तीति उणादौभ्रमशक्यादिसूत्रेण धनधातोः सौत्रे डप्रत्ययविधानात् । आशु । क्षिप्नुः क्षेप्ता सन, क्षिपेः कनुः । ‘न कोक–’ इत्यादिना षष्ठीप्रतिषेधाद् द्वितीयैव । वक्रो जिह्मोऽजनि । श्लिष्टविशेषणेयमुपमेति केचितृ । प्रकृताप्रकृतश्लेष इत्यन्ये ॥ 5.102 ॥
अन्वयः–शुद्धवंशजनितः अपि गुणस्य स्थानताम् अनुभवन् अपि ऋजुं सपक्षम् साथकम् इव एनम् आशु क्षिप्नः शक्रः धनुः इव वक्रः अजनि ॥ 5.102 ॥

तेन तेन वचसैव मधोनः स स्म वदे कपटं पटुरुच्चैः ॥
आचरत्तदुचितामथ वाणीमार्जवं हि कुटिलेषु न नीतिः ॥ 5.103 ॥
जीवातु-तेनेति । उच्चैः पटुरतिकुशलः, स नलः, तेन तेन वचर्सेव मघोनः ईद्रस्य कपटं वेद स्म विवेद । अथ वेदानन्तरं, तदुचितां तस्य कपटस्योकिचतामनुरूपां वाणीमाचरत् । स्वयमपि कपटोक्तिमेवाकरोदित्यर्थः । तथा हिकुटिलेषु, विषये, आर्जवमकौटिल्यं नीतिर्न हि । ततः कुटिलेनैव भवितव्यम् । अन्यथा महान्तमनर्थमृच्छेदिति भावः ॥ 5.103 ॥
अन्वयः–उच्चैः पटुः सः तेन तेन वचसा एव मघोनः कपटं वेद स्म, अथ तदुचितां वाणीम् आचरत्, हि कुटिलेषु आर्जवं नीतिः न ॥ 5.103 ॥
सेयमुच्चतरता दुरितानामन्यजन्मनि मयैव कृतानाम् ॥
युष्मदीयमपि या महिमानं जेतुमिच्छति कथापथपारम् ॥ 5.104 ॥
जीवातु–सेयमिति । सेयमन्यजन्मनि जन्मान्तरे, मयैव कृतानां दुरितानामुच्चतरता महत्ता । तथा किमपरार्द्धं, तदाह-या पापमहत्ता कथाथस्य वाग्वृत्तेः, पारं दूरमवाच्यमित्यर्थः । युष्मदीयमपि महिमानं प्रभावमाज्ञारूपं जेतुमुल्लङ्खितुमिच्छति । पापातिरेकाद्युष्?मदाज्ञोल्लङ्धनेच्छा मे जायते इति विनयोक्तिः । सर्वथा युष्मन्नियोगो न क्रियत इति परमार्थः ॥ 5.105 ॥
अन्वयः-सा इयम् अन्यजनमनि मया एव कृतानां दुरितानाम् उच्चतरता, या कथापथपारं युष्मदीयम् अपि महिमानं जेतुम् इच्छति ॥ 5.105 ॥
वित्त चित्तमखिलस्य न कुर्या धुयग्कार्यपरिपन्थि तु मौनम् ॥
ह्रीगिरास्तु वरमस्तु पुनर्मा स्वाकृतैव परवागपरास्ता ॥ 5.105 ॥
जीवातु–ननु कुटिलिोक्तेर्वरं मौनमत आह–वित्तेति । हे देवाः, ?अक्षिलस्य जनस्य, चित्तं वित्तं तदाहधुर्येति । धुर्यस्य इष्टसाधनसमर्थस्य, कार्यस्योपायप्रयोगस्य, परिपन्थि विरोधि,मौनं तु कुर्याम् । किंतु गिरापरिहारोक्त्या ?ह्रीरस्तु । वरम्, कार्यविरोधिनो मौनाल्लज्जावहमपि परिहारवचनमेव साध्वित्यर्थः । तर्हि मौनादेव परिहारे किं प्रतिषेधरोक्ष्येण तत्राह–परेति । परस्य वाक् प्रार्थनोक्तिरपरास्ता अप्रति षिद्धा सती, स्वीकृतैव पुनः । अप्रतिषिद्धमनुमतमिति न्यायादङ्गीकृतैव तु मास्तु ॥ 5.105 ।
अन्वयः–?अखिलस्य चित्तं वित्त, धुर्यकार्यपरिपन्थि मौनं तु न कुर्याम्; गिरा ह्रीः अस्तु परम्, अपरास्ता परवाक् स्वीकृता एव पुनः मा अस्तु ॥ 5.105 ॥
यन्मतौ विमलदर्पणिकायां सम्मुखस्थमखिलं खलु तत्त्वम् ॥
तेऽपि किं वितरथेद्शामाज्ञां या न यस्य सदृशी वितरोतुम् ॥ 5.106 ॥
जीवातु–तत्र तावत्तानुपालभते–यदिति । येषां वो मतावेद विमलदर्पणिकायां निर्मलादर्शे, अखिलं तत्त्वं वस्तु सम्मुखस्थं प्रत्यक्षं खलु । ते सर्वज्ञा अपि यूयमीटृशमुक्तप्रकाराम् । ‘त्यदादिषु–’ इतयादिना टृशेः कञ्प्रत्ययः । आज्ञां किं वितरथ दत्त । कीटृश्यत आह-येति । या यस्य मे वितरीतुं, दातुं, सटृशी योग्या न । तस्माद्यूयं ममोपालभ्या इत्यर्थः ॥ 4.106 ॥
अन्वयः–विमलदर्पणिकायां यन्मतौ अखिलं तत्त्वं सन्मुखस्थं खलु ते अपि र्हटृशम् आज्ञां किं वितरथ, या यस्य वितरीतुं सटृशी न ॥ 4.106 ॥
यामि यामिह वरीतुमहो तद्दूततां तु करवाणि कथं वः ॥
ईदृशां न महतां बत जाता वञ्चने मम तृणापि ॥ 4.107 ॥
जीवातु–अथाष्टभिरयोग्यतामेवाह-यामीत्यादि । इहास्मिन् समये, यां भैमीं वरीतुम् । ‘वृतो वा’ इति दीर्धः । यामि गच्छामि । तद्दूतां तु तस्यामेव विषये दूत्यं तु कथं वा करवाणि । अहो र्हटृशां महतां वः तृणस्य । तृणकल्पस्य, मम, वञ्चने प्रतारणे, घृणा कृपा जुगुप्सा वापि, न जाता । बतेति खेदं ॥ 4.106 ॥
अन्वयः–अहो इह यां वरीतुं यामि वः तद्दूततां कथं करवाणि ? वत, ईटृशां महतां तृणस्य मम वञ्चनेघृणा अपि न जाता ! ॥ 5.107 ॥
उदभ्रमामि विरहान्मुहुरस्या मोहमेमि च मुहूतंम?हं यः ॥
व्रुत वः प्रभवितास्मि रहस्यं रक्षितुं स कथमीदृगवस्थः ॥ 5.108 ॥
जीवातु–उद्भ्रमामीति । किञ्च, योऽहमस्या भैम्याः विरहान्मुहुरुद्भ्रमामि उन्माद्यामि मुहूर्तमीषत्कालं, मोहं मूर्च्छां च एमि प्राप्नोमि । ईटृगवस्थः सोऽहं वो युष्माकं, रहस्यं रक्षितुं गोप्तुं, कथं ्रपभवितास्मि प्रभविष्यामि न शक्ष्यामीतृयर्थः । व्रत । व्रुवो लोट् ॥ 5.108 ॥
अन्वयः–यः अहम् अस्याः विरहात् मुहुः उद्भ्रमामि मुहर्त्तं च मोहम् एमि इटृगवस्थः सः ब्रू त, कथं वः रहस्यं रक्षितुं प्रभविता अस्मि ? ॥ 5.108 ॥
यां मनोरथमयीं हृदि कृत्वा यः श्वसिम्यथ कथं स तदग्र ॥
भावगुंप्तिमवलम्बितुमीशे दुर्जया हि विषया विदुषापि ॥ 5.109 ॥
जीवातु–यामिति । योऽह मनोरथमयीं सङ्कल्पख्यां, यां भैर्मी, हृदि कृत्वा श्वसिमि प्राणिभि । अथ सोऽहं तदग्रे तस्याः भैम्याः परुः भावगुप्ति कामविकारगोपनमवलम्बितुं, कथमीशे शक्नोमि । तथा हि, विदुषा विवेकिनापि विषयाः शब्दादयो दुर्जया इत्यर्थान्तरन्यासः ॥ 5.109 ॥
अन्वयः–अथ यः मनोरथमयीं यां हृदि कृत्वा श्वसिमि, सः तदग्रे कथं भावगुप्तिम् अवलाम्बितुम् र्हशे ? हि विषयाः विदुषा अपि दुर्जयाः ॥ 5.109 ॥
यामिकाननुपमृद्य च मादृक् तां निरीक्षितुमपि क्षमते कः ॥
रखिलक्षजयण्डचरित्रे पुंसि विश्वसिति कुत्र कुमारी ॥ 5.110 ॥
जीवातु–यामिकानिति । किञ्चे ति चार्थः । माटक् मद्विधः, क्षत्रिय इत्यर्थः । कः यामान् रक्षन्तीति यामिकाः प्रहररक्षकाः ‘रक्षती’ति ढक् । ताननुपमृद्य अहत्वा । तां भैमीं, निरीक्षितुमपि क्षमते । किं पुनराभाषितुमिति भावः । तथैव क्रियतां तत्राह–रक्षीति । रक्षिणां लक्षाणि तेषां जयेन मर्दनेन चडण्च्रित्रे कूरकर्मणि, पुंसि कुमारी कन्या, कुत्र विश्वसिति, न कुत्रापीत्यर्थः । क्वोद्वाहप्रसङ्गः । क्व चान्तुःपुरमर्दनमिति भावः ॥ 5.110 ॥
अन्वयः–माटृक् कः च यामिकान् अनुपमृद्य तां निरीक्षितुम् अपि क्षमते रक्षिलक्षजयचण्डचरित्रे पुंसि कुमारी कुत्र विश्वसिति ? ॥ 5.110 ॥
आदधीचि किल दातुकृतार्घं प्राणामात्रपणसीम यशो यत् ॥
आददे कथमहं प्रियया तत् प्राणतः शतगुणेन पणेन ॥ 5.111 ॥
जीवातु–आदधीचीति । प्राणमात्रं जीवितमेव, पण्सीमा मूल्यावधिर्यस्मिन् कर्मणि तद्यथा तथा । ‘पणो मूल्ये ग्ल्ये मूलृये गल्हे माने’ इति वैजयन्ती । आदधीचि दधीचिमारभ्य अभिविधावव्ययीभावः । किलेति प्रसिद्धौ । दातृमिभर्वदान्यैः कृतार्घं निश्चितं मूल्यम् । ’ मूल्येपूजाविधावर्धाः’ इत्यमरः । यद्यशः तद्यशः प्रणतो जीवाच्छतगुणेन प्रिययैव, पणेन मूल्येन, अहं कथमाददे स्वी?करिश्यामि । हीनकयस्य परावर्त्यत्वादिति भावः । अत्र परिवृत्तिरलङ्कारः । ‘समन्युनाधिकानाञ्च यथ विनिमयो भवेत् । साकं समाधिकरन्धूयैः परिवृत्तिरसौ मता ॥’ इति लक्षणात् । तत्र प्रणैर्यशसो न्यूनपरिवृत्तिः, हीनमूल्यत्वात् । प्रियया यशसोऽधिकपरिवृत्तिरधिकूमूल्यत्वादिति भावः ॥ 5.111 ॥
अन्वयः–आदधीचि दातृकृताघं यत् यशः प्राणमात्रपणसीम किल तत् प्राणतः शतगुणेन प्रियया पणेन अहं कथम् आददे ! ॥ 5.111 ॥
अर्थना मयि भवदिभरिवास्यै कर्तुंमर्हति मयापि भवत्सु ॥
भीमजार्थपरयाचनचाटौ यूयमेव गुरवः करणीयाः ॥ 5.112 ॥
जीवातु–अर्थनेति । अस्यै दमयन्त्यै । तादर्थ्ये चतुर्थी । मयि विषये, भवदिभरिव मयापि भवत्सु विषये अर्थना प्रार्थना कर्तुमर्हति कर्तव्येत्यर्थः । अथ कथं कामुकमुखात्कामिनीलिप्सेति चेद्यथा भवता तथेत्याह–भीमचेति । भीमजार्था या परयाचनचाटुपरप्रार्थनारूपा प्रियोक्तिस्मस्यां यूमेव गुरवःउपदेष्टारः करणीयः : । करोमि चेति भावः ॥ 5.112 ॥
अन्वयः–भवछिीाः मयि इअव मया अपि अस्यै भवत्सु अर्धना कर्तुम् अर्हति, भीमजार्थपरचनचाटौ यूयम् एव गुरवः करणीयाः ॥ 5.112 ॥
अर्थिताः प्रथमतो दमयन्तीं युयमुन्वहमुपास्य मया यत् ॥
ह्रीर्न चेद् व्यतियतामपि तद्वः सा ममापि सुरां न तदस्तु ॥ 5.113 ॥
जीवातु–अथ प्रथमप्रार्थकत्वाभिमानः, तर्हि स्वमेव प्रथम इत्याहअर्थिता इति । मया अन्वहमनुदिनम् । ‘अनश्च’ इत्यव्ययीभावः, समासान्तष्टच् । यूयूमुपास्य प्रथमतो दमयन्तीमर्थिताः । अर्थयतेर्दुहादित्वादप्रधाने कम्रणि क्तः इति यत् तत्, प्रथमपार्थनं व्यतियतां व्यतिक्रमतामपि । इणो लटः शत्रादेशः वः ह्रीनै चेत्तर्हि सा
ह्रीमंमापि सुतरां नास्तु मा भूत् ॥ 5.113 ॥
अन्वयः–अन्वहं मया यूयम् उपास्य प्रथमतः यत् दमयन्तीम् अर्थिताः, तत् व्यतियतां वः ह्रीः न चेत् तत् सा मम अपि सुतरां न अस्तु ॥ 5.113 ॥
कुण्डिनेन्द्रसुतया किल पूर्व मां वरीतुमुररीकृतमास्ते ॥
व्रीडमेष्यति परं मयि दृष्टे स्वीकरिष्यति न सा खलु युष्मान् ॥ 5.114 ॥
जीवातु-कुण्डिनेति । कुण्डिनेन्द्रसुतया दमयन्त्या । ‘न लोक-‘इत्यादिना निष्ठायोगे षष्ठीप्रतिधेधात् कर्तरि तृतीया । पूर्वमेव मां वरीतुसुररीकृतमङ्गीकृतमास्ते । तया मद्वरणमङ्गीकृतं किलेत्यर्थः । किलेति वार्तायाम् । कर्मणि क्तः । अङ्गीकारस्य कथञ्चिदिच्छार्यत्वमङ्गीकृत्य, ‘समानकर्तृ केषु तुभुन्’ इति तुमुन्प्रतृययः । ततो मयि टृष्टे परं व्रीडमेष्यति । एवं च सा युष्मान्न स्वीकरिष्यति खलुः ॥ 5.114 ॥
अन्वयः–कुण्डिनेन्द्रसुतया पूर्व किल मां वरीतुम् उररीकृतम् आस्ते, सा मयि टृष्टे परं व्रीडम् एष्यति युष्मान् खलु न स्वीकरिष्यति ॥ 5.114 ॥
तत्प्रसीदित विधत्त न खेदं दूत्यमत्यसदृशं हि ममेदम् ॥
हास्यतैव सुलभा न तु साध्यं तद्विधित्सुभिरनौपयिकेन ॥ 5.115 ॥
जीवातु–तदिति । तत्तस्मात्, प्रसीदति प्रसन्नाः स्थ, खेदं क्लेशं, न विधत्त न कुरुत । ममेदं दूत्यमत्यसटृशमत्यन्तायोग्यं हि । कुतः ? अनौपयिकेन, अनुपायेन, उपायं विनेत्यर्थः । ‘उपायादध्रस्वत्वञ्च’ इति स्वार्थे ठक् ह्रस्वत्वं च । तद् दूतृयं विधित्सुभिश्चिकीर्षुभिर्हास्यतैव सुलभा, साध्यं प्रयोजनन्तु न सुलभम् ।
अनुचितकर्मारम्भोऽनर्थाय भवेन्न फलादेत्यर्थः ॥ 5.115 ॥
अन्वयः–तत् प्रसीदत, खेदं न विघत्त । मम इदं दूत्यम् अत्यसटृशम्, हि अनौपयिकेन तत् विधित्सुभिः हास्यता एव सुलभ, साध्यं तु न ॥ 5.115 ॥
ईदृशानि गदितानि तदानीमाकलय्य स नलस्य बलारिः ॥
शंसति स्म किमपि स्मयमानः स्यानुगाननविलोकनलोलः ॥ 5.116 ॥
जीवातु-ईटृशानीति । व वलारिः इन्द्रः, तदानीं नलस्येटृशानि गदितानि वाक्यानि, आकलय्य आकर्ण्य । स्मयमानो मन्दं हसन् । स्वानुगानां यमादीनाम्, आननविलोकने लोलोलुपस्सन् । स्ववाक्यानुमोदनार्थमिति भावः ॥ 5.116 ॥
अन्वयः–सः बलारिः तदानीं नलस्य ईटृशानि गदितानि आकलय्या स्मयमानः स्वानुगाननविलोकनलोकलः किम् अपि शंसति स्म ॥ 5.116 ॥
नाभ्यवायि नृपते ! भवतदं रोहिणीरमणवंशभयेन ॥
लज्जते न रसना तव वाक्यादथिषु स्वियमुरीकृतकाम्या ॥ 5.117 ॥
जीवातु–नेति । हे नृपते ? भवता इदम् । सेयमुच्चतरेत्यादि प्रतिषेधवाक्यम् । रोहिणीरमणवंशभवेन सोमवंश्येनेव नाभ्यधायि । कि त्वसोमवंश्येनेवाभिहिमित्यर्थः । प्रतिश्रुतपरित्यागादिति भावः । कुतः, अर्थिषु विषये स्वयमुरीकृतकाम्या अङ्गीकृतमनोरथपूरणा तव रसना, वाक्यात् प्रातिकूल्यान्न लज्जते । ततो न सोमवंश्य इव प्रतिभासीत्यर्थः ॥ 5.117 ॥
अन्वय-नृपते, रोहिणीरमणवंशभवेन भवता इदं न अम्यधायि ? अर्थिषु स्वयम् उररीकृतकाम्या तव
ररसन वाक्यात् न लज्जते ? ॥ 5. 117 ॥

भङ्वातु–भङ्गुरमिति । हे धीरहो चलति धर ! इमं जीवलोकं प्राणिजातम् । भङ्गुरं विनश्वरं, ‘भञ्जभासमिदो धुरच्’ । वितथं दुःखमयत्वादिफकञ्च । कथं वः नावलोकयसि न पश्यसि, न जानासीत्यर्थः । येनाज्ञानेन तवापि धीर्धर्मयशसी । अभंगुरावितथे अपीति भावः । परिहातुं चलति । अहो अत्थिरविषयलौल्यात् स्थिरसुसुकृतपरित्यागो भ्वाटृशामनुचित इत्यर्थः ॥ 118 ॥
अन्वयः–अहो, धीर, इमं जीवलोकं भङ्गुरं वितथं च कथं वा न अवलोकयसि येन तव अपि धीः धर्म्यशसी परिहातुं चलति ? ॥ 5.118 ॥
कः कुलेऽनि जगन्मुकुटे वः प्रार्थकेप्सितमपूरि न येन ॥
इन्दुरादिरजनिष्ट कलङ्की कष्टमत्र स भवानपि मा भूत् ॥ 5.119 ॥
जीवातु–क इति । जगन्मुकुटे जगद्भूषणे, वः कुले प्रार्थकेप्सितमर्थिमनोरथः येना नापूरि नपूरितम् । कोऽजनि जातः, न कोऽपीत्यर्थः ॥ 5.119 ॥
अन्वयः–जगन्मुकुटे वः कुले कः अजनि ये न अर्थिकेप्सितं न अपूरि ? कष्टम् आदिः दन्दुः कलङ्की अजनिष्ट अत्र भावन् अपि स मा भूत् ॥ 5.119 ॥
यापदृष्टिरपि या मखमुद्रा याचमामनु या च न तुष्टिः ॥
त्वादृशस्य सकलः स कलङ्क शीतभासि शशकः परमङ.क ॥ 5.120 ॥
जीवातु–अथ विचार्यमाणे त्वमेव कलङ्की न शशाङ्क इत्याह-येति । त्वाटृशस्य याचमानमनु अर्थिनं प्रति, याप्यपटृर्विकृतदर्शनं, या च मुखमुद्रा मौनं, या न तुष्टिरसन्तोषश्च, स सकलो विकारः कलङ्कः । शीतभासि च? मुखमुद्रा मौनं, या न तुष्टिरसन्तोषश्च, स सकलो विकारः कलङ्कः । शीतभसि चन्द्रे, शशकः परे केवलमङ्कश्रीवत्सादिवत् चिह्नं , न तु कलङ्क इत्यर्थः ॥ 5.120 ॥
अन्वयः–याचमानम् अनु या अपदृष्टिः या च मुखमुद्रा, या च न तुष्टिः सः सकलः त्वादृशस्य कलङ्कः, शीतभसि शशकः परम् अड्कः ॥ 5.120 ॥
नाक्षराणि पठता किमपाठि प्रस्मृतः किमथ वा ?पठितो1़पि ॥
इत्थमर्थिजनसंशयदोलाखेलनं खलु चकार नाकरः ॥ 5.121 ॥
जीवातु–किञ्चेदमर्थिषु ते नास्ति वाद इत्याह–नेति । अक्षराणि पठता शैशवे मातृकाक्षराण्यभ्यस्यता भवता, नकारो निषेधवाची नशब्दो नापाठि किम् । अथवा, पठितोऽपि प्रस्मृतो विस्मृतः इत्यथमर्थिजनस्य संशय एव दोला तया खेलनं क्रीडाम् । नकारश्चकार । अत्रार्थिनामीद्क्संशया सम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिभेदः । स चोक्तसंयोस्थापित इति सङ्करः ॥ 5.121 ॥
अन्वयः–अक्षराणि पठता न अपाठि किम् अथवा पठितः अपि विस्मृतः किम् इत्थं खुलु नकारः अर्थिजनसंशयदोलाखेलनं चकार ? ॥ 5.121 ॥
अव्रवीत्तमनलः क्व नलेदं लब्धमुज्झसि यशः शशिकल्पम् ॥
कल्पृक्षपतिमर्थनमेनं नाप कोऽपि शतमन्युमिहान्यः ॥ 5.122 ॥
जीवातु–अव्रवीदिति । अथानलोऽग्निस्तं नलमब्रवीत् । हे नल ! इदं वक्ष्यमागं, लब्धं हस्तप्राप्तं शशिकल्पं चन्द्रपतिमं, यशः, क्वोज्झसि कुत्र त्जसि । किं तद्यशस्तदाह इद लोके, अन्यस्त्वद्व्यतिरिक्तः, कोऽपि कल्पवृक्ष पतिमनन्यार्थिनमित्यर्थः । एनं शतमन्युमिनद्रं, अर्थिनं नाप । तदेतद्धस्तगतमिन्द्रवाच्त्वयशे वृथा मा विनाशयेत्यर्थः ॥ 5.112 ॥
अन्वयः–अनलः तम् अब्रवीत्–नल ! इदं लब्धं शशिकल्पं यशः क्व उज्झसि, इह अन्मयः कः अपि एनं क्लपवृक्षपि शतमन्युम् अर्थिनं न आप ? ॥ 5.112 ॥
न व्यहन्यत कदापि मुदं यः स्वःसदामुपनयन्नभिलाषः ॥
तत्पदे त्वदभिषेककृतां नः स त्यजत्समतामतामदमद्य ॥ 5.113 ॥
जीवातु-नेति । स्वःसदः र्स्वासिनः । ‘सत्सूद्विष-‘इत्यादिना किप् ।तेषां नः सम्बन्धी योऽभिलाषो
मनोरथो मुदमुपनयन् स्वसिद्ध्या सन्तोषमा वहन्, कदापि न व्यहन्यत न विहतः । अद्य, तित्पेद तदव्यवसिते, तत्सम्पादका धिकार हत्यर्थः । ‘पदं व्यवसितत्राणस्थानक्ष्मांघ्रिवस्तुषु’ इत्यमरः । त्वदभिषेककृतां त्वां स्थापयतां, नः सम्बन्धी सोऽभिलाषः । असमता असाधारण्यं, स्वसिद्धावनन्यापेक्ष्त्वमिति यावत् । तन्मदं त्यजतु । अद्य प्रभृति स्वार्थसाधने स्वयमेव समर्थाः सुरा इत्यहङ्कारं मुञ्चाम इत्यर्थः ॥ 5.123 ॥
अन्वयः–नः स्वःसदां यः अभिलाषः मुदम् उपनयन् कदापि न व्यहन्यत अद्य तत्पदे त्वदभिषेककृतां सः असमतामदं त्यजतु ॥ 5.123 ॥
अब्रवादथ यमस्तमहृष्टं वीरसेनकुलदीप ! तमस्त्वाम् ॥
यत्क्रिमप्यभिबुभूषति तर्त्कि चन्द्रवंशवसतेः सदृशं ते ॥ 5.124 ॥
जीवातु–अव्रीदिति । अथ यमः श्हृष्टमसन्तुष्टं, तं नलमब्रवीत् । हे वीरसेनकुलदीप ! किमपि यत्तमो मोहोऽन्धकारश्च त्वामभिबुभूषति अभिभवितुमिच्छति । तच्चन्द्रवंशे वसतिः स्थितिर्यस्य तस्य ते सटृशं किम् । न हि चान्द्रस्य तेजसस्तमसाभिभवो युक्त इत्यर्थः ॥ 5.124 ॥
अन्वयः–अथ यमः अहृष्टं तम् अव्रतीत्–वीरसेनकुलदीप ! यत् किम् अपि तमः त्वाम् अभिबुभूषति तत् किं चन्द्रवशवसतेः ते सटृशम् ? ॥ 5.124 ॥
रोहणः किमपि यः कठिनानां कामधेनुरपि या पशुरेव ॥
नैनयोरपि वृथां भवर्दी हा विधित्सुरसि वत्स ? किमेतत् ॥ 5.124 ॥
जीवातु–रोहण इति । यो रोहणो मणीनामाकरोऽद्रिः, सोऽपि कठिनानां मध्ये किमपि कठिनः । या कामधेनुः सापि पशुरेव । एनयोः पशुपषाणयोरपि सम्बन्धी । ‘द्वितीयाटौस्वेनः’ इतीदंशब्दस्य एतच्छब्दस्य वा अन्वादेशविषये इनादेशः । अर्थी वृथा विफली नाभवत् । हे वत्स, किमे?तद्विधित्सुर्विधातुमिच्छुरसि । हेति विषादे । हा कष्टं पशुपाषणाभ्यामपि तुच्छवृत्तिरसीत्यर्थः ॥ 5.124 ॥
अन्वयः–यः कठिनानां किमपि रोहणः, या कामधेनुः अपि पशुः एव, एनयोः अपि अर्थी वृथा न अभवत्, हा वत्स, एतत् किम् विधित्सुः असि ? ॥ 5.124 ॥
याचितश्चि?रयति क्व नु धीरः प्राणने क्षणमपि प्रतिभूः कः ॥
शंसति द्विनयनी दृढनिद्रां द्राङ्निमेषमिषधूर्णनपूर्णा ॥ 5.125 ॥
जीवातु–याचित इति । क्व नु कुंत्र, धीरः सुधीर्याचितः सन् चिरयतिविलम्बते । न कुत्रापि विलम्बत हत्यर्थ । कुतः, क्षणमपि प्राणने जीवने, प्रतिभूर्लग्नकः कः, न कोऽपीत्यर्थः । द्राङ्निमेषमिषेमिषेण शीघ्रपक्ष्मपातव्याजेन, घूर्णनेन कनीनिकाभ्रमणेन पूर्णा द्विनयनी नयनद्वन्द्वमेव, टृढनिद्रां मरणं शसति । नयनघुर्णनत्वक्षणिकं जीवनमि?त्यर्थः ॥ 5.126 ॥
अन्वयः–याचितः घीरः क्व नु चिरयति ? क्षणम् अपि प्राणने प्रतिभूः कः ? द्राङ्निमेषमिषघूर्णपूर्णा द्विनयनी टृढनिद्रां शंसति ॥ 5.126 ॥
अभ्रषुष्पमपि दित्सति शीतं सार्थिना विमुखता यदभाजि ॥
स्तोककस्य खलु चञ्चु पुटेन ग्लानिरुल्लसति तद्धनसङ्घे ॥ 5.127 ॥
जीवातु–अभ्रपुष्पमिति । शीतं शीतमभ्रपुष्पमुछकम् । ‘मेधपुष्पं घनरस’ इत्यमरः । तद् घनपुष्पं, तद्वद्दुर्लभं वस्त्विति च गम्यते । दित्सति दातुमिच्छत्यपि । न तु परिजिहीर्षतीत्यर्थः, घनसङ्घे मेघवृन्दे, अर्थिना याचकेन, स्तोककस्यचातकस्य । ‘अथ सारङ्गः स्तोककश्चातकः समौ’ इत्यमरः चञ्चुपुटेन सा प्रसिद्धा विमुखता । पक्षिमुखत्वं पराङ्मुखत्वञ्च । अभाजीति यत् । तत्तस्माद्वैमुख्यमनुचितमिति भावः
॥ 5.127 ॥
अन्वयः–शीतम् अभ्रपुष्पम् दित्सति अपि घनसङ्घेअर्थिना स्तोककस्य चञ्चुपुटेन यत् सा विमुखता अभाजि तत् ग्लानिः उल्लसति खुलु ॥ 5.127 ॥
ऊचितवानुचितमक्षरमेनं पाशपाणिरपि पाणिमुदस्य ॥
कीर्तिरेव भवतां प्रियादारादाननीरह्मरमौक्तिकहारा ॥ 5.128 ॥
जीवातु–ऊचिवानिति । पाशपाणिर्वरुणोऽपि, पाणिमुदस्य, उद्यम्य, एनं नलम् उचितं युक्तम्, अक्षरं वाक्यम्, ऊचिवान् उक्तवान् । यदुक्तं तदाहकीर्तिरिति । दाननीराणां झरः दानजलप्रवाहः, स एव मौक्तिकहारो यस्यास्तथोक्ता कीर्तिरेव भवतां युष्माकं प्रियादाराः प्रियकलत्रम् । ‘पुं भूम्नि दाराः’ इतृयमरः । एतेन भार्याया अपि कीर्तिः प्रियतमेति भावः । अतो दमयन्तीलोभान्न कीतिं जहीत्यर्थंः । अत्र ख्पकालङ्कारः ॥ 5.128 ॥
अन्वयः–पाशपाणिः अपि पाणिम् उदस्य एनम् उचितम् अक्षरम् ऊचिवान्–दाननीरह्मरमौक्तिकहारा कीर्त्तिः एव भवतां प्रियदाराः ॥ 5.128 ॥
चर्म वर्म किल यस्य नभेद्य यस्य वज्रमयमस्थि च तौ चेत् ॥
स्थायिनाविह न कर्णदधीची तन्न धर्ममवधीरय च तौ चेत् ॥ 5.129 ॥
जीवातु–चर्मंति न कर्णस्य चर्म त्वक् नभेद्यमभेद्य् । नञर्थस्य नश्ब्दस्य ‘सुप्सुपा’ इति समासः । वर्म कवचं किल । यस्य दधीचेरस्थि च वज्रमयं किल । किलेति प्रसिद्धौ । तौ महासत्त्वशालिनौ कर्णधीची । इह जगति, स्थायिनौ न चेत् । तर्हि, हे धीर धीमन् ! र्धा नावधीरय नावमन्यस्व ! कर्णादीनामस्थिरत्वम् तद्धर्मस्य च स्थैर्य टृष्टावा त्वमपि तथैवा त्वमपि तथेवा चरेत्यर्थः ॥ 5.129 ॥
अन्वयः–यस्य चर्म न भेद्यं वर्म किल, यस्य अस्थि च वज्रमयम्, तौ कर्णदधीचे इह स्थायिनौ न चेत् तत्, धीर, धर्म न अवधीरय ॥ 5.129 ॥
अद्य यावदपि येन निबद्धौ न प्रभू विचलितु बलिविन्ध्यौ ॥
आश्रुतावितथतागुणपाशस्त्वादृशेन विदुषा दुरपासः ॥ 5.130 ॥
जीवातु–अद्येति । येन सत्यसन्धत्वपशेन, विचलितुमपि प्रभू समर्थौ न स्तः । आश्रुतस्य प्रतिज्ञातार्थस्य अवितथता सत्यता, सैव गुणः, उत्कृष्टधर्मः सः एवे पाशो बन्धः, त्वाटृशेन विदुषा स दुरपासः दुरुच्छेदः । बलिविन्ध्यादिटृष्टान्तेन यावज्जीविर्बन्धेनापि प्रतिज्ञातार्थनिर्वाहः कार्य इत्यर्थः ॥ 5.130 ॥
अन्वयः–येन निबद्धौ बलिविन्ध्यो अद्य यावत् विचलितुम् अपि प्रभून, सः आश्रुतावितथतागुणपाशः त्वाटृशेन विदुषा दुरपासः ॥ 5.130 ॥
प्रेयसी जितसुधांशुमुखश्रीर्या न मुञ्चति दिगन्तगतापि ॥
भङ्गिसङ्गमुरङ्गटृगर्थे कः कदर्थयति तामपि कीर्तिम् ॥ 5.131 ॥
जीवातु–प्रेयसीति । प्रेयसी प्रियतमा, जिता सुधांशुमुखानां चन्द्रादीनां श्रीर्यया सा । अन्यत्र, ?जितसुधांशुर्मुखश्रीर्यस्याः सा तथोक्ता । या कीर्तितदिगन्तगतापि देशान्तरगतापि, न मुञ्चति । तामपि कीर्ति भङ्गिसङ्गमः भंगुरसङ्गतिर्यस्यास्ततस्याः कुरङ्गटृशोऽर्थे तदर्थम् । तादर्थ्येऽव्ययीभावः । कुतिस्तोऽर्थः कदर्थः । ‘कोः कत्तत्पुरुषेऽचि’ इति कुशब्दस्य कदादेशः, तं करोति कदर्थयति व्यर्थयतीत्यर्थः । को नामास्थिरार्थे स्थिरं जह्मादिति भावः ॥ 5.131 ॥
अन्वयः–जितसुधांशुमुखश्रीः या प्रेयसी दिगन्तगता अपि न मुञ्चति तां कीर्तिम् र्भङ्सिङ्मकुरङ्गटृगर्थे अपि कः कदर्थयति ? ॥ 5.131 ॥
यान् वरं प्रति परेऽथंयितारस्तेऽपि यं वयमहो स पुनस्त्वाम् ॥
नैव नः खलु मनोरथमात्रं शुरय दिशोऽपि यशोभिः ॥ 5.132 ॥
जीवातु-यानिति । परे अन्ये जानाः, वरं प्रति टृष्टलाभमुद्दिश्य, यानस्मानर्थयितारः । ताच्छील्ये तृन् । ‘न लोक’-इत्यादिना षष्ठीप्रतिषेधाद् द्वितीया । ते वयमपि यं त्वामर्थयितारः स्मः । अहो, स त्वं पुनर्नोऽस्माकं, मनोरथमात्रं मनोरथमेव नैव पूरय । किंतु, हे शूर ! यशोभिर्दिशोऽपि पूरय खलु । तस्मा दस्मनोरथूपरणेन तेदिगन्तविश्रान्ता कीर्तिर्भविष्यति । अन्यथा, अपकीर्तिरपि ताटृशी भविष्यतीति भावः ॥ 5.132 ॥
अन्वयः–अहो, परे वरं प्रति यान् अर्थयितारः ते वयम् अपि पुनः त्वाम्; शूर, सः नः मनोरथमात्रं खलु न, यशोभिः दिशः अपि पूरम् ॥ 5.132 ॥

अर्थितां त्वयि गतेषु मुरेषु म्लानदानजनिजोरुयशःश्रीः ॥
अद्य पाण्डु गगनं सुरशाखी केवलेन कुसुमेन विधत्ताम् ॥ 5.133 ॥
जीवातु–अर्थतामिति । अद्य सुरशाखी कल्पवृक्षः सुरेष्वस्मासु त्वयि विषये, अर्थितां गतेषु सत्सु म्लाना अर्थ्यभावक्षीणा, दानजा दानजन्या, निजा उरुर्महती यशःश्रीः कीर्तिसम्बपद्यस्य सः, तथा सन्, केवलेन कुसुर्मेन गगनं पाझडु शुभ्रं, विधत्ताम् । नतु वितरणेन यशसा । स्वार्थिनामन्यार्थित्वेन तन्निदानदानकथास्तमियादिति भावः ॥ 5.133 ॥
अन्वयः–अद्य सुरेषु त्वयि अर्थितां गतेषु म्लानादानजनिजोरुयशः श्रीः सुरशाखी केवलेन कुसुमेन गगनं पाण्हु विधत्ताम् ॥ 5.133 ॥
प्रवसते भरतार्जुनवैन्यवत् स्मृतिघृतोऽपि नल ! त्वमभीष्टदः ॥
स्वगमनाफलतां यदि शङ्कसे तदफलं निखिलं खलु मङ्गलम् ॥ 5.134 ॥
जीवातु–अत्र यात्रार्वफल्यशङ्कया ते सङ्कोचस्तावदनाशङ्कनीय एवेत्याहप्रवसत इति । हे नल ! प्रवसते प्रयाणं कुर्वते भरतः शाकुन्तलेयः, अर्जनो हैहयः, वैन्यः पृथुः, तैस्तुल्यं त,त् । ‘तेन तुल्यं क्रिया चेद्वतिः’ । स्सृत्या घतः स्मृतिघृतः, स्मर्यमाणोऽप्यभीष्टदः इष्टार्थदस्त्वं स्वगमनस्य स्वयात्रायाःअफलतां वैफल्यं शङ्कसे यदि, तत्तर्हि, लोके निखिलं सर्वमपि मङ्गलं सर्वमपि मङ्गलं यात्राकालिकं त्वस्मरणलक्षणं भरतं नलं च । एतान्नृपान्यः स्नरति प्रयाणे तस्यार्थसिद्धिः पुनरागमश्च ॥’ इति शास्त्रमप्रमाणं स्यादित्यर्थः । तथा च मत्समरणादन्येषामर्थसिद्धिस्तस्य तथाऽर्थसिद्धौ कः सन्देह इति भावः ॥ 134 ॥
अन्वयः–नल, भरतार्जु नर्वन्यवत् प्रवसते अभीष्टदा स्मृतिधृतः अपि त्वं यदि स्वगमनाफलतां शङ्कसे तत् निखिलं मङ्गलम् अफलं खलु ॥ 5.134 ॥
इष्टं नः प्रति ते प्रतिश्रुतिरभूद्याद्य स्वराह् लादिनी धर्मार्थासृज तां श्रुतिप्रतिभटीकृत्यान्विताख्यापदाम् । त्वत्कीर्तिः पुनती पुनती पुनस्त्रिभुवनं शुभ्रमाद्वयादेशनाद् द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु
॥ 5.135 ॥
जीवातु–इष्टमिति । अद्य नोरिऽस्माकमाकम्, इष्टमिच्छां,यागञ्च प्रति । ‘हष्टिर्यागेच्छयोः’ इत्यमरपक्षे यजेरिषेश्च स्त्रियां क्तिन् । ‘वचि स्वपिइत्यादिना यजे सम्प्रसारणम् । ‘व्रश्च–‘इत्यादिना षत्वम् । इषेः क्विन्प्रत्ययापावाद इति काशिकायाम् । तया प्रयोग्राबल्यात् साधुत्वं द्रष्टव्यम् । स्वः स्वर्गम्, अन्यत्र स्वरेरुदात्तादिभिराह्लादिनी धर्मोऽर्थः प्रयोजनमभिधेयं च यस्याः सा धर्मार्था या प्रतिश्रुतिः । ‘जीवितावधि किमप्यधिकं वे’ति श्लोकोक्तास्मन्मनोरथपूरणप्रतिज्ञा अभूत् तां प्रतिश्रुतिं श्रुतिप्रतिभटीकृत्या वेदप्रतिनिधीकृत्य, सत्यापयित्वेत्यर्थः । अन्विताख्यापदां सृज । सत्यत्वेन श्रुतिप्रतिभटीकृत्य वेदप्रतिनिधीकृत्श्य, सत्यापयित्वेत्यर्थः । अन्विताख्यापदां सृज । सत्यप्रतिज्ञो भवेत्यर्थः । अस्य फलमाशीर्मुखेनाह–त्वत्कीर्तिरिति । त्वत्कीर्तिः पुनस्त्वद्यशस्तु, त्रिभुवनं भुवन नत्रयं, समाहारे द्विगुरेकवचनलम्, पात्रादित्वान्नुंसकत्वम् । पुनती पावयन्ती । पुनातेः शतरि ङीप् । द्रव्याणां नीलपीतादिद्रव्याणां, शुभ्रः शुक्लगुणः । ‘गुणे शुक्लादयः पुंसि’ इत्यमरः । तेनाद्वयादेवशनादभेदापादनाच्छितिपीतादिनामभिर्वाचकपदैरन्वयं वाच्यत्वलक्षणं सम्बन्धं, लुम्पतु निवर्तयतु । अर्थिमनो रथपूर्त्या कीर्ति सम्पादयेत्यर्थः । अत्र नीलादीनां वस्तूनां स्वगुणत्यागे न कीतिगुणग्रहणात्तद्गुणालङ्कारः । ‘तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाहृतिः’ इति लैक्षणात् ॥ 5.135 ॥
अन्वयः–अद्य नः इष्टं प्रति स्वाराह्लादिनी या ते धर्मार्था प्रतिश्रुतिः धभूत् तां श्रुतिप्रतिभटीकृत्या अन्विताख्यापदां सूज पुनः त्वत्कीर्तिः शुभ्राद्वया देशनात् त्रिभुवनं पुनती द्रव्याणां शितिपीतलोहितहरिन्नामान्वयं लुम्पतु ॥ 5.135 ॥
यं प्रासूत सहस्त्रपादुदभवत्पादेन खञ्जः कथं स च्छायातनयः सुतः किल पितुः सादृश्यमन्विष्यति ॥
एतस्योत्तरमद्य नः समजनि त्वत्तेजसां लङ्घने साहस्त्रै रपि पंगुरंध्रिभिरभिव्यक्तीभवन्भानुमान्
॥5.136॥
जीवातु–यमिति । यं शनैश्चरं, सहस्त्रं पादाः रश्मयोऽङ्घ्रयश्च यस्य सः, सहस्त्रपात् सूर्यः । ‘पादा
रश्म्ङ्घ्रितुर्याशाः’ इत्यमरः । ‘सङ्ख्यासुपूर्वस्य’ इति समासान्तलोपः । प्रासूत प्रसूतवान्, सः छायातनय3 शनेश्चरः । ‘मन्दश्छायासुतः शनिः’ इत्यमरशेषः । कथं पादेन खञ्जो विकलः सन् । ‘येनाङ्गविकार’ इति तृतीया । उदभवदुत्पननः सुतः पितुः साटृश्यमन्विष्यति किल प्राप्नोति खलु एतस्य प्रश्नस्याद्य त्वत्तेजसां लङ्धने साहस्त्रैः सहन्नसङ्ख्यैरपि । ‘अण् च’ इति मत्वर्थीयोऽण्प्रत्ययः । अङ्घ्रिभिः पङ्गुः खञ्जः, पूर्ववत्तृतीया । अभिव्यक्तीभवन् भानुमान् सूर्यः नोऽस्माकमुत्तरं समजनि सञ्जातः । जनेः कर्तरिलुङ् । ‘दीपजन–’ इत्यादिना जनेश्चिण् । चिणो लुक् । अत्रार्कस्यापङ्गोः पङ् गुत्वोक्तेरतिशयोक्तिभेदः॥5.136॥
अन्वयः–सहस्त्रपात् यं प्रासूत सः छायातनयः कथं पादेन खञ्जः उदभवत् सुतः किल पितुः साटृश्यम् अन्यिष्यति ? अद्य नः एतस्य त्वत्तेजसां लङ्धने साहस्त्रैः अपि अङ्न्निभिः पङ्गु अभिव्यक्तीभवचन् भानुमान् उत्तरं समजनि ॥ 5.136 ॥
इत्याकण्यं क्षितीशस्त्रिदशपरिषदस्ता गिरश्चाटुगर्भा वेदर्भोकामुकोऽपि प्रसभविनिहितं दूत्यभार बभार ॥
अङ्गीकारं गतेऽस्मिन्नमरपरिवृढः संभृतानन्दमूचे भूयादन्तर्धिसिद्धेरनुविहितभवच्चित्तता यत्र तत्र
॥ 5.137 ॥
जीवातु-इतीति । क्षितीशो नलः, त्रिदशपरिषदः सुरङ्घस्य इत्येवंरूपा श्चादुगर्भाः प्रयिप्रायास्ता गिर आकर्ण्य वैदर्भीकामुकः सन्नपि ‘लषपत-‘इत्यादिना षष्ठीप्रतिषेधात् मधुपिपासुवद् द्वितीयासमासः । प्रसभविनिहितं बलादारोपितं दूत्यमेव भारं बभार । अस्मिन्नले, अङ्गीकारं गते सत्यमरपरिवृढो देवेन्द्रः । हे नरेन्द्र ! यत्र कुत्रापि, अन्तर्धिसिद्धेः अन्तर्धानशक्तेरनुविहितभवच्चित्तता, अनुसृतत्वन्मनस्कता, भूयात् भवच्चित्तानुसारेण सर्वत्र तवान्तर्भावशक्तिरस्तु इति सम्भृतानन्दं सहर्षमुचे । तिरस्करिणीविद्यां प्रादादित्यर्थः
॥ 5.137 ॥
अन्वयः–त्रिदशपरिषदः इति चाटुगर्माः ताः गिरः आकर्ण्य वैदभींकामुकः अपि क्षितीशः प्रसमभविनिहितं दूत्यभारं बभार, अस्मिन् अङ्गीकारं गते अमरपरिवृढः इति संभृतानन्दम् ऊचे–यत्र तत्र अन्तर्धिसिद्धेः अनुविहितभवचित्तता भुयात् ॥ 5.137 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ॥
तस्य श्रीविजयप्रशास्तिरचनातातस्य भव्ये महाकाव्ये चारुणि नैषधीयचरिते सर्गोऽगमत्पञ्चमः॥ 5.138॥
जीवातु-श्रीहर्षमित्यादि । सुगमम् । श्रीमत्याः विजयप्रशस्तेःग्रन्थविशेषस्य रचनातास्य निर्माणकर्तुंरित्यर्थः ॥ 5.138 ॥
इति मल्लिनाथविरचित ‘जीवातु’समायाने पञ्चमः सर्गः समाप्तः ॥ 5 ॥
अन्वयः–पूर्वद्वयपदस्य पूर्ववदन्वयः । तस्य श्रीतिवजयप्रशस्तिरचनातातस्य भव्ये महाकाव्ये चारुणि नैषधीयचरिते पञ्चमः सर्गः अगमत् ॥ 5.138 ॥

***************************************************************************

.

नैषधीयचरितम्

षष्ठः सर्गः

?0 ?0दूत्याय दैतृयारिपतेः प्रवृत्तो द्विषां निषेद्धा निषधप्रधानः ॥
स भीमभूमीपतिराजधानीं लक्षीचकाराथ रथस्यछस्य ॥ 6.1 ॥
जीवातु–दूत्यायेति । अथ दूत्याङ्गीकारानन्तरं, द्विषां निषेद्धा निवारयिता, निषधानां जनपदानां, प्रधानः मुख्याधिपतिरित्यर्थः । स नलः दैत्यारिपतेः देवेन्द्रस्य, दूतकर्मणे । ‘दूतस्य भावकर्मणी’ इति यत्प्रत्ययः । प्रवृत्त उद्यक्तः सन्, स रथस्यदस्य रथवेगस्य भीमभूमीपतिराजधानीं कुण्डिननगरीं, लक्षी चकार लक्ष्यमकरोत् । गमनं चकारेत्यर्थः ॥ 6.1 ॥
अन्वयः–अथ दैत्यारिपतेः दूत्याय द्रवृत्तः द्विषां निषेद्धा सः निषधप्रधानः ( निषधप्रधानम् ) भीमभुमीपतिराजधानीं रथस्थदस्य लक्षीचकार ॥ 6.1 ॥
भैम्या समं नाजगणद्वियोगं स दूतधर्मे स्थिरधीरण्धीशः ॥
पयोधिपाने मुनिरन्तरायं दुर्वारमप्यौवंमिवोर्वशेयः ॥ 6.2 ॥
जीवातु–भैम्येति । अधीशो मनोनियमनसमर्थः । अत एव, दूतधर्मे दूतकृत्ये, स्थिरधीरचलबुद्धिः, स नलः, भैम्या समं सह । ‘साकं सत्रा समं सह’ इत्यमरः । वियोगम्, और्वशेयः उर्वशीपुत्रो मुनिरगस्त्यः ‘और्वशेयः कुम्भयोनिरगस्त्यो विन्ध्यकुट्टनः’ इति हलायुधः । पयोधिपाने दुर्वारम्, उर्व्या अपत्यमौर्वो वरुणभयान्मातृगुप्त इति स्वामी । भैमीविगमपि विसह्म प्रतिज्ञाभङ्गभयात् दूत्यमेव टृढतरमवलम्बितवानित्यर्थः । अन्तरायविशेषणमुभयत्रापि योजनीयम् ॥ 6.2 ॥
अन्वय–अधीशः सः भैम्या समं वियोगं पयोधिपाने दुर्वारम् अपि और्वम् अन्तरायम् और्धशेयः मुनिः इव न अजगणत् ॥ 6.2 ॥
नलप्रालीमिलदम्बुजासक्षीसंवादपीयूषपिपासवस्ते ॥
तद्ध्ववीक्षार्थमिवानिमेषा देशस्य तस्याभरणीबभूवुः ॥ 6.3 ॥
जीवातु–नलेति । ते इन्द्रादयो देवाः, नल एव प्रणाली जलनिर्गममार्गः, त्या मिलत् प्रवहत्, अम्बुजाक्षीसंवादपीयूषं दमयन्तीसंवादासमृतं, पिपासवः पातुमिच्छवः सन्तः । मधुपिपासुवत् द्वितीयासमासः । तदध्वीक्षार्थं नलार्गप्रतीक्षार्थमिव अनिमेषाः सन्तः इत्युत्प्रेक्षा । तस्य देशस्य नलनिर्गमनप्रदेशस्याभरणीबभूवुः । तदागमनपर्यन्तं तत्रैव तस्थुरित्यर्थाः ॥ 6.3 ॥
अन्वयः–तदध्ववीक्षार्थम् इव अनिमेषाः ते नलप्रणालीमितदम्बुजाक्षीसंवादपीयूषपिपासवः तस्य दशस्य आभरणीबभुवूः ॥ 6.3 ॥
तां कुण्डिनाख्यापदमात्रगुप्तामिन्द्रस्य भूमेरमरावतीं सः ॥
मनोरथः सिद्धमिव क्षणेन रथस्तदीयः पुरमाससाद ॥ 6.4 ॥
जीवातु–तामिति । तस्यायं तदीयः, नलीयः, स रथः, तां कुण्डिनमिति मदाख्यापदं नामपदं, तन्मात्रेण गुप्तां छन्नाम्, अमरावतीमितिन्द्रराजधानीम्, तत्कल्पामितृयर्थः । भूमेरिन्द्रस्य भीमभुपतेः, पुरं मनोरथः सिद्धमिव क्षणेन आससाद प्राप ॥ 6.4 ॥
अन्वयः–तदीयः सः रथः मनोरमथःसिद्धिम् इवं तां कुण्डिनाख्यपदमात्रगुप्ताम् भूमेः इत्द्रस्य अमरावतीं
पुरं क्षणेन आससाद ॥ 6.4 ॥
भैमीपदस्पर्शकृतार्थरथ्या सेयं पुरीत्कुलिकाकुलस्ताम् ॥
नृपो निपीय क्षमीक्षणाभ्यां भृशं निशश्वास सुरैः क्षताशः ॥ 6.5 ॥
जीवातु–भैमीति । नृपो नलः, इयं भैमीपदस्पर्शेन कृतार्थरथ्या सफलमार्गा, सा श्रूयमाण पुरी कुण्डिनपुरीत्युत्कलिकया उत्कण्ठया, आकुलः क्षुभितः सन् । क्षणमीक्षणाभ्यां, तां पुरीं, निपीय सतृष्णं टृष्टवा,
सुरैः क्षताशः भिन्नाशः सन् भृशं निशश्वास ॥ 6.5 ॥
अन्वयः–इयं भैमीपदस्पर्शकृतार्थरथ्या सा पुरी–इति उत्कलिकाकुलः पृपः क्षणम् ईक्षणाभ्यां तां पुरीं निपोय सुरैः क्षताशः भृशं निषश्वास ॥ 6.5 ॥
स्विद्यत्प्रमोदश्रुलवेन वामं रोमाञ्चभृत्पक्ष्मभिरस्य चक्षुः ॥
अन्यत्पुनः कंप्रमपि स्फरन्तं तस्याः पुरः प्राप नवोपभोगम् ॥ 6.6 ॥
जीवातु–अथैवं विद्यमानस्य तस्येष्टसिद्धिसूचकं दक्षिणाक्षिस्पन्दनं जातमित्याह–स्विद्यदिति । अस्य नलस्य, वामं चक्षुः, प्रमोदाश्रुलवेन आनन्दबापकणेन, स्विद्यत् स्विन्नं सत्, पक्ष्मभिः उन्मिषदिभरिति षेषः । रोमाञ्च सत् तं प्राप । वामाक्ष्यः स्वेदरोमाञ्चावेव । दक्षिणस्य तु वेपथुरप्यधिकः सात्त्विकः संवृत्त इत्यर्थः प्रथमसङ्गमे कम्प्रस्वेदरोमाञ्चादयो जायन्ते । पुरुषस्य दक्षिणाक्षिस्पदनं शुभाय भवतीति निमित्तवेदिनः । अत्रानन्दाश्रुक्ष्मोत्क्षेताक्षिस्पन्देषु स्वेदादिसात्त्विकरूपणाद्रूपकम् । तदुल्लासितनवोपभोगव्यवहासमारोपात् वुरीचक्षुषोः स्त्रीपुंसत्वप्रतीतेः रूपकसङ्कीर्णा समासोक्तिरलङ्कारः ॥ 6.6 ॥
अन्वयः–अस्य प्रमोदाश्रुलवेन स्विद्यत् पक्षाभिः रोमाञ्चभृत् वामं चक्षुः तस्याः पुरः स्फरन्तं नवोपभोगं प्राप कम्प्रं तु अन्यत् प्राप ॥ 6.6 ॥
रथादसौ सारथिना सनाथाद्राजावतीर्याशु पुरं विशेश ॥
निर्गत्य बिम्बादिव भानवोयात्सौधाकरं मण्डलमंशुसङ्धः ॥ 6.7 ॥
जीवातु–रथादिति । असौ राजा नलः सारथिना सनाथात् सहितात् रथादवतीर्यं अंशुसङधः अर्कांशुसमूहः, भानवीयात् बिम्बान्निर्गत्य सौधाकारं चान्द्रं मण्डलमिव आशु पुरं कुण्डिनं विवेश । ‘सलिलमये शशिनि रवेर्दीधितयो मूर्च्छितास्तमो नैशम् । क्षपयन्ति दर्पणोदरनिहिता इव मन्दिरस्यान्तः ॥’ इति शास्त्रादियमुपमा ॥ 6.7 ॥
अन्वयः–असौ राजा सारथिता सनाथात् रथात् अवतीर्य भानवीयात् बिम्बात् निर्गत्य सौधाकरं मण्डलम् अंशुसंधः इव आशु पुरं विवेश ॥ 6.7 ॥
चित्रं तदा कुण्डिनवेशिनस्सा नलस्य मूर्तिर्ववृते नदृश्या ॥
बभूवच तच्चित्रतरं तथापि विश्वैकदृश्यैव यदस्य मूर्तिः ॥ 6.8 ॥
जीवातु–चित्रमिति । तदा तस्मिन्समये, कुण्डिनवेशिनः कुण्डिनप्रविष्टस्य नलस्य सा तथां दर्शनीया मूत्तिर्नटृश्या अदर्शनीया । नञर्थस्य नशब्दस्य ‘सुप्सुपा’ इति समासः । ववृते जाता, चित्रं विरोधादिति भावः । इन्द्रवरात्रतरं बभूव, दृश्यत्वाश्यत्वयोर्विरोधादिति भावः । विश्वस्यैकस्यैव दृश्या दृष्टिप्रियैवेत्यविरोधः । अत्र विरोधाभासयोः संसृष्टिः ॥ 6.8 ॥
अन्वयः–तदा कुण्डिनवेशिनः नलस्य मूर्त्तिः नटृश्या ववृधे, चित्रम्, तथापि श्यत् अस्य मूत्त्रिः विश्वैकटृश्या तत् चित्रतरं बभूव ॥ 6.8 ॥
जनैर्विदग्धैभंवनैश्च मुग्धैः पदे पदे विस्मयकल्पवल्लौम् ॥
विगाहमाना पुरमस्य दृष्टिरथाददे राजकुलातिथित्वम् ॥ 6.9 ॥
जीवातु–जनैरिति : अथास्य नलस्य, दृष्टिर्विदग्धैरभिज्ञैः जनैः मुग्धैः सुन्दरैः भवनैश्च पदे पदे विस्मयकल्पल्लीं आश्चर्यावहामित्यर्थः । पुरं विगाह माना विभावयन्ती । राजकुलातिथित्वमाददे । क्रमादसौ राजभवनं ददर्शेत्यथैः ॥ 6.9 ॥
अन्वयः–अथ अस्य टृष्टिः विदग्धैः जनैः मुगध्यैः भवनैः च पदे पदे विस्मयकल्पवल्लीं पुरं विगाहमाना
राजकुलातिथित्वम् आददे ॥ 6.9 ॥
लीनश्चरामीति हृदा ललज्जे हेलां दउधौ रक्षिजनेऽस्त्रसज्जे ॥
द्रक्ष्यामि भैमीमिति संतुतोष दूत्यं विचिन्त्य स्वमसौ शुशोच ॥ 6.10 ॥
जीवातु–लीन इति । असौ नलः, अस्त्रैः सज्जे सन्नद्धे । ‘सन्नद्धो वर्मितस्सज्जे’ इत्यमरः । रक्षिजने राजकुलरक्षकवीरवर्गे, हेलामवज्ञां दधाविति गर्वोक्तिः । लीनः ( कष्टं शूरोऽपि ) गुढश्चरामीति हेतोर्हृदा ललज्जे । भैमीं द्रख्यामीति संतुतोष । स्वं स्वकीयं, दूत्यं विचिन्त्य शुशोचेति निर्वेशेक्तिः । अत्र गर्वलज्जाहर्षनिर्वेदानां बहूनां भावानां परस्वरोपमर्देन समावेशद्भावशबलतोक्ता ॥ 6.10 ॥
अथोपकार्याममरेन्द्रकार्यातृकक्ष्यासु रक्षाक्षिकृतैरदृष्टः ॥
भैमी दिदृक्षुर्बहु दिक्षु चक्षुर्दिशन्नसो तामविशद्विशङ्कः ॥ 6.11 ॥
जीवातु–अथेति अथानन्तरं, असौ नलः, कक्ष्यासु गृहप्रकोष्ठेषु । ‘कक्ष्या प्रकोष्ठे हर्म्यादेः’ इत्यमरः । रक्षायामधिकृतैः, रक्षिजनैः, अदृष्टस्सन् भ्सैमीं, दिदृक्षुः द्रष्टुमिच्छुः । अतएव दिक्षु चक्षुर्बडु भूयिष्?ठं, दिशन् विशङ्कस्सन्, तां पूर्वनिर्दिष्टां, उपकार्यां राजसदनम् । ‘उपकार्या राजसह्मनि’ इति विश्वः ॥ 6.11 ॥
अन्वयः–अथ कक्ष्यासु रक्षाधिकृतैः अटृष्टः भेमीं दिटृक्षुः दिक्षु चक्षुः बहुदिशान् विशङ्कः असौ अमरेन्द्रकार्यात् ताम् उपकार्याम् अविशत् ॥ 6.11 ॥
अयं क हत्यन्यनिवारकाणां गिरा विभुर्द्वारि विभुज्य कण्ठम् ॥
दृशं दधौ विस्मयनिस्तरङगां विलङ्धितायामपि राजर्सिहः ॥ 6.12 ॥
जीवातु–अयमिति । विभुः समर्थः, राजा सिंह इव राजसिंहः राजश्रेष्ठः, उपमितसमासः । स नलः, अयं क हत्यन्यस्य स्वर्व्यतिरिक्तजनस्य, निवारकाणां, रक्षिणां गिरा वाक्येन ( हेतुना ) कण्ठं विभुज्य किं दृष्टोऽस्मीति शङ्कया ग्रीदां विवलय्य वक्रीकृत्येत्यर्थः । विलङ्धितायामतिक्रान्तायामपि द्वारि । विस्मयेन कथमेते मामद्राक्षुरित्याश्चर्येण । निस्तरङ्गां निर्निमेषां, दृशं दधौ । र्सिहस्य ग्रीवाभङ्गेन लङ्धिताध्वदर्शनं युक्तमिति भावः ॥ 6.12 ॥
अन्वयः–विभुः राजसिंहः–अयं कः-इति अन्यनिवारकाणां गिरा कण्ठं विभुज्य विलड्धितायाम् अपि द्वारि विस्मयनिस्तरङ्गां टृशं दधौ ॥ 6.12 ॥
अन्तःपुरान्तस्स विलोक्य बालां का?ञ्चित्समालब्धुमसंवृतोरुम् ॥
निमीलिताक्षः परमया भ्रमन्त्या सङ्घट्टमासाद्य चमच्चकार ॥ 6.13 ॥
जीवातु–अन्तरिति । स नलः, अन्तःपुरस्यान्तरभ्यन्तरे, अव्यमेतत् । समालब्धुमुद्वर्तयितुम् । असंवृतोरुमनाच्छादितोरुदेशां, काञ्चिद्बालां स्त्रियं विलोक्य, निमीलिताक्षस्सन् पराङ्गनादर्शनपापभीत्येति भावः । भ्रमन्त्या तत्र सञ्चरन्त्या परया स्त्र्यन्तरेण सङ्धट्टमभिनपापभीत्येति भावः । भ्रमन्त्या तत्र सञ्चरन्त्या परया स्त्र्यन्तरेण सङ्घट्टमभिधातं आसाद्य, द्वयोरपि दृष्टिप्रतिबन्धादिति भावः । चमच्चकार उल्लसति स्म । चमदित्यनुकारिशब्दः ॥ 6.13 ॥
अन्वयः–अन्तः पुरान्तः समालब्धुम् असंवृतोऽ’ का?ञ्चिद् वालां विलोक्य निमीलिताक्षः सः भ्रमन्त्या परया संघट्टम् आसाद्य चमच्चकार ॥ 6.13 ॥
अनादिसर्गस्त्रजि वानुभूता चित्रेषु वा भीमसुता नलेन ॥
जातैव यद्वा जितशम्बरस्य सा शाम्बरीशिल्पमलक्षि दिक्षु ॥ 6.14 ॥
जीवातु–अन्तरिति । अनादौ सर्गस्त्रजि सृष्टिपरम्परायां वा, क्वचिज्जन्मान्तर इत्यर्थः । चित्रेषु आलेख्येषु, अनुभूता । अत्यन्ताननुभूतेऽर्थे भ्रमासम्भवादिति भावः । यद्वा, मातस्त्वनुभव इति शेषः । किंतु, जितशम्बरस्य मायिनोऽपि मायिनः, कामस्य शाम्बरीशिल्पं मायासृष्टिः । ‘स्यान्माया शम्बरी’ माथिनः, कामस्य शाम्बरीशिल्पं मायासृष्टिः । ‘स्यान्माया शाम्बरी’ इत्यमरः । जातैव, सा भीमसुता नलेन दिक्षु अलक्षि प्रतिदिशमलक्ष्यत । लक्षेः कर्मणि लुङ् । अत्रालीकभैमीसाक्षात्कारो जन्मान्तरानुभवाद्वाकेवलमदनमायावलाद्वेति हेतूत्प्रेक्षा ॥ 6.14 ॥
अन्वयः–अनादिसर्गस्त्रजि वा चित्रेषु अनुमूता यद्वा जितशम्बरस्य शाम्बरीशिल्पं जाता एव सा भीरमसुता नलेन दिक्षु अलक्षि ॥ 6.14 ॥
अलीकभैमीसहदर्शंनान्न तस्यान्यकन्याप्सरसो रसाय ॥
भैमीभ्रमस्यैव ततः प्रसादाद्भैमीभ्रमस्तेन । तास्वलम्भि ॥ 6.15 ॥
जीवातु–अलीकेति । अन्याः कन्या अप्सरस इव । दर्शनाद्धे तोः तस्य नलस्य रसाय रागाय, नाभवन् । ततोऽपि तासामपकृष्टत्वादिति भावः । तर्हि, किं साख्प्यात्तास्वपि भैमीभ्रमो नाभूदत आह-भैमीति । तत इति सार्वविभक्तिकस्तसिः । ततः तस्या भैमीभ्रमस्यैव प्रसादात्तेन नलेन तास्वन्तःपुरस्त्रीषु भैमीभ्रमो नालम्बिभ न प्राप्तः । अत्यन्तासटृश्यादिति भावः ॥ 6.15 ॥
अनवय–अलीकभैमीसहदर्शनात् अन्यकन्याप्सरसः तस्य रसाय न, तेन ततः भैमीभ्रमस्य एव प्रसादात् तासु भैमीभ्रः न लकम्बि ॥ 6.15 ॥
भैमीनिराशे हृदि मन्मथेन दत्तस्वहस्ताद्विरहाद्विहस्तः ॥
स तामलीकामवलोक्य तत्र क्षणादपश्यन्व्यषदिद्विबुदः ॥ 6.16 ॥
जीवातु–वैमीति । भैम्या निराशे सुरैः क्षताशे, हृदि, मन्मथेन दत्तस्वहस्ताद्दत्तावहस्तद्दत्तावलम्बाज्जतनितादित्यर्थः । विरहाद्विहस्तो विहृलः, स नलः अलीकां तां भैमीमवलोक्य, क्षणात् विबुद्धः निवृत्तभ्रमः, तत्र तामपयन् व्यषदत् विषणोऽभूत् । सदेर्लुङ् । लृदित्त्वाच्चलेरङादेशः । ‘सदिरप्रतेः’ इत्यङ्व्यवायेऽपि षत्वम् । भेमीशून्यविबोधात्तद्वान् भ्रम एव तस्याशास्योऽभवदिति भावः ॥ 6.16 ॥
अन्वयः–भैमीनिराशे हृदि मन्मथेन दत्तस्वहस्तात् विरहात् विहस्तः अलीकां ताम् अवलोक्य क्षणात् विबुद्धः सः तत्र अपश्यन् व्यषदत् ॥ 6.16 ॥
प्रियां विकल्पोपहृतां स यावद्दिगीशसन्देशमजल्पदल्पम् ॥
अदृश्यवाग्भीषितभूरिभीरुभवो रवस्तावदचेतयत्तम ॥ 6.17 ॥
जीवातु–प्रियामिति । स नलः, विकल्पोपहृतां विभ्रमोपनीतां, प्रियां दमयन्तीं, यावद्दिगीशसन्देशं इन्द्रादिवाचिकं, अल्पमजल्पदकथयत् । तावदटृश्यया अलक्ष्यकर्तृकया, वाचा हेतुकर्त्र्या, भीषिता वित्रासिताः । ‘भियो हेतुभये षुक्’ । ताश्च ता भूरयोऽनेका भीरवो भयशीलाः स्त्रियः ताभ्यो भवतीति तदभवो रवः कलकलः, तं नलमचेतयदबोधयम् । चेततेभोवादिवात् णिच ॥ 6.17 ॥
अन्वयः–सः विकल्पोपहतां प्रियां यावत् दिगीशसन्देशम् अल्पम् अजल्पत् तावत् अदृश्यवागभीषितभूरिभीरुभवः रवः तम् अचेतयत् ॥ 6.17 ॥
पश्यन् स तस्मिन्मरुतापि तन्त्र्याः स्तनौ परिस्प्रष्टुमिवास्तवस्त्रौ ॥
अक्षान्तपक्षान्तमृगाङ्कमास्यं दधार तिर्यग्वल्तिं विलक्षः ॥ 6.18 ॥
जीवातु-पश्यन्निति । स नलः तस्मिन्नन्तःपुरे मरुतापि अवेतनेनापीति भावः । परिस्प्रष्टुं संस्‌प्रष्टुभिव । अस्तवस्त्रौ अपनीतांशुकौ तन्व्या स्तनौ पश्यन् विलक्षो विलज्जितस्सन्, अक्षान्तपक्षान्तमृगाङ्कं, अक्षान्तः असोढः पक्षान्ते पौर्णमास्यां मृगाङ्कः चन्द्रो येन तदास्यं निर्विकार एवेत्यहो जितेन्द्रियत्वमस्येति भावः
॥ 6.18 ॥
अन्तुरे विस्तृतवागुरोऽपि बालावतीनां वलितैर्गु णोघः ॥
न कालसारं हरिणं तदक्षिद्वन्दं प्रभुर्बन्धुमधुमभून्मनोभूः ॥ 6.19 ॥
जीवातु-अन्तरिति । अन्तःपुरे बालावर्तितैश्च गुणानां कटाक्षविक्षेपादीनांसूत्राणां च, वलितैः पुनः पुनः प्रवृत्तैः आवर्तितैश्च गुणानां कटाक्षविक्षेपादीनां सूत्राणां चौधैः विस्तृतवागुरः प्रसारितमृगबन्धनीकोऽपि । ‘वागुरा नृगबन्धनी’ इत्यमरः । मनोभूः स एव मृगयुरिति शेषः । तस्य नलस्याक्षिद्वन्द्वमेव कालसारम्, अक्षिद्वयन्तु कालेन कनीनिकाकाष्र्ण्ये न सारं श्रेष्ठं, हरिणञ्च बन्धुमाक्रष्टुं संयन्तुं च प्रभुः शक्ता नाभूत् । जितेन्द्रियत्वदस्येति भावः । अत्राक्ष्यादिषु हरिणत्वादिरूपणान्मनोभुवो मुगयुत्वं गम्यत इत्येकदेशवर्तिरूपकम् ।
॥ 6.19 ॥
अन्वयः–अन्तःपुरे बालावलीनां ( वालाबलीनां ) वलितैः गुणोधैः विस्तृतचागुरः अपि मनोभूः तदक्षिद्वन्दं कालसारं हरिणं गन्धुं प्रभु प्रभुः न अभुत् ॥ 6.19 ॥
दोर्मूलमालोक्य कचं रुरुत्सोस्ततः कुचौ तावनुलेपयन्त्याः ॥
नाभीमथैष श्लथवाससोऽनुमिमील दिक्षु क्रमकृष्टचक्षुः ॥ 6.20 ॥
जीवातु–दोरिति । एष नलः, कचं केशपाशं, रुरुत्सोः रोद्ध्रुं बन्धुमिच्छोः, कस्याश्चिद्दोर्मुलं बाहुमूलमालोक्य । ततोऽनन्तरं,कुचावनुलेपयन्त्याः तौकुचावालोक्य, अथ श्लथवाससः स्त्रस्तांशुकायाः, नाभीमालोक्य, अन्वनन्तरं, दिक्षु पुरः पार्श्वभागेषु क्रमेण कृष्टचक्षुः प्रत्याहृतटृतटृष्टिः सन्, मिमील निमीलिताक्षोऽभूत् । तव तथा यथेष्टचेष्टे स्त्रीमण्डले तस्य पापभीरोर्नेत्रनिमीलनमेव प्राप्तमित्यर्थः ॥ 6.20॥
अन्वयः–कचं रुरुत्सोः दोर्मुलम्, ततः कुचौ अनुलेपयन्त्या तौ, अथ श्लथवाससः नाभीम् आलोक्य दिक्षु क्रमकृष्टचक्षुः एषः अनुमिमील ॥ 6.20 ॥
मीलन्न शेकेऽभिमुखागताभ्यां धर्तुं निपीङ्य स्तनसान्तराभ्याम् ॥
स्वाङ्गान्यपेतो विजगौ स पध्श्चात्पुमङ्गत्पुलके पुनस्ते ॥ 6.21 ॥
जीवातु–मीलन्निति । मीलन्निमीलिनाक्षः, स नलः, अभिमुखमन्योन्याभिमुखागताभ्यां तथापि स्तनाभ्यां निमित्तेन सान्तराभ्यां सव्यवधानाभ्यां काम्यांचित् स्त्रीभ्यां निपीड्य मध्ये निरुध्य धर्तुंग्रहीतुं, न शेके शक्यो नाभूत् । स नलः, पश्चादपेतोऽपसृतः स्वाङगा?नि विजगौ, परस्त्रीसंस्पशंदौषाद्विजगर्हे, निनिन्द । ते स्त्रियौ पुनः, पुंसोऽङ्गप्रसताभ्यां स्तनसान्तराभ्यां निपीङ्य धर्त्तुं न शेके, पश्चात् अपेतः स्वाङ्गानि विजगौ; पुनः ते पुमङ्गसङ्गोतृपुलके ॥ 6.21 ॥
अन्वयः–मीलन् सः अ?भिमुखागताभ्यां स्तनसान्तराभ्यां निपीङ्य धर्त्तुं न शेके, पश्चात् उपेतः स्वाङ्गानि विजगौ; पुनः ते पुमङ्गसङ्गीत्पुलके ॥ 6.21 ॥
निमीलनस्पष्टविलोकनाभ्यां कदर्थितस्ताः कलयन् कटाक्षैः ॥
स रागदर्शीव भृशं ललज्जो स्वतः सतां ह्रीः परतोऽपि गुर्वी ॥ 6.22 ॥
जीवातु-निमलनेति । निमलनं च स्पष्टविलोकनञ्च ताभ्यां कदर्थितः निषिद्धस्पर्शनदोषोद्वेजितः । स नलः, ताः स्त्रियाः, कटाक्षैः कलयन् निर्विकल्पेन गृह्णन् । रागेण पश्यतीति रागदर्शी, स इव भृशं ललज्जे ।
कष्टं कामुकटृट्या पश्यामीति भृशं परितप्तोऽभूदित्यर्थः । नन्वप्रकाशेऽर्थे का लज्जा तत्राह-सतां सत्पुरुषाणां परतो1़पि स्वत एव ह्रीर्गुर्वी, अकामादप्यकार्यकरणे परस्मादपि स्वस्मादेव लज्जते सज्जन इत्यर्थान्तरन्यास3 ॥ 6.22 ॥
अन्वयः–निमीलनस्पष्टविलोकनाभ्यां कदर्थिता ताः कटाक्षैः कलयन् सा रागदर्शी इव भृंशं ललजृजेः; सतां परतः अपि स्वतः ह्रीः गुर्वी ॥ 6.22 ॥
रोमा?ञ्चिताङ्गीमनु तत्कटार्क्षंर्भ्रान्तेन कान्तेन रतेर्निसृष्टः ॥
मोघः शरौघः कुसुमानि नाभुत्तद्धैर्यपुजां प्रति पर्यवस्यन् ॥ 6.23 ॥
जीवातु–रोमाञ्चितेति । रोमा?ञ्चिताङ्गीमनपु पुमङ्गसङ्गात् पलुकितगीमुद्दिश्य, तस्य नलस्य, कटाक्षैः कटाक्षवीक्ष्णैः, भ्रान्तेन अयमस्यामनुरक्त इति मन्वानेन, रतेः कान्तेन कामेन, निसृष्टः प्रयुक्तः कुसुमान्येव शरौघः तस्य नलस्य, धैर्यस्य निर्विकारचित्तत्वस्य पूजां प्रति पूजायां पर्यवस्यन् पूजात्वेन परिणमन्
1 मोधो व्यर्थे नाभूत् । शत्रोरपि गुणः पूजो भवेदिति भचावः । अत्र कत्वमापननमित्यनर्थोत्पत्तिलक्षणो विषमालङ्कारः ॥ 6.23 ॥
अन्वयः–रोमा?ञ्चिताङगीम् अनु तत्कटाक्षैः भ्रान्तेन रतेः कान्तेन निसृष्टः कुसुमानि शरौघः तर्द्वर्यपूजां प्रति पर्यवस्यन् मोधः न अभूत् ॥ 6.23 ॥
हित्वैव वर्त्मैकमिह भ्रमन्त्याः स्पर्शः स्त्रियाः सुत्यज इत्यवेत्य ॥
चतुष्पथस्याभणं बभूव लोकावलोकाय सतां स दीपः ॥ 6.24 ॥
जीवातु–हित्वेति । सतां सः दीपः सुजनश्रेष्ठः, सतां भावानां प्रकाशकः प्रदीपश्च स नलः । इह अन्तःपुरं भ्रमन्त्यास्सञ्चरन्त्याः स्त्रियाः स्पर्शः एकमभिन्नं वर्त्म हित्वैव सुत्यज इत्यवेत्य निश्चित्य लोकावलोकाय सञ्चारिजनदर्शनाय । अन्यत्र, लोकानां जनानां व्यवहाराय । चतुर्णां पथां समाहारः चतुष्पथं, ‘तद्धितार्थ’ इतृयादिना समाहारे द्विगुः ‘ऋक्पूरब्धूः–’ इत्यादिना समासान्तः । ‘पथस्संख्याव्ययादेः’ इति नपुंसकत्वम् । तस्य आभरणं बभूव । अत्र स्थित इत्यर्थः । किलष्टैकमार्गे स्त्रभ्संबाधादक्लिष्टे चतुष्पथे स्थित्वा समन्तादलोकितवः नित्यर्थः । चतुष्पथस्थो दीपो लोकावलोकाय कल्पत इति ध्वनिः ॥ 6.24 ॥
अन्वयः–इह भ्रमन्त्याः स्त्रियाः स्पर्शः एकं वर्त्म हितृवा एव सुतृयवःइति अवेत्य सतां दीपः सः लोकावलोकाय चतुष्पथस्य आभरणं बभूव ॥ 6.24 ॥
उद्वर्तयत्या हृदये निपत्य नृपस्य दृष्?िटर्न्यवृतद् द्रुतेव ॥
वियोगिर्वरात् कुचयोर्नखाङ्कुरेरर्धेन्दुलीलैर्गलहस्तितेव ॥ 6.25 ॥
जीवातु–उद्वत्रयन्त्या इति । नृपस्य टृष्टिरुद्वर्तयन्त्या गात्रमुन्मार्जयन्त्याः, हृदये वक्षसि, निपत्य अर्धेन्दुलीर्लंरर्थरर्घचन्द्राभिख्यैः कुचयोर्नखाङ्कैः कर्तृभिः, वियोगिषु वैरादिन्दुत्वप्रयुक्तविरोधात् । गले हस्तो गलहस्तः तद्वती कृता गलहस्तता हस्तेन गले गृहीत्वा नुन्नेवेत्युत्प्रेक्षार्थः । मत्वन्तात् करोतीति णिचि णाविष्ठवदभावे विष्मतोर्लुंक् । ततः कर्मणि क्तः । ‘अर्धेन्दुचन्द्रशकलेगलहस्तनखाङ्कयोः’ इति विश्वः । द्रुता त्वरितैव न्यवृतत् न्यवर्तिष्ट प । पापभयादिति भावः ॥ 6.25 ॥
अन्वयः–नृपस्य टृष्टिः उद्वर्तयन्त्याः हृदये निपत्य अर्धेन्दुलीलैः कुचयोः नखाहङ्कयोः’ इति विश्वः । द्रुता त्वरितैव न्यवृतत् न्यवर्तिष्ट । पापभयादिति भावः ॥ 6.25 ॥
तन्वीमुखं द्राधिगत्य चन्द्रं वियोगिनस्तस्य निमीलिताभ्याम् ॥
द्वयं द्रढीयः कृतमीक्षणाभ्यां तदिन्दुता च स्वसरोजता च ॥ 6.26 ॥
जीवातु–तन्वीति । तन्वीमुखमेव चन्द्रं व्यस्तरूपकम् । द्रागधिगत्य हठात् टृष्ट्वा निमीलिताभ्याभिति भावः । वियोगिनस्तस्येक्षणाभ्यां तस्य तन्वीमुखस्येन्दुता च स्वयोः सरोता चेति द्वयं द्रढीयो टृढतरं कृतमित्य्रत्प्रेक्षा । अन्यथा कथं तत्सन्निधौ तयोर्निमीलनमिति भावः ॥ 6.26 ॥
अन्वयः–तन्वीमुखं चन्द्रं द्राक् अधिकृत्य वियोगिनः तस्य निमीलिताभ्याम् ईक्षणाभ्यां तदिन्तुता स्वसरोजता च–द्वयं द्रढीयः कृतम् ॥ 6.26 ॥
चतुष्पथे तं विनिमीलिताक्षं चतुर्दिगेताः सुखमग्रहोष्यन् ॥
संघट्य तस्मिन् भृशभीनिवत्तास्ता एव तद्वतृर्म न चेददास्यन् ॥ 6.27 ॥
जीवातु–नन्वङ्गसंघट्टनानन्तरं तास्तं किमिति न गृह्णन्तीत्यता आहचतुष्पथ इति । चतुष्पथे, विनिमीलिताक्षं तं नलम् । चतसृभ्यो दिग्भः । एता आगताः । आङ्पूर्वादिणः कर्तरि क्तः, उत्तरपदसमासः ।
तास्सुखमाक्तलेशेन, अग्रहीष्यन् गृह्णीयुः तस्मिन्नले संघट्य अभिहत्या । आधारत्वविक्षायां सप्तमी । भृशया गाढया भिया निवृत्तास्ता एव तस्य नलस्य वर्त्म नादास्यन् न दद्युश्चेत् । किंतु, स्वयमेव अस्य भूतशङ्कया मार्यं दत्त्वा भयात् पलायितानां तासां, कुमस्तद्ग्रहणधार्ष्ट्यमितृयर्थः । कियातिपत्तौ लङ् ॥ 6.27 ॥
अन्वयः–चतुष्पथे विनिमीलिताक्षं तं चतुर्दिगेताः ता तिस्मन् संघट्य भृशभीनिवृत्ता एव तद्वर्त्म न दास्यन् चेत् सुखम् अग्रहीष्यन् ॥ 6.27 ॥
सघट्टयन्तृयास्तरसात्मभूषाहीराङ्कुरप्रोतदुकूलहारी ॥
दिशानितम्बं परिधाप्य तन्व्यास्तत्पसन्तापमववाप भूपः ॥ 6.28 ॥
जीवातु-संघट्टयन्त्या इति । तरसा संघट्टयन्त्या अभिध्नन्त्यास्तन्व्याः, आत्मनो भूषाहीराणां भूषणवज्राणां, अङ्कुरेषु कोटिषु प्रोतं सक्तं दुकूल हरतीति तद्धारी भूपः, नित्यम्बं तस्याः कटिं दिशा परिधाप्य संवस्त्य दिगम्बरं कृत्वा । तत्पापेन वस्त्रापहरणपापेन सन्तापमवाप ॥ 6.28 ॥
अन्वयः–तरसा संधट्टयन्त्याः तन्व्याः आत्मभूषाहीराङ्कुरप्रोतदुलहारी भूपः नितम्बं दिशा परिधाप्य तत्पापसन्तापम् अवाप ॥ 6.28 ॥
हतः कयाचित्पथि कन्दुकेन संघट्यभिन्नः करजैः कयापि ॥
कयाचनाक्तः कुचकुङकुमेन संभुक्तकल्पः स बभूव ताभिः ॥ 6.29 ॥
जीवातु–हत इति । स नलः, पथि कयाचित्कन्द्रकेन हतः । कयापि संघट्य अभिहत्य करजैर्नखैर्भिन्नः । कयाचन, कुचकुंकुमेन अक्तो लिप्तः । एवं ताभिः सम्‌भुक्तप्रायो बभूव ॥ 6.29 ॥
अन्वयः–?कयाचित् पथि कन्द्रकेन हतः कया अपि संघट्य करजैः भिन्नः कयाचन कुचुकुङ्कुमेन अक्तः सः ताभिः संयुक्तकल्पः बभूव ॥ 6.29 ॥
छायामयः प्रैक्षिकयापि हारे निजे स गच्छन्नथ नेक्ष्यमाणः ॥
तच्चित्तयान्तर्निरचायि चारु स्वस्यैव तन्व्या हृदयं प्रविष्टः ॥ 6.30 ॥
जीवातु–छायामय इति 1 कयापि स्त्रिया निते हारे छायामयः प्रतिम्बिरूपः, स नलः, प्रैक्षि प्रेक्षितः । र्हक्षतेः कर्मणि लुङ् । अथ गच्छन् अप सरन्, अत एव नेक्ष्यमाणः अनिरीक्ष्यमाणः सन् । स चित्ते यस्यास्तया तद्ग र्भितचित्तया तन्व्या, स्वस्यैव हृदयं प्रविष्ट इति अन्तरनतःकरणे चारु साधुनिरचायि निश्चितः । स छायानलः, तद्देशातिक्रमात्तस्या हारदेवापेतो न चितृतादिति सौन्दर्यातिशयोक्तिः ॥ 6.30 ॥
अन्वयः–सः कया अपि निजे हारे छायामयः प्रैक्षि अथ गच्छन् न ईक्ष्य माणः तच्चिन्तया तन्व्या स्वस्य एव हृदयं प्रविष्टः इति चारु अन्तः निरचायि ॥ 6.30 ॥
तच्छायसौन्द्रर्यनिपीतधैर्याः प्रत्येकमालिङ्गदमू रतीशः ॥
रतिप्रतिद्वन्द्वच्तमासु नूनं नामूषु निर्णीतरतिः कथञ्चित् ॥ 6.31 ॥
जीवातु-तच्छायेति । रतीशः कामः तस्य नलस्य छाया तच्छायं, मणिकुट्टिमादिइगतं तत्प्रतिविम्बम् । ?‘विभाषा सेनासुराच्छायाशलानिशानाम्’ नपुं सकत्वम् । तस्य सौन्दर्येण निपीतधैर्या अमूः स्त्रीः प्रत्येकमेकैकामेवालिङ्गत् । अत्रोत्प्रेक्ष्यते-रतेः देव्याः प्रतिद्वन्द्वतमासु रतिसदृशीष्वमूषु मध्ये स रतीशः, कथ?ञ्चिदपि निर्णीतरतिर्निश्चितनिजपतृनीको नाभूत् । नूनम्, अन्यथा कथं प्रत्येकमार्लिगेगितृयर्थः । सर्वास्वपि मन्मथविकारः प्रादुर्भुत इत्यर्थंः ॥ 6.31 ॥
अन्वयः–रतीशः तच्छायसौन्दर्यनिपीतधैर्याः अमूः प्रत्येकम् आलिङ्गत्, रतिप्रतिद्वन्द्वतमासु अमूषु नूनं कथञ्चित् निर्णीतरतिः न अभूत् ॥ 6.31 ॥
तस्माददृश्यादपि नातिबिभ्युस्तच्छायख्याहितमोहलोलाः ॥
मन्यन्त एवादृतमन्मथाज्ञाः प्राणानपि स्वान् सुदृशस्तृणानि ॥ 6.32 ॥
जीवातु-तस्मादिति । सुटृशः स्त्रियः तच्छायारूपेण तत्प्रतिबिमृबसौन्दर्येणाहितः उत्पादितः मोहः चित्तभ्रमो यासां ता अत एव लोला एव लोला आसक्ताः सत्यः । अटृश्यादपीति भयहेतूक्तिः । तस्मान्नलाननातिबिभ्युः । शृङ्गारेण भयानकस्तिरस्कृत इत्यर्थः । तथाहि आदृतमन्मथाज्ञा मन्मथपरतन्त्राः सत्यः, स्वान् स्वकी यान्, प्राणानपि तृणानि मन्यन्त एव । मन्यर्मण्यनादरे चतुर्था वैभाषिकत्वात् द्वितीया । प्राणानपि तृणीकृत्य तदा तत्सङ्गमलालसानां तासां तस्मादभयं कुत इति भावः ॥ 6.32 ॥
अन्वयः–तच्छायरूपाहितमोहलोलाः सुटृशः अटृश्यात् अपि तस्मात् न अतिबिभ्युः, आटृतमन्मथाज्ञाः स्वान् प्रणान् अपि तृणानि एव मन्यन्त ॥ 6.32 ॥
जागर्ति तच्छायदृशां पुरा यः स्पृष्टे च तस्मिन्विससर्प कम्पः ॥
द्रुतं गते तत्पदशब्दभीत्या स्वहस्तितश्चारुदृशां परं सः ॥ 6.33 ॥
जीवातु–जागर्तीति । पुरा पूर्व, तच्छायदृशां तत्प्रतिबिम्बर्शिनीनां चारुदृशं, क्विप् । यः कम्पो जागर्ति स्फुरति । ततस्तस्मिन् स्पृष्टे च सति विससर्प प्रससार । स कम्पः द्रुतं शीघ्रं गते अपगते सति तस्य पदशब्दादभीत्या कर्त्र्या परं स्वहस्तवान् कृतः दत्तस्वहस्तः, प्रकलीकृत इत्यर्थः, स्वहस्तशब्दान्मत्वन्तात् ‘तत्करोति’ इति णिचि णाविष्टवदभावे विण्मतोर्लुक् । ततः कर्मणि क्तः ॥ 6.33 ॥
अन्वयः–पुरा तच्छायटृशां चारुटृशं यः कम्पः जागर्ति, तस्मिन् स्पृष्टे विससर्प; परं द्रंतं गते तत्पदशब्दभीत्या सः स्वहस्तितः ॥ 6.33 ॥
उल्लास्यतां स्पृष्टनलाङ्गमङ्गं तासां नलच्छायपिबाऽपि दृष्टिः ॥
अश्मैव रत्यास्तदनर्ति पत्या छेदेऽप्यबोध यदहर्षि लोम ॥ 6.34 ॥
जीवातु–उल्लास्येति । रत्याः पत्याः कामेन स्पष्टे नलाङ्गं येन तत्तासामङ्गमुल्लास्यतामुल्लासं प्राप्यताम् । उल्लासयतेः कर्मणि लोद् । नलच्छायस्य नलप्रतिबिम्वस्य पिवा, तद्दर्शिनीत्यर्थः । ’ पाघ्रा’ इत्यादिना शप्रत्ययः, पिबादेशश्च । तासां दष्टिरपि उल्लास्यताम्, तयोश्चेनत्वादिति भावः । खेदे कर्तनेऽप्यबोधं बोधरहितम्, अचेतनं लोम, अहर्षि हर्षितमिति यत् । हृषेर्ण्यन्तात्कर्मणि लुङ् । तदश्मैव पाषाण एव, अनर्ति अश्मनर्तनप्रायं रोमहर्षणं कुर्वाणस्यकामस्य किमसाध्यमिति भावः । अत्र रोमहर्षणाश्मनर्तनवाक्यार्थयोत्तच्छब्दावगतसामानाधिकरण्यानुपपत्त्या सयादृश्यक्षेपाद्वाक्यार्थवृत्तिनिदर्शनालङ्कारः । लक्षणं तूक्तम् ॥ 6.34 ॥
अन्वयः–रत्याः पत्या तासां स्पृष्टनलाङ्गम् अङ्गम् नलच्छायपिबा टृष्टिः अपि उल्लास्यताम्; छेदे अपि यत् अबोधं लोम अहर्षि अश्मा एव तत् अनर्ति ॥ 6.34 ॥
यस्मिन्नलस्पृष्टकमेत्य हृष्टा भूयोऽपि तं देशमागान्मृगाक्षी ॥
निपत्य तत्रास्य धरारजःस्थे पादे प्रसी?देति शनैरवादीत् ॥ 6.35 ॥
जीवातु–यस्मिन्निति । मृगाक्षी यस्मिन् देशे नलस्य स्पृष्टकं आलिङ्गनविशेषम् । ‘यद्योषितस्सम्मुखमागताया अन्यापदेशातृ व्रजतो नरस्य । गात्रेणगात्रं घटते तदेतदालिङ्गनं स्पृष्टकमाहुरार्याः ॥’ इति रतिरहस्येऽभिधानात् एत्य प्राप्य, हृष्टा तं देशं भूयोऽप्यगात् । पुनः स्पर्शलोभादिति भावः । किन्तु तत्र देशे घरारजःस्थे भूपरागनिष्ठे अस्य नलस्य पादे पादप्रतिकृतौ निपत्य, प्रसीद मां पुनः स्पर्शेनानुगृहाणेति शनैरवादीत् । न तु स्पर्श लेभे । तस्यापगमादिति भावः ॥ 6.35 ॥
भ्रमन्नमुष्यामुपकारिकायामायास्य भैमीविरहात्क्रशीयान् ॥
असी मुहुः सौधपरम्पराणांश्? व्यधत्त विश्रान्तिमुपत्यकासु ॥ 6.36 ॥
जीवाजु–भ्रमन्निति । भैमीविरहात् क्रशीयान् अतिकृशोऽसौ नलः । अमुष्यामुपकारिकायां राजसह्मनीतज्यर्थः । भ्रमन् सञ्चरन्, आयास्य परिश्रम्य मुहुः सौधपरम्परायाम्, उपत्यकास्वासन्नभूमिषु । अत सौधानां पर्वतसाधर्म्यात् गौणोऽयं प्रयोगः । ‘उपाधिभ्यां त्यकन्नासन्नारूढयोः’ इति त्यकन्प्रत्ययस्यपर्वतासन्नभूमिसंज्ञात्वेतन विधानात् । ‘उपत्यकाद्रेरासन्ना भूमि’ रित्यभिधानात्तर्थव प्रयोगाच्च । संज्ञात्वादेव कात्पूर्वस्येकाराभावः । विश्रान्तिं व्यघत्त विश्रान्तोऽभूदित्यर्थः ॥ 6.36 ॥
अन्वयः–भैमीविरहात् क्रशीयान् असौ अमुष्याम् उपकारिकायां भ्रमन् आयास्य मुहुः सौधपम्पराणाम् उपत्यकासु विश्रार्न्ति व्यधत्त ॥ 6.36 ॥
अलिख्य हंसेन दले नलिन्यास्तस्मै यथादर्शि तथैव भैमी ॥
तेनाभिलिख्योपहृतस्वहारा कस्या न दृष्टाजनि विस्मयाय ॥ 6.37 ॥
जीवातु-किं चात्र विश्रान्तो विनोदाय भैमीप्रतिकृतिमालिख्याद्राक्षी दित्याह श्लोकद्वयेन-उल्लिख्येति । नन्वदृष्टपूर्वां तां प्रकारेण उल्लिख्य तस्मै नलायादर्शि दर्शिता । तथैव तेन नलेन अभिलिक्ष्य उपहृतस्वहारा कण्ठार्पितनिजमुक्ताहारा तदा विलिखतेत्यर्थः । दृष्टा सती कस्या विस्मयाय नाजनि न जाता, सर्वस्या अपि जातेत्यर्थः ॥ 6.37 ॥
अन्वयः–हंसेन नलिन्याः दले यथा उल्लिरूया भैमी तस्यै अदर्शि तेन तथा एव अभिलिख्य उपहृतस्वहारा टृष्टा कस्याः विस्मयाय न अजनि ? ॥ 6.37 ॥
कौमारगन्धीति निवारयन्ता वृत्तानि रोमावलिवेत्रचिह्ना ॥
सालिख्य तेनेक्ष्यत यौवनीयद्वाःस्थामवस्थां परिचेतुकामा ॥ 6.38 ॥
जीवातु–कौमारेति । तेन नलेन यौवनस्येयं यौवनीया । वृद्धाच्छः । तस्यां द्वारि द्वारे, प्रमुखे च तिष्ठतीति यौवनीयद्वाःस्था । ‘खरवसानयोर्विसर्जनीयः’ इति रेफस्य विसर्जनीये तस्य वा सत्वम् । तामवस्थां दौवारिकदशां योवनप्रवेशदशां च, परिचेतुकामा अभ्यसितुकामा । अत एव रोमावलिरेव वेत्रं दण्डः तच्चिह्नं
यस्याः साः कौमारगन्ध एषामस्तीति कौमारगन्धीति शैशवसंस्पर्शीति, वृत्तानि चापलानि, निवारयन्ती सा दमयन्ती आनिख्य ऐक्ष्यत । ईक्षेतः कर्मणि लङ् । वयःसन्धौ वर्तमानान्तामालिद्वख्य अद्राक्षीदित्यर्थाः ।रूपकालङ्कारः ॥ 6.38 ॥
अन्वयः–तेन यौवनीयद्वाःस्थाम् अवस्थां परिचेतुकामा रोमावलिवेत्रविह्ना कौमारगन्धीनि वृत्तानि र्निवारयन्ती सा आलिख्य ऐक्ष्यत ॥ 6.38 ॥
पश्याः पुरन्घ्रीः प्रति सान्द्रचद्ररजःकृतक्रीडकुमारचक्रे ॥
चित्राणि चक्रेऽध्वनि चक्रवर्तिचिह्नं तदङ्घ्रिप्रतिमासु चक्रम् ॥ 6.39 ॥
जीवातु-पश्या इति । सान्द्राणि चन्द्ररजांसि कर्पूरपांशवः । ‘अथ कर्पूर मस्त्रियाम् धनसारश्चन्द्रसंज्ञः’ इत्यमरः । तैः कृतक्रीडं कुमारचक् बालसङ्घो यस्मिन् तस्मिन् अध्वनि चक्रवर्तिचिह्नं सावंभोमलक्षणं, तस्य नलस्य, अङ्घ्रिप्रतिमासु पादन्यासेषु । चकं चकरेखाः पश्यन्तीति पश्याः पश्यन्तीः, ‘पाघ्रा’ इत्यादिना शप्रत्ययः पश्यादेशश्च । पुरन्घ्रीः प्रति स्त्रिय उद्दिश्य चित्राणि वक्रे । तासामाश्चर्याणि जनयामासेत्यर्थः
॥ 6.39 ॥
अन्वयः–सान्द्रचन्द्ररःकृतक्रीडकुमारचके अध्वनि तदङ्घ्रिप्रतियासु चक्रवर्त्तिचिह्नं चक्रं पश्याः पुरन्घ्रीः पुरन्घ्रीः प्रति चित्राणि चक्रे ॥ 6.39 ॥
तारुण्युप्रण्यामवलोकयन्त्योन्यमेणेक्षणयोरभिख्याम् ॥
मध्ये मुहुर्तं स बभूवच गच्छन्नाकस्मिकाच्छादनविस्मयाय ॥ 6.40 ॥
जीवातु–तारुण्येति । तारुण्यपुण्यां यौवनमनोज्ञाम् । ‘पुण्यं मनोज्ञ’ इति विश्वः । अन्योन्यमभिया्यां शोमामवलोकमयन्त्योरेणेक्षणयोः मृगाक्ष्योर्मध्ये गच्छन् मुहूर्तम्, र्हषत्कालम्, आकस्मिकाच्छादनेन निर्हेतुकव्यव्यधानेन विस्मयाय वभूव । अत्र व्यवधानकारणं विना व्यवधानोक्तेरकाणे कार्योत्पत्तिलक्षणो विभावानालङ्कारः ॥ 6.40 ॥
अन्वयः–तारुण्युण्याम् अन्योन्यम् अभिख्याम् अवलोकयन्त्योः एणेक्षणयोः मध्ये गच्छन् सः मुहूर्त्तम् आकस्मिकाच्छादनविस्मयाय बभूव ॥ 6.40 ॥
पुरः स्थितस्य क्वचिदस्य भूषारत्नेषु नार्यः प्रतिबिम्बितानि ॥
व्योमन्यदृश्येषु निजान्यपश्यन् विस्मित्य विस्मित्य महस्त्रकृतृवः ॥ 6.41 ॥
जीवातु–पुर इति । क्वचिद्देशे नार्यः पुरःस्थितस्य नलस्य अदृश्येषु भूथारत्नेषु निजानि प्रतिबिम्बितानि प्रतिबिम्बबानि, व्योमनि शून्ये विस्मित्य विस्मित्य पुनः बिस्मिता भूत्वा । सहस्त्रुकृत्वः सहस्त्रवारमपश्यन् । अत्रापि निरालम्बनप्रतिबिम्बदर्शनोक्तेरकाणे कार्योत्पत्तिलक्षणो विभावनालङ्कारः ॥ 6.41 ॥
अन्वयः–क्वचित् नार्यः पुरः स्थितस्य अस्य अटृश्येषु भूषारत्नेषु निजानि प्रतिबिम्बितानि व्योमनि विस्मित्य विस्मित्य सहस्त्रकृत्वः अपयन् ॥ 6.41 ॥
तस्मिन् विषज्य र्घंपथानिनवृत्तं तदङ्गरागच्छुरितं निरीक्ष्य ॥
विस्मेरतामापुरनुस्मरन्त्यः क्षिप्तं मिथः कन्दुकमिन्दुमुख्यः ॥ 6.42 ॥
जीवातु–तस्मिन्निति । इन्दुमुख्यः स्त्रियः, मिथः क्षिप्तम्, अन्योन्यं प्रति प्रेरितं किन्तु । तस्मिन्नले विषज्य लम्भित्वा अर्धंः पन्थाः अर्धपथः विशेषण समासे समासान्तः । ‘अर्धं नपुंकसकम्’ इतृयेकेदेशसमास इति केचित् । तत्र समांशनिबन्धः । तस्मान्निवृत्तं प्रत्यागच्छन्तं, तस्सय नलस्याङ्गरागेण च्छुरितं रूषितं, कन्दुकं निरीक्ष्य अनुस्मरन्त्यः कुत एतदिना रप्रत्ययः ॥ 6.42 ॥
अन्वयः–इत्दुमुख्यः र्मिथः क्षिपतं तस्मिन् तस्मिन् विषज्य अर्धपशत् निवृत्तं तदङ्गरागच्छुरितं कन्द्रकं निरीक्ष्य अनुस्मरन्त्यः विस्मेरताम् आपुः ॥ 6.42 ॥
पुंसि स्वभर्तृव्यतिरिक्तभूते भूत्वाप्यवीक्षानियमव्रतिन्यः ॥
छायासु रूपं भुवि तस्य वीक्ष्य फलं दृशोरानशिरे मष्यिः ॥ 6.43 ॥
जीवातु–पुंसीति । महिष्यो राजदारा, स्वभर्तृ व्यतिरिक्तभूते पुंसि परपुरुषे विषये अवीक्षानियमेन
अनिरीक्षासङ्कल्पेन, व्रतिन्यः व्रतवत्यो भूत्वा तस्य नलस्य भुवि कुट्टिमभूभुमौ छाछयासु प्रतिबिम्बेषु रूपसौन्दर्य वीक्ष्य टृशोः फलमानशिरे पापुः । ‘अतः आदेः’ इत्यभ्यासदीर्घंः ! ‘अश्नोतेष्च’ इति नुडागमः
॥ 6.43 ॥
अन्वयः-स्वर्भृव्यतिरिक्ते पुंसि अवीक्षानियमव्रतिन्यः भूत्वा अपि महिष्यः भुवि छायासु तस्य रूपं वीरक्ष्य दृशोः अवीक्षानियमव्रतिन्यः भूत्वा अपि महिष्यः भुवि छायासु तस्य रूपं वीक्ष्य दृशोः फलम् आनशिरे॥6.43॥
विलोक्य तच्छायमतर्किमाभिः पर्ति प्रति स्वं वसुधापि धत्ते ॥
यथा वयं किं मदनं तथैनं त्रिनेत्रनेत्रानलकीलनीलम् ॥ 6.44 ॥
जीवातु"“विलोक्येति । ताभिः राजमहिषीभिः, तस्य नलस्य, छाया अनातपरेखा तच्छायम् । नीलमिति शष्ज्ञः । विलोक्य यथा वयं स्वं स्वकीयं, पर्ति भीमं, प्रत्युदुबुद्धम्, मदनं दध्महे । तथा वसुधापि स्वं पतिं भीममेव प्रतृयुद्बुद्धम् । किन्तु, त्रिनेत्रस्य ईश्वरस्य, नेत्रानलकीलैर्नेत्राग्निज्वालैः, नीलं कृष्णवर्णम्, मदनं घत्ते किमित्यतकिं उत्प्रक्षितम् । नलच्छाये वसुधागते तस्मिन्मनत्वोत्प्रेक्षणादुत्प्रेक्षालङ्कारः । नलच्छायेऽपि स्त्रीणां मदनविभ्रमः, नले तु किमु वक्तव्यमिति शेषः ॥ 6.44 ॥
अन्वयः–ताभिः तच्छायं विलोक्य अतकिं–यथा वयं स्वं पतिं प्रति मदनं दधाहे तथा वसुधा अपि किं त्रिनेत्रनेत्रानकीलनीलम् एवं धत्ते ? ॥ 6.44 ॥
रूपं प्रतिच्छायिकयोपनींतमालोकि ताभिर्यदि नाम कामम् ॥
तथापि नालोकि तदस्य रूपं हारिद्रभङ्गाय वितीर्णभङ्गम् ॥ 6.45 ॥
जीवातु–नन्वेवं नलविलाकिनीनामासां कथं न परपुरुषनिरीक्षणे व्रतलोपस्तत्राह-रूपमिति । प्रतिच्छायैव प्रतिच्छायिका । स्वार्थे कः । ‘कात्पूर्वस्य’ इतीकारः । तयोपनीत रूपं छायात्मकं रूपरूपं ताभिः स्त्रीभिरालोकि यदि आलोकितं चेत् । कामं यथेच्छमालोक्यतां नाम । तथापि हारिद्रभङ्गाय ?हरिद्राखण्डाय वितीर्णभङ्गं दत्तपराजयम्, तत्स्वरूपमित्यर्थः । अस्य तत्प्रसिद्धं रूपं स्वरूपं नालोकि नालोकितम् । साक्षाद्रूपदर्शने दोषः, न प्रतिच्छायादर्शन् इत्यर्थः ॥ 6.45 ॥
अन्वयः–ताभिः प्रतिच्छायिकया उपनीतं रूपम् यदि नाम कायम् आलोकि तथापि हारिद्रभङ्गाय वितीर्णभङ्गम् अस्य तद् रूपं न आलोकि ॥ 6.45 ॥
भवन्नदृश्य प्रिबिम्बदेहव्यूहं वितन्वन्मणिकुट्टिमेषु ॥
पुर परस्य प्रविशन् वियोगीयोगीव चित्रं स रराज राजा ॥ 6.46 ॥
जीवातु-भवन्निति । वियोगी विरही आयोगी च । स राजा नलः, अटृशो भवन् स्वयमटृश्यः सन् मणिकुट्टिमेषु मणिनिबद्धभूमिषु, प्रतिबिम्बदेहानां । समूहं, वितन्वन् सम्पादयन् । योगिपक्षे बहूनि योगशरीराणि युगपत् कल्पयन् । तथा परस्य राजान्तरस्य, पुरं नगरम् । अन्यत्र जीवान्तरस्य शरीरं परकायं
प्रविशन् । ‘पुरं पुरि शरीरे च’ इति विश्यवः । योगी अणिमादिसिद्धिमानिव, रराज चित्रम् ॥ 6.46 ॥
अन्वयः-अटृश्यः भवन् मणिकुट्टिमेषु प्रतिबिम्बदेहव्यूहं वितन्वन् परस्य पुरं प्रविशन् सः वियोगी राजा योगी इव रराज चित्रम् ! ॥ 6.46 ॥
पुमानिवास्वर्शि मया भ्रमन्त्या छाया मया पुंस इव व्यालोकि ॥
ब्रुवन्निवातर्कि मयापि कश्चिदिति स्म स स्त्रैणागिरःशृणोति ॥ 6.47 ॥
जीवातु–पुमानिति । भ्रमन्त्या मया पुमानिवास्पर्शि स्पृष्टः । मया पुंसः छाये व व्यलोकिं विलोकिता । मयापि कश्चित् बुवन् ल?पन्निव, अतकिं तर्कितः । सर्वत्र कर्मणि लुङ् । इत्येवरूपाः स्त्रैणस्य स्त्रीसमूहस्य गिरः । यद्वा, स्त्रीषु भवाः स्त्रैणाः गिरः । ‘स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात्’ इति भवार्थे नञ्प्रत्ययः । स नलः, शृणोति स्म । ‘लट् स्मे’ इति भूते लट् ॥ 6.47 ॥
अन्वयः–भ्रमन्त्या मया पुमान् इव अस्पर्शि, मया पुंसः छाया इव व्यलोकि, मया अपि कश्चित्ब्रु वन् इव अतर्कि–इ?ति सः स्त्रैणगिरः शृणोति स्म ॥ 6.47 ॥

अम्बपं प्रणम्योपनता नताङ्गी नलेन भैमी पथि योगमाप ॥
स भ्रान्तभैमीषु न यां विवेद सा तं च नादृश्यतया ददर्श ॥ 6.48 ॥
जीवातु–अम्बामिति । नताङ्गी व्यानतगात्री भेमी । अम्बां मातरम् । ‘अम्बा सवित्री जननी माता ’ इति हलायुधः । प्रणम्योपनता सती, नलेन पथि योगमाप । किन्तु स नलो भ्रान्तभैमीषु अलीकभैमीषु मध्ये तां न विवेद विविच्य नाजानात्, सा च तं नलम् अटृश्यतया न ददर्श । अत्र रूपसाम्यादभ्रान्तभैम्याः भान्तभैमीतिभः सहाभेदाभिधानात् सामान्यालङ्कारः । ‘सामान्यं गुणसाम्येन यत्र वस्त्वन्तरकता’ इति लक्षणात् ॥ 6.48 ॥
अन्वयः–अम्बां प्रणम्य उपनता नताङ्गी भैमी पथि नलेन योगम् आप, सः भ्रान्तभैमीषु तां न विवेद, सा च तम् अटृश्यतया न ददर्श ॥ 6.48 ॥
प्रसूप्रसादाधिगता प्रसूनमाला नलस्य भ्रमवीक्षितस्य ॥
क्षिप्तापि कण्ठाय तयोपवण्ठे स्थितं तमालम्बत सत्यमेव ॥ 6.49 ॥
जीवातु–प्रस्विति । प्रसूप्रसादाधिगता मातृप्रसादलब्धा । ‘जनयित्रीप्रसूर्माता जननी’ इत्यमरः । प्रसूनमालास पुष्पमालिका । तया भैम्या भ्रमवी क्षितस्य भ्रान्तिटृष्टस्य नलस्य कण्ठाय क्षिप्ताप्युपकण्ठे समीपे स्थितं सत्यमेव तथ्यमेव तं नलमालप्वत प्राप मणिप्रभायां मणिबुद्धिन्यायादिति भावः ॥ 6.49 ॥
अन्वयः–प्रसूप्रसादाधिगता प्रसूनमाला तया भ्रमवीक्षिस्य नलस्य कण्ठाय क्षिप्ता अपि उपकण्ठे स्थितं तं सत्यम् एव आलम्बत ॥ 6.49 ॥
स्त्रग्वांसनादृष्टजनप्रसादः सत्येयमित्यद्भुतमाप भूपः ॥
क्षिप्तामदृश्यत्वमिता च मालामालोक्य तां विस्मयते स्म बाला ॥ 6.50 ॥
जीवातु-स्त्रगिति । भूपो नलः वासनया निरन्तरभावनया, टृष्टस्य जनस्य, अलीकभैम्याः प्रसादोऽनुग्रहभूता इयं स्त्रक् सत्या सत्ृयभूतेति हेतोरदुभुतमाप । बालां भैमी च, क्षिप्तामात्मना न्यस्ताम् । अथ अदृश्यत्वमितां प्राप्तं मालामालोक्य आलोच्य विस्मयते स्म विस्मिताभूत् ॥ 6.50 ॥
अन्वयः–वासनाटृष्टजनप्रसादः इयं स्त्रक् सत्याइति भूपः अद्भुतम् आप, बाला च बटृश्यत्वम् अतां तां मालाम् आलोक्य विस्मयते स्म ॥ 6.50 ॥
अन्योन्यमन्यत्रवदीक्षमाणौ परस्परेणाध्युयितेऽपि देशे ॥
आलिङ्गितालीकपरस्परान्स्तथ्यं मिथस्तौ परिषस्वजाते ॥ 6.51 ॥
जीवातु-अन्योन्यमिति । तो भैमीनलौ परस्परेणाध्युषिते देशेऽपि अयोन्यमिति कर्मनिर्देशः । नलो भैमीं सा च नलमित्यर्थः । अन्यत्रवद्देशान्तर इवेक्षमाणौ, अन्यत्र स्थायिनाविव पश्श्यन्तावित्यर्थः । आलिङ्गितमालिङ्गनम्, अलीकं यस्य तदालिङ्गितालीकम्, एतदालङ्गिनं मिथ्येत्यभिमानं, परस्परस्यान्तरन्तकरणं यस्मिन् कर्मणि तद्यथा भवति तथा । अव्ययोत्तरपदो बहुव्रीहिः । अव्ययं श्लिष्यतः ‘उपसर्गात्सुनोति’ इतृयादिना षत्वम् । पूर्ववासनया परस्परचेष्टां मिथ्येति मन्यमानावेव तथ्यमचेष्टतामित्यर्थः ॥ 6.51 ॥
अन्वयः–परस्परेण अधुषिते देशे अपि अन्यत्रवत् इक्षमाणौ तौ आलिङ्गितालीकपरस्परान्तः मिथः तथ्यं परिषस्वजाते ॥ 6.51 ॥
स्पर्शं तमस्याधिगतापि भैमी मेने पुनर्भ्रान्तिमदर्शनेन ॥
नृपस्तु पश्यन्नपि तामुदीतस्तम्भो न धर्तुं सहसा शशाक ॥ 6.52 ॥
जीवातु–स्पर्शमिति । भैमी तं तथ्यं स्पर्शम् अधिगता प्राप्तापि । पुनरस्य नलस्य अदर्शनेनादृश्यत्वेन, भ्रान्तिं मेने । अतो नलं धर्तुं न शशकेति शेषः । नृपस्तु पश्यन्नप्युदीतस्म्भो निष्क्रियाङ्गत्वलक्षणः सात्त्विको यस्य, स सन् । तां भैमीं सहसा धर्तुं ग्रहीतुं न शशाक । अन्मयथा धरेदिति भावः । उदी?तेति ईङ्गताविति दीर्षेण ‘ई’ धातुना निष्पन्नम् । अत्र स्तम्भपदार्थस्य विशेषणगत्या धारणाशक्तिहेतुकत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ 6.52 ॥
स्पर्शातिहर्षदृतसत्यमत्या प्रवृत्तय मिथ्या प्रतिलब्धबोधौ ॥
पुनर्मिथस्तथ्यमपि स्पृशन्तौ न श्रद्दधाते पथि तौ विमुग्धौ ॥ 6.53 ॥
जीवातु–स्पर्शेति । विमुग्धौ रागान्धौ, तौ दमयन्तीनलौ, परितस्पर्शेनातिहर्षोऽतिमात्रानन्दः, तस्माद्धेतोस्तदन्यथानुपपत्त्या, आदृतया दृढीकृतया सत्यमत्या सत्योऽयं स्पर्श इति बुघ्र्या प्रवत्तृय पुनर्व्यापृत्य मिथ्याप्रतिलब्धबोधौ प्रवृत्तेऽपि स्पर्शालाभान्मिथ्येति निश्चितबोधौ, मिथ्येति बुद्धवन्तावपि, न श्रद्दघाते न विश्वसतुः । दधातेर्लिटि तङ् । श्रच्छब्दस्य ‘श्रदन्तरोरुपसङ्ख्यानमि’ त्युपसग्रत्‌वाद्धातोः प्राक् प्रयोगः
॥ 6.53 ॥
अन्वयः–स्पर्शातिहर्षाटृतसत्यमत्या पुनः प्रवृत्य मिथ्याप्रतिलब्धबोधौ विमुग्धौ तौ पथि किथः तथृयं स्पृशन्तौ अपि न श्रद्दधाते ॥ 6.53 ॥
सर्वत्र संवाद्यमवाधमानौ रूपश्रियातिथ्यकरं परं तौ ॥
न शेक्तुःकेलिरसाद्विरन्तुमलीकमालीक्य परस्परं तु ॥ 6.54 ॥
जीवातु–सर्वत्रेति । तौ भैमीनलौ, रूपश्रिया सौन्दर्यसम्पदा, सर्वत्र सर्वावयवेषु संवाद्यं मिथस्संवादार्ह, परस्परानुरूपमित्यथैः । अत एव परमत्यन्तमातिथ्यकरं मिथःसत्कारकारि । अलीकमसत्यं परस्परन्तं कर्म आलोक्य । अबाधमानौ मिथ्येत्यमन्यमानौ, केलिरसात् क्रीडारागाद्विरन्तुं निवर्तितुं न शैकतुः कित्वलीकेनापि परस्परेण क्रीडितुमाचकांक्षतुरित्यर्थः ॥ 6.54 ॥
अन्वयः–रूपश्रिया सर्वत्र संवाद्यं परम् आतिथ्यकरम् अलीकं परस्परं कर्म आलोक्य अबाधमानौ तौ केलिरसात् विश्रन्तुं न शैकतुः ॥ 6.54 ॥
परस्पस्पर्शरसोर्मिसेकात्तयोः क्षणं चेतसि विप्रनम्भः ॥
स्नेहातिदानादिव दीपिकार्चिर्निमिष्य किञ्चद्द्विगुणं दिदीपे ॥ 6.55 ॥
जीवातु–परस्परेति । तयो?र्भैमीनलयोः चेतसि विप्रल्म्भो विरहः, परस्परस्पर्शरसस्य अन्योन्यस्पर्शसुखस्य, ऊमितिभः सेकात् क्षणं स्नेहस्य तैलादेरतिदानाद्दीपिकाच्रिर्दीपज्वालेव किञ्चिदीषन्निमिष्य निवार्य, द्वौ गुणावृत्ती यस्मिन् कर्मणि तद्यथा भवति तथा द्विगुणम्, अधिकं दिदीपे प्रजज्वाल सोऽप्युद्दीपक एवाभूदित्यर्थः ॥ 6.55 ॥
अन्वयः–विप्रलम्भः तयोः चेतसि परस्परस्पर्शरसोर्मिसेकात् स्नेहातिदानात् दीपिकाचिः इव क्षणं किञ्चत् निमिष्य द्विगुणं दिदीपे ॥ 6.55 ॥
वेश्माप सा धैयंवियोगयोगाद् बोधञ्च मोहञ्च मुहुर्दधाना ॥
पुनः पुनस्तत्र पुरः स पश्यत् बभ्राम तां सुभुवमुद्भ्रमेण ॥ 6.56 ॥
जीवातु–वेष्मेति । सा भैमी, धैर्यवियोगयोर्योगाद्यथासंख्यं मुहुर्बोधञ्च मोहञ्च दधानेति यथासंख्यालङ्कारः । वेश्म निजावाससाप । नलस्तत्र तां सुभ्रुवं भैमीम् उद्भ्रमेण भ्रान्त्या पुनः पुरोऽप्रे पश्यन् बभ्राम् । प्राप्त्याश्येति भावः 1 ऐतेन चापलख्यः सञ्चारिभात्र उक्तः । ‘चापलं त्वनवस्थानम्’ इति लक्षणात्
॥ 6.56 ॥
अन्वय–धैर्यवियोगयोगात् मुहुः बोधां मोहं दघाना सा वेश्म आप, तत्र तां सुभ्रु वम् उद्भ्रमेण पुनः पनुः श्यन् सः बभ्राम ॥ 6.56 ॥
पद्भ्यां नृपः सञ्चरमाणण एष चिरं परिभ्रम्य कथं कथञ्चित् ॥
विदर्भराजप्रभवानिवासं प्रासादमभ्रङ्कषमाससाद ॥ 6.57 ॥
जीवातु–पद्भ्यामिति । एष नृपः पदभ्यां सञ्चरमाणो गच्छन् । ‘समस्तृतीयायुक्तात्’ इति तृतीया । चिरं परिभ्रम्य कथं कथञ्चित् पादचारक्लेशादतिकृच्छ्रेण विदर्भराजः प्रभवः कारणं यस्यास्तस्याः वैदर्भ्याः निवासम् । अभ्रं कषतीत्यभ्रकषमत्युन्नतम् । ‘सर्वकूलाभ्रकरीषेषु कष’ इति खच्प्रत्यये मुमागमः । प्रासादं सौधमाससाद ॥ 6.57 ॥
अन्वयः–पद्भ्यां सञ्चरमाणः एषः नृपः चिरं परिभ्रम्य कथं कथंचित् दिदभैराजप्रभवानिवासम्
अभ्रमङ्कषं प्रासादम् आससाद ॥ 6.57 ॥
सखीशतानां सरसैर्विलासैः स्मरावारोधभ्रममावहन्तीम् ॥
विलोकयामासा सभां सभैम्यास्तस्य प्रतोलीमणिवेदिकायाम् ॥ 6.58 ॥
जीवातु-सखीति । नलतस्य प्रसादस्य प्रत्येल्यां प्राङ्गणे या मणिवेदिका तस्यां सखीशतानां सरसैः सानुरागैर्विलासैर्लीलाभिः स्मरावारोधभुममावहन्तीं कायान्तःपुरभ्रान्तिकरीं भैम्या सभामास्थानीं विलोकयामास ॥ 6.58 ॥
अन्वयः-सः तस्य प्रतीलीमणिवेदिकायां सखीशतानां सरसैः विलासैः स्मरावरोघः भ्रमम् आवहन्तीं भैम्याः सभां विलोकयामास ॥ 6.58 ॥
कण्ठः किमस्याः पिकवेणुवीणास्तिस्ते जिताः सूचयति त्रिरेखः ॥
इत्सन्तरस्तूयतं कापि यत्र नलेन बाला कलमालपन्ती ॥ 6.59 ॥
जीवातु–अथ कण्ठ इत्यादिभिः चतुर्दशभिसं सभां वर्णयति-कण्ठ इति । यत्र समभायां कलं मधुरमालपन्ती कापि बाला । नलेन तिस्त्रो रेखा अस्य सन्तीति त्रिरेखः अस्याः कण्ठः पिकवेणुवीणास्तिस्त्रः जिताः सन्तीति सूचयति किमिति अन्तरन्तःकरणे अस्तूयत स्तुता । अत्र कण्ठरेखात्रयस्य विशेषणगत्यानिनिजपिकादित्रयवियसूचत्वोत्प्रेक्षाहेतुकत्वात्काव्यलिङ्गसङ्कीर्णेयमुत्प्रेक्षा ॥ 6.59 ॥
अन्वयः–यत्र कलम् आलपयन्ती बाला अस्याः त्रिरेखः कण्ठः पिकवेणुवीणाः तिस्त्रः जिताः-सूचयति किम्, इति नलेन अन्तः अस्तूयत ॥ 6.59 ॥
एतं नलं दमयन्ति ! नश्य त्यजार्तिमित्यालिकुलप्रबोधान् ॥
श्रुत्वा स नारीकरवर्तिशरीमुखात् स्वमाशङ्कत यत्र दृष्टम् ॥ 6.60 ॥
जीवातु–एतमिति । स नलो यत्र सभायां, नारीकरवर्तिशारीमुखात् कान्ताकरगतशारिकामुखात् हे दमयन्ति ! तमेतं नलं पश्य । आर्ति पीडां त्यज । इत्येवंरूपान् आलिकुलप्रबोधान् आलिकुलस्य सखीजनस्य, प्रबोध्यते एमिरिते प्रबोधान् आश्वासनोक्तीः करणे घञ्प्रत्ययः । श्रुत्वा स्वकीयात्मानं टृष्टमाशङ्कत 1 एतं नलं पश्येति निर्देशादेताभिर्द्द ष्टोऽस्मीति शङ्कितवानित्यर्थः । शरीवाक्ये नारीवाक्यभुमादिति भावः । अत एव भ्रान्तिमदलङ्कारो व्यज्यत इ?ति वस्तुनालंकारध्वनिः ॥ 6.60 ॥
अन्वयः–यत्र नारीकरवर्ति शारीमुखात्-दमयन्ति, तम् एतं नलं पश्य, अर्त्ति त्यज-इति आलिकुलप्रबोधान् श्रुत्वा सः स्वं टृष्टम् अशङ्कत ॥ 6.60 ॥
यत्र कयालीकनीकृतालीकण्ठे मृषाभीमभवीभवन्त्या ॥
तद्दृक्पथे दौहदिकोपनीता शालीनमाश्रायि मधूकमाला ॥ 6.61 ॥
जीवातु-यत्रेति । यत्र सभायां, तद्टृक्त्पथे, नल?टृष्टिपथे, मृषाभीमभवा आरोपितभैमी, अनया तया भवन्त्यां एकया सख्या अलीकनलः आरोपितनलः, असः स कृता अलीकनलीकृता तस्या आल्याः सख्याः कण्ठे दौहदि?कया धात्र्या उपनीता या मधुकमाला शालीनं लज्जामन्थरं यथा तथाआधायि आहता । दधातेः कर्मणि लुङ् । ‘आतो युक् चिण्कृतोः’ इति युगागमः । एतेन भैम्याः स्वयंवरत्वरा नलैकतानत्वञ्च व्यक्तं सदस्य जीवातुरासीदित्यर्थः ॥ 6.61 ॥
अन्वयः–यत्र तद्टृकृपथे मृषाभीमभवीभवन्त्या एकया अलीकनलीकृतालीकण्ठे दौहादि?कोपनीता मधूकमाला शालीनम् अधायि ॥ 6.61 ॥
चन्द्राभमाभ्रं तिलकं दधाना तद्वन्निजास्येन्दुकृतानुबिम्बम् ॥
सखीमुखे चन्द्रसखे ससर्ज चन्द्रानवस्थामिव कापि यत्र ॥ 6.62 ॥
जीवातु–चन्द्राभतिति । यत्र सभायां, कापि कान्ता, चन्द्राभं चन्द्रनिभं,आभ्रमभ्रविकारं तिलकं चन्द्रसखे सखीमुखे तद्वता ?आभ्रतिलकवता, निजास्येन्दुना कृतमनुबिम्बं यस्मिन् कर्मणि तद्यथा भवति तथा दधाना रचयन्ती चन्द्रानवस्थां ससर्जेवेत्युत्प्रेक्षा । अत्र तिलकक्रियोत्पत्ती स्वच्छद्रव्यतया परस्पराभिमुखावस्थितदर्पणवदितरेतरभ्रतिलकसंक्रान्तेरिरेतरतिलकचन्द्रपरम्परानन्तत्वादनवास्थाकियानिष्पत्तिश्चे
ति भावः ॥ 6.62 ॥
अन्वयः–यत्र कापि चन्द्राभम् अभ्रं तिलकं चन्द्रसखे सखीमुखे तद्वन्निजास्येन्दुकृतानुबिम्बं दधाना चन्द्रानवस्थाम् इव ससर्ज ॥ 6.62 ॥
दलोदरे काञ्चनकैतकस्य क्षणान्मषीभावुकवर्णरेखम् ॥
तस्यैव यत्र स्वमनङ्गलेखं लिलेख भैमी, नखलेखिनीभिः ॥ 6.63 ॥
जीवातु–दलेति । यत्र सभायां, भैमी, काञ्चनकैतकस्य स्वर्णकेतकीकुसुमस्य, दलोदरे पत्रमध्ये, क्षणात् ज्ञटिति मषीभावुकाः श्यामीभवन्त्यः वर्णरेखा अक्षरविन्यासा यस्मिन् तम् । तस्य नलस्यैव कृते स्वं स्वकीयम्, अनङ्गलेखं कामसन्देशं, नखैरेव लेखिनीभिः लेखनिकाभिः लिलेख ॥ 6.63 ॥
अन्वयः–यत्र भैमी काञ्चनकैतकस्य दलोदरे क्षणात् मषीभावुकवर्णरेखं तस्य एव स्वम् अनङ्गलेखं नखलखनीनीभिः लिकेख ॥ 6.63 ॥
विलेखितुं भीमभुवो लिपीषु सख्याऽतिविख्यातिभृतापि यत्र ॥
अशाकिं लीलाकमलं न पाणिमपारि कर्णोत्पलमक्षि नैव ॥ 6.64 ॥
जीवातु–विलेखितुमिति । यत्र सभायां लिपीषु चित्रकर्मसु । कुदिकारादक्तिनो वा ङीष्वकतव्यः । अतिविख्यातिभृता अतिचतुरयापीत्यर्थः । सख्या भीमभुवो भेम्याः लीलाकमल विलेखितुम् अशाकि । भावे लुङ्
| शकेत्यादिनातुमुन्प्रत्ययः | पार्णि तु नाशाकि | तदपेक्षयोत्कृष्टत्वात् | तथा कर्णोत्पलं विलेखितुमपारि पर्याप्तं , पूर्ववल्लुङ् | ‘पर्याप्तिवचनेष्वलमर्थेष्वि’ति तुमुन् प्रत्ययः । अखि तु नापार्येव सर्वोपमानातीतत्वात्तल्लावण्यस्येति भावः ॥ 6.64 ॥
अन्वयः–यत्र लिपीषु अतिविख्यातिभृता अपि सख्या भीमभुवः लीलाकमलं विलेखितुम् अशाकि, पाणि न; कर्णेत्पलम् अपारि, अखि न एव ॥ 6.64 ॥
भैमीमुपावीणयदेत्य यत्र कलिप्रियस्य प्रियशिष्यवर्गः ॥
गन्धर्ववध्वः स्वरमध्वरीणतत्कण्ठनालैकधुरीणवीणः ॥ 6.65 ॥
जीवातु–भैमीति । यत्र सभायां, गन्धर्ववध्वो गन्धर्वाङ्गना एव । कलिप्रियस्य प्रियकलहस्य नारदस्य । चा’ प्रियस्य’ इति बहु?व्रीहौ प्रियशब्दस्य परनिपातः । प्रियशिष्यवर्गंः । स्वर एव मधु क्षौद्रं तेनारीणमारक्तं पूर्ण मति यावत् । ‘ल्वा?दिभ्यः’ इति निष्ठानत्वम् । तेन तस्या भैम्याः कण्ठनालेन सह एकधुरं वहन्तीत्येकधुरीणाः समा इत्यर्थः । ‘एकधुराल्लुक् च’ इति खच्प्रत्ययः । ता वीणा यस्य सः सन्नेत्यागत्य भैमीमुपावीणयत् वीणया उपगायति स्म । सत्यापपाशे’त्यादिना णिचि लङ् । गानविद्यायां गन्धर्वीणामप्युपास्या भैमीत्यर्थः ॥ 6.65 ॥
अन्वयः–यत्र स्वरमधवरीणतत्कण्ठनालैकधुरीणवीणः कलिप्रियस्य प्रियशिष्यवर्गः गन्धर्ववध्वः एत्य भैमीम् उपावीणयत् ॥ 6.65 ॥
नावा स्मरः किं हरभीतिगुप्तेः पयोधरे खेलति कुम्भ एव ॥
इत्यर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी यत्र सखीतिभरूचे ॥ 6.66 ॥
जीवातु–नावेति । यत्र सभायां अर्धचन्द्राभनखाङ्कचुम्बी अर्धचन्द्राकारनखक्षतभाक्कुचो यस्याः सा सखी क्षीराणां नीराणाञ्च धरः पयोधरः कुचः । ‘पयः स्यात् क्षीरनीरयोः’ इति विश्वः । तस्मिन्नेव कुम्भ इति व्यस्तं रूपकम् । नावा नखाङ्केनैवेति शेषः । खेलति दाहपरिहारय विहर?ति किमिति रूपकसङ्कीर्णेय मुत्प्रेक्षा इति सखीभिरूचे उक्ता ॥ 6.66 ॥
अन्वयः–यत्र अर्धचन्द्राभनखाङ्कचुम्बिकुचा सखी सखीभिः इति ऊचे किम् स्मरः हरभीतिगुप्तेः पयोधरे एव कुम्भे नावा खेलति ? ॥ 6.66 ॥
स्मराशुगीभूय विदर्भसुभ्रूवक्षो यदक्षोभि खलु प्रसूनेः ॥
स्त्रजं सृजन्त्या तदशोधि तेषु यत्रैकया सूचिशिखां निखायः ॥ 6.67 ॥
जीवातु–स्मरेति । प्रसूनैः कुसुमैः स्रूमरासशुगीभूय कामबाणो भूत्वा विदर्भसुभ्रुवो वैदर्भ्याः वक्षो
हृदयमक्षोभि क्षोभितं खलिन्वति यत् । तत् क्षोभणवैरं यत्र सभायां, तेषु प्रसूनेषु सूचिशिखां सूचयग्रं, निखाय निकुट्य, सूजं मालां, सृजन्त्या एकया कयाचित्कान्तया, अशोधि निर्यातितम् । हृदयच्छेदिनां हृदयच्छेद एव प्रतीकार इति भावः ॥ 6.67 ॥
अन्वयः–यत्र प्रसूनैः स्मराशुगीभूय विदभैसुभ्रू वक्षः यत् अक्षोभि तत् खलु तेषु सूचिशिखां निधाय स्त्रजं सृजन्त्या एकया अशोधि ॥ 6.67 ॥
यत्रावदत्तामतिभीय भैमी त्यज त्यजेदं सखि साहसिक्यम् ॥
त्वमेव कृत्वा मदनाय दत्से बाणान् प्रसूनानि गुणेन सज्जान् ॥ 6.68 ॥
जीवातु-यत्रेति । यत्रं सभायां, तां सुक्स्रष्ट्रीं सखीं, भैमी अतिभीय अत्यन्तं भीत्वा । भीधातोः क्त्वो ल्यबादेशः । अवदत् । किमिति, हे सखि ! इतदम् । सहसा वर्तत इति साहसिक्यं ब्रह्मणादित्वात् ष्यञ्प्रत्ययः । त्यज त्यज । कुतः त्वमेवं प्रसूनान्येव बाणान् गुणेन तन्तुना ज्यया च । ‘गुणस्त्वावृत्तिशाब्दादिज्ये न्द्रियामुख्यतन्तुषु’ इति वैजयन्ती । सज्जान् सक्तान् कृत्वा, मदनाय दत्से ददासि । तदेतत्स्वत एव दहतो वह्नेर्वायुना सन्धुक्षणमिति भावः ॥ 6.68 ॥
अन्वयः–यत्र भैमी अतिभीय ताम् इति अवदत्–सखि, त्यज इदं साहसिक्यं त्यज, त्वम् एव मदनाय प्रसूनाति बाणान् गुणेन सज्जान् कृत्वा दत्से ॥ 6.68 ॥
आलिख्य सख्याः कुचपत्रभङ्गीमध्ये सुमध्या मकरीं करेण ॥
यत्रावदत्तामियमालि यानं मन्ये त्वदेकावलिनाकनद्याः । 6.69 ॥
जीवातु-आलिख्येति । यत्र सभायां, सुमध्या कापि कान्ता सख्याः कुचयोः पत्रभङ्गीनां पत्ररचनां मध्ये मकरीं करेणालिख्य तां सखीमवदत् । किमिति, हे आलि सखि, इयं मकरी त्वदेकावलेरेव हारविशेषस्यैव । ‘एकावल्येकयष्टिका’ इत्यमरः । नाकनद्या मन्दाकिन्या इति ख्पकम् । यानं वाहनं, ‘मकीरीवाहना गङ्गा’ इति प्रसिद्धिः । मन्ये अत्रोत्प्रेक्षा । तस्याश्चोक्तरूपकेण सङ्करः ॥ 6.69 ॥
अन्वयः– यत्र सुमध्या सख्याः कुचपत्रभङ्गीमध्ये मकरीं करेण आलिख्य अवदत्-आलि, इयं त्वदेकावलिनाकनद्याः यानं मन्ये ॥ 6.69 ॥
तामेव सा यत्र जगाद भूयः पयोधियादः कुचकुम्भयोस्ते ॥
सेय स्थिता तावकच्छयाङ्कप्रियास्तु वितस्तारयशःप्रशस्तिः ॥ 6.70 ॥
जीवातु–तामिति । यत्र सा पूर्वोक्ता प्रसाधिका तामेव सखी भूयो जगाद । किमिति । पयोधेर्यादो जलग्राहः समुद्रसम्भव इत्यर्थः । किञ्च, तावकस्य हृच्छयस्य मकरध्वजस्याङ्को मकरस्य प्रिया दयिता । ते तव, कुचकुम्भयोः स्थिता, सेयं मकरी विस्मारयशसस्तयोरेव परीणाहकीर्त्तेः प्रशस्तिः स्तुतिवर्णावलिरस्तु
॥ 6.70 ॥
अन्वयः–यत्र सा ताम् एव भूयः जगाद–तावकहृच्छयाङ्कप्रिया पयोधियादः सा ते कुचकुम्भयोः स्पियोधियदः सा ते कुचकुम्भयोः स्थिता खलु इमं विस्तारयशःप्रशस्तिः अस्तु ॥ 6.70 ॥
शारीं चरन्तीं सखि भारयैनामित्यक्षदाये कथिते कयापि ॥
यत्र स्वधाताभ्रमभीरुशारीकाकूत्थसयसाकूतहसः स जज्ञे ॥ 6.71 ॥
जीवातु-शारीमिति । यत्र स नलः, कयापि । कितवया इति शेषः । हे सखि, एनां चरन्तीं भ्रमन्तीं, शीहमक्षोपकरणं दारुविकारं, शरिकाख्यां शकुनिकान्तर’ इति विश्वः । मारय प्रहर । इति अक्षदाये अक्षाः पाशकाः । ‘अक्षास्तु देवकाः पाशकाश्च ते’ इत्यमरः । तेषां सम्बन्धी दायो दानम् । ‘दायो दाये यौतकादिधने चित्ते च पैतृके’ इति वैजयन्ती । तस्मिन् कथितं स्वधाते आत्ममारणे, भ्रमेणं भ्रान्त्या, भीरोमर्भीतायाः शर्याः शारिकायाः काक्वा विकृतस्वरेण उत्थः उत्थितः, साकूतः भावगर्भो हसो हासो यस्य सः, ‘स्वनहसोर्वा’ इति विकल्पादप्प्रत्ययः । जज्ञे त्रातः ॥ 6.71 ॥
अन्वयः–यत्र-सखि,एनां चरन्तीं शारीं मारय-इति कया अपि अक्षदाये कथिते सः स्वधातभ्रमभीरुशारीकाकूत्थसाकूतहसः जज्ञे ॥ 6.71 ॥
भैमीसमीपे स निरीक्ष्य यत्र ताम्बुलजाम्बूनहंसलक्ष्मीम् ॥
कृतप्रियादूत्यमहोपकारमरालमोहद्रढिमानमूहे ॥ 6.72 ॥
जीवातु-भैमीति । यत्र सभायां, नलो भैसमीपे ताम्बुलस्य ताम्बुलस्य जाम्बूनदहंसो हिरण्मयहंसाकारः करकः तस्य लक्ष्मीं निरीक्ष्य, कृतः प्रियाया भेम्या दूत्यमेव महोपकारो येन तस्मिन् मराले हंसे, मोहस्य भ्रमस्य द्रढिमानं दार्ढ्यम् ‘र ऋतो हलादेर्लधो’ रित्यृकारस्य रभावः । ऊहे ऊढवान् ।वहेः कर्तरि लिट् । ‘वचिस्वपि’ इत्यादिना सम्प्रसारणम् ॥ 6.72 ॥
अन्वयः–यत्र सः भैमीसमीपे ताम्बूलजात्बूनदहंसलक्ष्मीं निरीक्ष्य कृतप्रियादूत्यमहोकारमरालमोहद्रढिमानम् ऊहे ॥ 6.72 ॥
तस्मिन्नियं सेति सखीसमाजे नलस्य सन्देहमथ व्युदस्यन् ॥
अपृष्ट एव स्फटमाचचक्षे स कोऽपि रूपातिशयः स्वयं ताम् ॥ 6.73 ॥
जीवातु–तस्मिन्निति । अथ सभालोकनान्नतरं तस्मिन् सखीसमाजे नलस्य सन्देहं का वात्र भैमीति संशयं व्युदस्यन्, स प्रसिद्धः कोऽपि रूपातिशयः सौन्दर्यविशेषः । स्वयमपृष्ट इव तां भैमीं, सा भैमी इयमिति स्फुटमाचचक्षे । आचख्यौ । विश्वातिशायिसौन्दर्यसाक्षात्कारादियं दमयन्तीति निश्चिकायेत्यर्थः ॥ 6.73 ॥
अन्वयः–अथ तस्मिन् सखीसमाजे नलस्य सन्देहं व्युदस्यन् सः कः अपि रूपातिशयः स्वयम् अपृष्ट एव तां स्फटम् आचचक्षे ॥ 6.73 ॥
भैमीविनोदाय मुदा सखीभिस्तदाकृतीनां भुवि कल्पितानाम् ॥
नातकिं मध्ये स्फटमप्युदीतं यस्यानुबिम्ब मणिवेदिकायाम. ॥ 6.74 ॥
जीवातु–भैमीति । भौम्या विनोदायौत्सुक्यापनोदाय मुदा कौतुकेन,सखीभिर्भुवि भूतले, कल्पितानां तस्य नलस्याकृतीनां प्रतिकृतीनां मध्ये मणिवेदिकायां स्फुटमुदीतमपि तस्य नलस्य अनुविम्बं नातकिं न तकिंतम् । तत्रापि स्वकल्पितकृतिसाम्यादिति भावः । अतएव सामान्यालङ्कारः तेन च भ्रन्तिमान् व्यज्यत इत्यलङ्कारेणालङ्कारेणालङ्कारध्वनिः ॥ 6.74 ॥
अन्वयः–भैमीविनोदाय मुदा सस्त्रीभिः भुवि काल्पितानां तदाकृतीनां मध्ये मणिवेदिकायां स्फटम् उदीतम् अपि तस्य अनुबिम्बं न अततिकं ॥ 6.74 ॥
हुताशकीनाशजलेशदूतीर्निराकरिष्णोः कृतकाकुयाच्ञाः ॥
भैम्या वचरोभिः स निजां तदाशां न्यवर्तयद्दूरमपि प्रयाताम् ॥ 6.75 ॥
जीवाजतु–हुताशेति । कृताः काक्वा याच्ञाः प्रार्थना याभिस्ताः चित्तचालचतुरोक्तेरित्यर्थः । ?हुताशकीनाशजलेशाः वह्नियमवरुणाः । ‘प्रेतपतिः पितृपतिश्च कीनाश’ इति हलायुधः । तेषां दूतीः निराकरिष्णोः परिहरन्त्याः । ‘अलं कृञ्’ इत्यादिना इष्णुच्प्रत्ययः । ‘न लोक’ इत्यादिना षष्ठीप्रतिषेधाद् द्वितीया । भैम्याः वचोभिः स नलो दूरं प्रयाताम् इन्द्रादिकपटेन लुप्तप्रात्याशामकार्षींदित्यर्थः ॥ 6.75 ॥
अन्वयः–कृतकाकुयाच्ञाः हुताशकीनाजलेशदूतीः निराकरिष्णोः भैम्याः वचोभिः सः दुरं प्रयाताम् अपि निजां तदाशां न्यवर्तयत् ॥ 6.76 ॥
विज्ञप्तिमन्तः सभयः स भैम्यां मध्येसभं वासवशमभलोयाम् ॥
सम्भावयामास भृशं कृशाशस्तदालिवृन्दैरभिनन्द्यमानाम् ॥ 6.77 ॥
जीवातु–विज्ञप्तिमिति । स नलो मध्येमभं सभायां मध्ये ‘पारे म्ध्ये षष्ठ्या वा’ इत्यव्ययीभावे नपुंसकह्रस्वत्वम् । तदालिवृन्दैः भैमीसखीसङ्धैरभिनन्द्यमानां, वासवशम्भलीयाम्, इन्द्रदूतीम्बन्धीं, कामिनोः सन्धात्री शम्भली । ‘कुट्टनी शम्भली समे’ इतृयमरः । भैम्यां विषये विज्ञप्तिं वक्ष्यमाणं विज्ञापनम्, अन्तःसभयः इत्द्रगौरवादङ्गीकरिष्यतीति बिभृयदेवेत्यर्थः । अत एव कृशाशः शिथिलभैमीप्राप्तयशश्च सन् । भृशं सम्भावयामास । अत्यवधानेन शुश्रावेत्यर्थः । विधानात् । अत एव ‘ज्ञप्तिविज्ञप्तिप्रभृतयोऽपशब्देषु परिगणिता भट्टपादः 1 तथाप्यभियुक्तप्रयोगो दुर्वारः ॥ 6.76 ॥
अन्वयः–मध्येसभं तदालिवृन्दैः अभिनन्द्यमानां वासवशम्भलीयां भैम्यां विज्ञप्तिम् अन्तः सभयः सभयः
कृशाशः सः भृशं सं भावयामास ॥ 6.77 ॥
लिपिर्न दैवी सुपठा भुवीति तुभ्यं मपि प्रेषितवाचिकस्य ॥
इन्द्रस्य दूत्यां रचय प्रसादं विज्ञापयन्त्यामवधानदानम् ॥ 6.78 ॥
जीवातु–लिपिरिति । दैवी लिपिर्देवलिपिः । भैमि, वासवस्त्वां सलीलं सविलासम्, आलिङ्गनया आलिङ्गनया आलिङ्गनेन । आङ्पूर्वाल्लिङ्गयतेश्चौरादिकाद्युच् । उपपीडमुपपीड्यगाढमालिङ्ग्य । ‘सप्तम्यां चोपपीड’ इत्यत्र चकारत्तृतीयोपपदो णमुल्प्रतृययः । ‘तृतीयाप्रभृन्यन्यतरस्याम्’ इति विकल्पादसमासः । अनामयं पृच्छति । ‘क्षतबन्धुमनामयम्’ इति स्मरणादिति भावः । शेषः कार्यशेषस्तु त्वादश्लेषकथया पूर्वोक्तत्वादालिङ्गनप्रङ्गेन विनिद्रैर्हृषितैस्तस्येन्द्रस्य रोमभिर्भवत्यै संदिदिशे सन्दिशे सन्दिष्टः । कर्मणि लिद् । त्वदालिङ्गनप्रार्थनैवान्तरं वक्तव्यः कार्यशेषोऽपीति भावः ॥ 6.78 ॥
अन्वयः–वासवः त्वां सलीलम् आलिङ्गनया उपपीङ्म् अनामयं पृच्छति शेषः त्वदालेषकथाविनिनिद्रैः तद्रोमभिः भवत्यै सन्दिदिशे ॥ 6.78 ॥
यः प्रेर्यमाणोऽपि हृदा मधोनस्त्वदर्थनायां ह्रियमापदागः ॥
स्वयंवरस्थानजुषस्तमस्य बधान कण्ठं वरणस्त्रजैव ॥ 6.79 ॥
जीवातु-यइति । हे भैमि, मधोनः इत्द्रस्य यः कण्ठस्त्वदर्थनायां विषये हृदा प्रेर्यमाणोऽपि ह्रिममेवागोऽपराघमापत् । हीनस्याधिकं प्रति याच्च्रासङ्कोचेऽयपराध एवेति भावः । स्वयंवरस्थाजुषः स्वयंववरमागतस्य अस्येन्द्रस्य तमपराधिनं कण्ठं इति भावः । सर्वथा लज्जां प्रविहायाप्रार्थनां कुर्वतो महेन्द्रस्य मनोरथपूरणं कार्यमिति तात्पर्यार्थः ॥ 6.79 ॥
अन्वयः–मधोनः यः त्वदर्थनायां हृदा प्रेर्यमाणः अपि ह्रियम् आगः आपत्, स्वयंवरस्थानजुषः अस्य तं कण्ठं वरणस्त्रजा एव बधान ॥ 6.79 ॥
नैनं त्यज क्षीरधिमन्थनाद्यैरस्यानुजायेद्गमितामरैः श्रीः ॥
अस्मै? विमथ्येक्षुरसोदमन्यां श्राम्यन्तु नोतृथापयितुं श्रियं ते ॥ 6.80 ॥
जीवातु-नेति । हे भैमि, एतमिन्द्रं, नत्यज । तथा हि, यैरमरैः अस्येन्द्रस्यअनुजाय उपेन्द्राय । तादर्थ्ये चतुर्थी । क्षीराणि धीयन्तेऽस्मिन्निति क्षीरधिः धीरोदधिः । ‘कर्मण्यधिकणे ‘च इति किप्रत्ययः । तस्य मन्थनात् मथनादुपायात्; मन्थतेभौवादिकस्येदित्त्वान्नुमागमः । श्रीः रमा उद्गमिता उत्थापिता । ते अमराः अस्मै इन्द्राय । पूर्ववच्चतुर्थी । हक्षुरस एवोदकं यस्य तमिक्षुरसोदं नामाब्धिम् ‘उदकस्योदः ज्ञंज्ञायाम्’ इतृयुदोशः विमथ्य मथित्वा अन्यां श्रियम् उत्थापयितुं न श्राम्यन्तु न प्रयस्यन्तु । द्वितीयया श्रिया त्वयैव उपेन्द्रवदिन्द्रस्यापि ल्क्षमीपतित्वे तयोरर्वषम्याय देवतानां लक्ष्म्यन्तरसम्पादनप्रयासो न स्यादिति भावः । अत्रामराणां लक्ष्म्यन्तरोत्पादनप्रयत्नासम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिभेदः ॥ 6.80 ॥
अन्वयः–एनं न त्यज, यैः अमरैः अस्य अनुजाय क्षीरधिमन्थनातृ श्रीः उद्गमिता, ते अस्मै इक्षुरसोदं विमथ्यच अन्यां श्रियम् उतृथापयितुं न श्राम्यन्तु ॥ 6.80 ॥
लोकस्त्रजि द्यौर्दिवि चादितेया अप्यादितेयेषु महान्महेन्द्रः ॥
किंकर्तुमर्थो यदि सोऽपि रागाज्जागर्ति कक्ष्या किमतः परापि ॥ 6.81 ॥
जीवातु–लोकेति । कोकस्त्रजि स्वर्गादिलोकपंक्तौ द्यौः स्वर्गो महती । दिवि च अदित्या अपत्यानि पुमांस आदितेयाः देवाः महान्तः । कृदिकाराङ्ङीषन्तात् स्त्रीभ्यो ढक् । आदितेयेष्वपि महेन्द्रो मह्मान् । स महेन्द्रोऽपि रागात् किंकर्तुं सेवितुमर्थी इच्छुर्यदि । किंशब्दस्यास्य सर्वादिपठितस्य निपातितत्वाद्धातोः प्राक् प्रयोगः । अर्ययतेरिच्छार्थत्वात् समानकर्तृकेषु तुमुन् । अतोऽस्मा दिन्द्रसेव्यत्वात् परा कक्ष्यापि उत्कृष्टावस्था च जागतिं स्फरति किम् ? न जागर्तीत्यर्थः । अत्रलोकादिषु पूर्वपूर्वापेक्षयोत्तरोत्तरस्योत्कर्षोक्तेः सारालङ्कारः।
उत्तरोत्तरमुत्कर्षः सार इति लक्षणात् ॥ 6.81 ॥
अन्वयः–लोकस्त्रजि द्यौः, दिवि च आदितेयाः, आदितेयेषु अपि इन्द्रः महान्; सः अपि रागात् यदि किङ्कर्तुम् अर्थी, अतः परा अपि कक्ष्या जागतिं किम् ? ॥ 6.81 ॥
पदं शतेनाप मखैर्यदिन्द्रस्तस्मै स ते याचनचाटुकारः ॥
करु प्रसादं तदलं कुरुष्व स्वीकाकृद्भ्रूनटनक्रमेण ॥ 6.82 ॥
जीवातु–पदमिति । इन्द्रः शतेन मखैः मखशतेन यत्पदमिन्द्रत्वलक्षणं स्थानमाप प्राप स इन्द्रस्तस्मै पदाय तत्पदस्वीकारयेत्यर्थः । ते तव याचनेन प्रार्थनया चादुकारः प्रियंवदः । जात इति शेषः । ‘न शब्दश्लोके’त्यादिना टप्रत्ययनिषेधात् कम्रष्यण् । प्रसादमनुग्रहं कुरु । तदैन्द्रं पदं स्वीकारकृता अंगीकारव्यञ्जकेन भ्रूमटनक्रमेण भ्रू विक्षेपव्यापारेण, अलं कुरुष्व ॥ 6.82 ॥
अन्वयः–इन्द्र शतेन मखैः यत् पदम् आप, सः तस्मै ते याचनचाटु कारः, प्रसादं कुरु; त्तत् स्वीकारकृद्भ्रूनटनक्रमेण अलं कुरुष्व ॥ 6.82 ॥
मन्दाकिनीनन्दनयोर्विहारे देवे भवेद्देवरि माधवे च ॥
श्रेयश्श्रियां यातरि यञ्च सख्यां तच्चेतसा भाविनि भावय त्वम् ॥ 6.83 ॥
जीवातु-गन्दाकिनीति । भावयतीति भाविनि विचारचतुरे भैमि ! मन्दाकिनीनन्दनयोर्विहारे क्रीडायां माधवे देवे उपेन्द्रे देवरि देवरे भर्तृभ्रातरि सति । ‘स्यालाः स्युर्भ्रातरः पन्त्याः स्वामिनो देवृदेवरो’ इत्यमरः । ‘दिवेर्ऋः’ इति ऋ प्रत्ययः । श्रियां श्रीदेव्याम् । यतत इति यातिर । देवृभार्यायाम् । ‘भार्यास्तु भ्रातृवर्गस्य यातारः स्युः परस्परम्’ इत्यमरः । ‘यतेर्वृ द्धिश्च’ इति तृन् प्रत्ययः । सख्यां सत्याञ्च यछ्रेयो महोत्कर्षः भवेत् । तत्त्वं चेतसा विभावय विचारय । अयाचितोपनतं महच्छ्रेयो न परिहर्तव्यमित्यर्थः । अत्र नन्दनविहारक्रियाया :माघवदेवृकत्वश्रीयातृत्वगुणयोश्च सामस्त्येन यौगपह्मात् समुच्चयालङ्कारभेदः । ‘गुण्रियायौगपह्मे समुच्चय उदाहृतः’ इति लक्षणात् ॥ 6.83 ॥
अन्वयः–मन्दाकिनीनन्दनयोः विहारे देवे, माधवे च देवरि, श्रियां यातरि संख्यां च यत् श्रेयः भवेत्, भाविनि, भाविनि, तत् त्वे चेतसा भावय ॥ 6.83 ॥
रज्यस्व राज्ये जगतामितोन्द्राद्याञ्चाप्रतिष्ठां लभसे त्वमेव ॥
लघूतस्वं बलियाचनेन तत्प्राप्तये वामनमामनन्ति ॥ 6.84 ॥
जीवातु–रज्यस्वेति । ?हे भैमि, जगतां राज्ये, त्रैलोक्याधिपत्ये, रज्यस्व अनुरक्ता भवः । प्रार्थानायां लोट् । रञ्जे स्वरितेत्त्वादात्मनेपदम् । इत्येवंरूपां याच्?ञां प्रार्थनामेव प्रतिष्ठां गौरवमिन्द्रात्वमेव लभसे । तथाहि तस्य त्रैलोक्यराज्यस्य प्राप्तये लाभाय गलेर्वेरोचनस्य याचनेन लघृकृतमल्पीकृतं, स्वामात्मा येन तं विष्णुमपीति शेषः । तं वाभनं ह्रस्वं लघ्रंचमानन्ति । यदर्थं विष्णोरपि याच्ञामाघवं प्राप्तम् । प्रार्थनां विना तदेव तुभ्यं दीयते देवेन्द्रेणेत्यहो ?ते भागधेयमित्यर्थः । व्यतिरेकेण टृष्टान्तालङ्कारः ॥ 6.84 ॥
अन्वयः–जगां राज्ये राज्यस्व–इति इन्द्रात् याञ्चाप्रतिष्ठां त्वम् एव लभसे; तत्प्राप्तये बलियाचनेन वामनं लघुकृतस्त्वम् आमनन्ति ॥ 6.84 ॥
यानेव देवान्नमसि त्रिकालं न तत्कृतध्नीकृतिरौचिती ते ॥
प्रसीद तानप्यनृणान्विधातुं पतिष्यतस्त्वपदयोस्त्रिसन्ध्यम् ॥ 6.85 ॥
जीवातु–यानीति । हे भैमि, यानेव देवानिन्द्रादीन् । त्रयः काला यस्मिन् कर्मणि तत् त्रिकालं, यथा तथा । नमसि त्रिसन्ध्यं नमस्करोषीत्यर्थः । तेषां देवानां कृतध्नीकृतिस्तदीयप्रत्युपकारपरिहारेण कृतध्नकरणं, ते तव, औचिती, औचित्यं न । त्वयादयोः पतिष्यतः नमस्करिष्यतः तान् देवाप्यनृणान् विधातुं प्रतिप्रणामस्वीकारेण अनृणान् कर्तुं प्रसीद । तान् वृणीत्यर्थः ॥ 6.85 ॥
अन्वयः–यान् एव देवान् त्रिकाल नमसि तत्कृतध्नीकृतिः ते औचिती न, त्रिसन्ध्यं त्वत्पदयोः पतिष्यतः
तान् अपि अनृणान् विधार्तु प्रसीद ॥ 6.85 ॥
हत्युक्तवत्या निहितादरेण भैमीगृहीता मघवत्प्रसादः ॥
स्त्रवपारिजातस्य ऋते नलाशां शकदूत्या । आदरेण निहिता समर्पिता । भैम्या गृहीता स्वीकृता मधवतः प्रसादोऽनुग्रहभूता । त्ववतसत्वेन अभिमतेति भावः । पारिजातस्य स्रङ्मालिका नलस्याशां तृष्णां दिशं च ऋते विना । तस्यान्तस्य ( नलस्य ) विपरीतशङ्काकरत्वादिति भावः । ‘आश तृष्णादिशोः’ इति विश्वः ।
यद्यपि, ‘अन्यारादितरर्त’ इति ऋतेशब्दयोगात् पञ्चम्येव विहिता, तथापि मतान्तरे द्वितीयाप्यस्तीत्याहुः । तथा,
‘फलितपुरुषाराधनमृत’ इ?ति प्रयोगश्च । अशेषामाशां दिशम् । सर्वा अपीत्यर्थः जातावेकवचनम् । वासैर्निजवासनावासनाभिरुपुपूरत् पूरितवती ‘पूरी पूरण’ इति चौरादिकस्य धातोरल्लोपिवत्वात् ’
नाग्लोपिशास्वृदिताम्’ इत्युपधाह्रस्वनिषेधः । अम्यासह्रस्वः । द्वयोरप्याशयोरभेदाध्यवसायाद्विनोक्तिनिर्वाहः
॥ 6.86 ॥
अन्वयः–इति उक्तवत्या आदरेण निहिता भैमीगृहीता भधवत्प्रसाटः पारिजातस्य स्त्रक् नलाशाम् ऋते अशेषाम् आशं वासैः अपुपूरत् ॥ 6.86 ॥
आर्ये ! विचार्यालमिहेति कापि योग्यं सखि स्यादिति काचनापि ॥
ओंकार एवोत्तरमस्तु वस्तु मङ्गल्यमत्रेति च काप्यवोचत् ॥ 6.87 ॥
जीवातु–आर्य इति । आर्ये भैमि, इहेन्द्रवरणे विचार्य अलम् । विचारो न कर्तव्य इति कापि सखी इति
कापि सखी अवोचत् । सखि भैमि, योग्यमिदं युक्तं स्यादिति काचाप्यवोचत् अत्र ओंकारोऽङ्गीकार एव मङ्गल्यमुत्तररूपं वस्तृवस्त्विति काप्यवोचत् ॥ 6.87 ॥
अन्वयः–आर्ये, इह विचार्य अलम्–इति का अपि अवोचत्, सखि, योग्यं स्यात्–इति काचन अपि, अत्र ओङ्कार एव मङ्कल्यम् उत्तरं अस्तु अस्तु–इति का अपि ( अवोचत् ) ॥ 6.87 ॥
अनाश्रवा वः किमहं कदापि वक्तुं विशेषः परमस्ति शेषः ॥
इतीरिते भीमजया न दूतीमालिङृगदालीश्च मुदामिमत्ता ॥ 6.88 ॥
जीरवातु-अनाश्रवेति । हे सख्यः अहं कदापि वो युष्माकं, अनाश्रवा अवचनकारिणी किं, परं किन्तु वक्तुं विशेषः शेषोऽस्ति । किंतु, वक्तव्यशेषः कश्चिदस्तीत्यर्थः । इति भीमजया भैम्या, ईरिते उक्तेसति दूतीमिन्द्रशम्भलीमालीर्भैमीसखीश्च इति भ्रान्त्या महान्तमान्दमविन्दतेत्यर्थः ॥ 6.88 ॥
अन्वयः–अहं कदापि वः अनाश्रवा किम् परं वक्तुं विशेषः अस्ति–इति भीमजया र्हरिते दूतीम् आसलीः च मुदाम् इयत्ता न आलिङ्गत् ॥ 6.88 ॥
भैमां च दूत्यं च न किञ्चिदापमिति स्वयं भावयतो नलस्य ॥
आलोकमात्राद्यदि तन्मुखेन्द्रोरभून्न भिन्न हृदयारविन्दम् ॥ 6.89 ॥
जीवातु-भैमीमिति । भैमीञ्च दूत्यञ्च किञ्चितिञ्चन तयोरेकञ्च । नापं न प्रापम् । आप्नो?तेरङि मिप् । स्त्ररत्नलाभो ?सा भूत्, परोपकारोऽपि न सिद्ध इत्यर्थः । इति स्वयमात्मनि भावयतो भैमीचितृतचलनभ्रान्त्या
चिन्तयतो नलस्य हृदयमेवारविन्दं, तन्मुखेन्दोः भैमीमुखचन्द्रस्यालोकमात्रात् दर्शनमात्रात् प्रकाशमात्राच्च । ‘आलोको दर्शनोद्योतौ’ हत्यमरः । भिन्नं विदीर्ण विकसितञ्च नाभूद्यदि नाभूत् किम् । तनमुखदर्शनादनया विश्वास्य हतोऽस्मीति विदीर्णहृदयोऽभूदेवेत्यर्थः । इन्दुप्रकाशात् कथमरविन्दविकास इति विरोधश्च ध्वन्यते
॥ 6.89 ॥
अन्वयः–भैमीं दूत्यं च किञ्चित् न आपम्-इति स्वयं भावयतो नलस्य हृदयारविन्दं यदि भिन्नं न अभूत्, तन्मुखेन्दोः आलोकमात्रात् ॥ 6.89 ॥
ईषत्सितक्षालितसृक्तिभागा दृक्संज्ञया वारिततत्तदालिः ॥
स्त्रजा नमस्कृत्य तथैव शक्रं तां भीमभूरुत्तरर्याचकार ॥ 6.90 ॥
जीवातु-ईषदिति । भीमभूः भैमी, ईषत्सिमतेन मन्दहासेन क्षालितौ घोतौ । सृक्किणी औष्ठप्रानतादेव भागौ यया सा सती । ‘प्रान्तावोष्ठस्य सृक्किणी’इत्यमरः । ट्क्-संज्ञयेव वारिता निषिद्धास्तास्ताः पूर्वोक्तविरुद्धप्रलापिन्यः आलयः सख्यः, यया सा चसती । तयेन्द्रदूतीदत्तया सूजा सहैव । ‘वृद्धो पूना’इति सूत्रकारप्रयोगादेव ज्ञापकात् सहशब्दाप्रयोगेऽपि सहर्थे तृतीया । शक्रं नमस्कृत्य, सूजं शक्रञ्च नमस्कृत्येत्यथेः । न तु तामवतंसीकृत्य । तस्य नलस्य जीवनार्थमिति भावः । तामिन्द्रदूतीमुत्तरयाञ्चकार उत्तरमाचष्ट । ‘तत्करोति तदाचष्टे’ इति णिच् ॥ 6.90 ॥
अन्वयः–ईषत्स्मितक्षालितसृविकभागा दृक्संज्ञया वारिततत्तदालिः भीमभूः तथा स्त्रजा एव शंक्र
नमस्कृत्य ताम् उत्तरयांचकार ॥ 6.90 ॥
स्तुतौ मधोनस्त्यज साहसिक्यं वक्तुं कियत्तं यदि वेद वेदः ॥
वृथोत्तरं साक्षिणि हृत्सु नृणामज्ञातृविज्ञापि ममपि तस्मिन् ॥ 6.91 ॥
जीवातु–स्तुताविति । हे दूति मघोन इन्द्रस्य स्तुतौ विषये साहसिक्यं साहसमविमृश्यकारित्वं त्यज, न स्तुहीत्यर्थः । कुतः अशक्यत्वादित्याह-तं शक्रं कियदल्पं वक्तुं वेदयतीति वेदः, श्रुतिरेव वेद वेत्ति, नान्यः । अतः स्तुतेर्विरमेति भावः । तर्हि किमस्योत्तरं तत्राह-नॄणां हृतसु विषये साक्षिणि साक्षिभूते ‘साक्षातृ द्रष्टरि संज्ञायाम्’ इति इनिप्रत्ययः । तस्मिन्धोनि आतॄनाज्ञन् विज्ञापयति विबोधयतीति तथोक्तम् । मम सम्बन्धुत्तरमपि वृथा । अज्ञस्योत्तरा कांक्षा न सर्वज्ञस्येति भावः ॥ 6.91 ॥
अन्वयः–मधोनः स्तुतो साहसिक्यं त्यज, तं कियत् वक्तुं वेदः वेद, नृणां हृत्सु साक्षिणि तस्मिन् अज्ञातृविज्ञापि मम उत्तरं वृथा ॥ 6.91 ॥
आज्ञां तदीयामनु कस्य नाम नकारपारुष्यमुपैतु जिह्वा ॥
प्रह्वा तु तां मूर्ध्नि निधाय मालां बालापराध्यामि विशेषवाग्भिः ॥ 6.92 ॥
जीवातु–तथाप्यविनयपरिहाराय किञ्चिद्विज्ञापयामीत्याह-आज्ञामिति । तदीयामैन्द्रीमाज्ञामनु तामुद्दिश्य कस्य नाम जिह्वा नकारो नञुच्चारणमेव पारुष्यमुपैतु प्रतिषेधरौक्ष्यं भजेत् । न कोऽपि तदाज्ञोल्लङ्धनसाहसिनोऽस्तीत्यर्था, । किन्तु बाला शिशुरहं प्रह्वा नम्रा सती तामाज्ञामेव मालां मूर्ध्नि निधाय, विशेपवाग्भिरतिवाग्भिरपराध्यामि अपराघं करोमि । स च बालचापलात् सोढव्य इत्यर्थः ॥ 6.92 ॥
अन्वयः–तदीयाम् आज्ञाम् अनु कस्य नाम जिह्वा नाकरपारुष्यम् ॥ उपैतु, बाला प्रह्वा तां मालां मूध्निं निधाय विशेषवग्भिः अपराध्यामि ॥ 6.92 ॥
तपःफलत्वेन हरेः कृपेयमिमं तपस्येव जन नियुङ्क्ते ॥
भवत्युपायं प्रति हि प्रवृत्तावूपेयमाधुर्यमधैर्यसज्जि ॥ 6.93 ॥
जीवातु-तप इति । तपःफललत्वेन इत्द्रोपासनरूपस्य तपसः फलत्वेनोपलक्षिता फलभूतेत्यर्थः । इयं मत्परिजिघृक्षारूपा कृता हरेरिन्द्रस्य । इमं जनं मां तपस्येव पुनरणीन्द्रपासनायामेव नियुङ्क्ते प्रेरयति । ‘स्वराद्यन्तोपसृष्टादिति पक्तव्यम्’ इत्यात्मनेपदम् । ननु महदेतत्फलं प्राप्तं किं तपसेत्याशंक्य, सत्यम्, मदेव स्वादु कर्तुमित्याह-भवतीति । हि यस्मादुपोयं प्रति प्रवृत्तौ साधनगोचरप्रवृत्तौ विषये उपेयस्य साध्यस्य माधुर्यं स्वादुत्वमेव, अधैर्यमस्थैर्यं सज्ययतिकारयतीत्यघैर्यसज्जि भवति । पुनः साधनप्रवृत्तिचापलं कारयतीत्यर्थं । सिद्धान्नस्योपस्कार=( उपदेश ) प्रवृत्तिकल्पेयं प्रवृत्तिरिति भावः ॥ 6.93 ॥
अन्वयः–हरेः इयं तपःफलत्वेन इमं जनं तपसि एव नियुङ्क्ते, हि उपायं प्रति प्रवृत्तौ उपेयमाधुर्यम् अधैर्यसज्जि भवति ॥ 6.93 ।
शुश्रूषिताहे तदहं तमेव पतिं मुदेऽपि व्रतसम्बपदेऽपि ॥
विशेषलेशोऽयमदेवदेहमंशागतं तु क्षितिभृत्तयेह ॥ 6.94 ॥
जीवातु-फलितमाह-शुश्रूषिताह इति । तत्तस्मादर्थित्वादहं तमिन्द्रमेव पतिं शुश्रूषिताहे सेविष्ये । ‘शुश्रूषा श्रोतुमिच्छायां परिचर्यावधानयोः’ इति विश्वः । ‘ज्ञाश्रुस्मृटृशां सनः’ इति शृणोतेः सन्नन्तात्तङि लुट् । तासः सकारस्य हकारः । किंतु मुदेऽपि सन्तोषाय च व्रतसम्पदेऽपि पातिव्रत्यसम्पत्त्यर्थञ्च क्षितिभृत्तया राजत्वेन इ?ह कस्मिश्चिन्नरे अंशेन मात्रया आगतमवतीर्णम् । ‘अष्टामिश्च सुरेन्द्राणां मात्राभिर्निर्मितीं नृपः’ इति स्मरणात् । अत एव, अदेवदेहं देवदेहरहितं मानुषविग्रहं सन्तम् । न तु खाक्षादिति शीषः ( तं शुश्रूषिताह इति
पूर्वेणादिति भावः ॥ 6.94 ॥
अन्वयः–तत् अहं मुदे अपि व्रतसम्पदे अपि क्षितिभृत्तया इह अंशागतम अदेवदेहं तम् एव पतिं शुश्रूषिताहे-अयं विशेषलेशः ॥ 6.94 ॥
अश्रौषमिन्द्रारिणी गिरस्ते सतीव्रताति-प्रतिलोमतीव्राः ॥
स्व प्रागहं प्रादिषि नामराय किं नाम तस्मे मनसा नराय ॥ 6.95 ॥
जीवातु–कथं व्रतलोपस्तदाह–अश्रौषमिति । हे इन्द्रदूति ! सतीव्रतस्य पतिव्रताधर्मस्य अतिप्रतिलोमाः अत्यन्तप्रतिकूलाः । अत एव तीव्रा दुःश्रवाश्च । ते गिरः इन्द्रे आदरिणी आदरवती अश्रोषम्, इन्द्रो महती देवतेति भयभक्तिभ्यामश्रीषम् न तु, रागादिति भावः । कथं तर्हि तमेव पर्ति भजिष्यामौत्युक्तं तत्राह-प्राक् पूर्वमहं स्वमात्मानं, अमराय देवात्मने तस्मै इन्द्राय न प्रादिषि न प्रादां नाम । कितु नराय नररूपिणे रलयोरभेदान्नलरूपाय च तस्मै मनसा प्रादिषि । ददातेर्लुङि । ‘स्थाध्वोरिच्च’ इतीकारः । अतः साक्षादिन्द्रभजने मम व्रतलोपः स्यादेवेत्यर्थः ॥ 6.95 ॥
अन्वयः–इन्द्रादरिणी सतीव्रतातिप्रतिलोमतीव्राः ते गिरः अश्रौषम्, प्राक् अहं अमराय तस्मै न प्रादिषि, किं नाम मनासा नराय ॥ 6.95 ॥
तस्मिन्विमृश्यैव वृते हृदैषा नैन्द्री दया मामनुतापिकाभूत् ॥
जीवातु-तस्मिन्निति । तस्मिन् परे हृदा हृदयेन, विमृश्यैव वृते सति हदमेव साध्विति सम्यङ्निश्चित्यैव प्रवृत्तेरत्यिर्थंः । एषा ऐन्द्री, दया परिजिघृक्षालक्षणा कृपा । निर्वातुकामं मोक्तुकामम्, इदमेव साध्विति निश्चित्य
मोक्षे प्रवृत्तमित्यर्थः । ‘मुक्तिः कैवल्यनिर्वाण’ इत्यमरः । घीरं निर्विकारचित्तं विद्वांसम् । भवसम्भवानां सुखानाम्, अवधीरणा सांसारिकसुखसंन्यास्य एव ममानुतापिका हा कष्टमसाधकृतामति मम पश्चात्तापकारिणी
माभूत् । ‘अकेनोर्भविष्यदाधमर्ण्ययो’ इति षष्ठीप्रतिषेधात् कर्मणि द्वितीया ॥ 6.96 ॥
अन्वयः–तस्मिन् हृदा विमृश्य एव वृते एषा ऐन्द्री दया निर्यातुकामं धीरं भवसम्भवानां सुखानाम् अवधीरया इव माम् अनुतापिका न अभूत् ॥ 6.96 ॥
वर्षेषु यदभारतमार्यधुर्याः स्तुवन्ति गार्हस्थ्यमिवाश्रमेषु ॥
तत्रास्मि पत्युर्वरिवस्ययाहं शर्मोर्मिकिर्मीरितधर्मलिप्सुः ॥ 6.97 ॥
जीवातु–विमृश्य कृतमित्युक्तमथैनं विमर्शप्रकारमेव श्लोकचतुष्टयेनाहवर्षेष्वित्यादि । आर्यधुर्याः श्रेष्ठाः
आश्रमेषु ब्रह्मचर्यादिषु चतुर्षु गार्हस्थ्यं गृहस्थाश्रममिव । वर्षेष्विलावृतादिषु नवसु यदभारतंवर्षं स्तुवन्ति प्रशंसन्ति । तत्र भारतवर्षे अहं पत्युर्वरिवस्यया शुश्रूषया । ‘वरिवस्या तु शुश्रूषा’ इत्यमरः । वरिवस्यतेः क्यजन्तात् ‘अ प्रत्ययात्’ इति आकारप्रत्यये टाप् । शर्मोर्मिभिः सुखपरम्पराभिः, किर्मीरितं चित्रितं तत्सहचरधर्मं लिप्सुर्लब्धुरस्मि । ‘शर्मशांतसुखानि च’ । ?‘चित्रं किर्मीरकल्माषशबर्लताश्च कर्बुर’ इति चामरः ॥ 6.97 ॥
अन्वयः–आर्यधुर्याः आश्रमेषु गार्हस्थ्यम् इव वर्षेषु यत् भारतं स्तुवन्ति, तत्र अहं पत्युः वरिवस्यया शर्मोर्मिकिर्मीरितधर्मलिप्सुः अस्मि ॥ 6.97 ॥
स्वर्गे सतां शर्म परं न धर्मा भवन्ति भूमाविह तच्चे ते च ॥
इष्ट्यापि तुष्टिः सुकरा सुराणां कथं विहाय त्रयमेकमीहे ॥ 6.98 ॥
जीवातु-ननु स्वर्गेऽपि सुधर्मौ स्त इत्यहम् आह-स्वर्ग इति । स्वर्गे सतां स्वर्गवासिनामित्यर्थः । शर्म परं सुखमेव ( अस्ति ) । घर्माः सुकृतानि न भवन्ति । इहास्यां भूमौ तच्छर्म च ते धर्माश्च भवन्ति सम्भवन्ति । किञ्चेह इष्ट्या यागेन सुराणां तुष्टिरपि सुकरा सुमम्पाद्या । एवं सति कथं त्रयं शर्मधर्मतुष्टिरूपं विहायैकं सुखमीहे । न चैतत् प्रेक्षावत्कृत्यमिति भावः । तस्मात् स्वर्गादपि भूलोक एव श्लाध्य इत्यर्थः ॥ 6.98 ॥
अन्वयः–स्वर्गे सतां परं शर्म धर्माः न, इह भूमौ तत् च ते च भवन्ति, इष्ट्या सुराणां तुष्टिः अपि सुकरा; कथम् त्रयं विहाय एकम् ईहे ? ॥ 6.98 ॥
साधोरपि स्वः खलु गामिताश्रोगामी स तु स्वर्गमितः प्रयाणे ॥
इत्यायतिं चिन्तयतो हृदि द्वे द्वयोरुदर्कः किमु शर्करे न ॥ 6.99 ॥
जीवातु-इतोऽपि कारणात् भूलोक एव श्रेयानित्याह-साधोरिति । किंच, साधोः सुकृतिनोऽपि स्वः स्वर्गादधोगामिता गमिष्यता खलु । ( साधुरपि कदाचिदधःपतत्येवेत्यर्थः । ) स साधुरितोतोस्मात् भूलोकात्, प्रयणाणे तु स्वर्गगामी गमिष्यति । ‘ते तं भ्रुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति’इति गीतावाक्यात् । ‘भष्यिति गम्यादयः’ इति गमिन्शब्दस्य भविष्यदर्थता ।‘अकेनो’ इति षष्ठीप्रतिषेधात् कर्मणि
द्वितीया । इतीत्थमायतिमुत्तरकालम् । ‘उत्तरः काल आयतिः’ इत्यमरः । हृदि चिन्तयतो विवेकिनो द्वयोः स्वर्भू लोकयोः । उदर्कमुत्तरुलम् । ‘उदर्कः फलमुत्तरम्’ इत्यमरः । द्वे शर्करे न किमु, शर्करे एवेत्यर्थः । एका शर्करा ( इक्षुसम्भवा ) शिलाशकलप्राया,मृत्प्राया अपरापीक्षुविकारा । तत्र क्रमाद्द्वावप्युर्कौ द्वे शर्करे, तत्कल्पावित्यर्थः । अत एव निदर्शनालङ्कारभेदः । ‘शर्करा खण्डविकृतावुपलो शर्करांशयोः’ इति विश्वः
॥ 6.99 ॥
अन्वयः–साधोः अपि स्वः अधोगामिता खलनु सः इतः प्रयाणे तु स्वर्गं गामीइति आयतिं चिन्तयतः हृदि द्वयोः उदर्कः द्वे शार्करे न किमु ? ॥ 6.99 ॥
प्रक्षीण एवायुषि कर्मकृष्टे नरान्न तिष्ठत्युपतिष्ठते यः ॥
बुभुक्षते नाकमपथ्यकल्पं धीरस्तमापसुखोन्मुखं केः ॥ 6.100 ॥
जीवातु-प्रक्षीण इति । किंच यो नाकः कर्मकृष्टे कर्मार्जिते आयुषि प्रक्षीणे सत्येव नरान् मनुष्यानुसत्येव नरान् मनुष्यानुपतिष्ठते सङ्गच्छते । तिष्ठति सति नापेतिष्ठते ‘उपादवेद पूजा’ इत्यादिना सङ्गतिकरणे सङ्गच्छते । तिष्ठति सति नोपतिष्टते ‘उपाद्देवपूजा’ इत्यादिना इत्यर्थः । अत एव अपथ्यकल्पं ल्पथान्नसटृशं तं नाकं, स्वर्ग धीरो धीमान्, कः बुभुक्षते भोक्तुमिच्छति । अपथ्यान्नभोजनवदासन्नमरणाधिकारः नाकभोगः कस्मै नाम रोचत इत्यर्थः ॥ 6.100 ॥
अन्वयः–यः कर्मकृष्टे आयुषि प्रक्षोणे एव नारन् उपतिष्ठते तिष्ठति न , कः धीरः आपातसुखोन्मुखम् अपथ्यकल्पं तं नाकं बुभुक्षते ? ॥ 6.100 ॥
इतीन्द्रदूत्यां प्रतिवाचमर्धे प्रत्युह्म सैषाभिदधे वयस्याः ॥
किञ्चिद्विचक्षोल्लसदोष्ठलक्ष्मीजितापनिद्रद्दलपङ्कजास्याः ॥ 6.101 ॥
जीधातु–इतीति । सैषा भैमी, इतीत्थमिन्द्रदूत्यां विषये, प्रतिवाचं प्रत्युत्तरम् । अर्धे प्रत्युह्म मध्ये मध्ये निरुध्य, असमाप्येवेत्यर्थंः । ‘उपसर्गाद्ध्रस्व ऊहतेः’ इति ह्रस्वः । किञ्चिद्विवक्षया यत्किञ्चिद्वक्तुमिच्छया, उल्लसतः स्फरतः, ओष्ठस्य लक्ष्म्या शोभया जितमनिद्वद्रदलं विकसत्पत्रं यस्य तत् । उपनिपूर्वाद् द्रातेः शतृप्रत्ययः । तचच तत्पङ्कजञ्च तदिव आस्यं यासां ता वयस्याः सखीः अभिदधे उवाच । दधातेः कर्तरि लिटि तङ् ॥ 6.101 ॥
अन्वयः–इति इन्द्रदूत्यां प्रतिवाचम् अर्धे प्रत्युह्म सा एषा किञ्चिद्विवक्षोल्लसदोष्ठलक्ष्मीजितापनिद्रद्दलपङ्कजास्याः वयस्याः अर्भिदधे ॥ 6.101 ॥
अनादिधाविस्वपरम्पराया हेतुस्त्रजस्त्रौतसि वेश्वरे वा ॥
आयत्तधीरेष जनस्तदार्याः ! किमीदृशः पर्यनुयुज्य कार्यः ॥ 6.102 ॥
जीवातु–अनादीति । हे आर्याः, एष जनः अनादि यथा तथा, धाविन्याः प्रवहन्त्याः स्वपरम्परायाः स्वदेहपरम्परायाः इत्यर्थः । तत्सम्बन्धिन्याः हेतुस्रजःहेतुभूतर्मपरम्परायाः स्रोतसि प्रवाहे वा । ‘बुद्धिः कर्मानुसारिणी’ति वचनात्,ईश्वरे वा । ‘एष एव कारयिते’ति श्रुतेः । आयत्तधीः । न तु स्वाधीनबुद्धिरित्यर्थः । निरीश्वरसेश्वरमतभेदात् पक्षद्वयोक्तिः, तत्तस्मात्, ईटृशः परतन्त्रः एष जनः,पर्यनुयुज्योपालम्भ । किं कार्यः कारयितुं शक्वः । कारयतेरचो यत् । अतः स्वयमपि दैवपरतन्त्रा न पर्यनुयोज्येति भावः ॥ 6.102 ॥
अन्वयः–आर्याः, एषः अनः अनादिषाविस्वपरम्परायाः हेतुस्त्रजस्त्रेतसि ईश्वरे व आयत्तधीः तत् ईटृशः पर्यनुयुज्य किं कार्याः ? ॥ 6.102 ॥
नित्यं नियत्या परवत्यशेषे कः संविदानोऽप्यनुयोगयोग्यः ॥
अचेतना सा च न वाचमर्हेद्वक्ता तु वक्त्रश्रमकर्म भुङ्क्ते ॥ 6.103 ॥
जीवचाजु-ननु दैवापारतन्त्रेऽपि मा मूढः पर्यनुयोज्यः । विद्वांस्तु पर्यनुयोज्यएवेत्याशङ्क्य आह–नित्यमिति । अशेषे जने नित्यं सर्वदा नियत्या दैवेन परवति परतन्त्रे सति संविदानो विद्वानपि । ‘समो गम्यृच्छि’ इत्यादिना विदेरात्मनेपदम् । कः अनुयोगयौग्यः उपालम्भार्हः । विदुषापि नियतेरलङ्ध्यत्वादिति भावः । तर्हि नियतिरेव पर्यनुयुज्यताम्, तत्राह-अचेतना सा नियतिश्च वाचं पर्यनुयोगन्नार्हत् ।
अचेतनोपालम्भस्यारण्यरुदितकत्वादिति भावः । तथाप्युपालमृलभे दोषमाह-वक्त्ता अचेतनोपालब्धा तु वक्त्रस्य श्रमः श्रान्तिरेव क्रियत इ?ति कर्म बाग्व्यापारुलं तद् भुङ्क्ते । वाग्विलापनादन्यत्फलं न किञ्यिदस्तीत्यर्थः
॥ 6.103 ॥
अन्वयः–अशेषे नित्यं नियत्या परबति संविदानः अपि का अनुषोमयोग्यः, अचतेतना सा च वाचम् नअर्हेत्, वक्ता तु बक्त्रश्रमकर्म भुङ्क्ते ॥ 6.103 ॥
क्रमेलकं निन्दति कोमलेच्छुः क्रमेलकः कण्टकल्म्पटम् ॥
प्रीतयोरिष्टभुजोः समायां मध्यस्थता नैकतरोपहासः ॥ 6.104 ॥
जीवातु-ननु सुरेन्द्रंविहाय नलस्वीकारे जगत्युपहास्यता स्यात्तत्राहक्रमेलकमिति । कोमलमिच्छुः कोमलेच्छुः मृद्वाहारी गजाश्वादिः । ‘न लोक’ इत्यादिना षष्ठीप्रतिषेधान्मधुपिपासुवद् द्वितीयासमासः । केमेलकमुष्ट्रन्निन्दति । उष्ट्रे कमेलकमयमहाङ्गो’ इत्यमरः । कष्टकेषु लम्पटो लोलुपः क्रमेलकः । ‘लोलुपं लोलुभं लोलं लम्पटं लालसं विदुः’ इति हलायुधः । तं कोमलेच्छुं निन्दति । द्दष्टभुजोस्तोर्द्वयोः प्री?तौ तुष्टो समायां तत्र एकतरस्योपहासो निन्दति । इष्टभुजोस्तयोर्द्वयोः प्रीतौ तुष्टौ समायां तत्र एकतरस्योपहासोमध्यस्थता । माध्यस्थयं न । यस्य यदिष्टं तुष्टिकरं च तस्य तत्र प्रवृत्तौ सर्वस्याप्यप्यात्पटृष्टाननतेन सन्तोष्टव्येऽयुपहसन्तः स्वयमेवोपहास्या भवन्तीति भावः ॥ 6.104 ॥
अन्वयः–कोमलेच्छुः क्रमेलकं निन्दति, कण्टकलम्पटः क्रमेलकः तम्; इष्टभुजोः प्रीतौ समायाम् एकतरोपहासः म्धस्यथता न ॥ 6.104 ॥
गुणा हरन्तोऽपि हरेर्नरं मे न रोचमानं परिहारयन्ति ॥
न लोकमालोकयथापवर्गात्त्रिवर्गमर्वाञ्चममुञ्चमानम् ॥ 6.105 ॥
जीवातु-ननु नलादपि गुणाधिके हरौ कथमरुचिरत आह-गुणा इति । सत्यं इरन्तोऽपि मनेाहरन्तोऽपि हरेरिन्द्रस्य गुणाः मे मह्मं, ‘रुच्यर्थानां प्रीयमाणः’ इति चतुर्थी । रोचमानं मनोहरं तं नरं न परिहारयन्ति न त्याजयन्ति । कुतः, अपवर्गान्मोक्षादवाञ्चमपकृष्टं, त्रिवर्गं धर्मार्थकामानमुञ्चमानमत्यजन्जतं, लोकं नालोकयथ ? न पश्यथेति काकुः । न गुणमपेक्षते रागवृतिरिति भावः । टृष्टान्तालंकारः ॥ 6.105 ॥
आकोटमाकैटभवैरि तुल्यःस्वाभीष्टलाभात् कृतकृत्यभावः ॥
भिन्नस्पृहाणां प्रति चार्थमर्थं द्विष्टत्वमिष्टत्वमपव्यवस्थम् ॥ 6.106 ॥
जीवातु-ननु महेन्द्रं प्राप्य कृतकृत्या भव, किं नलप्रार्थनया, दुःखायसेऽत आह-आकीटमिति । आकीटं कीटादारभ्य, आकैटभवैरि तत्पर्यन्तम् । उभयत्राप्यभिविधाववीभावः । स्वाभीष्टलाभात् कृतकृत्यता नेन्द्रलाभादित्यर्थः । तर्हीन्द्र एवेध्यतामित्यवञ्च द्वयमपगता व्यवस्था घटत्वादिवत् प्रतिनियमो यस्य तदपव्यवस्थमव्यवस्थमव्यवस्थितम् । अपि त्वापेक्षिकम् । तस्मादिन्द्रोऽपि मया नेष्यते को दोष इत्यर्थः
॥ 6.106 ॥
अन्वयः–आकीटम् आकैटभवैरि स्वाभीष्टलाभात् कृतकृत्यभावः तुल्यः; भिन्नस्पृहाणाम् अर्थम् अर्थं प्रति द्विष्टत्वम् इष्टत्वं च अपव्यवस्थम् ॥ 6.106 ॥
अग्राध्वजाग्रन्निभृतापदन्धुं बन्धुयदि स्यात् प्रतिबन्धुमर्हः ॥
जीषं जनः कार्यविदस्तु वस्तु प्रच्छ्या निजेच्छा पदवीं मुदस्तु ॥ 6.107 ॥
जीवातु-अग्राध्वेति । अग्रश्चासाध्वा चेति समानाधिकरणसमासः । अत एव ‘अग्रहस्ताग्रग्रहादयो गुणगुणिनोर्भेदाभावादि’ति वामनः । तस्मिन्नग्राध्वनि पुरोमार्गे, जाग्रत् स्फरत् आसन्न इति यावत् । स चासौ निभृता नियता आपदेवान्धु कूपः । ‘पुंस्यवान्धुः प्रहिः कूप’ इत्यमरः । तं प्रतिबन्धुमर्हो निवारितुं शक्तो बन्धुः स्याद्यदि, स जनो बन्धुजनः कार्यवित् कार्यज्ञोऽपि । प्रश्नपर्यन्तं जोषमस्तु तूष्णीमास्ताम् । न तु मां निवारयेदित्यर्थः । कुतस्तर्हि ते कार्यनिज्ञानं तदाह-मुदः श्रेयसः । पदवीं तुं, निजेच्छैव प्रच्छ्या प्रष्टव्या । सैव मे प्रवर्तिका नान्यः कथञ्चिदस्तीत्यर्थः । वस्तु सत्यमयमेव परमार्थ इत्यर्थः । प्रच्छेर्द्विकर्मकत्वादप्रधाने कर्मणि ‘ऋहलोर्ण्यत्’ ॥ 6.107 ॥
अन्वयः–अग्राध्वजाग्रन्निभृतापदन्धुं प्रतिबन्धुम् अर्हः बन्धुः यदि स्यात्,जजः कार्यवित् जोषम् अस्तु; मुदः नदवीं तु निजेच्छा एव प्रच्छ्रया वज्ञतु ॥ 6.107 ॥
इत्थं प्रतीपोक्तिमर्ति सखीनां विलुप्य पाण्डित्यबलेन बाला ॥
अपि श्रुतस्वर्पतिमन्त्रिऋसूक्तिं दूतीं बभाषेऽद्भुतलोलमौलिम् ॥ 6.108 ॥
जीवातु–इतृथमिति । बाला भैमी, इत्थं सखीनां प्रतीपोक्तिमर्ति प्रतिकूलोक्तिबुद्धिमित्थं पाण्डित्यबलेन प्रागल्भ्यावलम्बेन विलुप्य निषिध्य श्रुताः स्वर्यतिमन्त्रिणः शक्रमचिवस्य बृहस्पतेः सूक्त्यो वाचो यया तामपि ‘अहरादीनां पत्यादिषु’ इति रेफादेशः । अदभुतेन अहो बृहस्पतेरपि प्रगल्भेत्याश्चर्येण लोलमौर्लि कम्पशिरसं शिरः कम्पयन्तीमित्यर्थः । दूतीं बभाषो ॥ 6.108 ॥
अन्वयः–बाला इत्थं सखीनां प्रतीपोक्तिमर्ति पाष्डित्यबलेन विलुप्य श्रुतस्वंतिमन्त्रिसूक्तिम् अपि अदुभुतलोकमोलिं दूतीं बभाषे ॥ 6.108 ॥
परेतभर्तुर्मनसैव दूतीं नभस्वतेवानितसख्यभाजः ॥
त्रिस्त्रोतवसैवाग्बुपतेस्तदाशु स्थिरास्थमायातवतीं निरास्थम् ॥ 6.109 ॥
जीवातु–परेतेति । मनसैव आकर्षकेणेति शेषः । आगमनसाधनेनेत्यर्थः । एवं वायुगङ्गयोरपि द्रष्टवम् । परेतभर्तुः यमस्य दूतीं, नभस्वता वायुनैव अलिलसख्यभाजोऽग्नेर्दुतीं त्रिस्त्रीतसा गङ्गयेव अम्बपतेर्वरुणस्य दूती स्थिरास्थं टृढाभिनिवेशं यया तथा आशु शीघ्रमायातवतीं, इत्यस्यतेर्लुङि च्लेरङ्देशः । ‘अस्यतेस्थुक्’ इति थुक् । यमादिदूत्यो दूरादेव निरस्ताः इन्द्रगौरवात्त्वया एतावन्तं कालं समभाषीतृयर्थः । अत्र मनोवायुगङ्गानां क्रमाद्यमादिविधेयत्वेन तत्प्रियार्थं ताभिरेवातिवेगवतीभिरत्र आनीता ( यमादीनां दूत्यः ) इत्युतृप्रेक्षार्थंः ॥ 6.109 ॥
अन्वयः–स्थिरास्थम् आशु आयातवतीं परेतभर्त्तुः दूतीं मनसा एव,अलिलसख्याभाजः नभस्वता एव, अम्बुपतेः त्रिस्त्रोतसा एव तदा निरास्थम् ॥ 6.109 ॥
भूयोऽर्थमेनं यदि मां त्वमात्थ तदा पदावालभसे मघोनः ॥
सतीव्रतैस्तीव्रमिमं तु मन्तुमन्तः परं वज्रिणि मार्जितास्मि ॥ 6.110 ॥
जीवातु–भूय इति । हे शकदूति ! त्वं भूयः पुनरेनमर्थमिन्द्रं वृणीष्वेत्यमुमर्थं मामात्थ ग्रषे यदि । ‘ब्रुवः पञ्चानाम्’ इत्यादिना सिपस्थादेशो ब्रुव आहश्च । ‘आहस्थ’ इति हकारस्य थकारादेशः तदा मघोनः पदावङ्घ्री । ‘पदङ्घ्रिश्चाणोऽस्त्रियाम्’ इत्यमरः । आलभसे हिनस्सि स्पृससि वा । वज्रिणि हन्दे विषये अन्तरन्तरङ्गे परं श्रेष्ठं, गुणत्वेन गृह्ममाणमित्यर्थः । इमं तीव्रं दुताघर्मज्ञः सर्वज्ञो भगवान् मघवा मामस्तादपराघात्त्रास्यतीत्यर्थः ॥ 6.110 ॥
अन्वयः-यदि त्वं भूयः एनम् अर्थं माम् आत्थ तदा मघोनः पदौ आलभसे; वज्रिणि अन्तः परम् इमं तीव्रं सतीव्रतैः मार्जिजा अस्मि ॥ 6.110 ॥
इत्थं पुनर्वागवकाशनान्महेन्द्रद्रू त्यामवयातवत्याम् ॥
विवेश लालं हृदयं नलस्य जीवः पुनः क्षौत्रमिव प्रबोधः ॥ 6.111 ॥
जीवातु–इत्थमिति । इत्थमुक्तप्रकारेण पुनर्वागवकशनाशात् भूयोवचनावकाशनिवृत्तेः । इन्द्रदूत्यामव्यातवत्यां गतायां नलस्य जीवोऽन्तरात्मा लोलं चलाचलं हृदयं क्ष्रवं मत्तम् । ‘मत्ते शौण्डोत्कटक्षीवा’ इति निपातनात् साधुः । प्रबोधो विवेक इव पुनर्विवेश पुनर्जात इवाभूत् । तदा विशश्वास डच्छश्वास चेत्यर्थः ॥ 6.111 ॥
अन्वयः–इत्थं पुनः वागवकाशनाशात् इन्द्रदूत्याम् अवयातवत्यां नलस्य जीवः लोलं हृदयं क्षीवं प्रबोध हव पुनः विवेशा ॥ 6.112 ॥
श्रवणपुटगुगेन स्वेन साधूपनीतं दिगधिपकृतयात्तादीदृशः सन्निधानात् ॥
अलभत मधुबालारागवागुत्थमत्थं निषधजनपदेन्द्रः पातुमानन्दसान्द्रः ॥ 6.113 ॥
जीवातु–श्रवणेति । निषधानां जनपदानाम्, इन्द्रो नलो दिगधिपानाम्, इन्द्रादीनां कृपया
तिरोधानश्क्त्यनुग्रहरूपया आत्तात् प्राप्तादीटृशः सन्निधानादप्रकाशसान्निध्यात् स्वेन स्वकीयेन श्रवणपुटयुगेन सामधूपनीतमर्पितमित्थमुक्तरीत्या बालाया भैम्या रागवाग्भयः अनुरागवचनेभ्यः उत्था यस्य तत्तदुत्थं मधु क्षौद्रं, रसामृतमित्यर्यः । आनन्दसान्द्रः सुखमयः सन् पातुमलभत तत्पानं लब्धवानित्यर्थंः । ‘शकधृष’ इत्यादिना तुमुन् प्रत्ययः ॥ 6.112 ॥
अन्वयः–निषधजनपदेन्द्रः दिगधिपकृपया आत्तात् ईटृशः सन्निधानात् स्वेन श्रवणुपटयुगेन साधु उपनीतम् इत्थं बालारागवागुत्थं मधु आनन्दसान्द्रः पातुम् अलभत ॥ 6.112 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरःसुषुवे जिततेन्द्रियचयं मामल्लदेवी च यम् ॥
षष्ठः खण्डनखण्डतोऽपि सहजात् क्षोदक्षमे तन्महाकाव्ये चारुणि नैषधीयचरिते सर्गेऽगमद् भास्वरः ॥6.113॥
जीवातु–श्रीहर्षमिति । श्रीहर्षमित्यादि सुगमम् । सहजात् सोदरात्, समानकर्तृकादित्यर्थः । खण्डनखण्डतः खण्डनख्यात् ग्रन्थासत् । यद्वा खण्डनं नाम ग्रन्थः । तदेव खण्डः इक्षुविकारः । ‘स्यात् खण्डशकले चेक्षुविकारमणिदोषयोः’ इति विश्वः । ततस्तस्मादपि क्षोदक्षमे संघर्षणसहे षष्ठः सर्गः अगमत् समाप्त इत्यर्थः ॥ 6.113 ॥

इति मल्लिनाथसुरिविचिते ‘जीवातु’समाख्यने षष्ठः सर्गः समाप्तः ॥ 6 ॥

अन्वयः–श्रीहर्ष……………….च यम् ( पूर्ववत् ) । सहजात् खण्डनखण्डतः अपि क्षोदक्षमे तन्महाकाव्ये चारुणि नैषधीयचरिते भास्वरः षष्ठः सर्गः अगमत् ॥ 6.113 ॥

**************************************************************************

.

नैषधीयचरितम्

सप्तमः सर्गः

?0 ?0अथ प्रियासादनशीलनादौ मनोरथः पल्लवितश्चिरं यः ॥
विलोकनेनैव स राजपुत्र्याः पत्या भवः पूर्णवदभ्यमानि ॥ 7.1 ॥
जीवातु-अथेति । अथ इंद्रदूतीगमनानन्तरम् । भुवः पत्या नलेन, ‘पतिस्मास एव’ इति नियमादसमासे धिसंज्ञाऽभावात् धिकार्याऽभावः, प्रियाया दमयन्त्या, आसादनं प्राप्तिः, शीलन परिचिति, तदादौ विषये आदिशब्दादश्लेशादिसङ्ग्रहः । यो मनोरथः चिरं चिरात्प्रमृति पल्कवितः सञ्जातपल्लवः, स मनोरथो राजपुत्र्या विलोकनेनैव पूर्णवत् फलितवदभ्यमानि अभिभेने । तथा ननन्देत्यर्थः । मन्यतेः कर्मणि लुङ्
॥ 7.1 ॥
अन्वयः–अथ प्रियासादनशीलनादरो यः मनोरथः चिरं पल्लविकतः भुवः पत्या सः रापूत्र्या विलोकनेन एव पूर्णवत् अम्यमानि ॥ 7.1 ॥
प्रतिप्रतीकं प्रथर्म प्रियायामथान्तरानन्दसुधासमुद्रे ॥
ततः प्रमोदाश्रुपरायां ममज्जतस्तस्य दृशौ नृपस्य ॥ 7.2 ॥
जीवातु–प्रतीति । तस्य नृपस्य टृशौ नेत्रे प्रथमं प्रियाया भैम्यां, तत्रापि प्रतिप्रतीकं प्रत्यवयवं ममज्जतुः तस्मिन् ममज्जतुः तामवयवशो ददर्शेत्यर्थः । अथ तदनन्तरं उन्तःअन्तरात्मनि य आनन्दसुधासमुद्रः तस्मिन् ममज्जतुः दर्त्रनफलमानन्दं अनुबभूवतुरित्यर्थः । करणे कर्तृत्वोपचारः । ततः प्रमोदाश्रुपरम्परायामानन्दवाष्पप्रवाहे ममज्जतुः । अत्रटृग्रूपस्यैकस्याघेयस्य क्रमातिप्रयावयवाद्यनेकाघारवृत्तित्वकथनात् पर्यायालङ्कृतिर्द्विघा’ । इति लक्षणात् ॥ 7.2 ॥
अन्वयः–तस्य नृपस्य टृशौ प्रथमं प्रियायां प्रतिप्रतीकम्, अथ आन्तारानन्दसुधासमुद्रे ( अन्तः आनन्दसुधासुद्रे वा ), ततः प्रमादाश्रुपरम्परायां ममज्जतुः ॥ 7.2 ॥
ब्रह्माद्वयस्यान्वभव्प्रमादं रोमाग एवाग्रनिरीक्षितेऽस्याः ॥
यथौचितीत्थं तदशेषदृष्टावथ स्मराद्वैतमुदं तथासौ ॥ 7.3 ॥
जीवातु–ब्रह्मेति । असौ नलः, अस्या भैम्याः, रोमाग्र एव रोमाग्रमात्रे अग्रे प्रथमं निरीक्षिते टृष्टे सति यथा ब्रह्मैवाद्वयमद्वितीयं वस्तु तस्य प्रमोदं टृगानन्दमन्वभवदित्यर्थः । आनन्दस्य ब्रह्मभेदेऽप्युपचाराद्भेदव्यपदेशः । अथाऽग्रदर्शनानान्तरं तस्य रोम्णः अशैषटृष्टो कृत्स्नदर्शने सति, द्वयोर्भावो द्विता, द्वितैव र्दतम् । प्रज्ञादित्वात् स्वार्थेऽण् प्रत्ययः । तद्रहितमर्द्वतं स्मर एवार्द्वतमद्वितीयं वस्तु तस्य मुदमन्वभवत् । अत्र ब्रह्मनन्दात् स्मरानन्दाधिक इति विवक्षितम् । तथा रोमापि रोमाग्रादधिकं, तत्र यथाल्पदर्शनाल्पानन्दः, अधिकदर्शनादविकानन्द इति यथा-शब्दार्थंः, इत्थमौचिती कारणानुरूपं कार्यजन्मोचितमेवेत्यर्थः । अत्र ब्रहृमानन्दस्मारान्दयोरेकस्मिन्नेव क्रमेण वृत्तिकथनात् ‘एकस्मिन्नथापेकम्’ इत्युक्तलक्षणो द्वितीयः पर्यायालङ्कारभेदः ॥ 6.3 ॥
अन्वयः–असौ अस्याः रोमाग्रे एव अग्रनिरीक्षिते ब्रह्माद्वयस्य प्रमोदम् अन्वभवत्, अथ इत्थं तदशेषदृष्टौ यथ औचिती तथा स्मसराद्वै तमुम् ॥ 6.3 ॥
वेलामतिक्रम्य चिरं मुखेन्दोरालोकपीयूषरसेन तस्याः ॥
नलस्य रागाम्बुनिधौ विवृद्धे तुङ्गौ कुचावाश्रयति स्म दृष्ठिः ॥ 6.4 ॥
जीवातु-वेलामिति । नलस्य टृष्टिः तस्या मुखेन्दोरालोको दर्शनं प्रकाशश्च । ‘आलोको दर्शनद्योतौ’ इत्यमरः ।
स एव पीयूषममृतं तस्य रसेन स्वादेन, रागाम्बुविधौ अनुरागसमुद्वे पृथुं प्रवृद्धं प्रवृद्धे सति तुङ्गौ कुचावाश्रयति स्म । मुखलग्ना टृष्टिः रागवशात्कुचयोः पपातेत्यर्थः । अत्र टृष्टिविशेषणसामान्याच्चन्द्रोदये समुद्रवृद्धौ तन्मज्जनभयादुत्सोधाश्रयजनप्रतीतेः समासोक्तिरलङ्कारः । तेन चाब्धिमज्जनभयादिवेत्युत्प्रे क्षा व्यज्यत इत्यलंकारेणालंकारध्वनिः ॥ 7.4 ॥
अन्वयः–नलस्य दृष्टिः तस्याः मुखेन्दोः आलोकपीयूषरसेन रागाम्बुनिधौ चिरं वेलाम् अतिक्रम्य विवृद्धे तुङ्गौ कुचौ आश्रयति स्म ॥ 7.4 ॥
मग्ना सुधायां किमु तन्मुखेन्दोर्लग्ना स्थिता तत्कुचयोः किमन्तः ॥
चिरेण तन्मध्यममुञ्चतास्य दृष्टिः क्रशीयः स्खलनादिभया नु ॥ 7.5 ॥
जीवातु–मग्नेति । अस्य नलस्य टृष्टिस्तस्या भैम्याः मुखेन्दोस्सुधायां मग्ना किमु, तंत्कुचयोरन्तरभ्यन्तरे च ल्ग्ना स्थिता किम् । उभयत्राप्यन्यथा कथं तावान् विलम्ब इति भावः । किंच क्रशीयः कृशतरं तन्मध्यं कर्म स्खलनादिभया नु भयेन किम् । चिरेणामुञ्चत । रत्जुसञ्चारिवदिति भावः । उत्प्रेक्षात्रयस्य सजातीयस्य संसृष्टिः ॥ 7.5 ॥
अन्वयः–अस्य वृष्टिः तन्मुखेन्दोः सुधायां मग्ना, तत्कुचयोः लग्ना किमु, ( यत् ) कुशीयः तन्मध्यं स्खलनाद् भिया नु चिरेण अमुञ्चत ॥ 7.5 ॥
प्रियाङ्गयान्था कुचयोर्निवृत्य निवृत्य लोला नलदृग्भ्रमन्ती ॥
बभौतप्तां तं मृगनाभिलेपतमःसमासादितदिग्भ्रमेव ॥ 7.6 ॥
जीवातु–प्रियेति । प्रियाया अङ्गेषु, पन्थानं गच्छतीति पान्था नित्य पथिका, ‘पन्थो ण नित्यम्’ इति पथो णप्रत्ययः, पन्थादेशश्च । लोला सतृष्णा नलस्य टृक् टृष्टिः कुचयोर्निवृत्य निवृत्य आवृत्य भ्रमन्ती तयोः कुचयोः मृगनाभिलेपः कस्तूरिकालेपनमेव तमः तेन समासादितः प्राप्तः दिग्भ्रमो ‘यथा सेवेतृयुतृप्रे क्षा । बभौतमां अतिशयेन बभौ । ‘तिङ्श्च’ इति तमप्प्रत्यये ‘किमेत्तिङ्’ इत्यादिना निङ्धा दामुपान्था लोला नलटृक् कुचयोः निवृत्य निनृत्य भ्रमन्ती तन्मृगनाभिलेपतमःसमासादितदिग्भ्रमा इव बभौतमाम् ॥ 7.6 ॥
अन्वयः–प्रियाङ्गपान्था लोला नलटृक् कुचयोः निवृत्य निवृत्य भ्रमन्ती तनमृगनाभिलेपतमः समासादितदिग्भ्रमा इव बभौतमाम् ॥ 7.6 ॥
विभ्रम्य तच्चारुनितम्बचक्रे दूतस्य दृक् तस्य खलु स्खलन्ती ॥
स्थिरा चिरादास्ततदूरुरम्भास्तम्भावुपाश्लिष्य करेण गाढम् ॥ 7.7 ॥
जीवातु-विभ्रम्येति । दूतस्य तस्य नलस्य टृक् टृष्टिः तस्याश्चारु नितम्बएव चक्रं तस्मिन् विभ्रम्य भ्रान्त्वा स्खलन्ती चलन्ती तस्य ऊरू एव रम्भास्तम्भौ करेणाशुना हस्तेन च गाढस्मुपश्लिष्य स्थिरा निश्चला सती पिरादास्तउपविष्टा खलु । ‘आसेर्लङ्’ । अत्र टृष्टिविशेषणसाम्याद् भ्रमणकीडाकारिबालकप्रतीतेः समासोक्तिः । तस्याश्चोरुस्मृभाविति रूपकेण एङ्करः । बालका हि क्रीडया चिरं चक्रमुद्भ्रान्तास्खलन्ती निकटस्तम्भादिकमवलम्ब्य चारति ॥ 7.7 ॥
अन्वयः–तच्चारुनित्तमब्चक्रे विभ्रम्य स्खलन्ती खलु तस्य दूतस्य दृक् तदूरुरम्भास्तम्भौ करेण गाढम् उपश्लिष्य चिरात् स्थिरा आस्त ॥ 7.7 ॥
वासः परं नेत्रमहं न नेत्रं किमु त्वमालिङ्गय तन्मयापि ॥
उरोनितम्बोरु कुरु प्रसादमितीवा सा तत्पदयोः पपात ॥ 7.8 ॥
जीवातु–वास इति । हे भैमि, वासः परं वस्त्रमेव नेत्रम् आच्छादनम्, अहं नेत्रे न इति काकुः, नास्मि किमु अस्म्येवेत्यर्थः । ‘नेत्रं पथि गुणे वस्त्रे तरुमूले विलोचने’ इति विश्वः । तत् तस्मात् नेत्रत्वाविशेषात्त्वं मया अपि, उरश्च नितम्बश्च ऊरू च तेषां समाहारः उरोनितम्बोरु । प्राणयङ्गत्वाद् द्वन्द्वैकवदभावः । तदालिङ्गयाश्लेषय प्रसादमालिङ्गनानुग्रहं कुरु इतीव इति मनीषयेवेत्युत्प्रेक्षा । सां नलटृष्टिस्तस्याः भैम्याः पादयोः पपात पदे अपि ददर्शेत्यर्थंः ॥ 7.8 ॥
अन्वयः–वासः परं नेत्रम्, अहं नेत्रं न किमु तत् मया अपि उरोनितम्बोरु आलिङ्गय, प्रसादं कुरु-इति इव सा तत्पदयोः पषत ॥ 7.8 ॥
दृशोर्यथाकाममथोपहृत्य स प्रेयसीमालिकुलं च तस्योः ॥
इदं प्रमोदादभतसम्भृतेन महमहेन्द्रो मनसा जगाद । 7.9 ॥
जीवातु-टृशोरिति । अथ महीमहेन्द्रस्य नलो टृशोः स्वाक्ष्णोः प्रेयसीं भैमीं, तस्या आलिकुलं सखीवर्गं च यथाकाममुपवृत्योपहारीकृत्य यथेच्छं टृष्ट्वेत्यर्थः । प्रमादाद्भुताभ्यामानन्दविस्मयाभ्यां सेभृतेन पूर्णेन मनसा इदं वक्ष्यमाणं जयाद स्वगतमुवाचेत्यर्थः ॥ 7.9 ॥
अन्वयः–अथ सः महीमहेन्द्रः प्रेयसीं तस्याः ?आलिकुलं च टृशोः यथाकामम् उपहृत्य प्रमोदादभुतसम्भृतेन मनसा इदं जगाद ॥ 7.9 ॥
पदे विधातुर्यदि मन्मथो वा ममाभिषिच्येत मनोरथो वा ॥
तदा घटेतापि न वा तदेतत्प्रतिप्रतीकादभुतरूपशिल्पम् ॥ 7.10 ॥
जीवातु-पद इति । विधातुः पदे ब्रह्मणः स्थाने, मन्मथो वा मम मनोरथो वा अभिषिच्येत यदि तथा तत्प्रसिद्धम् एतत् पुरोवतिं प्रतिप्रतीकं प्रत्यवयवम् अद्भुतं रूपशिल्पम् आकारतिर्माणं घटेतापि न वा घटेत, तन्मनसापि निर्मातुमशक्यं किमुत ब्रह्मणेत्यर्थः । अत्र भैमीरूपशिल्पस्य प्रसिद्धब्रह्मसस्बन्धेऽप्यसम्बन्धोक्तेस्तथा मन्धथाद्यसमृबन्धेऽपि सम्भावनया तत्सम्बन्धेक्तेश्च, चद्रूपकातिशयोक्तिभेदौ ॥ 7.10 ॥
अन्वयः–यदि विधातुः पदे मन्मथः मम मनोरथः वा अभिषच्येत, तदा अपि तत् एतत् प्रतिप्रतीकाद्भुतरूपशिल्पं घटेत न वा ॥ 7.10 ॥
तरङ्गिणी भूमिभृतः प्रभूता जानामि शृंगाररसस्य सेयम् ॥
लावण्यपूराऽजनि योवनेन यस्यां तथोच्चैस्तनताधनेन ॥ 7.11 ॥
जीवातु–तरङ्गिणीति । सेयं दमयन्ती भूमिभृतो भीभूभर्तुंरेव भूधरादिति श्लिष्टरूपकम् । भुवः प्रभव इत्यपादानत्वाञ्चमी । प्रभूता सम्भूता । शृङ्गाररसस्य तरङ्गिणी नदी जानामि इति वाक्यार्थः कर्म । इति जानामीत्यर्थंःउत्प्रेक्षा । तथाहि-यस्यां भैम्यां तथा तेन प्रकारेण उच्चैस्तनता अन्नतकुचत्वाम् । तथा धनेन सान्द्रेण संपूर्णेन यौवनेनेव, उच्चैः तारं स्तनता गर्जता स्तनशब्द इति धातोभौवादिकाल्लटः शत्रादेः । घनेन मेधेन । ‘धनो मेघे मूर्तिगुणे त्रिषु मृर्ते निरन्तर, इत्यमरः । लावण्यपूरोऽनि जनितः यौवनेन च लादण्यं वर्धत इति प्रसिद्धम् । मेघवर्धितपूरत्वं तरङ्गिण्यां युक्तमिति भावः । यौवनेन घनेनति व्यस्तरूपकम् । उच्चस्तनताघनेनेति शब्दश्लेषः । तदुत्थापिता च भैभ्याः शृङ्गारतरिङ्गिणीत्वोत्प्रेक्षेति सङ्करः ॥ 7.11 ॥
अन्वयः–जानामि-सा इयं भूमिभृतः प्रभूता शृङ्गाररसस्य तरङ्गिणी यस्यां तथा उच्चैस्तनता योवनेन धर्नेन लावण्यूरः अजनि ॥ 7.11 ॥
अस्यां वपुर्व्यु हविधानविद्यां किं द्योतयामास नवामवाप्ताम् ॥
प्रत्यङ्गसङ्स्फटलब्धभूमा लावण्यसीमा यदिमामुपास्ते ॥ 7.12 ॥
जीवातु–अस्यामिति । अत्र सामर्थ्याद् ब्रह्मणः कर्तुरध्याहारः । ब्रह्मा अवाप्तां स्वभ्यस्तां नवामसाधारणीं, वपुर्व्युहविधानविद्यां शरीरसंस्थानविशेषनिर्माणविज्ञानम् अस्यां दमयन्त्यामेव द्योतयामास किम् । नूनं विधातुरात्मनः स्त्रीसूष्टिकौशलप्रकाशनार्थसृष्टिरेषैधेत्युत्प्रेक्षा । यद्यस्मात्, प्रत्यङ्गमङ्गेन प्रत्यवयव्याप्त्या, स्फुटं लब्धो भूमा विस्तारो यया सा लावण्यसीमा सौन्दर्यसर्वस्वमिमां दमयन्तीम् उपास्ते सेवते अस्यामेव वर्तत इत्यर्थः ॥ 7.12 ॥
अन्वयः–अस्याम् अवाप्तां नवां वपुर्व्युहविघानविद्याम् द्योतयामास किम् यत् प्रत्यङ्गसङ्गस्फटलब्धभूमा लावयण्यसीमा इमाम् उपास्ते ? ॥ 7.12 …
जम्बालजालात्किमकर्पि जम्बूनद्या अलंकार है । छंद इंद्रवज्रा है ॥
अप्यङ्गयुग्मस्य न सङ्गचिह्नमुन्नीयते दन्तुरता यदत्र ॥ 7.13 ॥
जीवातु–जम्बालेति । हरिद्रया रक्तं वस्तु हारिद्रं, ‘हरिद्रामहारजनाम्यामङ् वक्तव्यः’ । तेन सटृशी
तन्निभा प्रभा यस्याः सा इयं दमयंती जम्बूनद्या मेरुपार्श्ववर्तिवाहिन्या जम्बालजालत्पङ्कराशेर्जाम्बूनदत्वात् । ‘निषद्वस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ’ इत्यमरः । नाकर्षि न कृतुः ? यद्यस्मात् अत्रास्यां भैम्याम् अङ्गयुम्मस्य अवयवद्वयस्य सङ्गचिह्नं सन्धानचिह्नम् । दनतुरया औन्नत्यमपि ‘दन्त उन्नत उरच्’ नोन्नीयते नाभ्युन्नीयते ॥ 7.13 ॥
अन्वयः–हारिद्रनिभप्रमा इयं जम्बूद्या जम्बालजालात् न अकर्षि विम्, यत् अत्र अङ्गयुग्मस्य सङ्गचिह्नं दन्तुरता अपि न उन्नीयते ? ॥ 7.13 ॥
सत्येव साम्ये सदृशादशेषात् गुणान्तरेणोच्चकृषे यदङ्गैः ॥
अस्यास्ततःस्यात्तुलनापि नाम वस्तु त्वमीषामुपमावमानः ॥ 7.14 ॥
जीवातु–सतीति । यद्यस्मात् अस्या भैम्या अङ्गैः कर्तृभिः साम्ये सत्येव अशैषात्सटृशाच्चन्द्रादेः ‘पञ्चमी विभक्ते’ इति पञ्चमी । गुणान्तरेण केननापि गुणविशेषेणोच्चकृषे समानेषूत्कृष्टरभावीत्यर्थः । भावे लिट् । तत उन्नतत्वाद्धेतोः तुलना समीकरणमपि स्यान्नाम ? काकुः । यस्यात् किं ? न स्यादेवेत्यर्थाः । तथा हि–वस्तुतः परमार्थतसतु अमीषामङ्गानापुपमा तुलना तस्या अवमानोऽपमानः उत्कृष्टानामसमानैः सह समतापदनमवमान एवेत्यर्थः ॥ 7.14 ॥
अन्वयः–यत् अस्याः अङ्गैः साम्ये सति एव सटृशात् अशेषात् गुणान्प्तरेण उच्चकृषे ततः तुलना अपि स्यात् नाम, वस्तु तु अमीषाम् उपमावमानः ॥ 7.14 ॥
पुराकृतिस्त्रैणमिमां विधातुमभूद्विधातुः खलु हस्तलेखः ॥
येयं भवदभवि पुरन्ध्रिसृष्टिः सास्यै यशस्तज्जयजं प्रदातुम् ॥ 7.15 ॥
जीवातु–पुरेति । विधातुः स्त्रष्टुः, पुराकृतिः पूर्वसृष्टिः तत्र स्त्रैणं स्त्रीसमूहः पूर्वा स्त्रीसृष्टिरित्यर्थः । हमां भैमीं विधातुं स्त्रष्टं हस्तलेखः अभूत् खलु । लेखनाभ्यासिभिर्हस्तकौशलार्थमेव यल्लिख्यते स हस्तलेखःताटृशीयमिति निदर्शनानुप्राणिता पूर्वसृष्टिभैमीनिर्माणार्थाभ्यासरूपत्वोत्प्रेक्षा । किं च येयं भाविनीनां पुरन्ध्रीणां सष्टिः सा अस्य भैम्यै तासां पुरन्घ्रीणां जयेन जातं तज्जयजयशो प्रदातुमिति फलोत्प्रेक्षा ॥ 7.15॥
अन्वयः–पुराकृतिः स्त्रैणम् इर्मा विधातुं विधातुः हस्तलेखः अभूत् खलु, या इयं भवद्भाविपुरन्ध्रिसृष्टिः सा अस्यै तज्जयजं यशः प्रदातुम् ॥ 7.15 ॥
भव्यानि हानीरगुरेतउङ्गात् यथा यथानर्ति तथा तथा तैः ॥
कस्याधिकस्योपमयोपमाता दाता प्रतिष्ठां खलु तेभ्य एव ॥ 7.16 ॥
जीवातु–भव्यानीति । भव्यानि रम्याणि चन्द्राद्युपमानवस्तूनि, एतस्या भैम्याः, अङ्गात् मुखादेर्यथा यथा हानीरपकर्षान् ‘ग्लाम्लाजहातिभ्यो निर्वक्तव्य’इति जहातेः स्त्रियां निप्रत्ययः क्तिनोऽपवादः । अगुरमगन्, ‘इणो गा खुङि’ इति गादेशो ‘गाति स्था’ इत्यादिना सिचो लुक् । ‘आत’ इति ज्ञेर्जुसादेशः ।तथा तथा तैश्चन्द्राद्युपमानैरनर्ति हर्षान्नृत्यं कृतमित्यर्थः । नन्वपकर्धे कथं हर्षः ? तत्राह–उपमाता कविः ‘मातेर्माङि वा तृन्’ । अधिकस्योत्कृष्टस्यास्य भैम्यङ्गस्योपमया उपमानीकरणेन । अथ वा गत्वन्तराभावात् तैरेव तुलनया तेषामेवोपमानीकरणेनेत्यर्थः । तेम्यश्चन्द्रादिभ्य एव प्रतिष्ठां दाता दास्यति । ददातेर्लुद् । तथा च यथा कथंचित् प्रतिष्ठालङ्कारे उपमेयत्वेन वा, उपमायामुपमानत्वेन वा कविप्रसादाच्चद्रादीनां पुनः प्रतिष्ठा भविष्यति इत्यनर्तीत्यर्थः ॥ 7.16 ॥
अन्वयः–एतदङ्गात् भव्यानि यथा यथा हानीः अगुः तथा तथा तैः अनर्त्ति, अधिवकस्य अस्य उपमाता तेम्यः एव प्रतिष्ठां दाता खलु ॥ 7.16 ॥
नास्पर्शि दृष्टापि विमोहिकेयं दोषैरशेषैः स्वभियेति मन्ये ॥
अन्येयु तैराकुलितस्तदस्यां वसत्यसापत्नसुखी गुणौघः ॥ 7.17 ॥
जीवातु-नेति । टृष्टापि विमोहिका दर्शनमात्रेणापि व्यामोहिकेयं दमयन्ती अशेषैर्दोषैः स्वभिया अस्मानपि मोहयिष्यतीत्यात्मीयभयेनैव नास्पर्शि न स्पृष्टेति मन्ये । उत्प्रेक्षा । भीरवो हि भयहेतून् स्प्रष्टुमेव बिभ्यतीति भावः । तत्तस्मात् दोषस्पर्शाभावात् । अन्येषु स्त्रन्तरेषु तैर्दोषैराकुलितः पीडितो गुणौधोऽस्यां
भैम्यामसापत्न्येन उकण्टकत्वेन सुखी सन् वसति ‘प्रायेण सामग्र्यविधौ गुणानामि’ त्यपवादौऽस्यामेव टृष्ट इति भावः ॥ 7.17 ॥
अन्वयः–टृष्टा अपि इयं विमोहिका अशेषैः स्वभिया न अस्पर्शि इति मन्ये, तत् अन्येषु तैः आकुलितः गुणौघः अस्याम् असापत्न्यसुलः वसति ॥ 7.17 ॥
औज्ज्ञि प्रियाङगैर्घृणयैव रूक्षास न वारिदुर्गात्तु चराटकस्य ॥
न कण्टकैरावणाच्च कान्तिर्धुलीभृता काञ्चनकेतकस्य ॥ 7.18 ॥
जीवातु–औज्ज्ञीति । प्रियांगैर्भैमीगात्रैः वराटकस्य बीजकोशस्य कमलकर्णिकाया इतृयर्थः । ‘बीकाया इतृयर्थः । ‘बीजकोशो बराटकः’ इत्यमरः । रूक्ष्या परुषा कान्तिर्घृणयैव रौक्ष्यजुगुप्सयैव औज्ज्ञि विसृष्टा । अज्ज्ञ विसर्गे कर्मणि लुङ् । वारिदुर्गाद्वारिदुर्गसथत्वात्तु न । किं च काञ्चनकेतकस्य धूलीभिर्भृ ता पूर्वा कान्तिरौज्ज्ञि रजःकीर्णत्वादेवोज्ज्ञिता कण्टकैरावरणात्तु न । रौक्ष्यादिदोषदूषितत्वान्न भैमीकायकान्तिसाम्यमहैति । महती तत्काय?कांतिरित्यर्थः ॥ 7.18 ॥
अन्वयः–प्रियाङ्गैः वराटकस्य रूक्षा कान्तिः घृणया एव औज्ज्ञि वारिदुर्गात् तु न, काञ्चनकेतकस्य घूलीभिर्भृ ता पूर्णा कान्तिरौज्ज्ञि रजःकीर्णत्वादेवोज्ज्ञिता कण्टकैराणात्तु न । रौक्ष्यादिदोषदूषितत्वान्न भैमीकायकान्तिसाम्यमहंति । महती तत्कायकांतिरित्यर्थः ॥ 7.18 ॥
अन्वयः–प्रियाङ्गैः वराटकस्य रूक्ष्या कान्तिः घृणया एव औज्ज्ञि वारिदुर्गात् तु न, काञ्चनकेतकस्य च धूलीभृता कान्तिः ( औज्ज्ञि ) कष्टकैः आवरणात् न ॥ 7.18 ॥
प्रत्यङ्गमस्यामभिकेन रक्षां कर्तुं मघोनेव निजास्त्रमस्ति ॥
वज्रञ्च भूषामणिमूर्तिक्षारि नियोजितं तत् द्युतिकार्मुकं च ॥ 7.19

जीवातु-प्रत्यङ्गमिति । अस्यां भैम्याम् । अभिकामयत इत्यभिकेन कामुकेन ‘कमनः कामनोऽभिकाः’ इत्यमरः । ‘अनुकाभिकाभीकः कमयिता’ भूषामणीनां द्युतय एव कामुकमणिधनुशास्तस्तीव इन्द्रनियोगात् भूषामणितत्प्रेभाव्याजेन अवरोधरक्षार्थं वज्रायुधं धनुश्च प्रत्यङ्गावृत्य तिष्ठतीवेत्युत्प्रेक्षा ॥ 7.19 ॥
अन्वयः–अभिकेन मधोना प्रत्यङ्गं रक्षां कर्त्तुश्राूषामणिमूत्तिधारि निजास्त्रं वज्रं तद्द्युतिकार्मुकं च अस्यां नियोजितम् इव अस्ति ॥ 7.19 ॥
अस्याः सपक्षैकविधोः कचौधः स्थाने मुखस्योपरि वासमाप ॥
पक्षस्थतावद्बहुचन्द्रकोऽपि कलापिनां येन जितः कलापः ॥ 7.20 ॥
जीवातु–अथासगासनाप्तेर्दमयन्त्याश्चिकुरादिपादनखान्तवर्णनमारभतेअस्या इत्यादि । अस्या भैम्याः कचौघः केशापाशः सपक्षः सटृशः सुहृदभूतश्चैक एव विधुश्चन्द्रो यस्य तस्य सर्पक्षैकविधोः’तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य’ इति वैकल्पिकः पुंवदभावः । मुखस्योपरि वासं स्थितिमाप, स्थाने युक्तम् कुतः येन वैल्पिकः पुंवदभावः । मुखस्योपरि वासं स्यितिमाप, स्थाने युक्तम् । कुतः येन कचौधेन पक्षस्थाः गरुन्निष्ठाः स्ववर्ग्याश्च तावन्तो बहुवश्चन्द्रकाः मेचकाः चन्द्राश्च यस्य सोऽपि । ‘ससौ चद्रकमेचकौ’ इत्यमरः । चन्द्रपक्षे ‘शेषाद्विभाषा’ इति कप् । बप् । कलापिनां बर्हिणां कलापो बर्हं जितः अनेकचन्द्रसहायविजयिनः एकचन्द्रविजयस्तदुपर्यवस्थानं च किं चित्रमित्यर्थः ॥ 7.20 ॥
अन्वयः–अस्याः सपक्षैकविधोः मुखस्य उपरि कचौधः स्याने वासम् आप, येन पक्षस्थातावद्बहुचन्द्रकः कलापिनां कलापः अपि जितः ॥ 7.20 ॥
अस्या यदास्येन पुरस्तिरश्च तिरस्कृतं शीतरुचान्धकारम् ॥
स्फुटस्फुरदभकचच्छलेन तदेव पश्चादिदमस्ति बद्धम् ॥ 7.21 ॥
जीवातु–अस्या इति । अस्या भैम्याः आस्येनैव शीतरुचा मुखचन्द्रेणयदन्धकारं तमः । ‘अन्धकारोऽस्त्रियां ध्वान्तम्’ इत्यमरः । पुरो अग्रे तिरश्च पार्श्व योश्च तिरस्कृतं तदन्धकारमेवेदं स्फटं स्ुरन् भङ्ग कौटिल्यं पराजयश्चयेषां तेषां कचानां छलेन पश्चाद्बद्धमस्तीत्युप्रेक्षा । तिरस्कृतो हि भग्नोत्साहः क्वचित्पुष्ठभागे वद्धस्तिष्ठतीति भावः ॥ 7.21 ॥
अन्वयः–अस्याः आस्येन शीतरचा यत् अन्धकारं पुरः तिरः च तिरस्कृतम् तत् एव स्फुटस्फुरद्मङ्गकचच्छलेन इदं पश्चात् बद्धम् ॥ 7.21 ॥
अस्याः कचानां शिखिनाञ्च किन्नु विर्धि कलापो विमतेरगाताम् ॥
तेनायमेभिः किमपूजि पुष्पैरभर्त्सि दत्वा स किमर्धचन्द्रम् ॥ 7.22 ॥
जीवातु-अस्या इति । अस्या भैम्याः कचानां केशानां शिखिनां बर्हिणश्च कलापौ केशपाशबर्हभारौ । ‘कलापो भूषणे बर्हे तूणीरे संहतौ कचे’ इत्यमरः । विमतेर्मिथो विवादाद्विधिमगातां स्वतारतम्यं प्रष्टुमगमतां किं न । ‘इणो गा सुङि’ इति गादेशः । तेन विधिना अयं केशपाश एभिः पुष्पैरिति हस्तेन पुरोवर्तिनिर्देशः अपूजि किम् । महतः पूज्यत्वादिति भावः । स? शिखिकलापः अर्धचन्द्रं चन्द्रंकं गलहस्तं च दत्त्वा अभर्तिस भर्त्सितः किं महाजनद्वेषिणो नीचस्य शास्यत्वादिति भावः । अर्धचन्द्रस्तु चन्द्रके गलहस्ते बाणभेदः इति विश्वः । शिखिकलापस्य चन्द्रकवत्त्वं केशपाशस्य तत्कुसुमं ब्रह्मदत्तं शश्चतमिति भावः । अत्रोत्तरोत्प्रेक्षयोः प्रथमोत्प्रेक्षसापेक्षत्वात् सजातीयमङ्करः ॥ 7.22 ॥
अन्वयः–अस्याः कचानां शिखिनां व कलापौ विमतेः विधिम् अगातां किंतु, तेन अयम् एभिः पुष्पैः अपूजि किम्, सः अर्द्धचन्द्रं दत्त्वा अभर्त्सि किम् ? ॥ 7.22 ॥
केशान्धकारादथ दृश्यफालस्थलार्धनन्द्रा स्फुटमष्टमीयम् ॥
एतां यदासाद्य जगजृजयाय मनोभुवा सिद्धिरसाधि साधु ॥ 7.23 ॥
जीवातु–केशेति । केशष्ः कैशपाश एवान्धकारस्तस्मात् इयं दमयन्ती अष्टमी । तत्राप्यन्धकारानन्तरदृश्याध्रचन्द्रत्वात्कृष्णाष्टमी शुक्लपक्षे विपर्ययात्फुटमित्युत्प्रेक्षायाम् । कुतः ? यद्यस्मान्मनोभुवा जगज्याय एतामासाद्य साधु सिद्धिः जगज्जयसिद्धिः असाधि साधिता । कृष्णाष्टम्यां यात्रायामसिताष्टमी । श्रवणेनाथ रोहिण्या जययोगोगो युता यदि ॥’ इति ॥ 7.23 ॥
अन्वयः–केशान्धकारात् अथ टृश्यफलस्थलार्द्धचन्द्रा इयं स्फटम् अष्टमी, यद् मनोभुवा जगज्जयाय एताम् आसाद्य साधु सिद्धिः असाधि ॥ 7.23 ॥
पुयपं धनुः किं मदनस्य दाहे श्यामीभवत्केसरशेषमासीत् ॥
व्यधाद्धिधेशस्तदपि क्रुधा किं भैमीभ्रुवौ येन विधिर्व्यधतृत ॥ 7.24 ॥
जीवातु-पुष्पमिति । मदनस्य दाहे दाहकाले, पुष्पमेव धनुः श्यामीभवन्तः केसराः किञ्च ईशो हरः तदपि कुघा क्रोधेन द्विघा व्यधात् द्वेधा व्यभजत् किम् । येन द्विघा विभक्तेन पुष्पेण विधिर्वेधाः भैभ्या भ्रुवौ व्यघत्त असृजदित्युत्प्रेक्षा ॥ 7.24 ॥
भ्रूभ्यां प्रियाया भवता मनोभूचापेन चापे धनसारभावः ॥
निजां यदप्लोषदशामपेक्ष्य संप्रत्यनेनाधिकवीर्यतार्जि ॥ 7.25 ॥
जीवातु-भ्रुभ्यामिति । किञ्च प्रियाया भैम्याः भ्रुभ्यां भवता भ्रू युगलत्वेनपरिणमता मनीभुवश्चापेन घनसारभावो टृढस्थिरांशत्वं कर्पूरत्वं च । ‘सारो बले स्थिरांशे च । अथ कर्पूरमस्त्रियाम् । घनसार’ इति चामरः । आपे प्राप्तः । आप्नोतेः कर्मणि लिट् । यद्यस्मात्, निजामपलोषदशामपेक्ष्य अदाहावस्थात इत्यर्थः । संप्रत्यनेन मनीरभूचापेन अधिकवीर्यता अधिकपराक्रमोऽपि अर्जि प्राति । कर्मणि लुङ् । ‘वीर्य पराक्रमे रेतसि’
इति वैजयन्ती । अग्धस्यापि स्मरचापस्यतद्भ्रूभूतस्य पूर्वाभ्यधिकपराक्रमदर्शनान्नूनं घनसारभावः प्राप्त इत्युत्प्रेक्षा ॥ 7.25 ॥
अन्वयः–प्रियायाः भ्रुभ्यां भवता मनोभूचापेन धनसारभावः च आपे, यत् निजगाम् अप्लोषदशाम् अपेक्ष्य सम्प्रति अनेन अधिकवीर्यता आर्जि ॥ 7.25 ॥
स्मारं धनुर्यद्विधुनोज्ज्ञितास्या यास्येन भूतेन च लक्ष्मरेखा ॥
एतद् भ्रु वौ जन्म तदाप युग्मं लीलाचलत्वोचितबालभावम् ॥ 7.26 ॥
जीवातु-स्मारमिति । यत्समरस्येदं स्मारं धनुः । अस्या भैम्या आस्येन भूतेन आस्यभावं गतेन विधुना चन्द्रेणोज्ज्ञिता, या लक्ष्मरेखा कलङ्करेखा च तह्मुग्मं तदुभयं कर्तृ । लीलाचलत्वयोर्विलासचञ्चलत्वयोरुचितो
योग्यो बालभावः केशत्वं ववयोरभेदाच्छिशुत्वं च यस्मिन् जन्मनि तत्तथोक्तम् । एतस्या भैम्या भ्रुवौ जन्यभ्रूरूपेणोत्पत्तिमाप । एतस्या मुखमकलङ्कचन्द्रः भ्रुवौ च स्मरधनुश्चन्द्रलक्ष्मणोरपरावतार इत्यूतृप्रेक्षा
॥ 7.26 ॥
अन्वयः–यत् स्मारं धनुः अस्याः आस्येन भूतेन विधुना उज्ज्ञिता या लक्षमरेखा च तत् युग्मं लीलाचत्वोचितबालभावम् जन्म एतद् भ्रुवौ आप ॥ 7.26 ॥
इषुत्रयैणैव जगत्?त्रयस्य विनिर्जयात्पुष्पमयाशुगेन ॥
शेषा द्विबाणी सफलीकृतेयं प्रियादृगम्भोजपेऽभिषिच्य ॥ 7.27 ॥
जीवातु-इष्विति । पुष्पमयाशुगेन कामेन कर्त्रा इषुत्रयेण करणेन जगत्?त्रयस्य उभयप्राप्तौ कर्मणीति, षष्ठी । विनिर्जयात् ‘शेषा शिष्टा त्रिष्वन्यस्मिनुपयुक्त’ इति वैजयन्त्यां शेषशब्दस्य विशेष्यलिङ्गता । इयं द्विबाणी बाणद्वयं समाहारे द्विगोर्ङीप् । इयमिति हस्तनिदेशः प्रियाया टृशोरेवाम्भोवाम्भोजयोः पदे स्थाने अभिषिच्य सफलीकृतेत्युत्प्रेक्षा कुसुमबाणपरिणतिरेवास्याः टृष्टिसृष्टिरन्यतमेतत्सकलयुवलोकक्षेमकत्वमिति भावः ॥ 7.27 ॥
अन्वयः–पुष्पमयाशुगेन इषुत्रयेण एव जगत्-त्रयस्य विनिर्जयात् शेषा इयं द्विवाणी प्रियाटृगम्भोजपदे अभिषिच्य सफलीकृता ॥ 7.27 ॥
संयं मृदुः कौसुमचापयष्टिः स्मरस्य मुष्टिग्रहणार्हमध्या ॥
तनोति नः श्रीमदापाङ्गमुक्तां मोहाय या दृष्टिशरौघवृष्टिम् ॥ 7.28 ॥
जीवातु-सेयममिति । मुदुः कोमला मुष्टिग्रहणार्हं हस्तेन ग्राह्मं मध्यमवलग्नं लस्तकं च यस्यास्सा सेयं दमयन्ती स्मरस्य कौसुमी कुसुममयी चापयष्टिर्धनुर्दण्ड इत्युत्प्रेक्षा । कुतः ? येयं नाऽस्माकं मोहाय मूर्च्छनाय श्रीमतः शीभनादपाङ्गान्तुक्तां टृष्टीनामेव शराणामोघस्य वृष्टिं तनोति करोति, सा कथं न कामचापयष्टिरिति भावः ॥ 7.28 ॥
अन्वयः–इयं मृदुः मुष्टिग्रहणार्हमध्या स्मरस्य सा कौसुमवापयष्टिः, या नः मोहाय श्रीमदपाङृगमुक्तां टृष्टिशरौघ्ज्ञवृष्टि तनोति ॥ 7.28 ॥
आधूर्णितं पक्ष्मलमक्षिपह्मं प्रान्तद्युतिश्वैत्यजितामृतांशु ॥
अस्या इवास्याश्चलदिन्द्रनीलगोलामलश्यामलतारतारम् ॥ 7.29 ॥
जीवातु-आघुर्णितमिति । आघूर्णितं प्रचलितं पक्ष्मलं पक्ष्मवत् । ‘सिध्मादिम्यश्च’ इति लच् । प्रान्तद्युतेः कनीनिकाप्रान्तकान्तेः, श्वैत्येन धावल्येन जितामृतांशु अवधीरितचन्द्रं चलत् इन्द्रनीलस्य गोलं मण्डलमिवामला श्यामला तारा स्थूला तारा कनीनिका यस्य तदस्या अक्षिपह्ममस्या अक्षिपह्ममिवअसदृशमित्यर्थः । अनन्वयालङ्कारः । ‘एकस्यैवोपमानोपमेयत्वेनानन्वयो मतः’ इति लक्षणात् ॥ 7.29 ॥
अन्वयः–आघूर्णितं पक्ष्मलं प्रान्तद्युतिर्श्वत्यजितामृतांशु चलदिन्द्रनीलगोलामलश्यामलतारतारम् अस्याः अक्षिपद्मम् अस्याः इव ॥ 7.29 ॥
कर्णोत्पलेनापि मुखं सनाथं लभेत नेत्रद्युतिनिर्जितेन ॥
यद्येतदीयेन ततः कृतार्था स्वचक्षुषी किं कुरुते कुरङ्गी ॥ 7.30 ॥
जीवातु-कर्णेति । नेत्रद्युत्या नेत्रकान्त्या निर्जितेनैतदीयेन भैम्याः संबन्धिना कर्णोत्पलेनापि सनाथं सहकृतं मुखं लभेत यदि, ततः कृतार्था कुरङ्गी स्वचक्षुषी किंकुरुते कदर्थीकरोतीत्यर्थः । स्वमुखस्य तादृङ्नेत्रसानाथ्यं तावदास्तां तन्नेत्राभिभूतकर्णोतृपलसानाथ्येऽपि तावत्यैव द्युत्या स्वचक्षुषी उपेक्षेत । तदपि दुर्लभमिति भावः ॥ 7.30 ॥
अन्वयः–यदि कुरङ्गी नेत्रद्युतिनिर्जितेन एतदीयेन कर्णोत्पलेन अपि सनाथं मुखं लभेत ततः कृतार्था स्वचक्षुषी किं कुरुते ? ॥ 6.30 ॥
त्वचः समुत्सार्यं दलानि रीत्या मोचत्वचः पञ्चषपाटनानाम् ॥
सौर्गुहीतैर्विधिरुत्पलौघादस्यामभूदीक्षणरूपशिल्पी ॥ 7.31 ॥
जीवातु–त्वच इति । विधिर्विघाता मोचात्वचो रम्भात्वचः । ‘रम्भा मोचांशुमत्फला’ इत्यमरः । पञ्च षड्वा पञ्चषाणि । ‘संख्यायाव्यय’ इत्यादिना वहुव्रीहौ संख्येय’ इति समासान्तो डच् । तेषां पाटनानां विदलनानां रीत्या प्रकारेण तावत्पाटयितृवेत्यर्थः । त्वच एव दलानि समुत्सार्यपञ्चषाणि बाह्मावरणान्यपनीयेत्यर्थः । ततो गृहीतैस्तथोत्पलौघाच्च गृहीतैस्सारैः सितासितवर्णैर्लावष्यद्रव्यैः अस्यां दमयन्त्याम् र्हक्षणरूपशिल्पी अक्षिसौन्दर्यनिर्माता अभूदित्युत्प्रेक्षा ॥ 7.31 ॥
अन्वयः-विधिः मोचात्वचः पञ्चषपाटनानां रीत्या तव्चः दलानि समुत्सार्य उत्पलात् च गृहीतैः सारैः अस्याम् ईक्षणरूपशिल्पी अभूत् ॥ 7.31 ॥
चकौरनेत्रैणदृगुत्पलानां निमेषयन्त्रेण किमेष कृष्टः ॥
सारः सुधोद्गारमयः प्रयत्नैर्विधातुमेतन्नयने विधातुः ॥ 7.32 ॥
जीवातु-चकोरेति । विधातुरेतन्नयने विधातुं प्रत्यत्नैः कर्तृष्टः चकोरनेत्रयोरेणदृशोर्मृ गाक्ष्णोः उत्लानां च मुषोद्गारमयोऽमृतनिष्यन्दमयः । एषोऽग्रे दृश्यमानः सारो रसो निमेशो निमीलनं तेनैव यन्द्धैण निष्पीडन्साधनेन कष्टः आकृष्टः किमित्युत्प्रेक्षा ॥ 7.32 ॥
अन्वयः–एतन्नयने विधातुं विधातुः प्रयत्नैः चकोरनेत्रैणटृगुत्पलानां सुधोद्गारमयः एषः सारः किं निमेषयन्त्रेण कृष्टः ? ॥ 7.32 ॥
ऋणीकृता किं हरिणीभिरासीदस्याःसकाशन्नयनद्वयश्रीः ॥
भूयोगुणेयं सकला बलाद्यत्ताभ्योऽनयाऽनयाऽलभ्यत बिभ्यताभ्यः ॥ 7.33 ॥
जीवातु–ऋणीकृतेति । ह?रिणीभिरस्या दमयन्त्याः उत्तमर्णाया इति भावः । सकाशान्नयन्द्वयस्य श्रीः शोभा त्रणीकृता ऋणत्वेन गृहीतासीत् किमित्युत्प्रेक्षा । यद्यस्मात्, अनया भैम्या बिभ्यतीभ्यः, त्रस्यन्तीभ्यः त्रासावस्थाशां शोभातिशयः । अतिभीरूणा निःशेषमृणं दीयत इति भावः । ताभ्यो हरिणीभ्यो भूयोगुणा द्वित्रिगुणेयं नथनशोभा सकला निश्शेण बलादलभ्यत लब्धा ॥ 7.33 ॥
अन्वयः–हरिणीभ्यः किम् अस्याः सकाशत् नयनद्वयश्रीः ऋणीकृता आसीत्, यत् अनया बिभ्यतीभ्यः ताभ्यः भूयोगुणा इयं सकला बलात् अलभ्यत ? ॥ 7.33 ॥
दृशौ किमस्याश्चपलस्वभावे न दूरमाक्रम्य मिथो मिलेताम् ॥
न चेत्कृतः स्यशदनयोः प्रयाणे विध्नः श्रवः कूपतिपातभीत्या ॥ 7.34 ॥
जीवातु–दृशाविति । चपलस्वभावे चञ्चलशीले, अस्या भैम्याः दृशौ दूरमाक्रम्य अम्बुपर्यन्तं गत्वेत्यर्थः । किथो न मिलेतां नसङ्गच्छेयातान्, काकुः । मिलतेर्लिङि ततस्तामादेशः । किं त्वनयोर्दृशोः प्रयाणे दूरगमने श्रवसी श्रोत्रे एव कूपाविति रूपकम् । तयोर्निपातादभीत्या कर्त्र्या विध्नः कृतो न स्याच्चेत् । अत्र दृशोः कर्णान्तविश्रान्तयोः कूपपातभयहेतुकत्वोत्प्रेक्षारूपकोज्जीवितेति सङ्करः ॥ 7.34 ॥
अन्वयः–अस्याः चपलस्वभावे टृशौ दूरम् आक्रम्य किं मिथो न मिलेतां येत् अनयो। प्रयाणे श्रवः कूपनिपातभीत्या विध्नः न कृतः स्यात् ॥ 7.34 ॥
केदारभाजा शिशिरप्रवेशात्पुण्याय मन्ये मृतमुत्पलिन्‌या ॥
जाता यतस्तत्कुसुमेक्षणेयं यतश्च तत्कोरकदृक् चोरः ॥ 7.35 ॥
जीवातु–केदारेति । केदारः क्षेत्रविशेषः पर्वतविशेषश्च । तं भजतीति तदभाक् । ‘केदारः पर्वेते शम्भौ क्षेत्रभेदालवालयोः’ इति विश्वः । तयोत्पलिल्या शिशिर्रपवेशात् शिशरर्तुप्रवेशाद्धेतोः पुष्याय धर्माय मृतं मम्रे । भावे क्तः । मन्य इत्युत्प्रेक्षायाम् । यतो यस्मात् केदारमरणादियं भैमी तस्या उत्पलिन्याः कुसुमे पुष्पे एव ईक्षणे यस्याः सा जाता । यतश्चकोरश्च तत्कोरकावेव दृशौ यस्य स जातः । केदारक्षेत्रमरणादुत्तमजन्मलाभ इत्यागमः ॥ 7.35 ॥
अन्वयः–केदारभाजा उत्पलिन्या शिशिरप्रवेशात् पुष्याय मृं मन्ये, यतः इयं तत्कुसुमेक्षणा जाता, यतः चकारेः च तत्कारेटृक् ॥ 7.35 ॥

नासादसीया तिलपुष्पतूणं जगत्?त्रयन्यस्तशरत्रयस्य ॥
श्वासानिलामोदभरनुमेयां दधदृद्विबाणीं कुसुमायुधस्य ॥ 7.36 ॥
जीवातु-नासेति । अमुष्या इयमदीया, नासा नासिका, जगत्?त्रये न्यस्तं प्रयुक्तं शरत्रयं यस्य तस्य कुसुमायुघस्य सम्बधिनीं निश्वासानिलस्य निश्वासमारुतस्य आमोदश्रारेण मसौश्रभातिशतिशयेन अनुमेयां द्विबाणीं शिष्टं बाणद्वयम् । समाहारे द्विगोर्ङीष् । दघत् तिलपुष्पमेव तूणमिषुघिरित्युत्प्रेक्षा ॥ 7.36 ॥
अन्वयः–अदसीया नासा जगत्?त्रयन्यस्तशरत्रयस्य कुसुमायुधस्य श्वासानिलामोदभरनुमेयां द्विबाणीं दधत् तिलपुष्पतूणम् ॥ 7.36 ॥
बन्धूकबन्धूभवदेतदस्या मुखेन्दुनानेन सहोज्ज्ञिहानम् ॥
रागश्रिया शैशवयौवनीयां स्वमाह सन्ध्यामधरोष्ठलेखा ॥ 7.37 ॥
जीवातु–बन्धूकेति । अस्या भैम्याः अधरोष्ठलेखा अनेन मुखेन्दुना सहोज्जिहानमुद्यत् । बन्धूकबन्धूभवत् । बन्धुजीवकुसुमसमीभवत् एतत्पुरोवर्तिं स्वमात्मानम् । ‘आतृमनि स्वम्’ इत्यमरः । रागश्रिया आरुण्यसम्पदा, शैशवयौवनयोरेतत्सम्बन्धिनीं सन्ध्यामह । अहोरात्रसन्धाविव वयःसन्धौ भवा सन्ध्या स्वयमेवेति स्वरागसमृद्ध्या कथयति इवेत्युत्प्रेक्षाव्यञ्जनाप्रयोगाद्गम्या ॥ 7.37 ॥
अन्वयः–अस्याः अधरोष्ठलेखा अनेन मुखेन्दुना सह उज्जिहानं बन्धूक बन्धू भवत् एतत स्वं रागश्रिया शैशवयौवनीयां सन्ध्याम् आह ॥ 7.37 ॥
अस्या मुखेन्दोरधरः सुधाभूर्बिम्बस्य युक्तः प्रतिबिम्क एषः ॥
तस्याथ वा श्रीर्द्रमभाजि देश सभाव्यमानास्य तु विद्रुमे सा ॥ 7.38 ॥
जीवातु–अस्या इति । अस्याः भैम्याः एषोऽधरः अधरोष्ठः मुखेन्दो सुधायाममृते भवतृयाविर्भवतीति सुधाभुः बिम्बस्य बिम्बफलस्य प्रतिबिम्बः सदृशो युक्तः । न तु च बिम्बफलात्कश्चिद्विशेषोऽस्तीत्यर्थः । यस्य बिम्बफलस्य श्रीः शोभाद्रुमभाजि द्रु मवति देशे सम्भाव्यमाना । अस्याधरस्य त्वसौ श्रीः विद्रुमे प्रवाले विगतद्रुमे च सम्भाव्यत इत्यर्थः । ‘विद्रुमः पुंसि प्रवालं प्रवालं पुंनपुंकम्’ इत्यमरः । विदुमसमश्रीरित्यर्थः ॥ 7.38 ॥
अन्वयः–अस्याः मुखेन्दोः सुधाभुः एषः अधरः बिम्बस्य प्रतिबिम्बः युक्तः; अथ तस्य श्रीः द्रुमभाजि देशे संभाव्यमाना, अस्य तु सा विद्रुमे ॥ 7.38 ॥
जानेऽतिरागादिदमेव बिम्बं बिम्बस्य च व्यक्तमितोऽधरत्वम् ॥
द्वयोर्विशेषावगमाक्षमाणा नाम्नि भ्रमोऽभूदनयोर्जनानाम् ॥ 7.39 ॥
जीवातु–जान इ?ति अतिरागाद?तिलौहित्याद्धेतोः इदं पुरोवर्त्येव ?बिम्बं बिम्बनामाहं बिम्बस्य च इतोऽस्मादधरत्वमपकृष्टत्वमोष्ठत्वं च व्यक्तं तदेवाधरनामार्ह प्रतीयत इत्यर्थंः । एवं स्थिते द्वयोरनयोरधरबिम्बयोर्नाम्नो विषये विशेषावगमे इदमस्य नामेति निर्धारणे अक्षमाणामसमर्थानां जनानां भ्रमोऽभूत्
। जाने जानामीत्युत्प्रेक्षा ॥ 7.39 ॥
अन्वयः–अतिरागात् इदम् एव बिम्बं बिम्बस्य च इतः अधरत्यं व्यक्तम् जाने अनयोः द्वयोः विशेषावगमाक्षमाणं नाम्नि भ्रमः अभूत् ॥ 7.39 ॥
मध्योपकठावधरोष्ठभागौ भातः किमप्युच्छृवसितौ यदस्याः ॥
तत्स्वप्नसम्भेगवितीर्णदन्तदंशेन किं वा न मयापराद्धम् ॥ 7.40 ॥
जीवातु–मध्येति । यद्यस्मात्, अस्याः सम्बन्धिनौ मध्यस्याधरमध्यप्रदेशस्य उपकण्ठौ सन्निहितो भातः स्फुरतः सम्बन्धिनौ मध्यस्याधरमध्यप्रदेशस्य उपकण्ठौ सन्निहितौ धधरोष्ठस्य भागौ तदु2भयपार्श्वे इत्यर्थः । किमप्युच्छ्वसितौ किंचिदुच्छूनौ भातः स्फुरतः । तत्तस्मात्, स्वप्नसम्भोगे वितीर्णो दत्तो दन्तदंशो दन्तक्षतं येन तेन मया नापराद्धं किं वा वा । स्वप्ने स्वकृतदन्तक्षतमेतावित्युत्प्रेक्षा ॥ 7.40 ॥
अन्वयः–यत् अस्याः मध्योपकण्ठौ अधरोष्ठभागौ किमपि उच्छ्वसितौ भातः, तत् किं वा मया स्वप्नसम्भौगवितीर्णदन्तदंशेन न अपराद्धम् ? ॥ 7.40 ॥

विद्या विदर्भेन्द्रसुताधरोष्ठे नृत्यन्ति कत्यन्तरभेदभाजः ॥
इतीव रेखाभिरपश्रमस्ताः संख्यातवान् कौतुकवान्विघाता ॥ 7.41 ॥
जीवातु-विद्या इति । कौतुकवान् विनोदी विधाता विदर्भेन्द्रसुताया अधरोष्ठे कति विद्या अन्तभ्यन्तरे अभेदभाजः भेदरहिता सत्यो नृत्यन्ति विहरन्ति इ?ति बुभुत्सयेति शेषः, इतिना गम्यमानार्थत्वादप्रयोगः । अप्रश्रमः श्रमरहितः सन् ताः विद्यारेखाभिः संख्यातवानिव गणितवान् किमित्युत्प्रेक्षा । अन्यथा वृथा रेखासृष्टिः स्यादिति भावः ॥ 7.41 ॥
अन्वयः–अन्तरभेदभाजः कति विद्याः विदर्भेन्द्रसुताधरोष्ठे नृत्यन्तिइति अपश्रमः कौतुकवानृ विधाता ताः रेखाभिः संख्यातवान् इव ॥ 7.41 ॥
संभुज्यमानाद्य यथानिशान्ते स्वप्नेऽनुभूता मधुराधरेयम् ॥
असीमलावण्यरदच्छदेयं कथं मयव प्रतिपद्यते वा ॥ 7.42 ॥
जीवातु-संभुज्यमानेति । इयं भैमी, अद्य मया निशान्ते निशावसाने अपररात्र इत्यर्थः । तत्कालस्वप्नस्य सत्यत्वादिति भावः । स्वप्नेसंभुज्यमाना मधुराधरा मनोज्ञाधरा सत्युभूता दृष्टा मयैव इत्थमनेन प्रकारेण स्वप्नविकारेणैवअसीमलावण्यो रदच्छदो दन्तच्छदो यस्याः सा सती कथं वा प्रतिपद्यते दृश्यते चित्रमित्यर्थः । स्वप्नदृष्टस्यार्थस्य जागरे सत्यसंवादादशश्चर्यम् ॥ 7.42 ॥
अन्वयः–निशान्ते मया अद्य स्वप्ने संभुज्यमाना इयं मधुराधरा अनुभूता, इयम् एव असीमलावण्यरदच्छदा कथं वा प्रतिपद्यते ? ॥ 7.42 ॥
यदि प्रसादीकृरुते सधांशोरेषा सहस्त्रांशमपि स्मितस्य ॥
तत्कौमुदींनां कुरुते तमेव निमित्य देवः सफलं स जन्म ॥ 7.43 ॥
जीवातु–यदीति । एषा भैमी, स्मितस्य निजमन्दहासस्य सहस्त्रांशं सहस्त्रतमांशमपि । वृत्तिविषये संखाशब्दस्य पूरणार्थत्वं त्रिभागवत् । सुधांशोः प्रसादीकुरुते यदि दद्याच्चेदित्यर्थः । तत्तहिं स देवः सुधांशुः कौमुदीनां स्वचन्द्रिकाणां जन्म । तमेव स्मितलेशमेव निमित्य स्वकौमुदीषु निक्षिप्य ‘डुमिञ् प्रक्षेपणे’ इति धातोः समासे क्त्वो ल्यबादेशः । सफलं कुरुते । यथा बिन्दुमात्रगङ्गाजलमिश्रणेनान्यज्जलं भवति तद्वतिति भावः । अत्र कौमुदीनां संभावनामात्रेण स्मितांशासम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिभेदः ॥ 7.43 ॥
अन्वयः–एषा यदि स्मितस्य सहस्त्रांशम् अपि सुधांशोः प्रसादीकुरुते, तत् सः देवःतम् एव निमित्य कौमुदीनां जन्म सफलं कुरुते ॥ 7.43 ॥
चन्द्राधिकैतन्मुखचन्द्रिकाणां दरायतं तत्किरणाद्धनानाम् ॥
पुनःपरिस्त्रस्तपृषद्द्वितीयं रदावलिद्वन्ति बिन्दुवृन्दम् ॥ 7.44 ॥
जीवातु-चन्द्रेति । तस्य चन्द्रस्य किरणाद्रश्मेः चन्द्रकान्तेः, अनानां सान्द्राणां तन्मुखस्य चन्द्राधिकत्वाच्चन्द्रिकाणामपि ततोऽधिकमि?पि ततोऽधिकमिति भावः । अत एवाहचन्द्राधिकस्यैतन्मुखस्य चन्द्रिकाणां स्म्बन्धि दरायतमीषद्दीर्धं पुरःपरिस्त्रस्तानि प्रथमसृतानि पृषन्ति बिन्दवो यस्य तद्द्वितीयं बिन्दुदृन्दं रदावलिन्द्वति तदिव आचरति ‘सर्वप्रातिपदिकेभ्यः क्तिप्’ इत्याचारक्विबन्ताल्लट् । प्रथमनिष्सृता बिन्दुपङ्गक्तिरधरदन्तंक्तिः उत्तरानन्तरजातेत्युत्प्रेक्षा ॥ 7.44 ॥
अन्वयः–तत्किरणात् धनानाम् एतन्मुखचन्द्रिकाणां दरायतं पुरःपरिस्त्रस्तपृषद्द्वितीयं बिन्दुवृन्दं रदावलिद्वन्द्वति ॥ 7.44 ॥
सेयं ममेतद्विरहातिमूर्च्छातमीविभातस्य विभाति सनध्या ॥
महेन्द्रकाष्ठागतरगकर्त्री द्विजैरमीभिः समुपास्यमाना ॥ 7.45 ॥
जीवातु–सेति । महेन्द्रस्य काष्ठामुजत्कर्षं गतोऽनुरागः अन्यत्र पूर्वदिग्गतोरागो लौहित्यम् । ‘काष्ठोत्कर्षे स्थितौ दिशि’ इत्यमरः । ‘रागोऽनुरागे लौहित्ये’ इति विश्वः । तस्य कर्त्री जनयित्री अमीभिर्द्विजैर्दत्तैः विप्रैश्च । ‘दन्तविप्राण्डजा द्विजाः’ इत्यमरः । समुपास्यमाना सेव्यमाना सेयं दमयन्ती मम एतस्या भैम्या विरहार्त्या वियोगपीडया या मूर्च्छा सैव तमी रनी । ‘रजनी यामिनी तमी’ इत्यमरः । तस्या
विभातस्य संबन्धिनी सन्धा प्रातःसन्धा विभाति । सन्ध्याधर्मसम्बधात्सन्धा त्वमुत्प्रेक्षयते ॥ 7.45 ॥
अन्वयः–महेन्द्रकाष्ठागतरागकर्त्री अमीभिः द्विजैः समुपास्यमाना सा इयं मम एतहिरहार्तिमूर्च्छातमीविभातस्य सन्ध्या विभाति ॥ 7.45 ॥
राजौ द्विजानामिह राजदन्ताः संबिभ्रति श्रोत्रियविभ्रमं यत् ॥
उद्वेगरागादिमृजावदाताश्चत्वार एते तदवै?मि मुक्तः ॥ 7.46 ॥
जीवातु-अथोच्चैश्चत्वारो ये दन्तास्तान् वर्णयति-राजाविति । यत् यस्मात् इहास्यां द्विजानां दन्तानां विप्राणां च राजौ पंक्तौ पंक्तौ उद्वेगं पूग्रलम् ‘धोष्टा तु पूगः कमुको नुवाकः खपुरोऽस्य तु । फलमुद्वेगम्’ इत्यमरः । रागो विषयाभिलाषः आदिशब्दाद् द्वेषादिसंग्रहः । तेषामुद्वेगरागादीनां मृजया मार्जनेन । ‘षिदिभदादिभ्योऽङ्’ । अवदाताः शुद्धाः एते चत्वारो राजदन्ताः दन्तानां राजानो दन्तश्रेष्ठाः । ‘राजदन्तादिषु परम्’ इति दन्तशब्दस्योपसर्जनस्य परनिपातः । ‘श्रोत्रियाश्छन्दांस्यधीतवन्तः वेदपारगाः । ‘श्रोत्रियच्छान्दसौ समौ’ इत्यमरः । ‘श्रोत्रियश्छन्दोऽधत’ इति निपातः । तेषां विभ्रमां शोभां संबिभ्रति तस्मानमुक्ताः मौक्तिकानि अपवृत्ताश्च । ‘मुक्ता तु मौक्तिके मुक्ताः प्राप्तमुक्ता तु मोचित’ इति विश्वः । अपैमि जामामि इति वाक्यार्थः कर्म उत्प्रेक्षा ॥ 7.46 ॥
अन्वयः–इह द्विजानां राजौ उद्वेगरणादिमृजावदाताः एते चत्वारः राजदन्ताः यत् श्रोत्रियविभ्रमं संबिभ्रति तत् मुक्ताः अवैमि ॥ 7.46 ॥
शिरीषकोशादपि कोमलाया वेधा विधायाङ्गमशेषमस्याः ॥
प्राप्तप्रकर्षः सुकुमारर्से समापयद्वाचि मृदुत्वमुद्राम् ॥ 7.47 ॥
जीवातु–शिरीषेति । वेधाः विधाता शिरीषस्य कोशात्कुङृमलादपिकोमलाया अस्या भेम्याः, अशेषमङ्गं विद्याय सुकुमारसर्गे कोपलसृष्टौ प्राप्तप्रकर्षो लोके लब्धोत्कर्षः सन् मृदुत्वमुद्रां मार्दवभङ्गीं वाचि भैमीवाण्यां समापयत् समापितवान् । सर्वातिशय्यस्य अपि कोमलायाः अस्याः अशेषम् अङ्ग’ विद्यायसुकुमारसर्गे प्राप्तप्रकर्षः वेधाः मृदुत्वमुद्रां वाचि समापयत् ॥ 7.47 ॥
अन्वयः–शिरीषकोषात् अपि कोमलायाः अस्याः अशेषम् अङ्गं विधाय सुकुमार सर्गे प्राप्तप्रकर्षः वेधाः मृदुत्वमुद्रां वाचि समापयत् ॥ 7.47 ॥
प्रसूनवाणद्वयवादिनी सा कापि द्विजेनोपतिषत्पिकेन ॥
अस्याः किमास्यि,जराजतो वा नाधीयेते भैक्षभुजा तरुभ्यः ॥ 7.48 ॥
जीवातु–नन्वितोऽ मधुरा कोकिलवाणी, नेत्याह–प्रसूनेति । प्रसूनआणमेवाद्वपमद्वितीयं वस्तु तद्वदतीति तत्प्रतिपादिका कापि उपनिषत् पिकवाग्रूपा सा तरुभ्यः सकाशात् । भिक्षाणां समूहो भैक्षम् । भैक्षं भिक्षा कदम्बकम् इत्यमरः । ‘भिक्षादिभ्योऽण्’ । तद्भुजा तदभोजिना ब्रह्मचारिणो भिक्षाशित्वस्मरणादिति भावः । पिकेन पिकाल्ये द्विजेन पक्षिणा विप्रेण चअस्या भैम्या आस्यमेव द्विजराजश्चन्द्रो ब्राह्मणोत्तमश्च । ततस्तस्मान्नाधीयते वा किम् ? अधीयत एवेत्यर्थः । अस्यामेवाधिक्योपलम्भादिति भावः । उत्प्रेक्षा
अन्वयः–तरुभ्यः भैक्षभुजा पिकेन द्विजेन प्रसूनबाणद्वयवादिनी सा का अपि उपनिषत् अस्याः आस्यद्विजराजतः न वा अधीयते किम् ? ॥ 7.48 ॥
पह्माङ्कसह्मानमवेक्ष्य लक्ष्मीमेकस्य विष्णोः श्रयणत्सपत्नीम् ॥
आस्येन्दुमस्या भजते जिताब्जं सरस्वती तद्विजिगीषया किम् ॥ 7.49 ॥
जीवातु–पह्माङ्केति । सरस्वती वाग्देवता एकस्य विष्णेः पत्युरिति शेषः । श्रयणादाश्रयणाद्धेतोः । समान एकः पतिर्यस्याः सा सपत्नी । ‘नित्य सपत्नयादिषु’ इति ङीप् नकारश्च, एतस्मादेव निर्देशात्समानशब्दस्य सभावः । तां लक्ष्मीपह्मविजयिनमसया आस्येन्दुमानेन्दुमानेन्दुं किं भजत इत्युत्प्रेक्षा । दुबंलोऽपिवैरनिर्यातनार्थी प्रबलमाश्रयत इति भावः । सरस्वत्या विष्णुपत्नीत्व पुराणप्रसिद्धम् । तथार्चास्वपि टृष्यते यथा पुरुषोत्तमस्य जगन्नाथस्य पार्श्वे लक्ष्मीसरस्वत्यौ तयोः सुरतवादोपचारश्च ॥ 7.49 ॥
अन्वयः–रस्वती एकस्य विष्णोः श्रयणात् सपत्नी लक्ष्मीं पह्माङ्कुसह्मानम् अवेक्ष्य तद्विजिगीषया ।
कम् जिताबजम् अस्याः आस्यन्द्रं भजतं ? ॥ 7.49 ॥
कण्ठे वसन्ती चतुरा यदस्याः सरस्वतो वादयते विपञ्चीम् ॥
तदेष वाग्भूय मखे मृगाक्षाः श्रोतुः श्रुतौ यानि सुधारसत्वम् ॥ 7.50 ॥
जीवातु-कण्ठ इति । मृगाक्ष्या अस्या भैम्याः कण्ठे वसन्ती नित्यसन्निहिता, चतरा सास्वती विञ्चीं वीणां यद्वादयते वादयति तद्वादनमेव, स वीणाध्वनिरेवेत्यर्यः । मुखे वाग्भूय वाग्भूत्वा । अंभूततदभावे च्चिः । ‘ऊर्यादिच्चिडाचश्च’ इति गतित्वात् समासे क्त्वो ल्यबादेशः । श्रोतुः श्रुतौ श्रोत्रे सुधारसत्वं याति । व्यञ्जकाप्रयोगाद् ग्रम्योत्प्रेक्षा ॥ 7.50 ॥
अन्वयः–अस्याः कण्ठे वसन्ती चतुरा सरस्वतो यत् विपञ्चचीं वादयते, तत् एव मृगाक्ष्याः मुखे वाग्भूय
श्रोतुः सुधारसत्वं याति ॥ 7.50 ॥
विलोकितास्या मुखमुन्नमय्य किं वेधसेयं सुषमासमाप्तौ ॥
धृत्यूदभवा यच्चिबुके चकास्ति निम्ने मनागङ्गुलियन्त्रणेव ॥ 7.51 ॥
जीवातु–विलोकितेति । इयं दमयन्ती, सुषमायाः परमशोभानिर्माणस्यसमाप्तौ वेधसा अस्या मुखमुन्नमय्य विलोकिता । अस्याः सौष्ठवपरीक्षार्थमवलोकितमुखी किमित्युत्प्रेक्षा । कुतः ? अद्यस्मातृ, मनाङ्निम्ने ईषन्नते चिबुके अधरोष्ठाधःस्थमुखावयेव ‘ओष्ठस्याधश्चिबुकम्’ इति हलायुधः । धृत्युदभवा
निपीड्यग्रहणसम्भवा, अङ्गुलेः यन्त्रणा मुद्रणेव चकास्ति अंगुष्ठपदमिव भातीत्यर्थः । अङ्गुष्ठाग्रे चिबुकाग्रे निधाय इतराङ्गुलीभिरधोनिवेशिताभिरन्नमयय्यमुखमपश्यदिवेति भावः ॥ 7.51 ॥
अन्वयः–वेधसा सुषमासमाप्तौ अस्याः मुस्याः अन्नमय्य किम् इयं विलोकिता, यत् मनाक् निम्ने चिबुले धृत्युद्भवा अङ्गुलियन्त्रणा इव चकास्ति ? ॥ 7.51 ॥
प्रियामुखीभूय सुखी सुधांशुर्वसत्यसौ राहुभयव्ययेन ॥
इमां दधाराधरांबम्बलीलां तस्यै बालं करचक्रवालम् ॥ 7.52 ॥
जीवातु-प्रियेति । असौ सुधांशुः प्रियामुखीभूय भैमीमुखं भूत्वा राहोविधुन्तुदात् भयव्ययेन भयनिवृत्त्या सुखी वसति । तस्य सुधांशोरेव बालं प्रत्यग्रं करचत्रवालं अंशुमण्डलमिमां टृश्यमानां अधरिबम्बलीलां दधार । अधरबिम्बं भूत्वातिष्ठतीत्युप्रेक्षयोः ससृष्टिः ॥ 7.52 ॥
अन्वयः–असो सुधांशुः प्रियामुखीभूय राहुभयव्ययेन सुखी वसति, तस्य, एव बालं करचक्रवालम् इमाम् अधरिबम्बलीलां दधार ॥ 7.52 ॥
अस्या मुखस्यास्तु न पूर्णिमास्यं पूर्णस्य जित्वा महिमा हिमांशुम् ॥
भ्रूलक्ष्मखण्डं दधदर्धमिन्दुर्भालस्तृतीयः खलु यस्य भागः ॥ 7.53 ॥
जीवातु–अस्या इति । पूर्णिमाया पौर्णमास्याः आस्यं मुखीभूतं हिमांशुं जित्वा पूर्णस्य समग्रस्य सतः अस्याः भैम्या सुखस्य महतो भावो महिमा महत्त्वं नास्तु न स्यात् । काकुः । स्यादेव जेतुर्महिमेत्यर्यः । किं च यस्य मुखस्य तृतीयो भागः तृतीयांशभूतः, भालो ललाटं भ्रूरेव लक्ष्मखण्डः लाञ्छनैकदेशस्तं दधत् दधानः अर्धमिन्दुरर्धेन्द्रः भालापे ललाटं भ्रूरेव लक्ष्मखण्डः लाञ्चनैकदेशस्तं भावः । अत्र मुखस्य पूर्णेन्दुत्वं भालस्यार्धचन्द्रत्वं च कमात्पूर्णिमास्यं हिमांशुं भ्रू लक्ष्मखण्डमिति च रूपकाभ्यामनुप्राणितमुत्प्रेक्ष्यत इति रूपकसङ्कीर्णयोरुत्प्रे क्षयोः परस्परमुपकार्योपकारकभावादङ्गाङ्गिभावेन सङ्करः ॥ 7.53 ॥
अन्वयः–पूर्णिमास्यं हिमांशुं जित्वा अस्याः पूर्णस्य मुखस्य महिमान अस्तु, यस्य तृतीयः भागः भालः अर्द्धं भूलक्ष्मखण्डं दधत् इन्दुः खलु ? ॥ 7.53 ॥
व्यधत्त धाता मुखपह्ममस्याः सम्राजम्भोजकुलेऽखिलेऽपि ॥
सरोजरजौ सूजतोऽदसीयां नेत्राभिधेयावत एव सेवाम् ॥ 7.54 ॥
जीवातु–व्यधत्तेति । धाता अस्या मुखमेव पह्मम् । ‘वा पुंसि पह्म’ इति पुं?लिङ्ग । सम्राजमिति । विशेषणात् । अखिलेऽप्यम्भोजकुले पह्मजाते विषये सम्राजं राजराजं व्यधत्त । अत एव राजराजत्वादेव नेत्राभिधेयौ नेत्रशब्दवाच्यौ सरोजानां राजानौ सरोकजराजौ अमुष्य मुखपह्मस्य सम्बन्धिनीमदसीयां सेवां
सृजतः कुरुत । ‘येनेष्टं राजसूयेन मण्डलस्येवरश्च यः । शस्ति यश्चाज्ञया राः स सन्नाटृ’ इत्यमरः । अत्र नेत्रारूयसरोजराजसेव्यत्वेन भैमीमुखपह्मस्यं सम्राद्त्वोत्प्रेक्षेति सङ्करः ॥ 7.54 ॥
अन्वयः–घाता अस्याः मुखपह्मम् अखिले अपि अम्भोजकुले सम्राजं व्यधत्त, अतः एव नेत्राभिधेयौ सरोजराजौ अदसीयां सेवां सृजतः ॥ 7.54 ॥
दिवारजन्यो रविसोमभीते चन्द्राम्बुजे निक्षिपतः स्वलक्षमीम् ॥
अस्या यदास्येन तदा तयोः श्रीरकरियेद तु कदा न कान्तम् ॥ 7.55 ॥
जीवातु-दिवेति । चन्द्रश्चाम्बुजं च ते दिवारजन्योर्दिनरात्र्योर्यंथासङ्ख्यं रविसोमाभ्यां भीते अपहारशङिकनी सती स्वलक्ष्मीं यदा अस्या भैम्या आस्ये निखिपतस्तदा तयोर्दिवाचन्द्रस्य रात्रावम्बुजस्य च श्रीः शोभा न भवति । इदमस्था आस्ये तु कदाकस्मिन्काले दिवा नक्तं वा एकधिया चन्द्राम्बुजयोरन्यतरश्रिया न कान्तम्, अपि तु सर्वदा कान्तमेव । अत्रोक्तयथासङ्ख्यसङ्कीर्णया भैमीमुखे चन्द्राम्बुजलक्ष्मीनिक्षेपोत्प्रेक्षिताभ्यां कादाचित्कशोभाभ्यां मुखस्य । अकादाचित्कश्रीकत्वेन व्यतिरेको व्यज्यत इत्यलङ्कारेणालङ्कारध्यनिः ॥ 7.55 ॥
अन्वयः–दिवारजन्योः रविसोमभीते चन्द्राम्बुजे स्वलक्ष्मीं यदा अस्याः आस्ये निक्षिपतः तदा तयोः श्रीः सूर्य और चन्द्रमा से डरे चन्द्रमा और न ? ॥ 7.55 ॥
अस्या मुखश्रीप्रतिबिम्बमेव जलाच्च तातान्मुकुराच्च मित्रात्रात् ॥
अभ्यर्थ्यं धत्तः खलु पह्मचन्द्रौ विभूषणं याचितकं कदाचित् ॥ 7.56 ॥
जीवातु–अस्या इति । पह्मचन्द्रो यथाक्रमं ताताज्जनकात् जलाच्च । मित्रादाकारसाम्यात् सुहृदः मुकुराच्च अस्य मुखरियः प्रतिबिम्बमेव याचितकंयाच्?ञानिर्वृत्तम् । ‘याच्?ञाप्राप्तं याचितकम्’ इत्यमरः । ‘अपमित्ययाचिताभ्यां कक्कनो’ इति कन्प्रत्ययः । विभूषणं कदाचिभ्यर्थ्य घत्तो दधाते खलु । एतदीयमेव मुहृल्लब्धमनयोर्याचितमाभरणं न स्वाभाविकमित्युत्प्रेक्षा ॥ 7.56 ॥
अन्वयः–पह्मचन्द्रौ तातात् जलात् मित्रात् मुकुरात् च अस्याः मुसखश्रीप्रतिबिम्बम् एव याचितकं विभूषणं कदाचित् अभ्यथ्यं अत्तः खलु ॥ 7.56 ॥
अर्काय पत्ये खलु तिष्ठमाना भृङ्गैर्मितामक्षिभिरम्बुकेलौ ॥
भैमीं मुखस्य श्रियम्बुजिन्यो याचन्ति विस्तारितपह्मस्ताः ॥ 7.57 ॥
जीवातु-अर्कायेति । पत्ये भर्त्रे, अर्काय तिष्ठमानाः स्वाभिलाषं प्रकाशयन्त्यः कामुक्यः सत्य इत्यर्थाः ।
‘श्लाघह्नुङ्’ इत्यादिना चतुर्थी ‘प्रकाशस्येयाख्योश्च’ इत्यात्मनेपदम् । अम्बुजिन्यः पह्मिन्यः अम्बुकेलौ जलक्रीडाकाले भृङ्गैरेवाक्षिभिमिंतामुपलब्धां मुखस्य श्रियं मुखशोभां विस्तारिताः प्रसारिताः पह्मा एव हस्ता यासां ताः सत्यो भैमीं याचन्ति खालु स्वरितेत्त्वाद्याचेरुभयपदित्वम् । दुहादित्वाद् द्विकर्मकत्वम् । अत्र पह्मिनीनां भैमीमुखश्रीयाच्ञोत्प्रेक्षया मुखस्य पहृमाधिक्यव्यतिरेकः प्रतीयते ॥ 7.57 ॥
अन्वयः–पतृये अर्काय तिष्ठमानाः अम्बुजिन्यः अम्बुकेलौ भृङ्गैः अक्षिभिः मितां मुखस्य श्रियं विस्तारितपह्मस्ताः भैमीं खलु यावन्ति ॥ 7.57 ॥
अस्या मुखेनैव विजित्य नित्यस्पर्थी मिलतृकुङ्कुमरोषभासा ॥
प्रसह्म चन्द्रः खलु नह्ममानः स्यादेव तिष्ठन् परिवेषपाशः ॥ 7.58 ॥
जीवातु–अस्या इति । नित्यं सपर्धत इति नित्यस्पर्धी चन्द्रः मिलन्ती व्याप्नुवन्ती कुङ्कुममेव रोषभाः क्रोधप्रभाः यस्य तेन । अस्या मुखेनैव विजित्य प्रसह्म बलात्कृष्य नह्ममानो वध्यमानः तिष्ठन् परिवेष एव पाशो बन्धनप्रग्रहो यस्य स स्यादेवेत्युत्प्रेक्षा ॥ 7.58 ॥
अन्वयः–मिलत्कुमरोषभासा अस्याः मुखेन एव निस्स्पर्धो चन्द्रः खलु विजित्य असह्म नह्ममानः एव तिष्ठन् परिवेषपाशः स्यात् ॥ 7.58 ॥
विधोर्विधिर्बिम्बशतानि लोपं लोपं कुहूरात्रिषु मासि मासि ॥
अभङ्गुरश्रीकममुं किमस्या मुखेन्दुमसथापयदेकशेषम् ॥ 7.59 ॥
जीवातु–विद्योरिति । विधिर्विधाता विधोश्चन्द्रस्य बिम्बशतानि मासि मासि मांसे ‘पद्दन’ इत्यादिना मांसशब्दस्य मासित्यामादेशः । कुहूरात्रिषु नष्टचन्द्ररात्रिषु लोपं लुप्त्वा लुप्त्वा आभीक्ष्ण्ये ‘णमुल्’ इति णमुल्प्रत्ययः आभीक्ष्ण्ये द्वे भवत् इति वकृतव्यम् । ‘आभीक्ष्ण्यं पौनःपुन्यम्’ इति काशिका । अभंगुरश्रीकमनश्वरशोभं, ‘शेषाद्विभाषा’ इति कप् । अमुमस्य मुखेन्दुम् । एकशेषमेकमेव शिष्यमाणमस्थापयत् स्थापितवान् । किमित्युत्प्रेक्षा । व्याकरणे सरूपाणामेकशेषवदिति भावः ॥ 7.59 ॥
अन्वयः–विधिः मासि कुहूरात्रिषु विधोः बिम्बशतानि लोपं लोपम् किम् अभङ्गुरश्रीकम् अमुम् अस्याः एकशेषम् मुखेन्दुम् अस्थापयत् ? ॥ 7.59 ॥
कपोलपत्रान्मकरात्सेतुर्भ्रूभ्याञ्जिगीषुर्धनुषा जगन्ति ॥
इहावम्ब्यास्ति रतिं मनोभू रज्यद्वयस्यो मधुनाधरेण ॥ 7.60 ॥
जीवातु–कपोलेति । मनोभुः कपोलपात्रात् पत्रभङ्गादेव मकराद्धेतोः सकेतुः केतुमान् मकरध्वज इत्यर्थः । भ्रुभ्यामेव धनुषा जगन्ति जिगीषुः जेतुमिच्छुः अधरेणैव मधुना क्षौद्रेण वसन्तेन च रज्यद्वयस्योऽनुरक्तसखः इहास्यां रतिं प्रीतिं स्वदेवीं चावलम्ब्यास्ति । जगज्जिगीषोः कामस्य सर्वापि साधनसम्पत्तिरस्यामेवास्तीत्ययर्थः । अत्र पत्रभङ्गादावारोप्यमाणस्य केत्वादेस्तादात्मयेन प्रकृतजगज्जयोपयोगित्वात् परिणामालङ्कारः । ‘आरोप्यमाणस्य प्रकृतोपयोगित्वे परिणामः’ इति लक्षणात्
॥ 7.60 ॥
अन्वयः–कपोजपत्रात् मकरात् सकेतुः भ्रूभ्यां धनुषा जगन्ति जिगीषुः अधरेकण मधुना रज्यद्वयस्यः मनोभूः रतिम् अवलम्बय इह अस्ति ॥ 7.60 ॥
वियोगबाष्पा?ञ्चितनेत्रपह्मच्छह्मान्वितोत्सर्गपयः प्रसूनौ ॥
कर्णौ किमस्या रतितत्पतिभ्यां निवेद्यपूपौ विधिशिल्पमीदृक् ॥ 7.61 ॥
जीवातु–वियोगेति । इद्यगपूर्व विधिशिल्पं ?ब्रह्मनिर्माणमस्याः कणौ वियोगेन हेतुना बाष्पाञ्चितयोरश्रुयुक्तयोः नेत्रपह्मयोः । छद्मेत्यपह्नवभेदः । तेन छद्मनान्विते मिलिते उत्सर्गपयः प्रसूने दानोदकमिश्रकुसुमे ययोस्तौ रतितत्पतिभ्यां सम्प्रदाने चतुर्थी । निवेद्यावर्पणीयौ पूपावपूपौ किम् । ‘पूपोऽपूपः पिष्टकः स्यात’ इत्यमरः । नैवेद्यसमर्पणेन पुष्पाञ्जलिमुत्सृजन्ती साश्रुनेत्रयोगात्तत्कर्णयोस्ताटृक्पुष्पयुक्तरतिस्मरनेवेद्यापूपत्वोत्प्रेक्षया सापह्नवया कर्णान्तविश्रान्त लोचनत्वं वस्तु व्यज्यते ॥ 7.61 ॥
अन्वयः–वियोगवाष्पाञ्चितनेत्रपद्मच्छद्मान्वितोत्सर्गपयःप्रसूनौ रतितत्पतिभ्यं निवेद्यपूपौ अस्याः कणौ-र्हटृक् किं विधिशिल्पम् ? ॥ 7.61 ॥
इहाविशद् येन पथातिवक्रः शास्त्रौघनिष्यन्दसुधाप्रवाहः ॥
सोऽस्याः श्रवःत्रयुगे प्रणाली रेखेव धावत्यभिकर्णकूपम् ॥ 7.62 ॥
जीवातु–इहेति । अतिवक्रः शास्त्रणामोघः समहस्तस्य निष्यन्दः सारः एव सुवाप्रवाहो येन पथा वर्त्मना यया प्रणाल्या इहस्यां भैम्याविशत् प्रविष्ठटः, अस्याः, श्रवसी पत्रे दले इव श्रवःपत्रेतयोर्युगे युग्मे या रेखा वक्रप्रणाली सुधाप्रवाहपदीव । ‘द्वयोः प्रणाली पयसः पदव्याम्’ इत्यमरः । अभिकर्णकूपं धावति कर्णश्रन्रध्रमभिगच्छति । यथा कुतश्चिन्निःसृतं जनं वक्रगत्या कयाचित्प्रणाल्या कश्चिन्निम्नदेशं गच्दति तद्वदिति भावः । अत्र कर्णस्य रेखायां सुधाप्रणालीत्वमुत्प्रेक्ष्यते ॥ 7.62 ॥
अन्वयः–अतिवकः शास्त्रौधनिष्यन्दसुधाप्रवाहः येन पथा इह अविशत्, सः अस्याः श्रवःपत्रयुगेरेखा प्रणाली इव अभिकर्णकूपं धावति ॥ 7.62 ॥
अस्या यदष्टादश संविभज्य विद्याः श्रुती दध्रतुरर्धमर्धम् ॥
कर्णान्तरुत्कीर्णगभीरलेखः किं तस्य संख्यैव न वा नवाङ्कः ॥ 7.63 ॥
जीवातु–अस्या इति । अस्याः श्रुती कर्णौ अष्टादश विद्याः देवेदाङ्गादिकानि वेद्यस्थानानि संविभज्य द्विधाकृत्य यदर्धमर्यं दध्रतुः बिभ्रतुः । कर्णस्यान्तर्गर्भे उत्कीर्ण उत्पादितः गभीरो दूरगतो लेखोऽवयवविन्यासः
तस्यार्धस्य सङ्ख्यैव मूर्ता नवसङ्ख्यैव न किम् । यद्वा नवानामङ्को नवाङ्को बालङ्ख्याचिह्नं वा न भवति किम् । भवतृयेवेत्यर्थः । उत्प्रेक्षा ॥ 7.63 ॥
अन्वयः–अस्याः श्रुती अष्टादश व़िद्याः संविभज्य यत् अधर्पभ् अर्धं दध्रतुः, किं तस्य कर्णान्तरुत्कीर्णगभीरलेखः नवाङ्कः एव संख्यास न वा ? ॥ 7.63 ॥
मन्येऽमुना कर्णतामयेन पाश्द्वयेन च्छिदुरेतरेण ॥
एकापिाशं वरुणं विजिग्येऽनङ्गीकृताऽऽयासतती रतीशः ॥ 7.64 ॥
जीवातु–मन्य इति । रतीशो रतिपतिः अमुना कर्णलतामयेन कर्णपाशरूपेण च्छिदुरादितरेण च्छिदुरेतरेणाभङ्गुरेण । ‘विदिभिदिच्छिदेः कुरच्’ इति कर्मकर्तरि कुरच् । पाश्द्वयेन पाशयुधयुग्मेन । ‘विदिभिदिच्छिदेः कुरच्’ इति कर्मकर्तरि कुरच् । पाशद्वयेन पाशो यस्य तमेकाकिपाशम् । वरुणमनङ्गीकृता परिहृता, आयासततिः प्रयासपरम्परा येन सोऽनायासः सन् विजिग्ये जिगाय । मन्य इतृयुत्प्रेक्षायाम् । ‘विपराभ्यां जेः’ इत्यात्मनेपदम् । अधिकसाधनेनाल्पसाधनः सुजय इति भावः ॥ 7.64 ॥
अन्वयः–मन्ये अनङगीकृतायाससती रतीशः, अमुना कर्णलतामयेन द्विदुरेतरेण पाशद्वयेन एकाकिपाशं वरुणं विजिग्ये ॥ 7.64 ॥
आतृमेव तातस्य चतुर्भुजस्य जातश्चतुर्दोरुचिरः स्मरोऽपि ॥
तच्चापयोः कर्णलते भ्रु वोजृर्ये वंशत्वगंशौ चिपिटे किमस्याः ॥ 7.65 ॥
जीवातु-आत्मेति । चतुर्भु जस्य चतुर्बाहोः तातस्य स्वजनकस्य विष्णोरात्मा स्वरूपमेव जातः । ‘आत्मा वै पुत्रनामासि’ इति श्रुतेः स्मरोऽपि चतुर्दोभिः चतुर्बाहुभिः रुचिरः तस्य चतुर्बाहोः स्मरस्य चापयोरस्या भ्रुवोः अस्या एव कणौ लतेव वंशस्य त्वक्सारस्य त्वगंशौ त्वग्भागमयो चिपिटे अनते ऋजू इत्यमरः । ‘इनच्पिटच्चि’ इति नेः पिटच्प्रत्यये नेश्चिरादेशः । नासान्तवाचिना तत्त्वमात्र लक्ष्यते । ज्ये मौव्यौ किम् । ‘मौर्वी ज्या शिञ्जनी गुणः’ इत्यमरः । अत्र स्मरस्य चतुर्भुजत्वं ततो भैमीभ्रुवोस्तच्चापयुगत्वं तत्कर्णयोरेव ज्यात्वं च उत्प्रेक्ष्यते ॥ 7.65 ॥
अन्वयः–चतुभुंजस्य तातस्य आत्मा एव आतः स्मरः अपि चतुर्दोरुचिरः, किं तच्चापयोः असयाः भ्रुवोः कर्णलते वंशत्वगंशौ चिपिटे ज्ये ? ॥ 7.65 ॥
ग्रीवाद्भुतैवावदुशोभितापि प्रसाधिता माणवकेन सेयम् ॥
आलिङ्ग्यतामप्यवलम्बमाना सरूपताभागखिलोर्ध्वकाया ॥ 7.66 ॥
जीवातु–ग्रीवेति । या ग्रीवा वदुना माणवकेन शोभिता अलकृता न भवतीत्यवदुशोभिता । तथापि माणवकेन वदुना प्रसाधितेति विरोधः । ‘अपिविरोधे’ । अवदुशोभिता कृताटिकालंकृता । ‘अवदुर्घाटा कृकाटिका’ इत्यमरः । ‘माणवकेन विंशतिसरेण मुक्ताहारेण प्रसाधितेति विरोधः । विंशतिसरा माणवको1़ल्पत्वात्’ इति क्षीरस्वामी । ‘भवेन्माणवको हारभेदे बाले कुपूरुषे’ इत्यभिधेयः । किञ्च, आलिङ्ग्यतामालिङ्गनीयत्वमलम्बमानाप्याश्रयन्त्यपि सरूपताभाक् यारूप्ययोगी अखिलोऽन्यून ऊर्ध्वक आलिङ्ग्यत्वम् इति भावप्रधानो निर्देशः । यस्य सा । ‘अङ्क्यालिङ्ग्योर्ध्वकास्त्रयः’ इत्यमरः । ‘हरीतक्याकृतिस्तृवङक्यो यवमध्यस्तथोर्ध्वकः । आलिङ्ग्यश्चैव गोपुच्छा मध्यदक्षिणवामगा ॥ ‘इति च । आलिङ्ग्योऽप्यूर्ध्वकइति विरोधः । आलिङ्ग्यतामालिङ्गनीयत्वमूर्ध्वक ऊर्ध्वभाग इत्यविरोधः । सेयं ग्रीवाद्भुतैवोक्तविरोधादुक्तलक्षणयोगित्वाच्चेति भावः । अत्र विरोधाभासयोः संसर्गात् उजातीयसंसृष्टिः
॥ 7.66 ॥
अन्वयः–सा इयं ग्रीवा अद्भुता एव, वा यवदुशोभिता अपि माणवकेन प्रसाधिता, आलिङ्ग्यताम् अवलम्बमाना अपि सरूपताभागखिलोर्ष्वकाया ॥ 7.67 ॥
कवित्वगानप्रियवादसत्यान्यस्या विधातास न्यधिताभिकण्ठे ॥
रेखात्रयन्यासमिषादमीषां वासाय सोऽयं विबभाज सीमाः ॥ 7.67 ॥
भावः । कवित्वं च गानं च प्रियवाश्च सत्यं च तानि चत्वारि न्यधित निहित वान् । सोऽयं विधाता
अमीषां कवित्वादीनां चतुर्णां वासाय कण्ठे असङ्कीर्णस्थितये रेखात्रयन्यासमिषात् कमृबुग्रीवा त्रिरेखा सती लक्ष्मसम्पत्तिरिति भावः । सीमा मर्यादाप विबभाज मध्यरेखात्रयविन्यासेन चतुर्धा विभक्तवान्, अविवादयेति भावः । अत्र ग्रीवागतभाग्यरेखात्रये सीमाविभागचिह्नत्वमुत्प्रेक्ष्यते ॥ 7.67 ॥
अन्वयः–विधाता अस्याः अभिकण्ठे कवित्वगानप्रियवादसत्यानि न्यधित, सः अयम् अमीषां वासाय रेखात्रयन्यासमिषात् सीमाः विबभाज ॥ 7.67 ॥
बाहू प्रियाया जयतां मृणालं द्वन्द्धे जयो नाम न विस्मयोऽस्मिन् ॥
उच्चेस्तु तच्चित्रममुष्य भग्नस्यालोक्यते निर्व्यथनं यदन्तः ॥ 7.68 ॥
जीवातु–बाहू इति । प्रियाया बाहू मृणालं जयतां नाम । जयतेर्लोटितसस्तामादेशः । अस्मिन् द्वनद्वे युग्मे कलहे च । ‘द्वन्द्वं कलहयुग्मयोः’ इत्यमरः । जयो नाम विस्मयोऽद्भुतो न, किंतु भग्नस्य जितस्यामुष्य मृणालस्य अन्तर्गर्भे अन्तःकरणे च व्यथनस्याभावो निर्व्यथनमव्ययं छिद्रं च ‘छिद्रं निर्व्यथनं रोकम्’ इत्यमरः । अर्थाभावे अव्ययीभावः । यद्विलोक्यते तदुच्चैर्महच्चित्रं भग्नोऽप्यव्यथ इति विरोधात् । छिद्रं विलोक्यत इत्यविरोधः । मृणालस्यान्तश्छिद्रत्वात् । विचरोधाभासोऽलङ्कारः ॥ 7.68 ॥
अन्वयः–प्रियायां बाहू मृणालं अयताम्, अस्मिन् द्वन्द्वे जयः नाम न विस्मयः, उच्चैः तु त्रिं तत्, यत् भग्नस्य अमुष्य अत्तः निर्व्यथनम् आलोक्यते ॥ 7.68 ॥
अजीयतावर्तंशुभंयुनाभ्.यां दोर्भ्यां मृणालं किमु कोमलाभ्याम् ॥
निस्सूत्रमास्ते घनपङ्कमृत्सु मूर्तासु नाकीर्तिषु तन्निमगनम् ॥ 7.69 ॥
जीवातु–अजीयतेति । आवर्तोऽम्भसां भ्रमः स इव शुभंयुः शुभवती नाभिय्रस्याः सा । तया भैम्या । ‘शुभंयुस्तु शुभान्वितः’ इत्यमरः । ‘अहंशुभंयोर्युम्’ इति शुभमिति मकारान्ताव्ययान्मत्वर्थीयो युस्प्रत्ययः । कोमलाभ्यां मृदुभ्यां दोर्भ्यां भुजाभ्यां मृणालमजीयत किमु मार्दवगुणेन जितं किमित्युत्प्रेक्षा । कुतः, घनासु सान्द्रासुं पङ्करूपासु मृत्स्वेव मूर्तासु मूर्तिमतीष्वकीर्तिषु तन्मृणालं निमग्नं निस्सूत्रं निर्व्यवस्थं निर्मर्यादं नास्ते किं काकुः अपराजितत्वे कथमकीर्तिपङ्कपात इति भावः ॥ 7.69 ॥
अन्वयः–आवर्तशुभंयुनाभ्यां कोमलाभ्यां दापेर्भ्यां मृणालम् अजीयत निःसूत्रं तत् किमु धनपङ्कमृत्सु मूर्तासु अकीर्त्तिषु निमग्नं न आस्ते ? ॥ 7.69 ॥
रज्यन्नखस्याङ्गुलिपञ्चकस्य मिषादसौ हैङ्गुलपह्मतूणे ॥
हैमैकपुङ्खास्ति बिशुद्धपर्वा प्रियाकरे पञ्चशरी स्मरस्य ॥ 7.70 ॥
जीवातु-रज्यदिति । रज्यन्तः स्वभावरक्ताः नखा यस्य तस्य । ‘कुषिरजोः प्राचां श्यन् परस्मैपदं च’ । अङ्गंलिपंचकस्य मिषात् असो पुरोवर्तिनी हैमाः सौवर्णा एके केवला असाधारणाः पुङ्खा कर्तर्याया्या मूलप्रदेशा यस्याः सा । ‘कर्तरी पुङ्ख’ इति यादवः । विशुद्धपर्वा निव्रणग्रन्धिः सरलग्रन्थिरित्य?र्थः । स्मरस्य पंचशसरी शरपंचकम् । समाहारे द्विगोर्ङीप् । प्रियाकरे भैमीपाणावेव डिंङ्गुलेन रक्तं हैङ्गुलं तस्मिन्नेव पह्मतेणे ?अस्ति वर्तत इत्युत्प्रेक्षा ॥ 7.70 ॥
अन्वयः–रज्यन्नख्स्य अङ्गुलिपञ्चकस्य मिषात् हैमैकपुङ्खा विशुद्धपर्वा असौ स्मरस्य पञ्चशरी हैङ्गुलनपक्ष्मतूणे प्रियाकरे अस्ति ॥ 7.70 ॥
अस्याः करस्पर्शगार्धिऋद्धिर्बालत्वमापम् खलु पल्लवो यः ॥
भुयोऽपिनामाधरसाम्यागर्वं कुर्वन् कथं स न प्रवालः ॥ 7.71 ॥
जीवातु-अस्या इति । यः पल्लवः किसलयः अस्याः करेण स्पर्शनं गृध्नातीति तद्गार्धिनी ऋद्धिः कान्तिर्यस्य स कृतस्पर्धः सन्नित्यर्थः । ‘ऋत्यक’ इति प्रकृतिभावः । आलत्वं शिशुत्वं प्रतृयग्रत्वं मूर्खत्वं चापत् खलु । ‘मूर्खेऽर्भकेऽपि वालः स्यात्’ इत्यमरः । अल्पो1़धिकस्पर्धी मूर्खो भवतीति भावः । भूयोऽपि नाम पुरपि किल मूर्खत्वं प्राप्स्यतीत्यर्थंः । अधरसाम्येन गर्वं कुर्वन् अधरसाम्याभिमानं कुर्वन् सपल्लवः प्रवालः प्रवालशब्दवाचः बवयोरभेदात् प्रकर्षेण बालश्चकथं वा नास्तु न स्यात् ? स्यादेवेत्यर्थः । अल्पोधिकतरस्पर्धीं त्वतिमूर्खं इति भावः । अधिकतरश्च करादधररतिसर्वस्वत्वात् । तथा चाधरसांम्यं तावदास्ताम् । पवल्लवस्य
करसाम्यमपि दूरादधररतिसर्वस्वत्वात् । तथा चाधरसांम्यं तावदास्ताम् । पल्लवस्य करसाम्यमपि दूरापास्तमित्यर्थः। ततश्च प्रवालशब्दस्य पल्लवप्रवृत्तिमित्तमप्येतदेवेति भावः ॥ 7.71 ॥
अन्वयः–यः पल्लवः अस्याः करस्पर्शनगधिऋद्धिः बालत्वं खलु आपत्, भूयः अपि नाम अधरसाम्यगर्वं कुर्वन् सः प्रवालः कथं वा न अस्तु ? ॥ 7.71 ॥
अस्यैव सर्गाय भवत्करस्य सरोजसृष्टिर्मम हस्तलेखः ॥
इत्याह धाता हरिणेक्षणायां किं हस्तलेखीकृतया तथास्याम् ॥ 7.72 ॥
जीवातु-अस्येति । अस्य भवत्करस्य भवत्याः पराणेः सर्गायैव सरोजसृष्टिः मम हस्तलेयो रेखाभ्यास इति विधाता अस्यां हरिणेक्षणायां भैम्यां हस्तलेखी कृतया अभ्यासीकृतया हस्तकृपह्मरेखीकृतया च तया सरोजसृष्ट्या करणेनाह किम् ? भैम्यै कथय?ति किमित्युत्प्रेक्षा ॥ 7.72 ॥
अन्वयः–घाता अस्यां हरिणेक्षणायां हस्तलेखीकृतया तया किम् इति आह–अस्य भवत्करस्य सर्गाय एव सरोजसष्टिः मम हस्तलेखः ? ॥ 7.72 ॥
कि नर्मदाया मम सेयमस्या दृश्याऽभितो बाहुलता मृणाली ॥
कुचौ किमुतृतस्थतुरन्तरीपे स्मरोष्मशुष्यत्तरबाल्यवारः ॥ 7.73 ॥
जीवातु–किमिति । स्मरोष्मणा स्मरसन्तापेन शुष्तृतरमतिशुष्यत् । बाल्यमेव वाः वारि यस्यास्तस्य भैम्या एव नर्मदायाः क्रीडाप्रदायाः रेवायाश्च सम्बन्धिनी । ‘रेवचा तु नर्मदा’ इत्यमरः उभयतो टृश्या सेयं बाहुलता मृणाली विसलता किम् ? अत्र नर्मदाया विधेयप्राद्यान्यातृ मृणात्याः साक्षात् सम्बन्धात् ‘अभितः परितः’ इत्यादिना द्वितीया नास्ति । कुचावेवान्तरीपे अपामन्तस्तटे ‘द्विपोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटमृ’ इत्यमरः । ‘सुप्सुपा’ इति समासः । ‘ऋक-पूः’ इत्यादिना समासान्तोऽकारः । ‘द्व्यन्तरुवसर्गेभ्योऽप ईत्’ उत्तस्थतुरुत्थितौ किम् ? ऊर्ध्वकर्मत्वात् परस्मैपदं रूपकोज्जीविता एत्प्रेक्षा ॥ 7.73 ॥
अन्वयः–स्मरोष्मशुष्यत्तरबाल्यवारः मम नर्मदायाः अस्याः अभिताः टृश सा इयं किं बाहुलता मृणाली, कुचौ किम् अन्तरीपे उत्तस्थतुः ? ॥ 7.73 ॥
तालं प्रभुः स्यादनुकर्तृमेतावुत्थानसुस्थौ पतिततं न तावत् ॥
परं च नाश्रित्य तरुं महान्तंकुचौ कृशङ्ग्याः स्वत एव तुङ्गौ ॥ 7.74 ॥
जीवातु–तालमिति । तावत् पतितं च्युतं तालफलं कर्तृ उत्थानेन ऊर्ध्वावसथानेन सुस्थौ सुप्रतिष्ठौ अपतितावित्यर्थः । एतौ कुचौ अनुकततुं न प्रभुः समर्थं न स्यात्, पतिताऽपतितयोः कुतः साम्यमिति भावः । परं पतितं च महान्तमतितुङ्गतरुमाश्रित्य, सदिति शेषः । स्वत एव तुङृगासै कृशाङ्ग्याः कुचौ अनुकर्तुं न प्रभुः । कुतः स्वाभाविकौ यदित्यर्थंः । अस्वाभाविकौन्नत्ययोः कथं साम्यमिति भावः ॥ 7.74 ॥
अन्वयः–पतितं तावत् तालम् एतौ उत्थाननसुस्थौ अनुकर्त्तु प्रभु न स्यणत्, परं च महान्तं तरुम् आश्रितृय सवतः एव तुङ्गौ कृशाङ्ग्याः कुचौ न ॥ 7.74 ॥
एतत्कुचस्पर्धितया घटसय ख्यातस्य शास्त्रेषु निदर्शनत्वम् ॥
तस्माच्च शिल्पान्मणिकादिकारी प्रसिद्धनामाजनि कुम्भकारः ॥ 7.75 ॥
जीवातु–एतदिति । एतत्कुचस्पर्धितया यातस्य लोके प्रसिद्धस्य घटस्य कुम्भस्य शास्त्रेषु निर्दनत्वं तत्र तत्र टृष्टान्तत्वमजनि । किंच माणिकादिकारी अलिञ्जरादिमहाभाण्डनिर्माता कुलालः ‘अलिञ्जरः स्यान्मणिकः’ इत्यमरः । तस्मादेव शिल्पात् घटनिर्माणात् कुम्भकार इत्येव प्रसिद्धनामाजनि । महत्संसंर्गं इव तत्सङ्धर्षोऽपि ख्यातिकर इति भावः ॥ 7.75 ॥
अन्वयः– एतत्कुचस्वर्द्धिमया ख्यातस्यघ्ज्ञटस्य शात्रेषु निदर्शनत्वम् अजनि,मणकादिकारी तस्मातृ शिल्पात् कुम्भकारः प्रसिद्धनामा ॥ 7.75 ॥
गुच्छासलयस्वच्छतमोदविन्दुवृन्दाभमुक्ताफलफेनिलाङ्के ॥
माणिवयहारस्य विदर्भसुभ्रूपयोधरे रोहति रोहितश्रौः ॥ 7.76 ॥
गुच्छेति’ । माणिक्यमयस्य हारस्य रोहति रोहितश्रीः लोहिता कन्तिः । विदर्भसुभ्रूपयोधरे भैमीकुचे
रोहन्ति प्रादुर्भवन्ति । किम्भूते-गुच्छो हारविशेष आलस्य आश्रयो येषां तानि स्वच्छतमानि निर्मलतास ( मा ) णि उदबिन्तुवज्जलबिन्दुसमुहवदाभा येषां तानि मुक्ताफलानि तैः फेमीकुचौ शोभे?ते इति भावः । अथ च पयोधरे मेधे रोहितश्रीः ऋजुशक्रधनुःशोभा प्रादुर्भवतीत्युक्तिः । ‘हारेभेदा याष्टिभेदाद् गच्छगुच्छगुच्छार्द्धगोस्तनाः’ इन्द्रायुधं शक्रधनुस्तदेवऋजुरोहितम्’ ‘रोहिते लोहि रक्तः’ इत्यमरः । फेनिलः, मत्वर्थ ‘फेनादिलच्च’ इतीलच् ॥ 7.76 ॥
अन्वयः–माणिवयहारज्ञस्य रोहि?तश्रीः गुच्छालस्वच्छतमोदबिन्दुवृन्दाभमुक्ताफलफनिलाङ्के विदर्भसुभ्रूपयोधरे रो?हति ॥ 7.76 ॥
निःशङ्कसंकोचितपंकजोऽपमस्यामुदोतो मुखमिन्दुबिम्बः ॥
चित्रं तथापि स्तनकोकपुग्मं न स्तोकमप्यप्यञ्चति विप्रयोगम् ॥ 7.77 ॥
जीवातु–निःशङ्केति । निःशङ्कं यथा तथा सङ्केचितानि मुकुलितानि पङ्कज्ञानि येन सोऽयं मुखमेवेत्दुबिम्बोऽस्यां भैम्यामुदीत उदितस्तथापीन्दूदयोऽपि स्तनावे कोकौ चर्कवाकौ । ‘कोकश्चक्रश्चक्रवाकः’ इत्यमरः । तयोर्युग्मं स्तोकमल्पम?पि विप्रयोगं नाञ्चति न गच्छति चित्रऋं मुखेन्दूदयेऽपि कुचकोकयोरवियोग इति रूपकोतृथापितो विराधाभास इति सङ्करः ॥ 7.77 ॥
अन्वयः–मुखम् अस्याम् उदीतः अयं निःशङ्कोचितपाङ्कजः इनदुबिम्बः, तथापि स्तनकाकयुग्मं स्तोकम् अपि विप्रयोगं न अञ्चति–इति चित्रम् ॥ 7.77 ॥
आभ्यां कुचाभ्यामिभकुम्भयोः श्रीरादीयतेऽसावनयोः क्व ताभ्याम् ॥
भयेन गोपायित मौक्तिकौ तौ प्रव्यक्ताभरणाविमौ यत् ॥ 7.78 ॥
जीवातु–आभायामिति । आभ्यांकुचाभ्याभिभकुमृभयोः क्षीः शोभासम्पच्च, आदीयते गृह्मते ताभ्याभिभकुम्भाभ्यामनयोः कुचयोः असौ श्रीः क्वादीयते ? न क्वापि इत्यर्थः । यत् यस्मात् तौ इभकुम्भौ भयेन कुचभीत्यागोपायितमौक्तिकौ अन्तर्गप्तमुक्ताफलौ । गोपायतेः कर्मणि क्तः । इमौ कुचकुम्भौ प्रव्यक्तं प्रकाशिकौ अन्तर्गप्तमुक्ताफलौ । गोपायतेः कर्मणि क्तः । इमौ कुचकुम्भौ प्रव्यक्तं प्रकाशितं मुक्ताभरणं याभ्यां तौ । यथा राज्ञा हृदतधनो भयाद्धनशेषं गोपायति राजा तु प्रकाशयति तद्वदित्यर्थः । इभकुम्भश्रिय आदानादखण्डितस्वश्रीकत्वाच्च ताभ्यामप्यधिकौ कुचकुम्भाविति भावः ॥ 7.78 ॥
अन्वयः–आभ्यां कुचाभ्याम् इभकुम्भयोः श्रीः क्व आदीयते, ताम्याम् अनयोः असौ न; यता तौ भयेन गोपायित मौक्तिकौ, इमौ प्रव्यक्तयुक्ताभणौ ॥ 7.78 ॥
कराग्रजाग्रच्छतकोटिरर्थी ययोरिमौ मौ तुलयेत् कुचौ चेत् ॥
सर्व तदा श्रीफलमुन्मदिष्णु जातं वटीमप्यधुना न लबधुम् ॥ 7.79 ॥
जीवातु-कराग्रेति । कराग्रे हस्तस्याग्रे जाग्रत् प्रकाशमानः शतकोटिः वज्रंतत्सङ्ख्यंधनं च यस्य स महेन्द्रो ययोः कुचयोः कर्मणोरर्थी ताविमौ ताविमौ महेन्द्राभ्यचयविवक्षायां स्त्री-लिङ्गप्रयोगः । ‘स्त्री स्यात्काचिम्मृणाल्यादिविवक्षापचये यदि’ इत्यमराभिधानात् । लब्धुं न जातं न शक्तं निःस्वमित्यर्थः । सर्वं श्रीफलं बिल्वफलं कर्तृ । ‘बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि’ इत्यमरः । तुलयेदात्मनोपचिनुयाच्चेत् तदा उन्मदिष्णु उन्मार्दि स्यादित्यर्थः । ‘अलङ्कृञ्’ इत्यादिना इष्णुच् । उपमातीते वस्तुनि उपमात्वाभिमानः । तथा धनिर्ककलभ्यो वस्तुनि निःस्वस्य लिप्सा चोन्माद एवेत्यर्थंः ॥ 7.79 ॥
अन्वयः–कराग्रजाग्रच्छतकोटिः पयोः अर्थी उन्मदिष्णु सर्व श्रीफलं तौ इमौ कुचौ तुलयेत् येत् तदा अधुना वटीम् अपि लब्धं न जातम् ॥ 7.79 ॥
स्तनातटे चन्दपनिङ्किलेऽस्या जातस्य यावद्युवमानसानाम् ॥
हारसासवयलीत्नमयूखाराकाराः स्फुरन्ति स्खुरन्ति स्खलनस्य रेखाः ॥ 7.80 ॥
जीवातु–स्तनेति । चन्दनेने पङ्किले पङ्कवति । ‘पिच्छादित्वादिलच्’ अस्या स्तनयोः अतटे प्रपाते ‘प्रातास्त्वतटो भगुः’ इतृयमरः । जातस्य यावन्ति युवमानसानि तेषां सर्वेषां सम्बन्धिनः साकल्पार्थस्य यावच्छब्दस्य विशेषणसमासः । स्खलनस्य रेखा गमनार्गा हारावलीरत्नानां मधूखधारा रश्मिपङ्क्तयः
एवाकारायासां ताः सत्यः स्फुरन्ति रत्नमयूखाधारासु युवमानसस्ख्लनरेखाङ्कत्वमुत्प्रेक्ष्यते ॥ 7.80 ॥
अन्वयः–अस्याः चन्दनपङ्किले स्तनातटे जातस्य यावद्युवमानसानां स्खलनस्य रेखाः ह्मारावलीरत्नमयूखधाराकाराः स्फुरन्ति ॥ 7.80 ॥
क्षीणेन मध्येऽपि सतोदरेण यत् प्राप्यते नाक्रमणं वलिभ्यः ॥
सर्वाङ्गशुद्धौ तदनङ्गराज्ये विजुम्भितं भीमभुवीह चित्रम् ॥ 7.81 ॥
जीवातु–क्षीणेनेति । इहास्यां भीमभुवि भैम्यां भयङ्करस्थाने च क्षीणेन कृशेन दुर्बलेन च मध्ये अवलग्ने प्रबलशुत्रमध्ये च सता वसतापि उदरेण त्रिवस्यधोभागेन अत वलिभ्यः त्रि?वलिम्भः । वबायोरभेदात् बलिम्यो बलवदभ्यश्य सकाशात् आक्रमणमभिव्याप्तिरभिभवश्च न प्राप्येत इति यत् तदनाक्रमणं चित्रं, बलिसमीपे दुर्बलस्यानाक्रमणं चित्रमित्यर्थः । किञ्च् सर्वेषामज्ञानां करचरणादीनां स्वाम्यमात्यादीनां च शुद्धौ सत्यामनङ्गस्य अङ्गहीनस्य कामस्य च राज्ये विजृम्भितं तदिदन्यच्चित्रमित्यर्थः । अत्र वाच्यप्रतीयमानयोरभेदाध्यवसायाद्विरोधाभासः ॥ 7.81 ॥
अन्वयः–मध्ये मध्ये सता अपि क्ष्ज्ञीणेन उदरेण वलिम्यः यत् आक्रमणं न प्राप्यते तत् सर्वाङ्गशुद्धौ इह भीमभुवि चित्रम् कृश उदर द्वारा त्रिबलियों से जो ॥ 7.81 ॥
मध्यं तनुकृत्य यदीदमीयं वेधा न दध्यात कमनीयमंशम् ॥
केन स्तनौ संप्रति योवनेऽस्याः सृजेदनन्यप्रतिमाङ्गदीप्तेः ॥ 7.82 ॥
जीवातु-मध्यमिति । वेधा इदमीयमेतदीयं मध्यमवलग्नं तनकृत्य?निर्माणकाले ह्रासयित्वा कमनीयमंशमुद्धृतं भागं न दध्यात् यदि क्वचिन्न स्थापयेद्यदि संप्रति यौवने अनन्यप्रतिमाऽन्योपमाङ्गदीप्तिर्यस्यास्तस्यः भैम्याः स्तनौ केन सृजेत ? नूनमुदरोद्धृतसारेण अस्याः स्तनौ हनिर्मितवानित्युत्प्रेक्षा ॥ 7.82 ॥
अन्वयः–वेधाः यदि इदमीयं मध्यं तनूकृत्श्य कमनीयम् अंशं न दध्यात् सम्प्रति यौवने अनन्यप्रतिमाङ्गदीप्तेः अस्याः स्तनौकेन सृजेत् ? ॥ 7.82 ॥
गौरीव पत्य सुभया कदाचित् कर्त्रीयमप्यर्धतनूसमस्याम् ॥
इतीव मध्ये निदधे विधाता रोमावलीमेचकसूत्रस्याः ॥ 7.83 ॥
जीवातु–गौरीति । सुभगा भर्तृवल्लभा इयं दमयन्ती कदाकचत् गौरीव पत्मा भर्त्रा सह अर्धतनूसमस्याम्, अर्धाङ्गसङ्खट्टनां कर्त्री करिष्यतीति मत्वेति शेषः । विधाता अस्याः मघ्ये अर्धाङृगमधृये रोमावलीमेव मेचकूत्रसीमानिर्णयार्थं नीलसूत्रं निदषे इव निहितवान् किमित्य्रप्रेक्षा ॥ 7.83 ॥
अन्वयः–इयं सुभगा कदाचित् गौरी इव पत्या अर्द्धतनूसमस्यां कर्त्रीइति विधाता अस्याः मध्ये रोमावलीमेचकसूत्रं निदधे इव ॥ 7.83 ॥
रोमावलीरज्जुमुरोजकुम्भौ गम्भीरमासद्य च नाभिकूपम् ॥
मद्ददृष्टितृष्णा विरमेद्यदि स्यान्नैषां बतैषा सिचयेन गुप्तिः ॥ 7.84 ॥
जीवातु-रोमावलीति । मद्टृष्टेस्तृष्णा पिपासाऽपि रोमावलीमेव रज्जुं उरोजावेव कुम्भौ तथा गम्भीरं नामिभमेव कुम्भै तथा गम्भीरं नाभिमेव कुपञ्चासाद्य लब्ध्वा तदा विरमेत् शम्येतृ । अमीभिरुपायैः लावण्यामृतमुद्धृत्य सुष्ठु पीत्वेत्यर्थः । एषां साधनानामेषा सिचयेत वस्त्रेण ‘वस्त्रन्तु सिचयः पटः’ इति हलायुधः । गुप्तिश्छादनं न स्याद्यदि । बतेति खेदे । रूपकालङ्कारः ॥ 7.84 ॥
अन्वयः–मद्दृष्टि तृष्णा रोमावलीरज्युम् उरोजकुम्भै गम्भीरं नाभिकूपम् आसा़ विरमेत् यदि बत एषाम् एषां सिचयेन गुप्तिः न स्यात् ॥ 7.84 ॥
उन्मूलितालानबिलाभनाभिष्छिन्नस्खलच्छृङ्खलरोमदामा ॥
मत्तस्य सेयं मदनद्विपस्य प्रस्वापवप्रोच्चकुचास्तु वास्तु ॥ 7.85 ॥
जीवातु-उन्मूलितेति । उन्मूतिजमुत्पाटनमालानं स्तम्भो यस्मात् बिलात् तद्बिलं तदाभा तन्निभा नाभिर्यस्याः सा। छिन्नं त्रुटितं त्रुटितं स्खलच्छृङ्कृङ्खलमिव रोमदाम रोमावलिर्यस्याः सा । प्रस्वापस्य वप्रौ
?निद्राहौ मृत्कूटाविव उच्चौ कुचौ यस्या स इयं दमयन्ती मतृतस्य मदनद्विपस्य वास्तु वसतिरस्तु स्यात् । औपम्यगर्भविशेषणं रूपकम् ॥ 7.85 ॥
रोमावलिभ्रूकुसुमैः स्वमौर्वीचापेषुभिर्मध्यललाटमूर्धिन ॥
व्यस्तैपि स्थास्नुभिरेतदीयैर्जैत्रःस चित्रं रतिजानिवीरः ॥ 7.86 ॥
जीवातु–रोमावलीति । रतिर्जाया यस्य स रतिजानिः कामः स एव वीरः । ‘जायाया निङ्’ । मध्ये ललाटे मूर्धिन न मध्यललाटमूध्नि । प्राण्यङ्गत्वात् द्वन्द्वे नपुंसकता । तस्मिन् व्यस्तरसहितैः स्थास्नुभिः स्थायिभिः । ‘ग्लाजिस्थश्च ग्स्नुः’ । एतदीयै रोमावली च भ्रुवौ व कुसुमानि च तैरेव स्वस्व मौर्वीचापमिषवश्च तैर्जैतैव जैत्रो जयशीलः । प्रज्ञादित्वात् स्वार्थेऽणु प्रत्ययः । चित्रं भिन्नदेशस्थैरपि चापादिभिर्विजयत इत्याश्चर्यमित्यर्थः । अत एव विरूपघटनारूपा विषमलाङ्कारः ॥ 7.86 ॥
अन्वयः–सः रतिजानिवीरः मध्यललाटमूर्धिन व्यस्तैः स्थास्नुभिः अपि एतदीयैः रोमावलिभ्रुकुसुमैः स्वचापेषुभिः जैत्रः, चित्रम् ॥ 7.86 ॥
अस्या खलुग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेशात् ॥
स्मरप्रशस्तीराजताक्षरेयं पूष्ठस्थली हाटकपट्टिकायाम् ॥ 7.87 ॥
जीवातु–अस्या इति । अस्याः भैम्याः भैम्याः पष्ठस्थली कायपश्चादभागः । ‘पृष्ठं तु चरमं तनोः’ इत्यमरः । सैव हाटकपट्टिका ‘हेमफलकं तस्यां ग्रन्यिथना बन्धेन निबद्धेषु संयतेषु केशेषु मल्लीकदम्बं मल्लीकुसुमनिकुरम्ब तत्प्रतिमिम्बस्य वेशात् प्रवेशाद्धेताूः इयं रजताक्षरा रजतमयवर्णा स्मरप्रशस्तिः स्मरवर्णना सलु नैर्मल्यात् पृष्ठफलप्रतिबिम्बितानि धम्मिल्लमल्लिकाकुसुमानि हेफलकविन्यस्ता वेशात् प्रवेशाद्धेतोः इयं रजताक्षरा रजतमयवर्णा स्मरप्रशस्तिः स्मरर्णना खलु नैर्मल्यात् पृष्ठफलप्रतिबिम्बितानि धम्मिल्लमल्लिाकुसुमानि हेमफलकविन्यस्ता राजती मदनप्रशस्तवर्णालीव भातीत्युत्प्रेक्षा ॥ 7.87 ॥
अन्वयः–अस्याः ग्रन्थिनिबद्धकेशमल्लीकदम्बप्रतिबिम्बवेशात् पृष्ठस्थलीहाटकप्ट्टिकायाम् इयं खलु रजताक्षरा स्मरप्रशस्तिः ॥ 7.87 ॥
चक्रेण विश्वं यदि मत्स्यकेतुः पितुर्जितं वीक्ष्य सुदर्शनेन ॥
जगज्जिगीषत्यमुना नितम्बद्वयेन किं दुर्लभदर्शनेन ॥ 7.88 ॥
जीवातु-चक्रेणेति । मत्स्केतुः काभः सुदर्शनेन सुदर्शनाख्येन सुलभदर्शनेन च पितुः विष्णोः चक्रेण श्विं जितं वीक्ष्य यदि वीक्ष्य किल अमुना दुर्लभदर्शनेन नितम्बद्वयेन कटीफलकद्वयेनेज चक्रेण जगज्जिगीषति चेतुमिच्छति किमित्श्युत्प्रेक्षा ॥ 7.88 ॥
अन्वयः–मत्यस्यकेतुः पितुः सुदर्शनेने चक्रेणविश्वं जितं वीक्ष्य यदि किम् अमुना दुर्लभदर्शनेन नितम्बद्वयेन जगतृ जिगीषति ? ॥ 7.88 ।
रोमावलीदण्डनितम्बचक्रे गुणञ्च लावण्यजलञ्च बाला ॥
तारुण्यमूर्तेः कुचकुम्भकर्तुर्बिभर्ति शङ्के सहकारिचक्रम् ॥ 7.89 ॥
जीवातु-रोमावतलीति । बला दमयन्ती तारण्यमेव मूर्तिः स्वरूपं यस्य तस्य यौवनाख्यास्येत्ययर्थः । कुचावेव कुम्भौ तयोः कर्तुः निर्मातुः निर्मातुः कूम्भकारस्य रोमावल्येव दण्डः स च नितम्ब एव चक्रञ्च ते गुणः सौन्दर्यादि?दिः तमेव गुणं सूत्रञ्चेव दण्डः स च निताम्ब एवच चक्रञ्च सकारिकारचक्रं सहकारिकारणकलापं बिभर्ति शङ्के । रूपकोत्थापितेयमुतृप्रेक्षेति सङ्करः ॥ 7.89 ॥
अन्वयः–शङ्के बाला तारुण्सयूर्त्तेक्षेति कुचकुम्कर्त्तुः रोमावलीदण्डनितम्बचक्रे गुणं लावण्यजलं सहकारिचक्रं च? बिभर्ति ॥ 7.89 ॥
अङ्गेन केनापि विजेतुमस्या गवेष्यते किञ्चलपत्रम् ॥
नोचेद्विशेषामितरच्छदेभ्यस्तस्यास्तु कम्स्तु कुतो भयेन ॥ 7.90 ॥
जीवातु–अङ्गेनेति । अस्याः सम्बन्धिना केनाप्यवाच्येनाङ्गेन मदनमन्दिरेणेत्यर्थः । चलपत्रपत्रमश्वत्थदलं ‘बोधिद्रुमश्चलः’ इत्यमरः । विजेतुं गवेष्यते अन्विष्यते किमितृयुत्प्रेक्षा । ‘मार्गत्यन्विष्यति
गवेषयतृयन्विष्यति च’ इति मल्लभट्टः । नो चैन्नान्विष्यते चेत् तस्याश्वत्थपत्रस्य कुतः कस्मादन्यस्मात् भयेनेतरच्छदेभ्यःवृक्षान्तरपत्रेभ्यः, पञ्चमीविभक्तेः । विशेषादतिशयात् कम्पास्तु अस्तु स्यातृ । नान्यतृकमृपकारणं विह्म इत्यर्थः । बलिनान्विष्यमाणो दुर्बलो कम्पत इति चप्रतिसद्धम् । अत्र सामुद्रिकाः । ‘सश्वत्यदलसङ्काशं गुह्मंगूढमपि स्थितम् । यस्याः सा सुभगा नारी धन्या पुण्यैरवाप्यते’ ॥ 7.90 ॥
अन्वयः–किम् अस्याः केन अपि अङ्गेन चलपत्रपत्रं विजेतुं गवेष्यते, नो चेयत् तस्य इतरच्छदेभ्यः विशेषाद कम्पः कुता तु अस्तु ? ॥ 7.90 ॥
भ्रूश्चित्ररेखा च तिलोत्तमास्या नासा च रामृभा च यदूरुसूष्टिः ॥
दृष्टा ततः पूरयतायमेकाऽनेकाप्सरःप्रेक्षणकौतुकानि ॥ 7.91 ॥
जीवातु–भ्रुरिति । यत् यस्मात् अस्या भैम्या भ्रूश्चित्ररेख्रा अद्भुतविन्यासा अप्सराश्च, नासा नासिका तिलात् तिलकुसुमात् उत्तमा तिलोत्तमा नामाप्सरराश्च, तथा उरुसष्टिः रम्भा कदली अप्सराश्च । ‘रम्भाकदल्यप्सरसोः इति विश्वः । ततः तस्मात् मानसोत्लासान् पनयतीत्यर्थः । अत्रैकस्यानेकात्मकताविरेधाभासनात् विरोधाभासालंकारः स च श्लेषमुल इति सङ्करः ॥ 7.91 ॥
अन्वयः–यत् अस्याः भ्रूः चित्ररेखा, नासा तिलोत्तमा, ऊरुमृष्टिः च रम्भा ततः इयम् एका टृष्टा अनेकाप्सरः प्रेक्षणकौतुकानि पूरयति ॥ 7.91 ॥
रम्भापि किं चिह्नयति प्रकाण्डं न चात्मनः स्वेन न चैतदूरू ॥
स्वस्यैव येनोपरि सा दधाना पत्राणि जागर्त्यनयोर्भ्रमेण ॥ 7.92 ॥
जीवातु–रभ्येति । रम्भा कदल्यपि आत्मनः प्रकाण्डं स्कन्धं स्वेन स्वात्मना स्वमित्यर्थः । प्रकृत्यादिभ्य उपसङ्ख्यानात् तृतीया । न चिह्नयति किमेतस्या ऊरू च न चिह्नयति किं मिथो व्यत्यासपरिहाराय द्वयोरन्यतरस्यापि चिह्नं न चकार किमित्युत्प्रेक्षा । कुतः येन कारणे सा पत्राणि दलानि प्रतिपक्षोपरिधेयानि साक्षररपत्राणि चदधाना जागर्ति । अत्र सौन्दर्ये सङ्धर्षिणी रम्भापि स्वस्मिन्नेव ऊरुभ्रान्त्या पत्रावलम्बनकरणात् भ्रान्तिमदलङ्कारः । तन्मूला चोक्तोतृप्रेक्षेति तयोरङ्गाङ्गिभावेन सङ्करः ॥ 7.92 ॥
अन्वयः–किम् रम्भा अपि न आत्मनः प्रकाण्डं स्वेन, एतदुरू च न चिह्नयति येन सा अनयोः भ्रमेण स्वस्या एव उपरि पत्राणि दधानि जागर्ति ? ॥ 7.92 ॥
विधाय मूर्धानमधश्चरञ्चेन्मुच्चेत्तपाभिः स्वमसारभावम् ॥
जाड्यञ्च नाञ्चेत् कदली बलीयस्तदा यदि स्यादिदमूरुचारुः ॥ 7.93 ॥
जीवातु–विधायेति । कदली रम्भा तपोभिः तपश्चर्याभिः मूर्धानमधश्चरमधोवर्तिनं विधाय शिरोबुध्नयोरुत्तराधरभाववैपरीत्यञ्च लब्ध्वेत्यर्थंः । स्वं स्वकीयमसारभावं निःसारत्वञ्चेच्चेत् बलीयो जाड्यमेकान्तशैत्यञ्च ना़ञ्चेत् न गच्छत् । तदानीम्, इदमूरुचारुः अधः शिरस्त्वादिधार्मासम्बन्धेऽपि सम्बन्धसम्भावनया सम्बन्धोक्तेरतिशयोक्तिभेद इति सर्वस्वकारः ॥ 7.93 ॥
अन्वयः–कदली तदा इदमूरुचारुः स्यात् यदि चेत् तपोभिः मूर्द्धानम् अधश्चरं विधाय स्वम् असारभावम् मुञ्चेत्, बलनीयः जाड्यं च न अञ्चेत् ॥ 7.93 ॥
ऊरुप्रकाण्डद्वितयेन तस्याः करः पराजीयत वारणायः ॥
सुक्त ह्रिया कुण्डलनच्छलेन गोपायति स्वंमुखपुष्करं सः ॥ 7.94 ॥
जीवातु–ऊर्विति । तस्याः दमयन्स्या ऊरुप्रकाण्डयोः ऊरुश्रेष्ठयोः ऊरुस्तम्भयोर्वा द्वितयेन वारणीयो वारणसंबंधी करो हस्तः पराजीयत पराजितः, स करः ह्रिया स्वं मुखं मुखभूतं पुष्करमग्रं त्रक्त्रं पङ्कजञ्च ‘मुखं निःसरणे वक्त्रप्रारम्भोपाययोरपि । पुष्करं पुष्करं पङ्कजे व्योम्नि पयः करिकराग्रयोः’ इति विश्वः । कुण्डलनस्य भुग्नीकरणस्य च्छलेन गोपयाति विधत्ते युक्तम् । सापह्नवोत्प्रेक्षा ॥ 7.94 ॥
अन्वयः–तस्सयाः ऊरुप्रकाण्डद्वितयेन वारणीयः करः पराजितः, सः ह्रियाः स्वं मुखपुष्करं कुण्डलनच्छलेन युक्तं गोपायति ॥ 7.84 ॥

अस्यां मुनीनामपि मोहमूहे भृगुमहान् यत्कुचर्शलीशीलो ॥
नानारदाह्लादि मुखं श्रितोरुःव्यासो महाभामपि मोहं भ्रन्तिमासक्तिमिति यावत् । ऊहे तक्रयामि उत्प्रेक्षा । कुतः, यत् यस्मात् महानधिको भृगुपपातो मुनिविशेषश्च, यस्याः कुचावेव शैलौ शीलयति परिचिनो?तीति तच्छीली मुखं नानाप्रकारैः दरेर्दन्तैराह्लादयतीति तत्तथोक्तम् । अन्यत्र नारदमुनिमाह्लादिः नारदाह्लादि इत्यर्थः । महभाः महाप्रभः रतसर्गयोग्यः सुरतसम्पादनार्हः । अन्यत्र महाभारतस्य हतिहासस्य सर्गे निर्माणे योग्यः क्षमो व्यासो विस्तारो द्वैपायनश्च श्रिता ऊरू सक्थिनी येन सः श्रितोरुः । ‘सक्थिक्लीबे पुमानूरुः’ इत्यमरः । अत्र श्लेषमूलया मुनिमोहोत्प्रेक्षया मुनयोऽप्यस्यां मुह्मन्ति किमानूरुः’ इत्यमरः । अत्र श्लेषमूलया मुनिमोहोत्प्रेक्षया मुनयोऽप्यस्यां मुह्मनित किमुतान्ये इति वस्तु व्यज्यते ॥ 7.95 ॥
अन्वयः–अस्यां मुनीनाम् अपि मोह?म् ऊहे यत् महान् भृगुः कुवचशैलशीली, मुखं नानारदाह्लादि
( न अनारदाह्लादि ) महाभारतसर्गयोग्यः व्यासः श्रितोरुः ॥ 7.95 ॥
क्रमोद्गता पीवरताधिजङ्घ वृक्षाधिरूढिं विदुषी किमस्याः ॥
अपि भ्रमीभङ्गिभिरावृताङ्गं वासो लतावेष्टितकप्रवीणम् ॥ 7.96 ॥
भावः । क्रमेणानुपूर्व्यात् उद्गता उदिता पीवरता पीनत्वं वृक्षाधिरूढमाश्लेषविशेषं विदुषी किं ज्ञात्रा किम् ? ‘न लोक’ इत्यादिना षष्ठीप्रतिषेधः । किञ्च भ्रमीभङ्गिभिर्वेष्टनविशेषैः आवृताङ्गाच्छादितगात्र वासो वस्त्रमपि लतावेष्टितके आलिङ्ग?नविशेषे प्रवीर्ण किम् ? उभयत्राप्यन्यथा कथमित्थमाश्लिष्येदिति भावः । अनयोर्लक्षणमुक्तं रतिरहस्ये-‘रमणचरणमेकेनाङ्घ्रिणाक्रम्य भिन्नं श्वसितपरपादेनाश्रयन्ती तदूरुम् । निजमथ भुजमेकं पृष्ठतोऽस्यार्पयन्ती पुनरपरभुतेन प्राञ्चयन्ती तदङ्गम् । तरुमिव कामितारं चुम्बनार्थाधिरूढायदभिमषतरागात् तच्च वृक्षादिरूढम् । प्रियमनुकृतल्लीविभ्रमा वेष्ठयन्ती, द्रुममिव सरलाङ्गी मन्दसीत्का तदीयम् ॥ वदनमुचितखेदा कम्पमाचुम्बनार्थं नमयति विनदन्ती तल्लातावेष्टितं स्यात् । ’ इति ॥ 7.96 ॥
अन्वयः–अस्याः अधिजङ्धं क्रमोद्गता पीवरता किं वृक्षाधिरूढं विदुषी,भ्रमीभङ्गिभिः आवृताङ्गं वासः अपि लतावेष्टितक्रप्रवीणम् ? ॥ 7.96 ॥
अरुन्धतीकामपुरन्ध्रिलक्ष्मोजम्भद्विषद्दारनवान्विकानाम् ॥
चतुर्दशीयं तदिहोचितैव गुल्फयाप्ता यददृश्यसिद्धिः 7.97 ॥
जीवातु–अरुन्धतीति । इयं दमयंती अरुन्धती वसिषप्ठपत्नी च कामुपरन्ध्रीरतिश्च लक्ष्मीः पह्मा च जम्भद्विषद्दाराः शची च नवाम्बिका ब्राह्मीप्रभृतयो नवमातरश्च यासामटृश्यत्वसिद्धिरस्तीति प्रसिद्धिरिति भावः । तासां त्रयोदशानां चतुर्दशी इयमपि तदन्तःपातिनीत्युत्प्रेक्षा । तत् तस्मात् तदन्तःपातित्वात् इहास्यां दमयन्त्यां गुल्फौ गुल्कौ पादग्रन्थी ‘तद्ग्रन्थिधुटिके गुल्कौ’ इत्यमरः । तयो र्द्वयेनाता प्राप्ता या च सा अटृश्यसिद्धिश्च यदटृश्यसिद्धिः येयं गुल्फयोरटृश्यत्वसिद्धिरित्यर्थः । सतीति शेषः । यत्तदोर्नित्यसम्बन्धात्सा उचितैव तत् सम्बन्धिसम्बन्धिनोऽपि तद्वत् सिद्धिर्युक्तैवेत्यर्थः । गुढगुल्फत्वं स्त्रीलक्षणं तदस्यामस्तीति भावः ॥ 7.97 ॥
अन्वयः–अरुन्धतीकामुपरान्ध्रिलक्ष्मीजमृभद्विषद्दारनवापम्बिकानाम् इयम् चतुर्दशीः इह गुल्फद्वयाप्ता यत् अद्दश्यसिद्धिः तत् उचिता एव ॥ 7.97 ॥
अस्याः पदौ चारुतया महान्तावपेक्ष्य सौक्ष्मयाल्लवभावभाजः ॥
जाता प्रवालस्य महीरुहाणां जानीमहे पल्लवशब्दलब्धिः ॥ 7.98 ॥
जीवातंु–अस्या इति । चारुतया सौन्दर्यगुणेन महान्तौ अस्याः पदौ पादौ अवकद्य । ‘पादः पदङ्ध्रिश्चरणोऽस्त्रियाम्’ इत्यमरः । साक्क्ष्म्यात् तदपेक्षयाऽल्पत्वादिति भावः । लङ्ध्रिश्चरणोऽल्पत्वभाजो महीरुहाणां प्रवालस्य किसलयस्य पल्लवशब्दलब्धिः पदभ्यां लवो।द्यल्प इति व्युत्पत्त्या पल्लवसंज्ञा प्राप्तिर्जाता तानीमहे हत्युत्प्रेक्षामहे इत्यर्थः । ‘अस्मदासेर्द्वयोश्च’ इति विकल्पादेकस्मिन्नेव बहुमहे इत्युत्प्रेक्षामहे इत्यर्थं । ‘अस्मदोर्द्वश्च’ इति विकल्पादेकस्मिन्नेव बहुवचनम् ॥ 7.98 ॥
अन्वयः–जानीमहे ( यत् ) अस्थाः चारुया महान्तौ पदो अवेक्ष्य सौक्ष्म्यात् लवभावाजः महीरुहाणां
प्रवालस्य पल्लवशब्दलब्धिः जाता ॥ 7.98 ॥
जगद्वधूमूर्धसु रूपदर्पाद् यदेतयाऽधायि पदारविन्दम् ॥
तत्सान्द्रसिन्दूरपरागरागैर्ध्रुवं प्रवालप्रबलारुणं तत् ॥ 7.99 ॥
जीवातु-जगदिति । यत् यस्मात्, एमया भैम्या रूपदर्पात् सौन्दर्यगर्वात्, द्वयुभयं पदारविन्दं द्वे अपि पदारविन्द्रे इत्यर्थः । जगद्वधूमूर्धसु अधायि निहितं, घाञः कर्मणि लुङ् । ‘आतो युक्तचिण्कृतौ’ इति युगागमः । तत् तस्मात्, तेषु मूर्धसु ये सान्द्राः सिन्दूरपरागरागाः तैः प्रवालाद्विद्रुमादपि प्रबलारुणमधिकारणं ध्रुवमित्युतृप्रेक्षा ॥ 7.99 ॥
अन्वयः–एनया यत् रूपदर्पात् पदारविन्दं जगद्वधूमूर्धसु अधायि; ध्रुवं तत् तत्सान्द्रसिन्दूरपरागैः प्रवालप्रबलारुणम् ॥ 7.99 ॥
रुषारुणः सर्वगुणैजंयन्ता भैम्याः पदं श्रीः स्म विधेर्वुणीते ॥
ध्रु वं स तामच्छलयद्यतः सा भृशारुणैतत्पदभाग्विभाति ॥ 7.100 ॥
जीवातु–रुषेति । श्रीः ल्क्ष्मी रुषा पराजयक्रोधेन अरुणा सती सर्वगुणैर्जयन्त्या आत्मानमतिक्रामन्त्या भैम्याः पदं स्थानं विधेः सकाशात् वृणीते स्म वव्रे । स विधिस्तां श्रिमयच्छलयत् प्रतारितवान् ध्रु वं स्थानार्थविवक्ष्या पदप्रार्थनायामङ्ध्रिदानादिति भावः । ‘पदं व्यवसितत्राणथक्ष्यङ्ध्रिवस्तुषु’इत्यमरः । अतः सा श्रीरेतत्पदभागेतस्याः भैम्या तद?ङ्ध्रिरेवैततस्थानमिति जानीय इत्यर्थः ॥ 7.100 ॥
अन्वयः–रुषा अरुणा श्रीः सर्वगुणैः जयन्त्याः भैम्याः पदं विधेः वृणीते स्म सः तां ध्रु वम् अच्छलयत्, यतः भृशारुणा सा एतत्पदाभाक् विभाति ॥ 7.100 ॥
यानेन तन्वया जितदन्तिनाथौ पदाब्ज्रानौ परिशुद्धपार्ष्णी ॥
जाने न शुश्रूषयितुं स्वमिच्छू नतेन मूर्ध्ना कत्तरस्य राज्ञः ॥ 7.101 ॥
जीवातु-यानेनेति । यानेन गत्या दण्डयात्रया च जिजो दन्तिनाथो गजश्रेष्ठो गजपतिश्च याभ्यां तौ परिशुद्धः निर्दोषो वशीकृतश्च पर्ष्णिः पश्चादभागः पार्ष्णिग्राहश्च ययोस्तौ तन्व्याः पदाब्जे एव राजानौ पदाब्जराजौ कतरस्य राज्ञः प्रत्युः परिपन्थिनश्च नतेन मानशान्तये रौद्रशान्तये च नभ्रेण मूर्ध्नां स्वमात्मानं सेव्यं शुश्रुषयितुं सेवयितुमिच्छू अभिलाशुकौः न जाने । अत्र पदागब्जारादिति रूपकस्य श्लेषेणाङ्गाङ्गिभावेन सङ्करः ॥ 7.101 ॥
अन्वयः–यानेन जितदन्तिनाथौ परिशुद्धपार्ष्णीं तन्मव्याः पदाब्जराजौ न जोन कतरस्य राज्ञः नतेन मूर्ध्ना स्वं शुश्रूषयितुम् इच्द्र ? ॥ 7.101 ॥
कर्णाक्षिदन्तच्छबाहुपाणिपदादिनः स्वाखिलतुल्यजेतुः ॥
उद्वेगभाद्वयताभिमानादिहैव वेधा व्याधितं द्वितीयम् ॥ 7.101 ॥
जीवातु-मकर्णेति । स्वस्या यान्यखिलानि तुल्यानि शष्कुलीकमलाद्युपमानवस्तूनि तेषां जेतुः भाषितपुंस्कत्वात् पुंवदभावः । कर्मञ्चाक्षि च दन्तच्छदश्चबाहुश्च पाणिश्च पदञ्च कर्णाक्षिदन्तच्छदबाहुपाणिपदम् । प्राण्यङ्गत्वोदकवदभावः,तदादिर्यस्य तत् आदिशब्दात् कुचादिसंग्रहः । तदादिनोऽवयवजः तस्य अद्वयताभिमानात् अद्वितीयत्वगर्वात् उद्वेगभाक् रोषभाक् वेधा इहास्यामेव भैम्यां द्वितीयं कर्णादिकं व्यधितं विहितवान् । तदवयवानाप्रतिमतया परस्परमेवौपम्यमासीत् । यथा कर्णस्येतरकर्णेन कर्णाक्षिदन्तच्छदबाहुपाणिपदादिनः अद्वयताभिमानात् उद्वेगभाक् विधाता इह एव द्वितीयं व्यधित ॥ 7.102 ॥
अन्वयः–स्वाखिलतुल्येजेतुः कर्णक्षिदन्तच्छाआहुताणिपदापदिनः अद्वयताभिमानात् दद्वेगभाम् विधाता इह एव द्वितीयं व्यधित ॥ 7.102 ॥
तुषारनिःशेषितमब्जसर्गं विधातुकामस्य पुनर्विधातुः ॥
पञ्चस्विहास्याङ्ध्रिकरेष्वभिपक्ष्याभिक्षाऽधुना माधुकरीसदृक्षा ॥ 7.103 ॥
जीवातु-तुषारेति । तुषारेण निःशेषितं नाशितमब्जसगं पद्मसृष्टिं पुनविघातुकामस्य स्त्रष्टुकामस्य विधातुरधुना इहास्यां भैम्यां पञ्चसु आस्यं चाङ्घ्रीच करौ च तेषु अधिकरणैतावत्त्वे चेत्येकवदभावप्रतिषेधः
इहाधिकरणं समानाधारत्वाद्वर्तिपदार्थः । तस्यैतावत्त्वं पञ्चत्वमभिख्याभिक्षा शोभायाच्?ञ । ‘अभिरूया नामशोभयोः’ इत्यमरः । माधुकरी नाम पञ्चभिक्षा तथा सटृक्षा सटृशी ‘टृशेः क्सश्च वक्तव्यः’ इति क्सप्रत्ययः । र्वत इति शेषः । एतदास्यादिपञ्चके यावल्लावण्यं तावत् पद्मेषु नास्तीत्यर्थः ॥ 7.103 ॥
अन्वयः–तुषारनिःशेषितम् अब्जसर्गं पुनः विधातुकामस्य विधातुः अधुना इह पञ्चसु आस्याङ्घ्रिकरेषु अभिरूयाभिक्षा माधुकरी सटृक्षा ॥ 7.103 ॥
एष्यन्ति यावद्गणनाद्दिगन्तान् नृपाः स्मरार्ताः शरणे प्रवेष्टुम् ॥
इमे पदाब्जे विधिनापि सृष्टास्तावत्य एवांगुलयोऽत्र रेखाः ॥ 7.104 ॥
जीवातु–एष्यतन्तीति । स्मरार्ता नृपा इमे पदाब्जे शरणे प्रवेष्टुं यावन्ती गणना यस्य तस्माद् यावद्गणनातृ यावत्संख्याकात् दिगन्तात् यावत् सङ्ख्याकेभ्यः दिगन्न्तेभ्य इत्यर्थः । जातावेकवचनम्, एष्यन्ति, अत्रानयोः पदाब्जयोः तावत्य एव तत्सङ्खया एवाङ्गंलय एव रेखाः सृष्टाः, स्वयंवरार्थमागामिनां राज्ञामपादानदिक्सङ्खयासूचकरेखा इव दशाङ्गुलयः सृष्टा इत्यूत्प्रेक्षा ॥ 7.104 ॥
अन्वयः–स्मरार्त्ताः नृपाः इमे पदाब्जे पदब्जे क्षरणे प्रवेष्टुं यावद्गणनात् दिगन्तात् एष्यन्ति, विधिना तावत्यः एव अङ्गुलयः रेखा सृष्टः ॥ 7.104 ॥
प्रियासखीभूतवतो मुदेदं व्यधाद्विधिः साधुदशत्वमिन्दोः ॥
एतत्पदच्छह्मसरागपाह्मसौभाग्यं कथमन्यथा स्यात् ॥ 7.105 ॥
जीवातु–प्रियेति । तिदर्धिधाता प्रियायाः भैम्याः सखीभूतवतः सुहृद्भूतसय अभूततदभावे च्विः, भवतेः क्तवतुप्रत्ययश्च । इन्दो रिदं साधुदशत्वं समीचीनावस्थत्वं सम्यक् दशांनां परिपाकं मुदा सन्तोषेण व्यधत् विहितवानित्यर्थः । अन्यथाऽस्येन्दोः एतस्याः च्छद्मच्छलं यस्य तस्य सरागपद्मस्य सोभाग्ये सौन्दर्ये भाग्यं कथम् ? एतच्चरणशोणसरोजसाटृश्यं कथमित्यर्थः ॥ 7.105 ॥
अन्वयः–विधिः मुदा प्रियासखीभूतवतः इन्दोः इदं साधुदशत्वं ( अथवा ‘दशत्वं साधु’ ) व्यधात्, अन्यथा एतत्पदच्छह्मसरागपह्मसौभाग्यभाग्यं कथं स्यात् ? ॥ 7.105 ॥
यशः पदाङ्गुष्ठनखौ मुखञ्च ?बिभर्ति पूर्णेन्दुचतुष्टयं या ॥
कला चतुःषष्ठिरुपैतु वासं तस्यां कथं सुभ्रु वि नाम नास्याम् ॥ 7.106 ॥
जीवातु–यशा इति । या सुभ्रू र्यशः र्कीर्तिः पदाङ्गुष्ठयोर्नखौ मुखञ्चेति पूर्णेन्दुचतुष्टयं विभर्ति । तस्यामस्यां सुभ्रुवि सुन्दर्या कलानां षोडशाभागानां विद्यानां च चतुरुत्तरा षष्टिः चतुःषष्टिः वासं निवासं कथं नाम नोपैतु उपैत्वेवेत्यर्थः । चन्द्रचतुष्टये प्रतिचन्द्रं षोडशकलत्वाच्चतुःषष्टिकलासम्पत्तिरित्यर्थः । द्वयीनामपि कलानामभेदाध्यावसायेन अयं निर्देशः ॥ 7.106 ॥
अन्वयः–या यशः पदाङ्गुष्ठनखौ मुखं च पूर्णन्दुचतुष्टयं बिभर्त्ति, तस्याम् अस्यां सुभ्रुवि कालाचतुःषष्टिःकथं नाम वासं न उपैतु ? ॥ 7.106 ॥
सृष्टात्तिविश्वा विधिनैव तावत्तस्यापि नीतोपरियौवनेन ॥
वैदग्ध्यमध्यायप्य मनोभुवेयमवापिता वाक्पथपारमेव ॥ 7.17 ॥
जीवातु–सृष्टेति । इयं तावत् विधिनैव अतिविश्चा विश्वमतिक्रान्ता विश्वातिशायिनीत्यर्थः । ‘अत्यादयःक्रान्ताद्यर्थे द्वितीयये’ति समासः । सृष्टा निर्मिता अथ यौवनेन तस्य विधिकृतातिशयस्याप्युपरि नीता
ततोऽप्यतिशयं प्रापितेत्यर्थंः । अथ मनोभुवा वैदग्धयं प्रागल्म्यमध्यायप्य वाक्त्पथस्य बाङ्मार्गस्य पारम्परतीरमवाङ्मनसगोचरत्वमेवावापिता अत्र क्रमेणेकस्यानेकधर्मसम्बन्धकथनात् एकस्मिन्नर्थवानेकमित्युक्तलक्षणपर्यायभेदः ॥ 7.107 ॥
अन्वयः–विधिना एव इयं तावत् अतिविश्वा सृष्टा, यौवनेन तस्य अपि उपरि नीता, मनोभुवा वैदग्ध्यम् अध्याप्य वाक्पथपारम् एव अवापिता ॥ 7.107 ॥
इति स चिकुरादारभ्यैता नखावधि वर्णयन् हरिणरमणीनेत्रां चित्राम्बुधौ तदनन्तरः ॥
हृदयभरणोद्वेलानन्दः सखीवृतभीमजानयनविषयीभावे भावं दधार धराधिपः ॥ 7.108 ॥
जीवातु–इतीति । हतीत्थं स धराधिपो नलो हरिणरमणीनेत्रामेतां भैमीं चिकुरात् केशपाशादारभ्य नखावधि पदाङ्गुष्ठनखान्तं वर्णयंश्चित्राम्बुधौ आश्चर्यसागरे तदनन्तरः प्?लवमानान्तरङ्गस्तथा हृदये भरणात् पूरणात् उद्वेलो निःसीमः आनन्दो यस्य स सन् सखीवृताया भीमजाया भैम्या नयनविषयीभावे टृग्गोचरत्वे भावमभ्रिपायं दधार, तस्याः प्रत्याः प्रत्यक्षीभवितुमैच्छदित्यर्थः ॥ 7.108 ॥
अन्वयः–इति सः धराधिपः हरिणरमणीनेत्राम् एतां चिकुरात् आरम्य नखावधि वर्णयन् चित्रामृबुधौ तदनन्तरः हृदयभरणोद्वेलानन्दः सखीवृतभीमजानयनविषथीभावे भावं दधार ॥ 7.108 ॥
श्रीहर्षं कविराजिमुकुटालङ्कार?हीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ॥
गौडोर्वीशकुलप्रशस्तिभणिति भ्रातर्ययं तन्महाकाव्ये चारणिनैषधीयचरित सर्गोऽगमत्सप्तमः॥ 7.109॥
जीवातु–श्रीहर्षमित्यादि । गौडोर्वीशुकुलप्रशस्तिभणितिभणितिर्नामास्य कृतः प्रबन्धः तद्भ्रातरि तत्समानकर्तृक इत्यर्थः ॥ 7.109 ॥
इति मल्लिनाथसूरिविरचिते ‘जीवातु ‘जीवातु’समाख्याने
सप्तमः सर्गः समाप्तः ॥ 7 ॥
अन्वयः–श्री हर्षं……….च यम्, गौडोर्वीशकुलप्रशस्तिभणिति भातरि चारुणि तन्महाकाव्ये नैषधीय चरिते सप्तमः सर्गः अगमत् ॥ 7.109 ॥

******************************************************************************

.

नषैधीयरितम्

अष्टमः सर्ग

अथाद्भुतेनास्तनिमेषमुद्रमुन्निद्ररोमाणममुं युवानम् ॥
दृशा पपुस्ताः सुदृशः समस्ताः सुता च भीमस्य महीमघोनः ॥ 8.1 ॥
जीवातु–अथेति । अथ नलप्रादुर्भावानन्तरमद्भुतेन दमयन्तीसाक्षात्कारज्नयविस्मयवशेन अस्ता निमेषमुद्रा निमीलनबन्धो यस्य तं नितिमेषमित्यर्थः । उन्निद्ररोमाणं हृष्टरोमाणामिति च विस्मयानुभावोक्तिः । युवानममुं नलमन्यत्राद्भुतेन नलरूपसाक्षात्कारविस्मयेन अस्तनिमेषमुद्राः उन्निद्ररोमाणो युक्तयइति परिणामः कार्यंः । ता अमी सभासदः समस्ताः सुटृशाः स्त्रियः पपुरतितृष्णया दटृशुरित्यर्थैः । तथा महीमघोनो भूदेवेन्द्रस्य भीमस्य सुता भैमी च पूर्वोक्तविस्मयानुभववती युवतिश्चेति भावः । तं टृशा पपावित्यर्थः । भैम्याः पृथगुपादानदर्शनस्यानुरागपूर्वकत्वलक्षणविशेषद्योतनार्थाः ॥ 8.1 ॥
अन्वयः–अथ अद्भुतेन अस्तनिमेषमुद्रम् उन्निद्ररोमाणं युवानम् अमुं ताः समस्ताः सुटृशाः महीमघोनः भीमस्य सुता चं टृशा पपुः ॥ 8.1 ॥
कि?यच्चिरं दैवतभाषितानि निह्नोतुमेनं प्रभवन्तु नाम ॥
पलालजालैः पिहितः स्वयं हि प्रकाशमासादयतीक्षुङ्म्भिः ॥ 8.2 ॥
जीवातु–नन्वयमिन्द्राक्यातिक्रमेण कथमासां प्रादुरासीदित्यत्रोत्तरमाह–कियदिति । दैवतभाषितानि आटृत्य एवं दूत्यमाचरत्वेवंरूपाणीन्द्रवाक्यादि कियच्चिरं कियन्तं बहुकालमित्यर्थः । क्रियाध्ययानां भेदकान्येकत्वेऽपि इति नपुंसकलिङ्गशेषेष्वमरः । एवं नलं निह्नोतुमाच्छादयितुं प्रभवन्तु शक्तुवन्तु नामानि शक्नुवन्तु पिहितः संरक्षणार्थमाच्छादितः इक्षुडिम्भः इक्षुप्ररोहः स्वयं स्वत एव प्रकाशं प्रादुर्भावमासादयति इक्ष्वङ्कुरस्येव कामिनोऽप्यतिप्रौढरागस्य दुर्वारो विकार इति भावः । अत्र नलेक्षुडिम्भयोर्बिम्बप्रतिबिम्ब समानधर्मनिदेशाद् टृष्टान्तालङ्कारः ॥ 8.2 ॥
अन्वयः—दैवतभाषितानि कियच्चिरम् एनं निह्नोतुं प्रभवन्तु नाम, हि पलालजालैः पिहितः इक्षुडिम्भः स्वयं प्रकाशम् आसादयति ॥ 8.2 ॥
अपाङ्गमप्याप दृशोर्न रश्मिर्नलस्य भैमीभिलष्य यावत् ॥
स्मराशुगः सुभ्रुवितावदस्यां प्रत्यङ्‌गापुङ्खशिखं ममज्ज ॥ 8.3 ॥
जीवातु–अपाङ्‌गमिति । अस्य नलस्य टृशो रश्मिः भैमीमभिलष्य कामयित्वा यावदपाङ्गन्तस्या अपाङ्गदेशमपि नाप भैमीं तु नापेति किमु वक्तव्यं तावदेव स्मराशुगेऽस्यां सुभ्रवि भैम्यां प्रत्यङ्गमापुङ्खशिखं समूलाग्रमित्यर्थः । अभिविधावव्ययीभावः । ममज्येत्यन्योन्यरागोक्तिः । अत्र टृष्टिपातस्मरपातयोः कारणयोः पौर्वापर्यभङ्गोक्तिरित्यतिशयोक्तिभेदः ॥ 8.3 ॥
अन्वयः–अस्य टृशोः रश्मिः भैमीम् अभिलष्य यावत् अपाङ्गम् अपि न आप तावत् एव स्मराशुगः अस्यां सुभ्रुवि प्रत्यङ्गमु अपुङ्खशिखं ममज्ज ॥ 8.3 ॥
यदक्रमं विक्रममशक्तिसाम्यादुपाचरद् द्वावपि पञ्चबाणः ॥
चक्रे न वैमत्यममुष्य कस्माद् बाणैरनर्द्धाविभागभाग्भिः ॥ 8.4 ॥
जीवातु–पुनरप्यन्योऽन्यानुरागमेवाह–यदिति । पञ्चबो विषमेषुः द्वावपि भैमीनल अक्रममविद्यमानक्रम युगपदित्यर्थाः विक्रमेण या शक्तिस्तस्याः साम्यात् साम्यमालब्य ल्यब्ललोपे पञ्चमी । उपाचरत् उपाचचार ?
विषमैः बाणैर्युगजत् उभावप्यवैषम्येण प्रहृतवानिति । अमुष्य समोपचरणस्य अर्धार्धंशो विभागभाजो न भवन्तीति तथोक्तैः विषमसङ्ख्यैः अशक्यसमविभागैरित्यर्थाः । बाणै शरैः कर्तृभिः पञ्चभिरिति भावः । वैमत्यमसम्मतिः कस्मात् कथं न चक्रे कतृं महच्चित्रमिति भावः । अत्र विषमैर्युगपदुभयत्र समप्रहारविरोधस्य स्मरमहिग्ना समाधनाद्विरोधाभासोऽलङ्कारः ॥ 7.4 ॥
अन्वयः–पञ्चबाणः द्वौ अपि अक्रमं विक्रमशक्तिसाम्यात् यत् उपाचारत् तत् अमुष्य अनर्द्धार्द्धविभागभाग्भिः बाणैः वैमत्यं कस्मात् न चक्रे ? ॥ 7.4 ॥
तस्मिन्नलोऽसाविति साऽन्वरज्यत् क्षणं क्षणं क्वेह स हत्युदास्त ॥
पुरः स्म तस्यां वलतेऽस्य चितं दूत्यादनेनाथ पुनर्न्यवर्ति ॥ 7.5 ॥
जीवातु–तस्मिन्निति । सा भैमी तस्मिन् पुंसि असौ नल इति हंसादिमुखश्रुतरूपसंवादान्नल इति मत्वा क्षणं क्षणं क्षणं क्षणमल्पकालमत्यन्तासंयोगे द्वितीया । अन्रव्यदनुरक्तारऽभवत् । एतेत हर्षं सूचितः । पुरे स नलः क्वेहेत्यसम्भावितमिति मत्वेत्‌यर्थः । हतिनैवोक्तार्थत्वादप्रयोगः । क्षणमुदास्त उदासीना स्थिता । आसेः कर्तरि लङ् । एतेन विषादः सूचितः, तथा चास्या भावसन्धिरासीदित्यर्थाः । अथ नलस्य तस्यां भावसन्धिमाह-अस्य नलस्य चेतः पुरः पुरः प्रथमं तस्यां दमयुन्त्यां वलते स्म चचालेति हर्षोक्तिः पुनः दूत्यादनेन कर्त्रा नलेन न्यवर्ति नीचकृत्ये स्थितस्य इदमनुचितमिति बनात्कारेण निबर्तितमिति विषादोक्तिः, समग्ररूढ एवानयोरिति भावः ॥ 8.5 ॥
अन्वयः–सा तस्मिन् असौ नलः इति क्षणम् अन्वरज्यत्, पुनः सः इह क्व इति क्षणम् उदास्त, अथ अस्य चित्तं पुरः तस्यां वलते स्म, अनेन पुनः दूत्यात् न्यवर्ति ॥ 8.5 ॥
कयाचिदालोक्य नलं ललज्जे कयापि तदभासि हृदा ममज्ये ॥
तं कापि मेने स्मरमेव कन्या भेजे मनोभूवशभूयमन्या ॥ 8.6 ॥
जीवातु–अथ तत्सखीनामपि तदा शृङ्गारभावा बभुवुरित्याह–कयेति । कयाचित्कन्यया नलमालोक्य ललज्जे लज्जितं, भावे लिट् । कयापि तदभासितल्लावण्ये हृदा ममज्जे हृदि तन्मयत्वं भावितीमित्यर्थंः । एतेन तत्प्रप्तिसङ्कल्पो गम्यते, भावे लिट् । कापि कन्या तं नलं स्मरमेव मेने, इति विस्मयोक्तिः अन्या कन्या मनोभुवो वशभूयं वशत्वं “भुवो भावे” इति इति क्यस् । भेजे । एतेन औस्सुक्यं गम्यते ॥ 8.6 ॥
अन्वयः–नलम् अलोक्य कयाचित् ललज्जे, कया अपि तद्भासि हृदा ममज्जे, का अपि कन्या तं स्मरम् एव मेने, अन्या मनोभूवशभूयं भेजे ॥ 8.6 ॥
कस्त्वं कुतो वेति न जातु शेकुस्तं प्रष्टुमप्यप्रतिभाति भारात् ॥
उत्तस्थुरभुत्थितिवाञ्छयेव निजासनान्नैकरसाः कृशाङ्ग्यः ॥ 8.7 ॥
जीवातु–कस्त्वमिति । कृशाङ्ग्यः स्त्रियः एकरसा आनन्दरसपरवशाः सत्य इत्यर्थंः । अत एवाप्रतिभाया अप्रतिपतेरतिभारादतिमहत्त्वादिति कर्तव्यता मोहातिरेकादित्यर्थः । तं नलं कस्त्वं कुतो वा आगत इति प्रष्टुमपि जातु कदापि न शेकुः । किञ्च अभयुत्थितिवाञ्छया प्रत्युत्थानेच्छयेवोत्तस्थुः निजासनात्तु नोतत्तस्थंः, तभ्य तेजो विशेषाद्धठात्मनसैवोत्तस्थुः । न तु वपुषा रसपारवशयादिति भावः ॥ 8.7 ॥
अन्वयः–कृशाङ्ग्यः एकरसाः अप्रतिभातिभारात् तं कः त्वें कुतः वा इति प्रष्टुम् अपि जातु न शेकुः, अभ्युत्थितिवाञ्छया इव निजासनात् न उत्तस्थुः ॥ 8.7 ॥
स्वाच्छन्द्यमानन्दपरम्पराणां भैमी तमालोक्य किमप्यवाप ॥
महारयं निह्मेरिणीव वारामासाद्य धाराधरकेलिकालम् ॥ 8.8 ॥
जीवातु–स्वाच्छन्द्यमिति । भैमी तं नलमालोक्य किमप्यनिर्वाच्च्यमानन्दपरम्पराणां स्वाच्छन्द्यमुच्छृङ्खलत्वम् । ‘स्वच्छन्दो निरवग्रहः’ इत्यमरः निर्ह्मरिणी गिरनदी धाराधरकेलिकालं मेधविहारकालं वर्षाकालमासाद्य वारां वारीणाम्। “आपः र्स्त्राभूम्नि वार्वारि’ इत्यमरः। माहारयमिवाप ॥8.8॥
अन्वयः–तम् आलोक्य भैमी किम् अपि आनन्दपरत्पराणां स्वाच्छन्द्यं निर्ह्मरिणी धाराधरकेलिकालम् आसाद्य वारां महारयम् इव अवाप ॥ 8.8 ॥
तत्रैव मग्ना यदपश्यदग्रे नास्या दृगस्याङ्गमयास्यदन्तत् ॥
नादास्यदस्यै यदि बुद्धिधारां विच्छिद्य विच्छिद्य चिरान्निमेषः ॥ 8.9 ॥
जीवातु–तत्रेति । अस्या भैम्या टृक् टृष्टिरस्य नलस्य यत् अङ्गमग्रे प्रथममपश्यत् तत्रैव मग्ना सती अन्यदस्याङ्गं नायास्यत् नागमिष्यत्, यदिनिमेषः पक्ष्मपातः चिराद्विच्छिद्य विच्छिद्य विरमय्य विरमय्य बुद्धिधारां ज्ञानपरम्पराम् अस्यै टृशे नादस्यत् न दद्यात् ?। क्रियातिपत्तौ लृङ् । निमेषृतबुद्धिविच्छेदा दङ्गान्तरप्रापितः, न तु तृष्णयेति भावः ॥ 8.9 ॥
अन्वयः–अस्याः टृक् अस्य यत् अङ्गम् अग्रे अपश्यत् तत्र एव मग्ना अन्यत् न अयास्यत् यदि निमेषः चिरात् विच्छिद्य विच्छिद्य बुद्धिधाराम् अस्यै न अदास्यत् ॥ 8.9 ॥
दृशापि सालिङ्गितमङ्गमस्य जग्राह नाग्रावगताङ्गहर्षैः ॥
अङ्गान्तरेऽनन्तरमीक्षि?ते तु निवृतृय सस्मार न पूर्वदृष्टम् ॥ 8.10 ॥
जीवातु–टृशोति । सा भैमी टृशा आलिङ्गितं प्राप्तमस्य नलस्याङ्गामङ्गान्तरं अग्रावगताङ्गहर्षैः पूर्वगृहीताङ्गजनितानन्दैः तत्पारवश्यंयेनेत्यर्थः । न जग्राह नाज्ञासीत् । अथ कथञ्चिदनन्तरं अङ्गान्तरे ईक्षिते गृहीते तु निवृत्यः पूर्वटृष्टमङ्गं न सस्मार । तस्य तस्य लोकोत्तरत्वादिति भावः ॥ 8.10 ॥
अन्वयः–सा दृशा आलिङ्गितम् अस्य अङ्गम् अग्रावगताङ्गहर्षैः नः जग्राह, अनन्तरम् अङृगान्तरे र्हक्षिते तु निवृत्य पूर्वदृष्टम् अङ्गं न सस्मार ॥ 8.10 ॥
हित्वैकमस्यापघनं विशन्ती तद्दृष्टिरङ्गान्तरभुक्तिसीमाम् ॥
चिरं चकारोभयलाभलोभात् स्वभावलोला गतमागतञ्च ॥ 8.11 ॥
जीवातु–हित्वेति । स्वभावलोलां अभिमतविषयलाभे किमु वक्तव्यमिति भावः । तद्टृष्टिर्भैमीटृष्टिरस्य नलस्य एकमपघनमवयवम् । “अपघनोऽङ्ग’ मित्यदन्तो निपातः । हित्वा अङ्गान्तरभुक्तिसीमामवयवान्तरदेशं विशन्ती चिरमुभयोः लाभे लोभाद्नर्धनात् । ‘उभादुदात्तो नित्यम्’ इत्यत्र पृथक्सूत्रकरणादेशे सिद्धे पुनर्नित्यग्रहणमुभयशब्दस्य वृत्तावप्ययजर्थमिति कैयटः । गतमागतञ्च चकाराः । उभयोरपि तथा रमणीयत्वादि भावः ॥ 8.11 ॥
अन्वयः–स्वभावलोला तद्दृष्टिः अस्य एकम् अपघनं हित्वा अङ्गान्तर भुक्तिसीमां विशन्ती अभयलाभलोलात् चिरं गतम् आगतं चकार ॥ 8.11 ॥
निरीक्षितञ्चाङ्गमवीक्षितञ्च दृशा पिबन्ती रभसेन तस्य ॥
समानमानन्दमियं दधाना विवेद भेदं न विदभंसुभ्रः ॥ 8.12 ॥
जीवातु–निरीक्षितमिति । इयं विदर्भसुभ्रू र्वैदर्भी तस्य नलस्य संर्बन्धि निरीक्षितं च अविक्षितं चाङ्गं टृशा रभसेन पिबन्ती तृष्णया पश्यन्ती समानमानन्दं दधाना भेदमिदं टृष्टपूर्वमिदमदृष्टपूर्वमिति विवेकं न विवेद । उभे अप्प नवद्यया अपूर्ववदेव पीते इत्यर्थः ॥ 8.12 ॥
अन्वयः–इयं विदर्भसुभ्रः तस्य निरीक्षितम् अवीक्षितं च अङ्गं दृशा रभसेन पिबन्ती समानम् आनन्दं दधाना भेदं न विवेद ॥ 8.12 ॥
सूध्मे धने नैषधकेशपाशे निपत्य निष्पन्दतरीभवदभ्याम् ॥
तस्यानुबन्धं न विमोच्य गन्तुमपारि तल्लोचनखञ्जनाभ्याम् ॥ 8.13 ॥
जीवातु–सूक्ष्म इति । सूक्ष्मे तनीयसि धने सान्द्रे दृडे हार्द्ये च नैषधस्य नलस्यकेशपाशे केशकलापे केशपबन्धने च । “घनं सान्द्रे दृहे हार्द्ये पाशः पक्ष्यादि बन्धने’ इति निपत्य निष्पन्दतरीभवदभ्यामेकत्र विस्मयादन्यत्र यन्त्र लग्नाच्च निश्चलीभवदभ्यां तस्याः भैम्या लोचने एव खञ्जनौ नेत्रोपमानपक्षिणौ । “खञ्जरीटस्तु खंजनः, इत्यमरः । ताभ्यां तस्य केशापाशस्य सम्बन्धिनमनुबन्धं तत्र “सक्तिं चन्धनञ्च विमोच्य मोचयित्वा गन्तु नापारिं न शेके । पारयतेर्भावे लुङ् । श्ल्ष्टिविशेषणं रूपकम् ॥ 8.13 ॥
अन्वयः–सूक्ष्मे धने नैष्ज्ञधकेशपाशे निपत्य निष्पन्दतरीभवद्भ्यां तल्लोचनक्षञ्जानाभ्यां तस्य अनुबन्धं विमोच्य गतुं न अपारि ॥ 8.13 ॥
भूलोकभर्तुर्मुखपाणिपादपह्मौः परीरम्भमवाप्य तस्य ॥
दमस्वसुर्दृष्टिसरोजराजिश्चिरं न तत्याज सबन्धुबन्धम् ॥ 8.14 ॥
जीवातु-भूलोकेति । दमस्वमुटृं ष्टय एव सरोजानि क्रियाभेदाद्बहुत्वं तेषां राजिः भूलोकभर्तुस्तस्य नलस्य मुखं च पाणी च पादौ च मुखपाणिपादम् प्राण्यङ्गत्वादेवकवदभावः । तदेव पह्मानि तैः सह परीरम्भमाश्लेषमवाप्य समाना बन्धवः सम्बन्धवः । जातिजनपद’ इत्यादिना समानशब्दस्य “स’ भावः तेषु बन्धमासक्तिं चिरं न तत्याज । स्निग्धा हि अन्धवः चिरमनादिलष्य न मुञ्चन्तीति भावः । पह्मत्वसजातित्वात् सबन्धुत्वम् ॥ 8.14 ॥
अन्वयः–दमस्वसुः दृष्टिसरोजराजिः तस्य भूलोकभर्त्तुः मुखपाणिणदपद्मैः परिरम्भम् अवाप्य सबन्धुबन्धं चिरं न तत्याज ॥ 8.14 ॥
तत्कालमानन्दमयो भवन्ती भवत्तरानिर्वचनीयमोहा ॥
सा मुक्तसंसारिदशारसाभ्यां द्विस्वादमुल्लासमभुङ्क्त मृष्टम् ॥ 8.15 ॥
जीवातु–तत्कालमिति । तस्मिन् काले तत्कालम् अत्यन्तसंयोगे द्वितीया ।आनन्दमयी भवन्ती आनन्दात्मिका सती टित्त्वादुभयत्र ङीप् । तथा च भवत्तरोऽतिशयेन भवन् अनिर्वचनीयो निर्वक्तुमशक्यो मोहः अप्रतिपत्तिर्यस्याः सा आनन्दमग्नेत्यर्थः । सा भैमी विमुक्तसंसारिणोर्दशे अवस्थे तयोयौ रसौ स्वादौ ताभ्यां द्वौ स्वादौ यस्य तद्द्वस्वादन्तादृक् ज्ञस्वादमित्यर्थः । मृष्टं शुद्धमुल्लासमुल्लासतामभुङ्क्ते भुक्तवती । “भुजोऽनवने’ इति लुङ् तङ् । आनन्दपारवतयान्नैव किञ्चद्विवेदेत्यर्थः ॥ 8.15 ॥
अन्वयः–तत्काम् आनन्दमयी भवन्ती भवत्तरा?निर्वचनीयमोहा सा युक्तसंसारिदशारसाभ्यां द्विस्वादं मृष्टम् उल्लासम् अभुङ्क्त ॥ 8.15 ॥
दूंते नलश्रीभृति भाविभावा कलङ्किनीयं जनितेति नूनम् ॥
न सा व्यधान्नैषधकायमायं यिधिः स्वयं दूतमिमा प्रतीन्द्रम् ॥ 8.16 ॥
जीवातु–अथ भैमीदूतसम्भाषणं विवक्षुर्नलैकवद्धप्राणायाः तस्यास्पदमनौचित्यं द्वाभ्यां परिहरति–दूत इत्यादि । नलस्य श्रियमियं श्रियं बिभर्तीतिनलश्रीधृत् तत्सटृश इत्यर्थः । निदर्शनालङ्कारः । तस्मिन् दृते भाविभावा भविष्यदनुरागा इयं भैमी कलङ्किनी भग्नव्रता जनिता भविष्यतीति मत्वाजनिधातोर्लुद् । विधिर्विधाता इमां भैमीं प्रति नैषधस्य काय एव माया कपटं यस्य तं नलख्पधारिणं स्वयं साक्षादिन्द्रमेव दूतं न संव्यधात् न कल्पितवान् उक्तदोषपरिहारायैवेन्द्रस्य ताटृशीं बुर्द्धि नालीजनदित्यर्थः । नूनमिति वितर्के वस्तुविचारत्वान्नायमुत्प्रेक्षालंकारः । दूतभावतिरोहितस्यापि तस्य वस्तुनो नलत्वान्नायं कलंक इति भावः
॥ 8.16 ॥
अन्वयः–नलश्रीभृति दूते भाविभावा इयं कलङ्किनी जनिता–इति नूनं विधिः इमां प्रति नैषधकायमायं स्वयम् इन्द्रं दूतं न संव्धात् ॥ 8.16 ॥
पुण्ये मनः कस्य मुनेरपि स्यात्प्रमाणमास्ते यदघेऽपि धावत् ॥
तच्चिन्ति चित्तं परसेश्वरस्तु भक्तस्य हृष्यत्करुणो रुणद्धि ॥ 8.़17 ॥
जीवातु–नन्विन्द्रेऽपि समागते तदभिलाषेनोक्तदोषावकाशः कुत इत्याशङ्क्य चितवृत्तीनां क्षणिकत्वान्न तथा श्रद्धेयमित्याह-पुण्य इति । मुनेर्यतेरपि किमुतान्यस्येति भावः । कस्य मनः पुण्ये स्यात् पुण्य एव प्रमाणं न कस्यापीत्यर्थः । कुतः, यद्यस्मादघे पापेऽपि धावदुच्छृङ्खलं प्रवकर्तमानं तन्मन एव प्रमाणं निश्चायकमास्ते । किन्तु हृष्यत्करुण उद्यत्कृपः परमेश्वर एव तच्चिन्ति पापचिन्तकं भक्स्य चित्तं रुणद्धि निवारयति । तस्मात् विधिविलसितमेवैतदिन्द्रचेष्टितमिति भावः ॥ 8.17 ॥
अन्वयः–कस्य मुनेः अपि मनः पुण्यं स्यात्, यत् अधे अपि आवत् प्रमाणम् अस्ते ? तु हृष्यत्करुणः परमेश्यवरः तच्चिन्ति भक्तस्य चित्तं रुणद्धि ॥ 8.17 ॥
सालीकदृष्टे मदनोन्मदिष्णुर्यथाप शलीनतया न मौनम् ॥
तथैव तथ्येऽपि नले न लेभे मुग्धेषु कः सतृयमृषाविवेकः ॥ 8.18 ॥
जीवातु–सम्प्रति धार्ष्ट्यदोषं परिहरति–सेति । मदनोन्मदिष्णुः उन्मदशीला “अलङ्कृञ्’ इत्यादिना इष्णुव् । सा भैमो यथा अलीकटृष्टे मिथ्याटृष्टे शालीनतया ?अधृष्टतया । “शालीनकौपीने अधृष्टार्ययोः’ इति निपातः । मौनं नाप तदैव तथ्येऽपि नले न लेभे । एतत्सत्येऽनुचितर्मित्याशङृक्य अर्थान्तरन्यासेन परिहरति । मुग्धेषु मदनोन्मादेषु सत्यमृषा सत्यासत्ययोर्विवेको विवेचना नास्तीत्यर्थः । अत एव न धार्ष्ट्यंदोषोऽपीति भावः ॥ 8.18 ॥
अन्वयः–मदनोन्मदिष्णुः सा यथा अलीकटृष्टे शालीनतया मौनं न आप तथा एव तथ्ये अपि नले मौनं न लेभे, मुग्धेषु सत्यमृषाविवेकः कः ? ॥ 8.18 ॥
व्यर्थीभवदभावपिधानयत्ना स्वरेण साथ श्लथगद्गदेन ॥
सखीजने साध्वससन्नवाचि स्वयं तमूचे नमदाननेन्दुः ॥ 8.19 ॥
जीवातु-व्यर्थीभव?दिति । अथ द्विस्वादभानानन्तरं व्यर्थीभवन् भावविधाने आकारगोपने यत्नो यस्याः सा गोप्तुमशक्तेत्यर्थः । सा भैमी सखीजने साध्वसेन सन्नवाचि कुष्ठितमुखे कुण्ठिते सति, अन्यथा सरमुखेनैव ब्रूयादिति भावः । नलदाननेनदुर्लजानम्रमुख्चाखी सती श्लथग्गदेन स्खलितेन स्वरेण्ध तं नलं स्वयुचे कर्तरि लिङ् “ब्रुवो वचिः’ ॥ 8.19 ॥
अन्वयः–अथ व्यर्थीभवद्भावपिधानयत्ना सा साध्वससन्नवाचि सखीजने नमदाननेन्दुः तं स्वयं श्लयगद्गदेन स्वरेण ऊचे ॥ 8.19 ॥
नत्वा शिरोरत्नरुचापि पाद्यं सम्पाद्यमाचारवदातिथिभ्यः ॥
प्रियाक्षरालीरसधारयापि वैधी विधेया मधुपर्कतृप्तिः ॥ 8.20 ॥
जीवातु–अथास्यातिथ्यं चिकीर्षुंस्त्रिभिस्तत्कर्तव्यतामाह–नत्वेत्यादि । आचारविदा गृहस्थेन अतिथिभ्यो नत्वा पदयोर्निपत्य शिरोत्नस्य रुचा कान्त्यापि पाद्यं पदार्थजलं “पादार्धाभ्यां च’ इति यत्प्रत्ययः । सम्पाद्यं, किञ्च प्रियाक्षराल्या प्रियवाक्यकदम्बकेन या रसधारा आनन्दलहरी तयापि वैधी विधिप्राप्तमधुपर्केण या तृप्तिः स विधेयासम्पाद्य मुख्यानुकल्पोऽप्यनुष्ठेव इति भावः ॥ 8.20 ॥
अन्वयः–आचारविदा नत्वा शिरोरत्नरुचा अपि अतिथिम्यः पाद्यम् स म्पाद्यम् प्रियाक्षरालीरसधारया अपि वैधीभधुपर्कतृप्तिः विधेया ॥ 8.20 ॥
स्वात्मापि शीलेन तृणां विधेयं देया विहायासनभूर्निजापि ॥
आनन्दबाष्पैरपि कल्प्यमम्भः पृच्छा विधेया मधुभिर्वचोभिः ॥ 8.21 ॥

जीवातु-स्वातृमापीति । किञ्च शीलेनाचारप्रमाणेन स्वदेहोऽपि । “आत्माजीवधृतौ देहः’ इति वैजयंती । तृणं विधेयं तृणवदर्पणीयम्, निजापि आसनभूरुपवेशनस्थानं विहाय स्वयं तत उत्थाय देया, आनन्दबाष्पैरत्यम्भः पादोदकं कल्प्यम्, मधुभिर्मधुप्रायैः वचोभिः पृच्छा कुशलप्रश्नः । “प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः । भिदादित्वादङ् प्रत्ययः । विधेया कर्तव्या । ‘तृणानि भूमिरुदकं वाक् चतुर्थी च सूनृता । अप्रणद्योऽतिथिः सायमपि वाग्भूतृणोदकैः’ इति स्मरणात् तृणाद्यसमृभवे तत्स्थाने स्वशरीरादिकमपि देयम् अशक्तस्यानुकल्पेनापि शखार्थसिद्धेरिति भावः ॥ 8.21 ॥
अन्वयः–शीलेन स्वात्मा अपि तृणं विधेयम् निजा अपि आसनभू विहाय देया आनन्दबापपैः अपि अम्भः क्लप्यम् मधुभिः वचोभिः पृच्छा विधेया ॥ 8.21 ॥
पदोपहारेऽनुपनभ्रतापि सम्भाव्यतेऽपां त्वरयापराधः ॥
तत्कर्तु मर्हाञ्जलिसञ्चनेन स्वसेभृतिप्राञ्जलतापि तावत् ॥ 8.22 ॥
जीवातु–पदेति । पदोपहारे पादोपचारप्रस्तावे त्वरया वेगेन अपामुदकानां अनुपनभ्रता असन्निहितत्वमपराधः अपचारः सम्भाव्यते अपराधत्वेन गृह्मत इतृयर्थः । तत्, तस्मात् अञ्जलिसञ्जनिनञ्जिलिबन्धेन तत्पूर्वकत्वमित्यर्थः । स्वस्थात्मनः संभृत्या सम्भरेण सन्निधानेन प्राञ्जलता आर्जवं धिधेयमिति यावत् सापि तावत्कर्तुमर्हां आतिथ्यकियासामर्थ्ये विनयाचरणेनापि तच्चित्तोपार्जनं कर्तव्यम् । अन्यथा प्रत्यवायादिति भावः ॥ 8.22 ॥
अन्वयः–पदोपहारे त्वरया अपाम् अनुपनभ्रता अपि अपराद्यः सम्भाव्यते तत् अञ्जलिसञ्जनेन स्वसंभृविप्राञ्जलता अपि तावत् कर्त्तुम् अर्हा ॥ 8.22 ॥
पुरा परित्यजृय मयात्यसर्जिस्वमासनं तत्किमिति क्षणन्न ॥
अनर्हमप्येतदलङ्क्रियेत प्रयातुमीहा यदि चान्यतोऽपि ॥ 8.23 ॥
जीवातु-पुरेति । मया स्वामात्मीयमासनं पुरा पूर्वं त्वद्दर्शनक्षण एव परित्यज्य तत उत्थायेत्यर्थः । अत्यसर्जि अदायि तदेतदासनमनर्हमत्यश्लाध्यमपि पदिवा अन्यतः कुतः प्रयातुमीहा वा तथापि किमिति क्षणं नालंक्रियेत ! भक्तजनानुकम्पया क्षणमात्रोपवेष्टव्यमिति भावः ॥ 8.23 ॥
अन्वयः–मया स्वम् आसनं पुरा परित्यज अत्यसर्जि, यदि वा एतत् अनर्हम् अन्यतः प्रयातुम् अपि र्हहा किम् इति क्षणं नअलङ्क्रियेत ॥ 8.23 ॥
निवेद्यतां हन्त समापयन्तौ शिरीषकोषभ्रदिमाभिमानम् ॥
पादौ कियद्उूरमिमौ प्रयासे निधित्सते तु च्छदयं मनस्ते ॥ 8.24 ॥
जीवातु-निवेद्यतामिति । शिरीषकोषस्य भ्रदिमाभिमानं मार्दवगर्वं समापयन्तौ निवर्तयन्तौ इमौ पादौ । “पादः पदङ्घ्रिश्चरणोऽस्त्रियाम्’ इत्यमरः । तुच्छदयं निष्कृपं ते मनः ( कर्तृ ) कियद्दूरं कियाच्चिरमित्यर्थः । प्रयासे निधित्सते निघातुमिच्छति । दधातेः सन्नन्ताल्लटि तङ् । “सनिमीमा’ इत्यदिनां इसादेशः । अत्र “लोपोऽभ्यासस्य’ इति अभ्यासलोपः । निवेद्यतो ज्ञाप्यतां वाक्यार्थः ( कर्म ) । हन्तेत्युकम्पायाम् ॥ 8.24 ॥
अन्वयः–हन्त, निवेद्यताम्–शिरीषकोषभ्रमदिमादिमाभिमानं समापयन्तौ इमौ पदौ तुच्छदयं ते मनः कियद्दुरं प्रया?से निधित्सते ? ॥ 8.24 ॥
अनायि देशः कतमस्त्वयाद्य वसन्तमुक्तस्य दशां वनस्य ॥
त्वदाप्तसङ्केततया कृतार्था श्रव्यापि नानेन जनेन संज्ञा ॥ 8.25 ॥
जीवातु-अनायीति । अद्य त्वया कतमो देशो वसन्तमुक्तस्य वनस्य दशामनायि नीतो रिक्तीकृत इत्यर्थः । नयतेर्द्विकर्मकत्वा प्रधाने कर्मणि लुङ् । किञ्च त्वदाप्तसकेततया त्वयि लब्धसङ्गतिकतया कृतायां सफला संज्ञा नामानेन जनेन आत्मना श्रव्यापि श्रोतुमर्हापि न किमिति काकुः कश्च अचोदयत्, कुतः आगतः, किञ्च ते नामधेयं तन्निवेदनेनाप्यनुग्राह्मोऽयं जन इति भावः ॥ 8.25 ॥
अन्वयः–त्वया त्वया अद्य कतमः देशः वसन्तुक्तस्य वनस्य दशाम् अनायि ? अनेन जनेन त्वदाप्तसङ्केतया कृतार्था संज्ञा श्रवया अपि न ? ॥ 8.25 ॥
तीर्णंः किमर्णोनिधिरेव नैष सुरक्षितेऽभूदिह यत्प्रवेशः ॥
फलं किमेतस्य तु साहसस्य न तावदद्यापि विनिश्चिनोमि ॥ 8.26 ॥
जीवातु-तीर्ण इति । सुरक्षिते साधुगुप्ते अत्यन्तदुष्प्रवेश इत्यर्थः । इहान्तः पुरे प्रवेशोऽभूदिति यत् एष प्रवेशः अर्णोनिधिरर्णव एव तीर्णोन किम् ! अर्णवतरणतुल्यं न किमित्यर्थः । किन्तु एतस्य साहसस्य फलं किमद्यापि चिरं विमृश्यापीत्यर्थः । तावन्न विनिश्चिनोमि निसश्चेतुं न शक्नोमीत्यर्थः । अत्रान्तःपुरप्रवेशार्णवतरणलक्षणवाक्यार्थयोर्निदिष्टसामानाधिकरण्यान्यथाऽनुपपत्त्या तत्तुल्यमिति साटृश्याक्षेपादसम्भावद्वस्तुसम्बन्धो वाक्यार्थनिष्ठनिदर्शनाभेदः ॥ 8.26 ॥
अन्वयः–इह सुरक्षिते यत् प्रवेशः अभूत् किम् एषः अर्णोनिधिः एव न तीर्णः ? एतस्य साहसस्य तु फलं किम् अद्य अपि तावत् न विनिश्चिनोमि ? ॥ 8.26 ॥
तव प्रवेशे सुकृतानि हेतुं मन्ये मदक्ष्णोरपि तावदत्र ॥
तलक्षितो रक्षिभटैयादाभ्यां पीतीऽसि तन्वा जितुपष्पधन्वा ॥ 8.27 ॥
जीवातु–एवेति । अथवा अत्रान्तःपुरे तव प्रवेशे मदक्ष्णोः सुकृतान्यपि तावत् यावदन्यन्योऽपि हेतुः श्रीतव्य अत्रान्तःपुरे तव प्रवेशे मदक्ष्णोः सुकृतान्यपि तावत् यावदन्योऽपि हेतुः श्रोतव्य इति भावः । हेतुं कारणं मन्ये कुतः, यद्यस्मात् तन्वा मूतृर्या, जितपुष्पधन्वा जितकामः त्वं रक्षिभटै रक्षकयोधैर्न लक्षितः अलक्षितः सन् । नञर्थस्य नशब्दस्य “सुप् सुपा’ इति समासः । आभ्यां मदक्षिभ्यां पीतोऽतितृष्णया टृष्टोऽसि ।
सुकृतविश्?ोषं विना कथमीटृगभूतरूपसाक्षात्कारलाभ इति भावः ॥ 8.27 ॥
अन्वयः–तव अत्र प्रदेशे मदक्ष्णोः सुकृतानि अपि तावतृ हेतुं मन्ये, यत् रक्षिभटैः न लक्षितः तन्वा जितपुष्पघन्वा आभ्यां पीतः असिः ॥ 8.27 ॥
यथाकृतिः काचन ते यथा वा दौव रिकान्धङ्करणो च शक्तिः ॥
रुच्यो रुचीभिर्जितकाञ्चनीभिस्तथासि पीयूषाभुजां सनाभिः ॥ 8.28 ॥
जीवातु–यथेति । यथा यतस्ते तव आकृतिर्मुतिः काचन अमानुषीत्यर्थः । यथा वा यतश्च द्वारि नियुक्ता दौवारिकाः तत्र नियुक्त इति ठक् । ‘द्वारादीनां च’ इतृयैजागमः । तेषाम् अन्धीक्रियन्ते अनयेति अन्धङ्करणी टृष्टिप्रतिबन्धिका “आढ्यसुभग’ इत्यादिना कृञः करणार्थे ख्युन्प्रत्ययः । “अरुर्द्विषत्’ इत्यादिना मुमागमः, ख्युन्नन्तत्वात् ङीप् । शकितश्च काचनेत्यनुषज्यते । किञ्च जितकाञ्चनीभिर्जितहरिद्राभिः । “निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी’ इत्यमरः । समासान्तविधेरनित्यत्वातृ । ‘नद्यृतश्च’ इति कबभावः । टाबन्तपाठे जितकनकाभिरित्यर्थः । रुचीभिर्दीप्तिभिः, कृदिकारादिक्तिनो वा वक्व्यः, रोचत इति रुच्यो देदीप्यमानोऽसि “राजसूयसूर्य’ इत्यादिना कर्तरि क्यबन्तो निपातः । तथा ततो मूर्तिप्रभावेतेजोभिः पीयूषभुजां देवानां समाना नाभिर्मुलं यस्य सनामिर्बन्धुरसि क?ञ्चिद्दिव्यपुरुषं उत्प्रेक्ष इत्यर्थः । “ज्‌योतिर्जनपद’ इत्यादिना समानशब्दस्य सभावः ॥ 8.28 ॥
अन्वयः–यथा ते काचन आकृतिः यथा वा दौवारिकान्धङ्करणी शक्तिः जितकाञ्चनीभिः रुचीभिः रुच्यः च असि तथा पीयूभुजां सनाभिः असि ॥ 8.28 ॥
न मन्मथस्त्वं स हि नास्तिमूर्तिर्न वाश्विनेयः स हि नाद्वितीयः ॥
चिह्नैः किमन्यैरथवा तवेयं श्रीरेव ताभ्यामधिको विशेषः ॥ 8.29 ॥
जीवातु–नेति । त्वं देवेष्वपीति शेषः । भन्मथः कन्दर्पो नासि । हि यस्मात् स मन्मथः । अस्तिमूर्तिः विद्यमानमूर्तिः न भवतीति नास्तिमूर्तिः अनङ्ग सुबधिकारे “अस्तिक्षीरादिवचनम्’ इति बहुव्रीहौ न सनासः । आदिवनेयोऽश्विनीपुत्रः न । हि यस्मात् सोऽद्वितीय एकाकी न । अथवा अन्यैश्चिह्नैचह्नैरभिज्ञानैः किम् ?
किन्तु तवेयं श्रीः शोभैव ताभ्यां द्वाभ्यामधिकोऽसाधारणो विशेषो व्यावर्तंकधर्मः । तस्मादन्यः कोकोत्तरस्स्त्वमिति तत्त्वं किन्तु नलश्चेदसि धन्या “भवामीति भावः ॥ 8.29 ॥
अन्वयः–त्वं मन्मथः न, हि सः नास्तिमूर्त्तिः, वा आदिश्वनेयः न, हि सः अद्वितीयः न, अथवा अन्यैः चिह्नैः किम्, तव इयं श्रीः ताभ्याम् अधिकः विशेषः ? ॥ 8.29 ॥
आलोकतृप्तीकृतलोक ! यस्त्वामसूत पीयूषमयूखमेतम् ॥
कः स्पर्धितुं धावति साधु सार्धमुदन्वता नन्वयमन्यवायः ॥ 8.30 ॥
जीवातु-आलोकेति । आलोकेन दर्शनेन त्वत्कर्मकेण उद्योतेन च । “आलोको दर्शनोद्योतौ’ इत्यमरः । तृप्तीकृतलोक ! सन्तर्पितलोकेति सम्बुद्धिः । यः अन्ववायो वंशः एतं त्वामेव पीयूमषमयूखं चन्द्रमिति रूपकम्, असूताजनयत् । अत एवीदन्वता उदधिना सार्धम् । “उदन्वानुदधिश्च’ इति निपातनात्साधुः । साधु सम्यक् स्पर्धितुं धावति, ननु अयमन्ववायः कः उदधितुल्यः ते वंशश्च क इति वक्तव्य इत्यर्थः । रूपकसङ्बीर्णोऽयमुपमालङ्कारः । नन्विति सम्बोधने ॥ 8.30 ॥
अन्वयः–आलोकतृप्तीकृतलोक, यः अयम् पीयूषमयूखम् एतं त्वाम् असूत, उदन्वता सार्धं स्पर्धितुं धावति ननु, अयम् अन्ववायः कः ? ॥ 8.30 ॥
भूयोऽपि बाला नलसुन्दरं तं मत्वाऽमरं रक्षिजनाक्षिन्बधात् ॥
आतिथ्यचाटून्यपदिश्य तत्स्थां श्रियं प्रियस्यास्तुत वस्तुतः सा ॥ 8.31 ॥
जीवातु-इत्थं नलमेव मत्वैतावदुक्त्वा पुनर्नलसटृशमन्यं मत्वाऽन्यथा व्याहरतीत्याह-भूयेऽपीति । भूयः पुनरपि सा बाला भैमी तं पुरुषं रक्षिजनस्याक्षिबन्धादन्धीकरणादमानुषत्वाद्धेतोर्नलसुन्दरममरं कञ्चिद्देवं मत्वा आतिथ्यान्यतिर्थ्यानि “अतिथेर्ण्यः’ । चाटूनि प्रियवाक्यानि अपदिश्य व्याजीकृत्य तस्मिन् पुरुषे वस्तुतः परमार्थतो टृष्ट्वैव अस्तुत स्तुतवती । स्तौर्लङि तङ् । अत्रान्यधर्मस्यान्यसम्बन्धासमृभवेन प्रियमिति
साटृश्याक्षेपान्निदर्शनाभेदः । न चैव परपुरुषगुणस्तुतिप्रसङ्गः, वस्तुतस्तथात्वेऽपि तस्यास्तथाभिमानाभावादिति ॥ 8.31 ॥
अन्वयः–सा बाला भूयः अपि रक्षिजनाक्षिबन्धात् तं नलसुन्दरम् अमरं मत्वा आतिथ्याचाटूनि अपदिश्य
तत्स्थां प्रियस्य श्रियं वस्तुतः अस्तुत ॥ 8.31 ॥
आग्जन्मवैफल्यमसह्मशल्यं गुएणाधिके वस्तुनि मौनिता चेत् ॥
खलत्वमल्पीयसि जल्पितेऽपि तदस्तु बन्दिभ्रमभूमितैव ॥ 8.32 ॥
जीवातु–अथ तर्वथापि स्तुतिकरणे कारणमाह–वागिति । युणैरदभुतैः अधिके स्तुत्यहं इत्यर्थः । वस्तुनि विषये मौनिता तूष्णीभावश्चेत् असह्मशल्यं दुस्सहशल्यप्रायं वाग्जन्मनो वाक्सत्ताया वैफल्यं स्यात् । अथैतत्परिहारायाहअल्पीयसि जल्पिते अत्यल्पवचनेऽपि । भावे क्तः । खलत्वं दौर्जन्यमसहिष्णुत्वं स्यादित्यथैः । तत्तस्माद्वन्दी स्तुतिपाठकोऽयमिति भ्रतस्य भूमिता विषयित्वमेवास्तु । “वन्दिनः स्तुतिपाठकाः’ इत्यमरः । अपवन्दिषु वन्दिभ्रमः श्रोतृदोषो न वाग्वैफल्यं खलतृवे एव स्तोतृदोषः । प्रत्युत सुगुणस्तुतिस्तस्य गुण एवेति तदङ्गीकरण मिति भावः ॥ 8.32 ॥
अन्वयः–गुणाद्भूते वस्तुनि मौनिता चेत् असह्मशल्यं वाग्जन्मवैफल्यम्, अल्पीयसे जल्पति अपि खलत्वम्, तत् वन्दिभ्रमभूमिता एव अस्तु ॥ 8.32 ॥
कन्दर्पं एवेदमविन्दत त्वां पुण्येन मन्ये पुनरन्यजन्म ॥
चण्डीशचण्डाक्षिहताशकुण्डे जुहाव यन्मन्दिरमिन्द्रियाणाम् ॥ 8.33 ॥
जीवातु–अथ स्तोति–कन्दर्प इत्यादि । ?कन्दर्प एव पुण्येन सुकृतवशेन इदं त्वां त्वद्रूपमन्यजन्म जन्मान्तरं पुनरविन्दतेति मन्ये इत्युत्प्रेक्षा । अन्यथा कथमीद्दग्रूपमिति भावः । किं तत्पुण्यं तदाह-चण्डीशस्य हरस्य चण्डं क्रूरमक्षि तृतीयनेत्रं तदेव हताशस्तस्य कुण्डमग्न्यायतनं तस्मिन्निन्द्रियाणां मन्दिरमिन्द्रियाणामाश्रयः शरीरमिति यावत् । तज्जुहावे तेन पुण्येनेति पूर्वेण सम्बन्धः ॥ 8.33 ॥
अन्वयः–मन्ये कन्दपैः एव पुण्येन इदम् अन्यजन्म पुनः अविन्दत, यत् चण्डीशचण्डाक्षितुताशुकुण्डे इन्द्रियाणां मन्दिरं जुहाव ॥ 8.33 ॥
शोभायशोभिर्जितशैवशैलं करोषि जल्ज्जागुरुमौलिमैलम् ॥
दस्त्रौ हठाच्छ्रीहरणादुदस्त्रौ कन्दर्पमप्युज्ह्मितरूपदपैम् ॥ 8.34 ॥
जीवातु–शोभेति । किञ्च हठात् प्रसह्म श्रियः सौन्द्रर्यस्य हरणाद्धेतोः शोभायशोभिः सौन्दर्यकीर्तिभिः जितशैवशैलं निर्जितकैलासमैलासमैललिमिताया अपत्यं पुरूरवसम् । “तस्येदम्’ इतृयण्प्रत्ययः । पर्यवसानाद्विशेषलाभः । लज्जया पुरुमौलिं दुर्भरशिरसं करोषि । दस्त्रावश्विनीसुतादुदस्त्रावुदगतबाष्पौ करोषि, रोदयसीत्यर्थः ॥ 8.34 ॥
अनवयः–शोभायशोभिः इठात् श्रीहरणात् जितशैवशैलम् ऐलं लज्जागुरुमौलिं, दस्त्रौ उदस्त्रौ, कन्दपैम् अपि उज्ह्मितरूपदर्पं करोषि ॥ 8.34 ॥
अवैमि हंसावलयो वलक्षास्त्वत्कान्तिकीर्तेश्चपलाः पुलाकाः ॥
उङ्डीय युक्तं पतिताः स्त्रवन्तीवेशन्तपूरं परितः प्लवन्ते ॥ 8.35 ॥
जीवातु–अवैमीति । वलक्षा धवलाः हंसावलयः तव कान्तिकीर्तेः, सौन्दर्यकीर्तेः चपलाः चलिताः पुलाकास्तुच्छधान्यानीत्यवैमि जानामीत्युत्प्रेक्षा । “स्यात्पुलोकस्तुच्छधान्ये’ वलक्षो धवलोऽर्जुनः’ इति चामरः । अत एवोङ्डीयोत्पत्त्य पतिताः “अतिभतः स्त्रवन्तीनां निम्नगानापं वेशन्तानां पल्वलानां च पूरंप्रवाहं पुलकानां जलोपरि प्लवनमुचितमेत्यर्थः ॥ 8.35 ॥
अन्वयः–वलक्षाः हंसावलयः त्वत्कान्तिकीर्तेः चपलाः पुलाकाः अवैमि, उङ्डीय पतिताः स्त्रवन्तीवेशन्तपूरं परितः युक्तं प्लवन्ते ॥ 8.35 ॥
भवत्पदाङ्गुष्ठमपि श्रिता श्रीर्ध्रुवं न लब्धा कुसुमायुधेन ॥
जेतुस्तमेतत् खलु चिह्नमस्मिन्नर्धेन्दुरास्ते नखवेषधारि ॥ 8.36 ॥
जीवातु–भवदिति । कुसुमायुधेन कामेन भवतः पदाङ्गुण्ठं श्रिता श्रीरपि न ल्ब्धा न प्राप्ता ध्रुवम् ? भवच्छ्रिता श्रीस्तु दूरापास्तेति भावः । तथा हिन्तं कामं जेतुः स्मरहरस्य तृन्नन्तत्वात् “न कोक’ इत्यादिना षष्ठीप्रतिषेधः । तज्जेतुरिति समासपाठे तृजन्तेन षष्ठीसमासः साधुश्चायमेव पाठः । तृननर्थस्य ताच्छील्यस्यानुपयोगात् रतीशजतेतुरिति देशांतरपाठस्त्युक्त एब । प्रकृतार्थस्य सर्वनामोपादेयस्य स्वशब्दोपादाने पौनरुक्त्यदोषादिति । हस्तेन निर्दिशन्त्याह–एतदर्धेन्दुरूपं चिह्नमस्मिननङ्गुण्ठे नखकैतवेतास्ते खल्वित्यपह्नवभेदः । अर्धेन्दुचिह्नधारणादयमपि कामजेता ! यद्वा तच्चिह्नधारणात् तस्यापि स्मरस्य जेतेत्युभयथापि कथमेतच्छ्रीलाभः कामदेवस्येति भावः ॥ 8.36 ॥
अन्वयः–कुसुमायुधेन भवल्पदाङ्गुष्ठं श्रिता श्रीः अपि ध्रुवं न लब्धा, खलु अस्मिन् तं जेतुः नखवेषधारि एतत् अर्द्धेन्द्रुचिह्नम् आस्ते ॥ 8.36 ॥
राजा द्विजानामनुमासभिन्नः पूर्णां तनूकृत्य तनुं तपोभिः ॥
कुहूषु दृश्येतरतां किमेतृय सायुज्ग्रमाप्नोति भवन्मुखस्य ॥ 8.37 ॥
जीवातु–राजेति । द्विजानां राजा चन्द्रो ब्राह्मणोत्तमश्च अनुमासं प्रतिमासं भिन्नोऽन्यः सन् अर्धेन्दुरन्यर्थकस्य प्रतिकुहूषु मुखसायुज्याभावादिति भावः । पूर्णां राकास्विति भावः । तनुं शरीरं तपोभिः प्रत्यहं देवताभ्यः कलासमर्पणरूपैरिति भावः । तनूकृत्य कुहूषु अमावास्यासु टृश्येतरतामटृश्यतामेत्य भवन्मुखस्य सायुज्यमैक्यं प्राप्नोति तद्वदित्यर्थं अन्यथा कथं कुहूषु न टृश्यत इति भावः ॥ 8.37 ॥
अन्वयः–द्विजानां राजा पूर्णां तनुं तपोभिः तनूकृल्य अनुमासवभिन्नः कुहूषु टृश्येतरताम् एत्य किं भवन्मुखस्थ सायुज्यम् आप्तोतिं ? ॥ 8.37 ॥
कृत्वा दृशौ ते बहुवर्णचित्रे किं कृष्णसारस्य तयोर्मृगस्य ॥
अदुरजाग्रद्विदरप्रणाली रेखामयच्छिद्विधिरर्ध्रचन्द्रम् ॥ 8.38 ॥
जीवातु–कृत्वेति । विधिर्विधाता बहुभिर्वणैः सितासितरूपैश्चित्रे सुटृश्ये तल्लक्षत्वादिति भावः । ते तव
टृशौ कृत्वा निर्माय कृष्णसारस्य मृगस्य सम्बन्धिन्योः तयोर्टृशोरदूरे समीपे जाग्रत्या विदरप्रणाल्याः स्फुटनमार्गस्य नेत्रप्रान्तवर्त्यर्धचन्द्ररेखाविशेषस्य च्छलात् “विदरः स्फुटनं भिदा’ इत्यमरः । अर्धचन्द्रं गजहस्तिकामयच्छत् तत्समकक्षानहंत्वादिति भावः । “अर्धचन्द्रस्तु चन्द्रके गलहस्ते बाणभेदेऽपि’ इति विश्वः । छलादयच्छदिति सापह्नवोत्प्रेक्षा व्यञ्चका प्रयोगाद्गम्या ॥ 8.38 ॥
अन्वयः–विधिः बहुवर्णचित्रे ते टृशौ कृत्वा कृष्णसारस्य मृगस्य तयोः अदूरजाग्रद्विदरप्रणालीरेखां
( च्छलात् ) किम् अर्द्धचन्द्रम् अयच्छत् ? ॥ 8.38 ॥
मुग्धः स मोहात् सुभगान्न देहाद्दवदद्भवद्भ्रुरचनाय चापम् ॥
भ्रूभङ्गजेयस्तव यन्मनोभूरनेन रूपेण यदा तदाभूत् ॥ 8.39 ॥
ददत् ब्रह्मण इति शेषः । “नाभ्यस्ताच्छतु"रिति नुम्प्रतिषेधः । स मनोभूर्मोहादविमृश्यकारित्वलक्षणात्प्रवृत्तिनिमित्तान्मुग्धो मुग्धशब्दवाच्योऽभूत् सुभगात् सुन्दराद्देहात्तु न । पूर्वं कायः सौन्दर्यमुग्ध इत्युच्यते । सम्प्रति तु मौग्ध्यादित्यर्थः । “मुग्धः सुन्दरमूढयोः’ इति विश्वः । कुतः यद्यस्मात् तवानेनेति हस्तनिर्देशः । रूपेण सौन्दर्येण करणेन यदा तदा सर्वदेत्यर्थः । भ्रूभङ्गेण भ्रुक्षेपमात्रेण जेजो जेतुं शक्योऽभूत् । कामस्त्वां रूपेण जेतुमशक्तोऽपि चापेनापि शक्नुयात् । सम्प्रति चापदानादुभयथापि भ्रष्टोऽभूदिति भावः ॥ 8.39 ॥
अन्वयः–यत् भवद्भ्रूरचनाय चापं ददत् मनोभूः तव अनेन रूपेण यदा भ्रू भङ्गजेयः अभूत् तदा सः मोहात् मुग्धः, सुभगात् देहात् न ॥ 8.39 ॥
मगस्य नेत्रद्वितयं त्वदास्ये विधौ विधुत्वानुमितस्य टृश्यम् ॥
तस्यैव च त्वत्कचपाशवेशः पुच्छे स्फरच्चामरगुच्छ एषः ॥ 8.40 ॥
जीवातु–मृगस्येति । त्वदास्ये विधौ त्वन्मुखचन्द्रे टृश्यं टृग्गोचरीभूतं नैत्रद्वितयं विधुत्वेन चन्द्रत्वेनानुमितस्य चन्द्रस्य मृगाविनाभावादिति भावः । मृगसयैव तदीयमेवेत्यर्थः । किञ्च एषः तव
कचपाशवेश्?ाः केशपाशसन्निवेशः तस्यैव मृगस्य पुच्छे वालधौ स्फुरच्चामरगुच्छ इत्युत्प्रेक्षा । अन्यथा कथमनयोरीटृशी शोभेति भावः ॥ 8.40 ॥
अन्वयः–त्वदास्ये विधौ टृश्यं नेत्रद्वितयं विधुत्वानुमितस्य मृगस्य, तस्य एव च पुच्छे स्फुरच्चामरगुच्छः एषः त्वत्कचपाशवेशः ॥ 8.40 ॥
आस्तामनङ्गीकरणाद्भवेन दृश्यः स्मरौ नेति पुराणवाणी ॥
तवैव देहश्रितया श्रियेति नवस्तु वस्तु प्रतिभाति वादः ॥ 8.41 ॥
जीवातु–आस्तामिति । स्मरो भवेनेश्वरेणानङ्गीकरणादशरीरीकरणाद्धेतोर्टृश्यो नेति पुराणवाणी पुरातनवादस्तावदास्ताम् । तवैव देहं श्रितया “द्वितीयारितातीते’त्यादिना समासः श्रिया सौन्दर्येण न टृश्य इति नीवी नूतनो वादस्तु परमार्थंः प्रतिभाति । तदैतिह्ममात्रमिदं तु प्रत्यक्षमित्यर्थः । अतः
पराजयलज्जानिमित्तमस्याटृश्यत्वमित्युतृप्रेक्षा ॥ 8.41 ॥
अन्वयः–स्मरः भवेन अनङ्गीकरणात् टृश्यः न-इति पुराणवाणी आस्ताम्, अव एत देहश्रितया श्रिया-5इति नवः वादः तु वस्तु प्रतिभाति ॥ 8.41 ॥
त्वया जगत्युच्चितकान्तिसारे यदिन्दुनाऽवीलि शिलोञ्छवृत्तिः ॥
आरोपि तन्माणवकोऽपि मौलौ स यज्वराज्येपि महेश्वरेण ॥ 8.42 ॥
जीवातु–त्वयेति । त्वया जगति उच्चितकान्तिसारे गृहीतलावण्यसर्वस्वे सति इन्दुता शिलोञ्छावेव वृत्ति जीविका “उञ्छौ धान्यकणादानं कणिकांशार्जनं शिलम्’ इति यादवः । अशीलि शीलतेति यत् तत्तस्माद्धेतोः मनोरपत्य पुमान् मानवः ‘तस्यापत्यम्’ इत्यण्प्रत्यये णत्वम् । “अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य तु मूर्धन्यस्तेन सिद्ध्यति माणवः ॥’ तेन सोऽल्पोमाणवकः । बालोऽपि स इन्दुर्महेश्वरेण महादेवेन महाराजेन च मौलौ शिरसि तथा यज्वराज्ये द्विजरायत्वेऽप्यारोपि आरोपित इत्युत्प्रेक्षा । प्रकृष्टधर्मः कस्मै फलाय न भवतीति भावः, त्रैलक्याह्लादकश्चन्द्रोऽपि तल्लावण्यलेश एवेति तात्पर्यार्थः ॥ 8.42 ॥
अन्वयः–त्वया उच्चितकान्तिसारे जगति यत् इन्दुना शिलोञ्छवृत्तिः अशीलि तत् माणवकः अपि सः महेश्वरेण मौलौ यज्वराज्ये अपि आरोपि ॥ 8.42 ॥
आदेहदाहं कुसुमायुधस्य विधाय सौन्दर्यकथारिद्रम् ॥
त्वदङ्गशिल्पात्पुनरीश्वरेण चिरेण जाने जगदन्वकम्पि ॥ 8.43 ॥
जीवातु–आदेहेति । ईश्वरेण शम्भुना कुसुमायुधस्य कामस्य देहदाहादारभ्य आवेहदाहं मर्यादायामव्ययीभावः । जगल्लोकं सौन्दर्यकथादरिद्रं सोन्दर्यवार्त्ताशून्यं विधाय चिरेण त्वदङ्गस्य शिल्पान्निर्माणात् विश्वं पुनरन्वकम्पिअनुकमित्पतं त्वया पुनः सौन्दर्यभरितं कृतमिति जान इत्युत्प्रेक्षा । तव मूर्तिमतःकामात् को भेद इति भावः ॥ 8.43 ॥
अन्वयः–जाने कुसुमायुधस्य, आदेहदाहं जगत् सौन्दर्यकथादरिद्रं विधाय त्वदङ्गशिल्पात् ईश्वरेण पुनः चिरेण अन्वकमित्प ॥ 8.43 ॥
मही कृतार्थायदि मानवोऽसि जितं दिवा यद्यमरेषु कोऽपि ॥
कुलं त्वयालङ्कुतमौगञ्चेन्नाधोऽपि कस्योपरि नागलोकः ॥ 8.44 ॥
जीवातु–महीति । मनोरयं मानवो मनुष्योऽसि यदि “तस्येदम्’ इत्यण्प्रत्ययः । महीति । मनोरयं मानवो मनुष्योऽसि यदि “तस्येदम्’ इत्यण्प्रत्ययः । मही कृतार्था । अमरेषु कोऽप्यसि यदि दिवा द्युलोकेन जितं सर्वोत्कर्षेण स्थितं नपुंसके भावे क्तः । त्वया औरगं कुलं नागकुलमलङ्कृतं चेत् नागोऽसिचेदित्यर्थः । अधः सर्वाधः स्थितोऽपि नागलोकःकस्य लोकस्योपरि न । सर्वस्याप्युपरि सर्तत इत्यर्थः । “उपर्युपरिष्ठात्’ इति निपातः ॥ 8.44 ॥
अन्वयः–यदि मानवः असि, मही कृतार्था; यदि अमरेषु कः अपि, दिवा जितम्; त्वया औरगं कुलम् अलङ्कृतः चेत, अधः अपि नागलोकः कस्य उपरि न ? ॥ 8.44 ॥

सेयं न धत्तेऽनुपपत्तिमुच्चैम्रच्चित्तवृत्तिस्त्वयि चिन्त्यमाने ॥
ममौ स भद्रंचुलुके समुद्रस्त्वयात्तगामृभीर्यमहत्त्वमुद्रः ॥ 8.45 ॥
जीवातु–सेयमिति । त्वयि चिन्त्यमाने स्वरूपतो गुणतश्च विभाव्यमाने सति सेयं विभावयन्तौ मच्चित्तवृत्तिः उच्चैर्महजतीमनुपपत्ति न धत्ते समुद्रस्यागस्त्यचुलुके अनूपपन्नताबुद्धिं न करो?तीत्यर्थः । तत्र हेतुमुत्प्रेक्षते स समुद्रः त्वया आत्ता गृहीता गाम्भीर्यमहत्वे एव मुद्रा चिह्नं यस्य स सन् । अत एव चुलुके भुनिमुष्टिगर्भे ममौ भद्रं युक्तमित्यर्थः । अन्यथा कथं तथा महतो गम्भीरस्य तस्य मुनिचुलुकितेति भावः । अत्र मानहेतोरात्तेतृयादिविशेषणगत्या निर्देशात्पदार्थहेतुकं काव्यलिङ्गमलङ्कारः । तत्सङ्कीर्णेयमुत्प्रेक्षा भद्रमिति व्यंजकप्रयोगाद्वाच्या ॥ 8.45 ॥
अन्वयः–सा इयं मच्चित्तवृत्तिः त्वयि चिन्य्यमाने उच्चैः अनुपपत्ति न धत्ते, भद्रं त्वया श्रात्तगाम्भीर्यंमहत्त्तवमुद्रः सः समुद्रः चुलुके ममौ ॥ 8.45 ॥
संसारसिन्धावनुबिम्बमत्र जागतिं जाने तव वैरसेनिः ॥
बिम्बानुबिम्बो हि विहाय धातुर्नं जातु दृष्टातिसरूपसृष्टिः ॥ 8.46 ॥
जीवातु–संसारेति । किञ्चात्रास्मिन् संसारसिन्धौ वैरसेनिः नलस्तवानुबिम्बं जागर्ति स्फुरतीति जाने तर्कयामीत्यर्थः । कुतः, हि तस्माद्बिम्बानुबिम्बौ विहायच वर्जयित्वा धातुः अतिसरूपसृष्टिः जातु कदाचिदवि न टृष्टा । अन्यथा कथमेतदत्यन्तसाटृश्यमित्यर्थः । भवान् नल ऐवेति मे प्रतिभातीति भावः ॥ 8.46 ॥
अन्वयः–अत्र संसारसिन्धौ जाने वैरसेनिः तव अनुबिम्बं जागर्ति, हि धातुः अतिसरूपसृष्टिः बिम्बानुबिम्बं विहाय जातु न टृष्टा ॥ 8.46 ॥
इयत्कृतं केन महोजगत्यामहो महोयः सुकृतं जनेन ॥
पादौ यमुद्श्यि तवापि पद्यारजः सु पह्मस्त्रजमारभेते ॥ 8.47 ॥
जीवातु–इयदिति । महीजगतृयां भूलोके केन जनेन इयदेतावन्महीयो महत्तरं सुकृतं कृतमहो, यं जनमुद्दिश्य तवापि पादौ पद्यारजःसु मार्गधूलिषु पह्मस्त्रजं पह्ममालामारभेते कुर्वाते अहो यं जनमुद्दिश्यागतस्त्वं स द्यन्यो वक्तव्य इति तात्पर्यम् ॥ 8.47 ॥
अन्वयः–अहो केन जनने महीजगत्याम् इयत् महीयः सुकृतं कृतं यत् उद्दिश्य तव अपि पादौ पद्यारजःसु पह्मस्त्रजम् आरभेते ? ॥ 8.47 ॥
ब्रवीति मे किं किमयं न जाने सन्देहदोलामवम्ब्य संचित् ॥
कस्यापि धन्यस्य गृहातिथिस्त्वमलीकसम्भावलम्य ॥ 8.48 ॥
जीवातु-ब्रवीतीति । इयं मे संवित् बुद्धिः सन्देहमेव दोलामस्मदुद्देशेन वा अन्योद्देशेन वा आगतस्त्वमित्येवंरूपामवलम्ब्य आरुह्म किं किं ब्रवीति किमपि किमपि तर्कयतीत्यर्थः । अतो न जाने न निश्चिनोमि । अथवा अलीकसम्भावनया मिथ्यावितर्केणालं तत्साध्यं नास्तीत्यर्थः । अत एव गम्यमानसाधनत्वापेक्षया करणत्वात् त्वमेवानुकम्पस्वेत्यर्थः ॥ 8.48 ॥
अन्वयः–इयं मे संवित् सन्देहदोलाम् अवलग्ब्य न जाने किं किं ब्रवीति ? अथवा अलीकसंभावनया अलम्, त्वं कस्य अपि धन्यस्य गृहातिथिः ॥ 8.48 ॥
प्राप्तैव तावत् तव रूपसृष्टं निपीय दृष्टिर्जनुषः फलं मे ॥
आप श्रुती नामृतमाद्रियेतां तयोः प्रसादीकुरुष गिरश्चेत् ॥ 8.49 ॥
जीवातु–प्राप्तैवेति । तावन्मे टृष्टिष्ः तव रूस्पेणाकारेण सृष्टमुत्पादितममृतं निपीय जनुषो जन्मनः फलं प्राप्तैव । अथ श्रुती श्रौत्रे अप्यमृतं नाद्रियेतान्नपिबेतां किमिति काकुः पास्यत एवेत्यर्थः । चेद्यदि तयोः श्रुत्योः गिरं वाक्यं प्रसादीकुरुषे किमपि वदसीत्यर्थः । सर्वथा प्रश्नोत्तरदानं उचितमेवैत्यर्थः ॥ 8.49 ॥
अन्वयः–मे टृष्टिः तव रूपसृष्टम् अमृतं निपीय तावत् जनुषः फलं प्राप्ताएव, गिरः तयोः प्रसादीकुरुषे चेत् श्रुती अपि न आद्रियेताम् ? ॥ 8.49 ॥

इत्थं मधूत्थं रसमुद्गिरन्ती तदोष्ठबन्धूकधनुर्विसृष्टा ॥
कर्णात्प्रसूनाशुगपञ्चबाणी वाणीमिषेणास्य मनो विवेश ॥ 8.50 ॥
जीवातु–इत्थमिति । इत्थं मधुनः क्षौद्रादुत्थमुत्पन्नम् । “आतश्चोपसर्गे’ इति कप्रत्ययः । रसं तत्सटृशं रसमुद्गिरन्ती स्त्रवन्ती तस्या ओण्ठ एव बन्धूकं बन्धुजीवकुसुमम् । ‘बन्धूको बन्धुजीवः’ इत्यमरः । तदेव धनुः तेन विसृष्टा मुक्ता प्रसूनाशुगस्य कुसुमेषोः पञ्चानां बाणानापं समाहारः पञ्चमी । अस्य नलस्य मनो विवेश कर्णद्वारा प्रविवेशेत्यर्थः ॥ 8.50 ॥
अन्वयः–इत्थं मधूत्थं रसम् उद्गिरन्ती तदोष्ठबन्धूकधनुर्विसृष्टा प्रसूनाशगपञ्चबाणी वाणीमिषेण कर्णात् अस्य मनः विवेश ॥ 8.50 ॥
अमजृजदालजृजमसौ सुधासु प्रियं प्रियायां वदनान्निपीय ॥
द्विषन्मुखेऽपि स्वदते स्तुतिर्या तन्मिष्टता नेष्टमुखेत्यमेया ॥ 8.51 ॥
जीवातु–अमज्जदिति । असौ नलः प्रियाया वदनात् प्रियं प्रियवाक्यं निपीय सुधासु आमज्जं मज्जानं धातुमभिव्याप्येत्यर्थ्तः । अभिविधावव्ययीभावः । अनश्च’ इति समासान्तष्टच् । अमज्जदमृतास्वासुखमन्वभूदित्यर्थः । तथा हि–द्वि षन्मुखेऽपि तन्मुखतश्चेदिर्त्थः । या स्तुतिः स्वदते स्वादूभवति इष्टमुखे प्रियजनमुखे तु तस्याः स्तुतेर्मिष्टता स्वादुता अमेया अपरिच्छेद्या न किमिति काकुः ? अपि तु परिच्छेत्तुमशक्यैवेत्यर्थः । अत्रेष्टसुखस्तुतेः द्विषन्मुखस्तुत्यपेक्षया कैमुत्येन स्वादुत्वोत्कर्षप्रतिपादनादर्थाहेतुकं काव्यलिङ्गमिति सङ्करः ॥ 8.51 ॥
अन्वयः–प्रियायाः वदनात् प्रियं निपीय असौ सुधासु आमज्जम् ?अमज्जत्, या स्तुतिः द्विषन्मुखे अपि स्वदते, इष्टमुखे तु तन्मिष्टता अमेया न ? ॥ 8.51 ॥
पीरस्त्यशलं जनतोपनीतां गृह्णन् यथाहर्पतिरर्घ्यपूजाम् ॥
तथातिथेयीमथ संप्रतीच्छन्नस्या वयस्यासनमासाद ॥ 8.52 ॥
जीवातु–पौरस्त्येति । अथ नलः अह्नः पतिः अहर्पतिः सूर्यः “अहरादीनां पत्यादिषूपसङ्ख्यानम्’ इति रेफादेशः । यथा जनानां समूहो जनता । “ग्रामजनवन्धूसहायेभ्यस्तल्’ इति रेफादेशः । यथा जनानां समूहो जनता । “ग्रामजनवन्थुसहायेभ्यस्तल्’ इति रेफादेशः । यथा जनानां समूहो जनता । “ग्रामजनवन्धृसहायेभ्यस्तल्’ । तथा उपनीतां समर्पिताम् अर्घार्थं जलमर्ध्य ‘पादार्घाभ्याञ्च’ इति यत्प्रत्ययः । तदेव पूजां तां गृह्नण् स्वीकुर्वन् पुरो भवः पौरस्त्यः “दक्षिणापश्चात्पुरसस्त्यक्’ । तं शैलमुदयाद्रिमाससादेति शेषः । तथा अतिथिषु साधुमातिथेयीं पूजां, ‘पथ्यतिथिवसतिस्वपतेर्ढञ्’ । सम्प्रतीच्छन् प्रतिगृह्म्णन् अस्या भैम्याः वयसा तुल्या सखी “नौवयोधर्मे’त्यादिना यत्प्रत्ययः । तस्या आसनमाससाद । न तु भैम्याः दूत्यावस्थायामनौचित्यादिति भावः । उपमालंकारः ॥ 8.52 ॥
अन्वयः–अथ अहर्पतिः जनतोनपनीताम् अर्ध्यपूजां गृह्णन् यथा पौरस्त्ययशैलं तथा आतिथेयीं संप्रतीच्छन् अस्याः वयस्यासनम् आससाद ॥ 8.52 ॥
अयोधि तर्द्धर्यमनोभवाभ्यां तामेव भूमीमवलम्बय भैमीम् ॥
आह स्म यत्र स्मरचापमन्तश्छिन्नं भ्रुवौ तज्जयभङ्गवार्ताम् ॥ 8.53 ॥
रणभूमीति व्यस्यप्कम् । अवलम्ब्य प्राप्य अयोधि भावेललुङ् । यत्र युद्धे युद्धभूमौ वा अन्तर्मध्ये च्छिन्नं भ्रुवौ भैमीभ्रुवावेव स्मरचावं पूर्ववद्रूपकं तयोर्धेर्यमनोभवयोर्जयभङ्गवार्तामाह स्म स्मरचापभङ्गात् स एव भग्न इति भावः । कथञ्चित्कामं निरुध्यधैर्यमेवावलम्बितवानित्यर्थः ॥ 8.53 ॥
अन्वयः–तद्धैर्यमनोभवाभ्यां तां भैमीम् एव भूमीम् अवलम्बय अयोधियत्र अन्तश्छिन्नं भ्रुवौ स्मरचापं तज्जयभङ्गवार्ताम् आह स्म ॥ 8.53 ॥
अथ स्मराज्ञामवधीर्य धैर्यादूचे स तद्वागुपवीणितोऽपि ॥
विवेकधाराशतधौतमन्तः सतां न कामः कलुषीकरोति ॥ 8.54 ॥
जीवातु–अथेति । अथ च नलस्तस्या भेम्या वाचा उपवीणितो वीणयाउपनीतोऽपि
तद्वाग्वीणाकृष्टचित्तोऽपीत्यर्थः । “सत्यापपाश’ इत्यादिना वीणया उपनीतोऽपि तद्वाग्वीणाकृष्टचित्तोऽपीत्यर्थः । “सत्यापपाश इत्यादिना वीणाशब्दादुपगाने णिचि कर्मणि क्तः । धैर्याद्धैर्य विधाया ल्यब्लोपे पञ्चमी । स्मरस्याज्ञामवीधर्य अवज्ञाय ऊचे उवाच । तथा हिविवेकानां धाराशतैर्धौतं क्षालितं सतां विदुषामन्तरन्तःकरणं कामो न कलुषीकरोति न विकर्तु शक्नोतीत्यर्थः । अत्र पूर्वार्धे स्मरधैर्ययोर्धावितचित्तस्य धैर्यनियमनात्परिसङ्ख्यालङ्कारा । “एकस्य वस्तुनो भावादनेकत्रैकदा यदा । एकत्र नियमा सा हि परिसङ्ख्या निगद्यते ॥’ इति लक्षणात् तस्योत्तरार्धे सामान्येन समथैनात् सामान्येन विशेषसमर्थनरूपोर्थान्तरन्यास इति सङ्करः ॥ 8.54 ॥
अन्वयः–अथ तद्वागुपवीणितः अपि सः धैर्यात् स्मराज्ञाम् अधधीर्य ऊचे, कामः विवेकधाराशतधौतं सताम् अन्तः न कलुधीकरोति ॥ 8.54 ॥
हरित्पतीनां सदसः प्रतीहि त्वदीयमेवातिथिमागतं माम् ॥
वहन्तमन्तर्गुरुणादरेण प्राणानिव स्वाप्रभुवाचिकानि ॥ 8.55 ॥
जीवातु–हरिदिति । मां गुरुणा आदरेण अतिप्रयत्नेन स्वःप्रभूणामिन्द्रादीनां व्याहृतार्थ वाचो वाचिकानि
सन्देशवाक्यानि “सन्देशवाग्वाचिकं स्यात्’इत्यमरः । “वाचो व्याहृतार्थायाम्’ इति ठक् । प्राणानिव त्वदीयानित्यर्थः । अन्तरन्तरात्मनि वहन्तं हरित्पतीनामिन्द्रादिदिक्पालानां सदस आस्थानादागतं त्वदीयमेवातिर्थि प्रतीहि त्वामेवोद्दिश्यागतं विद्धीत्यरूर्थः ॥ 8.55 ॥
अन्वयः–मां गुरुणा आदरेण स्वःप्रभुवाचिकानि प्राणान् इव अन्तः वहन्तं हरित्पतीनां सदसः आगतंत्वदीयम् एव अतिथि प्रतीहि ॥ 8.55 ॥
विरम्यतां भूतवती सपर्या निविश्यतामासनमुज्झितं किम् ॥
या दूतता नः फलिना विधेया सैवातिथेयी पृथुरुद्भवित्री ॥ 8.56 ॥
जीवातु–विरम्यतामिति । सपर्या पूजा भूतवती भूतैव । भवतेः क्तवतुप्रत्यये ङीप् । विरम्यतामवसीयतां भावे लोट् । निविश्यतां उपविश्यतां किं किमर्थंमासनमुज्झितं त्यक्तम् ! फलवती, “फलबर्हाभ्यामिनज्वक्तव्यः’ । विधेया कर्तव्य नोऽस्माकं या दूतता दूत्यं सैव पृथुमैहती आतिथेयी अतिथिपूजा उदभावित्री भाविनी
॥ 8.56 ॥
अन्वयः–विरम्यतां, सपर्या भूतवती; निविश्यताम्, आसनं किम् उज्झितम् ? या नः दूतता फलिना विधेया, सा एव पृथुः आतिथसेयी उद्मवित्री ॥ 8.56 ॥
कलृयाणि ! कल्यानि तवाङ्गकानि कच्चित्तमां चित्तमनाविलं ते ॥
अलं विलम्वेन गिरं ममदीयामाकर्णयाकर्णतटायताक्षि ॥ 8.57 ॥
जीवातु–कल्याणीति । हे कल्याणि ! भद्रे ! तवाङ्गकानि कोमलान्यङ्गानि कल्यानि पटूनि कच्चित्तमां ? कच्चिदिति प्रशनार्थमव्ययम् । “कच्चित्कामप्रवेदने’ हत्यमरः । तस्मात् “अतिशायने तमविष्ठनौ’ इति तमप् । “किमेत्तिङव्ययघात्’ हत्यामुप्रत्ययः । किञ्च ते चित्तमनाविलमकलुषं कच्चित्तमाम् । आकर्णतटात्कर्णतटपर्यन्तं मर्यादायामव्ययीभावः । ततः ‘सुप्सुपा’ इति समासे आकर्णतटायते अक्षिणी यस्याः सेति “अम्बार्थनद्योर्ह्नस्वः’ हे आकर्णतटायताक्ष्ज्ञि ! विलम्बेनालं मदीश्यासं गिरमाकर्णय ॥ 8.57 ॥
अन्वयः–कल्याणि, तव अङ्गकानि कल्यानि कच्चित्तमाम्, ते वित्तम् अनाविलम् ? आकर्णतटायताक्षि, विलम्बेन अलं, मदीयां गिरम् आकर्ण ॥ 8.57 ॥
कौमारमारभ्या गणा गुणानां हरन्ति ते दिक्षु धृताधिपत्यम् ॥
सुराधिंराजं सलिलाधिपञ्च हुताशनञ्चार्यमनन्दनञ्च ॥ 8.58 ॥
जीवातु–कौमारामिति । हे भैमि ! कौमारं नवं कुमारवयम् आरभ्य “प्राणभृज्जातिवयोवचनोद्गात्रादिभ्योऽञ्’ । ते तव गुणानां गणाः दिक्षु धृताधिपत्यम् दिशामधीशम् सुराधिराजमिन्द्रं सलिलाधिपं वरुणञ्च हुताशनमग्निञ्च अर्यमनन्दनं सूर्यतनयं यमञ्च हरन्ति आकर्षयन्ति
॥ 8.58 ॥
अन्वयः–कौमारम् आरभ्य ते गुणानां गणाः दिक्षु धृताधिपत्यं सुरधिराजं सलिलाधिपं च हुताशनम् च अर्यमनन्दनं च हरन्ति ॥ 8.58 ॥
चरच्चिरं शैशवयौवनीयद्वैराज्यभाजि त्वयि खेदमेति ॥
तेषां रुचश्चौरतरेण चित्तं पञ्चेषणा लुण्ठितधैर्यवित्तम् ॥ 8.59 ॥
जीवातु–चरदिति । शैशवयौवनयोरिदं शैशवयचौवनीयं, “वृद्धाच्छः’ तच्च तत् द्वेराज्यं द्वयो राज्ञो
( कर्म ) ब्राह्ममणादित्वात् ष्यञ्प्रत्ययः । तदभाजि शेशवयौवनारूयराज्यद्वयाकान्तायामित्यर्थः । एतेनास्या वयःसन्धिरुक्तः, तस्यां त्वयि चिरं चरद्वर्तमानं तेषामिन्द्रादीनां चित्तं ( कर्तृ ) रुचः कान्तेश्चौरतरेण विरहितेजोहारिणेत्यर्थः । पञ्चेषुणा लुण्ठितधैर्यवित्तम् अपहतर्धर्यधनं सत् खेदमति द्वैराज्ये प्रजानां चोरबाधा जाया इति भावः । वयोद्वयद्वैराज्ये पञ्चेषुणा चोरेणं तेषां धैर्यवित्तं हृतमिति रूपकम् । तद्धेतुकत्वात् खेदस्य वाक्यार्थहेतुकं काव्यलिङ्गमिति सङ्करः ॥ 8.59 ॥
अन्वयः–शैशवयौवनीयद्वैराज्यभाजि त्वयि चिरं चरत् तेषां रुचः चौरतरेण पञ्चेषुणा लुण्ठितधैर्यवित्तं चित्तं खेदम् एति ॥ 8.59 ॥
तेषामिदानीं किल केवलं सा हृदि त्वदाश विलसत्यजस्त्रम् ॥
आशास्तु नासाद्य तनूरुदाराः पूर्वादयः पूर्ववदात्मदारः ॥ 8.60 ॥
जीवातु–तेषामिति । इदानीं तेषामिन्द्रादीनां हृदि सा प्रसिद्धा त्वदाशा केवलं त्वय्यतितृष्णा एव आशा दिक् च । “आशा दिगतितृष्णयोः’ इति वैजयन्ती । अजस्त्रं विलसति किल विजृम्भते खलु । आत्मदाराः स्वभार्याः पूर्वादयः प्राच्यादयः आशा दिशस्तु उदारा दक्षिणा महतीश्च तनूरासाद्य पूर्ववत् हृदि न विलसन्ति ।
“उदारो महति ख्याते दक्षिणे दानशौण्डके’ इति वैजयन्ती । अपूर्वनायिकानुरक्ते हृदि पूर्वानायिकाश्चतुरा अपि न लगन्ति । तथा महत्यो दिशः परमाणौ हृदि न लगन्तीति च भावः । त्वदाशापरवशस्ते स्वकीयं प्राच्याद्याशापरिपालनाधिकारमपि विस्मृत्य स्थिता इति तात्पर्यार्थः । अ?त्रोभयोराशयोरेकत्र हृदि प्राप्तौ एकस्मा भैम्याशाया एव तन्नियमनात्परिसङ्ख्या । यद्यप्येकस्य उभयत्र प्राप्तावेकत्र नियमनं परिसङ्ख्येत्यालङ्कारिणां लक्षणं तथापि मीमांसकैरुभयोरेकत्रऋ प्रापतावेकस्यैव नियमनमित्यङ्गीकाराच्चमत्कारकारित्वराविशेषाच्च उपलक्षणत्वेनोभयाङ्गीकारे को विरोधः ? अथवा एकस्य हृदयस्य आशाद्वयप्राप्तावेकत्रैव नियमानाद्वापि लभ्यत इति सर्वथा परिसङ्ख्या समस्त्येव । सा च श्लिष्टशब्दोत्तयोरभेदाध्यवसायाच्छ्लेषभित्तिकाभेदरूपातिशयोक्त्युत्थापितेति सङ्करः ॥ 8.60 ॥
अनवयः–इदानीं तेषां हृदि सा त्वदाशा किल केबलम् अजस्त्रं विलसति, आत्मदाराः पूर्वादयः आशाः तु उदाराः तनुः आसाद्य पूर्ववत् न ॥ 8.60 ॥
अनेन सार्धं तव यौवनेन कोटिं परामच्छिदुरोऽध्यरोहत् ॥
प्रेमापि तन्वि ! त्वयि वासवस्य गुणोऽपि चापे सुमनःशरस्य ॥ 8.61 ॥
जीवातु–अनेनेति । हे भैति ! वासवस्य त्वय्यसीमा निरवधिः प्रेमा अनुरागोऽपि तवानेन यौवनेने सार्धमच्छिदुरोऽविच्छिननः सन् । “विदिभिदिच्छिदेः कुरच्’ । परां कोटिमुत्कर्षमध्यरोहत् । तथा सुमनःशरस्य पुष्पेषोश्चापे गुणो मौर्व्यपि परामुत्तरां कोटिमटनिमध्यरोहत् । “अत्युत्कर्षाश्रयः कोटयः’ इत्यमरः । अत्र प्रेमगुणयोः प्रकृतयोरेवे विशेषणसाम्येनौपम्योपगमतात् केवलप्रकृतविषया तुल्ययोगिता तयोरेव परां कोटिमिति श्लेश्ज्ञभित्तिकाभैदाध्यवसायरूपादतिशयोक्तिमूला यौवनेन सार्धमिति सहार्थसम्बन्धोक्तेः सहोक्तिरित्यनयोः सङ्करः ॥ 8.61 ॥
अन्वयः–त्वयि अच्छिदुरः वासवस्य प्रेमा अपि तव अनेन यौवनेन सार्धं परां कोटिम् अध्यरोहत्, सुमनःशरस्य चापे गुणाः अपि ॥ 8.61 ॥
पाची प्रयाते विरहं दधत्ते तापाच्च रूपाच्च शशाङ्कशङ्की ॥
परापराधैर्निदधाति भानो रुषारुणं लोचनवृन्दमिन्द्रः ॥ 8.62 ॥
अन्वयः–इन्द्रः ते विरहं दधत् प्राचीं प्रयाते भानौ तरापात् रूपात् च शशाङ्कशङ्की परापराधैः रुषा
अरुणं लोचनवृन्दं निदधाति ॥ 8.62 ॥
त्रिनेत्रमात्रेण रुष कृतं यत्तदेव योऽद्यापि न संवृणोति ॥
न वेद रुष्टेऽद्य सहस्त्रनेत्रे गन्ता स कामः खलुः कामवस्थाम् ॥ 8.63 ॥
अन्वयः–त्रिनेत्रेति । त्रिनेत्र एव त्रिनेत्रमात्रः । “मात्रं कार्त्स्न्येऽवधारणे’ इत्यमरः । तेन तन्मात्रेण रुषा यत्कृतमनङ्गत्वमिति भावः । तदेव यः कामोऽद्यापि न संवृणोति नाच्छादयितुं शक्नोतीत्यर्थः । स कामोऽद्य सहस्त्रनेत्रे इन्द्रे रुष्टे क्रुद्धे सति कामवस्थां दशां गन्ता गमिष्यति । गमेर्लुट् । न वेद न जाने खलु । वाक्यार्थ कर्मः । “विदो लटो वा’ इति मिपो णलदेशः । त्रिनेत्रमास्कन्द्य नष्टः कामः सहस्त्रनेत्रं कथं जेष्यतीत्यर्थः । कामस्त्वत्कृते निःशङ्कमिन्द्रं दुःखाकरोतीति तात्पर्यार्थः ॥ 8.63 ॥
अन्वयः– कित्रनेमात्रेण रुषा यत् कृतं तत् एव यः अद्य अपि न संवृणोति सः कामः अथ सहस्रनेत्रे रुष्टे काम् अवस्थां खलु गन्ता–न वेद ॥ 8.63 ॥
पिकस्य वाङ्मात्रकृताद्व्यलीकान्न स प्रभुर्नन्दति नन्दनेऽपि ॥
बलास्य चूडाशशिनोऽपराधान्नाराधनं शीलति शूलिनोऽपि ॥ 8.63 ॥
जीवातु–पिकस्येति । सः प्रभुरिन्द्रः पिकस्य कोकिलस्य वाङ्मात्रकृतात् न तु कामवत् कायकृतादिति भावः । व्यलीकादप्रियान्ननन्दने नन्दनाख्ये आनन्दकरेऽपीति गम्यते । वने न नन्दति किमुतान्यत्रेति भावः । किञ्च बालस्य कृशस्य चूडाशशिनोऽपराधात् अपकारात् सन्तापरूपात् किमुत पूर्णेन्दोरिति भावः । शूलिनः शिवस्याप्याराधनं पूजां न शीलति नाचरति । “शीलसमाधौ’ इति भौवादिकाल्लट् । इन्द्रो विरहपारवशदावश्यकं किमपि कर्म न करोतीत्यर्थः । अत्रानन्दशिवाराधनसम्बन्धेऽप्यसम्बन्धोक्तेरतिशयोक्तिभेदः
॥ 8.64 ॥
अन्वयः–प्रभुः सः पिकस्य वाङ्मात्रकृतात् व्यलीकात् नन्दने अपि न नन्दति, बालस्य चूडाशशिनः अपराधात् शूलिनः अपि आराधनं न शीलति ॥ 8.64 ॥
तमोमयीकृत्य दिशः परागैः परागैः स्मरेषवः शक्रदृशां दिशन्ति ॥
कूहूगिरं चञ्चुपुटं द्विजस्य राकारजन्यामपि सत्यवाचम् ॥ 8.65 ॥
जीवातु–तमोमयीति । स्मरेषवः कुसुमेषुबाणाः परागै रजोभिः करणैदिशः शक्रटृशां सम्बन्धे तमोमयीकृत्य तत्प्रकृतवचने मयडन्तरदभूततदभावे च्विः । अत एव विरुद्धमतोरम्बन्धे तत्सम्बन्ण्धोक्तेरतिशयोक्तिः । कुहूः कुह्वारूया गीः कुजितं यस्य । अन्यत्र तु कुहुरमावास्येति गीर्वचनं यस्य । “कुहूः स्यात्कोकिलालापनष्टेन्दुकलयोरपि’ इति विश्वः । तस्य द्विजस्याण्डज्स्य कोकिलस्येत्यर्थः । अन्यत्र विप्रस्य “दन्तविप्राण्डजा द्विजा’ इत्यमरः । चञ्चुपुटं मुखं राकारजन्यां पूर्णिमायामपि सत्यवाचं दिशन्त्यादिशन्ति कथयन्तीत्यर्थः । राकायामपि कुह्वामिव तमन्वीकुवैन्तीत्यर्थ। अत्र श्लिष्टोपात्तयोर्द्वयोरपि कुह्वोर्द्विजयोश्चाभेदाध्यवसायमुक्त्वा कुहूत्वसत्यवादित्वस्य विरुद्धस्यापि पूर्वोक्तातिशयोक्तिहेतुना सिद्धेर्वाक्यार्थजुकं काव्यलिङ्गं सत् श्लेषातिशयोक्तिर्विरोधैरङ्गैः संकीर्यते । तेन शक्स्य राकायां कुहूभ्रान्त्याः भ्रान्तिमदलंकारो व्यज्यत इत्यूह्मम् ॥ 8.65 ॥
अन्वयः–स्मरेषवः परागैः दिशः शक्रटृशां तमोमयीकृत्या कुहूगिरं द्विजस्य चञ्चुपुटं राकारजन्‌याम् अपि सत्यवाचं दिशन्ति ॥ 8.65 ॥
शरैः प्रसूनैस्तुदतःस्मरस्य स्मर्तुं स किं नाशनिना करोति ॥
अभेद्यमस्याहह ! वर्म न स्यादनङ्गता चेद्गिरिशप्रसादः ॥ 8.66 ॥
जीवा–शनैरिति । स इन्द्रः प्रसूनैरेव शरैस्तुदत आत्मानं विध्यतः स्मरस्य स्मरमित्यर्थः । “अधीगर्थ’–इत्यादिना कर्मणि शेषे षष्ठी । अशनिना वज्रेण स्मर्तुं न करोति किं स्मृतिमात्रशेषं कुर्यादेव । किन्तु तस्य स्मरस्य गिरिशस्य प्रसादः प्रसादलब्धमित्यर्थः । कार्यकारणयोरभेदोपचारः सोल्लुण्ठञ्चैतदनङ्गता अभेद्यं वर्मेति रूपकम् न स्याच्चेत् अहहेत्यद्भुते खेदे वा साङ्गत्वे पुनर्वज्रलक्षयलाभादेनं हन्यादेवेत्यर्थः । तथा पीडयत्येनमनङ्गोऽपीति भावः ॥ 8.66 ॥
अन्वयः–अहह, सः प्रसूनैः शरैतुदतः स्मरस्य अशनिना स्मर्तु न करोति किम् चेत् अस्य गिरिशप्रसादतः अनङ्गता अभेद्यं न स्यात् ॥ 8.66 ॥
धृताधृतेस्तस्य भवद्वियोगान्नानानार्द्रशय्यारचनाय लूनैः ॥
अप्यन्यदारिद्र्यहराः प्रवालर्जाता दरिद्रास्तरवरोऽमराणाम् ॥ 8.67 ॥
जीवातु–धृतेति । अन्येषां दारिद्र्यं हरन्तीत्यन्यदारिद्र्यहरा इपि । हरतेरनुद्यमनेऽच् । अमराणां तरवः कल्पद्रुमा भवत्या वियोगात् । सर्वनाम्नो वृत्तिमात्रे पुंवदभावो ववक्तव्यः । घृताऽधृतिररतिर्येन तस्येन्द्रस्य नानाविधानामाद्रशय्यानां शिशिरशयनानां रचनाय लूनैः प्रवालैः दरिद्रा रिक्ता जाताः, तापस्तु तथापि नापेत् इति भावः । सुरद्रुमाणां प्रवालदारिद्र्यासम्बन्धेऽपि तत्सम्बम्धोक्तेरतिशयोक्तिभेदः ॥ 8.67 ॥
अन्वयः–अन्यदारिद्र्यहराः अपि अमराणां तरवः भवद्वियोगात् धृताधृतेः तस्य नानार्द्रशय्यारचनाय लूनैः प्रवालैः दरिद्राः जाताः ॥ 8.67 ॥
रवैर्गुणास्फालभवैः स्मरस्य स्वर्णाथकर्णौ बधिरावभूताम् ॥
गुरोः शृणोतु स्मरमोहनिद्राप्रबोधदक्षाणि किमक्षराणि ॥ 8.68 ॥
जीवातु–रवैरिति । स्वर्णाथस्य स्वर्गनाथस्येन्द्रस्य “पूर्वपदात्संज्ञायामयः’ इति णत्वम् । कर्णौ स्मरस्य गुणास्फालभवेः ज्याघ्ट्टनप्रभवै रवैः बधिरावभूताम् । एवं बाधिर्ये सति गुरोर्बुहस्पतेः सकाशात् स्मरमोह एव निद्रा तस्याः प्रबोधे दक्षाण्यक्षराणि विवेकज्ञानोपदेशवक्यानि शृणोतुं न प्रभवतीति भावः ॥ 8.68 ॥
अन्वयः–स्वर्णाथकर्णौ स्मरस्य गुणस्फालभवैः रवैः बधिरौ अभूताम्, गुरोः स्मरमोहनिद्राप्रबोधदक्षाणि अक्षराणि किं शृणोतु ? ॥ 8.68 ॥
अनङ्गतापप्रशमाय तस्य कदर्थ्यमाना मुहुरामृणालम् ॥
मधौ मधौ नाकनदीनलिन्यो वरं वहन्तां शिशिरेऽनुरागम् ॥ 8.69 ॥
जीवातु–अनङ्गेति नाकनद्याः स्वर्णद्याः नलिन्यो मधौ मधौ वसन्ते वसश्रन्ते तस्येन्द्रस्यानङ्गतापप्रशमाय मुहुरामृणालं मृणालपर्यन्तम्, अभिविधावव्यीभावः । कदर्थाः कुत्सितवस्तूनि, “कौः कत्तत्पुरुषेऽचि’ इति कोः कदादेशः । कदर्थाः क्रियमाणाः कदर्थ्यमाना उत्पीड्यमानाः सत्य इत्यर्थः । तत्करो?तीति ण्यन्तात्कर्मणि ल्टः शानजादेशः । शिशिरेऽनुरागं वरम् । वरमिति मनाक् प्रिये । वहन्तां वासन्तिकापचारणां तासां तत्र पूवर्चोक्तोपद्रवभयादिति भावः । वहेः स्वरितेत्त्वादत्मनेपदम् ॥ 8.69 ॥
अन्वयः–नाकनीदीनलिन्यः मघौ मधौ तस्य अनङ्गताप्रशमाथ मुहुः आमृणालं कदर्थ्यमानाः शिशिरे वरम् अनुरागं वहन्ताम् ॥ 8.69 ॥
दमस्वसः सेयमुपैति तृष्णा जिष्णोर्जगत्यग्रिमलेख्यलक्ष्मीम् ॥
दृशां यदब्धिस्तव नाम दृष्टित्रिभागलोभार्तिमसौ विभर्ति ॥ 8.70 ॥
जीवातु–दमेति । हे दमस्वसः ! दमयन्ति ! जिष्णोः शक्रस्य “जिष्णुर्लेखर्षभः शकः’ इत्यमरः । सेयं तृष्णा आश जगति अग्रे भवमप्रिमम्, “अग्रादिपश्चाङुमज् वक्तव्यः’ तच्च तल्लेख्यं च तस्य लक्ष्मीमग्रगण्यतामुपैति अपूर्वत्वादिति भावः । कुतः यद्यस्माद्टृशामब्धिकरोऽसाविन्द्रस्तव दृष्टेस्त्रिभागस्तृतीयांशः सङ्ख्याशव्दस्य वृत्तिविषये पूरणार्थ्रात्वाङ्गीकारात् । तत्र लोभेनतृष्णया आर्तिमार्धि विभर्त्ति नाम धत्ते खलु । तदेतदाढ्यतमस्य कणिकालोभवच्चित्रीयत इत्यर्थः । तल्लेशलाभ एव स्वटृष्टिसम्पत्तेः फलमित्यभिमानस्तस्येति भावः ॥ 8.70 ॥
अन्वयः–दमस्वसः, सा इयं जिष्णोः तृष्णा जगति अग्रिमलेख्यलक्ष्मीम् उपैति यत् टृशाम् अब्धिः नाम असौ तव टृष्टित्रिभागलोभार्ति र्विभर्त्ति ॥ 8.70 ॥
अग्न्न्याहिता नित्यमुपासते यां देदीप्यमानां तनुमष्टमूर्तेः ॥
आशापतिस्ते दमयन्ति ! सोऽपि स्मरेण दासीभवितुं न्यदेशिप ॥ 8.71 ॥
जीवातु–अथ भगवतोऽग्नेरवस्थां वर्णयति–अग्नीति । अग्न्याहिता आहिताग्नयः, “वाहिताग्न्यादिषु’ इति निष्ठायाः परनिपातः । यां देदीप्यमानां जाज्वल्यमानां दीप्यमानां दीप्यतेर्यडन्तात्कर्तरि लट् ।
शानजादेशः । अष्टमूर्तेरीश्वरस्य तनुं नित्यमुपासते, हे दमयन्ति ! आशापतिर्दिक्पतिः सोऽग्निरपि स्मरेण कर्त्रा तव दासीभवितुं न्यद्रेशि दासो भवेत्यादिष्ट इत्यर्थः ॥ 8.71 ॥
अन्वयः–दमयन्ति, अग्न्याहिताः यां देवीप्यमानाम् अष्टमूर्त्तेः तनुं नित्यम्, सः अपि आशपतिः स्मरेण ते दासीमभकवितुं न्यदेशि ॥ 8.71 ॥
त्वद्गोचरस्त खलु पञ्चबाणः करोति सन्ताप्य तथा विनीतम् ॥
स्वयं यथास्वादिततप्तभूयः परं न सन्तापयिता स भूयः ॥ 8.72 ॥
जीवातु–त्वदिति । पञ्चबाणः कामस्त्वद्गोचरस्त्वामेव लक्षीकृत्य इत्यर्थः । तमर्ग्नि सन्ताप्य तथा तेन प्रकारेण विनीतं शिक्षितं करोति खलु । यथा येन प्रकारेण स्वयं स्वादितमनुभूतं तप्तभूयं तप्तत्वं येन स सन् । “भुवो भावे’ क्यप् । भूयः पुनः परमन्यं सन्तापयिता न सन्तापयिष्यति स्वयमनुभूतदुःखः स्वात्मटृष्टान्तेन परं तथा न दुःखाकरोतीति भावः ॥ 8.72 ॥
अन्वयः–त्वद्गोचरः पञ्चबाणः तं स्न्ताप्य तथा विनीतं करोति खलु यथा स्वयं स्वादिततप्तभूयः परं न सन्तापयिता ॥ 8.72 ॥
अदाहि यस्तेन दशार्धबाणः पुरा पुरारेर्नयनालयेन ॥
स निदंहंस्तं भवदक्षिवासी न वैरशुद्धेरधुनाधमर्णः ॥ 8.73 ॥
जीवातु–अदाहीति । यो दशार्धबाणः पञ्चेषुरधुना भवदक्षिवासी त्वन्नेत्रनिष्ठः सन् तमग्निं निर्दहन् वैरशुद्धेर्वैरनिर्यातनादधमर्णः ऋणी न अनृणोऽभूदित्यर्थः । यो यथा यस्यापकरोति स तस्य तथैव प्रतिकृत्य निर्वैरो भवतीति भावः ॥ 8.63 ॥
अन्वयः–पुराः पुरारेः नयनालयेन यः दशर्द्धबाणः अदाहि अनुना भवदक्षिवासी सः तं निर्दहन् वैरशुद्धैः अधमर्णः न ॥ 8.63 ॥
सोमाय कुप्यन्निव विप्रयुक्तः स सौममाचामति हूयमानम् ॥
नामापि जागर्ति हि यत्र शत्रोस्तेजस्विनस्तं कतमे सहन्ते ॥ 8.64 ॥
जीवातु–सोमायेति । विप्रयुक्तस्त्वद्वियुक्तोऽग्निः सोमाय चन्द्रायकुप्यन्निव जिघांसनिनवेत्यर्थः । “क्रुधद्रुह’ इत्यादिना सम्प्रदानत्वाच्चतुर्थी । हुयमानं यज्ञे दीयमानं सोमं सोमरसमाचामति पिबति । तथा हि यत्र पुरुषे शत्रोर्नामापि जागर्ति प्रकाशते तं शत्रुनामधारिणं तेजस्विनः परावमानासहिष्णवः, ‘अधिक्षेपाद्यसहनं तेजः प्राणात्ययेष्वपि’ इति लक्षणात् । कतमे सहन्ते न केऽपीत्यर्थः । तेजस्विनां शत्रुनामाप्यसह्ममिति भावः । सामान्येन विशेषसमर्थनरूपार्थान्तरन्यासः ॥ 8.74 ॥
अन्वयः–विप्रयुक्तः सः सोमाय कुप्यन् इव हुयमानं सोमम् आचामति, हि यत्र शत्रोः नाम अपि जागर्ति तं कतमे तेजस्विनः सहन्ते ? ॥ 8.74 ॥
शरेरजस्त्रं कुसुमायुधस्य कदर्थ्यमानस्तव कारणाय ॥
अभ्यर्चयद्भिर्विनिवेद्यमानादप्येष मन्ये कुसुमाद्विभेति ॥ 8.75 ॥
जीवातु–शरैरिति । हे तरुणि ! तव कारणाय त्वदर्थे त्वत्कृते, तादर्थ्ये चतुर्थी । कुसुमायुधस्य शरैः कुसुमबाणैरजस्त्रं कदर्थ्यमानः पीड्यमानः एषोऽग्निः अभ्यर्चयदिभः पूजयदिभर्विनिवेद्यमानात्समर्प्यमाणादपि कुसुमाद् विभेति मन्ये । उत्प्रेक्षा ॥ 8.75 ॥
अन्वयः–तव कारणाय ( पाठांतर-तरुणि, त्वदर्थे ) कुसुमायुधस्य शपरैः अजस्त्रं कदर्थ्यमानः एषः मन्ये अभ्यर्चयदिभः विर्निवेद्यमानात् अपि कुसुमातबिभेति ॥ 8.75 ॥
स्मरेन्धने वक्षसि तेन दत्ता संवर्तिका शैवलवल्लिचित्रा ॥
चकास्ति चेतोभवपावकस्य धूमाविला कीलपरम्परेव ॥ 8.76 ॥
जीवातु–स्मरेन्धन इति । तेनाग्निना स्मरेन्धने कामाग्निदाह्मे वक्षसि दत्ता तापशान्तये न्यस्ता शैवलवल्लिभिश्चित्रा कर्बुरा संवर्तिका नवदलम् । “संवर्तिका नवदलं बीजकोशोः वराटकः’ इत्यमरः । चेतोभवपावकस्य कामाग्नेर्धुमाविला कीलपरम्परा ज्वालावलिरिव चकास्ति दीप्यते । ‘वह्नेर्द्वयोर्ज्वालकीलौ’
हत्यमरः ॥ 8.76 ॥
अन्वयः–तेन स्मरेन्धने वक्षसि दत्ता शैवलवल्लिचित्रा संवर्तिका चेतोभवपावकस्य धूमाविला कीलपरम्परा इव चकासित ॥ 8.76 ॥
पुत्रा सुहृद्येन सरोरुहाणां यत्प्रेयसीर चन्दनवासिता दिक् ॥
धैर्यं विभुः साऽपि तवैव हेतोः स्मरप्रतापज्जवलने जुहाव ॥ 8.77 ॥
जीवातु–अथ यमस्य विरहावस्थां वर्णयति–पुत्रीति । येन सरोरुहाणांसुहृत्सूर्यः पुत्री पुत्रवान् एतेनाभिजन उक्तः । चन्दनैर्मलयजः द्रुमैर्वासिता सुरभिता दिक् दक्षिणा यत्प्रेयसी यस्यं प्रियतमा एतेन भोगसम्पत्तिरुक्ता । स विभूर्वैवस्वतोऽपि तवैव हेतोस्त्वन्निमित्तादेव । ‘षष्ठी हेतुप्रयोये’ इति षष्ठी । धैर्य स्मररस्य प्रतापज्वलने प्रतापाग्नौ जुहाव । परवशा वर्तत इत्यर्थः ॥ 8.77 ॥
अन्वयः–येन सरोरुहाणां सुहृत् पुत्री चन्दनवासिता दिक् यत्प्रेयसी सः विभुः अपि तव एव हेतोः र्वर्ध् स्मरप्रतापज्वलने जुहाव ॥ 8.77 ॥
तं दह्ममानैरपि मन्मथैधं हस्तैरुपास्ते मलयः प्रवालैः ॥
कृच्छ्रेप्यसो नोज्झ?ति तस्य सेवा सदा यदाशामवलम्बते यः ॥ 8.78 ॥
जीवातु–तमिति । मलयो मलयाद्रिः मन्मथैधं कामाग्नीन्धनम् । “काष्ठंदार्विन्धनन्त्वेध’ इत्यमरः । तं यमं दह्ममानैस्तदङ्गसङ्गात्पञ्चबाणैरपि प्रवालैः पल्लवैरेव हस्तैरुपास्ते तस्य शीतापेचारमाचरतीति भावः । गुक्तञ्चैतदित्याह–यो जनः सदा यस्याशां देशम् अनुरागञ्चावलम्बते । असौ जनः कच्छ्रे आपद्यपि तस्य सेवां नोज्झति न त्यजति । यो यदुपजीवी तस्य तत्सेवा विपत्स्वपि कर्तुमुचितेत्यर्थः । अर्थान्तरन्यासः ॥ 8.78 ॥
अन्वयः–मलयः मन्मथैधं तं दह्ममानैः अपि प्रवालैः हस्तैः उपास्ते, या सदा यदाशाम् अवलम्बते, असौ कृच्छ्रे अपि तस्य सेवां न उज्झति ॥ 8.78 ॥
स्मरस्य कीर्त्येव सितीकृतानि तद्दोःप्रतापैरिव तापितानि ॥
अङ्गानि धत्त स भवद्वियोगात् पाण्डूनि चण्डजृवरजर्जराणि ॥ 8.79 ॥
जीवातु-स्मरस्येति । स यमो भवद्वियोगात्पाण्डूनि चण्डेन तीव्रेण ज्वरेण जर्जराणि अत एव क्रमात् स्मरस्य कीर्त्या सितीकृतानि धवलीकृतानीव तस्यस्मरस्य दोःप्रतापैस्तापितानीव स्थितानीत्युत्प्रेक्षा । अङ्गानि धत्ते । अत्र यथासङ्ख्योत्प्रेक्षयोः सङ्करः ॥ 8.79 ॥
अन्वयः–सः भवद्वियोगात् पाण्डूनि चण्डज्वरजर्जराणि स्मरस्य कोर्त्या सितीकृतानि इव तद्दोःप्रतापैः तापितानि इव अङ्गानि धत्ते ॥ 8.79 ॥
यस्तन्वि ! भर्ता धुसृणेन सायं दिशः समालम्भनकौतुकिन्याः ॥
तदा स चेतः प्रजिघाय तुभ्यं यदा गतो नैति निवृत्य पान्यः ॥ 8.80 ॥
जीवातु–अथ वरुणस्य विराहं वर्णयति–य इत्यादि । हे तन्वि ! कृशाङ्गि ! यो देवः सायं घुसृणेन कुङ्कुमेन समालम्भने अनुलेपने कौतुकिन्याः कुतूहलवत्याः आतपारुण्यात् कुङ्कुमलिप्तवदभासमानाया इत्यर्थः । दिशः प्रतीच्या भर्ता प्रातः प्राच्या अपि तथात्वात्तद्व्यावृत्यर्थ स्वयं ग्रहणम् । स वरुणः तदा तस्मिन् काले तुभ्यञ्चेतः प्रतिजघाय प्रहितवान् । “हे स्वङि’ इति कुत्वम् । यदा यस्मिन् काले गतः प्रयातः नित्यं पन्थानं गच्छतीति पान्थो निवृत्य नैति नायाति अपुनरावृत्तिलिङ्गिन्नुनं चित्रास्वात्योः प्रहितवानित्युतृप्रेक्षा । “नन्दन्ति न निवर्तन्ते चित्रास्वातृयोर्गता नरः’ इति वचनात् । अत एवात्र कवेः पान्थशब्दप्रयोगः “पथो ण नित्यम्’ इति नित्यग्रहणं प्रत्ययार्थविशेषणम्’ इति काशिकायाम् । तच्चित्तं त्वय्येव सानन्दं विरहति न निवर्तत इति तात्पर्यम् ॥ 8.80 ॥
अन्वयः–तन्वि, यः सायं घुसृणेन समालम्भनकौतुकिन्याः दिशः भर्त्ता सः तदा तुभ्यं चेतः प्रजिघाय यदा गतः पान्थः निवृत्य न एति ॥ 8.80 ॥
तथा न तापाय पयोनिधीनामश्वामुखोत्थः क्षुधितः श्?िखावान् ॥
भिजः पतिः संप्रति वारिपोऽपि यथा हृदिस्थः स्मरतापदुःस्थः ॥ 8.81 ॥
जीवातु–तथेति । तथा क्षुधितः बुभुक्षितः । “वसतिक्षुधोःइति निष्ठायामिडागमः । अश्वामुखोतृथः शिखावान् वडवाग्निः पयोनिधीनां तापाय न भवति यथासौ स्मरदाहेन दुःखं तिष्ठतीति दुःस्थोऽस्वस्थो निजः पतिर्वरुणः हृदि तिष्ठतीति हृदिस्थः स्मर्यमाण एव वारीणि पातीति वारिपो वारिरक्षकोऽपि सन् तापाय भवति तथा साक्षात्कुक्षिस्थोऽपि वडवाग्निर्न तापय तीत्यर्थः । ईटृक्तापासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिभेदः
॥ 8.81 ॥
अन्वयः–यथा स्मरतापदुःस्थः वारिपः अपि हृदिस्थः निजः पतिः पयोनिधीनां तापाय तथा क्षुधितः अश्वामुखोत्थः शिखावान् न ॥ 8.81 ॥
यत्प्रत्युत त्वन्मुदुबाहुवल्लीस्मृतिस्त्रजं गुम्फति दुर्विनीता ॥
नतो विधत्तेऽधिकमेव तापं तेन श्रिता शैत्यगुणा मृणाली ॥ 8.82 ॥
जीवातु–यदिति । तेन वरुणेन श्रिता सन्तापशान्ते सेविता शैत्यमेव गुणो यस्याः सा शैतृयगुणा शीतलेकस्वभावेत्यर्थः। तथापि दुर्विनीता प्रतिकूलचारिणी मृणाली बालमृणालम् । अल्पत्वविवक्षायां स्त्रीलिङ्गता ‘स्त्री स्यात्काचिन्मृणाल्यादिविवक्षापचये यदि’ इत्यमरः । “जातेरस्त्रीविषयादयोपधात्’ इति ङीप् । यद्यस्मात्तव मृदुबाहू वल्लयाविवव तयोः स्मृतीनां स्त्रजं मालां गुम्फति रचयति अजस्त्रं स्मारयतीत्यर्थः ततस्त्वद्बाहुस्मारकत्वाद्धेताः प्रत्युत वैपरीत्येन । प्रत्युतेत्युक्तवैपरीत्य इति गणव्याख्यानम् । अधिकं तापमेव
विधत्ते वितन्यते एतेनास्य ज्वरावस्थोक्ता । अत्र मृणाल्याः कविसम्मतसाटृश्याद्बाहुवल्लीस्मारकत्वोक्तेः स्मरणालङ्कारः । तदुपजीवनेन तस्यास्तापशान्तिहेतोस्तद्विपरीततापकार्येत्पत्तिकथनाद्विरुद्धकार्योत्पत्तिलक्षणो विषमालङ्कारभेद इत्यनयोरङ्गा?ङ्गिभावे सङृकरः ॥ 8.82 ॥
अन्वयः–शैमत्यगुणा तेन श्रिता मृणाली यत् श्रिता मृणाली, यत् त्वन्मृदुबाहुवल्लीस्मृतिम्रजं गुग्फति ततः प्रत्युत अधिकम् एव तापं विधात्ते ( अतएव ) दुर्विनीता ॥ 8.82 ॥
न्यस्तं ततस्तेन मृणालदण्डखण्डं बभासे हृदि तापभाजि ॥
तच्चित्तमग्नैर्मदनस्य बाणैः कृतं शतच्छिद्रमिव क्षणेन ॥ 8.83 ॥
जीवातु–न्यस्तमिति । ततस्तदनन्तरमपि तेन वरुणने तापभाजि हृदये न्यस्तं मृणालदण्डस्य विसकाण्डस्य खण्डं शकलं तस्य वरुणस्य चित्ते मग्नैर्मदनस्य बाणैः क्षणेन शतं छिद्राणि यस्य तत्तथ कृतमिव प्रतिकूलाचरणरोषाच्छतधा प्रणीतमिव बभासे । उत्प्रेक्षा ॥ 8.83 ॥
अन्वयः–ततः तेन तापभाजि हृदि न्यस्तं मृणालदण्डखण्डं तच्चित्तमग्नैः मदनस्य बार्णः क्षणेन शतच्छिद्रं कृतम् इब बभासे ॥ 8.83 ॥
इति त्रिलोकीतिलकेषु तेषु मनोभुवो विक्रमकामचारः ॥
अमोधमस्त्र भवतीमवाप्य मदान्धतानर्गलचापलस्य ॥ 8.84 ॥
जीवातु–इतीति । हे भैति ! भवतीमेवामोघमस्त्रमवाप्य मदान्धपतयाअनर्गलचापलस्य उच्छृङ्खलवेष्टितस्य मनोभुवः कामस्सय त्रिलोकीतिलकेषु त्रिभृवनभूषणेषु तेष्विन्द्रादिषु विषये इतीत्थं विक्रमस्य कामचारः स्वाच्छन्द्यवृत्तिर्वर्तत इति शेषः ॥ 8.84 ॥
अन्वयः–इति भवतीम् अमोघम् अस्त्रम् अवाप्य मदान्धतानर्गलचापलस्य मनोभुवः तेषु त्रिलोककीतिलकेषु कामचारः ॥ 8.84 ॥
सारोऽथ धारेव सुधारसस्य स्वर्यवरः श्वो भविता भवेति ॥
सन्तर्पयन्ती दमयन्ति ! तेषां श्रुतिः श्रुतौ नाकजुषामयासीतृ ॥ 8.85 ॥
जीवातु–सार इति । अथानन्तरसमये हे दमयन्ति ! तव स्वयंवर श्वः परेऽह्नि भविता भवष्यितीति श्रुतिर्वार्ता । “श्रुतिः श्रोत्रेप्यथाम्नाये वार्तायां श्रोत्रकर्मणि’ इति विश्वः । सुघारसस्य सारः सारभूता धारेव सन्तर्पयन्ती नामजुषामिन्द्रादीनां श्रुती श्रोत्र अयासीत् प्राप । ‘सारोत्ये’ति पाठे सारप्रभवेत्यर्थः ॥ 8.85 ॥
अन्वयः–अथ दमयन्ति, तव स्वयंवर श्वः भविता–इति श्रुतिः सुधारसस्य सारः धारा इव सन्तर्पयन्ती नाकजुषां श्रुती अयासीत् ॥ 8.85 ॥
समं सपत्नीभवदुःखतीक्ष्णैः स्वदारनासापथिर्कर्मरुदिभः ॥
अनङ्गशौर्यानलतापदुःस्थैरथ प्रतस्थे हरितां मरुद्भिः ॥ 8.86 ॥
जीवातु-सममिति । अथ स्वयंवरवार्ताश्रवणान्नतरभमनङ्गस्य शौर्यानलेन प्रतापाग्निना यस्तापस्तेन दुःस्थैरस्वस्थैर्हरितां दिशां सम्बन्धिभिर्मरुदिभर्देवैरिन्द्रादिभिः स्वस्वामिभावसंबन्धे षष्ठीसमासः । समानः पतिर्यस्याः सा सपत्नी । “नित्यं सपत्नयादिषु’ इति ङीप् नकारश्च । तदभवेन दुःखेन तीक्ष्णैर्दुःसहैः स्वदाराणां नासासु पन्थानं गच्छन्तीति पथिकैः पान्थैर्मरुदिभः समं वायुभिः प्तह “मरमतौ पवनामरौ’ इत्यमरः । प्रतस्थे प्रस्थितं भावे लिट् । अशच्यादिभिरिन्द्रादिकलत्रैरागामिसापत्न्‌यदुःखाद्दीर्धमुष्णाञ्च निःश्वसितमित्यर्थः । अत्र पवनामरप्रस्थानयोः कार्यकारणभावात्तदङ्गलक्षणातिशयोक्त्युत्थापितः सहोक्त्यलंकारः । “सहार्थेनान्वयो यत्र भवेदतिशयोकिततः । कल्पितौपम्यपर्यन्ता सा सहोक्तिरिहोच्यते ॥’ इति लक्षणात्
॥ 8.86 ॥
अन्वयः–अथ अनङ्गशौर्यानलतापदुःस्थैः हरितां मरुदिभः सपत्नीभवदुःखतीक्ष्णैः स्वदारनासापथिकैः मरुदिभः समं प्रत्यस्थे ॥ 8.86 ॥
अपास्तपाथेयसुधोपयोगैस्त्वच्चुम्बिनैव स्वमनोरथेन ॥
क्षुधञ्च निर्व्यापयता तृषञ्च स्वादीयसाध्वागमितः सुखं तैः ॥ 8.87 ॥
जीवातु-अपास्तेति । पथि साधु पाथेयम् । “पाथेयं संबलं स्मृतम्’ इति यादवः । “पथ्यतिथिवसतिस्वपतेर्ढञ्’ । तच्चासौ सुधा च तस्या उपयोगोऽपास्तो यैरिन्द्रादिभिः क्षुधं बुभुक्षां तृषं तृष्णां पिपासां निर्वापयता शमयता स्वादीयसा अमृतादपि स्वादुत्तरेण त्वच्चुम्बिना भवद्गोचरेण स्वयं मनोरथेनैवाध्वा सुखं गमिता नीतः, समृतमप्युत्सृज्य त्वद्ध्यानमात्रसम्बन्धाः प्राप्ता इत्यर्थः ॥ 8.87 ॥
अन्वयः–अपास्तपाथेयसुधोपयोगैः तैः क्षुधं तृषं च निर्वापयता स्वादीयसा त्वच्चुमिृबना स्वमनोरथेन एव अध्वा सुखं गमितः ॥ 8.87 ॥
प्रिया मनोभूशरदावदाहे देवीस्त्वदर्थेन निमज्जयद्भिः ॥
सुरेषु सारैः क्रियतेऽधुना तैः पादार्पणानुग्रहभूमरियं भूः ॥ 8.88 ॥
जीवातु-प्रिया इति । त्वमेवार्थः प्रयोजनं तेन निमित्तेन प्रिया दयिताः देवीः शच्यादिदाराः मनोभुव कामस्य शरा एव दावो दावाग्निस्तस्य दाहे विरहानले निमज्जसयदिभः सुरेषुः श्रैष्ठैरिन्द्रादिभिरधुना इयं भूविदर्भदेशः पादार्पणमेवानुग्रहस्तस्य भूः स्थानं कियते । कुण्डिनोपकण्ठं एव तिष्ठन्तीत्यर्थः ॥ 8.88 ॥
अन्वयः–त्वदर्थेन प्रियाः देवीः मनोभूशरदावदाहे निमज्जयदिभः सुरेषु सारैः तैः अधुना इयं भूः पादार्पणानुग्रहभुः कियते ॥ 8.88 ॥
अलङ्कृतासन्नमहीविभागैरयं जनस्तैरमरैर्भवत्याम् ॥
अवापितो जङ्गमलेख्यलक्ष्मी निक्षिप्य सन्देशमयाक्षराणि ॥ 8.89 ॥
जीवातु-अलङ्कृतेति । अल्ङ्कृत आसन्नमहीविभोगो भूप्रदेशो यैस्तैः समीपं गतैस्तैरमरैरयं जनः स्वयमित्यर्थः । भवत्यां विषये त्वां प्रतीत्यर्थः । सन्देशमायाक्षराणि सन्देशरूपाणि वाक्यानि निक्षिप्य अर्पयित्वा जङ्गमलेख्यस्य चललेख्यस्य लक्ष्मीमवापितः तेषामहं सन्देशहर इत्यर्थः ॥ 8.89 ॥
अन्वयः–अलङ्कृतासन्नमहीविभागैः तैः अमरैः भत्यां सन्देशमयाक्षराणि निक्षप्य अयं जनः जङ्गमलेख्यलक्ष्मीम् अवापितः ॥ 8.89 ॥
एकैकमेते परिरभ्य पीनस्तमोपपीडं त्वयि सन्दिशन्ति ॥
त्वं मूर्च्छयान्नः स्मरभिल्लशल्यैर्मुदे विशल्यौषधिवल्लिरेधि ॥ 8.90 ॥
जीवातु–एकैकमिति । एते देवा एकैकं प्रत्येकमेवेत्यर्थः । वीप्सायां द्विरुक्तिः । “एकं बहुव्रीहिवदि’ति बहुव्रीहिवदभावात्सुलोपः क्रियाविशेषणं चैतत् । अन्यथैकत्वनपुंसकत्वानुपपत्तेः । केषुचित्पुस्तकेषु “प्रत्येकमि’त्वयेव पाठः । पीनस्तनयोरुपपीड्य पीनस्तनोपपीडं “सप्तम्यां चोपपीडरुधकर्षः’ इति णमुल्प्रत्ययः । परिरभ्याल्ङ्ग्यि सन्दिशन्ति वाचिकं कथयन्ति । किमितिस्मरः एव भिल्लोऽन्त्यजभेदः । “मूलाश्लेषादयो
भिल्का कथ्यन्ते ह्मन्त्यजातयः’ इति हलायुधः । तस्य शल्यैःशरैर्मूर्च्छतां मुह्मतं नोऽस्माकं मुदं त्वं विशल्या उद्धृतशल्या च सा औषधिर्वल्ली विशल्यकरणी लता । एधि भव अस्तेर्लोण्मध्यमेकवचनं “ध्वसोरेद्धावभ्यासलोपश्च’ इत्येकारः । ‘हुझल्भ्यो हेर्धिः’ ‘धि च’ इति सकारलोपः ॥ 8.90 ॥
अन्वयः–एते एकैकं पीनस्तनोपपीडं परिरभ्य त्वयि सन्दिशन्ति–त्वस्मरभिल्लशल्यैः मूर्च्छतां नः मुदे विशल्यौषधिवल्लिः एधि ॥ 8.90 ॥
अन्वयः–एते एकैकं पीनस्नोपपीडं परिरस्य त्वयि सन्दिशन्ति–त्व स्मरभिल्लशल्यैः मूर्च्छतां नः मुदे विशल्यौषधिवल्लिः एषि ॥ 8.90 ॥
त्वतृकान्तिमस्माभिरयं पिपसन् मनोरथाश्वासनयैकयैव ॥
निजः कटाक्षः खलु विप्रलभ्यः कियन्ति यावद्भण वासराणि ॥ 8.91 ॥
जीवातु–अथ षोडशभिः श्लोकैः सन्देशमेवाह–त्वदित्यादि । हे भैमि ! त्वत्कार्न्ति त्वल्लावण्यामृतं पिपासन् पातुमिच्छन्, पिबतेः सनन्ताल्लटः शत्रादेशः । अयं निजोऽस्मदीयः कटाक्षोऽस्माभिः कियन्ति वासराणि यावत् कियद्दिनपयर्ध्न्तमित्यर्थः । अत्यंतसंयोगे द्वितीया, अवधौ यावच्छब्दः । एकया मनोरथेन मनोरथप्राप्त्या या आश्वासना तयैव असयं ते मनोरथ इदानीमेव प्राप्स्यत इत्येवमुपसान्त्वनयैव विप्रलभ्यः प्रतार्यः खलु ? भण पथिकैस्तुषितं इवेति भावः । अलं कालयापनया, दिटृक्षवो वयमनुकम्पनीया इति तात्पार्यार्थः ॥ 8.91 ॥
अन्वयः–मणत्वकार्न्ति पिपासन् अयं निजः कटाक्षः एकया मनोरथाश्वासनया एव कियन्ति वासराणि विप्रभ्यः खलु ? ॥ 8.91 ॥
निजे सृजास्मासु भुजे भजन्तृयावादित्यवर्गे परिवेषवेषम् ॥
प्रसीद निर्वापय तापमङ्गैरनङ्गलोलाहरीतुषारैः ॥ 8.92 ॥
जीरवातु–निज इति । हे भैमि ! निजे स्वीये भुजे बाहु आदित्यवर्गे सुरवर्गे सूर्यवर्गे चास्मासु परिवेषस्य वेष्टनस्य सूर्यपरिधेश्च वेषमाकारं भजन्त्यौ सृज कुरु । आलिङ्गत्यर्थः । ‘परिवेषो रवेः पार्श्वमण्डले वेष्टने तथा’ इत्यजयपालः । प्रसीद प्रसन्ना भव अन्ङ्गलीलहरीभिर्मदनविहारोर्मिभिः तुषारैः शीतलैरङ्गैस्तापं निर्वापय शमय ॥ 8.92 ॥
अन्वयः–निजे भुजे आदित्यवर्गे अस्मासु परिवेषवेषं भजन्त्यौ सृज, प्रसीद, अनङ्गलीलालहरीतुषारैः अङ्गैः तापं निर्वापय ॥ 8.92 ॥
दयस्व नो घातय नैवमस्माननङ्गचाण्डालशरैरदृश्यैः ॥
भिन्ना वरं तीक्ष्णकटाक्षबाणैः प्रेमस्तव प्रेमरसात्पवित्रैः ॥ 8.93 ॥
जीवातु–दयस्वेति । हे भैमि ! नोऽस्माकं दयस्व अस्माननुकम्पस्वेतृयर्थं : । “अधीगर्थदयेशां कर्मणि’ इति षष्ठी । अटृश्यैरलक्ष्यैरन्ङ्ग एव चाण्डालस्तस्य शरैरेवमस्मान् न धातय न मारय । किन्तु प्रेमैव रसौऽनुरागो जलं च तस्मात्पवित्रैः शुद्धैस्तव तीक्षणैः कटाक्षैरेव बाणैर्भिनना विदारिता सन्तः प्रेमः म्रियामहे । प्रपूर्वादिक्षणो लङुत्तमबहुवचनम् । वरं मनाक् प्रियम् । जीवतनासम्बभवे वरं चाण्डालहस्तमरणात्तीर्थमरणमिति भावः ॥ 8.93 ॥
अन्वयः–नः दयस्व, अटृश्यैः अनङ्गचाण्डालशरैः एवम् अस्मान् न घातय; प्रेमरसात् पवित्रैः तव तीक्ष्णकटाक्षैः प्रेमः–वरम् ॥ 8.93 ॥
त्वदर्थिनः सन्तु परस्सहस्त्राः प्राणास्तु नस्त्वच्चरणप्रसादः ॥
विशङ्कसे कैतवनर्तितञ्चे दन्तश्चरः पञ्चशरः प्रमाणम् ॥ 8.94 ॥
जीवातु–त्वदिति । हे भैमि ! त्वामर्थयन्त इति त्वदर्थिनः त्वत्कामुकाः सहस्त्रात् परे परस्महस्त्राः सहस्त्राधिकसङ्ख्याका इत्यर्थः । “परश्शताद्यास्ते येषां परा सङ्ख्या शताधिका’ इत्यमरः । पञ्चमीति योगविभभागात् समासः, राजदन्तादित्वादुपसर्जनस्य सहस्त्रशब्दस्य परनिपातः । पारस्करादित्वात् सुडागम
। सन्तु, नोऽस्माकं प्राणास्तु त्वच्चरण्योः प्रसादोऽनुग्रहो वयं त्वदेकायत्तजीविता इत्ययर्थः । अथ कैतवनर्तितं
कपटनाटकं विशङ्कसे चेत् अन्तश्चरो हृदयान्तर्वर्ती पञ्चशरः प्रमाणम्, काम एवात्र साक्षी । स हि महतो देवतेति भावः ॥ 8.94 ॥
अन्वयः–त्वदर्थिनः परःसहस्त्राः सन्तु नः प्राणाः तु त्वच्चरणप्रसादः; कैतवनर्त्तितं चेत् विशङ्कसे, अन्तश्चरः पञ्चशरः प्रमाणम् ॥ 8.94 ॥
अस्माकमध्यासितमेतदन्तस्तावद्भवत्या हृदय चिराय ॥
बहिस्त्वयालङ्क्रियतामिदानीमुरो मुर विद्विषतः श्रियेव ॥ 8.95 ॥
जीवातु–अस्माकमिति । भक्त्या पूज्यया । भवतेर्डवतुप्रत्ययः । “उगितश्च’ इति ङीप् । त्वयाऽस्माकमेतदन्तर्वर्ति हृदयं स्वान्तं चिराय चिरात्प्रभृति अध्यासितं तावदधिष्ठितमेव । अवधारणे तावच्छब्दः । निरन्तरचिन्तयेति भावः । मुरं मुरस्य विद्विषतो बहिर्बाह्मपि हृदयं वक्षः “हृदयं वक्षसि स्वान्तम्’ इति विश्चः
। मुरं मुरस्य विद्विषतो विष्णेरुरो हृदयं “द्विषोऽमित्रे’ इति शतृप्रत्ययः । “द्विषः श्वतुर्वा’ इति विकल्पात् “न नोके’ इत्यादिना षष्ठीप्रतिषेधः । श्रियेवालङ्कियताम् ॥ 8.95 ॥
अन्वयः–भवत्या अस्माकम् एतत् हृदयम् तावत् चिराय अन्तः अध्यासितम्, इदानीम् मुरं विद्विषतः उरः श्रिया इव त्वया बहिः अलङ्कियताम् ॥ 8.95 ॥
दयोदयश्चेतसि चेत्तवाभूदलङ्कुरु द्यां विफलो विलम्बः ॥
भुवः स्वरादेशमथाचरामो भूमौ धृमौ धृर्ति यासि यदि स्वभूमौ ॥ 8.96 ॥
जीवातु–दयेति । तव चेतसि दयोदयः दयाविर्भावः अभूच्चेत् द्यां स्वर्गलङ्कुरु विम्बो विफल इत्यर्थः । “शुभस्य शीघ्रम्’ इति न्यायादिति भावः । अथाथवा स्वभूमौ स्वजन्मस्थाने भूमौ भूलोके धृर्ति सन्तोषं यासि यदि तर्हि भुवो भूमेः स्वरादेशं स्वर्गसंज्ञामाचरामः वयं चात्रैव स्थास्याम इत्यर्थः । स्वाधिष्ठित एव स्वगं इति भावः ॥ 8.96 ॥
अन्वयः–तव चेतसि दयोदयः चेत् अभूत् द्याम् अलङ्कुरु, विलम्बः विफलः, अथ स्वभूमौ भूमौ धृति यासि, भुवः स्वरादेशम् आचरामः ॥ 8.96 ॥
धिनोति नास्मान् जलजेन पूजा त्वयान्वहं तन्वि ! वितन्यमाना ॥
तव प्रसादाय नले तु मौलौ पूजास्तु नस्त्वत्पदपङ्काजाभ्याम् ॥ 8.97 ॥
जीवातु–धिनोतीति । तिन्व ! त्वया अन्वहमनुदिनं वीप्सायामव्ययीभरवे “अनश्च, नपुंसकादन्यतरस्याम्’ इति समासान्तः, “अह्नष्टखोरेव’ इति टिलोपः । वितन्यमाना कियमाणा जलजेन जातावेकवचनम् । जलजैः पूजा अस्मान् न धिनोति न प्रीणयति । किन्तु तव प्रसादाय प्रसादार्थं नते नम्रो मौलौ मूर्ध्नि त्वत्पदपङ्कजाभ्यां नोऽस्माकं पूजा अस्तु । प्रणयापराधेषु त्वत्पादताडनार्थिनो वयमिति भावः ॥ 8.97 ॥
अन्वयः–तन्वि, त्वया अन्वहं वितन्यमाना जलजेन पूजा अस्मान् न धिनोति, तव प्रसादाय तु नते मौलौ त्वत्पादपङ्कजाभ्यां नः पूजा अस्तु ॥ 8.97 ॥
स्वर्णैर्विजीर्णैः करवाम वामनेत्रे ! भवत्या किमुपासनासु ॥
अङ्ग ! त्वदङ्गानि निपीतपीतादर्पाणि पाणिः खलु याचते नः ॥ 8.98 ॥
जीवातु–स्वर्णैरिति । हे वामनेत्रे ! चारुलोचने ! भवत्या त्वया निजोपासनासु पूजासु वितीर्णैः समर्पितैः स्वर्णैः कनककमलादिभिः किं करवाम न किमपीत्यर्थः । यतः स्वर्णाचलावासिनो व्यमिति भावः । किन्तु अङ्गेत्यामन्त्रणे, निपीतो गृहीतः पीताया हरिद्राया दर्प कान्तिगर्वो यैस्तानि, “निशाख्या काञ्चनी पीता हरिद्रा वरवर्णिनी’ इतृयमरः । त्वदङ्गानि नोऽस्माकं पाणिर्याचिते खलु । पीतदर्पाणीति पुंल्लिङ्गपाठे पीजानां स्वर्णादिद्रव्यांणां दर्पमिति व्याख्येयम् । स्वर्णादुत्कृष्टवस्तुसम्भावे अपकृष्टस्वर्णस्वीकारो न युक्त इति भावः । साधुश्चायमेव पाठः । अन्यथा स्वर्णसञ्चारिणां त्वदङ्गेषं स्वर्णादुतृकर्षे वक्तव्ये हरिद्रामात्रादुत्कर्षोक्त्यनौचित्यादिति ॥ 8.98 ॥
अन्वयः–आमनेत्रे, भवत्या उपासनासु वितीर्णैः स्वर्णैः किं करवाम ? अङ्ग, नः पाणिः निपीतपीतादर्पाणि त्वदङ्गानि खलु याचते ॥ 8.98 ॥
वयं कलादा इव दुर्विदग्धं त्वद्गौरिमस्पर्धि दहेम हेम ॥
प्रसूननाराचशरासनेन सहैकवंशप्रभवभ्रु ! वभ्रु ॥ 8.99 ॥
जीवातु–वयमिति प्रसूननाराचशरासनेन कामचापेन सह एकवंशप्रभवे एककाराणोत्पन्ने अत्यन्ततत्सटृशे इति यावत् । भ्रु वौ तस्याः स तद्भ्रू रित्यूङन्तोत्तरपदो बहुव्रीहिः । अन्यथा अनूङन्तस्य भ्रू शब्दस्योवङ्स्थानस्यानदीत्वात् सम्बुद्धावम्बार्थेत्यादिना नदीह्रस्वो न यास्त् । तनु ऊङन्त इत्युक्तं कथमूकारादिति चेत, सत्यम्, अप्राणिजातेश्चाज्जवादीनामित्यत्र “अलावूः कर्कन्धूः’ इति भाष्यकारेणोदाहरणादूकारादप्युङ्स्त्येवेति ज्ञायते । अ एव वामन-“ऊकारादप्यूङ्प्रवृत्ते’ रिति । तदेतत् सम्यग्विवेचितमस्माभिः कुमारसम्भवसञ्जीविन्यां, “विमानना सुभ्रु ! कुतः पितुर्गृहे’ इत्यत्र । तस्याः सम्बुद्धिः एकवंशप्रभवभ्रु ! वयं कलाः स्वर्णखण्डान् द्यन्ति खण्डयन्तीति कलादाः स्वर्णकारा इव । “कलादा रुक्मकारकाः’ इत्यमरः । तव गौरिम्णा सह स्पर्धत इति तत्स्पर्धि अत एव प्रबलविरोधितया दुर्विदग्धमविदग्धं बुद्धिशून्यं ख्च बभ्रु पिङ्गलम् । “बभ्रु स्यात् पिङ्गले त्रिषु’ इतृयमरः । हेमं सुवर्णं दहेम । त्वदङ्गस्पर्धापराधादविशुद्धेश्चास्माकं दाह्मस्वर्णसमर्पणात् सर्वानवद्याङ्गसमर्पणमेव सन्तर्पणमिति भावः
॥ 8.99 ॥
अन्वयः–प्रसूननारावशरासनेन सह एकपवंशप्रभवभ्रु, वयं कलादाः इव त्वद्गौरिमस्पर्धि दुर्विदग्.धं वभ्रु हेम दहेम ॥ 8.99 ॥
सुधासरःसु त्वदनङ्गतापः शान्तो न नः किं पुनरप्सरस्सु ॥
निर्वाति तु त्वन्ममताक्षरेण सूनाशुगेषोर्मधुशीकरेण ॥ 8.100 ॥
जीवातु–सुधेति । हे भैमि ! सुधासरःसु अमृतसरमीषु नोऽस्माकं त्वत्कृतानङ्गतापो न शान्तः अप्सरःस्वपां सरःसु ऊर्वश्यादिवेशयासु वा किं पुनः किमुत ? किन्तु सूनाशुगेषोः कामबाणस्य मधुशीकरेण मकरन्दबिन्दुना तत्सटृशेनेत्यर्थः । तव ममताक्षरेण ममताव्यञ्चकवाक्येन मदीया यूय?मित्येवरूपेण निर्वाति शाम्याति । यद्विरहादयं तापः स तत्सङ्गमकसाघ्यो नोपायान्तरसाध्य इत्यर्थः ॥ 8.100 ॥
अन्वयः–नः त्वदनङ्गतापः सुधासरःसु न शान्तः अप्सरासु किं पुनः ? सृनाशुगेषोः मधुशीकरेण त्वन्ममताक्षरेण तु निर्वाति ॥ 8.100 ॥
खणडः किमुत्वद्गिर एव खण्डः किं शर्करातत्पथशर्करैव ॥
कृशाङ्गि ! तद्भङ्गिरसोत्थकच्छतृणन्नुदिक्षु प्रथितं तदिक्षुः ॥ 8.101 ॥
जीवातु-खण्ड इति । ये कृशाङ्गि ! खण्डः खण्डशर्करात्वद्गिर एव त्वद्वचय एव खण्डः इति । ये कृशाङ्गि ! खण्डः खण्डशर्करात्वद्गिर एव त्वद्वचस एव खण्डः शकलः किम् ? “स्यात्खण्डः शकले चेक्षुविकारमणिदोषयोः’ इत्युभयत्रापि विश्वः । दिक्षु प्रथितं प्रख्यातमिक्षुरिक्ष्वाख्यं तत् तृणं तव गिरः त्वद्गिरः भङ्गी भङ्गवान् तरङ्गितो रसः शृङ्गारो दरुदकं च तदुत्थ कच्छे, अनूपे तृणं नु ? उत्सेति पाठे रसोत्सो रसप्रवाहः तस्य कच्छतृणं किमित्यर्थंः । “जतलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविध’ इत्यमरः । सर्वत्रान्यथा कथं खण्डादीनामोदृङ्माधुर्यमिति भावः । किंवादयस्तूत्प्रेक्षायामामत्रोत्प्रेक्षात्रयस्य ससृष्टत्वातृसजातीयसंसृष्टः ।
अत्र द्रव्ये वैशेषिककारः—“मत्स्यन्दिका खण्डसिता क्रमेण गुणवत्तमाः । यथा यथा हि नैर्मल्यं मधुरत्वं तथा तथा ॥ धौतत्वान्निर्मलत्वाच्चकृति सादृश्ययोगान्मत्स्यनिदका स्मृता । स्फटिकोपलखण्डाभः खण्डस्तच्छर्करा समा ॥ शर्करा निर्मला सैव सिता तु सितशर्करा निर्मलेव सिता सा तु राजराजत इतीरिता’ ॥ इति
॥ 8.101 ॥
अन्वयः–कृशाङ्गि, त्वद्गिरः खण्डः एव एव खण्डः किमु, तत्पथशकंरा एव शर्करा किम्, तदभङ्गिरसोत्थकच्छतृणं दिक्षु इक्षु प्रथितं नु ? ॥ 8.101 ॥
ददाम किं ते सुधयाधरेण त्वदास्य एव स्वयमास्यते यतः ॥
विधुं विजित्य स्वयमेव भावि त्वदाननं तन्मखभागभोजि ॥ 8.102 ॥
जीवातु–किञ्च नेष्टदानेन त्वदाराधने शक्ता वयं किन्तु त्वत्करुणैकशरणा इत्याशयेनाह-ददामेति । ते
तुभ्यं किं ददाम किं वितराम दातव्यं किमपि नास्तीत्यर्थः । अमृतमस्तीति चेत् तवैवास्तीत्याह । कुतः यतो यस्मात् कारणात् सुधया अधरेणाधररूपेण त्वदास्य एव स्वयं साक्षादास्यते स्थीयते भावे लट् । यक्षभागोऽस्तीति चेत् सोऽपि ते जयलभ्य इत्याह–त्वदाननं कर्तृ विधुं चन्द्रं स्वयमेव परानपक्षं विजित्य तस्य विधोर्मखे यागे भागमंश भोक्तुं शीलमस्येति तदभोजि भावि भविष्यत् तत्स्थानाधिपत्यादत्र धर्मलाभ इति भावः ॥ 8.102 ॥
अन्वयः–ते किं ददाम, हि सुधया अधरेण त्वदास्ये स्वयम् एव आस्यते, त्वदाननं विधुं विजित्य स्वयम्
एव तन्मखभागभोजि भावि ? ॥ 8.102 ॥
प्रिये ! वृणीष्वामरभावमस्मदिति त्रपोदञ्चि वचो न किन्नः ॥
त्वत्पादपह्मे शरणं प्रविश्य स्वयं वयं येन जिजीविषामः ॥ 8.103 ॥
जीवातु-त्वदायत्तमेवेत्याह-प्रिय इति हे प्रिये ! दमयन्ति ! अस्मदस्मत्तः अमरभावममरत्वमविनाशित्वं च वृणीष्वेत्येवं रूपं नोऽस्माकं वचः त्रपामुदञ्चतीति त्रपोद?ञ्चि लज्जावहं न भवति किम् ? भवतृयेवेत्यर्थः कुतः, येन कारणेन पादादेव पह्म ते एव शारणं प्रविश्य रक्षकं प्राप्य वयं स्वयमनामयं जिजीविषामो जीवितुमिच्छामः । स्वयं क्षुधितस्यान्नर्थिनस्तुद्दातुः क्षुद्भैषज्यप्रतिज्ञावत् परिहासास्पदमेवेति भापवः ॥8.103॥
अन्वयः–प्रिये, अस्मत् अमरमावं वृणीष्व, येन त्वत्पादपद्मे शरणं प्रविश्य वयं स्वयं जिजीविषामः–इति नः वचः किं त्रपोदञ्चि न ? ॥ 8.103 ॥
अस्याकमस्मान्मदनापृतृयोस्त्राणाय पीयुषरसोऽपि नासौ ॥
प्रसाद तस्मा?दधिकं निजस्तु प्रयच्छ पातुं रदनच्छदन्न ॥ 8.104 ॥
जीवातु–न चामृतसेविनां वः कुतो मरणप्रसक्तिरिति वाच्यमित्याहअस्माकमिति । हे दमयन्ति ! अस्मान्मनादेवापमृत्योः सकाशदस्माकं त्राणायः रक्षणाय असौ पीयूषरसोऽपि नालम्, किन्तु तस्मात् पीयुषरसादधिकं निजं त्वदीयं रदनच्छदमोष्ठं पातुं नोऽस्मभ्यं प्रयच्छ देहि प्रसीद प्रसन्ना भव ॥ 8.104 ॥
अन्वयः–अस्मात् मदनापमृत्योः अस्माकं त्राणाय असौ पीयूषरसः अपि न, तस्मात् तु प्रसीद, नः पातुम् अधिकं निजं रदनच्छदं प्रयच्छ ॥ 8.104 ॥
प्लुष्टश्चापेन रोपैरपि सह मकरेणात्मभूः केतुनाऽभूद्धत्तां नस्त्वत्प्रसादथ मनसिजतां मानसो नन्दनः॥
भ्रूभ्यां ते तन्वि ! धन्वो भवतु तव सितैर्जैत्रभल्लः स्मितैस्तादस्तु त्वन्नेत्रचञ्चत्तरशफरयुगाधीनध्वजाङ्कः
॥ 8.105 ॥
जीवातु–प्लुष्ट इति । हे तन्वि ! दमयन्ति ! आत्मना स्वयमेव भवतीत्यात्मभूः कामः स्वैः स्व्कीयैः चापेन रोपैर्बाणैः, “पत्री रोप इषुद्वयोः’ इत्यमरः मकरेणैव केतुना च सह प्लुष्टो दग्धोऽभूत् । स आत्मभूरथेदानीं तव प्रसादाद्धेतोः नोस्माकं तव च सम्भूयेत्यर्थः । ‘त्यादादीनि सर्वैर्नित्यम्’ इति युष्मदस्मदोरेकशेषेपरशेषः । मानसो मनः सबंण्धी नन्दनः पुत्रः आनन्दयिता च सन् । “सन्दनो हर्षके सुते’ इति विश्वः । मनसि जातो मनसिजस्तस्य भावस्तत्ता तां “सप्तम्या जनेईः’ ‘हलदन्तात्सप्तमृयः संज्ञायाम्’ इत्यलुक् धत्तां दधातु ‘तुह्मोस्तातङ्ङ्शिष्यन्यतरस्याम्’ । प्लुष्टः दग्ध आतृमभूर्भवत्वस्तु मनसोऽप्यात्मत्वादित्यर्थः । “आतृमदेहमोब्रह्मस्वभावधृतिबुद्धिषु’ इति विश्वः । त्वय्यस्मासु च कामस्तुल्यवृत्तिरस्त्विति भावः । किञ्च ते तव भ्रू भ्यां धन्वी चापवान् भवतु । धन्वन् शब्दाद्व्रीह्मादिपाठादिनिः । तव सितनिर्मलैः स्मितेर्हसितैः जैत्रा भल्ला यस्यसः जित्व्ररेषु स्तादभवतु अस्तेर्लोटि तेस्तातङादेशः । तव नेत्रे एव चञ्चत्तरावतिचञ्चलौ शफरौ तयोर्युगं तदधीनस्तल्लभ्यो मीनरूपो ध्वज एवाङ्को लाञ्छनं यस्य सोऽस्तु त्वन्नेत्राभ्यां मीनध्वजवानस्त्वित्यर्थः । अत्र यथासंख्यसङ्कीर्णो रूपकालङ्कारः । स्त्रग्धरा वृत्तम्
॥ 8.105 ॥
अन्वयः–चापेन रोपैः मकरेण केतुना च सह आत्मभूः प्लुष्टः अभूत्, अथ त्वत्प्रसादात् नः मानसः ननछनः सन् मनसिजतां धत्ताम्; तन्वि, ते भ्रू भ्यां धन्वी भवतु; तव सितैः स्मितैः जैत्रभल्लः स्तात्; त्वन्नेत्रचञ्चत्तरशफरयुगाधीनमीनध्वाजाङ्कः अस्तु ॥ 8.105 ॥
स्वप्नेन प्रापितायाः प्रतिरजनि तव श्रीषु मग्नः कटाक्षः श्रोत्रे गीतामृताब्धौ त्वगपि ननु तनूमञ्जरीसौकुमार्ये ॥
नासा श्वसाधिवासेऽधरसधुनि रसज्ञा चरित्रेषु चित्तं तन्नस्न्वङ्गि ! कैश्चिनन करणहरिणैर्वागुरा लग्भितासि ॥ 8.106 ॥
जीवातु-स्वप्नेनेति । हे तन्वङ्गि ! तनून्यङ्गानि यस्यास्तस्याः सम्बुद्धिः । “अङ्गात्रकण्ठेभ्येः’ इति ङीप् । कृशाङ्गि ! प्रतिरजनि रजन्यां रजन्यां, वीप्सायामव्ययीभावः । स्वप्नेन ( कर्त्रा ) प्रापितायाः स्वप्नदृष्टायाः तव श्रीषु सौन्दर्यलहरीषु नोऽस्मकं कटाक्षो मग्नः गीत एवामृताब्धो सुधासमुद्रे श्रोत्रे मग्ने, तनुः मूर्तिरेव मंजरी कुसुमगुच्छः तस्याः सौकुमार्ये मार्दवे त्वगपि मग्ना । ननु श्वासाधिवासे निश्वासमारुसोरभे नासा मग्ना अधरमधुन्यधरामृते रसज्ञा रसना मग्ना चरित्रेषु चेष्टासु चित्तं मग्नं तत् तस्मात् कैश्चित् करणैरिन्द्रिय्यौरेव हरिणैस्तृवं वागुरा मृगबन्धिनी रज्जुः न कम्भिता न प्राप्तासि सर्वै?रि?न्द्रिय्यैरेव हरिणैस्त्वं वागुरा मृगबन्धिनी रजजुः न लम्भिता न प्राप्तासि सर्वैरपि प्रापितेत्यर्थः । अस्माकं सर्वेन्द्रियसम्मोहनं ते रूपशिल्पमिति भावः । अत्र चतुर्थपादार्थस्य पूर्वषङ्वाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुकं काव्यलिङ्गं तच्च करणहरिणैरित्यादिरूपकेण सकीर्यते । पूर्वोक्तमेव वृत्तम् ॥ 8.106 ॥
अन्वयः–ननु कटाक्षः प्रतिरजनि स्वप्नेन प्रापितायाः तव श्रीषु मग्नः, श्रोत्रे गीतामृताब्धौ, त्वक् अपि तनूमञ्जरीसौकुमार्ये, नासा श्वासाधिवासे, रसज्ञा अधरमधुनि, चित्तं चरित्रेषु, तत् तन्वङ्गि, नः कैश्चित् करणहरिणैः वागुरा न लम्भिता ( पाठांतर “लङ्ख्यिता’ ) असि ॥ 8.106 ॥
इति धृतसुरसार्थवाचिकस्त्रङ्निजरसनातलपत्रहारकस्य ॥
सफलय मम दूततां वृणीष्व स्वयमवधार्यदिगीशमेकमषु ॥ 8.107 ॥
जीवातु-इतीति । इतीत्थं धृता सुरसार्थस्येन्द्रादिवृन्दस्य वाचिकस्त्रक् सन्दंशवाकम्यपरम्परा येन तस्य निजस्य रसनातलस्यैव पत्रस्य लेखस्य यो हारकस्तस्य मम दूतां सफलय सफलां कुरु, एषु मध्ये एकं दिगीशं स्वयमात्मनैवावधार्य निश्चित्य वृणीष्व वृष्णीथाः । वाचिको व्याख्यातः । अत्र नलदूत्यसाफल्यस्य वरणवाक्याथंहेतुकत्वात् पूर्ववदलङ्कारः । न च रसनातलपत्रस्य यो हारकस्तस्येति रूपकेण सङ्कीर्यते । पुष्पिताग्रा वृत्तम् ॥ 8.107 ॥
अन्वयः–एषु एकं दगीशं स्वयम् अवधार्य वृणीष्व–इति धृतसुरताथंआचिकस्त्रङ्निजरसनातलपत्रहारकस्य मम दूततां सफलय ॥ 8.107 ॥
आनन्दयेन्द्रमथ मन्मथमग्नमग्निं केलीभिरुद्धर तनूदरि ! नूतनाभिः ॥
आसादयोदितदयं शमने मनो वा नो वा यदोत्थमथ तद्वरुणं वृणीथाः ॥ 8.108 ॥
जीवातुः–आनन्दयेति । हे तनूदरि ! कृशेदरि ! नूतनाभिरभिनवाभिः केलीभिः क्रीडाभिः मन्मथमग्नमिन्द्रमानन्दय अथवा ताटृशमेव अग्निं ताभिरुद्धर, अथवा शमने यमे उदितदयं जातानुकम्पं मनः आसांदय निवेशय । इत्यथं नो वा यदि अथ तत्तर्हि मन्मथमग्नं वरुणं वृणीथः वृणीष्व ॥ 8.108 ॥
अन्वयः–तनूदरि, नूतनाभिः केलीभिः मन्मथमग्नम् इन्द्रम् आनन्दय अथ अग्निं उद्धर वा शमने उदितदयं मनः आसादय अथ यदि इत्थं नो वा तद् वरुणं वृणीथाः ॥ 8.108 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहरीरः सुतं श्रीहीरः सुषुवे जितेन्द्रियचय मामल्लदेवी च यम् ॥
तस्यागादयमष्टमः कविकुलादृष्टाध्वपान्थे महाकाव्ये चारुणि वैरसेनिचरिते सर्गो निसर्गोज्जवलः
॥ 8.109 ॥
जीवातु–श्रीहर्षमितृयादि । कवीनां कुलेने समूहेन अटृष्टे अध्वनि यत्पान्थं नित्यपथिकं तस्मिन् चारुणि शेभने वैरसेनेर्नलस्य चरिते तस्य श्रीहर्षस्सय महाकाव्ये निसर्गोज्जवलोऽयमष्टमः सर्ग आगात् सम्पूर्ण
इति भावः ॥ 8.109 ॥

इति मल्लिनाथसूरविरचिते “जीवातु’ समारूयाने अष्टमः सर्गः समाप्तः ॥ 8 ॥
अन्वयः–कविराजराजिमुकुटालङ्कारहीरः़``````````सुशुवे स्य कविकुलाटृष्टाध्वापान्थे चारुणि वैरसेनिचरिते महाकाव्ये निसर्गोज्जवलः अयम् अष्टमः सर्गः अगात् ॥ 8.109 ॥

नैषधीयचरित का अष्टम सर्ग समाप्त ।

*****************************************************************************

.

नैषण्धीयचरितम्

नवमः सर्गः

इतीयमक्षिभ्रु वविभ्रमेङ्गितैः स्फुटामनिच्छां विवरीतुमुतृसुका ॥
तदुक्तिमात्रश्रवणेच्छयाऽशृणोदिगीशसन्देशगिरो न गौरवात् ॥ 9.1 ॥
जतीवातु–अथ दमयन्तीवृत्तान्तं वक्तुं विततबहुतरदूतरदूतवाक्यश्रवणजनितामिन्द्राद्यनुरागशङ्कां तावद्वारयति–इतीति । इयं दमयन्ती अक्षिणो च भ्रु वौच अक्षिभ्रु वं द्वन्द्वैकवदभावः । “अचतुर’ इत्यादिना समासान्तादिनिपातनात् साधुः । तस्य विभ्रमो विकारः स एव इङ्गितं चेष्टा तैरेव स्फुटां व्यक्तामनिच्छामिन्द्रादिविषयामिति शेषः । तथा विवरीतुं वाचा निषेद्धुमुत्सुका उद्युक्ता सती । ‘टृष्टार्थोद्युक्त उत्सुक’ इत्यमरः । विषेधस्य ज्ञानपूर्वकत्वात् तज्ज्ञज्ञनार्थमशृणोदित्यर्थः । किञ्च तदुक्तिमात्रश्रवणेच्छया नलवागमृतपिपासया चेत्यर्थः । दिशिसन्देशागिरः अशृणोत् । मात्रपदव्यावर्त्यमाह–गौरवादिति । न तु दिगीशादीनां गौरवात् । अ?स्मिन् सर्गे वंशस्थवृत्तम् । लक्षणन्तूक्तमादिमसर्गे ॥ 9.1 ॥
अन्वयः–अक्षिभ्रु वविभ्रमेङ्गितैः स्फुटाम् अनिच्छां विवरीतुम् उत्सुका इयं तदुक्तिमात्रश्रवणेच्छया दिगीशसन्देशगिरः अशृणोत्, गौरवात् न ॥ 9.1 ॥
तदर्पितामश्रुतवद्विधाय तां दिगीशसन्देशमयीं सरस्वतीम् ॥
इदं तमुर्वीतलशीतलद्युतिं जगाद वैदभैनरेन्द्रन्दिनी ॥ 9.2 ॥
जीवातु–तदिति । वैदर्भनरेन्द्रनन्दिनी दमयन्ती तेनानलेनार्पितां प्रयुक्तां दिगीशसंदेशमयीं तद्रुपां सरस्वतीं वाचमश्रुतवद्विधायाश्रुतामिव कृत्वा । “तेन तुल्यं क्रिया चेद्वतिः’ । उर्वीतलशीतलफतिं भूलोकचन्द्रं तं नलमिदं अक्ष्यमाणं जगाद गदितवती ॥ 9.2 ॥
अन्वयः–वैदर्भनरेन्द्रनन्दिनी तदर्पितां दिगीशसन्देशमयीं तां सरस्वतीम् अश्रुतवत् विधाय उर्वीतलशीतलद्युतिं तम् इदं जगाद ॥ 9.2 ॥
मयाङ्ग ! पृष्टः कुलनामनी भवानमू विमुच्यैव किमन्यदुक्तवान् ॥
न मह्ममत्रोत्तरधारयस्य किं ह्नितेऽपि सेयं भवतोऽक्षमर्णता ॥ 9.3 ॥
पृष्टः सन् पृच्छतेर्दु हादित्वादप्रधाने कर्मणि क्तः?0,?0 “अप्रधने दुहादीना’मिति वचनात् । कि किमर्थममू कुलनामनी विमुच्य अन्युक्तवान् किमप्यसङ्गतमिव प्रलपसीति भावः । तदकथने को दोषस्तत्राह–नेति । अलं कुलनामप्रश्ने मह्ममुत्तमर्णायै इति शेषः । “धारेरुत्तमर्णे’ इति सम्प्रदानत्वाच्चतुर्थी । धारयतीति धारयः “अनुपसर्गाल्लिम्पबिन्दधारि’ इत्यादिना शप्रत्ययः । उत्तरत्य धारयः तस्य भवतः तव सेयमधमः ऋणेन अधमर्णः । मयूरव्यंसकादित्वात् तत्पुरुषः । तस्य भावस्तत्ता सा ह्नियेऽपि न किम् ? लोके उत्तमर्णेन याच्यामानस्याधर्मस्य तदप्रदानं लज्जायै भवत्येव, भवतस्तु सापि नास्तीति भावः ॥ 9.3 ॥
अन्वयः–अङ्ग, मया कुलनामनी पृष्ठः भावन् अमू विमुच्य किम् धन्यत् उक्तवान् ! अत्र मह्मम् उत्तरधारयस्य भवतः सा इयम् अधमर्णता किं ह्निये अपि न ? ॥ 9.3 ॥
अदृश्यमाना क्वचिदीक्षिता क्वचिन्ममानुयोगे भवतः सरस्वती ॥
क्वचितृप्रकाशां क्वचिदस्फटार्णसं सरस्वतीं जेतुमनाः सरस्वतीम् ॥ 9.4 ॥
जीवातु–अटृश्यमानेति । ममानुयोगे प्रश्ने विषये । “प्रश्नोऽनुयोगः पृच्छ । च’ इत्यमरः । क्वचित् कुलनामविषये अद्यश्यमाना अप्रकाशितेत्यर्थः । क्वचित् कुत आगतः कस्य त्वमित्यत्र ईक्षिता दृष्टा प्रकाशितार्थेति यावत् ईदृशौ भवतः सरस्वतीं तदीं च । “सरस्वती नदीभेदे गीर्वाग्देवतयोर्गिरः । स्त्रीरत्ने चापगायञ्च’ इति विश्वः । जेतुं मनो यस्याः सा जेतुमनाः ‘तुं काममनसोरपि’ इति मकारलोपः । अत्र
नलवाचः सरस्वतीनदीधर्मसम्बन्धात्तज्जिगीषोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । तया चोपमा व्यज्यत इत्यलङ्कारेणालङ्कारध्वविनिः ॥ 9.4 ॥
अन्वयः–मम अनुयोगे क्वचित् अटृष्यमाना क्वचित् र्हक्षिता भवतः सरस्वीती क्वचित् प्रकाशां क्वचित् अस्फुटार्णसं सरस्वतीं सरस्वीतं च जेतुमनाः ॥ 9.4 ॥
गिरः श्रुता एव तव श्रवःसुधाः श्लथा भवन्नाम्नि तु न श्रुतिस्पृहा ॥
पिपासुता शान्तिमुपैति वारिणा न जातु दुग्धान्मधुनोऽधिकादपि ॥ 9.5 ॥
जीवातु–गिर इति । श्रवःसुधाः कर्णामृतानि तव गिरः श्रुता एव, किन्तु भवननाग्नि विषये श्रुतिस्पृहा श्रवणेच्छा न श्लया ननिवृत्ता । न च सुरसन्देशश्रवणादेव तन्निवृत्तिरित्याह-तथा हि पिपासुता पिपासेत्यर्थः । बारिणा वारिपानेनैव शान्तिमुवैति अधिकादनल्पादपि दुग्धात् क्षीरात मधुनः क्षौद्राद्वा, जातु कदापि न शाम्यति, तद्वदत्रापीति । दृष्टान्तालङ्कारः ॥ 9.5 ॥
अन्वयः–श्रवःसुधाः तव गिरः श्रुताः एव तु भवन्नाम्नि श्रुतिस्पृहा न श्लथा, पिपासुता वारिणा शन्तिम् उपैति, अधिकात् दुग्धात् मधुना अपि जातुन ॥ 9.5 ॥
बिभर्ति वंशः कतमस्तमोऽपहं भवादृशं नायकरत्नमीदृशम् ॥
तमन्यसामान्यधियाऽवमानितं त्वया महान्त बहु मन्तुमुत्सहे ॥ 9.6 ॥
जीवातु-बिभर्तोति । तमोऽपहं भवादृशमीदृशं नायकरत्नं राजश्रेष्ठं हारमध्यमणिं च ‘नायको नेतरि श्रेष्ठे हारमध्यमणावपि’ इति विश्वः । कतमो वंशः कुलं वेणु च । “वंशो वेणौ कुले वर्गे’ इति विश्वः । बिभर्ति ? किमर्थमित चेत् अन्यसामान्यधिया पूर्वं सर्वसाधारणबुद्ध्या अवमानितं दृष्टं तयाप्यद्य त्वया तहान्तं तमुत्कृत्यमाणं वंश बहु मन्तुं बहुकर्तुमुत्सहे, सर्वोऽपि हि वंशो मान्यैः पुरुषधौरेव प्रकाशते न स्वरूपत इति भावः । भावः । अत्र मध्यमणिरूपार्थान्तरप्रतीतिर्ध्वनिरेव प्रकाशते न स्वरूपत इति भावः । अत्र मध्यमणिरूपार्थान्तरप्रतीतिर्ध्वनिरेव । अत्र वेणोर्मुक्तायोनित्वे प्रमाणम् । “करीन्द्रमूतवराहशङ्खक्तयुमत्स्याबिध्शुक्त्युदभववेणुजानि । मुक्ताफलानि ग्रथितानि लोके तेषां तु शुक्त्युदभवमेव भूरि’ ॥ इति ॥ 9.6 ॥
अन्वयः–तमोपहं भवाटृशम् ईटृशं नायकरत्नं कतमः वंशः बिभर्त्ति, अन्यसामान्यधिया अवमानितं त्वया महान्तं तं बहु मन्तुम् उत्सहे ॥ 9.6 ॥
इतीरयित्वा विरतां पुनः स तां गिरानुजग्राहतरां नराधिपः ॥
विरुत्या विश्रान्तवती तपात्यये घनाघनश्चातकमण्डलीमिव ॥ 9.7 ॥
जीवातु–इतीति । इतीरयित्वा इत्थं व्याहृत्य विरतां तूष्णीभूतां तां भैमीं स नराधिपः नलः तपात्यये ग्रीष्मान्ते विरुत्या पिपासया आक्रन्द्य विश्रान्तवतीं विरतां चातकानां मण्डलीं समूहं घनाधनो वर्षुकाब्द इव । “वर्षुकाब्दो घनाघनाः’ इत्यमरः । पुनर्गिरा वचनेन गर्जितेन चानुजग्राहतरातिश्येनानुगृहीतवान् आदरात् प्रत्युवाचेत्यर्थः । “किमेत्तिङ्’ इत्यादिना अम्प्रत्ययः ॥ 9.7 ॥
अन्वयः–इति ईरयित्वा विरतां तां तपात्यये विरुत्य विश्रान्तवतीं चातकमण्डलीं घनाघनः इव सः नराधिपः गिरा पुनः अनुजग्राहतराम् ॥ 9.7 ॥
अये ! ममोदासितमेव जिह्वया द्वयेऽपि तस्मिन्ननतिप्रयोजने ॥
गरौ गिरः पल्लवनार्थलाघवे मितञ्च सारञ्च वचो हि वाग्मिता ॥ 9.8 ॥
जीवातु–अये इति । अये ! दमयन्ति ! न विद्यते अतिप्रयोजनमधिकप्रयोजनं यस्मिन् तस्मिन् द्वयेऽपि कुलनाम्नोर्युगलेऽपि मम जिह्वया उदासितं माध्यस्थेन सिथतं, “नपुंसके भावे क्तः’ । तथा हि–पल्लवनं विस्तरणं वृथाशब्दप्रलपनमिति यावत् । तच्चार्थलाघवञ्च वक्तव्यार्थसङ्कोचनञ्च गिरः वाचः गराविव विषप्रायावुभावित्यर्थः । मितमल्पाक्षरं सारं महार्थञ्च वचो वाक्यं वाग्मिता वक्तृत्वम्, अन्यथा वालता स्यादिति भावः । “वाचो ग्मिनिः’ । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ 9.8 ॥
अन्वयः–अये, मम जिह्वया अनतिप्रयोजने तस्मिन् द्वये अपि उदासितम् एव; हि पल्लवनार्थलाधवे
गिरः गरौ, मितं सारं च वचः वाग्मिता ॥ 9.8 ॥
वृथा कथेयं मयि वर्णपद्धतिः कयानुपूर्व्या समेकेति केति च ॥
क्षमे समक्षव्यवहारमावयोः पदे विधातुं खलु युष्मदस्मदी ॥ 9.9 ॥
जीवातु–कुलनामकथनं वृथेत्युक्तं, तत्र नामकथनस्यं वैयर्थ्यमाहवृथेति । का वर्णपद्धतिरक्षरपङ्क्तिः । कयानुपूर्व्यानुक्रमेण मयि समकेति संज्ञात्वेन संकेतितेतीयं कथा प्रश्नोक्तिश्च वृथा । किमुतोत्तरमिति भावः । नामरूपापरिज्ञाने कथमावयोर्मिथः संवादस्तत्राह–आवयोस्तव मम चेत्यर्थः । त्यदाद्येकशेषे यत्परं तदिति वचनादस्मदः शेषता । अक्षणोः समीपे समक्षं सम्मुखेन । समीपार्थेऽव्ययीभावे शरत्प्रभसृतित्वात् समासान्तः । व्यवहारं मिथः संकथां विधातुं युष्मच्चास्मच्च युष्मदस्मदी पदे त्वमहमित्येतौ शब्दावित्यर्थः । क्षमे समर्थे खलु
॥ 9.9 ॥
अन्वयः–मयि का वर्णपद्धतिः कया आनुपूर्व्या समका-इति इयं च कथा इति वथा, खलु आवयोः समक्षव्यवहारं विधातुं युष्मदस्मदी पदे क्षमे ॥ 9.9 ॥
यदि स्वभावान्मम नोज्जवलं कुलं ततस्तुद्भावनमौचिती कुतः ॥
अथावदात तदहो विडम्बना यथा तथा प्रेष्यतयोपसेदुषः ॥ 9.10 ॥
जीवातु–अकथने च कारणमाह-यदीति । मम कुलं स्वभावादुज्जवलमकलङ्कं न यदि, ततस्तर्हि तस्य कुलस्योदभावनं प्रकटनं कुत औचिती औचित्यं नोचितमित्यर्थः । धर्मघर्मिणोभेदोपचारात् औचिती व्यारूयातव्या । अथावदातमुजृजवलं तथापि यथा तथ कथञ्चिदपि प्रेष्यतथा किङ्करतया उपसेदुषः प्राप्तस्य मम तत् कुलोदभावनं विडम्बना परिहासः । अहो ॥ 9.10 ॥
अन्वयः–यदि मम कुलं स्वभावात् उज्जवलं न, ततः तदुद्भावनं कुतः औचिती अहो,अथ अवदातं तत् यथा तथा प्रेष्यतया मम विडम्बना ॥ 9.10 ॥
इति प्रतीत्यैव मयावधीरिते तथापि निर्बन्धरसो न शोभते ॥
हरित्पतीनां प्रतिवाचिकं प्रति श्रमो गिरां ते घटते हि संप्रति ॥ 9.11 ॥
जीवातु–इतीति । इतीत्थं प्रतीत्य कुलनामकथनं वृथेति निश्चित्यैव मयाऽवधीरिते उपेक्षिते सति तदापि निर्बन्धरसो निर्बन्धेच्छा न शोभते । कितु सम्प्रति हरित्पतीनामिन्द्रादीनां प्रतिवाचिकं प्रतिसन्देशं न शोभते । मयाऽवधीरिते उपेक्षिते सति तदापि निर्बन्धरसो निर्बन्धेच्छा न शोभते । कितु सम्प्रति हरित्पतीनापमिन्द्रादीनां प्रतिवाचिकं प्रतिसन्देशं प्रत्युत्तरं प्रतीत्यर्थः । ते तव गिरां श्रमः प्रयत्नः वाग्व्यापारो घटते युज्यते हि ॥ 9.11 ॥
अन्वयः–यह प्रतीत्य एव मया अवधीरिते तव अपि निर्बन्धरसः न शोभते, हि सम्प्रति हरित्यतीनां प्रतिवाचिकं प्रति ते गिरां श्रमः घटते ॥ 9.11 ॥
तथापि निर्बध्नति ! तेऽथवा स्पृहामिहानुरुन्धे मितया न किं गिरा ॥
हिमांशुवंशस्य करीरमेव मां निशम्य किं नासि फलेग्रहिग्रहा ॥ 9.12 ॥
बध्नातेः शत्रन्तादुगितश्चेति ङीबन्तात् सम्बुद्धिः । इतार्थे ते तव स्पृहां स्पृहां वाञ्छां मितसयर गिरा नानुरुन्धे नानुवर्ते किम् ? अनुरोत्स्यायेवेत्यर्थः । कुलस्वरूपमात्रं कथयामीत्यर्थः । रुधेर्लटि तङ् । मां हिमांशुवंशस्य करीरं सोमकुलांकुरमेव निशम्या फलं गृह् णातीति फलेग्रहिः सफलः ग्रहः आग्रहो यस्याः सा सफलाभिनिवेशा नासि किम् ? तावता न तुष्यसि किमित्यर्थः । “फलेग्रहिरात्मम्भरिश्चे’ ति निपातनात् साधुः ॥ 9.12 ॥
अन्वयः–अथवा तथापि निर्बध्नति, इह ते स्पृहां मितया गिरया किं न अनुरुन्धे ? मां हिमांशुवंशस्य करीरम् निशम्य एव किं फलेग्रहिग्रहा न असि ? ॥ 9.12 ॥
महाजनाचारपरम्परेदृशी स्वनाम नामाददते न साधवः ॥
अतोऽभिधातुं न तदुत्सहे पुनर्जनः किलाचारमुच विगायति ॥ 9.13 ॥
जीवातु–कुलमुक्तं नाम तु वाचमित्याह–महाजनेति । महाजनानां सतामाचारस्य परम्परा सम्प्रदायः
ईटृशो । तामेवाह–साधवः सन्तः स्वनाम नाददते न गृह् णन्ति नाम । नामेति प्रसिद्धो–“नामानुकीर्तनं पुंसामात्मनश्च गुरोः स्त्रियाः । दिनमेकं हरत्यायु’रिति निषेधादिति भावः । अतो निषेधात् तत् पुनस्तन्नाम् तु अभिधातुं नोत्सहे न शक्नोमि । “शकधृष’ इत्यादिना तुमुन्प्रत्ययः । तथा हि-जनो लोक आचारमुचमारत्यजं
विगायति किल गर्हते खलु ॥ 9.13 ॥
अन्वयः–साधवः स्वनाम न आददते, महाजनाचारपरत्मपरा ईटृशी; अतः तत् अभिधातुं न उत्सहे पुनः जनः किल आचारपुत्रं विगायति ॥ 9.13 ॥
अदोऽयमालप्य शिखीव शारदो बभूव तूष्णीमहितापकारकः ॥
अथाऽऽस्य रागस्य दधा पदे पदे वचांसि हंसीव विदर्भजाददे ॥ 9.14 ॥
जीवातु–अद इति । अहितानामरीणामपकारकः अपकर्ता अन्यत्रापहीनां तापकारकोऽतिर्हिसाकरः । अयं नलः शरदि भवः शारदः, “सन्धिवेलाद्यृतुनक्षत्रेभृयोऽण्’ । शिखी केकीव अदः इदं वचनमालप्य व्याहृत्य तूष्णीं बभूव । अथानन्तरमस्य वाक्यस्य सम्बन्धिनि पदे सुप्तिङन्तरूपे पदे विषये रागस्य श्रवणेच्छया दधातिदधातृयोर्विभाषा’ इति दधातेर्रपत्यये श्लाविति द्विर्भावः, “अजाद्यष्टाप्’ । अन्यत्र पदे पदे चरणद्वये आस्ये चञ्चुपुटे रागस्य लीहित्यस्य दघा । “राजहंस्याददे उवाचेत्यर्थ । शरदि निःशब्दाः शिखिनः राजहंसाः शब्दायन्ते तद्वदिति भावः ॥ 9.14 ॥
अन्वयः–अहितापकारकः अयं अशरदः शिखी इव अदः आप्य तूष्णीं बभूवः अथ अस्य पदे पदे रागस्य दधा विदर्भजा ( आस्य रागस्य पदे पदे अधा ) हंसी इव वचांसि आददे ? ॥ 9.14 ॥
सुधांशुवंशाभरणं भवानित श्रुतेऽपि नापैति विशेषसंशयः ॥
कियत्सु मौनं वितता कियत्सु वाङ्महत्यहो वञ्चनचातुरी तव ॥ 9.15 ॥
जीवातु–सुधांश्विति । भवान् सुधांशुवंशाभरणमिति श्रुतेऽपि विशेषविषये संशयस्तत्रापि क इति सन्देहो नापै?ि अतो विशेषो वक्तव्य इति भावः । अथावाच्यत्वान्नोच्यते तर्हि कियद्वाच्यं तदेव विविच्यतामित्याह–कियत्स्वथैषु मौनं कियत्सु विषयेषु वाग्वितता विस्तृता न किञ्चिदत्र नियामकमस्तीतिं भावः
। किंतु तव वञ्चनचातुरी प्रतारणाच्चातुर्यं महती । अहो ! औचितीवच्चातुरी व्यारूयेया ॥ 9.15 ॥
अन्वयः–भवान् सुधांशुवंशाभरणम् इति श्रुते विशेषसंशया न अपैति; कियत्सु मौनं, कियत्सु वितता, अहो, तव वञ्चनचातुरी महती ! ॥ 9.15 ॥
मयापि देयं प्रतिवाचिकं न ते स्वनाम मत्कर्णसुधामकुर्वते ॥
परेण पुंसा हि ममापि सङ्कथा कुलाबलाचारसहासनासहा ॥ 9.16 ॥
जीवातु–अथ यदुक्तं नामकथनं निषिद्धमिति तत्र प्रतिबन्दीं गृह्णतिमयापीति । स्वनाम मम कर्णसुधां
कर्णामृतुर्वते अश्रावयते इत्यर्थः ते तुम्यं मयापि प्रतिवाचिकं प्रतिसन्देशनं न देयं, कुतः, हि यस्मान्ममापि परेण
पुंभ्यं सङ्कथा सम्भाषणं कुलाबलानां कुलाङ्गनानामाचारस्य सहासनं सहवासस्तस्य न सहत इत्यसहा अक्षमा । “पचाद्यच्’ । कुलस्त्रसमाचार?विरुद्धेत्यर्थः ॥ 9.16 ॥
अन्वयः–स्वनाम मत्कर्णसुधाम् अकुर्वते ते अपि प्रतिवाचिकं न देयम्, हि सस अपि परेण पुंसा संकथा कुलाबलाचारसहासना ॥ 9.16 ॥
हृदयाभिनन्द्य प्रतिवन्द्यनुतृतरः प्रियागिरः सस्मितमाह स स्म ताम् ॥
वदामि वामाक्षि ! परेषु मा क्षिप स्वमीदृशं माक्षिकमाक्षिपद्वचः ॥ 9.17 ॥
जीवातु–हृदेति । स नलः प्रियाया गिरो वाक्यानि हृदा हृदयेन अभिननद्यानुमोद्य प्रतिवन्द्या पूर्वश्लोकोक्त्या अनुत्तरः तां प्रियां सस्मितमाह स्म उक्तवान् । “लट् स्म’ इ?ति भूते लट् । हे वामाक्षि ! चारुलोचने ! वदामि । माक्षिकाभिः कृतं माक्षिकम् । “मधुभेदो मधु क्षौद्रं माधिकादि’ इत्यमरः । तेन कृतमित्यर्थे संज्ञायामित्यण्प्रत्ययः । तदाक्षिपत् निराकुर्वत् तत्सटृशमित्यर्थः । ईटृशं लोकोत्तरं स्वं वचः परेषु परपुरषेषु मा क्षिप मा निद्येहि सत्यं कुलस्त्रीणां परपुरुषसमृभाषणमनुचितमङ्गीकृतं च स्वयं तु न परपुरुष इति भावः ॥ 9.17 ॥
अन्वयः–प्रियागिरः हृदा अभिनन्द्य प्रतिवन्द्यनुत्तरः सः तां सस्मितम् आह स्म-वामाक्षि, वदामि, ईटृशं माखिकम् आक्षिपन् स्वं वचः परेषु मा क्षिप ॥ 9.17 ॥
करोषि नेमं फलिनं मम श्रमं दिशोऽनुगृह् णासि न कञ्चन प्रभुम् ॥
त्वमित्थमर्हासि सुरानुपासितुं रसामृतस्नानपवित्रया गिरा ॥ 9.18 ॥
जीवातु–करोषीति । हे भैमि ! भीमजे ! मम इमं श्रर्मं सुराकार्यप्रयासं फलिनं फलवन्तं “फलवान् फलितः फली’ इत्यमरः “फलबर्हाभ्यामिनज्ववतव्यः ।’ न करोषि कथं, कञ्चनैकमपि दिशः प्रभुं दिगीशं नानुगृह्णसि, त्वमित्थं रसो माधुर्यमेवामृतं तत्र स्नानेनावगाहेन पवित्रया पूतया गिरा सुरानुपासितुमर्हासि स्नाताधिकारत्वाद्देवपूजाया इति भावः ॥ 9.18 ॥
अन्वयः–मम इमं श्रमं फलिनं न करोषि, कंचन दिशः प्रर्भु न अनुगृह्णसि त्वम् इत्थं राससासमृतस्नापवित्रया गिरा सुरान् उपासितुम् अर्हासि ॥ 9.18 ॥
सुरेषु सन्देशयसीदृशीं बहुं रसस्त्रवेण स्तिमितां न भारतीम् ॥
मदर्पिता दपंकपितेषु या प्रयातु दावार्दितदाववृष्टिताम् ॥ 9.19 ॥
जीवातु–सुरेष्विति । ईटृशीरं लोकोत्तरां बहु प्रभूतां रसस्त्रवेण रसप्रवाहेण स्तिमितां भरितां भारतीं सुरेषु न सन्देशयसि सन्देशयसि सन्देशं न करोषि । सन्देशशब्दात् तत्करोति ण्यन्ताल्लटि सिप् । या भारती दर्पकेण कन्दर्पेण तापितेषु तेषु मयार्पिता सती दावार्दिता दावाग्निदग्धाऽरण्ये या वृष्टिः तत्तां प्रयातु सन्तपसंहरणात् तत्सटृशी भवेदिति निदर्शनालङ्कारः । “दवदावौ न वारण्यवह्नी’ इत्यमरः ॥ 9.19 ॥
अन्वयः–ईटृशीं बहुं रसस्रवेण स्तिमितां भारतीं सुरेषु न सन्देशसि, मदर्पिता या दर्पकतापितेषु दावार्दितदाववृष्टितां प्रयातु ? ॥ 9.19 ॥
यथा यथेह त्वदपेक्षयाऽनया निमेषमप्येष जनो विलम्बते ॥
रुषा शरव्योकरणो दिवौकसां तथा तथाऽद्य त्वरते रते पतिः ॥ 9.20 ॥
जीवातु–यथा यथेति । हे भैमि ! एष अयं जनः स्वयमित्यर्थः । यथा यथा यावत् यावदित्यर्थः । इह त्वत्मसमीपे त्वपेक्षया त्वनुरोधेन निमेषमपि विल्मते, रतेः कामो रुषा दिवौकसां देवानां शरव्यीकरणे लक्ष्यीकरणे तिथा यावत् यावदित्यर्थः । इह त्वत्समीपे त्वदपेक्षया त्वरव्यीकरोधेन निमेषमपि विम्बते, रतेः पतिः कामो रुषा दिवौकसां देवानां शरव्यीकरणे लक्ष्यीकरणे तथा तथा तथाऽद्य त्वरते, अतः क्षिप्रमेव प्रतिवाचं देहीत्यर्थः ॥ 9.20 ॥
अन्वयः–एषः जनः यथा यथा इह अनया त्वदपेक्षया निमेषम् अपि विलम्बते, तथा तथा रतेः पतिः रुषा दिवौकसां शरव्यीकरणे अद्य त्वरते ॥ 9.20 ॥
इयच्चिरस्यावदधन्ति मत्पथे किमिन्द्रनेत्राण्यशनिनं निर्ममौ ॥
धिगस्तु मां सत्वरकार्यमन्तथरं स्थितः परप्रेष्यगुणोऽपि यत्र न ॥ 9.21 ॥
जीवातु-इयदिति । मत्पथे मद् गमनमार्गे इयच्चिरस्य इयच्चिरमित्यर्थः । अत्यन्तसंयोगे द्वितीयार्थेऽव्ययम् । “चिराय चिररात्राय चिरस्याद्याच्चिरार्थका’ इतुर्नुभागमः । इन्द्रनेत्राणि ( कर्म ) अशनिर्वज्रं न निर्ममौ किम् ? नूनं, वज्रमयानीत्यर्थः । अन्यथा कथमीटृग्विम्बनसहत्वमिति भावः । सत्वरकार्ये क्षिप्रकर्तव्ये मन्थरं मन्दं मां धिगस्तु ममेयं निन्दा प्राप्तेत्यर्थः । कुतो यत्र मयि परेषां प्रेष्यः कर्मकरः तस्य यो गुणः क्षिप्रकारत्वलक्षणः सोऽपि न स्?िथतः । त्वदीयप्रत्युत्तरविल्बनाम्ममेयमदक्षता प्राप्तेत्यहो कष्टं परप्रेष्यभाव इति भावः ॥ 9.21 ॥
अन्वयः–इयच्चिरस्य मत्पथे अवदधन्ति इन्द्रनेत्राणि अशनिः न निर्ममौकिम् ? सत्वरकार्यमन्थरं मां धिक् अस्तु, यत्र परप्रेष्यगुणः अपि न स्थितः ॥ 9.21 ॥
इद निगद्य क्षितिभर्तरि स्थिते तयाऽभ्यधायि स्वगतं विदग्धया ॥
अधिस्त्रि तं दूतयतां भुवः स्मरं मनो दधत्या नयनैपुणव्यये ॥ 9.22 ॥
जीवातु–इदमिति । क्षितिभर्त्तरि भूपे इदं निगद्य स्थिते तूष्णीं भूते सति स्त्रीष्वधिस्त्रि
विभक्त्यर्थेऽव्ययीभावे नपुंसकह्रस्वः । भुवः स्मरं भूलोकमन्मथं तं पुरुषं दूतयतां दूतकृत्ये निषिद्धमत्यतिसुन्दरमेनं दूतं कुर्वतामित्यर्थः । यथा भरतः–“नोज्जवलं रूपवन्तं च नार्थवन्तं न चातुरम् । दूतं वापि हि दूती वा बुधः कुर्यात्कदाचन ॥’ च इति । नयनैपुणव्ययते नीतिचातुर्यशून्यत्वे मनो दघत्या निदधत्या
एते नीतिशून्या इति जानन्त्येवेत्यर्थः । अत एव विग्धया कुशलया दमयन्त्या स्वगतमप्रकाशं यथा तथा आत्मन्येवाभ्यधायि अभिहितं, “सर्वश्राव्यं प्रकाशं स्यादश्राव्यं स्वगतं मतम्’ इति दशरूपके लक्षणात् । अहो बुद्धिमान्द्यमेषां यदेनं कामं दूत्ये नियुत्तवन्त इति भावः ॥ 9.22 ॥
अन्वयः–क्षितिभर्तरि इदं निगद्य स्थिते भुवः स्मरं तं दूतयतां अधिस्त्रि नयनैपुणव्यये मनो दधत्या विदग्धया तया स्वगतम् अभ्यधाधि ॥ 9.22 ॥
जलाधिपस्त्वामदिशन्मयि ध्रुवं परेतराजः प्रजिघाय स स्फुटम् ॥
मरुत्वतैव प्रहितोऽसि निश्चितं नियोजितश्चोर्ध्वमुखेन तेजसा ॥ 9.23 ॥
जीवातु–स्वगतवाक्यमेवाह-जलेति । जलाधिपो वरुव लडयोरभेदात् जडाग्रणीश्च मयि विषये मां प्रतीत्यर्थः । त्वां प्रतिजघाय प्रहितवान् स्फुटमसन्दिग्धम् । इत्यमरः । प्रहितोऽसि निश्चिमूर्ध्वमुखेन तेजसा अग्निना स्थूलटृशा च नियोजितः प्रेषितोऽसि । ते च प्रेषितवन्तः त्वञ्च प्रेषितः सत्यमेवैतत् निष्फलोऽयमारम्भ इति स्वगतमुवाचेत्यर्थः ॥ 9.23 ॥
अन्वयः–जलाधिपः मयि त्वां ध्रु वम् अदिशात्, सः परेतराजः स्फुटं प्रतिजघाय, मरुत्वता प्रहितः एव ऊर्ध्वमुखेन तेजसा च निश्चतं नियोजितः असि ॥ 9.23 ॥
अथ प्रकाशं निभृतस्मिता सती सतीकुलस्याभारणं किमप्यसौ ॥
पुनस्तदाभाषणविभ्रमोन्मुखं मुखं विदर्भाधिपसम्भवादधे ॥ 9.24 ॥
जीवातु-अथेति । अथ स्वगतोक्तयनन्तरं सतीकुलस्य पतिव्रतावर्गस्य किमप्यनिर्वाच्यमाभरणमलङ्कारभूता असौ विदर्भाधिपसम्भवा वैदर्भी निभृतस्मिता गम्भीरस्मिता सती प्रकाशं यथा पुनस्तेन सहाभाषणमेव विभ्रमो विनोदःतत्रोन्मुखमुत्सुकं मुखमास्यमादधे आबभाषे इत्यर्थः ॥ 9.24 ॥
अन्वयः–अथ सतीकुलस्य किम् आभरणम् असौ विदर्भाधिपसम्भवा निभृतस्मिता सती पुनः प्रकाशं तदाभाषणविभ्रमोन्मुखं मुखम् आदधे ॥ 9.24 ॥
भवत्यवजा च भवत्यनुतरादतः प्रदित्सुः प्रतिवाचमस्मि ते ॥
भवत्यवज्ञा च भवत्यनुत्तरादतः प्रदित्सुः प्रतिवाचमस्मि ते ॥ 9.25 ॥
जीवातु-वृथेति । भवति पूज्ये त्वाटृशि विषये वृथा परीहासं इति वाक् । “उपसर्गस्य घञ्यमनुष्ये बहुल’मिति परेर्दीर्घः । प्रगल्भता प्रागल्भ्यं दोषावहेत्यर्थः । कार्यकारणयोरभेदोपचारः । ननेति च वागत्यन्तनिषेधोक्तिश्च, आभीक्ष्ण्ये द्विर्भावः । विगर्हणा गर्ह्मोक्तिः स्यादित्यर्थः । अनुत्तरात् उत्तराप्रदानात् अवज्ञा अनादरदोषो भवति । अतो हेतोस्तु तुभ्यं प्रतिवाचं प्रत्युत्तरं प्रदित्सुः प्रदातुमिच्छुरस्मि । परमार्थतस्तु प्रत्युत्तरानर्हमेव दाक्षिण्यात्ते वदामीति तात्पर्यम् ॥ 9.25 ॥
अन्वयः–भवति त्वाटृशि वृथा परीहासः–इति प्रगल्भता, नन–इति वाक्-विगर्हणा, अनुत्तरात् अवज्ञा भति; अतः ते प्रतिवाचं प्रदित्सुः अस्मि ॥ 9.25 ॥
कथं नु तेषां कृपयापि वागसावसावि मानुष्कलञ्छने जने ॥
स्वभावभक्तिप्रवणं प्रतीश्वराः कयाा न वाचा मुदमुद्गिरन्ति वा ॥ 9.26 ॥
जीवातु-कथमिति । तेषामिन्द्रीनां कृपयापि ( कर्त्र्या ) मनुष्यस्य भावो मानुष्कम् । “योपधाद् गुरूपोत्तमाद्वुञ्’ । तदेव लाञ्छनं कलङ्को यस्य तस्मिन्निर्दोषजनविषयेऽस्मिन्नित्यर्थः । असौ वागस्मान् वृणीष्वेति वचनं कथमसावि सूता अनूचितमित्यर्थः सूतेः कर्मणि लुङ् । वा अथवा ईश्वराः स्वामिनः स्वभावभक्तिप्रवणं जनं प्रति कया वाचा मुदं नोद्गिरन्ति भक्तवात्सल्यात् नीचमपि भक्तजनमत्युच्चयापि वाचा बहु कुर्वन्?ि कृपालवः स्वामिन इत्यर्थः । तथा च तद्वचनमुपमत्युच्चयापि वाचा मुदं नोद्गिरन्ति भक्तवात्सल्यात्
नीचमपि भक्तजनमत्युच्चयापि वाचा बहु कुर्वन्ति कृपालवः स्वामिन इत्यर्थः । तथा च तद्वचनमुपचारत्वेन
गृह्मते । न तु कर्तव्यतयेति भावः ॥ 9.26 ॥
अन्वयः–मानुष्यकलाञ्छने जने असौ वाक् तेषां कृपया अपि कथं नु असावि ? वा ईश्वराः स्वभावभक्तिप्रवणं प्रति कया वाचा मुदं न उद्गिरन्ति ? ॥ 9.26 ॥
अहो महेन्द्रस्य कथं मयौचिती सुराङ्गनासङ्गमशोभिताभृतः ॥
ह्रदस्य हंसावलिमांसलश्रियो बलाकयेव प्रबला विडम्बना ॥ 9.27 ॥
जीवातु–अहो इति । सुराङ्गनासङ्गमेन शोभत इति तच्छोभि तस्य भावस्तत्ता तां विभर्तीति तद्भृतो तद्भृतो महेन्द्रस्य हंसावल्या मांसला मांसवती सान्द्रतरेति यावत् । मिध्मादित्वाल्लच् । सा श्रीर्यस्य तस्य ह्रदस्य सरसो बलामयेव मया निमित्तेन प्रबलो महती विडम्बना परिहासः कथमौचिती न कथञ्चिदित्यर्थः ?। अहो, सति सुरस्त्रीजने मानुषीमनुसरतो महेन्द्रस्यामृतमप्यवधीर्योदकपानप्रवृत्तिरपि सम्भाव्यत एवेति भावः
॥ 9.27 ॥
अन्वयः–अहो, सुराङ्गासङ्गमशोभिताभृतः महेन्द्रस्य हंसावलिमांसलश्रियः ह्रदस्य बलाकया इव मया अबला विडम्बना कथम् औचिती ? ॥ 9.27 ॥
पुरः सुरीणां भण केव मानवी न यत्र तास्तत्र तु सापि शोभिका ॥
अकाञ्चनेऽकिञ्चननायिकाङ्गके किमारकूटाभरणेन न श्रियः ॥ 9.28 ॥
जीवयातु–पुर इति । सुराणां सुरस्त्रीणां, “जातेरस्त्रीविषयादि’त्यादिना ङीषु । पुरोऽग्रे मानवो मानुषी केव न कापि । तुच्छेत्यर्थः इवशब्दो वाक्यालङ्कारे भण वद । किन्तु यत्र लोके ताः सुरस्त्रियो न सन्ति तत्र मा मानव्यपि शोभत इति शोभिका शेभमाना, “प्रत्ययस्थात्कात्पूर्वस्ये’तीकारः । अकाञ्चने काञ्चनाभरणहिते, अकारान्तोत्तरपदो बहुव्रीहिः । नास्ति किञ्चनास्येत्यकिञ्चनो निःस्वः । उच्चावचाकिञ्चनाऽकुतोभयानीति मयूरव्यंसकादिषु निपातनात्तत्पुरुषः । तस्य नायिका भार्या तस्या अङ्गके देहे आरकूटस्य रीतिर्विकार आरकूटम् । “रीतिः स्त्रियामारकूटम्’ इत्यमरः । तेनाभरणेन श्रियःशोभा न । किन्तु, सुरस्त्रीविहारिणो महेन्द्रस्य मानुषीकामुकत्वं काञ्चनाभरणकुञ्चोरकूटाभरणस्पृहेव महत्परिहासास्पदमित्यहो कष्टमिति भावः ।
अत्र टृष्टान्तालङ्कारः ॥ 9.28 ॥
अन्वयः–भण, सुरीणां पुंरः मानवी का इव, यत्र ताः न तत्र तु सा शोभिका अपि अकाञ्चने अकिञ्चने अकिञ्चने अकिञ्चननायिकाङ्गके किम् आरकूटाभरणेन श्रियः न ? ॥ 9.28 ॥
यथा तथा नाम गिरः किरन्तु ते श्रुती पूनर्मे बधिरे तदक्षरे ॥
पूषत्किशोरी कुरुतामसङ्गता कथं मनोवृत्तिमपि द्विपाधिपे ॥ 9.29 ॥
जीवातु-यथा तथेति । यथा तथा येन केन प्रकारेण ते गिरः किरन्तु वर्षन्तु नाम । किन्तु, मे मम श्रुती श्रीत्रे पुनस्तदक्षरे तासां गिरां वणर्पमात्रेऽपि विषये बधिरे । अश्रुतप्रायं तदित्यर्थः । तथाहि–पृषत्किशोरी कुरङ्गयुवतीः । “पृषच्च पृषतो बिन्दौ कुरङ्गेऽपि च कीर्तितः’ इत्यजपालः । द्विपाधिपेऽपि श्रेष्ठगजेऽपि असङ्गतामयुक्तां मनोवृत्तिमभिलाषं कथं कुरुतां कुर्यात्, तत्प्रायमिदं नो मनीषिमिति भावः । अत्रापि टृष्टान्तालङ्कारः ॥ 9.29 ॥
अन्वयः–ते यथा तथा गिरः किरन्तु नाम, मे श्रुती पुनः तदक्षरे बधिरे, पृषत्किशोरी द्विपाधिपे असङ्गतां मनोवृत्तिम् अपि कथं कुरुताम् ? ॥ 9.29 ॥
अदो निगद्यैव नतास्यया तथा श्रुतौ लगित्वाभिहितालिरालपत् ॥
प्रविश्य यन्मे हृदयं ह्रियाह तद्विनिर्यदाकर्णव मन्मुखाध्वना ॥ 9.30 ॥
जीवातु–अद इति । अदः इदं वचो निगद्योक्त्वैव नतास्यया अवनतमुख्या तया दमयन्तृया श्रुतौ श्रोत्रे लगित्वा आसन्ना भूत्वाभिहिता कथिता आलिः सखी आलपत् आलपितवती । किमित्यत आह-इयं दमयन्ती ह्रिया लज्जया मे मम हृदयं प्रविश्य यद्वच आह ब्रूते । मम मुखेनैवाध्वना विनिर्यद्विनिर्गच्छत् तद्वचः आकर्णय शृणु ॥ 9.30 ॥
अन्वयः–अदः निगद्य एव नतास्यया तया श्रुतौ लगित्वा अभिहिता आलिः आलिपत्–इयं ह्रिया मे
हृदयं प्रविश्य यत् आह, मन्मुखाध्वना विनिर्यत् तत् आकर्णय ॥ 9.30 ॥
बिभेति चिन्तामरि कर्तुमीदृशीं चिराय चित्तार्पितनेषधेश्वरा ॥
मृणालतन्तुच्छिदुरा सतीस्थितिर्लवादपि त्रुट्यति चापलात् किल ॥ 9.31 ॥
जीवातु–बिभेतीति । चिराय चिरात्प्रभृति चित्तेऽर्पितः स्थापितो नैषधेश्वरो नलो यया सा स्त्री ईटृशीं परविषयां चिन्तामपि कर्तुं बिभेति । कुत इत्यत आह मृणालस्य तन्तुरिव च्छिदुरा च्छेदशीला, ‘विदिभिदिच्छिदेः’ इत्यादिना कर्मकर्तरि कुरुच् सत्याः पतिव्रताया या स्थितिः मर्यादा सा लचादल्पादपि चापल्याल्लौल्याद्धेतोः त्रुट्यति किल त्रुटति खलु । “वा भ्राशो’त्यादिना श्यन्प्रत्ययः ॥ 9.31 ॥
अन्वयः–चिराय चित्तार्पितनैषधेश्वरा ईटृशीं चिन्ताम् अपि कर्त्तुं बिभेति, मृणालतन्तुच्छिदुरा सतीस्थितिः लवात् अपि चापलात् किल त्रुट्यति ॥ 9.31 ॥
ममाशयः स्वप्नदशाज्ञयापि वा नलं विलङ्ध्येतरमस्पृशद्यदि ॥
कुतः पुनस्तत्र समस्तसाक्षिणी निजैव बुद्धिर्विबुधैर्न पृच्छ्यते ॥ 9.32 ॥
जीवातु–ममेति । अथवा ममाशश्चित्तवृत्तिः स्वप्नदशायाः स्वप्नावस्थायाः आज्ञयापि वा नलं विलङध्य
इतरं पुरुषं यदि अस्पृशत् प्राप्तवान् । तर्हि समस्तस्य साक्षिणी निजा स्वकीया बुद्धिरेव तत्र विषये कुतः पुनर्विवकुधैः इन्द्रादिभिः न पृच्छ्यते नानुयुज्यते । सर्वसाक्षिणः स्वयं किं न जानन्तीत्यर्थः ॥ 9.32 ॥
अन्वयः–वा यदि मम आशयः स्वप्नदशाज्ञया अपिं नलं विलङ्ध्य इतरम् अस्पशत्, पुनः समस्तसादिणी निजा बुद्धिः एव तत्र कुतः विबुधैः न पृच्छ्यते ? ॥ 9.32 ॥
अपि स्वमस्वप्नमसूषुपन्नमी परस्य दारननवैतुमेव माम् ॥
स्वयं दुरध्वार्णधनाविकाः कथं स्पृशन्तु विज्ञाय हृदापि तादृशीम् ॥ 9.33 ॥
जीवातु-अपीति । अमी इन्द्रदयः देवः अस्वप्नं स्वप्नवर्जितं स्वमात्मानं मां परस्य दाराननवैतुमज्ञातुमेव असूषुपन् स्वापितवन्तः । स्वापेर्णो चङि “द्युतिस्वाप्यो’रिति सम्प्रसारणम् । अन्यथा सर्वज्ञानां तेषामस्मिन्नेवांशे कथमज्ञानमित्यर्थः । तदेवोपपादयति-स्वयं दुष्टोऽध्वा दुरध्वः, “उपसर्गादध्वन’ इति समासान्तोऽच् । स एवार्णवस्तस्य नाबा तरन्तीति नाविका कर्णधाराः सन्तः “नौ द्व्यचष्ठन’ इति ठन्प्रत्ययः कथं ताटृशीं मां हृदा विज्ञायापि स्पृशन्तु स्पृशेयुः । स्वयममार्गनिवारकाणां तत्प्रवृत्तिरनर्हेति भावः ॥ 9.33 ॥
अन्वयः–अमीं मां पदस्य दारान् अनवैतुम् एव स्वम् अस्वप्नम् अपि असूषुपन्, स्वयं दुरध्वाऽर्णवनाविकाः अपि ताटृशीं मां विज्ञाय कथं हृदा स्पृशन्तु ? ॥ 9.33 ॥
अनुग्रहः केवल एष मादृशे मनुष्यजन्मन्यपि यन्मनो जने ॥
स चेद्विधेयस्तदमीं तमेव मे प्रसद्य भिक्षां वितरीतुमीशताम् ॥ 9.34 ॥
जीवातु-अनुग्रह इति । मनुष्येयु जन्म यस्य तस्मिनन्पि माटृशे जने यन्मनश्चितृतं वर्तते एष केवलोऽनुग्रहो विशेषः कर्तव्यश्चेत्तत्तर्हि अमी इन्द्रादयो देवाः प्रसन्ना भूत्वा मे मह्म तं नलमेव भिक्षां वितरीतुं दातुम्, “ऋतो वा’ इति दीर्धः । ईशतामीश्वरा एव भवन्तु । नलसङ्धट्टनेनैवानुग्राह्मोऽ जनो नान्यथा मन्व्य इति भावः ॥ 9.34 ॥
अन्वयः–एषः केवलः अनुग्रहः यत् मादृशे मनुष्यजन्मनि अपि जने मनः; सः विधेयः येचत् तत् अमी प्रसद्य तम् एव मे भिक्षां वितरीतुम् ईशता म् ॥ 9.34 ॥
अपि द्रढीयः शृणु मे प्रतिश्रुतं स पीडयेत् पाणिमिमं न चेन्तुपः ॥
हुताशनोद्बन्धनवारिवारितां निजायुषस्तत्करवै स्ववैरिताम् ॥ 9.35 ॥
जीवातु–अपीति । धी ! द्रढीयः टृढतरं मम प्रतिश्रुतं प्रतिज्ञामपि शृणु । तामेंव प्रतिज्ञामाह–स नृपः नल इमं मदीयं पाणिं न पीडयेत् न गृह्णीयाच्चेत्तर्हि निजस्यायुषः स्वेनात्मना वैरितां शत्रवं हुताशनञ्च उद्बन्धनञ्च वारि च तैः वारितां निवृत्तिं करवै करवाणि ॥ 9.35 ॥
अन्वयः–मे द्रढीयः प्रतिश्रुतम् अपि शृणु–सः नृपः इमं पाणिं न पीढयेत् चेत्, हुताशनोद्बन्धनवारिवचारितां ( कारिताम् ) निजायुषाः स्ववैरितां करवै ॥ 9.35 ॥
निषिद्धमप्याचरणीयमापदि क्रिया सती नावति यत्र सर्वथा ॥
घनाम्बुना राजपथेऽतिपिच्छिले क्वचिद्बुधैरप्यपथेन गम्यते ॥ 9.36 ॥
जीवातु–न चात्मनो व्यापादनमयुक्तमित्यत्राह-निषिद्धमिति । यत्रापदि यदि सती धर्म्या क्रिया सर्वथा सर्वप्रकारेण नावति न रक्ष?ति । तत्र निषिद्धमप्याचरणीयम् । तथा हि राजपथे राजवचीथ्यामपि धनामृबुना सान्द्रोदकेन मेघजलेनातिपिच्छिले पङ्किले सति बुधैः विद्वदिभः अपथेनामार्गेणापि क्वचित्प्रदेशे गम्यते । ‘पथो
विभाषा’ इति समासान्तः । “अपथं नपुंसकम् ।’ सर्वथा स्त्रीणां प्राणत्यागेनापि पातिव्रतृयं रक्षणीयमिति भवः ।
टृष्टान्तालङ्कारः ॥ 9.36 ॥
अन्वयः–यत्र आपदि सती क्रिय सव्रथा न अवति, निषिद्धम् अपि आचरणीयम्; घनाम्बुना अतिपिच्छले राजपथे बुधैः अपथेन अपि क्वचित् गम्यते ॥ 9.36 ॥
स्विया मया वाग्मिषु तेषु शक्यते न जातु सम्यग्विवरीतुमुत्तरम् ॥
तदत्र मदभाषितसूत्रपद्धतौ प्रबन्धूतास्तु प्रतिबन्धृता न ते ॥ 9.37 ॥
जीवातु-स्त्रियेति । वाग्मिषु वावदूकेषु तेविन्द्रादिषु विषयेषु स्त्रिया भया उत्तरं सम्यक् यथा भवति तथा विवरीतुं प्रपञ्चयितुं जातु कदाचि?दपि न शक्यते । तत् तस्मात् कारणातृ अत्र मदभाषिततां वचनानामेव सूत्राणां पद्धती मार्गे विषये ते तव प्रबन्धृता प्रबन्धकर्तृत्वमस्तु, प्रतिबन्धृता प्रतिबन्धकर्तृत्वं नास्तु । अभयत्रापि तृजन्ताद्बन्धेस्तल् । अस्मिन्निषेधोत्तरे ममानुकूलो भव, न प्रतिकूल इतृयर्थः ॥ 9.37 ॥
अन्वयः–मया स्त्रिया तेषु वाग्मिषु सम्यक् उत्तरं विवरीतुं जातु न शक्यते तत् अत्र मद्भाषितसूत्रपत्रतौ ते प्रबन्धृता न ॥ 9.37 ॥
निरस्य दूतः स्म तथा विसर्जितः प्रियोक्तिरप्याह कदुष्णमक्षरम् ॥
कुतूहलेनेव मुहुः कुहूरवं विडम्बय डिम्भेन पिकः प्रकोपितः ॥ 9.38 ॥
जीवातु–निरस्येति । न् दूतः यथा तेन प्रकारेण निरस्य न्यक्कृत्य विसर्जितः सन् कुतूहलेन हेतुना डिम्भेन शिशुना मुहुः कुहूरवं बिडम्ब्य अनुकृत्यप्रकोपितः पिकः कोकिल इव ?प्रिया उक्तिं वचनं यस्य स ताटृशोऽपि कदुष्णमीषत्परुषं “कद चोष्णे’ इति कोः कदादेशः । अक्षरं वाक्यमाह ॥ 9.38 ॥
अन्वयः–तिथा निरस्य विसर्जितः दूतः कुतूहलेन डिम्भेन मुहुः कुहूरवं विडम्बय प्रकाकपितः प्रियोक्तिः अपि पिकः इव कदुष्णम् बक्षरम् आह ॥ 9.38 ॥
अहो मनस्त्वामनु तेऽपि तन्वते त्वमर्प्यमीभ्यो विमुखीति कौतुकम् ॥
क्व वा विधिर्निर्धनमेति किञ्च तं स वा कवाटं घटयन्निरस्यति ॥ 9.39 ॥
जीवातु–अहो इति । ते इन्द्रादयेऽपि त्वामनु त्वमुद्दिश्यय मनस्तन्वते कुर्वन्?ि अहो आश्चार्यं त्वमपि अमीभ्यास इन्द्रादिभृयः विमुखी पराङ्कुखीति यत्कौतुकं चित्रमित्यर्थः । किञ्च क्व वा लोके निधिर्निर्धनमेति, क्व वा स निर्धनः कदाचिद्दैवयोगादागतमपि तं निधिं वा कवाटं घटयन् निरस्यति द्वारं पिधाय निषेधतीत्यर्थः । ईटृशं वश्चेष्टितमिति टृष्टान्तालङ्कारः ॥ 9.39 ॥
अन्वयः–अहो, ते अपि त्वाम् अनु मनः तन्वते, त्वम् अपि अमीभ्यः विमुखी इति कौतुकम्; क्व वा निर्धनम् एति, किं च वा सः कवाटं घटयन् निरस्यति ? ॥ 9.39 ॥
सहाखिलस्त्रीषु वहेऽवहेलया महेन्द्ररासगाद्गुरुमादरं त्वयि ॥
त्वमीदृशी श्रेयसि संमुखेऽपि तं पराङ्मुखी चन्द्रमुखी ! न्यवीवृतः ॥ 9.40 ॥
जीवातु–सहेति । हे चन्द्रमुखि ! महेन्द्रस्य रागाद्धेतोः । त्वयि गुरु महान्तामादरमखिलस्त्रीषु विषये अवलेहया अनादरेण सह वहे त्वय्यादरमन्यास्वनादर च दहामि त्वामेव भाग्यवतीं मन्य इत्यर्थः । वहेः स्वरितेत्त्वादात्मनेपदं, सहोक्तिरल्ङ्कारः । ईटृशी श्रेयसि सम्मुखे अभिमुखे सत्यथ्प त्वं पराङ्मुखी सती, तं पूर्वोक्तमादरं न्यवीवृतः निर्तितवत्यसि । वृतेणौ चङि सिचि रूपम् । “उरसि’त्यकारे सन्वदभावे चाभ्यासेकारः ॥ 9.40 ॥
अन्वयः–महेन्द्ररागात् अखिलस्त्रीषु अवहेलया सह त्वयि गुरुम् आदरं वहे; चन्द्रमुखी, ईटृशि श्रेयसे
संमुखे अपि पराङ्मुखी त्वं तं न्यवीवृतः ॥ 9.40 ॥
दिवौकसं कामयते न मानवी नवीनमश्रावि तवाननादिदम् ॥
कथं न वा दुर्ग्रहदोष एष ते हितेन सम्यग्गुरुणापि शाम्यते ॥ 9.41 ॥
जीवातु–दिवौकसमिति । मानवी मानुषी, दिवौकसं देवं न कामयते नापेक्षत इति इदं नवीनमश्रुतपूर्व वचस्तवाननादश्रावि श्रुतम् हन्त, एष ते तव दुर्र्ग्रहदोषः सूर्यादिग्रहदोषश्च । शमेर्ण्यन्तात्कर्मणि लट् । गुरुरातृमवतां शास्ता, “किं कुर्वन्ति ग्रहाः सर्वे केन्द्रस्थाने बृहस्पतौ’ इति वचनादपत्यशासने ग्रहान्तरनिरासे च गुर्गोरेवाधिकारादिति भावः । अत्राभिधायाः प्रकृतार्थनियन्त्रणादप्रकृतार्थप्रतीतिर्ध्वनिरेव न श्लेषपः ॥ 9.41 ॥
अन्वयः–मानवी दिवौकसं न कामयते-इदं तव आननात् नवीनम् अश्रावि, एषः ते दुर्ग्रहदोषः सम्यक् हितेन गुरुणा अपि वा कथं न शाम्यते ? ॥ 9.41 ॥
अनुग्रहादेव दिवौकसां नरो निरस्य मानुष्यकमेति दिव्यताम् ॥
अयोऽधिकारे स्वरितत्वमिष्यते कुतोऽयसां यदि वा पृषोदरादित्वात्साधुः । तेषां दिवौकसां देवानामनुग्रहादेव नरो मानुष्यभावं निरस्य “योपधाद्गुरूपोत्तमाद्वुञ्’ इति वु?ञि “यस्ये’ लोपे “प्रकृत्याऽके राजन्यमनष्ययुवान’ इति प्रकृतिभावा’दपत्यस्य च तद्धितेऽनाती’ति यलोपाभावः । दिव्यतामेति तत्परिग्रहादेवभूयमपि ते भवितेति भावः । तथाहिन्रसः पारदः । “देहघात्वम्बुपारद’ इति रसशब्दार्थेषु विश्वः । स हि संस्कारबलाल्लोहान्तरसुवर्णीकरणे समर्थः सिद्धरस उच्चते । ततस्पृशामयसामपि तत्स्पर्शातृस्वर्णीभूतायसामपीत्यर्थाः । अयोऽतेनाधिकार’ इ?ति वैयाकरणपरिभाश्रयणादेवं व्यपदेशः । स्पृ शब्दोपतापयोरिति घातोर्दैवाधिकात् क्तः । कुत इष्यते नेष्यत एवेत्यर्थः । रसस्पृष्टायसः स्वर्णीभाव इव तवापि तत्स्पृष्टाया देवत्वमेव न मानुषत्वमित्यर्थः । अत्र टृष्टान्तालङ्कारः स्पष्टः ॥ 9.42 ॥
अन्वयः–नरः दिवौकसाम् अनुग्रहात् एव मानुष्यकं निरस्य दिव्यताम् एति; सिद्धरसस्पृशाम् अयसाम् अपि अयोधिकारे स्वरितत्वं कुतः इष्यते ? ॥ 9.42 ॥
इरि परित्यज्य नलाभिलाषुका न लजृजसे वा विदुषिब्रुवा कथम् ॥
उपेक्षितेक्षोः करभाच्छमी?रतादुरुं वदे त्वां करभोरु ! भो इ?ति ॥ 9.43 ॥
जीवातु–हरिमिति । हरिमिन्द्रं देवं परित्यजृय नलं नीमभिलाषुका ताच्छील्येनाभिलषन्ती ‘लषपत’ इत्यादिना उकञ् । “न लोके’ इतृयादिना षष्ठीप्रतिषेधात्कर्मणि द्वितीयायां नम्यादिपाठात्समासः । अत एव विदुषी ज्ञात्री"विदेः शतुर्वसुः’ “उगितश्चेति’ ङीप् । ब्रवीततीति ब्रुवा विदुष्या ब्रुवा विदुष्या ब्रुवा विदुषीब्रु वेति कर्मणि षष्ठीसमासः 1 विदुषीमात्मानं ह्रस्वः’ इति ह्रस्वः, ब्रु ञः पचाद्यच् । एतस्मादउेव निपातनाद्गुणवत्या देशयोरभावः इटृशी त्वं कथं न ल्ज्जसे मणिं विहाय काचग्रहणवत्कथं न लजृजाकरमित्यर्थः । अत एवाद्य त्वामहमेवं व्याकरिष्यामीत्याह-उपेक्षितेति । उपेक्षितेक्षोः परिहृतेक्षुकाण्डात् शमीरताच्छमीभक्षणलालसात् करभादुष्ट्रात् उरुं मौड्यनाधिकान्तत्वाम्भोः ! करभोरु ! हे करभोर्विति सम्बोध्य वदे व्क्ष्यामि । भासनादिसूत्रेण ज्ञानार्थे तङ् । न तु करभः करभागविशेषः तद्वदुरू यस्यां इति व्युत्पत्त्येत्यर्थः । “करभो मणिबन्धादिकनिष्ठान्तर उष्ट्रकः’ इत्युभयत्रापि विश्वः । “अथसम्बोधनार्थकाःस्युः पाट् प्याडङृग हे है भोः’ इत्यव्ययेष्वमरः । चादिपाठान्निपातसंज्ञायाम् “श्रोत्’ इति प्रगृह्मत्वात् प्रकृतिसन्धिः । अनव्ययपक्षेऽपि भवच्छब्दताकारस्य रुत्वादिकार्ये यलोपस्यासिद्धत्वादवादेशनिवृत्तौ भो इत्यथमेव सन्धिः, किन्त्वत्रस्त्रीसम्बोधने स्त्रियाम् “उगितश्च’ इति ङीष्प्रत्यये भवतीति सम्बुद्धिः स्यात् । न तु भो इति । करभोर्वित्यत्र करलभ इवोरू यस्या इति ‘उरूत्तरपदादौपभ्य’ इत्यूङ्प्रत्ययः । करभादुरुः करभोरुः इति पक्षे तु मनुष्यजातिविवक्षायां ब्रह्मबन्धूरित्यादिवत् । “ऊङुतः’ इत्यूङ्प्रत्यये नदीहस्वः । यथाह वामनः–‘मनुष्यजातेर्विवक्षाविवक्षे’ इति । अहो कष्टमुष्ट्रचेष्टितवत् त्वच्चेष्टितं हास्यास्पदं जातमिति भावः ॥ 9.43 ॥
अन्वयः–हरिं परित्यजृय नलाभिलाषुका विदुषिव्रुवा कथं वा न लज्जसे ? भो करभोरु, त्वाम् उपेक्षितेक्षोः शमीरतात् करभात् उरुं वदे ॥ 9.43 ॥

विहाय हा सर्वसुपर्वनायकंत्वयादृतः किं नरसाधिमभ्रमः ॥
मुखं विमुच्य श्वसितस्य धारया वृथैव नासापथधावनरमः ॥ 9.44 ॥
जीवातु–विहायेति । किञ्च हा बत ! तत्वया सर्वसुपर्वनायकं देवेन्द्रंविहाय परे मनुष्ये साधिमभ्रमः साधुत्वभ्रान्तिः । पृथ्वादिपाठात् साधोरिमनिच्प्रत्ययः । किं किमर्थमाटृतः ? अथवा नियतिः केन लङ्ध्यत इत्याशयेनाहश्वसितस्य घारया निश्वासपरम्परया ( कर्त्र्या ) मुखं मुखद्वारं विपुलं विमुच्यवृथैव नासापथेन नासारन्ध्रेणातिक्लिष्टेन धावनश्रम आटृतः खल्विति शेषः । तद्वत्तवापि ईटृशी भवितव्यतेति भावः । टृष्टान्तालङ्कारः ॥ 9.44 ॥
अन्वयः–हा, त्वया सर्वसुपर्वनायकं विहाय किं नरसाधिमभ्रमः आटृतः श्वसितस्य धारया मुखं विमुच्य नासापथधावनश्रमः वृथा एव ॥ 9.44 ॥
तपाऽनले जुह्वति सूरयस्तनूदिवे फलायान्यजनुर्भविष्ण्वे ॥
करे पुनः कर्षति सैव विह्वला बलादिव त्वां बलसे न बालिशे ! ॥ 9.45 ॥
जीवातु–तप इति । किञ्च सूरयः सन्तः अन्यस्मिन् जनुषि जन्मान्तरे भविष्णवे भाविन्यै । “भूष्णुर्भविष्णुविता’ इत्यमरः । “भुवश्च’ इति इष्णुच्प्रत्ययः । “भाषायामपीष्यते’ भाषितपुंसकत्वात् पुंवदभावः । दिवे स्वर्गायैव फलाय तनूः शरीराणि तपोऽनले जुह्वति त्यजन्ति । “अदभ्यस्ता’दित्यदादेशः । त्वां पुनः सा प्राणान्तिकतपःसाध्या द्यौरेव विह्वला उत्सुका सती बलाद्बलात्कारादिव करे कर्षति हे बालिशे ! मूऐ ! ?“शिशावो च बालिशः’ इत्यमरः । न वलसे न चलसि नेच्छसीत्सयर्थः । अह ते दुर्बुद्धिरिति भावः ॥ 9.45 ॥
अन्वयः–सूरयः अन्यजनुर्भविष्णवे दिवे फलाय तनुः तयोनिले जुह्वति, विह्वला सा एव पुनः त्वां बलात् इव करे कर्षति, बालिशे, न वलसे ॥ 9.45 ॥
यदि स्वचमुद्बन्धुमना विना नलं भवेर्भवन्तीं हरिरन्तरिक्षगाम् ॥
दिविस्थितानां प्रथितः पतिस्ततो हरिष्यति न्याय्यमुपेक्षते हि कः ॥ 9.46 ॥
जीवातु–अथ युदक्तं नलालाभे हुताशनोद्बन्धनादिना मरिष्यामीति तत्रोत्तरमाह-यदीत्यादिना चतुष्टयेन । हे मुग्धे ! नलं विना नलालाभे स्वमात्मानमुद्बन्धं मनो यस्याः सा उद्बन्धुमनाः पाशेन मर्तुकामा । “तुं काममनसोरपि’ इति मकारलोपः । भवेर्यदि स्याच्चेत् ततोऽन्तरि?क्षयां भवतीं दुर्मरणदोषादन्तरिक्षगतां सतीं त्वामिति शेष । दिविस्थितानामन्तरिक्षगतानां स्वर्यतानां च प्रथितः पतिः प्रसिद्धः स्वामी हरिरिन्द्रो हरिष्यति ग्रहीष्यति जन्मान्तरेऽपि त्वां न त्यक्ष्यतीत्यर्थः । तथा हि-न्याय्यं न्यायप्राप्तं वस्तु क उपेक्षते न कोऽपीत्यर्थान्तरन्यासः । अस्वामिकद्रव्यव्यस्य राजगामित्वं न्याय्यमति भावः ॥ 9.46 ॥
अन्वयः–यदि नलं विना स्वम् उद्गन्धुमनाः भवेः ततः अन्तरिक्षगां भवन्तीं दिवि स्थितानां प्रथितः पतिः हरिः ?हरिष्यति; हि न्याय्यं कः उपेक्षते ? ॥ 9.46 ॥
निवेक्ष्यसे यद्यअनले नलोज्झिता सुरे तदस्मिन्महती दयादृता ॥
चिरादनेनार्थनयापि दुलंभं स्वयं त्वयैवाङ्ग ! यदङ्गमर्प्यत ॥ 9.47 ॥
जीवातु–निवेक्ष्यस इति । हे मुग्धे ! नलेनोज्झिता सती अनले निवेक्ष्यसे यदि जीवितनैस्पृह्मादग्निं प्रवेक्ष्यसि चेदित्यरूर्थः । अनलारत्वविवक्षया सप्तमी नेविंश’ इतृयात्मनेपदम् । तत् तर्हि अस्भिन्ननले अनलारूपे सुरेऽपि तदधिष्ठातरि देवे च भूतमात्र इति भावः महती दया आटृता कृता स्वीकृतेतृयर्थः । कुतः यद्यस्मादनेनानलेन चिरादर्थनया याच्?ञयापि दुर्लभसङ्गं शरीरम्, अङ्ग ! अयि ! अत्र नलालाभे जीवितजिहासोरनलग्रहणबुद्धिरूपानर्थोक्तेर्विषमभेदः । “विरुद्धकार्यस्योत्पत्तिर्यत्रानर्थस्य वा भवेत् । विरूपघटना चासौ विषमाल्कृतिस्त्रिधेति’ लक्षणात् ॥ 9.47 ॥
अन्वयः–यदि नलोज्झिता अनले निवेक्ष्यसे, तद् अस्मिन् सुरे महती दया आटृता, यत् अनेन चिरात् अर्थनया अपि दुर्लमम् अङ्गम् अङ्ग, त्वया एव अर्प्यते ॥ 9.47 ॥
जितं जितं तत्खलु पाशपाणिना विना नलं वारि यदि प्रवेक्ष्यसि ! ॥
तदा त्वदारूयान् बहिरप्यसूनसौ पयःपतिर्वक्षसि वक्ष्यतेतरापम् ॥ 9.48 ॥
जीवातु–जितमिति । हे मुग्धे ! हे मुग्धे ! नलं विना वारि प्रवेक्ष्यसि यदि मरणार्यमिति शेषः । अथेदानीं पाशः पाणौ स्य तेन पाशापाणिनां वरुणेन प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ भवतः । जितं जितमभीक्ष्णं जितं खलु । भावे क्तः । “नित्यवीप्सयोरि’ति नित्यार्थे द्विर्भावः जितमभीक्ष्णं जितं खलु । भावे क्तः । “नित्यवीप्सयोरि’ति नित्यार्थे द्विर्भावः “नित्यमाभीक्ष्ये’ इति काशिका । तदा वारिप्रवेशकाले असौ पयः पतिर्वरुणोऽपि त्वदाख्यान् त्वननामकान् । बहिरप्यसून् वहिर्वतिनः प्राणान् वक्षसि वक्ष्यतेतराम् । वहेः स्वरितेत्त्वात् लटि तङि तरप्यामुप्रत्ययः । सोऽपि त्वां जीवग्राहं ग्रहीष्यतीत्यर्थः । अत एव पूर्व एवालङ्कारः ॥ 9.48 ॥
अन्वयः–यदि नलं विना वारि प्रवेक्ष्यसि, तत् पाशपाणिना खलु जितं जितम्; तदाअसौ पयः पतिः त्वदाख्यान् असून् बहिः अपि वक्षसि वक्ष्यतेतरम् ॥ 9.48 ॥
करिष्यसये यद्यत एव दूषणादुपायमन्यं विदुषी स्वमृत्यवे ॥
प्रियातिथिः स्वेन गतागृहान् कथं न धर्मराजं चरितार्थयिष्यसि ॥ 9.49 ॥
जीवातु–करिष्यस इति । अथ विदुषी पण्डिता विदग्धा त्वं यदि तु अत एव दूषणादेतस्मादेवोद्बन्धनादिना स्वमृत्यवे स्वमरणाय अन्यमुपायमनशनादिकं करिष्यसे, तदाप्रियातिथिरतिथिप्रिया त्वं स्वेन स्वत एव गृहान् धर्मरागेहं गता सती धर्मराजं वैवस्वतमतिथिसत्तममिति भावः । कथं न चरितार्थयिष्यसि न कृतार्थं करिव्यसि । कर्तवृयमेवेदं कृतयुगधर्मत्वात् स्वयं गत्वातिथिमनोरथपूरणस्येति भावः ॥ 9.49 ॥
अन्वयः–यदि विदुषी ( त्वम् ) अतएत दूषाणात् स्वमृत्यवे अन्यम् उपायं करिष्यसे, स्वेन गृहान् गता प्रियातिथिः धर्मराजं कथ न चरितार्थयिष्यसि ? ॥ 9.49 ॥
निषेधवेषो विधिरेष तेऽथवा तवैव युक्ता खलु वाचि वक्रता ॥
विजृम्भितं यस्य किन ध्वनेरिदं विदग्धनारीवदनं तदाकरः ॥ 9.50 ॥
जीवातुनिषेधेति । हे विदग्धे ? अथवा तव एव इन्द्रादिनिषेधो निषेधवेषो निषोधाकरो विधिरिङ्गीकार एव । तथा हि वाचि वचने वक्रता वक्रोक्तिचातुरी व्यङ्ग्योक्तिचातुरीति यावत् । सा तवैव युक्ता खलु । कुतः इदं वक्रवाक्यं वञ्चनाचातुर्यं यस्य ध्वनेर्व्यञ्जकवृत्तेर्विजृम्भितं विजृम्भण नपुंसकेभावे क्तः’ । विदग्धनारीवदनं सूक्ति चतुरस्त्रभ्मुखं तादाकरस्तस्य ध्वनेरुत्पत्तिस्थानमित्यर्थान्तरन्यासः । ततः स्थूणानिखननन्यायेन विधिमेव द्रढयितुमेतन्निषेधनाटकमिति निषेधेन विधिरेव व्य्यत इति भावः ॥ 9.50 ॥
अन्वयः–अथवा ते एषः निषेधवेषः र्विधिः एव तव एव वाचि वक्रता युक्ता, खलु इदं यस्य विधेः किल विजुम्भितं तदाकरः विदग्धनारीवदनम् ॥ 9.50 ॥
भ्रमामि ते भैमि ! सरस्वतीरसप्रवाहचक्रेषु निपत्.य कल्यदः ॥
त्रपामपाकृत्य मनाक् कुरु स्फटं कृतार्थनीयः कतमः सुरोत्तमः ॥ 9.51 ॥
जीवातु–एवं सुरस्वीकारपक्षमेव सिद्धवत्कृत्य निर्बध्य पृच्छति–भ्रमामीति । हे भैमि ! ते तव सरस्वती वाक् नदीभेदश्च तस्या रसः शृङ्गारो जलञ्च तस्य प्रवाहस्तस्य चक्रेष्विति पाठेऽप्ययमेवार्थः । “चक्राणि पुटभेदाःस्युरित्यत्र’ “वक्राणीति’ पाठस्यापि स्वामिनाङ्गीकारात् । ?कति कियन्त्यमूनि चक्राणि यस्मिन् कर्मणि तद्यथा निपत्य भप्रमामि मुह्माम्यावर्ते च । अत्र वाच्यप्रतीयमानयोरभेदाध्यवसायान्निपातनादिक्रियानिर्वाहः ।
अलं वक्रोक्त्येति तात्पर्थं किंन्तु कतमः सुरोत्तमः कृतार्थनीयो वरणीयः ? एतदेव त्रपां मनागपाकृत्य शिथिलीकृत्य स्फटं कुरु व्यक्तं ब्रूहीत्यर्थः नात्र लज्जितव्यम् “आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेदिति’न्यायादिति भावः ॥ 9.51 ॥
अन्वयः–भैमि, ते सरस्वतीरसप्रवाहचक्रेषु निपत्य कति भ्रमामि, कतम । सुरोत्तमः कृतार्थनीयः ? त्रपां मनाक् अपाकृत्य अदः स्फटं कुरु ॥ 9.51 ॥
मतः किमैरावतकुम्भकैतवप्रगल्भपीनस्तनदिग्धवस्तव ॥
सहस्त्रनेत्रान्न पृथङ् मते मम त्वदङ्गलक्ष्मीमवगाहितं क्षमः ॥ 9.52 ॥
जीवातु–अथैकस्मिननेव नामग्राामनुरागमष्टभिः पृच्छति–मत इत्यादि । हे भैमि ! ऐरावतकुम्भयोः कैतवेन मिषेणेत्यपह्नवभेदः । प्रगल्मौ कठोरौ पीनौ च स्तनौ यस्यास्तस्याः दिशः प्राच्याः घवः पतिरिन्द्रस्तव मतः सम्मतः किम् ? किशब्दः प्रदश्ने । “मतिबुद्धी"त्यादिना सर्तमाने क्तः । “क्तस्य च वर्तमाने’ इति तद्योगात्तवेति षष्ठी । युक्तञ्च तदित्याह-मम मते मत्पक्षे त्वदङ्गस्य लक्ष्मीं लावण्यसम्पदमवगाहितं सम्यग्रहीतुं सहस्त्रनेत्रात् सहस्त्राक्षात् पृथगन्योऽपि इत्यर्थः । “पृथग्विने’त्यादिना पक्षे पञ्चमी । क्षमो न । अत्रोत्तरवाक्यार्थेन पूर्ववाक्यार्थसमर्थनाद्वक्यार्थहेतुकं काव्यलिङ्गम् । “हेतोर्वाक्यार्थहेतुत्वं काव्यलिङ्गमुदाहतम्’
इति लक्षणात् । तस्य पूर्वोक्तापह्नवेन संसृष्टिः ॥ 9.52 ॥
अन्वयः–ऐरावतकुम्भकैतवप्रगल्मपीनस्तनदिग्धवः तव किं ?मतः ? मम मते त्वदङ्गल्क्षमीम् अवगाहितुं सहस्त्रेत्रात् पृथक् न ॥ 9.52 ॥
प्रसीद तस्मिन् दमयन्ति ! सन्ततं त्वदङ्गसङ्गप्रभवैगत्प्रभुः ॥
पुलोमजालोचनतीक्ष्णकण्टकैस्तनुं घनामातनुतां स कण्टकैः ॥ 9.53 ॥
जीवातु–प्रसीदेति । हे दमयन्ति ! तस्मै ईद्राय प्रसीद प्रसन्ना भव क्रियाग्रहणाच्चतुथीं । जगत्प्रभुः स इन्द्रः सन्ततं तनुं निजाङ्गं निजाङगप्रभवैरत एव पुलोमजायाः शच्या लोचनयोस्तीक्ष्णकैर्निशिबर्बरादिग्रमावयविशेषैस्तसथा व्यथाकरैः सपत्नीभावैरित्यर्थः । कण्टकैः पुलकैः “वेणौ द्रुमाङ्गे रोमाञ्चे क्षुद्रशात्रौ च कण्टकः’ इति उभयत्रापि वैजयन्ती घनां सान्द्रामातनुतां करोतु, शच्याः सपत्नी भवेत्यर्थः। अत्र पुलकेषु कण्टकत्वारोपाद्रूपकालङ्कारः ॥ 9.53 ॥
अन्वयः–दमयन्ति, तस्मै प्रसीद, सः जगत्प्रभुः तनुं त्वदङ्गसङ्गप्रभवैकःपुलोमजालोचनतीक्ष्ण्धकण्टकैः कण्टकैः सन्ततं घनाम् आतनुताम् ॥ 9.53 ॥
अबोधि तत्त्वं दहनेऽनुरज्यसे स्वयं खलु क्षत्रियगोत्रजन्मनः ॥
विना तमोजस्विनमन्यतः कथं मनोरथस्ते वलते विलासिनि ॥ 9.54 ॥
जीवातु–अबोधीति । विलासिनि ! विलासशीले ! “वौ कषलसकत्थस्त्रम्भ’ इति धिनुण्प्रत्ययः । तत्त्वं त्वन्मनोरथस्वरूपमबोधि बुद्धम् । कर्मणि लुङ् । तदेवाह-स्वयं त्वमित्यर्थं दहने जातवेदसि अग्निदेवे अनुरज्यसे अनुरक्तासि खलु । रञ्जेदैवादिकात् स्वरितेन जन्म यस्यास्तस्यास्ते ओजस्विवंशजाया इत्यर्थः । मनोरथः ओजस्विनं तमग्निं विनाऽन्यतोऽन्यत्र सार्वविभक्तिकस्तसिः । कथं वलते प्रवर्तते न कथमपीत्यर्थः । एतेनोभयोरोजस्वित्वेन समागमानुरूप्याद्दहनानुरागित्वं ते युक्तमिति समर्थनाद्वाक्यार्थहेतुकं काव्यलिङ्गं व्यक्तमेव ॥ 9.54 ॥
अन्वयः–तत्त्वम् अबोधि, स्वयं दहने अनुरज्यसे खलु । विलासिनि, क्षत्रिययोत्रजन्मनः ते मनोरथः तम् आगजस्विनं विना अन्यतः कथं वलते ? ॥ 9.54 ॥
त्वयैक्पत्नया तनुतापशङ्क्या ततो निवर्त्यं न मनः कथञ्चन ॥
हिमोपमा तस्य परीक्षणक्षणे सतीषु वृत्तिः शतशो? निरूपिता ॥ 9.55 ॥
जीवातु-न च दाहादभेतव्यमित्याह-त्वयेति । एकपत्न्या मुख्यपतिव्रतया, अत एव त्वया तनुतापशङ्कया देहदाहसम्भावनया वा ततोऽग्नेर्मनः कथञ्चन कथञ्चिदपि न निवर्त्य न निवर्तयितव्यं, वृतेर्ण्यन्ता’दचो यदि’ति प्रत्ययः । कुतस्तस्याग्नेः परीक्षणक्षणे अग्निदेवेन पातिव्रत्यपरीक्षावसरे सतीषु विषये हिमेनोपमा साम्यं यस्यास्सा वृत्तिः । शतशः शतकृत्वो निरूपिता निर्धारिता, न तु घुणाक्षरवत् सकृदित्ययर्थः । तस्मात् त्वया न भेतव्यं प्रत्युत स एव साध्वीं त्वां दग्धुं बिभेतीति भावः । अत्र पूर्ववाक्यस्यैकपत्नीपदार्थहेतुकत्वात्पदार्थहेतुकमेकं काव्यलिङ्गम् तस्याप्युत्तरवाक्यार्थहेतुकत्वाद्वाक्यार्थहेतुञ्चेत्यनयोः सङ्करः ॥ 9.55 ॥
अन्वयः–एकपतृनया त्वया तनुतापशङ्कया ततः मनः कथञ्च न निवर्त्यम्, परीक्षणक्षणे तस्य सतीषु हिमोपमा वृत्तिः शतशः निरूपिता ॥ 9.55 ॥

स धम्रराजःखलु धर्मशीलया त्वयास्ति चितृतातिथितामवापितः ॥
ममापि साधु प्रतिभात्ययं क्रमश्चकास्ति योग्येन हि योग्यसङ्गमः ॥ 9.56 ॥
जीवातु-सव इति । अथवा स प्रसिद्धो धर्मराजो यमः धर्म शीलयतीति । धर्मशीला धर्मचारिणी । “शीलिकामिभक्ष्याचरिभ्यो णः’ । तथा त्वया चित्तातिथितां चितृतगोचरत्वमवापितोऽस्ति खलु ? कामितः । किमित्यर्थंः । खलुशब्दो जिज्ञासायाम् । “निषेधवाक्यालङ्कारजिज्ञासानुनये खलु’ इत्यमरः । यथा चेद्वरमित्याह-ममाप्ययं क्रमः क्रमणं प्रवृत्तिः साधु यथा तथा प्रतिभाति परिस्फुरति । तथा हि–योग्येन सह योग्यस्य समागमः सम्बन्ध्श्याश्चकास्ति शेभते, उभयोर्धार्मिकत्वादिति भावः । अर्थान्तरन्यासोऽलङ्कारः
॥ 9.56 ॥
अन्वयः–धर्मशीलया त्वया सः धर्मराजः खलु चित्तातिथिताम् अवापितः अस्ति-अयं क्रमः मम अपि साशु प्रतिभाति, हि योग्येन योग्यसङ्गमः चकास्ति ॥ 9.56 ॥
अजातविच्छेदलवैः स्मरोत्सवैरगस्त्यभासा दिशि निम्रलत्विषि ॥
धूतावधिं कालममृत्युशङ्किता निमेषवत्तेन नयस्व केलिभिः ॥ 9.57 ॥
जीवातु-अजातेति । हे भैमि ! अगस्त्यभासा निर्मलत्विषि दिशि दक्षिणस्यां दिशीत्यर्थः । तेन धर्मराजेन सह । “वृद्धौ यूने"ति ज्ञापकात् सहाप्रयोगेऽपि सहार्थे तृतीया । अविद्यमानं मृत्युशङ्कितं मरणशङ्का यस्याः सा सती अन्तकस्यैवात्मदासत्वादिति भावः । अजातो विच्छेदलवो विध्नदेशो येषु तैः स्मरोतृसवैः सम्भोगैरेव केलिभिर्विनोदैः धुतोऽवधीरन्तो यस्य तमनन्तकालं निमेषवत् निमेषतुल्यं नयस्व यापय । वरान्तरस्वीकारे दुर्लभमिदं सौभाग्यमिति भावः ॥ 9.57 ॥
अन्वयः–अगस्त्यभासा निर्मलत्विषि दिशि तेन धमृत्युशङ्किता अजातविच्छेदलवैः स्मरोत्सवैः केलिभिः धुतावधिं कालं निमेषवतृ नयस्व नयस्व ॥ 9.57 ॥
शिरीषमृद्वी वरुणं किमीहसे पयःप्रकृत्या मृदुवर्गवासवम् ॥
विहाय सर्वान् वृणुते स्म किन्न सा निशापिशीतांशुमनेनहेतुना ॥ 9.58 ॥
जीवातु-शिरीषेति । अथवा शिरीषमृद्वी त्वं पयःप्रकृत्या जलस्वभावेन वरुणशरीरस्य तथात्वात् कारणगुणदशेनेत्यर्थः । मृदुवर्गे वासवमिन्द्रं श्रेष्ठं वरुणमीहसे किमिच्छसि वा ? तदपि योग्यमेवेति शेषः । तथा हि सा मृदुस्वभावा निशापि अनेनैव मृदुस्वभावत्वेन हेतुना कारणेन । “सर्वनाम्नस्तृतीया च” इ?ति तृतीया । सर्वास्तीक्ष्णान् सूर्यादीन् विहाय शीतांशुं न वृणुते स्म किम् ? वृणुत एव । टृष्टान्तालङ्कारः ॥ 9.58 ॥
अन्वयः–शिरीषमृद्वी किं पयःप्रकृत्या मृदुवर्गवासवं वरुणम् ईहसे ? सा निशा अपि अनेन हेतुना सर्वान् विहाय किं शीतांशुं न वृणुते स्म ? ॥ 9.58 ।
असेवि यस्त्यक्तदिवा दिवाानिशं श्रियः प्रियोणानणुरामणीयकः ॥
सहासुता तत्र पयः पयोनिधौ कृशोदरि ! क्रीड यथामनीरथम् ॥ 9.59 ॥
जीवातु-असेवीति । हे कृशोदरि ! अनणु महद्रामणीयकं रमणीयत्वं यस्य सोऽतिरमणीयो यः पयःपयोनिधिः त्यक्ता द्यौः येन तेन श्रियः प्रियेण लक्ष्मीपतिना दिवा च निशा च दिवानिशमहोरात्रयोरित्यरूर्थः । द्वन्द्वैकवदभावे अत्यन्तसंयोगे द्वितीया । असेवि सेवितः । तत्र पयःपयोनिधौ क्षीराब्धौ अमुना वरुणेन सह यथामनोरथं यथेच्छु क्रीड, लक्ष्मीनारायणवदिति भावः ॥ 9.59 ॥
अन्वयः–कृशोदरि, अनणुरामणीयकः यः त्यक्दिवा श्रियः प्रियेण दिवानिशम् असेवि, तत्र पयःपयोनिधौ अमुना सह यथामनोरथं क्रीड ॥ 9.59 ॥
इति स्फटं तद्वचसस्तयादरात् सुरस्पृहारोपविडम्बनादपि ॥
कराङकसुप्तैककपोलकणैया श्रुतञ्च तदभाषितमश्रुतञ्च तत् ॥ 9.60 ॥
जीवातु–इतीति । इतीत्थं स्फुटं स्फुटार्थं तत्पुर्वोक्तं तदभाषितं नलवाक्यं तद्वचसो नलवचस आदरात् सम्बन्धसामान्ये तत्पूर्वोक्तं तदभाषितं नलवाक्यं नलवाक्यं तद्वचसो नलवचस आदरात् सम्बन्धसामान्ये षष्ठी । तद्ववचनस्यानुरागाच्चेत्यर्थः । सुरेष्विन्द्रादिषु स्पृहाया अभिलाषस्यारोप एव विडम्बवनं परितहासः तस्मादपि
कारणात् कराङ्के करोत्सङ्गे सुप्तं विश्रान्तमेकं कपोलकर्ण द्वनद्वादचौ श्रुतस्य प्रत्येकमभिसमृबन्धादेककपोल
एककर्णश्च यस्यास्तयेत्यर्थः । तया दमयन्त्या श्रुतमश्रु ततञ्च सुरस्पृहारोपरोषात् करतलेनैकं कर्ण विधाया नलादरादेकेन रुतं नतु द्वाभ्यामित्यर्थः । एककपोलरोधस्4तु चिन्तावशादिति मन्तव्यम् । अत्रादरविडम्बनयोः श्रुताश्रुताभ्यां हेतुहेतुमद्भावेन यथासख्यसम्बन्धात् यथासङ्‌यालङ्कारः ॥ 9.60 ॥
अन्वयः–कराङ्कसुप्तैककपोलककर्णया तया इति स्फुटं तद्भाषितं तद्ववचसः आदरात् सुरस्पृहारोपविडम्बनाद् अपि श्रुतम् स्फटं तद्भाषितं तद्वचसः आदरात् सुरस्पृहारोपविडम्बनाद् अपि श्रुतम् अश्रुतं च ॥ 9.60 ॥
अन्वयः–कराङ्कसुप्तैककपोलकर्णया तया इति स्फटं तद्भाषितं तद्वचसः आदरात् सुरस्पृहारोपविडम्बनाद् अपि श्रुतम् अश्रुतं च ॥ 9.60 ॥
चिरादनध्यायमवाङ्मुखी मुखे ततः स्म सा वासयते दमस्वसः ॥
कृतायतश्वासविमोक्षणाथ तं क्षणाद्वभाषे करुणं विचक्षणा ॥ 9.61 ॥
जीवातु–चिरादिति । ततो नलवाक्यानन्तरं सा दमस्वसा दमयन्तीं अवाङ्मुखी चिन्ताभरात् नम्रमुखी सती मुख वाचि चिराच्चिरमनध्यं मौनम् “अध्यायन्याये’त्यादिना घञन्तो निपातः । “गतिबुद्धि’ इत्यादिना अणिकर्तुंः कर्मतृवम् । वासयते स्म वासितवती, लटि’लट् स्मे’ इति भूते लट् । ‘न पादम्’ इत्यादिना वसेर्ण्यन्तात्तस्य परस्मैपदप्रतिषेधात् ‘णिचश्चे’त्यात्मनेपदम् । किन्तु विचष्टे विचष्टे इति विचक्षणा वक्त्रौ सा “अनुदात्तेश्च हलादे’रिति युच्प्रत्यये टाम् “असनयोश्च प्रतिषेधो वक्तव्यः’ इति ख्याञादेत्यर्थः । मोक्षयतेश्चौरादिकात् ल्युट् । तं नलं क्षणात् क्षणं विलम्बयेत्यर्थः । करुणं दीनं यथा तथा हितानाप्तेः शून्यताश्वासतापकृ’दिति लक्षणात् ॥ 9.61 ॥
अन्वयः–ततः अवाङ्मुखी कृतायश्वासविमोक्षणा विचक्षणा सा मुखे चिरात् अनध्यायं वासयते स्म; अथ तं क्षणात् करुणं बभाषे ॥ 9.61 ॥
विभिन्दता दुष्कृतिनीं मम श्रुतिं दिगिन्द्रदुर्वाचिकसूचिकसूचिसञ्चयैः ॥
प्रयातजीवामिव मां प्रति स्फुटं कृतं त्वयाप्यन्तकदूततोचितम् ॥ 9.62 ॥
जीवातु-विभिन्दतेति । दुष्कृतिनीं पापिष्ठां पापोक्तिग्राहित्वादिति भावः । मम श्रुर्ति श्रोत्रं दिगिन्द्राणामिन्द्रादीनां दुर्वाचिकानि दुष्टसन्देशा एव सूचयस्तासां सञ्चयैः समूहैर्विभिन्दता विदारयता परपुरुषप्रसङ्गत्वादिति भावः । तृवयापि प्रयातो जीवो जीवितं यस्यास्तां प्रेतामिव मां प्रति स्फुटं व्यक्तं यथा यथा अन्तकदूतताया यमदूत्वस्योचितं ( कर्म ) कृतम् । पतिव्रतानां परपुरुषवार्तापि यमयातनाया नातिरिच्य इति भावः ॥ 9.62 ॥
अन्वयः–दुष्कृतिनीं मम श्रुतिं दिगिन्द्रदुर्वाचिकसूचिसञ्चयैः विभिन्दता त्वया अपि प्रयातजीवाम् इव मां प्रति स्फटम् अन्तकदूततोचितं कृतम् ॥ 9.62 ॥
त्वदास्यनिर्यन्मदलोकदुर्यशीमसीमयत्वाल्लिपिरूपभागिव ॥
श्रुर्ति ममाविश्य भवद्दुरक्षरं सृजत्यदः कीटवदुत्कटा रुजः ॥ 9.63 ॥
जीवातु-त्वदिति । त्वदास्यान्निर्यत् निर्गच्छत् ममालीकमारोपितत्वान्मिथ्याभूतं दुर्यशो दुःसमज्या तदेव मसी तन्मयत्वाल्लिपिरूपभाक् लिप्यक्षरतां प्राप्तमिव स्थितप्राप्तमिव स्थितमदः इदं भवतो दुरक्षरमतः किमित्यादि दुर्वाक्यं कीटवद्दंशादिजन्तुवतृ मम श्रुतिं श्रोत्रमाविश्य उत्कटा महत्तराः रुजः व्यथाः सृजति जनयति । रूपकोतृप्रेक्षासंकीर्णेयमुपमा ॥ 9.63 ॥
अन्वयः–त्वदास्यनिर्यन्मदलीदुर्यशोमसीमयत्वात् लिपिरूपभाक् इवअदः भवद्दुरक्षरं कीटवत् मम श्रुतिम् आविश्य उत्कटा रुजः सृजन्ति ॥ 9.63 ॥
तमालिरूचेऽथ विदर्भजेरिता प्रगाढमौनव्रतयैकया सखी ॥
त्रपां समाराधयतोयमन्यया भवन्तमाहस्म रसज्ञया मया ॥ 9.64 ॥
जीवातु–तमिति । अथानन्तरं विदर्भजेरिता दमयन्तीचोदिता आलिः सखी तं नलमूवे । किमितृयत
आह-सौम्य ! इयं सखी भैमी प्रगाढं टृढं मौनव्रतां यस्यास्तया एकया रसज्ञया जिह्वया त्रपां समाराधयति भजते । देवताराधने मौनं युक्तमिति भावः । मया अथवा अन्यया रसज्ञया जिह्वया कामाभिज्ञया च भवन्तमाह स्म । अनन्तरवाच्यलज्जया स्वयं वक्तुमशक्ता मन्मुखेन वक्तीत्यर्थः ॥ 9.64 ॥
अन्वयः–अथ विदर्भजेरिता आलिः तम् ऊचे–इयं मखी प्रगाढमौनव्रतया एकया रसज्ञया त्रपां समाराधयति, अन्यथा मया भवन्तम् आह स्म ॥ 9.64 ॥
तमर्चितुं संवरणस्त्रजा नृपं स्वयंवरः सम्भिविता परेद्यवि ॥
मयासुभिर्गन्तुमनाः पुरःसरैस्तदन्तरायः पुनरेष वासरः ॥ 9.65 ॥
जीवातु-स्वयमेव दमयन्ती भूत्वाह–तमित्यादि । मम संवरणस्त्रजा तं नृपं नलमचिर्तमर्चयितुमर्चतेभौवादिकात्तुमुन् । मरेद्यवि परेहनि “सद्यः परुत्’ इत्यादिना निपातनात् साधुः । स्वयंवरः सम्भाविता सन्भविष्यति । कितु पुरः सरन्तीति पुरसराः पुरोगास्तैः “पुरोऽग्रतोऽग्रेषु सर्ते’रिति टप्रत्ययः । ममासुभिः प्राणैः सह गन्तु मनो यस्य स गन्तुमनाः प्राणानादाय गन्तुकाम इत्यर्थः । तुं काममनसोऽपि’ इति मकारलोपः । एष वासरः पुनः वासरस्तु तस्य स्वयंवरस्यान्तरायो विध्नः ।द्य दिनमात्रविलम्बोऽपि दुःसह इति भावः । एतेन कालक्षमत्वलक्षणमौत्सुक्ययमुक्तम् ॥ 9.65 ॥
अन्वयः–संवरणस्त्रजा तं नृपम् अर्चितुं परेद्यवि स्वयंवरः सम्भविता, पुनः पुरःसरैः मम असुभिः गन्तुमनाः एषः वासरः तदन्तरायः ॥ 9.65 ॥
तदद्य विश्रम्य दयालुरेधि मे दिनं निनीषामि भवद्विलोकिनी ॥
नखैर्किलाख्यायि विलिख्य पखिणा तथैव रूपेण यमः स मत्प्रियः ॥ 9.66 ॥
जीवातु–ततः किमत आह–तदिति । तत्तस्मात् औत्सुक्यादद्य विश्रम्य मे मम दयालुरेधि भव, अद्यास्मद्गेहे निवासेन मानुगृहाणेत्यर्थः । अस्तेर्लोटि सिपि “हुझल्भ्यो हेर्धिः’, “ध्वसोरेद्धावभ्यासलोपश्चे’त्येकारः । तन्निवासस्य फलमाह–भवन्तं विलोकत इति भवद्विलोकिनी सती दिनं निनीषामि, त्वद्विलोकनेन दिनं नेतुमिच्छामीत्यर्थः । मद्दर्शनात् कथं ते कालयापनमित्याशङ्क्याह–स मत्प्रियो नलः पक्षिणा दूतहंसेन नखैर्विलिरूय तथैव रूपेणाकारेण समः सटृश आरूयायि किल, आरूयातः खलु । ख्यातेः कर्मणि लुङ् । चिणो युगागमः । अतस्त्वद्दर्शंनात् दनिं नेष्यामि । सदृशदर्शनादिनां कालनविनोदनसाधनत्वाद्वियोगिनामिति प्रागेवोक्मनुसन्धेयम् ॥ 9.65 ॥
अन्वयः–तत् अद्य विश्रम्य मे दयालुः एधि, भवद्विलोकिनी दिनं निनीषामि, पखिणा नखैः विलिरूय सः मत्प्रियः तथा एव रूपेण समः आख्यायि किल ॥ 9.65 ॥
दृशोर्द्वयी ते विधिनास्ति व?ञ्चिता मुखेन्दुलक्ष्मीं तव यन्न वीक्षते ॥
असावपि श्वस्तदिमां नलानने विलोक्य साफल्यमुपैतु जन्मनः ॥ 9.67 ॥
जीवातु–अद्येह विश्वामे न केवलं ममैव साफल्यं किन्तु तवापीत्याह–दृशोरिति । सौम्य ! विधिना स्त्रष्टा ते दृशोर्द्वयी व?ञ्चितास्ति विफलीकृता वर्तते । यत् यस्मात् तव मुखेन्दुलक्ष्मीं न वीक्षते स्वमुखस्य स्वचक्षुषा द्रष्टुमशक्यात्वादिति भावः । तत्तस्मादसौ ते दृग्द्वय्यपि श्वः परेऽहनि इमां तृवमुखलक्ष्मीं नलानने विलोक्य उभयनिष्ठत्वात् समानधर्मस्येति भावः । जन्मनः साफल्यमुपैतु । अत्र दूते सुरबुद्ध्या दूतनलमुखक्ष्मयोर्भेदेऽप्यभेदोक्तेरतिशयोक्तिभेदः ॥ 9.67 ॥
अन्वयः–विधिना ते टृशोः द्वयी व?ञ्चिता अस्ति यत् तव मुखेन्दुलक्ष्मीं न वीक्षते, तत् श्वः असौ अपि इमां नलानने विलोक्य जन्मसाफल्यम् उपैतु ॥ 9.67 ॥
ममैव पाणौकरणेऽग्निसाक्षिकं प्रसङृगसम्पादितमङ्ग ! सङृगतम् ॥
न हा ! सहाधीतिधृतः स्पृहा कथं तवार्यपुत्रीयमयमर्जितुम् ॥ 9.68 ॥
जीवातु-ममैवेति । किञ्च अङ्ग । भो ! मम पाणौकरणे पाणिग्रहण एव ‘नित्यं हस्ते पाणावुपयमने’ इति पाणौ शब्दस्य गतित्त्वात् “कुगतिप्रादय’ इति समासः । अग्निसाक्षिकं यथा तथा विवाहाग्निसन्विधावेवेत्यरूर्थः । प्रसंगात् स्वयंवरप्रसंगात् सम्पादितं संगतमुमयोरानुरूपयाद्युक्म् । आर्ययोः
श्वशुरथोः पुत्र आर्यपुत्रो भर्ता नलः तदीयमार्थपुत्रीयं, “वृद्धाच्छः’ न जीर्यतीत्यजयं संगतं रामसुग्रीवयोरिवं स्थिरयरूयमित्यरूर्थः । ‘अजयं संगत’मिति यत्प्रत्ययान्तो निपातः । ?अर्जितुं सम्पादयितुं सहाधीतिः सब्रह्मचारितां तां धारयतीति धृत् सारूप्यभृदित्यर्थः । घृधातोः क्विप् । तस्य तव स्वृहा कथं नास्ति । हेति विषादे । सर्वथा स्पृहणीया तत्संगतिरित्यर्थः ॥ 9.68 ॥
अन्वयः–अङ्ग, मम पाणौकरणे एव अग्निसाक्षिकं प्रसङ्गसंपादितं संगतम्; हा, सहाधीतिधृतः तव आर्यपुत्रीयम् अजयम् अजैयितुं स्पृहा कथं न ? ॥ 9.68 ॥
दिगीश्वरार्थं न कथञ्चन त्वया कदर्थनीयास्मि कृतोऽयमञ्जलिः ॥
प्रसद्यतां नाद्य निगाद्यमीदृशं दधे दृशौ बाष्परयास्पदे भृशम् ॥ 9.69 ॥
जीवातु–दिगीश्वरेति । किञ्चाहं त्वया दिगीश्वरार्थं कथञ्चनापि कदर्थनीया निर्बन्धनीया नास्मि, अयमञ्जलिः कृतः प्रार्थये त्वामित्यर्थः । प्रसद्यतां प्रसन्नेन भूयतां, भावे लोट् । अद्य ईटृशं दिगीशसन्देशरूपं न
निगाद्यं न वाच्यम्, ‘ऋहलोर्ण्यत्’ ‘गदमदे’त्यादनानुपसर्गादेव यता विधानात् । किं बहुना–भृशं वाष्परयास्पदे अश्रुवेगाश्रयौ टृशौ दधे धारयामि रोदिमीत्यर्थः । नैवं दुःखकर्तुमुचितमति भावः ॥ 9.69 ॥
अन्वयः–त्वया दिगीश्वरार्थं कथंचन न कदर्थनीया अस्मि, अयम् अञ्जलिः कृतः, प्रसद्यताम्; अद्य ईटृशं न निगाद्यम्, भृशं बाष्परयास्पदे टृशौ दधे ॥ 9.69 ॥
वृणे दिगीशानिति का कथा तथा त्वयीति नेत्ते नलभामपीहया ॥
सतीव्रतेऽग्नौ तृणयामिजीवितं स्मरस्तु किं वस्तु तदस्तु भस्म यः ॥ 9.70 ॥
जीवातु–वृणे इति । किञ्च दिगीशान् वृणे इति का कथा, अत्यन्तासम्भावितमित्यर्थः । तथा हि–नलस्य भां कान्तिमपि त्वन्निष्ठामिति शेषः । त्वयीति त्वययि परपुरुषे स्थिते इति हेतोः तथेहया ताटृगनुरागेण नेक्षे । इह त्वयि या नलभा तां नलभामिति केचित् योजयन्ति । नन्वेवं सुरावधीरणे वलविरोध जीवितास्पृहाणां पतिव्रतानां न कुतश्चिदभयमिति भावः । स्मरभरूतु दूरापास्तमितृयाह–स्मरस्तु तत्प्रसिद्धं किं वस्त्ववस्तुकः पदार्थो भावेत् न कोऽपीष्यतीत्यर्थः । चारित्रैकपरायणाः सत्यो न किञ्चिद्गणयन्तीति भावः
॥ 9.70 ॥
अन्वयः–दिगीशान् वृणे इति का कथा, नल भाम् अपि त्वयि इति ईहश न र्हक्षे, सतीव्रते अग्नो जीचितं तृणयामि, स्मरः तु किं वस्तु, यः भस्म ॥ 9.70 ॥
न्यवेशि रत्नत्रितये जिनेन यः स धर्मचिन्तामणिरुज्झिताः यया ॥
कपालिकोपानलभस्मनः कृते तदेव भस्म स्वकुले स्तृतं तया ॥ 9.71 ॥
जीवातु–न्यवेशीति । हे सौम्य य यो धर्माख्यः चिन्तामणिर्विजनेन देवेनअर्हता रत्नत्रितये जैनपरिभाषया सद्टृष्टिज्ञानवृत्ताख्ये रत्नत्रये न्यवेशि निवेशितः ‘सद्टृष्टिज्ञानवृत्तानि धर्म धर्मेश्वरा विदु"रिति तैरुक्तत्वात् । विशेर्ण्यन्तात् कर्मणि लुङ् । स धर्मचिन्तामणिः यया स्त्रिया कपालिः हरः तत्कोपानलभस्मनस्तद्रुपस्य कामस्य कृते कृत इति तादर्थ्येऽव्ययम् । उज्झितस्त्यक्तः तया स्त्रिया तदेव भस्म स्वकुले स्तृतं विस्तुतम् । कामाख्यभस्मान्धतया चरित्रत्यागिन्या स्त्रिया स्वकुलमेव भस्मसात् कृतं भवेदितृयर्थः । अतो नलैकव्रताया ममाग्रे महेन्द्रादिनामग्रहणमपि न कार्यमिति भावः ॥ 9.71 ॥
अन्वयः–जिनेन रत्नत्रितये यः धर्मचिन्तामणिः न्यवेशि, सः यया कपालिकोपानलभस्मनः कृते उज्झितः, तया तत् एव भस्म स्वकुलेस्तृतम् ॥ 9.71 ॥
निपीय पीयूषरसौरसीरसो गिरः स्वकन्दर्पहुताशनाहुतीः ॥
कृतान्तदूतं न तया यथोदितं कृतान्तमेव स्वममन्यतादयम् ॥ 9.72 ॥
जीवातु–निपीयेति । असौ नलः पीयूषरसस्यामृतरसस्य उरसा निर्मिता औरसीः आत्मजाः सटृशीरित्यर्थः । “उरसोऽण् चे’त्यण्प्रत्ययः । संज्ञाधिकारादभिद्येयनियम इति काशिका । स्वकन्दर्पहुताशनस्य निजकामाग्नेराहुतीरुद्दीपनीर्गिरो भैमीवाक्यानि निपीय स्वमात्मानं तया भैम्या यथोदितं यथोक्तं तदनतिक्रमणेनेत्यर्थः । “यथाससदृश्ये’ इत्यव्ययीभावः । कृतान्तदूतं नामन्यत किन्त्वदयं निर्दयं यथा तथा स्वं
कृतान्तमेवामन्यत । दूतधर्मत्वातृ निर्दाक्षिण्यं वक्ष्यामीत्यमन्यतेत्यर्थः ॥ 9.72 ॥
अन्वयः–असौ पीयुषरसौरसीः स्वकन्दर्पाहुताशनाहुतीः गिरः निपीय स्वं तया यथा उदितं कृतान्तदतं न अदयं कृतान्तम् एव अमन्यत ॥ 9.72 ॥
स भिन्नमर्मापि तदार्तिकाकुभिः स्वदूतधर्मान्न विरन्तुमैहत ॥
शनैरशंसन्निभृतं विनिःश्वसन् विचित्रवा?क्चित्रशिखण्डिनन्दनः ॥ 9.73 ॥
जीवातु–स इति । विचित्रवाक्षु चित्रशिखण्डिनन्दनो बृहस्पतिः । “जीव आङ्गिरसो वाचस्पतिश्चित्रशिखण्डिजः’ इत्यमरः । स नलस्तयाः भैम्या आर्त्या, निमित्तेन काकुभिः करुणोक्तिभिपर्भिन्नमर्मापि विदीर्णहृदयोऽपि स्वदूतधर्मादकपभूताद्विरन्तुं नैहत नैच्छत् । किन्तु स्वेच्छाभङ्गान्निभृतं विनिःश्वसन् शनैरत्वरया अशंसदब्रवीत् ॥ 9.73 ॥
अन्वयः–तदार्तिकाकुभिः भिननमर्मा अपि सः स्वदूतधर्मात् विरन्तु न ऐहत, विचित्रवाक्चिशिखणिडनन्दनः निभृतं विनिःश्वासन् शनैः अशंसत् ॥ 9.73 ॥
दिवोधवस्त्वां यदि कल्पशाखिनं कदापि याचेत निजाङ्गनालयम् ॥
कथं भवेरस्य न जीवितेश्वरीन मोघायाच्?ञः स हि भीरु ! भूरुहः ॥ 9.74 ॥
जीवातु–दिव इति । वक्ष्यमाणविभिषिकानुगुणमान्त्रयते–हे भीरु ! भयशीले ! “भ्रियः क्रुक्लकनौ’ इति कुक्प्रत्ययः । ‘ऊङुत’ इत्यूङ् । “अम्बार्थनद्योर्हस्व’ । दिवोधवः स्वर्पतिरिन्द्रः कदापि निजाङ्गनालयं कल्शखीनं त्वां याचेत यदि दुह्मादिपाठाद् द्विकर्मकत्वम् । तदा कथमस्येन्द्रस्य जीवितेश्वरी न भवेः भवेरेवेत्यर्थः । कुतः हि यस्मात्स भूरुह कल्पवृक्षः न मोधयाच्?ञः सफलप्रार्थनः ॥ 9.74 ॥
अन्वयः-भीरु, दिवोधवः कदापि निजाङ्गनालयं कल्पशाखिनं यदि त्वां याचेत, अस्य कथं जीवितेश्वरी नभवेः हि सः भूरुहः मोधयाच्ञः ? ॥ 9.74 ॥
शिखी विधाय त्वदवाप्तिकामनां स्वयं हुतस्वंशहविः स्वमूर्तिषु ॥
क्रतुं विधत्ते यदि सार्वकामिकं स मिथ्यास्तु विधिस्तु वैदिकः ॥ 9.75 ॥
जीवाजतु–शिखीति । शिखी अग्निः त्वदवाप्तिकामनां विधाय स्वमूर्तिषु स्वविग्रहेषु आहवनीयादिषु स्वयमेव हुतं स्वंशं स्वदेवताकं हविर्येन सः सार्वकामिकं सर्वकामिकं सर्वकामप्रश्सकलनकं, “प्रयोजनमि"ति ठक् । क्रतुं विधत्ते यदि तदा स वैदिको वेदावगतो विधिरनुष्ठानं कथं तु मिथ्यास्तु निष्फलः स्यात् । अदा स वैदिको वेदावेगतो विधिरनुष्ठानं कथं तु मिथ्यास्तु निष्फलः स्यात् । अत्र स्वशब्दत्रयेण क्रमादग्नेरेव कर्तृदेवताहवनीयादिरूपताप्रतिपादनात् कर्मणि प्रमादानवकाश सूचितः । तस्माद्वेदप्रामाण्यादनलसादसीति सिद्धमिति भावः ॥ 9.75 ॥
अन्वयः–शिखी त्वदवाप्तिकामनां विधाय स्वमूर्तिषु स्वयं हुतस्वांशहविः यदि सार्वकामिकं क्रतुं विधत्ते, सः वैदिकः विधिः कथं मिथ्या अस्तु ? ॥ 9.75 ॥
सदा तदाशामधितिष्ठतः करं वरं प्रदातुं बलिताद्वलादपि ॥
मुनेरगस्त्याद् वृणुते स धर्मराङ् यदित्वदाप्तिं भण का तदा गतिः ॥ 9.76 ॥
जीवातु–सदेति । स धर्मराङ् सदा सर्वदा तस्य धर्मराजस्याशं दिशम्, दक्षिणामधितिष्ठतोऽधिवसतः । अत एव बलादपि वरमेव करं बलि प्रदातुं बलितात् प्रवृत्तादगस्त्यान्मुनेस्त्वदाप्तिं त्वत्प्राप्तिं वृणुते यदि, तदा का गतिः ? भण । वाक्यार्थः कर्म ॥ 9.76 ॥
अन्वयः–सः धर्मराट् यदि सदा तदाशाम् अधितिष्ठतः बलात् अपि वरं करं प्रदातुं बलिताद् मुनेः अगस्त्यात् त्वदाप्ति वृणुते, भण–तदा का गतिः ? ॥ 9.76 ॥
क्रतोः कृते जाग्रति वेत्ति कः कति प्रभोरपां वेश्मनि कामधेनवः ॥
त्वदर्थमेकामपि याचते स चेत् प्रचेतसः पाणिगतैव वर्तसे ॥ 9.77 ॥
जीवातु–क्रतोरिति । किञ्च क्रतोः कृते कृत्वर्थमपां प्रभोः वरुणस्य वेश्मनि कति कामधेनवो जाग्रति वर्तन्ते को वेत्ति चेत्, दमयन्तीं देहीति प्रार्थयते चेत् तर्हि प्रचेतसो वरुणस्य पाणिगतैव वर्तसे । तदा कस्त्वां
मोचयिष्यतीति भावः ॥ 9.77 ॥
अन्वयः-अपां प्रमोः वेश्मकन क्रतोः कृते कति कामधेनवः जाग्रति–कः वेत्ति ? सः त्वदर्थम् एकाम् अपि याचते चेत् प्रचेतसः पाणिगता एव वर्त्तसे ॥ 9.77 ॥
न सन्निधात्री यदि विध्नसिद्धये पतिव्रता पत्युरनिच्छया शची ॥
स एव राजव्रजवैशसात् कुतः परस्परस्पर्द्धिवरः स्वयंवरः ॥ 9.78 ॥
जीवातु–नेति । किञ्च पतिव्रता शची पत्युरिन्द्रस्यानिच्छया असम्मत्या कारणेन विष्नसिद्धये स्वयंवरविघातार्थं सन्निहिता न यदि=न स्यात् चेत् । विशसति हिनस्तीति विशसो हिसकः, पचाद्यच् । तस्य कर्म वैशसं, युवादित्वादण् प्रत्ययः । राजव्रजस्य राजन्यकस्य वैशसान्मिथो विरोधाद्धेतोः परस्परस्पर्धिनोऽन्योन्यसङ्धर्षिणो वरा वोढारो यस्मिन् स तथोक्तः स्वयंवर एव कुतःकुतस्तरां नलवरणमिति भावः । स्वयंवरे शचीसन्निधानादविध्नसिद्धिरिति शास्त्रम् । तथा च रघुवंशे–‘सान्निध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोमकृतामभावः’ इति ॥ 9.78 ॥
अन्वयः–पतिव्रता शची पत्युः अनिच्छया विध्नसिद्धिये न सन्निधात्री, राजव्रजवैशसात् परस्परस्पर्द्धिवरः सः स्वयंगवरः एव कुतः ? ॥ 9.78 ॥
निजस्य वृत्तान्तमजानतां मिथो मुखस्य रोषात् परुषाणि जल्पतः ॥
मृधं किमच्छत्रकदण्डताण्डवं भुजाभुजि क्षोणिभुजां दिदृक्षसे ॥ 9.79 ॥
जीवातु–निजस्येति । मिथो रोषात् परुषाणि जल्पतो निजस्य मुखस्य वदनस्य वृत्तान्तमजानतां रोषान्ध्यातृ स्वोक्तमप्यविजानतां क्षोणिभुजां सम्बन्धि अच्छत्रका आयुधभङ्गेनापनीतच्छत्रा ये दण्डास्तेषां ताण्डवं तदेव मृधं युद्धं दण्डादण्डीत्यर्थः । तथा तेषामपि भङ्गे भुजाभ्यां भुजाभ्यां प्रवृत्तं युद्धं भुजाभुजि युद्धं च गम्यमानार्थत्वात् च-शब्दाप्रयोगः “तत्र तेनेदमिति सख्पे’ इति बहुव्रीहाविच् कर्मव्यतिहारे इतीच्प्रत्ययः । तिष्ठद्गुपाठादव्ययीभावसंज्ञा । दिदृक्षसे द्रष्टुमिच्छसि “ज्ञाश्रुस्मृदृशां सनः’ इत्यात्मनेपदम् ॥ 9.79 ॥
अन्वयः–कि रोषात् मिथः परुषाणि जल्पतः निजस्य मुखस्य वृत्तान्तम् अजानतां क्षोणिभुजाम् अच्छत्रकण्डताण्डवं भुजाभुजि मृधं दिटृक्षसे ? ॥ 9.79 ॥
अपार्थयन् याज्ञिकफुत्कृतिश्रमं ज्वलेद्रुषा चेद्वपुषा तु नानलः ॥
अलंनलःकर्तुमनग्निसाक्षिको विधिं विवाहे तव सारसाक्षि ! किम् ॥ 9.80 ॥
जीवातु-अपार्थयन्निति । हे सारसाक्षि ! सरोरुहाक्षि ! “सारसं सरसीरुहम्’ इत्ययमरः । तव विवाहे अनलोऽग्निः याज्ञिकस्य फत्कृतिश्रमं याजकफूतृकृतिश्रमं सनिन्धनप्रयासमपार्थयन् व्यर्थयन् रुषा रोषेणैव ज्वलेत् वपुषा स्वरूपेण तु न ज्वलेच्चेत् तदा नलः अग्यभावाग्निसाक्षिको न भवतीत्यनग्निसाक्षिकस्तं कं विधिमनुष्ठानं कर्तुंमलं शक्तः न क?ञ्चिदित्यर्थः ॥ 9.80 ॥
अन्वयः–याज्ञिकफुतृकृतिश्रमम् अपार्थयन् अनलः चेत् रुषा ज्वलेत् वपुषा तु न, हे सारसाक्षि, अनग्निसाक्षिकः नलः कं विधिं कर्त्तुम् बलम् ? ॥ 9.80 ॥
पर्तिवरायाः कुलजं वरस्य वा यमः कमप्याचरितातिर्थि यदि ॥
कथं प गन्ता विफलीविष्णुतां स्वयंवरः साध्वि ! समृद्धिमानपि ॥ 9.81 ॥
जीवातु-पतिंवराया इति । किञ्च यमोऽन्तकः पतिं वृणीत इति पतिवरा वधूः । ‘संज्ञाया भृतॄवृ’ इत्यादिना खच् “अरुद्विषदजन्तस्य मुम्’ । तस्या वरस्य वोढुर्वा कुलजं कमपि । जनमतिथ्ज्ञिमभ्यागतमाचरिता यदि मारयिष्यति चेदित्यर्थः । “अनद्यतने लुट्’ । हे साध्वि ! समृद्धिमान् सर्वसाधनसम्पन्नेऽपि स्वयं व्रियते अस्मिन्निति स्वयंवरः स्वयंवरकर्म । “ग्रहवृवृनिश्चिगमश्चे’त्यप्रतृययः । विफलीभविष्णुतां “भुवश्च’ इति इष्णुच्प्रतृययः । कथं न गन्ता, गमिष्यत्येवेत्यर्थः । गमेर्लुट् । वृथा नलैकासक्तिहतासीति भावः ॥ 9.81 ॥
अन्वयः–यदि यमः पर्तिवरायाः वरस्य वा कम् अपि कुलजम् अतिथिम् आचरिता साध्वि, समृद्धिमान् अपि स्वयंवरः कथं विफलीभविष्णुतां न गन्ता ? ॥ 9.81 ॥

अपां पतिः स्वामितया परः सुरः स ता निषेधेद्यदि नैषधकुधा ॥
नलाय लोभायतपाण्धयेऽपि तत् पिता कथं त्वां वदसंप्रदास्यते ॥ 9.82 ॥
जीवातु–अपामिति । हे साध्वि ! अपां पतिः स प्रसिद्धः परः सुरः स्वामितया अप्पतित्वान्नैषधे नले क्रधा कोधेन ता अपो निषेधेत् प्रतिबध्नीयात् यदि तत्तर्हि लोभेन आयतपाणये प्रसारितहस्तायापि लौल्याज्जलं विनाजिघृक्षतेऽपीत्यर्थः । नलाय पिता भीमस्त्वां कथं सम्प्रदास्यते न कथञ्चिदित्यर्थः । वद । वाक्यार्थः कर्म ॥ 9.82 ॥
अन्वयः–सः परः ( स्वामितया+अपरः विच्छेद में अपरः ) सुरः अपां पतिः स्वामितया यदि नैषधकुधा ताः निषेधेत् तत् वद, लोभायतपाणये ( लोभातृ तत्पाणये ) अपि नलाय पिता ( ते पिता ) त्वां कथं संपगदास्यते ॥ 9.82 ॥
इदं महतृतेऽभिहितं हितं मया विहाय मोहं दमयन्ति ! चिन्तय ॥
सुरेषु विध्नैकपरेषु को नरः करस्थप्यर्थमवाप्तुमीश्वरः ॥ 9.83 ॥
जीवातु–सम्प्रति हितार्थसंग्रहकारिकामाह-इदमिति । हे दमयन्ति !मया इदं महद्धितं ते तव तुभ्यां वाभिहितं, मोहं मौढ्यं विहाय चिन्तय विमृश । तथा हि-सुरेषु विध्न एवैकः परं प्रधानं येषां तेषु विधातकषु सत्सु को नरः करस्थमप्यर्थं वस्त्ववाप्तु?मीश्वरः शक्तः, न कोऽपीत्यर्थान्तरन्यासः । तस्मादलं दुरन्तेन बलवद्विरोधेनेति भावः ॥ 9.83 ॥
अन्वयः–दमयन्ति, मया इयं ते महत् हितम् अभिहितम्; मोहं विहाय चिन्तय; सुरेषु विध्नैकपरेषु करस्थम् अपि अर्थं कः नरः अवाप्तुम् ईश्वरः ? ॥ 9.83 ॥
इमा गिरस्तस्य विचिन्त्य चेतना तथेति सम्प्रत्ययमाससाद सा ॥
निवारितावहनीरनिर्झरे नभोनभस्यत्वमलम्भयद् दूशौ ॥ 9.84 ॥
जीवातु–इमा इति । सा दमयन्ती इमास्तस्य दूतय गिरश्चेतसा विचिन्तृय पर्यालोच्य तथेति सम्नप्रत्ययं विश्वासमाससाद । अथ निवारितावग्रहो निष्प्रतिबन्धो नीरतिर्झरे ययोस्ते दृशौ लोचने नभोनभस्यत्वं
श्रावणभाद्रपदत्वम् । “नभाः श्रावणिकसश्च सः, स्युर्नभस्यप्रौष्ठपदभाद्रपदाः समाः’ इत्यमरः । अलम्भयत् प्रायदित्युपमातिशयोक्ती । तत्र लभे प्राप्तर्थत्वेऽपि तदपसर्जनगत्यर्थविवक्षायां “गतिबुद्धी’त्यादिना अणिकर्तुः कर्मत्वं, गतृयुपसर्जनप्राप्त्यर्थत्वे तु कर्मतृवं नास्त्येव । यथा माधे ‘सितं सितिम्ने"त्यत्र यदाह वामनः–‘लभेर्गत्यर्थत्वाण्णिच्यणौ कर्तुः कर्मत्वाकर्मत्वे’ इति । लभेश्चेति नुमागमः ॥ 9.84 ॥
अन्वयः–तस्य इमाः गिरः चेतसा विचिन्त्स सा तथा इति सम्प्रत्ययम् आससादः निवारितावग्रहनीरनिर्झरे टृशौ नभोनभस्यत्वम् अलम्भयत् ॥ 9.84 ॥
स्फटोत्पलाभ्यामलिदग्पतीव तद्विलोचनाभ्यां कुचकुङ्मलाशया ॥
निपत्य बिन्दू हृदि कज्जलाविलापै मणीव नीलौतरलौ विलौ विलेसतुः ॥ 9.85 ॥
जीवातु–स्फुटेति । अथ कज्जलेनाञ्जनेनाविलौ मलिनौ बिन्दू अश्रुबिन्दू तद्विलोचनाभ्यामेव स्फटोत्पलाभ्यामलिदम्पतीव भृङ्गमिथुनमिव कुचकुङ्कलयोरशया लौल्येन हृदि वक्षसि निपत्य तरलौ चञ्चलौ हारमध्यगौ नीलौ मणी इव इन्द्रनीलरतृने इव । “ईदादीनां प्रगृह्मत्वे मणीवादीनां प्रतिषेधो वक्तव्य’ इत्युयत्रापि प्रगृह्मत्वनिषेधात् सवर्णदीर्धः । विलेसतुः । विरेजतुः । “अत एकहल्ममधृयेऽनादेशादेर्लिटी’त्येत्वाभ्यापी
॥ 9.85 ॥
अन्वयः–कज्जलाविलौ बिन्दु स्फुटोतृपलाभ्याम् अलिदम्पती इव कुचकुङ्मलाशया तद्विलोचनाभ्यां हृ?दि निपत्य तरलौ तरलौ नीलौ मणी इव विलेपतुः ॥ 9.85 ॥
धुता पतत्पुष्पशिलहमुखाशुगैः शुचेस्तदासीत् सर सी रसस्य सा ॥
रयाय बद्धादरयाश्रुधारया सनालनीलोत्पललीललोचना ॥ 9.86 ॥
जीवातु–धुतेति । पतदिभः पुष्पशिलीमुखाशगैः पुष्पबाणैर्विशिखैरन्यत्र पतन्तः पुष्पाणि शिलीमुख अलयश्च येषां तैराशुगैर्वायुभिः । धुता कम्पिता । “?अलिबाणौ शिलीमुखौ आशुगौ वायुविशियौ’ इति चामरः ।
रयाय बद्धादरया रयुक्त्या अश्रुधारया निमित्तेन सनालनीलोत्पलस्य लीलेव लीला पयेस्तेलोचने यस्याः सा भैमी तदा शुचेः रसस्य शृङ्गारस्य सम्बन्धिनि अन्यत्र शुचेर्ग्रीष्मस्य सम्बन्धिनि, कार्श्यादिति भावः । ग्रीष्मशृङृगारयो शुचिरित्य मिधानात् रसस्य जलस्य सरसी सर आसीत् । अत्र भैम्याः शृङ्गारसीत्वेन ग्रीष्माम्बुसरसीत्वेन च रूपणाद्रूपकालङ्कारः । तस्य श्लेषोपमाभ्यामङ्गाभ्यां सङ्करः स्पष्टः ॥ 9.86 ॥
अन्वयः–पतत्पुष्पशिलीमुखाशुगैः ध्रुता रयाय बद्धादरया अश्रुधारया सनानीलोत्पललीललोचना सा तदा शुचेः रसस्य सरसी आसीत् ॥ 9.86 ॥
अथोद्भ्रमान्ती रुदती गतक्षमा ससम्भ्रमा लुप्तरतिः स्खलन्मतिः ॥
व्यधात्प्रियावाप्तिविघातनिश्चयान्मृदूनि दूता परिदेवितानि सा ॥ 9.87 ॥
जीवातु–अथेति । अथ स्मरविकारोदयानन्तरं प्रियावाप्तिविघातस्य प्रियप्राप्तितिबन्धस्य निश्चयात् दूना परितप्ता “स्वादय ओदित’ इत्यौदित्त्वातिदेशात् “ओदितश्च’ इति दूङो निष्ठानतृवम् । अत एव सा दमयन्ती उदभ्रमन्ती उन्माद्यन्ती रुदति अश्रुणि मुञ्चती गतक्षमा नष्टधैर्या ससम्भ्रमा सत्वरा लुप्ता रतिर्विषयान्तरस्पृहा यस्याः सा स्खलन्ती मतिस्तत्त्वावधारणशक्तिर्यस्या सा सतीं मृदूनि परहृदयद्रावणानि परिदेविता नि विलापवचनानि व्यधात् । अत्र प्रियावाप्तिविघातप्रयुक्तचिन्ताविषादभावा उद्भ्रमादय इत्यनुसन्धेयम् ॥ 9.87॥
त्वरस्व पञ्चेषुहुताशनात्मनस्तनुष्व मदभस्मचयं यशश्चयम् ॥
विधे ! परेहाद्यभक्षणव्रती पताद्य तृप्यन्नसुभिर्ममाफलैः ॥ 9.88 ॥
जीवातु–अथ त्रयोदशभिः श्लोकैः परि?देवितान्येवाह–त्वरस्वेत्यादि । हे पञ्चेषुहुताशन ! कामाग्ने ! त्वरस्व त्वरितो भव । मदभस्मनाञ्चयं राशिमेवात्मनस्ते यशश्चयं यशोराशिं तनुष्व विस्तारय स्त्रीवधरूयातिं समृपादयेत्यर्थः । हे विधै ! विधातः ! परेषामीहाफलस्य कियाफलस्य भक्षणे व्रतीं नियमो सन् न तु तपस्व्यन्तरपवद्वन्यफलभक्षणव्रतीत्यर्थः । अद्याफलैर्नलानवाप्त्या निष्फलैर्ममासुभिः प्राणैः तृप्यन् तृप्तः सन् पत पतितो भव । स्त्रीवधापातकी भवेत्यर्थः ॥ 9.88 ॥
अन्वयः–पञ्चेषुहुताशन, त्वरस्व मद्मस्मचयं यशश्चयं तनुष्व, विधे, परेहाफलभक्षणव्रती अद्य अफलैः मम असुभिः तृष्यन् पत ॥ 9.88 ॥
भृशं वियोगानलतप्यमान ! किं विलीयसे न त्वमयोमयं यदि ॥
स्मरेषुभिर्भेद्य ! न वज्रमप्यसि ब्रवीषि न स्वान्त ! कथं न दीर्यसे ॥ 9.89 ॥
जीवातु–भृशमिति । हे भृशं वियोगानलेन तप्यमान ! दह्ममान ! हे स्वान्त ! हृदय ! त्वमयोमयं यदि किं न विलीयसे अयोधनस्यापि तापात् विलयनादर्शनादयोमयमपि नासीति भावः । हे स्मरेषुभिर्भेद्य ! अत एव वज्रमपि नासि वज्रस्य लोहलेख्यत्वाभावादिति भावः । किंतु कथं न दीर्यसे न विदलसि वज्रादन्यस्य लोहेलेख्याभावादिति भावः । न ब्रवीषीति काकुः । किमिति न ब्रुषे त्वत्स्वरूपमित्यर्थः ॥ 9.89 ॥
अन्वयः–भृशं वियोगानलतप्यमान स्वान्त, यदि त्वम् अयोमयं किं न विदीर्यसे ? स्मरेषुभिः भेद्य, वज्रम् अपि न असि, कथं न दीर्यसे–न ब्रवीषि ? ॥ 9.89 ॥
विलम्बसे जीवित ! किं द्रव द्रुतं ज्वलत्यदस्ते हृदयं निकेतनम् ॥
जहासि नाद्यापि मृषा सुखासिकामपूर्वमालस्यमहो तवेदृशम् ॥ 9.90 ॥
जीवातु–विलम्बस इति । हे जीवित ! प्राणवायो ! किं विलम्बसे द्रुतं द्रव शीघ्रं गच्छ । कुतः, यतस्ते तव अदो निकेतनमावासगृहं हृदयं ज्वलति प्रज्वलति । अद्यापीदानीमपि मृषा वृथा सुखासिकां सुखासनं धात्वर्थनिर्देशे ण्वुल् वक्तव्यः । न जहासि । दह्ममाने गेहे न वस्तव्यमित्यर्थः । तथा तव जीवनस्य ईटृशमासलस्यमपूर्वं नूतनमहो ॥ 9.90 ॥
अन्वयः–जीवित, किं विलम्बसे, द्रुतं द्रव, यतः ते अदः निकेतनं हृदयं ज्वलसि ? अद्य अपि मृषा सुखासिकां न जहासि, अहो, तव ईटृशम् आलस्यम् अपूर्वम् ! ॥ 9.90 ॥
दृशौ । मृषापातकिनो मनोरथाः कथं पृथू वामपि विप्रलेभिरे ॥
प्रियश्रियः प्रेक्षणधाति पातकं स्वमश्रुभिः क्षालयते शतं समाः ॥ 9.91 ॥
जीवातु–टृशाविति । हे टृशौ ! मृषापातकिनोऽनृतपातकिनो मनोरथाः नलदिदृक्षारूपाः पृथू महत्यौ । हे टृशौ ! मृषापातकिनोऽनृतपातकिनो मनोरथाः नलदिदृक्षारूपाः पृथू महत्यौ विप्रलम्भचानर्हे इत्यर्थः । वां युवापपि कथं विप्रलेभिरे वञ्चयामासुः । साहसिकाः किन्न कुर्युरित्यर्थः । मनोरथा वां विफला इत्यर्थः । किञ्च प्रियश्रियो नलसौन्दर्यस्य प्रेक्षणधाति दर्शनधातकं स्वं स्वमीयं पातकं जन्मान्तरकृतमिति भावः । अश्रुभिः शातं समाः । वत्सरान् । अत्यन्तसंयोगे द्वितीया । क्षालयते गुरुपापं गुरुप्रायश्चित्तापनोद्यमित्यर्थः । अहो मे दर्शनाशापि निरस्तेति भावः ॥ 9.91 ॥
अन्वयः–टृशौ, मृषापातकिनः मनोरथाः पृथू वाम् अपि कथं विप्रलेभिरे ? प्रियश्रियः प्रेक्षणघाति पातकम् अश्रुभिः शतं समाः क्षालयते ॥ 9.91 ॥
प्रियं न मृत्युं न लभे त्वदीप्सितं तदेव न स्यान्मम यत्त्वमिच्छसि ॥
वियोगमेवेच्छ मनः ! प्रियेण मे तव प्रसाइदान्न भवत्यसौ मम ॥ 9.92 ॥
जीवातु–प्रियमिति । हे मनः ! तव ईप्सितमाप्तुकमिष्टुं प्रियं न लभे तदलाभे ईप्सितं मृत्युं मरणञ्च न लभे तस्मात् त्वं मम यदिच्छसि तन्न स्यादित्यन्यव्यतिरेकदर्शनादिति भावः । अतो मे प्रियेण वियोगमेवेच्छ तव प्रसादादसौ वियोगो मे मम न भवति नलप्राप्ल्यभावे मरणमेव मे शरणमित्यर्थः । अत्र संयोगाथं वियोगप्रार्थनाद्विचित्रालङ्कारः । “विचित्रं स्वविरुद्धस्य फलस्याप्त्यर्थमुद्यमः’ इति लक्षणात् ॥ 9.92 ॥
अन्वयः–मनः, त्वदीप्सितं न प्रियं न मृत्युं लभे, यत् त्वम् मम इच्छसि, तत् एव न स्यात्; प्रियेण मे वियोगम् एव इच्छ, असौ अपि तव प्रसादात् मे न भवति ॥ 9.92 ॥
न काकुवाक्यैरतिवाममङ्गजं द्विषत्सु याचे पवनन्तु दक्षिणम् ॥
दिशापि मदभस्म किरत्वयं तया प्रियो यया वैरविविर्वधावधिः ॥ 9.93 ॥
जीवातु–नेति । द्विषत्सु चन्द्रादिर्वरिमध्ये अतिवाममतिवक्रमङ्गजं काम काकुवाक्यैः करुणोक्तिभिः । न याचे न प्रार्थये, किन्तु दक्षिणं दक्षिणदिग्भवं दाक्षिण्यवन्तं च पवनं याचे, किमिति ? अयं पवनो यया दिशा प्रियो नलः सञ्चरेत् तया दिशा तद्दिग्भागेनापि मदभस्म किरतु क्षिपतु । प्रार्थनायां लरोट् । ननु दक्षिणोऽपि शत्रुपक्ष्यः कथमुपकरिष्यति तत्राह वैरविधिवैराचरणं वधावधिर्मरणान्तः “मरणान्तानि वैराणी’ति न्यायादित्यर्थः ॥ 9.93 ॥
अन्वयः–द्विषत्सु अतिवामम् अङ्गजं काकुवाक्यैः न याचे तु दक्षिणं पवनम् ( याचे ), यया दिशा प्रियः सञ्चरते तया अयं मद्भस्म किरतुः वैरविधिः वधाविधिः ॥ 9.93 ॥
अमूनि गच्छन्ति युगानि नक्षणः कियतृ सहिष्ये न हि मृत्युरस्ति मे ॥
स मां न कान्तः स्फुटमन्तरुज्झिता न तं मनस्तच्च न कायवायवः ॥ 9.94 ॥
जीवातु–अमूनीति । गच्छन्ति विपरिवर्तमानान्यमूनि युगानि न क्षणः एकोऽप्ययं क्षणो युगसहस्त्रायत इत्यर्थंः । कियत् सहिष्ये, मृत्युमैरणञ्च मे नास्ति हि स कान्तस्तु अन्तः अन्तरात्मनि मां नोज्झिता नोज्झिष्यति, स्फुटं तं कान्तं मनश्च नोज्झिता तन्मनश्च कायवायवः प्राणा नोज्झितारः । हन्त का गिरिति भावः ॥ 9.94 ॥
अन्वयः–अमूनि युगानि गच्छन्ति, क्षणः न, कियत् सहिष्ये, हि मे मृत्युः न अस्ति; स्फटं–सः कान्तः अन्त मां न उज्झिता, तं च न मनः तत् च न् कायवायवः ॥ 9.94 ॥
मदुग्रतापव्ययसक्तशोकरः सुराः ! स वः केन पपे कृपार्णवः ॥
उदेति कोठिटर्न मुदे मदुत्तमा किमाशं सङ्कल्पकणश्रमेण वः ॥ 9.95 ॥
जीवातु–मदिति । हे सुराः ! मदुगुतापव्यये मदतितीव्रसन्तापशान्तौ सक्ता व्यापृताः शीकरा यस्य स प्रसिद्धो वो युष्माकं कृपार्णवः केन पपे पीतः । अगस्तृयेन प्रसिद्धार्णव इवेति भावः । तृवल्लोभेनैव पीत इत्यत्राह-सङ्गल्पकश्रमेण शभिध्यानलनेशप्रयासेन सत्तोऽप्युतृतमा कोटिः स्त्रयन्तरमित्यर्थः । वो युष्माकं मुदे आशु नोदेति किमु शच्यादिवदिति भावः । तस्मादनुकम्पनीये जने विपरीताचरणमनुचितमिति तात्पर्यार्थः
॥ 9.95 ॥
अन्वयः–सुराः, मदुुग्रतापत्ययसक्तशीकरः सः वः कृतार्णवः केन पपे, वः सङ्कल्पकणाश्रमेण मदुत्तमा कोटिः मुदे किम् आशु न उदेति ? ॥ 9.95 ॥
ममैव वाहर्दिवमश्रुदुर्दिनैः प्रसह्म वर्षासु ऋतौ प्रसञ्चिते ॥
कथं नु शृण्वन्तु सुषुप्य देवता भवत्वरण्ये रुदितं न मे गिरः ॥ 9.96 ॥
जीवातु–अथ मदीयमार्तघोषं देवा नाकर्णयन्तीत्यत्राह–ममैवेति । वा अथवा अह्नि च दिवा च अहर्दिवमहरहरित्यर्थः । ममैवाश्रुदुर्दिनैरश्रुवषैरित्यर्थः । प्रसहृम बलाद्वर्षासु ऋतौ वर्षौ ‘स्त्रियां प्रावृट् स्त्रियां भूग्नि वर्षा’ इत्यमरः । ‘ऋतृयक्’ इति प्रकृतिभावः । प्रसञ्जिते प्रवर्तिते सति देवताः सुष्ठु सुप्त्वा सुषुप्य । “वाचिस्वपी’त्यादिना सम्प्रसारणम् । “सुविनिर्दुर्भ्यः सुपिसूतिसमा’ इति षत्वम् । मे गिरः कथं नु शृण्वन्तु सुषुप्तस्य तदयोगादत एव मे गिरः कथमरण्ये रुदितम् । “क्षेप’ इति समासः । ‘तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् । न भवतु । विधेयप्राधान्यादेकवचनम् । सम्भावयां लोट् । निष्फलं वचनमरण्यरुदितप्रायमितृयरूर्थः । वर्षाषु भगवतो हरेः स्वापादन्यत्रापि देवतात्वसामान्यादारोप्यव्यपदेशः । अत्र तत्कालस्य वर्षात्वेन देवतानां स्वपेन चासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिद्वयम्, तथा तदिगरामरण्यरुदितासम्भवेन सादृश्याक्षेपान्निदर्शभेदः तेन सङ्गीर्णः ॥ 9.96 ॥
अन्वयः–वा अहर्दिवं मय एव अश्रुभिः दुर्दिनैः प्रसहृम वर्षासु ऋतौ प्रसज्जिते देवताः सुषुप्य मे गिरः कथं नु शृण्वन्तु, अरण्ये रुदितं नभवतु ? ॥ 9.96 ॥
इयं न ते नैषध ! दृक्पथातिथिस्त्वदेकतानस्य जनस्य यातना ॥
ह्रदे ह्रदे हा न कियद्गवेषितः स वेधसागोपि खगोऽपि वक्ति यः ॥ 9.97 ॥
जीवातु–इयमिति । हे नैषध ! इयं त्वदेकतानस्य त्वतृपरस्य “एकतानोऽनन्वृत्तिः’ इतृयमरः । जनस्य स्वस्यैवेत्यर्थः । यातना तीव्रवेदना ते तव दृक्पथातिथिर्न दृग्गोचरो न देशविप्रकर्षादिति भावः । किञ्च यः खगो हंसो वक्ति नलाय मद्यातनां निवेदयेतृ स खगोऽपि वेधसा अगोपि क्वापि गुप्तः । कुतः ह्रदे ह्रदे सर्वेषु जलाशयेष्वित्यर्थः । वीप्सायां द्विरुक्तिः । कियन्न गवेषितो नान्विष्टः । ना बतेत्यर्थः ॥ 9.97 ॥
अन्वयः–नैषध, त्वदेकतानस्य जनस्य इयं यातना ते टृकृपथातिथिः न, यः खगः वक्ति, वेधसा सः अपि अगोपि; हा, हा, ह्रदे ह्रदे अपि अपि कियत् न गवेषितः ? ॥ 9.97 ॥
जीवातु–ममापीति । हे दयाध ! कृपानिधे ! मम मनस्त्वदङ्ध्रिमग्नं त्वच्चरणशरणं वेत्थ यदि वेत्सि चेत् ‘विदो लटो वा’ इति सिपस्थलादेशः । ममापि किं न दयसे ममापि किं नानुकम्पसे, “अधीगर्थदयेशां कर्मणि’ इति षष्ठी । अथवा परस्याशयं हृदयं सन्तमसे महामोहान्धकारे । “विष्वक्सन्तमसम्’ इत्यमरः । “अवसमन्धेभ्यस्तमसः’ इति समासान्तोऽच्प्रतृययः । निमजृजयन् विधिस्तु वाच्य उपांलभ्यः, तवागसोऽपरास्य कथा क्व । विधिना व्यामोहितो मार्मिमां न वेल्थ, न तु निर्दयत्वादत्यिर्थः ॥ 9.98 ॥
अन्वयः–दयाधन, त्वदङ्घ्रिमग्नं मे मनः यदि वेत्थ, मम अपि किं नो दयसे ? पराशयं सन्तमसे निजज्यन् विध्णिः तु वाच्यः तव आगसा कथा क्व ? ॥ 9.98 ॥
कथावशेष तव सा कृते गतेत्युपैष्यति श्रोत्रपथं कथं न ते ॥
दयाणुना मां समनुग्रहीष्यसे तदापि तावद्यदि नाथ ! नाधुना ॥ 9.99 ॥
जीवातु–कथेति । हे नाथ ! तव कृते तृवदथं सा दमयन्ती कथैवावशेषोऽः वसानं तं गतेति तव श्रोपथं नोपैष्यति उपैष्यत्येवेत्यर्थः । तदापि तच्छ्रवणकालेऽपि दयाणुना कृपालेशेन मां समनुग्रहीष्यसे तावदनुग्रहीष्यस्येवेतृयरूर्थः । ग्रहोऽलिटी’ तीटो दीर्धः । अधुना न यदि न चेत् मास्तु पश्चादनुशोचनमपि महानुग्रह इति भावः ॥ 9.99 ॥
अन्वयः-तव कृते सा कथावशेषं गता इति ते श्रोत्रपथं कथं न उपैष्यति ? नाथ, यदि अघुना न तदा अपि तावत् दयाणुना मां समनुग्रहीष्यसे ॥ 9.99 ॥
ममादरीदं विदरीतुमान्तरं तदर्थिकल्पद्रुम ! किञ्चिदर्थये ॥
भिदां हृदि द्वारमवाप्य मैव मे हतासुभिः प्राणसमः समङ्गमः ॥ 9.100 ॥
जीवातु–ममेति । हे नाथ ! ममेदमान्तरं हृदयं विदरीतुं, ‘वृतो वा’ इति दीर्धः । आदरि आदरवत्द्व तत्तस्माद्विदारणाद्धेतोः हे अर्धिकल्पद्रुम ! किञ्चदर्थये याचे । किमिति ? प्रणसमः प्राणतुल्यः त्वं र्हृदि भिदां भेदमेव । ‘षिदिभदादिभ्योऽङ्’ । द्वारमवाप्य मार्गं लब्ध्वा मे मम हतैस्त्वदप्राप्त्या विफलैरसुभिः सममेव मा गमः मा निर्गच्छ गमेर्लुङ् । “पुषादी’ त्यादिना च्लेरङादेशः । “न माड्योग’ इतृयडागमाभावः । प्राणोत्कमणकले त्वया जन्मान्तरेऽपि त्वत्प्राप्तिकामाया मे हृदयान्नापयातव्यम् । “यं यं वापि स्मरन् भावं त्यजत्यन्ते कलेवरम् । तं तमेवेति कौन्तेय ! सदा तदभावभावितः’ इति भगवद्वचनादिति भावः ॥ 9.100 ॥
अन्वयः–मम इदम् आन्तरं विदरीतुम् आदरि तत् अर्थिकल्पद्रुम, किचित् थर्थये हृदि भिदां द्वारम् अवाप्य प्राणसमः मे हतामुभिः ससम् एव मा गमः ॥ 9.100 ॥
इति प्रियाकाकुभिरुन्मिषन् भृशं दिगीशदूत्येन हृदि स्थिरोकृतः ॥
नृपं स योगेऽपि वियोगमन्मथः क्षणं तमुद्भ्रान्तमजीजनत् पुनः ॥ 9.101 ॥
जीवातु–इतीति । दिगीशदूतृयेन हृदि स्थिरीकृतो नियुद्धः स वियोगमन्मथो विप्रलम्भशृङ्गारः इतीत्थं प्रियायाः काकुभिः करुणोक्तिभिः उन्मिषन्नुद्बुद्धः सन् तं नृपं योगे सन्निधाने सत्यपि क्षणं पुनरुद्भ्रान्तमुद्भ्रान्तचित्तमुन्मत्तचित्तमिति यावत् । अजीजननदकार्षीदित्यर्थः । उन्मत्तचितृतविभ्रमः सन्निधिविप्रयोगः सर्वथा विकारोतीति भावः ॥ 9.101 ॥
अन्वयः–दिगीशदूत्येन हृदि स्थिरीकृतः सः वियोगमनमथः इति प्रियाकाकुभिः भृशम् उन्मिषन् तं नृपं योगे अपि क्षणम् पुनः उद्भ्रान्तम् अवीजनत् ॥ 9.101 ॥
महेन्द्रदूत्यादि समस्तमात्मनस्त3 स विस्मृत्य मनोरथस्थितैः ॥
क्रियाः प्रियाया ललितैः करम्बिता विकल्पयन्नित्थमलीकमालपत् ॥ 9.102 ॥
जीवातु–अथोन्मादानुभावः प्रलापः प्रवृत्त इत्याह–महेन्द्रेति । तत उन्मादेदयानन्तरं स नल आत्मनो महेन्द्रदत्यादि समस्तं सर्वकृत्यं विस्मृत्य मनोरथस्थितैः सङ्कल्पविकल्पितैर्विलासैः कराम्बिता मिश्रिताः प्रियायाः क्रियाः शृङ्गारचेष्टा विकल्पयन्नालोचयेन्नित्थं व्क्षयमाणप्रकारेणाली?कमबुद्धिपूर्वकमालपत् ॥ 9.102॥
अन्वयः–ततः सः आत्मनः समस्तं महेन्द्रदूत्यादि विस्मृत्य मनोरथस्थितैललितैः कराम्बिताः प्रियायाः क्रियाः विकल्पयन् इत्थम् अलीकम् आलपत् ॥ 9.102 ॥
अयि ! प्रिये ! कस्य कृते विलप्यते विलिप्यते हा मुखमश्रुबिन्दुभिः ॥
पुरस्त्वयालोकि नमन्नयन्न किं रिश्चलल्लोचनलीलया नलः ॥ 9.103 ॥
जीवातु–अथ प्रलापमेवाष्टादशभिराह–अयीत्यादि । अयि प्रिये ! भैमी । कस्य कृते कं प्रति विलप्यते
। कर्मणि लट् हेति खेदे । पुरोऽग्रे नलम् प्रणमन् अयं नलस्त्वया तिरश्चलतः तिर्यक् प्रसरतो लोचनस्य लीलया विलासेन साचीकृतदृष्ट्येत्यर्थः । नालोकि न दृष्टः किम् ? अपरोक्षे परोक्षवदुपालम्भो न युक्त इत्यर्थः ॥ 9.103 ॥
अन्वयः–अयि प्रिये, कस्य कृते विलप्यते, मुखम् अश्रुबिन्दुभिः विलिप्यते ? हा, पुरः नमन् अयं नलः किं तिरश्चलल्लोचनलीलया त्वया न आलोकि ? ॥ 9.103 ॥
चकास्ति बिन्दुच्युतकातिचातुरी घनाश्रुबिन्दुस्त्रुतिकैतवात्तव ॥
मसारसाराक्षि ! ससारमात्मना तनोषि संसारमसशयं यतः ॥ 9.104 ॥
जीवातु–चकास्तीति । मसारसाराविन्द्रनीलमणिश्रेष्ठौ ताविवाक्षिणी यस्यास्तस्याः सम्बुद्धिः । हे मसारसाराक्षि ! घनाश्रुबिन्दुस्त्रुतेः सान्द्राश्रुबिन्दुच्युतेः । कैतवात्तव बिन्दोरनुस्वारस्य च्युतमेव च्युतकं बिन्दुच्युतकं विचित्रवाक्यभेदः तत्रातिचातुरी चकास्ति भाति, ततस्तच्चातुर्यादेव संसारं भवं ससारशब्दञ्चात्मना स्वसामर्थ्येन च संसारं सारवन्तं च्युतानुस्वारञ्च तनोषि । असंशयं संशयो नास्तीत्यर्थः । अ?र्थाभावेऽव्यीभावः । त्वया मे संसारसाफल्यमिति भावः । अत्र कैतवशब्देनाश्रुबिन्दुच्युतेस्ताद्रुप्यापह्नवेन वर्णात्मकबिन्दुच्युतकत्वारोपादपह्नवभेदः, तदुपजीवनेन ससारमिति श्लिष्टपदोपात्तप्रागुक्तार्थद्वथाभेदाध्यवसायेन बिन्दुच्युतकारूयकाव्यकरणोत्प्रेक्षणात् श्लेषमूला सापह्नवोत्प्रेक्षा सा चासंशयमिति व्यंजकप्रयोगाद्वाच्येति
॥ 9.104 ॥
अन्वयः–घनाश्रुबिन्दुस्त्रुतिकैतवात् तव बिन्दुच्युतकातिचातुरी चकास्ति यतः मसारसाराक्षि, असंशयं संसारम् आत्मनः ससारं तनोषि ॥ 9.104 ॥
अपास्तपाथोरुहि शायितं करे करोषि लीलानलिनं किमाननम् ॥
तनोषि हारं कियदश्रुणः स्त्रवैरदोषनिर्वासितभूषणे हृदि ॥ 9.105 ॥
जीवातु–अपास्तेति । हे प्रिये ! किं किमित्यपास्तं त्यक्तं पथोरुट् लीलापयोरुहं येन तस्मिन् करे शायितं स्थापितमारोपितमाननमेव लीलालिनंकरोषि, लीलाकमलपरिहारेण करकपोलकारणे किं कारणमित्यर्थः। अदोषाष्येव निर्वासितानि परित्यक्तानि भूषणानि येन तस्मिन् हृदि अश्रुणः स्त्रवैरश्रुधाराभिरेव हारं कियत्तनोषि ? किमर्थं रोदिषीत्यर्थः ॥ 9.105 ॥
अन्वयः–अपास्तपाथोरुहि करे शायितम् आननं लीलानलिनं किं करोषि, अदोषनिर्वासितभूषणे हृदि अश्रुणः कियत् हारं तनोषि ? ॥ 9.105 ॥
दृशीरमङ्गल्यमिदं मिलज्जलं करेण तावत् परिमार्जयामि ते ॥
अथापराधं भवदङ्ध्रिपङ्कजद्वयीरोभिः सममात्ममौ लिनां ॥ 9.106 ॥
जीवातु–टृशोरिति । इदं ते टृशोरक्ष्योर्मिलदुत्पह्ममानममङ्गलकारिजलमश्रु तावत् करेण परिमार्जयामि परिमाज्मि, मृजेश्चौरादिकाल्लट् । अथाश्रुमार्जनान्तरम्, अपराधमातृमवञ्चनदोषं भवदङ्घ्रिपङ्कजद्वयीरजोभिः समं त्वच्चरणकमलरेणुभिः सहेति सहोक्तृयलङ्कारः । आत्मनो मौलिना मुकुटेन प्रणामेनेत्यर्थंः । परिमार्जयामि ॥ 9.106 ॥
अन्वयः–तावत् करेण इदं ते टृशोः मिलत् अमङ्गल्यं जलं परिमार्जयामि अथ भवदङ्ध्रिपङ्कतद्वयीरजोभिः समम् अपराधम् आत्ममौलिना ॥ 9.106 ॥
मम त्वदच्छाङ्ध्रिनखामृतद्युतेः किरीटमाणिक्यमयुखमञ्जरी ॥
उपासनामस्य करोतु रोहिणी त्यज त्यजाकारणरेषणे ! रुषम् ॥ 9.107 ॥
जीवातु–ममेति । हे अकारणमेव रोषणे ! कोपने ! “कुषमण्डार्थेभ्यश्च’ इति युच्य्रत्ययः । रोहिणीणी लोहितवर्णा, ‘वर्णादनुदात्तात्तोपधात्तो न’ इति ङीप् नकारश्च । मम किरीटमाणिक्यमयू खानां मञ्जरी सैव रोहिणी चन्द्रप्रिया सैव तारा अस्य पुनः स्थितस्य तवाच्छाङ्ध्रिनखस्यैवामृतद्युतेश्चन्द्रस्योपासनां करोतुं, रोहिण्याश्चन्द्रसेवौचित्वादिति भावः । रुषं रोषं त्यज अभीक्ष्णन्त्यजेत्यर्थः । “नित्यवीप्सयोः’ इति नित्यार्थे द्विर्भावः । नित्यमभीक्ष्णम् । “प्रतिपातप्रतीकारः संरभो हि महात्मना’मिति भावः । रूपकालङ्कारः॥ 9.107॥
अन्वयः–मम रोहिणी किरीटमाणिक्ययृखमञ्चरी अस्य त्वदच्छाङ्ध्रिनखामृतद्युतेः उपासनां करोतु; अकारणरोषणे, रुषं त्यज, त्यज ॥ 9.107 ॥
तनोषि मानं मयि चेन्मनागपि त्वयि श्रये तद्बहुमानमानतः ॥
विनम्य वक्त्रं यदि वर्तसे कियन्नमामि ते चण्डि ! तदा पदावधि ॥ 9.108 ॥
जीवातु–तनोषीति । हे चण्डि ! अतिकोपने मनागीषदपि मानं मयि रोषमपि तनोषि चेत् । तत्तर्हि त्वयि विषये आनतः सन् बहुमानं श्रये सम्मानं कुर्वे, प्रतिकोपाशक्तेरिति भावः । अतिकोपं चेति गम्यते । किञ्च वक्त्रं कियत् किञ्चद्विनम्य विनमय्येत्यर्थः । अन्तर्भावितो णिजर्थः । वर्तसे तदा ते पदावधि पादपर्यन्तं नमामि । पूर्वोक्त एवाभिप्रायः ॥ 9.108 ॥
अन्वयः–मयि मनाक् अपि मानं तनोषि चेत् तत् आनतः त्वयि बहुमानं श्रये; चण्डि, यदि वक्त्रं कियत्
विनम्य वर्तसे तदा ते पदावधि नमामि ॥ 9.108 ॥
प्रभुत्वभूम्नानुगृहाण वा न वा प्रणाममात्राधिगमेऽपि कः श्रमः ॥
क्व याचतां कल्पलतासि मां प्रति क्व दृष्टिदाने तव बद्धमुष्टिता ॥ 9.109 ॥
जीवातु–प्रभूत्वेति । हे भैमि ! प्रभुत्वभूम्ना प्रभुत्वप्रक्तगौरवेणानुगृहाण वा न वा, किन्तु प्रणाममात्रस्याधिगमे स्वीकारेऽपि कः श्रमः को भार इत्यर्थः । अथ सोऽपि माभूत् दर्शनमात्रेणापि किं
नानुगृह्ण्?ासीत्याह–क्वेति । याचतामर्थिनां कल्पलतासि, क्व ? त्वं क्वेत्यथैः । असीति त्वमर्थवाक्यालङ्करणयोर्युष्मदर्थानुवादेऽपीति गणव्याख्यानात् । मां प्रति टृष्टिदाने वद्धमुष्टिता लुब्धता क्व ? “स्याद्वद्धमुष्टिः कृपणे कृपणादिषु चेष्यते’ इति विश्वः । विरूपघटनारूपो विषमाङ्कारः ॥ 9.1़09 ॥
अन्वयः–प्रयुत्वभूम्ना अनुगृहाण वा न वा प्रणाममात्राधिगमे अपि कः श्रमः ? क्व यांचतां कल्पलता असि, क्व मां प्रति टृष्टिदाने अपि तव अद्धमुष्टिता ? ॥ 9.109 ॥
स्मरेषु बाधां सहसे मृदुः कथं हृदि द्रढीयःकुचसंवृते तव ॥
निपत्य वैसारिणकेतनस्य वा व्रजन्ति बाणा विमुखोतृपतिष्णुताम् ॥ 9.110 ॥
जीवातु–स्मरेति । हे भैमी ! मृदुः मृद्वङ्गी त्वं स्मरेषुबाधां कामबाणव्यथां कथं सहसे ? अथवा विसरतीति विसारी स एव वैसारिणो मत्स्यः “विसारिणो मत्स्ये’ इति स्वार्थेऽणप्रत्ययः । तत्केतनस्य कामस्य बामस्य बाणाः द्रढीयोभ्यां टृढतराभ्यां कुचाभ्यां संवृते तव हृदि निपत्य विमुखाः कुचप्रतिहत्या पराङ्मुखाः । तत्तां व्रजन्ति वा, अन्यथा कथमुपेक्षस इति भावः ॥ 9.110 ॥
अन्वयः–मृदुः स्मरेषुबाधां कथं सहसे, वा वैसारिणकेतनस्य बाणाः द्रढीयःकुचसंवृते तव हृदि निपत्य विमुखोत्पतिष्णुतां व्रजन्ति ? ॥ 9.110 ॥
स्मितस्य संभावग सृक्वणा कणान् विधेहि लीलाचलमञ्चलं भ्रु वोः ॥
अपाङ्गरथ्यापथिकीञ्च हेलया प्रसह्म सन्धेहि दृशं ममोपरि ॥ 9.111 ॥
जीवातु–स्मितस्येति । स्मितस्य । कणान्मन्दहासलेशान् सृक्वणा ओषुप्रान्तेन । “प्रान्तावोष्ठस्य सृक्वणी’ इतृयमरः । स्भावय भ्रुवोरञ्चलमन्तं लीलया चलं चञ्चारिणीं “पथः ष्कन्’ इति ष्कन्प्रत्यये “षिद्गौरादिभ्यश्च’ इति ङीषु । टृशं ममोपर्युरिष्टात्, “षष्ठ्यतसर्थप्रत्ययेने’ति षष्ठी । हेलया प्रसह्म वलात् सन्धेहि प्रसारयेत्यर्थः । “ध्वसोरेद्धावचभ्यासलोपश्चे’तृयेकारः ॥ 9.111 ॥
अन्वयः–सृक्वणा स्मितस्य कणान् संभावय, भ्रवोः अञ्चलं लीलाचलं विधेहि अपाङ्गरथ्यापथिकीं दृशं च मम उपरि हेलया प्रसह्म सन्धेहि ॥ 9.111 ॥
समापय प्रावृषमश्रुविप्रुषां स्मितेन विश्राणय कौमुदीमुदः ॥
टृशावितः खेलतु खञ्जनद्वयी विकासि पङ्केरुहमस्तु ते मुखम् ॥ 9.112 ॥
जीवातु–समापयेति । किञ्चाश्रुविप्रुषां प्रावृषं वर्षतुं वृष्टिमित्यर्थः । समापय मा रोदीरित्यर्थः । प्रावृट्समाप्तेः फलमाह–स्मितेन मन्दहासेन कौमुदीमुदो विश्राणय? वितर । श्रण दान इति चौरादिकाल्लोट् । टृशावेव खञ्जनद्वयी खञ्जनपक्षियुगमितो मयि खेलतु प्रसरतु, ते मुखं विकासि पङ्केरुहमस्तु, प्रसन्नं भवत्वित्यर्थः ॥ 9.112 ॥
अन्वयः–अश्रुविप्रषां प्रावृषं समापय, स्मितेन कौमुदमृदः विश्राणय, खञ्जनद्वयी टृशौ इतः खेलतु, ते मुखं विकासिपङ्केरुहम् अस्तु ॥ 9.112 ॥
सुधारसोद्वेलनकेलिमक्षरस्त्रजा सृजान्तर्मम कर्णकूपयोः ॥
दृशौ मदीये मदिराक्षि ! कारय स्मितश्रिया पायसपारणाविधिम् ॥ 9.113 ॥
जीवातु–सुधेति । हे मदिराक्षि ! मदकराक्षि ! “इषिमदी’त्यादिनाऔणादिकः किरच्प्रतृययः अक्षरस्त्रजा वर्णावल्या वाग्युम्फेन कर्णकूपयोरन्तः सुधारसस्योद्वेलनकेलिमुज्जनलीलां सृज । आलपेत्यर्थः । किञ्च मदी ये टृशौ स्मितश्रिया करणेन पायसपारणापिधिं पायसभोजनविधिमपि कारय । “परमाननन्तु पायसम्’ इत्यमरः । “हृक्रोरन्यतरस्याम्’ इति विकल्पादणि कर्तुः अन्वयः–मम कर्णकूपयो अन्तः अक्षरस्त्रजा सुधारसोद्वेलनकेर्लि सृजः मदिराखि, मदीये टृशौ स्मितश्रिया पायसपारणाविर्धि कारय ॥ 9.113 ॥
अन्वयः–मम कर्णकूपयोः अन्तः अक्षरस्त्रजा सुधारसोद्वेलनकेलिं सजः मदिराक्षि, मदीये टृशौ स्मितश्रिया पायसपारणाविधिं कारय ॥ 9.113 ॥
ममासनार्धे भव मण्डनं नन प्रिये मदुत्सङ्गविभूषणं भव ॥
भ्रमाद् भ्रमादालपमङ्ग ! मृष्यतां विना ममोरः कतरत्तवासनम् ॥ 9.114 ॥
जीवातु–ममेति हे प्रिये ! ममासनार्थे मण्डनं भव । तत्रोपविशेत्यर्थः ॥
नन । अत्यनुचितमेतदित्यर्थः । किन्तु मदुत्सङृगविभूषणं भव, अङ्कमारोहेत्यर्थः । तदपि नेत्याह–भ्रमाद्मादालपं भ्रमादालपं भ्रमादालापमित्यर्थः । लपेर्लङ् । अङग भो ! मृष्यतां क्ष्म्यतां किन्तु ममोरो वक्षो विना तवासनं कतरत् किमस्ति ? “चापले द्वे भवत इति वक्तव्यमि’ति ननेत्यादौ चापले द्विर्भावः । चापलं संभ्रमान्निवृत्तिःसम्भ्रमश्चानौचित्यभयादिति । अत्र भैम्याः क्रमेणाघारहृवृत्तिकथनात्पर्यायालङ्कारः । ‘एकमनेकस्मिन्ननेकस्मिन् वा क्रमेण पर्यायः’ इति सर्वस्वकारलक्षणात् ॥ 9.114 ॥
अन्वयः–प्रिये, मम आसनार्द्धेन मण्डनं भव, नन, मदुत्सङ्गविभूषणं भव; अङग, भ्रमात् भ्रमात् आलपम्, मृष्ताम्; मम उरः विना तव आसनं कतरत ? ॥ 9.114 ॥
अधीतपञ्चाशुगुबाणवञ्चने ! स्थिता मदन्तर्बहिरेषि चेदुरः ॥
स्मराशुगेभृयो हृदयं बिभेतु न प्रविश्य तत्त्वन्मयसंपुटे मम ॥ 9.115 ॥
जीवातु–किञ्चोरः स्थलाद्यवस्थानेषु ममापि कामादभयसित्याह–अधीतेति । अधीता अभ्यस्ता पञ्चाशुगस्य पञ्चेषोर्बाणानां वञ्चना प्रतारणाविद्या यया सा तथोक्ता तस्याः समृबुद्धिः । प्रायेण मनस्विनां लज्जावशंवदतया मदनवञ्चताच्छील्यादित्थं सम्बोध्यते स्वहृदयप्राणसमर्थ्यसूचनार्थं हे भैमि ! तृवं मदन्तर्ममाभ्यंतरे स्थिता अवस्थिता । अथा बहिरुरश्चैषि प्राप्नोषि चेत् तत्तहि मम हृदयं ( कर्तृ )त्वन्मये त्वदात्मके संपुटे पेटिकायां प्रविश्य स्मराशुगेभ्यः स्मरशेरेम्यो न बिभेतु । त्वया गुप्तस्य मे कुतः कामास्त्रभयमित्यर्थाः ॥ 9.115 ॥
अन्वयः–अधीतपञ्चाशुगबाणवञ्चने, मदन्तः स्थिता बहिः उरः एषिः चेत् तत् मम हृदयं तृवन्ममसंपुंटे प्रविश्य स्मराशुगेभ्यः न बिभेतु ॥ 9.115 ॥
परिष्वजस्वानवकाशबणता स्मरस्य लग्ने हृदयद्वयेऽस्तु नौ ॥
दृढा मम त्वतृकुचयोः कठोरयोरुरस्तटीयं परिचारिकोचिता ॥ 9.116 ॥
जीवातु–परिष्वजस्वेति । हि प्रिये ! परिष्वजस्व आलिङग । तथा सती लग्ने मिथोघटिते नौ आवयोर्हृदयद्वये स्मरस्यानकाशाना नीरन्धुत्वान्निरवकाशा बाणा यस्य तस्य भावस्तत्ता अस्तु । अत्यथमलिङ्गनं स्मरशरप्रवेशानवकाशकारकमिति भावः । किञ्च टृढा कठोरा ममेयमुरस्तटी कठोरयोस्त्वत्कुचयोः परिचारिका उचिता युक्ता । समानगुणयोः सम्बन्धो युक्त इत्यर्थः । अत्र समालंकारः । “सा समालङ्कृतिर्योगे वस्तुनोरनुरूपयोः’ इति लक्षणात् ॥ 9.116 ॥
अन्वयः–परिष्वजस्व, नौ हृदयद्वये लग्ने स्मरस्य अनवकाशबाणता अस्तुः मम दृढा इयम् उरस्तटीयं कठोरयोः त्वत्कुरयोःत्वत्कुचयोः परिचारिका उचिता ॥ 9.116 ॥
शुभाष्टवर्गस्त्वदनङ्गजन्मनस्तवाधरेऽलिख्यत यत्र लेखया ॥
मदीयदन्तक्षतराजिरञ्चनः स भूर्जतामर्जतु बिम्बपाटलः ॥ 9.117 ॥
जीवातु–शुभेति । यत्र यस्मिन्न तवाधरे रेखया रेखाभिरित्यर्थः । जातावेकवचनम् । त्वदनङ्गजन्मनः त्वदीयमन्मथोदयस्य सम्बन्धी शुभाष्टवर्गः शुभसूचकाष्टवर्गो ज्योतिश्शस्त्रप्रसद्धः अलिख्यत रेखारूपेण लिखितः । रेखारूपस्यैव शुभावेदकत्वातृ बिन्दुरूपस्य वैपरीत्याच्चेति भावः । मदीयदन्तक्षतानां राज्या रञ्जनः बिम्बफलवत् पाटलः सोऽधरः भूर्जतां भूजपत्रत्वमर्जतु भजजतु । अर्जेभौवा?“दिकाल्लोट् । अत्राधरेखाणामष्टवर्गरेखत्वमधरस्य भूज्रजत्रत्वं चोत्पेक्ष्यते । तेन च कामोदयस्य शुभोदकत्वं व्यजृयते । जन्मकालग्रहाधानभाविशुभावेदको रेखाबिन्दुलेखृयचक्रविशेषाद्धार्यो ग्रहसन्निवेशविशेषोऽष्टवर्गः ॥ 9.117 ॥
अन्वयः–त्वदनङ्गजन्मनः शुभाष्टवर्गः रेखया यत्र तव अधरे अलिरूयत, बिम्बपाटलः सः मदीयदन्प्तक्षतराजिरिञ्चनैः भूर्जताम् अर्जतु ॥ 9.117 ॥
तवाधराय स्पृहयामि यन्मधुस्त्रवः श्रवःसाद्विक्षमाक्षिका गिरः ॥
अधितृयकासु स्तनयोस्तनोतु ते ममेन्दुरेखाभ्युदयाद्भुतं नखः ॥ 9.118 ॥
जीवातु–तवेति । किञ्च तवाधराय स्पृहयामि । अधरं पातुमिच्छामीत्यथर्थः ‘स्पृहेरीप्सित’ इति
सम्प्रदानत्वाच्चतुर्थी । कुत इति चेत्–यस्याधरस्य मधुस्त्रवैः माखिकद्रवैः तव गिरो व चनानि श्रवसी श्रोत्रे साक्षिणी यस्य तच्छुवःसाक्षिकं माक्षिकं यासु ताः । श्रोत्रपेया इति भावः भवन्तीति शेषः । किञ्च ते स्तनयोरधित्यकासूर्ध्वभागेषु “उपत्यकाद्रेरासन्ना भूमिरूर्ध्वमधित्यका’ इत्यमरः । ‘उपाधिभ्यां त्यकन्नारूद्धयोः’ इति त्यकन्प्रत्ययः । एतेन स्तनयोरद्रिरूपणं गम्यते । मम नखः इन्दुरेखाभ्युदयाद्भुतं चन्द्रकलोदयं चित्रं तनोतु । कुचकुम्भयोर्नखतञ्च कर्तुमिच्छामीत्यर्थः ॥ 9.118 ॥
अन्वयः–तव अधराय स्पृयामि, तव गिरः यन्मधुस्रवैः श्रवःसाक्षिकमाक्षिकाः, ते स्तनयोः अधिल्यकासु मम नखः इन्द्ररेखाभ्युदयाद्भुतं तनोतु ॥ 9.118 ॥
न वर्तसे मन्मथनाटिका कथं प्रकाशरोमावलिसूत्रवारिणी ॥
तवाङ्गहारे रुचिमेति नायकः शिखामणिश्च द्विजराङ्विदूषकः ॥ 9.119 ॥
जीवातु–नेति । हे भैमि ! त्वं मन्मथेन कविना कृता नाटिका रूपकविशेषी मन्मथनाटिका सती कथं न वर्तसे एवेत्त्युत्प्रेक्षा । यन्मयोद्दीपनेति च प्रर्ताये । उभयं श्लिष्ठविशेषणैरुपपादयति–प्रकाशं स्फुटं रोमावलिः समत्रमिव रोमावलिसूत्रं तद्धारिणी अन्यत्र सूत्रधारः कथाप्रस्तावकः तद्वती सूत्राधारणी तव अङ्गहारे मुक्ताहारे नायको मध्यमाणिक्यं रुचि शेभामेति अन्यत्र नायकः कथानायकोऽङ्गाहारे अङ्गविक्षेपे रुचिं प्रीतिमेतिं । शिखामणिः शिरोरत्नञ्च द्विजराजश्चन्द्रस्य विशेषणो विदूषको निन्दको विदूषकस्ततोऽपि रमणीय इत्यर्थः । अन्यत्र द्विजराट् ब्राह्मणो विदुषको नायकस्य हास्यप्रायो नर्मसचिवः शिखामणिरादरणीय इत्यर्थः । एवं सूत्रधारादियोगत् कथं नाटिकासीत्यर्थः । अन्यत्र यौवनालंकारादियुक्ता कथं न मन्मथोद्दीपनेत्यर्थः । “आलम्बनगुणश्चैव तच्चेष्टा तदलङ्कृतिः । तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनक्रमः’ । “आजम्बनगुणश्चैव तच्चेष्टा तदलङ्कृतिः । तटस्थश्चेति विज्ञेयश्चतुर्धोद्दीपनकमः’ । इति लक्षणत् ॥ 9.119 ॥
अन्वयः–प्रकाशरोमावलिसूत्रधारिणी कथं मन्मथनाटिका न वर्तसे ? नायकः तव अङ्गहारे रुचिम् एति, द्विजराङ्विदूषकः च शिखामणिः ॥ 9.119 ॥
गिरानुकमपस्व दयस्व चुम्बनैः प्रसीद शुश्रूषयितुं मया कुचौ ॥
निशेव चान्द्रस्य करोत्करस्य यन्ममत्वमेकासि नलस्य जीवितम् ॥ 9.120 ॥
जीवातु–गिरा इति । गिरा सम्भा सम्भाषणेनानुकमृपस्व चंमृबनैर्दयस्व दयां कुरु, मया कुचौ कुचौ शुश्रूषयितुं प्रसीद् अन्यथा कथमहं जीवेयमित्यशयेनाह–यत् यस्मात् चान्द्रस्य करोत्करस्य किरणसमूहस्य निशेव नलस्य मम त्वमेका जीवितमसि चन्द्रस्य दिवापि जीवनसम्भवात् करग्रहणं तस्य निशैकशरणत्वादिति द्रष्टव्यम् ॥ 9.120 ॥
अन्वयः–गिरा अनुकम्पस्व, चुम्बनैः दयस्व, मया कुचौ शुश्रुषयितुं प्रसीद, यत् चान्द्रस्य करोत्करस्य निशा इव त्वम् मम एका नलस्य जीवितम् असि ॥ 9.120 ॥
मुनिर्यथात्मानमथ प्रबोधवान् प्रकाशयन्तं स्वमसावबुध्यत ॥
अपि प्रपन्नां प्रकृतिं विलोक्य तामवाप्तसंस्कारतयाऽसृजद्गिरः ॥ 9.121 ॥
जीवातु–मुनिरिति । अथैवं भ्रान्त्यनन्तरमसौ नलो मुनिर्यथा मुनिरिव प्रबोधवानुत्प्रननत्त्वावबोध। सन्नात्मानं स्वं स्वरूपं प्रकाशयन्तं सन्तमबुध्यत, नलरूपता प्रकाशितेतृयबुद्धेत्यर्थः । अथ प्रपन्नां प्राप्तां तां प्रकृतिं स्वभावं विलोक्यापि ज्ञात्वापि अवाप्तः उद्बुद्धः संस्कारो निजद्तत्वस्माकवासनां येन तस्य भावस्तत्ता तथा गिरो दूत्यानुगुणान्येव वाक्यान्यसृजदवोचदित्यर्थः । यथा मुनिर्योगलब्धात्मतत्त्वाववोधोऽपि वासनावशात् बाह्ममनुसन्धत्ते तथा नलोऽपि प्रकटितात्मा पुनः संस्कारवशात् दूत्यमेवानुसयरन्नुवाचेत्यर्थः ॥ 9.121 ॥
अन्वयः–अथ यथामुनिः प्रबोधवान् असौ आत्मानं प्रकायन्तं स्वम् अबुध्यत; तां प्रकृतिं प्रपन्नां विलोक्य
अवाप्तसंस्कारतया गिरः अपि असृजत् ॥ 9.121 ॥
अये मयात्मां किमनिह,नुतीकृतः किमत्र मन्ता स तु मां शतक्रतुः ॥
पुरःस्वभक्त्याथ नमन् ह्रियाविलो विलोकिताहे न तदिङ्गितान्यपि ॥ 9.122 ॥
जीवातु–अये इति । अये विषादे । “अये विषादे कोधे च’ इति विश्वः । मया आत्मा स्वरूपं किं
किमर्थमनिह,नुतीकृतः प्रकाशितः, अत्रात्मप्रकाशने स शतक्रतुरिन्द्रस्तु मां किं मन्ता मंस्यते । अथ पुरोऽग्रे स्वभक्त्या नमन् प्रणमन् ह्रिया आविलः कलुषः सन् तस्येन्द्रस्येङ्गितानि चेष्ठितान्यपि न विलोकिताहे न विलोकयिष्यामि । लुटीट् । तन्मुखमवलोकितुमपि नोत्सहे इत्यर्थः ॥ 9.122 ॥
अन्वयः–अये, मया आतृमा किम् अनिह,नुतीकृतः अत्र सः शतक्रतुः तु मां किं मन्ता ? पुरः स्वभक्त्या नमन् अथ ह्रिया आविलः तदङ्गितानि अपि न विलोकितामहे ॥ 9.122 ॥
स्वनाम यन्नाम मुधाभ्यधामहं महेन्द्रकार्यं महदेतदुज्झितम् ॥
हनूमदाद्यैर्यशसा मया पुनर्द्विषां हसैर्दूतपथः सितीकृतः ॥ 9.123 ॥
जीवातु–स्वेति । यद्यस्मात् मुधा र्वथैव स्वनाम अभ्यधान्नम ? अवोचं खलु ? तन्महदेतन्महेन्द्रकार्यमुज्झितं त्यक्तम् । अहो हनूमदाद्यैः दूतपथो यशसा सितीकृतो धवलीकृतः । यथोबद्धासस्यापि धवलत्वादिति भावः । विश्वेश्वरीये तु हासस्य घावल्येऽपि शत्रुहासस्य मालिन्यापादकत्वादिति भावः । विश्वेश्वरीये तु हासस्य धावल्येऽपि शत्रुहासस्य मालिन्यापादकत्वादित्याशयेन मेचकीकृतमिति व्याख्यातम् । ‘सितौ धवलमेचकौ’ इत्यमरः । अत्र हनूमद्ग्रहणं पूर्वंकल्पाभिप्रायमन्यथा कृतत्रेतावतारपुरुषयोः पौर्वापर्यविसेधादिति ॥ 9.123 ॥
अन्वयः–नाम अहं यत् मुधास्वनाम अभ्यधाम्, एतत महत् महेन्द्रकार्यम् उज्झितम्; हनूमादाद्यैः यशसा सितीकृतः दूतपथः मया पुनः द्विषां हसैः ( सितीकृतः ) ॥ 9.123 ॥
धियात्मनस्तावदचारु नाचरं परस्तु यद्वेद स तद्वदिष्यति ॥
जनावनायोद्यमिनं जनार्दनं क्षये जगजज्जीवपिबं वदन् शिवम् ॥ 9.124 ॥
जीवातु–धियेति । अथवा तावदात्मनो धिया बुद्धिपूर्वकमित्यर्थः । अचार्वसाधु नाचरं एवं स्थिते परोऽन्यो जनो यदचारु वदिष्यति तत्तुनानामवनायरक्षणायोद्यमिनमुद्योगिनं विष्णुमिति शेषः, जनानामर्दयतीत्यर्दनं संहर्तारम् । नन्द्यादित्वात् ल्युट् प्रत्ययः । अये कल्पान्ते जगज्जीवानां पिबतीति पिबं संहर्तारं रुद्रमिति शेषः । “पाघ्रादिना’ शप्रत्ययः । शिवं शान्तं वदन्, शिवमशिवमशिवं शिवञ्च वदनिनत्यर्थः । स पर एव वेद । अनर्गलो लोकस्तावदास्तां ममानपराधित्वमन्तर्यामिसाधिकमिति भावः ॥ 9.124 ॥
अन्वयः–आतृमनः धिया तावच् अचारुन आचरम् तु जनावनाय उद्यमिनं जनार्दनं क्षये जगजृजीवपिबं शिवं वदन् सः परः यत् वदिष्यति तद् वेद ॥ 9.124 ॥
स्फुटत्यदः किं हृदयं त्रपाभरात् यदस्य शुद्धिर्विबुधैर्विबुध्यताम् ॥
विदन्तु ये तत्त्वमिदं तु दन्प्तुञ्जनानने कः करमपयिष्यति ॥ 9.125 ॥
जीवातु–स्फटतीति । अदो हृदयं त्रपाराल्लजृजातिभारात् स्फुटति किम् ? स्फुटिष्यति किम् ? “आशंसायां भूतवच्च’ इति चकारादशंसायां भषियदर्थे वर्तमानवत्प्रत्ययः । य़द्यस्मात् स्फुटनादस्य हृदयस्य शुद्धिर्विबुधैर्देवैर्विदुध्यतां वर्तमानवत्प्रत्ययः । यद्यस्मात् स्फुटनादस्य हृदयस्य शुद्धिर्विबुधैर्देवैविंबुध्यता ंज्ञायताम् । अतः स्फुटनामाशस्यमित्यर्थः । परन्तु ते विबुधास्तत्त्वं हृदयशुर्द्धिं विदन्तु, तथापि दन्तुरमतिर्विषमन्तदेवाह–जनानने कः करमर्पश्ष्यिति न कोऽपीत्यर्थः । कथ?ञ्चिद्देवताप्रत्यायनेऽपि जनप्रत्यायनं दुष्करमिति तात्पर्यार्थः ॥ 9.125 ॥
अन्वयः–किम् अदः हृदयं त्रपाभरात् स्फुटति, यत् अस्य शुद्धिः विबुधैः विबुध्यताम् ? ते तु इदं दन्तुरं तत्त्वं विदन्प्तु; अजनानने कः करम् अपैयिष्यति ? ॥ 9.125 ॥
मम श्रमश्चेतनयानया फलीबलीयसाऽलोपि च सैव वेधसा ॥
न वस्तु देवस्वरसाद्विनश्वरं सुरेश्वरोऽपि प्रतिकर्तुमीश्वरः ॥ 9.126 ॥
जीवातु–ममेति । मम दूत्यप्रयासः अनया चेतनया स्वरूपनिगूहनबुद्ध्या फली सफलः स्यात् बलीयसा बलवत्तरेण बेधसा दैवेन सा चेतनैवालोपि नाशिता च । तथा हि–दैवस्य स्वरसात् स्वेच्छातो विनश्वरं वस्त्वर्थं सुरेश्वरः शक्रोऽपि प्रतिकर्त्तुं नेश्वरो न शक्त इत्यर्थान्तरन्यासः । ईटृशी भवितव्ध्यतेति भावः ॥ 9.126 ॥
अन्वयः–अनया चेतनया मम श्रमः फली, बलीयसा वेधसा च सा एव अलोपि; दैवस्वरसात् विनश्वरं
वस्तु सुरेश्वरः अपि प्रतिकर्त्तुन ईश्वरः ॥ 9.126 ॥
इति स्वयं मोहमयोर्मिनिर्मित्तं प्रकाशनंशोचति नैषधे निजम् ॥
तथा व्यथामग्नतदुद्दिधीर्षया दयालुरागाल्लघु हेमहंसराट् ॥ 9.127 ॥
जीवातु–इतीति । इतीत्थं नैषधे नले मोहमयोर्मिणा अज्ञानविलसितेन निर्मितं निजमात्मीयं स्वयं प्रकाशनं स्वस्वरूपप्रकटिनं प्रति शोचति व्यथमाने सति दयालुर्हेमहंसराटृ सुवर्णराजहंसः तथा व्याथामग्नस्य तस्य नलस्योद्दिधीर्षया उद्धर्तुमिच्छया, धरतेरुत्पूर्वात् सन्नन्तात् यियामप्रत्यये टाप् । लषु क्षिप्रमागादागतः
॥ 9.127 ॥
अन्वयः–नैषधे इति मोहमयोर्मिनिर्मितं निजं स्वयं प्रकाशनं शेचति दयालुः हेमहंसराट् तथाव्यथामग्नतदुद्दिधीर्षया लधु आगात् ॥ 9.127 ॥
नलं स तत्पक्षरवोर्ध्ववीक्षिणं स एष षक्षीति भणन्तमभ्यधात् ॥
नयादयैनामति मा निराशतामसून् विहातेयमतः परं परम् ॥ 9.128 ॥
जीवातु–नलमिति । स राजहंसः तस्य हंसस्य पक्षरवेण निमित्तेनोर्ध्वं वीक्षत इ?ि वीक्षिणं तथा एव स सर्वोपकारी पक्षीति भणन्तमेव नलमभ्यघात् अभिहितवान् । हे अदय ! निर्दय ! एर्ना दमयन्तीमतिनिराशतां नैराश्यं मा नय प्रापय । कुतः पिरमियं परं केवलमसून् प्राणान् विहाता विहास्यति । जहातेर्लुट् । तदेतत्प्राणत्राणकाङ्क्षिणा त्वया नैवमाशच्छेदः कार्य इत्यर्थः ॥ 9.128 ॥
अन्वयः–तत्पक्षरवोर्ध्ववीक्षिणम् एषः सः पक्षी–इति भणन्तं नलं सः अमृयवात्-अदय, एनाम् अतिनिराशातां मा नय, अतः परम् इयं परम् असून् विहाता ॥ 9.128 ॥
सुरेषु पश्यन्निजनापराधतामियत्प्रयस्यापि यदर्थसिद्धये ॥
न कुटसाक्षीभवनोचितो भवान् सतां हि चेतःशुचितातृमसाक्षिका ॥ 9.129 ॥
जीवातु–सुरेष्विति । हे नलः ! भवान् तदर्थस्य सुरकार्यस्य सिद्धये इयदेतावत् प्रयस्याप्यायस्यापि, यसु प्रयत्न इति धातोः समासे क्त्वो ल्यबादेशः । सुरेषु विषये निजां सापराधतामेव पश्यन् उत्प्रेक्षमाणः सन् कूटसाक्षीभवनस्य कपटसाक्षीभावस्य । अभूततदभावे च्विः । उचितो य अनपराधिन्यात्मपराधोत्प्रेक्षितृवमेव कटसाक्षित्वं तत्ते अनुचितमित्यर्थः । तथा हि–सतां चेतःशुचिता चित्तशुद्धिः आत्मसाक्षिका स्वप्रमाणिका हि स्वयं प्रमितेऽर्थे किं विचारणयेत्यर्थः ॥ 9.129 ॥
अन्वयः–भवान् तदयर्थसिद्धये इयत् प्रयस्य अपि सुरेषु सापराधतां पश्यन् कूटसाक्षीभवनोचितः न; ?हि सतां चेतःशुचिता आत्मसाक्षिका ॥ 9.129 ॥
इतीरिणापृच्छ्य नलं विदर्थजामपि प्रयातेन खगेन सान्त्वितः ॥
मृमदुर्बभाषे भगिनीं दमस्य स प्रणम्य चित्तेन हरित्पतीन्नृपः ॥ 9.130 ॥
जीवातु–इतीति । इतीरिणा इत्थवादिना नलं विदर्भजामपिभैमीं चापुच्छ्यामन्त्रयप्रयातेन प्रयाणप्रवृत्तेन खयेन हंसेन सान्त्वितो बोधितः स नृपश्चित्तेन हरित्पतीनिन्द्रादीन् प्रणम्य मृदुरार्द्रचित्तः सन्. दमस्य बोधितः स नृपश्चित्तेन हरित्पतीनिन्द्रादीन् प्रणम्य मृदुरार्द्रचित्तः सन् दमस्य भगिनीं बभाषे ॥ 9.130 ॥
अन्वयः–इति ईरिणा नलं विदर्भजाम् अपि आपुच्छ्य प्रयातेन खगेन सात्त्वितः सः नृपः चित्तेन हरित्पतीन् प्रणम्य मृदुः दमस्य भगिनीं बभाषे ॥ 9.130 ॥
ददेऽपि तुभ्यं कियतीः कदर्थनाः सुरेषु रागप्रसवावकेशिनीः ॥
अदम्भदूतृयेन भजन्तु वा दयां दिशन्तु वा दण्डममी ममागसा ॥ 9.131 ॥
जीवातु–दद इति । हे प्रिये सुरेषु विषये राग्रपसवे अनुरागजनने अवकेशिनीः वन्ध्या असमर्था इत्यर्थः । “वन्ध्योऽफलोऽवकेशी च’ इत्यमरः । कियतीरियत्तारहिता इत्यर्थः, कदर्थनाः कुत्सना । अश्लीतप्रयोगानिति यावत् । तुभ्यं केवलं प्रियार्हायै इति भावः । ददेऽपि ददाम्यपि अतिगर्हितमाचरामीत्यर्थः । अपि गर्हायाम् । “अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये’ इति विश्वः । किञ्चैवं सति अमी देवाः अदम्भेनाकपटेन दूत्येन दूतकर्मणा “कपटोऽस्त्री व्याजदम्भोपधयश्छह्मकैतवे’ इत्यमरः । दयां वा भन्तु आगसा अपराधेन मम दण्डं
दण्डनं वा विशन्तु, इतिः परमिमां तु न कदर्थयामीति भावः ॥ 9.131 ॥
अन्वयः–तुभ्यम् अपि सुरेषु रागप्रसवावकेशिनीः कियतीः कदर्थनाः ददे; अमी अदमृत्येेन दयां वा भजन्तु, आगसा मम दण्डं वा दिशन्तु ॥ 9.131 ॥
अयोगजामन्वभवं न वेदनां हिताया मेऽभूदियमुन्मदिष्णुता ॥
उदेति दोषादपि दोषलाघ्ज्ञवं कृशतृवमज्ञानवशादिवेनसः ॥ 9.132 ॥
जीवातु–अयोगजामिति । इयमुन्मदिष्णुता उन्मत्तता । “अलंकृञ्’ इत्यादिना इष्णुच्प्रत्ययः । मे हितायोपकारायाभूत् । कुतः, अयोगजां वियोगोत्थां वेदनां नान्वभवम् । तथा हि-अज्ञानवशात् अज्ञानबलादेनसः पापस्य कृशत्वं ज्ञानकृतापेक्षयाल्पत्वमिव दोषादुन्माददोषादपि दोषस्य वियोगदुःखस्य लाघवमल्पत्वमुदेति तस्माद्दोषोऽपि कदाचिदुपकरोतीति भावः ॥ 9.132 ॥
अन्वयः–इयम् उन्मदिष्णुता मे हिताय अभूत्. अयोगर्जां वेदनां न अन्वभवम्अन्वभवम्, अज्ञानवशात् एनसः कृशत्वम् इव दोषात् अपि दोषलाधवम् उदेति ॥ 9.132 ॥
तवेत्योगस्मरपावको।द्यपि मे कदर्थनात्यर्थमयागमद्दयाम् ॥
प्रकाशुमुनमाद्य यदद्य कारयन्यात्मनो मामनुकम्पते स्म सः ॥ 9.132 ॥
जीवातु–तवेति । हे प्रिये ! इतीत्थं तव कदर्थनानां मदीयाप्रियाक्तिरूपकुत्सनानामतृयर्यतया अतृयाधिक्येन हेतुना मे मम सम्बन्धि अयोयो यः स्मरपावकःकामग्निः सोऽपि दयामगमत् दयालुरभुदितृयर्थः । यद्यस्मादद्य स कामाग्निः ( प्रयोजककर्ता ) उन्माह्म मामुन्मत्तं कृत्वा मया प्रयोज्येन आत्मनो मत्स्वरूपस्य प्रकाशं प्रकाशनं कारयन् त्वामनुकम्पषे स्म । तस्मात् कामाग्नेरपि दयोत्पन्नेत्पुत्प्रेक्षा । किं बहुना उन्मादप्रसादातृ उभावप्यावां कृतार्थी स्व इति तात्पर्यार्थः ॥ 9.133 ॥
अन्वयः–इति तव कदनाल्यर्थतया मे अयोगस्मरपावकः अपि दयाम्ः अगमत्, यत् उन्माद्य मया आत्मनः प्रकाशं कारयन् सः माम्, अनुकम्पते स्म ॥ 9.133 ॥
अमा समीहैकपरास्तवामराः स्वकिङ्करं मामपि कर्तु मीशिषे ॥
विचार्य कार्य सृज मा विधान्मुधा कृतानुतापस्त्वयि पार्ष्णिविग्रहम् ॥ 9.134 ॥
जीवातु–अमी इति । अमी अमरास्तवसमीहायां त्वत्कृतानुरागे एकपरा एकाग्रास्ते च त्वामपेक्षन्ते इतृयर्थः । त्वञ्च मामपि स्वकिङ्करं निजदासं कर्तुमीशिषे शक्नोषि अपि शब्दात्तानपीत्यर्थः । ‘ईशः से’ इतीडज्ञगमः कृतः सन् त्वयि पार्ष्णिविग्रहं पाष्णिंग्राहककृत्यं मुधा माविधात् माकार्षीत् । अविमृश्यकरणात्पश्चात्तापस्ते मा भूदित्यर्थः । विपूर्वाद्दधातेर्लुङि “न माङ्योग’ इत्यडभावः ॥ 9.134 ॥
अनवयः–मी अमराः तव समीर्हंकपराः, माम् अपि स्वकिङ्करं क्तर्त्तु म् ईशिषे; विचार्य कार्यं सृज, कृतानुत्वयि पार्ष्णिविग्रहं मुधा मा विधात् ॥ 9.134 ॥
उदासितेनेव मयेदमुद्यसे भिया न तेभ्यः स्मरतानवान्नवा ॥
हितं यदि स्यान्मदसुव्ययेन ते तदा तव प्रेमणि शुद्धिलब्धये ॥ 9.135 ॥
जीवातु–एतच्च माध्यस्थेनैवोच्यते न तु पक्षपातेनेत्याह–उदासितेति । उदासितेनौदासीन्येन माध्यस्थयेनैवेत्यर्थः, भावे क्तः कर्तरि वा । उदासितेन मध्यस्थेनैव मया इदं पूर्वोक्तमुद्यसे । ववेः कर्मणि लटि यकि ‘वचस्विपी’ त्यादिना सम्प्रसारणम् । तेभ्यः सुरेभ्यः भिया वा स्मरतानवात् कामप्रयुक्तकार्श्याद्रा न । युवादित्वादण्प्रत्ययः । तस्माद्विमृश्य कुर्विति भावः । अथ विमृश्यैव कुर्वे त्वद्वरणमेवेति निश्चयस्तत्राह–मदसुव्ययने मत्प्राणसमर्पणेन ते तव हितं पथ्ज्ञ्यं प्रियं यदि सयात् । यदा मत्प्राणसमर्पणमिति शेषः । तव प्रेमणि विषये शुद्धिलब्दये आनुण्यलाभाय भवति । त्वत्कृतानुरागोपकारस्य प्राणसमर्पणमेव प्रत्युपकार इति भावः ॥ 9.135 ॥
इन्वयः–उदासियतेन इव मया इदम् उद्यसे, तेभ्यः भियः भिया न, स्मरतानवात् वा न, यदि मदसुव्ययेन ते हितं स्यात् तदा तव प्रेमणि शुद्धिलब्धये ॥ 9.135 ॥

इतीरितैर्नैषधसूनृतामृतर्विदर्भजन्मा भृशमुल्लास सा ॥
ऋतोरधिश्रीः शिशिरानुजन्मनः पिकस्वरैर्दूरविकस्वरैर्यथा ॥ 9.136 ॥
जीवातु–इतीति । इतीत्वथमीरितैरभिहितैनैषधस्य नलस्य सूनृतैः सत्यप्रियवाक्यैरवामुतैः साविदर्भजन्मा दैदर्भी शिशिरमुनजन्म यस्य तस्यं शिशिरानुजन्मनः शिशिरानन्तरभाविनः ऋतोर्वसन्तर्तोरधिका श्रीर्दुरविकस्वरैरतिश्लाध्यैः पिकस्वरैर्यथा कोकिलकूजितैथ्रव भृशमुल्लास जहर्ष । अत्र सूनृतानामुपमानभूतको किलालापवत्तादापत्मिकत्वेनातिश्राव्यत्द्योतनार्थ वसन्तस्य शिशिरानुजन्मत्वेन व्यपदेशः ॥ 9.136 ॥
अन्वयः–शिशिरानुजन्मनः ऋतोः अश्रिश्रीः यथा दूरविकस्वरैः पिकस्वरैः ( तथा ) सा विदर्भजन्मा इति ईरितैः नैषधसृनृतामृतैः भृशम् उल्लतास ॥ 9.136 ॥
नलं तदावेत्य तमाशये निजे धृणां विगानञ्च मुमोच भीमजा ॥
जुगुप्समाना हि मनो द्रुतं तदा सतीधिया दैवतदूतधावि सा ॥ 9.137 ॥
जीवातु–नलमिति । तदा नलस्य स्वरूपगोपनकाले दैवतदूते धावति प्रवर्तत इति दैवतदूतधावि यथा तथा द्रतं मनः सतीधिया पतिव्रतात्वाभिमानेन हेतुना जुगुप्समाना बीभतृसमाना भीमजा तदा नलस्य स्वयपकथनकाले तं दूतं नलमवेत्य बुद्ध्वा निजे आशये घृणां परपुरुष इति जुगुप्सां विगानमात्मनिन्दां च मुमोच ॥ 9.137 ॥
अन्वयः–तदां तं नलं निजे आश्ये तदा दैवतदूतधावि द्रुतं मनः सतीधिया जुगुप्समाना सा भीमसुता घृणां विगानं च मुमोच ॥ 9.136 ॥
मनोभुवस्ते भवितां मनः पिता निमज्जयन्नेनसि तन्न लज्जसे ॥
अमुद्रि सत्पुत्रकथा त्वयेति सा स्थिता सती मन्मथनिन्दिनी धिया ॥ 9.137 ॥
जीवातु–मनोभुव इति । हे मन्मथ ! मनोभुवो मनोजन्यस्य ते भाविनां संसारिणां मनः पिता, तत् पितरं मनः एनसि एवं दुश्चिन्तापापे निमज्जयन्न लज्जते । त्वया एवं पितृद्रोहिणा सत्पुत्राणां कथा पितृभक्तताख्यातिरमुद्रि मुद्रिता निवारिता इत्येव सा भैमी धियान्तःकरणेन मन्मथनिन्दिनी सतीस्थिता । तूर्ष्णीं स्थिता सती कथञ्चित् किञ्चिदुवाचेत्यर्थः ॥ 9.137 ॥
अन्वयः–भवितां मनः ते मनोभुवः पिता, तत् एनसि निमज्यन् न लज्जसे ? त्वया सत्पुत्रकथा अमुद्रि,–इति धिया मन्मथनिन्दिनी सती सा स्थिता ॥ 9.137 ॥
मनोभुवस्ते भवितां मनः पिता निमज्जयन्नेनसि तन्न लज्जसे ॥
अमुद्रि सत्पुत्रकथा त्वये ति सा स्थिता सती मन्मथनिन्दिनी धिया ॥ 9.138 ॥
जीवातु-मनोभुव इति । हे मन्मथ ! मनोभुवो मनोजन्यस्य ते भाविनां संसारिणां मनः पिता, तत् पितरं मनः एनसि एवं दुश्चिन्तापे निमज्जयन्न लज्जते । त्वया एव पितृद्रोहिणा सत्पुत्राणां कथा पितृभक्तताख्यातिरमुद्रि मुद्रिता निवारिता इत्येव सा भैमी धियान्तःकरणेन मन्मथनिन्दिनी सती स्थिताः । तूष्णीं स्थिता सती कथञ्चित् किञ्चि दुवाचेत्यर्थः ॥ 9.138 ॥
अन्वयः–भवितां मनः ते मनोभुवः पिता, तत् एनसि निमज्जयन् न लज्जसे ? त्वया स्तपुत्रकथ अमुद्रि,–इति धिया मन्मथनिन्दिनी सती सा स्थिता ॥ 9.138 ॥
प्रसूनमित्येव तदङ्गवर्णना न सा विशेषात् कतमत्तदित्यभूत् ॥
जद्वा कदम्ब निरवर्णि रामभिर्मुदश्रुणा प्रावृषि हर्षमागतः ॥ 9.139 ॥
जीवातु–प्रसूनमिति । सा प्रसिद्धा तदङ्गवर्णना भैमीशरीरस्तुतिः प्रसूनं सामान्यतः पुष्पमेवाभूत्, किन्तु तत्प्रसूनं कतमत् किंजातीयमिति विशेषात् विशेषोल्लेखान्नाभूत् । तत्काले मुदश्रुणा प्रावृषि वर्षासु आनन्दवाष्पवर्षो सतीत्यर्थः । हर्ष विकासमागतैः प्रावृषेण्यत्वात् कदम्बकुसुमविकासस्येति भावः । लोमभिः लोमव्याजेनेत्यर्थः । कदम्बं कदम्बकुसुममिति निरर्णि निरैक्षि प्रत्यक्षेणैवालक्षीतृयरूर्थः । “निर्वर्णनन्तु निर्ध्यानं दर्शनालोकनेक्षणम्’ इत्यमरः । तदा पुलकितं तदङ्गं बालकदम्बकल्पमासीदित्यर्थः । एतच्च “स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्त्तिताः परिकीर्त्तिताः ।’ इत्युक्त
सकलसात्त्विकोपलक्षणमिति द्रष्टव्यम् । तदङ्गस्य कदम्बाभेदोक्तेरतिशयोक्तिभेदः ॥ 9.139 ॥
अन्वयः–सा तदङ्गवर्णना प्रसूनम् कति एव अभूत्, तत् कतमत् इति न, तदा मुदश्रुणा हर्षम् आगतैः रोमभिः आवृषि कदम्बं निरवर्णिं ॥ 9.139 ॥
मयैव संबोध्य नलं व्यलापि यत्स्वमाह मद्बद्धमिदं विमृश्य तत् ॥
असाविति भ्रासन्तिमसाद्दमस्वसुः स्वभाषितस्वोद्भ्रमविभ्रमक्रमः ॥ 9.140 ॥
जीवातु–मयेति । मया नलमेव सम्बोध्य व्यलापीति यत् तदिदं मद्विलपितं विमृशलोच्यासौ नलः मद्बुद्धं स्वसम्बोधनलिङ्गेन मया ज्ञातमेव स्वमात्मानमाह “स्वो ज्ञातावात्मनि स्वम्’ इत्यमरः । अनया ज्ञातस्य
मे किं गोपनेनेति मत्वा नलोऽहमिति कथिवानित्यर्थः । आहेति भूते णलन्तभ्रमादिति वामनः । अत्र तु वर्तमानसामीप्याद्व गतिरिति । दमस्वसुः या भ्रान्तिस्तां भ्रान्तिमसौ नलः स्वेन भाषितः कथितः स्वोद्भ्रमविभ्रमाणां स्वोन्मादीविलसितानां कमः “अये प्रिये’ इत्यादिश्लोकोक्तप्रकारो येन स सन् असात् असासीत् अच्छैत्सीदित्यर्थः । स्यतेर्लुङि"विभाषा घ्राधेट्शाच्छासः’ इति ज्ञात्वा दूतभ्रान्तिर्निवृत्तेत्यर्थः॥9.140॥
अन्वयः–मया एव नलं संबोध्य यत् व्यलापि तद् इदं विमश्य असौ मद्बुद्धं स्वम् स्वभाषिंतस्वोद्भ्रमविभ्रमक्रमः दमस्वसुः इति भ्रान्तिम् असात् ॥ 9.140 ॥
कददर्भराप्रभवामुखं यदत्रया ममजृज तेनैव महाह्रदे ह्रियः ॥ 9.141 ॥
जीवातु–विदिर्भेति । सा विदर्भराजप्रभवा वैदभीं ततः परं नलरोऽयमिति ज्ञानानन्तरं त्रपयाः सख्ी लज्जिता सतीं नलं वक्तुं साक्षात् सम्भाषितुं नालं न शशाक । कुतः, पुरः पूर्वमत्रया निरूपा सतीं तं नलमभिमुखं यथा तथा ऊच इति यता तेनैव हेतुना ह्रियो महाह्रदे महति लज्जाह्रद इत्यर्थः । घटस्य रूपमितिवत् कथञ्चिदभेदनिर्देशः । ममज्ज मग्ना ॥ 9.141 ॥
अन्वयः–ततः परं सा विदर्भराजप्रभवा त्रपासखी नलं वक्तुम् अलं नः पुरः अत्रपा यत् तम् ?अभिमुखम् ऊचे तेन तव ह्रियः महाह्रदे ममज्ज ॥ 9.141 ॥
मदापवार्यापि न दातुमुत्तरं शशक सख्याः श्रवसि प्रियाय सा ॥
विहस्य सख्येव तमब्रवीत्तदा ह्रियाधुना मौनधना भवत्प्रिया ॥ 9.142 ॥
जीवातु–यदेति । सा भैमी, यदा अपवार्य व्यवधायापि सख्याः श्रवसि श्रीत्रे प्रियायोत्तर दातुं न शशक तदा सख्येव विहस्य तं नलमब्रवीत् । किमिति अधुना भवत्प्रिया भैमी ह्रिया मौनधना बद्धमौना, न तु वैराग्याद्द्वेषाद्वेति भावः ॥ 9.142 ॥
अन्वयः–सा यदा अपवार्य अपि सख्यः श्रवसि प्रियाय उत्तरं दातुं न शशाक तदा सखीएव विहस्य तम् अब्रवीत्–अधुना भवत्प्रिया ह्रिया मौनधना ॥ 9.142 ॥
पदातिथेयाल्ँलिखितस्य ते स्वयं वितन्वती लोचननिर्झरानियम् ॥
जगाद यां सैव मुखामन्मम त्वया प्रसूनबाणोपनिषन्निशम्यताम् ॥ 9.143 ॥
जीवातु–पदेति । इयं भवत्प्रिया लिखितस्य चित्रगतस्य ते पदयोरतिथेयानतिथिषु साधून् पाद्यभूतानित्यरूर्थः । “पथ्यतिथिवसतिस्वपतेर्ढञ्’ । लोचननिर्झरान् बाष्पपूरान् वितन्वती यां प्रसूनबाणोपनिषदं कामरहस्यं जगाद तृवदागमात् प्रागिति शेषः सैव प्रसूनबाणोपनिषन्मम मुखात् तृवया स्वयं निशम्यतां श्रूयताम् ॥ 9.143 ॥
अन्वयः–इयं लिखितस्य ते पदातिथेयान् लोचननिर्झरान् वितन्वती यां जगाद, सा एव प्रसूनबाणोपनिषद् त्.वया मम मुखात् निशम्यताम् ॥ 9.143 ॥
असंशयं स त्वयि हंस एव मां शशंस न त्वद्विरहाप्तसंशयाम् ॥
क्व चन्द्रवंशस्य वतंस ! मद्वधान्नृशंसता संभविनी भावद्शे ॥ 9.144 ॥
जीवातु–असंशयमिति । हे चन्द्रवंशस्य वतंसावतंस ! “वष्टि वागुरिरल्लोपमवाप्योरुपसर्गयोः’ इत्यकारलोपः । स हंसः त्वद्विरहेणाप्तसंशयां प्राप्तप्रायसन्देहां मां त्वयि विषये न शशंसैव असंशयम् । अन्यथा भवटृशे त्वद्विधे “त्यदादिषु’ इत्यादिना कञ्प्रत्ययघ्ः । “आ सर्वनाम्न’ इत्याकरादेशः। मद्वाधाद्धेतोर्तृ
शंसता घातुकत्वं स्त्रीवधपातकित्वमिति यावत् । “नृशंसो धातुकः कूरः’ इत्यमरः । क्व सम्भविनी सम्भवति न क्वभवि न क्वापि सम्भावितेत्यर्थः । सज्जनस्य दयानिधेस्तव नेटृक्कार्यं युक्तमिति भावः ॥ 1.144 ॥
अन्वयः–सः हंसः एव त्वद्विरहाप्तसंशयां मां त्वयि असंशयं न शशंसः चन्द्रवंशस्य अवतंस, भवाटृशे मद्वधात् नृशंसता क्व संभविनी ? ॥ 9.144 ॥
तितस्त्वयास्ये न विधुः स्मरः श्रिया कृतप्रतिज्ञौ मम तौ वधे कुतः ॥
तवेति कृत्वा यदि तज्जितं मया न मोधसङ्गल्पधराः किलामराः॥ 9.145 ॥
जीवातु–जित इति । विधुश्चन्द्रस्त्वया आस्येन जितः । स्मरः श्रिया सौन्दर्येण जितः । कुतः कारणात् तो विधुस्मरौ मम वक्षे कृतप्रतिज्ञौ त्वयि जेतरि स्थिते निरपराधां मां किमिति मारयत इतृयर्थः । अथ तवेति त्वदीयेति कृत्वा यदि तत्तर्हि मया जितं त्वां विना जीवनाभावात् मरणमेव मे प्रियमित्यर्थः । सेत्स्यति चेत्तदित्याह अमरा मौधसङ्कल्पस्य धरन्तीति धराः, “पचाद्यच्र’ न किल । सत्ससङ्कल्पाः खलु देवाः, देवौ च विधुस्मराविति भावः । अत्र नलापकारासमर्थयोर्विधुस्मरयोस्तदीयजनापकारथनातृ प्रतृयनीकालङ्कारः । “बलिनः प्रतिपक्षस्य प्रतीकारे सुदुष्करे । यस्तद्दोषतिरस्कारः प्रत्यनीकं तदुच्यते ।’ इति लक्षणात् ॥ 9.145 ॥
अन्वयः–त्वया आस्येन विधुः श्रिया स्मरः जितः, कुतः तौ मम वधे कृतप्रतिज्ञौ ? यदि इति तव कृत्वा, तत् मया जितम्, अमराः मोधसङ्कल्पधराः किल न ॥ 9.145 ॥
निजांशुनिर्दग्धदङ्गभस्मभिर्मुधा विधुर्वाञ्छति लाञ्छनोन्मृजाम् ॥
त्वदास्यतां यास्य?ति तावापि किं वधूवधेनैव पुनः कलाङ्कितः ॥ 9.146 ॥
जीवातु–निजेति । किधुश्चन्द्रः निजैरंशुभिः निर्दग्धस्त मदङ्गस्य मच्छरीरस्य भस्मभिर्लाञ्छनोन्मृजां स्वकलङ्कपरिमार्जनम् “षिदिभदादिभ्योऽङ्’ । मुधा वृर्थवे वाञ्छति, नलमुखसाम्यार्थमिति शेषः । तथा हि-हे प्रिये ! ववधूधेनमद्वधपातकेनैव पुनः कलङ्कितः सन् तावापि मदङ्गभस्मनोन्मार्जनेनापि त्वदास्यतां त्वत्तुल्यतामित्यर्थः । यास्यति प्राप्स्यति किम् ? न यास्यत्वेवेत्यर्थः । अत्र विधोर्नलास्यसाम्याय भैम्यङृगभस्मभिः स्वकलङ्कमार्जनाद्वधूवधकलंकप्राप्तिकथनादनर्थोतृपत्तिरूपो विषमालंकारः ॥ 9.146 ॥
अनवयः–विधुः निजांशंनिर्दग्धमदङ्गभस्मभिः लाञ्छनोन्मृजां मुधा वाञ्छति, वधूवधेन पुनः कलङ्कितः किं तावता अपि त्वदास्यतां यास्यति ? ॥ 9.146 ॥
प्रसीद यच्द स्वशरान् मनोभुवे स हन्तु मां तैर्धुतकौसुमाशुगः ॥
त्वदेकचित्ताहमसून् विमुञ्चती त्वमेव भूत्वा तृणवज्जयामि तम् ॥ 9.147 ॥
जीवातु–प्रसीदेति । हे प्रिय ! प्रसीद स्वशरान्मनोभुवे कालाय यच्छ देहि? । “पाघ्रा’–दिना दाणोयच्छादेशः स कामो धृतकौसुमाशुगः त्यक्तकुसुमबाणैस्तैस्वच्छैर्मां हन्तु हिनस्तु । तस्योपयोगमाह अहं त्वय्येकसिमश्चित्तं यस्याः सा सती असून् प्रणान् विमुञ्चती त्यजनती, “आच्छीनधोनधद्यीर्नुम्’ इति विकल्यान्नुमभावः । अत त्वमेव भूत्वा, “यं यं वापि स्मरन् भावम्’ इत्यादिगीताप्रामाण्यादिति भावः । तं कामं तृणवत्तृणतुल्यं जयामि जेष्यामीत्यर्थः । आशंसायां वर्तमानवत्प्रत्ययः ॥ 9.147 ॥
अन्वयः–प्रसदीद, स्वशरान् मनोभुवे यच्छ, धुतकौसुमाशुगः सः तैः यां हन्तु, त्वदेकचित्ता असून् विमुञ्चती अहं तृवम् एव भूत्वा तं तृणवत् जयानि ॥ 9.147 ॥,
श्रुतिःसुराणां गुणागायनी यदि त्वदङ्घ्रिमग्नस्य जनस्य किं ततः ॥
स्तवे रवेरप्सु कृताप्लवैः कृते न मुद्वती जातु भवेत् कुमुद्वती ॥ 9.148 ॥
जीवातु–ननु श्रुतयो1़पि देवानेव गायन्त किमिति तत्तेषु वेदवेद्येषु विगानमत आह–श्रुतिरिति । श्रुतिर्वेर्दोऽपि सुराणां गुणगायनी युणस्तोत्र्येव यदि, कर्तरि ल्युट्, टित्त्वात् ङीप् । त्वदङ्घ्रौ मग्नस्य त्वच्चरणैकशरणस्य जनस्य स्वस्येत्यर्थः । ततः किं तैर्देवैः कोऽर्थः इतृयर्थः । तथा हि-अप्सु कृताप्लवैः कृतावगाहैः जनैः रवेरर्कस्य स्तवे स्तोत्रे कृते सति कुमुदान्यस्यां सन्तीति कुमुद्वती कुमुदिनी, ‘कुमुदनडवेतसेभ्यो ङ्मतुप्’ टिलोपे ङीप् । जातु कदापि मुदस्यातीति मुद्वती मोदवती विकासवती न भवेत्,
कथमपीति शेषः । टृष्टान्तालकंकारो लक्षणन्तुक्तम् ॥ 9.148 ॥
अन्वयः–श्रुतिः यदि सुराणां गुणागायनी, त्वदङ्ध्रिमग्नस्य जनस्य ततः किम् ? अप्सु कृताप्लवैः रवे स्तवे कृते कुमुद्वती जातु मुद्वती न भवेत् ॥ 9.148 ॥
कथासु शिष्ये वरमद्य न ध्रिये ममावनन्तासि न भावमन्यथा ॥
त्वदर्थमुक्तसुतयाशु नाथ मां प्रतीपि जीवाभ्सयधिक ! त्वदेकिकाम् ॥ 9.149 ॥
जीवातु–कथास्विति । हे नाथ ! शिष्ये कथामात्रशेषा भवामि मरिष्यामीत्यर्थः । शिष असर्वोपयोग इति धातोर्दैवादिकात् प्राप्तकाले कर्तरि लट् । वरं मनाक् प्रियम् अद्य न ध्रिये न स्थास्ये न जिविष्यामीत्यर्थः । धृङ् अवस्थाने इति धातोस्तौ दादिकात् प्राप्तकाले कर्तरि लट् । “रिङ्शयग्लिङ्क्षु” इति रिङादेशः । अन्यथा जीवेन परीक्षणे मम भावमाशयं नावगन्तासि नावगमिष्यसि, गमेर्लुटि सिप् । त्वदर्थे तुभ्यं मुक्तासुतया त्यक्तप्राणतया आशु मां हे जीवाभ्यधिक ! अत एव त्वमेवैको मुख्यो यस्यास्तां त्वदेकिकां त्वदेकशरणामित्यर्थः
। शैशिके कपि कात्पूर्वस्येकारः । प्रतीहि जानीहि ॥ 9.149 ॥
अन्वयः–कथासु शिष्ये वरम्, अद्य घ्रिये न, अन्यथा मम भावं न अवनन्तासिं; नाथ, जीवाभ्यधिक, आशु त्वदर्थमुक्तासुतया मां तृवदेकिकां प्रतीहि ॥ 9.149 ॥
महेन्द्रहेतेरपि रक्षणं भयाद्यदर्थिसाधारणमस्त्रभृद्व्रतम् ॥
प्रसूनबाणादपि मामरक्षतः क्षपं तदुच्चैरवकीर्णिनस्तव ॥ 9.150 ॥
जीवातु–महेन्द्रेति । महेन्द्रहेतेर्वज्रायुधादपि यदभयं तस्माद्रक्षणं, 6भीत्रार्थानां भंयहेतुः’ इति क्रमादुभयत्रापादनत्वात् पञ्चमी । अर्थिस्वर्थिमात्रेषु साधारणमस्त्रभृतां व्रतं प्रसूनमेव बाणो यस्य स कुसुवबाणः
कामस्तस्मादपि मां स्त्रियमिति भावः, अरक्षतः अत एवावकीर्णिनःक्षतव्रतस्सय । “अवकीर्णी क्षतव्रतः’ इत्यमरः । तव तदुच्चौर्महत् व्रतं क्षतं सर्वाभयदानव्रतिनस्ते पुष्पभृतः स्त्रयुपेक्षणे भहत्कष्टमापन्नमित्यर्थः ॥ 9.150 ॥
अन्वयः–महेन्द्रहेतेः भयात् अपि यत् रक्षणम्, अर्थिसाधारणम् अस्त्रभृद्वृत्तम्; प्रसूनबाणात् अपि माम् अरक्षतः अवकीर्णिनः तव तत् उच्चैः क्षतम् ॥ 9.150 ॥
तवास्मि मां धातुमप्युपेक्षसे मृषामरं हामरगौरवात् स्मरम् ॥
अवेति चण्डालमनङ्गमङ्ग ! तं स्वकाण्डकारस्य मधोः सखा हि सः ॥ 9.151 ॥
जीवातु-तवेति । तवास्मि त्वदीयाहमस्मि, शरणागतत्राणां विहितमिति भावः । एवं सति मां धातुकं शरणानयस्त्रीहन्तारमपीत्यर्थः । “लषपते’ त्यादिनाअकञ् “न लोके’ त्यादिना कर्मणि षष्ठीनिषेधात् द्वितीया । अत एव मृषामरमलीकामरं स्मरममरमिति गौरवादुपेक्षसे हा कष्टम् ! किं तु अङ्ग ! भोस्तमनङ्गं चण्डालमवेहि । कुतः हि यस्मात्सोऽनङ्गः स्वकाण्डकारस्य, स्वेषुकारस्य मधोर्वसन्तस्य पुष्पकरत्वात् स्वस्य पुष्पाशुगत्वाच्चेति भावः । ‘काण्डोऽस्त्री दण्डबाण’ इत्यमरः । सखा हि इषुकारस्य चण्डाविशेषत्वात् तत्संस्गिंणोऽपि चण्डाल एवेत्यर्थः ॥ 9.151 ॥
अन्वयः–तव अस्मि; हा, मां घातुकम् अपि मृषामरं, स्मरन् अमरगौरवात् उपेक्षसे, अङ्ग, तम् अनङ्गं चण्डालम् अवेहि, हि सः स्वकाण्डकारस्य मघोः सखा ॥ 9.151 ॥
तघौ लघावेव पुरः परे बुधैविधेयमुत्तजनमात्मतेजसः ॥
तृणे तृणोढि ज्वलनः खलु ज्वलन् क्रमात् करीषद्रुमकाण्डमण्डलम् ॥ 9.152 ॥
जीवातु–लघावति । बुधैस्तज्झैः पुरः पूर्वा लघो लघावेव लधुप्रकारेऽल्पप्रकार एव । “प्रकारे गूणवचनस्ये’ति द्विर्भावः । परे शत्रौ पूर्वादिभ्यो विकल्पात् सर्वनामाभावः । आत्मतेजसः स्वप्रतापस्योत्तेजनमुद्दीपनं विधेयम् । तथा हि–ज्वलनोऽग्निः स नन्द्योदित्वाल्लश्युप्रत्ययः । तृणे ज्वलन् क्रमात्करीषाः शुष्कगोमयाः, “गोविड्गोमयमस्त्रियां तत्तु शुष्ककरीषोऽस्त्री’ इत्यमरः । तेषां द्रुमकाण्डनां दक्षस्कन्धानाञ्च मण्डलं समूहं तृणेढि हिनस्ति दहति खल्वित्यर्था । तृहि हिंसायां लट् “रुधादिभ्यः श्नम्’ ‘तृणह इम्’ गुणढत्वादिकार्यम् । विशेषेण सामान्यसमर्थान्तरन्यासः ॥ 9.152 ॥
अन्वयः–बुधैः लधो लघौ एव परे पुरः आत्मतेजसः उत्तेजनं विधेयम्, ज्वनलः तृणे ज्वलन् क्रमात्
खलु करीषद्रुमकाण्डमकाण्डमण्डलं तृणेढि ॥ 9.152 ॥
सुरापराधस्तव वा कियानय स्वयंवरायामनुकम्प्रता मयि ॥
गिरापि वक्ष्यन्ति मुखेषु तर्पणादिदं न देवा मुखलज्जयैव ते ॥ 9.153 ॥
जीवातु–सुरेति । तव स्वयमेव वृणोती स्वयंवराः “पचाद्यच्’ । तस्यां मयि अनुकम्प्रता अनुकमित्तृवं “नमिकम्पि’ इत्यादिना ताच्छील्ये णिनिप्रत्ययः । भावार्थे तल् प्रत्ययः । अयं कियान् सुरापराधः तत्प्रेषितस्यापिमया वृतत्वात्तो कोऽपराध इतृयर्थः । अथापराद्धत्वेऽपि मुखेषु तर्पणात् प्रीणनात् देवास्ते मुखलज्जयैव मुखदाक्षिण्येनैव इत्यर्थः । अथापराद्धत्वेऽपि मुखेषु तर्पणात् प्रीणानात् देवास्ते मुखलज्जयैव मुखदाक्षिण्येनैव इदमपराद्धत्वं गिरापि न वक्ष्यन्ति । अपिशब्दान्मनसापि न स्मरिष्यन्तीत्यर्थः ॥ 9.153 ॥
अन्वयः–वा स्वयंवरायां मथि तव अनुकम्प्रता अयं कियान् सुरापाधः ? मखेषु तर्पणात् ते देवराः मुखलज्जया एव इदं गिरा अपि न वक्ष्यन्ति ॥ 9.153 ॥
व्रजन्तु ते तेऽवि चरं स्वयंवरं प्रसाद्य तानेव मया वरिष्यसे ॥
न सर्वथा तानपि नस्पृशेद्दया न तेऽपि तावन्मदनस्त्वमेव वा ॥ 9.154 ॥
जीवातु–व्रव्रजन्त्विति । अथवा हे नल ! ते देवा अपि ते व सम्बन्धिनं स्वयंवरं व्रजन्तु वरं साध्वेवैतदित्यर्थः । कुतः, मया तानेव प्रसह्म प्रसन्नान् कृत्वा वरिष्यसे । न च ते दुराधर्षा इत्‌याह–सर्वथा तान् देवानपि दया न स्पृशेदिति न । किं तु स्पृशेदेवेत्यर्थः । सम्भवस्य निषेधनिवजर्तनो द्वौ नञ्प्रतिषेधौ स्तः । तेऽपि तावन्मदनस्त्वमेव वा न । लोके ल्वां मदनं च विना न कोऽपि निष्कृप इति भावः ॥ 9.154 ॥
अन्वयः–ते अपि स्वयंवरं व्रजन्तु, वरम्; मया तान् एव प्रसाद्य वरिष्यसे, तान् अपि सर्वथा दाया नस्पशेत्–न, ते अपि तावचन् न मदनः वा त्वम् एव ॥ 9.154 ॥
इतीयमालेख्यगतेऽपि वीक्षिते तवयि स्मरव्रीडसमस्ययाऽनया ॥
पदे पदे मौनमयान्तरीपिणी प्रवर्तिता सारधसारसारणी ॥ 9.154 ॥
जीवातु–इतीति । हे सौम्य ! आलेयगते चित्रगतेऽपि त्वयि वीक्षिते सति स्मरव्रीडयोः समस्यया समष्ट्या अनया मभैम्या पदे पदे वचलने स्थाने स्थाने अन्तर्गता आपोऽस्येत्यन्तरीपमन्तस्तट “द्वीयोऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्’ इत्यमरः । “ऋक्पू’ इत्यादिना समासान्तोऽप्रत्ययः । “द्व्यन्तरुपसर्गेभ्योऽप ई’ दितीकारः । मौनभयं मौनरूपमन्तरीपं यस्याः सा मौनान्तरीपोद्गतेत्यर्थः । सर्वध्वीतिवदिन्नन्तो बहुव्रीहिः, “अटकुप्वाङि’ त्यादिना णत्वम् । इतीयं उक्तरूस्पा सारघसारस्य मधुसारस्य सारणी स्वल्पनदी । ‘सारणी स्वल्पसरित्’ इति विश्वः । प्रवर्तिता चित्रगतस्य तवाग्रे एव मधुवर्षिणी वागुक्ततृयर्थः । अत्र विषयस्य वाचोऽनुपादानेन विषयिण्याः सारधसरण्या एवोपनिबन्धात्तयोर्भेदेऽप्यभेदोक्तेश्चातिशयोक्तिभेदः ॥ 9.155 ॥
अन्वयः–इति आलेरूगते अपि त्वयि वीक्षिते स्मरव्रडसमस्यया अनया पदे-पदे मौनयान्तरीपिणी इयं सारसारणी प्रवर्त्तिता ॥ 9.155 ॥
चण्डालस्ते विषमविशिखः स्पृश्यते दृश्यते स ख्यातोऽनङ्गस्त्वयि निजभिया किन्नु कृत्ताङ्गलीकः ॥
कृत्वा मित्रं मधुमधिवनस्थानमन्तश्चरित्वा सख्याः प्राणान् हरति हरितस्त्वद्यशस्तज्जुषन्ताम्॥9.156॥
जीवातु–चण्डाल इति । हे नल ! विषमविशिखः कामस्ते तव सम्बन्धी चण्डालः “वध्यांश्च हन्युः सततं यथाशस्त्रं नृपाज्ञये’ति स्मरणात् । माटृङ्मारणार्थमेव त्वया भृतः कोऽपि चण्डाल इत्यर्थ । अत एव न टृश्यते न स्पृश्यते च एकत्रानङगत्वादन्यत्र शास्त्रनिषेधाच्चेति भावः । किं च निजभिया स्वीयापराधदण्डभयेन त्वयि विषये त्वामुद्दिश्य कृत्ताङ्गुलीकः । अपराधेऽपि त्राणार्थं छिन्नाछाङ्गुलीकः । “नद्यृतश्च’ इति कष् । पह्ममङ्गुलिविच्छेद उरोविन्मस्यमक्षरम् । तन्नामकरणं चेति दास्यमेतच्चतुष्टय’ मिति दासविह्नत्वादिति भवः । अत एवाङ्गुलिविहीनत्वादनङ्गः ख्यातः किं नु ? अतः किमत आह–मधुंवसन्तमपि मित्रं कृत्वा सहायञ्च कञ्चन सम्पाद्येत्यर्थः । अन्तरन्तःकरणमेव अधिवनस्थानमरण्येदेशं चरित्वा भ्रान्तृवा सख्याः स्वरसख्या भैम्याः प्राणान् हरति तत्स्त्रीजन्यं त्वद्यशो दुर्यश इत्यर्थः । हरितो दिशो जुषन्तां सेवन्तां दिगन्तविश्रान्तमस्वित्यर्थः
अत्र कामस्यण्डालधर्मयोग्यचण्डाल्त्वेनोत्प्रेक्षणादुत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । मन्दाक्रान्तावृत्तमुक्तम्
॥ 9.156 ॥
अन्वयः–विषमविशिखः किन्तु ते चण्डालः न टृश्यते स्पृश्यते ? निजभिजा त्वयि कृत्ताङ्गुलीकः अनङ्गः ख्यातः अधिवनस्थानं मधुं मित्रं कृत्वा अन्तः ॥ 9.156 ॥
अथ भीमभुवैव रहोऽभिहितां नतमौलिरपत्रपश्या स निजाम् ॥
अमरैः सह राजसमाजगतिं जगतीपतिरभ्युपगम्य ययौ ॥ 9.157 ॥
जीवातु–अथेति । अथ भैमीवाक्यश्रवणान्नतरं जगतीपतिर्नलः भीमभुर्वव भैम्यैव रहो रहस्यभिहितां निजामात्मीयाममरैः सह राजसमाजस्य रासभाया गतिं प्राप्तिमपत्रपया स्ववरणलज्जया नतमौलिर्नभ्रमुखः सन् अभ्युपगभ्याङ्गीकृत्य यौ । तोटकवृत्तम् । ‘इह तोटकमबुधिसेः कथित’ मिति लक्षणात् ॥ 9.157 ॥
अन्वः–अथ सः जगतीपतिः भीमभुवा एव रहः अभिहितां निजाम् अमरैः सह राजसमाजगतिम् अपत्रपया नलमौलिः अभ्युपगम्य ययौ ॥ 9.157 ॥
श्वस्तस्याःप्रियमाप्तुमुद्धरधियो धराः सृजन्त्यारयान्नभ्रान्नम्रकपीलपालिपुलकैर्वेतस्वतीरश्रुणः ॥
चत्वारः प्रहराः स्मरातिभिरभूत् सा यद् क्षपा दुःक्षपा तत्तस्यां कृपयाखिलेव विधिना रात्रिस्त्रियामा कृता ॥ 9.158 ॥
जीवातु–श्व इति । श्वः परेऽहनि प्रियं नलताप्तमुद्धरधियः सन्नद्धबुद्धेः अत एव स्यात् प्रवाहवेगान्नभ्राश्चोननाम्नश्च दन्तुरा इत्यर्थः । तैः कपोलपालृयो र्गण्डभित्योः पुलकैरींमाञ्चैर्वेतस्वतीः वेतसलतावलीः, “कुमुदनडवेतसेभ्यो ङ्मतुप्, मादुपधायाश्चे’ त्यादिना मकारस्य वकारः । अश्रुणो धारा आनन्दबाष्प्रवाहान् सृजन्त्या जनयन्त्यास्तस्य भैम्याः यत् यस्मात् कारणात् चत्वारः प्रहरा अपि चतुर्याममात्रापीत्यर्थः । सा क्षपा स्मरार्तिभिः स्मरपीडाभिर्दुःक्षपां दुरतिवाहाभूत्, तत् तस्मादस्यां भैभ्यां कृपयां कपयैवेत्यर्थः । विधिना वेधसा अखिलैव सर्वापि रात्रिस्त्रियामा यामत्रयवत्येव कृता । सत्यममिति शेषः । ग्रम्योत्प्रेक्षा ॥ 9.158 ॥
अन्वयः–श्वः प्रियम् आप्तुम् उद्धरधियः रयात् नभ्रोननम्रकपोलपालिपुलकैः वेतस्वतीः अश्रुणा घाराः सृजन्त्याः तस्याः चत्वारः प्रहराः अपि सा क्षपा स्मरार्त्तिभिः यत् दुःक्षपा अभूत् तत् तस्यां कृपया एव विधिना अखिला रात्रिः त्रियामा कृता ॥ 9.158 ॥
तदखिलमिह भूतं भूत्यगत्या जगत्याः पतिरभिलपति स्म स्वात्मदूतत्वतत्त्वम् ॥
त्रिभुवनजनयावद्वृत्तान्तसाक्षत्कृतिकृतिषु निरस्तानन्दमिन्द्रादिषु द्राक् ॥ 9.159 ॥
जीवातु–तदिति । जगत्याः पृथिव्या पतिर्नलः इह दमयन्तीसमक्षं भूतं वृक्षं तदखिलं स्वातृमन3 स्वस्य दूतत्वं तत्त्वं दूतस्वरूपं त्रयाणां भुवनानां समाहारस्त्रिभुवनं, “तद्वितार्थे’ त्यादिना समाहारे द्विगुः । “द्विगुरेकवचनं’ पात्रादित्वानन स्त्रीत्वम् । तस्मिन् जनाना यावन्तो वृत्ता यावददृत्तं “यावदवधारण’ इत्यव्ययीभावः । यावद्वृत्तञ्च ते वृत्तान्ताश्च तेषां साक्षात्कृतौ साक्षत्करणे कृतिषु कुशलेष्विन्द्रादिषु विषये द्रोक् सपदि निरस्तानन्दं तेषामिष्टविधाताद्विहतसन्तोषं यथा तथा भूतगत्यासत्यभङ्‌ग्या । “युक्ते क्ष्मादावृते भूतं प्राण्यतीते समे त्रिषु’ इत्यमरः । अभिलपति स्म कथितवान् । मालिनीवृत्तम् । “ननमयययुतेयं मालिनी भोगिलोकैः’ इति लक्षणात् ॥ 9.159 ॥
अन्वयः–जगत्याः पतिः इह भूतम् अखिलं तत् स्वातृमदूतत्वतत्त्वे त्रिभुवनअनयावद्वत्तवृत्तान्तसाक्षात्कृतिकृतिषु इन्द्रादिषु द्राक् निरस्तानन्दं भूतगत्या अभिलपति स्म ॥ 9.159॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितेन्द्रयचयं मामल्लदेवी च यम् ॥
संदृब्धार्णववर्णनस्य नवमस्तस्सय व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्जवलः
॥ 9.160 ॥
जीवातु–श्रीहर्षमिति । सन्द्दब्ध ग्रथितमर्णववर्णनर्माववर्णनाख्याप्रकन्धो येन तस्येत्यर्थः । “ग्रथितं ग्रन्थितं टृब्धम्’ इत्यमरः ॥ 9.160 ॥
इति मल्लिनाथसूरिविरिचिते “जीवातु’ समाख्याने नवमः सर्गः समाप्तः ॥ 9.160 ॥
अन्वयः–प्रथम दो चरर्णो का पूर्ववत् । संटृब्धार्णववर्णनस्य तस्य चारुणि महाकाव्ये नैषधीयचरिते निसर्गोज्वलः नवमः सर्गः व्यरंसीत् ॥ 9.160 ॥
टिप्पणी–श्रीहर्ष द्वारा “र्णववर्णन’–प्रणयन का संकेत ॥ 9.160 ॥
नैषधीयचरित का नवम सर्ग समाप्त ।

****************************************************************************

.

नैषधीयचरितम्

दशमः सर्गः

?0 ?0रथैरथायुः कुलजाः कुमाराः शस्त्रेषु शास्त्रेषु च दृष्टपाराः ॥
स्वयंवरं शम्बरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः ॥ 10.1 ॥
जीवातु–अथ स्वयंवरवृत्तान्त वर्णयति–रथैरित्यादि । अथ नलप्रयाणानन्तरं कुलजाः कुलीनाः शस्त्रेषु श्?ास्त्रविद्यासु शस्त्रेषु त्रय्यादिषु च टृष्टं पारं यैस्ते टृष्टापराः पारटृशवानः शम्बरवैरिणः कामस्य, यः कायव्यूहः शम्बरासुरजयार्थं मायया गृहीतो यः शरीरसमूहः, तस्य श्रीरिव श्रीः शोभा येषां ते कन्दपैकल्पा इत्यर्थः । श्रिया सम्पदा जितो यक्षराजः कुबेरः यैस्ते कुमारा राजकुमाराः “कन्या वरयते रूपमि’त्याद्युक्तसमग्रगुणसम्पन्ना इत्यर्थः । रथैः साधनैः स्वयं व्रियतेऽस्मिन्निति स्वयंवरस्तम् । “ऋदोरप्’ । स्वयंवरभुवं, तदा आयुः आयातः । आङ् पूर्वाद्यातेर्लङि “लङः शाकटायनस्यैवेति’ वैकल्पिको झेर्जृसादेशः । अत्र कायव्यूहश्रिय इति निदर्शना, श्रीजितयक्षराजाश्च व्यतिरेकः इत्यलङ्कारयोः संसृष्टिः । अस्मिन् सर्गे उपेन्द्रवज्र्?ो न्द्रवज्रातदुपजातयश्च वृत्तानि ॥ 10.1 ॥
अन्वयः–अथ कुलजाः शस्त्रेषु शास्त्रेषु च टृष्टपाराः शम्बरवैरिकायव्यूहश्रियः श्रीजितयक्षराजाः कुमाराः रथैः स्वयंवरम् आयुः ॥ 10.1 ॥
नाभूदभूमिः स्मरसायकानां नासीदगन्ता कुलजः कुमारः ॥
नास्थादपन्था धरणेः कणोऽपि व्रजेषु राशां युगपद्व्रजत्सु ॥ 10.2 ॥
जीवातु–नेति । कुलजः कुलीनः, कोऽपीति शेषः । कुमारः स्मरसायकानामभूमिरविषयो नाभूत् तथा अगन्ता स्वयंवराप्रयाता च नाभूत् । किञ्च राज्ञां व्रजेषु युगपद्व्रजत्सु सत्सु धरणेः कणोऽपि भूलेशोऽप्पपन्था अपथं मार्गशून्य इत्यर्थः ‘पथो विभाषा’, इति विकल्पात् समासान्ताभावः । नास्थान् न स्थितः, “गतिस्थे’त्यादिना सिचो लुक् । अत्र राज्ञां कार्त्स्न्येन स्मेरेषुविषयत्वस्वयंवरगन्तृत्वाभ्यां सकलभूमेः पथित्वेन चासम्बन्धेऽपिसम्बन्धोक्तेरतिशयोक्तिभेदः ॥ 10.2 ॥
अन्वयः–कुलजः ( कोऽपि ) कुमारः स्मरसायकानाम् अभूमिः न अभूत्, अगन्ता न आसीत्; राज्ञां व्रजेषु युगपद् व्रजस्तु धरणेः कणः अपि अपन्थाः न अस्थात् ॥ 10.2 ॥
येग्येर्व्रजदिभर्नृपजां वरीतुं वीरैरनर्हैः प्रसभेन हर्तुम् ॥
द्रष्टुं परैस्ताननुरोद्धुमन्येः स्वमात्रशेषाःककुभो बभूवुः ॥ 10.3 ॥
जीवातु–योग्यैरिति । योग्यै रूपयौवनादिना सम्बन्धाहैः नृपजां भैमीं वरीतुम् । “वृतो वा’ इति दीर्धः । अनहैः रूपयौवनादिशुन्यैः, वीरः प्रसभेन बलेन हर्तुं परैः कैश्चिन्निःस्पृहैः केवलं द्रष्टुमेव स्वयंवरमिति शेषः, अन्यैस्तु तान् राजन्यादीननुरोद्धुमुपासितुं व्रजदिभः करणैस्तद्राजन्यैरित्यर्थः । ककुभो दिशः स्वमात्रशेषाः स्वरूपमात्रावशिष्टा बभूवुः । अत्रापि ककुभां स्वमात्रशेषत्वासम्बन्धेऽपि सम्बन्धोक्तेरतिशयोक्तिभेदः॥ 10.3॥
अन्वयः–योग्येः नृपजां वरीतुम् अनहैः वीरैः बसभेन हर्त्तुम् परैः द्रष्दुम् अन्यैः तान् अनुरोद्धुम् व्रजदिभः ककुभाः स्वमात्रशेषाः बभूवः ॥ 10.3 ॥
लोकैरशेषैरवनिश्रियन्तामुद्दिश्य दिश्यैर्विहिते प्रयसणे ॥
स्ववर्तितत्तज्जनयन्त्रणार्तिविश्रान्तिमापुः ककुभां विभागाः ॥ 10.4 ॥
जीवातु–लोकैरिति । अवनिश्रियं भूलोकलक्ष्मीं तां भैमीमुद्दिश्याभिसन्धाय दिश्यैर्दिक्षु भवैः, “दिगादिभ्यो यत्’ । अशेषैर्लोर्जनैः प्रयाणे विहिते सति ककुभां विभागाः प्रदेशाः स्ववर्तिनां स्वनिष्ठानां तेषां तेषां जनानां
यन्?त्रणया सम्बन्धेनार्तेः पीडायाः विश्रान्तिं विरतिमापुः, भारराहित्यात् सुखावस्थानं चक्रुरित्यर्थः । तद्वदलक्ष्यतेत्युत्प्रेक्षा गम्या ॥ 10.4 ॥
अन्वयः–अवनिश्रियं ताम् उद्दिश्य दिश्यैः अशेषैः लोकैः प्रयाणे विहिते ककुभां विभागाः स्ववर्त्तितत्तज्जनयन्त्रणार्तिविश्रान्तिम् आयुः ॥ 10.4 ॥
तलं यथेयुर्न तिला विकीर्णाः सैन्यैस्तथा राजपथा बभूवुः ॥
भैमीं स ल्बक्षामिव तत्र मेने यः प्राप भूभृदभविर्तु पुरस्तात् ॥ 10.5 ॥
जीवातु–तलमिति । यथा विकीर्णा उपरि क्षिप्तास्तिलास्तलं भूतलं नेयुः नाप्नुयुः सैन्यैः सैनिकैः सैनिकैः । “सेनायां समवेता ये सैन्यास्ते सैनिकाश्च ते’ इत्यमरः । “सेनाया वे’ति ण्यप्रत्ययः । राजपथा राजमार्गास्तथा तिलमात्रावकाशरहिता बभूवुः । ताटृक्सम्बन्धासम्बन्धेऽपि तत्सम्बन्धस्योक्तेरतिशयोक्तिभेदः । किञ्च तत्र समये यो भूभृद्राजा पुरस्तादभवितुं गन्तु प्राप्तः स राजा भैमीं लब्धामिव मेने । यदि पूर्वगतो भवेयं तर्हि स्वयं भैमीं लप्स्य इत्यभिमानादहंपूर्विकया सर्वे समाजग्मुरित्यर्थः
॥ 10.5 ॥
अन्वयः–यथा विकीर्णाः तिकाः तलं न ईयुः तथा सैन्यैः राजपाथा गभूवुः, तत्र यः भूभृत् पुरस्तात् भविर्तु प्राप, सः भैमीं लब्धाम् इव मेन ॥ 10.5 ॥
नृपः पुरःस्थैः प्रतिरुद्धवर्त्मा पश्वत्तनैः कश्चन नु़द्यमानः ॥
यन्त्रस्थ सिद्धार्थपदाभिषेकं लब्धवाप्यसिद्धार्थममन्यत स्वम् ॥ 10.6 ॥
जीवातु–नृप इति । पुरःस्थैर्जनैः प्रतिरुद्धवर्त्मा निरुद्धमार्गः पश्चात्तनैः पश्चादभवैः पृष्ठत आगतैरित्यर्थः “सायं चिरमि’त्यादिना ट्युल्प्रत्ययस्तुडागमश्च । नुद्यमानः प्रेर्यमाणः कश्चन नृपः यन्त्रस्थस्य तैलाकर्षणयन्त्रलग्नस्य सिद्धार्थस्य सर्षपस्य पदे स्थाने अभिषेकं लब्ध्वापि सर्षपत्वं प्राप्यपीत्यर्थः । स्वमात्मानसिद्धार्थमसर्षपममन्येतेति विरोधः । अपिशब्दो विरोधद्योतनार्थः । असिद्धार्थं भैमीप्राप्तिरूपसिद्धिरहितममन्यतेत्यविरोधाभासोऽलङ्कारः । अत्र संमर्दे यन्त्रस्यर्षपवद्विशीर्णस्य मे कुतोऽर्थसिद्धिरित्यमन्सयतेत्यर्थः ॥ 10.6 ॥
अन्वयः–पुरःस्यैः प्रतिरुद्धवर्त्मा पश्चात्तनैः नुद्यमानः कश्चनः नृपः यन्त्रस्थसिद्धार्थपदाभिषेकं लब्ध्वा अपि स्वम् असिद्धार्थम् अमन्यत ॥ 10.6 ॥
राज्ञां पथि स्तानतयानुपूर्वीविलङ्घनाशक्तिविलम्बभाजाम् ॥
आह्वानसंज्ञानमिवाग्रकम्पैर्दधुर्विदर्भेन्द्रपुरीपताकाः ॥ 10.7 ॥
जीवातु–राज्ञामिति । विदर्भेन्द्रपुरी कुण्डिनपुरं तस्यां पताकाः अग्रकम्पैः स्वाग्रचलनैः पथि मार्गे स्त्यानतया संहततया सैन्यसङकीर्णतयेत्यर्थः । ‘संयोगादेरातो घातोर्यण्वत’ इति स्त्यायतेर्निष्ठानत्वम् । अज्ञनुपूर्वीविलङ्धनाशक्त्या अक्रमचङ्क्रमणाशक्त्या विलम्बभाजां राज्ञामाह्वानसंज्ञानमाकारणचेष्टां दधुरिवेत्युत्प्रे क्षा ॥ 10.7 ॥
अन्वयः–विदर्भैन्द्रपुरीपताकाः अग्रकम्पैः पथि स्त्यानतया आनुपूर्वीविलङ्धनाशक्तिविलम्बभाजाम् आह्वानसंज्ञानम् इव दधुः ॥ 10.7 ॥
प्राग्भूय कर्कोटक आचकर्ष सकम्बलं नागबलं यदुच्चैः ॥
भुवस्तले कुण्डिनगामिराज्ञां यद्वासुकेश्चाश्वतरोऽन्वगच्छत् ॥ 10.8 ॥
जीवातु–प्रागिति । भुवस्तले भूपृष्ठे कुण्डिनगामिनाम् । श्रितादिषु गमिगाम्यादीनामुपसङ्ग्यानात् द्वितीयासमासः । राज्ञां सम्बन्धि सकम्बलं सप्रावारमुचचैर्महद्यन्नागबलं गजबलं ( कर्म ) कर्क इति पदच्छेदः । अटतीत्यटकः शीध्रं गन्ता, हृद्यगतिर्वा । “बहुलमन्यत्रापी’त्यौणादिकः क्युन्प्रत्ययः । कर्कः’ इत्यमरः । जातावेकवचनम् । प्राग्भूय अग्रसरो भूत्वा प्रागिति च्वयन्तस्य गितित्वाद्गतिसमासे क्त्वो ल्यप् । आचकर्षआकृष्टवान् । अश्वपूर्वं गजा गच्छन्तीति प्रसिद्धम् । तन्नागबलमश्वतरो गर्द भाकृष्टवान् । अश्चपूर्व गजा गच्छन्तीति प्रसिद्धम् । तन्नागबलमश्वतरो गर्दभादश्वायामुत्प्रन्नो वेसरारूयो वानविशेषः ।
“वत्सोक्षाश्वर्षभेम्यश्च तनुत्वे’ इति तरप्रत्ययः । तस्य तनुत्वमन्यपितृकतेति काशिका । सोऽन्वगच्छत् । अत्रापि जातावेकवचनम् । अग्रतोऽश्चास्ततो गजास्ततोऽश्वतरा जग्मुरित्यर्थः । अन्यत्र भुवस्तले रसासतले कुण्डिनगामिनः वासुकेर्वासुकिमहानागस्य सम्बन्धि, सकम्बलं कम्बलारूयनागेन्द्रसहितम् । ‘कम्बलो नागराजे स्यात् सास्त्राप्रावारयोरपि’ इत्युभयत्रापि विश्वः । यदुच्चैर्नागबलहिसैन्यं “ग्रहाभ्राहिगजे नागाः’ इत्युभयत्रापि वैजयन्ती । कर्कोटको नाम नागविशेषः प्राग्भूयाचकर्ष तं नागबलमश्वतरो नाम नागविशेषोऽन्वगच्छत् । “अश्वतरो वेसरे च नागराजान्तरेऽपि च’ इत्युयत्रापि विश्वः । कम्बलकर्कोटकाश्वतरादियुक्तो वासुकिश्च सबल आगत इत्यर्थः । अत्रोभयोः करिनागबलयोः प्रकृतत्वात् केवलं प्रकृतिश्लेषः ॥ 10.8 ॥
अन्वयः–भुवस्तले कुण्डिनगामिराज्ञां सकम्बलम् उच्चैः यत् नागबलं प्राग्भूय कर्कोटकः आचकर्ष् तत्
अश्वतरः अन्वगच्छत्, वासुकेः च ॥ 10.8 ॥
आगच्छदुर्वीन्दचमूसमुत्थैर्भुरेणुभिः पाण्डुरिता मुखश्रीः ॥
विस्पष्टमाचष्ट दिशां जनेषु रूपं पतित्यागदशानुरूपम् ॥ 10.9 ॥
जीवातु-आगच्छदिति । आगच्छतामुर्वीन्द्राणां राज्ञाञ्चमूसमुत्थैर्भूरेणुभिः पाण्डुरिता धूमरीकृता दिशां मुखश्रीः पतित्यागदशानुरूपं भर्तुप्रवासावस्थोचितरूपं प्रोषिते मलिना कृशेत्युक्ताकारं जनेषु विषये विस्पष्टमाचष्ट जनेभ्यः प्रकटीचकारेत्यर्थः । अत्रान्यधर्मस्यान्त्रासम्भवाद्दिशां प्रोषितभर्तृकारूपमिव रूपमिति साटृश्याक्षेपादसम्भवद्वस्तुसम्बन्धाख्यो निदर्शनाभेदः हरिद्वधुनामिति देशान्तरपाठे रूपकं व्यक्तम् ॥ 10.9 ॥
अन्वयः–आगच्छदुर्वीन्द्रचमूसमुतृथैः रेणुभिः पाण्डुरिता दिशां मुखश्रीः पतित्यागदशानुरूपं रूपं जनेषु विस्पष्टम् आच्ट ॥ 10.9 ॥
आखण्डलो दण्डधरः कृशानुः पाशीति नाथैः ककुभां चतुर्भिः ॥
भैम्येव बद्ध्वा स्वगुणेन कृर्ष्टर्यये तदुद्वाहरसान्न शेषैः ॥ 10.10 ॥
जीवातु–अथेन्द्रादिलोकपालवृत्तान्तमाह–आखण्डल इति । आखण्डलः इन्द्रः, दण्छधरो यमः, कृशानुरग्निः, पाशी वरुण इति प्रसिद्धैः चतुर्भि ककुभां नार्थः भैम्याः स्वगुणेन स्वसौन्द्रगुणेनैव गुणरज्जवेति श्लिष्टरूपकं बद्ध्वा कृष्टैरिवेत्युत्प्रेक्षा । तदुद्वाहरसादभैमीपरिणयरागादेव यये कुण्डिनं प्रति यातम् । यातेर्भावे लिट् । शेषैरवशिष्टैः र्नर्ऋतादिभिः षङ्भिर्ज यये ॥ 10.10 ॥
अन्वयः–आखण्डलः दण्डधरः कृशानुः पाशी-इति चतुर्भिः ककुभां नाथैः भैम्या स्वगुणेन बद्ध्वा इव कृष्टैः तदुद्वाहरसात् ययैः शेषैः न ॥ 10.10 ॥
मन्त्रेः पुरं भीमपुरोहितस्य तद्वद्धरक्षं विशति क्व रक्षः ॥
तत्रोद्यमं दिक्पतिराततान यातुं ततो जातु न यातुधानः ॥ 10.11 ॥
जीवातु–अथ षङ्भिर्नैर्ऋताद्यनागमने कारणमाह–मन्त्रैरित्यादि । भीमस्य भीमभूपतेः पुरोहितस्य मन्त्रैः रक्षोध्नमन्त्रैर्बद्धरक्षं कृतरक्षणं तत् पुरं कुण्डिनपुरं रक्षो राक्षसः क्व विशति न क्वापीत्यर्थः । ततो रक्षाबन्धाद्धेतोः यातुधानो नैर्ऋतः, दिक्पतिः जातु कदापि तत्र पुरं यातुं गन्तुमुद्यमं यनाततान न चकार
॥ 10.11 ॥
अन्वयः–रक्षः भीमपुरोहितस्यमन्त्रैः बद्धरक्षं तत् पुरं क्व विशति ? ततः यातुधानः दिक्पतिः जातु तत्र यातुम् उद्यमं न आततान ॥ 10.11 ॥
कर्तुं शाकाभिमुखं न भैम्या मृगं दृगमृभोरुहनिर्जितं यत् ॥
तस्या विवाहाय ययौ विदर्भान् तद्वाहनस्तेन न गन्धवाहः ॥ 10.12 ॥
जीवातु–कर्तुमिति । गन्धवाहो वायुः भैम्याः टृगम्भोरुहाभ्यां नयनारविन्दाभ्यां निर्जितं मृगं स्ववाहनमृगमभिमुखी कर्तु न शशाकेति यत् तेनाशक्तत्वेन तद्वाहनो मृगवाहनः सन् इति शेषः । तस्या भैम्याः विवाहाय विदर्भान् जनपदान् न ययौ । वाहनं विना गन्तुमशक्त्वादिति भावः ॥ 10.12 ॥
अन्वयः–गन्धवाहः भैम्याः भैम्याः टृगम्भोरुहनिर्जितं मृगं यत् अभिमुखं कर्तुं’ न शशाक तेन तद्वाहनः तस्याः विवाहाय विदर्भान् न ययौ ॥ 10.12 ॥
जातौ न वित्ते न गुणे न कामः सोन्दर्य एव प्रवणाः स वामः ॥
स्वच्छस्वशैलेखितकुत्सबेरतस्तां प्रत्यगान्न स्त्रितरां कुबेरः ॥ 10.13 ॥
जीवातु–ननु श्रुतवित्तादिसम्पन्नः कुबेरः किमिति न यातस्तत्राहजाताविति । कामः कुमार्याः, अभिलाषः, जातावभिजने कौलीन्ये इत्यर्थः । प्रवणो न तत्परः, वित्ते धने च न प्रवणः, गुणे श्रुतशीलादौ च न प्रवणः, किन्तु सौन्दर्य एव प्रवणः । कुतः ? स कामो वामो वक्रः, सुन्दरश्च इत्यर्थः । अत एव भणन्ति–“कन्या वरयते रूपमि’ति । तस्मात् स्वच्छे स्फटिकमयत्वाद्विम्बग्राहिणी स्वशैले कैलासे ईक्षिता कुत्सा गर्हा यस्य तत् वेरं शरीरं यस्य सः, सम्यगवगतस्वकौरूप्य इत्यर्थः । स कुबेर स्त्रितरामुत्कृष्टस्त्रीं त्रैलोक्यसुन्दरीमित्यर्थः । “नद्याः शेषस्यान्यतरस्यामि’ति धादिपरो ह्रस्वः । तां दमयन्तीं प्रति नाऽगात्, कौरूप्यलज्जया न गत इत्यर्थः ॥ 10.13 ॥
अन्वयः–कामः न जातौ, न वित्ते, न गुणो प्रवणः, सः वामः सौन्दर्ये एव, स्वच्छस्वशैलेक्षितकुत्सबेरः कुबेरः तां स्त्रितरां न प्रत्यगात् ॥ 10.13 ॥
भैमीविवाहं सहतेऽस्य कस्मादर्थं तनुर्या गिरिजा स्वभर्तुः ॥
तेन व्रजन्त्या विदधे विदर्भानीशानयानाय तयान्तरायः ॥ 10.14 ॥
जीवातु–भैमीति । गिरिजा पार्वती स्वभर्तु रीश्वरस्य भैमीविवाहं कस्मात् सहते न कस्मादपीत्यर्थः । असहने कारणमाह–या भर्तु रर्द्ध तनुः समांशसमांशपरत्वान्नपुंसकत्वं, “पुंस्यर्धोऽर्धं समेऽशके’ इत्यमरः । भर्तुरर्धाङ्गभूता कथं सापरत्नयं सहत इति भावः । तेनासहनेन निमित्तेन विदर्भान् जनपदान् व्रजन्त्या तया देव्या ईशानस्येश्वरस्य यानाय विदर्भान् प्रति प्रयाणाय अन्तरायो विदध्नो विदधे विहितः । अचलत्यर्धे कथमर्धान्तरं चलेत् चलने वा शरीरं विशीर्येत निष्क्रियं वा स्यात् । तस्मादीशानदिक्पालो नायात इत्यर्थः
॥ 10.14 ॥
अन्वयः–या स्वभर्त्तुः तनुः गिरिजा कस्मात् अर्थम् अस्य भैमीविवाहं सहते ? तेन विदर्भान् व्रजन्त्या तया ईशानयानाय अन्तरायः विदधे ॥ 10.14 ॥
स्वयंवरं भीमनरेन्द्रजाया दिशः पतिर्न प्रविवेश शेषः ॥
प्रयासु भारं स निवेश्य कस्मिन्नहिर्महीगौरवसासहिः कः ॥ 10.15 ॥
जीवातु–स्वयंवरमिति । दिशः पतिर्दिक्पालः शेषः शेषाहिः भीमनरेन्द्रजाया भैम्याः स्वयंवरं न प्रविवेश । कुतः स शेषो भारं भूभारं कस्मिन्निवेश्य निधाय प्रयातु न कस्मिन्नपीत्यर्थः । तथा हि महीगौरवं महीभारं सासहिर्भृशं सोढा । ‘सहिवचिलिपतिभ्यो यङ्न्तेम्यः किकिनौ वक्त्वयौ’ इति किकिनौ तयोर्लिङ्वदभावात् “न लोक’ इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया । अन्योऽहिः सर्पंः कोऽस्ति न कोऽपीत्यर्थः ॥ 10.15 ॥
अन्वयः–दिशः पतिः शेषः भीमनरेन्द्रजायाः स्वयंवरं न प्रतिवेश; कस्मिन् भारं निवेश्य प्रयातु ? कः अहिः महीगौरवसासहिः ? ॥ 10.15 ॥
ययौ विमृश्योर्ध्वदिशः पतिर्नं स्वयंवरं वीक्षितधर्मशास्त्रः ॥
व्यलोकि लोके श्रुतिषु स्मृतौ वा समं विवाहः क्व पिताम हेन ॥ 10.16 ॥
जीवातु–ययाविति । वीक्षितं सम्यक् परिशीलितं धर्मशास्त्रं येन स ऊर्ध्वदिशः पतिर्ब्रह्मा विमृश्यायुक्तमिति निश्चित्यैव स्वयंवरं न ययौ । तथा हि पितामहेन ब्रह्मणा पितुः पित्रा च समं विवाहः । “पितामहो विरि?ञ्चि स्यात्तातस्तु जनकोऽपि च’ इति विश्वः । लोके क्व व्यलोकि टृष्टः ? श्रुतिषु वेदेषु स्मृतौ धर्मशास्त्रे वा क्वश्रुत ? न क्वापीत्यर्थः । “असपिण्डां यवीयसीम्’ इति स्मरणादिति भावः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ 10.16 ॥
अन्वयः–वीक्षितधर्मशास्त्रः ऊर्ध्वदिशः ऊर्ध्वदिशः पतिः विमृश्य स्वयंवरं न ययौ; पितामहेन समं विवाहः लोके, श्रुतिषु, स्मृतौ वा क्व विलोकि ? ॥ 10.16 ॥
भैमीनिरस्तं स्वमवेत्य दूत्या मुखात् किलेन्द्रप्रमुखा दिगीशाः ॥
स्वन्दे मुखेन्दौ च वितत्य मान्द्यं चित्तस्य ते राजसमाजमीयुः ॥ 10.17 ॥
जीवातु–भैमीति । अथ पूर्वोक्ताश्चत्वार एव इन्द्रप्रमुखा दिगीशा दूत्याः स्वप्रेषितदूतिकायाः मुखात् स्वामात्मानं भैम्या निरस्तं परिहृतमवेत्य ज्ञात्वा चित्तस्य मान्द्यं विषादजाड्यं स्पन्दे गत्यां मुखेन्दौ च वितत्य प्रकाश्य विषादात् मन्दगतयो विवर्णमुखाश्च भूत्वेत्यर्थः । एतेन सानुभावो विषाद उक्तः । राजसमाजमीयुः किल ॥ 10.17 ॥
अन्वयः–ते इन्द्रप्रमुखाः दिगीशाः दूत्याः मुखात् स्वयं भैमी निरस्तम् अवेत्य स्वपन्द्रे मुखेन्दौ च चित्तस्य मान्द्यं वितत्य किल राजसमाजम् ईयुः ॥ 10.17 ॥
नलभ्रमेणापि भजेत भैमी कदाचिदस्मानितिशेषिताशा ॥
अभून्महेन्द्रादिचतुष्टपी सा चतुर्नली काचिदलीकख्पा ॥ 10.18 ॥
जीवातु–अथोपायान्तरवैफल्यादिन्द्रादयः तां वञ्चयित्वा ग्रहीतुं प्रवृत्ता इत्याह-नलेति । अथ राजसभाप्राप्तनन्तरं सा महेन्द्रादीनां चतुष्टयी भैमी कदाचित् कस्याञ्चिद्वेलायां नल इति भ्रमेण भ्रान्त्याप्यस्मान् भजेत वृणीतेत्येव शेषिताशा एतावन्मात्रावशेषितमनोरथा सती । उपायान्तरोपगमादिति भावः । अलीकरूपा काल्पनिकस्वरूपा अत एव काचिदनिर्वाच्या चतुर्नली नलचतुष्टयी अभूत् । चत्वारोऽपि नलरूपं दधुरित्यर्थः । “तद्धितार्थे"त्यादिना समाहारद्विगावकारान्तोत्तरपदत्वात् स्त्रियां “द्विगो’रिति ङीप् ॥ 10.18 ॥
अन्वयः–कदाचित् भैमी नलभ्रमेण अपि अस्मान् भजेत-इति शेषिताशा सा महेन्द्रादिचतुष्टयी अलीकरूपा काचित् चतुर्नली अभूत् ॥ 10.18 ॥
प्रयश्स्यतान्तदभवितुं सुराणां दृष्टेन पृष्टेन परस्परेण ॥
तर्द्द्वतसिद्धिर्न बतानुमेने स्वाभविकात् कृत्रिममन्यदेव ॥ 10.19 ॥
जरोवातु–प्रयस्यतामिति । असः स भवितुं तदभवितुं नलीभविर्तु तच्छब्दात् “अभूततदभदभावे च्चिः’। प्रयस्यतां प्रयतमानानां यस्यतेः दैवादिकाल्लटः शत्रादेशः । सुराणां सम्बन्धिनि द्वयोर्भावो द्विता, द्वितैव द्वैतं, प्रज्ञादित्वात् स्वार्थेऽण्प्रत्ययः । तस्य नलस्य द्वैतं ?तत्सिद्धिर्द्वितीयनलत्वसिद्धिः । तदत्यन्तसारूपयसिद्धिरिति यावत् । टृष्टेन असौ नलतुल्यो जातो न वेति जिज्ञासितेन, परस्परेण नानुमेने । अतिप्रयासेनापि नलतुलां नारोहदेवेति भावः । बतेति खेदे । तथाहि-स्वाभाविकात् स्व्भावसिद्धाद्रूपात् क्रियया निर्वुत्तं कृतक रूपं ‘ङ्वितः क्रिः,’ ?“त्रेर्मम्नित्यम्’ इति क्रिर्मप् च । अन्यद्विलक्षणमेव हीनमेवेत्यर्थः । सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ 10.19 ॥
अन्वयः–तद्भवितुं प्रयस्यतां सुराणां परस्परेण टृष्टेन पृष्टने बत तद्द्वैतसिद्धिः न अनुमेने; स्वाभाविकात् कृत्रिमम् अन्यत् एव ॥ 10.19 ॥
पूर्णेन्दुमास्यं विदधु पुनस्ते पुनर्मुखीचक्रुरनिद्रमब्जम् ॥
स्ववक्त्रमादर्शतलेऽथ दर्शं दर्शं बभञ्जुनं तथातिमञ्जु ॥ 10.20 ॥
जीवातु-पूर्णेन्द्रुमिति । ते देवाः पुनः पूर्णेन्दु पूर्णचन्द्रमेवास्यं विदधुः मुखं चक्रः । तथा पुनरनिद्रं विकचमब्जं पद्मं मुखीचक्रुः । नलमुखसाम्यलाभाय पुनश्चन्द्रेण पद्मेन च मुखानि निर्ममुरित्यर्थः । अथानन्तरं स्वक्त्रमादर्शतले दर्पणान्तर्दर्शं दर्शं टृष्ट्वा टृष्ट्वा पुनः पुनर्टृष्ट्वेत्यर्थः । आभीक्ष्ण्ये णमुल् द्विर्वचनं च । तथा नलमुखवदतिमञ्जु अतिसुन्दरं नेति बभञ्जुर्भग्नं चक्रुः निनिन्दुरित्यर्थः । अत्र पूर्णेन्द्वादिकारणसामान्येऽपि विवक्षितकार्यानुत्पत्तिकथनाद्विशेषोक्तिरलङ्कारः । “तत्सामान्यामनुत्पत्तिर्निगद्यत’ इति लक्षणात् ॥ 10.120 ॥
अन्वयः–पुनः ते पूर्णेन्द्रम्, अनिद्रम् अब्जम् आस्यं विदधु; अथ स्ववक्त्रम् आदर्शतले दर्शा दर्शं तथा अतिमञ्जु न–बभञ्चुः ॥ 10.20 ॥
तेषां तथा लब्धुमनीश्वराणां श्रियं निजास्येन नलाननस्य ॥
नालं तरीतुं पुनरुक्तिदोषं बर्हिर्मुखानामनलाननत्वम् ॥ 10.21 ॥
जीवातु–तेषामिति । तथा तेन प्रकारेण निजास्येन प्रयोज्जेन नलाननस्य श्रियं लब्धुं लम्बभयितुमिति णिजर्थो ग्राह्मः । यद्वा निजास्येन साधनेन तां श्रियं लब्धुं प्राप्तुमनीश्वराणामसमर्थानां बर्हिर्मु खानामग्निवक्त्राणाम्, “अग्निमुखा वै देवाः’ इति श्रुतेः । “बर्हिर्मु खाः क्रतुभुजः, बर्हिश्शुष्मा कृष्णवर्त्मा’ इति
चामरः । तेषामिन्द्रादीनां सम्बन्धि, अनलाननत्वं वह्निमुखत्वम्, अथ च नलस्याननमिव आननं येषां ते नलानना इत्युपमानपूर्वपदो बहुव्रीहिः । ते न भवन्तीत्यलाननाः तेषां भावः इत्यनकानलत्वं नलाननतुल्याननराहित्यं, पुनरुक्तिदोषम् “अग्निमुखा वै देवाः’ इति श्रुत्या तेषां वह्न्रिमुखत्वे पूर्वं सिद्धेऽपि पुनर्वह्निमुखत्वसम्पादनमिति पुनरुक्तिः, अथ च पूर्वं नलरूपाप्राप्त्या नलाननतुल्याननराहित्ये सिद्धेऽपि पुनरलीकनलीभूत्वा चन्द्रादिनाऽपि नलसटृशाननत्वाप्राप्तया अनकाननत्वमिति पुनरुक्तिरित्येतादृशपुनरुक्तिदोषमित्यर्थः, तरीतर्तुं परिहर्त्तु, नालं न समर्थः, न तु नलाननत्वसम्भावनापीत्यर्थः ।
। द्वयोरप्यनलाननत्वयोर्भेदोऽपि श्लिष्टैकपादोपादानमहिम्नैकत्वाभिमानात्पौनरुक्त्यव्यपदेशः । अत्र नलाननश्रीलिप्सूनां तेषां न केवलं तदलाभः प्रत्युत दुस्तरतरपुनरुक्तिदोषरूपानर्थोत्पत्तिश्चेति द्वितीयो विषमालङ्कारभेदः । “यत्राननस्य वा भवे’दिति लक्षणात् ॥ 10.21 ॥
अन्वयः–तथा निजास्येन नलाननस्य श्रियं लब्बुम् अनीश्वराणां बर्हिर्मुखानां तेषाम् अनलाननत्वं पुनरुक्तिदोषं तरीतुम् अलं न ॥ 10.21 ॥
प्रियावियोगक्वथितात् किमैलाच्चन्द्राद्गृहीतैग्रैहपीडितात्ते ॥
ध्मातादभवेन स्मरतोऽपि सारैः स्वङ्कल्पयन्ति स्म नलानुकल्पम् ॥ 10.22 ॥
जीवातु–प्रियेति । ते देवाः प्रियावियोगेनोर्वशीविरहाग्निना क्वथितात् दग्धदैलादिलात्मजात्नपुरूरवसः कर्पुरादेरिवेति भावः । तथा ग्रहपीडिताद्राहुनिष्पीडिताच्चन्द्राच्च यन्त्रनिष्पीडितात्तिलसर्षपादेरिवेति भावः । भवेन हरेण ध्यातात् स्मरतोऽपि कामाच्च मुखमारुतसन्धुक्षिताग्निदग्धात् खदिरकाष्ठादेरिवेतिभावःः । गृहीतैरुपात्तैः सारैः साधनैः स्वमात्मानं नलस्यानुकल्पं प्रतिनिधिं कल्पयन्ति स्म किमित्युत्प्रेक्षा । अनयथा तदनुकल्पतापि कुत इति भावः । अन्येनापि क्वथनपीडिताग्निदाहादिना वस्तुसारः समाकृष्यते । एतेन प्रियावियोगादिजन्यक्वथनादिरहितैलचन्द्रादितोऽपि नलस्य सौन्दर्याधिक्यं व्यज्यते । “मुख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः’ इत्यमरः ॥ 10.22 ॥
अन्वयः–किं ते प्रियावियोगक्वथितात् ऐलात् ग्रहपीडितात् चन्द्रात् भवेन ध्मातात् स्मरतः अपि गृहीतैः सारेः स्वं नलानुकल्पं कल्पयन्ति स्म ? ॥ 10.22 ॥
नलस्य पश्यत्वियदन्तरं तैर्भैमीति भूपान् विधिराहृतास्यै ॥
स्पर्धां दिगीशानपि कारयित्वा तस्यैव तेभ्यः प्रथिमानमाख्यत् ॥ 10.23 ॥
जीवातु–नलस्येति । विधिर्ब्रह्मा नलस्य तैर्भूपैः सह इयत् एतत परिमितम्, अन्तरं तारतम्यम्, इयं भैमी पश्यत्विति हेतोः एतान् भूपानाहृत आहृतवान् । हरतेर्लुङि तङ् “ह्रस्वादङ्गात्’ इति सिज्लोपेः । किञ्च दिगीशादपि स्पर्धां कारयित्वा नलरूपधारणादिद्वारा दिगीशैरपि नलेन सहमत्सरङकारयित्वेत्यर्थंः “हृक्रोरन्यतरस्या’मिति विकल्पादिणिकर्तुः कर्मत्वम् । तस्य नलस्यैव तेभ्ये इन्द्रादिभ्योऽपि “पञ्चमीविभक्ते’ इति पञ्चमी । प्रथिमानमाधिक्यमस्यै भैम्यै आख्यदातवान् । ख्यातेर्लुङि “अस्यतिवख्यातिभ्योऽङि"ति च्लेरङादेशः । त्रैलोकीतिशायि लावण्यमस्येति भैमीं प्रत्याययितुमेव ब्रह्मा स्वयंवरव्याजेन त्रिलोकीमेकत्राचकर्षेत्युत्प्रेक्षा ॥ 10.23 ॥
अन्वयः–विधिः नलस्य तैः इयत् अन्तरम् इयं भैमी पश्यतु–इति अस्मै भूपान् आहृत, दिगीशन् अपि स्पर्धां कारयित्वा तस्य तेभ्यः प्रथिमानम् एव आख्यत् ॥ 10.23 ॥
सभा नलश्रीयमकैर्यमाद्यैर्नलं विनाऽभूद्धृतदिव्यरत्नैः ॥
भामाङ्गणप्राधुणिके चतुर्भिदैवद्रुंमैद्यौरिव पारिजाते ॥ 10.24 ॥
जीवातु–सभेति । सभा सा राजसभा नलश्रियो यमकैः पुनरुक्ता?कारैस्तद्रुपधारिभिरित्यर्थः । धृतानि दिव्यानि रत्नानि यैस्तै रत्नाभरणभूषितैरित्यर्थः । यमाद्यैश्चतुर्भिर्नलं विना तदा नलस्यानागमनात्तेन विनाभूतैरित्यर्थंः । अत एव पारिजाते पारिजाताख्ये देवद्रुमे भामायाः सत्यभामाया अङ्गणस्य चत्वरस्य प्राधुणिके अतिथौ सति, तया उपहृते सतीत्यर्थः । “आवेशिकः प्राधुणिक आगन्तुतिथिः स्मृतः’ इति हलायुधः । घृतिदव्यरत्नैर्मु लादग्रपर्यन्तं धृतमुक्तादिदिव्यरत्नैः, चतुर्भिर्देवद्रुमैर्मन्दारादिभिः, ‘पञ्चैते देवतरवो मन्दारः
पारिजातक । सन्तानः कल्पंवृक्षश्च पुंसि वा हरिचन्दनम्’ इत्यमर । द्यौः स्वर्ग इवाभूत् अभादित्यर्थः,
मन्दारादिषु सत्स्वपि पारिजातं विना यथा द्यौ न शेभते, तथा नलरूपधारिषु? यमादिषु सत्स्वपि नलं विना स्वयंवरसभा न शुशुभे । सभायामिन्द्रादयः समागता नलो नागत इति भावः ॥ 10.24 ॥
अन्वयः–सभा नलश्रीयमकैः धृतदिव्यरत्नैः नलं विना पारिजाते भामाङ्गणप्राधुणिके चतुर्भिः देवद्रुमैः द्यौ इव अभूत् ॥ 10.24 ॥
तत्रागमद्वासुकिरीशभूषाभस्मोपलेहस्फुटगौरदेहः ॥
फणीन्द्रवृन्दप्रणिगद्यमानप्रसीदजीवाद्यनुजीविवादः ॥ 10.25 ॥
जीवातु–तत्रेति । ईशभूषां योगपट्टसम्पादनार्थ तत्र वासात् ईश्वराभरणभूतः, अत एव भस्मन उपलेहेनोपलेपेन तदङ्गरागभस्मसङ्क्रमणेन स्फुटगौरदेहः शुभ्राङ्गः वासुकिः फणीन्द्रवृन्दैः सर्पराजगणैः प्रणिगद्यमानो व्याह्रियमाणः, “नेर्गदनद’ त्यादिना णत्वम् । प्रसीदजीवशब्दावादिर्यस्य सौऽनुजीविवादः सेवकजनकोलाहलः यस्य स आदिशब्दाज्जयादि शब्दसंग्रहः वासुकिः तत्र स्वयंवरे अगमदागतः ॥10.25॥
अन्वयः–तत्र ईशभूषाभस्मोपलेहस्फटगौरदेहः फणीन्द्रवृन्दप्रतिणगद्यमानप्रसीदजीवाद्यनुजीविवादः वासुकिः अगमत् ॥ 10.25 ॥
द्वीपान्तरेभ्यः पुटभेदनं तत् क्षणादवापे सुरभूमिपालैः ॥
तत्कालमालम्भि न केन यूना स्मरेषुपक्षानिलतूललीला ॥ 10.26 ॥
जीवातु–द्वीपान्तरेभ्य इति । तत् पुटभेदनं कुण्डिनपूरं द्वीपान्तरेभ्यः, प्लक्षादिभ्यः, अपादाने नञ्चमी । सुराश्च भूमिपालाश्च तैः, अथवा सुरभूमयः देवभूमयः द्वीपान्तरलक्षणाः । देवानां भोगदेहशालित्वेन द्वीपान्तरागणाञ्चभेगभूमित्वेन सुरभूमित्यवपदेश इति भावः, पालयन्ति ये तैः राजभिरित्यर्थः, क्षणादवापे अवाप्तम् । तथा हि तस्मिन्काले तत्कालं स्वयंवरकालमित्यर्थः । अत्यन्तसंयोगे द्वितीया । केन यूना स्मरेषूणां पक्षानिलेन तूलस्य कार्पासादेर्लीला इव लीला विलासः नालम्भि न प्राप्तः । “चिण्भावकर्मणो’रिति लभेः कर्मणि लुङि चिण् । “विभाषा चिण्णमुलोः’ इत्युपसृष्टाद्वैभाषिको नुमागमः । अत्राखिलयुना कामुकत्वेन कुण्डिनप्राप्तिरूपकारणेन द्विपान्तरस्थभूपानां झटिति कुण्डिनप्राप्तिरूपकार्यसमर्थनरूपोऽर्थान्तरन्यासः । स च तूललीलेति निदर्शनासङ्कीर्णः ॥ 10.26 ॥
अन्वयः–सुरभूमिपालैः द्वीपान्तरेभ्यः तत् पुटभेदनं क्षणात् अवापे; केन यूना तत्कालं स्मरेषुपक्षानिलतूललीला न आलम्भि ? ॥ 10.26 ॥
रम्येषु हर्म्येषु निवेशनेन सपर्यया कुण्डिननाकनाथ; ॥
प्रियोक्तिदानादरम्रताद्यैरुपाचरश्च्चारु स राजचक्रम् ॥ 10.27 ॥
जीवातु–रम्येष्विति । सः कुण्डिननाकनाथः कुण्डिनेन्द्रो भीमः राजनक्रं राजमण्डलं रमृयेषु हर्म्थैषु निवेशनेन स्थापनेन सपर्यया अर्ध्यपाद्यादिपूजया तथा प्रियोक्तिः प्रियवचनं दानं गन्धमाल्यताम्बुलादिसमर्पणमादरः समादरः सम्मानो वा, नम्रतादि यावरणमेवमाद्यैरुपचारैराद्यशब्दादभोजनादिसंविधानस्ङ्ग्रहः । चारु सम्यगुपाचरत् सन्तोषितवान् ॥10.27 ॥
अन्वयः–सः कुण्डिननाकनाथः रम्येषु हर्म्येषु निवेशनेन सपर्यया प्रियोक्तिदानादरनम्रताद्यैः राजचकं चारु उपाचरत् ॥ 10.27 ॥
चतुःसमुद्रीपरिखे नृपाणामन्तःपुरे वासितकीर्तिदारे ॥
औदार्यदाक्षिण्यदयामानां चतुष्टयीरक्षणसौविदल्लाः ॥ 10.28 ॥
जीवातु-युक्तं चैतदित्याह-चतुरिति । चतुःसमदुद्र्ये व परिखा वलयं यस्य तस्मिन् वासिताः स्थापिताः कीर्तय एव दाराः कलत्राणि यस्मिन् तस्मिन् नृपाणां राज्ञामन्तःपुरे पृथिवीपुरे इति भावः । औदार्यं त्यागः दाक्षिण्यं परिचित्तानु वर्तनं दया कृपा दम इतिन्द्रयदमनं तेषां चतुष्टय्येव रक्षणे रक्षणार्था, सौविदल्लाः कञ्चुकिनः । “सौविदल्लाः कञ्चुकिनः’ इत्यमरः । औदार्यादिगुणचतुष्टयेन नृपाणां कीर्तिः रक्ष्यते, तद्विहीनानां कुत कीर्त्तिरिति भावः । स्वकीर्त्तिरक्षणार्थ तेन राज्ञा भीमेन ते राजानः सत्कृता इति तात्पर्यम् ।
रूपकालङ्कारः ॥ 10.28 ॥
अन्वयः–चतुःसमुद्रीपरिखे वासितकीर्त्तिदारे नृपाणाम् अन्तःपुरे औदार्यदाक्षिण्यदयादमानां
( पाठांतर–दानं दया सूनृतमातिथेयी ) चतुष्टयी रक्षणसौविदल्लाः ॥ 10.28 ॥
अभ्यागजतैः कुण्डिनवासवस्य परोक्षवृत्तेष्वपि तेषु तेषु ॥
जिज्ञासितस्वेप्सितलाभलिङ्‌गं स्वल्पोऽपि नावापि नृपैर्विशेषः ॥ 10.29 ॥
जीवातु–अभ्यागतैरिति । अभ्यागतैर्नृ पैः कुण्डिनवासवस्य कुण्डिनेन्द्रस्य भीमस्य सम्बन्धिषु परोक्षवृत्तेषु गूडनिष्पन्नेष्वपि अपिना प्रत्यक्षवृत्तानां परिग्रहः, तेषु तेपूपचोषु जिज्ञासितस्य ज्ञातुमिष्टस्य प्रयत्नान्वेषणीयस्य इत्यर्थः । जानातेः सनन्तात् कर्मणि क्तः । स्वेप्सितलाभस्य भैमीलाभस्य लिङ्गं चिह्नं गमकभूतः इति भावः । स्वल्पोऽपि विशेष उपचारातारतभ्यं नावापि न ल्बधः, यस्मिन् नृपे उपचारविशेषः परिलक्ष्येत तस्मै एव भौमीं दास्यतीति हेतो महानुपचारविशेषः कस्य क्रियते इति परिज्ञानेच्छायां नृपैः कुत्रापि तद्विशेषो नावगतः, भीमेन सर्वेषां तुल्य एव समादरः कृतः, तत एव सर्वेऽप्यमंसत यत् भौमीलाभो ममैव भविष्यतीति भावः ॥ 10.29॥
अन्वयः–अभ्यागतै नृपैः कुण्डिनवासवस्य तेषु तेषु परोक्षवृत्तोषु अपि जिज्ञासितस्वेप्सितलाभनिङ्गं स्वल्पः अपि विशेषः न अवापि ॥ 10.29 ॥
अङ्के विदर्भेन्द्रपुरस्य शङ्के न सम्ममौ नैष तथा समाजः ॥
यथा पयोराशिरगस्त्यहस्तं यथा जगद्वा जठरे मुरारेः ॥ 10.30 ॥
जीवातु–सर्वेषां राज्ञां कुण्डिननगरे समावेशो जात इत्याह–अङ्क इति : विदर्भेन्द्रपुरस्य कुण्डिनपुरस्याङ्के अभ्यन्तरे एष समाजो राजसङ्घोऽगस्त्यहस्ते पयोराशिः समुद्रः यथा मुरारेः जठरे जगद्वा यथा न सम्ममौ न सम्मितः इति न, किन्तु तथैव सम्ममावित्यर्थः । शङ्क इत्युत्प्रेक्षायाम् । मुनिहस्तहरिकुक्ष्यौपम्येन अल्पेऽपि पुरे समाजस्य महतः सम्मानोत्प्रेक्षणादुपभोत्प्रेक्षयोः सङ्करः । तेनाधाराधेययोरनानुरूप्लक्षणाधिकालङ्कारस्तनमहत्वमत्यद्भुतं वस्तु च व्यज्यते ॥ 10.30 ॥
अन्वयः–यथा अगस्त्यहस्ते पयोराशिः यथा वा मुरारेः जठरे जगत् शङ्के तथा विदर्भेन्द्रपुरस्य अंके एषः समाजः न सम्ममौ-न ॥ 10.30 ॥
पुरे पथिद्वारगृहाणि तत्र वित्रोकृतान्युत्सववाञ्छयैव ॥
नभोऽपि किर्मीरमकारि तेषां महीभुजामभरणप्रभाभिः ॥ 10.31 ॥
जीवातु–पुर इति । तत्र पुरे उत्सववाञ्छया विवाहोत्सवाभिलापेण पन्थानो द्वाराणि गृहाणि च तान्येव चित्रीकृतानि तेषामभ्यागतानां महीभुजामामरप्रभाभिः नभोऽपि किर्मीरं चित्रमकारि । अपिशब्दात् पथिद्वारगृहाणि च चित्रीकृतानीति किं वाच्यम् ? “चित्रं किर्मीरकल्माषः शबलौताश्च कर्बुरे’ इत्यमरः । अत्र समृद्धिमद्वस्तुवर्णनादुदात्तालङ्कारः ॥ 10.31 ॥
अन्वयः–तत्र पुरे पथिद्वारगृहाणि उत्स्ववाञ्छया एव चित्रीकृतानि, तेषां महीभुजाम् आभरणप्रभाभिः नभः अपि किर्मीरम् अकारि ॥ 10.31 ॥
विलासवैदग्ध्यविभूषणश्रीस्तेषां तथाऽभूत् परिचारकेऽपि ॥
अज्ञासिषुः स्त्रीशिशुबालिशास्तं यथागतं नायकमेव क?ञ्चित् ॥ 10.32 ॥
जीवातु–विलासेति । तेषां राज्ञां परिचारके सेवकेऽपि विलासानां कटाक्षविक्षेपादिशृङ्गारचेष्टानां, वैदग्ध्यस्य वकोक्त्यादिभाषणे चातुर्यस्य विभूषणानां च श्रीः सम्पत्तिः तथा अभूत् यथा स्त्रियः शिशवो बालिशाः अज्ञाश्च । “शिशवज्ञे च बालिश’ इत्यमरः । तं परिचारकमागतं कंचिन्नायकं राजभृत्याश्च राजकल्पा इति राज्ञामैश्वर्योक्तेरतिशयोक्तिः ॥ 10.32 ॥
अन्वयः–तेषां परिचारके अपि विलासवैदग्ध्यविभूषणश्रीः तथा अभूत् यथा स्त्रीशिशुबालिशाः तम् आगतं कञ्चित् नायकम् एव अज्ञासिषुः ॥ 10.32 ॥
अस्वेदगात्राचलश्चामरोधेरमीलनेत्राः प्रतिवस्तुचित्रैः ॥
अम्लानमाला विपुलातपत्रैर्देवा नृदेवाश्च भिदां न भेजुः ॥ 10.33 ॥
जीवातु–अथ श्लोकद्वयेन राज्ञां देवानां च भेदो दुर्लक्ष्य इत्याह–अस्वेदेत्यादि । चलचामराणामोधैरस्वेदानि गात्राणि येषां ते तथोक्ताः, वस्तूनि वस्तूनि प्रतिवस्तु, वीप्सायमव्ययीभावः । चित्रैरद्भुतैः “विस्मयोऽद्भुतमाश्चर्यं चित्रम्’ इत्यमरः । मीला मीलकाः । “गुरोश्च हलः’ इति स्त्रियामप्रत्यये टाप् । तदगृहीतानि अमीलानि अनिमिषाणि, यद्वा न मीलन्तीत्यमीलानि, पचाद्यच् । तानि नेत्राणि येषां ते तथोक्ताः अनिमिषटृष्टय इत्यर्थ। तथा विपुलैरातपत्रैर्निमित्तैरम्लानमाला देवा इन्द्रादयः नृदेवा राजानश्च भिदां, भेदं “षिदिभदादिभ्योऽङ्’ । न भेजुः । देवपक्षे सर्वत्र उपलक्षणे तृतीया, राजपक्षे हेतौ तृतीया । देवानां स्वेदाद्यभावस्य स्वाभाविकत्वात् चामरौधादीनामुपल?क्षितत्वं राजपक्षे तु स्वेदाभावस्यास्वाभाविकत्वेन चरामरौधादीनां तत्तत्साधनात्वं पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ 10.33 ॥
अवन्यःःचलवामरौधैः अस्वेदगाः प्रतिवस्तुचित्रैः अमीलनेत्राः विपुलातपत्रैः अम्लानमालाः देवाः नृदेवाः च भिदां न भेजुः ॥ 10.33 ॥
अन्योऽन्यभाषानवबोधभीतेः संस्कृत्रिमाभिव्यंवहारवत्सुः ॥
दिग्भ्यः समेतेषु नरेषु वाग्भिः सौवर्गवर्गो न नरैरचिह्नि ॥ 10.34 ॥
जीवातु–अन्योऽन्येति । दिग्भ्यः समेतेषु समागतेषु नरेषु मनुष्येषु अन्योऽन्येषां भाषाणामनवबोधेन निमित्तेन भीतेः सङ्कोचात् संस्कारेण निर्वुत्ताः संस्कृत्रिमाः, “ड्वितः क्त्रिः’ “क्त्रैर्मम् च नित्यम्’ ताभिर्वाग्भिर्व्यवहारोऽभिवादनव्यापारः तद्वत्सु देवभाषयैव भाषामेष्वित्यर्थः । स्वर्गेः भवाः इति सौवर्गाः, देवाः, भवार्थे “तत्र भवः’इत्यण्, “द्वारादीनाञ्च’ इत्यैजागमः आद्यस्वरस्य वृद्धिनिषेधश्च तेषां वर्गः समूहः सौवर्गवगौ देवसमूहः, नरैः कुण्डिनवासिभिः, नाचिह्नि देवत्वेदं नाज्ञायि, चिह्नशब्दात् “तत्करोति’ इति ण्यन्ताल्लङि णाविष्ठवदभावे “विन्मतोर्लु क्’ इति मतुपो लुक् । भेदे अभेदलक्ष्ज्ञणाऽतिशयोक्तिः ॥ 10.34 ॥
अन्वयः–परैः दिग्भ्यः समेतेषु अन्योन्यभाषानवबोधभीतेः संस्कृत्रिमाभिः वाग्भिः व्यवहारवत्सु नरेषु सौवर्गवगैः न अचिह्नि ॥ 10.34 ॥
ते तत्र भैम्याश्चरितानि चित्रे चित्राणि पौरैः पुरि लेखितानि ॥
निरीक्ष्य निन्युर्दिवसं निशाञ्च ततस्वप्नसम्भोगकलाविलासैः ॥ 10.35 ॥
जीवातु–त इति । ते सर्वे नृपाश्च तत्र तस्यां पुरि कुण्डिने पौरैः चित्रे आलेख्ये लेख्ये लेखितानि चित्राणि नानाविधान्याश्चर्याणि “आलेख्याश्चर्ययोश्चित्रम्’ इत्यमरः । भैम्याश्चरिता नि निरीख्य दिवसं निन्युः । तस्याः सम्बन्धिभिः स्वप्ने याः सम्भोगकलाः सुरतचेष्टास्ता एव विलासाः विनोदास्तैर्निशाञ्च निन्युः । एतेन जागरावस्थोक्ता ॥ 10.35 ॥
अन्वयः–तत्र पुरि ते पौरैः चित्रे लेखितानि चित्राणि भैम्याः चरितानि निरीक्ष्य दिवसं तत्सप्नसम्भोगकलाविलासैः च निशां निन्युः ॥ 10.35 ॥

सा विभ्रमं स्वप्नगतापि तस्यां निशि स्वलाभस्य ददे यदेभ्यः ॥
तदर्थिनां भूमिभुजां बदान्या सती सती पूरयति स्म कामम् ॥ 10.36 ॥
जीवातु–सेति । सती सा भैमी तस्यां निशि स्वयंवरात्पूर्वरात्रौ स्वप्नगताऽपि अपि सम्भावयनायां जागरे तु सम्भावितत्वादिति भावः । एभ्यो देवेभ्यो राजभ्यश्च स्वलाभस्य स्वनप्राप्तेर्विभ्रमं भ्रान्तिमलीकसङ्गतिमित्यर्थः । ददे दत्तवतीति यत्तत्तस्माददलीकदानाद्धेतोर्वदान्या सती भवन्ती । स्वप्राप्तिदानाद्वदान्यतृवं यत्तत्तस्माददलीकदानाद्धेतोर्वदान्या सती भवनती । स्वप्राप्तिदानाद्वक्ष्दान्यत्वं प्राप्तेर्मिथ्यात्वात्पतिव्रतानाद्धेतोर्वदान्‌या सती भवन्ती । स्वप्राप्तिदानाद्वदान्यत्वं प्राप्तंर्मिथ्यात्वात्पतिव्रता च सतीत्यर्थः अर्थिनां भूमि?भुजाञ्च कामं मनोरथं पूरयति स्म । एवं स्वकामुकानेकलोकोत्तरयुवसमुदायेऽपि सा नलैकजीवितैव सती स्थितेत्यर्थः । पतिव्रतायाः स्वकामुकानां सर्वेषां कामपूरकत्वं विरुद्धं, तस्याः स्वन्नदर्शनस्य
अलीकत्वात् तेन तथाविधसर्वकामूपरणेऽपि दोषाभावात् परिहारः ॥ 10.36 ॥
अन्वयः–तस्यां निशि स्वप्नगता अपि सा सती यत् एभ्ज्ञृयः स्वलाभस्य विभ्रमं ददे तत् वदान्या सती अर्थिनां भूमिभुजां कामं पूरयति स्म ॥ 10.36 ॥
वेदर्भदूतानुनयोपहूतैः शृङ्गारभङृगीष्वनुभाववत्सु ॥
स्वयंवरस्थानजनाश्रयस्तैर्दिने परत्रालमकारि वीरैः ॥ 10.37 ॥
जीवातु–वैदर्भेति । परत्र दिने परेऽह?नि वैदर्भस्य भीमनृतेर्दुतैरनुनयेन प्रार्थनेनोपहूतैः शृङ्गारभङ्गीषु रतिभावविजृम्भणेषु येऽनुभावाः कटाक्षविक्षेपादयस्तद्वत्सु । “शृङ्गारभङृगीष्विनुभाववदिभरि’ति येऽनुभावाः कटाक्षविक्षेपादयस्तद्वत्सु । ‘शृङ्गारभङ्गीष्वनुभाववदिभरि’ति पाठे शृङ्गारचेष्टाः प्रकाशयदिभरित्यर्थः । तैदिगनगतैवीरैः स्वयंवरस्थानभूतो जनाश्रयो मण्डपः । “मण्डपोऽस्त्री जनाश्रयः’ इत्यमरः । अलमकारि अलंकृतम् ! स्वयंवरस्थानं प्राप्तमित्यर्थः ॥ 10.37 ॥
अन्वयः–वैदर्भदूतानुनयोपहूतैः शृङ्गारमङ्गीसु अनुभाववत्सु ( पाठांतरशृङ्गारभङ्गीः अनुभावयदिभः) तैः वीरैः परत्र दिनें स्वयंवरस्थानजनारयः अलम् अकारि ॥ 10.37 ॥
भूषाभिरुच्चैरपि संस्कृते यं वीक्ष्याकृत प्राकृतबुद्धिमेव ॥
प्रसूनबाणे विबुधाधिनाथस्तेनाथ साशोभि सभा नलेन ॥ 10.38 ॥
जीवातु–भूषेति । विबुधाधिनाथ इन्द्रो यं नलं वीक्ष्य भूषाभिर्भुषणैरतिश्येन संस्कृतेऽलंकृतेऽपि, “सम्परिभ्यां करोतौ भूषणे’ इति सुडागमः । प्रसूनवाणे मन्मथे प्राकृतबुद्धि पृथग्नबुद्धिमेव ! नीचबुद्धिमेवेत्यर्थः, “प्राकृतस्तु पृथग्जनः’ इत्यमरः । अकृत कृतवान्, न तु सुन्दरबुद्धिमित्यर्थः । कृञ कर्तरि लुङि तङ् । “ह्नस्वादङ्गादि’ति सिचो लोपः । अथ राजगमनानन्तरं तेन नलेन सा सभा अशोभि । शोभां गमिता अलङ्गकृतेत्यर्थः । शोभयतेः कर्मणि लुङ् विबुधाधिनाथः पण्डितश्रेष्ठः सन्नपि संस्कृते प्राकृतबुद्धिं संस्कृतभाषिते प्राकृतभाषितत्वबुद्धिमकृतेति विरोधाभासः सूच्यते ॥ 10.38 ॥
अन्वयः–अथ विबुधाधिनाथः यं वीक्ष्य भूषाभिः उच्चैः संस्कृते अपि प्रसूनबाणे प्राकृतबुद्धिम् एव अकृत तेन नलेन सा सभा अशोभि ॥ 10.38 ॥
धृताङ्गरागे कलितद्युशोभां तस्मिन् सभां चुम्बति राजचन्द्रे ॥
गता बताक्ष्णोर्विषयं विलङध्य क्व क्षत्रनक्षत्रकुलस्य लक्ष्मीः ॥ 10.39 ॥
जीवातु–धृतेति । धृतोऽङ्गरागोऽनुलेपनमेवाङ्गरागः अङ्गस्य चन्द्रबिम्बस्य, रागो रक्ता येन तस्मिन्, राजचन्द्रे नले कर्लितद्युशोभां कलिता प्राप्ता, रागो रक्तता येन तस्मिन्, राजचन्द्रे नले कलितद्युशोभां कलिता प्राप्ता, द्युशोभा स्वर्गीयशोभा आकाशोभा च यया तां, सभां चुम्बति प्राप्ते सति, अत्राणि क्षत्रिया एव, नक्षत्राणि तत्कुलस्य लक्ष्मीरक्ष्णोविषयं विलङध्य टृष्टिपथमतीत्य, क्व कुत्र, गता ? बतेतृयाश्चर्ये, नक्षत्रकुलमिव नलोदये सर्व क्षत्रकुलं निष्प्रभं जातमित्यर्थः । द्युशोभेत्यत्र शोभवे शोभेति साटृश्याक्षेपात् निदर्शना, तया सहाङ्गाङ्गिभावेन रूपकस्य सङकरः ॥ 10.39 ॥

अन्वयः–धृताङ्गरागे तस्मिन् राजचन्द्रे ?कलितद्युशोभां सभां चुमृबति क्षत्रनक्षत्रकुलस्य कान्तिः अक्ष्णोः विषयं विहाय बत, क्व गता ? ॥ 10.39 ॥
प्राक् दृष्टयः क्षोणिभुजामुष्मिन्नाश्चर्यपर्युत्सुकिता निपेतुः ॥
अनन्तरं दन्तुरितभ्रुवान्तु नितान्तमीर्ष्याकलुषा दृगन्ताः ॥ 10.40 ॥
जीवातु–प्रागिति । प्राक् पूर्वम्, अमुष्मिन्नले, क्षोणिभुजां राज्ञां, टृष्टयः पूर्णटृष्टयः, आश्चर्येण विस्मयपारवश्येन, पर्युत्सुकिता उत्कण्ठिताः सत्यः, निपेतुः अनन्तरं तु दन्तुरितभ्रु वां द्वेषाद्विषमितभ्रु वां, टृगन्ता कोणटृष्टयः, नितान्तमीर्ष्यया कलुषाः सन्तो निपेतुः । अत्रौत्सुक्येर्ष्याप्रयुक्तानां पूर्णापूर्णटृष्टीनां द्वयीनां क्रमेणैस्मिन्नले निपतनोक्तेर्द्वितीयः पर्यायभेदः । एकमनेकस्मिन् अनेकमेकस्मिन् वा क्रमेण पर्याय इति सूत्रणात्. तथौत्सुक्येर्ष्यालक्षविस्मयद्वेषसञ्चारिभावनिबन्धनात् भावालङ्कारः प्रियोऽपरपर्याय इति द्वयोः संसृष्टिः
॥ 10.40 ॥
अन्वयः–प्राक् ( पाठांतर-“द्राक्’ ) अमुष्मिन् क्षोणिभुजाम् आश्चयैपर्युत्सुकिताः टृष्टयः निपेतुः अनन्तरं तु दन्तुरितभ्रु वाम् टृगन्ताः ईर्ष्याललुषाः ( निपेतुः ) ॥ 10.40 ॥
सुधांशुरेष प्रथमो भुवीति स्मरो द्वितीयः किमसावितीमम् ॥
दस्त्रस्तृतीसयोऽमिति क्षितीशाः स्तुतिच्छलान्मत्सरिणो निनिन्दुः ॥ 10.41 ॥
जीवातु–सुधांशुरिति । मत्सरिणः परशुभद्वेषिणः, क्षितीशाः भुवीति किमिति च पदद्वयस्य सर्वत्रान्वयः कार्य; भुवि भूतले, एषः प्रथमः नवावतीर्णः, सुधांशुः मुख्यचन्द्र, किम् ? इति, असौ भुवि द्वितीयः स्मरः किम् ? इति, अयं तृतीय दस्त्रः आश्विनेयः, भुवि किम् ? इति च, दस्त्रयोर्द्वित्वेऽप्येकत्वविवक्षया एकवचनं, द्व्येकत्वेऽपि द्वित्वविवक्षायां द्वौ चन्द्रावविरुद्धम्; पुष्पवत् दारादिशब्दवन्नियतवचनत्वाभावात् । इतीत्थम्, इमं नलं, स्तुतिच्छलात् निनिन्दुः असमानसमीकरणेन स्तुतिर्लोकोत्तरस्य निन्दैवेति भावः । चन्द्रत्वाद्युत्प्रेक्षात्रयस्य संसृष्टिः ॥ 10.41 ॥
अन्वयः–भुवि एषः प्रथमः सुधांशुः किम् इति, असौ द्वितीयः स्मरः ( किम् इति ), अयं तृतीयः दस्त्रः ( किम् इति )-इति भत्सरिणः क्षितीषः इभं स्तुतिच्छलात् निनिन्दुः ॥ 10.41 ॥
आद्यं विधोर्जन्म स एष भूमौ द्वैतं युवाऽसौ रतिवल्लभस्य ॥
नासत्ययोर्मूर्तिरियं तृतीया इति स्तुतस्तैः किल मत्सरैः सः ॥ 10.42 ॥
जीवातु–आद्यमिति । स एष नलः, भूमौ भूतले, विधोरिन्दोः, आद्यं जन्म प्रथमावतार इत्यर्थः, युवाऽसौ रतिवल्लभस्य कामस्य, द्वैतं द्वित्वं द्वितीयकाम इत्यर्थः, इयं नलरूषा, नासत्ययोरश्विनोः, तृतीया मूर्तिः, इ?ति स नलः, मत्सरैर्मत्सरवद्भिः, “मत्सरोऽकारः । तैः स्तुतः किल स्तुतः खलु ? पूर्वश्लोकेन पुनरुक्तमपि कविना लिखितत्वात् स्थितं पूर्ववत् ॥ 10.42 ॥
अन्वयः–भूमौ सः एषः विधो । आद्यं जन्म, असौ युवा रतिवल्लभस्य द्वैतम्, नासत्ययोः इयं तृतीया मूर्त्तिः–इति तैः मत्सरैः सः स्तुतः किल ? ॥ 10.42 ॥
इहेदृशाः सन्ति कतीति दफष्टैष्टान्तितालीकनलावली तैः ॥
आत्मापकर्षे किल मत्सराणां द्विषः परस्पर्द्धनया समाधिः ॥ 10.43 ॥
जीवातु-इहेति । दुष्टैः खलैः, तैर्नृपैः, इह सभायाम्, ईटृशाः नलसटृशाः, कति कियन्तोऽपि, च अलीकनकावलीं इन्द्रवरुणयमानलपङ्क्तिः, टृष्टा न्तिता टृष्टान्तीकृता, च अलीकनकावलीं निर्दिष्य अत्र सभायां बहवो नलेन तुल्सटृशानां बहूनां सत्त्वेऽपि स्वस्य कथं रूपोत्कर्षः ? इत्यत आह–मत्सराणां सत्सरिणाम्, आत्मनोऽपकर्षे शत्रुसकाशात् न्यूनत्वे सति, द्विषः प्रतिपक्षस्य, परेण पुरुषान्तरेण, स्पर्द्धनया सङधङधर्षणया, कोट्यन्तरसाधारण्यापादनेनेत्यर्थः, स्वार्थे ण्यन्तात् युच् । समाधिः किल आत्मापकर्षपरि?हारः खल्वित्यर्थः, एता यार्थः । अर्थान्तरन्यासः ॥ 10.43 ॥
अन्वयः–इह ईटृशाः कति सन्ति–इति तैः दुष्टैः अलीकनलावली टृष्टान्तिता; मत्सराणाम् आत्मापकर्षे द्विषः परस्पर्द्धतया समाधिः ॥ 10.43 ॥
गुणेन केनापि जनेऽनवद्ये दोषान्तरोक्तिः खलु तत् खलत्वम् ॥
रूपेण तत्संसददूषितस्य सुरैर्नरत्वं यददुषि तस्य ॥ 10.44 ॥
जीवातु–गुणेनेति । केनापि गुणेन अनवद्ये अगर्ह्मे, सर्वगुणम्पन्ने इत्यर्थः, “अवद्यपण्ये’ त्यादिनोद्धाटनमित्यर्थः, तत्खलत्वं तदेव तस्य वक्तुर्दुष्टत्वं खलु । कुतः ? यद् यस्मात्, रूपेण सौन्दर्येण तस्यां संसदि तया संसदा वा अदूषितस्य, प्रत्युत स्तुतस्यैवेति भावः तस्य नलस्य सम्बन्धि, नरत्वं मनुष्यत्वं, सुरैरिन्द्रादिभिः, अदूषि अतिसौन्दर्यशाली अपि नरोऽयं न तु देव इति दोषत्वेनोद्धाटितमित्यर्थः । दूषयतेः कर्मणि लुङ् । सामान्योक्तस्य खलत्वस्य नरत्वदूषणेन समर्थनाद्विशेषेण सामान्यमर्थनरूपोऽर्थान्तरन्यासः
॥ 10.44 ॥
अन्वयः–रूपेण तत्संसददूषितस्य तस्य सुरैः यत् नरत्.वम् अदूषि, ?तत् केन अपि गुणेन अनवद्ये जने दोषान्तरोक्तिः खलत्वम् ॥ 10.45 ॥
नलानसत्यानवदत् स सत्यः कृतोपवेशान् सविधे सुरेशान् ॥
नोभाविलाभूः किमु दर्पकश्च भवन्ति नासत्युजौ भवन्तः ? ॥ 10.46 ॥
जीवातु–नलानिति । सत्यः स नलो यथार्थनलः, असत्यान् नलान् जीवातु–नलानिति । सत्सः स नलो यथार्थनलः, असत्यान् नलान् अलीकभूतान्, नलरूपधारिणः इत्यर्थः, सविधे समीपे, कृतोपवेशान् उपविष्टान्, सुरेशान् सुरेन्द्रादीन्, किमिति ? हे धन्याः । भवन्तः असत्यौ सत्यरहितौ न भवत इति नासत्यावश्विनौ दस्त्रो इति निपातनान्नङो नलोपाभावः । ताभ्यां युज्येते इति तद्युजौ तद्यक्तौ, ‘सत्सूद्विषद्व-’ इत्यादिना क्विप् । उभाविलायामिलादेव्यां भवति इति इलाभूरैलः-पुरूरवाः, क्विप्, दर्पकः कामश्च, न भवनित किमु ? इति प्रश्नः । “शेषे प्रथमः’ इति प्रथमपुरुषः, चत्वारो युयमश्विनौ पुरूरवाः कामश्च किं न भवथ इत्यपृच्छदित्यर्थः, तेषु निजरूपदर्शनादन्येषामिव स्वस्यापि विस्मयावेशाच्च इत्थमप्राक्षीदिति भावः ॥ 10.45॥
अन्वयः–सत्यः सः असत्यान् नलान् सविधे कृतोपवेशान् सुरान् अवदत्भवन्तः किमु नासत्ययुजौ दउभाविलाभूः दपैकः स न भवचन्ति ? ॥ 10.45 ॥
अमी तमाहः स्म यदत्र मध्ये कस्यापि नोत्पत्तिरभूदिलायाम् ॥
अदर्पकाः स्मः सविधे स्थितास्ते नासत्यतां नापि बिभर्ति कश्चित् ॥ 10.46 ॥
जीवातु–अमी इति । अथामी देवाः, तं नलम् आहुः सम ऊचुः, “लट् स्मे’ इति भूते लट् । उत्तरश्लोके “तेभ्यः परान्नः परिभावयस्व’ इति वक्ष्यते, तत्र हेतुमाह,-यदिति । यत् यस्मात् कारणात्, ते तव सविधे समीपे, स्थिताः, ये वयमिति शेषः, अत्रैतेषु चतुर्षु अस्मासु, मध्ये कस्यापि इलायां बुधकलत्रे इलादेव्यां, भूमौ च, उतृपत्तिर्पाभूत्, अत्र न कोऽप्येकः पुरूरवाः न कोऽपि च भौमः इत्यर्थः, किन्तु अदर्पका दर्पकात् कामादिभन्नाः दर्पशून्याश्च, तव सौन्दर्य्यासौन्दर्य्यातिशयदर्शनेन गर्वशून्या इत्यर्थः, स्मः भावम, कश्चिन्नासतृयताम् आश्विनेयत्वं सत्यत्वञ्च, न बिभार्त्ति अस्मासु न कोऽपि नासत्यः अथ च तव रूपधारणात् न कोऽपि सत्यः किन्तु सर्वे वयमसत्या इत्यर्थः । “नासत्यावश्विनौ दस्त्रै’ इतृयमरः । नासत्यतां सत्यतां बिभ?र्त्ती किन्त्वसत्यनला वयमित्यर्थान्तरम् ॥ 10.46 ॥
अन्वयः–अमी तम् आहुः स्म–यत् अत्र मध्ये कस्य अपि इलायाम् दत्पत्तिः न श्रभूत् ते सविधे स्थिताः उदर्पकाः स्मः, कश्चित्. अश्चित् अपि नासत्यतां न विभर्त्ति ॥ 10.46 ॥
तेभ्यः परान्नः परिभावयस्व श्रिया विदूरीकृतकामदेवान् ॥
अस्मिन् समाजे बहुषु भ्रमन्ती भैमी किलास्मासु घटिष्यतेऽसा ॥ 10.47 ॥
जीवातु–तेभ्य इति । पूर्वश्लोकस्थयच्छब्दापेक्षया तदो व्यवहार । तत्तस्मादिलाभवताद्यभावात्, श्रिया सौन्दर्य्येण, विदूरीकृतकामदेवान् अधरीकृतकामदेवान् अधरीकृतमन्मथान्, नोऽस्मान्, तेभ्य एसेलादिभ्यः परानन्यान्, परिभावयस्व निश्चिनुष्व, अन्यच्च–हे सौम्य ! श्रिया विदूरीकृताकमदेवान्नोऽस्मांस्तेभ्यः परानुत्कृष्टान्, विद्धि । अस्तु तावत्, अत्र किमथ्रमागता ? तत्राहअसौ भैमी अस्मिन् समाजे राजसङ्धे, बहुषु मध्ये भ्रमन्ती पर्य्यटन्ती, अस्मासु घटिष्यते संयोक्ष्यते, तथा बहुषु मध्ये भ्रमन्तमती सती, अस्मासु घटिष्यते
सङ्गमिष्यते, किल इति सम्भावनायाम्, इत्याशयेनात्रास्माकमागमनमिति भावः । अत्रार्थद्वयस्यापि विक्षिततृवातृ केवलप्रकृतश्लेषः ॥ 10.47 ॥
अन्वयः–श्रियः विदुरीकृतकामदेवान् नः तेभ्यः परान् परिभावयस्व; अस्मिन् समाजे बहुषु भ्रमन्ती असौ भैमी किल अस्मासु घटिष्यते ॥ 10.47 ॥
असाम यन्नाम तवेह रूपं स्वेनाधिगत्य श्रितमुग्धभावाः ॥
तन्नो धिगाशपतितान्नरेन्द्र ! धिक् चेदमस्मद्विबुधत्वमस्तु ॥ 10.48 ॥
जीवातु–असामेति । हे नरेन्द्र ! यत् यस्मात्, तव नाम रूपञ्च स्वेन आत्मना, अधिगतृय ज्ञात्वाऽपि, श्रितमुग्धभावाः स्वीकृतमूढभावाः सन्तः, इह स्वयंवरे असाम भवाम, तिष्ठामेति यावत्, अस्तेर्लोट् तत्तस्मात्, आशापतितान् भैमीलाभाशया आपित्तिनागतान्, नः अस्मान्, धिक्, इदञ्चामस्माकं विबुधत्वं ?देवत्वं विपश्चित्वञ्च धिगस्तु, अन्यच्च–यत्तव रूपमधिगत्य त्वद्वेशं धारयित्वा, श्रितमुग्धभावाः लब्धसौन्दर्य्याः सनतः, “मुग्धः सुन्दरमूढयोः’ इति विश्वः । असाम नाम दिव्यामहे खलु, “असगतिदीप्तयादानेष्विति धातोर्लोट्’ इति विश्वः । असाम नाम दिवयामहे खुल, “असगतिदीप्त्यादानेष्विति धातोर्लोट्’ तत्तस्मात्, नोस्माकम्, आशापतितां दिक्पतित्वं धिक्, ‘आशा तृष्णादिशोरपि’ इति विश्वः, इदमस्मद्विबुधत्वञ्च । धिक्, तुच्छव्यापारत्वादिति भावः । “विबुधः पण्डिते देवे’ इति विश्वः । पूर्व एसवालङ्कार ॥ 10.48 ॥
अन्वयः–नरेन्द्र, यत् तव नाम रूपं स्वेन अधिगत्य श्रितमुग्धभावाः इह असाम, तत् आशापतितान् नः धिक् इदं च अस्माकं विबुधत्वं धिक् अस्तु ॥ 10.48 ॥
सा वागवाज्ञायतिमां नलेन तेषामनाशङ्कितवाक्छलेन ॥
स्त्रीरत्नलाभोचितयत्नमग्नमेनं न हि स्म प्रतिभाति किञ्चित् ॥ 10.49 ॥
जीवातु–सेति । अनाशङ्कितवाक्छलेन अनाकलितदेववाक्कपटेन, नलेन तेषां देवानां, सा वाक् पूर्वोक्ता व्याजोक्तिः, अवाज्ञायितमाम् अतिशयेनाव ज्ञाता, देववाक्यस्य पुरःस्फर्त्तिक एवार्थे गृहीतो न तु तात्तिवक इत्यर्थः । “जानातेरवपूर्वात् कर्मणि लुङि’ “तिङश्च’ इतृयनेनातिशयार्थे तमप् प्रत्ययः ततस्तस्य घसंज्ञा, ततः “किमेत्तिङव्ययघादाम्बद्रव्यप्रकर्ष’ इत्यनेनामुप्रत्ययः । कुतः ? हि यस्मात्, स्त्रभ्रत्नलाभे यः उचितयत्नो योग्यव्यापारो देवताऽनुध्यानादिः । तत्र मग्नम् आसक्तम्, एनं नलं प्रति, किञ्चत् किमप्यन्यत्, न प्रतिभाति स्म न स्फुरति स्म, व्यासङ्गो हि महान् विवेकप्रतिबन्प्रक इति भावः ॥ 10.49 ॥
अन्वयः–अनाशङ्कितवाक्छलेन नलेन तेषां सा वाक् अवाज्ञायितमाम् हि स्त्रीरत्नलाभोचितत्नमग्नम् एनं किञ्चित् न प्रतिभाति स्म ॥ 10.49 ॥
यः स्पर्द्धया येन निजप्रतिष्ठां लिप्सुः स एवाह तदुन्तत्वम् ॥
कः स्पर्द्धितुःस्वाभिहितस्वहानेःस्थानेऽवहेलां बहुलां न कुर्यात् ? ॥ 10.50 ॥
जीवातु–देववाक्यावज्ञां प्रति हेत्वन्तरमाह, य इति । योऽपकृष्टः, येनोत्कृष्टेन सह, स्पर्द्धया सघ्एार्षणेन, निजप्रतिष्ठामुत्कर्षं, लिप्सुः लब्धुमिच्छुः, लभेः सनन्तादुप्रत्ययः सः स्पर्द्धर्षणेन, निजप्रतिष्ठामुत्कर्ष, लिप्सुः लब्धुमिच्छुः, लभेः सनन्तादुप्रत्ययः सः स्पर्द्धमान एव, निजप्रतिष्ठामुत्कर्षं, लिप्सुः लब्धुमिच्छुः, लभेः सनन्तादुप्रत्ययः सः स्पर्द्धमान एव, तस्योत्कष्टपुरुषस्य, उन्नतत्वमुत्कष्टत्वम् आह व्रवीति, तच्चेष्टयैव तस्यापकृष्टत्वं स्फटीभवतीत्यर्थः । तथा हि, कः प्रेक्षावान्, स्वेनैवाभिहिता स्वहानिः स्वापकर्षो येन तस्य स्पर्द्धितुर्बहुलां भूयसीम्, अवहेलामवज्ञां, न कुर्यात् ? कुर्यादेवेत्ययर्थः । “रीढावमाननावज्ञाऽवहेलनमसूक्षणमद्व’ इत्यत्रावहेलयेति क्षीरस्वामी, स्थाने युक्ते ‘युक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः। भैमीलाभाथ्रं नलरूपधारणरूपया इन्द्रादिदुश्चेष्टया नलस्य महानुत्कर्षं एवः आसीत् ततः नलेन तेषामवज्ञा युक्तैवेति भावः ॥ 10.50 ॥
अन्वयः–यः येन स्पर्द्धया निजप्रतिष्ठां लिप्सुः सः एव तदुन्नतत्वम् आह; कः स्वाभिहितस्वहानेः स्पर्द्धितुः स्थाने बहुलाम् अवहेलां न कुर्यात् ? ॥ 10.50 ॥

गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्वल्ललिताभिनेता ॥
मुदा तदाऽवैक्षत केशवस्तं स्वयंवराडम्बरम्बरम्बरस्थः ॥ 10.51 ॥
जीवातु–गीरिति । तदा तस्मिन् काले, केशवो विष्णुः, गीर्देवतया वाग्देवतया, गीता यशःप्रशस्तिः कीर्त्तिप्रबन्धो यस्य सः, श्रिया लक्ष्मीदेव्या स्वशरीरस्थया, तडित्वतः सविद्युतो मेधस्य, ललितस्य विलासस्य, अभिनेता अनुकर्त्ता सन्, अमृबरस्थः तं स्वयंवराडम्बरं स्वयंवरसभायोजनं, मुदा हषेण, अवैक्षत, किमुतान्य इति भावः । लक्ष्मीसरस्वतीसहितः नारायणः स्वयंवरं द्रष्टुमाजगाम इति निष्कंर्षः ॥ 10.51 ॥
अन्वयः–तदा गीर्देवतागीतयशःप्रशस्तिः श्रिया तडित्त्वल्ललिताभिनेता अम्बरस्थः केशवः तं स्वयंवराडम्बरं मुदा अर्वक्षतं ॥ 10.51 ॥
अष्टौ तदाऽष्टासु हरित्सु दुष्टीः सदो दिक्षुर्निदिदेश देवः ॥
लैङ्गीमदृष्वाऽपि शिरःश्रियं यो दृष्टौ मृषावादितकेतकीकः ॥ 10.52 ॥
जीवातु–अष्टाविति । तदा तस्मिन् काले, सदः स्वयंवरसभां दिटृक्षुः द्रष्ज्ञ्टुमिच्छु आगत इति शेषः, देवश्चतुर्मखः, अष्टासु हरित्सु दिक्षु, अष्टौ टृष्टी निदिदेश प्रेरयामास, अष्टदिगाहृतनजाऽवलोकनार्थः । यो देवः, लैङ्गीं ज्योतिर्लिङ्गसम्बन्धिनीं, शिरःश्रियं लिङ्स्योत्तरावधिमित्यर्थः, अटृष्टवाऽपिटृष्टौ लिङ्गशिरोदर्शनविषये, मृषा वदतीति मृषावादिनी सा कृता मृषावादिता मृषावादीकृतेत्यर्थः, मृषावादिशब्दात्तत्करो?तीति ण्यन्तात् कर्मणि क्तः, पुं वदभाव-टिलोपाद्यार्था णाविष्ठवदभावोपसङ्‌ख्यानाट्टिलोपः, केतकी येन स कूटसाक्षीकृतकेतकीकुसुम इत्यर्थः, “नद्यृतश्च’ इति कप्समासान्तः । पुरा किल ब्रह्मा ज्योतिर्लिङ्गस्य शिरोदेशमंटृष्ट्वाऽप्यद्राक्षमित्यसत्यमुक्त्वा तत्र शिवशिरःपतिं केतकीकुसुमं शिवशिरःस्थितं मां ब्रह्मा तत आनीतवान् इति कूटसाक्षीचकारेति पौराणिकी कथाऽत्रानुसन्धेया । तथा आनीतवान् इति कुटसाक्षीचकारेति पौराणिकी कथाऽत्रानुसन्धेया । तथा च शिवशिरःपारमिव स्वयंवरागतजतासागरमष्टाभिर्टृ ष्टिभिः पश्यन्नपि नापश्यदिति निष्कर्षः ॥ 10.52 ॥
अन्वयः–यः लैङ्गीम् शिरःश्रियम् अटृष्टावा अपि टृष्टौ मृषावादितकेतकीकः सदः दिटृक्षुः देवः तदा अटृष्टासु हरित्सु अष्टौ टृष्टौ निदिदेश ॥ 10.52 ॥
एकेन पर्यक्षिपदात्मनाऽद्रिं चक्षुमुरारेरभवत् परेण ॥
तैर्द्वादशात्मा दशभिस्तु शेषैर्दिशो दशालाकत लोकपूर्णाः ॥ 10.53 ॥
जीवातु–एकेनति । द्वादश आत्मनो रूपाणि यस्य स द्वादशात्मा सूर्यः, एकेन आत्मना रूपेण, अद्रिं मेरुं, पर्यक्षिपत् प्रदक्षिणीकृतवान् परेणात्मना, मुरारेर्विष्णोः, चक्षुर्दक्षिणनेत्रम्, अभवत्, शेषैरवशिष्टैः, दशभिस्तैरात्मभिस्तु, लोकपूर्णाः जनसम्पूर्णाः दशा दिशोऽलोकत आलोकितवान् ॥ 10.53 ॥
अन्वयः–द्वादशात्मा एकेन आत्मना अद्रिं पर्यक्षिपत् परेण मुरारेः चक्षुः अभवत् शेषैः दशाभिः तु लोकपूर्णः दश अलोकत ॥ 10.53 ॥
प्रदक्षिणं दैवतहर्म्यमद्रिं सदैव कुर्वन्नपि शर्वरीशः ॥
द्रष्टा महेन्द्रानुजदृष्टिमूर्त्त्या न प्राप तद्दर्शनविध्नतापम् ॥ 10.54 ॥
जीवातु–प्रदक्षिणमिति । शर्वरीशश्चन्द्रः, दैवतानां र्ह्म्य वासगृहम्. अद्रिं मेरुं, सदैव प्रदक्षिणं कुर्वननपि महेन्द्रजस्य उपेन्द्रस्य विष्णोः, टृष्टिमूर्त्त्या वामनेत्ररूपेण, द्रष्टा सन् तस्य स्वयंवरस्य, दर्शनविध्नेन यस्तापस्तं न प्रापय; चन्द्रस्य स्वयमनागतत्वेऽपि तत्र विष्णेरागतत्वात्तद्वामनरूपेणाद्राक्षीदेवेति कुतस्तस्यादर्शनक्लेश इत्यर्थः ॥ 10.54 ॥
अन्वयः–सदा एव दैवतहर्म्यम् ?अद्रिं प्रदक्षिणं कुर्वन् अपि शर्वरीशः महेन्द्रानृजटृष्टिमूर्त्त्या द्रष्टा तद्दर्शनविध्नतापं न प्राप ॥ 10.54 ॥
विलोकमाना वरलोकलक्ष्मीं तात्कालिकीमप्सरसो रसोत्काः ॥
जनाम्बुधौ तत्र निजाननानि वितेनुरम्भोरुहकाननानि ॥ 10.55 ॥
जीवातु–विलोकमाना इति । रसेन रागेण, उत्का उन्मनसः, दर्शनरसोत्सुकाः सत्यः, सत्यः, “उत्क
उन्?मनाः’ इत्यमरः । उक्त इति निपातमिद्धम्, तात्कालिकीं तत्कालभवां वरलोकलक्षृमीं परिणेतृजनशोभां, विलोकमानाः अप्सरसस्तत्र जनामृबुधौ सभास्थजनरूपार्णवे, जलाशये एव कमलसम्भवात् जनेऽम्बधित्वारोप इति भावः; निजाननानि स्वमुखानि, अम्भोरुहकाननानि कमलवनानि, वितेनुः वधुः तदन्तर्गतानि तन्मुखानि पह्मानीव रेजुरित्यर्थः । तथा चाप्सरसोऽहपि स्वयंवरसभां द्रष्टुमागता इति भावः ॥ 10.55 ॥
अन्वयः–रसोत्काः तात्काकिकीं वरलोकलक्ष्मीं विलोकमानाः अप्सरसः तत्र जनाम्गबुधौ अम्भोरुहकाननानि निजाननानि वि तेनुः ॥ 10.55 ॥
न यक्षलक्षैः किमलक्षि ? नो सा सिद्धैः किलध्यासि समाऽऽप्तशोभा । ? ॥
सया किन्नरैः किं न रादसेति ? नादर्शिश हर्षेण महषिभिश्च ? ॥ 10.56 ॥
जीवातु–नेति । तदा आप्तशोभा लब्धकान्तिः, सा सभा यक्षाणां लक्षैः शतसहस्त्रैः, नालक्षि नादर्शि किम् ? सिर्द्धर्वा नाध्यासि नाध्यासिता किम् ? तथा च सर्वैरदर्शीत्यथ्रः । सर्व कर्मणि लुङ् ॥ 10.56 ॥
अन्वयः–आप्तशेभा सा सभा किं यक्षलसैः न अलक्षि, किं सिद्धैः नो अध्यासि ? सा रसात् किं किन्नरैः न असेवि महर्षिभिः च हर्षेण न अदर्शि ? ॥ 10.56 ॥
वाल्मीकिरश्लाघत तामनेकशाखात्रयीभूरुहराजिभाजा ॥
क्लेशं विना कण्ठपथेन यस्य दैवी दिवः प्राग्भुवमागमद्वाक् ॥ 10.57 ॥
जीवातु–वाल्मीकिरिति । तां सभां, वाल्मी?किर्मुनिः, अश्लाघता अस्तुत, अनेकाः शाखाः कथकाः, आश्वलायनादिवेदविभागा इति यावत्, वृक्षावयवविशेषाश्च यस्याः सा अनेकशाखा, त्रयाणं वेदानां समाहारः त्रयी, अनेकशाखा चासौ त्रयी च अनेकशाखत्रयी, सा एव भूरुहराजिः तरुपङ्क्तिः, तां भजतीति तदभाक् तेन, “भजो ण्वः’ । ‘शाखा देवप्रभेदेषु बाहौ पार्श्वद्रुमाङ्गयोः’ इति वैजयन्ती । पथिकविश्रामवृक्षवतेत्यरूर्थः, यस्य कण्ठ एव पन्था तेन कण्ठपथेन दैवी वाक् छन्दोमयी सरस्वती, ‘मा निषाद ! प्रतिष्टां त्वम्’ इत्यादिरूपेण, क्लेशं विना अनायासेन, दिवः स्वर्गात्, प्राक् भुवं भूलोकम्, आगमत् आगता एव, छन्दोबद्धा सरस्वती येनः प्रथमं भूलोकमवतारिता तेनादिकविनापि स्तुतेत्यर्थः ॥ 10.57 ॥
अन्वयः–दैवी वाक् यस्य अनेकशाखात्रयीभूरुहराजिराजा कण्ठपथेन क्नेशं विना दिवः प्राक् भुवम् आगमत् ( सः ) वाल्मीकिः ताम् अश्लात ॥ 10.57 ॥
प्राशंसि संसद् गुरुणाऽपि चार्वी चार्वकतासर्वविदूषकेण ॥
आस्थानपट्टं रसनां यदीयां जानामि वाचमधिदेवतायाः ॥ 10.58 ॥
जीवातु–प्राशंसीति । चार्वी चारु रम्या, ‘वोतो गुणवचनात्’ इति ङीष् । जीवातु–प्राशंसीति । चार्वी चारु रम्या, “वोतो गुणवचनात्’ इति ङीप् । संसत् सभा, चार्वाकतया चार्वाकसिद्धान्तितया, नास्तिकतया हेतुना इत्यर्थः, सर्वविदूषकेण वेदादिसर्वशास्त्रखण्डके, गुरुणा बृहस्पतिनाऽपि, प्राशंसि, किमुत अन्यैरिति भावः, नास्तिकप्रतारणार्थं चार्वाकशास्त्रं प्रणीय बृहस्पतिना वेदादिशास्त्रं दूषितमिति प्रसिद्धिः । यदीयां रसनां
जिह्वां, वाचामधिदेवतायाः सरस्वत्याः, आस्थानपट्टम् आ?स्थानपीठं सिंहाससनमित्यर्थः, जानामि, “आसनान्तरपीठयोः पट्टम्’ इति विध्वः । सर्वविदूषकेण वाचस्पतिनाऽपि स्तूयते इति सभाशोभायाः परमोत्कर्ष इति भावः ॥ 10.58 ॥
अन्वयः–यदीयां रसनाम् वाचाम् अधिदेवतायाः आस्थानपट्टं जानामि, चार्वाकतार्वविदूषकेण गुरुणा अपि चार्वी संसद् प्राशंसि ॥ 10.58 ॥
नाकेऽपि दीव्यत्तमदिव्यवाचि वचःस्त्रगाचार्यकवित् कविर्यः ॥
दैतेयनीतेः पथि सार्थवाहः काव्यः स काव्येन सभामभाणीत् ॥ 10.59 ॥
जीवातु–नाकेऽपीति । यः काव्यः अतिशयेन दीव्यत्यन्त्यः दीव्यत्तमाः देदीप्यमानाः, “तसिलादिव्याकृत्वसुचः’ इति पंवद्भावः । दिव्यवाचः संस्कृतवाचः यस्मिन् ताटृशे, नाके स्वर्गेऽपि, वचःस्त्रजां वाग्गुम्फनानाम्, आचार्यकम् आचार्यकत्वे, ‘योपधाद्गुरूपोत्तमाद्वुञ्, ’ तद्वित् कवितामार्गोपदेष्टा, कविः स्वयं कवयिता च दित्या अपतृयानि पुमांसो दैतेयाः “दित्यदिति’–“इत्यादिना ण्यप्रत्ययस्य पूर्वविप्रतिधेधेन
ढगपवादिकत्वात्, लिङ्गविशिष्ट?परिभाषा त्वनित्येति गतिः, भाष्यवार्त्तिकयोरनुक्तत्वादसाधुरिति केचित्, अभियुक्तप्रयोगादभियौक्तिकप्रसिद्धश्च तन्नाद्रियन्ते, तेषां नीतेः पथि दैत्यनीतिमार्गे, सार्थं वहतीति सार्थवाहः अग्रथे ग्रहे काव्ये’ इति विश्वः ॥ 10.59 ॥
अन्वयः–दीव्यत्तमदिव्यवाचि नाके अपि यः वचः स्त्रगाचार्यकवित् कविः दैतेयनीतेः पथि सार्थवाहः सः काव्यः काव्येन सभाम् अभाणीत् ॥ 10.59 ॥
अमेलयदभीमनृपः परं नः नाकर्षदेतान् दमनस्वसैव ॥
इदं विधाताऽपि विचिन्तय यूनः स्वशिल्पसंर्वस्वमदर्शयनतः ॥ 10.60 ॥
जीवातु–अथ षङ्र्भिस्तत्काव्यमेवाह–अनेलयदित्यादि । एतान् यूनः युवराजनान् भीमनृपः परं केवलं, न अमेलयत् स्वयंवरार्थं न मेलितवान्, तथा दमनस्वसा दमयन्त्येव, नाकर्षत्, स्वगुणेनेति शेषः, किन्तु विधाताऽपि विचिन्त्य एकत्र सङ्गृह्म, इदं पुरोवर्त्ति युवरूपं स्वशिल्पसर्वस्वं स्वनिर्माणकौशलसम्पदं, नः अस्माकम्, अदर्शयत् । राज्ञः प्रयत्नात् भैमीसौन्दर्यसम्पदा ब्रह्मणः स्वनिर्माण कौशलप्रकासनव्यसनाच्चेदं युवमेलनं न त्वेकस्मादित्युत्प्रेक्षा ॥ 10.60 ॥
अन्वयः–भीमनृपः परम् एतान् यूनः न अमेलयत्, दमस्वसा एव न आकर्षत्, विधाता अपि इदं विचिन्त्य नः स्वशिल्पसंर्वस्वम् अदर्शयत् ॥ 10.60 ॥
एकाकिभावेन पुरा पुरारिर्यः पञ्चतां पञ्चशरं निनाय ॥
तदभीसमाधानमनुष्य काय-निकायलीलाः किममी युवानः ? ॥ 10.61 ॥
जीवातु–एकाकीति । य. पुरारि पुरा एकाकिभावेन असहायत्वेन हेतुना, पञ्चानां भावः पञ्चता सा भौतिकस्य शरीरस्य स्वस्वांशस्य स्वेषु स्वेषु प्रवेशः, मरणमिति यात्, ता निनाय, अमी युवानः अमुष्य कामस्य म्बधिन्यां तस्मात् पुरारेः, भियः समाधानं निवारणं, निवारका इत्यर्थः, कार्यकारणयोरभेदोपचारः, कायनिकायलीलाः शरीरसमूहविलासाः, कामकायव्युहाः इति यावत् किम् ? पूर्व महादेवः सहायहीनं कन्दर्पं संजहार इति कन्दर्पस्यासहायत्वात् ततो भयमासीत्, इदानीम् एतद्युवशरीरैरात्मनो बहुत्वात् ततो न भयमिति भावः । इयमुत्प्रेक्षा । सर्वे कामकत्पा इति निष्कर्षः ॥ 10.61 ॥
अन्वयः–यः पुरारिः पुरा एकाकिभावेन पञ्चशरं पञ्चशरं निनाय, अमुष्य कायनिकायलीलाः अमी युवानः र्कि तद्भीसमाधानम् ? ॥ 10.61 ॥
पूर्णेन्दुबिम्बाननुमासभिन्नानस्थापयत् क्वापि निधाय वेधाः ॥
तैरेव शिल्पी निरमादमीषां मुखानि लावण्यमयानि मन्ये ॥ 10.62 ॥
जीवातु–पूर्णेति । शिल्पी निर्माणकुशली, वेधाः अनुमासं मासि मासि, भिन्नान् नानाभूतान्, पूर्णेन्दुबिम्बान् संसारस्यानादित्वादित्वादसङ्ख्यानिति भावः, क्वापि निधाय निक्षिप्य, आच्छाद्येति यावत् अस्थापयत् स्थापितवान्, चिरमरक्षदित्यर्थः । अथ तैः पूर्णेन्द्रुबिम्बैरेव, अमीषां यूयनां, ावण्यमयानि मुखानि निरमात् निर्मितवानिति मन्ये । उत्प्रेक्षा ॥ 10.62 ॥
अन्वयः–शिल्पी वेधाः अनुमासभिन्नान् पूर्णेन्दुबिम्बान् क्व अपि निधाय अस्थापयत्, मन्ये तैः एव अमीषां लावण्यमयानि मुखानि निरमात् ॥ 10.62 ॥
मूधाऽर्पितं मूद्धंसु रत्नमेतैर्यन्नाम् तानि स्वयमेत एव ॥
स्वतःप्रकाशे परमात्मबोधे बोधान्तरं न स्फुरणार्थमर्थ्यम् ॥ 10.63 ॥
जीवातु–मुधेति । एतैः नृपैः मूर्द्धसु रत्नं अर्पितं शिरोमणिर्वृ थाधृतः इत्यर्थः; कुतः ? यत् सयस्मात्, एते स्वयमेव तानि रत्नानि, नाम खलु, तथोत्कृष्टा इत्यर्थः । “रत्नं स्वजातौ श्रेष्ठेऽपि’ इत्यमरः, किं रत्नधारणेनेति वाच्यप्रतीयमानयोरभेदाध्यवसायेन वैयर्थोक्तिः तथा हि, स्वतःप्रकाशे, परमात्मबोधे परमात्मविषयके तत्स्वरूपे वा ज्ञाने विषये, स्फुरणार्थां तज्ज्ज्ञा प्रकाशनार्थं, बोधान्तरम् अनुव्यवसायादिरूपं ज्ञानान्तरं, न अर्थ्यं नापेक्ष्यम् । टृष्टान्तालङ्कारः ॥ 10.64 ॥
अन्वयः–एतैः मूर्द्धषु रत्नं मुधा अर्पितं, यत् एते स्वयम् तानि एव नाम; स्वतःप्रकाशे परमात्मबोधे
स्फरणार्थं बोधान्ततारं न अर्थ्यम् ॥ 10.63 ॥
प्रवेक्ष्यतः सुन्दरवृन्दमुच्चैरिदं मुदा चेदितरेतरं तत् ॥
न शक्ष्यतो लक्षयितुं विमिश्रं दस्त्रौ सहस्रैरवि वत्सराणाम् ॥ 10.64 ॥
जीवातु–प्रवेक्ष्यत इति दस्त्रौ अश्विनौ, उच्चैः महत्, इहं सुन्दरवृन्दं रमणीयवर्ग, मुदा कौतुकेन, प्रवेक्ष्यतः अन्तःप्रविष्टौ भविष्यतः, चेत् तत्तर्हि, विमिश्रं मिलितम्, इतरेतरम् अन्योऽन्यं स्वभातृरूपं, वत्सराणां सहस्त्रै रपि लक्षयितुं मदीयः अयमेव भ्राता इति विविक्ततया ग्रहीतुं, न शक्ष्यत शक्तौ न भविष्यतः, तत्र सभायां स्थिताः सर्वं राजानः अश्विनीकुमारतुल्या इति भावः । अत्र दस्त्रयो सौन्दर्यगुणसामान्येन सुन्दरवन्दैकतादात्म्यात् सामान्यालङ्कारः, ‘सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता’ इति लक्षणात्
॥ 10.64 ॥
अन्वयः–दस्त्रै उच्चैः मुदा इदम् सुन्दरवन्दं प्रवेक्षृयतः चेत् तत् विभिश्रम् हतरेतरं वत्सराणां सहस्त्रैः अपि लक्षयितुं न शक्यतः ॥ 10.64 ॥
स्थितेरियदिभर्यवभिर्विदग्धैर्दग्धेऽपि कामे जगतः क्षतिः का ? ॥
एकाम्बुबिन्दुव्ययम्बुराशेः पूर्णस्य कः शंसति शोषदोषम् ? ॥ 10.65 ॥
जीवातु–स्थितैरिति । विदग्धैः प्रगल्भैः अदग्धौश्च, स्थितैः इयदिभः एतावदिभः, युवभिः, उपलक्षितस्येति शेषः, जगतः कामे दग्धेऽपि का क्षतिः ? न्यूनता न काऽपीत्यरूर्थः । तथा हि, पूर्णस्य अम्बुराशेः एकामृबुविन्दुव्ययं कः शोष एप दोषस्तं शंसति ? न कोऽपि दोषत्वेन शंसतीत्यर्थः; यथा समुद्रस्य एकबिन्दुजलव्यये समुद्रः शुष्कः इति न कोऽपि कथयति तथा कामसटृशानं बहूनाम् एतेषा विद्यमानतायाम् एकस्य कामस्य नाशे पृथिव्याः का क्षतिः ? ॥ 10.65 ॥
अन्वयः–विदग्धैः इयदिभः युवभिः कामे दग्धे अपि जगतः का क्षतिः पूर्णस्य अम्बुराशेः एकाम्बुबिन्दुव्ययं कः शेषदोषं शंसति ? ॥ 10.65 ॥
इति स्तुवन् हूङ्कृतिवगंणाभिर्गन्धर्ववर्गेण स गायतैव ॥
ओङ्कारभूम्ना पठतैव वेदान् महर्षिवृन्देन तथाऽन्वमानि ॥ 10.66 ॥
जीवातु–इतीति । इतीत्यं स्तुवन् स काव्यः, गायतैव गन्धर्ववर्गेण हूङ्कृतीनां वग्रणाः पुनः पुनरुच्चारणानीत्यर्थः, ताभिः अन्वमानि अनुमोदितः, कर्मणि लुङ, तथा वेदान् पठतैव महर्षिवृन्देन ओङ्कारभूम्ना प्रणवभूयस्त्वेन, अन्वमानि कृतमिवेत्युत्प्रेक्ष्यते । “ओमितृयनुमेत प्रोक्तं चाप्युपक्रमे’ इति विश्वः
॥ 10.66 ॥
अन्वयः–इति स्तुवन् सः गायता एव गन्धर्ववर्गेण हूङ्कृतिवर्गणाभिः तथा वेदान् पठता एव महर्षिवृन्देन ओङ्कारभुग्ना अन्वमानि ॥ 10.66 ॥
न्यवीविशत्तानथ राजसिंहान् सिहासनरौधेषु वदिर्भराजः ॥
शृङ्गेषु यत्र त्रिदशैरिवैभिरशोभि कार्त्तस्वरभूधरस्य ॥ 10.67 ॥
जीवातु–न्यवीविशदिति । अथ विदर्भराजः भीमः, तान् राज्ञः र्सिहानिव राजर्सिहान् राजश्रेष्ठान्, सिंहासनोधेषु न्यवीविशत् उपवेशयासास, विशेणौ चङ् यत्र येषु सिंहासनेषु, एभिः राजर्सिहैः, कार्त्तस्वरभूधरस्य हेमाद्रेः सुमेरोः, शृङ्गेषु त्रिदशै देवैरिव, वशोभि शोभितम् । भावे लुङ् ॥ 10.67 ॥
अन्वयः–अथ विदर्भराजः तान् राजर्सिहान् सिंहासनौषेधेषु न्यवीविशतृ यत्र एभिः कार्त्तस्वरभुधरस्य शृङ्गेषु त्रिदिशैः इव अशोभि ॥ 10.67 ॥
विचिन्त्य नानाभुवनागतांस्तानमर्त्यसङ्कीत्तर्‌यचरित्रगोत्रान् ॥
कथ्याः कथङ्कारममी सुतायामिति व्यषादि क्षितिपेन तेन ॥ 10.68 ॥
जीवातु–विचिन्त्येति । तेन क्षितिपेन भीमेन, नानाभुवनेभ्यः नानाप्रदेशेभ्यः, आगतान् तान् यूनः, मर्त्त्यैः सङ्कीर्त्त्यानि कीर्त्तयितुं शक्यानि, चरित्राणि गोत्राणि कुलानि नामानि च येषां ते न भवन्तीति तथोक्ताः तान् तथाविधान् विचिन्त्य अमी युवानः, सुतायां विषये, कथङ्कारं केन प्रकारेण, “अन्यथैवं कथम्’ इतृयादिना
णमुल् कथ्याः कथ्याः कथनीयाः, इति हेतोः, व्यषादि विषण्णेन अभावि, भावे लुङ् । “प्राक्सितादङ्व्यवायेऽपि’–“सदिरप्रते’ इति षत्वम्, एतेषां चरित्रगोत्रादीनि नरलोकैर्णयितुमशक्यत्वात् दमयन्ती कथं ज्ञास्यतीति विषण्णो बभूवेति भावः ॥ 10.68 ॥
अन्वयः–वह क्षितिपेन नानाभुवनागतान् तान् अमर्त्यसङ्कीर्त्त्यचरित्रगोत्रान् विचिन्त्य अमी सुतायां कथङ्कारं कथ्याः–इति व्यषादि ॥ 10.68 ॥
श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमस्याथ रथाङ्गपाणेः ॥
तदाऽऽकुलोऽसौ कुलदैवतस्य स्मृर्ति ततान क्षणमेकतानः ॥ 10.69 ॥
जीवातु-श्रद्धाल्विति । अथ विषादानन्तरम्, आकुलः असौ भीमः, तदा श्रद्धालूनां भक्तानां “स्पृहिगृहि–‘इत्यादिना आलुच्प्रत्ययः, सङ्कल्पितकल्पनायाम् ईप्सितार्थसम्पादने, कल्पद्रमस्य इच्छापूरकस्य, कुलदैवतस्य वंरम्परोपासितस्य, रथाङ्गपाणेः नारायणस्य स्मृतिं स्मरणं, क्षणं व्याप्यएकतानः अनन्यवृत्तिः सन्, ततानद्व “एकतानोऽनन्यवृत्तिः’ इत्यत्मरः ॥ 10.69 ॥
अन्वयः–थअ आकुलः असौ तदा श्रद्धालुसंकल्पितकल्पनायां कल्पद्रुमत्य कुलदैवतस्य रथाङ्गपाणेः स्मृर्ति तदा श्रद्धालुसंकल्पितकल्पनाथां कल्पद्रुमस्य कुलदैतस्य रथाङ्गपाणेः स्मृर्ति क्षणम् एकतानः ततान
॥ 10.69 ॥
तच्चिन्तनानान्तरमेव देवः सरस्वतीर सस्मिताह स स्म ॥
स्ववंवरे राजकगोत्रवृत्त-वक्त्रीमिह त्वां करवाणि वाणि ! ॥ 10.70 ॥
जीवातु–तदिति । तसय भीमस्य, चिन्तनानन्तरं स्मरणानन्तरमेव, स देवो हरिः, सरस्वतीं सस्मितमाह स्म । “लट् स्मे’ इति भूते लट्, किमिति ? हे वाणि ! इह स्वयंवरे त्वां राज्ञां समूहो राजकं, ‘गोत्रोक्ष–‘इत्यादिना वुञ् तस्यं गोत्राणां नाम्नां कुलानां, वृत्तानां चरित्राणाञ्च, वक्त्रीम् आख्यात्रीं, करवाणि, प्रैषार्थे लोट्’ अहमिति शेषः ॥ 10.70 ॥
अन्वयः–तच्चिन्तनानन्तरम् एव सः सरस्वतीं सस्मितम् आह स्म वाणि, इह स्वयंवरे त्वां राजकगोत्रवृत्तवकत्रीं करवाणि ॥ 10.70 ॥
कुलञ्च शीलञ्च राञ्च राज्ञां जानासि नानाभुवनागतानाम् ॥
एषामतस्त्वं भव वावदूका मूकायिर्तु कः समयस्तवायम् ? ॥ 10.71 ॥
जीवातु–कुलमिति । हे वाणि ! नानाभुवनागतानां राज्ञां कुलञ्च शीलञ्च बञ्च जानसि अतः कारणात्, त्वम् एषां वावदूका वक्त्री, वंशीवीर्य्यादि गुणतो वर्णयित्रीत्यर्थः, भव, ‘वावदूकोऽतिवक्तरि’ इत्यमरः । वावदूक इत्यस्य यङ्लुगन्तात् वदेः “उकूकादयश्च’ इत्यनेन औणादिक ऊकप्रत्ययः, कुर्वादिगणे वावदूकशब्दपाठात् ऊकप्रत्यय इति माधवः तथ्ता हि, तव मूकायितुं मूकवदाचरितुं, तूष्णीं स्थातुमित्यर्थः, मूकशब्दादाचारार्थे क्यजन्तात् ‘कालसमयवेलासु तुमुन्’ अयं कः समयः ? को वाऽवसरः ? अपि तु न कोऽपि इत्यर्थः । वाग्मिनाम् अवसरे तूष्णीम्भावो न युक्त इत्यर्थान्तरन्यासः ॥ 10.71 ॥
अन्वयः–त्वं नानाभुवनागतानां राज्ञां कुलं स शीलं च बलं च जानासि;, अतः एषां वावदेका भव; तव मूकायितुम् अयं कः समयः ? ॥ 10.71 ॥
जगत्रयीपण्डितमण्डितषा स भा भूता न च भाविनी वा ॥
राज्ञां गुणज्ञापनकैतवेन सङ्ख्यावतः श्रावय वाङ्मुखानि ॥ 10.72 ॥
जीवातु–वागवसरत्वमेवाह-जगदिति । हे वाणि ! जगत्रय्यां ये पण्डिता वाचस्पत्यादयः, तैः अशेषैः मण्डिता एषा सभा न भूता न च भाविनी वा, अतो राज्ञां गुणज्ञापनकैतवेन गुणप्रकाशनच्छलेन संख्यावतः पण्डितान्, वाहङ्मुखानि उपन्यासान्, ‘संख्यावान् पण्डितः कवि’ इति, उपन्यास्तु वाङ्मुखम्’ इति चामरः । श्रावय; पण्डितमण्डलीविलसिते विदुषां वाग्विजृम्भणम् उचितं, तत्रापि तृष्णीम्भावे वाग्विफलत्वमयोग्यता च स्यादिति भावः ॥ 10.72 ॥
अन्वयः–एषा जगत् क्यीपण्डितमण्डिता सभा न भूता न च वा भाविनी; राज्ञां गुणज्ञापनकैतवेन
सङ्ख्यावतः वाकङ्मुखनि श्रावय ॥ 10.72 ॥
इतीरिता तच्चरणात् परागं गीर्वाणचूडामणिमृष्टशेषम् ॥
तस्य प्रसादेन सहाज्ञयाऽसावादाय मूर्द्ध्नाऽऽदरिणी बभारस ॥ 10.73 ॥
जीवातु–इतीति । इति इत्थम्, ईरिता विष्णुना आज्ञप्ता, असौ वाणी, तस्य हरेः नारायणस्य, चरणात् गीर्वाणानां देवानां, चूडामणिभिः शिरोत्नैः, मृष्टस्य प्रो?ञ्छितस्यच, शेषम् अवशिष्टं, परागं रेणुं, तस्य आज्ञया आज्ञारूपेण, प्रसादेन अनुग्रहेण, सह आदाय मूर्द्ध्ना आदरिणी आदरवती सती, बभार ॥ 10.72 ॥
अन्वयः–इति ईरिता असौ तच्चरणात् गीर्वाणचूडामणिमृष्टशेषं परागं तस्य आाया सह प्रसादेन आदाय मूर्ध्ना आरिणी बभार ॥ 10.72 ॥
मध्येसभं साऽवतार बाला गन्धर्वविद्यामयकण्ठनाला ॥
त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वर्तिततदृक्तरङ्गा ॥ 10.73 ॥
जीवातु–मध्येसभमिति । सा वाधी, मध्सये सभायाः मध्येसभं ‘पारेमध्ये षष्ठ्या वा’ इत्यव्ययीभावः, अवततारं । कीटृशी ? बाला बलस्त्रीरूपधारिणी, गन्धर्वविद्या गानविद्या, तन्मयस्तद्विकारः, कण्ठनालः यस्याः सा, त्रयीमयीभूताः त्रिधाभूताः, अन्यत्र-वेदविकारीभूताः, वलीविभङ्गाः त्रिवलीसर्वस्वानि यस्याः सा, साहित्येन कवित्वेन, निर्वर्त्तिता निष्पादिताः, टृशः टृष्टयः, तरङ्गा इव यस्याः सा ॥ 10.74 ॥
अन्वयः–गन्धर्वविद्यामय-(विद्याधर)-कण्ठनाला त्रयीमयीभूतवलीविभङ्गा साहित्यनिर्वर्त्तितटृकृतरङ्गा स्त बाला मध्येसभम् अवततार ॥ 10.74 ॥
आसीदथर्वा त्रि?वलित्रिवेदी-मुलात् विनिर्गत्य वितायमाना ॥
नानाभिचारोचितमेचकश्रीः श्रुतिर्यदीयोयाररोमरेखा ॥ 10.75 ॥
जीवातु–अथ चतुर्दशश्लोक्या वाग्देवीमेव वर्णयति, आसीदिति । अथर्वा श्रुतिः अथर्ववेदः तिस्त्रो वलयः त्रि?वलिः; त्रिवलिप्रसिद्धिः संज्ञा चेदिति वामनः, तद्रूपा त्रिवेदी, सैव मूलं तस्मात् विनिर्गत्य वितायमाना वितन्यमाना, तनोतेरनुनासिकस्य विकल्पादात्वम्, अथर्वणस्तु त्रय्युद्धार इति प्रसिद्धिः । नानाविधानाम् अमिचाराणां हिंसाकर्मणाम्, उचिता पापातिशयात् युक्ता, मेचकश्रीः कृष्णकान्तिर्यस्याः सा, अन्यत्र–अनाभिचारो न भवतीति नानाभिचारः नाभिसञ्चरणमित्यर्थः, तस्य उचिता सा च सा मेचका श्रीर्यस्याः सा तथोक्ता, यदीया यस्याः सरस्वत्याः सम्बन्धिननी, उदरे रोमरेखा रोमराजिः, आसीत्
॥ 10.75 ॥
अन्वयः–अथर्वा त्रिवलित्रिवेदीमूलात् विनिर्गत्य वितायमाना नानाभिचारोचितमेचकश्रीः यदीया उदररोमरेखा आसीत् ॥ 10.75 ॥
शिक्षैव साक्षाच्चरितं यदीयं कल्पश्रियाऽऽकल्पविधिर्यदीयः ॥
यस्याः समस्तार्थनिरुक्तिरूपैर्निरुक्तविद्या खलु पर्यणंसीत् ॥ 10.76 ॥
जीवातु–शिक्षेति । शिक्षा तदारूयग्रन्थ एव, साक्षात् स्वयमेव, यदीयंचरितम् अभूत्, परोपदेशरूपत्वादिति भावः । यदीय आकल्पविधिः प्रसाधनविधिः, कल्पश्रिया कर्मकाण्डभूतया कल्पसूत्रलक्ष्म्या, निवृत्ति इति शेषः । निरुक्तविद्या खलु एव यस्याः समस्तार्थानां, निरुक्त्रिरूपैः निर्वचनभङ्गिभिः, पर्यणंसीत् तद्रूपेण आसीदित्यर्थः । णमेर्लुङ् “अस्तिसिचोऽऽपृक्ते’–इतीडागमः, “उपसर्गादसमासेऽपि’ णोपदेशस्य इति णत्वम् ॥ 10.76 ॥
अन्वयः–शिक्षा यदीयं साक्षात् चरितम् एव, कल्श्रिया यदीयः आकल्पविधिः, निरुक्तविद्या खलु यस्याः
समस्तार्थनिरुक्तिरूपैः पर्वणंसीत् ॥ 10.76 ॥
आतृया च यवृत्तेन च भिद्यमानां छन्दो भुजद्वन्द्वभभूत् यदीयम् ॥
श्लोकार्द्धविश्रान्तिमयीभविष्णु पर्वद्वयीसन्धिसुचिह्लमध्यम् ॥ 10.77 ॥
जीवातु–जात्येति । जात्या मात्रावृत्तरूपेण आर्य्यादिना च वृत्तेन वर्णवृत्तरूपेण अक्षरसांख्यातेन उक्थादिना च, विद्यमानं द्विधाभूतं, तथा श्लोकार्द्धे विश्रान्तिमयीभविष्णु विश्रान्तिरूपतामापन्नं छनदः
छन्दोग्रन्थः, यदीयं पर्वणोः कूर्परपूर्वोत्तरभागयोः, ,यी तस्याः सन्धिः तेन सुचिह्नं सुव्यक्तं, मध्यं कर्पूरस्थानं यस्य कर्परत्वेन पर्यणंसीदित्यर्थः ॥ 10.77 ॥
अन्वयः–जात्या वृत्तेन च भिद्यमानं श्लोकार्द्धविश्रान्तिमयीभविष्णु च छन्दः यदीयं पर्वद्वयरसन्धिसुचिह्‌रमध्यं भ्रजद्वन्द्वम् अभूत् ॥ 10.77 ॥
असंशयं सा गुणदीर्धभाव-कृतां दधाना वितर्ति यदीया ॥
विधायिका शब्दापरसम्पराणां किञ्चारचि व्याकरणेन काञ्चो ॥ 10.78 ॥
जीवातु–असंशयमिति । किञ्च गुणस्य पट्टसूत्रस्य, दीर्धभावेन दैर्ध्येण, कृतां वितर्ति विस्तारं, दधाना अन्यत्र-गुणश्च दीर्धश्च भावप्रत्ययश्च कृत्प्रत्ययश्च तेषां वितर्ति दधानेनेति विभक्तिविपरिणामः; शब्दपरम्पराणां श्?िञ्जत परम्पराणां, विधायिका जनयित्री, अन्यत्र–सुप्तिडन्तशब्दपराणां विधायकेन साधकेनेति विभक्तिविपरिणामः; सा प्रसिद्धा, यदीया काञ्ची व्याकरणेन अरचि रचिता, असंशयं संशयाभाव इत्यर्थः, “अव्ययं विभक्ति–’ इत्यादिना अर्थाभावेऽव्ययीभावः ॥ 10.78 ॥
अन्वयः–किं च गूणदीर्धभावकृतां विर्ति दधाना शब्दपरम्पराणा विधायिका मदीया सा काञ्ची असंशयं व्याकरणेन अरचि ॥ 10.78 ॥
स्थितैव कण्ठे परिणम्य हार-लता बभूवोदिततारवृत्ता ॥
ज्योतिर्मयी यदभजनाय विद्या मध्येऽङ्गमंकेन भसृत्ता विशंके ॥ 10.79 ॥
जीवातु–स्थितेति । कण्डे वाचि, अन्यत्र–ग्रीवायां परिणम्य रूपान्तरं प्राप्य, स्थिता, उदिता उक्ताः, तारा अश्विन्यादयो येषु तानि, वृत्तानि पद्यानि यस्यां सा, अन्यत्र–उदिततारा प्रकाशितशुद्धर्माक्तिका, सा च सा वृत्ता च वर्त्तुला च तथोक्ता, “तारो मुक्तादिसंशुद्धौ तरणं शुद्धमौकितके–वृतृतं पह्मे चरित्रे त्रिष्वतीते टृढनिस्तले’ इति च विश्वामरौ, इङ्गनां शिक्षाकल्पादीनाम्, अन्यत्र–करादीनां मध्ये मध्येऽङ्गं, ‘परि मध्ये’ इतृययादिनाऽव्ययीभावः, अङ्केन एकद्व्यादिसंख्यया चिह्नेन, भृता पूर्णाः, अन्यत्र–अङ्कं क्रोडेन, क्षसा इत्यर्थः, भृता धृता धृता, भरतेर्बिभतेश्च कर्मणि क्तः ‘अङ्कं क्रोडेऽन्तिके चह्ने’ इति वैजयन्ती । ज्योतिर्मयी नक्षत्रप्रधाना, अन्यत्र-भास्वती, “ज्योतिरग्नौ दिवााकरे । पुमान् नपंुसकं टृष्टौ स्यान्नक्षत्रप्रकाशयोः” इति मेदिनी, विद्या जृयोतिर्विद्यैव, यदभजनाय यस्याः सरस्वत्याः सेवनाय, हारलता बभूव इति विशङ्के इतृयूत्प्रेक्षा ॥ 10.79 ॥
अन्वयः–उदिततारवृत्ता मध्येऽङ्गम् अङ्केन भृत्ता जृयोतिर्मयी विद्या एव परिम्य विशङ्के यत् भजनाय कण्ठे स्थिता हारलता बभूव ॥ 10.79 ॥

अवेमि वादिप्रतिवादिगाढ-स्वपक्षरागेण विराजमाने ॥
तौ पूर्वपक्षोत्तरपक्षशास्त्रे रदच्छदौ भूतवती यदीयौ ॥ 10.80 ॥
जीवातु–अवैमीति । वादिप्रतिवादिनोः गाढेन निविडेन, स्वपक्षे रागेण अभिनिवेशेन, अन्यत्र–अन्तःपार्श्वरक्तत्वे, विराजमाने पूर्वपक्षोत्तरक्षशास्त्रे यदीयौ तौ प्रसिद्धौ, रदच्छदौ ओष्ठौ, भूतवती बभूवतुः, भवतेः क्तवतुप्रत्ययः, अवैमि उत्प्रेक्षे । अत्र ओष्ठावपि वादिनाभिवन्दनव्यापारवन्तौ पूर्वोतृतरीभूतौ चेति द्रष्टव्यम् ॥ 10.80 ॥
अन्वयः–वादिप्रतिवादिग्राढस्वपक्षरागेण विराजमाने पूर्वपक्षोत्तरपक्षशास्त्रे यदीयौ तौ रक्तच्छदौ भूतवती अवैमि ॥ 10.80 ॥
ब्रह्मार्थकर्मार्थकवेदभेदात् द्विधा विधाय स्थितयाऽऽत्मदेहम् ॥
चक्रे पराच्छादनचारु यस्या मीमांसया मांसलमूरुयुग्मम् ॥ 10.81 ॥
जीवातु–ब्रह्मेति । पराच्छादनचारु उत्कृष्टवसनाभिरामं, मांसमस्यास्तीति मांसलं पीवरं, सिध्मादित्वात् लच्, यस्याः सरस्वत्याः, ऊरुयुग्मं परेषां प्रतिवादिनाम्, आच्छादनेन तिरस्करणेन चारु शोभनम्, आत्मदेहं स्वस्वरूपं चार्विति विशेषणान्नपुंसकं गाह्मम् “कायो देहः क्लीबपुंसोः’ इत्यमरः ब्रह्मैवार्थः प्रतिपाद्यार्थो यस्य
सः, कर्मैवार्थः प्रतिपाद्यार्थो यस्य सः “शेषाद्विभाषा’ इति कपि भावप्रधानो निर्देशः’ ताभ्यां ब्रह्मकाण्डर्मकाण्डाभ्यां यो वेदस्य भेदः द्वैविध्यं तस्माद्धेतोः द्विधा विधाय पूर्वोत्तरमीमांसारूपेण द्विविधं कृत्वा, स्थितया प्रतिष्ठितया, मीमांसया द्वैविध्यया चक्रे कृतमिति गम्योत्प्रेक्षा ॥ 10.81 ॥
अन्वयः–पराच्छादनचारु मांसलं यस्याः ऊयुग्मं ब्रह्मार्थकर्मार्थकवेदभेदात् आत्मदेहं द्विधा विधाय स्थितया मीमांसया चक्रे ॥ 10.81 ॥
उददेशापर्वण्यपि लक्षणेऽपि द्विधोदितैः षोडशाभिः पदार्थैः ॥
आन्वीक्षिकी यद्दशनद्विमालो तां मुक्तिकामाकलितां प्रतीमः ॥ 10.82 ॥
जीवातु–उद्देशेति । यस्याः सरस्वत्याः, दशनानां द्वयोर्मालयोः समाहारो द्विमाली दन्तपंक्तिद्वयी ‘आवन्तो वा’ इति स्त्रीतृवे ‘द्विगोः’ इति ङीप्, तामेव आकलितां गुम्फितां, मुक्तैव मुक्तिका, मुक्ताशब्दात् स्वार्थे कप्रत्ययेन ‘केऽणः’ इति ह्रस्वे तस्य “अभाषितपुंस्काच्च’ इति कात् पूर्वस्येत्वम्, तां मुक्तावलीम् इत्यर्थः, उद्देशो नामतः कीर्त्तनं तस्य पर्वणि बवसरेऽपि, समानासमानजातीयव्यवच्छेदो लक्षणं तस्मिन्नपि, द्विधोदितैः उद्देशतया लक्षणतया च निर्दिष्टैरित्यर्थः; अन्यत्र–उद्देशपर्वणि उद्देश्यपर्वदिवसे, तथा लक्षणे सामुद्रिकलक्षणे च द्विधोदितैःद्वैगुण्येनोक्तैः, अत एव द्वात्रिंशत्संख्यकैरित्यर्थः, उभयषोडशोडशदशनत्वस्य भाग्यलक्षणत्वादिति
भावः; मुक्तिं मोक्षं कामयन्ते इति मुक्तिकामाः मुमुक्षवः, ‘शीलकामिभक्ष्याचारेभ्यो णः’ इति णप्रत्ययः तैराकलिताम् अम्यस्तां, प्रमाणादिसूत्रेण एतेषां तत्त्वज्ञानात् निःश्रेयसाधिगम इत्युक्तत्वादिति भावः; तां प्रसिद्धाम्, अनु पश्चात, वेदश्रवणानन्तरमित्यर्थः, ईक्षा परीक्षणमित्यन्वीक्षा, सा प्रमाणादिसूत्रेण एतेषां तत्त्वज्ञानात् निःश्रेयसाधिगम इत्युक्तत्वादिति भावः; तां प्रसिद्धाम्, अनु पश्चात्, वेदश्रवणानन्तरमित्यर्थः, ईक्षा परीक्षणमित्यन्वीक्षा, सा प्रयोजनमस्या इत्यान्वीक्षिकी तर्कविद्या, ‘प्रयोजनम्’ इति ठक् तां प्रतीमः जानीमः, प्रतिपूर्वादिक्षणो लट्, द्विरावृत्तषोडशपदार्था द्वात्रिंशद्दन्तपंक्तियुगलत्वेन परिणता इत्येत्प्रेक्षार्थाः । प्रतिपाद्यप्रतिपादकयोरभेदोचारत्वात् आन्वीक्षिक्येन रूपकत्वेनोत्प्रेक्षायाः सङ्करः ॥ 10.82 ॥
अन्वयः–यददशनद्विमालीम् उद्देशपर्वणि लक्षणे अपि द्विधोदितैः षोडशाभिः पदार्थैः मुक्तिकामाकलितां ताम् आन्वीक्षिकीं प्रतीमः ॥ 10.82 ॥
तर्का रदा यद्वदनस्य तर्क्या वादेऽस्य शक्तिः क्व ? तथाऽन्यथा तैः ॥
पत्रं क्व दातुं गुणशलिपूगम् ? क्व वादतः खण्डयितुं प्रभुत्वम् ॥ 10.83 ॥
जीवातु–पुनर्दन्तानेव तर्कत्वेनापि उत्प्रेक्षते, तर्का इति । यद्वदनस्य सम्बन्धिनः रदाः दन्ताः, ‘रदना दशना दन्ता रदाः’ हत्यमरः तर्का ऊहारूयाः प्रमाणानुमानकज्ञानविशेषाः, तन्मयाः इत्यर्थः, तर्क्या उत्प्रेक्ष्याः; अन्यत्र–तर्कवतृ कर्कशा इत्यर्थः । तथाहि, अस्य वदनस्य तैः दन्तौस्तर्कैश्च, अन्यथाविना, वादे कथायामभिवदनव्यापारे च, तथा ताटृशी’ शक्तिः क्वः ? दन्तैस्तर्कै विनाद्व वादः कर्त्तुं न शक्यते इत्यर्थः; एवं तकैर्थ्वना वादतः वादनिमित्तात् पत्रं प्रतिवादिने स्वपक्षसमर्थकं यत्रम्, अथवा प्रतिवादिनः प्रतिज्ञापत्रं, दातुं क्व शक्तिः ? दन्तौर्विना च अदतः भक्षयतः, पत्रं ताम्बुलीदलादिकं दातुं खण्डडयितुं शक्तिः क्व वा ? सामर्थ्ये न भवतीत्यर्थः; द्यतेश्च तुमुन् तर्कैर्निवना गुणशालिनां प्रतिभदिगुणवतां वावदूकालां, पूर्ण वृन्दं वादतो वादेन, खण्डयितुं भङ्क्तुम् अन्यत्र–वा इति छेदः, दन्तैर्विना अदतो भक्षयतः, ‘पदादयः पूथक् शब्दाः’ इति मतेन न विद्यन्ते दतो दन्ता यस्य इतृयदतः दन्तरहितस्य वा, गुणशलि रसाढ्यं, पूगं पूगीफलं, “पूगः क्रमुकवृन्दयोः’ इत्यमंरः, खण्डयितुं शकलयितुं, प्रभुत्वं सामर्थ्यं, क्व वा ? श्लेषध्वनितेयं दन्तानां तर्कपरिणुतत्वेन उत्प्रेक्षेति सङ्करः ॥ 10.83 ॥
अन्वयः–तर्काः यद्वदनस्य रदाः तर्क्याः, तैः अन्यथा अस्य वादे तथा शक्तिः क्व, पत्रं दातु क्व, वादतः ( अथवा वा+अदतः ) गुण शलिपुगं प्रभुत्वं खण्डयितुं क्व ? ॥ 10.83 ॥
सपल्लवं व्यासपराशराभ्यां प्रणीतभावादुभयीभविष्णु ॥
तन्मत्स्यपह्मुपलक्ष्यमाणं यत्पाणियुग्मं ववृते पुराणम् ॥ 10.84 ॥
जीवातु–सपल्लवमिति । व्यासपराशभ्यां प्रणीतभावात् प्रणीतत्वात्, उभयीभविष्णु माहपुराणोपपुराणतां
प्राप्तं, “भुवश्च’ इतीष्णुच् यद्यप्यष्टादशपुराणानां कतर्‌ता सत्यवतीसुतः, तथाऽपि"पुराणं वैष्णवं चक्रे यस्तं वन्दे पराशरम्’ इत्यादि प्रसिद्धमेवमुक्तः, तथाऽपि “पुराण वैष्णवं चक्रे यस्तं वन्दे पराशरम्’ इत्यादि प्रसिद्धमेवमुक्तम्; तत् प्रसिद्धं, मत्स्यपद्यादि मत्स्यपह्मपुराणा?दिसंज्ञादिः, आदिशब्दात् ध्वजकुलशादिसङ्ग्रहः, तैः उपलक्ष्यमाणं निर्दिश्यमानमित्यर्थः, सपल्लवं कथाऽऽरूयायायिकादिना सविस्तारं, ‘पल्लवं त्वस्त्री प्रकोण्ठे चापि विस्तृतौ’ इति वैजयन्ती, अन्यत्र–सत् सट्टशं पल्लवेन सपल्लवं किसलयसटृशम् । ‘अव्ययं विभक्ति–‘इत्यादिना सहशब्दस्य गुणीभूतसाटृशार्थेव्ययीभावः । “अव्यीभावे चाकाले’ इति सहशब्दस्य सभावः, ‘सहसाटृश्यसाकल्ययोगपद्यसमृद्धिषु’ इति विश्वः, पुराणां मत्स्यपह्मादि, यस्याः सरस्वत्याः, पाणियुग्मं ववृते पाणिपह्मत्वेन परिणतमित्यर्थः । उत्प्रेक्षा
॥ 10.84 ॥
अन्वयः–सपल्लवं व्यासपराशराभ्यां प्रणतभावात् उभयीभविष्णु मत्स्यपद्माद्युपलक्ष्यमाणं तत् पुराणां यत्पणियुग्मं ववृते ॥ 10.84 ॥
आकल्पविच्छेदविवर्जिजतो यः स धर्मशास्त्रव्रज एव यस्याः ॥
पश्यामि मूर्द्धा श्रुतमूलशली कण्ठे स्थितः कस्य मुदे न वृत्तः ? ॥ 10.85 ॥
जीवातु–आकल्पेति । आकल्पं कल्पान्तपर्यन्तं, विच्छेदेन विवर्जितः अविच्छिन्नसम्प्रदायीत्यर्थः, अन्यत्र–आकल्पः अलङ्कारादिः, तद्विच्छेदविवार्जितः सत्सहितः नित्यभूषित इत्यर्थः, श्रुतिर्वेद एव, मूलं प्रमाणं तेन शालते; अन्यत्रश्रुतिमूलाभ्यां, कर्णमूलाभ्यां, शालते इति तथोक्तः, ‘वेदे श्रवसि च श्रुतिः’ इत्यमरः, अथवा–श्रूयते यः स श्रुतिः शब्दः, तस्य ग्रहणे मूलं कारणं कणौ इत्यर्थः, ताभ्यां शालते; कण्ठे स्थितो मुखस्थितः, अन्यत्र–कण्ठोपरि स्थितः, यो धर्मशास्त्राणां मन्वादिस्मृतीनां व्रजः एव यस्याः देवयाः, मूर्द्धा वृत्तः संवृत्तः, परिणत इत्यर्थः, अन्यत्र-वृत्तः वर्त्तुलः, मूर्द्धा कस्य मुदे न ? सर्वसयापि स्यादेवेत्यर्थः, पश्यामि इति, उत्प्रेक्षे, अहमितिशेषः ॥ 10.85 ॥
अन्वयः–आकल्पविच्छेदविवर्जितः श्रुतिमूलशाली कण्ठे स्थितः यः धर्मशास्त्रव्रजः सः एव यस्याः मूर्द्धा वृत्तः कस्य मुदे न पश्यामि ? ॥ 10.85 ॥
भ्रुवौ दलाभ्यां प्रणवस्य यस्यास्तद्विन्दुना भालतमालपत्रम् ॥
तदर्द्धंचन्द्रेण विधिर्विपञ्ची-निक्वाणनाकोणधनुः प्रणिन्ये ॥ 10.86 ॥
जीवातु–अथ नागरलिपेरोङ्कराक्षरमाश्रित्योत्प्रेक्षते, भ्रु वाविति । विधिः ब्रह्मा, प्रणवस्य, ओङ्कारस्य, दलाभ्याम् उभयप्रान्तरेखाभ्यो, भ्रु वाविति । विधिः ब्रह्मा, प्रणवस्य, ओङ्कारस्य, दलाभ्याम् उभयप्रान्तरेखाभ्यां, यस्याः देवयाः, भ्रु वौ, यथा तस्य बिन्धुना बिन्द्वाकाररेखया, भाले ललाटे, तमालपत्रं तिलकं, तमालपत्रतिलक-चित्रकाणि विशेषकम्’ इत्यमरः, तस्य प्रणवस्य, अर्द्धचन्द्रेण अर्द्धचन्द्राकाररेखया, ?विपञ्च्याः वीणायाः, ‘वीणा तू वल्लकी विपञ्ची’ इत्यमार, निक्वाणनादनम्’ इत्यमरः, प्रणि?न्ये निर्ममे । “उपसर्गादसमासेऽपि णोपदेशस्य’ इति णत्वम् । उत्प्रेक्षा ॥ 10.86 ॥
अन्वयः–विधिः प्रणवस्य दलाभ्यां यस्याः भ्रु वौ, तद्बिन्दुना भालतमालपत्रं, तदर्द्धचन्द्रेण विपञ्चीनिक्वाणनाकोणधनुः प्रणिन्ये ॥ 10.86 ॥
द्विकुण्डली वृत्तसमाप्तिलिप्याः करांगुली काञ्चनलेखनीनाम् ॥
कैश्यं मसीनां स्मितभाः कठिन्याः काये यदीये निरमायि सारैः ॥ 10.87 ॥
जीवातु–द्विकुण्डलीति । यदीये काये देहे, द्वयोः कृण्डलयो3 समाहारोद्विकुण्डली कर्णकुण्डलद्वयं, वृत्तायाः वर्त्तुलायाः, समाप्तिलिप्या अवसानरेखायाः, बिन्दुद्वयरूपायाः विसर्गाकाराया इति यावत्, सारैः रेष्ठांशौः, निरमायि निर्मिता, माङो लुङि ‘आतो युक् चिण्कृतोः, इति युगागमः, लेख्यान्ते समाप्तिव्यञ्चनलेखनीनां सौवर्णलेखनीनां सारैः, तथा केशानां समूहः कैश्यं, ‘केशाश्वाभ्यां यञ्-छावन्यतरस्याम्’ इति यञ्प्रत्ययः, मसीनां सारैः, तथा स्मितभा मन्दहासकान्तिः, कठिन्याः खटिकायाः, “खटिकायान्तु कठिनी’ इति विश्वः । सरैः निरमायि इत्युतृपेक्षा ॥ 10.87 ॥
अन्थ्यः-यदीये काये वृत्तसमाप्तिलिष्याः सारैः द्विकुण्डली, काञ्चनलेखनीनां कराङ्गुली, समीनां कैश्यं, कठिन्याः स्मितभाः निरमायि ॥ 10.87 ॥
या सोमसिद्धान्तमयाननेव शून्यात्मतावादमयीदरेव ॥
विज्ञानसामस्त्यमयान्तरेव साकारतासिद्धिमयाखिलेव ॥ 10.88 ॥
जीवातु–येति । या देवची, सोमसिद्धान्तः कापालिकदर्शनम् अथ चसोमस्य इन्दोः, सिद्धान्तः अखण्डरूपञ्च, तन्मयम् आननं यस्याः सा इव स्थिता, तथसास आत्मनो न सन्तीति वादः शून्यात्मतावादः माध्यमिकबौद्धविशेषदर्शनं तन्मयं तदेव, उदरं यस्याः सा ताटृशीव, अथ च-शून्यात्मता निस्वरूपता, तद्वादो नास्तिवादः, तन्मयुमुदरं यस्याः सा अतिकृशोदरीत्यर्थः, “नासिकोदर’इत्यादिना विकल्पादनीवौद्धविशेषमतं, तन्मयं तदेव, अन्तरं यस्या सा इव, अथ च-विज्ञानसामस्त्यमर्थविशिष्टज्ञानसम्प्रत्तिश्च तन्मयमन्तरं यस्याः सेव,
तथा साकारता साकारविज्ञानवादी सौत्रान्तिकः ज्ञानानां नीलपीताद्याकारता, तत्सिद्धिस्तन्मयाः, अथ च शोभनाकारतासम्पत्तिश्च तन्मया अखिलाः सर्वाः यस्या सेव स्थिते?ति शेषः इति सर्वत्रोत्प्रेक्षाः, एवम्भुता सरस्वती मध्येसभम् अवततार इति 74 श्लोक्तक्रियापदेन अन्वयः॥ 10.88 ॥ कुलकम् ।
अन्वयः–या सोमसिद्धान्तमयानना इव शून्यात्मतावादमयोदरा इव विज्ञानसामस्त्यमयान्तरा इव साकारतासिद्धिमयाखिला इव ॥ 10.88 ॥
भीमस्तया1़गद्यत मोदितुं ते वेला किलेय तदलं विषद्य ॥
मया निगाद्यं जगतीपतीनां गोत्रं चरित्रञ्च यथावदेषाम् ॥ 10.89 ॥
अगद्यत उक्तः। किमिति ? हे राजन् ! इयं ते तव, मोदितुं हर्षं कर्त्तुं, वेला किल समलः खलु; “कालसमयवेलासु तुमुन्’ तत्तस्मात्, विषद्य खेदित्वा, अलं विषादो न सकर्त्तव्य इत्यर्थः, ‘अलंखल्वोः’ इत्यादिना क्त्वाप्रत्ययः । कुतः ? एषां जगतीपतीनां राज्ञां, गोत्रं कुलं नाम च, “गोत्रं नाम्नि कुलेऽपि च’ इति विश्वः, चरित्रञ्च मया निगाद्यं वक्तव्यम्, अहं वक्ष्यामीत्यर्थः । “ऋहलोर्ण्यत्’ “गदमद’ इत्यादिसूत्रे अनुपसर्ग एव यतो विधानात् ॥ 10.89 ॥
अन्वयः–तया भीम अगद्यत–इयं ते मोदितुं वेला किल, विषद्य अलम्; एषां गगतीपतीनां गोत्रं चरित्रं च यथावत् मया निगाद्यम् ॥ 10.89 ॥
अविन्दतासौ मकरन्दलीलां मन्दाकिनी यच्चरणारविन्दे ॥
अत्रावतीर्णां गुण्रावर्णनाय राज्ञां तदाज्ञावशगाऽस्मि काऽपि ॥ 10.90 ॥
जीवातु–का त्वम् ? किमर्थमागता च ? इत्याकाङ्क्ष्यामाह, अविन्दतेति । असौ प्रसिद्धा मन्दाकिनी यस्य पुंसः चरणारविन्दे पादपह्मे, मकरन्दत तस्य पुंसः श्रीविष्णोः आज्ञाया वशगा वशवर्त्तिनी, काऽपि या काचित्, अस्मि इहं, राज्ञां गुणवर्णनाय अत्र स्वयंवरसभायाम्, अवतीर्णा, अस्मि इति शेषः, किं विशेषचिन्तया ? इति भावः ॥ 10.90 ॥
अन्वयः–असौ मन्दाकिनी यच्च्रणारविन्दे मकरन्दलीलाम् अविन्दत तदाज्ञावशगा का अपि राज्ञां गुणवर्णनाय अत्र अवतीर्णा अस्मि ॥ 10.90 ॥
तत्कालवेद्यैः शकुनस्वराद्यधैराप्तामवाप्तां नृपतिः प्रतित्य ॥
तां लोकपालैकधुरीण एष तस्यै सपर्यामुचितां दिदेश ॥ 10.91 ॥
जीवातु-तत्कालेति । लोकपालैः इन्द्रादिभि। सह, एकण्धुरं वहतीत्येकधुरीणः समानस्कन्धः, “एकधुराल्लुक् च’ इति खप्रत्ययः लोकपालसटृश इत्यरूर्थः, एष नृपतिर्भीमः,अवाप्ताम् अकस्मात् सभायां प्राप्तां, तां वाग्देवीं, तत्काले वेद्यैः वेदयितुं शक्यैः, शकुनं शुभाशंसिनिमित्तं, “शुभाशंसिनिमित्ते च खगे च शुकनं विदुः’ इति शाश्वतः, स्वरः नासानिलः, आद्यशब्दादक्षिस्पन्दादिसङ्ग्रहः,तैरुपायैः आप्ता आप्तां हितां, प्रतीत्य निश्चित्य, यस्यै उचितां सपर्यां पूजां, दिदेश समर्पयामास ॥ 10.91 ॥
अन्वयः–लोकपालैकधुरीणः एषः नृपतिः अवाप्तां तां तत्कालवेधैःशुकुनस्वराद्यैः आप्तां प्रतीत्य तस्यै उचितां सपर्यां दिदेश ॥ 10.91 ॥
दिगन्तरेभ्यः पृथिवीपतीनामाकर्ष कौ तूलसिद्धविद्याम् ॥
ततः क्षितीशः स निजां तनूजां मध्येमहाराजकमाजुहाव ॥ 10.92 ॥
वीवातु–दिगिति । ततो देवीपूजानन्तरं सः क्षितीशः भीमः, दिगन्तरेभ्यःपृथिपीपतीनाम् आकर्षकौतूहले आकर्षकर्मणि, सिद्धविद्यां सिद्धमन्त्रस्वरूपाम्, अमोधवृत्तिमित्यर्थः, सौन्दर्यण सर्वाकर्षणकारिणीमिति भावः, निजां तनुजां मध्येमहाराजकंः, सौन्दर्यण सर्वाकर्षणकारिणीमिति भावः, निजां तनूजां मध्येमहाराकं महतो राजसमूहस्य मध्ये, आजुहाव आहूतवान् ह्वयतेर्लिटि “अभ्यस्तस्य च’ इति द्विर्भावातृ प्राक् सम्प्रसारणे रूपसिद्धः; भीमः सभायां दमयन्तीम् आनयामास इति भावः ॥ 10.92 ॥
अन्वयः–ततः सः क्षितीशः दिगन्तरेभ्यः पूथिवीवतीनाम् आकर्षकौतूहसिद्धविद्यां निजां तनूजां मध्येमहाराजकम् आजुहाव ॥ 10.92 ॥
दासीषु नासीरचरीषु जातं स्फीतं क्रमेणालिषु वीक्षितासु ॥
स्वांगेषु रूपोत्थमथादभताब्धिमुद्वेलयन्तीमवलोककानाम् ॥ 10.93 ॥
जीवातु–अथ षोडशश्लोक्या दमयन्तीं वर्णयति, दासीष्वित्यादि । कीटृशम् ? नासीरे चरन्नतीति नासीरचरीषु अग्रेसरीषु, चरेषुः, कमेण आलिषु, सखीषु, वीक्षितासु स्फीतं प्रव्द्धं, “स्फायः स्फी निष्ठायाम्’ इति स्फीभावः, अथानन्तरं रूपोत्थं सौन्दर्यजन्म, अवलोककानां प्रेक्षकाणाम्, अद्भुताब्धिं विस्मयसागरं, स्वाङ्गंषु दमयन्त्या अवयवेषु, वीक्षितेषु सत्सु उद्वेलयन्तीम् उद्वेलं कुर्वतीं, वेलामतिलङ्धयन्तीमित्यरूर्थः, भैमीं पपावपाङैगरथ राजराजिः इति 108 श्लोकोक्तेन अन्वयः । उद्वेलशब्दात् “तत्करोति’ इति ण्यन्ताच्छतरि ङीप् । अत्र एकस्मिन्नद्भुताब्धौ क्रमेणानेकेषां जातत्वस्फीतत्वोद्वेलत्वानां वृत्तिकथनात् पर्यायालङ्कारभेदः “एकस्मिनननेकमनेकस्मिन्नेकम्’ इति लक्षणात् ॥ 10.93 ॥
अन्वयः–नासीरचरीषु दासीषु जातं कमेण वीक्षितासु आलिषु स्फीतम् , अथ स्वाङ्गेषु रूपोत्थम् अवलोककानाम् अदभुताब्धिम् उद्वेलयन्तीम् । ( भैमीं राजराजिः अपाङ्गै पफ–इति ( 10।108 ) दूरेणान्वयः ॥ 10.93 ॥
स्निग्धत्वमायाजललेपलोपसयत्नरत्नांशुमृजांशुकाभाम् ॥
नेपथ्यहीरद्युतिवारिवर्ति-स्वच्छायसच्छायनिजालिजालासम् ॥ 10.94 ॥
जीवातु–स्निग्धत्वेति । पुनः किम्भूताम् ? स्निग्धत्वाय मासृण्यगुणाय,माययाजलं जलगर्भताऽऽख्यो दोषः, “रागस्त्रासश्च बिन्दुश्च रेखा च जलगर्भता । सर्वरत्नेष्वमी पंच दोषाः साधारणा मताः ॥’ इति वागभटः, ताभ्यां यत्नानि कृतप्रयासानि, कथमपि तानि अनङ्गीकुर्वणानि इत्यर्थः, यानि रत्नानि, उपलक्षणमेतत्, गुणसम्पत्तिदोषविरहाभ्यां शुद्धानीत्यर्थः, यती प्रयत्ने इति धातोः “श्वीदितो निष्ठायाम्’ इति इण्प्रतिषेधः, तेषां रत्नानाम् अंशुमृजा किरणप्रसादः, सेव अंशुकाभा वस्त्रप्रभा यस्यास्तां, तेषां नेपथ्यहीरद्युतिवार्त्तिस्वच्छायम् आभरणवज्रप्रभाम्बुगतस्वप्रतिबिम्बं, ‘विभाषा सेना’ इत्यादिना छायाशब्दस्य नपुंसकतृवम्, तेन सच्छायं सवर्णं, निजालिजालं स्वसखीकुलं यस्यास्ताम् । अत्र भूषामणिप्रमाह्मरमग्नेन स्वप्रतिबिम्बवेन सह सखीजनसाटृश्योत्प्रेक्षया तासामपि तत्समानसौन्दर्यं वस्तु व्यज्यते ॥ 10.94 ॥
अन्वयः-“स्निग्धतृव शुकाभाम्, नेपथ्यं……जालाम्’-इति श्लोकक्रमानुसारी ॥ 10.94 ॥
विलेपनामोदमुदागतेन तत्कर्णपूरोतृपलसर्पिणा च ॥
रतीशदूतेन मधुव्रतेन कर्णे रहः किञ्चिदिवोच्यमानाम् ॥ 10.95 ॥
जीवातु–विलेपनेति । पुनः किम्भूताम् ? विलेपनस्य चन्दनाद्यङ्गरागस्य,आमोदेन सौरभेण, मुदा प्रत्या, आगतेन, तथा तस्याः दमयन्त्या, कर्णपूरोत्पलं सर्पतीति तत्सर्पिणा तद्गन्धाकृष्टेन च, रतीशूदतेन कामसन्देशहारकेण, तदुद्दीपकेनेत्यर्थः, मधुव्रतेन भ्रमरेण, कर्णे किञ्चित् रहः रहस्यं, नल एव सम्भ्येषु सुन्दरतमः अतः सः एव वरणीय इत्यादिरूपम्, रहः रहस्यं, नल एव सभ्येषु सुन्दरतमः अतः सः एव वरणीय इत्यादिरूपम्, उच्यमानामिव कामदेवसंदिष्टं किमप्युपदेश्यमानामिव स्थिताम् इत्युत्प्रेक्षा । एतेन स्यास्दा किलकिञ्चितादिशृङ्गारचेष्टाविर्भावो व्यज्यते ॥ 10.95 ॥
अन्वयः–विलेपनामोदमुदागतेन तत्कर्णपूरोत्पलसर्पिणा च रतीशदूतेन मधुव्रतेन कर्णे किञ्चित् रहः उच्यमानाम् इव…. ॥ 10.95 ॥
विरोधिवर्णाभरणाश्मभासां मल्लाजिकौतूहलमीक्षमाणाम् ॥
स्मरस्वचापभ्रमचालिते नु भ्रुवौ विलासात् वलिते वहन्तीम् ॥ 10.96 ॥
जीवातु–विरोधीति । पुनः किम्भूताम् ? विरोधिवर्णानां श्वेतकृष्णादिनानावर्णानााम् भूषाणमणीनां, आभरणाश्मनां, या भासः तासां, मल्लाजिकौतूहलं मल्लयुद्धकौतुकं, परस्परक्रपमणसंरम्भमिति यावत्, ईक्षमाणां, पुनर्विलासात् वलिते स्त्रीस्वभावाल्लीलाचलिते, इव स्थिते इत्यर्थः; चल कम्पने इति मित्त्वेऽपि ‘ज्वलह्वलह्मलनमामनुपसर्गात् वा’ इति विकल्पनाद्ध्रस्रूवाभावः, एवम्भूते भ्रु वौ वहन्तीं धारयन्तीम्
॥ 10.96 ॥
अन्वयः–विरोधिवर्णाभरणाश्मभासां सल्लाजिकौतूहलम् ईक्षमाणां विलासात् वलिते तु स्मरस्वचापभ्रमचालिते भ्रु वौ वहन्तीम्….॥ 10.96 ॥
सामोदपुष्याशुगवासिताङ्गीं किशोरशाखाग्रशयालिमालाम् ॥
वसन्तलक्ष्मीमिव राजभिस्तैः कल्पद्रुमैरप्यभिलष्यमाणाम् ॥ 10.97 ॥
जीवातु–सामोदेति । पुनः किम्भूताम् ? सामोदम् अतिमनोहरतदङ्गरूपवस्तुलाभेन सहर्षं यथा तथा, पुष्पाशुगेन कामेन वासितम् अधिष्टितम्, अङ्गं वपुर्गस्यास्ताम्, अन्यत्र–सामोदपुष्पाणि सुगन्धिकुसुमानि, आशुगो मलया निलश्च, तैः वासिताङ्गीं सुरभीकृताङ्गीम्, “आमोदो हर्षगन्धयोः’ “आशुगौ वायुविशिखौ’ इति विश्वामरौ, पुनः किशोरशाखाः कोमलाङ्गुलयः, अग्रशया अग्रपाणायो यासां ताटृश्यः, आलिमालाः सखीपंक्तयो यस्यास्तां, “पञ्चशाखः शयः पाणिः’ इत्यमरः अन्यत्र–किशोरशाखानां नवनल्लवानाम् अग्रेषु ये शेरते इ?ि तच्छायाः, “अधिकरणे शेते’ इतृयच् प्रत्ययः, ताटृश्यः अलिमालाभृङ्गश्रेणयः यस्यां तां, तैः राजभिः कल्पद्रुमैरपि सर्वाभिलाषपूरकैरपीति भावः, अभिलष्यमाणां वसन्तलक्ष्मीमिव, स्थितामिति शेषः; यथा सर्वाभिलाषपूरकैरपि कल्पवृक्षैर्वसन्तलक्ष्मीरपेक्ष्यते तद्वद्वाजभिरपीति सात्त्विकोक्तिः ॥ 10.97 ॥
अन्वयः–सामोदपुष्पाशुगवासिताङ्गीं किशोरशाखाग्रशयालिमालां वसन्तलक्ष्मीम् इव तैः कल्पद्रुमैः अपि राजभिः अभिमलष्यमाणाम्….॥ 10.97 ॥
पीतावदातारुणनीलभासां देहोपलेपात् किरणैर्मणीनाम् ॥
गोरोचनाचन्दनकुङ्कुमैण-नाभीविलेपान् पुनरुक्तयन्तीम् ॥ 10.98 ॥
जीवातु–पीतेति । किम्भूताम् ? पीता गौराः, अवदाता शुक्लाः, अरुणा रक्ताः, नीलाः कृष्णाश्च, भासो दीप्तयो येषां तेषां, मणीनां किरणैः देहस्य शरीरस्यं, उपलेपात् अनुलेपनात्, गोरौचनादिचतुष्टयलेपान् पुनरुक्तयन्तीं सावर्ण्यात् पुनरुक्तान् कुर्वतीम् । एणनाभिः कस्तुरी । दमयन्त्याः पीतादिमणिप्रभाया गोरोचनाद्यनुलेपनानां विफलत्वं साधितमिति भावः । अत्र गोरोचनाद्यनुलेपचतुष्टयस्य यथासंख्यसम्बन्धेन पीतादिमणिकिरणकैतवकथनात् यथासंख्यसङ्कीर्णसामान्यालङ्कारः । लक्षणमुक्तम् ॥ 10.98 ॥
अन्वयः–पीतावदातरुणनीलभासां मणीनां किरणैः देहोलेपात् गोरोचनाचन्दनकुङ्कुमैणनाभीविलेपान् पुनरुक्तयन्तीम्…..॥ 10.98 ॥
स्मरं प्रसूनेन शरासनेन जेतारमश्रद्दधतों नलस्य ॥
तस्मै स्वभूषादृषदंशुशिल्पं बलद्विषःकार्मुकमर्पयन्तीम् ॥ 10.99 ॥
जीवातु–स्मरमिति । पुनः किम्भूताम् ? प्रसूनेन पुष्पमयेन, शरासनेन धनुषा, अतिकोमलेन पुष्पचापेन करणे इत्यर्थः नलस्य जेतारं जैत्रं, स्मरम् अश्रद्दधतीं स्मरः पुष्पमयकोमलधनुषा नलं कथमपि जेतुं न शक्नुयादिति अयिवश्वसतीम्, अत एव तस्मै स्मराय, स्वभूषाटृषदंशुभिः निजाभरणमणिकिरणैः, शिल्पः निर्माणं यस्य ताटृशं, तन्निर्मितमित्यर्थः, बलद्विषःकार्मुकम् इन्द्रचापम्, अर्पयन्तीम् इन्द्रधनुरिव नानावर्णा तस्या आभरणरत्नशो?भेति भावः । वीरधौरेयः नलः पुष्पचापदुज्रय इति मत्वा नलजयाय स्वाभरणमणिकिरणकल्पितम् ऐन्द्रं धनुः द्रढीयस्तस्मै कल्दर्पाय ददानामिव स्थितामित्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या ॥ 10.19 ॥
विभूषणेभ्यो वरमंशुकेषु ततो वरं सान्द्रमणिप्रभासु ॥
सम्यक् पुनः क्वापि न राजकस्य पातुं दृशा धातृकृताकवशाम् ॥ 10.100 ॥
जीवातु–विभूषणेभ्य इति । पुनः किम्भूताम् ? विभूषणेभ्यो वरं प्रथमं विभूषणेषु आसज्य ततोऽधिकं यथा । पुनः किम्भूताम् ? विभूषणेभ्यो वरं प्रथमं विभूषणेषु आसज्य ततोऽधिकं यथा तथा, अंशुकेषु वस्त्रेषु, सक्त्तया इति शेषः, ततो वरमधिकं, सान्द्रमणिप्रभासु, सक्त्या इति शेषः राजकस्य राजसमूहस्य “गोत्राक्ष–’ इत्यादिना वुञ्प्रत्ययः, टृशा टृष्ट्या, सम्यक् पातुं पुनः स्थैर्येण भूषणादिकं पुनः ईक्षितुं, क्वापि कुत्रापि; न धातृकृतावकाशां धात्रा विधात्रा, कृतोऽवकाशो दर्शनावकाशो यस्या एवम्भूतां, अमयन्त्याः किमपि अङ्गं स्थिरतया द्रष्टुं राजकटृष्टेरवकाशो विधात्रा न विहितः इत्ययर्थः, उत्तरोत्तरविषायाकृष्टा पूर्वषूर्वविस्मरणेन राजकटृष्टिर्नं क्वापि क्षणमवस्थितेति भावः । अत्र विभूषाणानामुत्तरोत्कर्षद्वारेण राजकटृष्टेः सारः’
॥ 10.100 ॥
अन्वयः–विभूषणेभ्यः वरम् अंशुकेषु ततः वरं सान्द्रमणि प्रभासु राजक्स्य टृशा सम्यक् पातुं पनुः क्व अपि न धातृकृतावकाशाम्……॥ 10.100 ॥
प्राक् पुष्पवर्षैर्वियतः पतदिभर्द्रष्टुं न दत्तामथ तद्द्विरेफैः ॥
तदभीतिभुग्नने ततो मुखेन विधेरहो ! वाच्छितविध्नयत्नः ॥ 10.101 ॥
जीवातु–प्रागिति । पनुः किम्भूताम् ? प्राक् प्रथमं, वियतः अम्बरात्, पतदिभः पुष्पवर्षैः दमयन्त्या रूपदर्शनेन तदुपरि स्न्तुष्टदेवगणमुक्तकुसुमवर्षणैः, अथ अनन्तरं, तद्द्विरेफैः तत्पुष्पाकृष्टभृङ्गैः, ततोऽनन्तरं, तदभीतिभुग्नेन भृङ्गभयनभ्रेण, मुखेन च द्रष्टुं न दत्ताम् एतैः प्रतिवद्धदर्शनार्म्त्थिः, राजकस्यैति शेषः । तथा हि, विधेः दैवस्य, वाञ्छितविध्नयत्ना वा?ञ्छितार्थंविधातव्यसनिता, अहो ! आश्चर्यरूपः, इत्यर्थान्तरन्यासः, एकस्या राजटृष्टेः क्रमेण भैमीदर्शनप्रतिबन्धकपुष्पवृष्ट्याद्यनेकाधारसम्बन्धोत्थेन पर्यायेण सङ्करः
॥ 10.101 ॥
अन्वयः– प्राक् वियतः पतदिभः पुष्पवर्षैः अथ तद्द्विरेफैः ततः तदभीतिभुग्नने न मुखेन द्रष्टुं न दत्ताम्; अहो विधेः वाञ्छितध्नियत्नः ! ॥ 10.101 ॥
एतद्वरं स्यामिति राजकेन मनोरथातिथ्यमवापिताय ॥
सखामुखायोत्सृजतीमपाङ्गात् कर्पुरकस्तूरिकयोः प्रवाहम् ॥ 10.102 ॥
जीवातु–एतदिति । पुनः किम्भूताम् ? एतत् सखीमुखं, वरं स्याम् अस्माकम् एतन्मुखत्वे सति भैमीटृष्टिलाभः सत्स्यति अतो राजत्वापेक्षया अह तदात्मको वरं भवेयं, “प्रार्थनायां लिङ्’ इति राकेन राजसमूहेन, मनोरथस्य आतिथ्यम् अतिथित्वम्, अभिलाषविषयताम् इति भावः, ब्राह्मणादित्वात् ष्यङ्प्रत्ययः । अवापिताय प्रापिताय, सखीमुखाय अपाङ्गात् नेत्रप्रान्तात्, कर्पु रस्य कस्तूरिकायाश्च प्रापिताय, सखीमुखाय अपाङ्गात् नेत्रप्रान्तात्, कर्पूरस्य कस्तूरिकायाश्च स्वार्थे कः, “केऽण’ इति ईकारस्य ह्रस्वः, प्रवाहं श्वेतकृष्णकान्तिप्रवाहम्, उत्सृजतीं प्रवर्त्तयन्तीं, सखीमुखमेव कटाक्षैः वीक्षमाणामित्यर्थः । ‘आच्छीनधोर्नुम्’ इति विकल्पनान्नुम्भावः । टृष्टीनां सितासितत्वेन निर्देषः, अत एव विषयनिगरणेन विषयिमात्रोपनिबन्धात् भेदे अभेदरूपातिशयोक्त्यलङ्कारः ॥ 10.102 ॥
अन्वयः–वरम् एतत् स्याम्–इति राजकेन मनोरथातिथ्यम् अवापिताय सखीमुखाय अपाङ्गात् कर्पूरकस्तूरिकयोः प्रवाहम् उत्सृजन्तीम्……॥ 10.103 ॥
स्मितेच्छुदन्तच्छदकम्पकिञ्चिद्दिगम्बरीभूतरदांशुवृन्दैः ॥
आनन्दितोर्वीन्द्रमूखारविन्दैर्मदं नुदन्तीं हृदि कौमुदीलाम् ॥ 10.103 ॥
जीवातु-स्मितेति । पुनः किम्भूताम् ? आनन्दितानिस मां प्रतीयं प्रसन्नेति बुद्ध्या हृष्टानि, अन्यत्र-विकसितानि; उर्वीन्द्रमुखारदिन्दानि राजमुखरूपपह्मानि यैस्तैः, अत एव स्मितेच्छूकोः ईषत्प्रकाशीक्तयोः, दन्तच्छदयोः अधरौष्ठयोः, कम्पेन किञ्चिद्दिगम्बरीभूतैः, इषत्प्रकाशीभूतैः यद्वा-दिशाम् अम्बरीभूतैः आच्छादनस्वरूपैः, दिग्व्यापिभिरित्यर्थः, रदांशूनां दन्तकान्तीनां, वृन्दैः कौमुदीनां हृदि,
स्थितमिति शेषः, मदं गर्वं, नुदन्तीं खण्डयन्तीं, कौमुदीमन्दहासामित्यर्थः, कौमुद्यो हि पह्मविकासने असमर्था, एतैः रदांशुवृन्दैस्तु नृपमुखपह्मानि विकासितानि इति भावः, व्यतिरेकालङ्कारश्च ॥ 10.103 ॥
अन्वयः–आनन्दितोर्वीन्द्रमुखारविन्दैः स्मितेच्छुदत्तच्छदकम्पकिञ्चिचद्दिगम्बरीभूतरदांशुवृन्दैः कौमुदीनां हृदि मदं नुदन्तीम्……॥ 10.103 ॥
प्रत्यङृगभूषाच्छमणिच्छलेन यल्लग्नतन्निश्चललोकनेत्राम् ॥
हाराग्रजाग्रगुरुडाश्मरश्मिपीनाभनाभीकुहरान्धकाराम् ॥ 10.104 ॥
जीवातु–प्रस्य ङ्गेति । पुनः किम्भूताम् ? प्रत्यङ्गं प्रत्यवयवं, ये भूषाच्छमणयः अलङ्कासरस्थनिर्मलरत्नानि, तेषां छलेन येषु अङ्गेषु लग्नानि तेषु अङ्गेषु निश्चलानि, हषंपारवश्याणि भावः, खञ्जनकुब्जवत् समासः, लोकनेत्राणि दर्शनोत्सुकजननेत्राणि यस्यास्तामिव वस्तुतः नानाविधरत्नालङ्कारभूषितामिति भावः । अत्र दमयन्तीदर्शनोत्सुकानां नैत्राण्येवैतानि, न तु रत्नानीति सापह्नवोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । पुनः हाराग्रे जाग्रतः नानाविधरत्नालङ्कारभूषितामिति भावः । अत्र दमयन्तीदर्शनोत्सुकानां नैत्राण्येवैतानि, न तु रत्ना?नीति सापह्रवोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या । पुनः हाराग्रे जाग्रतः प्रकाशमानस्य, गरुडाश्मनः गरुत्मद्रत्नस्य, रश्मिभिः पीनाभं सान्द्रप्रभं, नाभीकुहरान्धकारं यस्यास्ताम् । अत्र मरकतच्छ्रायस्यान्धकारैः साम्योक्तेः सामान्यालङ्कारः ॥ 10.104 ॥
अन्वयः–प्रत्यङ्ग….रान्धकाराम् ।-इति स्पष्टोऽन्वयः ॥ 10.104 ॥
तद्गौरसारस्मितविस्मितेन्दु-प्रभाशिरःकम्परुचोऽभिनेतुम् ॥
विपाण्डुतामण्डितचामराली-नानामरालीकृतास्यलीलाम् ॥ 10.105 ॥
जीवातु–तदिति । पुनः किम्भूताम् ? तस्याः भैम्याः, गौरसारस्मितेन विशदोत्कृष्टमन्दहासेन, विस्मितायाः विस्मयाविष्टायाः, इन्दुप्रभायाः चन्द्रिकायाः, शिरःकम्परुचोऽभिनेतुम्, अनुकर्त्तुमिव; इत्युत्प्रेक्षा; विपाण्डुतामण्डिता ध्धावल्यशोभिताः, चामराल्यः चामरपङ्क्तय एव, नाना मराल्यः हंस्यः, ताभिः कृता लास्यलीला नृत्यचेष्टा यस्यास्तां, निजमन्दहासजनितविस्मयकम्प्यमानचन्द्रिकाशिरःकम्पचारुचारुचामरचयवीज्यमानामित्यर्थः ॥ 10.105 ॥
अन्वयः–तद्गौरसारस्मितविस्मितेन्दुप्रभाशिरःकम्परुचः अभिनेतुं विपाण्डुतामण्डितचामरालीनानामरालीकृतलास्यलीलाम्….॥ 10.105 ॥
तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमकुण्ठितानाम् ॥
स्वयं धृतामप्सरसां प्रसादं ह्रियं हृयं मण्डनमर्पयन्तीम् ॥ 10.106 ॥
जीवातु–तदङ्गेतिः । पुनः किम्भूताम् ? सैवाङ्गं काव्यार्थतया शरीरं यासां ताः तदङ्गासः तद्विषया हत्यर्थः, ‘शब्दादौ मूर्त्तिभिः ख्यातौ’इति लक्षणात्; तासां भोगावलीनां प्रबन्धविशेषाणां’ गायन्यः गायिकाः, कर्त्तरि ल्युट् ङीप्, तासां, मध्ये गानमध्ये, निरुक्तिक्रमेषु निष्कृष्टोच्चारणप्रकारेषु, कुण्ठितानां लुप्तप्रतिभानाम्, हियं लजृजामेव, प्रसादं पारितोषिकम्, अर्पयन्तीं, प्रयच्छन्तीं, तद्दोषज्ञानेन ताः अपि हेलयन्तीमित्यर्थः, गायकेभ्यः स्वधृतवस्त्रालङ्कारादिकं प्रीत.या प्रयच्छन्तीम् इति भावः । तस्याः सौन्दर्यस्तुतिकरणासामर्थ्यादप्सर सोऽहपि लज्जिता इति तात्पर्यम् । अत्र तु ह्रीदानमेव तद्दानमित्युत्प्रेक्षा हिया

अपि स्वय धुतत्वादलङ्कारत्वात् तदायत्तत्वाच्चेति बोद्धव्यम् ॥ 10.106 ॥
अन्वयः–तदङ्गभोगावलिगायनीनां मध्ये निरुक्तिक्रमकुण्दितानाम् अप्सरसां स्वयं घृतां हृदः मण्डनं ह्रियं प्रसादम् अर्पयन्तीम्….॥ 10.106 ॥
तारास-रदानां वदनस्य चन्द्रं रुचा कचानाञ्च नभो जयन्तीम् ॥
आकण्ठमक्षृणोर्द्वितयं मधूनि महीभृतः कस्रू न भोजयन्तीम् ? ॥ 10.107 ॥
जीवातु–तारा इति । पुनः किम्भूताम् ? रदानां, रुचा कान्त्या, तरराः नक्ष्त्राणि, वदनस्य रुचा चन्द्रं, कचानां केशानां, रुचा नभश्च आकण्ठम्, आगलम् अतितरामित्यर्थः न भोजयन्तीम् ? न पाययन्तीम् ? अपि तु सर्वस्यैवेत्यर्थः । नञर्थस्य नशब्दस्य “सुप्सुपा’ इति समासः । “गतिबुद्धि’ इत्यादिना अणिकर्त्तुरक्षिद्वितयस्य
कर्मत्वम् । “निगरणचलनार्थेभ्यश्च’ इति परस्मैपदम् दमयन्तीरूपदश्रनेन राजनेत्राणाम् अमृतेनैव तृपितर्जाता इति भावः । सकलराजलोकलोपचनासेचनकमासीत् सा इति निष्कर्षः । अत्रोत्तरवाक्यार्थस्य पूर्ववाक्यार्थ्हेतुकत्वात् काव्यलिङ्गं, तच्च ताराद्युपमाभिः सङ्कीर्यते, तस्य नभो जयन्तीं न भोजयन्तीमिति यमकेन संसृष्टिः ॥ 10.107 ॥
अन्वयः–रदानां रुचा ताराः वदनस्य चन्द्र कचानां च नभः जयन्तीं कस्य महीभुजः अक्षणोः द्वितयम् आकण्ठं मधूनि न भोजयन्तीम….॥ 10.107 ॥
अलङ्कृताङ्गाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्षनिवेद्यलक्ष्मीम् ॥
इमां विमानेन सभां विशन्तीं पपावपाङ्गैरथ राजराजिः ॥ 10.़108 ॥ कुलकम् ।
जीवातु-अलङ्कृतेति । पुनः किम्भूताम् ? अथ आह्वानानन्तम्, अलङ्कृताङ्गेभ्यः भूषिताङ्गेभृयः, अदभतानि आश्चर्याणि केवलानि अनलङ्कृतानि, अङृगानि यस्यास्तां, स्तवात् स्तुतेः, अधिकाः स्तोतुमशक्यः,
अध्यक्षनिवेद्याः प्रत्यक्षगम्याः, लक्ष्मयः शोभाः यस्यास्ताम्, इति बहुवचनान्तोत्तरपदो बहुव्रीहिः, अन्यथा एकवचनान्तलक्ष्मीशब्दस्य उरःप्रभृतिकत्वात् कप्रसङ्गः, शैषिकस्तु वैभाषिकः विमानेन नरवाह्मेन चतुरस्त्रयानेन, सभां विशन्तीम्, इमां भैमीं, राजराजिः नृपश्रेणी, अपाङ्गैः नेत्रप्रान्तैः, पपौ अत्यादरेण ?सविलासमद्राक्षीदित्यर्थः ॥ 10.108 ॥
अन्वयः–अथ राजराजिः अलङ्कृताङृगाद्भुतकेवलाङ्गीं स्तवाधिकाध्यक्षनिवेद्यलक्षृमीं विमानेन सभां विशन्तीम् इमाम् अपाङ्गैः पपौ ॥ 10.108 ॥
आसीदसौ तत्र न कोऽपि भूपस्तन्मूर्तिरूपोदभवददभुतस्य ॥
उल्लेसुरङ्गानि मदा त यस्य विनिद्ररोमाङ्कुरदन्तुराणि ॥ 10.109 ॥
जीवातु–अथ तामद्भुतचेष्टां वर्णयति, आसीदिति । तत्र सभायाम्, असौ ईटृशः, भूपः कोऽपि नासीत्, तस्याः भैम्याः,मूर्त्तिरूपेण अङ्गसौन्दर्येण, उदभवन् उद्भुतः अद्भुतरसो यस्य एवम्भूतस्य यस्य भूपस्य, अङ्गानि मुदा हर्षेण, विनिद्रैः उदितैः, रोमांकुरैः पुलकैः, दन्तुराणि विषमाणि सन्ति, न उल्लेसुः न उल्लासितानि, सर्वस्याप अङगानि उल्लेसुरेवेत्यर्थः ॥ 10.109 ॥
अन्वयः–तत्र कः अपि असौ भूपः न आसीत् तन्मुमर्तिरूपोदभवद्भुतस्ययस्य मुदा विनिद्ररोमाङ्कुरदन्तुराणि अङृगानि न उल्लेसुः ॥ 10.109 ॥
अङ्गुष्ठमूर्द्द्ध्ना च निपीडिताग्रा मध्येन भागेन च मध्यमायाः ॥
आस्फोटि भैमीमवलोक्य तत्र न तर्जनीं केन जनेन नाम ॥ 10.110 ॥
जीवातु-अंगुष्ठेति । तत्र सभायां, भैमीम् अवलोक्य अंगुष्ठस्य मूर्ध्ना अग्रेण, मध्यमायाः मध्यमांगुलेः, मध्येन भागेन च निपीडितम् अग्र यस्याः सा तर्जनी केन नाम जनेन, नास्फोटि ? न वादिता ? न अभाजि ? इति यावत्, स्फुट भेदन इति धातोः चौरादिकात् कर्मणि लुङ्, सर्वेणानि अद्भुतानुभावस्फोटिका कृतैवेत्यर्थः
॥ 10.110 ॥
अन्वयः–तत्र च भैमीम् अवलोक्य अङ्गुष्ठमूर्द्ध्ना मध्यमायाः मध्येन भागेन च निपीडिताग्रा तर्जनी केन
नाम जनेन न आस्फोटि ? ॥ 10.110 ॥
अस्मिन् समाजे मनुजेश्वराणां तां खञ्जनाक्षीमवलोक्य केन ॥
पुनः पुनर्लोलितमौलिना न भ्रु वोरुदक्षेपितरां द्वयी वा ? ॥ 10.110 ॥
जीवातु–अस्मिन्निति । अस्मिन् समाजे सभायां, खञ्जनस्य इव अक्षिणी यस्या टृशौ, तां भैमीम्, अवलोक्य लोलितमौलिना आश्चर्यात् कम्पितकिरीटेन, केन वा मनुजेश्वरेण राज्ञ, भ्रु वोर्द्वयी, पुनः पुनर्न उदक्षेपितराम् ? सर्वेण अतिशयेन उत्क्षिप्ता एवेत्यर्थः, क्षिपेः कर्मणि लुङि तिङन्तात् धात् आमुप्रत्ययः । अत्र शिरःकम्पभ्रु विकारावद्भुतानुभावावुभावावुक्तौ ॥ 10.110 ॥
अन्वयः–वा अस्मिन् समाजे पुनः लोलितमौलिना केन मनुजेश्वरेण तां खञ्जनाक्षीम् अवलोक्य भ्रु वोः द्वयी न उदक्षेपितराम् ? ॥ 10.110 ॥
स्वयंवरस्याजिरमाजिहानां विभाव्य भैमीमथ भूमिनाथैः ॥
इदं मुदा विह्वलचित्तभादवादि खण्डाक्षरजिह्मजिह्वम् ॥ 10.112 ॥
जीवातु–अथ राज्ञां वागारम्भः प्रवृत्ता इत्याह, स्वयंवरस्येति । अथ अनन्तरं स्वयंवरस्य अजिरं चत्वरप्रदेशम्, आजिहानां प्राप्नुवन्तीं, हाञः कर्त्तरि शानच्, भैमीं विभाव्य? निर्वर्ण्य, भूमिनाथैः राजभिः, मुदा हर्षेण हेतुना, विह्वलचित्तभावात् व्यग्रचित्तत्वाद्धेतोः, भूमिनाथैः राजभिः, मुदा हर्षेण हेतुना, विह्वलचित्तभावात् व्यग्रचित्तत्वाद्धेतोः, इदं वक्ष्यमाणं, खण्डाक्षरम् अर्द्धोक्तवर्णम् अत एव जिह्मजिह्वं कुण्ठजिह्वं यथा, तथा, अवादि उक्तम् । कर्मणि लुङ् ॥ 10.112 ॥
अन्वयः–अथ भूमिनाथैः स्वयंवरस्य आजिरम् आजिहानां भैमीं विभाव्यविह्वलचित्ततभावात् खण्डाक्षरजिहृमजिह्वं मुदा इदम् अवादि ॥ 10.112 ॥
रम्भादिलोभात् कृतकर्मभिर्भुः शून्यैव मा भूत् सुरभूमिपान्थैः ॥
इत्येतयाऽलोपि दिवो1़पि पुंसां वैमत्यमत्यंप्सरसा रसायाम् ॥ 10.113 ॥
जीवातु–अथ विंशतिश्लोक्या वागारम्भावेन वर्णयति, रम्भेत्यादि । रम्भासदिषु अप्सरःसु, लोभात् कृतं कर्म यगादि यैस्तैः सुरभूमिपान्थैः स्वर्लोकपथिकैः, “यथो ना नितृयम्’ इति नाप्रत्ययः, भूरेव शून्या मा भूदिति हेतोः, अतिक्रान्ताः सौन्दर्यादिना अप्सरसो यया सा तया अतृयप्सरसा, एतया भैम्या, दिवः पुंसामपि देवानाम् अपि रसायां भूलोकं, वैमत्यं वैराग्यम्, अलोपि लुप्तम् इव, इतृयत्प्रेक्षा व्यञ्जकाप्रयोगात् गमृया । लुपेः कर्मणि लुङ्, अत्यप्सरसः भैम्याः सौन्दर्यात् स्वर्लोकम् अतिशेते भुलोकमिति भावः । अत्रान्त्यपादे “मत्यमत्य-रसारसे’ति व्यञ्जनयुग्मावृत्त्या छेकानुप्रासः, अन्यत्र वृत्त्यनुप्रासः, तयोः पूर्वोक्तोत्प्रेक्षायाश्च संसूष्टिः
॥ 10.113 ॥
अन्वयः–रम्भादिलोभात् कृतकर्मभिः सुरभूमिपार्न्थः भु शुन्या एव मा भूत् इति अत्यप्सरसा एतया दिवः पुंसाम् अपि रसायं वैमत्यम अलोपि ॥ 10.113 ॥
रूपं यदाकर्ण्य जनाननेभ्यस्तत्तद्दिगन्ताद् वयमागमाम ॥
सौन्दर्यसारादनुभूयमानादस्यास्तदस्मात् बहुना कनीयः ॥ 10.114 ॥
जीवातु–रूपमिति । वयं जनाननेभ्यः यद्रुपं सौन्दर्यम्, आकर्ण्य तच्च तच्च असौ दिगन्तश्च, वीप्सायां
द्विर्भावः, तस्मात् तस्मात् दिगन्तात् प्राच्यादिदिक्प्रासन्ताम्, आगमाम आगताः स्मः, गमेर्लुङि चेरङादेशः, तत् रूपम्, अस्मादनुभूयमानात् प्रतृयक्षपिरटृश्यमानात्, सौन्दर्यसारत् “पंचमी विभक्तेः’ इति पंचमी, अहुना भून्ना प्रथिन्ना, भावप्रधानो निर्देशः कनीयः अल्पीयः, याटृशं रूपं लोकमुखात् श्रुतं तदपेक्षयाा1़धिकरूपलावण्यं टृश्यते इति भावः ॥ 10.114 ॥
अन्वयः–वयं जनानेभ्यः यत् रूपम् आकर्ण्य तत्तद्दिगन्तात् आगमाम, अस्याः तत् अस्मात् अनुभूयमानात् सौन्दर्यसारात् बहुना कनीयः ( बहु न अकनीयः ) ॥ 10.114 ॥
रसस्य शृङ्गार इति रुतस्य क्व नाम जागर्त्तिं महानुदन्वान् ॥
कस्मादुदस्थादियमन्यथा श्रीर्लावण्यवैदग्ध्यनिधिः पयोधेः ? ॥ 10.115 ॥
जीवातु–रसस्येति ।शृङ्गार इति श्रुतस्य प्रसिद्धस्य रसस्य शृङ्गाररसस्यसम्बन्धे इत्यर्थः, महान् उदन्वान् उदधि, “उदन्वानुदधौ’ इति निपातनात् साधुः, क्व नाम जागर्ति कुत्रापि किन, प्रदेशे विद्यते एवेत्युत्प्रेक्षा । कुतः ? अन्यथा शृङ्गारार्णवाभावे लावण्यवैदग्ध्ययोः सौन्दर्यचातुर्ययोः, निधिरियं पुरोवर्त्तिंनी
भैमीरूपा, श्रीर्लक्ष्मीः, कस्मात् पयोश्रेः उपस्थात् ? श्रीः समुद्रात् उत्पन्नेति प्रसिद्धिः, इयन्तु तदपेक्षयाऽधिकसुन्दरी, अत अयं भैमीरूपा श्रीः शृङ्गाररससमुद्रावेवोत्पन्नेति ताटृशसमुद्रः कुत्रापि देशे वर्त्तते एवेति भावः अत्रेयं श्रीरिति विषयनिगरणेन विषयिमात्रनिबन्धनादभेदेऽप्यभेदातृ सातिशयोक्तिरेतन्मूला च पूर्वोक्तशृङ्गाररससागरसदभावोत्प्रेक्षेत्यनयोरङ्गाङ्गिभावेन सङ्करः ॥ 10.115 ॥
अन्वयः– शृङ्गासरस’ इति श्रुतस्य रसस्य महान उदन्वान् क्व नाम जागर्त्ति अन्यथा लावण्यवैदग्धनिधिः इयं श्रुतस्य पयोधेः उदस्थात् ? ॥ 10.116 ॥
साक्षात् सुधांशुर्मु खमेव भैम्या दिवः स्फुटं लाक्षणिकः शशाङ्कः ॥
एतद्भ्रुवो मुख्यमनङ्गचापं पुष्पं पुनस्तद्गुणमात्रवृत्त्या ॥ 10.116 ॥
जीवातु–साक्षादिति । भैम्याः मुखमेव साक्षात् मुख्यः, उपमानत्वेन प्रसिद्धः इति यावत् सुधांशु भैमीमुखमेव ओष्ठरूपसुधासम्बन्धात् सुख्यवृत्त्या सुधांशुपदाभिधेयमेवेत्यर्थः, दिवोऽनतरिक्षस्य शशाङ्कः चन्द्रस्तु लाक्षणिको लक्षणागम्योलाञ्छनकश्च, शैषिकण्ठक्, लक्षणावृत्त्या सुधांशुपदेन बोध्यः, न तु अभिधावृत्त्येतृयर्थः, अभिधेयार्थापेक्षया लक्ष्यार्थस्य जघन्यत्वेन एतस्यां मुखचन्द्रापेक्षया गगनस्थचन्द्रस्य जघन्यत्वमिति भावः, स्फुटमित्युत्प्रेक्षा । तथा एतस्याः भ्रु वावेव मुख्यं प्रधानं, मुखवृत्त्या अभिधेयमित्यर्थः, अमोधत्वादिति भावः, ‘दिगादिभ्यो यत्’ इति भावार्थे यत्प्रत्ययः, अथ च मुखे भवं मुख्यं, भ्रू रूपमिति यावत्, अनङ्गचापं कामधेनुः । पुष्पं पुनः यत् पुष्पम् अनङृगचापत्वेन व्यवह्रिण्ते तत्तु, तयोर्भ्रुवोः, यो गुणः उद्दीपकत्वादिः, तन्मात्रृत्त्या तत्सदृशगुणवत्त्वादित्यर्थः, पुष्पेऽनङ्गादुत्प्रेक्षेति द्वयोर्निरपेक्षत्वात् संसृष्टिः
॥ 10.116 ॥
अन्वयः–भैम्याः मुखम् एव साक्षात् सुधांशुः, दिवः शशङ्कः स्फुटं नाक्षणिकः । एतदभुवौ मुख्यम् अनङ्गचापं, पुनः पुष्पं तद्गुणमात्रवृत्त्या ॥ 10.116 ॥
लक्ष्ये धृतं कुण्डलिके सुदत्या ताटङकयुग्मं स्मरधन्विने किम् ? ॥
सव्यापसव्यं विशिखा विसृष्टास्तेनैतयोर्यान्ति किमन्तरेण ! ॥ 10.117 ॥
जीवातु–लक्ष्य इति । सुदत्या भैम्या, ताटङ्कयोः कर्णभूषणयोः, युग्मं स्मर एव धन्वीं, ब्राह्मणादित्वानिः, तस्मै, तादर्थ्ये चतुथीं, लक्ष्ये शरव्यभूते, कुण्डल्यादेव कुण्डलिके चक्रे, धृतं किम् ? ताटङ्कयुग्ममेव शरव्यचकत्वेन धृतवती किम् ? इत्युत्प्रेक्षा । अत एव तेन स्मरधनिवना, सव्यम् अपसव्यञ्च यथा तथा विसृष्टाः विमुक्ताः विशिखाः बाणाः, एतयोः शरव्यचक्रयोः, अन्तरेण यान्ति प्रसरन्ति किम् ? इत्युत्प्रेक्षा सापेक्षत्वात् सङ्करः । सव्यसाचिनो धानुष्काः शरव्यद्वये शरान् मुञ्चन्ति इति प्रसिद्धिः । भ्रू चापयोजिताः कटाक्षबाणाः कर्णताटङ्ककुण्डलाभ्यन्तरेण निर्यान्तीति भावः ॥ 10.117 ॥
अन्वयः–किं सुदत्या ताटङकयुग्मं स्मरधन्विधने लक्ष्ये कुण्डलिके धृते, किं तेन सव्यापसव्यं विसष्टाः विशिखाः एतयोः अन्तरेण यान्ति ? ॥ 10.117 ॥
तनोत्यकीर्तिं कुसुमाशुगस्य सैषा बतेन्दीवरकणपुरौ ॥
यतः श्रवःकुण्डलिका।द्यपराद्ध-शरं खलः ख्यापयिता तमाभ्याम् ॥ 10.118 ॥
जीवातु–तनोतीति । सैषा भैमी, इन्दीवरकर्णपूरावेव तद्रूप्रामित्यर्थः, कुसुममाशुगस्य अकीर्त्तिम् अपकीर्त्तिम्, तनोति ताभ्यां तस्याकीर्त्तिम् जनयतीत्यर्थः, आयुर्घृ तमितिवत् कार्यकारणयोरभेदोपचारः, कारणेन्दीवरगुणादकीर्तिश्च कालिमेति भावः, बतेति खेदे । कुतस्तत्कारणम् ? तदाह-यतःखलः कश्चिद्दोषान्वेषी दुर्जनः, आभ्यां कामशराभ्याम् इन्दीवरकर्णपूराभ्याम्, इमावेव निदर्श्येत्यर्थः, ल्यब्लोपे पञ्चमी, तं कुसुमशरं, श्रवसोः कर्णयोः, कुण्डलिके ताटङ्करूपे लक्ष्ये चक्रे इत्यर्थः, ताभ्याम्, अपराद्धशरं च्युतनीलोत्पलरूपसायकम्, “अपराद्धपृषत्कोऽसौ लक्ष्याद् यश्च्युतसायकः’ इत्यमरः, ख्यापयिता ख्यापयिष्यति, कर्त्तरि लुट्, इन्दीवरयोरपि कामशरत्वात् कुण्डलिकाबहिर्भागे लग्नत्वाच्च एतद्दृष्टान्तेनैवान्यत्रापराद्धपृषत्कदोषोद्धाटनसौकर्यात्तयोरकींर्तिकारणत्वोत्प्रेक्षेत्यर्थः ॥ 10.118 ॥
अन्वयः–सा एषा बत कुसुमाशुगस्य इन्दीवरकर्णपूरौ अकीर्त्तिं तनोति, यतःखलः आभ्यां तं श्रवः कुण्डलिकापराद्धशरं ख्यापयिता ॥ 10.118 ॥
रजःपदं षट्पदकीट-जुष्टं हित्वाऽऽत्मनः पुष्पमयं पुराणम् ॥
अद्यात्मभूराद्रियतां स भैम्या भ्रुयुग्ममन्तर्धृतमुष्टि चापम् ॥ 10.119 ॥
जीवातु–रज इति । अद्य आत्मभूः स कामः; रजसां पदं स्थानं, परागाश्रयं काष्ठचूर्णाश्रयञ्चेत्यर्थः, षट्पदैरेव कीटैः क्रिमिभिः, जुष्टं सेवितं,–धुणादिसेवितञ्चेत्यर्थः, पुराणं जीर्णं, पुष्पमयमात्मनश्चापं हित्वा त्यक्त्वा अन्तर्मध्ये, घृतमुष्टि मुष्टिपिहितत्वाददृश्यमध्यमित्यर्थः, भैम्या भ्रू युर्ग्म भ्रु द्वयरूपं चापमेव, आद्रियताम्
अंगीकरोतु, अमोघत्वात् नूतनतृवाच्चेति भावः ॥ 10.119 ॥
अन्वयः–अद्य सः आत्मभूः रजःपदं षट्पइकीटजुष्टं पुराणम् आत्मनः पुष्पमयं चापं हित्वा भैम्यराः भ्रू युग्मम् अन्तर्धृतमुष्टि आद्रियताम् ॥ 10.120 ॥
पह्मन् हिमे प्रावृषि खञ्जरीटान् क्षिप्नुर्यमादाय विधिः क्वचित् तान् ॥
सारेण तेन प्रतिवर्षमुच्चैः पुष्णाति दृष्टिद्वयमेतदीयम् ॥ 10.121 ॥
जीवातु–पह्मानिति । विधिः स्त्रष्टा, यं सारं, पह्मगतमुत्कृष्टमुत्कृष्टांशं तथा खञ्चरीटगतमुतृकृष्टांशञ्चेत्यर्थः, आदाय तान्निःसारान्, पह्मान् हिमे शिशिरकाले, तथा खञ्जरीटान् खञ्जनपक्षिणः, प्रावृषि वर्षत्तौ, क्वचित् क्वानि, क्षिप्नुः प्रक्षेपणशीलः सन्, क्षिप्तवानित्यर्थः, “त्रसिगृधि’ इत्यादिना क्नुन्प्रतृययः, “न लोक’ इतृयादिना षष्ठीप्रतिषेधात् द्वितीया, तेन सारेण पतिवर्षं प्रतिवत्सरम्, एतदीयं दृष्टिद्वयम् उच्चैः पुष्णातीत्युत्प्रेक्षा; अन्यथा कथमीदृशी शोभेति भावः ॥ 10.120 ॥
अन्वयः–विधिः यम् आदाय हिमे तान् पक्ष्मान् प्रावृषि खञ्जरीटान् क्वचित् क्षिप्नुः तेन सारेण प्रतिवर्षम् एतदीयं टृष्टिद्वयम् उच्चैः पुष्णाति ॥ 10.120 ॥
एतद्दृशीरम्बुरुहैर्विशेषं भृङ्गौ जनः पृच्छतु तद्गुणज्ञौ ॥
इतीव धात्राऽकृत तारकाल-स्त्रीपुं समाध्यस्थ्यमिहाक्षियुग्मे ॥ 10.121 ॥
जीवातु–एतदिति । अनः उभयतारतम्यजिज्ञासुः लोकः, एतदृशोः भैमीदृष्ट्योः, अमृबुरुहैः सह विशेषं तारतम्यं, तद्गुणज्ञौ अम्बुरुह-नेत्ररसज्ञौ, भृङ्गौ भृङ्गी च भृङ्गश्च तौ, पृच्छतु पृच्देत्, दुहादित्वात् द्विकर्मत्वम्, इतीव इति मत्वेव, आत्रा इह एतदीये, अक्षियुग्मे तारके कनीनिके एव, अलिस्त्रीपुंसौ अलिदम्पती, अचतुरादिना समासान्तनिपातः, तयोर्माध्यस्थ्यं पह्मानि उत्कृष्टानि उतत एतननेत्रे उत्कृष्टे इति लोकानां सशये अकूटसाक्षितृवम्, अक्षिमध्यवर्त्तित्वञ्च, अकृत कृतवान् करोतेः कत्तरि लङ् तङि “ह्रस्वादङ्गात्’ इति सकारलोपः, विवादपदतत्त्वज्ञो मध्यस्यश्च साक्षी संशयच्छेयोः रमणीयत्वं व्यजयतः, तस्मात् एतन्नेत्रे पह्मापेक्षाया मनोहरे भ्रमरवन्नीलकनीनिकाविशिष्टे चेति भावः । भैमीदृगम्बुरुहतारतम्यकथनाय धात्रा स्थापितमलिभिथुन मिव भाति कनीनिकायुग्मांमत्युत्प्रेक्षा ॥ 10.121 ॥
अन्वयः–जनः एतद्टृशोः अम्बुरुहैः विशेषं तद्गुणज्ञौ भृङ्गौ पृच्छतुइति इव धात्रा इह अखियुग्मे तारकालिस्त्रीपुंसमाध्यस्थम् अकृत ॥ 10.121 ॥
व्यधत्त सौधौ रतिकामयोस्तद्-भक्तं वयोऽस्या हृदि बासभाजो ॥
तदग्रजाग्रतृपृथुशातकुम्भ-कुम्भौ न सम्भावयति स्तनौ कः ! ॥ 10.122 ॥
जीवातु–व्यधत्तेति । तयोः रतिकामयोः, भक्तं विधेयं, वयः यौवनं कर्त्तुं, प्रस्याः र्भम्याः, हृदि वासभाजोः निवसतोः, रतिकामयोः, कृते इति शेषः, सौधौ प्रासादौ, व्यधत्त निर्ममे, अस्यथा तयोस्तत्र निवासायोग्यत्वमिति भावः; यस्मात् हेतोः कों जनः, स्तनौ, अस्या इति पूर्वानुषङ्गः, तयोः सौधयोः अग्रे जाग्रतौ प्रकाशमानौ, पृथू पीवरौ च, शातकुम्भकुम्भौ कनककलशो, न सम्भावयति ? न वितर्कयति ? सर्वोऽप्येवमुतृप्रेक्षत् एवेत्यर्थः ॥ 10.122 ॥
अन्वयः–रतिकामयोः भक्तं वथः अस्याः हृदि वासभाजोः तयोः सौधौ व्यधत्त; कः स्तनौ तदग्रजाग्रत्पृथुशातकुम्भकुम्भौ न सम्भावयति ? ॥ 10.122 ॥
अस्या भुजाभ्यां विजितात् विसात् किं पृथक् करोऽगृह्मत तत्प्रसूनम् ! ॥
इहेक्ष्यते तन्न गृहं श्रियः कैर्न गीयते वा कर एव लौकैः? ॥ 10.123 ॥
जीवातु–अस्या इति । अस्याः, भैम्याः, भुजाभ्यां विजेतृभ्यामिति भावः, विजितात् विसात् मृणालात्, पृथक् प्रत्येकमेव, तत्प्रसूनं विसप्रक्षा; “बलिहस्तांशवः कराः’ इत्यमरः, जेतुर्जितात् करग्रहणमेव तत्करस्य पह्मत्वञ्चोचितमिति भावः । तथा हि, इहास्या भुजयोः, तत् करत्वेन गृहयते ? वा बथवा, कर एव करब्देनैव, न गीयते ? नोच्यते ? सर्वैरपि तथा कीर्त्त्यते इत्यर्थः । एतद्धस्तस्य श्रीगृहत्वात् पह्मत्वं करतृवप्रसिद्धेर्विसात्मकत्वेन ग्रहणं सिद्धमित्युत्प्रेक्षा युक्ता ॥ 10.123 ॥
अन्वयः–अस्याः भुजाभ्यां विजितात् विसात् पृथक् तत्प्रसूनं किं करः अगृह्मत, इह तत् कैः लोकैः श्रियः गृहं न ईक्ष्यते करः एव वा न गीयते ? ॥ 10.123 ॥
छह्मैव तच्छम्बरजं विसिन्यास्तत्पहृममस्यास्तु भुजाग्रसह्म ॥
उत्कण्टकादुद्गमनेन नालादुत्कण्टक शातशिखैर्नखैर्यत् ॥ 10.124 ॥
जीवातु–छद्मैवेति । विसिन्याः कमलिन्याः सम्बन्धि, तत् पद्भं, शम्बरजं शम्बरात् जलात् जातं, छद्मैवालीकमेव, अथ च शम्बरदनुजजातं, छद्मैव मायैव, न तु पारमार्थिकमित्यर्थः; दैत्ये ना शम्बरोऽम्बुनि’ इति वैजयन्ती; तु किन्तु, अस्याः भैम्याः, भुजाग्रं सद्म स्थानं यस्य तादृशं, तत् पद्मं परमार्थिकं पद्ममितृयर्थः; कुतः ? यत् यस्मात्,उत्कण्टकात् उद्गताः कण्टकाः सूवयः पुलकाश्च यस्य तस्मात्, तालात् पह्मदण्डात् भसुजदण्डाच्च, उद्गमनेन प्रादुर्भावेन हेतुना शातशिखैः तीक्ष्णाग्रैः, नखैः उत्कण्ठकम्, एतत्पाणिपद्ममिति शेषः; विसपद्मन्तु उत्कण्टकनालादुदभृतमपि नोत्कण्टकम् पदृमे कण्टकाविरहात, किन्तु भैमीपाणिपद्मेव प्रकृतपद्मं सकण्टकत्वम्, यतः कारणगुणाः कार्यगुणमारभन्ते इति शास्त्रातृ सकण्टकनालकार्यस्य सकण्टकत्वेन भवितव्यमिति भावः । भैमीपराणिपद्मस्य प्रसिद्धपद्मव्यतिरेकोकत्या व्यतिरेकालङकारः ॥ 10.124 ॥
अन्वयः–विसिन्याः तत् शम्बरजं छद्म एव; तु भुजायग्रसद्म तत् पह्मम्, यत् उतृकण्टकातृ नालात् उद्गमनेन शातशिखैः नखैः उत्कण्टकम् ॥ 10.124 ॥
जागर्ति मर्त्त्येषु तुलार्थमस्या योग्येति योग्यानुपम्भनं नः ॥
यद्यस्ति नाके भुवनेऽथवाऽधस्तदा न कौतस्कुतलोकबाधः ? ॥ 10.125 ॥
जीवातु–जागर्त्तीति । मर्त्त्येषु, अस्थाः भैम्याः तुलार्थां, औपम्यायइतृयर्थः, योग्या अर्हा, काचिदस्तीति शेषः इति अत्र, नः अस्माकं, योग्यानुपलबिधरेव बाधकप्रमाणं, जागर्त्तिं विलसति; तथा च र्त्त्येषु यदि एतत्सादृश्ययोग्या रमणी बाधकप्रमाणं, जागर्त्तिं विलसति; तथा च मतर्‌त्येषु यदि एतत्सादृश्ययोग्यारमणी स्यात्, तदा उपलभ्येत इतृयनुपलब्धिरेव तत्र तदभावसाधिकेति भावः । नाके स्वर्गे, अथवा अधोभुवने पाताले च यदि अस्ति, एतत्सदृशीति शेषः, तदा तर्हि, कौ तस्कुतानां कुतः कुतः स्वर्गादिलोकात् आगतानां, “तत आगतः’ इत्यणुप्रतृययः, अव्ययात् टिलोपः, कस्कादित्वात् सः, लोकानां देवनागादिरूपाणां, बाधः अत्र सम्मर्दः, कस्कादित्वात्. सः, लोकानां देवनागादिरूपाणां, बाधः अत्र सम्मर्दः, स्यात् ? इति शेषः, तत्रत्या नागच्देयुः ? इत्यर्थः, अतः अनुपलब्धयर्थापत्तिभ्यामस्यास्त्रिलोक्यामपि तुलाभावो निश्चित इति निष्कर्षः । अत एवोपमानलोपाल्लुप्तोपमालङ्कारः ॥ 10.125 ॥
अन्वयःअस्याः तुलार्थं योग्या मर्त्त्येषु जागर्ति–इति नः योग्यानुप लम्भनम् नाके अथवा अधः भुवने यदि अस्ति तदा कौतस्कुतलोकबाधः न ॥ 10.125 ॥
नमः करेभ्योऽस्तु विधेर्न वाऽस्तु स्पृष्टं धियाऽप्यस्य न किं पुनस्तैः ॥
स्पर्शादिदं स्याल्लुलितं हि शिल्पं मनोभुवोऽनङ्गतयाऽनुरूपम् ॥ 10.126 ॥
जीवातु–नम इति । विधेः स्त्रष्टुः, करेभ्यः हस्तेभ्यः, नमः नमस्कारोऽस्तु, यैरिदं शिल्पमकलीति भावः । “नमःस्वस्ति’ इत्यादिना चतुर्थी, वा अथवानास्तु, नम इति पूर्वानुषङ्गः, कुतः ? अस्य विधेः धिया मनसाऽपि, न स्पृष्टम्, इदं शिल्पमिति शेषः, तैः करैः, किं पुनः ? वाच्यमिति शेषः, न स्पृष्टमिति भावः । हि? यस्मात्, स्पर्शातृ करस्पर्शात्, इदम् अतिकोमलं, शिल्पं लुलितं तत्र तत्र मृदितं स्यात्, किन्तु अनङ्गतया अङ्गराहित्येन हेतुना, मनोभुवः कामस्य, अनुरूपं युक्तम्, इदं शिल्पमिति शेषः; हस्ताद्यवयवस्पर्शं विनैव निर्माणसम्भवात् त्रैलोक्यविजयिनः तस्य अनंगत्वेन विनिर्माणशक्तिसम्भवाच्चेति भावः । अत्र भैमीशिल्पस्य विधिकरणसम्बन्धेऽपि असम्बन्धोक्तेरतिशयोक्तिस्तत्सापेक्षा चेयम् अनङ्गसृष्टित्वोत्प्रेक्षेति सङ्करः ॥10.126॥
अन्वयः–विधेः करेभ्यः नमः अस्तु वा न अस्तु, अस्य धियो अपि न स्पृष्टं पुनः तैः, हि यस्मात् इदं शिल्पं लुलितं स्यात्, अनङ्गतया मनोभुवः अनुरूपम् ॥ 10.126 ॥

इमां न मृद्वीमसृजत् कराभ्यां वेधाः कुशाध्यासनकर्कशाभ्याम् ॥
शृङ्गासरधारां मनसा न शान्ति-विश्रान्तिधन्‌वाध्वमहीरुहेण ॥ 10.127 ॥
जीवातु–कुतोऽपि हेतोर्नर्वधसृष्टिरियमित्याह, इमामिति । वेधाः स्त्रष्टा, मृद्वीं कोमलांगीम्, इमां कुसराध्यासनेन कुशाक्रमणेन, कर्कशाभ्यां कराभ्यां नासृजत् अयोग्यत्वादिति भावः । तथा शृंगारधारां शृंगाररसवाहिनीम् इमां, शान्तेः विषयविरतेः विश्रान्त्यै धन्वाध्वमहीरुहो मरुमार्गवृक्षः, “समानौ मरुधन्वानौ’ इत्यमशृंगारिणः शृंगारिणीसृष्ट्यशक्तेरिति भावः । अत्र विधिकरमनःसमृबन्धाभावेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिशयोक्तिसंसृष्टिः ॥ 10.127 ॥
अन्वयः–वेधाः मृद्वीम् इमां कुशाध्यासनकर्कशाभ्यां कराभ्यां न असृजत्, शृङ्गारधारां शान्तिविश्रान्तिधन्वाध्वमहीरुहेण मनसा न ॥ 10.127 ॥
उल्लास्य धातुस्तुलिता करेण श्रोणौ किमेषा स्तनयोर्गुरुर्वा ॥
तेनान्तरालैस्त्रिभिरङृगुलीनामुदीमध्यत्रिबलीविलासा ॥ 10.128 ॥
जीवातु–उल्लास्येति । एषा दमयन्ती, श्रोणौ नितमृबदेशे, गुरुः गुर्वी, इति संशय इति शेषः, इतिशब्दस्य गम्यमानार्थतृवादप्रयोगः, धातुः करेण उत्तानपाणिना, उल्लास्य नीवीम् अपसार्य, उदरं गृहीत्वा उन्नमय्येत्यर्थः, तुलिता समं धारितेत्युत्प्रेक्षा; इतिशब्दस्य गम्यमानार्थत्वादप्रयोगः, धातुः करेण उत्तानपाणिना, उल्लास्य नीवीम् अपसार्य, उदरे गृहीत्वा उन्नमय्येत्यर्थः, तुलिता समं धारितेतृयुत्प्रेक्षा; तेन तुलनेन, अंगुलीनां चतुसृणां त्रिभिः अन्तरालैः अभ्यन्तरैः, धारितेत्युत्प्रेक्ष; तेन तुलनेन, अंगुलीनां चतसृणां त्रिभिः अन्तरालैः अभ्यन्तरैः, उदीतः उद्गतः, इण, गताविति धातोः कर्त्तरि क्तः, मध्ये मध्यदेशे, त्रिबलीविलासो वलित्रयशोभा यस्याः सा, जाता इति शेषः, अतो नृनं तुलितेत्यर्थः ॥ 10.128 ॥
अन्वयः–एषा श्रीणौ गुरुः स्तनयोः वा–इति धातुः करेण उल्लास्य तुलिता, तेन अङ्गुलीनां त्रिभिः अन्तरालैः उदीतमधृयत्रिबलीविलासा किम् ? ॥ 10.128 ॥
निजामृताद्यन्नवनीतजाङृगीमेतां ?क्रमोन्मीलितपीतिमानम् ॥
कृतृवेन्दुरस्य मुखमात्मनाऽभन्निद्रालुना दुर्घटमम्बुजेन ॥ 10.129 ॥
जीवातु–निजेति । इन्दुः निजम् आतृमीयम्, अमृतं पीयूषंद्व क्षीरदध्यादिगोरसश्च, “अमृतं व्योम्नि देवान्ने मोक्षे हेम्नि च गोरसे’ इति वैजयन्ती, तस्मात् उद्यत् उत्पद्यमान, नवनीतं दधिसारः, “दधिसारो नवनीतम्’ इति हलायुधः, तज्जमङ्गं यस्यास्ताम् अत एव क्रमोन्मीलितपीतिमानं नवनीतवदेव क्रमाविर्भुतपीतवर्णाम्, एतां र्भेमीं, कृत्वा निर्माय, निद्रालुना रात्री निमीलनशीलेन, अथ च अलसेन, अम्बुजेन पद्मेन, अस्या मुखं, दुर्घटं साधु न साध्यं, विविच्य इति शेषः, आत्मना अभूत् स्वयमेवाभूदित्युत्प्रेक्षा; अन्यथा दममन्?त्याःकथमीदृशी अङ्गलावण्यम्पत्तिः चन्द्रवदनत्वञ्चेति भावः ॥ 10.129 ॥
अन्वयः–इन्द्रः निजामृतोद्यन्नवनीतजाङ्गीं क्रमोन्मीलितपोतिमानम् एतां कुत्वा निद्रालुना अमृबुजेन अस्याः दुर्धटं मुखम् आत्मना अभूत् ॥ 10.129 ॥
अस्याः स चारुमधुरेव कारुः श्वासं वितेने मलया?निलेन ॥
अमूनि पुष्पैर्विदधेऽङ्गकानि चकार वाचं पिकपञ्चमेन ॥ 10.130 ॥
जीवातु–अस्?या इति । चारुः चतुरः, सः प्रसिद्धः, मधुर्वसन्त एव, नान्यः इति भावः अस्याः भैम्याः, कारुः शिल्पी यतो मलयानिलेन उपादानेन, अस्याः श्वासं निःश्पासमारुजतं, वितेने चकार; पुष्पैरमूनीति हस्तनिर्देशः, अङ्गकानि विदधे; वाचं पिकपञ्चमेन कोकिलस्वरेण, “पिकः कूजति पञ्चमम् इति वचनात्, चकार ससर्ज इत्युत्प्रेक्षा; अन्यथा कथमेषामीटृशानि सोरभमार्दवमाधुर्याणीति भावः ॥ 10.130 ॥
अन्वयः–अस्याः कारुः सः चारुः मधुः एव; मलयालिनेन श्वासं वितेने; पुष्पैः अमुनि अङ्गकानि विदधे, पिकपञ्चमेन वाचं चकार ॥ 10.130 ॥
कृतिः स्मरस्यैव न धातुरेषा नास्या हि शिल्पीतरकारुजेयः ॥
रूपस्य शिल्पे वयसा स वेवा निर्जीयते स स्मरकिङ्करेण ॥ 10.131 ॥
जीवातु–कृतिरिति । एषा भैमी, स्मरस्यैव कृतिः सृष्टिः धातुः न, कृतिरिति शेषः, हि यस्मात्, अस्याःभैम्याः, शिल्पी निर्माता, इतरकारुभिः शिल्प्यन्तरैः जेयो ज्यः, न, अस्याः शिल्पिना अपराजितेन एव भवितव्य मित्यर्थः, जेया जय्यः, न, अस्याः शिल्पिना अपराजितेन एव भवितव्यमित्यर्थः, ब्रह्मा तु पराजित इत्याह–रूपस्य शिल्पे रूपनिर्माणविद्यायां, स च वेधाः स्मरकिङ्करेण कन्दर्पाधीनेन वयसा यौवनेनापि, निर्जीयते, बाल्यशरीरापेक्ष्?ाया यौवनशरीरस्याधिकरमणीयत्वादिति भावः, अतस्तत्स्वामिना स्मरेणअसौ जित इति किमु वक्व्यम् इति युक्त्या स्मरकृतिरेवैवेत्युत्प्रेक्षा । स्वभावरमणीयं तद्रूपं यौवनमदनाभ्यां जगन्मोहनं जातम् इति तात्पर्यम् ॥ 10.131 ॥
अन्वयः–एषा स्मरस्य एव कृतिः धातुः न, हि अस्याः शिल्पी इतरकारुजेयः न; सः वेधाः रूपस्य शिल्पे स्मरकिङ्करेण वयसा अपि निर्जीयते ॥ 10.131 ॥
गुरोपीमां भणदोष्ठकण्ठ-निरुक्तिगर्वच्छिदया विनेतुः ॥
श्रमः स्मरस्यैष भवं विहाय मुक्तिं गतानामनुतापनाय ॥ 10.132 ॥
जीवातु–गुरोरिति । अथ गुरोः बृहस्पतेरपि इमां भैमीं, भणत् वर्णयत्, ओष्ठकण्ठम् ओष्ठः कण्छश्च प्राण्ङ्गत्वादेकवदभावः । “न लोका–‘इत्यादिना षष्ठीप्रतिषेधातृ कर्मणि द्वितीया, तयोः निरुक्तिगर्वच्छिदया सौन्दर्यातिशयादिवर्णबविषयेऽसाधारणवक्तृत्वाहङ्कारखण्डनेन, “षिदिभदादिभ्योऽङ्’ इत्यङ्, विनेतुः शिखयितुः;
ताच्छील्ये तृचृप्रत्ययः, त्वया निर्वक्तुम् अशक्यमस्या रूपनिर्माणमेवेति शिक्षयितु रिति भावः, स्मरस्यैष श्रम ईटृग्रूपनिर्माणप्रयासः, भवं संसारबन्धं, विहाय मुक्तिं गतानामनुतापनाय भैमीसदभावेन सदानन्दमयत्वातृ संसार विहाया मुक्तिं गतानामनुतापनाय भैमीसदभवेन सदानन्दमयत्वात् संसार एव मोक्षः, वयं संसारं त्यक्त्वा वृथा मुक्ताः स्म ?इति पश्चात्तापजननाय, भवतीत्युत्प्रेक्षा, तया किमुतान्येषामितृयर्थापत्तिर्व्यज्यते ॥ 10.132 ॥
अन्वयः–गुरोः अपि इमां भणदोष्ठकण्ठनिरुक्तिगर्वच्छिदया विनेतुः स्मरस्य एषः रमः भवं विहाय मुक्तिं गतानाम् अनुतापनाय ॥ 10.132 ॥
आख्यातुमक्षिव्रजसर्वपीतां भैमीं तदेकाङ्गनिखातदृक्षु ॥
गाथासुधाश्लेषकलाविलासैरलञ्चकाराननचन्द्रमिन्द्रः ॥ 10.133 ॥
जीवातु–आख्यातुमिति । अथ इन्द्रः अक्ष्णां व्रजेन नलरूपधार्यपि निजशक्त्या नेत्रसहस्त्रेण, सर्वेषु अङ्गेषु पीताम् आदरटृष्ठां भैमीं, तस्याः भैम्याः, एकस्मिन्नेवाङ्गं निखाते प्रवेशिते टृशौ येषां तेषु द्विनेत्रेषु मनुष्येषु विषये, आखातुं तेभ्यः कथयितुं सर्वविशेषज्ञो हि अज्ञेषु सविस्तरं कथयतीति भावः, गाथासुधायाः, श्लोकामृतस्य, श्लेषकलायाः श्लेषालङ्कारविद्यायाः, विलासैः, अन्यत्रअमृतसम्पर्केण षोडशभागविलासैश्च, आननमेव चन्द्रः तम् अलञ्चकार श्लिष्टार्थेन वक्ष्यमाणश्लोकेन चाकथयदित्यर्थः ॥ 10.133 ॥
अन्वयः–इन्द्रः तदेकाङ्गनिखातटृक्षु अक्षिव्रजसर्पपीतां भैमीम् आख्यातुं गाथासुधाश्लेषकलाविलासैः आननचन्द्रम् अलञ्चकार ॥ 10.133 ॥
स्मितेन गौरो हरिणी दृशेयं वीणावतो सुस्वरकण्ठभासा ॥
हेमैव कायप्रभयाऽङ्गकशेषैस्तन्वी मर्ति क्रामतिं मे न काऽपि ॥ 10.134 ॥
जीवातु–तमेव श्लोकमाह–स्मितेनेति । इयं भैमी, स्मितेन गौरी गौरीसंज्ञा काचिद्देवाङ्गना, सिता च, “गौरोऽरुणे सिते पीते’ इति वैजयन्ती । मे मतिं क्रामतीत्युत्तरेणान्वयः; वीणायुक्ता च, सुस्वरकण्ठभासा सुमधुरकण्ठध्वनिसम्पत्त्या, वीणावती अप्सरोविशेषः, वीणायुक्ता च, काययप्रभया, अङ्गकान्त्या, हेम अप्सरो विशेषः सुवर्णञ्च, अङ्गेषु शेषैः अवशिष्टाङ्गैः, तन्वी मेनकाऽपि अप्सरोविशेषोऽपि, मतिं क्रामति एतस्या अङ्गानि टृष्ट्वा मेनका अप्सरा न क्रामति बुद्धि नारोहति, अमर्त्त्यमर्त्त्योर्चितार्थद्वयमाश्रित्यावादीदिति द्रष्टव्यम् । अत्र एकस्या भैम्या गौरीतृयादियपेणोल्लेखादुल्लेखालङ्कारः; “नानाधर्मबलादेकं यदि नानेन गृह्मते । नाहारूपसमुल्लेखात् स उल्लेख इति स्मृतः ॥’ इति लक्षणात्, स च श्लेषप्रतिभोत्थापित इति सङ्करः । एतावतैव कविनाऽपि श्लेषकलावितासैरित्युक्तम्, अस्य च ग्रहीतृभेदात् कारकभेदाच्चोत्थानादत्र स्मितानुकारकभेदादुत्थानमिति संक्षेपः ॥ 10.134 ॥
अन्वयः–इयं स्मितेन गौरी, टृशा हरिणी, सुस्वरकण्ठभासा वीणावती, कायप्रभया हेमा एव, अङ्गशेषैः का अपि तन्वी मे मतिं न क्रामति ( अथ च तन्वी मेनका अपि मतिं क्रामति ) ॥ 10.134 ॥
इति स्तुवानः सविधे नलेन विलोकितः शङ्बितमानसेन ॥
व्याकृत्य मर्त्त्योचितमर्थमुक्तेराखण्डलस्तस्य नुनोद शङ्काम् ॥ 10.135 ॥
जीवातु–इतीति । इति स्तुवानः गौरीप्रभृत्यप्सरःस्वरूपत्वेन भैमीं वर्णयन्, आखण्डलः इन्द्रः, सविधे समीपे, शङ्कितमानसेन अमर्त्त्योचितार्थोपन्यासात् नूनमयं मदीयरूपधारी इन्द्र एवेति शङ्कितचित्तेन, नलेन विलोकितसन् उक्तेः स्मितेनेत्यादिना वाक्यस्य, मर्त्त्योचितमर्थं गौरीत्यादिशब्दानां सितत्वादिरूपं, व्याक्त्य व्याख्या, तस्य नलस्य, शङ्कां नुनोद ॥ 10.135 ॥
अन्वयः–इति स्तुवानः आखण्डलः सविधे शङ्कितमानसेन नलेन विलोकितः उक्तेः मत्तर्योचितम् अर्थ व्याकृत्य तस्य शङ्काम् नुनोद ॥ 10.135 ॥
स्वयं नैषधादेशमहो ! विधाय कार्यस्य हेतोरपि नानलः सन् ॥
किं स्थानिवदभावमधत्त दुष्टं तादृक्कृतव्याकरणः पुनः सः ? ॥ 10.136 ॥
जीवातु–अत्र कविराह-स्वमिति । स इन्द्रः कार्यस्य भैमीलालाभरूपकार्यस्य, हेतोर्निमित्तं, “षष्ठी हेतुप्रयोगे’ इति षष्ठी, स्वम् आत्मानं, नैषधस्य नलस्य, आदेशं नलातृमाकदेशं, विधाय कृत्वा, लो न भवतीत्यनलः, नञ्समासः अनलः न भवतीति नानलः नलः एव सन्, नलरूपधारी सन्नित्यर्थः, पुनः पश्चात्, नलस्य इन्द्रशङ्कानन्तरमित्यर्थः, ताटृक् तथा कृतं मर्त्त्योचितंः, कृतं, व्याकरणं रागपारवश्योक्तस्यान्यथाववरणं
येन सोऽपि सन्, स्वोक्तेरन्यथा आयाकुरणं रागपारवश्योक्तस्यान्यथा विवरणं येन सोऽपि सन्, स्वोक्तेरन्यथा व्याकुर्वाण सन्नित्यर्थः, स्थानी प्रसक्तिमान् यत्रादेशो भवति स इत्यर्थः, अधत्त ? अहो ! महेन्द्रस्यापि दुर्व्यसनितेत्याश्चर्यम्; इन्द्रेण नलस्वरूपधारिणा सता नलस्यादुष्टस्वभावोऽपि धर्त्तुमुचितः, किन्तु तं विहाय परप्रतारणरूपस्वकीयदुष्टस्वभावो धृत इत्येवाश्चर्यमिति भावः । अन्यच्च–ताट्क्कृतव्याकरणो महेन्द्रव्याकरणर्त्तापि सन्, न अल् अनक् अनल् स न भवतीति नानल् पूवर्वत् समासः अलित्यर्थः, तस्य अल्सम्बन्धिनः कार्यस्य हेतोः तदर्थं, दुष्टं निषिद्धं स्थानिवदभावं स्थानिवदादेशं; “स्थासनिवदादेशोऽनल्विधौ’
इत्येननालसम्बन्धिकार्ये स्थानिवदादेशस्य निषेधादिति भावः, किं कथम् अधत्त ? इति अहो ! आश्चर्यम् !!
अन्यच्चताटृक्कृतव्याकरणः तथाकृतसंस्कारः, स इत्ययं शब्दः, स्वं स्वकीयम्, आदेशं विधायेति खण्डविश्लेषः, त्यदाद्यत्वंप्राप्येत्यर्थः, नानलः कार्यस्य हेतोः अल आश्रितहल्ङ्यादिलक्षणस्थानिकार्यार्थ, किम् इति दुष्टम् अल्विधादिति प्रतिषेधादनुपपन्नं, स्थानिवदभावमधत्त ? अहो ! विरुद्धमित्यर्थः । अत्रोक्तस्य विरोधात् प्राथमिकार्थेनैव समाधानेन विरोण्धामभासोऽलङ्कारः, स च श्लेषप्रतिभोत्थापितत इति सङ्करः, तृतीयार्थे, नञ् इति विशेष्यस्य अपि विद्धंतत् मृग्यं तदपि वाच्यस्य विरोधाभासस्यैव साधकत्वात् वाच्यसिद्ध्यङ्गमितृयनुसन्धेयम् ॥ 10.136 ॥
अन्वयः–अहो, सः कार्यस्य हेतोः स्वं नैषधादेशं विधाय नानलः सन् अपि पुनः ताटृक्कृतव्याकरणः किं दुष्टं स्थानिवदभावम् अधत्त्?ा ? ॥ 10.136 ॥
इयमियमधिरथ्यं याति नेपथ्यमञ्जुविंशति शिति वेदीमुर्वशी सेयमुर्व्याः ॥
इति जनजनितैः सानन्दनादैर्विजध्ने नलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥ 10.137 ॥

नलहृदि परभैमीवर्णनाकर्णनाप्तिः ॥ 137 ॥
जीवातु–इयमियमिति । नेपथ्येन प्रसाधनेन, मञ्जुः मनोज्ञा, उर्व्याः पृथिव्याः, उर्वशी भूतलोर्वशी, सेयं दमयन्ती, इयम् इयमिति पुरोनिर्देशः, सम्भ्रमे द्विरुक्तिः अधिरथ्यं रथ्यायां, विभक्त्यर्थेऽव्ययीभावः याति रथ्यायां गच्छतीत्यर्थः । वेशीं स्वयंवरवेदिकां, विशति विशति इति एवं , जनैः दर्शकजनैः, जनितैः कृतैः, सानन्दनादैः सहर्षधोषैः कर्त्तृभिः, नलहृदि परेषां समीपस्थजनानां, भैमीवर्णनस्य आकर्णनाप्तिः श्रवण्जनकृता दमयन्तीरूपवर्णना नले न श्रुता इति भावः । मातलिनीवृत्तम् ॥ 1.137 ॥
अन्वयः–नेपथ्यमञ्जुः उर्व्याः उर्वशी सा हयम् हयम् अधिरथ्यं याति देदीं विशति विशाति–इति जनजनितैः सानन्दनादैः नलहृदि परभैमीवर्णनाकर्णनाप्तिः विजध्ने ॥ 10.137 ॥
श्रीहर्षं कविराजराजिमुटालङ्कारहीरः सुतं श्रीहीरः सुषुवे जितन्द्रियन्चयं मामल्लदेवी च यम् ॥
तर्केष्वप्यसमश्रमस्य दशमस्स्य व्यरंसीन्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्जवलः
॥ 10.138 ॥
जीवातु–श्रीहर्षमिति । तर्केष्वपीति न केवलं कवितायामेवेत्यर्थः । गतमन्यत् ॥ 10.138 ॥
अन्वयः–श्रीहर्षा……च यम्, तर्केषु अपि असमश्रमस्य तस्य चारुणिमहाकाव्ये नेषधीयचरिते निसर्गोज्वलः दशमः सर्गः व्यरंसीत् ॥ 10.138 ॥

****************************************************************************

.

नैषधीयचरितम्

एकादशः सर्गः

?0 ?0तां देवतामिव मुखेन्दुलसत्प्रत्सादामद्वक्ष्णा रसादनिमिषेण निभालयन्तीम् ॥
लाभाय चेतसि धृतस्य वरस्य भीमभूमीन्द्रजा तदनु राजसभां बभाज ॥ 11.1 ॥
जीवातु–तामिति । तदनु तस्मादानन्दनादोत्थानादनन्तरमित्यर्थः, अनुशब्दस्य लद्वणार्थे कर्मप्रवचनीयत्वात् तद्योगे द्वितीया । भीमभूमीन्द्रजा भैमी, मुखेन्दुषु, राज्ञामिति भावः, देवतायां मुखेन्दौ च, लसन् प्रसादः प्रसन्नता, भैम्यागमनजन्यहर्षं इति यावत्, पक्षे-कांक्षितं वरय इत्यादि अनुग्रहवचनं यस्यास्तां, तस्यै वरं प्रदातुमुद्यतामिति भावः, “प्रसादोऽनुग्रहे काव्यप्राणस्वास्थप्रसत्तिषु’ इति विश्वः । तथा रसात् अनुरागात्, अनिमिषेण निमेषशून्येन, अक्ष्णा चक्षुषा, निभालयन्तीम् ईक्षमाणां, “दर्शनेक्षणनिध्याननिर्वर्णननिभालनम्’ इति वैजयन्ती । भल निरूपणे इति धातोश्चौरादिकाच्छतरि ङीप् । यद्यपि प्रायेणायं धातुरात्मनेपदी, यदाह भट्टमल्लः,–“निभालयते ईक्षते’ इति तथापि अस्य वैजयन्ती । भल निरूपणे इति धातोश्चौरादिकाच्छतरि ङीप् । यद्यपि प्रायेणायं धातुरात्मनेपदी, यदाह भट्टमल्लः,–‘निभालयते ईक्षते, इति ?तथापि अस्य भुवादिषु अपि पाठदुभयत्र पठितादुभयपदी इति मतमाश्रित्यायं परस्मैपदप्रयोगे इति द्रष्टव्यम्, पक्षे–स्वभावतो देवतानाम् अनिमिषेण चक्षुषा रसात् साधकस्य भक्त्यतिशयात् भक्तं जनं पश्यन्तीं, तां राजसभां राजसमूहं “सभा द्युतसमूहयोः । गोष्ठ्यां सभ्येषु शालायाम्’ इति हैमः । “सभा राजाऽमनुष्यपूर्वा’ इत्यत्र “पर्यायस्यैवेष्यते’ इति नियमात् सभाया अनपुंसकत्वम् । देवतामिव चेतसि धृतस्य चिन्तितस्य, वरस्य वोदुर्नलस्य, देवदेयार्थस्य च, “वरो ना रूपजामात्रोर्देवादेरीप्सिते वृतौ’ इति वैजयन्ती । लाभाय प्राप्तयर्थ, बभाज प्राप; सिषेवे च । अस्मिन् सर्गे वसन्ततिलकं वृत्तं, लक्षणमुक्तम् ॥ 11.1 ॥
अन्वयः–तदनु भीमभुमीन्द्रजा चेतसि धृतस्य वरस्य लाभाय मुखेन्दुलसत्प्रसादाम् रसात् अनिमिषेण लक्ष्ण निभालयन्तीं देवताम् इव तां राजसभां बभाज ॥ 11.1 ॥
तन्निर्मलावयवभित्तिषु तद्विभूषारत्नेषु च प्रतिफलन्निजदेहदम्भात् ॥
दृष्ट्या परं न हृदयेन न केवल तैः सर्वात्मनैव सुतनो युवभिर्ममज्जे ॥ 11.2 ॥
जीवातु–तदिति । तैर्युवभिः सुतनौ दमयन्त्यां टृष्ट्यां परं टृष्ट्यैव, न केवलं ममज्जे न मग्नं, भावे लिट् । हृदयेन हृदयेनैवापि, न केवलं ममज्जे किन्तु निर्मलासु अवयवभित्तिषु गण्डस्थलादिषु, तस्या विभूषारत्नेषु च प्रतिफलतां निजानां देहानां दम्भात् तत्क्षणप्रतिफलितशरीव्याजात्, “कपटोऽस्त्री व्याजदम्भोपधयश्छह्मकैतवे’ इत्यमरः । सर्वात्मना एव सर्वाङ्गैर्नव, ममज्जे, टृङ्मनोमज्जनं तावदास्तां किन्तु प्रतिबिम्बव्याजेन सर्वाङ्गमज्जनं जातमिति सापह्नवोत्प्रेक्षा ॥ 11.2 ॥
अन्वयः–तैः युवभिः सुतनौ परं टृष्ट्या न, केवलं हृदयेन न ममज्जे; तन्निर्मलावयवभित्तिषु तद्विभूषारत्नेषु च प्रतिफलन्निजदेहदम्भात् सर्वात्मना एव ( ममज्जे ) ॥ 11.2 ॥
द्यामन्तरा वसुमतीमपि गाधिजन्मा यद्यन्यमेव निरमास्यत नाकलोकम् ॥
चारुः स याटृगभविष्यदभूद्विमानैस्ताटृक् तदभ्रमवलोकितुमागतानाम् ॥ 11.3 ॥
जीवातु–द्यामिति । गाधेर्जन्म यस्य स गाधिजन्मा विश्वामित्रः, “अवर्ज्योबहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदः’ इति वातनः । द्यां वसुमतीमपि अन्तरा स्वर्गभूभ्योः अन्तराले, “अन्तराऽन्तरेण युक्ते’ इति द्वितीया अन्यमेव नाकलोकं स्वर्गान्तरं, निरमास्यत यदि निर्मिमीते चेत्, “माड.: क्रियातिपत्तौ लृङ्’ स नाकलोकः, याटृक् चारुः अभविष्यत् भवेत्’ “पूर्ववल्लृङ्’ तत् स्वयंवरसभोपरिस्थम्, अभ्रम् अन्तरिक्षं कर्त्तु,
अवलोकितुं, स्वयंवरमिति शेषः, आगतानां, देवानामिति शेषः, विमानैः ताटृक् तथा चारुः, अभूत्, स्वयंवरसभाया ऊर्ध्वमाकाशमण्डलं देवानां विमानैः अन्तरिक्षसृष्टस्वर्गसटृशं शुशुभे इति भावः । अत्राभ्रस्यान्तराले नाकलोकासम्बन्धेऽपि सम्भावनया तत्सम्बन्धोक्त्तेरतिशयोक्तिभेदः । अभूतोपमेति केचित्
॥ 11.3 ॥
अन्वयः–गाधिजन्मा द्यां वसुमतीम् अपि अन्तरा यदि अन्यम् एव नाकोकं निरमास्यतद्व सः याटृक् चारुः अभविष्यत अवलोकितुम् आगतानां विमानैः तत् अभ्रं ताटृक् अभूत् ॥ 11.3 ॥
कुर्वदिभरात्मभवसौरभसम्प्रदानं भूपालचक्रचलचामरमारुतौधम् ॥
आलोकनाय दिवि सञ्चरतां सुराणां तत्रार्चताविधिरभूदधिवासधूपैः ॥ 11.4 ॥
जीवातु–कुर्वदिभरिति । भूपालचक्रस्य राजलोकस्य, चलानां चलतां, चामराणां मारुतस्यौधं प्रवाहम्, आत्मभवसौरभस्य स्वजन्मगन्धस्य सम्प्रदानं सम्प्रदानपात्रं, कुर्वदिभः स्वससौरभं तत्र सङ्क्रामयदिभरित्यर्थः, अधिवासधूपैः वासनार्थधूपैः, आलोकनाय स्वयंवरदर्शनाय, दिवि ?आकाशे, सञ्चरतां सुराणां देवानां, तत्र स्वयंवरे, अर्चनाविधिः पूजाकृतृयम्, अभूत्, राज्ञां चामरवायुभिः अधिवासधूपा आकाशव्यापिनोऽभूवन् इति भावः
! अत्राधिवासधूपस्य सुरार्चनाऽसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिभेदः ॥ 11.4 ॥
अन्वयः–भूपालचक्रचलचामरमारुतौधम् आत्मभवसौरभसंप्रदानं कुर्वदिभः अधिवासधूपैः आलोकनाय दिवि सञ्चतरतां सुराणां तत्र अर्चनाविधिः अभुत् ॥ 11.4 ॥
तत्रावनीन्द्रचयन्दनचन्द्रलेपनेपथ्यगन्धमयगन्धवहप्रवाहम् ॥
आलीभिरापतदनङृगशरानुसारी संरुध्य सौरभमगाहत भृङ्गवर्गः ॥ 11.5 ॥
जीवातु–तत्रेति । तत्र स्वयंवरे, आलीभिः श्रेणीभिः, श्रेणीसम्बन्धात् आपततः आगच्छतः, अन्ङ्गशरान् अनुसरतीति तदनुसारी तत्सटृशः भृङ्गवर्गः अवनीन्द्रचयस्य रजलोकस्य, चन्दनं चन्द्रः कर्पुरञ्च, “अथ कर्पु रस्त्रियां धनसारः चन्द्रसंज्ञः’ इत्यमरः । ततोर्लेपः, स एव नेपध्यम् अलङ्कारः, तस्या यो गन्धस्तन्मयस्य तत्प्रचुरस्य, गन्धवहस्य वायोः, प्रवाहं संरुध्य मध्ये मार्गमावृत्य, अथवा–आलीभिः स्वीयश्रेणीभिः ताटृशवायुप्रवाहं संरुध्य अन्यत्र कुत्रचित् गन्तुमदत्त्वा इत्यर्थः, सौरभम् आमोदम् आहत विलोडितवान् उपभुक्तवान् वा । सौगन्धलोभात् भ्रमराः श्रेणीभूताः सन्त सभायां विचरन्त स्म इति भावः ॥ 11.5 ॥
अन्वयः–तत्र आपतदनङ्गशरानुसारी भृङ्गवर्गाः अवनीन्द्रचयन्दनचन्द्रलेपनेपथ्यगन्धवहगन्धमयप्रवाहम्, आलीभिः संरुध्य सौरभम् अगाहत ॥ 11.5 ॥
उत्तुङ्गमङ्गलमृदङ्गनिनादभङ्गीसर्वानुवादविधिबोधितसाधुमेधाः ॥
सौधस्त्रःप्लुतपताकतयाऽभिनिन्युर्मन्ये जनेषु निजताण्डवपण्डितत्वम् ॥ 116 ॥
जीवातु–उत्तुङ्गेति । उत्तुङ्गाः अतितराः, ये मङ्गलमृदङ्गनिनादाः माङृगलिकविवाहमुरजध्वनयः, तदभङगीनां तत्प्रकारविशेषाणं, सर्वानुवादविधिना प्रतिध्वनिरूपेण कृत्स्नप्रत्युच्चारणेन, बोधिता निवेदिता, साध्वी उत्कृष्टा, मेधा धारणशक्तिः यासां ताः तथोक्ताः, ‘धीर्धारणावती मेधा’ इतृयमरः, परोक्तसर्वंविशेषानुवादस्य मेधाकार्यतृवात् तस्याः तल्लिङ्गत्वमिति भावः, सौधस्त्रजः प्रासादपङ्क्त्यः प्लुतपताकतया चलत्पताकतया, चलत्कररूपपताकतयोति भावः, जनेषु सभास्थितेषु विषये, समीपं वा, निजताण्डपण्डितत्वं स्वस्य नृत्यकौषु सभास्थितेषु विषये, समीपे वा, निजताण्डवपण्डितत्वं स्वस्य नृत्यकौशलं, “ताण्डवं नटनं नाट्यं लास्यं नृत्यञ्च नर्त्तने, इत्यमरः, अभिनिन्युः व्यञ्जयन्ति स्म, मन्ये वाक्यार्थेः कर्म । मृदङ्गप्रतिध्वानात् पताकाचलनाच्च नर्त्तकीवत् वाक्यानुवादं हस्तामिनयं चक्रुरिवेत्युत्प्रेक्षा, सौधपङ्क्तिषु नर्त्तकीव्यवहारसमारोपात् समासोक्तिः अलङ्कारश्च ॥ 11.6 ॥
अन्वयः–मन्ये, उत्तुङ्गमङ्गलमृदङृगनिनादभङ्गीसर्वानुवाविधिबोधितसाधुमेधाः सौधस्त्रजः प्लुतपाकया जनेषु निजताण्डवपण्डितत्वम् अभिनिन्युः ॥ 11.6 ॥
सम्भाषणां भगवती सदृशं विधाय वाग्देवता विनयबन्धुरकन्धरायाः ॥
ऊचे चतुर्दशजगज्जनतानमस्या तत्राश्रिता सदसि दक्षिणपक्षमस्याः ॥ 11.7 ॥
जीवातु–सम्भाषाणमिति । चतुर्दशानां जगतां समाहारश्चतुर्दशजगत्, तत्र जनतायाः जनसमूहानां, नमस्?या नमस्कार्या “नमोवरिव–’ इति क्यचि धातुसंज्ञायामचो यत्, “क्यस्य विभाषा’ इति क्यचो लोपः भगवती वाग्देवता सरस्वती, तत्र सदसि, विनयेन बन्धुरकन्धरायाः नभ्रग्रीवाया, “बन्धुरौ नभ्रविषमौ’ इति वैजयन्ती, अस्याः भैम्याः, दक्षिणपक्षं दक्षिणपार्श्वम्, अथ च अनुकूलपक्षम्, आश्रिता आस्थिता, पूज्यत्वाद्दक्षिणपार्श्वस्थिता सतीत्यर्थः, सटृशं तत्कालोचितं, सम्भाषणं विधाय “आगच्छ वत्से ! पश्य’ इतयादि वाक्यमुक्त्वा, ऊचे वक्ष्यमाणमुवाच । दक्षिणपक्षमित्यनेन दमयन्तीपक्षपातित्वं सूचितम् ॥ 11.7 ॥
अन्वयः–तत्र सदसि विनयबन्धुरकन्धरायाः अस्याः दक्षिणपक्षम् आश्रिता चतुर्दशजगज्जनतानमस्या भगवती वाग्देवता सटृशं सम्भाषणं विधाय ऊचे ॥ 11.7 ॥
अभ्यागमन्मखभुजामिह कोटिरेषा येषां पृथक्कथनमब्दशतातिपाति ॥
अस्यां वृणीष्व मनसा परिभाव्य कञ्चिद् यं चित्तवृत्तिरनुधावति तावकीना ॥ 11.8 ॥
जीवातु–अभ्योति । हे वत्से ! इह स्वयंवरे, मखभुजां देवानाम्, एषा कोटिः अनन्तसङ्ख्या, अभ्यागमत् अभ्यागता, येषां मखभुजां, पृथक् प्रत्येकमेव, कथनं वर्णनम्, अब्दानां वत्सराणां, शतानि अतिपतति अतिक्रामतीति तथोक्तं, तावता कालेनापि ?कर्त्तु न शक्यते इत्यर्थः; अस्यां सुरकोट्यां, यं कञ्चित् सुरं, तवेयं तावकीना त्वदीया, “युष्मदस्मदासेरन्यतरस्यां खञ् च’ इति खञ् । “तवकममकावेकवचने’ इति तवकादेशः, चित्तवृत्तिः अनुधावति अनुयाति, मनसा परिभाव्य आलोच्य, तं वृणीष्व स्वीकुरु इत्यर्थः
॥ 11.8 ॥
अन्वयः–इह एषा मखभुजां कोटिः अभ्यागमत् येषां पृथक् कथनम् अब्दशतातिपाति, अस्यां यं कञ्चित् तावकीना चित्तवृत्तिः अनुधावति मनसा परिभाव्य वृणीष्व ॥ 11.8 ॥
एषां त्वदीक्षणरसादनिमेषतैषा स्वाभाविकानिमिषतामिलिता यथाऽभूत् ॥
आस्ये तथैव तव नन्वधरोपभोगैः मुग्धे ! विधावमृतपानमपि द्विधाऽस्तु ॥ 11.9 ॥
जीवातु–एषामिति । एषां सुराणां, त्वदीक्षणे रसात् अनुरागात्, एषा प्रत्यक्षपरिटृश्यमाना, अनिमेषाता निमेषराहित्यं, यथा स्वाभाविक्या “स्त्रियाः पुंवत्’ इत्यादिना पुंवदभावः । न निमिषतीत्यनिमिषा “इगुपधलक्षणं कः’ तेषां भावस्तत्ता अनिमिषाता निर्निमेषाता, तया मिलिता सङ्गता सती, द्विधा द्विगुणिता, अभूत्, तथैव ननु अयि, मुग्धे ! सुन्दरि ! विधौ चन्द्रे, अमृतपानमपि तव आस्ये आस्येचन्द्रे, अधारोपभोगैः अधरामृतपानैः, मिलितं सत् द्विधाऽस्तु द्विगुणितमस्त्वित्यर्थः; स्वभावतो निमेषरहिता देवा यथा त्वद्दर्शनकार्येण निमेषशून्या जाता, तथा चन्द्रामृतपायिनोऽपि त्वदधरामृतपायिनो भवन्तु इति भावः । अत्रानिमिषत्वामृतपानयोर्द्वेविध्यासम्बन्धेऽपि तत्सम्बन्धोक्तेरतिश?योक्तिः ॥ 11.9 ॥
अन्वयः–मुग्धे, एषां त्वदीक्षणरसात् एषा अनिमेषता स्वाभाविका निमिषतामिलिता यथा द्विधा अभूत् तथा एव ननु तव आस्ये विधौ अधरोपभोगैः अमृतपानम् अपि अस्तु ॥ 11.9 ॥
एषां गिरेः सकलरत्नफलस्तरुः सः प्राग् दग्धभूमिसुरभेः खलु पंचशाखः ॥
मुक्ताफलं फलनसान्वयनाम तन्वन्नाभाति बिन्दुभिरिव च्छ्रुरितः पयोभिः ॥ 11.10 ॥
जीवातु–एषामिति । सकलानि रत्नान्येव फलानि यस्य स सर्वरत्नप्रसूतिरित्यर्थः, फलनं सस्यत्वेन सम्पादनं, “फल निष्पत्तौ’ इति धातोर्ल्युट्, तेन सान्वयम् अन्वर्थं, नाम यस्य तन्मुक्ताफलं तन्वन् मुक्ताफलं ताटृशां कुर्वन्, मुक्त्तानां शुक्त्यादिसम्भूतत्वेन तासां फलत्वं न उपपन्नं, किन्तु कल्पवृक्षप्रसूतत्वेनैव फलत्वमुपपन्नमिति मुक्ताफलस्य नाम सार्थकमेव कुर्वन्निति भावः, एषां सुराणां सम्बन्धी, स प्रसिद्धः, तरुः कल्पवृक्षः, प्राक् पुरा, दुग्धा भूमिरेव सुराभिः गौः, गोख्प्धरा भूमिः ओषधिरत्नादीनि दुग्धा इत्यर्थैः, येन तस्य, तदुक्तं,–“प्रमाणं श्रूयते दुग्धा पुनर्दिव्यैर्वसुन्धरा । ओषधीश्चैव भास्वन्ति रत्नानि विविधानि च ॥ वत्सस्तु हिमवानासीद् दोग्धा मेरुर्महागिरिः’ ॥ इति, गिरेर्मेरोः सम्बन्धी, पयोभिः क्षीररूपैः, बिन्दुभिः छुरितः सर्वतो व्याप्तः, पञ्चशाखः पाणिरिव, आभाति खलु इत्युत्प्रेक्षा । “पञ्चशाखः शयः पाणिः’ इत्यमरः, अथ च पञ्च शाखा वृक्षावयवविशोषाः यस्य सः शाखापञ्चकविशिष्टः, पाणिना विना गोदोहनस्य असम्भवात् कल्पवृक्षः
सुमेरोः कर आसीमत्, दोग्धुः पाणिः दुग्धबिन्दुभिर्दिग्धो भवतीति प्रसिद्धेः, अत्र रत्नानामेव दुग्धत्वात् कल्पवृक्षस्य च रत्नादिसम्पर्कात् सुतरां मेरो कर एव कल्पवृक्षः इत्यर्थः, सुरवरणेन कल्पवृक्षः तथा मेरुस्ते
हस्तगामी भविष्यतीति भावः ॥ 11.10 ॥
अन्वयः–सकलरत्नफलः फलनसान्वयनाम मुक्ताफलं तत्त्वम् एषां सः तरुः प्राक्दुग्धभूमिसुरभेः गिरेः पयोभिः बिन्दुभिः छुरित्तः पञ्चशाखः इव आभाति खलु ॥ 11.10 ॥
वक्त्रेन्दुसन्निधिनिमीलिदलारविन्दद्वन्द्वभ्रमक्षममथाञ्जलिमात्ममौलौ ॥
कृत्वाऽपराधभयचञ्चलमीक्षमाणा साऽन्यत्र गन्तुममरैः कृपयाऽन्वमानि ॥ 11.11 ॥
जीवातु–वक्त्रेन्द्विति । अथ सरस्वतीवाक्यानन्तरं, वक्त्रेन्द्रोः सन्निधिना सन्निधानेन, निमीलीनि सङ्कुचन्ति दलानि पत्राणि ययोस्तयोः अरविन्दयोर्द्वन्द्वस्य युग्मस्य, भ्रमद्वक्षमं भ्रान्तिज़गननशक्तिं, सङ्कुचद्दलपह्मयुगलतुल्यमित्यर्थः, अञ्जलिम् आत्ममौलौ स्वमूर्ध्नि कृत्वा देवान् नमस्कृत्येत्यर्थः, अपराधात् अवरणाद्धेतोः, यदभयं सुरेभ्यः शापादिभयः, तेन चञ्चलं यथा तथा ईक्षमाणा देवान् पश्यन्ती, सा भैमी, अमरैः कृपया अन्यत्र गन्तुम् अन्वमानि अनुमता, दमयन्तीं स्वजातिमनुष्येषु अनुरागिणी ज्ञात्वा यत्र ते अनुरागस्तं वृणु, मा भैषीरिति कृपयाऽनुमतेत्यर्थः, प्रणिपातप्रसाद्याः खलु महान्त इति भावः । अत्राञ्जलौ वक्त्रेन्दुसन्निधिसङ्कुचितारविन्दयुगलभ्रान्तिवर्णनात् रूपकानुप्राणितो भ्रान्तिमदलङ्कारः इति सङ्करः । “कविसम्मतसादृश्याद् वस्त्वन्तरप्रतिबिम्बनं भ्रान्तिमान्’ इति लक्षणात् ॥ 11.11 ॥
अन्वयः–अथ वक्त्रेन्दुसन्निधिनिमीलिदलारविन्दद्वन्द्वभ्रमक्षमम् अञ्जलिम् अन्यमौलौ कृत्वा अपराधमयचञ्च ईक्षमाणा सा अमरैः कृपया अन्यत्र गन्तुम् अन्वमानि ॥ 11.11 ॥
तत्तद्विरागमुटितं शिविकाऽधरस्थाः साक्षाद्विदुः स्म न मनागापि यानधुर्याः ॥
आसन्ननायकविषण्णमुखानुमेयभैमीविरक्तचरितानुमया नु जज्ञुः ॥ 11.12 ॥
जीवातु–तत्तदिति । शिविकायाः यानविशेषस्य अधरस्था अथःस्थिताः, यानस्य धुर्याः धूर्वहाः, शिविकावाहिनः इत्यर्थः, शिवभागवतवत् समासः “धुरो यड्ढको’ इति यत्-प्रत्ययः उदितम् उत्पन्नं, तत्तत् विरागं तसयाः भैम्यास्तेषु तेषु नायकेषु विषये विरागम् अपरागं, मनाक् र्हषदपि, साक्षात् प्रत्यक्षं, न विदुः न विन्दन्ति स्म “विदो लटो वा’ इति लिट् “ह्मेर्जुस्” इति जुसादेशः, “लट् स्मे’ इति भूते लट् किन्तु आसन्नानां पुरोवर्तिनां, नायकानां विषण्णैः ग्लानियुक्तैः, मुखैरनुमेयानां भैम्या विरक्तचरितानां प्रत्याख्यानसूचकनमस्कारादिरूपचेष्टितानाम्, अनुमया अनुमानेन, “आतश्चोपसर्गे’ इत्यङ्, नु एव, जज्ञुः अज्ञासिषुः, तत्तद्विरागमिति शेषः, नायकमुखचेष्टया भैमीवैराग्यमनुमितवन्त इत्यर्थः ॥ 11.12 ॥
अन्वयः–शिविकाधरस्थाः यानधुर्या उदितं तत्तद्विरागं मनाक् अपि साक्षात् न विदुः स्म, आसन्ननायकविषण्णमुखानुमेयभैमीर्विरक्तचरितानुमया नु जज्ञुः ॥ 11.12 ॥
रक्षःस्वरक्षणमवेक्ष्य निजं निवृत्तो विद्याधरेष्वधरतां वपुषैव भैम्याः ॥
गन्धर्वसंसदि न गन्धमपि स्वरस्य तस्या विमृष्य विमुखोऽजनि यानिवर्गः ॥ 11.13 ॥
जीवातु–रक्षःस्विति । यानं वाहनमस्तीति यानिनः शिविकावाहिनः, तेषां वर्गः समूहः, रक्षःसु राक्षसेषु, निजं स्वकीयम्, अरक्षणं विनाशनम्, अवेक्ष्य विविच्य, तेषां हिंस्त्रत्वात् तेषु गमनमनुचितं निश्चित्येत्यर्थः, निवृत्तःतेभ्यः पराङ्मुखोऽभूत्, राक्षसानां समीपगमने ते यदि अस्मान् भक्षयेयुः इति भयेन तेषां समीपेऽपि न जग्मुः इति भावः विद्याधरेषु देवयोनिभेदेषु, भैम्याः भैमीतः “पञ्चमी विभक्तेः’ इति पञ्चमी, वपुषा एव अधरतां
निकृष्टत्वं विमृष्य निश्चित्य, तथा गन्धर्वाणां संसदि संधे, तस्याः भैम्याः स्वरस्य गन्धमपि लेशमपि, न विमृष्य लेशस्याप्यभावं ज्ञात्वा इत्यर्थः, नञ्चर्थेनः नशब्देन सुप्सुपेति समासः, “गन्धो लेशे महीगुणे’ इति वैजयन्ती, विमुखोऽजनि पराङ्मुखो जातः । जने कर्त्तरि लुङ्, “दीपजन-’ इत्यादिना कर्त्तरि चिणादेशः ॥ 11.13 ॥
अन्वयः–यानिवर्गः ( यानवर्गः ) रक्षःसु निजम् अरक्षणाम् अवेक्ष्य निवृत्तः, विद्याधरेषु भैम्याः वपुषा एव अधरतां, गन्धर्वसंसदि तस्याः स्वरस्य गन्धम् अपि न विमृष्य विमुखः अजनि ॥ 11.13 ॥
दीनेषु सत्स्वपि कृताफलवित्तरक्षैर्यक्षैरदर्शि न मुखं त्रपयैव तस्याम् ॥
ते जानते स्म सुरश्याखिपव्रितां किं तां कल्पवीरुधमधिक्षिति नावतीर्णाम् ? ॥ 11.14 ॥
जीवातु–दीनेष्विविति । दीनेषु दरिद्रेषु, सत्सु विद्यमानेषु अपि, कृता अफला निष्फला, वित्तरक्षा
?धनगुप्तिः यैस्तैः कृपणैः यक्षौः त्रपयैव तस्यां भैम्यां विषये, मुखं न अदर्शि न दर्शितं, टृशेर्ण्यन्तात् कर्मणि लुङ्, तथा हि, ते यक्षां, तां दमयन्तीम्, अधिक्षिति क्षितौ, विभक्त्यर्थेऽव्ययीभावः, अवतीर्णाम् उत्पन्नां, सुरशाखिपतिव्रतां सुरशाखिनां पत्युः कल्पवृक्षस्येव, व्रतम् इच्छापूरकत्वलवणं यस्यास्ताम्, अथ-च कल्पवृक्षस्वरूपक नलपत्नीं, कल्पवीरुधं कल्पलतां, न जानते स्म किम् ? बहुदात्रीं तां ज्ञातवन्त एव, ततः तेषां निधिगोपकानाम् अतिवदान्यायास्तस्याः कुतो वरणवार्त्ताऽपीति भावः । अस्या वदान्यतया तेषां युक्ताज्जेति कारणात् कार्यसमर्थनरूपोऽर्थान्तरन्यासः ॥ 11.14 ॥
अन्वयः–दीनेषु सत्सु अपि कृताफलवित्तरक्षैः यक्षैः त्रपया एव तस्यां मुखं न अदर्शि, किं ते अधिक्षिति अवतीर्णां तां शुरशाखिपतिव्रतां कल्पवीरुधं न जानते स्म ? ॥ 11.14 ॥
जन्यास्ततःफणभृतामधिपं सुरौघान्मा?ञ्जिष्ठमविगाहिपदौष्ठलक्ष्मीम् ॥
तां मानसं निखिलवारिह्मरान्नवीना हंसावलीमिव घना गमयाम्बभूवुः ॥ 11.15 ॥
जीवातु–जन्या इति । ततोऽनन्तरं, जनीं वधुं वहन्तीति जन्याः वधूभृत्याः, “जन्य भृत्या नवोढोया’ इति केशवः । “संज्ञायां जन्याः’ इति यत-प्रत्ययान्तो निपातः, म?ञ्जिष्ठया रागद्रव्यविशेषेण रक्तं मा?ञ्जिष्ठ “तेन रक्तम्’ इत्यण् तस्य म?ञ्जिमानं रामणीयकं, विगाहते इति तद्विगाहिनी तादृशारक्तवर्णेत्यर्थः, पदौष्ठस्य पदयोरोष्ठयोश्च, लक्ष्मीः शोभा यस्याताम्, विशेषणमेतत् हंसावल्यामपि योज्यम्, “ओत्वोष्ठयोः समासे वा’ इति पररूपं वक्तव्यम्, तां भैमीं, नवीनाः घनाः मेघाः, हंसावलीं हंसश्रेणीं, निखिलात् वारिक्षरात् जलप्रवाहात्, मानसं मानसारूयं सर इव, सुरौधात् सुरौघं विहाय, इति ल्यब्लोपे पञ्चमी, “जलधरसमये मानसं यान्ति हंसाः’ इति कविसमयप्रसिद्धिः, फणभृतामधिपं वासुकिं गमयाम्बभूवुः निन्युः ॥ 11.15 ॥
अन्वयः–ततः जन्याः माञ्जिष्ठम?ञ्जिमविगाहिपदौष्ठलक्ष्मीं तां नवीनाः घनाः निखिलवारिह्मरात् हंसावलीं मानसम् इव सुरौधात् फणिभृताम् ?अधिपं गमयाम्बभूवुः ॥ 11.15 ॥
यस्या विभोरखिलवांङ्मयविस्तरोऽयमाख्यायते परिणतिर्मुनिभिः पनुःसा ॥
उद्गत्वरामृतकरार्द्धपरार्द्ध्यभालां बालामभाषत सभासततप्रगल्भा ॥ 11.16 ॥
जीवातु–यस्या इति । अयम् अखिलवाङ्मयविस्तीः शब्दप्रपञ्चः, मुनिभिर्व्यासादिभिः, विभोः महाशक्तेः, यस्याः देवयाः सरस्वत्याः परिणतिः रूपान्तरम्, आख्यायते, सभासु सततप्रगल्मभ सा देवी सरस्वती, उद्रत्वरस्य उदित्वरस्य, उदीयमानस्य इत्यर्थः “गत्वरश्च’ इति गमेः क्वरबन्तो निपातः, अमृतकरस्य इन्दोः, अर्द्धमिव परार्द्ध्यमुत्कृष्टं, भालं ललाटं यस्यास्तां, बालां भैमीं, पुनः अभाषत उक्तवती
॥ 11.16 ॥
अन्वयः–अयम् अखिलवाङ्मयविस्तरः मुनिभिः विभोः यस्याः परिणतिः आख्याते, सभासततप्रगल्भा सा उद्गत्वरामृतकारार्द्धपरार्द्ध्यभालां बालां पुनः अभाषत ॥ 11.16 ॥
आश्लेषलग्नगिरिजाकुचकुङ्कुमेन यः पट्टसूत्रपरिरम्भणशोणशोभः ॥
याज्ञोपवीतपदवीं भजते स शम्भोः सेवासु वासुकिरयं प्रसितः सितश्रीः ॥ 11.17 ॥
जीवातु–आश्लेषे?ति । यो वासुकिः, आश्लेषात् आलिङ्गनात्, लग्नेन सक्तेन, गिरिजायाः पार्वत्याः, कुचयोः कुंकुमेन पट्टसूत्रस्य परिरम्मणात् परिवेष्टनादिव शोणशोभः अरुणकान्तिः सन्, शम्भोर्यज्ञोपवीतस्य पदवीं पदं, भजते, यज्ञोपवीतञ्च शुभ्रं ग्रन्थिस्थने पट्टसूत्रेण रक्तवर्णं भवतीति प्रसिद्धिः, सेवासु शम्भेः परिचर्य्यासु, प्रसितस्तत्परः, “तत्परे प्रसितासक्तौ’ इत्यमरः, सितश्रीः शुभ्रकान्तिः, स वासुकिरयमिति पुरोव?र्त्तिनिर्देशः, वासुकेः सततं श्म्भुसेवातत्परतया सम्भोगाद्यसम्भवान्नैष वरणीय इति भावः ॥ 11.17 ॥
अन्वयः–आश्लेषलग्नगिरिजाकुचकुङ्कुमेन पट्टसूत्रपरिम्भणशोभः वः सेवासु प्रसितः शम्भोः यज्ञोपवीतपदवीं भजते, अयं सः सितश्रीः वासुकिः ॥ 11.17 ॥
पाणौ फणी भजति कङ्कणभूयमैशे सोऽयं मनोहरमणीरमणीयमूर्त्तिः ॥
कोटीरबन्धनधनुर्गुण्योगट्टव्यापारपारगममुं भज भूतभर्त्तुंः ॥ 11.18 ॥
जीवातु–पाणाविति । मनोहरैः मणीभिः रमणीयमूर्तिः सोऽयं फणीवासुकिः, ऐशे ईशसम्बन्धिनि, पाणौ करे, कङ्कणभूयं कङ्कणत्वं, “भुवो भावे’ इति क्यप्, भ?जति प्राप्नोति, भूतभत्तुः माहादेवस्य कोटीरबन्धनं कपर्दबन्धनं, जटाजूटग्रन्थिबन्धनमिति यावत् धनुषोः गुणो मौर्वी, योगप्ट्टश्च तेषां व्यापारस्य भवनलक्षणस्य, पारगं पारीणं, तत्तत्त्कार्यकुशलमिति भावः, अर्मुं वासुकिं, भज वृणीष्व, ताट्टग्विशेषणेनास्य वरणायोग्यत्वं सूचितम् । अत्रैकस्य वासुकेः अनेकेषु कोटीरादिषु कमेण वृत्तेः पर्यायभेदः । अगानुभावविशेषाद् यौगपद्यसम्भवे तु समुच्चयः ॥ 11.18 ॥
अन्वयः–मनोहरमणीरमणीयमूर्त्तिः सः अयं फणी ऐशो पाणौ कङ्कणभूयं भजति, भूतभतभर्त्तुः कोटीरबन्धनधनुर्गुणयोगपट्टव्यापारपारगम् अर्मुं भज ॥ 11.18 ॥
धृत्वैकया रसनयाऽमृतमीश्वरेरप्यन्यथा त्वदधरस्य रसं द्विजिह्वः ॥
आस्वादयन् युगपदेष परं विशेषं निर्णेतुमेतदुभयस्य यदि क्षयः स्यात् ॥ 11.19 ॥
जीवातु–धृत्वेति । द्विजिह्वो रसनायवान्, एष परम् एष वासुकिः एव, एकया रसनया जिह्वया, ईश्वरेन्दोः हरशिरश्चन्द्रस्य, अमृतम्, अन्यथा रसनया, त्वदधरस्यापि रसम् अमृतं, धृत्वा युगपदास्वादयन् एतदुभस्य एतस्य रसद्वयस्य, विशेषमन्तरं, निर्णेतुं यदि क्षमः समर्थः, स्यात्, नान्यः कश्चित् क्षमः इत्यर्थः । इन्द्वमृतादेतदधरामृतमेव ज्याय इति भावः ॥ 11.19 ॥
अन्वयः–एकया रसनया ईश्वरेन्दोः अमृतम् अन्यथा त्वदधरस्य रसम् अपि धृत्वा युगपन् आस्वादयन् एतदुभयस्य विशेषं निर्णेतुं यदि क्षमः स्यात, भरम् एषः द्विजिह्वः ॥ 11.19 ॥
आशीविषेण रदनच्छदद्रंशदानमेतेन ते पुनरनर्थतया न गण्यम् ॥
बाधां विधातुमधरे हि न तावकीने पीयूषसारघटिते घटतेस्य शक्तिः ॥ 11.20 ॥
जीवातु–आशीविषेणेति । आशीषि दंष्ट्रायां पिषमस्येत्याशीविषः विषधरः, पृषोदरादित्वात् साधुः, “स्त्र त्वाशीर्हिताशंसाऽहिदंष्ट्रयोः’ इत्यमरः, ताटृशेन, एतेन वासुकिना, ते पनुः तव तु, रदनच्छदस्य अधरस्य, दंशदानं दंशनकरणम्, अनर्थतया न गण्यम् अपमृत्य्वोद्यनिष्टहेतुत्वेन न मन्तव्यं, चुम्बने विषमञ्चारसम्भावनया एतद्वरणं न त्याज्यमिति भावः, कुतः ? हि यस्मात्, पीयूषसारेण घटिते निर्मिते, तावकीने त्वदीये, अधरे बाधां दंशेन पीडां, विधातुम् अस्य दंशनस्य वासुकेर्वा, शक्तिर्न घटते न सम्भवति, अमृतघटिनस्य कुतो विषभयमिति भावः ॥ 11.20 ॥
अन्वयः–आशीविषेण एतेन दरनच्छददंशदानं ते पुनः अनर्थतया नगण्यम्, हि पीयुषसार घटिते तावकीने अधरे बराधां विधातुम् अस्य शक्ति न घ्ज्ञटते ॥ 11.20 ॥
तद्विस्फुरत्फणविलीकनभूतभीतेः कम्पञ्च वीक्ष्य पुलकञ्च ततोऽनु तस्याः ॥
सञ्जातसात्त्विकविकारधियः स्वभृत्यान् नृत्यान्नयषेधदुरगाधिपिर्विपतिर्विलक्षः ॥ 11.21 ॥
जीवातु–तदिति । ततोऽनु वाणीवाक्यानन्तरं, तस्य वासुकेः, विस्फरतां स्फाररयतां, फणानां विलोकनेन भूतभीतेः सञ्जाजतसाध्वसायाः, तस्याः दमयन्त्याः, कम्पं वेपथुं पुलकञ्च वीक्ष्य सञ्जाता सात्त्विकविकारधीः शृङ्गारसात्त्विकभ्रमबुद्धिः येषां तान्, स्वभृत्यान् विलक्षो भैमीभावज्ञानलज्जिः, उरगाधिपतिः वासुकिः, नृत्यात् आनन्दनर्त्तनात्, न्यषेधत् न्यवारयत्, स्वस्वामिवैलक्ष्यात् भैमीवैराग्यप्रतीतेस्ते खिन्ना इत्यर्थः । अत्र भृत्यानां भैमीमयसात्त्विकेषु शृङ्गारसात्त्विकभ्रान्त्या भ्रान्तिमदलङ्कारः । “स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू । अश्रुवैस्वर्यमित्यष्टौ सात्त्विकाः परिकीर्त्तिताः’ ॥ 11.21 ॥
अन्वयः–ततः धनु तद्विस्फुरत्फणविलोकनभूतभीतेः तस्याः कम्पं च पुलकं च वीक्ष्य सञ्जातसात्त्विकविकारधियः स्वभृत्यान् विलक्षः उरगाधिपतिः नृत्यात् न्यषेधयत् ॥ 11.21 ॥
तद्दर्शिभिःस्ववरणे फणिभिर्निराशैः निःश्वस्य तत् किमपि सृष्टमनात्मनीनम् ॥
यत्तान् प्रयातुमनसोऽपि विमानवाहा हा हा ! प्रतीपपवनाशकुनान्नजग्मुः ॥ 11.22 ॥
जीवातु–तदिति । तद्दर्शिभिः वासुकिवृत्तान्तसाक्षात्कारिभिः, अत एव स्ववरणे निराशैः
कैमुत्यपरातैरित्यर्थः, फणिभिः अन्यैः कर्कोटकादिनादिनागैः, निःश्वस्य निःस्वासं कृत्वा, तत् निःश्वसितरूपं, किमपि अवाच्यम्, आत्मने हित्म् आत्मनीनम् “आत्मन्न्विश्वजनभोगोत्तरपदात् खः’ इति खः, तद्विरुद्धम्
अनात्मनीनं, सृष्टं निःश्वासेनात्मनो महाननर्थहेतुरा चरित इत्यर्थः, कुतः ? यत् यस्मान्निःश्वासकारणात्, तान् फणिनः प्रति, प्रयातुमनसः गन्तुकामा अपि, विमानं वहन्तीति विमानवाहा दमयन्तीशिविकावाहिनः, कर्मण्यण् प्रतीपपवनः प्रतिकुलवायुः एव, यत् अशकुनम् अयात्रिकचिह् नं तस्मात् हेतोः, न जम्मुः दूरत एव तान् परिजहुरित्यर्थाः अत एव हा हेति खेदे ॥ 11.22 ॥
अन्वयः–तद्दर्शिभिः स्ववरणे निराशैः फणिभिः निःस्वस्य तत् किम् अपि अनात्मनीयं सृष्टम् यत् हा हा, तान् प्रयातुमनसः अपि विमानवाहाः प्रतीपपधनाशकुनात् न जग्मुः ॥ 11.22 ॥
ह्रसङ्कुचत्फणगादुरगप्रधानात् तां राजसङ्घमनयन्त विमानवाहाः ॥
सन्ध्यानमद्दलकुलाद् कमलाद् विनीय कह्लारमिन्दुकिरणा इव हासभासम् ॥ 11.23 ॥
जीवातु–ह्रीति । विमानवाहाः शिविकावाहिनः, तां दमयन्तीं, ह्रिया लज्जया, सङ्कुचन् फणगणो यस्य तस्मात् उरगप्रधानात् उरगराजात् वासुकेः, विनीय उपनीय इन्द्रुकिरणाः हासभासं विकासलक्ष्मीः सन्ध्यायां नमद्दलकुलात् सङ्कुचत्पत्रचयात्, कमलात् पह्मात्, विनीय अपनीय कह् लारं सौगन्धिकमिव, राजसङ्घं नृपसमूहम्, अनयन्त प्रापयन् । ङित्त्वादात्मनेपदं “सीवह्मोर्हरतेश्च’ इति वचनात् द्विकर्मकत्वम् । उपमालङ्कारः ॥ 11.23 ॥
अन्वयः–इन्दुकिरणाः सन्धानमद्दलकुलात् कमलात् विनीय हासभासं कह्लारम् इव विमानवाहाः ह्रीसङ्कुचत्फणगणात् उरगप्रधानात् तां राजसङ्धम् अनयन्त ॥ 11.23 ॥
देव्याऽभ्यधायि भव भीरु ! धृतावधाना भूमीभुजः ! त्यजत भीममुवो निरीक्षाम् ॥
आलोकितामपि पुनः पिबतां दृशैतामिच्छाऽपगच्छति न वत्सरकोटिभिर्वः ॥ 11.24 ॥
जीवातु–देव्येति । देव्या वाग्देव्या सरस्वत्या, अभ्यधायि अभिहितम्, किम् ? तदाह-हे भीरु ! भयशीले ! भीरुशब्दात् “ऊङुतः’ इत्यूङ्प्रत्यये सम्बुद्धौ नदीह्रस्वः, धृतमवधानं यया सा भव अवहिता शृण्वित्यर्थः । हे भूमीभुजः ! भूपा ! यूयञ्च भीमभुवः भैम्याः निरीक्षाम् ईक्षणं, “गुरोश्चं इल’ इति स्त्रियाम् अ-प्रत्ययः, त्यजय मा कुरुत, कुतः ? युष्मासु पश्यत्सु दमयन्ती ह्रीपारवश्यात् युष्मान् प्र?ति दर्शनं न दास्यति, अतो नैनां विलोकयत इति भावः, आलोकिताम् ईक्षितां, टृष्टामपीत्यर्थः, एतां पुनर्टृशा पिबताम् आस्थया पश्यतां, वो युष्माकं, वत्सरकोटिभिः अनन्ताब्दैरपि, इच्छा दर्शनेच्छ, न अपगच्छति, अतो मद्वाक्यमवहिताः शृणुतेत्यर्थः ॥ 11.24 ॥
अन्वयः–देव्या अम्यधायि–भीरु, धृतावधाना भव् भूमीभुजः, भीमभुवः निरीक्षां त्यजत ( भजत ); आलोकिताम् अपि एनां पुनः टृशा पिबतां वः इच्छा वत्सरकोटिभिः न अपगच्छति ॥ 11.24 ॥
लोकेशकेशवशिवानपि यश्चकार शृङ्गारसान्तरभृशान्तरशान्तभावान् ॥
पञ्चेन्द्रियाणि जगतामिषुपञ्चकेन सङ्क्षोभयन् वितनुतां वितनुर्मुदं वाः ॥ 11.25 ॥
जीवातु–लोकेशेति । योऽनङ्ः, लोकेशकेशवशिवान्, ब्रह्मविष्णुमहेशानपि, शृङ्गारेण शृङ्गाररसेन, सान्तरः सावकाशः, विरल इत्यर्थः, भृशो गाढः, आन्तरः आभ्यन्तरः, शान्तभावः शान्तरसो एषां तान् रागर्जरितवैराग्यान्, चकार, पञ्चानां सङ्धः पञ्चकं, ‘सङ्ख्याः संज्ञासङ्गसूत्राध्ययनेषु’ इति कन् प्रत्ययः, इषूणां पञ्चकेन जगतां पञ्चेन्द्रियाणि चक्षुरादीनि, संक्षोभयन् व्याकुलयन्, स वितनुः अनङ्गः, वो युष्यमाकं, मुदं वितनुतां विस्तारयतु, विश्वविजयिनो भगवतः कामदेवस्य प्रसादः कस्य न श्लाध्यः ? इति भावः
॥ 11.25 ॥
अन्वयः–इषुपञ्चकेन जगतां पञ्चेन्द्रियाणि संक्षोभयन् यः वितनुः लोकेशकेशवशिवान् अपि शृङ्गारसान्तरभृशान्तरशान्तभावान् चकार वः मुदं वितनुताम् ॥ 11.25 ॥
पुष्पेषुणा घ्रुवममूनिषुवर्षजप्तहुङ्कारमन्त्रबलभस्मितशान्तिशक्तीन् ॥
शृङ्गारसर्गरसिकद्व्यणुकोदरि ! त्वं द्वीपाधिपान् नयनयोर्नयगोचरत्वम् ॥ 11.26 ॥
जीवातु–पुष्षेषुणेति । रसोऽस्यास्तीति रसिकम्, “अत इनिठनौ’ इति ठन्प्रत्ययः, द्वावर्णे कारणत्वेनास्यास्तीति द्व्यणुकम् अणुद्वयारब्धद्रव्यं, शैषिकः क-प्रत्ययः; द्वयणुकादिप्रकमेण कार्यद्रव्यारम्भ इति तार्किकाः; शृङ्गारस्य सर्गे निर्माणे, रसिकं प्रवृत्तं, यत् द्वयणुकं तद्वदेवोदरं यस्यास्तस्याः सम्बुद्धिः; शृङ्गारभावोद्दीपका अतिकृशोदरीति भावः, त्वं पुष्पेषुणा ध्रु वं सत्यम्, इषुवर्षे बाणमोक्षकाले, जप्तः उच्चारितः, यो हुङ्कारः कोपयुक्तः स एव मन्त्रस्तस्य बलेन सामर्थ्येन, भस्मिता भस्मीकृता, “तत् करोति–“इति ण्यन्तात् कर्मणि क्तः, शान्तिशक्तिः इन्द्रियनिग्रहसामर्थ्यं येषां तान्, अमून् द्वीपाधिपान् पुष्करादिद्वीपपालकान्, राज्ञः, नयनयोर्गोचरत्वं दृष्टिविषयत्वं, नय पश्येत्यर्थः ॥ 11.26 ॥
अन्वयः–शृङ्गारसर्गरसिकद्व्यणुकोदरि ! त्वं ध्रुवं पुष्पेषुणा इषुवर्षजप्तहुङ्कारमन्त्रबलभस्मितशान्तिशक्तीन् अमून् द्वीपाधिपान् नयनयोः गोचरत्वं नय ॥ 11.26 ॥
स्वादूदके जलनिधौ सवनेन सार्द्ध भव्या भवन्तु तव वारिविहारलीलाः ॥
द्वीपस्य तं पतिममुं भज पुष्कररस्य निस्तन्द्रपुष्करतिरस्करणक्षणक्षमाक्षि ॥ 11.27 ॥
जिवातु–स्वाद्विति । हे निस्तन्द्रपुकरतिरस्करणक्षणक्षमाक्षि ! उन्निद्रपह्मविजय समर्थनेत्रे ! कमलायताक्षीत्यर्थः, पुष्करस्य पुष्कराख्यस्य द्वीपस्य, पति सवनम्, अमुं भज वृणीष्व, ततः स्वादूदके जलनिधौ मधुरोदकसमुद्रे, सवनेन सवनाख्येन राज्ञा, सार्द्ध तव भव्याःमनोहराः, वारिविहालीलाः जलक्रीडा विनोदाः, भवन्तु सन्तु ॥ 11.27 ॥
अन्वयः–निस्तन्द्रपुष्करतिरस्करणक्षमाक्षि, तम् अमुं पष्करस्य द्वीपस्य पतिं भत; स्वादूदके जलनिधौ सवनेन सार्द्धं तव वारिविहारलीलाः भव्या भवन्तु ॥ 11.27 ॥
सावर्त्तभावभवद्भुतनाभिकूपे ! स्वर्भौममेतदुपवर्त्तनमात्मनैव ॥
स्वाराज्यमर्जयसि न श्रियमेतदीयाम् ! एतद्गृहे परिगृहाणशचीविलासम् ॥ 11.28 ॥
जीवातु–सावर्त्तेति । रोम्णाम् अम्भसाञ्च भ्रमः आवर्त्तः, आवर्त्तेन सह वर्त्तमानः सावर्त्तः तस्य भावः तेन सावर्त्तभावेन सावर्त्तत्वेन, भवत् प्राबुर्भृ तम्, अद्भुतम् आश्चर्य यस्मात् स चित्रीयमाणः, नाभिरेव कूपो यस्याः सा तस्याः सम्बुद्धिः सावर्त्तेत्यादि; कूपे सावर्त्तत्वं चित्रमिति भावः, एतस्य राज्ञः सवनस्य, उपवर्त्तनं देशः, “देशविषर्यौ तूपवर्त्तनम्’ इत्यमरः, आत्मनैव स्वयमेव, भौमं भूमिभवं, स्वः स्वर्गः, अतः एतदीयां श्रियं स्वाराज्यं, स्वर्गराज्यं “रोरि’ इति रेफलोपे “ढ्रलोपे पूर्वस्य दीर्धोऽणः’ इति दीर्धंः, नार्जयसि ? इति काकुः, अर्जयस्येवेत्यर्थः, एतद्गृहे शचीविलासं शचीसौभाग्यं, गृहाणा स्वीकुरु । एतद्भूरेव स्वर्गः, एतद्राज्यमेव स्वाराज्यम्, अयमेवेन्द्रः, त्वमेवेन्द्राणी भवेति रूपकालङ्कारः ॥ 11.28 ॥
अन्वयः–सावर्त्तभावभवदद्भुतनाभिकूपे, एतदुपवर्तनम् आत्मना एव भैमं स्वः, एतदीयां श्रियं स्वाराज्यं न अर्जयसि ? एतद्गृहे शचीविलासं परिगृहाण ॥ 11.28 ॥
देवः स्वयं वसति तत्र किल स्वयम्भूर्न्यग्रोधमण्डलतले हिमशीतले यः ॥
सत्वं विलोक्य नि?जशिल्पमनन्यकल्पं सर्वेषु कारुषु करोतु करेण दर्पम् ॥ 11.29 ॥
जीवातु–देव इति । तत्र पुष्करद्वीपे, हिमवच्छीतले न्यग्रोधः वटवृक्षः “न्यग्रोधो बहुपाद्वटः’ इत्यमरः, तस्य मण्डले मण्डलाकारे तले अधस्तले, स्वयम्भूः यः देवः ब्रहृमा, स्वयं साक्षात्, वसति किल खलु, स देवः
ईषछसमाप्तमन्यदन्यकल्पम् अन्यसदृशं, तन्न भवतीत्यनन्यकल्पम् अनन्यसाधारणम्, ईषदसमाप्तौ “कल्पम्’ प्रत्ययः, निजशिल्पं स्वनिर्माणं, त्वां विलोक्य त्वल्लक्षणं निजशिल्पकार्यं दृष्ट्वेत्यर्थः, सर्वेषु ?कारुषु शिल्पिषु मध्ये, करेण करप्रदर्शनेन, दर्पं करोतु, गर्वं करोतु मदन्यशिल्पकर्त्तरेवं रूपनिर्माणदक्षो हस्तो नास्तीति स्वहस्तं प्रदर्श्य गर्व करोतु मदन्यशिल्पकर्त्तुरेवं रूपनिर्माणदक्षो हस्तो नास्तीति स्वहस्तं प्रदर्श्य गर्वं करिष्यतीत्यर्थः, स्त्रष्टुः कीर्त्तिकरं ते रूपनिर्माणशिल्पमिति भावः ॥ 11.29 ॥
अन्वयः–तत्र हिमशीतले न्यग्राधमण्डले यः स्वयम्भूः देवः स्वयं वसति किल सः अनन्यकल्पं निजशिल्पं त्वं विलोक्य सर्वेषु कारुषु करेण दर्पं दर्पं करोतु ॥ 11.29 ॥
न्यग्रोधनादिव दिवः पतदातपादेर्न्यग्रोधमात्मभरधारमिवावरोहैः ॥
तं तस्य पाकिफलनपीलदलद्युतिभ्यां द्वीपस्य पश्य शिखिपत्रजमातपत्रम् ॥ 11.30 ॥
जीवातु–न्यग्रोधनादिति । दिवः अन्तरिक्षात्, पततः आपततः आतपादेः, आदिशब्दात् वर्षादेश्च, न्यक् ?
निम्नीभूय, इति पचाद्यच्, उत्प्रेक्षेयम्, उत्तरार्द्धे वक्ष्यमाणातपत्रत्वोक्षोयोगिनी’ तथा अवरोहन्तीत्यवरोहः शाखाभ्यः अधोलम्बिभ्यः शिफाः, शाखामूलानीत्यर्थंः, “शाखाशिफाऽवरोहः स्यात्’ इत्यमरः, तैः, अवरोहरूपैरवष्टपैरवरोहरूपैरवलम्बनैः आत्मानमवष्टभ्य इव स्थितमित्युत्प्रेक्षा, धरते, कर्मण्यण्प्रत्ययः, किञ्च पाकः एषामस्तीति पाकिनां पक्वानां,फलानां नीलदलानां नीलपलशानाञ्चक, द्युतिभ्यां रक्तश्यामकान्तिभ्यां निमित्तेन, तस्य द्वीपस्य पुष्करद्वीपस्य सम्बन्धि, शिखिपत्रजं मयुरपिच्छोदभवम्, आतपत्रं तद्वत् स्थितम्, इति निमित्तगुणजातिस्वरूपोत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या, अस्याश्च प्रथमोत्प्रेक्षयाऽङ्गाङ्गिभावेन सजातीयङ्करः, द्वितीयया सजातीससंसृष्टिः, तं प्रसिद्धं न्यग्रोधवृक्षं, पश्य, एतद्राजवरणादेवंविधोऽद्भुतदर्शनोत्सवलाभो भविष्यतीति भावः ॥ 11.30 ॥
अन्वयः–दिवः पतदातपादेः न्यक् रोधनात. इव न्यग्रोधम् अवरोहैः आत्मभरधारम्‌ इव तं पाकिफलनीलदलद्युतिभ्यां शिखिपत्रजं तस्य द्वीपस्य आतपत्रं पश्य ॥ 11.30 ॥
न श्वेततां ? चरतु वा भुवनेषु राहंसस्य न प्रियतमा कथमस्य कीर्त्तिः ? ॥
चित्रन्तु तद्विशदिमाऽ,यमादिशन्ती क्षीरञ्च नामृबु च मिथः पृथगातनोति ॥ 11.31 ॥
जीवातु–नेति । राजहंसस्य नृपश्रेष्ठस्य अस्य सवनस्य, प्रियतमा इष्टतमा कीर्त्तिः, अन्यत्र–राजहंसस्य कलहंसस्य, “राजहंसो नृपश्रेष्ठे कादमृबकलहंसयोः’ इति विश्वः, कीर्त्तिः शुभ्रत्वात् कीर्त्तिरूपिणी, प्रियतमा तत्कान्ता वरटा, कथं न श्वेतताम् । कथं न धवलीभवतु ? अपि तु श्वेतैव भतु, “श्वितावर्णे’ इति द्युतादौ पठ्यते, तस्माल्लोट् भुवनेषु लोकेषु सलिलेषु च, “भुवनं सलिलं लोकः’ इति विश्वः कथं वा न चरतु ? तु किनतु, विशदिमाऽद्वयं घावल्याद्वैतम् आदिशन्ती जनयती, कीर्त्तिरिति शेषः, स्वप्रभयेति भावः, क्षीरञ्च अम्बु च मिथोऽन्योऽन्यं पृथग्विभक्तं, नातनोति न करोति, इति यत्तच्चित्रम् !! हंसानां क्षीरनीरविवेकस्य जातिधर्मत्वेऽपि तद्विवेकाभावो विरुद्ध इति भावः । स चाविवेकः कीर्त्तोर्धावल्येन तत्रत्यजलानामपि क्षीरसदृशशुक्लत्वात् धावल्यगुणतो न स्वरूपत इति विरोधसमाधानाद्विरोधाभासोऽलङ्कारः, तथा विशादिमाऽद्वयमादिशान्तीत्यनेन सामान्यालङ्कारः, “सामान्यं गुणसाम्येन यत्र वस्त्वन्तरैकता’ इति, तस्य विशेषणगत्या क्षीरनीराविवेकहेतुत्वात् पदार्थहेतुकं काव्यलिङ्गं पूर्वार्द्धे च श्वेत्यभुवनचारितृवराजहंसप्रियतमात्वारूयाश्लिष्टौ श्लिष्ट प्रस्तुतकीर्त्तिविशेषणसाम्यादप्रस्तुतराहंसप्रतीतेः श्लेषसङ्कीर्णाऽर्थसमासोक्तिरित्येतैस्त्रिभिः सहाङ्गाङ्गिभावेन पूर्वोक्तस्य विरोधाभासस्य सङ्करः
॥ 11.31 ॥
अन्वयः–अस्य राजहसंस्य प्रियतमा कीर्त्तिः कथं न श्वेततां भुवनेषु वा वरतु ? चित्रं तु यत् विशदिमाऽद्वयम् आविशन्ती क्षारम् अम्बु च मिथः पृथक् न आतनोति ॥ 11.31 ॥
शूरेऽपि सूरिपरिषत्प्रथमार्चितेऽपि शृङ्गार भङ्गिमधुरेऽपि कलाकरेऽपि ॥
तस्मिन्नवद्यमियमाप तदेव नाम यत् कोमलं न किल तस्य नलेति नाम ॥ 11.32 ॥
जीवातु–शूरे इति । इयं दमयन्ती, शूरे वीरेऽपि, सूरिपरिषत्सु विद्वत्सभासु, प्रथमार्चिते अग्रपूजत्येऽपि, शृङ्गारभङ्गिमधुरे शृङ्गारविलासकान्तेऽपि, काकरे सकलविद्यानिधानेऽपि, तस्मिन् सवनाख्ये राज्ञि, कोमलं कर्णामृतं, किल प्रसिद्धं, नलेति नाम नामधेयं, तस्य सवनस्य, न नास्ति, इति यत्, तदेव नलनामराहित्यमेव,
अवद्यं दूषणम्, आप नाम जग्राह खल्वित्यथैः; अनलत्वातिरिक्तमरुचिकारणं किञ्चिदपि नाभूदिति भावः । नलानुरागात् हि एवं गुणवन्तमपि तं नृपतिं न वरणोयतृवेन स्वकृतवती इति निष्कर्षः ॥ 11.32 ॥
अन्वयः–इयं शूरे अपि सूरिपरिषत्प्रथमार्चिते अपि श्रृङ्गारभङ्गिमधुरे अपि कलाकरे अपि तस्मिन् यत् कोमलं किल नलेति तस्य नाम न तत् एव अवद्यम् आप ॥ 11.32 ॥
भ्रु वल्लिकिञ्चिनिकुञ्चित?मिङ्गितं सा लिङ्‌गंचकार तदनादरणस्य विज्ञा ॥
राज्ञोऽपि तस्य तदलाभजतापवह्नेश्चिह्नीबभूव मलिनच्छविभूमधूमः ॥ 11.33 ॥
जीवातु–भ्रू वल्लीति । विशेषेण जानातीति विज्ञा अभिज्ञा, “इगुपधज्ञाप्रीकिरः कः’ सा दमयन्ती, भ्रू वल्लयाः भ्रू वल्लयाः किञ्चन किञ्चित्, विकुञ्चितं सङ्कोचः, किञ्चनेति किञ्चिदर्थेऽव्यं, तस्य विशेषणसमासः, तदेवेङ्गितं चेष्टितं, तस्मिन् सवने अनादरणस्य लिङ्गं चकार भ्रू निकोचनेनैव तदनादरं सूचितवतीत्यर्थः, तस्य राज्ञोऽपि, मलिनच्छविभूमा वैवर्यभूयस्त्वं, स एव धूमः, तस्याः दमयन्त्याः, अलाभेन जातस्तज्जः तस्य तापवह्नेः सन्तापाग्नेः चिह्नीबभूव अनूमापको जात इत्यर्थः, अन्यत्र धूमं दृष्ट्वा वह्निरनुमीयते, अत्र तु सवननृपे देहस्य श्मामवर्णरूपधूमं दृष्ट्वा दमयन्त्यप्राप्तिन्यतापवह्निरनुमीयते इति भावः । अत एवानुमानाङ्कारः “साध्यसाधननिर्देशोऽनुमानम्र’ इति लक्षणात्, किन्तु इह धूमाग्न्यो रूपकशब्दात्मकयोरलङ्कारगर्भीकरणे विच्छित्तिविशेषाश्रयणात् तर्कानुमानादभेदः
॥ 11.33 ॥
अन्वयः–विज्ञा सया भ्रू वल्लिकिञ्चिनविकुञ्चितम् इङ्गितं तदनादरणस्य लिङ्गं चकार, तस्य राज्ञः अपि मलिनच्छविभुमधूमः तदलाभजतापवह्नेचिह्नीबभूव ॥ 11.33 ॥
राजान्तराभिमुखमिन्दुमुखीमथैनां जन्याजना हृदयवेदितयैव निन्युः ॥
अन्यानपेक्षितविधौ न खलु प्रधानवाचां भवत्यवसरः सति भव्यभृत्ये ॥ 11.34 ॥
जीवातु–राजान्तरेति । तथ जन्याजनाः भृत्यजनाः, जन्या व्याख्याताः, हृदयवेदितया दमयन्त्याः चितज्ञतयैव, प्रेरणां विनैवेत्यर्थः, इन्दुमुखीम् एनां भैमीम्, अन्यो राजा राजान्तरं, सुप्सुपेति समासः, तस्य अभिमुखं यथा तथा निन्युः । स्वामिप्रेरणां विना कथं निन्युरत आह–अन्यानपेक्षितः अनपेक्षितान्यः, स्वाम्यादेशनिरपेक्ष इत्यर्थः, बहुव्रीहौ “सर्वनामसङ्ख्योरुपसङ्ख्यानम्’ इति अन्यशब्दस्य पूर्वनिपातः, विधिः कार्यस्य अनुष्ठानं यस्य तस्मिन् स्वतः समर्थे, भव्ये सुयोग्ये, “भव्यं शुभे च सत्ये च योग्ये भाविनि च त्रिषु’ इति मेदिनी, भृत्ये कर्मकरे, सति प्रधानवाचां स्वाम्यादेशानाम् अवसरो न भवति न अंस्ति खलु इत्यर्थान्तरन्यासः ॥ 11.34 ॥
अन्वयः–अथ जन्याजनाः हृदयवेदितया एव एनाम् इन्दुमुखीं राजान्तराभिमुखं निन्युः । खलु अन्यानपेक्षितविधौ भव्यभृत्ये सति प्रधानवाचाम् अवसरः न भवति ॥ 11.34॥
ऊचे पुनर्भगवती नृपमन्यमस्य निर्दिश्य दृश्यतावमताश्विनेयम् ॥
आलोक्यतामयमये ! कुलशीलशली शालीनतानतमुदस्य निजास्यबिम्बम् ॥ 11.35 ॥
जीवातु–ऊचे इति । भगवती भारती, पुनः भूयः, दृश्यतमतया दर्शनीयतमत्वेन, सौन्दर्यातिशयेन इति यावत्, अवमतौ अवधीरितौ, आश्विनेयौ अश्विनीकुमारौ येन तम्, अन्यं नृपम् अस्यै भैम्यै निर्दिश्य हस्तेन प्रदर्श्य, अये ! भैमि, कुलेन शीलने सद्वृत्तेन च, शालते इति तच्छाली, अयं नृपः, शलीनतया लज्जया, “शलीनकोपीने अधृष्टाकर्ययोः’ इति ख-प्रत्ययान्तो निपातः, नतं निजात्यबिम्बं निजमुखमण्डलम्, उदस्य उन्नमय्य, आलोक्यताम् इत्यूचे उक्तवती, ब्रूतेः कर्त्तरि लिटि तङ्, लज्जां परित्यज्य अयं वृश्यताम् इति भावः ॥ 11.35 ॥
अन्वयः–पुनः भगवती टृश्यतवमताश्विनेयम् अन्यं नृपम् अस्यै निर्दिश्य ऊचे-अये, शलीनतानतं निजास्यबिम्बम् उदस्य कुलशीलशाली अयम् आलोक्यताम् ॥ 11.35 ॥
एतत्पुरःपठदपश्रमव?न्दिवृन्दवाग्डम्बरैरनवकाशरेऽम्बरेऽस्मिन् ॥
उत्पत्तुमस्ति पदमेव न मत्पदानामर्थोऽपि नार्थनुरुक्तिषु पातुकानाम् ॥ 11.36 ॥
जीवातु–एतदिति । एतस्य पुरः अग्रे, पठताम् अपश्रमवन्?िदनां यथार्थगुणवर्णने श्रमशून्यानां स्तावकानां, वृन्द्रस्य वागाडम्बरैः वागाटोपैः, अनवकाशतरे अत्यन्तनिरवकाशे, अस्मिन् अम्बरे अन्तरिक्षे, मत्पदानां मद्वक्यानां, “पदं शब्दे च वाक्ये च’ इति विश्वः, उत्पत्तुमेव पदम् अवकाशः, नास्तीत्यतिशेयोक्तिः; आकाशगुणः शब्द इति तार्किकाः; कथञ्चिदुत्पतौ अति अर्थपुनरुक्तिषु अभिधेयपौनरुक्त्येषु पातुकानां पततां, वन्दिवाक्यैः पुनरुक्तार्थानामित्यर्थः, “लषपत-‘इत्यादिना उकञ्प्रत्ययः, मत्पदानाम् अर्थोऽपि प्रयोजनमपि, नास्ति गतार्थत्वादितिभावः, अस्य वन्दिकृताः स्तवाः यथार्थकतया मम अमीव सम्मता, अतः एनं वृणीष्व इति तात्पर्यम्
॥ 11.36 ॥
अन्वयः–एतत्पुरःपठदपश्रमवन्दिवृन्दवाग्डम्बरैः अनवकाशतरे अस्मिन् अम्बरे मत्पदानाम् उत्पत्तुम् एव पदं न अस्ति, अर्थपुनरुक्तिषु पातुकानाम् अर्थः अपि न ॥ 11.36 ॥
नन्वत्र हव्य इति विश्रुतनाम्नि शाकद्वीपप्रशासिनि सुधीषु सुधीभवन्त्याः ? ॥
एतद्भुजाविरुदवन्दिजयाऽनयाऽपि किं रागि राजनि गिराऽजनिनान्तरं ते ? ॥ 11.37 ॥
जीवातु–नन्विति । ननु भैमि ! अत्र ?अस्मिन्, हव्य इति विश्रुतनाम्निप्रक्यातनामधेये, शाकद्वीपं प्रशास्तीति तत्प्रशासिनि तत्स्वामिनि, राजनिविषये, सुधीषु विद्वत्सु, सुधीभवन्त्याः विदुषीभवत्याः, ते तव, अन्तरम् अन्तरात्मा, अनया श्रूयमाणया, एतस्य भुजाविरुदवन्दिभ्यो बाहुप्रशास्तिस्तोतृत्यः; “गद्यपद्यमयी राजस्तुतीर्विरुदमुच्यते’ इति, जाता तज्जा तया, गिराऽपि रागि अनुरागवत्, नाजनि नाजनि नाजनिष्ट किमृ ? इति प्रश्नः, जनेः कर्त्तरि लुङि"दीपजनइत्यादिना विकल्पात् चिणु प्रत्ययः, “चिणो लुक्’ इति तस्य लुक्
॥ 11.37 ॥
अन्वयः–ननु अत्र “हव्य’ इति विश्रुतनाम्नि शाकद्वीपप्रशासिनि राजनि सुधीषु सुधीभवन्त्याः ते अन्तरम् अनया एतद्भुजाविरुदवन्दिजया गिरा अपि किं रागं न अजनि ? ॥ 11.37 ॥
शाकः शुकच्छदसमच्छविपनत्रमालभारी हरिष्यति तरुस्तव तत्र चित्तम् ॥
यत्पल्लवौघपरिरम्भविजृम्भितेन ख्याता जगत्सु हरितो हरितः स्फुरन्ति ॥ 11.38 ॥
जीवातु–शाक इति तत्र शाकद्वीपे, शुकच्छदसमच्छवीनां कीरपक्षसटृशदीप्तानां, पत्राणां मालां पङ्क्ति, भारतीति तन्मालभारी, “इष्टकेषीकामालनानां चिततूलमालभारिषु’ इति ह्रस्वः, शाकस्तरुः शाकवृक्षः, “शोगुन’ इति प्रसिद्धवृक्षविशेषः इत्यर्थः, तव चित्तं हरिरम्भविजृम्भितेन व्यापितमहिम्ना, हरिद्वर्णा सत्यः । “हरितः । मृगे ना कनके क्लबं दिशि स्त्री हरिते त्रिषु’ इति विश्वः, जगत्सु ख्याताः हरित इति ख्याताः, स्फुरन्ति प्रथन्ते । दिक्षु हरिच्छब्दप्रवृत्तेः, हरितवर्णनिमित्तायाः शाकतरुपल्लवच्छायाच्छुरणनिभित्तत्वासम्बन्धेऽपि तत्सम्बन्धोक्तेस्तद्रुपातिशयोक्तिः, तया च तस्य तरोः ख्यातिः व्यज्यते इत्यलङ्कारेण वस्तुध्वनिः
॥ 11.38 ॥
अन्वयः–तत्र शुक्रच्छदसमच्छविपत्रमालभारी तरुः शकः तव चित्तं हरिष्यति, यत्पल्लवौधपरिरम्भविजृम्भितेन हरितः जगत्सु हरितः ख्याताः स्फुन्ति ॥ 11.38 ॥
स्पर्शेन तत्र किल तत्तरुपत्रजन्मा यन्मारुतः कमपि सम्भदमाददाति ! ॥
कौतूरलं तदनुभूय विधेहि भूयः श्रद्धां पराशरपुराणकथान्तरेऽपि ॥ 11.39 ॥
जीवातु–स्पर्शेनेति । तत्र द्वीषे, किल तस्य तरोः पत्रेभ्यो जन्म यस्य तज्जन्मा मारुतः स्पर्शेन स्पर्शमात्रेण, कमप्यनिर्वचनीयं, सम्दम् आनन्दम्, आददातीति यत् तदानन्दानुरूपं, कौतूहलं कौतुकं, विम्मयजनकव्यापारमित्यर्थः, “कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्’ इत्यमरः, अनुभूय भूयः पुनरपि, पराशरपुराणे विष्णुपुराणे, यत् कथान्तरम् अन्या कथा तत्र, श्रद्धां विधेहि विश्वासं कुरु, तत्रैव सकलभूसनीयत्तान्तकथनादेकदेशसंवादस्य यथार्थत्वेन तदुक्तकथान्तराणामपि? विश्वयनीयत्वादिति भावः । अत्र विष्णुपुराणवाक्यं"शाकस्तत्र महावृक्षः सिद्धगन्धर्वसेवितः । तत्पत्रवातसंस्पर्शदाह्णादो जायते परः ॥ इति ॥ 11.39 ॥
अन्वयः–तत्र तत्तरुपत्रजन्मा मारुतः स्पर्शेन यत् कम् अपि सम्मदम् आददाति, तत् किल कौतुकम् अनुभूय भूयः अपि पराशरपुराणकथान्तरे श्रद्धां विधेहि ॥ 11.39 ॥
क्षीरार्णवस्तव कटाक्षरुचिच्छटानामध्येतु तत्र विकटायितमायताक्षि ! ॥
वेलावनीवनततिप्रतिबिम्बचुम्बिकिर्मीरितोर्मिचयचारिमचापपलाभ्याम् ॥ 11.40 ॥
जीवातु–क्षीरेति । हे क्षायताक्षि ! तत्र शाकद्वीपे क्षीरार्णवस्तव कटाक्षरुचिच्छटानां कटाक्षकान्तिजालानां, ‘वृन्दं जालं चकवालं जालकं जालकं पेटकं छटा’ इति वैजयन्ती, विकटायितं विकटभावम्, अतिशयमित्यर्थः, “कटः श्रोणौ द्वयोः पुंसि किलिञ्चे ऽतिशये शवे’ इति मेदिनी,
यक्ष–विशालभार्व, सौन्दर्यविलसितमित्यर्थः, “विशाले विकराले च विकटं कवयो विदुः इति शश्वतः, विकटशब्दाल्लोहितादिक्यडन्तादभवे क्तः । लोहितादिराकृतिगणः, वेलावनी कूलभूमिः “वेला कूलेऽपि वारिधेः’ इति शाश्वतः, तत्र या वनततिर्वनपिक्तः, तस्याः प्रतिबिम्बं चुम्बति स्पृशतीति तच्चुम्बी तस्य तद्युक्तस्य इति यावत् अत एव किर्मीरितस्य कर्बुरितस्य, नानावर्णमिश्रितस्येति यावत्, “चित्रं किर्मीरकल्माषशबलैतश्चकर्बु रे’ इत्यमरः ऊर्मिचपस्य तदङ्गपङ्क्तेः, चारिमा चारुता, “पृथ्वादिभ्य इमनिच् वा’ इति इमनिच् “टेः’ इति
टेर्लोपः । चापलं चाञ्चल्यं, युवादित्वादणु-प्रतृययः ताभ्यां, स्मारकाभ्याम् अध्येतु स्मरतु अनुकरोतु इति यावत्, “इक् स्मरणे’ इत्यस्माल्लोटि शेषत्वविवक्षायाम् अधीगर्थ-“इत्यादिना षष्ठीविधानात्तदभावे कर्मणि? द्वितीया, तव चक्षुषोः कटाक्षेषु परितः श्वैत्यं मध्ये नीलत्वं चपलता च अतः क्षीर समुद्रोऽपि तत्सदृशो भवतु इति भावः । अत्र किर्मीरितोर्मिचयस्य सितासितत्वसादृश्यात् ति,लासस्य कटाक्षविलसितसमारकत्वात् स्मरणालङ्कारः
॥ 11.40 ॥
अन्वयः–आयताक्षि, तत्र क्षीरार्णवः तव कटाक्षरुचिच्छटानां विकटायितं वेलावनीवनततिप्रबिम्बचुम्बिकिर्मीरितोर्मिचयचारिमचापलाभ्याम् अध्येतु ॥ 11.40 ॥
कल्लोलजालचलनोपनतेन पीवा जीवातुनाऽनवरतेन पयोरसेन ॥
अस्मिन्नखण्डपरिमण्डलितरोरुमूर्तिरध्यास्यते मधुभिदा भुजगाधिराजः ॥ 11.41 ॥
जीवातु–कल्लोलेति । अस्मिन् क्षीरर्णवे कल्लोलानां परङ्गाणां परङ्गाणां जालस्य वृन्दस्य चलनेन चलनाद्वा उपनतः प्राप्तस्तेन । जीवातुना उज्जीवकेन “जीवातुर्जीवनौषधम्’ इत्यमरः । अनवरतेनाविच्छिन्नेन पय एव रसस्तेन स्वादुक्षीरेण पीवा पीवरः, स्थूलकाय इत्यर्थः । “पीङ्’ धातोः “अन्येभ्योऽपि टृश्यन्ते’ इति क्वनिपि “घुमास्थागापाजहातिसां हलि’ इतीकारः । अखण्डं समम्पूर्ण यथा स्यात्तथा परिमण्डलिता परितो वेष्टिता, कुण्डलितेति यावत्, अर्वी विशाला मूर्त्तिः शरीर यस्य येन वा सः । भुजगानां सर्पाणामधिराजः शेषः मधुं तन्नामकं दैत्यं भिदत्तीति तेन विष्णुना अध्यास्यते अधिशय्यते । कर्मणि प्रत्यत्वेन “अधिशीङ्स्थासां कर्मे"ति कर्मणो भुजगाधिराजशब्दात्प्रथमा, मधुभिच्छब्दात्कर्तरि तृतीया च बोध्या । अत्र क्षीरसागरे श्रीविष्णुशेषराजोपरि, शेत इत्यर्थः ॥ 11.41 ॥
अन्वयः–अस्मिन् कल्लोलजालचलनोपनतेन जीवातुना अनवरतेन पयोरसेन पीवा अखण्डपरिमण्डलितोरुमूत्तिः भुजगाधिराजः मधुभिदा अध्यास्यते ॥ 11.41 ॥
त्वद्रूपसम्पदवलोकनजातशङ्का पादाब्जयोरिह कराङ्गुलिलालनेन ॥
भूयाच्चिराय कमलाकलितावधाना निद्रानुबन्धमनुरोधयितुं धवस्य ॥ 11.42 ॥
जीवातु–त्वदिति । इह क्षीरार्णवे तव रूपमेव सौन्?दर्यमेव सम्पत् रूपस्य सम्पद्वा, तस्या अवलोकनेन दर्शनेन जातोत्पन्ना शङ्का सन्देहो यस्याः सा, इमां मदपेक्षया परमसुन्दरीं विलोक्य मदभर्ता श्रीविष्णुः कदाचिदिमामङ्गीकुर्यादिति शङ्कया युक्तेत्यर्थः । कमला लक्ष्मीः पादब्जयोश्चरणकमलयोः करांगुलिभिर्लानेन संवाहनकार्येण धवस्य पत्युः, श्रीविष्णोरिति यावत् । निन्द्रानुबधं निद्रासातत्सयमनुरोधयितुं वर्धयितुं चिराय चिकालं यावत् दत्तमवधानं यया सा, सावधानेति भावः । भूयादभवेत् । मत्पतिः श्रीविष्णुः लोर्ककसुनदरीमिमां दमयन्तीं टृष्ट्वा मोहितस्मन्निमां श्रयेदिति शङ्कया तच्चरणयोः संवाहनेन चिरकालं निद्रितमेव तं कतुं सावधाना भत्वित्यर्थः ॥ 11.42 ॥
अन्वयः–इह त्वूद्रंपसम्पदवलोकनातशङ्का कमला पादाब्जयोः कराङ्गुलिलालनेन धवस्य निद्रानुबन्धम् धनुरोधयितुं चिराय कलितावधाना भूयात् ॥ 11.42 ॥
बालातपै कृतकगैरिकतां कृतां द्विस्तत्रोदयाचलशिलाः परिशीलयन्तु ॥
त्वद्विभ्रमभ्रमणजश्रमवारिधारिपादाङ्गलीतया नखलाक्षयाऽपि ॥ 11.43 ॥
जीवातु–बालातपैरिति । तत्र शकद्वीपे, उदायाचलशिलः बालातपैः तथा तव विभ्रमभ्रमणेन सलीलचङ्क्रमणेनद्व जात त्जजं, श्रमवारि स्वेदाम्बु, तद्धारिणीभ्यः पादांगुलिभ्यः गलितया स्त्रु तया, नखलाक्षयाऽपि द्विर्द्विवारं, कृतां द्विगुणीकृतामित्यर्थः, कियाभ्यावृत्तिगणने “द्वित्रिचतुर्भ्यः सुच्’ इति सुच,
कृतकानि कृत्रिमाणि, यानि गैरिकाणि धातुविशेषाः, तत्तां परिशीलयन्तु अनुभवन्तु, तथाभूताः सन्तु इत्यर्थः, उदयाचलविहार यदि तव रुचिः अस्ति तदा एनं वृणीण्व इति भावः ॥ 11.43 ॥
अन्वयः–तत्र उदयाचलशिलाः बालातपैः त्वद्विभ्रमभ्रमणजश्रवारिधारिपादाङ्गुलीगलितया नखालाक्षया अपि द्विः कृतां कृतकगैरिकतां परिशीलयन्?तु ॥ 11.43 ॥
नॄणां करम्बितमुदायन्मुगाङ्कशङ्कां सृजत्वनधाजङ्धि ! परिभ्रमन्त्याः ॥
तत्रोदयाद्रिशिखरे तव ट्टश्यमास्यं काश्यमीरसम्भवसमारचनाभिरामम् ॥ 11.44 ॥
जीवातु–नॄणामिति । हे अनघजङ्धि ! सुन्दरजङ्धाशालिनि ! वामोरु ! इति यावत् “नासिकोदर–’ इत्यादिना विकल्पेन ङीष्-प्रत्ययः, तत्र द्वीपे, उदयाद्रिशिखरे परिभ्रमन्त्याः विहरन्त्याः तवकाश्मीरसम्भवसारचनेन, कुङ्कुमानुलेपनेन, अभिरामम् अत एव टृश्यं दर्शनीयम्, “ऋगुपधाच्चावलृपिचृते’ इति क्यप्, तवास्यं कर्त्तृ, करम्?िबतमुदां मम्मिलितानन्दानां नॄणां पुंसां, “नृ च’ इति विकल्पात् दीर्घः, उदयन्मृगाङ्कशङ्काम् उदीयमानचन्द्रसन्देहं, भ्रान्तिं वा, सृजतु करोतु । अलङ्कारोऽपि सन्देहभ्रान्तिमतोरन्यतरोऽस्तु ॥ 11.44 ॥
अन्वयः–अनघजङ्घि, तत्र उदयाद्रिशिखरे परिभ्रमन्त्याः तव काश्मीरसम्भवसमारचनाभिरामं टृश्यम् आस्यं करम्बितमुदां नॄणाम् उदयन्मृगाङ्कशङ्कां सृजतु ॥ 11.44 ॥
एतेन ते विरहपावकमेत्य तावत् कामं स्वनाम् कलितान्वयमन्वभावि ॥
अङ्गीकरोषि यदि तत्तव नन्दनाद्यैर्लब्धान्वयं स्वमपि नन्वयमातनोतु ॥ 11.45 ॥
जीवातु–एतेनेति । ननु भैमि ! एतेन हंव्श्याख्येन राज्ञा, ते तव, विरहपावकम् एत्य वियोमाग्निं प्राप्य; स्वं स्वकीयं, नाम हव्यसंज्ञा, कामं प्रकामं, कलितान्वयं प्राप्तान्वथै, सार्थकमिति यावत्, अन्वभावि तावत् अनुभूतमेव, अग्नौ हुतत्वाद्धव्यसंज्ञा सार्थाऽजनीत्यर्थः, अङ्गीकरोषि यदि इत्थम् अनुरक्तं तं नृपं वरत्वेन स्वीकरोषि चेत्, तत् तदा, अयं नृपः, स्वम् आत्मानमपि, तव नन्दनाद्यैः त्वय्युत्पादितपुत्रपौत्रादिभिः, लब्धान्वयं लब्धवंशप्रतिष्ठम्, आतनोतु, धर्मप्रजासम्पत्त्यर्थत्वाद्दाररपरिग्रहस्ये?ति भावः ॥ 11.45 ॥
अन्वयः–एतेन ते विरहपावकम् एत्य स्वनाम तावत् कलितान्वयम् अन्वभावि, यदि अङ्गीकरोषि तत् अयं स्वम्, तव नन्दाद्यैः अब्धान्वयम्, अपि आतनोतु ननु ॥ 11.45 ॥
लक्ष्मीलतासमवलम्बभुजद्रुमेऽपि वाग्देवताऽऽयतनयञ्जुमुखाम्बुजेऽपि ॥
साऽमुत्र दूषणमजीगणदेकमेव नाथीर्बभूव मघवा यदमुष्य देवः ॥ 11.46 ॥
जीवातु–लक्ष्मीलतेति । लक्ष्मीरेव लता तस्याः समवलम्बः आधारभूतः, भुज एव द्रुमो यस्य तस्मिन्नपि, भुजार्जितसम्पद्यपीत्यर्थ;, तथा वाग्देवतायाः सरस्वत्याः, आयतनं स्थानं, मञ्जु मनोज्ञं, मुखाम्बुनं यस्य तस्मिन् अपि, चतुःषष्टिकलाऽभिज्ञेपि, लक्ष्मीसरस्वत्योरेकाधिकरणेऽपीति भावः, अमुत्र अमुप्मिन् इव्ये राज्ञि, सा भैमी, एकमेव दूषणम् ? अजीगणत् गणयामास, गणेणौ चङ्” ई च गणः’ इत्यभ्यासस्येकारः, किं दूषणम् तदाह-अमुष्य इव्यस्य राज्ञः, देवो मघवा महेन्द्रः, यत् अर्थी याचकः, न बभूव; किन्तु नलस्य यद् दूत्यं ययाचे
तत् कथं नलात् हीनमेनं स्वीकरिष्यामि इति भावः ॥ 11.46 ॥
अन्वयः–लक्ष्मीलतासमवलम्बभुजद्रुमे अपि वाग्देवताऽऽयतनमञ्जुखाम्बुजे अपि अमुत्र सा सकम् एव दूषणम् अजीगणत्, यत् मघवा देवः अमुष्य अथीं न बभूव ॥ 11.46 ॥
लक्ष्मीविलासवसतेः सुमनःसु मुख्यादस्माद् विकृष्य भुवि लब्धगुणप्रसिद्धिम् ॥
स्थानान्तरं तदनु निन्युरिमां विमानवाहाः पनुःसुरभितमिव गन्धवाहाः ॥ 11.47 ॥
जीवातु–लक्ष्मीविलासेति । तदनु तत्परिहारानन्तरं, विमानवाहाः भुवि लोके, लब्धा गुणेन सौन्दर्यादिना, अन्यत्र–घ्राणतर्पणेन च, प्रसिद्धिः यया ताम् इमां तां दमयन्तीं, गन्धवाहा वायवः, सुरभितां सौरभसम्पदमिव, लक्ष्मयाः सम्पदः, अन्यत्र–पह्मायाः, विलासवसतेः लीलागृहात्, सुमनःसु विद्वत्सु, अन्यत्र–पुष्पेषु, मुख्यात् अस्मात् नृपात्, पह्माच्च, विकृष्य अपनीय, पुनः स्थानान्तरं राजान्तरम्, अन्यत्र–पुष्पान्तरं निन्युः ॥ 11.47 ॥
अन्वयः–तदनु दिमानवाहाः भुवि लब्धगुणप्रसिद्धिम् इमां गन्धवाहाः सुरभिताम् इव लक्ष्मीविलासवसतेः सुमनःसु मुख्यात् अस्मात् विकृष्य पुनः स्थानान्तरं निन्युः ॥ 11.47 ॥
भूयस्ततो निखिलवाङ्मयदेवता सा हे मोपमेयतनुभासमभाषतैनाम् ॥
एनं स्वबाहुवारनिवारितारिं चित्ते कुरुष्व कुरुविन्दसकान्तिदन्ति ! ॥ 11.48 ॥
जीवातु–भूय इति । ततः अनन्तरं, भूयः पुनरपि, निखिलवाङ्मयदेवता सकलवागधिदेवता, सा सरस्वती, हेम्ना उपमेया तनुभाः शरीरकान्तिः यस्याः ताम्, एनां दमयन्तीम्, अभांषत्, हे कुरुविन्दसकान्तिदन्ति ! पह्मरागसटृशदशने ! “नासिकोदर-’ इत्यादिना विकल्पादीकारः । “कुरुविन्दः पह्मरागः’ इति विश्वः । सकान्तीत्यत्र समानस्य स-भावश्चिन्त्यः, । स्वबावाहुना बहुवारं निवारितारिं निर्जितशत्रुम्, एनं राजानं, चित्ते कुरुष्व अनुमनयस्वेत्यर्थः ॥ 11.48 ॥
अन्वयः–ततः निखिलवाङ्मयदेवता सा भूयः हेममेयतनुभासम् एनाम् अभाषत-कुरुविन्दसकान्तिदनित, स्वबाहुबहुवारनिवा?रिताम् एनं चित्ते कुरुष्व ॥ 11.48 ॥
द्वीपस्य पश्य दयितं द्युतिमन्तं क्रौञ्चस्य चञ्चलदृगञ्चलविभ्रमेण ॥
यन्मण्डले स किल पाण्डुलसन्निवेशः पूरश्चकास्ति दघिमण्डमयः पयोधेः ॥ 11.49 ॥
जीवातु-द्वीपस्येति । द्युतिमन्तं नाम एतं क्रौञ्चस्य द्वीपस्य दयितम् अधिपति, चञ्चलस्य टृगञ्चलस्य कटाक्षस्य, विभ्रमेण विलासेन, पश्य, यन्मण्डले यस्य देशे, पयोधेः समुद्रस्य, स प्रसिद्धः, पाण्डुलसन्निवेशः पाण्डुलः पाण्डुवर्णः सन्निवेशः अवस्थानं यस्य ताटृशः दधिमण्डमयः दध्नो मण्डं मस्तु “मण्डं दधिभवं मस्तु’ इत्यमरः, तन्मयः पूरः तोयराशिः; चकास्ति किलेत्यैतिह्मे ॥ 11.49 ॥
अन्वयः–द्युतिमन्तम् एतं क्रौञ्चस्य द्वीपस्य दयितं चञ्चलटृगञ्चलविभ्रमेण पश्य, यन्मण्डले पयोधेः सः पाण्डुलसन्निवेशः दधिमण्डमयः पूरः चकास्ति किल ॥ 11.49 ॥
तत्राद्रिरस्ति भवदङ्घ्रिविहारयाची क्रोञ्चः स्फुरिष्यति गुणानिवयस्त्वदीयान् ॥
हंसावलीकलकलप्रतिनादवाग्भिः स्कन्देषुवृन्दविवरैर्विवरीतुकामः ॥ 11.50 ॥
जीवातु–तत्रेति । तत्र क्रौञ्चद्वीपे, भवत्याः अङ्घ्रिविहारयाची सविलासभ्रमणकामुकः, क्रोञ्चो नामाद्रिः अस्ति, योऽद्रिः, हंसावलीकलकलानां हंसश्रेणीविरुतानां, प्रतिनादाः प्रतिध्वनयः एव, वाचो वचनानि येषां तैः, स्कन्दस्य कुमारस्य; इषुवृन्दानां विवरैः तत्कृतच्छिद्रैः, तैरेव मुखैरित्यर्थः, त्वदीयान् गुणान् विवरीतुकामो व्याख्यातुकाम इव, स्फुरिश्यति प्रकाशिष्यते, स्फुरतेः कुटादित्वात् गुणाभावः; पुरा कार्तिकेयेन बाणैः क्रौञ्चपर्वतस्य विवराणि कृतानि इति पुराणम् ॥ 11.50 ॥
अन्वयः–तत्र भवदङ्घ्रिविहारयाची क्रौञ्चः अद्रिः अस्ति, यः हंसावलीकलकलप्रतिनादवाग्मिः स्कन्देषुवृन्दविवरैः त्वदीयान् गुणान् विवरीतुकामः इव स्फुरिष्यति ॥ 11.50 ॥
वैदर्भि ! दर्भदलपूजनयाऽपि यस्य गर्भे जनः पुनरुदेति न जातु मातुः ॥
तस्यार्चनां रचय तत्र मृगाङ्कमौलेस्तन्मात्रदैवतजनाभिजनः स देशः ॥ 11.51 ॥
जीवातु–वैदर्भीति । हे वैदर्भि ! यस्य दर्भदलैः कुशपत्रैः, पूजनयाऽपि किमुत कमलदलादिपूजनयेति भावः, जनोः, जनो.जन्तुः, जातु कदाऽपि, पुनर्मातुर्गर्भे न उदेति न उदेति न जायते, तत्पूजनस्य मुक्तिरेव फलमित्यर्थः, तत्र पर्वते, तस्य मृगाङ्कमौलेः ईश्वरस्य, अर्चनां रचय पूजां कुरुः, तथा , हि, स देशः तन्मात्रं स एव, शिव एवैक इत्यर्थः, दैवतं येषां तेषां जनानाम् अ?भिजायते अस्मिन्निति अभिजनो जन्मभूमिः; इत्यर्थान्तरन्यासः । “ख्यातः कुलेऽप्यभिजनो जन्मभूम्यां कुलध्वजे” इति विश्वः, तत्रत्याः सर्वे तदेकशरणास्तत्सेवयोत्पन्नतत्त्वज्ञानान्मुञ्चन्तीति भावः ॥ 11.51 ॥
अन्वयः–वैदर्भि, यस्य दर्भदलपूजनया अपि जनः जातु पुनः मातुः गर्भे न उदेति, तत्र तस्य मृगाङ्गमौलेः अर्चनां रचय; सः देशः तन्मात्रदैवतजनाभिजनः ॥ 11.51 ॥
चूडाग्रचुम्बिमिहिरोदयशैलशीलस्तेनाः स्तनन्धयसुधाकरशेखरस्य ॥
तस्मिन् सुवर्णरसख्षणरम्यहर्म्यभूभृद्धा घटय हेमघटावतंसाः ॥ 11.52 ॥
जीवातु–चूडाग्रेति । तस्मिन् देशे, स्तनं धयतीति स्तनन्धयः, “नासिकास्तनयोध्र्माघेटोः’ इति खश-प्रत्यये मुमागमः, स्तनन्धयसुधाकरशेखरस्य बालेन्दुशेखरस्य शम्भोः, हेमघटावतंसाः उपरिस्थापितकनककलसभूषिता इत्यर्थः, अत एव चूडाग्रचुम्बिमिहिरस्य शिखराग्रलग्नसूर्यस्य, उदयशैलस्य उदयाद्रेः, शील स्वभावः, तस्य स्तेनाः चौराः, तत्तुल्या इत्यर्थः, सुवर्णरसरूपणेन हेमद्रवच्छुरणेन, रम्याणि हर्म्याण्येव भूभृतः पर्वताः, तेषां घटाः पंक्तीः, घटय निर्मापय, कनककलससंसक्तानेकसौवर्णप्रासादनिर्माणेन तं
भगवन्तमिन्दुशेखरं प्रीणयेत्यर्थः ॥ 11.52 ॥
अन्वयः–तस्मिन् स्तनन्धयसुधाकरशेखरस्य हेमघटावतंसाः चूडाग्रचुम्बिमिहिरोदयशैलशीलस्तेनाः सुवर्णरसरूषणरम्यर्म्यभूभृद्घटाः घटय ॥ 11.52 ॥
तस्मिन्मलिम्लुच इव स्मरकेलिजन्मघर्मोदबिन्दुमयमौक्तिकमण्डनं ते ॥
जालैमिलन् दधिमहोदधिपूरलोकल्लोलचामरमरुत् तरुणि ! च्छिनत्तु ॥ 11.53 ॥
जीवातु–तस्मिन्निति । हे तरुणि ! हे उदभूतयौवने ! तस्मिन् द्वीपे, दधिमहोदधेः पूरे प्रवाहे, लोलाः चञ्चलाः कल्लोलाः तरङ्गा एव, चामराणि तेषां मरुत् वायुः, मलिम्लुचः चौर इव, ‘चौरैकागारिकस्तेनदस्युतस्करमोषकाः । प्रतिरोधिपरास्कन्दिपाटच्चरमलिम्लुचाः ॥’ इत्यमरः, जालैः गवाक्षरन्ध्रैः, मिलन् अन्तश्चरः सन्, स्मरकेल्या जन्म यस्य ताटृशं धर्मोदबिन्दुमयं स्वेदोत्कारबिन्दुरूपं, “मन्थौदन–” इत्यादिना उकस्य विकल्पादुदादेशः, मौक्तिकमण्डनं मुक्ताभरणं, “स्वार्थे ठक्’ “मौक्तिकमिति विनयादिपाठात्’ इति वामनः, छिन्नत्तु छित्त्वा हरतु चौरा हि केनचिच्छिद्रेण प्रविश्य हारादिकं छित्त्वा आदाय पलायन्ते, अस्मिन् वृते सति दधिसमुद्रवायुना तव रतिश्रमो न भविष्यति इति भावः । अत् रूपकोपनयोरङ्गाङ्गिभावेन सङ्करः ॥ 11.53 ॥
अन्वयः–तरुणि, तस्मिन् दघिमहोदधिपूरकल्लोलचामरमरुत् मलिम्लनुचः इव जालैः मिलन् ते स्मरकेलिजन्मघर्मो?दबिन्दुमयमौक्तिकमण्डनं छिनत्तु ॥ 11.53 ॥
एतद्यशो नवनवं खलु हंसवेशं वेशन्तसन्तरणदूरणदूरगमक्रमेण ॥
अभ्यासमर्जयति सन्तरितु समुद्रान् गन्तुञ्च निःश्रममितः सकलान् दिगन्तान् ॥ 11.54 ॥
जीवातु–एतदिति । नवनवं प्रत्यहं नूतनप्रकारं, “प्रकारे गुणवचनस्य’ इति द्विर्भावः हंसस्येव वेशः सर्वत्र प्रवेशव्यापारः, श्वेतात्मकरूपान्तरं, वा यस्य तत्, एतस्य राज्ञः, यशः वेशन्तसन्तरणं पल्वलतरंणं, “वेशन्तः पल्वलञ्चाल्पसरः’ इतृयमरः । दूरगमो दूरगमनं, “ग्रहवृटृनिश्चिगमश्च’ इति अप्प्रत्ययः तयोः क्रमेण रीत्या, हंसस्य रीत्येत्यर्थः, इतोऽस्माद्देशात्, निःश्रमं श्रमरहितं-यथा तथा, समुद्रान् सन्तरितुं सकलान् दिगन्तान् गन्तुञ्च अभ्यासम् अर्जयति खलु ? जिज्ञासायां खलुशब्दः, तेन, पुनः पुनरेवम् अभ्यास्य ति किम् ?
अन्यथा कथमस्य सकललोककलङ्घित्वमितृयुतृप्रेक्षा लभ्यते ॥ 11.54 ॥
अन्वयः–हंसवेशवं नवनवम् एतद्यशः वेशन्तसन्तरणदूरगमक्रमेण इतः निःश्रमं समुद्रान् स्न्रितुं सकलान् दिगन्तान् गन्तुं च अभ्यासम् अर्जयति खलु ॥ 11.54 ॥
तस्मिन् गुणैरपि भृते गणनादरिद्रैस्तन्वी न सा हृदयबन्धमवाप भूपे ॥
दैवे विरुन्धति निबन्धनतां वहन्ति हन्त ! प्रयासपरुषाणि न पौरुषाणि ॥ 11.55 ॥
जीवातु–तस्मिन्निति । तन्वी कृशाङ्गी, “वोतो गुणवचनात्’ इति विकल्पात् ङीषु सा भैमी, गणनादरिद्रैः सङ्ख्याशून्यैः, असर्ङ्ख्यैरित्यर्थः, गुणैः भृतेऽपि पूर्णेऽपि तस्मिन् भूपे द्युतिमदाख्ये राज्ञि, हृदयस्य बन्धं मनःसङ्गं, नावाप, तथा हि दैवे भागधेये, विरुन्धति प्रतिबध्नति सति, प्रयोसन दुः,खबाहुल्येन, परुषाणि दुष्कराणि, पौरुषाणि पुरुषकाराः, युवादित्वादण्-प्रत्ययः निबन्धनतां कार्यहेतुत्वं, न वहन्ति इत्यर्थान्तरन्यासः, हन्तेति खेदे । बागुरापाशकादौ हरिणी यद् बन्धनमान्नोति तत्र दैवविडम्बना एव हेतुरिति ध्वनिः ॥ 11.55 ॥
अनवयः–सा तन्वी गणनादरिद्रैः गुणैः भृते अपि तस्मिन् भूपे हृदयवबन्धं न अवाप, हन्त, दैवे विरुन्धति प्रयासपरुषाणि पौरुषाणि निबन्धनतां न वहन्ति ॥ 11.55 ॥
ते निन्यिरे नृपतिमन्यमिमाममुष्मादंसावतंसशिविकांशभृतः पुमांसः ॥
रत्नाकरादिव तुषारमयूखलेखां लेखाजुजोविपुरुषा गिरिशोत्तमाङ्गम् ॥ 11.16 ॥
जीवातु–ते इति । ते प्रकृताः, अंसावतंसान् स्कन्धभूषणस्वरूपान्, शिविकायाः अंशान् अवयवान्, बिभ्रति ये ते, पुंमासो यानवाहिपुरुषाः, लेखानुजीविपुरुषाः देवातृमकानुचराः, “अमरा निर्जरा देवा….लेखा अदितिनन्दनाः’ इत्यमरः । रत्नाकरात् रत्नाकरसकाशातृ, तुषारमयुखलेखां चन्द्रंकलां, गिरिशोत्तमाङ्गं शिवशिर इव; इमां भैमीम् अमुष्मात् एतद्राजसकाशात् अमुं नृपं विहाय इत्यर्थः, अन्यम् इतरं, नृपतिं निन्यिरे प्रापयामासुः । ?ञित्त्वादात्मनेपदम् ॥ 11.56 ॥
अन्वयः–हे अंसावतंसशिविकांशभृतः पुमांसः लेखानुजीविपुरुषाः रत्नाकरात् तुषारमयूखलेखां गिरिशोत्तमाङ्गम् इव अमुष्मात् इमाम् अन्यं नृपतिं निन्यिरे ॥ 11.56 ॥
एकैमुद्गतगुणं घुतदूषणञ्च हित्वाऽन्यमन्यमुपगम्य परित्यजन्तीम् ॥
एतां जगाद जगदर्चितपादपह्मा पह्मामिवाच्युतभुजान्तरविच्युतां सा ॥ 11.57 ॥
जीवातु–एकैकमिति । जगदिभः अर्चितपादपह्मा जगद्वन्द्या, सा सरस्वती, उद्गतगुणं गुणाढ्यं धुतदूषणं निर्दोषञ्च, एकैकम् एकमेकं नृपं, वीप्सायां द्विर्भावः । “एकं बहुव्रीहिवत्’ इति बहुव्रीहिवदभावात् सुपो लुक् । हित्वा अन्यम् अन्यं नृपतिं, पूर्ववत् द्विर्भावः, उपगम्य परित्यजन्तीं तमपि परिहरन्तीम्, अच्युतस्य विष्णोः, उपगम्य भुजान्तरात् वक्षःस्थलात्, विच्युतां पह्मां साक्षाल्लक्ष्मीमिव स्थिताम्, इत्युत्प्रेक्षा, एतां भैमीं, जगाद ॥ 11.57 ॥
अन्वयः–जगदर्चितपादपह्मा सा उद्गतगुणं धुतदूषणं च एकैकं हित्वा अन्यम् अन्यम् उपगम्य परित्यजन्तीम् अच्युतभुजान्तरविच्युतां पह्माम् इव एतां जगाद ॥ 11.57 ॥
?ईशः कुशेशयसनाभिशये ! कुशेन द्वीपस्य लाञ्छिततनोर्यदि वाञ्छितस्ते ॥
ज्योतिष्मता सममनेन वनोघनासु तत त्वं विनोदय घृतोदतटीषु चेतः ॥ 11.58 ॥
जीवातु–ईश इति । हे कुशेशयसनाभिशये ! कमलसटृशपाणि ! “पञ्चशाखः शयः पाणिः’ इत्यमरः । कुशोन दर्भस्तम्बने, ला?ञ्छिततनोः चिहिद्व् नलस्वरूपस्य, द्वीपस्य कुशद्वीपस्य, ईशः स्वामी, ते तव, वाच्छितः इष्टः, यदि तत्तर्हि, त्वं ज्योतिष्मता ज्योतिष्मन्नामकेन, अनने कुशाद्वीपेश्वरेण, समं सह, वनीभिः धनासु वनसान्द्रासु, घृतम् उदकं यस्य सः घृतोदः घृतसमुद्रः, “उदकस्योदः संज्ञायाम्’ इत्युदादेशः, तस्य तटीषु चेतः चित्तं, विनोदय विनोदं कारय, विपूर्वात् नुदधातोः घञन्तात् विनोदशब्दात् “तत् करोति–“इति ण्यन्ताल्लोटि सिप् ॥ 11.58॥
अन्वयः–कुशेशयसनाभिश्ये, कुशेन लाञ्छिततनोः द्वीपस्य ईशः यदि ते वाञ्छितः तत् त्वं ज्योतिष्मता अनेन समं वनीघनासु घृतोदतटीषु चेतः विनोदय ॥ 11.58 ॥
वातेर्मिलोलनचलद्दलमण्डलाग्रभिन्नामण्डगलज्जलजातसेकः ॥
स्तम्बः कुशस्य भविताऽम्बरचुम्बिचूडश्चित्राया तत्र तव नेत्रनिपीयमानः ॥ 11.59 ॥
जीवातु–वातेति । तत्र कुशद्वीपे, अम्बरचुम्बिनो गगनतललग्ना, चूडाअग्रं यस्य सः अभ्रङ्कषाग्र इत्यर्थः, अत एव वातस्य वायोः ऊर्मिणा तरङ्गभङ्ग्या, लोलनेन कम्पनेन, चलदिभः दलेः कुशानां पत्रैरेव, मण्डलाग्रैः खङ्गैः कुशपत्ररूपखड्गैरित्यर्थः, “खङ्गे तु निस्त्रिंशचन्द्रहासासिरिष्टयः । कौक्षेयको मण्डलाग्रः करबालः कृपाणवत् ॥’ इत्यमरः। अत्र रूपकालङ्कारः, भिन्नात् विदारितात्, अभ्रमण्डलात् मेधमण्डलात्, गलदिभः स्त्रवदिभः, जलैः जातः सेको यस्य सः कुशस्य स्तम्बः दर्भगुल्मः, “अग्रकाण्डे स्तम्बगुल्मौ’ इत्यमरः, नेत्राभ्यां निपीयमानः आदरात् टृश्यमानः सन्, तव चित्राय विस्मयाय, भविता भविष्यति ॥ 11.59 ॥
अन्वयः–तत्र अम्बरचुम्बिचूडः वातोर्मिलोलनचलद्दलमण्डलाग्रभिन्नाभ्रमण्डलगलज्जलजातसेकः, नेत्रनिपीयमानः कुशस्य स्तम्बः तव चित्राय भविता ॥ 11.59 ॥
पाथोधिमन्थसमयोत्थितसिन्धुपुस्त्रीपत्पङ्कजार्पणपवित्रशिंलासु तत्र ॥
पत्या सहाऽऽवह विहारमयैर्विलासैरानन्दमिन्दुमुखि ! मन्दरकन्दरासु ॥ 11.60 ॥
जीवातु–पाथोधीति । हे इन्दुमुखि ! अत्र कुशद्वीपे, पाथोधिमन्थस्य अब्धिमथनस्य, समये उत्थितायाः
उद्गतायाः, समुद्रमन्थकाले तज्जलमध्यादुद्भूताया इत्यर्थः, सिन्धुपुत्?त्रयाः लक्ष्म्याः, पत्नङ्कजयोः चरणकमलयोः, “पदङ्घ्रिः चरणोऽस्त्रियाम्” इत्यमरः अर्पणेन पवित्राः शिलाः यासु तासु मन्दरकन्दरासु पत्या भर्त्रा सह, विहाररूपैः, विलासैः विनोदैः आनन्दम् आवह धारय ॥ 11.60 ॥
अन्वयः–इन्दुमुखि, तत्र पाथोधिमन्थसमयोत्थितसिन्प्धुपुत्रीपत्पङ्कजार्पणपवित्रशिलासु मन्दरकन्दासु पत्या सह विहारमयैः विलासैः आनन्दम् आवह ॥ 11.60 ॥
आरोहणाय तव सज्ज इवास्ति तत्र सोपानशोभिवपुरश्मबलिच्छटाभिः ॥
भीगीन्द्रवेष्टशतघृष्टिकताभिरब्धि-क्षुबघाचलः कनककेतकगोत्रगात्रि ! ॥ 11.61 ॥
जीवातु–आरोहणायेति । कनककेतकं स्वर्णकेतकदल, गोत्रम् अभिजनो यस्य तत् ताटृशं, तस्य गोत्रं सन्ततिर्वा, गात्रं यस्याः तस्याः सम्बुद्धिः, तद्गात्रि ! तत्सटृशागात्रीत्यर्थः, “अङ्गपात्रकण्ठेभ्यः’ ङ्गपादिना ङीष्, तत्र कुशद्वीपे, भोगीन्द्रस्य वासुकेः वेष्टशतघृष्टिभिः वेष्टनशतनां घर्षणैः कृताभिः अश्मसु शिलासु, बलीनां वेष्टनमार्गाणां, छटाभिः समूहैः हेतुभिः; सोपानैः शोभते इति तच्छोभि वपुः यस्य सः बलिकृसोपानपंक्तिः, अब्धेः क्षुब्धाचलः मंन्दरादिः “क्षुब्धस्वान्त–’ इत्यादिना निपातनात् साधुः, तवारोहणाय सज्जः सज्जित इव, अस्ति वर्त्तते, इत्युत्प्रेक्षा ॥ 11.61 ॥
अन्वयः–कनककेतकगोत्रगात्रि, तत्र भोगीन्द्रवेष्टशतघृष्टिकृताभिः अश्मबलिच्छटिभिः सोपानशोभिवपुः अब्धिक्षुब्धाचलः तव आरोहाणाय सज्जः इव अस्ति ॥ 11.61 ॥
मन्था नगः स भुजगप्रभुवेष्टघृष्टिलेखाचलद्धबलनिर्झरवारिधारः ॥
त्वन्नेत्रयोः स्वभारयन्त्रितशीर्षशेषाङ्गवेष्टिततनुभ्रममातनोतु ॥ 11.62 ॥
जीवातु–मन्थेति । भुजगप्रभोः वाकसुकेः, वेष्टैः वेष्टनैः, या घृष्टिलेखाः घर्षणमार्गाः, घर्षणजन्यवलयाकाररेखा इति यावत्, तासु चलन्त्यः प्रवहन्त्यः धवलाः निर्झरवारिधारा यस्य ताटृशः सः प्रसिद्धः, मन्था । मन्थनदण्डः, वैशाखमन्थमन्थानमन्थानो मन्थदण्डके’ इत्यमरः, नगोऽद्रिः, मन्दराद्रिरित्यर्थः, त्वन्नेत्रयोः तव चक्षुषोः, स्वस्य मन्दरस्येव, भरेण भारेण, यन्त्रितानि कुञ्चितानि, शीर्षाणि यस्य तस्य शेषस्य अनन्तस्य, भूभारं बहतः शेषाहेरित्यर्थः, शोषाङ्गेन अवशिष्टकायेन, वेष्टिता तनुः शरीरं यस्य स इति भ्रमम् आतनोतु भ्रान्तिं जनयतु, सर्पो हि शिरसि क्रामतोऽङ्‌गं स्वाङ्गेन वेष्टयतीति प्रसिद्धः, शेषस्य शुभ्राङ्गतया वारिधाराणाञ्च घवलत्वात् लेखासु बलयितत्वाच्च भ्रमः सम्भाव्यते इति भावः । अत्र कविसम्मतताटृश्यमूलभ्रान्तिवर्णनात् भ्रान्तिमदलङ्कारः ॥ 11.62 ॥
अन्वयः–भुजगप्रभुवेष्टघृष्टिलेखाचलद्धवलनिर्झरवारिधारः सः मन्था नगः त्वन्नेत्रयोः स्वभरयन्त्रितशीर्षशेषाङ्गवेष्टिततनुभ्रमम् आतनोतु ॥ 11.62 ॥
एतेन ते स्तनयुगेन सुरेभकुर्म्भा पाणिद्वयेन दिविषद्द्रुमपल्लवानि ॥
?B आस्येन सस्मरतु नीरधिमन्थनोत्थं स्वच्छन्दमिन्दुमपि सुन्दरि ! मन्दराद्रिः, ॥ 11.63 ॥
जीवातु–एतेनेति । हे सुन्दरि ! स मन्दराद्रिः, एतेनेति पुरोवर्त्तिनिर्देशः, अस्य च तृतीयान्तपदत्रयेण सम्बन्धः, ते तव स्तनयुगेन सुरेभस्य ऐरावतस्य, कुम्भौ, पाणिद्वयेन दिविषद्द्रुमस्य कल्पवृक्षस्य, पल्लवानि, आस्येन इन्दुमपि, एवं नीरधिमन्थोत्थं समुद्रनथनोद्भूतं, समुद्रमन्थनोत्थानि सर्वाण्येतानि वस्तूनि इत्यर्थः “नपुंसकमनपुंसकेनैकवच्चास्यान्यरस्याम्’ इति नपुसकत्वं वैकल्पिकमेकत्वञ्च स्वच्छन्दं निरवग्रहं यथेष्टमित्यर्थः, “स्व्च्छन्दो निरवग्रहः” इत्यमरः, स्मरतु । अत्र ?कविसम्मतसाटृश्यमूतिनिबन्धनात् स्मरणालङ्कारः ॥ 11.63 ॥
अन्वयः–सून्दरि, सः मन्दराद्रिः एतेन ते स्तनयुगेन सुरेभकुम्भौ, पाणिद्वयेन दिविषद्द्रुमपल्लवानि, आस्येन नीरधिमन्थनोत्थं स्वच्छम् इन्दुम् अपि सस्मरतु ॥ 11.63 ॥
वेदैर्वचोभिरखिलैः कृतकीर्त्तिरत्ने हेतुं विनैव घृतनित्यपरार्थयत्ने ॥
मीमांसयेव भगवत्यमृतांशुमौलौ तस्मिन् महोभुजि तयाऽनुमतिर्न भेजे ॥ 11.64 ॥
जीवातु–वेदैरिति । अखिलैः समस्तैः अन्यत्र-अखिलः अविच्छिन्नसम्प्रदायैः वेदैः वेदतुल्येः, वचोभिः
सत्पुरुवाक्यैः, अन्यत्र–“यतो वा’ इति वेदवाक्यैः, कृतं प्रकाशितम्, अन्यत्र,–प्रतिपादितं, कीर्त्तिरत्नम् धमूल्यरत्नरूपं यशः, अन्यत्र–स्तुतिरूपरत्नं यस्य तस्मिन्, हेतुं विनैव स्वोपकारमनपेक्ष्यैव, धृतः नित्यं सदा, परार्थयत्नः स्वयमवाप्तसकलकामत्वेन परार्थैकप्रवृत्तिः येन ताटृशे, तस्मिन् ज्योतिषमन्नाम्नि, कमहीभुजि तया भैभ्या, भगवति अमृतांशुमौलौ ईश्वरे मीमांसया पूर्वसमीमांसयेव, अनुमतिः अङ्गीकारः, न भेजे न प्राप्तः,
भजेः कर्मणि लिट्, वेदापौरुषेयवादिनी मीमांसा भगवन्तमीश्वरं न सहते । ईश्वरबोधकवेदवाक्यानाञ्च नेश्वरप्रामाण्यतात्पर्यकत्वं, परन्तु अन्यवाक्यैकवाक्यतया अन्यत्र तात्पर्यकत्वं, “यत्परः शब्दः स शब्दार्थः’ इत्याशयः । पूर्णोपमा ॥ 11.64 ॥
अन्वयः–अखिलैः वेदैः वचोभिः कृतकीर्त्तिरत्ने हेतु विना एव धृतनित्यपरार्थयत्ने तस्मिन् महीभुजि भगवति अमृतांशुमौलौ मीमांसया इव तया अनुमतिः न भेजे ॥ 11.64 ॥
तस्मादिमां नरपतेरपनीय तन्वीं राजन्यमन्यमथा जन्यजनः स निन्ये ॥
स्त्रीभावधावितपदामभिमृश्य याच्?ञामर्थी निवर्त्त्यविधनादिव वित्तवित्तम् ॥ 11.65 ॥
जीवातु–तस्मादिति । अथ अनन्तरं, जन्यजनः वाहकलोकः, स्त्रीभावेन स्त्रीलीलया “भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु’ इति वैजयन्ती, धावितपदां चालितचरणां, स्त्राजनोचितचरणचेष्टैव अन्यतो गमनमनुजानतीमित्यर्थः, अन्यत्र–स्त्रीभावे स्त्रीलिङ्गे, धावितं, पदं याच्ञति पदं यस्याःतां, “यज-याच-यत-विच्छ-प्रच्छ-रक्षो नङ्’ इति नङ्-प्रत्ययस्य यजादिभ्यः पुंसि प्रयोगे याचेरेव स्त्रीलिङ्गप्रयोगादिति भावः, तन्वीं कृशाङ्गीम्, इमां भैमीं तस्मात् नरपतेः अपनीय अर्थी याचकः, अभिमृश्य विमृश्य, चाच्ञाम् उक्तरूपां याच्ञावृर्त्ति, विधनात् निर्धनात् पुं सः, निवर्त्त्य वित्तेन धनेन, वित्तः प्रतीतः, विख्यात इति यावत्, ?“वित्तो भोगप्रत्ययोः’ इति विदेर्लाभार्थान्निष्ठानत्वाभावान्निपातनात् भोग्ये प्रतीते चार्थे उभयं साधु, भुज्यते इति भोगो धनादि प्रतीयते टृति प्रत्ययः ख्याति इति कर्मसाधावेत्तौ । तथाऽऽहुः"वेत्तेस्तु विदितो निष्ठा विद्यतोर्विन्न इष्यते । विन्तेर्विन्नश्च वित्तश्च भोगे वित्तश्च विन्दते ॥’ इति तं वित्तवित्तं धनाढ्यमिव, अन्यं रान्यं राज्ञोऽपत्यं, राजानमित्यर्थः, “राजश्वशुराद् यत्’ । राज्ञोऽपत्ये जातिग्रहणम्’ इति वचनात् राजन्यः क्षत्रियः । निन्ये । श्लेषोपमयोः संसृष्टिः ॥ 11.65 ॥
अन्वयः–अथ सः जन्यजनः स्त्रीभावधावितपदाम् इमां तन्वीं तस्मात् नरपतेः अपनीय अर्थी अगिमृश्य याव्ञां विधनात् निवर्त्त्य वित्तवित्तम् इव अन्यं राजन्यं निन्ये ॥ 11.65 ॥
देवी पवित्रितचतुर्भुजवामभागा वागालपत् पुनरिमां ?गरिमाभिरामाम् ॥
अस्यारिनिष्कृपकृपाणसनायपाणेः पाणिग्रहादनुगृहाण गणं गुणानाम् ॥ 11.66 ॥
जीवातु–देवीति । पवित्रितः चतुर्भुजस्य विष्णोः वामभागो यया सा, लक्ष्मीसरस्वत्यौ देवस्य दक्षिणवामपार्श्ववर्त्तिन्यावित्यागमः । वाक् देवी सरस्वती, गरिम्णा गुणगौरवेण, अन्यत्र–अर्थगौरवेण, अभिरामां गिरम् आलपत् उवाच । किमिति ? हे वत्से ! अरिषु निष्कृपः यः कृपाणाः खङ्गः, तेन सनाथः सहितः, पाणि यस्य तादृशस्य, अस्य राज्ञाः, गुणानां गणं पाणिग्रहात् अनु विवाहानन्तरं, गृहाण जानीहि, तदा ज्ञास्यसि महिमानमस्येत्यर्थः; यद्व-पाणिग्राहात् पाणिग्रहणं कृत्वा, अमुं नृपं वरीत्वा इत्यर्थः, अनुगृहाण समाद्रियस्व, गुणेषु आदरं प्रदर्शयेत्यर्थः ॥ 11.66 ॥
अन्वयः–पवित्रितचतुर्भुजवामभागा वाक्देवी इमां गरिमाभिरामां पुनः गिरम् आलपत्–अरिनिष्कृपकृपाणसनाथापाणेः अस्य गुणानां गणं पाणि ग्रहात् अनुनृहाण ॥ 11.66 ॥
द्वीपस्य शाल्मल इति प्रथितस्य नाथः पाथोधिना वलयितस्य सुरामृबुनाऽयम् ॥
अस्मिन् वपुष्मति न विस्मयसे गुणाब्धौ रक्ता तिलप्रसवनासिकि ! नासि किं वा ? ॥ 11.67 ॥
जीवातु-द्वीपस्येति । हे तिलप्रसवनासिकि ! तिलकुसुमसमानासिके ! “नासिकोदरौष्ठ–’ इत्यादिना विकल्पात्, ङीष्, अयं राजा, सुरा मद्यमेव, अम्बु यस्य ताटृशेन, पाथोधिना समुद्रेण, सुरासमुद्रेणेत्यर्थः, वलयितस्य सञ्जातवलस्य, वेष्ठिस्येत्यर्थः शाल्मल इति प्रथितस्य द्वीपस्य नाथः स्वामी; गुणाब्धो अस्मिन् वपुष्मति वपृष्मदाख्ये, अथ च प्रज्ञस्तशरीरशालिनि राज्ञि, किं न विस्मयसे ? अस्य गुणेषु किम् आश्चर्यान्विता
न भवसि ? रक्ता वा अनुरक्ता च, किं नासि ? उभयमप्युचितमिवेत्यर्थः ॥ 11.67 ॥
अन्वयः–सुराम्बुना पाथोधिना वलयितस्य “शाल्मलः’ इति प्रथितस्य द्वीपस्य अयं नाथः; तिलकप्रसवनासिकि, गुणाब्धो वपुष्मति अस्मिन् न विस्मयसे ? वा किं रक्ता न असि ? ॥ 11.67 ॥
विप्रे धयत्युदधिमे कतमं त्रसत्सु यस्तेषु पञ्चसु बिभाय न शीधुसिन्धुः ॥
तस्मिन्नेन च निजालिजनेन च त्वं सार्द्धं विधेहि मधुरा मधुपानकेलीः ॥ 11.68 ॥
जीवातु–विप्रे इति । शेरते अनेनेति शीधुः आसवः, “मैरेयमासवः शीधुः’ इत्यमरः । शीङो धुक्-प्रत्यय औणादिकः यः शीधुसिन्धुः आसवसमुद्रः, धयति पिबति सति, लटः शतृ प्रत्ययः, तेषु पञ्चसु दधिमण्डादिसुद्रेषु, त्रसत्सु अयमस्मानपि पास्यतीति मत्वा बिभ्यत्सु सत्सु, न बिभाय स्वयं न भीतः, “ब्राह्मणो न सुरां पिबेत्’ इति निषेधादिति भावः, तस्मिन् सुराब्धौ, अनेन राज्ञा च निजेन आलिजनेन च सार्द्धं मधुराः मनोहराः, मधुपानकेलीः मद्यपानक्रीडाः, विधेहि कुरु ॥ 11.68 ॥
अन्वयः–यः शीधसिन्धुः विप्रे एकतमम् उदधिं धयति तेषु पञ्चसु त्रसत्सु न बिभाय, तस्मिन् अनेन च निज्ञालिजनेन च सार्द्धं त्वं मधुराः मधुपानकेलीः विधेहि ॥ 11.68 ॥
द्रोणः स तत्र वितरिष्यति भाग्यलभ्यसौभाग्यकार्मणमयीमुपदां गिरिस्ते ॥
तद्द्वीपदीप इव दीप्तिभिरोषधीनां चूडामिलज्जलदकज्जलदर्शनीयः ॥ 11.69 ॥
जीवातु–द्रोण इति । तत्र शाल्मलिद्वीपे ओषधीनां तृणज्योतिषां, दीप्तिभिः तस्य द्वीपस्य दीप इव, स्थितः इति शेषः, अत एव चूडायां शिखरे, मिलदिभः सङ्गच्छमानैः, जलदैरेव कज्जलैः दर्शनीयः टृष्टिप्रियः, स प्रसिद्धः, द्रोणो द्रोणाख्यः गिरिः, ते तव, भार्ग्यरेव लभ्यं सौभाग्यं, तस्य कार्मणं मूलकर्म, ओषधीनां मूलैः साध्यं वशीकरणादिरूपं कर्म, मूलकर्म तु कार्मणम्’ इत्यमरः । तत्युक्तात् कर्मणोऽण् इति स्वार्थेऽण्-प्रत्ययः, तन्मयीं तद्रूपाम्, उपदाम् उपायनम्, “उपायनमुग्राह्ममुपहारस्तथापदा’ हत्यमरः । वितरिष्यति दास्यति; उपलक्षणमेतत्, सञ्जीवन्याद्यनेकदिव्यौषधिलाभस्ते भविष्यतीति भावः । अत्र कार्मणमयीमुपदामिति परिणामालङ्कारः, आरोप्यमाणो यदीयस्तद्विषयकार्मणाकारपरिणामेन प्रकृतप्रभुचित्तावर्जनोपयोगित्वात् आरोप्यमाणमारोपविषयात्मत्वेन स्थितम्; “प्रकृतस्योपयोगित्वे परिणामउदाहृतः’
इति लक्षणात्, अस्य च दीप इवत्प्रेक्षया संसृष्टिः, तस्यास्तु जलदकज्जलेति रूपकेण सङ्करः ॥ 11.69 ॥
अन्वयः–तत्र ओषधीनां दीप्तिभिः तद्द्वीपदीपः इव चूडामिलज्जलदकज्जलदर्शनीयः सः द्रोणः गिरिः ते भाग्यलभ्यसौभग्यकार्मणमयीम् उपदां वितरिष्यति ॥ 11.69 ॥
तद्द्वीपलक्ष्मपृथुशाल्मलितूलजालैःक्षोणीतले मृदुनि मारुतचारुकीर्णैः ॥
लीलाविहारसमये चरणार्पणानि योग्यानि ते सरससारसकोषमृद्वि ! ॥ 11.70 ॥
जीवातु–तद्द्वीपेति । सरसम् अभिनवं तत् सारसं पद्यं, तस्य कोषः मुकुलं, तद्वत् मृद्वी कोमला, तत्सम्बुद्धौ हे सरससारसकोषमृद्वि ! अभिनवकमलकोरककोमले ! मारुतेन चारु यथा कीर्णे, तद्द्वीपस्य लक्ष्म चिह्न, पृथुः महान्, यः शाल्मलिः तदाख्यया प्रसिद्धवृक्षविशेषः, “स्थिरायुः शाल्मलिर्द्वयोः’ इत्यमरः । तस्य तूलजालैः तूलसमूहैः, मृदुनि कोमले, क्षोणीतले ते तव, लीलाविहारसमये क्रीडासञ्चरणकाले, चरणार्पणानि पादविन्यासाः, योग्यानि अनुरूपाणि, भविष्यन्तीति शेषः, अतिकोमलायास्ते अतिकोमलस्थले एव गमनं युक्तं, तच्चातिश्लाध्यमिति भावः । अत्रानुरूपयोगोक्तेः समालङ्कारः, “सा समालङ्कृतिर्योगे वस्तुनोरनुरूपयोः’ इति लक्षणात् ॥ 11.70 ॥
अन्वयः–सरसारसकोषमृद्वि, मासरुतचारुकीर्णैः तद्द्वीपक्ष्मपृथुशाल्मलितूलजालैः मृदुनि क्षोणीतले लीलाविहारसमये ते चरणार्पणानि योग्यानि ( भवन्तु ) ॥ 11.70 ॥
एतद्गुणश्रवणकालविजृम्भमाणतल्लोचनाञ्चलनिकोचनसूचितस्य ॥
भावस्य चक्रुरुचितं शिविकाभृतस्ते तामेकतः क्षितिपतेरपरं नयन्तः ॥ 11.71 ॥
जीवातु–एतदिति । तां भैमीम्, एकतः, एकस्मात्, क्षितिपतेः अपरं क्षितिपतिं, नयन्तस्ते शिविकाभृतो जन्याः, एतस्य राज्ञः, गुणश्रवणकाले विजृम्भमाणायाः तस्याः दमयन्त्याः, लोचनाञ्चलस्य नेत्रप्रान्तस्य,
निकोचनेन सङ्कोचनेन, सूचितस्य ज्ञापितस्य, भावस्य अभिप्रायस्य, उचितम् अर्हं कृत्यं, चक्रुः, अपरागज्ञानानन्तरमपसरणमेव उचितमिति भावः ॥ 11.71 ॥
अन्वयः–ताम् एकतः क्षिपितेः अपरं नयन्तः ते शिविकाभृतः एतद्गुणश्रवणकालविजृम्भाणतल्लोचनाञ्चलनिकोचनसूचितस्य भावस्य उचितं चक्रुः ॥ 11.71 ॥
तां भारती पुनरभाषत नन्वमुष्मिन् काश्मीरपङ्कनिभलग्नजनानुरोगे ॥
श्री,ख्रण्डलेपमयदिग्जयकीर्त्तिराजिराद्भुजे भज महीभुजि भैमि ! भावम् ॥ 11.72 ॥
जीवातु–तामिति । भारती तां भैमीं, पुनरभाषत । किमिति ? ननु भैमि ! काश्मीरपङ्कनिभेन कुङ्कुमानुलेपनमिषेणेत्यपह्नवः, अग्नो जनानुरागो यस्मिन् तस्मिन्, श्रीखण्डलेपः चन्दनलेपनं, तन्मयीभिः दिग्जयकीर्त्तीनां राजिभिः राजन्तौ शोभमानौ, भुजौ यस्य तस्मिन्, अमुष्मिन् महीभुजि राज्ञि, भावम् अनुरागं, भज । अत्र श्रीखण्डलेपे कीर्त्तित्वोक्षा गम्या ॥ 11.72 ॥
अन्वयः–भारती तां पुनः अभाषत–ननु भैमि, काश्मीरपङ्गनिभलग्नजनानुरागे श्रीखण्डलेपमयदिग्जयकीर्त्तिराजिराजद्भुजे महीभुजे भावं भज ॥ 11.72 ॥
द्वीपं द्विपाधिपतिमन्दपदे ! प्रशास्ति प्लक्षोपलक्षितमयं क्षितिपस्तदस्य ॥
मेधातिथेस्त्वमुरसि स्फुर सृष्टसौख्या साक्षाद् यथैव कमला यमलार्जुनारेः ॥ 11.73 ॥
जीवातु–द्वीपमिति । द्विपाधिपतेः गजेन्द्रस्येव, मन्दम् अलसं, पदं गमनं यस्याः तस्याः समृबंद्धिः, अयं क्षितिपः प्लक्षेण प्लक्षवृक्षेण, उपलक्षितं चिह्न्रितं द्वीपं प्लक्षद्वीपं प्रशास्ति पालयति, तत् तस्मात्, मेधातिथेः, मेधातिथिनाम्नः, अस्य राज्ञः, उरसि सृष्टसौख्या जनितानन्दा सती, यमलयोः युग्मयोः, अर्जुनयोः ककुभवृक्षयोः, तद्रुपधारिणोः असुरयोरिति यावत्, अरेविष्णोः, उरसि साक्षात् कमला लक्ष्मीः, तद्रुपधारिणोः असुरयोरिति यावत्, अरेर्विष्णोः, उरसि साक्षात् कमला लक्ष्मीः, यथा तथैव स्फुर भाहि ॥ 11.73 ॥
अन्वयः–द्विपाधिपतिमन्दपदे, अयं क्षितिपः प्लक्षोपलक्षितं द्वीयं प्रशास्ति, तत् त्वम् अस्य मेधातिथेः उरसि यमलार्जुनारेः ( उरसि ) साक्षात् कमला यथा एव सृष्टसौख्या स्फुर ॥ 11.73 ॥
प्लक्षे महीयसि महीवलयातपत्रे तत्रेक्षिते खलु तवापि मतिर्भवित्री ॥
खेलां विधातुमधिशाखविलम्बिदो?ला?लोलाखिलाङ्गजनताजनितानुरागे ॥ 11.74 ॥
जीवातु-प्लक्ष इति । तत्र प्लक्षद्वीपे, अधिशाखं शाखायां , विलम्बिनीभिः दोलाभिः लोलानि अखिलानि समस्तानि, अङ्गानि यस्याः ताटृशी या जनता जनसमूहः, तया जनितोऽनुरागो यस्मिन् तस्मिन्, महीवलयस्यापत्रे छत्रख्पे, महीयसि महत्तरे, प्लक्षे? प्लक्षवृक्षे, ईक्षिते सति, तवापि खेलां दोलाक्रीडां, “क्रीडा खेला च कूर्दनम्’ इत्यमरः । विधातुं कर्त्तुं , मतिः इच्छा, भाविनी खलु परमीयविहारदर्शनात् स्वस्यापि तदभिलाषी भवतीति भावः ॥ 11.74 ॥
अन्वयः–तत्र अधिशाखविलाम्बिदोलालोखिलाङ्गजनताजनितानुरागे महीबलयातपत्रे महीयसि प्लक्षे ईक्षिते तव अपि खेलां विधातुं खलु मतिः भवित्री ॥ 11.74 ॥
पीत्वा तवाधरसुधां वसुधासुधांशुलर्न श्रद्दधातु रसमिक्षुरसोदवाराम् ॥
द्वोपस्य तस्य दधातां परिवेशवेशं सोऽयं चमत्कृतचकोरचलाचलाक्षि ! ॥ 11.75 ॥
जीवातु–पीत्वेति । हे चमत्कृतचकोरलाक्षि ! चकितचकोरचंचलनयने ! वसुधासुधांशुः भूचन्द्रः, सोऽयं मेधातिथिः, तव अधरसुधाम् अधरामृतं, पीत्वा तस्य द्वीपस्य परिवेशवेशं वेष्टनस्वरूपं, परिखाकारमित्यर्थः, “परिवेशो वेष्टने स्यात् परिधावपि पुंस्ययम्’ इति मेदनी, दधताम् इक्षुरसः एवोदक यस्य तस्य इक्षुरसाब्धेः, वारां वारीणां, रसं स्वादं, न श्रद्दधातु न अभिलषुतु “श्रद्वाऽऽस्तिक्याभिलाषयोः’ इसि वैजयन्ती । अमृतास्वादलोलुपस्य किमिक्षुरसगण्डूर्षरिति भावः । चकोरा एव चन्द्रस्य अमृतं विबन्ति, किन्तु चकोराक्ष्याः तव अधरामृर्तं भूचन्द्रोऽयं पिबति, अतः चमत्कृतपदस्य सार्थकता अवगन्तव्या इति निष्कर्षः ॥ 11.75 ॥
अन्वयः–चमत्कृचकोरचलाक्षि, सः अयं वसुधासुधांशुः तव अधरसुधां पीत्वा तस्य द्वीपस्य परिवेशवेशं दधताम् इक्षुरसोदवारां रसं न श्रद्दधातु ॥ 11.75 ॥
सूरं न सौर इव नेन्दुमवेक्ष्य ?तस्मिन् अश्नाति यस्तदितरत्रिदशानभिज्ञः ॥
तस्यैन्दवेस्य भवदास्यनिरीक्षयैव दर्शेऽश्नतोऽपि न भवत्ववकीर्णिभाः ॥ 11.76 ॥
जीवातु–सूरमिति । तस्मिन् प्लक्षद्वीपे, तस्मादिन्दोः, इतरेषां त्रिदशानाम् अनभिनः इन्दोरन्यं देवमभजमनानः, यः चन्द्रभक्तो जनः, सूरे भक्तिर्यस्य स सौरः सूर्यभक्तः, “भक्तिः’ इत्यण्, सूरं सूर्यवि, इन्दुं न अवेक्ष्य न टृष्ट्रवा, नाश्नाति न भुङ्क्ते तस्य ऐन्दवस्य इन्दुभकृतस्य, पूर्ववदण् प्रत्ययः, भवत्याः आस्यनिरीक्षयैव त्वन्मुखदर्शनेनैव, सर्वनाम्नो वृत्तिमात्रे पुवदभावः । दर्शे अमावास्याम्, अश्नतो भुञ्जानस्यापि, अवकीर्णिभावः क्षतव्रतत्वम्, “अवकीर्णी क्षतव्रतः’ इत्यमरः । न भवतु, त्वन्मुखस्येव मुख्येन्दुत्वात्तद्दर्शनादेव इन्द्रदर्शनव्रतिनां भोजनाधिकरसिद्धेः नास्ति च व्रतभङ्गदोष इति भावः । एतेन तन्मुखे मुख्येन्दुभ्रमात् भ्रान्तिमदलङ्कारो व्यज्यत इति वस्तुनाऽलङ्कारध्वनिः ॥ 11.76 ॥
अन्वयः–तस्मिन् सूरं सौरः इव इन्द्रु न अवीक्ष्य यः तदितरात्रिदशानभिज्ञः न अश्नाति, तस्य ऐन्दवस्य भवदासयनिरीक्षया सव दर्शे अश्नतः अपि अवकीर्णिभावः न भवतु ॥ 11.76 ॥
उत्सर्पिणी न किलतस्य तरङ्गिणी या त्वन्नेत्रयोरहह !! तत्र विपाशि जाता ॥
नीराजनाय नवनीरजराजिरास्तामत्राञ्जसाऽनुरज राजनि राजमाने ॥ 11.77 ॥
जीवातु–उत्सर्पिणीति । तस्य द्वीपस्य, या विपाट्–नाम्नी, तरङ्गिणी उत्सर्पिणी उत्सज्य सर्पिणी, उद्धतप्रवाहा इत्यर्थः, न किल, तत्र तस्याः; विपाशि विपाशायां नद्यां, “विपाशा तु विपाद् स्त्रियाम्’ इत्यमरः’ जाता नवा नीरजराजि पह्मपङ्क्तिः, त्वन्नेत्रयोः तव चक्षुषोः, नीरा जनायनिर्मञ्छनाय, आस्तां तिष्ठतु, अहह !! इत्यदभुते, विपाशायाम् उत्कटत रङ्गाभावात् पह्मानि सदा जायन्ते, अतः तव अक्षिपीराजनं सन्ततं भ विष्यति इति भावः अत एव राजमाने दीप्यमाने, अत्र अस्मिन् मेधातिथिनाम्नि राजनि अञ्जसा द्रुतम्, “स्त्राक् ह्मटित्यञ्जसाऽह्नाय द्राङ्मक्षुसपदि द्रुतम्’ इत्यमरः । अनुरज अनुरज्यस्व, रञ्जेर्भौवादिकाल्लाटि सिप् “रञ्जेश्च’ तत्युपधानकारस्य लोपः ॥ 11.77 ॥
अन्वयः–तस्य या तरिङ्गणी उत्सर्पिणी न अहह किल; तत्र विपाशि जाता नवनीरजराजिः त्वन्नेत्रयोः नीराजनाय अस्ताम्; राजमाने अत्र राजनि अञ्जसा अनुरज ॥ 11.77 ॥
एतद्यशोभिरखिलेऽम्बुनि सन्तु हंसाः दुग्धीकृते तदुभयव्यतिंभेदमुग्धाः ॥
क्षीरे पयस्यपि पदे द्वयवाचिभूयं नानार्थकोषविषयोऽद्य मृषोद्यमस्तु ॥ 11.78 ॥
जीवातु–एतदिति । एतस्य राज्ञः, यशोभिः अखिले अम्बुनि जले, दुग्धीकृते क्षीरीकृ सति, हंसाः तस्य उभयस्य दुग्धाम्बुद्वयस्य, व्यतिभेदे परस्परविवेकेः मुग्धाः मूढाः, सन्तु । किञ्च, क्षीरे पदे पयसि पदेऽपि, क्षीर-पयः पदयोर्विषये इत्यर्थः, नानार्थकोषस्य “क्षीरे नीरे च दुग्धे च’ “पयोऽम्भसि च दुग्धे च’ इत्यादिना अनेकार्थनिघण्टोः, विषयस्तत्प्रतिपाद्यभूतमित्यर्थः, द्वयवाचिभूयमर्थद्वयवाचकत्वं, “भुवो भावे’ इति क्यप् । अद्य तव परिग्रहादिति भावः, मृषोद्यं मिथ्योदितम्, अस्तु, सलिलस्यापि दुग्धभावेन द्वितीयार्थासम्भवादिति भावः । “राजसूयसूर्यमृषोद्य–’ इत्यादिना निपातनात् साधु । अत्राखिलेऽम्बुनि दुग्धीकृते इति सामान्श्यालङ्कारः, तदुपजीवनेन हंसानां क्षीरनीरविवेकसम्बन्धेऽपि क्षीरपयःपदयोरप्यर्थद्वयसम्बन्धे तत्सम्बन्धरूपातिशयो क्तद्वयोत्थापनात् सङ्करः ॥ 11.78 ॥
अन्वयः–एतद्यशोभिः अखिले अम्बुनि दुग्धीकृते हंसाः तदुभयव्यतिभेदमुग्धाः सनतु; नानार्थकोषविषयः क्षीरे पयसि अपि पदे द्वयवाचिभूयम् अद्य मृषोधम् अस्तु ॥ 11.78 ॥
ब्रूमः किमस्य नलमप्यलमाजुहूषोः कीर्त्ति स चैष समादिशतः स्म कर्त्तुंम् ॥
स्वद्वीपसोमसरिदीश्वरपूरपारवेलाबला क्रमणवि?क्रममक्रमेण ॥ 11.79 ॥
जीवातु–ब्रूम इति । नलं नैषधम् अपि, अलम् अत्यर्थम्, आजुहूषोः सम्पर्द्धमाह्वातुमिच्छोः, नलसमानगुणस्येत्यर्थ, ह्वयतेराङ्पूर्वात् स्पर्द्धायामात्मनेपदिनः सनन्तात् उप्रत्ययः, “न लोक–’ इत्यादिना षष्ठीप्रतिषेधान्नलम् इति कर्मणि द्वितीया अस्य मेधातिथेः, महात्म्यमिति शेषः किं ब्रू मः, ? वक्तुमशक्यमित्यर्थः,
तथा हि, स नलश्च, एष मेधातिथिश्च, अक्रमेण यौगपह्मेन, स्वद्वीपयोः, जम्बूप्लक्षद्वीपयोः, सीमनि
सरिदीश्वरपूरस्य अब्धिप्रवाहस्य, पारवेलायाः परतीरमर्यादायाः, बलेन आकमणमेव विकमं परक्रमं, कर्त्तु कीर्त्तिं
प्रयोज्यकर्त्रीं, समादिशतः स्म समादिष्टवन्तौ, द्वीपान्तरेषु अपि अनयोः कीर्त्तिसञ्चार इति भावः
॥ 11.79 ॥
अन्वयः–नलम् अपि अलम् आजुहूषोः अस्य किं ब्रूमः रसः एषः च अक्रमेण स्वद्वीपसीमसरिदीश्वरपूपारवेलाबलाक्रमणविक्रमं कर्त्तु कीर्त्ति समादिशतः स्म ॥ 11.79 ॥
अम्भोजगर्भरुचिराऽथ विदर्भसुभ्रूस्तं गर्भरूपमपि रूपजितत्रिलोकम् ॥
वैराग्यरूक्षमवलोकयति स्म भूपं दृष्टिः पुरत्रयरिपोरिव पुष्पचापम् ॥ 11.80 ॥
जीवातु–अम्भोजेति । अथ एतद्वाक्यश्रवणानन्तरम्‌, अम्भोजगर्भवत् रुचिरा रम्या, तद्वत् कोमलाकङ्गीत्यर्थः, विदर्भसुभ्रूः वैदमर्भी, प्रशस्तो गर्भो गर्भरूपस्तं पूर्ववयसं युवानमपीत्यर्थः, प्रशंसायां रूपप्, रूपजितत्रिलोकं रूपेण सोन्दर्येण, जितास्त्रयो लोका येन तं, पुष्पचापेऽपीदं योगज्यम्, तं भूपं मेधातिर्थि, पुष्पचापं कामं पुरत्रयरिपोः ईश्वरस्य, टृष्टिरिव वैराग्यरूक्षं वैराग्येण अपरागेण, रूक्षं परुषं यथा तथा, अवलोकयति स्म, अतिसुन्दरेऽपि तस्मिन् राज्ञि न अनुरक्ता अभूत् इति भावः ॥ 11.80 ॥
अन्वयः–अथ अम्भोजगर्भरुचिरा विदर्भसुभ्रूः गर्भरूपं रूपजितत्रिलोकम् अपि तं भपं पुरत्रयरिपोः टृष्टिः पुष्टिः पुष्पचापम् इव वैराग्यक्षम् अवलोकयति स्म ॥ 11.80 ॥
ते तां ततोऽपि चकृषुर्जगदेकदीपादंसस्थलस्थितसमानविमानदण्डाः ॥
चण्डद्युतेरुदयिनीमिव चनद्रलेखां सोत्कण्ठकैरववनीरुकृतप्ररोहाः ॥ 11.81 ॥
जीवातु-ते इति । अंसस्थलेषु स्कन्धेषु, स्थितः समानः एकरूपः, विमानदण्डो येषां ते समविभक्तभरा इत्यर्थः, ते धुर्याः, तां भैमीं, सोत्कण्ठायाः चप्द्रलेखोत्सुकायाः, कैराववन्याः, कुमुदिन्याः, सुकृतप्ररोहाः सौभाग्योन्मेषाः, उदयिनीम् उदयोन्मुखीं, चन्द्रलेखाम् अमावस्यायां सूर्यमण्डलप्रविष्टां चन्द्रकलां, शुक्लपक्षीयप्रतिपदादितिथिरूपामित्सर्थाः, जगदेकदीपात् तेजस्वितया जगतामद्वितीयप्रकाशकस्वरूपात्, चण्डद्युतेः सूर्यादिव, जगदेकदीपात्ततो मेधातिथेरिप, चकृषुः एव चन्द्रे सङ्कान्तया कुमुदानन्दकरत्वेन प्रसिद्धानि; तथा च वराहमितिरः-“यत्तेजः पितृधाम्निशीतमहमः पाथोमये मण्डले संक्रान्त कुमुदाकरस्य कुरुते काञ्चित् विकासश्रियम्’ इति ॥ 11.81 ॥
अन्वयः–अंसस्थलस्थितसमानविमानदण्डाः ते तां सोत्कण्ठकैरववनीसुकृतप्ररोहाः उदयिनीं चन्द्रलेक्षां जगदेकदीपात् चण्डद्युतेः इव ततः अपि चकृषुः ॥ 11.81 ॥
भूपेषु तेषु न मनागपि दत्तचित्ता विस्मेरया वचनदेवतया तयाऽथ ॥
वाणीगुणीदयतृणीकृतपाणिवीणानिक्वाणया पुनरभाणि मृगेक्षणा सा ॥ 11.82 ॥
जीवातु–भूपेष्विति । मृगेक्षणा सा भैमी, तेषु भूपेषु द्वीपाधिपतिषु, मनाक् ईषदपि, दत्तचित्ता अर्पितहृदया, आसक्तमानसा इत्यर्थः, न, जातेति शेषः, अथ अनन्तरं, दमयन्त्याः चित्तवृत्तिज्ञानानन्तरमित्यर्थः, विस्मेरया विस्मितया सहास्यया वा, “नमिकम्निप-’ इत्यादिना विपूर्वात् स्मिधातोः रप्रत्ययः, वाणीगुणोदयेन माधुर्यादिवाग्गुणप्रकर्षेण, तृणीकृतः तिरस्कृतः, पाणिवीणायाः हस्तस्थितविपञ्चयाः, निक्काणः ध्वनिः यया तया वीणाधिकमधुरभाषिण्या, वचनदेवतया वाग्देव्या, तया सरस्वत्या, पुनः अभाणि ॥ 11.82 ॥
अन्वयः–अथ तेषु भूपेषु मनाक् अपि न दत्तचित्ता सा मृगेक्षणा? विस्मेरया वाणीगुणोदयतृणीकृतपाणिवीणानिक्वाणया तया वचनदेवतया पुनः अभाणि ॥ 11.82 ॥
यन्मौलिरत्नमुदिताऽसि स एष जम्बूद्वीपस्त्वदर्थमिलितैर्युवभिर्विभाति ॥
दोलायितेन बहुना भवभीतिकम्प्रः कन्दर्पलोक इव खात्पतितस्त्रुटित्वा ॥ 11.83 ॥
जीवातु–यदिति । हे भैमि ! त्वं यस्य जम्बूद्वीपस्य, मौलिरत्नं भूत्वा उदिता उत्पन्ना, असि, स एष जम्बूद्वीपः, त्वदर्थं तुभ्यं, मिलितैः युवभिः हेतुभिः विभाति; क इव ? भवभीत्या रुद्रभयेन, कम्प्रः कम्पशीलःअत एव बहुना अनेकेन, प्रबलेनेत्यर्थः, दोलायितेन दोलनेन, त्रुटित्वा विच्छिद्य, खात् स्वर्गात्, “खमिन्द्रिये सुखे स्वर्गे शून्ये विन्दौ विहायसि’ इति विश्वः, पतितः कन्दर्पलोकः कामजगदिव, इत्युत्प्रेक्षा; विभातीत्यन्वयो वा ।
कम्प्र वस्तु बहुदोलनेन त्रुटितं शून्यमार्गात् पतति इति प्रसिद्धिः । सभास्थिताः सर्वे राजानः कन्दर्पतुल्या इति भावः ॥ 11.83 ॥
अन्वयः–यन्मौलिरत्नम् उदिता असि सः एषः अम्बूद्वीपः त्वदर्थमिलितैः युवभिः भवभीतिकम्पः बहुना दोलायितेन त्रुटित्वा खात् पतितः कन्दर्पलोकः इव विभाति ॥ 11.83 ॥
विष्वग्वृतः परिजनैरयमन्तरीपैस्तेषामधीश इव राजति राजपुत्रि ! ॥
हेमाद्रिणा कनकदण्डमयातपत्रः कैलासरश्मिचयामरचक्रचिह्नः ॥ 11.84 ॥
जीवातु–विष्वगिति । हे राजपुत्रि ! अन्तर्गताः आपः येषां तानि अन्तरीपाणि सिंहलद्वीपादीनि द्वीयापेऽस्त्रियायन्तरीपम्’ इत्यमरः । तैरेव परिजनैः विष्वक् समन्तात्, वृतः, तथा हेमाद्रिणा मेरुणा, कनकमयदण्डम्, आतपत्रं कनकमयमेवातत्रं यस्य सः, मेरोः शिरसि विशालत्वादन्यत्र तनुत्वाच्च एकस्यैव दण्डत्वेनातपत्रत्वेन च रूपणम्ः, तथा कैलासस्य रश्मिचय एव चामरचक्रं चामरजालं तदेव चिह्नं यस्य सः, अयं जम्बूद्वीपेः, तेषाम् अन्तरीपाणां सिहलादिद्वीपान्तराणामित्यर्थः, अधीश इव राजतीत्युत्प्रेक्षा; सुमेरुर्गिरिस्तस्य आतपत्रं कैलाशपर्वतस्तु चामरचरूपं राजचिह्नम्, अतो जम्बूद्वीपः नृपतिचिह्नवत्त्वात् राजा एव सिंहलद्वीपादयस्तु तस्य चतुर्दिक्षु भृत्या इव तिष्ठन्ति इति भावः॥ 11.84॥
अन्वयः–राजपुत्रि, अन्तरीपैः परिजनैः विष्वग्वतः हेमाद्रिणा कनकदण्डमयातपत्रः कैलासरश्मिचयचामरचक्रचिह्नः अयं तेषाम् अधीशः इव राजति ॥ 11.84 ॥
एतत्तरुस्तरुणि ! राजति राजजम्बूः स्थूलोपलानिव फलानि विमृष्य स्याः ॥
सिद्धस्त्रियः प्रियमिदं निगदन्ति दन्तियूथानि केन तरुपारुरुहुः पथेति ॥ 11.85 ॥
जीवातु–एतदिति । हे तरुणि ! एतस्य जम्बूद्वीपस्य, तरु चिह्नभूतोः वृक्षः, राजजम्बूः जम्बूविशेषः, “रांजजम्बूस्तु जम्बुभित्पिण्डखर्जुरयोः तरु चिह्नभूतो वृक्षः, राजजम्बुः जम्बूविशेषः, “रांजजम्बूस्तु जम्बूभित्पिण्डखर्जुरयोः स्त्रियाम्’ इति मेदिनी । राजति; सिद्धस्त्रिमयः यस्याः जम्बवाः, स्थुलोपलान् गण्डशैलानिव स्थितानि, फलानि दन्तियूथानि करिघटाः, विमृष्य विविच्य, केन पथा तरुं जम्बूवृक्षम्, आरुरुहुः? दन्तियूथानि इति शेषः इमि इदं वचः प्रियं स्वदयितं, निगदन्ति पृच्छन्ति, गजप्रमाणानि तत्फलानीति भावः । “व्रविशासिः–‘इत्यत्र ब्रुवेरर्थग्रहणात् गदेहिं कर्मकत्वम् । अत्र जम्बूफलेषु दन्तिभ्रमोक्त्या भ्रान्तिमदलङ्कारः ॥ 11.85 ॥
अन्वयः–तरुणि, एतत्-तरुः राजजम्बुः राजति, सिद्धस्त्रियः स्थूलोपलान् इव यस्याः फलानि विमृष्य प्रियम् इति इदं निगदन्ति–दन्तियूथानि केन यथा तरुम् आरुरुहुः ? ॥ 11.85 ॥
जाम्बूनदं जगति विश्रुतिमेति मृत्स्नाकृत्स्नाऽपि सातवरुचाविजितश्रि यस्याः ॥
तज्जाम्बवद्रवभवाऽस्यसुधाविधामृबुर्जम्बूः सरिद्वहति सीमनि कम्बुकण्ठि ! ॥ 11.86 ॥
जीवातु–जाम्बूनदमिति । कम्बोः शङ्खस्य, कण्ठ इव कण्ठः रेखात्रयविशिष्टग्रीवा यस्यास्तस्याः सम्बुद्धिः हे कम्बुकण्ठि ! हे रेखात्रयाञ्चितग्रीवे ! “रेखात्रयाञ्चितग्रीवा कम्बुग्रीवेति कथ्यते’ इति हलायुधः । “अङ्गात्रकण्ठ–’ इत्यादिना ङीष् । तेषां पूर्वोक्तानां, जाम्बवानां जम्बुफलानां, “अम्बूः स्त्री जम्बु जाम्बवम्’ हत्यमरः । “जम्ब्वा वा’ इति फलरूपार्थे अण्-प्रत्ययः, “लुप् च’ इति विकल्पादणो न लुष् । द्रवात् रसात् भवा उत्पन्ना, सुधायाः विधेव विधा प्रकारो येषां तानि सुधाविधानि सुधाप्रकाराणि, अम्बूनि यस्याः सा अमृतसटृशजला, जम्बूः जम्ब्माख्या, सरित् अस्य जम्बूद्वीपस्य सीमनि सीमाया, वहति प्रवहति; यस्याः जम्बुनद्याः, सम्बन्धिनी कृत्स्ना समस्ताऽपि, सा प्रसिद्धा, मृत्स्ना प्रशस्तमृत्तिका, “मृन्मृत्तिका प्रशस्ता तु मृत्सा मृत्स्ना च मृत्तिका’ इत्यमरः । “सस्नौ प्रशंसायाम्’ इति मृच्छब्दात्स्नप्रत्ययः । तव रुचा शरीरकान्त्या, विजितश्रि निर्जितशोभं, नपुंसके ह्रस्वः । जम्बूनद्यां भवं जम्बूनदं सुवर्णम्, इति जगति विश्रुतिं विख्यातिम्, एति । तथा च विष्णुपुराणं,–“तीरभूस्तत्र सम्प्राप्य शुद्धवातविशोधिता । जाम्बूनदाख्यं भवति सुवर्णं देवभूषणम् ।’ इति ॥ 11.86 ॥
अन्वयः–कम्बुकण्ठि, तज्जाम्बवद्रवभवा सुधाविधामृबुः, सा ज्म्बुः सरित् अस्य सीमनि वहति, यस्याः
कृत्स्ना अपि मृत्स्ना तव रुचा विजितश्रि जाम्बूनदं जगति विश्रुतिम् एति ॥ 11.86 ॥
तस्मिन् जयन्ति जगतीपतयः सहस्त्रमस्त्राश्रु सान्द्ररिपुतद्वनितेषु तेषु ॥
रम्भोरु ! चारुकतिचित्तव चित्तबन्धिरूपान्निरूपय मुदाऽहमुदाहरामि ॥ 11.87 ॥
जीवातु–तस्मिन्निति । रभ्ये कदलिस्तम्भाबिव ऊरू यस्याः सा रम्भोरूः “उरूत्तरपदादौपम्ये’
इत्यूङ्-प्रतययः । तस्याः सम्बुद्धिः, नदीह्रस्व । हे रम्भोरु ! तस्मिन् जम्बुद्वीपे, सहस्त्रं सहस्त्रसङ्ग्याकाः; बहुङ्ख्यका इत्यर्थः, जगतीपतयः भुपतयः, जयन्ति सर्वोत्कर्षेण वर्त्तन्ते, अस्त्रैः शोणितैः, अश्रुभिः बाष्पैश्च, यथासङ्ख्यं सान्द्राः सिक्ताः, रिपवः तद्वनिताश्च येषां तेषु हतारिषु इत्यर्थः, तेषु सर्वोत्कष्टेषु, भूपेषु मध्ये, तव चित्तबन्धि चित्तग्राहि, रूपं येषां तान् त्वन्मनोहारिसौन्दर्यान्, कतिचित् कांश्चित् भूपान्, अहम् उदाहरामि कथयामि, मुदा हर्शेण, चारु निरूपया सम्यगवाधारय ॥ 11.87 ॥
अन्वयः–तस्मिन् सहस्त्रं जगतीपतयः जयन्तिः रम्भोरु, अस्त्राश्रुसान्द्ररिपुवनितेषु तेषु तव चित्तबन्धिरूपन् कतिचित् चारु उदाहरामिद्व मुदा निरूपय ॥ 11.87 ॥
प्रत्यर्थियौवतवतंसतमालयालोन्मीलत्तमः प्रकरतस्करशौर्यसूर्ये ॥
अस्मिन्नवन्तिनृपतौ गुणसन्ततीनां विश्रान्तिधामनि मनो दमयन्ति ! किं ते ? ॥ 11.88 ॥
जीवातु–प्रत्यर्थीति । हे दमयन्ति ! प्रत्यर्थिनां प्रतिद्वन्द्विनृपाणांः, यौवतं युवतिसमूहः, भिक्षादित्वादण् प्रत्ययः । तस्य वतंसा; कर्णभूषणभूताः, तमालमालाः तमालदलसमूहाः एव, उन्मीलत्तमांसि उद्गच्छन्धकाराः,
तेषां प्रकरस्यसमूमहस्य, तस्करम् अपहारकं, शौर्यं शक्तिः एव सूर्यो यस्य, ताटृशशौर्यं सूर्य इव यस्येति वा ताटृशैः सूर्यो यथा अन्धकारम् अपनयति तथा एष नृपतिः शत्रुपत्नीनां वैधव्यसम्पादनेन कर्मभूषणभूततमालमालान् अपनयति इति भावः । गुणसन्ततीनां गुणसमूहानां, विश्रान्तिधामनि विश्रामस्थाने, अस्मिन् अवन्निनृपतौ अवन्निदेशाधिपे, ते मनः किम् ? वर्त्तते इति शेषः । अत्र ताटृशशौर्यसूर्ये इति रूपकोपमयोः सन्देहसङ्करः ॥ 11.88 ॥
अन्वयः–दमयन्ति, प्रत्यर्थियौवतवतंसतमालमालोन्मीलत्तमः प्रकरतस्करशौर्यसूर्ये गुणसन्ततनीनां विश्रान्तिधामनि अस्मिन् अवन्तिनृपतौ किं ते मनः ? ॥ 11.88 ॥
तत्रानुतीरपनवासितपस्विविप्रा सिप्रा तवोर्मिभुजया जलकेलिकाले ॥
अलिङ्गनानि दधीत भविता वयस्या हास्यानुबन्धरमणीयसरोरुहाऽऽस्या ॥ 11.89 ॥
जीवातु–तत्रेति । तत्र अविन्तदेशे, अनुतीरं तीरे, विभक्त्यर्थे ‘यस्य चायामः’ इति तद्दैध्यसटृध्यार्पेपलक्षितार्थकेनानुशब्देन वा अव्ययीभावः । यानि वनानि यावतीरमायतानीत्यर्थः, तद्वासिनस्तपस्विनो विप्रा यस्याः सा, सिप्रा नदी; तव जलकेलिकाले हास्यं विकासः स्मितञ्च, तदनुबन्धेन तद्योगेन, रमणीयं सरोरुहमेव आस्यं स्याः सा सती, ऊर्मिरेव भुजा यया आलिङ्गनानि दधती कुर्वती, वयस्या भविता सखी भवष्यिति । यथा सहास्यवदना सखी केलिसमये बाहुम्यां आलिङ्गति तथा सिप्राऽपि त्वाम् आलिङ्गिष्यति इति समासोक्तिरलङ्कारः ॥ 11.89 ॥
अन्वयः–तत्र अनुतीरवनवासितपसितपस्विविप्रा जलकेलिकाले हास्यानु बन्धरमणीयसरोरुहास्या ऊर्मिभुजया आलिङ्गनानि दधती तव वयस्या भविता ॥ 11.89 ॥
अस्याधिशय्य पुरमुज्जयिनां भवानी जागर्ति या सुभगयौब्रतमौलिमाला ॥
पत्याऽर्द्धंकायघटनाय मृगाक्षि ! तस्याः शिष्या भिविष्यसि चिरं वरिवस्ययाऽपि ॥ 11.90 ॥
जीवातु–अस्येति । भवस्य पत्नी भवानी पार्वती, “इन्द्रवरुणाभव–’ इत्यादिना ङीषु, आनुगागमश्च, अस्य अवन्तिनाथस्य, उज्जयिनीं पुरमधिशय्य अधिष्ठाय, “अयङ् यि किङ्ति’ इत्ययङ् आदेशः; “अधिशीङ्स्थासां कर्म’ इति अधिकरणस्य कर्मत्वम् । जागर्त्ति प्रकाशते, या भावनी, सुभगस्य पतिवत्लभस्य, यौवतस्य युवतिसूहस्य, मौलिमाला शिरोभूषणम् । हे मृगाक्षि ! पत्या भर्त्रा सह, अद्ध्रं कायस्यार्द्धंकायः, “अर्द्धं नपुंसकम्’ इति समासः । तस्य घटनाय एकीभावसम्पादनायेत्यर्थः, तस्या भवान्याः, चिरं वरिवस्यया परिचर्यया, “नमो वरिवा?श्चित्रङः क्यच्’ इति क्यच्-प्रत्ययः, ततः “अ प्रत्ययात्’ इति स्त्रियामकारप्रत्यये टाप् ।
शिष्याऽपि भवण्यसि, न केवलं पूर्वोक्तसिप्राविहारादिसम्पत्तिरेव, किन्तु सर्वसौभाग्यभूतं भवानीशिष्यत्वमपि ते भविष्यतीत्यर्थः, भवानीवत् पत्या सह तव क्षणमपि विरहो न भविष्यतीति भावः ॥ 11.90 ॥
अन्वयः-ममृगाक्षि, सुभगयौवतमौलिमाला या भवानी अस्य पुरम् उज्जयिनीम् अधिशय्य जागर्त्ति, पत्यार्द्धकायघटघटनाय चिरं वरिवस्या तस्याः शिष्या अपि भविष्यसि ॥ 11.90 ॥
निःशङ्कमङ्कुरिततां रतिवल्लभस्य देवः स्वचन्द्रकिरणामृतसेचने ॥
तत्रावलोक्य सुदृशां हृदयेषु रुद्रः तद्देहदाहफलमाप स किं न विह्मः ॥ 11.91 ॥
जीवातु–निःशङ्कमिति । तत्र उज्जयिन्यां, स रुद्रो महाकलनाथः, सुटृशं तत्रात्यानां स्त्रभ्णां, हृदयेषु अन्तःकरणेषु, स्वचन्द्रकिरणामृतसेचनेन निजचूडामणिभूतचन्द्रकिरणामृतवर्षणेन रतिवल्लभस्य कामस्य, निःशङ्कं निर्भयं तथा तथा, अङ्कुरिततां सञ्जाताङ्कुरत्वं, पुनरुत्पत्वमिति यावत् चन्द्रभासां स्मरोद्दीपकत्वादिति भावः, अवलोक्य तद्देहदाहस्य स्वकृतस्य कामदेहदाहस्य किं फलम्. आप प्राप ? न विह्मः, स्वदग्धस्य कामस्य स्वशिरश्चन्द्रिकासेकादेव दग्धबदरादिवत् पुनः सहस्त्रधा प्रादुर्भावात् स्वप्रयासस्य किं साफल्यं प्राप्तवान् ? न किमपीत्यर्थः । “आप’ इत्यत्र “आह’ इति पाठान्तरम्, ताटृशप्रयासस्य किं प्रयोजनं ब्रू ते ? इति तदर्थः । विषमालङ्कारः ॥ 11.91 ॥
अन्वयः–तत्र सः रुद्रः सुटृशां हृदयेषु स्वचन्द्रकिरणामृतसेचनेन रतिवल्लभस्य निःशङ्कम् अङ्कुरितताम् अवलोक्य किं तद्देहदाहफलम् आप न विह्मः ॥ 11.91 ॥
आगःशतं विदधतोऽपि समिद्धकामा नाधीयते परुषमक्षरमस्य वामाः ॥
चान्द्री न तत्र हरमौलिशयालुरेका नाध्यायहेतुतिथिकेतुरपैति लेखा ॥ 11.92 ॥
जीवातु–आग इति । समिद्धकामाः नित्यप्रदीप्तमन्मथाः, वक्रशीला अपि स्त्रियः, “प्रतिपदर्शिनी वामा’ इत्यमरः, आगसाम्, अपराधानां, शतं विदधतः कुर्वाणस्यापि, अस्य राज्ञः सम्बन्धे, परुषमक्षरं निष्ठुरवाक्यं, नाधीयते न पठन्ति न जल्पन्तीत्यर्थः, अत्रानध्याये हेतुमाह–तत्रोज्जयिन्यां, नाध्यायहेतुतिथेः, अनध्यायहेतुतिथेः प्रतिपदः, केतुश्चिह्निभूता, हरमौलौ शयालुः स्थायुका, “स्पृहि-गृहि-प्रति–“इत्यादौ आलुविधायकसूत्रे “शीङो वाच्चः’ इति वार्त्तिकात् आलुच् । एका चान्द्री लेषा शुल्कप्रातिपस्वरूपेत्यर्थः, नापैति, तत्र हरस्य नित्यस्थित्या तदीयशिरोगतैकेन्द्रकलानित्ययोगात् सर्वसामपि तिथीनां शुल्कप्रपिद्बुद्ध्या परुषाक्षरश्रुतीनां नित्यानध्याय इत्यर्थः, तत्र नित्यसन्निहितहरशिरश्चन्द्रिकोद्दीपित मन्मथाग्निकतया खण्डितादयोऽपि नायिकाः शतशोऽपराध्यन्तम् अपि एनं परुषम् आभाषितुं नोत्सहन्ते इति भावः । “प्रतिपत्पाठशीलानां विद्येव तनुतां गता’ इति वचनात् प्रतिपदि पाठनिषेधात् तत्र च नगर्यां प्रत्यहं हरशिर. स्थितैकचन्द्रकलया प्रतिपद्बुद्ध्या स्त्रियः भर्त्तु समीपे श्रुतिपरुषाक्षरपाठं न कुर्वन्ति इति निष्कर्षः
॥ 11.92 ॥
अन्वयः–समिद्धकामाः वामाः आगःशतं विदधतः अपि अस्य परुषम् अक्षरं न अधीयते, तत्र नाध्यायहेतुतिथिकेतुःहरमौलिशयालुः एका चान्द्री लेखा न अपैति ॥ 11.92 ॥
भूपं व्यलोकत न दूरतरानु रक्तं सा कुण्डिनावनिपुन्दरनन्दना तम् ॥
अन्यानुरागविरसेनविलोकनाद्वा जानामि सम्यागविलोकनमेव रम्यम् ॥ 11.93 ॥
जीवातु–भूपमिति । कुण्डिनावनिपुरन्दरस्य कुण्डिनभूमीन्द्रस्य भीमभूपस्य, नन्दना दुहिता, नन्द्यादित्वात् ल्युट्प्रत्यये टाप् । सा दमयन्ती, दूरतरानुरक्तम् अत्यनुरागिणमपि, तं भूपं न व्यलोकत नैक्षत, अत्रैतदेव वरमित्याह–वा अथवा, अन्यानुरागात् अन्यस्मिन् नले अलुरक्तत्वात्, विरसेन विरागेण, अश्रद्धयेर्त्यः, विलोकनात्, विलोकनमपेक्ष्य दर्शनापेक्षयेत्यर्थः, यवर्थे पञ्चमी, सम्यक् सर्वथा, अविलोकनमेव अदर्शनमेव, रम्यं श्रे ष्ठे, समीचीनमित्यसर्थः, इति जानामि ॥ 11.93 ॥
अन्वयः– सा कुण्डिनावनिपुरन्दरनन्दना दूरतरानुरक्तं तं भूपं न व्यलोकयत, वा अन्यानुरागविरसेन विलोकनात् सम्यक् अविलोकनम् एव रम्यं जानामि ॥ 11.93 ॥
भैमीङ्गितानि शिवकामधरे वहन्तः साक्षान्न यद्यपि कथञ्चन जानते स्म ॥
जज्ञुस्तथाऽपि सविधास्थितसम्मुखीनभूपालभूषणणिप्रतिबिम्बितेन ॥ 11.94 ॥
जीवातु–भैमीति । शिविकामधरे अधरप्रदेशे, वहन्तो वोढारः, भैमीङ्गितानि भैमीचेष्टितानि, यद्यपि कथञ्चन कथञ्चिदपि, साक्षात् प्रत्यक्षं, न जानते स्म न अजानन्त, तथाऽपि सविधे स्थितेषु, सम्मुखं टृश्यते एष्विति सम्मुखीनेषु सामुख्येन प्रतिबिम्बग्राहिष्वित्यर्थः, “यथासुखमम्मुखस्य दर्शनः खः’ इति खप्रत्यः, भूपालस्यावन्तिराजस्य, भूषणमणिषु प्रतिबिम्बितेन भैमीप्रतिबिम्बेन हेतुना, जज्ञुः भैमीङ्गितानि अज्ञासिषुः ऊहितवन्त इति यावत् । जनातेर्लिट् ॥ 11.94 ॥
अन्वयः–अधरे शिविकां वहन्तुः भैमीङ्गितानि यद्यपि साक्षात् कथंचन न जानते स्म,तथापि सविधस्थितसम्मुखीनभूपालभूषणमणिप्रतिबिम्बितेन जज्ञुः ॥ 11.94 ॥
भैमीमवापयत जन्यजनस्तदन्यं गंगामिव क्षितितलं रधुवंशदीपः ॥
गाङ्गेयपीतकुचकुम्भयुगाञ्च हारचूडासमागमवशेन विभूषिताञ्च ॥ 11.95 ॥
जीवातु–भैमीमिति । जन्यजनो वाहकजनः, गाङ्गेयं हेमं, तद्वत् पीतं गौरवर्णम्, अन्यत्र-गाङ्गेयेन भीष्मेण पीतं पुत्रत्वात् पानकर्मीभूतं, “कशेरुहेम्नोर्गाङ्गेयं गाङ्गेयो गुहभीष्मयोः’ इति वैजयन्ती । “पीतः स्यात् पीतगौरयोः’ इति विश्वः । कुचकुम्भयुगं यस्याः तां, च तथा, हाराः मुक्ताहाराः, चूडा बाहुविभूषणाः, “चूडा बाहुविभुषणे’ इति विश्वः । अन्यत्र–हरस्येयं हारी, चूडा शिखा हारचूडा महादेवशिरोभगाः, “पुंवत् कर्मधारयजातीयदेशीयेषु’ इति पुंवदभावः, तत्सामगमवशेन तदवस्थितिवशेन, विभुषिताञ्च भैमीं रघुवंशदीपो भागीरथः, गङ्गां भागीरथीं, क्षितितलमिव तत् ततः, अन्यं नृन्यं नृपम्, अवापयत निनाय, अवपूर्वकात् आप्नोतर्ण्यन्ताल्लङि “णिचश्च’ इति तङ् । उपमालङ्कारः ॥ 11.95 ॥
अन्वयः–जन्यजनः गाङ्गेयपीतकुचम्भ्युगां हारचूडासमागमवशेन विभूषितां च गङ्गां रघुवंशदीपः इव भैमीं तदन्यं क्षितितलम् अवापयत ॥ 11.95 ॥
तां मत्स्यलाञ्छनदरा?ञ्चितचापभासा नीराजितभ्रुवमभाषत भाषितेशा ॥
व्रीडाजडे ! किमपि रूपय चेतसा चेत् क्रीडारसं वहसि गौडविहोजसीड ॥ 11.96 ॥
जीवातु–तामिति । भाषितानां वाचाम्, ईशा अधिष्ठात्री, वाग्देवता सरस्वती, मत्स्यलाञ्छनस्य कामस्य, दराञ्चितस्य ईषदाकुञ्चितस्य, चापस्य भासा कान्त्या, नीराजिते निर्मञ्छिते, दरपेक्षयोत्कृष्टे इति भावः, भ्र वौ यस्याः ताटृशं, तां भैमीम्, अभाषत, किमिति ? व्रीडाजडे ! हे लज्जाऽलसे ! इह गौडविडोजसि गोडदेवेन्द्रे गौडदेशाधिपे इत्यर्थः, चेतसा क्रीडारसं क्रीडारागं, वहसि चेत् तदा किमपि रूपय साक्षात् वक्तुमशक्यत्वेऽपि किञ्चित् इङ्गितादिकं सूचय । अत्र स्मरचाभासा नीराजितत्वेन भ्रु वोस्तदपेक्षया आधिक्यवर्णनात् व्यतिरेकालाङ्कारः ॥ 11.96 ॥
अन्वयः–भागषितेशा मत्स्यलाञ्छनदराञ्चितचापभासा नीराजितभ्रु वं ताम् अभाषत–व्रीडाजडे, इह गौडविडौजसि वेतसा ?क्रीडारसं वहसि चेत् किम् अपि रूपय ॥ 11.96 ॥
एतद्यशोभिरमलानि कुलानि भासां तथ्यं तुषारकिरणस्य तृणीकृतानि ॥
स्थाने ततो वसति तत्र सुधाम्बुसिन्धौ रङ्कुस्तदङ्कुरवनीकवला भलाषात् ॥ 11.97 ॥
जीवातु–एतदिति । एतस्य राज्ञः, यशोभिः तुषारकिरणस्य इन्दोः, अमलानि भासा कुलानि कान्तिवृन्दानि, तृणीकृतानि तृणत्व प्रापितानि, नैर्मल्यगुणेन तुच्छीकृतानि इत्यर्थः, तथ्यं सत्यम्; ततः तृणीकरणादेव, रङ्कु अङ्कमृगः, तदङ्कुरवनीकवलेषु तथाभूततृणाङ्कुरसमूहग्रासेषु, अभिलाषात्, तेषां कान्तिरूपतृणानाम्, अङ्कुराः प्ररोहाः वनी च जलञ्च, तत्कवले तृणजलग्रासे, अभिलाषादिति वाऽर्थः, वनीत्यत्र गोरादित्वात् ङीष् । “वनं नपुंसकं नीरे निवासालयकानने’ इति मेदिनी । सुधाम्बुसिन्धौ सुधाम्बुनः अमृतरूपजलस्य, सिन्धौ समुद्रे, तदाश्रये इत्यर्थः, तत्र इन्दौ, वसतीति स्थाने युक्तं, “युवक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः । तृणोदकसम्पन्नस्थले मृगास्तिष्ठन्तीति । उत्प्रेक्षा ॥ 11.97 ॥
अन्वयः–एतद्यशोभिः तुषारकिरणस्य भासाम् अमलानि कुलानि तृणीकृतानि–तथ्यम्; ततः रङ्कुः तदङ्कुरवनीकवलाभिलाषात् सुधाम्बुसिन्धौ तत्र स्थाने वसति ॥ 11.97 ॥
आलिङ्गितः कमलवत्करकस्त्वयाऽयं श्यामः सुमेरुशिखयेव नवः पयोदः ॥
कन्दर्पमूर्द्धरुहमण्डनचम्पकस्त्रग्दामत्वदङ्गरुचिकञ्चुकितश्चकास्तु ॥ 11.98 ॥
जीवातु–आलिङ्गित इति । कमलवन्तौ सौभाग्यसूचकपह्मरेखायुक्तौ, करौ पाणी यस्य सः, शैषिकः कप् । अन्यत्र–कमलवन्तो जलवन्तः, तदारब्धाः इति यावत्, करकाः वर्षोपला यस्मिन् सः, “सलिलं कमलं जलम्’ हत्यमरः । श्यामः उभयत्र–श्यामवर्णः, नवः नूतनः, पयोदः सुमेरोः शिखया शृङ्गेणेव, अयं गौडनृपः, त्वया आलिङ्गितः सन् कन्दर्पस्य मूर्द्धंरुहाणां केशानां, मण्डनं यच्चम्पकस्त्रग्दाम म्पकपुष्पमाल्यं, तदिव यत् त्वदङ्गं तस्य रुच्या कान्त्या, कञ्चुकितः आवृतः, सम्मीलित इत्यर्थः, पयोदपक्षे-चम्पकस्त्रग्दामसटृशस्य त्वदङ्गस्य रुचिरिव रुचियंस्याः, ताटृशया सुमेरुशिखयेत्यर्थः, कञ्चुकितः सम्मिश्रितः, चकास्तु प्रेकाशतु, दीप्यतामित्यर्थः; श्यामवर्णः नवीनो मेघो यथा सौवर्णं सुमेरुगिरिं प्राप्य शोभते, तथा श्यामवर्णः अयं नृपतिः सुवर्णचम्पकगौरीं त्वां स्वीकृत्य शोभितो भविष्यति इति भावः ॥ 11.98 ॥
अन्वयः–कमलवत्करकः श्यामः नवः पयोदः अयं सुमेरुशिखया इव त्वया आलिङ्गितः कन्दर्पमूर्द्धरुहमण्डनचम्पकस्त्रग्दाङृगरुचिकञ्चुकितः चकास्तु ॥ 11.98 ॥
एतेन सम्मुखमिलकत्करिकुम्भमुक्ताः कौक्षेयकाभिहतिभिर्विबभुर्विमुक्ताः ॥
एतद्भुजोष्मभृशनिःसहया विकीर्णाः प्रस्वेदबिन्दव इवारिनलेन्द्रलक्ष्म्या ॥ 11.99 ॥
जीवातु–ऐतेनेति । एतेन राज्ञा, कौक्षेयकाभिहतिभिः आसघातैः “कुलकुक्षि-ग्रीवाभ्यः श्वाऽस्यलङ्कारेषु’ इति अभिरूपेऽर्थे कुक्षिशब्दात् ढकञ्-प्रत्ययः । विमुक्ताः कुमृभस्थेभ्यः भूमौ विक्षिप्ताः, सन्मुखं यथा तथा मिलतां सङ्गच्छमानानां, युद्धार्थं सम्मुख्चागतानामित्यसर्थः, करिणां गजतानां, कुम्भेषु मुक्ताः कुम्भस्थलस्थमौ क्तिकानि, एतस्य राज्ञः, भुजोष्मणो भुजप्रतापस्य, भृशं निः न, “निर्निश्चयनिषेधयोः’ इति वररुचिः । सहते इति निःसहा असहा, पचाद्यच् । तया सोढुमशक्यया, भुजोष्मसन्तप्तयेत्यर्थः, अरिनरेन्द्राणां लक्ष्म्या विकीर्णा विसृष्टाः, प्रस्वेदबिन्दव इव विबभुरित्युत्प्रेक्षा ॥ 11.99 ॥
अन्वयः–एतेन कौक्षेयकाभिहतिभिः विमुक्ताः सम्मुखमिलत्करिकुम्भुक्ताः एतद्भुजोष्मभृशनिः सहया अरिनरेन्द्रलक्ष्म्या विकीर्णाः प्रस्वेदबिन्दवः इव विबभुः ॥ 11.99 ॥
आश्चर्यमस्य ककुभामवधीनवापदाजानुगादभजयुगादुदितः प्रतापः ॥
व्यापत्सदाशयविसारितसप्तन्तुजन्मा चतुर्दश्या जगन्ति यशःपटश्च ॥ 11.100 ॥
जीवातु–आश्चर्यमिति । अस्य राज्ञः, आ-जानु जानुपर्यन्तं गच्छतीति तस्मात् आ-जानुगात् जानुमात्रलम्बिनः इत्यर्थः, अत्यल्पदूरप्रसारिणोऽपीति भावः, भुजयुगात् उदितः उत्थितः, प्रतापः ककुभाम् अवधीन् दिगनतान्, अवापत् प्राप, एतत् आश्चर्यं, किञ्च सता शुद्धेन, आशयेन वित्तेन, विमारितेभ्योऽनुष्ठितेभ्यः इत्यर्थः, सप्ततन्तुभ्यः क्रतुभ्यः “सप्ततन्तुर्मखः क्रतुः’ इत्यमरः । अन्यत्र–सदा सर्वदा, शयेन पाणिना, विसारितेभ्यः प्रसारितेभ्यः, सप्तभ्यः तन्तुभ्यः सूत्रेभ्यः, उपादानकारणेभ्यः इत्यर्थः, जन्म यस्य सः यशःपटश्च चतुर्दश जगन्ति व्यापत् व्यानशे इति च आश्चर्यम्; क्रत्वनुष्ठानं दिगन्तविश्रान्तकीर्त्तिः सम्पत्तिश्च आ-जानुबाहुत्वस्य फलमिति भावः । अत्रात्यत्यादूरगामिनः भुजयुगरूपात् कारणात् अतिदूरगामिप्रतापस्य तथा सप्ततन्तुरूपल्पकारणाच्चतुर्दशभुवनव्यापि यशःपटस्य चोत्पत्त्या विरुद्धकार्योत्पत्तिलक्षणो विषमालङकार ॥ 11.100 ॥
अन्वयः–अस्य आजानुगात् भुजयुगात् उदितः प्रतापः ककुभाम् अवधीन् अवापत् सदाशयविसारितसप्ततन्तुजन्मा यशःपटश्च चतुर्दश जगन्ति व्यापत्आश्चर्यम् ॥ 11.100 ॥
औदास्यसंविदवलम्बितशून्यमुद्रामस्मिन् दृशोर्निपतितामवगम्य भैम्याः ॥
स्वेनैवजन्यजनताऽन्यमजीगमत्तां सुज्ञं प्रतीङ्गिविभातविभावनमेव वाचः ॥ 11.101 ॥
जीवातु–औदास्येति । जनीं वधुं वहन्तीति जन्याः, ता जनता जनसमूहश्च षष्ठीसमासे असामर्थ्यात्तदन्तविध्यभावाच्च विशेषणसमासः । अस्मिन् गौडभूपे, निपतितां भैम्या दृशोः चक्षुषोः सम्बन्धिनीम्, उदास्ते इत्युदासा पचाद्यच्, स्त्रियां टाप् तस्या भाव औदास्यमौदासीन्यं, ब्राह्मणादेः आकृतिगणत्वात् ष्यङ् ।
औदास्यसंविदाऽपेक्षाबुद्ध्या अवलम्बितां शून्यमुद्रां निःस्पृहावस्थानत्वम्, अवगम्य स्वेनैव स्वत एव, वाचं विनैव इत्यर्थः, तां भैमीम् अन्यं नृपम्, अजीगमत् गमितवती, गमेर्णौ चङ्, तथा हि, सुज्ञं विज्ञं, प्रति इतिङ्गतविभावनं नेत्रादिचालनाविशेषणं हृद्गतभावप्रकटनमेव, वाचः आदेशवाक्यानि, प्रेरणानि इत्यर्थः, स्वामिङिगतज्ञस्य हि किं तद्वाग्भिरिति भावः । अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥11.101 ॥
अन्वयः–जन्यजनता अस्मिन् निपतितां भैम्याः टृशोः औदास्यसंविदवलम्बितशून्यमुद्राम् अवगम्य स्वेन एव ताम् अन्यम् अजीगमत्–सुज्ञं प्रति इङ्गितभावनम् एव वाचः ॥ 11.101 ॥
एतां कुमारनिपुणां पुनरुप्यभाणीत् वाणी सरोजमुखि ! निर्भरमारभस्व ॥
अस्मिन्नसङ्कुचितपङ्कजसख्यशिक्षानिष्णातदृष्टिपरिरम्भविजृम्भितानि ॥ 11.102 ॥
जीवातु–एतामिति । वाणी वाग्देवी, कुमारी च सा निपुणा चेति तां कुमारनिपुणां कुमारीत्वेऽपि नल-तदितरयोः वैशिष्ट्याभिज्ञामिति भावः, “कुमारः श्रमणादिभिः’ इति समासः । “स्त्रियाः पुंवत्–’ इत्यादिना पुंवदभावः । अथवा-कोः पृथिव्याः, मारे कन्दर्पभूते नले इत्यर्थः, निपुणाम् आसक्ताम्, एतां भैमीं, पुनरप्यभाणीत् अवोचत्; हे सरोतमुखि ! अस्मिन् नृपे, असङ्कुचितेन विकसितेन, पंङ्कजेन सह सख्यशिक्षायां मैत्रीकरणे, निष्णातया कुशलया, तत्सटृशया इत्यर्थः “निनदीभ्यां स्नातेः कौशले’ इति षत्वम् । टृष्ट्या परिरम्भ?विजृम्भितानि आलिङ्गनचेष्टितानि, निर्भरं गाढम्, आरभस्व कुरु, एनं पश्येत्यरूर्थः
॥ 11.102 ॥
अन्वयः–वाणी एण्तां कुमारनिपुणां पुनः अपि अभाणीत्–सरोजमुखि अस्मिन् असङ्कुचितपङ्कजसख्याशिक्षाष्णिपरिरम्भविजृम्भितानि निर्भरम् आरभस्व ॥ 11.102 ॥
प्रत्यर्थपार्थवपयोनिधिमाथमन्थपृथपृथ्वाधरः पृथुरयं मथुराऽधिनाथः ॥
अश्मश्रुजातमनुयाति न शर्वरीशः श्यामाङ्कर्बुरवपुर्वदनाब्जमस्य ॥ 11.103 ॥
जीवातु–प्रत्यर्थीति । प्रत्यर्थपार्थिवपयोनिधिमाथे वैरिभूपाब्धिमन्थने, मन्थपृथ्वीधरो मन्थाचलः मन्दरः, अतिवीर इत्यर्थः, पृथुमहान् अयं पुरोवर्त्ती नृपः, मथुराऽधिनाथो मथुरानगरीशः, जातं श्मश्रु अस्य इति श्मश्रुजातं, तन्न भवतीति अश्मश्रुजातम् आहिताग्न्यादित्वान्निष्ठायाः परनिपातः । अनुत्पन्नश्मश्रु, अस्य राज्ञः, वदनाब्जतं मुखपह्मं , श्यामेन अङ्केन कलङ्केन, कर्बु रवपुः शवलाङ्ः, शर्वरीशः चन्द्रः, नानुयाति नानुकरोति, सकलङ्कनिष्कलङ्कयोः कुतः साम्यमिति भावः । अश्मश्रुजातम् इति वयःसन्धौ वर्त्तमानः एष तव वरणयोग्य इति तात्पर्यम् ॥ 11.103 ॥
अन्वयः–प्रत्यर्थिपार्थिवपयोनिधिमाथमन्थपृथ्वीधरः अय पृथुः मथुराऽधिनाथः, अस्य अश्मश्रुजातं वदनाब्जं पुनः श्यामाङ्ककर्बुरवपुः शर्वरीशः न अनुयाति ॥ 11.103 ॥
बाले ! ऽधराधरितनैकविधप्रबाले ! पाणौ जगद्विजयकार्मणमस्य पश्य ॥
ज्याऽऽघातजेन रिपुराजकधूमकेतुतारायमाणमुपरज्य मर्णि किणेन ॥ 11.104 ॥
जीवातु–बाले इति । अधरेण ओष्ठेन, अधरिता अधरीकृता, नैकविधा अनेकविधाः, नञ्समासः, प्रवालाः विद्रुमपल्लवरूपाः यया सा तथाविधे ! हे बाले ! अस्य मथुरेश्वनरस्य, पाणौ जगद्विजयस्य कार्मणं वशीकरणौषधं ज्याऽऽघातजेन किणेन ग्रन्थिना उपरज्य उपरागं प्राप्य, श्यामवर्णतां प्राप्येत्यर्थः, स्थितमिति शेषः, रिपोः शत्रुभूतस्य, राजकस्य राजसमूहस्य, घूमकेतुतारायमाणं धूमकेत्वाख्यनक्षत्रवदाचरन्तं, राजक्षयकारकत्वात् तद्वद्रुपन्लवायमानमित्यर्थः, आचारे क्यङन्ताल्लटः शानच्, मणिं कङ्कणमाणिक्यं, पश्य
॥ 11.104 ॥
अन्वयः-अधराधरितनैकविधप्रवाले बाले, अस्य पाणौ जगद्विजयकार्मणं ज्याघातेजेन किणेन उपरज्य रिपुराजकधूमकेतुतारायमाणं मर्णि पश्य ॥ 11.104 ॥
एतद्भुजारणिसमुदभवविक्रमाग्निचिह्नं धनुर्गुणकिणः खलु धूमलेखा ॥
जातं ययाऽरिपरिषन्मशकर्थयाऽश्रुविस्त्रावणाय रिपुदारदृगम्बुजेभ्यः ॥ 11.105 ॥
जीवातु–एतदिति । एतस्य राज्ञः, भुजाया एव अरणेः निर्मन्थ्यकाष्ठात्, “निर्मन्थ्यदारुणि ?त्वरणिर्द्वयः’
इत्यमरः । समुदभवस्य समुत्पन्नस्य, विक्रमाग्ने विह्नमनुमापकं लिङ्गं, धनुर्गुणकिणो ज्याऽऽघातरेखा, धूमलेखा खलुनिश्चये; अरिपरिषदः अरिसङ्घाः, ता एव मशकस्तदर्थया तन्निवृत्त्यर्थया, “अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु’ इत्यमरः । अर्थेन सह नित्यसमासः सर्वलिङृगता च वक्तव्या । यया घूमलेखया, जातम्; घूमोत्पीडनादश्रु स्रावो जायते; अयं शत्रुघाती बलवांश्चेति भावः । अत्र रूपकालङ्कारः
॥ 11.105 ॥
अन्वयः–धनुर्गुणकिणः एतद्भुजातरणिसमुद्मवविक्रमाग्निचिह् नं धूमलेखा किल, अरिपरिषन्मशकार्थश्या यया रिपुदारटृग्म्बुजेभ्यः अश्रुविस्त्रावणाय जातम् ॥ 11.105 ॥
श्यामीकृतां मृगमदैरिव माथुरीणां धौतैः कलिन्दतनयामधिमध्यदेशम् ॥
तत्राप्तकालियमहाह्रदनाभिशोभां रोमावलीमिव विलोकयितासिभूमेः ॥ 11.106 ॥
जीवातु–श्यामीति । माथुरीणां मथुरानगरीजातस्त्रीणां, “तत्र जातः’ इत्यमण्-प्रत्यये ङीप्, घौतैर्जलक्रीडासु क्षालितैः, मृगमदैः कस्तूरिकाभिरिवेत्युत्प्रेक्षाः श्यामीकृतां, मध्यदेशे अधि इति अधिमध्यदेशं मध्यदेशविशेषे देहमध्यभागे च, विभक्त्यर्थेऽव्ययीभावः । आप्ता प्राप्ता, कालियस्य कालियनागस्य, महाह्रद एव नाभिः तस्याः शोभा यया ताम्, अत एव भूमेः रोमावलीमिव स्थितामित्युत्प्रेक्षा, कलिन्दतनयां कालिन्दीं, तत्र मथुरायां, विलोकयितासि विलोकयिष्यसि ॥ 11.106 ॥
अन्वयः–तत्र माथुरीणां धौतैः मृगमदैः इव श्यामीकृताम् अधिमध्येदशम् आप्तकालियमहाह्रदनाभिशोभां भूमेः रोमावलीम् इव कलिन्दतनयां विलोकयितासि ॥ 11.106 ॥
गोवर्द्धंनाचलकलापिचयप्रचारनिर्वासिताहिनि धने सुरभिप्रसूने ॥
तस्मिन्ननेन सह निर्विश निर्विशङ्कंवृन्दावने वनविहारकुतूहलानि ॥ 11.107 ॥
जीवातु–गोवर्द्धंनेति । गोवर्द्धंनाचले ये कलापिचयाः केकिव्रजाः तेषां प्रचारेण सञ्चारेण, निर्वासिताहिनि निष्कासितभुजङ्गमण्डले, अत एव सुखसञ्चारे इत्यर्थः, घने निबिडे अत एव निरातपे इति भावः, सुरभिप्रसूने सुगन्धकुसुमसमृद्ध्या विहारयोग्ये इत्यर्थः, तस्मिन् प्रसिद्धे यत्र पुरा गोपालमूर्तिः कृष्णो विजहारेति भावः, वृन्दावने वृन्दारूये वने अनेन राज्ञा सह, निर्विशङ्कविविस्त्रंब्धं, वनविहारकुतूहलानि काननक्रीडासुखानि, निर्विश भुङ्‌क्ष्व, निर्विशो भृतिभोग्योः’ इत्यमरः । साभिप्रायविशेषणत्वात् परिकरालङ्कारः ॥ 11.107 ॥
अन्वयः–गोवर्द्धनाच्लकलापिचयप्रचारनिर्वासिताहिनि सुरभिप्रसूने धने तस्मिन् वृन्दावने अनने सह निर्विशङ्कं वनविहारकुतूहलानि निर्विश ॥ 11.107 ॥
भावी करः कररुहाङ्कुरकोरकोऽपि तद्वल्लिपल्लवचये तव सौख्यलक्ष्यः ॥
अन्तस्त्वदास्यहृतसारतुषारभानुशोभालनुकारिकरिकरिदन्तजकङ्कणाङ्कः ॥ 11.108 ॥
जीवातु–भावीति । त्वदास्येन अनेन तव मुखेन, हृतसारस्य हृतकान्तिसर्वस्वय, तुषारभानोः चन्द्रस्य, या शोभा पराजयनिमित्ता पाण्डुच्छाया, तदनुकारी तत्सदृशः, यः करिदन्तः तजृजं कङ्कणमङृकश्चिह्नं यस्य ताटृशः, तव करः, कररुहा नखाः, अङ्कुरा अभिनवोदिभन्ना इवेत्युपमितसमासः, त एव कोरकाः कलिकाः यस्य ताटृशः सन्नपि, लोहितत्वात् कोमलत्वाच्च अयं कररुहः कोरको वेति सन्देहविषयाभूतोऽपीत्यर्थः, तद्वल्लिपल्लवचये वृन्दावनलताकिसलयजाले, अन्तर्मध्ये सौख्येन अनायासेन, लक्ष्यः दर्शनीयः, अदुर्गह इति यावत्, भावी, करिदन्तजातवलयचिह्ने न अयं कर इति निश्चितो भवष्यितीति भावः । अत्र पल्लवोपचयकाले तत्सटृश्यात् सन्दिग्धस्य भैमीकरस्य दन्तवलयेन निश्चयान्निश्चयान्तः सन्देहालङ्कारः ॥ 11.108 ॥
अन्वयः–अन्तस्त्वदास्यहृसारतुषाभानुशोभानपुकारिकरिदन्तजकङ्कणाङ्कः तव करः कररुहाङ्कुरकोरकः अपि तद्वल्लिपल्लवचये सौख्यलक्ष्यः भावी ॥ 11.108 ॥
तज्जः श्रमाम्बु सुरतान्तमुदा नितान्तमुत्कण्टके स्तनयुगे तव सञ्चरिष्णुः ॥
खञ्जन् प्रभञ्जनजनः पथिकः पिपासुः पाता कुरङ्गमदपङ्किलमप्यशङ्कम् ॥ 11.109 ॥
जीवातु-ज्जइति । सू रतान्ते सुरतक्रियावसाने, या मुत् तया मुदा आनन्देन, तिान्तमुत्कण्टके कण्टकिते पुलकाञ्चिते च, तव स्तनयुगे सञ्चरिष्णुः सञ्चरणशीलः, खञ्चन् नरुलतादिग्रहनत्वात् मन्दीभवन्, अन्यत्र–कण्टकवेधात् खोडन् विकलं गच्छन्नित्यर्थः, खञ्जैगंतिवैकल्यार्थाल्लटः शत्रादेशः । गतावित्यनुवृत्तौ विकलायान्तु द्वयं खञ्जति खोडतीति भट्टमल्लः । पथिकः, सदागतिः अध्वगमनश्रान्तश्च, अतं एव पिपासुः तृषितः, तस्मिन् वृन्दावने जातः तज्जः, “सप्तम्यां जनेर्डः’ । प्रभञ्जनो वायुः, स एव जनः कुरङ्गमदेन मृगमदेन, पङ्किलं निर्मलजलाभावात् सपङ्कमपि, श्रमाम्बु सुरतजन्यस्वेदोदकम्, अशङृकम्, असङ्कोचं, निर्विचारं यथा तथा इत्यर्थः, पाता पास्यति, स्वेदं हरिष्यतीत्यर्थः । पिबतेः कर्त्तारि लुट्, यथा अतिश्रान्तुः तृषितः पान्थः कण्टकाकीर्णदेशस्थं तथा पङ्किलमपि जलं प्रायेण स्वोदरपूरं पिबति तद्वदिति भावः
॥ 11.109 ॥
अन्वयः–सुरतान्तमुदा नितान्तम् उत्कण्टके तव स्तनयुगे सञ्चरिष्णुः खञ्जन् पथिकः पिपासुः तज्जः प्रभञ्जनजनः कुरङ्कमदपङ्किलम् अपि श्रमाम्बु अशङ्कम् पाता ॥ 11.109 ॥
पूजाविधौ मखभुजामुपयोगिनो ये विद्वत्कराः कमलनिर्मलकान्तिभाजः ॥
लक्ष्मीमनेन दधताऽनुदिनं वितीर्णेस्ते हाटकैः स्फुटवराटकगौरगर्भाः ॥ 11.110 ॥
जीवातु–पूजेति । मखभुजां देवानां, पूजाविधौ यज्ञादिकर्मणि, उपयोगिनः प्रतिग्रहोपकारिणः, ये विदुषां कराः पाणयः, कमलेन जलेन् दानसम्बन्धिजलेन इति भावः, निर्मला या कान्तिःतदभाजस्तद्विशिष्टाःः, अथवा–कमलानां या निर्मलकान्तिस्तदभाजः पह्मसटृशाः, ते विद्वत्काराः लक्ष्मीं दधाता श्रीमता, अनेन राज्ञा, अनुदिनं वितीणैः, दत्तैः, हाटकैः सुवर्णैः “स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्’ इत्यमरः । स्फुटाः उज्जवलाः वराटकाः कर्णिकाः । “बीजकोशो वराटकः कर्णिका कर्णिकञ्च’ इति वैजयन्ती, तद्वत् गौरा पीता अरुणा वा, गर्भा अभ्यन्तराणि येषां ते ताटशः, कृता इति शेषः । “गौरोऽरुणे सिते पीते’ इति विश्वः । कमलानां कर्णिकावत् पाणिकमलानां हाटकैस्तत्त्वं सम्पादितमित्यर्थाः; अतिदानशीलोऽयं नृपतिरिति भावः
॥ 11.110 ॥
अन्वयः–भखभुजां पूजाविधौ उपयोगिनः कमलनिर्मलकान्तिभाजः ये विद्वत्कराः लक्ष्मीं दक्ष्ता अनेन अनुदिनं वितीर्णैः हाटकैः स्फुटवराटकगौरगर्भाः ॥ 11.110 ॥
वैरिश्रियं प्रति नियुद्धमनान्नुवन् यः किञ्चिन्न तृप्यति धरावलयैकवीरः ॥
स त्वमवाप्य निपतन्मदनेषुवृन्दस्यन्दीनि तृप्यतु मधूनि पिबन्निवायम् ॥ 11.111 ॥
जीवातु–वैरीति । धरावलये भूमण्डले, एकवीरः अद्वितिययोद्धा यः मथुरापतिः, वैरिश्रियं प्रति शत्रुलक्ष्मीं लक्ष्यीकृत्य, नियुद्धं नितरां युद्धं, बाहुयुद्धमित्यर्थः, “नियुद्धं बाहुयुद्धेऽथं’ इत्यमरः । अनाप्नुवन् किञ्चित् ईषदपि, न तृप्यति न तद्विना सन्तुष्यतीत्यर्थः, यस्य भयात् युद्धं विनैव शत्रुनृपतिसमर्पितराजलक्ष्मीलाभेऽपि युद्धेच्छाविगमाभावत् अयं न कॢञ्चदपि सन्तुष्यतीति भावः स नियुद्धप्रियोऽयं राजा, त्वाम् अवाप्य निपततां मदनेषूणां कन्दर्पबाणभूतानां कुसुमानां, वृन्दात् स्यन्दन्ते स्त्रवन्तीति स्यन्दीनि, मधूनि मकरन्दात्, पिबन्निव तृप्यतु, त्वमस्य राजलक्ष्म्यपेक्षयाऽपि तृप्तिदायिनीति भावः । अत्र मदनेषुभूतकुसुममधुपानोत्प्रेक्षया तेषामेवेषुणां त्वत्समागमात् गाढानन्दकरित्वप्रतीतिः अलङ्कारेण वस्तुध्वनिः ॥ 11.111 ॥
अन्वयः–धरावलयैकवीरः यः वैरिश्रियं प्रति नियुद्धम् अनान्नुवन् किञ्चित् न तृप्यति, सः अयं त्वाम् अवाप्य निपतन्मनेषुवृन्दस्यन्दीमि मधूनि विबन् इव तृप्यतु ॥ 11.111 ॥
तस्मादियं क्षितिपतिक्रमगम्यमानमध्वनामैक्षत नृपादवतारिताक्षी ॥
तदभावबोधबुधतां निजेष्टयैव व्याचक्षते स्म शिविकानयने नियुक्ताः ॥ 11.112 ॥
जीवातु–स्मादिति । इयं भैमी, तस्मात् नृपात्, अवतारिताक्षी निवारितटृष्टिः सती, क्षितिपतीनां गन्तव्यनृपाणां, क्रमेणानुपूर्व्या, गम्यमानम् अध्वानम् ऐक्षत; अथ शिविकानयने नियुक्ताः शिविकावाहिनः, तस्या भावबोधे अभिप्रायज्ञाने, बुधतां पाण्डित्यं, निजचेष्टया अन्यतो नयनक्रिययैव वाचक्षते स्म ज्ञापयामासरित्यर्थः
॥ 11.112 ॥
अन्वयः–तस्मात् नृपात् अवतारिताक्षी इयं क्षितिपतिक्रमगम्यमानम् अध्वानम् ऐक्षत; शिविकानयने नियुक्ताः निजचेष्टया एव तद्भावबुधतां व्याचक्षते स्म ॥ 11.112 ॥
भूयोऽपि भूपमपरं प्रति भाती तां त्रस्यच्चमूरुचलचक्षुषमाचचक्षे ॥
एतस्य काशिनृपतेस्त्वमवेक्ष्य लक्ष्मीमदक्षणोर्नुदं जनय खञ्जनमञ्जुनेत्रे ! ॥ 11.113 ॥
जीवातु–भूयोऽपीति । भारसती सरस्वती, भूयोऽप्यपरं भूपं राजानं, प्रति लक्षीकृत्य, त्रस्यच्चमूरुचलचक्षुषं चकितहरिणचलाक्षीं, तां भैमीम्, आचचक्षेः किमिति ? खञ्जनमञ्जुनेत्रे ! हे खमञ्जनाक्षि ! मञ्जुलाक्षीत्यर्थः, त्वम् एतस्य काशिनृपतेः काशिराजस्य काशते इति काशिः “सर्वधातुभ्य इन्’ इत्युणादिसूत्रेण काशधातोरिन्-प्रत्ययः, ततः “कृदिकारादक्तिन’ इति सूत्रे ङीषो वैकल्पिकत्वेनात्र न ङीषु; अत एव काशीः इति रूपद्वयमेव साधु । लक्ष्मीं शरीरशोभाम्, अवलोक्य अक्षणोः चक्षुषोः, मुदं हर्षं, जनय सम्पादयः ॥ 11.113 ॥
अन्वयः–भारती अवरं भूपं प्रति त्रयस्यच्चमूरुचलचक्षुषं तां भूयः अपि आचचक्षे–खञ्जनमञ्जुनेत्रे, त्वम् एतस्य काशिनृपतेः लक्ष्मीम् अवेक्ष्य अक्ष्योः मुदं जनय ॥ 11.113 ॥
एतस्य साऽवनिभुजः कुलराजधानी काशीभवोत्तरणधर्मतरिः स्मरोः ॥
यामागता दुरितपूरितचेतसोऽपि पापंनिरस्य चिरजं विरजीभवन्ति ॥ 11.114 ॥
जीवातु–एतस्येति । स्मरारेः संसारार्णवकर्णधारस्य महादेवस्?य सम्बनिघनी, भवेत्तरणे लोकानां भवाब्धितरणे, धर्मतरिः मूल्यमगृहीत्वा पारकारिणीतरणिः, धर्मतरिग्रहाणात् केवले धर्मार्था नौः इत्यर्थः; “स्त्रियां नोस्तराणिः तरिः’ इतृयमरः । सा काशी एतस्यावनिभुजः काशीराजस्य, कुलराजधानी वंशपरम्परागतराजधानी; दुरितपुरितचेतसोऽपि अतिपापात्मानोऽपि, यां काशीम्, आगताः चिरसञ्चितं, पापं निरस्य परित्यज्य, अविरजस्त्रो विरजसः सम्पद्यमाना भवन्ति विरजीभवन्ति वीतरजोगुणाः सत्वप्रधाना मुक्ता भवन्तीत्यर्थः । अभूततदभवे च्विः “अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च’ लोपश्च’ इति सकारलोपः
॥ 11.114 ॥
अन्वयः–याम् आगत्य दुरितपूरितचेतसः अपि चिरजं पापं निरस्य विरजीभवन्ति, स्मरारेः भवोत्तरणधर्मतरिः सा काशी एतस्य अवनिभुजः कुलराजधानी ॥ 11.114 ॥
आलोच्य भाविविधिकतृर्तुकलोकसृष्टिकष्टानि रोदिति पुरा कृपयैव रुदुः ॥
नामेच्छयेति मिषमात्रमधत्त यत्तां संसारता रणतरीमसृजत् पुरीं सः ॥ 11.115 ॥
जीवातु–आलोच्येति । रुद्रो हरः, भाविन्याः विधिकर्त्तु काया ब्रह्मकर्त्तृकायाः, लोकस्ष्टेः सष्टप्राणिजातस्य, कष्टानि दुःखानि, आलोच्य विचार्य, कृपयैव न तूपाध्यन्तरेणेत्यर्थः, पुरा रोदिति अरुदउत्, ‘पुरि लुङ् चास्मे’ इति चकारात् पुरा-शब्दयोगे भूतानद्यतनार्थे लट् । ननु यत् रूयते “सोऽरोदीत्, यदरोदीत् तत् रुद्रस्य रुद्रत्वम्’ इति, तत् व्याजमात्रमित्याह–नामेति । नामेच्छयेति रोदनाद्रुनामाकाङ्क्षयाऽरोदीत् इति, यत् तत् मिषभात्रं व्याजमात्रम्, अधत्त धृतवान्, वस्तुतः प्राणिनां कष्टमवलोक्यैवारुदत् न तु स्वीयरुद्रनामेच्छयेतृयर्थः; कुतः ? यत् यस्मात्, स रुद्रः, संसारतारणतरिं तां पुरीं काशीम् असृजत्; कृपालवो हि परदुःखेन दुःखायन्ते तत्प्रतीकरणोपायञ्च कुर्वन्तीति भावः । ततो नूनं कृपयैव अरोदीदित्युत्प्रेक्षा
॥ 11.115 ॥
अन्वयः–पुरा रुदुः भाविविधिकर्तृ कलोकसृष्टिकष्टानि आलोच्य कृपया एव रोदिति, “नामेच्छया’– इति मिषमात्रम् अधत्त, यत् संसारतारणतरीं तां पुरीम् असृजत् ॥ 11.115 ॥
वाराणसी निविशते न वसुन्धरायां तत्र स्थितिर्मखभुजां भुवने निवासः ॥
तत्तीर्थमुक्तवपुषामत एव मुक्तिः स्वर्गात् परं पदमुदेतु मुदे तु कीदृक् ? ॥ 11.116 ॥
जीवातु–वाराणसीति । वाराणसी काशी, वसुन्धरायां न निविशते भूलोकान्तःपातिनी न भवतीत्यर्थः, अत एव तत्र वाराणस्यां, स्थितिर्लोकानां निवासः, मखभुजां देवानां, भुवने लोके, स्वर्गे इत्यर्थः, निवासः
स्वर्लोकवसतिः, अत एव तस्याः स्वर्गत्वादेव, तस्मिन् तीर्थे मुक्तवपुषां त्यक्तकलेवराणां, मुक्तिरपटृशं स्थानं पुनः, मुदे प्रीतये, उदेतु ? उद्गच्छतु ? भवतु इत्यर्थः, तव इति शेषः, स्वर्गवास एव मत्त्र्यानां काम्यतमः, अतस्त्वं काशीराजं वरीतृवा काशीरूपस्वर्गवासुखमनुभव इति भावः । यद्वा–स्वर्गादपवर्गात्, परमधिकम्, अपवर्गादन्याटृशं, कीटृक् पदन्तु स्थानं पुनः, मुदे आनन्दाय, उदेतु ? उत्पद्यताम् ? ते इति शेषः, न किञ्चिदन्यदित्यर्थः । सम्भावनायां लोट्, भूलोकवासिनां मृतानां स्वर्गः, स्वर्ग एव इति भावः ॥ 11.116 ॥
अकअन्वयः–वाराणसी वसन्धरायां न निविशते; तत्र स्थितिः मखभुजां भुवने निवासः; अतः एव तत्तीथर्मुक्त वपुषां मुक्तिः, स्वर्गात् परं कीटृक् स्थानं तु मुदे उदेतु ? ॥ 11.116 ॥
सायुज्यमृच्छति भवस्य भवाब्धियादस्तां पत्युरेत्य नगरीं नगराजपुत्र्याः ॥
भूताभिधानपटुमद्यतनीमवाप्य भीमोदभवे ! भवतिभावमिवास्तिधातुः ॥ 11.117 ॥
जीवातु–सायुज्यमिति । भीमोदभवे ! हे भैमि ! भवाब्धियादः संसारसागरजजन्तुजातं, कर्त्तु । “यादांसि जलजन्तवः’ इत्यमरः । नगारपुत्र्याः पत्युः पायर्वतीपतेः सम्बन्धिनीं, तां नगरीं काशीम्, एत्य अस्तिधातुः “अस भुवि’ इत्ययं धातुः, भूताभिधानपदुम् अतीतकालाभिधानसमर्थाम्, अन्यत्र–भूतस्यसत्यस्य
तारकब्रह्मरूपस्येत्यर्थः, अभिधाने उपदेशप्रापणे, पटुं समर्थाम्, इति नगरीपक्षे योज्यम्; अद्यतनीं लुङ्म् अवाप्य अद्यतनीति लुङ् पूर्वाचार्याणां संज्ञा आर्द्धधातुकोपलक्षणमेतत्, अस्तेर्भु भावस्यार्द्धधातुकाधिकारात् । अद्यतनीग्रहणन्तु उपमनोपमेययोरभिन्नङ्गत्वायंति द्रष्टव्यम् । भवतीति भावम् इव “अस्तेर्भुः’ इति विघानात् अस्-धातोर्भु धातुत्वमिव, भवस्य ईश्वरस्य, सयुजो भावः सायुज्यं तादात्मयम्, ऋच्छति गच्छति ॥11.117 ॥
अन्वयः–भी?मोदभवे, भवाब्धियादः भूताभिधानपटु तां नगरीम् एत्य भूताभिधानपटुम् अद्यतनीम् अवाप्य भवतिभावम् अद्यतनीम् अवाप्य भवतिभावम् अस्तिधातुः इव नगराजपुत्र्याः पत्युः भवस्य सायज्यम् ऋच्छति ॥ 11.117 ॥
निर्वश्य र्निर्विरति काशिनिवासि भोगान् निर्माय नर्म च मिथो मिथुनं यथेच्छम् ॥
गौरीगिरीशघटनाधिकमेकभावं शर्मोमिकञ्चुकितमञ्चति पञ्चतायाम् ॥ 11.118 ॥
जीवातु–नि?र्विश्येति । काशिः काशी, “कृदिकारात् अक्तिनः’ इति ङीषो वैकल्पिको भावः । तस्यां निवासि वास्तव्यं मिथुनं स्त्रीपुंसजातं, यथेच्छं, भुज्यन्ते इति भोगान् विषयान्, निर्विरति निर्विच्छेदं यया तथा, निर्विश्य उपभुज्य, तथा मिथोऽन्योऽन्यं रहसि वा, नर्मक्री?डज्ञाञ्च निर्माय कृत्वा, पञ्चतायां मृत्यौ सत्यां, गौरीगिरीशयोर्धटनादर्द्धाङ्गसङ्घटनात्, अधिकमुत्कृष्टमेव, तत्र शरीरद्वयत्वेन प्रकाशः, अत्र तु शिवशरीरं एकत्वेनेति तदपेक्षया उत्कृष्टत्व मिति भावः, शर्मोर्मिभिः आनन्?दलहरीभिः, अञ्चुकितं सञ्जातकञ्चुकम्, आवृतसर्वाङृगमित्यर्थः, एकभावम् कत्वरूपम्, अञ्चति प्रापनोति, अन्यत्र सन्नयासादिक्लेशात् मुक्तिः, इह तु भोगपूर्वकदेहत्यागेनापि मुक्तिरिति भावः ॥ 11.118 ॥
अन्वयः–काशिनिवासि मिथुनं मिथः निर्विरति यथेच्दं भोगान् निर्विश्य नर्म च निर्माय पञ्चतायां गौरीगिरीशघटनाधिकं शर्मोर्मिकञ्चुकितम् एकभाववम् अञ्चति ॥ 11.118 ॥
न श्रद्दधासि यदि तन्मम मौनमस्तु कथ्या निजाप्ततमयैव तवानुभूत्या ॥
न स्यात् कनीयसितरा यदि नाम काश्या राजन्वतीमुदिरमण्डनधन्वना भूः ॥ 11.119 ॥
जीवातु–नेति । न श्रद्दधासि यदि स्वर्गादपि काश्या आधिक्यवर्णनरूपं मद्वक्यं न श्विसिसि चेत्, तत्तर्हि, मम मौनमस्तु अहं तूष्णीमासे, तव निजया आत्मीयया, आप्ततमया नितरां हितकारिण्या, अनुभूत्या प्रमाणभूतस्वीयानुभावेनैव, कथ्या कथनीयाऽसि; किं कथ्या ? तदाह–मुदिरा जीमूताः, ‘धनजीमूतमुदिर-’ इत्यमरः, तेषां मण्डनं भूषणभूतं, धनुर्यस्य स तद्धन्वा देवेन्द्रः, “धनुषश्च’ इत्यनङादेशः तेन राजन्वती शोभनराजविशिष्टा, भुः स्वर्गभुः “राजन्वान् सौराज्ये’ इति निपातनात् साधुः । काश्याः काशीतः “पञ्चमीविभक्तेः इति पञ्चमी । अतिशयेन कनीयसी कनीयसितरा हीनतरा, ‘युवाल्पयोः कनन्यतरस्याम्, इत्यल्पशब्दस्य कनादेशः, “घरूपकल्प’- इत्यादिना ङीपो हस्वः नस्यान्नाम यदि अपि तु स्यादेवेत्यर्थः, दिवः स्वर्गात् अधिका काशी, दिवस्पतेरधिकं काशीराज इत्यलं वार्त्ताभिः, एतत्पाणिग्रहणानन्तरमनुभव एव ते
कथयिष्यतीति भावः ॥ 11.119 ॥
अन्वयः–यदि न श्रद्ढघ्घासि, तत् मम मौनम् अस्तुः मुदिरमण्डनधन्वना राजन्वती भूः यदि काश्याः नाम कनीयसितरा न स्यात्, तव निजया आप्ततमया अनुभुत्या एव कथ्या ॥ 11.119 ॥
ज्ञानाधिकाऽसि सुकृतान्यधिकाशिकुर्याः कार्यं किमन्यकथनैरपि यत्र मृत्योः ॥
एकं जनाय सतताभायदानमन्यद् धन्ये ! वहत्यमृतसत्रमवारितार्थि ॥ 11.120 ॥
जीवातु–ज्ञानेति । घन्ये ! हे श्लाध्ये ! भैमि ! ज्ञानेन अधिका उत्कृष्टा, असि भवसि, अतः अधिकाशि काश्यां, विभक्त्यर्थेऽव्ययीभावः । सुकृतानि एतत्परिणयेन दानादिविविधसत्कर्माणि कुर्याः, अथवा अन्यकथनः कर्त्तव्यान्तरो देशैः, किं कार्यम् ? किं प्रयोजनम् ? न किञ्चिदित्यर्थः, यत्र काशयां, मृत्योर?पि मृत्सुसकाशादपि, जनाय एकं केवलं, सततमविच्छिन्नम्, अभयदान मृत्युवशानां सद्य एव मृत्युञ्जयत्वप्राप्तेरिति भावः, अन्यद् अपरम्, अवारिताः अनिवारिताः, अर्थिनो याचकाः यस्मिन् तत्, अमृतसत्रं मोक्षदानं गङ्गोदकदानञ्च “अमृतं तूदके मोक्षे’ इति केशवः । “सत्रमाच्छादने यज्ञे सदा दाने वनेऽपि च’ इति चामरः ।
वहति प्रवर्त्तते, काशिमृतानां शिवसारूप्यममृतत्वञ्च सिद्धमिति अन्यत्र जीवनात् मरणमपि काश्?यां वरमिति भावः ॥ 11.120 ॥
अन्वयः-धन्ये, ज्ञानाधिका असि, अधिकाशि सुकृतानि कुर्याः, अन्यकथनैः अपि किं कार्यम् ? यत्र
यत्र मृत्योः जनाय सताभयदानम् एकम् अन्यत् अवारितार्थि अमृतसत्रं वहति ॥ 11.120 ॥
भुभर्त्तुरस्य रतिरेभिधि मृगाक्षि ! मूर्त्ता सोऽय तवास्तु कुसुमायुध एव भूर्त्तः ॥
भतञ्च ताविव युवां गिरिशं विरुद्धमाराद्धुमाशु पुरि तत्र कृतावतारौ ॥ 11.121 ॥
जीवातु–भूभर्त्तु रिति । हे मृगाक्षि ! त्वमस्य भूभर्त्तुः काशिराजस्य, मूर्त्ता मूर्त्तिमती, रतिः कामपल्नी, एधि भव, अस्ते सिचि हेर्धिरादेशे “ध्वसोरेद्धावभ्यासलोकपश्च’ ,इत्येकारादेशः । सोऽयं राजा च, तव मूर्त्तो मूर्त्तिमान्, कुसुमायुधः कामः एव, अस्तु भवतु, किञ्च युवां विरुर्द्धं द्विष्टं पुरा कोपितमित्यर्थः, गिरिशमीश्वरम्, आराद्धुम् आराधयितुं, तदीयकोपशान्त्यर्थमिति भावः, तत्र पुरि काशाम्, आशु अधुना, कृतावतारौ अवतीणौ, ताविव रतिकामाविव, भ्रातं विराजतञ्च, भातेर्लोटि थसस्तमादेशः ॥ 11.121 ॥
अन्वयः–मृगाक्षि, अस्य भूभर्त्तुः मूर्त्ता रति एधि; सः अयं तव मूर्त्तः कुसुमायुधः एव अस्तु; युवां च विरुर्द्धं गिरिशम् आराद्षुं तत्र पुरि आशु कृतावतारौ तौ इव भातम् ॥ 11.121 ॥
कामानुशासनशते सुतरामधीती सोऽयं रहो नखपदैर्महतु स्तनौ ते ॥
रुष्टाद्रिजाचरणकुङ्कुमपङ्करागसङ्कीर्णशङ्करशशाङ्ककलाङ्ककारैः ॥ 11.122 ॥
?B जीवातु–कामेति । कामानुशासनानां कामशास्त्राणां , शते समूहे, सुतरां नितराम् अधीतमनेनेत्यधीति “इष्टादिभ्यश्च’ इति इति प्रत्यये सप्तमीविधाने “क्तस्येस्येन्विषयस्य कर्मण्युपसङ्ख्यानम्’ इति सप्तमी । कृताध्यनः सोऽयं राजा, रुष्टा कुपिता, अद्रिजा पार्वती तस्याश्चरणकुङ्कुमपङ्करागेण सङ्कीर्णा पार्वत्याः कोपापनोदनाय पादग्रहणकाले कुङ्कुमर?ञ्जिततदीयचरणसम्पर्कात् रूषिता, या शङ्करशशङ्ककला महादेवशिरःस्थितचन्द्रकला तया सह अङ्कारः कलहकारिभिः, तदनुकारिभिरित्यर्थः, कुङ्कुमरञ्जितचन्द्रकलाटृशैरिति यावत्, कर्मण्यण् “अङ्कः कलहचिह्नयोः’ इति विश्वः । नखपदैर्नखक्षतचिह्नैः, ते स्तनौ कुचौ, रहः ?निर्जने, महतु पूजयतु, अलङ्करोतु इत्यर्थः । महपूजायामिति भातोभौवादिकाल्लोट् ॥ 11.122 ॥
अन्वयः–कामानुशासनशते सुतराम् अधीती सः अयं रहः रुष्टाद्रिजाचरणकुङ्कुमपङ्करागसङ्कीर्णशङ्करशशाङ्ककलाङ्किकारैः नखपदैः ते स्तनौ महतु
॥ 11.122 ॥
पृथ्कीश एष नुदतु त्वदनङ्गतापमालिङ्ग्य कीर्तिचयचामरचारुचापः ॥
संग्रामसङ्गतविरोधिशिरोधिदण्डखण्डिक्षुरप्रसरसम्प्रतापः ॥ 11.123 ॥
जीवातु–पृथ्वीश इति । कीर्त्तिचय एव चामरवत् चारुः मनोहरः, चापो यस्य स कीर्तिधन्वा,
महाशूरोऽयमिति कीर्त्तिधनुषा एव रिपुदमनकारी इत्यर्थः अत्र चामरचारुचाप इति प्रयोगस्तु कीर्त्तेः कविसमयसिद्धातिनैर्मल्यख्पनार्थमिति बोद्धव्यम; “यशसि धवलता वर्ण्यते हासकीर्त्त्योः’ इति कविप्रसिद्धेरिति ।
अत एव संग्रामे मङ्गतानां विरोधिनां शत्रूणां, शिरोधिदण्डान् कण्ठनालान्,खण्डयन्तीति तेषां, क्षुरप्राणां शरोविशेषाणां, सरेण प्रसरेण, सम्प्रसरन् सम्यक् प्रसरन्, समधिकवर्द्धमानः इत्यर्थः, प्रतापः यस्य ताटृशः, एष पृथ्वीशः भूपतिः, आलिङ्ग्य तव अनङ्गतापं कामसन्तापं, नुदतु अपनयतु; समर-सुरतयोः समरस एष इति भावः । अत्र प्रकृष्टतापशालिनः आलिङ्गनेन तापनोदनमिति आपाततः विरोधोऽभासते, प्रकृतव्याख्यया तु तत्परिहारः ॥ 11.123 ॥
अन्वयः–कीर्त्तिचयचामरचारुचापः सङ्ग्रामसङ्गतविरोधिशिरोधिदण्डखण्डिक्षुरप्रसरसम्प्रसरत्प्रतापः एषः पृथ्वीशः आलिङ्ग्य त्वदनङ्गतापं नुदतु ॥ 11.123 ॥
वक्षस्त्वदुग्रविरहादपि नास्य दीर्णं वज्रायते पतनकुण्टितशत्रुस्त्रम् ॥
तत्कन्दकन्दलतया भुजयोर्नं तेजो?वह्निर्नमत्यरिवधूनयनाम्बुनाऽपि ॥ 11.124 ॥
जीवातु–वक्ष इति । हे भैमि ! तव उग्रात् दुःसहात्, विरहादपि न दीर्णम् अविदीर्णं, तथा पतगेन कुण्ठितानि प्रतिहतानि, भग्नधाराणीत्यर्थः, शत्रूणां शस्त्राणि आयुघानि यत्र तत्, अस्य राज्ञः, वक्षो वज्रायते वज्रामिवाचरति, वज्रमेवेत्यर्थः, अन्यथा कथमीटृगभेद्यमिति भावः । आचारक्यङन्ताल्लद, तत् वक्षोवज्रवेव, कन्दो मूलं, तस्य कन्दलतया प्ररोहत्वेन हृदयदार्ढ्यमूलत्वात् तत्प्ररोहभूतभुजतेजसोऽपि दार्ढ्यता इति भावः, भुजयोस्तेजोवह्निः प्रतापाग्निः अरिवधूनयनाम्बुनाऽपि न नमति न शाम्यतीत्यर्थः, वज्राग्नेरिव अरिनिधनकारित्वादिति भावः । अत्र भुजतेजसोऽनम्बुहार्यत्वेन वज्रयितवक्षःकार्यताद्वारादन्तेजस्त्वोत्प्रेक्षाणदुत्प्रेक्षा व्यञ्जकाप्रयोगाद्गाद्गम्या
॥ 11.124 ॥
अन्वयः–त्वदुग्रविरहात् अपि न दीर्णं पतनकुण्ठितशत्रुशस्त्रम् अस्य वक्षः वज्रायते, तत्कन्दकन्दलतया भुजयोः तेजोवह्निः अरिवधूनयनाम्बुना अपि न नमति ॥ 11.124 ॥
किं न द्रुमा जगति जाग्रति लक्षसङ्ख्यास्तुल्योपनीतपिककाकफलोपभोगाः ? ॥
स्तुत्यस्तु कल्पविटपी फलसम्प्रदानं कुर्वन् स एष विबुधानमृतैकवृत्तीन् ॥ 11.125 ॥
जीवातु–किमिति । तुल्यं निर्विशेषं यथा तथा, उपनीतः वृक्षाः जगति न ज्राग्रति किम् ? न स्फरन्ति किम् ? स्फुरन्त्येवेत्यर्थः, तु किन्तु, अमृतैकवृत्तीन् सुधैकजीवनान्, विबुधान् देवान् विदुषश्च फलसम्प्रदानम् र्हप्सितार्थप्रतिग्राहिणः कुर्वन् सर्वामरमनौरथपूरक इत्यर्थः, स एष कल्पविटपी कल्पवृक्षः, कल्पवृक्षकल्पोऽयं काशिराज इत्यर्थः, स्तुत्य स एक एव स्तोत्रार्हो नान्य इत्यर्थः, अन्ये नृपतयः असत्पात्रेभ्यः दानं कुर्वन्ति, अय ?काशिराजस्तु पण्डितेभ्य एव ददाति इति भावः । अत्राप्रस्तुतकल्पवृक्षकथनात् प्रस्तुतकाशिराजप्रतीतेरप्रस्तुतप्रशंसालङृकारः, “अप्रस्तुतस्व कथनात् प्रस्तुतं यत्र गम्यते । अप्रस्तुतप्रशंसेयं सारूप्यादनियन्त्रिता । इति लक्षणात् ॥ 11.125 ॥
अन्वयः–तुल्योपनीतकिकाकफलोपभोगाः लक्ष्यसंख्याः द्रुमाः किं जगति न जाग्रति ? अमृतैकवृत्तीन् विबुधान् फलसम्प्रदानं कुर्वत् सः स्तुत्यः कल्पविटपी तु एषः ॥ 11.125 ॥
अस्मै करं प्रवितरन्तु नृपा न कस्मादस्यैवतत्र यदभूत् प्रतिभः कृपाणः ॥
दैवाद् यदा प्रवितरन्ति न ते तदैव नेदङ्कृपानिजकृपाणकरग्रहाय ॥ 11.126 ॥
जीवातु–अस्मै इति । अस्मै राज्ञे, नृपाः अन्ये सर्वे राजानः, कस्मात् कारणात्, करं बलिं, न प्रवितरन्तु ? यत् यस्मात् तत्र करदाने, अस्य राज्ञः कृपाणः खङ्गः एव, प्रतिभूर्लग्नकः, अभूत् “स्युर्जग्नकाः प्रतिभुवः’ इत्यमरः । अथ कृपाणस्य प्रतिभूत्वं व्यनक्ति–यदा दैवात्ते तृपाः, न प्रतिभुवः’ इत्यमरः । अथ कृपाणस्य प्रतिजकृपाणस्य करेण हस्तेन, ग्रहाय ग्रहणाय, अन्यत्र-निजकृपाणात् प्रतिभूस्वरूपकृपाणसकाशात्, करस्य बलेः, ग्रहणाय “बलिहस्तांशवः कराः’ इत्यमरः । अस्य कृपा इदङ्कृपा, न, भवतीति शेषः, निष्कृपः सन् कृपाणमुत्तोल्य तेभ्यः प्रसह्म करं गृह्णतीत्यर्थः, कृपाणपातभीत्यैव करदानातृ कृपाणस्य प्रतिभूत्वव्यपदेश
इति भावः ॥ 11.126 ॥
अन्वयः–नृपाः अस्मै करं कस्मात् न प्रविवरन्तु, यत् अत्र अस्य कृपाणाः एव प्रतिभूः अभूत् ? ते देवान्‌ यदा न प्रवितरनित तदा निजकृपाणकरग्रहाय इदंकृपा न एव भवति ॥ 11.126 ॥
एतद्वलैःक्षणिकतामपि भूखुराग्रम्पर्शासयुषां रयवशादसमापयद्भिः ॥
दृक्पेयकेवलभःक्रमणप्रवाहैर्वाहैरलुप्यत सहस्त्रदृगर्वगर्वः ॥ 11.127 ॥
जीवाव्यां, खुराग्राणां ये स्पर्शाः संयोगाः, न तु शङ्ख्यातुं शक्या इति भावः, केवलाः नभःक्रमणप्रवाहाः नभोगतिपरम्परा येषां तैः केवलखेचर्ररित्यर्थः, अतिवेगगामिरिति भावः, वाहैर्वाजिभिः, सहस्त्रटृगर्वणः सहस्त्राक्षवाजिनः उच्चैश्रवसः “वाजिवाद्वार्वगन्धर्व–’ इत्यमरः । गर्वः मदपेक्षया वेगशालौ आकाशमात्रचारी अन्योऽश्वो नास्तीत्येवरूपाहङ्कारः, अलुप्यत लोपितः; सहस्त्राक्षस्य त्वेकक एक खेचरोऽश्वः, अस्य तु एताटृशाः परःसहस्त्राः अश्वाः विद्यन्ते इति भावः । अत्र इन्द्राश्वापेक्षया एतदश्वानामाधिक्यवर्णनात् व्यतिरेकालङ्कारः ॥ 11.127 ॥
अन्वयः–एतद्बलैः रथवशात् भूखुराग्रस्पर्शायुषां क्षणिकताम् अपि असमापयदिभः टृक्पेयकेबलपभःकमणप्रवाहैः वाहैः सहस्त्रटृगर्वगवैः अलुप्यत ॥ 11.127 ॥
तद्वर्णनासमय एव समे तलोकशीभावलोकनपरा तमसौ परासे ॥
मानी तया गुणविदा यदनादृतोऽसौ तद्भूभृतां सदसि दुयंशसेव मम्लौः ॥ 11.128 ॥
जीवातु–तदिति : असौ दमयन्ती, तस्यस काशिराजस्य, वर्णनासमये स्तोत्रकाले एव, समेतलोकानां समागतजनानां, शोभावलोकनपरा सती तं काशिराजं, परासे व्याजेन परिजहारेत्यर्थः, “उपसर्गादस्त्युह्मार्वेति वाच्यम्’ इत्यस्यतेस्तङि लिट् । मानी अभिमानी, असौ राजा, गुणविदा गुणज्ञेया, तया भैम्या, यत् यस्मात्, अनाटृतः, अनाटृतः, तत्तस्मादनादरणादेव, भूभृतां राज्ञां, सदसि दुर्दशसा दुष्कीर्त्त्येव, मग्लौ वैवर्ण्यं गतः इत्यर्थः, वस्तुतः गुणज्ञया भैम्या कृतानादरेण लज्जावशात् म्लानोऽभूत् इति भावः । अत्रोत्प्रेक्षालङ्कारः
॥ 11.128 ॥
अन्वयः–तद्वर्णनासमये एव समेतलोकशोभावलोकनपरा असौ तं परासे; मानी असौ यद् गुणविदा तया अनाहतः तत् भूभृतां सदसि दुर्यशसा एव मम्ली ॥ 11.128 ॥
साऽनन्तानाप्य तेजः सखनिखिमरुत्पार्थवान् दिष्टभाजः चित्तेनाशापुषास्तान् सममसमगुणान् मुञ्चती गूढभावा ॥
पारेवाग्वर्तिरूपं पुरुषमनु चिदम्भोधिमेकं शुभाङ्गी निःसीमानन्दमासीदुपनिषदुपमा तत्परीभूय भूयः
॥ 11.129 ॥
जीवातु–सेति । अनन्तान् अपरिमितान्, दिष्टभाजो भाग्यभाजः, चित्तेन आशाम् अभिलाषं, पुष्णान्ति इति आशापुषः भेमीं कामयमानानित्यर्थः, तान् प्रसिद्धान्, असमगुणान् असाधारणशौर्यादिगुणान्, तेजसः सखायः तेजःसखाः तेजस्विन इतृयर्थः, “राजाहःसखिभ्यष्टच्’ निखिला मरुतो देवा इन्द्रादयः, पार्थिवाश्च तानु, आप्य प्राप्य, समं युगपत्, मुञ्चती परिहरन्ती, उपनिषत्पक्षे तुसान्तान् आकाशसहितान्, “अनन्तं सुरवर्त्म खम् । पुंस्याकाशविहायसौ’ इत्यमरः । दिष्टभाजः कालयुक्तान्, “दिष्टं भाग्ये च काले च’ इति विश्वः । चित्तेन मनसा, समं सह, आशापुषो दिग्युक्तान्, “आशा दिगतितृष्णयोः’ इति वैजयन्ती । असमगुणान् न्यूनाधिकसङ्ख्यातरूपरसादिगुणकान् अपां विकारः आप्यं, “त्रिषु द्धे आप्यमम्मयर्म् इत्यमसरः । आप्यञ्चेति चान्तुसूत्रनिपातनात् साधुः । तेजःसखाः तेजो व्यसहिताः, निखिलाः मरुतः वायवः, “मरुतौ पवनासमरौ’ इत्यमरः । पार्थिवाः पृथवी विकाराः, अत्रापि आप्यपार्थिवशब्दौ तिद्धितान्तावपि प्रकरणात् प्रकृत्यर्थमात्रपुरौ द्रष्टव्यौ, तान् मुञ्चती तार्किकोक्तपृथिव्यादिनवद्रव्येषु आत्मातिरिक्तद्रव्याष्टकस्य “एकमेवाद्वितीयर्म् ‘नेति नेति’ इत्यादि श्रुतिवाक्यैः निषेधं कुर्वतीत्यर्थः, गूढभावा गूढः गोपायितः, भावः नलानुरागो यया सा, अन्यत्र-ब्रह्मरूपगहनार्थप्रतिपादनात् दुरवगाहाभिप्राया शुभाङ्गी अनवद्यगात्री, अन्यत्र–सम्पूर्णाङ्गी, षङङ्गयुक्ता इत्यर्थः, सा दमयन्ती बवाचां पारे परपारे पारेवाक् पारेवाक् “पारे मध्ये षष्ठ्या वा’
इत्यव्ययीभावः, तद्वर्त्तिवाचो वर्णयितुमशक्यं, रूपं सौन्दर्य यस्य तम्य; अन्यत्र-“यतो वाचवः-’ इत्यादि श्रुतेः वाग्व्यापारातीतस्वरूपः, चिदम्भोधिं सकलशास्त्रपरंगत्वेन ज्ञानसागरम्ः; अन्यत्र-तद्रूपं, ज्ञानधनमित्यर्थः, एकं स्वसमानुगुणशालिद्वितीयरहितम्; अन्यत्र-अद्वि?तीयं, निःसीमा आनन्दो यस्येति बहुव्रीहिः । अपारान्दयुक्तम्, अन्यत्र-अनन्तसुखस्रूपं, कर्मधारयः । पुरुषं नलरूपं पुमांसं परमात्मानञ्च़, अनु लक्षयित्वा, तं प्रतीत्यर्थः, “अनुर्लणे’ इति कर्मप्रवचनीयत्वात् द्वितीया । भूयो भूयिष्ठं, तत्परा तस्मिन् नले आसक्ता भूत्वा, अन्यत्र-परब्रह्मरूपे तात्पर्यवती भूता, उपनिषत् वेदान्तवाक्, उपमानं यस्याः तदुपमा तत्कल्पा, आसीदिति श्लिष्टविशेषणेयमुपमा, श्लेष एवेति केचित् । स्त्रग्धरावृत्तम् ॥ 11.129 ॥
अन्वयः–अनन्तान् दिष्टभाजः चित्तेन आशपुष्ज्ञः तान् असमगुणान् तेजःसखनिखिलमरुत्पार्थिवान् आप्य ( अथवा “आप्यतेजःसखनिखिलमरुत्पार्थिवान्’ ) समं मुञ्चती गूढभावा शुभाङृगी सा पारेवाग्वर्त्तिरूपं चिदम्भोधिम् एकं निःसीममानन्दं पुरुषम् अनु भूयः तत्परीभूय उपनिषदुपमा आसीत् ॥ 11.129 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम् ।
शृङ्गारामृतशीतगावयमगादेकादशस्तन्म्हाकाव्येऽस्मिन् निषधेश्वरस्य चरिते सर्गो निसर्गोज्जवलः
॥ 11.130 ॥
नैषधीयचरिते एकादशः सर्गंः समाप्तः ।
जीवातु–श्रीहर्षमित्यादि । शृङ्गार एव अमृतं तस्य शीता गावः किरणा यस्य सः शीतगुः तस्मिन्
शीतगौ चन्द्रे “गोस्त्रियोः उपसर्जनस्य’ इति ओकारह्रस्वः ॥ 11.130 ॥

इति मल्लिनाथविरचिते “जीवातु’ समाख्याने एकादशः सर्गः समाप्तः ॥ 11 ॥

अन्वयः–श्रीहर्षं…..चयम् ( पूर्ववत् ) । शृङ्गारामृतशीतगौ तन्महाकाव्ये वारुणि नैषधीयचरिते निसर्गोज्जवलः अयम् एकादशः सर्गः अगात् ॥ 11.130 ॥

"नैषधीयचरित' में ग्यारवाँ सर्ग पूर्ण ।

*******************************************************************************

.

द्वाविंशः सर्गः

अथ कविप्रशस्तिः
यथा यूनस्तद्वत्परममणीयाऽपि रमणी
कुमाराणामन्तःकरणहरणं नैव कुरुते?।
मदुक्तिश्चेदन्तर्मदयति सुधीभूय सुधियः
किमस्या नाम स्यादरसपुरुषानादरभरैः॥ 1.1 ॥
अन्वयः–यथा परमरमणीया अपि रमणी यूनः अन्तःकरणहरणं कुरुते, कुमाराणां न एव; सुधीभूय मदुक्तिः सुधियः अन्तः चेत् मदयति, अरसपुरुषानादरभरैः अस्याः किं नाम स्यात्?
जीवातु–यथेति। यथा परमरमणीयापि रमणी यूनस्तरुणस्य कामिर्नोऽन्तःकरणहरणं कुरुते, तद्वत्तथा कुमाराणां बालिशानां क्षीरलाभमात्रेण परमपुरुषार्थप्राप्तिमभिमन्यमानानामनुभूतकामसुखानां चित्तं स्ववशं कैव कुरुते? अपि तु-न कापि। तथेयं काव्यरचनारूपा परमरमणीया मदुक्तिरपि श्रवणमननादिवशात्सुधीभूयामृत्वं प्राप्य सुधियः सकलदर्शनरहस्यवेदिनोऽतिसरसस्य पण्डितस्य चेतश्चेद्यदि मदयति आनन्दयति; तर्ह्यस्याः सुधियाऽत्यादृताया मदुक्तेररसानां निरसानां सर्वथैवासंस्पृष्टरसशब्दार्थानामपि चलदुपलप्रायाणामतृणादापुच्छपसूनामनादरभरैस्तत्कृतावज्ञासमूहैः किं नाम स्यात् अपि तु न किंचिदप्यस्यास्तैरपकर्तुं शक्यते। सुधीभिरादृते सति नीरसैरकृते कृते वाप्यादरे न किंचिदित्यर्थः। सुधीभिरादृतत्वात्सकलगुणपूर्णातिसरसेयं मदुक्तिरिति भावः। मदुक्तेः सुधारूपत्वाभावात्क्षोदानन्तरं च सरसत्वप्रतीतेः सुधात्वात्सुधीभूयेति च्विः। सिधिय इति जात्यभिप्रायेण। एकेनापि सुधियादरे कृते महद्‌गौरवम्, बहुभिरप्यज्ञैरनादरेषु कृतेष्वपि न किंचिल्लाघवमित्यभिप्रायेण वा। `यूनः’ प्रतियोगिन एकवचनान्तत्वाच्चैकवचनम्। कवेः स्वग्रन्थमुद्दिश्येयमुक्तिः॥ 1.1 ॥
दिशि दिशि गिरिग्रावाणः स्वां वमन्तु सरस्वतीं
तुलयतु मिथस्तामापातुस्फुरद्‌ध्वनिडम्बराम्।
स परमपरः क्षीरोदन्वान् यदीयमुदीर्यते
मथितुरमृतं खेदच्छेदि प्रमोदनमोदनम्॥ 1.2 ॥
अन्वयः–गिरिग्रावाणः दिशि-दिशि स्वां सरस्वतीं वमन्तु, आपातस्फुरद्‌ध्वनिडम्बरां तां मिथः तुलयतु, परं सः क्षीरोदन्वान् अपरः यदीयम् अमृतं मथितुः खेदच्छेदि प्रमोदनम् ओदम्।
जीवातु–दिशीति। गिरिग्रावाणोऽद्रिपाषाणा दिशि दिशि स्वां निजां सरस्वतीं नदीमन्दतर्गतजलप्रस्रवणं वमन्तु मुञ्चन्तु। आपातः सामस्त्येन पतनं स्फुरन्प्रकाशमानो ध्वनिडम्बरः शब्दाडम्बरो यस्यां तां च नदीं मिथस्तुलयतु मिथोऽन्यनद्या समिकरोतु। अविसर्गान्तपाठे-आपातेन समन्तादूर्ध्वदेशादधःपतनेन प्रकाशमानः शब्दाडम्बरो यस्यां तामन्यनद्या सद्यं समीकरोतु, जन इत्यर्थः। अथ च-आपाते प्रथमारम्भ एव स्फुरत्प्रपातघोषां तां जनो मिथस्तुलयतु। उभयव्याख्यानेऽपि परिणामे तु न नदो न च तस्या शब्दाडम्बरश्चिरंतन इत्यर्थः। स क्षीरोदन्वान् परं केवलं, अपरः न विद्यते पर उत्कृष्टो यस्मादत्युत्कृ,्टः। अथ च-अन्य एव। यतो यस्य क्षीरोदस्येदं यदीयममृतमेतादृशमुदीर्यते उत्पद्यते। कीदृशम्? मथितुर्देवादेः खेदच्छेदि मथनजनितक्लेशापहम्। अथ च-एवंभूतं परमुत्कृष्टममृतं यदीयमुदीर्यते स श्रीरोदन्वानपरः परोऽन्यो नास्ति, किंत्वेक एव। अथ च-प्रतिदिशं सर्वदेशेषु गरि वाण्यां विषये पाषाणतुल्या जडा अन्ये कवयः स्वीयां वाणीमुद्गिरन्तु। आपातेन प्रतिभामात्रेण स्फुरन् ध्वन्याख्यकाव्यविशेषस्याडम्बरो यस्यां, प्रथमारम्भ एव स्फुरन् शब्दाडम्बरोऽनुप्रासो यत्र तां वा, वाणीमन्योन्यं जनः समीकरोतु यस्य कवेरुक्तिरस्येव, अस्य च तस्येव इत्येवं तुलयतु। `आपातः’ इति विसर्जनीयान्तपाठे-आपातः प्रतिभासस्तां तुलयत्वित्यर्थः। एवंविधं परं काव्यामृतं यदीयमुत्पद्यते स क्षीरसमुद्रतुल्याः, श्रीहर्षकविरपरो(न्यो) नास्ति, किं त्वेक एव। अन्ये कवयः पर्वतग्रावतुल्याः, अहं श्रीहर्षस्तु क्षारसमुद्रतुल्य इत्यर्थः। यथा क्षीरसागरो नीरार्थिनोऽपि तीरमात्रस्थान्क्षीरेण तर्पयति। लक्ष्मीकौस्तुभामृतादिभिः परमानन्ददायिभिः कृतार्थयति, (तथा) मदीयकाव्यविचारकस्यैव खेदच्छेदि प्रमोदनं वचनामृतमृत्पद्यते, नान्यकाव्यविचारकस्येति, अन्ये ग्रावतुल्याः, क्षीरोदतुल्यश्चाहमिति भावः॥ 1.2 ॥
ग्रन्थग्रन्थिरिह क्वचित् क्वचिदपि न्यासि प्रयत्नान्मया
प्राज्ञम्मन्यमना हठेन पठिती माऽस्मिन् खलः खेलतु।
श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः समासादयत्वेतत्काव्यरसोर्मिमज्जनसुखव्यासज्जनं सज्जनः॥ 1.3 ॥
अन्वयः–प्राज्ञम्मन्यमनाः हठेन पठिती खलः अस्मिन् मा खेलतु-इह मया प्रयत्नात् क्वचित् क्वचित् ग्रन्थग्रन्थिः अपि न्यासि, श्रद्धाराद्धगुरुश्लथीकृतदृढग्रन्थिः सज्जनः एतत्काव्यरसोर्मिमज्ज्नसुखव्यासज्जनं समासादयतु।
जीवातु–ग्रन्थेति। आत्मानं प्राज्ञंमन्यनतं प्राज्ञंमन्यं मनो यस्यैवंविधोऽस्मिन्काव्ये हठेन स्वीयप्रज्ञाबलेन पठितमस्यास्तीति पठिती इदंकाव्यस्य पाठकः खलो मा खेलतु `किमत्रास्ति अश्रुतमेव व्याकर्तुं शक्यते’ इत्यवज्ञापूर्वां दर्पाभिव्यक्तिं मा कार्षीदित्येवमर्थमिह काव्ये क्वचित्क्वचिदपि तत्र तत्र स्थले मया प्रयत्नाद् बुद्धिपूर्वं ग्रन्थग्रन्थिर्ग्रथ्यसानशब्दार्थकुटिलिका न्यासि विन्यस्ता खलमुखभङ्गार्थं बुद्धिपूर्वमेवेदं काव्यं मया दुर्बोधं व्यरचि, नतु प्रसन्नकाव्यकरणाशक्येत्यर्थः। `क्वचित्क्वचिदपि’ इत्यनेन तत्र तत्र प्रसन्नताप्यस्तीति न काव्यत्वहानिरिति सूच्यते। सज्जनस्य तु ग्रन्थविवेचनोपायमाह-श्रद्धेति। श्रद्धया गुरौ दैवतैकबुद्ध्या आराद्‌धेन पूजितेन गुरुणा पूर्वमश्लथा अपि श्लथाः कृता व्याख्यया सुबोधाः कृता दृढाः स्वरूपतो दुर्बोधा ग्रन्थयो यस्मै स गुरुसंप्रदाया वगतार्थः, अत एव दर्पराहित्यात्सज्जनः साधुरेतत्काव्यस्य रसोर्मिरमृतलहरी तस्यां मज्जनमवस्थानं समासादयतु प्राप्नोतु। गुरुपरम्परया विनैकस्यापि पद्यस्यार्थो बोद्‌धुं न शक्यते, तस्माद् गुरुपरम्पराया एवाध्येयमिदं काव्यमित्यर्थः। `यश्चेदं गुरुपरम्पराया अधाते स सततं सुखी भवतु’ इति महाकविस्तस्मा आशिषं ददाति। अस्मिन्पठिती, `क्तस्येन्विषयस्य-’ इति कर्मणि सप्तमी। आराद्धेति राधेरनुदात्तत्वादिडभावः॥ 1.3 ॥
इदानीं पण्डितानन्दजननद्वारा स्वकृतेरभ्युदयमाशास्ते-
ताम्बूलद्वयमासनञ्च लभते यः कान्यकुब्जेश्वराद्‌
यः साक्षात् कुरुते समाधिषु परं ब्रह्म प्रमोदार्णवम्।
यत्काव्यं मधुवर्षि धर्षितपरास्तर्केषु यस्योक्तयः
श्रीश्रीहर्षकवेः कृतिः कृतिमुदे तस्याभ्युदीयादियम्॥ 1.4 ॥
जीवातु–ताम्बूलेति। यः कान्यकुब्जेश्वरात्सकाशात्सकलपण्डिताधिक्व्यञ्जनं ताम्बूलद्वयं विद्वद्योग्यमासनं च लभते। न केवलं राजपूज्य एव, किंतु यः समाधिषु अष्टाङ्गयोगेषु ध्यानेषु वा विषये प्रमोदार्णवं परमान्दस्वरूपं परं वागाद्यगोचर ब्रह्म साक्षात्कुरुते। न परं पूर्वोक्तगुणविशिष्टो ब्रह्मविदेव, किंतु यदीयं काव्यं मधुवर्षि अतिसरसत्वादमृतवर्षि। न परं पूर्वविशेषणविशिष्टोऽतिसरसो महाकविरेव, किंतु तर्कशास्त्रेष्वपि यस्योक्तयो धर्षिताः पराभूताः परे प्रतिवादिनो याभिस्तादृश्यः। तस्य विद्वच्चक्रचूडामणेः श्रीहर्षकवेरियं काव्यरचनारूपा कृतिः कृतिनां सुधियां मुदे आनन्दायाभ्युदीयात्, कृतिनामान्दं कुर्वती सत्याकल्पमतिवृद्धिं प्राप्नुयादित्याशीः सर्वत्र `यत्’शब्दनिर्वाहो गुण एव। अभ्युदीयादिति, `ई गतौ’ इत्यस्य रूपम्॥ 1.4 ॥
नैषधीयचरिते द्वाविंशः सर्गः पूर्णः
सम्पूर्णचेदं महाकाव्य।

****************************************************************************

.

त्रयोधशः सर्गः

कल्पद्रमान् परिमला इव भृङ्गमालामात्माश्रयां निखिलनन्दनशाखिवृन्दात्।
तां राजकादपगमय्य विमानधुर्या निन्युर्नलाकृतिधरानथ पञ्च वीरान्॥ 13.1 ॥
अन्वयः–अथ विमानधुर्याः आत्माश्रयां तां भृङ्गमालां निखिलनन्दनशाखिवृन्दात् अपगमय्य कल्पद्रुमान् परिमलाः इव राजकान् नलाकृतिधरान् पञ्चवीरान् निन्युः।
जीवातु–कल्पद्रुमानिति। अथ नले कटाक्षपातानन्तरं, विमानधुरायः शिवकाभृतः आत्माश्रयाम् आत्मा स्वम् आश्रयोऽघिकरणं यस्याः तां स्वाधारां, स्वबाह्यविमानावस्थित्वेन परम्परया धुर्याश्रितागित्यर्थः, तां दमयन्तीं परिमलाः; सौरभविशेषाः, आत्माश्रयां स्वोपजीविनीं, परिमलाश्रितामित्यर्थः, भृङ्गमालां निखिलात् नन्दनशाखिवृन्दात् अपगमय्य कल्पद्रुमान् पञ्चामरतरूनिव, राजकात् राजसमूहात्, `गोत्रोक्षोष्ट्रोरभ्रराज-’ इत्यादिना समूहार्थे वुञ्, अपगमय्य अपनीय, नलाकृतिधरान् नलरूपधारिणः; यस्य या आकृतिस्तद्‌धारित्वं तस्यापि सम्भवतीति नलस्यापि नलाकृतिघारित्वं सङ्गच्छते; पञ्च वीरान् नलसहितान् इन्द्रीन्, निन्युः प्रापयामासुः॥ 13.1 ॥
साक्षात्कृताखिलजगज्जनताचरित्रा तत्राधिनातमदिकृत्य दिवस्तथा सा।
ऊचे यथा स च शचीपतिरभ्यधायि प्राकाशि तस्य न च नैषधकायमाया॥ 13.2 ॥
अन्वयः–साक्षात्कृताखिलजगज्जनताचरित्रा सा तत्र दिवः आधनाथम् अधिकृत्य तथा ऊचे यथा सः शचीपतिः अभ्यधायि तस्य च नैषधकायमाया न प्रकाशि।
जीवातु–साक्षादिति। अथ पञ्चवीरप्रापणानन्तरं साक्षात्कृतम् अखिलजगत्सु जनताया जनसमूहस्य, चरित्रं यया तादृशी, सा सरस्वती, तत्र पञ्चसुमध्ये दिवोऽधिनाथम् अधिकृत्य निर्दिश्य, तथा तेन प्रकारेण, ऊचे उवाच, यथा येन प्रकारेण, स च शचीपतिः इन्द्रः, अभ्यधायि अभिहितो भवति, तस्य इन्द्रस्य, नैषधकायमाया नलरूपकल्पना च, न प्राकाशि न प्रकाशिता भवति॥ 13.2 ॥
ब्रूमः किमस्य वरवर्णिनि! वीरसेनोद्‌भूतिं विषद्वलविजित्वरपौरुषस्य?।
सेनाचरीभवदिभाननदानवारिवासेन यस्य जनितासुरभी रणश्रीः॥ 13.3 ॥
अन्वयः वरवर्णिनि, द्विषद्‌बलविजित्वरपौरुषस्य अस्य वीरसेनोद्भूतिं किं ब्रुमः, यस्य रणश्रीः सेनाचरीभवदिबाननदानवारिवासेन जनितासुरभीः (सुरभिः जनिता)।
जीवातु–अथ लोकपालान् नलञ्च प्रत्येकं चतुर्भिः श्लोकैः श्लेषभङ्ग्या वर्णयति, ब्रूम इत्यादि। वरवर्णिनि! हे उत्तमाङ्गने! `उत्तमा वरवर्णिनी’ इत्यमरः, द्विषतः शत्रोः बलस्य बलासुरस्य, अन्यत्र-द्विषतो बलानां, `बलोऽसुरे बलं सैन्ये’ इति वैजयन्ती, विजित्वरपौरुषस्य जित्वरपराक्रमस्य, अस्य वरस्य, इन्द्रनलयोः सामान्यनिर्देशः, वीजित्वरपौरुषस्य जित्वरपराक्रमस्य, अस्य वरस्य, इन्द्रनलयोः सामान्यनिर्देशः,वीरसेनानां पराक्रान्तसैनिकानाम्, अस्वरस्य, इन्द्रनलयोः सामान्यनिर्देसः, वीरसेनानां पराक्रान्तसैनिकानाम्, उद्‌भूतिम् उज्जृम्भणं शौर्यप्रकाशनमित्यर्थः, अन्यत्र-वीरसेनात् तदाख्यनृपात् उद्‌भूतिम् उत्पत्तिं, किं ब्रूमः? कथं वर्णयामः? यस्य वीरस्य, रणश्रीः सेनाचरीमवतोः सैनिकायमानयोः, इभाननदानवार्योः विनायकविष्ण्वोः, वासेनाधिष्ठानेन, जनिता असुराणां भीर्यया सा तादृसी, जातेति सेषः। अन्यत्र-सेनाचरिभवतां सेनासञ्चारिणाम्, इभानां गजानाम्, आननेषु दानवारीणां मदजलानां, वासेन वासनया, सुरभिः जनिता सुगन्धिः कृता। `ढ्रलोपे पूर्वस्य दौर्घोऽणः’॥ 13.3 ॥
शुभांसुहारगणहारिपयोधराङ्कचुम्बीन्द्रचापखचितद्युमणिप्रभाभिः।
अन्वास्यते समिति चामरवाहिनीभिर्यात्रासु चेष बहुलाभरणार्चिताभिः॥ 13.4 ॥
अन्वयः–एषः शुभ्रांशुहारगणहारिपयोधराङ्कचुम्बीन्द्रचापखचितद्युमणि प्रभाभिः बहुलाभरणार्चिताभिः च अमरवाहिनीभिः(नलपक्षे-चामरवाहिनीभिः)समिति यात्रासु च अन्वास्यते।
जीवातु–शुभ्रेति। एष वीरः, इन्द्रनलयोः सामान्यनिर्देसेऽपि अत्र इन्द्र इत्यर्थः, शुभ्रांशुः चन्द्रः, हरस्येमे हाराः, गणाः प्रमयाः, हरस्यापत्यं पुमान् हारिः स्कन्दः; पयोघराङ्कचुम्बिना मेघोत्सङ्गसङ्गिता, इन्द्रचापेन खचिताः मिश्रिताः, द्युमणिप्रभाः सूर्यतेजांसि यत्र तादृशीभिः, अर्च पूजायां कर्मणिक्तः अमरवाहिनीभि- सुरसेनाभिः, समिति रणे च, युद्धक्षेत्रे च इत्यर्थः, यात्रासु रणयात्रासु च, अन्वास्यते अनुगम्यते उपास्यते च। अन्यत्र तु-एषः नलः, शुभ्रांशुभिः उज्ज्वलमयूखैः, हारागणैः मुक्ताहारजालैः, हारिपयोधराङ्कचुम्बिभिः मनोहराकुचोत्सङ्गसङ्गिभिः, इन्द्रचापैः त्त्तुल्यविविधवर्णविशिष्ठभूषणदीप्तिभिरित्यर्थः खचिता मिश्रिताः, द्युमणेः सूर्यस्य, सूर्यकान्तमणेरित्यर्थः प्रभाः यासां तादृशीभिः, बहुलैः आभरणैः अलङ्कारैः, अर्चिताभिः बूषिताभिः, चामरवाहिनीभिः चामरधारिणीभिः, समिति सभायां, यात्रासु देवतामहोत्सवेषु च, अन्वास्यते॥ 13.4 ॥
क्षोणीभृतामतुलकर्कशविग्रहाणामुद्‌दामदर्पहरिकुञ्जरकोटिभाजाम्।
पक्षच्छिदामदमुयग्रमलो विधाय बग्नं विपज्जलनिधौ जगदुज्जहार॥ 13.4A॥
अन्वयः–इन्द्रपक्षे–उदग्रबलः अयम् अतुलकर्कशविग्रहाणाम् उददामर्व्यहरिकुञ्जरकोटिभाजां क्षोणीभृतां पक्षच्छिदां विधाय कृत्वा विपज्जलनिघौ मग्नं जगत् उज्जहार।
भूमीभृतः समिति जिष्णुमपव्यपायं जानिहि न त्वमघमवन्तममुं कथञ्चित्।
गुप्तं घटप्रतिभटस्तनि ! बाहुनेत्रं नालोकसेऽतिशपमद्‌बुतमेतदीयम्॥ 13.5 ॥
अन्वयः–घटप्रतिभटस्तनि, समिति भूमीभृतः जिष्णुम् अपव्यपायम् अमुंकथंचित् अमघवन्तं न तु जानीहि, (त्वम् अघवन्तं न जानीहि), एतदीयम् अतिशयम् अद्‌भुतं गुप्तं बाहुनेत्रं न आलोकसे।
जीवातु–भूमीति। घटप्रतिभटस्तनि ! घटस्य प्रतिभटौ प्रतिस्पर्द्धिनौ, स्तनौ यस्यास्तथा भूते, हे घटप्रमितकुचे! समिति संयति, भूमीभृतः पर्वतान्, जिष्णुं जेतरम् `न लोका-’ इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया अविद्यमानः पवेः वज्रस्य, अपायो यस्य तम् अपव्यपायं नित्यवज्रहस्तम्, अमुं वीरं, कथञ्चित् अपि अमघवन्तं मघवत इन्द्रादन्यं, न तु जानीहि नैव विद्धि, इन्द्रमेवामुं विद्धि इत्यर्थः। इन्द्रश्चेदक्षिसहस्रं क्व गतम्? तत्राह, गुप्तं नलख्पधारणार्थमेव निगूहितम्, अतिशयम् अद्‌भुतम् एतदीयं बाहुनेत्रं बहुनेवत्वम् युवादित्वादण्-प्रत्ययः नालोकसे न पश्यसि। अन्यत्र तु-समिति भूमिभृतो राज्ञः, जिष्णुं जेतारम्, अप्यपायम् अपगतः व्यपायः रणात् पलायनं यस्य तं रणादपलायमानम्, अमुं वीरं नलं, त्वम कथञ्चिदपि अघवन्तं पापवन्तं, न वानीहि, पुण्यश्लीकत्वादस्योति भावः। गुप्तं रक्षितम्, अक्षतम् इत्यर्थः, बहूना नेता तस्य भावस्तं बाहुनेत्रं राजाधिराजत्वं, पूर्ववदण्-प्रत्ययः हे दमयन्ति! नालोकसे किम्? इति काकुः। अन्यत् समानम्॥ 13.5 ॥
लेखा निगग्बिनि! बलादिसमृद्धराज्यप्राज्योपभोगपिशुना दधते सरागम्।
एतस्य पाणिचरणं तदनेन पत्या सार्द्धं शचीव हरिणा मुदमुद्वहस्व॥ 13.6 ॥
अन्वयः–नितम्बिनि, बलादिसमृद्धराज्यप्राज्योपभोगपिशुनाः लेखाः एतस्य पाणिचरणं सरागं दधते तत् अनेन हरिणा पत्या सार्द्धं शची इव (हरिणा सार्द्ध शची इव अनेन पत्या सार्द्धं) मुदम् उद्वहस्व।
जीवातु–लेखा इति। नितम्बिनि! हे प्रशस्तनितम्बे! प्रशंसायामिनिः बलादीनां बलाद्यसुराणां, यानि समृद्धानि राज्यानि तेषां प्राज्योपभोगस्य प्रभूतसुखानुभवस्य, पिशुनाः खलाः, द्वेष्ठार इत्यर्थः, तदसहमानाः इति यावत्, लेखा देवाः `अमरा निर्जरा देवा लेशआ अदितिनन्दनाः’ इत्यमरः। एतस्य वीरस्य, इन्द्रस्येत्यर्थः, पाणिचरणं पाणिचरणौ, प्राण्यङ्गत्वादेकबद्भावः सरागं सानुरागं, दघते शिरसा घारयन्ति, प्रणमन्तीत्यर्थः, घाञः कर्त्तरि लट् तङिवहुवचनम्, तत्तस्मात्, अनेन हरिणा देवेन्द्रेण, पत्या सार्द्ध शचीव मुदम् उद्वहस्व, शच्याः सपत्नी भवेत्यर्थः; इत्येकोऽर्थः। अन्यस्तु-सरागम्, आताम्रम्; एतस्य वीरस्य, नलस्येत्यर्थः पाणिचरणं कर्त्त-, बलादीनि राज्याङ्गानि; `स्वाम्यमात्यसुहृत्कोशः राष्ट्रदुर्गबलानि च। राज्याङ्गनि प्रकृतयः-’ इत्यमरः तैः समृद्धस्य राज्यस्य यः प्राज्योपभोगः स्य पिशुनाः सचकाः, लोखः चक्रध्वजादिरेखाः, वधते दध धारणे इति धातोभौवादिकाल्लट् तङ्येकवचनम्, तदनेन वीरेण, नलेनेत्यर्थः, पत्या सार्द्ध हरिणा शचीव मुदम् उद्वहस्व॥ 13.6 ॥
आकार्ण्य तुल्यमखिलां सुदती लगन्तीमाखण्डलेऽपि च नलेऽपि च वाचमेताम्।
रूपं समानमुभयत्र विगाहमाना श्रोत्रान्त निर्णयमवापदसौ न नेत्रात्॥ 13.7 ॥
अन्वयः–सुदती असौ आखण्डले अपि च नले अपि च लुत्यं लगन्तीम् एतां वाचम् आकर्ण्य उभयत्र सनानं रूपं विगाहमाना न श्रोत्रात् न नेत्रात् निर्मयम् अवापत्।
जीवातु–आकर्ण्येति। सुदती शोभना दन्ता यस्याः सा, अत्र दन्तस्य दत्रादेशलक्षणाभावात् अग्रान्त-’ इत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् दत्रादेश इत्येके। सुदत्यादिशब्दानां स्त्र्यभिधायितया योगरूढत्वात् `स्त्रियां संज्ञायाम्’ इति विकल्पात् दत्रादेशा इति केचित्। एतदेवाभिप्रेत्य `सुदत्यादयः प्रतिविधेयाः’ इत्याह वामनः। उगितश्चेति ङीप् असौ भैमी, आखण्डलेऽपि च इन्द्रेऽपि च, नलेऽपि, च तुल्यम् अविशेषेण, लगन्तीं सम्बध्नतीम्, एताम् अखिलां वाचम्, आकर्ण्य उभयत्र इन्द्रनलयोः, समानं निर्विशेषं, रूपम् आकारं, विगाहमाना अग्रे दर्श दर्शम्, आलोचयन्ती, श्रोत्रात् श्रवणेन्द्रियात्, निर्णयं न आवापत् सरस्वतीकृतवर्णनाया व्यक्तिविशेषाबोधकत्वादयम् इन्द्रो नलो वेति निश्चयं न लेभे। आप्नोतेः लुङि लृदित्वात् `पुषादिद्युत-’ इत्यादिना च्लेरङादेशः नेत्रात् चक्षुरिन्द्रयाच्च, न निर्णयमवापत् इन्द्रनलयोः समानाकारतया पुनः पुनर्दृष्ट्वाऽपि न निश्चेतुं शशाकेत्यर्यः॥ 13.7 ॥
शक्रःकिमेष निषधाधिपतिः स वेति? दोलायमानमनसं परिभाव्य भेमोम्।
निर्दिश्य तत्र पवनस्य सखायमस्यां भूयोऽसृजद्भगवती वचसां स्रजं सा॥ 13.8 ॥
अन्वयः–किम्, एषः शक्रः वा सः निषवाधिपतिः-इति दोलायमानभनसं भैमीं परिभाव्य सा भगवती तत्र पवनस्य सखायं निर्दिश्य भूयः अस्यां वचसां स्रजम् असृजत्।
जीवातु–शक्र इति। अथ सा भगवती सरस्वती,भैमीम् एष वीरः, शक्रः किम्?स स्वप्राणनाथः, निषवाधिपतिः नलः, वेति दोलायमानमनसं देव्याः श्लेषोक्त्या आकारसाम्याच्च सन्दिहानचित्तां, परिभाव्य समवेक्ष्य, समवेक्ष्य, तत्र पञ्चवीरमध्ये, पवनस्य सखायम् अग्निं, निर्दिश्य हस्तेन प्रदर्श्य, आस्यां भैम्यां विषये, भूयो वचसां स्रजं वाक्यपरम्पराम्, आसृजत् जगादेत्यर्थः॥ 12.8 ॥
एष प्रतापनिधिरूद्‌गतिमान् सदाऽयं किं नाम नार्जितमनेन धनञ्जयेन?।
हेम प्रभूतमधिगच्छ सुचेरमुष्मान्नास्त्येव कस्यचन भास्वरूपसम्पत्॥ 12.9 ॥
अन्वयः–एषः प्रतापनिःधिः, अयं सदा उद्‌गतिमान्, धनञ्जयेन अनेन किं नाम न अर्जितम्? शुचेः अस्मात् प्रभूतं हेम अधिगच्छ; (अस्य इव) कस्यचन भास्वरपूपसम्पत् न (अस्ति एव)।
जीवातु–एष इति। एष वीरः, प्रतापस्य तेजसः, निधिः, अयं सदा उद्‌गतिमान् ऊद्र्ध्वज्वलनवान्, धनानि विचित्रवस्तूनि जयतीति धनञ्जयो धनञ्जयसंज्ञकः पार्थः, अर्जुनः इति यावत्, `संज्ञायां भृतॄवृजि-’ इत्यादिना खचि मुमागम; तेन कर्त्रा, अनेन अग्निना कारणेन, किं किल, नार्जितम्? न लब्धम्? खाण्डवदहनकाले सन्तुष्टस्याग्नेः सकाशात् रथाक्षयतूणगाण्डीवादिकं प्राप्य पार्थेन विजित्य सर्वञ्च उपलब्धमेवेत्यर्थः, केचित्तु-धनञ्जयेन अग्निना, `धनञ्जयः सर्पभेदे ककुभे देहमारुते। पार्थेऽग्नौ’ इति मेदिनी, अनेन कर्त्रा, किं नाम अग्निर्वैश्वानरो अमुष्मात् अग्नेः, `शुचिर्ग्रीष्माग्निश्रृङ्गारेष्वाषाडे शुद्धमन्त्रिणि’ इति मेदिनी, प्रभूतम् उद्‌भूतम्, अधिगच्छ विद्धि; `अग्नेरपत्यं सुवर्णम्’ इति स्मरणादिति भावः। भास्वररूपस्य रूपान्तरप्रकाशकरूपस्य, सम्पत् समृद्धिः, कस्यचन इतोऽन्यस्य कस्यचिदपि, नास्त्येव। अन्यत्र तु-एषः प्रतापस्य कोषदण्डजतेजोविशेषस्य, निधिः, `स प्रतापः प्रभावश्च यत्तेजः कोषदण्डजम्,’ इत्यमरः अयं नलः, सदा उद्गतिमान् उदयवान्, नित्याभ्युदयशील इत्यर्थः; अनेन कर्त्रा, जयेन करणेन, किं नाम घनं नार्जितम्? जयेन च सर्वसम्पादितम् इत्यर्थः, `क्षत्रियस्य विजितम्’ इति स्मरणादिति भावः, शुचेः पवित्रात्, अमुष्मात् नलात् प्रभूतं प्राज्यं, हेम सुवर्णम्, आधिगच्छ प्राप्नुहि, एतत्परिग्रहात् आढ्या भवेत्यर्थः; भाः कान्तिः, स्वरः कण्ठध्वनिः, रूपं सौन्दर्यं, तेषां सम्पत् कस्यचन इतोऽन्यस्य कस्यापि, नास्त्येव॥ 13.9 ॥
अत्यर्थहेतिपटुताकवलीभवत्तत्तत्पार्थिवाधिकरणप्रभवस्य भूतिः।
अपयङ्गरागजननाय महेश्वरस्य सञ्जायते रुचिरकर्णि! तपस्विनोऽपि॥ 13.10 ॥
अन्वयः–रुचिरकर्णि, अत्यर्थहेतिपटुताकवलीभवत्तत्तत्पार्थिवाधिकरणप्रनवस्य भूतिः तपस्विनः अपि महेश्वरस्य अङ्गरागजननाय सञ्जजायेत।
जीवातु–अत्यर्थेति। रुचिरकर्णि! हे कमनीयकर्णे! `नासिकोदर-‘इत्यादिना विकल्पात् ङीष्, अत्यर्थया अतिमात्रया, हेतिपटुतया ज्वालापाटवेन, कवलीभवत् ग्रासीभवत् इन्धनीभवदिति यावत् तत्तत् पार्थिवं तृणकाष्ठादिपार्थिवद्रव्यमेव, अधिकरणम्, आश्रयः, भूतिर्भस्मापि, तपस्विनो महेश्वरस्याप्यङ्गरागजननाय अनुलेपसम्पादनाय; ससञ्जायते भवति। अन्यत्र तु-अत्यर्थ हेतिपटुता आयुधसामर्थ्य, `हेतिःस्यादायुघज्वालासूर्यतेजःसु योषिति’ इति मेदिनी, तस्याः कवलीभवद्भिः तैः तैः पार्थिवैः राजभिः सह, अधिको रणः स एव प्रभवः कारणं यस्य तादृश्य, रणात् राज्यलाक्षेन रणस्य राज्यकारणत्वेऽपि राजकारणत्वमुपचर्यते इति बोध्यम्; नलस्येति शेषः, भूतिः विजयलब्धा सम्पत्; `भूतिर्भस्मनि सम्पदि’इत्यमरः महैश्वरस्य महेश्वर्यशालिवोऽपि तपस्विनः अपि निवृत्तरागस्यापि जनस्य, रागजननाय अनुरागोत्पादनाय, आकर्षणायेत्यर्थः, स़ञ्जायते, अङ्गेत्यामन्त्रणे॥ 13.10 ॥
एतन्मुखा विबुधसंसदासावशेषा माध्यस्थ्यमस्य यमतोऽपि महेन्द्रतोऽपि।
एनं महस्विनमुपहि सादारुणोच्चर्येनामुना पितृमुखि! ध्रियते करश्रीः॥ 13.11 ॥
अन्वयः–पितृमुखि, अशेषा असौ विबुधसंसद् एतन्मुखा, अस्य यमतः अपि महेन्द्रात् अपि माध्यस्थ्यम्, महस्विनम्, एनम्, आप्नुहि, सदारुणा (सदा+अरुणा) येन अमुना उच्चैः करश्रीः ध्रियते।
जावातु–एतदिति। पितुर्मुखमिव मुखं यस्याः, तस्याः सम्बुद्धिः हे पितृमुख!, धन्या पितृमुखी कन्या धन्यो मातृमुखः सुतः’ इति सामुद्रिक्रवचनात्, अशेषा समग्रा, असौ विभुधसंसद्‌ देवसभा, एष अग्निः एव मुखमास्यं यस्याः सा एतन्मुखाः `अग्निमुखा वै देवाः’ इति श्रुतेः, `बर्हिमुखः क्रतुभुजः’ इत्यभिधानाच्च अस्य अग्नेः, यमतो महेन्द्रतोऽपि यमस्य महेन्द्रस्य च, षष्ठ्यर्थे सार्वविभक्तिकस्तसिल्, माध्यस्थ्यं मध्यदिग्‌वर्त्तित्वमित्यर्थः, अग्निकोणस्थितत्वमिति यावत्, अग्निकोणाधिपस्याग्नेः दक्षिणपूर्वदिगधिपयोः यमेन्द्रयोः मध्यवर्त्तित्वादिति भावः, महस्विनं तेजस्विनम्, एनम् उपैहि प्राप्नुहि, सदारुणा दारुसहितेन, सेन्दनेनेत्यर्थः, येनामुना अग्निना, उच्चैर्महती, करश्रीः अंशुसम्पत्, ध्रियते धार्यते। अन्यत्र तु-अशेषा असौ विबुधसंसद् विद्वत्सभा, एतन्मुखा एतत्प्रधाना, एतदेकशरणेत्यर्थः, तथा अस्य नलस्य, यमतो यमात्, महेन्द्रतो महेन्द्राच्च, पञ्चम्यास्तसिल्, माध्यस्थ्यम् औदसीन्यं, शत्रु-मित्रयोः समानदण्डदानादपक्षपातित्वेन समदर्शित्वमित्यर्थः, महस्विनं तेजस्विनम् उत्सववन्तं वा, `महस्तुन्सवतेजसोः’ इत्यमरः, एनमुपैहि, सदा सर्वदा, येनामुना नलेन, अरुणा आताम्रा, उच्चैः करश्रीहंस्तशोबा, `बलिहस्तांशवः कराः’ इत्यमरः, ध्रियते॥ 13.11 ॥
नैवाल्पमेधसि पटो रुचिमत्त्वमस्य मध्येसमिन्निवसतो रिपवस्तृणानि?।
उत्थानवानिह पराभवितुं तरस्वी शक्यः पुनर्भवति केन विरोधिनाऽयम्?॥13.12 ॥
अन्वयः–पटोः अस्य एधसि रुचिमत्त्वम् अल्पं न एव, मध्येसमित् निवसतः रिपवः तृणानि; इह उत्थानवान् तरस्वी अयम् पुनः केन विरोधिना पराभवितुं शक्यः।
जीवातु–नेति। पटोर्दाहसमर्यस्य, अस्य वीरस्य अग्नेः, एधसि इन्धने, रुचिमत्त्वं दाहाभिलाषित्वं दीप्तिशालित्वं वा, अल्पं नैव अनल्पमेव इत्यर्थः; समिधां काष्ठानां मद्ये मध्येसमित्, `पारे मध्ये षष्ठ्या वा’ इत्यव्ययीभावः, निवसतः, अस्येति शेषः, तृणानि रिपवः विद्विषः, किम्? इति काकुः, काष्ठानि दहतोऽस्य तृणानि न गण्यानीत्यर्थः; उत्थानवानूद्र्ध्वगतिमान्’ तरस्वी वेगवान्, प्रबलवेगेन प्रज्ज्वलित इत्यर्थः, अयम्, अग्निः, पुनरिह सृष्टौ, विरोधिना केन अम्बुना `कं शिरोमऽम्बुनोः’ इत्यमरः, पराभवितुं शक्यो भवति किम्? इति काकुः, नैवव शक्य इत्यर्थः, दिव्यस्य अस्य अनिर्वाणत्वादिति भावः। अन्यत्र-पटोः अतिप्रगल्भस्य, वाग्मिन इत्यर्थः, अस्य नलस्य, अल्पमेधसि मन्दप्रज्ञे, `नित्यमसिच् प्रजामेधयोः’ इत्यत्र नित्यग्रहणसामर्थ्यात् मन्दाल्पाभ्याञ्च मेधायाः’ नैव; मध्येसमित् युद्धमध्ये, `समित्याजिसमित्‌युवः’ इत्यमरः, निवसतः अस्य रिपवः तृणानि तृणप्राया इत्यर्थः; उत्थानवान् पौरुषसम्पन्नः., उद्यमशीलो वा, उत्थानमुद्यमे तन्त्रे पौरुषै पुस्तके रणी, इति मेदिनी, तरस्वी शूरः, `वेगि-शूरौ तरस्विनौ’ इत्यमरः, अयं पुनः केन विरोधिना पराभवितुं शक्यो भवति? न केनापीत्यर्थः। भवतीति दमयन्त्याः सम्बोधनं वा॥ 13.12 ॥
साधारणीं गिरमुषर्बुधनैषधाभ्यामेतां निपीय न विशेषमवाप्तवत्याः।
ऊचे नलोऽयमिति तं प्रति चित्तमेकं ब्रूते स्म चान्यदनलोऽयमितीदमीयम्॥ 13.13 ॥
अन्वयः–उषर्बुधनैषधाभ्यां साधारणीम् एतां गिरं निपीय विशेषं न अवाप्तमन्याः एकं चित्तं तं प्रति अयंनलः-इति ऊचे, इदमीयं च अन्यत अयम् अनलः-इति ब्रूते स्म।
जीवातु–साधारणीमिति। उषसि बुध्यते इत्युषर्बुधोऽग्निः, `अग्निर्वैश्वानरो वह्निः शोचिष्केश उषर्बुधः’ इत्यमरः। `इगुपध-’ इति कः, `अहरादीनां पत्यादिषु वा रेफः’ इति रेफादेशः, स च नैषधो नलश्च ताभ्यां, साधारणीं समानाम् `आग्नीध्र-साधारणादञ्’ इति वक्तव्यादिञि `टिड्ढाणञ्-’ `इत्यादिना ङीप् एतां गिरं नीपीय आकर्ण्य, विशेषं परस्परभेदकधर्म, नावाप्तवत्याः अप्राप्तवत्याः, भैभ्याः इति शेषः, एकं चित्तं दमयन्तीसम्बन्धिनी एका बुद्धिः, तं पुरोवर्त्तिपुरुषं प्रति, अयं नल इत्यूचे; इदमीयं दमयन्ती सम्बन्धि, अन्यदपरं चित्तम्, अयमनलोऽग्निः, इति ब्रूते स्म; अनलनलकोटिद्वयावलम्बी संशयो न निवृत्त इत्यर्थः॥ 13.13 ॥
एतादृशीमथ विलोक्य सरस्वती तां सन्देहचित्रभयचित्रितचित्तवृत्तिम्।
देवस्य सूनुमरविन्दविकासिरश्मेरुद्दिश्य दिक्पतिमुदीरयितुं प्रचक्रे॥ 13.14 ॥
अन्वयः–अथ सरस्वती एतादृशीं सन्देहचित्रमयचित्रित चित्तवृत्तिं तां विलोक्य अरविन्दविकासिरश्मेः देवस्य सूनूं दिक्पतिम् उद्दिस्य उदीरयितुं चक्रे।
जीवातु–एतादृशीमिति। अथ सरस्वती तां भैमीम्, एतादृशीम्, ईदृशीं, सन्देहः प्रागुक्तः, चित्रं देव्तास्तादृशशिलष्टवाक्यश्रवणात्, उभयोः समानरूपदर्शनाच्च आश्चर्यं, भयं नलनिश्चायाभावेन नलप्राप्तौ नैराश्यात् त्रासः, एतैर्भवैश्चित्रिता विस्मिता, विस्मयविमूढा इत्यर्थः, चित्तवृत्तिर्यस्यास्तादृशीं, विलोक्य अरविन्दानि विकासयन्ति ये तादृशा रश्मयो यस्य तस्य पद्मिनीमुद्राभञ्जनस्य, देवस्य सूर्यस्य, सूनुं पुत्रं, दिक्पतिं यमम्, उद्दिश्य उदीरयितुं व्याहर्त्तु, प्रचक्रे प्रस्तावं चक्रे, प्रचक्रमे इत्यर्थः॥ 13.14 ॥
दण्डं बिभर्त्तययमहो! जगतस्ततः स्यात् कम्पाकुलस्य सकलस्य न पङ्कपातः।
स्वर्वैद्ययोरपि मदव्ययदायिनीभिरेतस्य रुग्भिरमरः खलु कश्चिदस्ति?॥ 13.15 ॥
अन्वयः–अहो, अयं दण्डं बिभर्त्ति, ततः कम्पाकुलस्य सकलस्य जगतः पङ्कपातो न भवेत्; स्वर्वैद्ययोः अपि मदव्ययदायिनीभिः एतस्य रुग्भिः किमु कश्चित् अमरः अस्ति?
जीवातु–दण्डमिति। अयं यमः, दण्ड तुष्टदमनं स्वकीयास्रं, आलम्बनयष्टिञ्चि, बिभर्त्ति,ततो दण्डधारणात्, कम्पाकुलस्य सकलस्य जगतः पके पापे, कदंभे च, पातो न स्यात् अहो!अन्यस्य दण्डधारणोदन्यस्य अपतनमित्याश्चर्यम्। अन्यत्र-नलस्य यथापराधदण्डनाज्जगतो निष्पापत्वमित्यर्थः, `गुरुरात्मवतां शास्ता शास्ता राजा दुरात्मनाम्। इह प्रच्छन्नपापानां शास्ता वैंवस्वतो यमः’ इति स्मरणात्, तथा, `राजभिर्धृतदण्डास्तु कृत्वा पापानि मानवाः। निर्मलाः स्वर्गमायान्ति सन्तः मुकृतिनौ यता॥’ इत्युभयौर्दण्डधारणस्मरणादिति भावः। किञ्च, स्ववैंद्ययोः अश्विनीकुमारयोरपि, मदव्ययदायिनीभिः अहङ्कारहारिणीभिः, कर्मजरोगाणां चिकित्सासाध्यत्वाभावात् तयोरप्यसाध्या भिरित्यर्थः, अन्यत्र–सोन्दर्येण प्रसिद्धयोस्तयोः सौन्दर्यगर्वहारिणीभिः, एतस्य यमस्य नलस्य च, रुग्भिः कर्मविपाकानुसारेण एतत्सम्पादितरोगैः, `स्त्री रुग्रुजा चोपतापरोगव्याधिगदामया’ इत्यमरः। रुजेर्घातोः क्विप् अन्यत्र–शरीरशोभाभिः, दैहिकसौन्दर्येणेत्यर्थः, `रुक्, स्त्री शोभाद्युतीच्छासु’ इति मेदिनी, न म्रियते मृतप्रायो न भवतीत्यमरः, पचाद्यच्, कश्चिदस्ति खलु? अपि तु न कोऽपि अमरोऽस्ति, सर्वेएव मृतप्राया भवन्तीत्यर्थः, अन्यत्र–तादृशशरीरकान्तिभिरुपलक्षितः, अमरः देवः, कश्चिदस्ति खलु? अपि तु न कोऽप्यस्ति, देवेषु सुन्दरतमयोस्तयोर्जितत्वादिति भावः॥ 13.15 ॥
मित्रप्रियोपजननं प्रति हेतुरस्य संज्ञा श्रुतासुहृदयं न जनस्य कस्य?।
छायेदृगस्य च न कुत्रचिदध्यगामि तप्तं यमेन नियमेन तपोऽमुनैव॥ 13.16 ॥
अन्वयः–अस्य मित्रप्रिया उपजननं (मित्रप्रियोपजननं) प्रति हेतुः संज्ञा श्रुता, अयं कस्य जनस्य असुहृत् (सुहृत) न? अस्य च क्वचित् छाया न ईदृक् अध्यगायि (ईदृक् छाया क्वचित् न अध्यगायिः); अमुना यमेन नियमेन तपः तप्तम्।
जीवातु–मित्रेति। संज्ञा संज्ञादेवीति, श्रुता प्रसिद्धा, मित्रप्रिया अर्कदयिता, अस्य यमस्य, उपजननम्, उत्पत्तिं, प्रति हेतुः कारणं, जननीत्यर्थः; अयं यमः, कस्य जनस्य असून् हरतीति असुहृत् प्राणहरः, न? सर्वस्यैवासुहृत् सर्वान्तकत्वादिति भावः; छाया च छायाख्या मित्रप्रिया च, अस्य यमस्य, ईदृक् ईदृशी उत्पत्तिहेतुर्जननीत्यर्थः, इति कुत्रचित् क्वापि शास्त्रे, नाध्यगामि न अधिगता सूर्यस्य द्वे भार्ये संज्ञा छाया च, तत्र संज्ञैव अस्य जननीति श्रूयते न छायेत्यर्थः; यमेन यमाख्येन, अमुना नियमेनैव इन्द्रियनिग्रहेणैव, तपस्तप्तम्। अन्यत्र तु-अस्य वीरस्य, संज्ञा हस्तादिचेष्टा, नलेति नाम वा, `संज्ञाऽर्कभार्या चैतन्यं हस्ताद्यैः सूचनाभिधा’ इति वैजयन्ती, मित्राणां सुहृदां, `मित्रं सुहृदि मित्रोऽर्के’ इति विश्वः, प्रियोपजननम् इष्टसम्पादनं प्रति हेतुः श्रुता; अयं कस्य जनस्य सुहृत् सखा, न? अपि तु सर्वस्यैव सुहृत्, अस्येदृक्, छाया कान्तिः, छाया सूर्यप्रिया कान्तिः’ इत्यमरः, कुत्रचित् क्वापि पुरुषान्तरे, न अध्यगामि न अधिगता, अमुना नलेन, यमेन नियमेन च यमनियमाभ्यां, तपस्तप्तमेव, अन्यथा कथमर्य महिमेति भावः॥ 13.16 ॥
किञ्च प्रभावनमिताखिलराजतेजा
देवः पिताम्बरमणी रमणीयमूर्त्तिः।
उत्क्रान्तिदा न कमनु प्रतिभाति शक्तिः?
कृष्मत्वमस्य च परेषु गदान्नियोक्तुः॥ 13.17 ॥
अन्वयः–किम् च प्रभावनमिताखिलराजतेजा रमणीयमूर्त्तिः देवः अम्बरमणिः (अस्य) पिता, (अस्यः) शक्तिः कम् अनु उत्क्रान्तिदा न प्रतिभाति? परेषु च गदान् (गदाम्) नियोक्तुः अस्य कृष्णत्वम्।
जीवातु–किञ्चेति। किञ्च प्रभाभिः अवनमितम् अधः कृतं, अखिलं राज्ञः चन्दस्य, तेजो येन सः, रमणीयमूर्त्तिः देवः अम्बरमणिः सूर्यः, `ढ्रलोपेपूर्वस्य दीर्घाऽणः’ अस्य पिता, अस्य शक्तिः कासूनामायुधं, कमनु कं जनं प्रति, उत्क्रान्तिदा प्राणोत्क्रमणप्रदा, न प्रतिभाति? अपि तु प्रतिभात्येव; परेषु अन्येषु, गदान् रोगान्, नियोक्तुः कर्मविपाकानुसारेण प्रेरयितुः, तृन्नन्तत्वात् `न लोका-’ इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया अस्य कृष्णत्वं कृष्णवर्णत्वं, परपीडाजनकत्वेनास्य दुर्यशसा कृष्णत्वमित्यर्थः. अन्यत्र-देवः देवतुल्यः, अम्बरमणी सूर्यः `कृदिकारात्–’ इति विकल्पात् ङीष् तद्वत् रमणीयमूर्त्तिः अस्य पिता वीरसेनः, प्रभावेण प्रतापेन, नमितान्यखिलानां राज्ञां तेजांसि येन सः, `राजा प्रभौ च नृपतौ क्षत्रिये रजनीपतौ’ इति मेदिनी, अस्य शक्तिः प्रभावमन्त्रोत्साहलक्षणं समार्थ्यं, `कासूसामर्थ्ययोः शक्तिः’ इत्यमरः परेषु शत्रुषु , गदाम् आयुधविशेषं, नियोक्तुः निक्षेपयितुः, अस्य नलस्य, कृष्णत्वं विष्णुत्वं, गदाधरत्वादिति भावः। शेषं पूर्ववत्॥ 13.17 ॥
एकः प्रभावमयमेति परेतराजौ तज्जीवितेशधियमत्र विधेहि मुग्धे!।
भतेषु यस्य खलु भूरि यमस्य वश्यभावं समाश्रयति दस्रसहोदरस्य॥ 13.18 ॥
अन्वयः–अयम् एकः परेतराजौ प्रभावम् एति तत् मुग्धे, अत्र जीवितेशधियं विधेहि दस्रसहोदरस्य यस्य यमस्य भूतेषु भूरि (अस्य बूतेषु इयं भूः) वश्यभावं समाश्रयति।
जीवातु–एत इति। अयमेकः परेतानां प्रेतानां, `परेतप्रेतसंस्थिताः इत्यमरः राजौ पङ्क्तौ, प्रभावं प्रभुत्वम्, एति, दस्रसहोदरस्य अश्विनीभ्रातुः यस्य यमस्य भूतेषु प्राणिषु, मध्ये `भूतं प्राणिपिशाचादौ’ इति वैजयन्ती, भूरि अनेकं भूतं, वशं गतो वश्यः तस्य भावं वश्यत्वं, समाश्रयति खलु। हे मुग्धे! तत् तस्मात्, अत्र अस्मिन् पुंसु, जीवितेशधियं यमबुद्धिं, विधेहि। अन्यत्र तु–अयमेकः परेषां शत्रूणाम्, इतरेषाञ्च आजौ युद्धे, प्रभावं सामर्थ्यम्, एति, दस्रसहोदरस्य अश्विसदृशस्य, यस्य अस्य नलस्य, भूतेषु क्ष्मादिषु, पृथिव्यादिषु मध्ये इत्यर्थः, `क्षमादौ जन्तौ च भूतं क्लीबम्’ इति वैजयन्ती, इयं भूर्वश्यभावं समाश्रयति खलु, तत् तस्मात्, अत्रास्मिन् नले जीवितेशधियं कान्तबुद्धिं, प्राणेश्वरबुद्धिमित्यर्थः, `जीवितेशो यमे कान्ते’ इति विश्वः, विधेहि॥ 13.18 ॥
गुम्फो गिरां शमननैषधयोः समानः शङ्कामनेकनलदर्शनजातशङ्के।
चित्ते विदर्भवसुधाधिपतेः सुताया यन्निर्ममे खलु तदेष पिपेष पिष्टम्॥ 13.19 ॥
अन्वयः–शमननैषधयोः समानः एषः गिरां गुम्फः विदर्भवसुधाधिपतेः सुतायाः अनेकनलदर्शनजातशङ्के चित्ते यत् शङ्का निर्ममे तत् खलु पिष्टं पिपेष।
जीवातु–गुम्फ इति। शमननैषधयोः यमनलयोः, समान एष गिरां गुम्फः सन्दर्भः, अनेकेषां नलानां दर्शनेन जातशङ्के विदर्भवसुधाऽधिपतेः सुतायाः वैदर्भ्याः, चित्ते शङ्का निर्ममे इति यत् तत् पिष्टं पिपेष खलु प्रागेव साशङ्के पुनः शङ्कोत्पादनं एकत्रामम्भवेन सादृश्याक्षेपात् असम्मभवाद्वस्तुसम्बन्धो वाक्यार्थवृत्तिनिदर्शनालङ्कारः॥ 13.19 ॥
तत्रापि तत्रभवती भृशसंशयालोरालोक्य सा विधिनिषेधनिवृत्तिमस्याः।
पाथःपतिं प्रति धृताभिमखाङ्गुलीकपाणिः क्रमोचितमुपाक्रमताभिदातुम्॥ 13.20 ॥
अन्वयः–तत्रभवती सा तत्र अपि भृशसंशयालोः अस्याः विधिनिषेधनिवृत्तिम् आलोक्य क्रमोचितं पाथःपतिं प्रति धृताभिमुखङ्गुलीकपाणिः अभिधातुम् उपाक्रमत्।
जीवातु–तत्रेति। सा भवती तत्रभवती पूज्या, `इतराभ्योऽपि दृश्यन्ते’ इति त्रल्-प्रत्ययः, सा सरस्वती, तत्रापि तस्मिन् पूरुषेऽपि, यमेऽपीत्यर्थः, भृशं संशयालोः सांशायिक्याः, `शीङो वाच्यः’ इत्यालुच्, अस्या दमयन्त्याः, विधिनिषेधयोः प्रवृत्तिनिवृत्त्योः, निवृत्तिमभावम्, औदासीन्यमिति यावत्, आलोक्य क्रमोचितं क्रमप्राप्तं, पाथः-पतिम्, आप्पतिं वरुणं प्रति, धृताः प्रसारिताः, अभिमुखा अङ्गुल्यो यस्य स धृताभिमुखाङ्गुलीकः, `नद्युतश्च’ इति कप्‌, तादृशः पाणिर्यस्याः सा तादृशी सती, अभिधातुम् उपाक्रमत उपक्रान्तवती, क्रमेर्लङ्‌ `प्रोपाभ्यां समर्थाभ्याम्’ इति तङ्॥ 13.20 ॥
या सर्वतोमुखतया व्यवतिष्ठमाना यादोरणैर्जयति नैकविदारका या।
एतस्य भूरितरवारिनिधिश्चमूः सा यस्याः प्रतीतिविषयः परतो न रोधः॥ 13.21 ॥
अन्वयः–या सर्वतोमुखतया व्यवतिष्ठमाना, नैकविदारका या यादोरणैः (नैकविदारकाया या दोरणैः) जयति यस्याः परतः रोधः प्रतीतिविषयः न एतस्य सा बूरितरवारिनिधिः चमूः (जयति)।
जीवातु–येति। या चमूः सेना, सर्वतोमुखतया सर्वतो मुखं यस्येति सर्वतोमुखं जलं तस्य भावः तत्तया जलत्वेनेत्यर्थः, `आपः स्त्री भूम्नि वार्वारि सलिलिं कमलं जलम्। पुष्करं सर्वतोमुखम्’ इत्यमरः, व्यवतिष्ठमाना व्यवस्थितस्वरूपा, जलरूपेत्यर्थः, नैके अनेके, नञर्थस्य न-शब्दस्य सुप्सुपेति समासः, विदारकाः कूपकाख्याः शुष्कनदादेर्जलधारणयोग्याः कूपप्रतिकृतयो गर्त्ता यस्यां तादृशी, `कूपकास्तु विदारकाः’ इत्यमरः, या चमूः, वारिनिधिरूपेत्यर्थः, यादसां जलजन्तूनां रणैः शब्दैः, जयति प्रकाशतेष यस्याः वारिनिधिरूपायाः चम्वा इत्यर्थः, परतो रोधः परं तीरं, सार्वविभक्तिकस्तसिल्, प्रतीतिविषयो न अदृश्यम्, इत्यर्थः, एतस्य वरुणस्य, सा चमूर्भूरितरो महत्तरः, वारिनिधिः समुद्रः। अन्यत्र तु-या चमूः सर्वतोमुखतया सर्वपथिकतया, व्यवतिष्ठमाना वर्त्तमाना, नैकान् अनेकान् विदारयन्तीति नैकविदाराः अनेरिपुनाशकाः, कर्मण्यण्, काया विग्रहा यस्यां सा तादृशी, या चमूर्दोष्णां रणैः दोरणैः बाहुयुद्धैः, `भुजबाहु प्रवेष्टो दोः’ इत्यमरः, जयति, यस्याः परतः परेभ्यः, रोधः प्रतिरोधः, प्रतीतिविषयो ज्ञानविषयीभूतः न या केनापि प्रतिरोद्धुं न शक्यते इत्यर्थः एवस्य नलस्य, सा चमूः भूरीणां तरवारीणाम्आयुधविशेषाणां, निधिः आकरः॥ 13.21 ॥
नासीरसीमनि घनध्वनिरस्य भूयान् कुम्भीरवान् समकरः महदानवारिः।
उत्पद्मकाननसखः सुखमातनोति रत्नैरलङ्करणभावमितैर्नदीनः॥ 13.22 ॥
अन्वयः–नासीरसीमनि घनध्वनिः भूयान् कुम्भीरवान् समकरःसहदानवारिः उत्पद्मकाननसखः अलङ्कारणभावमितैः रत्नैः नदीनः अस्य कुम्भी सुखं रवान्, सुखम् आतनोति।
जीवातु–नासीरेति। नासीरसीमनि पुरोभागे, तटसमीपे इति यावत्, घनध्वनिः महाघोषः, मध्ये निस्तरड्गत्वादिति भावः, भूयान् महान्, कुम्भीरवान् नक्रवान्, `नक्रस्तु कुम्भीरः’ इत्यमरः, समकरो मकरसहितः, दानवारिणा विष्णुना, क्षीरोदशायिनेति भावः, सह वर्त्ते इति सहदानवारिः, `वोपसर्जनस्य’ इति सहशब्दस्य सभावविकल्पः, उत्पद्मकाननानाम् उत्पद्मानाम् उदितपद्मानाम्, उत्फुल्लपद्मानामित्यर्थः, उत्‌शब्दोऽत्र उदयार्थकः, काननानां विकशितपद्मवनानां, सखा विकसितपद्मवनसहित इत्यर्थः, `राजाहःसखिभ्यष्टच्’ नदीनाम् इनः पतिः नदीनः समुद्रः, अलमत्यर्थ, करणमावम् उपकरणत्वम्, इतैः प्रप्तैः रत्नैः श्रेष्ठवस्तुभिः, `रत्नं स्वजातिश्रेष्ठेऽपि मणावपि नपुंसकम्’ इत्यमरः, अस्य वरुणस्य, सुखम्, आतनोति। अन्यत्र तु-घनस्य मेघस्येव, ध्वनिः बृंहितं यस्य सः भूयाननेकः समकरः समानशुण्डः, ह्रस्वदीर्घस्थूलाणुरहितशुण्डः इत्यर्थः, सहदानवापिः मदजलसहितः, उत्पद्मकस्य उद्भूतबिन्दुजालकस्य, आननस्य सखा तद्‌युक्तः, पद्मकालङ्कृतानन इत्यर्थः, `पद्मकं बिन्दुजालकम्’ इत्यमरः, अलङ्करणभावम् इतैः अलङ्कारत्वं प्राप्तैः, रत्नैः मणिभिः, न दीनो न शून्यः, तद्‌युक्त इत्यर्थः, अस्य नलस्य, कुम्भी दन्ती, हस्ती इत्यर्थः, `कुम्भी कलशदन्तिनोः’ इति वैजयन्ती, सुखं यथा तथा नासीरसीमनि सेनामुखभागे रवान् बृंहणानि, आतनोति॥ 13.22 ॥
सस्यन्दनैः प्रवहणेः प्रतिकूलपातं का वाहिनी न तनुते पुनरस्य नाम?।
तस्या विलासवति! कर्कशताश्रिता या ब्रूमः कथं बहुतया सिकता वयं ताः?॥ 13.23 ॥
अन्वयः–विलासवति, अस्य नाम का पुनः वाहिनी सस्यन्दनैः प्रवहणैः प्रतिकूलपातं न तनुते? कर्कशताश्रिता या (कर्कशताश्रितायाः) तस्याः सिकताः (आसिकताः) वयं तां बहुतया कथं ब्रूमः?
जीवातु–सस्यन्दनैरिति। विलासवति! हे भैमि! अस्य वरुणस्य सम्बन्धिनी, का पुनर्वाहिनी, नदी, सस्यन्दनैः स्रुतिसहितैः, अविच्छेदेन प्रवर्त्तनशीलैः इत्यर्थः प्रवहणैः प्रवाहैः, तरङ्गैरिति यावत्, प्रतिकूलं कूले कूले, पातं, न तनुते नाम? सर्वाऽपि कूलं पातयतीत्यर्थः। किञ्च तस्या वाहिन्याः सम्बन्धिन्यः, कर्कश्यं, श्रिता याः सिकता बालुकाः, ता बहुतया अपरिमितत्वेन, वयं कथं ब्रूमः? कथं सङ्ख्यातुं शक्नुमः इत्यर्थः। नैव शक्नुम इति भावः। अन्यत्र तु-सस्यन्दनैः सरथैः, प्रवहणैः कर्णीरथैः उपलक्षिता, `कर्णीरथः प्रवहणम्’ इत्यमरः, अस्य नलस्य, का वाहिनी सेना प्रतिकूलानां प्रत्यर्थिनां, पातं नाशं, न तनुते? किञ्च कर्काणां श्वेताश्वानां, `कर्कः कर्केतने वह्नौ शुक्लाश्वे दर्पणे घटे’ इति मेदिनी, शतैः आश्रितायाः तस्या वाहिन्याः ताः प्रसिद्धाः, असिकताः असिः प्रहरणमेषामस्तीति असिकाः तेषां भावः असिकताः ताः खङ्गिकत्वानि, `प्रहरणम्’ इति ठक्, बहुतया वयं कथं ब्रूमः?॥ 13.23 ॥
शोणं पदप्रमयिनं गुणमस्य पश्य किञ्चास्य सेवनपरैव सरस्वती सा।
एनं भजस्व सुभगं भुवनाधिनाथं के वा भजन्ति तमिमां कमलाशया न?॥ 13.24 ॥
अन्वयः–अस्य पदप्रणयिनं गुणं शोणं पश्य, किं च सा सरस्वती अस्य एव सेवनपरा; भुवनाधिनाथं सुभगम् एनं भजस्व, तम् इमं के वा कमलशायाः (कमलाशया) न भजन्ति?
जीवातु–शोणमिति। अस्य वरुणस्य, पदप्रणयिनं पादोपसर्पिणं, गुणं गुणिनं, रक्तर्णजलविशिष्टमित्यर्थः शोणं शोणाख्यं नदं, पश्य, किञ्च सा सरस्वती नदी, अपीति शेषः, अस्य वरुमस्य, सेवनपरैव, सकलनदीनदनायकोऽयम्, इत्यर्थः, ततः कारणात् भुवनाधिनाथं जलाधिपतिं `सलिलं कमलं जलम्। पयः कीलालममृतं जीवनं भुवनं वनम्॥’ इत्यमरः, सुभगम् एनं वरुणं, भजस्व समाश्रय, तमिमं सुभगं वरुणं, के वा कमलाशया जलाधाराः, न भन्ति? अपि तु सर्वेऽपि भजन्तीत्यर्थः, अथवा-के वा प्रामिनः, कमलाशया जलाकाङ्क्षया, न भजन्ति? अन्यत्र तु-अस्य नलस्य, पदप्रणयितं पादतलगतं, शोणं रक्तं, गुणं पश्य, भाग्यलक्षणत्वादिति भावः; किञ्च सा सरस्वती वाग्देवता, `सरस्वती सरिद्भेदे गोवाग्देवतयोर्गिरि’ इति विश्वः, अस्यैव नलस्यैव, सेवनपरा नराधिपमित्यर्थः, `भुवनं विष्टपे लोके सलिले पथि यद्यप’ इति विश्वः, सुभगं सुन्दरम्, एनं नलं, भजस्व समाश्रय, के वा जनास्तमिमं नलं, कमलाशया लक्ष्म्याकाङ्क्षया, धनाकाङ्क्षयेत्यर्थः, `कमला श्रीर्जलं पद्मः कमलं कमला मृगः’ इति विश्वः, न भजन्ति?॥ 13.24 ॥
शङ्कालताततिमनेकनलावलम्बां वाणी न वर्द्धयतु तावदभेदिकेयम्।
भीमोद्भवां प्रति नले च जलेश्वरे च तुल्यं तथाऽपि यदवर्द्धयदत्र चित्रम्॥ 13.25 ॥
अन्वयः–भीमोद्भवां प्रति इयं अबेदिका वाणी अनेकनलावलम्बां शङ्कालतातिं तावत् न वर्द्धयत्–अत्र चित्रम्।
जीवातु–शङ्केति। जलेश्वरे वरुणे च, नले च तुल्यं यथा तथा प्रयुक्तेति शेषः, अत एव भीमोद्भवां भैमीं प्रति, अभेदिका अविशेषा, अन्यतरार्थापरिच्छेदिका इति यावत्, इयं वाणी सरस्वतीवाक् अनेके पञ्च, नलाः नैषदाः, पोटगलाख्याः दुश्छेद्यास्तृमविशेषाश्च, अवलम्बो विषयः आधारश्च यस्याः, ताद्दशीं, `नलः पोटगले राज्ञि’ इति विश्वः शङ्का एव लताः तासां ततिं परम्परां न वर्द्धयतु तावत् न छिनत्तु एव, समानः धर्मदर्शनात् संशयो भवत्येव अतः समानार्थिका वाणी एषु कः सत्यनल इति भैम्याः संशयं कथं छिनत्तु तथाऽपि अवर्द्धयत् अच्छिनदिति यत् तदत्र चित्रं, छेदनार्थत्वे या न छेदिका सैव अच्छिनत् इति विरोघात् चित्रं, वर्द्धयामासि इति वृद्ध्यर्थत्वे त्वविरोघ इति विरोघाभासोऽलंकारः। `वृधु वर्द्धने’ इति भौवादिकात् णिच्, नलाख्यतृणमिश्र-लताततिमिवानेकनालावलम्बिनीम्, अयं नलो वेति सन्देहततिम्, इयं वाणी नैवाच्छिनत् प्रत्युत वृद्धिं आपयदेवेत्यहो कष्टम्, इत्यर्थः॥ 13.25 ॥
बालां विलोक्य विबुधैरपि मायिभिस्तरच्छद्मितामियमलीकनलीकृतस्वैः।
आह स्म तां भगवती निषधाराजं निर्दिश्य राजपरिषत्परिशेषभाजम्॥ 13.26 ॥
अन्वयः–अलीकनलीकृतस्वैः मायिभिः तैः विबुधैः अपि अच्छद्मितां तां बालां विलोक्य राजपरिषत्परिशेषभाजं निषधाधिराजं निर्दिश्य भगवती ताम् आह स्म।
जीवातु–बालामिति। अथेयं भगवती सरस्वती, तां बालां भैमीं, मायिभिर्मायाविभिः, `व्रीह्यादित्वादिनिः’ अत एवालीकनलीकृतानि मायानलीकृतानि, स्वानि आत्मनो यैस्तादृशैः, तः विबुधैः देवैरपि, अच्छद्मिताम् अप्रतारितां, नलबुद्ध्या तेषामवरणादिति भावः, छद्मशब्दात् `तत्करोति-’ इति ण्यन्तात् कर्मणि क्तः, विलोक्य राजपरिषदि राजसभायां, परिशेषभाजम् अवशिष्टतां गतं, निषधाधिराजं नलं, निर्दिस्यहस्तेन प्रदर्श्य, आह स्म उवाच॥ `परिशेष’ इत्यत्र `परिवेष’ इति पाठे तु–राजपरिषदः परि सर्वतोभावेन, वेषमलङ्कारं, भजतीति तादृशं राजसभालङ्कारभूतभित्यर्थः। राजपरिषद्रूपपरिधिभाजमित्यर्थस्यापि बोधनात् नलस्य चन्द्रत्वं ध्वन्यते॥ 13.26 ॥
अत्याजिलब्धविजयप्रसवस्त्वया किं विज्ञायते रुचिपदं न महोमहेन्द्रः?।
प्रत्यर्थिदानवशताऽऽहितचेष्टयाऽसौ जीमूतवाहनधियं न करोतति कस्य?॥ 13.27 ॥
अन्वयः–अत्याजिलब्धविजयप्रसवः रुचिपदं महीमहेन्द्रः त्वया किं न विज्ञायते? प्रत्यर्थिदानवशताहितचेष्टया असौ कस्य जीमूतवाहनधियन करोति?
जीवातु–अथ नलमेकैकश्लोकेन क्रमात् इन्द्राद्येकैकश्लेषेणाह, अत्याजीति।
अत्याजिषु महायुद्धेषु, लब्धो विजयप्रभावो जयरूपफलं येन सः, रुचिपदं त्वदनुरागास्पदं, महीमहेन्द्रो बूदेवेन्द्रः, त्वया वशतया तन्निष्ठतया आहितया कृतया चेष्टया वितरणव्यापारेण, असौ नलः, कस्य जीमूतवाहनः तन्मामा महात्यागी कश्चित् विद्याधरराजः; तद्धियं तद्‌बुद्धिं, जीमूतवाहनभ्रान्तिमित्यर्थः, न करोति? न जनयति? तस्मात् नलोऽयमिति भावः। अन्यत्र तु लब्धो विजयः पार्थ एव, `विजयस्तु जये पार्थे’ इति विश्वः, प्रसवोऽपत्यं येन सः, रुचीनां तेजसां, पदं स्थानं, मह उत्सवः तद्वान् मही नित्योत्सव इत्यर्थः, महेन्द्रः देवेन्द्रः, त्वया अत्याजि त्यक्तः, किं न विज्ञायते? अपि तु विज्ञेय एव; प्रत्यर्थिनां प्रतिपक्षाणां, दानवानां शतेषु आहितया कृतया; चेष्टया शत्रुनाशानुकूलपौरुषेण, असौ कस्य जीमूतवाहनः मेघवाहनः, इन्द्रः इत्यर्थः, `इन्द्रो मरुत्वान् मघवा, तुषाराण्मेघवाहनः’ इत्यमरः, तद्धियम् इन्द्रोऽयमिति बुद्धिं; न करोति? अपि तु करोत्येव॥ 13.27 ॥
येनामुना बहुविगाढसुरेश्वराध्वराज्यभिषेकविकसन्महसा बभूवे।
आवर्जनं तमनु ते ननु साधु नामग्राहं मया नलमुदीरितमेवमत्र॥ 13.28 ॥
अन्वयः–येन अमुना बहुविगाढसुरेस्वराध्वराज्याभिषेकविकसन्महसा बभूवे, ननु अत्र नामग्राहं गृहीत्वा एवं मया उदीरितं तम् नलम् (अनलम्) अनु ते आवर्जनं साधु।
जीवातु–येनेति। येनामुना नलेन, बहु यता तथा, विगाढः क्षुण्णः, आचरित इत्यर्थः, सुरेश्वरस्य इन्द्रस्य, अध्वालोकपालनरूपमार्गो यत्र तादृशेन, बभूवे भूतम्। अत्र सभायां, मया नामग्राहं नाम गृहीत्वा, `नाम्न्यादिशिग्रहोः’ इति णमुल्-प्रत्ययः, एवं पूर्वोक्तप्रकारेण, उदीरितम् उक्तं, नलं नलनामानं,तमेतम्, अनु लक्ष्यीकृत्य, ते तव, आवर्जनमाकर्षणं, साधु ननु युक्तं खलु, अयमेव सत्यो नल एतद्वरणं युक्तमेवेत्यर्थः। अन्यत्र तु-येनामुना अग्निना, बहु बारं वारं, विगाढा आहूताः इति यावत्; सुरेस्वराः इन्द्रादयो देवश्रेष्ठाः येषु तादृशेषु अध्वरेषु यज्ञेषु, आज्यानां-घृतानाम्, अभिषेकात् अन्तःसेकात् करणात्, विकसन्महसा वर्द्धमानतेजसा, बभूवे। मया अलम्, अग्निम्, अन्यत् समानम्॥ 13.28 ॥३
यच्चाण्डमारणविधिव्यसनञ्च तत्त्व बुद्‌ध्वाऽऽशयाश्रितममुष्यचदक्षिणत्वम्।
सेषा नले सहजरागभरादमुष्मिन् नात्मानमर्पयितुमर्हसि धर्मराजे?॥ 13.29 ॥
अन्वयः–(1) नलo–अमुष्य यच्चण्डिमारणविधिव्यसनम् आशयाश्रितं दक्षिणत्वं च तत् च बुद्‌ध्वा सा एषा त्वं धर्मराजे अमुष्मिन् नले सहजरागभरात् आत्मानम् अर्पयितुम् अर्हसि।
अन्वयः–(2) यमo–चण्डि, यत् च अमुष्य मारणविधिव्यसनम् आशया च दक्षिमत्वम् आश्रितं तत् बुद्‌ध्वा सा एषा त्वम् अनले धर्मराजे `अमुष्मिन् सहजरागभरात् आत्मानम् अर्पयितुम् अर्हसि (अथवा आत्मानम् अर्पयितुम् न अर्हसि)।
जीवातु–यदिति। अमुष्य नलस्य, चण्डस्य भावः चण्डिमा रणेषु अतिकोपनत्वं, `चण्डस्त्वत्यन्तकोपनः’ इत्यमरः, पृथ्वादित्यदिमनिच्-प्रत्ययः, रणविधौ युद्धकर्मणि, व्यसनमासक्तिश्च, `व्यसनमासक्तिश्च, `व्यसनन्त्वशुभे भक्तौ’ इति विश्वः, आशयाश्रित चित्ताश्रितं, दक्षिणत्वं दाक्षिण्यञ्च, इति यत् तत् सर्व चण्डिमादिकं, `नपुंसकमनपुंसकेन’ इत्यादिना यत्तदिति नपुंसकैकनिर्देशः, बुद्‌ध्वा विचार्य, सैषा त्वम् अमुष्मिन् धर्मप्रधानो राजा तस्मिन् धर्मराजे, नले नलनामनि वीरे, सहजरागभरात् अकृत्रिमानुरागातिरेकात्, आत्मानम् अर्पयितुं न अर्हसि? किमिति शेषः, अपि तु अर्हस्येव, एतद्वरणमेव तत्र योग्यमिति भावः। अन्यत्र तु-चण्ड! हे कोपने!’ गौरादित्वात् ङीष्; अमुष्य यमस्य, यत् मारणविधिव्यसनं मारणकर्मासक्तिम्, आशया दिशा निमित्तेन, श्रितं प्राप्तं, दक्षिणत्वं दक्षिणदिक्पतित्वञ्च, तत् सर्वं तत्त्वं यथार्थं बुद्‌ध्वा सैषा त्वम्, अनले नलात् अन्यस्मिन्, अमुष्मिन् धर्मराजे यमे, इत्यादि पूर्ववत्॥ 13.29 ॥
किं ते तथा मतिरमुष्य यथाऽऽशयः स्यात्तवत्पाणिपीडनविनिर्मितयेऽनपाशः।
कान्मानवानवति नो भुवनं चरिष्णुर्नासावमुत्र न रता भवतीति युक्तम्?॥ 13.30 ॥
अन्वयः-(1)नलo–अमुष्य आशयः (शयः) त्वत्पाणिपीडनविनिर्मितये यथा अनपाशः स्यात् किं ते तथा बुद्धि? असौ भुवनं चरिष्णून् कान् मानवान् नो अवति? भवतौ अमुत्र न रता इति न युक्तम्। (असौ ना, अमुत्र भवती न रता, इति युक्तम् न, अथवा असौ ना, अत्र नरता भवति,इति युक्तम्)
जीवातु–किमिति। हे वत्से! त्वत्पाणिपीडनविनिर्मितये तव पाणिग्रहणकरणाय, अमुष्य नलस्य, आशयोऽभिप्रायः, यथा अपाशः अनपाशा, स्यात् किम्? साभिलाषा चेत् तत् युक्तमित्यर्थः। असौ नलः, भुवनं लोक्म्, अत्यन्तसंयोगे द्वितीया, चरिष्णुः सन् कान् मानवान् मनुष्यान्, नो अवति? न रक्षति? अपि तु सर्वानेव रक्षति इत्यर्थः, भवता त्वम्, अमुत्र अमुष्मिन् नेल, रता अनुरक्ता, न इति न युक्तम्, ईदृशे पुरुषे सर्वदा त्वया अभिरन्तव्यमिति भावः। अन्यत्रअमुष्य वरुणस्य सम्बन्धी शयः पाणिः, त्वत्पाणिपीडनविनिर्मितये नास्ति पाशो यत्रेति नपाशः पाशास्त्रशून्यः, यथा स्यात् तथा ते मतिः किम्? पाशास्त्रं त्यक्त्वा त्वत्पाणिग्रहणं किं तेऽभिमतम्? इत्यर्थः। मानवान् समुन्नतचित्तः, `मानश्चित्तसमुन्नतिः’ इत्यमरः, असौ वरुणः भुवनं जलं `सलिलं कमलं जलं, जीवनं भुवनं वनम्’ इत्यमरः, चरिष्णुः जलरूपेण सञ्चरन्, कान् नो अवति? जलस्यैव सर्वेषां जीवनस्वरूपत्वादिति भावः; अमुत्र वरुणे, नरता नरत्वं, न भवति नास्ति, इति युक्तं, तस्य देवत्वादिति भावः॥ 13.30 ॥
श्लोकादिह प्रथमतो हरिणा द्वितीयाद् धूमध्वजेन शमनेन समं तृतीयात्।
तुर्यान्नलस्य वरुणेन समानभावं सा जानती पुनरवादि तया विमुग्धा॥ 13.31 ॥
अन्वयः– इह प्रथमतः श्लोकात् हरिणा समं, द्वितीयात् धूमध्वजेन, तृतीयात् शमनेन, तुर्यात् वरुणेन नलस्य समानभावं जानती विमिग्धा सा तया पुनः अवादि।
जीवातु–श्लोकादिति। इह श्लोकचतुष्टये, प्रथमतः प्रथमात् श्लोकात् हरिणा इन्द्रेण समं, द्वितीयात् स्लोकात्, धूमध्वजेन अग्निना समं, तृतीयात् श्लोकात्, शमनेन यमेन समं, तुर्यात् चतुर्थश्लोकात्, `चतुरश्छयतावाद्यक्षरलोपश्च’ इति साधुः, वरुणेन समं नलस्य समानभावं सारूप्यं, जानती अवगच्छन्ती, अत एव विमुग्धा विमूढा, सा भैमी, तया देव्या, पुनः अवादि उदिता, वदेः कर्मणि लुङ्॥ 13.31 ॥
त्वंय याऽर्थिनो किलनलेनशुभायतस्याः क्वस्यान्निजार्पणममुत्रचतुष्ट्ये ते?।
इन्द्रानलार्यमतनूजपयःपतीनां प्राप्यैकरूप्यमिह संसदि दीप्यमाने॥ 13.32 ॥
अन्वयः–या त्वं किल नलेन अर्थिनी तस्याः ते इन्द्रानलार्यमतनूजपयः-पतीनां चतुष्टये एकरूप्यं प्राप्य इह संसदि दीप्यमाने क्व अमुत्र निजार्पणं शुभाय स्यात्?
जीवातु–अथ पुनर्देवी देवेषु दाक्षिण्यात् दमयन्तीं श्लेषभङ्ग्यन्तरेण क्लिश्नाति, श्लोकद्वयेन त्वमित्यादि। या त्वं नलेन निमित्तेन, अर्थिनी अर्थवती, किल, `अर्थाच्चासन्निहिते’ इति इनिप्रत्यः; तस्यास्तत्प्रार्थिन्याः, ते तव, ऐकरूप्यं नलसारूप्यं, प्राप्य इह अस्यां, संसदि स्वयंवरसभायां, दीप्यमाने राजमाने, अमुत्रामुष्मिन्, इन्द्रनलार्यमतनूजपयःपतीनाम् इन्द्रवह्नियमवरुणानां, चतुष्टये चतुष्टयमध्ये क्व कस्मिन्, निजार्पणम्, आत्मसमर्वणं, शुभाय मङ्गलाय, स्तात्? एतेषु कस्मिन्नपि आत्मदानं ते सुभाय न स्यादेव, यत एते इन्द्रादयः नलरूपधारिणः न त्वेषु कोऽपि वास्तविक नल इति तव प्रार्थना सफला न भवेदिति भावः। अन्यत्र-नलसारूप्यं धृत्वा इन्द्रादीनां चतुष्टये इह संसदि दीप्यमाने जाज्वल्यमाने सति, अमुत्र नले, निजार्पणं क्व कुतः, शुभाय स्यात्? अपि तु न कुतोऽपि स्यात्, इन्द्रादीनपरितोष्य नलवरणं ते न सुभकरमिति भावः। एवम अर्थद्वयेन क्रमात् नलप्राप्तौ नैराश्यं तन्नैस्पृह्यरूपेण ताम् अतापयदिति तात्पर्यम्॥ 13.32 ॥
देवः पतिर्विदुषि! नैषधराजगत्या निर्णीयते न किमु न ब्रियते भवत्या?।
नायं नलः खलु तवादिमहा नलाभो यद्येनमुज्झसि वरः कतरः पुनस्ते?॥ 13.33 ॥
अन्वयः-(1)देवo–विदुषि, एषः देवः, धराजगत्याः पतिः न; किमु भवत्या न निर्णीयते, न व्रियते? अयं तव नलः न खलु, अतिमहानलाभः; यदि एनम् उज्झसि पुनः ते वरः कतरः?।
अन्वयः-(2) नलo–विदुषि; भवत्या नैषधराजगत्या पतिः (अथवा एषः धराजगत्याः पतिः) देवः न निर्णीयते किमु, न व्रियते? अयं ना नलः; यदि एनम् उज्झसि, तव महान् अलाभः, पुनः ते वरः करतः? (अथवा एषः धराजगत्याः पतिः ना, देवः न, भवत्या न निर्णीयते, व्रियते? अयं नलः खलु, तव महानलाभः, यदि एनम् उज्झसि, ने पुनः कतरः वरः?)
जीवातु–देव इति। विदुषि! हे विदग्धे! मदुक्तिवैचित्र्याभिज्ञे! एष धराजगत्याः भूलोकस्य, पतिः न, किन्तु देवः, जातावेकवचनम्, एते न भूषाः कन्तु देवा इत्यर्थः, भवत्था न निर्णीयते किमु? न व्रियते किमु? मर्त्त्यवरणात् वरम् अमर्त्त्यवरणमेवेति भावः। अथवाः-धरान् पर्वतान्, अजति क्षिपतीति धराजइन्द्रः, स एव गतिः शरणं यस्या इति धराजगतिः प्राचीदिक् तस्याः, पतिः एष देव इन्द्रः, न निर्णीयते इति न, अपि तु निर्णीयते एव, अत एव उ इति सम्मबोधनम्, उ भोः! भक्त्या किं कथं, व्रियते? अयमेव ते वरणीय इति भावः।
अग्निपक्षे तु-धरो वाहनम्, अजः छागः यस्येति धराजो वह्निः वह्नेरजवाहनत्वश्रवणात्, स एव गतिः शरणं यस्याः तस्याः आग्नेय्य दिशः पतिरेष देवोऽग्निः, न निर्णीयते इति, अन्यत् पूर्ववत्।
यमपक्षे-तु-धरान् पर्वतान्, अजति श्रृङ्गभ्यां खुरैर्वा क्षिपति इति धराजः महिषः, तेन या गतिर्गमनं तयोपलक्षितः, पतिः धर्मरूपत्वात् पालकः, देवः यमः, अन्यत् पूर्ववत्।
वरुणपक्षे तु-धरायां पृथ्वीव्यां, जायन्ते इति धराजानि स्थावरजङ्गमानि भूतानि; तेषां गतिर्जीवनोपायो जलं तस्याः, पतिः, जलाधिपतिरित्यर्थः, वरुणः, न निर्णीयते इति न, अन्यत् पूर्ववत्। अयं तव सम्बन्धी त्वत्प्रार्थित इत्यर्थः, नलो न खलु, किन्तु अतिमहा मनुष्यापेक्षया अतितेजा, नालभः नलकल्पः, नैते नलाः किन्तु नलप्रतिरूपका इत्यर्थः, यद्येनम् उज्झसि एषाम् अन्यतमं न वृणोषि चेदित्यर्थः, पुनः पश्चात्, ते तव, व्रियते इति वरो वरणीयः, वृङोऽप् कतरः? न कश्चिदस्ति, सत्यनलस्य दुर्लभत्वादिति भावः।

अन्यत्र (नलपक्षे)-भवत्या एष धराजगत्याः भूलोकस्य, पतिः रक्षकः, देवो राजा, `देवः सुरेघने रात्रि’ इति विश्वः, नैषधराजगत्या नलमहाराजरूपेण, नैषधराजस्य नलस्य, गत्या ज्ञानेन वा, अथवा-नैषधराज एव गतिजीवनोपायो यस्यास्तया, भवत्या इत्यस्य विशेषणम्; पतिर्भर्त्ता, न निर्णीयते किमु? न व्रियते किमु? अयं ना पुरुषः नलः खलु अतोऽयनेव वरणीय इत्यर्थः, एनं नलम्, उज्झसि यदि तव अतिमहान् अलाभोऽनर्थः, वर इत्यादि पूर्ववत्॥ 13.33 ॥
इन्द्राग्निदक्षिणदिगीश्वरपाशिभिस्तां वाचं नले तरलिताऽथ समां प्रमाय।
सा सिन्धूवेणिरेव वाडववीतिहोत्रं लावण्यभूः कमपि भीमसुताऽऽप तापम्॥ 13.34 ॥
अन्वयः–अथ नले तां वाचम् इन्द्राग्निदक्षिणदिगीश्वरपाशिभिः समां प्रमाय तरलिता लाबण्यभूः सा भीमसुता सिन्धुवेणिः वाडववीतिहोत्रम्, इव कम् अपि तापम् आप।
जीवातु–इन्द्रेति। अथ लावण्यभूः सौन्दर्यभूमिः अन्यत्र-लवणरसाश्रयः, सा भीमसुता दमयन्ती, नले विषये, तां पूर्वोक्तां, वाचम् इन्द्राग्निदक्षिणदिगौश्वरपाशिभिः इन्द्राग्नियमवरुणैः समां श्लिष्टतया सती, सिन्धुवेणिः समुद्रान्तरः, समुद्रागर्भ इत्यर्थः, समुद्रप्रवाहो वा, `वेणी केशस्य बन्धने। नद्यादेरन्तरे देवताडे’ इति मेदिनी। `वेणी सेतुप्रवाहयोः। देवताडे केशबन्धे’ इति हैमश्च। वाडववीतिहोत्रं वाडवाग्निमिव, `अग्निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः’ इत्यमरः। कमपि अवाच्यं तापम् आप॥ 13.34 ॥
प्राप्तुं प्रयच्छति न पक्षचतुष्ट्ये तां तल्लाभशंसिनि पञ्चमकोटिमात्रे।
श्रद्धां दधे निषधराङ्विमतौ मतानामद्वैततत्त्व इव सत्यतरेऽपि लोकः॥ 13.35 ॥
अन्वयः–पक्षचतुष्टये तां प्राप्तुं न प्रयच्छति तल्लाभशंसिनि सत्यतरे अपि पञ्चमकोटिमात्रे अद्वैततत्त्वे मतानां विमतौ लोकः इव निषधराड् श्रद्धां न दधे।
जीवातु–प्राप्तुमिति। पक्षचतुष्टये इन्द्रादिमायानलब्यक्तिचतुष्टये, तां प्राप्तिकर्त्री दमयन्तीं, प्राप्तुं सत्यनलं प्राप्तुं, सत्यनलत्वेन निश्चेतुमित्यर्थः, न प्रयच्छति न ददति सति, सत्यनलसारूप्यात्तत्प्राप्तिप्रतिबन्धके सतीत्यर्थः; प्रायेणैवं भाषानुसारेणोदीच्याः प्रयुञ्जते यथा-`स्मर्त्तुं दिशन्ति न दिवः सुरसुन्दरीभ्य’ इति भारती, तल्लाभशंसिनि दमयन्तीप्राप्त्याशंसिनि, अन्यत्रविद्यालाभाकाङ्गक्षिणि, सत्यतरेऽपि अत्यन्तपारमार्थिकेऽपि, पञ्चमकोटिमात्रे पञ्चमनलैकत्र्यक्तौ, द्वितैव द्वैत भेदः, तस्मिन्निव, मतानां पञ्चनलीगोचरझानानां, निषधराट् नलः, इति विमतौ अयमेव नलोऽयमेव वेति विप्रतिपक्षौ सन्यां, लोको जिज्ञासुजनः, श्रद्धां पारमार्थिकविषयकविश्वासं न दधे, सद्धिलक्षणत्वेन असद्विलक्षणत्वेन सदसत्समुच्चयविलक्षणत्वेन चतुष्टयाध्यात्मिकशरीरेन्द्रियाद्यसत्प्रपञ्चसंवलनान्नित्यापरोक्षसत्यब्रह्मतत्त्वे इव असत्यनलचतुष्टये सन्निधातात् सत्यनले पञ्चमे प्रतीयमानेऽपि सत्योऽयमिति जनो न विश्वसितुमशक्नोदित्यर्थः। उपमा॥ 13.35 ॥
कारिष्यते परिभवः कलिना नलस्य तां द्वापरस्तु सुतरूमदुनोत् पुरस्तात्।
भैमीनलोपयमनं पिशुनौ सहेते न द्वापरः किल कलिश्च युगे जगत्याम्॥ 13.36 ॥
अन्वयः–कलिना नलस्य परिभवः कारिष्यते, द्वापरः तु तां सुतनूं पुरस्तात् अदुनोत्च; किल द्वापरः कलिः च युगे पिशुनौ जगत्यां भैमीनलोप यमनं न सहेते।
जीवातु–अथ भैम्याः सन्देहदुःखं समहदभूदित्याह-कारिष्यते इति। कलिना कलहेन, प्रत्याख्यातैर्दैवैः राजन्यैर्वा, अवमाननाप्रतीकाराभिप्रायात् उत्पादितेन वैरेणेत्यर्थः, कलियुगेन च, `कलिः स्त्री कलिकायां ना शूराजिकलहे युगे’ इति मेदिनी, नलस्य परिभवः कारिष्यते विवाहात् परं परिभवः करिष्यते, करोतेः कर्मणि लृट्, `स्यसिच्सीयुट्–’ इत्यादिना इटः वैकल्पिकचिण्वद्भावात् `अचो ञ्णिति’ इति वृद्धिः, इति द्वापरौ युगसंशयौ ‘इत्यमरः। सुतनू सुकुमाराङ्गीं, तां नलप्रियां दमयन्तीं, पुरस्तात् कलेः पूर्वम् अद्यैव, अदुनोत् पर्यतापयत्; तथाहि, जगत्यां लोके, पिशुनौ दुर्जनौ, `त्रिष्वथो जगती लोकः’ इति, `पिशुनो दुर्जनः खलः’ इति चामरः, द्वापरः कलिश्च खल्वर्थे, कलिः यथा विवाहोत्तरं तोयर्विवाहं न सोढा, तद्वत् द्वापरो।़पि तयोर्भाविनं विवाहं न सहते इति भावः। अत्र पूर्वार्द्धे द्वापर इति वाच्यप्रतीयमानयोरबेदाध्यवसायेन द्वापरस्य स्थानान्तरकलिव्यापारात् प्राक् स्वयं दमयन्तीसन्तापकत्वोत्प्रेक्षा व्यञ्जकाप्रयोगाद्‌गम्या, उत्तरार्द्धे तु तदुपयमनासहिष्णुत्वलक्षणकारणेन तत्समर्थनात् कारणेन कार्यसमर्थनरूपोऽर्थान्तरन्यासः, इत्यन्योः अङ्गाङ्गिभावेन सङ्करः॥ 13.36 ॥
उत्कण्ठयन् पृथगिमां युगपन्नलेषु प्रत्येकमेषु परिमोहयमाणबाणः।
जानीमहे निजशिलीमुखशीलिसङ्ख्यासाफल्यमाप स तदा यदि पञ्चबाणः॥ 13.37 ॥
अन्वयः–परिमोहयमाणबाणः इमां प्रत्येकम् एषु नलेषु युगपत् पृथक् उत्कण्ठयन् सः पञ्चबाणः यदि निजशिलीमुखशीलिसङ्ख्यासाफल्यम् आप, तदा जानीमहे।
जीवातु–उत्कण्ठयन्निति। पञ्चबाणः पञ्चबाणत्वेन प्रसिद्धः, सः कामः, नलेषु, पञ्चस्वपि इति शेषः, विषये पृथक् प्रत्येकम्, इमां दमयन्तीं, युगपत् समकालम्, उत्कण्ठयन् उत्सुकयन्, अयं नलः अयं वा नल इति बुद्ध्या तेषु एकस्मिन्नेव काले पृथग्रपेण तां सोत्कण्ठां कारयन्नित्यर्थः, दमयन्ती नलबुद्ध्या तेषु पञ्चस्वेव सानुरागाऽभूदिति भावः, तथा एषु नलेषु पञ्चसु, प्रत्येकम् एकैकस्मिन्, परिमोहयमाणाः प्रत्येकमेतान् दमयन्ती विषये सम्मोहयन्त इत्यर्थः, कर्मण्यधिकरणविवक्षया सप्तमी `तस्मिन् प्रजह्रु’ रितिवत्। `अणावकर्मकाच्चित्तवत्कर्त्तृकात्’ इत्यादिना परस्मैपदप्राप्तावपि`पादम्याङ्यमा-’ इत्यादिना परस्मैपदनिषेधादात्मनेपदं, कृत्यचः`णोर्विभाषा’ इति णत्वम्। बाणाः यस्य स तादृशः सन्, निजशिलीमुखान् निजबाणान्, शीलयतीति तच्छीलिन्याः तत्समवायिन्याः सङ्ख्यायाः, पञ्चसङ्ख्यायाः, साफल्यमाप यदि तदा जानीमहे पञ्चसङ्ख्या साध्वीति मन्यामहे इत्यर्थः। अत्रोत्कण्ठासम्मोहनपदार्थयोर्विशेषणगत्या साफल्यप्राप्तिहेतुकं काव्यलिङ्गं, तच्च साफल्यं यदिशब्दात् सम्भावनामात्रेणोक्तमित्युत्प्रेक्षा काव्यलिङ्गोत्थेति सङ्करः॥ 13.37 ॥
देवानियं निषधराजरुचस्त्यजन्ती रूपादरज्यत नले न विदर्भसुभ्रूः।
जन्मान्तराधिगतकर्मविपाकजन्मैवोन्मीलति क्वचन कस्यचनानुरागः॥ 13.38 ॥
अन्वयः–निषधराजरुचः देवान् त्यजन्ती इयं विदर्भसुभ्रूः रूपात् नले न
अरज्यत; कस्यचन जन्मान्तराधिगतकर्मविपाकजन्मा अनुरागः एव क्वचन उन्मीलति।
जीवातु–देवानिति। निषधराजस्य नलस्येव रुच् सौन्दर्यं येषां तादृशान्, देवान् त्यजन्ती इयं विदर्भसुभ्रूः वैदर्भी, रूपात् सौन्दर्यात्, नले नअरज्यत न रक्ता, रञ्जेर्दैवादिकात् कर्त्तरि लुङि तङ्, किन्तु कस्यचन कस्यचिज्जनस्य, जन्मान्तरे अधिगतस्य कर्मणो विपाकात् परिणामात्, जन्म यस्य तादृशः, `अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदे’ इति वामनः। अनुरागः एव क्वचन कुत्रचिज्जने, उन्मीलति उद्भवति। रूपसाम्येऽपि देवपरिहारेण नले एवानुरागः अस्याः कर्मायत्तो नरूपायत्तः, अन्यथा किमर्थ यतार्थनलान्वेषणमित्युत्प्रेक्षा। एतेनास्या दृढव्रतत्वम् उत्तम् इति ज्ञेयम्॥ 13.38 ॥
क्व प्राप्यते स पतगः परिपृच्छ्यते यः प्रत्येमि तस्य हि पुरेव नलं गिरेति।
सस्मार सस्मरमतिः प्रति नैषधीयं तत्रामरालयमरालमरालकेशी॥ 13.39 ॥
अन्वयः–सस्मरमतिः अरालकेशी-सः पतगः क्व प्राप्यते, यः परिपृच्छ्यते, हि तस्य गिरा पुरा इव प्रत्येमि-इति तत्र नैषधीयम् अमरालयमरालं प्रति सस्मार।
जीवातु–अथास्याश्चिन्तासञ्चारिणीमाह-क्वेति। सस्मरमति मदनपीडितचित्ता, अरालकेशी कुटिलकेशी, `स्वाङ्गाच्चोपसर्जनादसंयोगोपधात्’ इति विकल्पात ङीष्, भैमीति शेषः, सपूर्वदृष्टः नलवार्त्ताप्रद इत्यर्थः, पतगो हंसः क्व कुत्र, प्राप्यते? किमर्थम्? यः पतगः, परिपृच्छ्यते, नलम् इति शेषः, एषु मध्ये को नल इति विश्वास्यतया जिज्ञास्यते इत्यर्थः; प्रश्नफलमाह-पुरेव पूर्वमिव, यस्य गिरा हि निश्चयेन नलं प्रत्येमि विश्वसिमि, इति इत्थं, तत्र सभायां, नैषधीयं प्रियस्य दूतभूतमिति यावत्, अमरालयमरालं स्वर्लोकहंसं, प्रति उद्दिश्येत्यर्थः, सस्मार; दुर्लभार्थप्रार्थकाः कार्यकातरा इति भावः॥ 13.39 ॥
एकैकमैक्षत मुहुर्महताऽऽदरेण भेदं विवेद न च पञ्चसु कञ्चिदेषा।
शङ्काशतं वितरता हरता पुनः स्म उन्मादिनेव मनसेयमिदं तदाह॥ 13.40 ॥
अन्वयः एषा महता आदरेण मुहुः एकैकम् ऐक्षत, पञ्चसु च न कञ्चित् भेदं विवेद, तदा पुनः शङ्काशतं वितरता हरता उन्मादिना इव मनसा इयम् इतम् आह स्म।
जीवातु-एकैकमिति। एषा भैभी, महता आदरेणैकाग्र्येण, मुहुः एकैकमैक्षत, किन्तु पञ्चसु मध्ये कञ्चित् भेदं विशेषञ्च न विवेद, अत एव शङ्काशतं वितरता जनयता, पुनः तत् शङ्काशतं, हरता निर्व्त्तयता, इत्थञ्च उन्मादिनेव उन्मादवतेव मनसा उपलक्षिता इयं दमयन्ती, इदं वक्ष्यमाणविकल्पजातम्, आह स्व `लट् स्मे’ इति भूते लट्॥ 13.40॥
अस्ति द्विचन्द्रमतिरस्ति जनस्य तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिरादिः।
स्वच्छोपसर्पणमपि प्रतिमाऽभिमाने भेदभ्रमे पुनरमीषु न मे निमित्तम्॥ 13.41 ॥
अन्वयः–जनस्य द्विचन्द्रमतिः अस्ति, तत्र भ्रान्तौ दृगन्तचिपिटीकरणादिः आदिः अस्ति, प्रतिमाभिमाने स्वच्छोपसर्पणम् अपि; पुनः मे अमीषु भेदभ्रमे निमित्तं न।
जीवातु–अथ आसर्गसमप्तेश्चिन्तानुभावविकल्पावाह-अस्तीत्यादि। द्विचन्द्रमतिः द्वौ चन्द्राविति बुद्धिः, एकस्मिन् चन्द्रेऽनेकत्वावगाहिनी। भ्रमबुद्धिरिति यावत्, अस्ति प्रसिद्धा अस्ति, किन्तु तत्र द्विचन्द्रग्राहिण्यां भ्रान्तौ, जनस्य भ्राम्यज्जनस्य, दृगन्तचिपिटीकरणं दृगन्तयोः चक्षुःप्रान्तयोः, चिपिटीकरणम्, अङ्गुल्या निपीडनं, तदादिः तत्प्रभृति, आदिर्मूलकारणम्, अस्ति, तथा प्रतिमाऽभिमाने प्रतिबिम्बभ्रमे, स्वच्छोपसर्पणं काचस्फटिकादिसन्निघानमपि, आदिरस्तीति शेषः, पुनः किन्तु, मे मम, अमीषु पञ्चसु विषये, भेदभ्रमे निमित्तं न, अस्तीति शेषः, अथ एकस्मिन् नले बहुनलभ्रान्तिः कथञ्चिदपि न स्मभवति, तस्मादेते नलभिन्नाः केचन भविष्यन्तीति भावः॥ 13.41॥
किं वा तनोति मयि नैषध एव काव्यव्यूहं विधाय परिहासमसौ विलासी?
विज्ञानवैभवभृतः किमु तस्य विद्या सा विद्यते न तुरगाशयवेदितेव?॥ 13.42 ॥
अन्वयः–वा विलासी असौ नैषधः कायव्यूहं विधाय मयि किं परिहासं तनोति? किमु विज्ञानवैभवभृतः तस्य तुरगाशयवेदिता इव सा विद्या न विद्यते?
जीवातु–किमिति। वा अथवा, विलासी विलसनशीलः, `वौ कषलसकत्थस्रम्यः’ इति घिनुण् प्रत्ययः,असौ नैषधो नल एव, कायव्यूहं,, देहसमूहं विधाय सम्पाद्य, मयि परिहासं नर्मव्यवहारं, तनोति किम्? विस्तारयति किम्? एतदेव सम्भवतीति भावः। कुतोऽस्य कायव्यूहरचनासम्भवः? इत्यत आह-विज्ञानं शिल्पकलापरिज्ञानं, `विज्ञानं शिल्पशास्त्रयोः’ इत्यमरः, तदेव वैभवं बिभर्त्तिति तस्य शिल्पसमृद्धिमतः, तस्य नलस्य, तुरगाशयवेदिता अश्वहृदयवेदित्वमिव, सा विद्या बहुरूपकल्पना विद्या, न विद्यते किमु? न सम्भवति किम्? अपि तु सम्भवत्येव॥ 13.42 ॥
एको नलः किमयमन्यतमः किमैलः?
कामोऽपरः किमु? किमु द्वयमाश्विनेयौ?।
किं रूपधेयभरसीमतया समेष
तेष्वेव नेह नलमोहमहं वहे वा?॥ 13.43 ॥
अन्वयः–वा इह किम् अयम् एकः नलः, किम् अन्यतमः ऐलः, किमु अपरः कामः, द्वयं किमु आश्विनेयौ? रूपधेयभरसीमतया समेषु तेषु एव अहं नलमोहं किं न वहे?
जीवातु–एक इति। वा अथवा, इह पञ्चके,अयमेको नलः किम्? अन्यतमोऽपरः, ऐलः पुरूरवाः किम्? अपरः कामः किमु? द्वयम् अपरौ द्वौ, आश्विनेयौ दस्रौ किम्? अत एव रूपमेव रूपधेयं सौन्दर्य; `नामरूपभागेभ्यो धेयो वक्तव्यः’ इति स्वार्थे घेय-प्रत्ययः’ तद्भरस्य तत्सम्पदः, सीमतया अवधित्वेन, समेषु लोकोत्तरसौन्दर्यसाम्येन अगृहीतविशेषेषु इत्यर्थः, न वहे? सदृशेषु सादृश्यात् भ्रान्तिर्थुक्तैवेति भावः॥ 13.43 ॥
पूर्वं मया विरहनिः सहयाऽपि दृष्टः सोऽयं प्रियस्तत इतो निषधाधिराजः।
भूयः किमागतवती मम सा दशेयं पश्यामि यद्विलसितेन नलानलीकान्?॥13.44 ॥
अन्वयः–पूर्वम् अपि विरहनिःसहया मया सः अयं प्रियः निषधाधिराजः इतः ततः दृष्ट
ः, मम इयं सा दशा किं भूयः आगतवती, यद्विलसितेन अलीकान् नलान् पश्यामि।
जीवातु–पूर्वमिति। पूर्वमपि स्वयंवरकालात् प्रागपि, निः न, सहते इति निःसहा पचाद्यच्, विरहस्य निःसह असहना तया विरहकातरया, मया सोऽयं प्रियो निषधाधिराजो नलः, तत इतः सर्वासु दिक्षु, दृष्टः, मम इयं वर्त्तमाना, दशा विरहोन्मादरूपावस्था, सा पूर्वानुभूता एव दशा, भूयः पुनः, आगतवती किम्? यस्या उन्मत्तदसायाः, विलसितेन प्रभावेणेति यावत्, अलीकान् नलान् पश्यामि॥ 13.44 ॥
मुग्धा दधामि कथमित्यमथापशङ्का?
सङ्क्रन्दनादिकपटः स्फुटमीदृशोऽयम्।
देव्याऽनयैव रचिता हि तथा तथैषां
गाथा यथा दिगधिपानपि ताः स्पृशन्ति॥ 13.45 ॥
अन्वयः–अथ मुग्धा कथम् इत्थम् अपशङ्कां दधामि? ईदृशः अयं सङ्क्रन्दनादिकपटः स्फुटम्; तथाहि अनया देव्या एव एषां गाथाः तथा रचिताः यथा ताः दिगधिपान् अपि स्पृशन्ति।
जीवातु–मुग्धेति। अथ पक्षान्तरे, मुग्धा मूढा, अहमिति शेषः, कथमित्थम् अषशङ्कां मिथ्या संशयं, दधामि? अयुक्तोऽयमिदानीम् ईदृङ्मोह इत्यर्थः, यतः ईदृशः एवंविधः, अयं व्यापारः, अयुक्तोऽयमिदानीम् ईदृङ्मोह इत्यर्थः, यतः ईदृशः एवंविधः, अयं व्यापारः, सङ्क्रन्दनादीनाम् इन्द्रादीनां, कपटो माया, इति स्फुटं व्यक्तम्, तथा हि,अनया देव्यैव तथा तेन प्रकारेण, एषामिन्द्रादीनां, गीयन्ते इति गाथाः वर्णनश्लोकाः, `उषिकुषिगाऽर्त्तिभ्यः स्थन्’ इत्यौणादिकः स्थन्-प्रत्ययः, रचिताः, यथा येन प्रकारेण, ता गाथाः, दिग्धिपानिन्द्रादीनपि, स्पृशन्ति श्लेषमहिम्ना बोधयन्ति, न तु केवलं नलम्; अतो मत्प्रतारणार्थं नलरूपधारणात्मिका देवमायैवेयं न तु मामको मोह इति भावः॥ 13.45 ॥
एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे कथं नु मनुजस्य चकास्तु चिह्नम्?।
लक्ष्माणि तानि किममी न वहन्ति हन्त! बर्हिर्मुखा धुतरजस्तनुतामुखानि?॥ 13.46 ॥
अन्वयः–एतन्मदीयमतिवञ्चकपञ्चकस्थे नाथे मनुजस्य चिह्नं कथं नु चकास्तु? हन्त, अमी बर्हिर्मुखाः धुतरजस्तनुतामुखानि तानि लक्ष्माणि किं न वहन्ति?
जीवातु–एतदिति। एतेषां मदीयमतिवञ्चकानां मद्‌बुद्धिप्रतारकाणाम्, इन्द्रादीनां, पञ्चके तिष्ठतीति तादृशे एतत्पञ्चकमध्यस्थे, नाथे नले, कथं नु कथमिव, मनुजस्य चिह्नं मानवत्वव्यञ्जकधर्मः,चकास्तु? स्फुरतु? किन्तु अमी बर्हिमुर्मुखा अग्निमुखा देवाः, धुतरजस्तनुतामुखानि धुतं परित्यक्तं, रजो धूलिः, मृत्तिकास्पर्श इति यावत्, यया सा तादृशी तनुर्येषां तेषां भावः धुतरजस्तनुता, मुखम्, आदिर्येषां तादृशानि, तानि प्रसिद्धानि, लक्ष्माणि भूमिस्पर्शस्वेद-निमेषराहित्यादीनि देवत्वव्यञ्जकचिह्नानि, हन्त खेदे, किं कथं, न वहन्ति? तथा हि मम दुर्भाग्यादेते देवाः स्वीयासाधारणचिह्नानि सङ्गोप्यात्र तिष्ठन्ति, तत एव नलं लक्षयितुं न शक्नोमीति भावः॥ 13.46 ॥
याचे नलं किममरानथवा तदर्थं नित्यार्चनादपि न दत्तफलैरलं तैः।
कन्दर्पशोषणपृषत्कनिपानपीतकारुण्यनीननिधिगह्वरघोरचित्तैः॥ 13.47 ॥
अन्वयः–किम् अमरात् नलं याचे? अथवा तदर्थं नित्यार्चनात् अपि न दत्तफलैः कन्दर्पशोषणपृषत्कनिपातपीतकारुण्यनीरनिधिगह्वरघोरचित्तैः तैः अलम्।
जीवातु–याचे इति। अमरान् इन्द्रादीन्, नलं याचे किम्? दुहादित्वात् द्विकर्मकत्वम्, अथवा तदर्थं नलप्राप्तिनिमित्त नित्यं यदर्चनं पूजनं तस्मादपि, न दत्तफलैः मम प्रार्थितमप्रयच्छद्भिः, किञ्चि कन्दर्पस्य शोषणः तदाख्यः, यः पृषत्कः बाणः, तस्य निपातेन पीतः शुष्कतां प्रापितः, कारुण्यनीरनिधिः कृपाब्धिः यस्मात् तथाभूतम्, अत एव गह्वरेण दम्बेन, शाठ्येनेत्यर्थः, मूढेयं देवानस्मान् परित्यज्य मर्त्त्ये नले एवानुरागिणी अत एव एनां प्रतारयाम इति बुद्ध्या कपटताश्रयणेनेति भावः, `गह्वरं बिलदम्भयोः’ इति शाश्वतः, घोरं भीमं कठिनं वा, चित्तं येषां तैः कन्दर्पाधीनतया निष्कृपचित्तैरित्यर्थः, तैः अमरैः, अलं निष्प्रयोजनम्; ये देवाः; काममुग्धत्वात् नित्यार्चनेनापि प्रार्थितं न प्रायच्छन् तेऽधुना प्रार्थना प्रार्थनामात्रेणैव नैव प्रार्थितं पूरयिष्यन्तीति तत्प्रार्थना वृथैवेति भावः॥ 13.47 ॥
ईशा! दिशां नलभुवं प्रतिपद्य लेखा! वर्णश्रियं गुणवतामपि वः कथं वा।
मूर्खान्धकूपपतनादिव पुस्तकानामस्तं गतं बत परोपकृतिव्रतित्वम्?॥ 13.48 ॥
अन्वयः–दिशाम् ईशाः लेखाः, नलभुवं वर्णश्रियं प्रतिपद्य गुणवताम् अपि वः परोपकृतिव्रतित्वं पुस्तकानाम् मूर्खान्धिकूपपतनात् इव बत कथं वा अस्तं गतम्?
जीवातु–ईशा इति। हे दिशामीशाः! लेखाः! हे सुराः! नलात् नैषधात् भवति इति नलभूस्तां नलभुवं नलनिष्ठां, वर्णश्रियं गौरत्वरूपसम्पदम्, अन्यत्र–नलाख्यतृणनिर्मितलेखनीभुवमक्षरसम्पदं, वर्णश्रियं गौरत्वरूपसम्पदम्, अनयत्र–नलाख्यतृणनिर्मितलेखनीभुवमक्षरसम्पदं, प्रतिपद्य प्राप्यापि, `वर्णोद्विजादौ शुक्लादौ स्तुतौ वर्णन्तु चाक्षरे’ इत्यमरः, गुणवतां शुद्धत्वसौन्दर्यादिगुणाढ्यानाम्, अन्यत्र-बन्धनसूत्रवतां, वो युष्माकं, मूर्खा मूढाः, ते एवान्धयन्तीत्यन्धाः कूपाः अन्धकूपाः जलशून्यपुराणकूपाः, तेषु पतनात् पुस्तकानामिव परोपकृतिव्रतित्वं परोपकारनियमवत्त्वं कथं वा कुतो वा, अस्तं नाश, गतम्? बतेति देवतोपालभ्यः; नलस्य रूपधारणएन तदीयगुणा अपि युष्मासु सङ्क्रान्ताः, ततश्च तदीयपरोपकारव्रतमपि युष्मासु ध्रुवं सङ्क्रान्तं, किन्तु मद्विषये तद्‌ व्रतं कथं विनष्टम्? इति भावः। अन्यत्र-उत्कृष्टिलिप्यक्षरशालिनां वर्णाशुद्धिरहितानामपि पुस्तकानां मूर्खहस्तपतनेन शिशिक्षूणामुपकाराभावात् परोपकारित्वं न भवति, इति भावः॥ 13.48 ॥
यस्येश्वरेण यदलेखि ललाटपट्टे
तत् स्यादयोग्यमपि योग्यमपास्य तस्य।
का वासनाऽस्तु बिभृयामिह यां हृदाऽहं?
नार्कातपैर्जलजमेति हिमैस्तु दाहम्॥ 13.49 ॥
अन्वयः–ईश्वरेण यस्य ललाटपट्टे यत् अलेखि तस्य तत् अयोग्यम् अपि योग्यम् अपास्य स्यात्; इह का वासना अस्तु याम् अहं हृदा बिभृयाम्? जलजं हिमैः दाहम् एति, न तु अर्कतापैः।
जीवातु–यस्येति। यस्य जनस्य, ललाटपट्टे भालफलके, ईश्वरेण विधिना, यत् शुभमशुभं वा कर्मानुरूपम्, अलेखि लिखितं, तस्य जनस्य, अयोग्यम् अनर्हमपि, तत् शुभाशुभं कर्त्तृ, योग्यमनुरूपं फलम्, अपास्य अनादृत्य, स्यादेव स्वयं भवेदेवेत्यर्थः,एवं स्थिते सा वासना ईश्वरेच्छानुगृहीतकर्मवासना युक्तिर्वा, का अस्तु? सम्भवनायां लोट्, का वा सम्भविता? तन्न वेद्‌मीत्यर्थः, इह नलनिश्चयविषये, यां वासनाम्, अहं हृदा हृदयेन, बिभृयां धारयेयम्? अन्य तरनिश्चये सन्देहदुःखं न स्यादित्यर्थः। तत् स्यादयोग्यमपीत्यत्र दृष्टान्तमाहजलजं पद्मम्, अर्कातपैः तपनसन्तापैः, दाहं न एति, तु किन्तु, हिमैः एति, तेन ईश्वरेच्छाऽनुगृहीतकर्मवासनानुसारिणी नलप्राप्तिः, सा तु दुर्जेया इति का गतिः? अतो देवानां न दोष इति भावः॥ 13.49 ॥
इत्थं यथेह मदभाग्यमनेन मन्ये कल्पद्रुमोऽपि स मया खलु याच्यमानः।
सङकोचसंज्वरदलांगुलिपल्लवाग्रपाणीभवन् भवति मां प्रति बद्धमुष्टिः॥ 13.50 ॥
अन्वयः–इह इत्थं मम अभाग्यं मन्ये यथा अनेन मया याच्यमानः सः कल्पद्रुमः अपि सङ्कोचसंज्वरदलाङ्गुलिपल्लवाग्रपाणीभवन् मां प्रति बद्धमुष्टिः मवति।
जीवातु–इत्थमिति। इह समये, इत्थमेतादृशं, मम अभाग्यं मन्दभाग्यम्, अभूदिति शेषः, यथा येन, अनेन मन्दभाग्येन, सः अतिवदान्यः, कल्पद्रुमोऽपि मया याच्यमानः सन्, सङ्कोचो मुकुलीभावः, स एव संज्वरः सन्तापः, `सन्तापः संज्वरा समौ’ इत्यमरः, येषां तादृशानि दलान्येवांगुलयो यस्य तादृशः पल्लवाग्रमेव पाणिर्यस्य तादृग्‌भवन् संकुचितपाणीभान् अभूततद्भावे च्विः दीर्घश्च, मां प्रति बद्धमुष्टिः अमुक्तहस्तः, कृपण इत्यर्थः, भवति खलु भवत्येव इति मन्ये; अर्थिमनोरथपूरकः स कल्पबृक्षोऽपि मयि प्रतिषेधरूक्ष एव स्यात्तथाविधो मे भाग्यविपर्य्यय इति भावः॥ 13.50 ॥
देव्याः कर वरणमाल्यमथार्पये वा?
यो वैरसेनिरिह तत्र निवेशयेति।
सैषा मया मखभुजां द्विषती कृता स्यात्
स्वस्मै तृणाय तु विहन्मि न बन्धुरत्नम्॥ 13.51 ॥
अन्वयः–अथवा-`इह यः यः वैरसेनिः तत्र निवेशय’-इति देव्याः करे वरणमाल्यम् अर्पये? सा एषा मया मखभुजां द्विषतीकृता स्यात् तु तृणाय स्वस्मै बन्धुरत्नं न विहन्ति।
जीवातु–देव्या इति। अथवा इह पञ्चानां मध्ये, यो वैरसेनिः नलः तत्र तस्मिन्, निवेशय संस्थापय, इति, उक्तेति शेषः, देव्याः वाणीदेव्याः, करे वरणमाल्य पतिवरणनिमित्त मालाम् अर्पये? तच्च न युज्यते इत्याहसैषा देवी सरस्वती, मया मखभुजां देवानां, द्विषती द्वेषिणी, विद्वेषपात्रीत्यर्थः,`द्विषोऽमित्र’ इति शतृप्रत्ययः। `उगितश्च’ इति ङीप्। `द्विषः शतुर्वा’ इति विकल्पात् षष्ठी, कृता स्यात्; तथा च मत्प्रेरणया देव्या यथार्थनले वरमाल्यार्पणे कृते सति इन्द्रादीनां नलरूपधारणरूपमाया प्रकाशिता भवेत्, एवञ्च सति देव्युपरि इन्द्रादीनां विद्वेषो भविष्यतीति भावः। तृणाय तृणकल्पाय,स्वस्मै स्वार्थम् इत्यर्थः, तृणतुल्यस्य निजस्य कार्यसिद्धये इति भावः, बन्धुः रत्नमिव इति बन्धुरत्नं परमबन्धुं, तु पुनः, न विहन्मि न विरुणध्मि; तथा च देव्युपरि इन्द्रादीनां विद्वेषे जाते तद्विद्वेषस्य मन्मूलकत्वेन मदुपरि देव्याः पूर्ववत् बन्धुभावो विहतो भविष्यतीति भावः॥ 13.51 ॥
यः स्यादमीषु परमार्थनलः स मालामङ्गीकरोतु वरणाय ममेति वैताम्।
तं प्रापयामि यदि तत्र विगृज्य लज्जां कुर्वे कथं जगति श्रृण्वति? हा विडम्वः॥ 13.52 ॥
अन्वयः–अमीषु यः परमार्थनलः स्यात् सः मम वरणाय मालाम् अङ्गीकरोतु इति वा तत्र लज्जां विसृज्य एतां तं प्रापयामि, जगति श्रृण्वति कथं कुर्वे? हा विडम्बः।
जीवातु–य इति। अमीषु पञ्चषु मध्ये, यः परमार्थनलः स्यात् स परमार्थनलः मम वरणाय मालां वरणस्रजम्, अङ्गीकरोतु स्वीकरोतु, तत्र सभामध्ये, लज्जां विसृज्य इति उक्त्वा वा एतां मालां, यदि तं सत्यनलं प्रापयामि तदा जगति निखिलभास्थलोके, श्रृण्वति सति कथं कुर्वे? हा कष्टं, विडम्बः परिहासः; तादृशोक्त्या मम निर्लज्जता प्रकटीभविष्यति तत् श्रुत्वा च सभास्थाः सर्वे लज्जाहीनतया मां परिहसिष्यन्तीति भावः॥ 13.52 ॥

इतरनलतुलाभागेषु शेषः सुधाभिः स्नपयति मम चेतो नैषधः कस्य हेतोः।
प्रथमचरमयोर्वा शब्दयोर्वर्णसख्ये विलसति चरमेऽनुप्रासभासां विलायः॥ 13.53 ॥
अन्वयः–एषु इतरनलतुलाभाक् शेषः नैषधः कस्य हेतोः मम चेतः सुधाभिः स्नपयति? वा प्रथमचरमोः शब्दयोः वर्णसख्ये अपि चरमे अनुप्रासभासां विलसति।
जीवातु–इतरेति। एषु पञ्चसु मध्ये, इतरेषां चतुर्णां, नलानां तुलाभाक् सादृश्यभाक्, शेषः पञ्चमः, नैषधः कस्य हेतोः केनापि कारणेन, `षष्ठी हेतुप्रयोगे’ इति षष्ठी, मम चेतः सधाभिः स्नपयति; `सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः’ इति न्यायादनेनैव सत्यनलेन भाव्यमिति मन्ये इति भावः। सत्यनलत्वप्रमापिकामहतुकीं मनःप्रीतिं दृष्टान्तेन द्रढयतिप्रथमेति। प्रथमचरमयोः पूर्वोत्तरयोः द्वयोः, शब्दयोः वर्णसख्ये अक्षरसाम्ये सत्यपि, चरमे उत्तरे शब्दे, अनुप्रासौ वर्णावृत्तिलक्षणःऋ छेकानुप्रासादि-शब्दालङ्कारः, तस्य भासां शोभानां, विलासो वा चमत्कारिता एव, `वा स्यात् विकल्पोपमयोरेवार्थेऽपि समुच्चये’ इत्यमरः, विलसति स्फुरति, तथा च अनुप्रासस्थले अन्तिमशब्दे वर्णसाम्यं यथा चमत्कारविधायकं भवति, तद्वदन्तिमे नैषधे नलसाम्यमेव मम चेतसः परमप्रीतिसम्पादकं भवति, न त्वत्र सत्यत्वं प्रयोजकं, यतः सर्वे एव समानरूपा इति भावः। अनुप्रासानां तादृशत्वण दृष्टान्तस्तु अलङ्कारग्रन्थे स्फुट एव, अथवा अस्यैव श्लोकस्य चरमचरणे विलसविलासः प्रास भास इति शब्दचतुष्टयेऽपि सम्भवति, अथवा प्रथम-शब्दप्रयोगानन्तरं चरम-शब्दे प्रयुक्ते एव तत्रानुप्रासः सम्भवति; यथा वा अत्रैवानुप्रासभासां विलास इत्यत्र सर्वसकाराश्रयत्वे अनुप्रासस्यान्तिमसकारे स्फुरणम्, एवमन्तिमबुद्धौ विपरिवर्त्तमानत्वान्नलत्वाभिमानमात्रम्, एतावता अयेमेवेति निश्चयो युक्त इति भावः। अत्र दृष्टान्तालङ्कारः॥ 13.53 ॥ ?
इति मनसि विकल्पानुद्यतः सन्त्यजन्ती क्वचिदपि दमयन्ती निर्णयं नाससाद।
मुखमथ परितास्कन्दितानन्दमस्या मिहिरविरचितावस्कन्दमिन्दुं निनिन्द॥ 13.54 ॥
अन्वयः–इति मनसि उद्यतः विकल्पान् सन्त्यजन्ती दमयन्ती क्वचित् अपि निर्णयं न आससाद; अथ परितापास्कन्दितानन्दम् अस्याः मुखं मिहिरविरचितावस्कन्दम् इन्दुं निनिन्द।
जावातु–इतीति। इति मनसि उद्यतः उत्पद्यमानान् उत्पूर्वादिणः शत्रान्ताच्छसि पुंसि रूपम्, विकल्पान् पिचारान्, सन्त्यजन्ती दोषोद्भावनद्वारा प्रतिषेधन्ती, दमयन्ती क्वचिदपि पञ्चसु एकत्रापि, निर्णयं नलनिश्चयं, न आससाद अथ नलनिश्चयाभावानन्तरं, परितापेन आस्कन्दितानन्दं निरस्तानन्दम्, अस्याः दमयन्त्याः, मुखं मिहिरेण सवित्रा, विरचितावस्कन्दं कृततिरस्कारम्, इन्दुं निनिन्द तद्वद्दीनम् अभूदित्यर्थः। एषा च परिताप-दैन्य-शून्यत्वादिकृच्चिन्ता अनुभावो ज्ञेयः; तदुक्तम्-’ इष्टानधिगमाद् ध्यानं चिन्ता-शून्यत्व-तापकृत्’ इति॥ 13.54 ॥
श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
स्वादूत्पादभृति त्रयोदशतयाऽऽदेश्यस्तदीये महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥ 13.55 ॥
अन्वयः–श्री हर्षं………च यम्॥ स्वादूत्पादभृति तदीये चारुणि महाकाव्ये नैषधीयचरिते त्रयोदशतया आदेश्यः निसर्गोज्ज्वलः (रसाम्भोनिघिः) सर्गः व्यरमत्।
जीवातु–श्रीहर्षमित्यादि। स्वादूत्पादभृति मधुरार्थघारिणि। त्रयोदशतया आदेश्यः त्रयोदशत्वेन सङ्ख्येयः। गतमन्यत्॥ 13.55 ॥
नैषघीयचरिते त्रयोदशः सर्गः समाप्तः॥

******************************************************************************

.

चतुर्दशः सर्गः

अथाधिगन्तुं निषधेश्वरं सा प्रसादनामाद्रियतामराणाम्।
यतः सुराणां सुरभिनृणान्तु सा वेधसाऽसृज्यत कामधेनुः॥ 14.1 ॥
अन्वयः–अथ सा निषधेश्वरम् अधिगन्तुम् अमराणां प्रसादनाम् आद्रियतः यतः यतः वेधसा सुराणां कामधेनुः सुरभिः असृज्यत, नृणां तु सा।
जीवातु–अथेति। अथ चिन्तानन्तरं, सा भैमी, निषधेश्वरं नलम्, अधिगन्तुं लब्धुम्, अमराणाम् इन्द्रादीनां, प्रसादनाम्, अभिमुखीकरणं, पूजादिना सन्तोषसम्पादनमित्यर्थः, आद्रियत अमोघसाधकत्वेन अवालम्बतेत्यर्थः। अमोघसाघकत्वमेव समर्थयते यतः पुरा वेधसा सुराणां सामानां धेनुः कामधेनुः कामदुघा, सुरभिः काचन गौःष असृज्यत, नृणान्तु सा सुरप्रसादनैव, काभधेनुः असृज्य, या यस्य कामान् दुग्धे गौरगौर्वा सौवास्य कामधेनुरिति भावः। अत्र अमरप्रसादनायाः कामधेनुत्वेन रूपणाद्रूपकालङ्कारः॥ 14.1 ॥
प्रदक्षिमप्रक्रमणालवालविलेपधूपावरणाम्बुसेकैः।
इष्टञ्च मृष्टञ्च फलं सुवाना देवा हि कल्पद्रुमकाननं नः॥ 14.2 ॥
अन्वयः–हि प्रदक्षिमप्रक्रमणालवालविलेपधूपावरणाम्बुसेकैः इष्टं च मृष्टं च फलं सुवाना देवाः नः कल्पद्रुमकाननम्।
जीवातु–प्रदक्षिणेति। प्रदक्षिणप्रक्रमणं प्रदक्षिणरूपेण परिक्रमणम् एव, आलवालं वृक्षमूले जलधारणार्थ सेतुविशेषः, तथा विलेपश्चन्दनादिचर्चा, स एव विलेपः पिण्याकादिलेपः, धूपो दशाङ्गादिर्धूपः, स एव दोहदधूपश्च, आवरणमङ्गदेवतापरिवेष्टनं, तदेव शाखावरणम्, अम्बुसेकोऽभिषेकः, स एव मूलेषु जलसेकः, तेषां द्वन्द्वः तैः करणैः, इष्टञ्च प्रियञ्च मृष्टञ्च अवदातञ्च, फलमीप्सितं वस्तु, तदेव फलं सस्यं, `सस्ये हेतुकृते फलम्’ इत्यमरः, सुवाना जनयन्तः, सूतेः कर्त्तरि लटः शानजादेशः, देवा हि देवा एव, नोऽस्माकं नृणां, कल्पद्रुमाणां काननं वनम्। अत्र प्रदक्षिणप्रक्रमणाद्यालवालाद्यवयवरूपणाद् देवेषु कल्पद्रुमरूपणाच्च समस्तवस्तुविवर्त्तिसावयवरूपकम्॥ 14.2 ॥
श्रद्धामयीभूय सुपर्वणस्तान् ननाम नामग्रहणाग्रकं सा।
सुरेषु हि क्षद्दधतां नमस्या सर्वर्थनिध्यङ्गमिथः समस्या॥ 14.3 ॥
अन्वयः–सा श्रद्धामयीभूयः तान् सुपर्वमः नामग्रहणाग्रकं ननाम, हि सुरेषु श्रद्दधतां नमस्या सर्वार्थनिध्यङ्गमिथः समस्या।
जीवातु–श्रद्धेति। सा दमयन्ती, श्रद्धा विश्वासः, तन्मयी तद्‌युक्ता भूत्वा श्रद्धामयीभूय `अभूततद्भावे च्वौ समासे कत्वो ल्यबादेशः’ तान् सुपर्वणो देवान्, नामग्रहणाग्रकम् अमुकदेवाय नम इत्यादि नामोच्चारणपूर्वकं यथा तथा, ननाम प्रणामं कृतवती। हि यतः सुरेषु विषये श्रद्दषतां विश्वसतां, नमस्या नमस्कारः, श्रद्धापूर्वकनमस्कार इत्यर्थः, नमस्यतेः क्यजनतान् `अ प्रत्ययात्’ इति स्त्रियाम् अप्रत्यये टाप्, सर्वेषामर्थानां निधौ पूरणविषये, यान्ङ्गानि साधनानि, तेषां मिथः रहसि, अन्यानपैक्षमेवेत्यर्थः, किमपि आड्म्बरमकृत्वैवेति यावत्, समस्या सङ्क्षिप्यते अनयेति समस्या संपूर्वादस्यतेः क्यबन्तात् `अ प्रत्ययात्’ इति स्त्रियाम् अ-प्रत्यये टाप्, `मिथोऽन्योन्यं रहस्यपि’, `समस्या तु समासार्था’ इति चामरः, सति नमस्कारे सर्वसाधनं फलदं नान्यथेति सा नमश्चकारेति निष्कर्षः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासालङ्कारः॥ 14.3 ॥
यत्तान्निजे सा हृदि भावनाया बलेन साक्षादकृताखिलस्थान्।
अभूदभीष्टप्रतिभूः स तस्या वरं हि दृष्टा ददेत परं ते॥ 14.4 ॥
अन्वयः–सा अखिलस्थान् तान् भावनायाः बलेन निजे हृदि यत् साक्षात् अकृत, सः तस्याः अभीष्टप्रतिभूः उभूत्; हि दृष्टाः परं वरं ददते।
जीवातु–यदिति। सा भैमी, भावनाया बलेन ध्यानदार्ढ्तेन, अखिलस्थान् सर्वगातान्, तान् देवान्, निजे हृदि साक्षादकृत साक्षात् कृतवती, करोतेः कर्त्रि लुङ् तङ्, `ह्रस्वादङ्गात्’ इति सिचो लोपः, इति यत्, स साक्षात्कार एव, तस्या भैम्याः, अभीष्टे इष्टार्थसिद्धौ, प्रतिभूर्लग्नकः, अभूत्; हि यतः, ते देवाः, दृष्टाः प्रत्यक्षीभूताः, चेत् तदा इति पदद्वयमत्राध्याहरणीयम्; परमवश्यं, वरं ददे। ` न दातुं देवा वरमर्हन्ति न प्रत्यक्षदृष्टा मनुष्येभ्यः’ इति श्रुतिः। अत्र कारणेन कार्यसमर्थनरूपोर्थान्तरन्यासालङ्कारः॥ 14.4 ॥
सभाजनं तत्र ससर्ज तेषां सभाजने पश्यति विस्मिते सा।
आमुद्यते यत् सुमनोभिरेवं फलस्य सिद्धौ सुमनोभिरेव॥ 14.5 ॥
अन्वयः–सा तत्र सभाजेन विस्मिते पश्यति तेषां सभाजनं ससर्ज, यत् फलस्य सिद्धौ सुमनोभिः एवम् एव आमुद्यते।
जीवातु–सभाजनमिति। सा भैमो, तत्र सभायां, विस्मिते अकस्मादत्यादरेण देवानां पूजारम्भदर्शनादाश्चर्यान्विते, समाजने सभ्यजने, पश्यति पश्यन्तं तम् अनादृत्येत्यर्थः, `षष्ठी चानादरे’ इति चकारादनादरे सप्तमी, तेषां देवानां, सभाजनम्, आनन्दनं, पूजादिनासन्तोषसम्पादनमित्यर्थः, `अथ द्वे आनन्दनसभाजने। आप्रच्छनम्’ इत्यमरः, मालत्यादिषु संस्कारञ्च इत्यपि गम्यते; ससर्ज चकारेत्यर्थः। किमर्थ सुरार्चनमित्याशङ्क्य सन्तुष्टा एव ते फलं ददतीत्यर्थान्तरं न्यस्यति, यत् यस्मात् सभाजनात्, सुमनोभिः उदारचित्तैः पण्डितैः वा, मालत्यादिभिश्च, सुमनोभिर्देवैः पुष्पैश्च, `मालत्यां पण्डिते देवे च सुमनोऽभिधा’ इति विश्वः, फलं हेतुसाध्यं सस्यञ्च, `सस्ये हेतुकृते फलम्’ इत्यमरः, तस्य सिद्धौ सिद्धिप्रसङ्गे, फलदानविषये इत्यर्थः, एवम् इत्थम्, आमुद्यते एव सन्तष्यते एव, सद्‌गन्धविशिष्टीभूयते च मुद्यतेर्भावे लट्। `आमोदो हर्षगन्धयोः’ इत्यमरः, सुमनसां मालत्यादीनां फलपुष्पदानदर्शनात् सुरे सुमनस्त्वेन तथात्वनिश्चयात्तदामोदार्थ तत्सभाजनमन्वतिष्ठदित्यर्थः। अत्रोमयेषाम् अपि सुमनसाम् उभयोरप्यामोदयोश्च फलयोरभेदाध्यवसायेनायमर्थान्तरन्यासालङ्कार॥ 14.5 ॥
वैशद्यहृद्यैर्म्रदिमाभिरामैरामोदिभिस्तानथ जातिजातैः।
आनर्च कीत्यन्वितषट्पदैः सा स्तवप्रसूनस्तवकैर्नवीनैः॥ 14.6 ॥
अन्वयः–अथ सा तान् वैशद्यहृद्यैः म्रदिमाभिरामैः आमोदिभिः जातिजातैः गीत्यन्वितषट्पदैः नवीनैः स्तवप्रसूनस्तबकैः आनर्च।
जीवातु–वैशद्यति। अथ पूजानन्तरं, सा दमयन्ती, तान् देवान्, वैशद्यमर्थव्यक्तिः, अन्यत्र-विकासश्च, तेन हृद्यैः हृदयप्रियैः, `हृदयस्य प्रियः’ इति यत्-प्रत्ययः, `हृदयस्य हृल्लेखयदण्लासेषु’ इति हृदादेशः म्रदिमा शब्दार्थमाधुर्यम्’ अन्यत्र-सौकुमार्य, तेनाभिरामैः, आमोदयन्तीत्यामोदिनः मुदेर्ण्यन्तात्ताच्छील्ये णिनिः, अन्यत्र-आमोदः सौरभमेषामस्तीत्यामोदिनः, `मत्वर्थीय इनिः’ तैरामोदिभिः प्रीतिजननैः सुरान्धिभिश्च, जातयः आर्यादीनि छन्दांसि मालत्यश्च तज्जातैः तदुद्भवैः आर्यादिजातिच्छन्दोनिबद्धैः मालत्यादिग्रथितैश्च, गीत्यन्विता गीतिच्छन्दोनिबद्धाः षट्‌पदाः गाथाविशेषा येषु तैः, अन्यत्र-झङ्कारयुक्तभ्रमरैः, नवीनैः अभिनवैः, स्तोत्रैः प्रसूनस्तबकैः कुसुमगुच्छैश्च, आनर्च अर्चयामास, स्तवैः पुष्पाञ्जलिभिश्च पूजयामासेत्यर्थः। अर्चेभौवादिकाल्लिटि, `अत आदेः’ इत्यम्यासदीर्घः तस्यानर्च। अत्र स्तवानां प्रसूनस्तबकानाञ्चोभयेषास् अपि अर्चनसाधनत्वेन प्रकृतानमेकार्चनक्रियाभिसम्बन्धात् केवलप्रकृतविषया तुल्ययोगिता, लक्षणन्तु उक्तं प्राक्॥ 14.6 ॥
(हृत्पद्मसद्मन्यधिवास्य बुद्ध्या दध्यात्रथैतानियमेकताना।
सुपर्वणां हि स्फुटभावना या सा पूर्वरूपं फलभावनायाः॥ 14.6A ॥)
अन्वयः–अथ एकताना इयं हृत्पद्मसद्मनि एतान् बुद्ध्या अधिवास्य दध्यौ; हि सुपर्वणां या स्फुटभावना सा फलभावनायाः पूर्वरूपम्।
भक्त्या तयेव प्रससाद तस्यास्तुष्टं स्वयं देवचतुष्टयं तत्।
स्वेनानलस्य स्फुटतां यियासो. फुत्कृत्यपेक्षा कियती खलु स्यात्॥ 14.7 ॥
अन्वयः–तस्याः स्वयं तुष्टं तत् देवचतुष्टयं तया भक्त्या एव प्रससाद, खलु स्वेन स्फुटतां यियासोः अनलस्य कियती फूत्कृत्यपेक्षा स्यात्।
जीवातु–भक्त्येति। स्वयं एव, सेवादिकं विनाऽपि पूर्वं तच्चा रित्र्यदार्ढ्यादेवेत्यर्थः तुष्टं सन्तुष्टं तत् प्रकृतं, देवचतुष्टयम् इन्द्रादिदेवचतुष्कं, तस्या भैम्याः, तया भक्त्या एव क्षणकालकृतसेवयैव, प्रससाद अनुजग्राह, एवकारस्त्वविलम्बसूचनार्थः। तथा हि, स्वेन स्वत एव, स्फुटतां व्यक्तनां, प्रज्जवलितत्वमित्यर्थः, यियासोः यातुमिच्छोः, अनलस्य वह्नेः, फूत्कृतेः फूत्कृतस्य, फूत्कारमारुतस्य इत्यर्थः, अपेक्षा कियती खलु स्यात्? नात्यन्तम् अपेक्षते इत्यर्थः; स्वत एव प्रसन्नस्य देवगणस्य तत्कृता भक्तिः स्वत एव प्रज्ज्वलिष्यतोऽग्नेः फुत्कृतिरिव झटिति कार्यप्रादुर्भावमात्रफला अनयथाऽपि प्रज्ल्वलनवत् प्रसादावश्यमभावादिति भावः। अत्र वाक्यद्वये भक्तिफूत्कृत्योः कार्यानपेक्षितत्वलक्षणसमानधर्मस्यैव फूत्कार-कियच्छब्दाभ्यां बिम्बप्रतिबिम्बतया उक्तेर्दृष्टान्तालङ्कारः; बिम्बानुबिम्बन्यायेन निर्देशे धर्मधर्मिणाम्। दृष्टान्तालङ्कृतिर्ज्ञेया भिन्नवाक्यार्थसंश्रया॥’ इति विद्याचक्रवर्त्तिलक्षणात्॥ 14.7 ॥
प्रसादमासाद्य सुरैः कृतं सा सस्मार सारस्वतसूक्तिसृष्टेः।
देवा हि नान्यद् वितरन्ति किन्तु प्रसद्य ते साधुधियं ददन्ते॥ 14.8 ॥
जीवातु–प्रसादमिति। सा भैमी, सुरैः कृतं प्रसादमनुग्रहम्, आसाद्य सरस्वत्या इयं सारस्वत्या इयं सारस्वती तस्याः सूक्तिसृष्टेः `अत्याजि’ इत्यादेः पूर्वसर्गोक्तश्लिष्टोक्तिगुम्फस्य, सस्मार तदर्थतत्त्वं जज्ञावित्यर्थः `अधीगर्थ-’ इत्यादिना कर्मणि शेषे षष्ठी। तस्याः नलप्राप्तौ देवानां कोऽयमनुग्रहो यत् सारस्वतसूक्तिपरिज्ञानमात्रम्? तत्राह,-हि यतः, ते देवाः प्रसद्य अनुगृह्य, सदेः क्त्वोल्यप्, अन्यत् बुद्धेरन्यत् किञ्चित्, देयमित्यर्थः न वितरन्ति, किन्तु साधुधियं फलप्राप्त्युपायपरिज्ञानं, ददन्ते प्रयच्छन्ति, `दद दाने’ इति धातोर्भौवादिकाल्लट्तङ्, तदाहुः–`न देवा दण्डमादाय रक्षन्ति पशुपालवत्। यं हि रक्षितुमिच्छन्ति बुद्ध्या संयोजयन्ति तम्॥’ इति॥ 14.8 ॥
शेषं नलं प्रत्यमरेण गाथा या सा समार्था खलु येन येन।
तां तां तदन्येन सहालगन्तीं तदा विशेषं प्रति सन्दधे सा॥ 14.9 ॥
अन्वयः–शेष नलं प्रति या या गाथा येन येन अमरेण समार्था, सा तां तां तदा तदन्येन सह खलु अलगन्तीम् विशेषं प्रति सन्दधे।
जीवातु–शेषमिति। या दमयन्ती शेषं पञ्चमं परमार्थं, नलं प्रति, विरचितेति शेषः, या या गाथा `अत्याजि लब्ध’ इत्यादिको यो यः श्लोकः, येन येन अमरेण देवेन, समार्धा समानाभिधेया, खलु, अत एव तदन्तेन ततस्ततः, मुख्यार्थरूपात् इन्द्रादेरित्यर्थः, अन्येन श्लेषमहिम्ना प्रतीयमानेन सत्येन, नलेन, सह अलगन्तीन्, असङ्गातां, तत्परत्वेनानिश्चितामिति यावत्, तां तां गाथां, तदा देवतानुग्रहलब्धेस्मृत्युद्‌बोधकाले, विशेष प्रति सत्यनलं प्रति, सन्दधे नलपरत्वेन योजयामासेत्यर्थः, इत्यादिपरत्वशङ्कां विहाय नलपरत्व निश्चिकायेति तात्पर्यार्‌थः॥ 14.9 ॥
एकैकवृत्तेः पतिलोकपालं पतिव्रतात्वं जगृहुर्दिशां याः।
वेदस्मगाथा मिलितास्तदाऽसावाशा इवैकस्य नलस्य वश्याः॥ 14.10 ॥
अन्वयः–याः गाथाः एकैकवृत्तेः प्रतिलोकपाल दिशां पतिव्रतात्व जगृहुः, तदा असौ मिलिताः आशाः इव एकस्य नलस्य वश्याः देव स्म।
जीवातु–एकैकेति। या गाथाः `अत्याजि’ इत्यादयः श्लोकाः, एकैकस्मिन् लोकपाले वृत्तेः वर्त्तमानाद्वेतोः, प्रतिलोकपालं प्रत्येकदिक्पालं प्रति, दिशां पूर्वादीनां, पतिव्रतात्वं जगृहुः तत्साम्यात् प्राच्यादिदिश इव इन्द्राद्येकैकलोकपालपरा बभूवुरित्यर्थः, तदा देवताप्रसादकाले, असौ भैमी, मिलिताः समस्ताः, गथा आशा दिश इव, एकस्य नलस्य वश्याझ वशङ्गताः, नलमात्राभिधायिनौरित्यर्थः,`वशं गत’ इति यत् प्रत्ययः, वेद स्म `लट् स्मे’ इति भूते लट्, `विदो लटो वा’ इति णलादेशः आशानां प्रत्येकम् इन्द्राद्येकैकलोकपालपरत्वेपि सर्वासा पूर्वादिदिशां यथा चक्रवर्त्तिनलैकवश्यत्वात् नलपरत्वं तथा गाथा अपि आपातत एकैकश एकैकलोकेशपरतया प्रतीता अपि सामस्त्येन नलपरा एवेति विवेदेत्यर्थः, तस्य सर्वाशाविजयित्वादाशानां तत्परत्वं गाथानान्तु देव्याः चतुरोक्तिभङ्गिपर्यालोनयेति भावेः॥ 14.10 ॥
(या पाशिनैवाशनिपाणिनैव गाथा यमेनैव समाग्निनैव।
तामेव मेने मिलितां नलस्य सौषा विशेषाय तदा नलस्य॥ 14.10A )
अन्वयः–या गाथा पाशिना एव, अशनिपाणिना एव, यमेन एव, अग्निना एव समा, नलस्य मिलितां ताम् एव तदा सा एषा नलस्य विशेषाय मेने।
निश्चित्य शेषं तमसौ नरेशं प्रमोदमेदस्वितराऽऽतराऽभूत्।
देव्या गिरां भावितभङ्गिराख्यच्चित्तेन चिन्तार्णवयादसेदम्॥ 14.11 ॥
अन्वयः–असौ शेषं नरेशं निश्चित्य प्रमोदमेदस्वितान्तरा अभूत्, देव्याः गिरां भावतिभङ्गिः चिन्तार्णवयादसा चित्तेन इदम् आख्यत्।
जीवातु–निश्चित्येति। अमी दमयन्ती, शेषं पञ्चमं तं प्रसिद्धं, नरेशं नैषधं, निश्चित्य प्रमोदमेदस्वितरम् आनन्दमेदुरतरम्, आन्तरम्, अन्तरङ्गं यस्याः सा तादृशी अभूत्। अथ देव्याः गिरां भाविता परिज्ञाता, भङ्गिः प्रयोगचातुरीविशेषः यया सा तादृशी सती, चिन्तार्णवयादसा नलप्राप्त्युपायचिन्तासागरजलग्रहभूतेन, चित्तेन इदं वक्ष्यमाणम्, आख्यत् अवोचत्। ख्यातेलुङि `अस्यतिवक्तिख्यातिभ्योऽङ्’ इति च्लेरङादेशः। अत्र चित्ते यादस्त्वरोपणात् रूपकालङ्कारः॥ 14.11 ॥
सा भङ्गिरस्याः खलु वाचि काऽपि यद् भारती मूर्त्तिमती मतीयम्।
श्लिष्टं निगद्याऽऽदृत वासवादीन् विशिष्य मे नैषधमप्यवादीत्॥ 14.12 ॥
अन्वयः–खलु सा मूर्तिमती भारती इयम् एव, यत् अस्याः वाचि का अपि भङ्गिः, श्लिष्टं निगद्यवासवादीन् आदृत, विशिष्य मे नैषधम् अपि अवादीत्।
जीवातु–अथ चित्तेन यदाख्यत् तदेवाह, सेति। अस्याः देव्याः, वाचि सा वक्ष्यमाणा, काऽपि अपूर्वा, भङ्गिः प्रयोगप्रकारः, खलु, यत् यस्मात् भङ्गिविशेषात्, इयं पुरोवर्त्तिनी, मूर्त्तिमती विग्रहवती, सती सत्यवादिनी भारती वाग्देवता, श्लिष्टं श्लिष्टार्थं यथा तथा, निगद्य उक्त्वा, वासवादीन्, इन्द्रादीन्, आदृत आदृतवती, तानेव उपाचरदेवेत्यर्थः, दृङो लुङि `ह्रस्वादङ्गात्’ इति सलोपः, अथ च नैषधं नलमपि, मे मह्यं, विशिष्य इन्द्रादिभ्यो विशेषं कृत्वा, अवादीत्, किन्तु अहमेव न वेद्यीति भावः॥ 14.12 ॥
जग्रन्थ सेयं मदनुग्रहेण वचःस्रजः स्पष्टयितुं चतस्रः।
द्वे ते नलं लक्षयितुं क्षमेते ममैव मोहोऽयमहो महीयान्॥ 14.13 ॥
अन्वयः–सा इयं मदनुग्रहेण स्पष्टयितुं चतस्रः वचस्रजः जग्रन्थ, ते द्वे एव नलं लक्षयितुं क्षमेते; अहो, अयं मम एव महीयान् मोहः!
जीवातु–जग्रन्थेति। सां इयं देवी, मदनुग्रहेण मयि अनुग्रहबुद्ध्या, स्पष्टयितुं नलं व्यक्तीकर्तुं, चतस्रः वचःस्रजः वचनमालिकाः, जग्रन्थ ग्रथितवती, तत्र ते इन्द्राग्निप्रत्यायिके, द्वे आद्ये द्वे एव वचःस्रजौ, नलं लक्षयितुम् अभिव्यंजयितुं, क्षमेते शक्नुतः, ताभ्यामेव स्फुटतरं प्रतीतेरन्ये द्वे वृथेति भावः; किन्तु ममैव अयं महीयान् महत्तरः, मोहः, अहो! आश्चर्यं यत् चतसॉभिरपि न वेद्मीति भावः॥ 14.13 ॥
श्लिष्यन्ति वाचो यदमूरमुष्याः कवित्वशत्तेः खलुते विलासाः।
भूपाललीलाः किल लोकपालाः समाविशन्ति व्यतिभेदिनोऽपि॥ 14.14 ॥
अन्वयः–अमुष्याः अमू वाचः यत् शिलष्यन्ति, ते खलु कवित्वशवतेः विलासाः, किल व्यतिभेदिनः अपि लोकपालाः भूपाललीलाः समाविशन्ति।
जीवातु अत्याजीत्यादिश्लोकचतुष्टयं नलमेवाचष्टे, किन्तु भङ्ग्या इन्द्रादिचतुष्टयमपि स्पृशतीत्याह श्लिष्यन्तीति। अमुष्याः देव्याझ, अमूः वाचः अत्याजीत्यादयो गाथाः, विधेयी भूतविलासस्य प्राधान्यात्तल्लिङ्गसङ्ख्यानिर्देशः; कवित्वशक्तेः काव्यरचनानैपुण्यस्य, विलासाः विकासाः, खलुकवित्वधर्मोऽयं यदन्यपरेणापि शब्देन श्लेषभङ्ग्या अर्थान्तरप्रत्यायनम्, अलङ्कारत्वान्न तु तात्पर्यमिति भाव। तथा चश्लेषमहिम्ना तेषां नलसारूप्याच्च तत्परत्वभ्रान्तिरित्याह-भूपालस्य नलस्य, लीला इव लीला येषां ते तद्रूपधारिमः, लोकपालाः व्यतिभेदिनः नलात् भेदवन्तोऽपि, समाविशन्ति श्रोतृबुद्धौ लगन्ति किल; ततो ममैवायं व्यामोह इति भावः॥ 14.14 ॥
त्यागं महेन्द्रादिचतुष्टयस्य किमभ्यनन्दत् क्रमसूचितस्य?।
किं प्रेरयामास नले च तन्मां का सूक्तिरस्या मम कः प्रमोहः?॥ 14.15 ॥
अन्वयः–क्रमसूचितस्य महेन्द्रादिचतुष्टयस्य त्यागं किम् अभ्यनन्दत्, मां च किं नले प्रेरयामास, तत् का अस्याः सूक्तिः, कः मम प्रमोहः?
जीवातु–स्वव्यामोहमेव प्रकटयति-त्यागमिति। इयं देवी क्रमसूचितस्य क्रमनिर्दिष्टस्य, महेन्द्रदिचतुष्टयस्य त्यागं पुराकृतं परिहारं, किं किमर्तम्, अभ्यनन्दत्? अन्वमोदत? माञ्च किं किमर्थं, नले विषये प्रेरयामास? यद्यस्याः मदनुजिघृक्षा न स्यादिति भावः। तत् तस्मात्, अस्याः देव्याः, सूक्तिः साधूक्तिः, अत्याजीत्यादि सत्योपदेशः इत्यर्थः, का? मम प्रमोहः कः? अहो धण्टापथे स्खलितमिति भावः॥ 14.15 ॥
परस्य दारान् खलु मन्यमानैरस्पृश्यमानाममरैर्धरित्रीम्।
भक्त्यैव भर्त्तुश्चरणौ दधानां नलस्य तत्कालमपश्यदेषा॥ 14.16 ॥
अन्वयः–एषा तत्कालं परस्य दारान् मन्यमानैः अमरैः अस्पृश्यमानां धरित्री भक्त्या पत्युः नलस्य चरणौ दधानाम् इव अपश्यते।
जीवातु–अथ भूमिस्पर्शादिभिः षड्भिः चिह्नैः सा नलज्ञानप्रकारमाहपरस्येत्यादि। परस्य दारान् मन्यमानैरिव परभार्या इति बुध्यमानैरिवेत्युत्प्रेक्षा, राजदारत्वात् भुव इति भावः; `भार्या जायाऽथ पुं भुम्नि दाराः’ इत्यमरः, अमरैः अस्पृश्यमानां , पराङ्गनास्पर्शनिषेधादिति भावः, भक्त्येव पतिभक्त्या इवेत्युत्प्रेक्षा, भर्त्तुः पत्युः, नलस्य चरणौ दधानां धरित्रीम् एषा दमयन्ती, तत्कालं तस्मिन् काले, अत्यन्तसंयोगे द्वितीया अपश्यत्; देवा ही भूमिं न स्पृशन्ति अयन्तु स्पृशन्तीत्येतदेकं तावच्छिह्निमति भावः॥ 14.16 ॥
सुरेषु नापश्यदवैक्षताक्ष्णौर्तिमेषमुर्वीभृति सम्मुखे सा।
इह त्वमागत्य नले मिलेति संज्ञानदानादिव भाषमाणम्॥ 14.17 ॥
अन्वयः–`इह त्वम् आगत्य नले मिल’-इति संज्ञानदानात् बाषमाणम् इव सा सुरेषु अक्ष्णोः निमेषं न अपस्यत्, संमुखे उर्वीभृति अवैक्षत।
जीवातु–सुरेष्विति। सा दमयन्ती, सुरेषु इन्द्रादिषु, अक्ष्णोः निमेषं अपश्यत् सम्मुके स्वाभिमुखस्थिते, उर्वीभृति नृपे नले तु, हे दमयन्ति! त्वम् इह आगत्य इतः एत्य, नले मिल सङ्गच्छस्व, इति संज्ञानदानात् संज्ञाकरणात् आह्वानसूचकचक्षुश्चेष्ठाविशेषकरणादित्यर्थः, भाषमाणं ब्रुवाणमिव स्थितमित्युत्प्रेक्षा, निमेषम् अवैक्षत, इदमपरं चिह्नमिति भावः॥ 14.17 ॥
नाबुद्ध बाला विबुधेषु तेषु क्षोदं क्षितेरैक्षत नैषधे तु।
पत्ये सृजन्त्याः परिरम्भमस्याः सम्भूतसम्भेदमसंशयं सा॥ 14.18 ॥
अन्वयः–सा बाला तेषु विबुधेषु क्षितेः क्षोदं न अबुद्ध, नैषधे तु पत्ये परिरम्भं सृजन्त्याः अस्याः असंशयं सम्भूतसम्भेदम् ऐक्षत।
जीवातु–नेति। सा बाला भैमी, तेषु विबुधेषु देवेषु क्षितेः क्षोदं रजः, धूलिमित्यर्थः, न अबुद्ध न ऐक्षतेत्यर्थः, तैजसेषु देवेषु भूस्पर्शाभावेन तदसङ्क्रमादिति भावः;बुध्यतेर्लुङि तङि `झलो झलि’ इति सिचः सलोपः नैषधे नले तु, पत्ये स्वभर्त्रे, पृथिवीस्वामिने नलाय इत्यर्थः, परिरम्भ सृजन्त्याः आलिङ्गनं ददत्याः, अस्याः क्षितेः सकाशात्, असंशयं यथा तथा, सम्भूतसम्भेदं सञ्जातसंश्लेषम्, असंशयमिति पदम् उत्प्रेक्षावाचकम्, आलिङ्गनसङ्क्रान्तमिव स्थितमित्यर्थः, क्षोदमिति पूर्वेणान्वयः, एक्षत; रजःसम्भेदोऽपरं चिह्नमिति भावः॥ 14.18 ॥
स्वेदः स्वदेहस्य वियोगतापं निर्वापयिष्यन्निव संसिसृक्षोः।
हीराङ्कुरश्चारुणि हेमनीव नले तयाऽऽलोकि न दैवतेषु॥ 14.19 ॥
अन्वयः–तया संसिसृक्षोः स्वदेहस्य वियोगतापं निर्वापयिष्यन् इव स्वेदः चारुणि हेमनि हीराङ्कुरः इव नले आलोकि, दैवतेषु न।
जीवातु–स्वेद इति। तया दमयन्त्या, संसिसृक्षोः संस्रष्टुं नलेन सङ्गन्तुमिच्छोः, स्वदेहस्य वियोगतापं नलविरहसंतापं, निर्वापयिष्यन् शमयिष्यन् इव उद्‌गतः इत्युत्प्रेक्षा; स्वेदः चारुणि शुद्धिमति, श्यामिकारहिते इति भावः, हेमनि सुवर्णे, हीराङ्कुरः वज्रांकुरः इव, `वज्रो हीरश्च कथ्यते’ इति हलायुधः। नले आलोकि दृष्टः, दैवतेषु सुरेषु न आलोकि इति पूर्वणान्वयः। अत्र प्रथमार्द्धे उत्प्रेक्षा, द्वितीयार्द्धे च हैेम्नो नलशरीरतुल्यत्वात्, हीराङ्रकुस्य च स्वेदतुल्यत्वात् तयोः सम्बन्धस्य च प्रसिद्धत्वादुपमालङ्कार इत्यनयोः संसृष्टिः॥ 14.19 ॥
सुरेषु मालाममलामपश्यन्नले तु बाला मलिनीभवन्तीम्।
इमां किमासाद्य नलोऽद्य मृद्धीं श्रद्धास्यते मामिति चिन्तयैव॥ 14.20 ॥
अन्वयः–बाला सुरेषु मालाम् अमलाम् अपस्यत्, नले तु-’ अद्य नलः मृद्वीम् इमाम् आसाद्य मां किं श्रद्धास्यते’-इति चिन्तया ए मलिनीभवन्तीम् (अपश्यत्)।
जीवातु–सुरेष्विति। बाला दमयन्ती, सुरेषु मालां स्रजम्, अमलाम् अम्लानाम्, अपश्यत्, नले तु अद्य स्वयंवराहे, नलः मृद्वीं मदपेक्षयाऽपि सुकुमाराम्, इमां दमयन्तीम् आसाद्य किं किमर्थ, मां श्रद्धास्यते? आदरिष्यते? कथञ्चिदपि नादरिष्यते, इति चिन्तया एव, मलिनीभवन्तीं म्लायन्तीं, मालामिति पूर्वानुबंधः, अपश्यत्। म्लानकुसुमत्वमन्यचिह्नमिति भावः। अत्र मालायास्तादृसचिन्तासम्बन्धासम्मभवादुत्प्रेक्षालङ्कारः॥ 14.20 ॥
श्रियं भजन्तां कियदस्य देवाश्छाया नलस्यास्ति तथाऽपि नैषाम्।
इतीरयन्तीव तया निरैक्षि सा नैषधे न विदशेषु तेषु॥ 14.21 ॥
अन्वयः–देवाः अस्य श्रियं कियद् भन्तां तथापि एषां नलस्य छाया न अस्ति इति ईरयन्ती इव सा तया नैषधे निरैक्षि, तेषु त्रिदशेषु न।
जीवातु–श्रियमिति। देवाः इन्द्रादयः, अस्य नलस्य, श्रियं सौन्दर्य, कियत् अल्पं यता तथा, भजन्तां, तथाऽपि नलसौन्दर्यस्य किञ्चित् ग्रहणे कृतेऽपि, नलस्य छाया प्रतिबिम्बं प्रतिच्छाया इत्यर्थः। `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्यमरः। एषाम् इन्द्रादीनां, नास्ति, नलरूपधराणामपि देवानां तेजोपयत्वेन भूस्पर्शाभावात् तादृशप्रतिबिम्बरूपच्छायाया असम्भवादिति भावः; इतीरयन्ती कथयन्तीव स्थिता सा छाया, प्रतिबिम्बमित्यर्थः, तया दमयन्त्या, नैषधे नले, निरैक्षि दृष्टा, ईक्षतेः क्मणि लुङ्। तेषु त्रिदशेषु इन्द्रादिषु, न निरैक्षि इति पुर्वेणान्वयः, तेषां तैजसत्वात् न छत्रादिवद्‌देहच्छाया क्षितितले लग्ना, नलस्य तु लग्ना इत्येकं चिह्नमिति भावः। अत्र श्रियमिव श्रियं छायेव छायेति सादृश्याक्षेपान्नदर्शने ताभ्यामङ्गाभ्यामितिरयन्तीत्वेत्युत्प्रेक्षायाः सङ्करः॥ 14.21 ॥
चिह्नैरमीबिर्नलसंविदस्याः संवादमाप प्रथमोपजाता।
सा लक्षमव्यक्तिभिरेव देवप्रसादमासादितमप्यबोधि॥ 14.22 ॥
अन्वयः–अस्याः प्रथमोपजाता नलसंवित् अमिभिः चिह्नैः संवादम् आप, सा लक्षणव्यक्तिभिः एव देवप्रसादम् अपि प्रासादितम् अबोधि।
जीवातु–चिह्नैरिति। अस्याः दमयन्त्याः, प्रथमोपजाता `इतरनलतुलाभागेषु शेषः’ इत्यादिपूर्वसर्गोक्तविकल्पोत्पन्ना, नलसंवित् अय शेष एव नल इति बुद्धिः, अमीभिः एभुः, चिह्नैः पूर्वोक्तैः भूस्पर्शादिभिः, संवादम् ऐकमत्यम्, आप दार्ढ्य प्रापेत्यर्थः; सा दमयन्ती, लक्षमानां पूर्वोक्तचिह्नानां, व्यक्तिभिः, प्रकाशैरेव, अभिव्यक्तिलक्षणकार्यैरेवेत्यर्थः, देवप्रसादं देवतानुग्रहरूपकारणमपि, आसादितं प्राप्तम्, अबोधि, मत्सेवया देवताः, प्रसन्नाः, कथमन्यता भुस्पर्शादिमानुषसुलभचिह्नानि एतावन्तं भावः। बुध्यतेः कर्त्तरि लुङ् `दीपजन-’ इत्यादिना विकल्पात् चिण्॥ 14.22 ॥
नले विधातुं वरणस्रजं तां स्मरः स्म रामां त्वरयत्यथैनाम्।
अपत्रपा तां निषिषेध तेन द्वयानुरोधं तुलितं दधौ सा॥ 14.23 ॥
अन्वयः–अथ स्मरः तां वरणस्रजं नले विधातुम् एनां रामां त्वरयतिस्म अपत्रपा तां निषिषेध, तेन सा द्वयानुरोधं तुलितं दधौ।
जीवातु–नले इति। अथ शेषोऽयं नल इति निश्चयानन्तरं, स्मरः तां करस्थां, वरणस्रजं नले विधातुम् एनां रामां दमयन्तीं, त्वरयति स्म त्वरयामास, अपत्रपा सर्वसमक्षे कथमेनं माल्यदानेन वृणे इति लज्जा तु, तां चाभ्यासस्य’ इति धात्वभ्याससकारयोः षत्वम्। तेन कारणद्वयेन, सा भैमी, द्वायनुरोधं स्मरलज्जोभयानुरोधं, तुलितं समीभूतं यता तथा, दधौ रक्षयामासेत्यर्थः, वरणमाल्यप्रदानविषयकप्रवृत्तिनिवृत्तिविषये कर्त्तव्यविमूढा आसीदिति भावः। एतेनास्या मध्यमानायिकात्वमुक्तम्; `तुल्यलज्जास्मरा मध्या’ इति लक्षणात्॥ 14.23 ॥
स्रजा समालिङ्गयितुं प्रियं सा रसादधत्तैव बहुप्रयत्नम्।
स्तम्भत्रपाभ्यामभवत्तदीये स्पन्दस्तु मन्दोऽपि न पाणिपद्मे॥ 14.24 ॥
अन्वयः सा रसात् स्रजा प्रियं समालिङ्गयितुं बहुप्रयत्नम् अधत्त एव, तु तदीये पाणिपद्मे स्तम्भत्रपाभ्यां मन्दः अपि स्पन्दः न अभवत्।
जीवातु–स्रजेति। सा भैमी, रसात् रागात्, प्रियं नल, सृज्यते इति स्रक्वरणमाला, `ऋत्विग्‌दधृक्‌स्रक्-’ इत्यादिना क्विन् अमागमश्च। तया समालिङ्गयितु समाश्लेषयितुं, बहुप्रयत्नं महोद्योगमेव, अधत्त, तु किन्तु, तदीये तस्याः सम्बन्धिनि, पाणिपद्मे स्तम्भः निष्क्रियत्वलक्षणः सात्त्विकमावविशेषः, स च त्रपा च ताभ्यां हेतुभ्यां, मन्दः अल्पोऽपि, स्पन्दः क्म्पनव्यापारः, न अभवत्॥ 14.24 ॥
तस्या हृदि व्रीडमनोभवाभ्यां दोलाविलासं समवाप्यमाने।
श्रितं धृतैणाङ्ककुलातपत्रे श्रृङ्गारमालिङ्गदधीश्वरश्रीः॥ 14.25 ॥
व्रीडमनोभवाभ्यां दोलाविलास समवाप्यमाने धृतैणाङ्ककुलातपत्रे तस्याः हृदि श्रितं श्रृङ्गारम् अधीश्वरश्री आलिङ्गत्।
जीवातु–तस्या इति। व्रीडमनोभवाभ्यां लज्जास्मराभ्यां, दोलाविलासं प्रेङ्खणलीला, समवाप्यमाने नीयमाने, वरणविषये प्रवृत्तिनिवृत्तिसघर्षेण दोतुल्यमाने इत्यर्थः, एणाङ्ककुलं सोमवंशः, सोमवंशोत्पन्नः नल इति यावत्, तदेव आतपत्रं छत्त्रं, नलाप्राप्तिजनितसन्तापप्रशमकत्वादिति भावः, धृतम् एणाङ्ककुलातपत्रं येन तस्मिन् सन्तापनिवारकनलपूपातपत्रवति, तस्याः दमयन्त्याः हृदि हृदयेश्वरस्य नलस्य, श्रीः सौन्दर्यम्, आलिङ्गत् दोलनजनितपतनभयनिवारणार्थमाश्लिषत्, प्रबलतया दोतुल्यमानदीलाधिरूढम्, अत एव पतनशङ्कया भीतं कमपि पुमांसं पार्श्वस्थः नले वा नारी वा यः कोऽपि यथा अवलम्बनं द्त्ताव स्थिरीकरोति तद्वत् इति भावः। नलसौन्दर्यं वरणायैव हृदयस्य स्तैर्यं सम्पाद्म प्रवृत्तिनिवृत्तिङ्घर्षजनितं दोलन निवारयामासेति समुदितार्थः। अत्र भैमीहृदयं दोलासन, श्रृङ्गाररसो राजा, नल एव सन्तापनिवारकत्वात् छत्रं, दोलासनान्दोलनार्थं स्थितौ लज्जाकामौ, एतेन नलाधिष्ठिते हृदि भैमी श्रृङ्गाररसस्य परां कोटिम् आरूढा इति निष्कर्षः॥ 14.25 ॥
करः स्रजा सज्जतरस्तदीयः प्रियोन्मुखीभूय पुनर्व्यरंसीत्।
तदाननस्यार्द्धपथं ययौ च प्रत्याययौ चातिचलः कटक्षः॥ 14.26 ॥
अन्वयः–स्रजा सज्जतरः तदीयः करः प्रियोन्मुखीभूय पुनः व्यरंसीत् अतिचलः च कटाक्षः तदाननस्य अर्द्धपथं ययौ प्रत्याययौ च।
जीवातु–कर इति। स्रजा वरणमाल्येन करणेन, सज्जतरः अतिशयेन सम्भृतः, अत्यर्थं शोभित इत्यर्थः। तदीयो दमयन्तीसम्बन्धी, करः प्रियस्य नलस्य, उन्मुखीभूय अभिमुखीभूय, पुनः व्यरंसीत् विरराम, रमेर्लुङि `व्याङ्परिभ्यो रमः’ इति परस्मैपदं, `यमरमनमातां सक् च’ इति सगिडागमौ, `अस्ति सिचोऽपृक्ते’ इतीडागमे `डट ईटि’ इति सलोपे च सवर्णदीर्घः। तथा अतिचलाः अत्यन्तचञ्चलः, कटाक्षः तदाननस्य नलमुखस्य, अर्द्धः पन्था इति विशेषणसमासे समासान्तः। ` अर्द्धः पन्था इति विशेषणसमासे समासान्तः। `अर्द्धं नपुंसकम्’ इति नैकगेशी समासः पथः समविभागे प्रमाणाभावात्। तम् अर्द्धपथं, ययौ च प्रत्याययौ च प्रत्यावृत्तश्च, उभयत्र लज्जयेति भावः॥ 14.26 ॥
तस्याः प्रियं चित्तमुदेतुमेव प्रभूबभूवाक्षि न तु प्रयातुम्।
सत्यीकृतः स्पष्ठमभूत्तदानीं तयाऽक्षिलज्जोति जनप्रवादः॥ 14.27 ॥
अन्वयः–तस्याः चित्तम् एव प्रियम् उदेतुं प्रभूबभूव अक्षि तु प्रयातुं नइति तया तदानीम् अक्षिलज्जा जनप्रवादः स्पष्टं सत्यीकृतः अभूत्।
जीवातु–तस्या इति। तस्याः दमयन्त्याः, चित्तमेव प्रियं नलम् उदेतु प्राप्तुं, द्रष्टुमिति यावत् प्रभूबभूव शशकेत्यर्थः, अक्षि तु प्रयातु नलं प्राप्तुं, द्रष्टुमित्यर्थः, न, प्रभूबभूव इत्यनुषङ्गः; प्रभुशब्दादभूतद्भावे `च्वौ’ दीर्घः। चित्तमध्ये अनुक्षणं सा नलं ददर्श, किन्तु पुरःस्तितमपि तं लज्जावशात् चक्षुरुत्तोल्य द्रष्टुं न शशाकेत्यर्थः, अतएव अक्ष्णि चक्षुषि लज्जा, न तु चेतसि इति भावः, इति जनप्रवादः तया भौम्या, तदानी नलवरणकाले, स्पष्टं यथा तथा सत्यीकृतोऽभूत् दमयन्त्याश्रितस्य नलप्राप्तिः नोचिता, वरं नेत्रस्यैव लज्जाधर्मकत्वाभावात् नलप्राप्तिरुचिता, इत्थञ्च अक्षिलज्जेति प्रवादोऽपि असत्य एव, किन्तु दमयन्त्याश्रितनेत्रयोस्तद्विपरीतकार्योत्पत्त्या अक्षिलज्जेति प्रवादः तया सत्यीकृत एवेति॥ 14.27 ॥
कथकथञ्चिन्निषधेश्वरस्य कृत्वाऽऽस्यपद्मं दरवीक्षितश्रि।
वाग्देवताया वदनेन्दुबिम्बं त्रपावती साऽकृत सामिदृष्टम्॥ 14.28 ॥
अन्वयः–त्रपावती सा निषधेश्वरस्य आस्यपद्मं कथंकथञ्चित् दरवीक्षितश्रिकुत्वा वाग्देवतायाः वदनेन्दुबिम्बं सामिदृष्टम् अकृत।
जीवातु–कथंकथञ्चिदिति। त्रपावती लज्जावती, सा भैमी निषधेस्वरस्य नलस्य आस्यपद्म मुखारविन्दं कथंकथञ्चिदतिकृच्छ्रेण, दरवीक्षिता ईषद्दृष्टा, श्रीः यस्य तत् तादृशम्। शैषिक-क-प्रत्ययस्य वैभाषिकत्वादभावः, `ह्रस्वोनपुंसके प्रातिपदिकस्य’ इति ह्रस्वः। `ईषदर्थे दराव्ययम्’ इति वैजयन्ती। कृत्वा लज्जावशान् लेशतो दृष्टवेत्यर्थः, वाग्देवतायाः सरस्वत्याः, वदनेन्दुबिम्बं सामिदृष्टम् अर्द्धदृष्टम्, `सामि त्वर्द्धे जुगुप्सिते’इत्यमरः। अकृत अकार्षित्, तत्रापि लज्जेति बावः। नाह शक्नोमि त्वया कारयितव्यमिति देवीमुखवीक्षणे तात्पर्यमववार्यम्॥ 14.28 ॥
न जानतीवेदमवोचदेनामाकूतमस्यास्तदवेत्य देवो।
भावस्रपोर्मिप्रतिसीरया ते वितोर्यते लक्षयितु न मेऽपि॥ 14.29 ॥
अन्वयः–देवी अस्याः तत् आकूतम् अवेद्य न जानती इव एनाम् इदम् अवोचत् त्रपोर्मिप्रतिसीरया ते भावः मे अपि लक्षयितुं न वितीर्यते।
जीवातु–न जानतीति। देवी वाग्देवी, अस्याः भैम्याः, तत् पूर्वोक्तम्, आकूतम् अभिप्रायम्, अवेत्य ज्ञात्वा, न जानतीव अबुध्यमानेव, एनां भैमीम्, इंदं वक्ष्यमाणम्, अवोचत्, ब्रूदातोर्लङि बुवो वचिः’ इति वचादेशे `वच उम्’ इति उमागमः। तदेवाः–पअपायाः ऊर्मिरेव तरङ्ग एव, प्रतिसीरा जवनिका, प्रतिसीरा जीवनिका स्यात्तिरस्करणी च सा’ इत्यमरः, तया कर्त्र्या, ते तव, भावः अभिप्ररायः मेममापि, लक्षायितुं जातुं, तुमुन् प्रयोगस्तीदीच्यानाम् न बितीर्यते न दीयते, लज्जान्तर्हितो बावोऽयं कण्ठोक्तिमन्तरेण दुर्ज्ञेय इत्यर्थः॥ 14.29 ॥
देव्याः श्रुतौ नेति नलार्द्धनाम्नि गृहीत एव त्रपया निपीता।
अथाङ्गुलीरङ्गुलिभिः स्पृशन्तो दूर शिरः सा नमयाञ्चकार॥ 14.30 ॥
अन्वयः–अथ देव्याः श्रुतौ `न’ इति नलार्द्धनाम्नि गृहीते एव त्रपया निपीता सा अङ्गुलिभिः अङ्गुलीः स्पृशन्ती दूरं शिरः नमयाञ्चकार।
जीवातु–देव्या इति। अथ सरस्वतकीवाक्यानन्तरं, देव्याः सरस्वत्याः, श्रुतौ कर्णे, `न’ इति एवं, नलस्य अर्द्धनाम्नि नाम्नोऽर्द्धे, अर्द्धेनामधेये इत्यर्थः, `अर्द्ध नपुंसकम्’ इत्येकदेशिसमासः, दमयन्त्या उच्चारिते इति भावः, गृहीते एव प्रविष्टे स्तयेव कर्णगोचरीभूते एवेति यावत्, सा भैमी, त्रपया निपीता ग्रस्ता सी `ल’ इति शेषर्द्धोच्चारणेऽसमर्था सतीत्यर्थः, अङ्गुलिभिः अङ्गुलीः स्पृशन्ती परामृशन्तो, मोटयन्तीत्यर्थः, अङ्गुलिभिः अङ्गुलीः स्पृशन्ती परामृशन्तो, मोटयन्तीत्यर्थो वा, लज्जासङ्कोचसूचकभावोऽयम्; दूरम् अत्यन्तं, शिरः नमयाञ्चकार ननाम, लज्जातिरेकात् कथननैराश्याच्च इतिकर्त्तव्यतामूढा केवल नता एव स्थितेत्यर्थः। यद्वा-देव्याः सरस्वत्याः सम्बन्धिनि, देव्या इति तृतीयान्तपदो (दं) वा तथात्वे देव्या, उच्चारिते इति शेषः, `न’ इति नलार्द्धनाम्नि श्रुतौ कर्णे, दमयन्त्या इति भावः, अन्यत् समानम्; लोके यथा कश्चित् गुरुजनसमीपे किमपि वक्तुकामोऽपि लज्जासङ्कोचवशत् वक्तुसममर्थः सन् शिरोनमनपूर्वकम् जङ्गुलिभिरङ्गुलीः मोटयती तद्वदित भावः॥ 14.30 ॥
करे विधृत्येश्वरयागिरां सा पान्था पथीन्द्रस्य कृता विहस्य।
वामेति नामैव बभाज सार्थं पुरन्ध्रिसाधारणसंविभागम्॥ 14.31 ॥
अन्वयः–गिराम् ईश्वरया विहस्य तां करे विधृत्य इन्द्रस्य पथि पान्था कृता सा पुरन्ध्रिसाधारणसंविभागं वामा इति नाम सार्थम् एव बभाज।
जीवातु–करे इति। सा भैमी, गिराम् ईश्वरया वाग्देवतया, `स्थेशभासपिसकसो वरच्’ विहस्य करे विधृत्य तां करे गृहीत्वा, इन्द्रस्य पथि, पन्थानं गच्छति नित्यमित पान्था नित्यपथिकी, `पन्थो ण नित्यम्’ इति ण-प्रत्यये पथः पन्थादेशे च टाप्, कृता इन्द्रसमीपं नीता सतीत्यर्थः पुरन्ध्रीणां सर्वयोषितां, साधारणः संविभागः सर्वस्त्रीनामत्वेन संविभज्य ग्रहणं यस्य तत् तादृशं सर्वयोषिद्वाचकमित्यर्थः, वामा इति नामैव सार्थ प्रतीपत्वेनार्थवत् यथा तथा, बभाज बभार, प्रतिकूला एव अभूदित्यर्थः, देव्या इन्द्ररणमुद्दिश्य नीयमाना भैमी तत्प्रतिकूलाचारिणी अभूदिति निष्कर्षः। `वामं धने पुंसि हरे कामदेवे पयोधरे। वल्गुप्रतीपसव्येषु त्रिषु नार्यां स्त्रियाम्’ इति मेदिनी॥ 14.31 ॥
भैमी निरीक्ष्याभिमुखीं मघोनः स्वाराज्यलक्ष्मीरभृताभ्यसूयाम्।
दृष्ट्वा ततस्तत्परिहारिणीं तां व्रीडां विडौजःप्रवणाऽभ्यपादि॥ 14.32 ॥
अन्वयः–विडौजःप्रवणा स्वाराज्यलक्ष्मीः मघोनः अभुमुखीं भैमीं निरीक्ष्य अभ्यसूयाम् अभृत, ततः तां परिहारिणीं दृष्ट्वा अभ्यपादि।
जीवातु–भैमीमिति। भैमीं मघोनः इन्द्रस्य, अभिमुखीं निरौङ्य स्वः स्वर्गस्य राज्यं, `स्वरव्ययं स्वर्गनाम-’ इत्यमरः. `ढलोपे पूर्वस्य दीर्घोऽणः’ तस्य लक्ष्मीः अभ्यसूयाम् इन्द्रे भैम्याञ्चेर्ष्याम्, अभृत बभार, भृङ्धातोः लुङ्तङ् `ल्रस्वादङ्गात्’ इति सिचो लोपः। ततः असूयानन्तरं, तां भैमी, तत्परिहारिणीम्, इन्द्रपरित्यागिनीं, दृष्ट्वा विडौजः प्रवणा पुनरिन्द्रानुरक्ता सती व्रीडाम् अभ्यपादि अभिपेदे, अन्यायं मया आशङ्कितम्, इति विचिन्त्य सा ललज्जे इत्यर्थः। पद्यतेः कर्त्तरि लुङि `ह्रस्वादङ्गात्’ इति सिचो लोपः, `चिण् ते पदः’ इति चिण्, `चिणो लुक्’ इति प्रत्ययस्य लुक्॥ 14.32 ॥
त्वत्त श्रुतो नेति नले मयाऽतः परं वदस्वेत्युदिताऽथ देव्या।
ह्रीमन्मथर्द्व रथरङ्गभूमिभैमी दृशा भाषितनैषधाऽभूत्॥ 14.33 ॥
अथ `मया त्वत्तः नले `न’ इति श्रुतः, अतः परं वदस्व’–इति देव्या उदिता ह्रीमन्मथद्वैरथरङ्गभूमी भैमी दृशा भाषितनैषधा अभूत्।
जीवातु–त्वत्त इति। अथ नले नलवरणाविषये, मया नेति निषेधार्थकं नलनामार्द्धबोधकं वा `न’ इति पदमित्यर्थः, त्व त्त एव श्रुतः अतः नलात् परम्, अन्यं वदस्व नृपान्तरं ब्रूहीत्यर्थः, अथवा-अतः नकारपदात्, परमनन्तरं पदं, वदस्व इति देव्या वाग्देवतया, उदिता सपरिहासं कथिता, ह्रीमनामथद्वैरथरङ्गभूमिः लज्जाकामरथिद्वयप्रतत्तयुद्धनाढ्यशाला इव, भैमी दृशा दृष्ट्या इव, भाषितः नैषधः नलः यया सा ताद्दशी, अभूत् ह्रिया कण्ठेन वक्तुमशक्त कटाक्षदृष्ट्या नलं सानुरागम् ऐक्षतेत्यर्थः॥ 14.33 ॥
हसत्सु भैमीं दिविषत्सु पाणौ पाणिं प्रणीयाप्सरसां रसात् सा।
आलिङ्ग्य नीत्वाऽकृत पान्थदुर्गां भूपालदिक्‌पालकुलाध्वमध्यम्॥ 14.34 ॥
अन्वयः– दिविषत्सु रसात् अप्सरसां पाणौ पाणिं प्रणीय हसत्सु सा भैमीम् आलिङ्ग्य भूपालदिक्पालकुलाध्वमध्यं नीत्वा पान्थदुर्गाम् अकृत।
जीवातु–हसत्स्विति। दिवि `सीदन्तीति दिवषदः देवाः, `अमरा निर्जरा देवा, आदितेया दिविषदः’ इत्यमरः। `सत्सूद्विष’-इत्यादिना क्विप्। `ह्रद्‌द्युभ्याञ्च’ इति उपसङ्ख्यानात् सप्तम्यलुक्, सत्सूद्विष च’ इति षत्वम्, `अविहितलक्षणमूर्द्धन्याः सुषामादिषु द्रष्टव्याः’ इति वचनात्। तेषु रसात् अनुरागात्, अप्सरःसु इति भावः, अप्सरसां पाणौ पाणिं प्रणीय निधाय, अप्सरसां हस्तं धृत्वेत्यर्थः, हसत्सु अहो नरासक्ता इति परिहसत्सु सत्सु, सा सरस्वती, भैमीम् आलिङ्ग्य भूपालानां दिक्पालनाञ्च कुलयोः वर्गयोः, अध्वा तस्य मध्य नीत्वा पान्थदुर्गां पथिकजनैः सिन्दूरादिभिः पूजितां मार्गमध्यस्थदुर्गादेवीमित्यर्थः, अकृत तद्ववदलङ्घ्याम् एकलक्ष्यां कृतलक्ष्यां कृतवतीत्यर्थः, कृञः कर्त्तरि लुङि `ह्रस्वदङ्गात्’ इति सिचः सकारलोपः॥ 14.34 ॥
अदेशितामप्यवलोक्य मन्दं नलस्यैवल दिशा चलन्तीम्।
भूयः सुरानर्द्धपथादथासौ तानेव तां नेतुमना नुनोद॥ 14.35 ॥
अन्वयः–अथ असौ अदेशिशिताम् अपि नलस्य एव दिशा चलन्तीं ताम् अवलोक्य भूयः तान् सुरान् एव नेतुमनाः अर्द्धपथात् नुनोद।
जीवातु–अदेशितामिति। अथ असौ देवी, तां भैमीम्, अदेशितां नलं प्रति गच्छेत्यचोदितामपि, दिशेश्चौरादिकात् कर्मणि क्तः। मन्दं मन्दं नल स्यैव दिशा चलन्ती गच्छन्तीं, `चलेरात्मनेपनित्यज्ञापनात्’ इति वामनः। अवलोक्य भूयः पुनरपि,तान् इन्द्रादीन्, सुरान् एव नेतुं मनो यस्याः सा सती। `तुङ् काममनसोऽपि, इति मकारलोपः। अर्द्धपथात् नलसमीपगामिसती। पथार्द्धात् पथार्द्धसकाशात् परावर्त्त्य इत्यर्थः, नुनोद इन्द्रादीन् प्रति प्रेरयामास।
मुखाब्जमावर्त्तनलोलनालं कृत्वाऽऽलिहुं हुंरवलक्षलक्ष्यम्।
भीमोद्भवा तां नुनुदेऽङ्कपालीं देव्या नवोढेव वृथा विवाढुः॥ 14.36 ॥
अन्वयः–भीमोद्भवा आवर्त्तनलोलनालम् आलिहुंहुंरवलक्षलक्ष्यं मुखाब्जं कृत्वा विवोढुः नवोढा इव देव्याः ताम् अङ्कपालीं वृथा नुनुदे।
जीवातु–मुखेति। भीमोद्भवा भैमी, मुखाब्जं स्वमुखारविन्दम्, आवर्त्तनेन दिग्वलनेन, लोलनालं व्यावृत्तकण्ठनालं, तथा आलीनां सखीनां, हुं हुंरवाणां हुंहुमिति निवारणशब्दानाम्, अन्यत्र-अंलीनां भृङ्गाणां, हुंहुं रवाणां’ ढङ्कारशब्दानां, लक्षैः लक्षसङ्ख्याविशेषैः, लक्ष्यं दर्शनोयञ्च, कृत्वा नवोढा नववधूः, विवोढुः परिणेतुः इव, देव्याः सम्बन्धिनीं वृथा ताम् अङ्कपालीं परिरम्भणबन्धनम्, `अङ्कपाली स्मृता धात्र्यां वेदिका-परिरम्भयोः’ इति विश्वः। नुनुदे तत्याज॥ 14.36 ॥
देवी कथिञ्चित् खलु तामदेवद्रीचीभवन्तीं स्मितसिंक्तसृक्का।
आह स्म तां मय्यपि ते भृशं का शङ्का? शशङ्कादधिकास्यबिग्बे! 14.37 ॥
अन्वयः–स्मितसिक्तसृक्का देवी कथंचित् खलु अदेद्रीचीभवन्ती तां भृशम् आह स्म-`शशाङ्कवत् अधिकास्यबिम्बे, मयि अपि ते का शङ्का?’
जीवातु–देवीति। देवी तां भैमीं, कथञ्चित् खलु कथञ्चिदपि, देवान् अञ्चतीति देवद्रीचौ देवानुवर्त्तिनी, `देवानञ्चति देवद्र्यङ्’ इत्यमरः। `ऋत्विग्‌दधृक्-’ इत्यादिना अञ्चतेः क्विन्-प्रत्ययः, `विश्वग्देवयोश्च टेरद्र्यञ्चतावप्रत्यये’ इति देरद्र्यादेशः, `उगितश्च’ इति सूत्रे उगित्त्वात् ङीप् `अञ्चतेश्चोपसङ्ख्यानाम्’ इति वा ङीप्। सा न भवन्तीम् इति अदेवद्रीचीभवन्तीं देवान् अनभिगच्छन्तीमित्यर्थः, दृष्ट्वेति शेषः, स्मितेन सिक्ते सृक्‌कणी ओष्ठप्रान्तौ यस्याः सा तादृशी सती, `प्रान्तावोष्ठस्य सृक्कणी’ इत्यमरः। हे शशाङ्कात् अधिकम् उत्कृष्टम्, आस्यबिम्बं मुखस्वरूपं यस्यास्तस्याः सम्बुद्धिः, सापेक्षत्वेऽपि गमकत्वात् समासः। मयि मम समीपेऽपि, ते तव, का शङ्का? अविश्वासः? न काचिंदित्यर्थः, इति तां भैमीं भृशम्, आह स्म उवात, `लट्स्मे’ इति भूते लट्, ब्रुवः पञ्चानाम्’ इत्यादिना णलाहादेशः॥ 14.37 ॥
एषामकृत्वा चरणप्रणाममेषामनुज्ञामनवाप्य सम्यक्।
सुपर्ववैरे तव वैरसेनिं वरीतुमीहा कथमौचितीयम्?॥ 14.38 ॥
अन्वयः–एषां चरणप्रणामम् अकृत्वा एषां सम्यक् अनुज्ञाम् अनवाप्य सुपर्ववैरे तव वैरसेनिं वरीतुम् इयम् ईहा कथम् औचिती?
जीवातु–एषामिति। हे वत्से। एषाम् इन्द्रादीनां, चरणप्रणामम् अकृत्वा, एषामनुज्ञां नलवरणे स्ममतिं, सम्यक् अनवाप्य अप्राप्य च, सुपर्ववैरे अवज्ञाकरणात् देवताद्वेषे सति, तव वीरसेनस्य अपत्यं वैरसेनिः नलः तं, वरीतुम् `वृतो वा’ इति विकल्पादिटो दीर्घः। इयम् ईहा स्पृहा, कथम् औचिती औचित्यम्? न कथञ्चिदित्यर्थः॥ 14.38 ॥
इतिरिते विश्वसितां पुनस्तामादाय पाणौ दिविषत्सु देवी।
कृत्वा प्रणम्रां वदति स्म सा तान् भक्तेयमर्हत्यधुनाऽनुकम्पाम्॥ 14.39 ॥
अन्वयः–सा देवी इति ईरिते विश्वसितां तां पुनः पाणौ आदाय दिविषत्सु प्रणम्रां कृत्वा तान् वदतिस्म-भक्ता इयम् अधुना अनुकम्पाम् अर्हति।
जीवातु–इतिति। सा देवी इतिरिते सति विश्वसितां प्रतीतां, तां भैमीं, पुनः भूयः, पाणौ हस्तौ, आदाय तत्पाणिं गृहीत्वेत्यर्थः, दिविषत्सु देवेषु, देवतानां समीपे इत्यर्थः, प्रणम्रां प्रमतां, कृत्वा तान् इन्द्रादिदेवान्, वदति स्म उक्तवती, `लट् स्मे’ इसि भूते लट्। किमिति? भक्ता युष्मद्भक्ता, इयं दमयन्ती, अधुना इदानीम्, अनुकम्पा भवत्कृपाम्, अर्हति; निजवरणाशां विहाय नलवरणार्थमनुग्रहं कुरुतेति भावः॥ 14.39 ॥
युष्मान् वृणीते न बहून् सतीयं शेषावमानाच्च भवत्सु नैकम्।
तद्वः समेतं नृपमंशमेनं वरीतुमन्विच्छति लोकपालः!॥ 14.40 ॥
अन्वयः–लोकपालाः इयं सती बहून् युष्मान् न वृणीते शेषावमानात् च भवत्सु एकं न; तत् वः समेतम् अंशम् एनं नृपं वरीतुम् अन्विच्छति।
जीवातु–युष्मानिति। हे लोकपालाः! सती साध्वी, एकभर्त्तृका इति यावत्, इयं भैमी, युष्मान् बहून् न वृणीते, पातिव्रत्यभङ्गभयादिति भावः, शेषाणाम् अवशिष्टानाम्, अवमानात् अवमानप्रसङ्गात्, भवत्सु मध्ये एकञ्च न, वृणीते इति पूर्वानुषङ्गाः, तत् तस्मात्, वः युष्माकं सम्बन्धिनं, समेतं मिलितम्, अंशं सर्वांशसमष्टिरूपम्, `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नपः’ इति स्मरणात्, एनं नृपं वरीतुम् अन्विच्छति, `एकवरणापेक्षया सर्वांशनिर्मितस्य नलस्य वरणेनैव सर्वेषां स्म्मानं भवति’ इति भावः॥ ॥ 14.40 ॥
भौम्याः स्रजाः सञ्जनया पथि प्राक् स्वयंवरं संवरयाम्बभूव।
सम्भोगमालिङ्गनयाऽस्य वेधाः शेषन्तु कं हन्तुमियद्यतध्वम्!॥ 14.41 ॥
अन्वयः–वेधाः प्राक् पथि स्रजः सञ्जनया भैम्याः स्वयंवरं संवरयाम्बभूव, अस्य आलिङ्गनया सम्भोगम्; शेषं तु कं हन्तुम् इयत् यतध्वम्?
जीवातु–किञ्च भैम्या नलवरणसम्भोगौ तत्र प्रागेव ब्रह्मणैव निर्वर्त्तितौ किमपरमवशिष्यते यद्विघातार्थमयं वः प्रयासः? इत्याह, भैम्या इति। किञ्च, वेधाः स्रष्टैव, प्राक्युष्मद्दौत्यानुसन्धानकाले, पथि अन्तःपुरमार्गे, स्रजः माल्यस्य, सञ्जनया कण्टे योजनया, `ण्यासेश्रन्थो युच्’ इति ण्यन्तत्वात् युच्-प्रत्ययः, भैम्याः स्वयंवरं नलवरणं, संवरयाम्बभूव निर्वर्त्तयामास, तथा अस्य नलस्य, आलिङ्गनया आश्लेषणया, पूर्ववत् युच्; सम्भोगं, संवरयाम्बभूव इति पूर्वानुषङ्गः, एतच्चोभयं षष्ठसर्गे `प्रसूप्रसादाधीगता’ अन्योन्यमन्यत्रवत्’ इति श्लोकद्वये अनुसन्वेयम्, शेषम् इतोऽवशिष्ठन्तु `अथ शेषं त्रिष्वन्यस्मिन् उपयुक्तेतरेऽपि च। स्वनिर्माल्यप्रदाने स्त्री ना नागेशाप्रधानयोः॥’ इति वैजयन्ती, कं सम्भोगं, हन्तुं व्याघातयितुम्, इयत् एतावत् यथा तथा नलरूपधारणादिना इत्यर्थः, यतध्वं यत्नं कुरुत? सम्प्रश्ने लोट् ब्रह्मसृष्टेरलङ्घ्यत्वात् वृथा वः प्रयासः, अतः अनुज्ञादानमेव कर्त्तव्यम् इति भावः॥ 14.41 ॥
वर्णाश्रमाचारपथात् प्रजाभिः सहैवास्खलते नलाय।
प्रसेदुषो वेदृशवृत्तभङ्ग्या दित्सैव कीर्त्तेर्भुवमानयद् वः?॥ 14.42 ॥
अन्वयः–वा वर्णाश्रमाचारपथात् स्वाभिः प्रजाभिः सह एव अस्खलते नलाय प्रसेदुषः वः ईदृशवृत्तभङ्ग्या कीर्त्तेः दित्सा एभ भुवम् आनयत्।
जीवातु–यद्वा,किमेषां देवानां दोषग्रहणेन येनेत्थमुपालभ्यन्ते? किन्तु गुणग्राहणेनैव तान् प्रसादयामीत्याशयेनाह,वर्णेति। वर्णानां ब्राह्मणादीनाम्, आश्रमाणां ब्रह्मचर्यादीनाम्, आचारपथात् सद्‌वृत्तमार्गात्, स्वाभिः स्वकीयाभिः, प्रजाभिः सहैव सदेः अस्खलते अचलते, नलाय प्रसेदुषः प्रसन्नान्, `भाषायां सदवसश्रुवः’ इति सदेः क्वसुरादेशः। वः युष्मान्, ईदृश्या अकपटदूत्यप्रकाशितया, वृत्तभङ्ग्या चरित्रवैचित्र्येण, तद्व्याजेनेत्यर्थः `स्त्रियाः पुंवत्-’ इत्यादिना पुंवद्भावः, कीर्त्ते दित्सा नलाय कीर्ति दातुम् इच्छैव कर्त्री, ददातेः `सनि मामा-’ इत्यादिना इसादेशेऽभ्यासलोपः, `अः प्रत्ययात्’ इत्यकार-प्रत्यये टाप्, भुवम् आनयद्वा? युष्मान् पृथिवीमानी तवती किम्! `नीवह्योः-’ इत्यादिना नयतेर्द्विकर्मकता। नलस्य कीर्त्तिम् अलङ्कर्त्तुम् अयं वः प्रयासो न तु भैमीं पीडयितुमिति भावः॥ 14.42 ॥
इति श्रुतेऽस्या वचने च हास्यात् कृत्वा सलास्याधरमास्यबिम्बम्।
भ्रूविभ्रमाकूतकृताभ्यनुज्ञेष्वेतेषु तां साऽथ नलाय निन्ये॥ 14.43 ॥
अन्वयः–इति च अस्याः वचने श्रुते हास्यात् आस्यबिम्ब सलास्याधरं कृत्वा एतेषु भ्रूविभ्रमाकूतकृताभ्यनुज्ञेषु अथ सा तां नलाय निन्ये।
जीवातु–इतीति। किञ्चेति चार्थः, अस्याः अस्याः देव्याः, इति इत्थम्भूते, वचने श्रुते सति हास्यात् प्रसन्नताजनितहासाद्धेतोः, आस्यबिम्बं सलास्याधरं चलदोष्ठमिति यावत्, कृत्वा, एतेषु देवेषु, भ्रूविभ्रम एव भ्रूचेष्टैव, आकूपम्, अभिप्रायः तेन अभिप्रायव्यञ्जकभ्रू चेष्टयेत्यर्थः, कृता अभ्यनुज्ञा यैः तेषु सत्सु, अथ अनुज्ञाप्राप्त्यनन्तरं, सा देवी, तां भैमीं, नलाय निन्ये नलसमीपं निनायेत्यर्थः। क्रियाग्रहणाच्चतुर्थी॥ 14.43 ॥
मन्दाक्षनिष्पन्दतनोर्मनोभूदुष्प्रेरमप्यानयति स्म तस्याः।
मधूकमालामधुरं करं सा कण्ठोपकण्ठ वसुधासुधांशोः॥ 14.44 ॥
अन्वयः–सा मन्दाक्षनिस्पन्तदतनोः तस्याः मनोभूदुष्प्रेरम्, अपि मधूकमालामधुरं करं वसुधासुधांशोः कण्ठोपकण्ठम् आनयति स्म।
जीवातु–मन्दाक्षेति। सा सरस्वती, मन्दाक्षनिष्पन्दतनोः लज्जानिश्चलाङ्ग्याः, तस्याः भैम्याः, मनोभुवा कामेनापि, दुष्प्रेरं प्रेरयितुमशक्यं, मधूकमालया मधुरं रम्यं करं वसुधासुधांशोः भूचन्द्रस्य नलस्य, कण्ठोपकण्ठं कण्ठसमीपम्, आनयति स्म प्रापयामास; तदा अस्याः स्मरादपि लज्जा बलीयसी अभूदिति भावः॥ 14.44 ॥
अथाभिलिख्येव समर्प्यमाणां राजिं निजस्वीकरणाक्षराणाम्।
दूर्वाङ्कुराढ्यां नलकण्ठनाले वधूर्मधूकस्रजमुत्ससर्ज॥ 14.45 ॥
अन्वयः–अथ वधूः अभिलिख्य समर्प्यमाणां निजस्वीकरणाक्षराणां राजिम् इव दूर्वाङ्कुराढ्यां मधूकस्रजं नलकण्ठानाले उत्ससर्ज।
जीवातु–अथेति। अथ वधूः कन्या भैमी, अभिलिख्य लिखित्वा, समर्प्यमाणां दीयमानां निजस्य आत्मीयस्य, यत् स्वीकरणं विवाहेन परिग्रहणं, तस्य अक्षराणां तद्वाचकवर्णानां, मां पत्नीं कुरु इत्यक्षराणामित्यर्थः, अहं त्वां वरयामि इत्यक्षराणामित्यर्थो वा राजीं श्रेणीमिव, तूर्वाङ्कुराढ्यां दूर्वाप्ररोहभूयिष्ठां, मधूकस्रजं मधुद्रुमकुसुममालां, `मधूके तु गुडपुष्पमधुद्रुमौ’ इत्यामरः। नलकण्ठनाले उत्ससर्ज अर्पयामास॥ 14.45 ॥
तां दूर्वया श्यामलायाऽतिवेलं श्रृङ्गार-भा-सन्निभया सशोभाम्।
मालां प्रसूनायुधपाशभासं कण्ठेन भूभृद्बिभराम्भूव॥ 14.46 ॥
अन्वयः–भूभृत् अतिवेल श्मामलया श्रृङ्गारभासन्निभया दूर्वया सशोभां प्रसूनायुघपाशभासं तां मालां कण्ठेन बिभराम्बभूव।
जीवातु–तामिति। अतिवेलं भृशं, श्यामलया हरितवर्णया, अत एव श्रृङ्गार-भा-सन्निभया श्रृङ्गाररसप्रभासदृश्या, `श्यामो भवति श्रृङ्गारः’ इति भरतवचनात् इति भावः। दूर्वया सशोमां शोभमानां, प्रसूनायुधस्य कन्दर्पस्य, यः पाशः पाशायुधं, मालाया मदनोद्दीपक्त्वादिति भावः, तस्येव भा यस्यस्तदृशीं, मालां भूभृत् नलः, कण्ठेन बिभराम्बभूव घारयामास `भीह्रीभृहुवां श्लुवच्च’ इति विकल्पादाम्-प्रत्यये श्लुवद्भावात् धातोर्द्विर्भावः, `कृञ्चानुप्रयुज्यते लिटि’ इति भुवोऽनुप्रयोगः॥ 14.46 ॥
दूर्वाग्रजाग्रत्पुलकावलिं तां नलाङ्गसङ्गाद् भृशमुल्लसन्तीम्।
मानेन मन्ये नमितानना सा सासूयमालोकत पुष्पमालाम्॥ 14.47 ॥
अन्वयः–मन्ये, दूर्वाग्रजाग्रत्पुलकावलिं नलाङ्गसङ्गात् भृशम् उल्लसन्तीं तां पुष्पमालां मानेन नमितानना सा सासूयम् आलोकत।
जीवातु–दूर्वाग्रेति। सा भैमी, दूर्वाग्राण्येव जाग्रती उद्‌गच्छन्ती, पुलकावलिः यस्याः तां स्पर्शेन सञ्जातपुलकामिव स्थितामित्यर्थः, नलाङ्गसङ्गात् भृशम् अत्यर्थम्, उल्लसन्तीम् शोभमानाम्, आनन्दयुक्ताञ्च, तां पुष्पमालां मानेन मालायाः साफल्यदर्शनात् प्रणयकोपेन, नमितानना सती सासूयम् आलोकतेति मन्ये। अत्र दूर्वाग्रेत्यादिप्रस्तुतमालाविशेषणसाम्यादप्रस्तुतमालाविशेषणसाम्यादप्रस्तुतसपत्नीप्रतीतिः समासोक्तिः, तदुपजीवनेन लज्जाहेतुक-नलाननालोकेन मानकृतासूयाहेतुकत्वोत्प्रेक्षणादनयोरङ्गाङ्गिभावेन सङ्करः॥ 14.47 ॥
सा निर्मले तस्य यधूकमाला हृदि स्थिता च प्रतिबिम्बिता च।
कियत्यमग्ना कियतो च मग्ना पुष्पेबाणालिरिव व्यलोकि॥ 14.48 ॥
अन्वयः–तस्य निर्मले हृदि स्थिता च प्रतिबिम्बिता च सा मधूकमाला कियती अमग्ना कियती मग्ना च पुष्पेषुबाणालिः इव व्यलोकि।
जीवातु–सेति। तस्य नलस्य, निर्मले स्वच्छे, हृदि वक्षसि, स्थिता च वहिरवस्थिता च, प्रतिबिम्बिता च हृदयस्य स्वच्छत्वेन अन्तः प्रतिफलिता च, सा मधूकमाला कियती स्वल्पा, अमग्ना बहिरवस्थिता, कियती स्वल्पा, मग्ना अन्तः प्रविष्टा च, अर्द्धमग्ना चेत्यर्थः, पुष्पेषोः कामस्य, बाणालिरिवबाणपंक्तिरिव, व्यलोकि दृष्टा, तत्रत्यजनैरिति शेषः। इत्युत्प्रेक्षा॥ 14.48 ॥
काऽपि प्रमोदास्फुटनिर्जिहानवर्णैव या मङ्गलगीतिरासाम्।
सैवाननेभ्यः पुरसुन्दरीणामुच्चैरूलूलुध्वनिरुच्चचार॥ 14.49 ॥
अन्वयः–पुरसुन्दरीणाम् आननेभ्यः प्रमोदास्पुटनिर्जिहानवर्णा एव का अपि या मङ्गलगीतिः, सा एव आसाम् उच्चैः उलूलुध्वनिः उच्चार।
जीवातु–काऽपीति। प्रमोदेन हर्षातिरेकेण, अस्फुटं यथा तथा निर्जिहानाः निर्गच्छन्तः, वर्णाः यस्याः तादृशी एव हर्षपारवश्यात् अश्फुटाक्ष रैवेत्यर्थः, आसां स्वयंवरदर्शनार्थमागतानां, पुरसुन्दरीणाम् आननेभ्यः काऽपि अपूर्वा, या मङ्गलगीतिः, उच्चार उच्चरिता, सैव अस्फुटाक्षरा मङ्गलगीतिरेव, उच्चैः तारम्, उलूलुध्वनिः, अभूदिति शेषः। अनुकारिशब्दोऽयम्, उलूलुरित्येवं रूपः कश्चित् हर्षणात्मको मुखोचार्यो ध्वनिविशेषः उत्सवादौ स्त्रीभिरुच्चार्यते इत्युदीच्यानामाचारः। पुरसुन्दरीणां यत् उत्सवादौ मङ्गलसूचकं गानं तदेव हर्षपारवस्यादस्फुटाक्षरत्वात् उलूलुध्वनिकल्पमभूदित्यर्थः॥ 14.49 ॥
रोमाणि सर्वाण्यपि बालभावाद् वरश्रियं वीक्षितुमुत्सुकानि।
तस्यास्तदा कण्टकिताङ्गयष्टेरुद्‌ग्रीविकादानमिवान्वभूवन्॥ 14.50 ॥
अन्वयः–तदा कण्टकिताङ्गयष्टेः तस्याः बालभावात् वरश्रियं वीक्षितुम् उत्सुकानि सर्वाणि अपि रोमाणि उद्‌ग्रीविकादानम् इव अन्वभूवन्।
जीवातु–अथास्यास्त्रिभिः पुलकोदयमाह, रोमाणीत्यादि। तदा तत्काले, कण्टकिताङ्गयष्टेः पुलकितशरीरायाः, तस्या भैम्याः, सर्वाण्यपि रोमाणि बालभावात् कचत्वात्, शिशुत्वाच्च, `बालः कचे शिशौ मूर्खे’ इति विश्वः। वरस्य वोढुः नलस्य, श्रियं सौन्दर्यं, वीक्षितुं द्रष्टुम्, उत्सुकानि सन्ति, उद्‌ग्रीविका उन्नमितग्रीवीकरणं ग्रीवोन्नमनमिति यावत्। उद्‌ग्रीवयतेः `तत्करोति-’ इति ण्यन्ताद्धात्वर्थनिर्देशेऽपि ण्वुल्प्रत्ययः तस्याः आदानं स्वीकारम्, अन्वभूवन्निवेत्युत्प्रेक्षा। बाला ह्युद्‌ग्रीवा भृश पश्यन्तीति भावः॥ 14.50 ॥
रोमाङ्कुरैर्दन्तुरिताखिलाङ्गी रम्याधरा सा सुतरां विरेजे।
शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिकेव॥ 14.51 ॥
अन्वयः–रोमाङ्कुरैः दन्तुरिताखिलाङ्गीरम्याधरा सा शरव्यदण्डैः श्रितमण्डनश्रीः स्मारी शरोपासनवेदिका इव सुतरां विरेजे।
जीवातु–रोमाङ्कुरैरिति। रोमाङ्कुरैः पुलकैः, दन्तुरितं विषमितम्, अखिलाङ्गं यस्याः सा, रम्यौ अधरौ दन्तवसने, ओष्ठौ इत्यर्थः, अन्यत्राधोभागश्च यस्याः सा, `अधरो दन्तवसने हीनेऽनूद्‌र्ध्वेऽधरोन्यवत्’ इति विश्वः। सा भैमी, शरव्यदण्डैः निखातलक्ष्यभूतयष्टिभिः, श्रिता प्राप्तेत्यर्थः, मण्डनश्रीः प्रसाधनशोभा यस्याः सा तादृशी, रोमाङ्कुराणां शरव्यदण्डसादृश्यं बोध्यम्; स्मरस्येयं स्मारी कन्दर्पसम्बन्धिनी, शरोपासनस्य शराभ्यासस्य, वेदिकेव सुतराम् अत्यर्थ, विरेजे शुशुभे; सञ्जातपुलकां तां दमयन्तीं कामः स्वशरैः पुनः पुनः विव्याध इति भावः. शराभ्यासिनो व्याधप्रमुका निखातलक्ष्ययष्टिकां तेदीं कुर्वन्तीति प्रसिद्धिः॥ 14.51 ॥
चेष्टा व्यनेशन्निखिलास्तदाऽस्याः स्मरेषुपातैरिव ता विधूताः।
अभ्यर्थ्य नीताः कलिना मुहूर्त्त लाभाय तस्या बहुचेष्टितुंवा॥ 14.52 ॥
अन्वयः–तदा अस्याः ताः निखिलाः चेष्टाः स्मरेषुपातैः विधूताः इव व्यनेशन् वा तस्याः लामाय बहु चेष्टितुं कलिना अभयर्थ्य मुहूर्त्त नीताः।
जीवातू–चेष्टा इति। तदा तत्काले, अस्याः भैम्याः, ताः प्रागनुभूताःग,निखिलाः चेष्टाः कटाक्षवीक्षणाङ्गविक्षेपादयः, स्मरस्येषुपातैः बाणप्रहारैः, विधूताः निरस्ता इवेत्युत्प्रेक्षा व्यनेशन् विनष्टाः, नशेर्लुङि पुषादित्वादङ्, `नशिमन्योरलिटि एत्वं वक्तव्यम्’ इत्येवम्। `विनेशु’रिति पाठे-लिट्यनादेशादित्वात् `अत एकहल्मध्येऽनादेशादेर्लिटि’ इति एत्वाभ्यासलोपौ। प्रकारान्तरेणोत्प्रेक्षते-वा अथवा, तस्याः भैम्याः, लाभाय प्राप्तये, बहु बहुविधं, चेष्टितुं विलसितुं, कलिना कलिपुरुषेण, अभ्यर्थ्य `कटाक्षवीक्षणादिविलासा मयि तिष्ठन्तु’ इति दमयन्तीं प्रार्थ्य, मुहूर्त्तम्, ईषत्कालं, नीताः; दमयन्तीप्सया पापिष्ठस्य कालरप्यागमित्वात्तस्य विकृतरूपस्य चतुरचेष्टानभिज्ञत्वाच्च दमयन्तीलाभोपयोगिबहुविलासप्रदर्शनार्थं भैमीविलासा एव प्रार्थ्यं नीता इवेत्युत्प्रेक्षा। एतेन अस्याः स्तम्भाख्यसात्तविकभाव उक्तः, `स्तम्भः स्यान्नि,्क्रियाङ्गत्वम्’ इति लक्षणात्॥ 14.52 ॥
तन्न्यस्तमाल्यस्पुशि तस्य कण्ठे स्वेदं करे पञ्चशरश्चकार।
भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं तज्जनयाम्बभूव॥ 14.53 ॥
अन्वयः–पञ्चशारः तन्न्यस्तमाल्यस्पृशि तस्य कण्ठे करे स्वेदं चकार, तत् भविष्यदुद्वाहमहोत्सवस्य हस्तोदकं जनयाम्बभूव।
जीवातु–अथ चतुर्भिर्नलस्यापि सात्त्विकोदयमाह, तदिति। तया भैम्या, न्यस्तम् अर्पितं, माल्यं स्पृशतीति माल्यस्पृक्; `स्पृशोऽनुदको क्विन्’ तस्मिन् तस्य नलस्य, कण्ठे करे च पञ्चशरः स्मरः, स्वेदं सात्त्विकं धर्मजलं, चकार जनयामास, तत् स्वेदजलं, भविष्यतः उद्वाहमहोत्सवस्य सम्बन्धि हस्तोदकम् अर्घ्यजलं, जनयाम्बभूवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्गम्या॥ 14.53 ॥
तूलेन तस्यास्तुलना मृदोस्तत् कम्प्राऽस्तु सा मन्मथबाणपातैः।
चित्रीयितं तत्तु नलो यदुच्छैरभूत् स भूभृत् पृथुवेपथुस्तैः॥ 14.54 ॥
अन्वयः–मृदोः तस्याः तूलेन तुलना, तत् सा मन्मथबाणपातैः कम्प्रा अस्तु तत् तु चित्रीयितं यत् उच्चैः भूभृत् सः नलः तैः पृथुवेपथुः अभूत्।
जीवातु–तूलनेति। मृदोः मृद्व्याः, कोमलाङ्ग्या इत्यर्थः, `वोतो गुणवचनात्’ इति विकल्पादनीकारः। तस्याः भैम्याः तूलेन कार्पासादिना, तुलना लघुतायां साम्यं, यतः तत्तस्मात्, सा भैमी, मन्मथवाणपातैः कम्प्रा चला, अस्तु, तूलानां लघुतया सामान्यकारणेनैव चलत्वात्, तत्सदृशानामपि समान्येनैव चलत्वं युक्तमिति भावः, तु किन्तु, उच्चैः महान्, भूभृत् महीपालः गिरिश्च `भूभृद् गिरौ महीपाले’ इति शाश्वत स नलः तैः बाणपातैः, पृथुवेपथुः महाकम्पः, अतीव कम्पित इत्यर्थः, `टिवतोऽथुच्’ अभूदिति यत् तत् चित्रीयितं चित्रीकरणं, `नमोवरिवश्चित्रङः क्यच्’, `क्यति च’ इत्यकारस्येत्वं, क्यजन्तत्वाद्भावे निष्ठा। अल्पवायुना तुलचलने किं चित्रम्? शैलचलनन्तु चित्रीयते इत्यर्थः, धीरः राजा नलोऽपि चलति इत्येव चित्रं भीरुर्भै९मी चलतीति न चित्रमिति भावः॥ 14.54 ॥
दृशोरपि न्यस्तमिवाऽऽस्त राज्ञां रागाद् दृगम्बुप्रतिबिम्बि माल्यम्।
नृपस्य तत्पीतवतोरिवाक्ष्णोः प्रालम्बमाल्मबत युक्तमन्तः॥ 14.55 ॥
अन्वयः–दृगम्बुप्रतिबिम्बि माल्यं रागात् राज्ञां दृशोः अपि न्यस्तम् इवः आस्त; तत् नृपस्य पीतवतोः इव अक्ष्णोः अन्तः युक्तं आलम्ब्यम् आलम्बत।
जीवातु–सात्त्विकानां सर्वरससाधारणत्वात् अन्येषां राज्ञां रोषादश्रूद्गमः, नलस्य तु हर्षादित्याश्रित्य उत्प्रेक्षते, दृशोरिति। राज्ञां नलव्यतिरिक्तभूपानां, रागात् मात्सर्यात्, `रागोऽनुरक्तौ मातसर्ये’ इति विश्वः। यत् दृगम्बु बाष्पः, सापेक्षत्वेऽपि गमकत्वात् समासः। तत्र प्रतिबिम्बते प्रतिफलतीति दृगम्बुप्रतिबिम्बि, तत्र प्रतिफलितं सदित्यर्थः, माल्यं वरणस्रक्, दृशोः अक्ष्णोरपि, न्यस्तमिव आस्त स्थितमित्युत्प्रेक्षा। आसेर्लङ्। अपि सम्भावनायां, नलस्य यथोरसि नृपान्तराणां तथा दुशोरपि न्यस्तमिति सम्भावनायामीत्यर्थः, कथमन्यथा तेषामश्रूद्‌गमः? नृपस्य नलस्य तु, रागाद् दृगम्बुप्रतिबिम्बि अनुरागोत्थाश्रुप्रतिबिम्बितं, तन्माल्यं कर्त्तृ, पीतवतोः तृष्णया तन्माल्यं सादरं गिलतोरिव स्थितयोः, अक्ष्णोः प्रालम्बम् ऋजुभावेन लम्बमानं सत् `प्रालम्बमृजुम्बिस्यात् कण्ठात्’ इत्यमरः। अन्तः मध्ये, `अन्तर्मध्ये तथा प्रान्ते स्वीकारेऽपि च दृश्यते’ इति विश्वः। युक्तम् आलम्बत अवलम्बते स्म। अत्रापि राज्ञां द्वेषात् अरुच्या तत्प्रतिबिम्बि माल्यं युक्तम्, अक्षिगतमेव कृतमित्युत्प्रेक्षा; नलस्यः तु रागतिरेकात् अक्षिभ्यां तत् तृष्णया पीतमित्युत्प्रेक्षितस्यैव बाह्यबिम्बिमाल्याध्यवसायभेदेन मध्ये प्रालम्बितया लम्बनमित्युत्प्रेक्षते॥ 14.55 ॥
स्तम्भस्तथाऽलम्भितमां नलेन भैमीकरस्पर्शमुदः प्रभानवः।
कन्दर्पलक्षीकरणार्पितस्य स्तम्भस्त दम्भं स चिरं यथाऽऽपत्॥ 14.56 ॥
अन्वयः–नलेन भैमीकरस्पर्शमुदः प्रसादः स्तम्भः तथा अलम्भितमाम्, यता सः कन्दर्पलक्षीकरणार्पितस्य स्तम्भस्य दम्भं चिरम् आपत्।
जीवातु–स्तम्भ इति। नलेन भैमीकरस्पर्शेन माल्यप्रदानकाले दमयन्तीपाणिस्पर्शेन, या मुत् आन्दः तस्याः, प्रभावः तदनुभावजात इत्यर्थः, स्तम्भः निष्क्रियाङ्गत्वलक्षणः सात्त्विकविशेषः, तथा तेन प्रकारेण, अलम्भितमाम् अतिशयेन अलम्भि, लभेः कर्मणि लुङि चिणि `विभाषा पिण्णमुलो-’ इति विकल्पान्नुमागमः, `तिङश्च’ इति तमप्-प्रत्यये `किमेत्तिङव्यय-’ इत्यादिना आमुः। यथा स नलः, कन्दर्पस्य लक्षीकरणाय अर्पितस्य शरभ्यासकाले शरव्यत्वेन स्थापितस्य, स्तम्भस्य स्थूणायाः, `स्तम्भो स्थूणाजडीभावौ’ इत्यमरः। दम्भं व्याजत्वं, भावप्रधानो निर्देशः। `व्याजदम्भोपधयः’ इत्यमरः। चिरम् आपत् प्रापत्॥ 14.56 ॥
उत्सृज्य साम्राज्यमिवाथ भिक्षां तारुण्यमुल्लङ्घ्य जरामिवारात्।
तं चारुणाकारमुपेक्ष्य यान्तुं निजां तनूमादिधिरे दिगिन्द्राः॥ 14.57 ॥
अन्वयः–अथ दिगिन्द्राः यान्तुं साम्राज्यम् उत्सृज्य भिक्षाम् इव, तारुण्यम् उल्लङ्घ्य जराम् इव आरात् तं चारुम् आकारम् उपेक्ष्य निजां तनूम् आदिधिरे।
जीवातु–उत्सृज्येति। अथ नलपवणानन्तरं, दिगिन्द्राः इन्द्रादिदिक्पालाः, यातुं, गन्तुं, स्वर्गमिति शेषः, सम्राजतीति सम्राट् महाराजविशेषः, `येनेष्ट राजसूयेन मण्डलस्येश्वरश्च यः। शास्ति यश्चाज्ञया राज्ञः स सम्राड्’ इत्यमरः। `सत्सूद्विष-’ इत्यादिना क्विप्, `मो राजि समः क्वौ’ इति समो मकारस्य मकारत्वान्नानुस्वारः। तस्य भावः कर्म वा साम्राज्यं चक्रवर्त्तिपदम्, उत्सृज्यट त्यक्त्वा, क्षीणपुण्यत्वादिति भावः,भिक्षां याच्ञामिव, तारुण्यं यौवनम्; उल्लङ्घ्य अतिक्रम्य, जरामिव आरात् नलसमीपे स्वयंवरसभायामेवेत्यर्थः, तं चारु सुन्दरम्, आकारं नलरूपम्, उपेक्ष्य हित्वा निजां तनूं सहस्रनेत्रादिबिशिष्टाकारम्’ आदिधिरे स्वीचक्रुः॥ 14.57 ॥
मायानलत्वं त्यजतो निलीनैः पूर्वैरहम्पूर्विकया मघोनः।
भीमोद्भवासात्त्विकभावशोभादिदृक्षयेवाऽऽविरभावि नेत्रैः॥ 14.58 ॥
अन्वयः–मायानलत्वं तय्जतः मघोनः निलीनैः पूर्वैः नेत्रैः भीमोद्भवासात्त्विकभावशोभादिदिदृक्षया इव अहम्पूर्विकया आविरभावि।
जीवातु–मायेति। मायानलत्वमलीकनलत्वं, त्यजतो मघोनः इन्द्रस्य, निलीनैः देवशक्त्या सङ्गोपितैः, पूर्वैः स्वरूपावस्थायामवस्थानकालिकैः, नेत्रैः सहस्रसङ्ख्यकैरिति भावः, भीमोद्भवायाः भैम्याः,सात्त्विकभावानां, नलाङ्ग सङ्गजनितरोमाञ्चादीनाम्, शोभायाः दिदृक्षया द्रष्टुमिच्छयेव, इति फलोत्प्रेक्षा द्योत्या आविर्भावस्य शोभादर्शनफलकत्वात्; अहं पूर्वोऽहं पूर्व इति योऽभिमानः क्रियायां साऽहंपूर्विका तया अहमहमिकया, मयूरव्यंसकादित्वात् समासः। स्वार्थ मत्वर्थे वा ठन् प्रत्ययः। आविरभावि आविर्भूतम्। भावे लुङ्। `स्तम्भप्रलयरोमाञ्चाः स्वेदो वैवर्ण्यवेपथू। अश्रु वैस्वर्यमित्यष्टौ सात्तिकाः परिकीर्त्तिताः’॥ 14.58 ॥
गोत्रानुकूल्यप्रभवे विवाहे तत्प्रातिकूल्यादिव गोत्रशत्रुः।
पुरश्चकार प्रवरं वरं यमायत् सखायं तदृशे तया सः॥ 14.59 ॥
अन्वयः–गोत्रानुकूल्यप्रभवे विवाहे तत्प्रातिकूल्यात् इव आयन् गोत्रशत्रुः यं प्रवरं वरं सखायं पुरश्चकार तया सः ददृशे।
जीवातु–गोत्रेति। गोत्रनुकूल्यप्रभवे वंशवर्द्धनार्थं प्रवृत्ते, विवाहेतत्प्रातिकूल्यादिव तद्वरोधित्वादिव, गोत्रशत्रुत्वादिवेत्यर्थः, न हि यो यस्य शत्रुः स तदनुकूलकार्यं सहते इति भावः, आयन् स्वयंवरसभायामागच्छन्। इणो लटः शतरि यणादेशः। गोत्रशत्रुः गोत्रं कुलञ्चाचलश्च, `गोत्रं नाम्नि कुलेऽचले’ इति विश्वः। तच्छत्रुः गोत्रभित् इन्द्रः यं प्रवरं श्रेष्ठं, वरं वोढारं, सखायं पुरश्चकार दूत्येन सहायत्वेन स्वीचकारेत्यर्थः, स नल एव, तया भैम्या, ददृशे; देवानां नलरूपपरिहारेण स्वरूपपरिग्रहणात् केवलं सत्यनलस्यैव तत्रावस्थानादिति भावः। केचित्तु प्रवरनामा कश्चिदिन्द्रेण सहायत्वेनानीत इति व्याचक्षते तत्तु अमूलं चिन्त्य भारतादिषु अदर्शनादिति॥ 14.59 ॥
स्वकामसम्मोहमहान्धकारनिर्वापमिच्छन्निव दीपिकाभिः।
उद्‌गत्वरीभिश्छुरितं वितेने निजं वपुर्वायुसखः शिखाभिः॥ 14.60 ॥
अन्वयः–वायुसखः दीपिकाभिः स्वकामसम्मोहान्धकारनिर्वापम् इच्छन् इव उद्गत्वरीभिः शिखाबिः छुरितं निज वपुः वितेने।
जीवातु–स्वेति। अथ वायुसखः अग्निः, दीपिकाबिः दीपैः, स्वः स्वीयः, कामेन सम्मोहः अज्ञानमेव, महान्धकारः तस्य निर्वापं प्रशान्तिम्, इच्छन्निव उद्‌गत्वरीभिः उद्‌गमनशीलाभिः, `गत्वरश्च’ इति क्वरबन्तो निपातः। शिखाभिः ज्वालाभिः, छुरितं व्याप्तं निजं वपुः वितेने प्रकाशयामास। 14.60 ॥
पत्यौ वृते भीमजया न वह्नावह्ना स्वमह्नाय निजुह्‌नुवे यः॥
जनादपत्रप्य स हा सहायस्तस्य प्रकाशोऽभवदप्रकाशः॥ 14.61 ॥
अन्वयः–भीमजया वह्नौ पत्यौ न वृते यः प्रकाशः जनात् अपत्रप्य अह्नाय अह्ना स्वं निजुह्‌नुपे, हा, तस्य सहायः सः अप्रकाशः अभवत्।
जीवातु–पत्याविति। भीमजया भैम्या, पत्यौ स्वामिनि, वह्नौ अग्नौ, न वृते सति, यः प्रकाशः द्योतः, दीप्तिरित्यर्थः `प्रकाशो द्योत आतपः’ इत्यमरः। जनात् अपत्रप्य लज्जित्वा, `लज्जा साऽपत्रपाऽन्यतः’ इत्यमरः। `जुगुप्साविरामप्रमादार्थानामुपसङ्ख्यानाम्’ इति पञ्चमी। अह्नाय शीघ्रम्, अह्नादिवसेन करणेन, स्वं निजम् आत्मस्वरूपमित्यर्थःष निजुह्‌नुपे अपह्‌नुतवान्, अहनि द्रीप्तेरप्रकाशादिति भावः; ह्‌नुतेः कर्त्तरि लिट्। तस्य वह्‌नेः, सहायः अनुचरः, स प्रकाशः अप्रकाशः अनुज्ज्वलः, वह्निना दीप्तसिखाभिः स्वरूपप्रकाशे कृतेऽपि दिवालोके तस्य क्षीणप्रभत्वादिति भावः, अभवत्, हा! कष्टम्; प्रयासवैयर्थ्यादग्निरपत्रपया निस्तेजा इवासीदिति तात्पर्यम्। यद्वा-तस्य प्रकाशस्य सहायः आत्मनिह्नवे साहाय्यकारी, सः अप्रकाशः दीप्त्यभावः, प्रकाशः पुनरुद्दीपितः, वह्नौ उद्‌गत्वरीभिः शिखाभिः निजरूपेण प्रकाशमाने सति इति भावः, अभवत्, हा! कष्टम्; स्वामिनि आत्मप्रकाशे कृते अनुचरस्य तद्‌गोपनचेष्टावैयर्थ्यादिति भावः॥ 14.61 ॥
सदण्डमालक्तकनेत्रचण्डं तमःकिरं कायमधत्त कालः।
तत्कालमन्तःकरण नृपाणमध्यासितुं कोप इवीपनम्रः॥ 14.62 ॥
अन्वयः–कालः तत्काल नृपाणाम् अन्तः करणम् अध्यासितुम् उपनम्रः कोपः इव सदण्डम् आलक्तकनेत्रचण्ड तमःकिर कायम् अधत्त।
जीवातु–सदण्डमिति। अथ कालः यमः, तत्काल तस्मिन् स्वयंवरकाले, अत्यन्तसयोगे द्वितीया, नृपाणाम् अन्तःकरणम् अध्यासितुम्, अधिष्ठातुम्, उपनम्रः उपागतः, कोपः दमयन्त्यनादरोत्थक्रोधः इव, सदण्डं दण्डहस्तम्, आलक्तके रक्ते, `तेन रक्तं रागात्’ इत्यण्-प्रत्ययः, कषायौ गर्दभस्य कर्णावितिवदलक्तके इत्युपमानाप्रयोगः; ताभ्यां नेत्राभ्यां चण्डं क्रूरं, किरति उद्‌गिरतीति किरः, `इगुपधज्ञाप्रीकिरः-’ इति कः तमसः किरः तं तमःश्यामं, कायं देहम्, अधत्त, कालोऽपि स्वरूप प्रादर्शयदित्यर्थः॥ 14.62 ॥
दृग्गोचरोऽभूदथ चित्रगुप्तः कायस्य उच्चैर्गुण एतदीयः।
ऊद्‌र्ध्वञ्च पत्रस्य मषीद एको मषेर्दधच्चोपरि पत्रमन्यः॥ 14.63 ॥
अन्वयः–अथ एतदीयः उच्चर्गुणः चित्रगुप्तः कायस्थः-एकः पत्रस्य ऊर्ध्वं मषीदः अन्यः च मषेः उपरि पत्रं दधत्-दृग्गोचरः अभूत्।
जीवातु–दृगिति। अथ यमस्य स्वरूपप्रकाशानन्तरम् एतदीयः कालसम्बन्धी, उच्चैः महान्, गुणः प्रधानशेषभूतः, `लेखकः स्याल्लिपिकरः कायस्थोऽक्षक्षरजीविकः’ इति हलायुधः। दृग्गोचरः दृश्यः, अभूत्; अन्यत्र-चित्रं यथा तथा गुप्तः पूर्व निगूहितः, कायस्थः कायनिष्ठः, एतदीयः कालसम्बन्धी, उच्चैः महान्, गुणः नीलगुणः, दृग्गोचरः अभूत्। एकः चस्त्वर्थः, चित्रगुप्तनीलगुणयोः। एकः चित्रगुप्तस्तु, पत्रस्य ऊर्ध्वम् उपरितले, मषीं ददातीति मषीदः मषीमयलिपिकरः, लेखक इत्यर्थः, अन्यश्च पूर्ववच्चार्थः, अन्यः नीलगुणस्तु, मषेः मषिद्रव्यस्य, `कृदिकारादक्तिनः’ इति ङीषो विकल्पादुभयथा प्रयोगः, उपरि, पत्रं मषेरपि अहं काल एवेति पत्रालम्बन, दधत् दधानः, `नाभ्यस्ताच्छतुः’ नुमोऽभावः, अभूत्, मषितोऽपि अधिको नीलिमेत्यर्थः। अत्र मषेरुपरि पत्रमिति प्रतीतेराभासीकरणात् विरोधाभासोऽलङ्कारः॥ 14.63 ॥
तस्यां मनोबन्धविमोचनस्य कृतस्य तत्कालमिव प्रचेताः।
पाशं दधानः करबद्धवासं विभुर्बभावाप्यमावाप्य देहम्॥ 14.64 ॥
अन्वयः–तत्कालं विभुः प्रचेताः तस्यां कृतस्य मनोबन्धविमोचनस्य करबद्धवासम् इव पाशं दधानः आप्यं देहम् अवाप्य बभौ।
जीवातु–तस्यामिति। विभुः प्रभुः, प्रचेताः वरुणः तत्कालं तस्मिन् काले, नलवरणकाले इत्यर्थः, अत्यन्तसयोगे द्वितीया, तस्यां दमयन्त्यां विषये, कृतस्य विहितस्य, मनोबन्धविमोचनस्य चित्तबन्धनोन्मोचनस्य, पाशेन मनः संयम्य भैम्यां पुरा निक्षिप्तवान्, ततश्च नले वृते सति तत् बन्धनं तत्क्षणमेव प्रचेता उन्मुमोचेति तद्‌बन्धनस्मबन्धि इव स्थितमित्यर्थः उत्प्रेक्षा, अत एव करे बद्धवासं कृतस्थितिं, करगतमित्यर्थः, पाशं बन्धनरज्जुं स्वीयास्त्रञ्च, दधानः सन् अपां विकारम् आप्यम् अम्मयम् `आप्यञ्चे’ति चान्द्राव्याकरणसूत्रात् साधुः, देहम् अवाप्य बभौ॥ 14.64 ॥
सहद्वितीयः स्त्रिमभ्युपेयादेव स दुर्बुध्य नयोपदेशम्।
अन्यां सभार्यः कथमृच्छतीति जलधिपोऽभूदसहाय एव॥ 14.65 ॥
अन्वयः–जलाधिपः सः `स्त्रियं सहद्वितीयः अभ्युपेयात्’-एवं नयोपदेशं `सभार्य अन्यां कथम् ऋच्छति’-इति दुर्बुध्य असहायः एव अभूत्।
जीवातु–सहेति। जलाधिपः अपां पतिः, लडयोरभेदात् जडाधिपः मूढाग्रणीश्च, स वरुणः, स्त्रियं कान्तामपि, तुल्ययोगे’ इति बहुव्रीहिः। `वोपसर्जनस्य’ इति विकल्पान्न सहस्य सभावः, अभ्युपेयात् अभिगच्छेत् एवं नयोपदेशं नीतिवाक्यं, सभार्यः सस्त्रीकः स्न्, अन्यां स्त्र्यन्तरं कथम् ऋच्छति प्राप्नुयात्, इति एवं, दुर्बुध्य ससहायार्थे प्रयुक्तस्य सहद्वितीय इति शब्दस्य द्वितीयया भार्यया सह वर्त्तते इति सहद्वितीयः ` द्वितीया सहधर्मिणी। भार्या जाया’ इत्यमरः, सभार्य इति विपरीतं बुद्‌ध्वा, `समासेऽनञ्पूर्वे इति कत्वो ल्यबादेशः, असहायः एव अभूत्, अस्त्रीकः एव अभूदित्यर्थः दमयन्तीलोभात् सर्वत्र ससहाय एवोपेयादिति नी तिमुल्लङ्घ्य स्वदाराणामप्यनादरे सम्प्रति साऽपि दुर्लबेत्यहो! वरुणस्य दुर्बुद्धिरिति भावः॥ 14.65 ॥
देव्याऽपि दिव्या स्वतनुः प्रकाशीचक्रे मुदश्चक्रभृतः सृजन्त्या।
अनिह्‌नुतैस्तामवधार्य चिह्‌नैस्तद्वाचि बाला शिथिलाऽद्भुताभूत्॥ 14.66 ॥
अन्वयः–चक्रभृतः मुदः सृजन्त्या देव्या अपि दिव्या स्वतनुः प्रकाशीचक्रे, अनिह्‌नुतैः तै चिह्‌नैः ताम् अपधार्य बाला तद्‌वाचि शिथिलाद्‌भुता अभूत्।
जीवातु–देव्येति। अथ इन्द्रादीनां स्वरूपधारणानन्तरं, चक्रभृतः गगनगतस्य विष्णोः, मुदः हर्षान्, सृजन्त्या उत्पादयन्त्या; देव्या सरस्वत्याऽपि, दिव्या स्वतनुः प्रकाशीचक्रे वाणी अपि मानुषीवेषमुत्सृज्य निजरूपमाविश्चकारेत्यर्थः,तदा बाला अवधार्य सरस्वतीति सम्यक् निश्चित्य, तस्याः वाचिश्लेषवक्रोक्तिव्यञ्जकवागुपन्यासे, शिथिपप्रकाशानन्तरं सरस्वत्यास्तादृशोक्तौ न किमपि आश्चर्यम् इति शिथिलितविस्मया, अभूत्॥ 14.66 ॥
विलोकके नायकमेलकेऽस्मिन् रूपान्यथाकौतुकदर्शिभिस्तैः।
बाधा बतेन्द्रादिभिरिन्द्रजालविद्याविदां वृत्तिवधाद् व्यधायि॥ 14.67 ॥
अन्वयः–अस्मिन् नायकमेलके विलोकके रूपान्यथाकौतुकदर्शिभिः तैः इन्द्रादिभिः इन्द्रजालविद्याविदां वृत्तिवधात् बत बाधा व्यधायि।
जीवातु–विलोकके इति। अस्मिन् पुरोवर्त्तिनि, नायकमेलके नृपतिसमूहे, विलोकके विलोकनकारिणि सति, रूपान्यथा रूपनानात्वं, सैव कौतुकं विनोदः, तद्दर्शिभिः तत्प्रदर्शकैः, दृशेर्ण्यन्तात्ताच्छील्ये णिनिः तैः इन्द्रादिभिः इन्द्रजालविद्याविदाम् ऐन्द्रजालिकानाम्, वृत्तिबधात् जीविकोच्छेदात् हेतोः, बाधा पीडा, व्यधायि विहिता, बतेति खेदे, एतन्महेन्द्रजालाद्‌भुतावलोकिनां राज्ञाम् इन्द्रजालान्तरेषु अरुच्या स्वयंवरसभागतानां तदुपजीविनां तेषां वृत्तिविच्छेदः प्राप्त इत्यहो! सेयं देवमायेति भाव॥ 14.67 ॥
विलोक्य तावाप्तदुरापकामौ परस्परप्रेमरसाभिरामौ।
अथ प्रभुः प्रतमना बभाषे जाम्बुनदोर्वीधरसार्वभौमः॥ 14.68 ॥
अन्वयः–अथ जाम्बूनदोर्वीरसार्वभौमः प्रभुः प्राप्तदुरापकामौ परस्परप्रेमरसाभिरामौ तौ विलोक्य प्रीतमनाः बभाषे।
जीवातु–विलोक्येति। अथ साक्षात्कारनन्तरं, जाम्बुनदोर्वीधरस्य स्वर्णमयसुमेरुभूधरस्य, सार्वभौमः सर्वस्याः भूमेरीश्वरः, सर्वाध्यक्ष इत्यर्थः, `सर्वभूमिपृथिवीभ्यामण्ञौ’ इत्यण्-प्रत्ययः, `अनुशतिकादीनाञ्च’ इत्युभयपदवृद्धिः, प्रभु महेन्द्रः आप्तदुरापकामौ प्राप्तदुर्लभमनोरथौ, परस्परप्रेम अन्योऽन्यानुरागः, स एव रसः तेन अभिरामौ, तौ दमयन्तीनलौ, विलोक्य प्रीतमनाः सन्तुष्टचित्तः बभाषे॥ 14.68 ॥
वैदर्भि! दत्तस्तव तावदेष वरो दुरापः पृथिवीश एव।
दूत्यन्तु यत्त्वं कृतवानमायं नल! प्रसादस्त्वयि तन्मयाऽयम्॥ 14.69 ॥
अन्वयः–वैदर्भि, तव तावत् एषः पृथिवीशः एव दुरापः वरः दत्तः; नल, त्वं तु यत् अमायं दूत्यं कृतवान् तत् त्वयि मया अयं प्रसादः।
जीवातु–तौ बभाषे इत्युक्तं तत्र वैदऱ्भी तावदाह, वैदर्भीति।–हे वैदर्भि! तव तावत् एषः पृथिवीशः नलः एव, दुरापः अस्मदनुग्रहं विना दुर्लभः, वरः दत्तः, आपाततस्तावदेष वरः, उभयसाधारण्येन तु वरान्तरञ्च भविष्यतीति भायः। नलञ्चाह, हे नल! त्वं तु यत् यस्मात्, अमायम् अकपटं, दूत्यं दमयन्तीविषये दूतकर्म, `दूतस्य भागकर्मणी’ इति यत्प्रत्ययः कृतवान्, तत् तस्मात्, त्वयि विषये, मया अयं वक्ष्यमाणः, प्रसादः वरः, दत्तः इति पूर्वानुषङ्गः॥ 14.69 ॥
प्रत्यक्षलक्ष्यामवलम्ब्य मूर्त्ति हुतानि यज्ञेषु तवोपभोक्ष्ये।
संशेरतेऽस्माभिरवीक्ष्य भुक्तं मखं हि मन्त्राधिकदेवभावे॥ 14.70 ॥
अन्वयः–तव यज्ञेषु प्रत्यक्ष्यलक्ष्यां मूर्तिम् अवलम्ब्य हुतानि उपभोक्ष्ये, हि अस्माभिः भुक्तं मखम् अवीक्ष्य मन्त्रादिकदेवभावे संशेरते।
जीवातु–प्रत्यक्षेति। हे नल! तव यज्ञेषु प्रत्यक्षणे लक्ष्यां दृश्यां, मूर्त्ति विग्रहम्, अवलम्ब्य हुतानि हवीषि, उपभोक्ष्ये अनुभोक्ष्ये, `भुजोऽनवने’ इत्यात्मनेपदम् ईदृशवरेण मम को लाभः? इति चेत् तत्राह, संशेरते इति। हि यतः मखं यज्ञम्, अस्माभिः भुक्तम् अवीक्ष्य प्रत्यक्षेण अदृष्ट्वा, मन्त्राधिकदेवभावे शब्दातिरिक्तदेवसद्भावे, संशेरते सन्दिहते, जना इति शेषः॥ `अशरीरा देवता’ इति मीमांसकाः, तत्सन्देहनिवृत्त्यर्थं ते विग्रहं दर्शयिष्यामि, तेन भवतस्तादृशसंशयनिरासरूपलाभो भविष्यतीति भावः॥ 14.70 ॥
भवानपि त्वद्दयिताऽपि शेषे सायुज्यमासादयतं शिवाभ्याम्।
प्रेत्यास्मि कीदृग्भवितास्मि चिन्ता सन्तापमन्तस्तनुते हि जन्तोः॥ 14.71 ॥
अन्वयः–शेषे भवान् अपि त्वद्‌दयिता अपि शिवाभ्यां सायुज्यम् आसादयतम् प्रेत्य कीदृक् भविता अस्मि इति चिन्ता जन्तोः अन्तः सन्तापं तनुते।
जीवातु–अथोभयसाधारणं वरमाह, भवानिति। भवानिपि त्वञ्च, त्वद्दयिताऽपि दमयन्त्यपि च, शेषे आयुरवसाने, शिवा च शिवश्च ताभ्यां शिवाभ्यां पार्वतीपरमेश्वराभ्यां सह, ` पुमान् स्त्रिया’ इत्येकशेषः, सयुजो भावः सायुज्यं तादात्म्यम्, आसादयतं प्राप्तुतम्। आमुष्मिकफलोक्तौ कारणमाह-हि यतः, प्रेत्य लोकान्तरं गत्वा, अस्मि अहं कीदृक् भवितास्मि कीदृशो भविष्यामि, इति चिन्ता जन्तोः अन्तः मनसि, सन्तापं तनुते, तन्निवृत्त्यर्थयमुक्तिरिति भावः॥ 14.71 ॥
तवोपवाराणसि नामचिह्नं वासाय पारेऽसिपुरं पुराऽऽस्ते।
निर्वातुमिच्छोरपि तन्न भैमीसम्भोगसङ्कोचभियाऽऽधिकासि॥ 14.72 ॥
अन्वयः–तव वासाय उपवाराणसि पारेऽसि नामचिह्‌नं पुरं पुरा आस्ते निर्वातुम् इच्छोः अपि भैमीसम्भोगसङ्कोचभिया तत् अधिकाशि न।
जीवातु–तवेति। किञ्च, तव वासाय नविसाय, उपवाराणसि वाराणस्याः समीपे, `अव्ययं विभक्ति-’ इत्यादिना सामीप्यार्थे अव्ययीभावः, पारेऽसि असिनाम नदी तस्याः पारे, `पारे मध्ये षष्ठ्या वा’ नामचिह्नं त्वन्नामाङ्कितं, पुरं नलपुरं, पुरा आगामिनि, सत्वरमित्यर्थः, `निकटागामिके पुरा’ इत्यमरः, आस्ते आसिष्यते, भविष्यतीत्यर्थः, आसेर्भविष्यदर्थे `यावत् पुरानिपातयोर्लट्’ इति भैमीसन्मभोगस्य सङ्कोचात् प्रतिबन्धात्, भिया अधिकाशि काश्यां, न, भविष्यति शेषः। मुमुक्षुरपि त्वं यावज्जीवं भैम्या सह नलपुरे विहर, अन्ते काश्यां शिवसायुज्यमाप्नुहीत्यर्थः॥ 14.72 ॥
धूमावलिश्मश्रु ततः सुपर्वा मुखं मखास्वादविदां तमूचे।
कामं मदीक्षामयकामधेनोः पयायतामभ्युदयस्त्वदीयः॥ 14.73 ॥
अन्वयः–ततः धूमावलिस्मश्रु मखास्वादविदां मुखं सुपर्वा तम् ऊचे-त्वदीयः अभ्युदयः मदीक्षामयकामधेनोः कामं पयायताम्।
जीवातु–घूमेति। ततः इन्द्रवाक्यानन्तरं, घूमावलिरेव श्मश्रृणि यस्य तत्, मखास्वादविदां यज्ञरसज्ञानां, मुखं मुखभूतः, सुपर्वा देवः अग्निः, `अग्निमुखा वै देवाः’ इति श्रुतेः; तं नलम्, ऊचे; तदेवाह–दे नल! त्वदीयः अभ्युदयः वृद्धिः; मदीक्षामयी मद्‌दृष्टिरेव कामधेनुः तस्याः कामं पयायतां क्षीरायतां, मत्कटाक्षमात्रेण ते सर्वार्थसिद्धिर्भविष्यतीति भावः। `कर्त्तुः क्यङ् सलोपश्च इति पयः शब्दादाचारार्थे क्यङ्-प्रत्ययो वैमाषिकः सलोपश्च, `ओजसोऽप्सरसो नित्यमितरेषां विभाषया’ इति वच्रनात्॥ 14.73 ॥
या दाहपाकौपयिकी तनुर्मे भूयात्त्वदिच्छावशवर्त्तिनी सा।
तया पराभूततनोरनङ्गात्तस्याः प्रभुः सन्नधिकस्त्वमेधि॥ 14.74 ॥
अन्वयः– दाहपाकौपयिकी या मे तनुः सा त्वदिच्छावशवर्त्तिनी भूयात्; त्वं तस्याः प्रभुः सन् तया पराभूततनोः अनङ्गात् अधिकः एधि।
जीवातु–येति। दाहः भस्मीकरणं, पाकः तण्डुलविक्लेदनादि तयोः औपयिकी उपायभूता, `विनयादिभ्यष्ठक्’ इति स्वार्थे ठकि ङीप् उपायात् ह्रस्वत्वञ्च या मे तनुः सा त्वदिच्छाया वशवर्त्तिनी भूयात्। किञ्च, त्वं तस्याः तनोः, प्रभुः स्वामी, नियामकः सन् इति यावत्, तया शिवनेत्रस्थया तन्वा, पराभूततनोः दग्धाङ्गात्, हरभ्रष्टान्यतममूर्त्तित्वात् अस्येति भावः, अनङ्गात् अधिकः एधि भव, न केवलं रूपादेवानङ्गादधिकः, किन्तु तज्जेतुरग्नेरपि नियामकत्वेन अधिको भव इति भावः। अस्तेर्लोटि सिपि हेर्धिः `घ्वसोरेद्धौ’ इत्यादिना एत्वम्॥ 14.74 ॥
अस्तु त्वया साधितमन्नमीनरसादि पीयूषरसातिशायि।
तद्‌भूप! विद्मस्तव सूपकारक्रियासु कौतूहलशालि शीलम्॥ 14.75 ॥
अन्वयः–त्वया साधितम् अन्नमीनरसादि पीयूषरसातिशायि अस्तु, यत् भूप, तव सूपकारादिक्रियासु कौतूहलशालि तत् शीलं विद्मः।
जीवातु–अस्तिवति। किञ्च, हे भूप! त्वया साधितं पक्वम्, अन्नं शाल्यादि, मीनरसः मत्स्यादीनां रसः मीनेति मांसांपलक्षणं, तौ आदिः यस्य, आदिशब्दात् सूपशाकादीनां ग्रहणं, तत् सर्वं, पीयूषरसम् अमृतस्वादम्, अतिशेते इत्यतिशायि ततोऽप्युत्कृष्टम्, अस्तु। ईदृग्वरदाने कारणमाह, तदिति।-तत् तस्मात्, त्वत्पक्वान्नादीनाममृतादप्यधिकस्वादुत्वादित्यर्थः, तव शीलं स्वभावं, सूपं द्विदलादिव्यञ्जनपाक, कुर्वन्तीति सूपकाराः सूदाः, `सूपकारास्तु बल्लवाः। आरालिका आन्धसिकाः सूदा औदनिका गुणाः॥’ इत्यमरः। कर्मण्यण्, तेषां क्रियासु, पाकक्रियासु, सुष्ठूपकारक्रियासु च, कौतूहलेन शालते इति तच्छालि कौतूहलि, पाककर्मणि सदा उत्सुकमित्यर्थः, विद्मः। `अस्मदो द्वयोश्च’ इति बहुवचनम्, अतः तवेयं सूपविद्या दत्तेति भावः॥ 14.75 ॥
वैवस्वतोऽपि स्वत एव देवस्तुष्टस्तमाचष्ट नराधिराजम्।
वरप्रदानाय तवावदानैश्चिरं मदीया रसनोद्‌धुरेयम्॥ 14.76 ॥
अन्वयः–स्वतः एव तुष्टः वैवस्वतः देवः अपि तं नराधिराजम् आचष्ट-तव अवदानैः इयं मदीया रसना वरप्रदानाय चिरम् उद्‌धुरा।
जीवातु–वैवस्वत इति। देवः वैवस्वतः यमोऽपि, स्वतः एव अप्रार्थितः एव, तुष्टः सन्, तं नराधिराजं नलम्, आचष्ट अब्रवीत्; तदेवाह–हे नृप! तव अवदार्नः दौत्यादिरूपैद्भुतकर्मभिः ` इयं मदीया रसना चिरंचिरात् प्रभृति, वरप्रदानाय उत् उद्‌गता, धूः वरदानभारः यस्याः सा उद्‌धुरा दृढसङ्कल्पेत्यर्थः। `ऋक्पूर्-’ इत्यादिना समासान्तः॥ 14.76 ॥
सर्वाणि शस्त्राणि सहाङ्गचक्रैराविर्भवन्तु त्वयि शत्रुजैत्रे।
अवाप्यमस्मादधिकं न किञ्चिंज्जागर्त्ति वीरव्रतदीक्षितानाम्॥ 14.77 ॥
अन्वयः–सर्वाणि शस्त्राणि अङ्गचक्रः सह शत्रुजत्रे त्वयि आविर्भवन्तु, वीरव्रतदीक्षितानाम् अस्मात् अथिकम् अवाप्यं किञ्चित् न जागर्ति।
जीवातु–सर्वाणीति। हे नल! सर्वाणि शस्त्राणि आयुधानि, अङ्गचक्रैः प्रयोगोपसंहारादिमन्त्रपस्वाङ्गकलापैः सह शत्रुन् जेतरि एव जैत्रे जयशीले, शत्रुजैत्रे शत्रुजयकारिणि, जेतृशब्दात्ताच्छील्ये तृन्नन्तात् प्रज्ञादित्वात् स्वार्थेऽण्प्रत्ययः, `न लोका-’ इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया, योगविभागात् समस्यते, त्वयि विषये, आविर्भवन्तु। एतावता को लाभः? तत्राहवीरव्रतम् आहवेषु अनिवर्त्तित्वं, तत्र दीक्षितानां कृतसङ्कल्पानां त्वादृशां शूराणाम्, अस्मात् अस्त्रलाभात्, अधिकम् उत्कृष्टम्, अपाप्यं लभ्यं, किञ्चित् न जागर्त्ति न स्फुरति,न विद्यते इत्यर्थः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः।
कृच्छ्रं गतस्यापि दशाविपाकं धर्मान्न चेतः स्खलतात्तवेदम्।
अमुञ्चतः पुण्यमनन्यभक्तेः स्वहस्तवास्तव्य इव त्रिवर्गः॥ 14.78 ॥
अन्वयः–कृच्छ्रं दसाविपाकम् अपि तव इदं चेतः धर्मात् न स्खलतात्; पुण्यम् अमुञ्चतः अनन्यभक्तेः त्रिवर्गः स्वहस्तवास्तव्यः इव।
जीवातु–कृच्छ्रमिति। किञ्च, कृच्छं कष्टं दसाविपाकम् अवस्थापरिणामं गतस्यापि प्राप्तस्यापि, दुर्दशापन्नस्यापीत्यर्थः, तव इदं चेतः धर्मात् न स्खलतात् न स्खलतु। तोस्तातङादेशः। ततः किम्? तत्राह–पुण्यं धर्मम्, अमुञ्चतः अत्यजतः, न विद्यते अन्यस्मिन् अधर्मे भक्तिः यस्य तस्य अनन्यभक्तेः अधर्मविमुखस्य, त्रयाणां धर्मकामार्थानां वर्गः “त्रिवर्गो धर्मकामार्थेश्चतुर्वर्गः समोक्षकैः” इत्यमरः, स्वहस्ते वसतीति स्वहस्तवास्तव्यः इव हस्तस्थप्रायइवेत्यर्थः। `वसेस्तव्यत् कर्त्तरि णिच्च’ इति वक्तव्यात् तव्यत्। अत्र त्रिवर्गसिद्धिलक्षणकार्येण धर्मात्यागरूपकारणसमर्थनात् कार्येण कारणसमर्थनरूपोऽर्थान्तरन्यासः॥ 14.78 ॥
स्मिताञ्चितां वाचमवोचदेनं प्रसन्नचेता नृपति प्रचेताः।
प्रदाय भैमीमधुना वरौ ते ददामि तद्‌यौतककौतुकेन॥ 14.79 ॥
अन्वयः–प्रसन्नचेताः प्रचेता एनं नृपितिं स्मिताञ्चितां वाचम् अवोचत् भैमीं प्रदाय अधुना तद्‌यौतककौतुकेन ते वरौ ददामि।
जीवातु–स्मितेति। अथ प्रसन्नचेताः प्रचेता वरुणाः, एनं नृपतिं नलं स्मिताञ्चितां मन्दहासमधुरां, वाचम्, अवोचत्। तदेवाह-अधुना ते तुभ्यं, भैमीं प्रदाय तद्यौतककौतुकेन तस्मिन्, प्रदाने, यत् यौतक युतकयोः वधूवरयोः देयं, युते विवाहकाले यत् लभ्यते तत् िति वा, विवाहकाले प्राप्यद्रव्यमित्यर्थः `यौतकादि तु यत् कौतुकम् इच्छा उत्सवो वा आनन्दो वा तेन, `कौतुकं नर्मणीच्छायामुत्सवे कौतुके मुदि’ इति मेदिनी, योतकदानेच्छया यौतकदानानन्देन वा, वरौ वक्ष्यमाणौ, ददामि यौतकत्वेन दास्यामीत्यर्थः॥ 14.79 ॥
यत्राभिलाषस्त व तत्र देशे नन्वस्तु धन्वन्यपि तूर्णमर्णः।
आपो वहन्तीह हि लोकयात्रां यथा न भूतानि तथापराणि॥ 14.80 ॥
अन्वयः–ननु यत्र देशे तव अभिलाषः तत्र धन्वनि अपि तूर्णम् अर्णः अस्तु; हि इह यता आपः लोकयात्रां वहन्ति तथा अपराणि भूतानि न।
जीवातु–तावेव वरावाह, यत्रेत्यादि। ननु भो नल! यत्र देशे तव अभिलाषः जलेच्छा, तत्र धन्वनि मरुस्थलेऽपि,`समानौ मरुवन्वानौ’ इत्यामरः। तूर्णम् आशु, अर्णः अम्भः, अस्तु उद्भवतु। अस्य वरस्य श्लाघ्यतामाह–इहलोके, यथा आपः लोकस्य जनस्य, अपराणि अन्यानि, भूतानि पृथिव्यादीनि, न हि, वहन्ति इति पूर्वानुषङ्गः, यदाह वाग्भटः-पानीय प्राणिनां प्राणा विश्वमेतच्च तन्मयम्’ इति। अतः श्लाघ्योऽयं वर इति भावः॥ 14.80 ॥
प्रसारितापः शुचिभानुनाऽस्तु मरुः समुद्रत्वमपि प्रपद्य।
भवन्मनस्कारलवोद्‌गमेन क्रमेलकानां निलयः पुरेव॥ 14.81 ॥
अन्वयः–मरुः भवन्मनस्कारलवोद्गमे शुचिभानुना प्रसारितापः नक्रमेनकानां निलयः समुद्रत्वं प्रपद्य अपि भवन्मनस्कारलवोद्‌गमेन शुचिभानुना प्रसारितापः पुरा इव क्रमेलकानां निलयः अस्तु।
जीवातु–प्रसारितेति। किञ्च, मरुः निर्जलस्थलं, भवतः मनस्कारः चित्ताभोगः, समनः सुखतत्परता इत्यर्थः, सुखलोस्थलं, इति यावत्, इति सप्तम्यन्तच्छेदः; इति नक्राणां जलजन्तुविशेषाणां, मेलाः एव मेलकाः सङ्घाः, तेषां निलयः आवासः, तथा शुचिभानुना शुभ्रांसुना चन्द्रेण, प्रसारिताः संवर्द्धिताः, आपः यस्य स तादृशः प्रसारितापश्च सन् `ऋक्‌पूर्–’ इत्यादिना समासान्तः। समुद्रत्वं प्रपद्यापि प्राप्यापि, भवन्मनस्कारलवोद्‌गमेनेति तृतीयान्तच्छेदः, पुनश्च त्वदिच्छामात्रेणैवेत्यर्थः, क्रमेलकानाम् उष्ट्राणां, `शुचिः सुभ्रेऽनुपहते ग्रीष्मे हुतवहेऽपि च’ इति विश्वः। प्रसारितापः अपसारितोदकश्च सन्, प्रखरसन्तापः सन् इति वा, पुरेवास्तु पूर्ववत् निर्जल एव भवतु॥ 14.81 ॥
अम्लानिरामोदभरश्च दिव्यः पुष्पेषु भूयाद्भवदङ्गसङ्गात्।
दृष्टं प्रसूनोपमया मयाऽन्यन्न धर्मशर्मोभयकर्मठं यत्॥ 14.82 ॥
अन्वयः–भवदङ्गसङ्गात् पुष्पेषु अम्लानिः दिव्यः आमोदभरः च भूयात् यत् प्रसूनोपमया धर्न शर्मोभयकर्मठं मया अन्यत् न दृष्टम्।
जीवातु–द्वितीयं वरमाह, अम्लानिरिति। हे नल! भवतः अङ्गसङ्गात् करस्पर्शात् एव, पुष्पेषु अम्लानता, दिव्यः स्वर्गीयः, आमोदभरश्च सौरभातिशयश्च, भूयात्। अस्य वरस्य श्लाघ्यतामाह–यत् यस्मात्, प्रसूनोपमया पुष्पसाम्येन, धर्मशर्मणोः सुकृतसुखयोः, उभयस्मिन् द्वयेऽपि, कर्मणि घटते इति कर्मठं कर्मशूरं, कर्मक्षममित्यर्थः, `कर्मशूरस्तु कर्मठः’ इत्यमरः। `कर्मणि घोटऽठच्’ इति अठच्-प्रत्ययः; अन्यत् धनपुत्रादिवस्तु, मया न दृष्टम्; सुरार्चनस्वोपभोगाभ्याभ्यामिहामुत्र च पुष्पस्योपयोगाच्छ्लाघ्योऽयं वर इति भावः॥ 14.82 ॥
वाग्देवताऽपि स्मितपूर्वमुर्वीसुपर्वराजं रभसाद्वभाषे।
त्पत्प्रेयसीसम्मदमाचरन्त्या मत्तो न किञ्चिद्‌ ग्रहणोचितं ते?॥ 14.83 ॥
अन्वयः–वाग्देवता अपि उर्वीसुपर्वराजं रमसाद् स्मितपूर्वं बभाषेत्वत्प्रेयसीसम्मदम् आचरन्त्याः मत्तः किञ्चित् ग्रहणोचितं न?
जीवातु–वागिति। वाग्देवताऽपि उर्वीसुपर्वराजं भूदेवेन्द्रं नलं, रभसात् हर्षात् `रभसो वेगहर्षयोः’ इति विश्वः। स्मितपूर्वं तावत् सार्द्धश्लोकेनाह, त्वदिति। त्वत्प्रेयस्याः दमयन्त्याः, सम्मदं हर्षं, त्वद्वरणरूपं प्रियमित्यर्थः, `प्रमदसम्मदौ हर्षे’ इति अप् निपातः, आचरन्त्याः कुर्वन्त्याः, अत एव मत्तो मत्सकाशात्, `पञ्चम्यास्तसिल्’ इति पञ्चम्यर्थे तसिम् प्रत्ययः, ते तव, किञ्चित् ग्रहणोचितमाप्तत्वेन स्वीकारार्हम्, अथच ग्रहणोचित ज्ञानयोग्यं, न? अपि तु ग्रहणमुचितमेव, अतो मत्तः किंचित् ग्राह्यमित्यर्थः॥ 14.83 ॥
अर्थो विनैवार्थनयोपसीदन्नल्पोऽपि धीरैरवधीरणीयः।
मान्येन मन्ये विधिना वितीर्णः सः प्रीतिदायो बहु मन्तुमर्हः॥ 14.84 ॥
अन्वयः–अर्थनया विना एव उपसीदन् अल्पः अपि अर्थः धीरैः न अवधीरणीयः,-मन्ये, मान्येन विधिना वितीर्णः सः प्रीतिदायः बहुमन्तुम् अर्हः।
जीवातु–अर्थ इति। किञ्च, अर्थनया याच्ञादैन्येन, विनैव उपसीदम् उपनम्न्, अल्पः अपि अर्थः हितार्थः घीरैः प्रेक्षावद्भिः, अवधीरणीयः उपेक्ष्यः, न, परन्तु स्वीकरणीय एव; कथ नावधीरणीयः? इत्याह-अत्र यस्मात् इति पदमूहनीयम्; यस्मात् मान्येन पूज्येन, विधिना ब्रह्मणा एव, वितीर्णः दत्तः, दीयते इति दायः कर्मणि घञ् प्रत्ययः, `आतो युक् चिण्‌कृतोः’ इति युगागमः, प्रीत्या दायः `कर्त्तृकरणे कृता-’ इति समासः, प्रीतिदानरूपः अर्थः, बहु अधिकः, इति मन्तुम् अवगन्तुम्, अर्हः इत्यहं मन्ये॥ 14.84 ॥
अवामा वामार्द्धे सकलमुभयाकारघटनाद्द्विधाभूतं रूपं भगवदभिवेयं भवति यत्।
तदन्तर्मन्त्रं मे स्मर हरमय सेन्दुममलंनिराकारं शश्वज्जप नरपते! सिध्यतु स ते॥ 14.85 ॥
अन्वयः–नरपते, अर्द्धे अवामा (अर्द्धे) वामा द्विधाभूतम् उभयाकारघटनात् सकलं यत् भगवदभिधेयं रूपं भवति, सेन्दुम् अमलं निराकारं मन्त्रं हरमयं मे तत् अन्तः स्मर शश्वत् जप, सः ते सिध्यतु।
जीवातु– अथ वरस्वरूपमेव पञ्चभिः प्रपञ्चेनाह, अवामेत्यादि। नरपते! हे नरेन्द्र! अर्द्धे एकभागे, अवामा अस्त्री, पुमानित्यर्थः, पुनः अर्द्धे अर्द्धभागान्तरे, वामा स्त्री, अत एव द्विधाभूतं स्त्रीपुंसात्मकम्, उभयाकारघटनात् उभयोः आकारयोः मिलनात्, सकलं सम्पूर्णं भगवदभिधेयं भगवच्छब्दवाच्यं यत् रूपं भवति विद्यते, सेन्दुम् इन्दुकलासमेतम्, अमलं निर्मलं निराकारं परमार्थतः निरंशं, मन्त्रं मन्त्रात्मकं, तद्वत् गोप्यं वा हरमयम् ईश्वरात्मकं, मे मम, तत् रूपं, स्वरूपमित्यर्थः, अन्तः अन्तःकरणे, स्मर चिन्तय, शश्वत् निरन्तरं, जप मन्त्रात्मकत्वात् जपरूपेण च उपास्स्व, स मन्त्रमूर्त्तिः भगवान् अर्द्धनारीश्वरः, ते तव, सिध्यतु प्रसीदतु, फलतु इत्यर्थः। मन्त्रपक्षे तु-अर्द्धे प्रथमभागे, अवा ओकारेण, मा मकारेण प्रणवेन इत्यर्थः, तथा अवामार्द्धे अर्द्धे उत्तरभागेऽपि, अवा ओकारेण, मा मकारेण चोपलक्षितं, प्रणवद्वयसम्पुटितमित्यर्थः, एवमुभयाकारघटानात् उभयाभ्याम् अकाराभ्यां घटनात् संयोगात्, द्विधाभूतं ह र इति द्विधा विभक्तम् अथवा उभयाभ्यामाकाराभ्यां प्रणवस्वरूपायां, घटनात् सम्पुटीकरणात् द्विधाभूतं द्व्याकारं, भगवदभिधेयं भगवान् शिवः, अभिधेयो वाच्यो यस्य तत् शिववाचकं, यत् रूपं भवति ओं हर ओम् इति यत् स्वरूपं निष्पद्यते, तत् हरमयं हकाररेफात्मकं निराकारम् अश्च अश्च तौ औ, तयोराकारं स्वरूपं, निर्गतौ रहितौ, अकारद्वयौ यस्मात् तादृशं, हकाररकारयोरुच्चाराणार्थं यत् अकारद्वयं तच्छून्यम्, अत एव `ह्र’ इति व्यञ्जनवर्णमात्रात्मकमित्यर्थः, तथा ई च इन्दुश्च ताभ्याम् ईन्दुभ्यां सह वर्त्तते इति तादृशं सेन्दु तुरीयस्वरविन्दुसहितम्, अमलं निर्दोषं सकलं कलया अर्द्ध चन्द्रेण सहितं, मे मदीयं, मन्त्रं प्रमवद्वयसम्पुटितं ओं ह्री ओम् इत्याकारकं सारस्वतचिन्तामणिमन्त्रमित्यर्थः, तदुक्तं पारमेश्वरे,-`उद्धारस्तु परोक्षेण परोक्षप्रियताश्रुतेः। शिवान्त्यवह्निसंयुक्तो ब्रह्मद्वितयमन्तरा॥ तुरीयस्वरशीतांशुरेखातारासमन्वितः। एष चिन्तामणिर्नाम मन्त्रः सर्वार्थसाधकः॥ जगन्मातुः सरस्वत्या रहस्यं परमं मतम्।’ इति शिवशब्देन हकारः, वह्निशब्देन रकारः, ब्रह्मद्वितयमन्तरा प्रणवद्वितयमध्ये, तुरीयस्वरेण ईकारः, शीतांशुरेखया अर्द्धचन्द्रः, ताराशब्देन विन्दुः इत्यर्थः। अन्तरित्यादि पूर्ववत्। यन्त्रपक्षे-भगवत् योनीव, अभिधेयं दृश्यं, यत् रूपं त्रिकोणाख्यम्, उभयाकारघटनात् त्रिकोणद्वयमेलनात्, सकलं सम्पूर्णं, षट्कोणमित्यर्थः, भवति, तदन्तः तस्य षट्कोणस्यान्तर्मध्ये, मन्त्रम् ओं ह्रीं ओम् इत्याकारकम्। अनन्तरोक्तं नरपते इत्यादिपूर्ववत्। अत्र देवतामन्त्रयन्त्राणां त्रयाणामपि प्रकृतत्वात् केवलप्रकृतश्लेषोऽलङ्कारः। शिखरिणी वृत्तम्॥ 14.85 ॥
सर्वाङ्गीणरसामृतस्तिमितया वाचा स वाचस्पतिः
स स्वर्गीयमृगीदृशामपि वशीकाराय मारायते।
यस्मैः यः स्पृहयत्यनेन स तदेवाप्नोति किं भूयसा
येनायं हृदये कृतः सुकृतिना मन्मन्त्रचिन्तामणि॥ 14.86 ॥
अन्वयः–येन सुकृतिना अयं मन्मन्त्रचिन्तामणिः–हृदये कृतः सः सर्वाङ्गीणरसामृतस्तिमितया वाच वाचस्पतिः (भवति), सः स्वर्गीयमृगीदृशाम्, अपि वशीकाराय मारायते’ भूयसा; किम्–यः यस्मै स्पृहयतिः सः अनेन तत् एव आप्नोति।
जीवातु–सम्प्रति श्लोकद्वयेन मन्त्रमाहात्म्यमाह, सर्वाङ्गीणेत्यादि। येन सुकृतिना पुण्याधिकेन, अयं पूर्वोक्तः, मन्मन्त्रः एव चिन्तामणिः, चिन्तामात्रेण चिन्तितवस्तुदायकः मणिस्वरूप इत्यर्थः, हृदये कृतः अनुस्मृतः, सः अनुस्मरणकारी सर्वाङ्गीणेन सर्वाङ्गव्यापिना, `तत् सर्वादेः-’ इत्यादिना ख-प्रत्ययः,रसः श्रृङ्गारादिरेव, अमृतं तेन स्तिमितया भरितया, वाचा काव्यादिरूपवाग्वैदगध्येन, वाचस्पतिः बृहस्पतिः, तत्सदृशो भवतीत्यर्थः। `तत्पुरुषे कृति बहुलम्’ इति ष्ठ्या अलुक्, कस्कादित्वात् सत्वम्। `षष्ठ्या पतिपुत्र-’ इत्यादिना विसर्जनीयस्य सत्वमिति स्वामी, तन्न, अस्य छन्दोविषयत्वादिति। एवं स स्वर्गं भवाः स्वर्गीयाः, `वा नामधेयस्य-’ इति वृद्धत्वाच्छप्रत्ययः। तासां मृगीदृशां स्त्रीणामपि, वशीकाराय वशीकरणाय, मारायते मारः कन्दर्प इव आचरति, न केवलं विदग्धवाक् स्त्रीवशीकरणसमर्थोऽपि चेत्यर्थः। यद्वा, भूयसा बहुतरोक्तेन, किम्? यः यस्मै स्पृहयति यत् कामयते `स्पृहेरीप्सितः’ इति सम्प्रदानत्वाच्चतुर्थी। से कामी, अनेन मन्त्रेण, तदेव, तत् सर्वमेव आप्नोति, यतोऽयं चिन्तामणिरिति भावः॥ 14.86 ॥
पुष्पैरभ्यर्च्य गन्धादिभिरपि सुभगैश्चारु हंसेन मां चेन्निर्यान्तीं मन्त्रमूर्त्ति जपति मयि मतिं न्यस्य मय्येव भक्तः।
सम्प्राप्ते वत्सरान्ते शिरसि करमसौ यस्य कस्यापि धत्ते
सोऽपि श्लोकानकाण्डे रचयति रुचिरान् कौतुकं दृस्यमस्य॥ 14.87 ॥
अन्वयः–मयि भक्तः मयि एव मतिं न्यस्य चारु हंसेन निर्यान्तीं मन्त्रमूर्त्ति मां सुभगैः पुष्पैः गनधादिभिः अपि अभ्यर्च्य चेत् जपति, वत्सरान्ते सम्प्राप्ते असौ स्य कस्य अपि शिरिस करं धत्ते, सः अपि अकाण्डे रुचिरान् श्लोकान् रचयति; अस्य कौतुकं दृश्यम्।
जीवातु–पुष्पैरिति। किञ्च, मयि भक्तः, भक्तियुक्तः सन्, मय्येन मतिन्यस्य मनो निधाय, हंसेन वाहनभूतेन, चारु सम्यक्, निर्यान्तीं सञ्चरन्तीं दिसुगन्धिद्रव्यैः, आदिशब्दात् धूपाद्युपचारैश्च, अभ्यर्च्य जपति चेत् तर्हि वत्सरान्ते सम्प्राप्ते सति असौ जपिता, यस्य कस्य अनक्षरस्यापि, शिरसि करं धत्ते निधत्ते, सः अनक्षरः अपि, अकाण्ड अकस्मात् रुचिरान् श्लोकान् रचयति, अस्य मन्त्रस्य, एतत् कौतुकम् अद्‌भुतं, दृश्यं द्रष्टव्यम्॥ 14.87 ॥
गुणानामास्थानीं नृपतिलक! नारीतिविदितां रसस्फीतामन्तस्तव च तव वृत्ते च कवितुः।
भवित्री वैदर्भीमधिकमधिकण्ठं रचयितुं
परीरम्भक्रीडाचरणशरणामन्वहमहम्॥ 14.88 ॥
अन्वयः–नृपतिलस, अहं गुणानाम् आस्थानीं नारी इति विदितां (नारीति विदिताम्) अन्तः रसस्फीतां वैदर्भी तव च तव वृत्ते च कवितुः अधिकण्ठं परीरम्भक्रीडाचरणशरणाम् अन्वहम् अधिकं रचयितुं भविष्यामि।
जीवातु–अथ श्लोकद्वयेन नलं प्रत्युपयोगविशेषमाह, गुणानामित्यादि। नपतिलक! हे नृपश्रेष्ठ! गुणानां रूपलावण्यादीनां, श्लेषप्रसादादीनाञ्च आस्थानीम् आधारभूतानां, नारी उत्तमस्त्री, इति विदितां विश्रुताम्, अन्यत्ररीतिषु गौडीपाञ्चाल्यादिषु, विदिता प्रसिद्धा, सा न भवतीति अरीतिविदिता, नञ्‌समासः। साऽपि न भवतीति तां नारीतिविदितां रीतिषु विदितामित्यर्थः, नञर्थस्य न-शब्दस्य सुप्सुपेति समासः। अन्तः मनसि, श्लोकमध्ये च, रसस्फीतां रसेन नलविषयकानुरागेण, स्फीतां परिपूर्णाम्, अन्त्यत्र–श्रृङ्गारादिसाढ्यां, `श्रृङ्गारीतिञ्च, यथासङ्ख्यं तव च नलस्य च, तव वृत्ते च चरित्रविषये च, कवितुः वर्णयितुः, श्रीहर्षादिकवेरित्यर्थः, `कवृ वर्णने’ इति घातोस्तृच्। अधिकण्ठं कण्ठे, विभक्त्यर्थेऽव्ययीभावः। परीरम्भक्रीडाचरणम् आलिङ्गनविनोदाचरणमेव, शरणं प्राणत्राणं यस्याः तां तदेकजीविताम्, अन्वहम्, अनुदिनम्। याथार्थ्येऽव्ययीभावः, `नपुंसकादन्यतरस्याम्’ इति समासान्तष्टच्, `अह्नष्टखोरेव’ इति टिलोपः। अधिकम्, अत्यर्थ, रचयितुं कर्त्तुम्, अहं भवित्री भविष्यामीत्यर्थः॥ 14.88 ॥
भवद्‌वृत्तस्तोतुर्मदुपहितकण्ठस्य कवितुर्मुखात् पुण्यैः श्लोकैस्त्वयि घनमुदेयं जनमुदे।
ततः पुण्यश्लोकः क्षितिभुवनलोकस्य भविता
भवानाख्यातः सन् कलिकलुषहारी हरिरिव॥ 14.89 ॥
अन्वयः–मदुपहितकण्ठस्य भवद्‌वृत्तस्तोतुः कवितुः मुखात् त्वयि पुण्यैः श्लोकैः घनं जनजुदे उदेयम्, ततः भवान् पुण्यश्लोकः आख्यातः सन् हरिः इव क्षितिभुवनलोकस्य कलिकलुषहारी भविता।
जीवातु–भवदिति। किञ्च, हे नल! मया उपहितकण्ठस्य, अधिष्ठितकण्ठनालस्य, भवतः वृत्तस्य चरित्रस्य, स्तोतुः स्तावकस्य, कवितुः कवेः मुखात् त्वयि विषये, पुण्यैः पवित्रैः चारुभिर्वा, `पूण्यन्तु चार्वापि, इत्यमरः। श्लोकैः पद्यैः, जनमुदे लोकहर्षाय, घनं निरन्तरम्, उदेयम्; उदेतव्यम्, उदीयतामित्यर्थः। एतेः `अचो यत्’ इति यत्-प्रत्ययः। ततः को मे लाभः? तत्राह, तत इति। ततः पुण्यश्लोकोदयात्, भवान्, पुण्यश्लोकः पुण्यकीर्त्तिः, इति आख्यातः कीर्त्तितः सन्, हरिः जनार्दनः इव, क्षितिभुवनलोकस्य भूलोकस्य, कलिकलुषहारी कलिकालकल्मषनाशनः, भविता भविष्यति, भवतेर्लुटि `शेषे प्रथमः’। अत्राहुः,–`पुण्यश्लोको जनार्दनः॥’ कर्कोटकस्य नागस्य दमयनत्या नलस्य च। ऋतुपर्णस्य राजर्षेः कीर्त्तनं कलिनाशनम्॥ ’ इति॥ 14.89 ॥
देवी च ते च जगदुर्जगदुत्तमाङ्गरत्नाय ते कथय कं वितराम कामम्?।
किञ्चित्त्वया न हि पतिव्रतया दुरापं भस्मास्तु यस्तव बत व्रतलोपमिच्छुः॥ 14.90 ॥
अन्वयः–देवी च ते च जगदुः-कथय् जगदुत्तमाङ्गरत्नाय ते कं कामं वितराम? हि पतिव्रतया त्वया किञ्चिद्‌ दुरापं न; बत, यः व्रतलोपमिच्छुः भस्म अस्तु।
जीवातु–अथ ते सर्वे दमयन्तीं प्रति आहुः, देवीति। देवी सरस्वती च, ते देवश्च, जगदुः, जगदुत्तमाङ्गरत्नाय त्रैलोक्यशिरोमणिभूतायै, `उत्तमाङ्गशिरः शीर्षम्’ इत्यमरः। ते तुभ्यं, कं काम्यते इति कामम् ईप्सितं, कर्मणि घञ्‌। वितराम्? प्रयच्छाम? सम्प्रश्ने लोट्। कथय। पत्यौ व्रतं नियमः, अस्खालित्वरूपमित्यर्थः, यस्याः तादृशया त्वया किञ्चित् किमपि, दुरापं दुष्प्रापं, न हि नैव, अस्तीति शेषः पातिव्रत्यतेजसोऽप्रतिहतशक्तिकत्वादिति भावः; तथाऽपि यः पापी; तव व्रतं पत्यौ अस्खालित्वरूपं, तस्य लोपं नाशम्, इच्छुः अभिलाषुकः, `बिन्दुरिच्छुः’ इत्युप्रत्ययान्तो निपातः, `न लोका-’ इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया। स भस्मास्तु भस्मीभवतु, वतेति खेदे; तथा चास्माद्वरप्रसादादेव तत्प्रतीकारात् तव ततो भयं न भविष्यतीति भावः। एतच्चोत्तरत्र वनमध्ये अजगरग्रस्तां दमयन्तीमजगरादुन्मोच्य पुनस्तां कामयमानस्य पापिष्ठस्य व्याधस्य वधे फलिष्यतीति भारती कथा अत्र अनुसन्धेया॥ 14.90 ॥
कूटकायमपहाय नो वपुर्बिभ्रतस्त्वमसि वीक्ष्य विस्मिता।
आप्तुमाकृतिमतो मनीषितां विद्यया हृदि तवाप्युदीयताम्॥ 14.91 ॥
अन्वयः–कूटकायम् अपहाय वपुः बिभ्रतः न वीक्ष्य त्वं विस्मिता असि, अतः मनीषिताम् आकृतिम् आप्तुं तव अपि हृदि विद्यया उदीयताम्।
जीवातु–अथ वरान्तरञ्च, कूटेति। कूटकायं कपटदेहं, नलाकारमिति यावत् अपहाय वपुः निजविग्रहं, ब्रिभ्रतः ब्रिभ्राणान्, नः अस्मान्, वीक्ष्य त्वं विस्मिता विस्मयाविष्टा, असि, तेन, स्वेच्छया रूपान्तरपरिग्रह-परिहारकामा त्वमिति प्रतिभासीति भावः; अतः हेतोः मनीषिताम् अबिलषिताम्, आकृतिं शरीरम्, आप्तुं तवापि हृदि हृदये, विद्याया कामरूपसम्पादकविद्यया, उदीयताम् उद्‌भूताम्, उत्पूर्वादिणो भावे लोट्॥ 14.91 ॥
इत्यं वितीर्य वरमम्बरमाश्रयत्सु तेषु क्षणादुदलसद्विपुलः प्रणादः।
उत्तिष्ठतां परिजनालपनैर्नृपाणां स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः॥ 14.92 ॥
अन्वयः–इत्थं वरं वितीर्य तेषु अम्बरम् आश्रयत्सु क्षणात् उत्तिष्ठतां नपाणां परिजनालपनैः स्वर्वासिवृन्दहतदुन्दुभिनादसान्द्रः विपुलः प्रणादः उदलसत्।
जीवातु–इत्थमिति। तेषु देवेषु, इत्थं वरं वितीर्य दत्त्वा, अम्बरम् आकाशम्, आश्रयत्सु सत्सु, उत्तिष्ठताम् आसनेभ्यः उच्छलतां, नृपाणां प्रणादः हर्षोत्थध्वनिः `प्रणादस्तु शब्दः स्यादनुरागजः’ इत्यमरः। परिजनानाम् आलपनैः आभाषणैः, विपुलः सन्, स्वर्वासिनां, वृन्देन हतानां ताडितानां, दुन्दुभीनां नादेन सान्द्रः निरन्तरः सन्, निरवच्छिन्नभावेनेत्यर्थः क्षणात् उदलसत् उत्थितः॥ 14.92 ॥
न दोषं विद्वेषादपि निरवकाशं गुणमये
वरेण प्राप्तास्ते न समरसमारम्भसदृशम्।
जगुः पुण्यश्लोकं प्रति नृपतयः किन्तु विदधुः
स्वनिश्वासैर्भैमीहृदयमुदयन्तिभरदयम्॥ 14.93 ॥
अन्वयः–प्राप्ताः ये नृपतयः गुणमये विद्धेषात् अपि निरवकाशं दोषं न जगुः वरेण हेतुना पुण्यस्लोकं प्रति समरसमारभसदृश (च न जगुः), किन्तु तस्वनिश्वासैः भैमीहृदयम् उदयन्निर्भरदयं विदधुः।
जीवातु–नेति। प्राप्ताः स्वयंवरागताः, ते नृपतयः गुणमये गुणैकनिलये, नले इति शेषः, निरवकाशमवर्त्तमानं, दोषं विद्वेषात् अपि दमयन्तीलाभजनितद्वेषे सत्यपीत्यर्थः, न जगुः नोचुः, न उद्‌घाटयामासुरित्यर्थः, `गौ शब्दे’ इति दातोर्लिट्। तादृशगुणसम्पत्तिः अदोषता चास्येति भावः। किम्, वरेण शचीदत्तेन हेतुना, पुण्यश्लोकं नलं प्रति, समरसमारम्भस्य युद्धोद्योगस्य, सदृशम् अनुकूलञ्च किञ्चित्‌, न, जगुरिति क्रियानुषङ्गः `सान्निध्ययोगात् किल तत्र शच्याः स्वयंवरक्षोक्षकृतामभावः’ (रघुवंशे-713) इति भावः; किन्तु स्वनिश्वासैः दुःखोत्थैः स्वेषां निश्वासैः; भैमीहृदयं दमयन्तीचेतः, उदयन्ती जनयन्ती निर्भरा अतिमात्रा, दया यस्य तत् तथाभूतं, तद्‌दुःखदुःखितं, विदधुः चक्रुः, परदुःखासहिष्णुर्दमयन्ती स्वप्रत्याख्यानदुःखितान् राज्ञो दृष्ट्वा तद्‌दुःखप्रशमनेच्छुरासीदित्यर्थः॥ 14.93 ॥
भूभृद्भिर्लम्भिताऽसौ करुणरसनदीपूर्त्तिमद्‌देवतात्वं
तातेनाभ्यर्थ्य योग्याः सपदि निजसखीर्दापयामास तेभ्यः।
वैदर्भ्यास्तेऽप्यलाभात् कृतगमनमनः प्राणवाञ्छां निजघ्नुः
सख्याः संशिक्ष्य विद्यां सततधृतवयस्यानुकाराभिराभिः॥ 14.94 ॥
अन्वयः–भूभृद्भिः करुणासनदीमूर्तिमद्देवतात्वं लम्भिता असौ सपदि अभ्यर्थ्यं तातेन योग्याः निजसखीः तेभ्यः दापयामास; ते अपि वैदर्भ्याः अलाभात् कृतगमनमनः प्राणवाञ्छां सख्याः विद्यां संशिक्ष्य सततधृतवयस्यानुकाराभिः आभिः निजघ्नुः।
जीवातु–भृभृद्भिरिति। भूभृद्भिः भूपालैः, करुणरसनद्याः करुणाख्यरसप्रवाहस्य, मूर्त्तिमत् शरीरि, देवतात्वम् अधिदेवतात्वं, लम्भिता प्रापिता, स्वस्वदुखेन दुःखीकृता इत्यर्थः, असौ दमयन्ती, सपदि तत्क्षणमेव, अभ्यर्थ्य सम्प्रार्थ्य, पितरमिति शेषः, यद्वा–तातेन राज्ञा इति शेषः, तानेन पित्रा भीमेन, योग्याः कुलशीलसौन्दर्यादिना राजार्हाः; निजसखीः तेभ्यः भूभृद्‌भ्यः;सम्प्रदाने चतुर्थी। दापयामास, ते भूभृतोऽपि, वैदर्भ्याः अलाभात् हेतोः, कृतं गमनं निष्क्रमणीच्छा इत्यर्थः, यैः तादृशानां मनःप्राणानां वाञ्छां निष्क्रमणेच्छारूपकर्माणि, अथवा-कृतं गमने देहपरित्यागे, मनो यैस्तादृशानां प्राणानां वाच्छां निष्क्रमणेच्छामित्यर्थः, सख्याः, `आख्यातोपयोगे’ इति अपादानत्वात् पंचमी विद्यां कामरूपधारणविद्याम् इन्द्राद्युक्ता, संशिक्ष्य अभ्यस्य, सततं नित्यं, धृतः वयस्यानुकारः भैमीसादृश्यं याभिः तादृशीभिः, सखीभिः साधनैः, निजहतुः निरोधयामासुः, राजानोऽपि दमयन्त्यलाभेन निष्क्रमणेच्छून् मनःप्राणान् भौमीसखीलाभेन निष्क्रमणात् निवर्त्तयामासुः, अन्यथा सद्यो म्रियेरन्निति अहो दमयन्त्या दयालुत्वं विवेचकत्वञ्चेति भावः॥ 14.94 ॥
अहह सह मघोना श्रीप्रतिष्ठासमाने निलयमभि नलेऽथ स्वम्प्रतिष्ठासमाने।
अपतदमरभर्तुर्मूर्तिबद्धेव कीर्त्तिर्गलदलिमधुबाष्पा पुष्पवृष्टिर्नभस्तः॥ 14.95 ॥
अन्वयः–अहह, अथ मघोना सह श्रीप्रतिष्ठासमाने नले स्वं निलयम् अभि प्रतिष्ठासमाने गलदलिमधुबाष्पा मूर्तिबद्धा अमरभर्त्तुः कीर्त्तिः इव पुष्पवृष्टि, नभस्तः अपतत्।
जीवातु–अहहेति। अथेन्द्रपस्थानानन्तरं, मघोना इन्द्रेण सहं, श्रीप्रतिष्ठया ऐश्वर्यगौरवेण, समाने सदृशे, नले स्वं निलयम् अभि शिविरं प्रति, `अभिरबागे’ इति लक्षणार्थे कर्मप्रवचनीयत्वात्‌ तद्योगे द्वितीया प्रतिष्ठासमाने प्रस्तातुम् इच्छति सति, प्रपूर्वात्तिष्ठतेः सन्नन्ताल्लटः शानजादेशः `समवप्रविभ्यः-’ इत्यात्मनेपदत्वात् `पूर्ववत् सनः’ इत्यात्मनेपदम् गलन् स्रवन्, अलियुक्तं मधु मकरन्दः एव, बाष्पः अश्रु यस्याः सा तादृशी साञ्जनबाष्पयुक्ता इत्यर्थः, मूर्त्तिबद्धा बद्धमूर्त्तिः, मूर्त्तिमतीत्यर्थः, `वाऽऽहिताग्न्यादिषु’ इति निष्ठायाः परनिपातः। अमरभर्त्तुः इन्द्रस्य, कीर्त्तिः स्वामिदुर्व्यसन्दुःखात् भ्रश्यतीवेत्युत्प्रेक्षा। पुष्पाणां घवलतया कीर्त्तित्वं दमयन्त्या चावृतत्वेन इन्द्रस्य कीर्त्तिः सुतरां भ्रष्टा, नारीणां धवलतया कीर्त्तित्वं दमयन्त्या चावृतत्वेन इन्द्रस्य कीर्त्तिः सुतरां भ्रष्टा, नारीणां बाष्पञ्च सकज्जलं भवतीति भावः॥ 14.95 ॥
स्वस्यामरैर्नृपतिमंशममुंत्यजजद्भिरंशच्छिदाकदनमेव तदाऽध्यागामि।
उत्का स्म पश्यति निवृत्य निवृत्य यान्ती वाग्देवताऽपि निजविभ्रमधाम भैमीम्॥ 14.96 ॥
अन्वयः–तदा स्वस्य अंश्म् अमुं त्यद्भिः अमरैः अंशच्छिदाकदनम् एव अध्यगामि, (निजविभ्रमधाम) यान्ती वाग्देवता अपि उत्का निवृत्य निवृत्य निजविभ्रमधाम भैमीं पश्यति स्म।
जीवातु–स्वस्येति। स्वस्य आत्मनः, इन्द्रादेरित्यर्थः, अंशम् अंशसम्भवम्, `अष्टाभिश्च सुरेन्द्राणां मात्राभिर्निर्मितो नपः’ इति स्मरणात्; अमुं नृपतिं नलं, त्यजद्भिः अमरः इन्द्रादिभिः, अंशच्छिदा अवयवच्छेदः, `षिद्भिदादिभ्योऽङ्’ तया यत् कदनं दुःखं तदेव, तदा अध्यागामि अधिगतम्; स्वांशोद्‌भूतजनवियोगः स्वावयवच्छेदवत् भवतीति भावः। किञ्चि, निजम् आत्मीयं, विभ्रमधाम विहारभवनं, यान्ती वाग्देवता सरस्वती अपि उत्का उन्मनाः, उत्सुका सतीत्यर्थः, `उत्क उन्मनाः’ इति निपातः। निवृत्य निवृत्य पुनः पुनः परावृत्य, भैमीं पश्यति स्म, `सन्धत्ते भृशमरतिं सुहृद्वियोगः’ इति भावः॥ 14.96 ॥
सानन्दं तनुजाविवाहनमहे भीमः स भूमीपतिर्वैदर्भीनिषधाधिपौ नृपजनानिष्ट
ोक्तिसन्मृष्टये।
स्वानि स्वानि धराधिपाश्च शिविराण्युद्दिश्य यान्तः क्रमादेको द्वौ बहवश्टकारः सृजतः स्मातेनिरे मङ्गलम्॥ 14.97 ॥
अन्वयः–तनुजाविवाहनमहे सः एकः भूमीपतिः, द्वौ वैदर्भीनिषधाधिपौ, स्वानि स्वानि शिविराणि उद्दिश्य यान्तः बहवः धराधिपाः च नृपजनानिष्टोक्तिसम्मृष्टये सानन्दं मङ्गलं चकार, सृजतः स्म, आतेनिरे।
जीवातु–सानन्दमिति। तनुजायाः दुहितुः दमयन्त्याः, विवाहनं परिणयनम् विपूर्वात् वहतेर्ण्यन्ताद्भावे लयुट् तदेव महः उत्सवः तस्मिन्, भूमीपतिः भूपतिः, स भीमः तथा वैदर्भीनिषधाधिपौ दमयन्तीनलौ, तथा स्वानि स्वानि शिविराणि उद्दिश्य यान्तः धराधिपाश्च एकः द्वौ बहवः एते त्रितयेऽपि, नृपाणां दमयन्त्यवृतभूपानां, ये जनाः परिजनाः, तेषां या अनिष्टोक्तिः स्वस्वप्रभोरवमाननाजनितश्रुतिकटुवाक्यानि, तासां सम्मृष्ट्ये तद्दोषपरिहाराय अश्रवणाय वा, सानन्दं यथा तथा मङ्गलं नगरसंस्कारेष्टदेवतानुस्मरणतूर्यघोषादिमङ्गलाचरणं, क्रमात् एकः भीमः, चकार, द्वौ दमयन्तीनलौ सृजतः स्म असृजतां, चक्रतुः इत्यर्थः, आतेनिरे बहवो धराधिपा भैमीसखीलाभात् मङ्गलतूर्यध्वनिं चक्रुरित्यर्थः। क्रमालङ्कारः॥ 14.97 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
यातस्तस्य चतुर्दशः शरदिजज्योत्स्नाच्छसूक्तेर्महाकाव्ये चारुणि नैषधीयचरिते सर्गो निसर्गोज्ज्वलः॥ 14.98 ॥
अन्वयः–श्रीहर्षं……..च यम्। शरदिजज्योत्स्नाच्छसूक्तेः तस्य चारुमि महाकव्ये नैषधीयचरिते निसर्गोज्ज्वलः चतुर्दशः सर्गः यातः।
जीवातु–श्रीहषंमिति। शरदि भवा शरदिजा `सप्तम्यां जनेर्डः’। `प्रावृट्‌शरत्कालदिवां जे’ इति सप्तम्या अलुक् या ज्योत्स्ना तद्वदच्छा मृष्टाः, सूक्तयः यस्य तादृशस्य। गतमन्यत्॥ 14.98 ॥

******************************************************************************

.

पञ्चदशः सर्गः

अथोपकार्यां निषधावनीपतिर्निजामयासीद्वरणस्रजाऽन्वितः।
वसूनि वर्षन् सुबहूनि वन्दिनां विशिष्य भैमीगुणकीर्त्तनाकृताम्॥ 15.1 ॥
अन्वयः–अथ वरणस्रजान्वितः निषधावनीपतिः भैमीगुणकीर्त्तनाकृतां वन्दिनां विशिष्य सुबहूनि वसूनि वर्षन् निजाम् उपकार्याम् अयासीत्।
जीवातु–अथेति। अथ स्वयंवरानन्तरं, निषधावनीपतिः नलः, वरणस्रजा अन्वितः स्न् वन्दिनां स्तुतिपाठकानाम्, अपरेषामिति भावः, तत्रापि भैमीगुणकीर्त्तनां कुर्वन्तीति ततकृतां भैमीगुणकीर्त्तनकारिणां बन्दिनाम् करोतेः क्विप्। विशिष्य अन्यवन्द्यपेक्षया अतिशय्य, सुबहूनि भूयिष्ठानि, वसूनि धनानि; वर्षन् वितरन्, निजाम्, आत्मीयाम्, उपकार्याम् उपकारिकां, सदनमित्यर्थः, शिविरमिति यावत्, `सौघोऽस्त्री राजसदनमुपकार्योपकारिका’ सदनमित्यर्थः, शिविरमिति यावत्। यातेर्लुङि `यमरमनमातां सक् च’ इति सगिडागमौ; `अस्तिसिचोऽपृक्ते’ इतीडागमः। वंशस्थविलं वृत्तम्॥ 15.1 ॥
तथा पथि त्यागमयं वितीर्णवान् यथाऽतिभाराधिगमेन मागधैः।
तृणीकृतं रत्ननिकायमुच्चकैश्चिकाय लोकश्चिरमुञ्छमुत्सुकः॥ 15.2 ॥
अन्वयः–पथि अयं तथा त्यागं वितीर्णवान् यथा अतिभाराधिगमेन मागधैः तृणीकृतं रत्ननिकायम् उच्चकैः उत्सुकः लोकः उञ्छं चिरं चिकाय।
जीवातु–तथेति। अयं नलः, पथि स्वनिवेशमार्गे, तथा तेन प्रकारेण, त्यज्यते इति त्यागं धनम्, कर्मणि घञ्। वितीर्णवान् दत्तवान्, यथा येन प्रकारेण, अतिभारस्य अतिगुरुत्वस्य, अधिगमेन प्राप्त्या, मागधैः वन्दिभि; तृणीकृतं वोढुमशक्यत्वेन तृणवत् त्यक्तम्, उच्चकैः उच्छ्रितं, रत्नानां निकायं समूहं, लोकः साधारणो जनः, उत्सुकः आग्रहान्वितः सन्, चिरं बहु कालम्, उञ्छं चिकाय भूवि त्यक्तं रत्ननिकायम् उच्छत्वेन सञ्चितवान्; यद्यपि धान्यानां कणश आदानमेव उञ्छस्तथाऽपि रत्नानामादाने औषचारिको बोध्यः। `विभाषा चेः’ इति चिञः कुत्वम्। `उत्छः कणश आदाने कणिशाद्यर्जननं शिलम्’ इति यावदः॥ 15.2 ॥
त्रपाऽस्य न स्यात् सदसि प्रियाऽन्वयात्? कुतोऽतिरूपः सुखभाजनं जनः?।
अमूदृशी तत्कविवदन्दिवर्णरनपाकृता राजकरञ्जिलोकवाक्॥ 15.3 ॥
अन्वयः–सदसि प्रियान्वयात् अस्य त्रपा न स्यात्? प्रतिरूपः जनः सुखभाजनं कुतः?-अमूदृशी राजकरञ्जिलोकवाक् तत्कविवन्दिवर्णनैः अपाकृता।
जीवातु–त्रपेति। सदसि सभायां, प्रियाऽन्वयात् प्रियासमागमात्, अस्य नलस्य, त्रपा अनुचितारणनितलज्जा, न स्यात्? न भवेत्? इति काकुः, भवितुमुचितमेवेत्यर्थः, तथा अतिखरूपः अतिमात्रसौन्दर्यशाली, जनः कुतः कुंत्र, सुखभाजनं रामसीतादिवत् सुखास्पदं, भवेत्? न कुत्रापीत्यर्थः नलस्य इदं लोकातिशायि रूपमेव दुःखनिदानं भवेदिति भावः, असौ इव दृश्यते इति अमूदृशी एतादृशी, उक्तरूपा इत्यर्थः, अदः- शब्दोपपदात् दृशेः `त्यदादिषु दृशोऽनालोचने कञ् च’ इति कञ्, `टिड्ढाणञ्’-इत्यादिना ङीप्, `आसर्वनाम्नः’ इत्यात्वे `अदसोऽसेर्दातु दो मः’ इत्यूत्वमेत्वे। राजकं दमयन्त्यवृतराजसमूहं रञ्जयतीति तेषां राजकरञ्जिनां तदिच्छानुकूलवादिनां, लोकानां जनानां, वाक् पूर्वोक्ता निन्दोक्तिः, तस्य नलस्य, कवीनां वन्दिनाञ्च वर्णनैः अहो! निखिलं राजकम् अवधूय त्वया स्त्रीरत्नं लब्धं सर्वोत्तरोऽसीत्यादिस्तवैः, अपाकृता न्यक्‌कृता तादृशकविवन्दिभिस्तारस्वरेण नलगुणवर्णनात् पूर्वोक्तनिन्दावाक् तिरोहितत्वेन न श्रुतिगोचरीभूतेति भावः॥ 15.3 ॥
अदोषतामेव सतां विवृण्वते द्विषां मृषादोषकणाधिरोपणाः।
न जातु सत्ये सतिं दूषणे भवेदलोकमाधातुमवद्यमुद्यमः॥ 15.4 ॥
अन्वयः–द्विषां मृषादोषकणाधिरोपणाः सताम् अदोषताम् एव विवृण्वते; सत्ये दूषणे सति अलीकम् आधातुं जातु उद्यमः न भवेत्।
जीवातु–अदोषतामिति। द्विषां शत्रुभिः, अधिरोपणेति कृद्योगे कर्त्तरि षष्ठी, मृषादोषकणाधिरोपणाः एव, विवृण्वते प्रकाशयन्ति, शूरे, कलङ्कारोपणवत् इति भावः। तत्र हेतुमाह, नेति। सत्ये दूषणे दोषे, सति वर्त्तमाने, अलीकम् असत्यम्, अवद्यं दूषणम्। `अवद्यपण्य-’ इत्यादिना निपातः। आधातुम् आरोपयितुं जातु कदाचिदपि, उद्यमः द्विषाम् उद्योगः, न भवेत् शशाङ्के कलङ्कारोपणवदिति भावः, तथा च सत्यदोषस्य वर्त्तमानत्वे मिथ्यादोषारोपे शत्रूणामुद्यमादर्शनात् सत्यदोषाभावे सत्येव मिथ्यादोषारोपे उद्यमोऽवगम्यते, इत्थञ्च नले मिथ्यादोषकणाधिरोपणाः सताम् प्रतीयते इति भावः॥ 15.4 ॥
विदर्भराजोऽपि समं तनूजया प्रविश्य हृष्यन्न्वरोधमात्मनः।
शशंस देवीमनु जातसंशयां प्रतीच्छ जामातरमुत्सुके! नलम्॥ 15.5 ॥
अन्वयः–हृष्यन् विदर्भराजः अपि तनूजया समम् आत्मनः अवरोध प्रविश्य अनुजातसंशयां देवीम् शशंस-उत्सुके, नलं जामातरं प्रतीच्छ।
जीवातु–विदर्भेति। अथ विदर्भराजो भीमोऽपि, हृष्यन् सर्वोत्कृष्टजामातृलाभेनानन्दितः सन्, तनूजया दुहित्रा भैम्या, समम् आत्मनः अवरोधम् अन्तःपुरं, प्रविश्य जपतसंशयां, दमयन्ती सर्वगुणाकरं नलं वरिष्यति निणर्गुणमन्ये वेति इष्टवरलाभे सन्दिहानां, देवीं निजमहिषीम्, अनु लक्ष्यीकृत्य, उत्कुके! इष्टवरोद्युक्ते! इष्टार्थोद्युक्त उत्सुकः’ नलं जामातरं दुहितुः पतिं, प्रतीच्छ विजीनीहीत्यर्थः, इति शशंस कथयामास। सिद्धं नः समीहितमिति भावः॥ 15.5 ॥
तनुत्विषा यस्य तृणं स मन्मथः कुलश्रिया यः पतिताऽस्मदन्वयम्।
जगत्त्रयीनायकमेलके वरं सुता परं वेद विवेक्तुमीदृशम्॥ 15.6 ॥
अन्वयः–यस्य तनुत्विषा सः मन्मथः तृणं, यः कुलश्रिया अस्मदन्वयं पविता, जगत्‌त्रयीनायकमेलके ईदृशं वरं विवेक्तुं परं सुता वेद।
जीवातु–तन्विति। किञ्च, यस्य नलस्य, तनुत्विषा कायकान्त्या, स प्रसिद्धः, मन्मथः तृणं तृमतुल्यः, अतिनिकृष्ट इत्यर्थः। यः कुलश्रिया अभिजनसम्पदा, कौलीन्येन इत्यर्थः, अस्मदन्वयं अस्माकं कुलं, पविता पवित्रीकर्त्ता, पुनातेस्तृन, `न लोका-‘इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया। किञ्च, जगत्रय्यां ये नायकाः तेषां मेले एव मेलके सङ्घे, वरसमूहानां मध्ये इत्यर्थः। मेलात् घञन्तात् स्वार्थे कः। ईदृशम् इदृगुणोपेतं, वरं विवेक्तुं निर्वाचयितुं, परं केवलं, सुता त्वत्सुतैव, वेद वेत्ति, `विदो लटो वा’ इति लट्-स्थाने णलादेशः। अहो भाग्यात् सर्वानुकूलत्वमिति भावः॥ 15.6 ॥
सृजन्तु पाणिग्रहमङ्गलोचिता मृगीदृशः स्त्रीसमयस्पृशः क्रियाः।
श्रुतिस्मृतीनान्तु वयं विदध्महे विधीनिति स्माह च निर्ययौ च सः॥ 15.7 ॥
अन्वयः–मृगीदृशः पाणिग्रहमङ्गलोचिताः स्त्रीसमयस्पृशः क्रियाः सृजन्तु, वयं तु श्रुतिस्मृतीनां विधीन् विदध्महे-सः इति आहस्य च निर्ययो च।
जीवातु–सृजन्त्विति। स भीमः, स्त्र्याचारं स्पृशन्तीति तत्स्पृशः स्त्रीसमाचारप्राप्ता इत्यर्थः। `स्पृशोऽनुदके क्विन्’। क्रिया मङ्गलकर्माणि, सृजन्तु विदधतु। वयन्तु श्रुतिस्मृतीनां सम्बन्धिनः तद्विहितान्, विधीन् कर्माणि, विदध्महे कुर्महे, इत्याह स्म च उवाच च, `लट् स्मे’ इति भूते लट्। निर्ययी च अन्तःपुरात् निर्जागाम च। चकारद्वयं क्रिययोः यौगपद्यसूचनार्थकम् उक्त्वैव निर्ययौ, न तु क्षणमपि विलम्बमकरोदिति भावः॥ 15.7 ॥
निरीय भूपेन निरीक्षितानना शशंस मौहूर्त्तिकसंसदंशकम्।
गुणैररीणैरुदयास्तनिस्तुषं तदा स दातुं तनयां प्रचक्रमे॥ 15.8 ॥
अन्वयः–भूपेन निरीय निरीक्षितानना मौहूर्त्तिकसंसद्, अरीणैः गुणैः उदयास्तनिस्तुषम् अंशकं शशंस तदा सः तनयां दातुं प्रचक्रमे।
जीवातु–निरीयेति। भूपेन निरीय अन्तःपुरात् निर्गत्य, ईङ् गताविति धातोः समासात् क्त्वो ल्यबादेशः। निरीक्षितानि आननानि यस्याः सा लग्नकथनाय मुखनिरीक्षणेनैव कृतसङ्केता इति भावः॥ मुहूर्त्तं तत्प्रतिपादकं शास्त्र विदन्तीति मौहुर्त्तिकाः ज्यौतिषिकाः `तदधीते तद्वेद’ इति ठक्, तेषां संसत् ज्यौतिषिकपरिषत्, अरीणैः अक्षीणैः, समग्रैरित्यर्थः, रौ गताविति घातौः कर्त्तरि क्तः, ल्वादिभ्यः’ इति निष्ठानत्वम्, गुणैः शुभग्रहवीक्षणादिभिः उपलक्षितम्, उदयास्ताभ्यां ग्रहविशेषणामुदयास्तमयनिबन्धनदोषाभ्यां, निस्तुषं तद्रहितम्, अंशमेव अंशकं वैवाहिकलग्नं शशंस कथयामास, तदा तस्मिन् लग्ने, स भूपः तनयां दातुं प्रचक्रते उद्यु क्तवानित्यर्थः॥ 15.8 ॥
अथावदद्‌दूतमुखः स नैषधं कुलञ्च बाला च ममानुकम्प्यताम्।
समपल्लवत्वद्य मनोरथाङ्कुरश्चिरेण नस्त्वच्चरणोदकैरिति॥ 15.9 ॥
अन्वयः–अथ मम कुलं च बाला च अनुकम्प्यताम् चिरेण नः मनोरथाङ्कुरः त्वच्चरणोदकैः अद्य सपल्लवतु-इति दूतमुखः सः नैषधम् अवदत्।
जीवातु–अथेति। अथ लग्नस्थिरीकरणानन्तरं, दूतः एव मुखं यस्य स तादृशः, स भीमः, मम कुलञ्च बाला भैमी च, अनुकम्प्यताम् अनुगृह्यतां, चिरेम बहुकालीनः, नः अस्माकं, मनोरथाङ्कुरः प्रागङ्कुरितः त्वया सह भैमीविवाहरूपमनोरथः, त्वच्चरणोदकैः तव पादोदकैः, अद्य पल्लवेन सह वर्त्तते इति सपल्लवः सः इव आचरतु सपल्लवतु अपल्लवः पल्लववान् इवास्त्वित्यर्थः। `सर्वप्रातिपदिकेभ्यः क्विप् वा वक्तव्यः’ इति सपल्लवशब्दादाचारार्थे क्विप्, ततः क्विबन्तधातोः प्रार्थनायां लोट्। इति नैषधं नलम्, अवदत्, दूतमुकेन नलमिदं निवेदितवानित्यर्थः॥ 15.9 ॥
तथोत्थितं भीमवचः प्रतिध्वनिं निषीय दूतस्य स वक्त्राह्वरात्।
व्रजामि वन्दे चरणौ गुरोरिति ब्रुवन् प्रदाय प्रजिघाय तं बहु॥ 15.10 ॥
अन्वयः–दतस्य वक्त्रगह्वरात् तथा उत्थितं भीमवचःप्रतिध्वनिं निपीय सः-व्रजामि, गुरोः चरणौ वन्दे-इति ब्रुवन् तं बहु प्रदाय प्रजिघाय।
जीवातु–तथेति। स नलः, दूतस्य वक्त्रम् आस्यम् एव, गह्वरं गुहा तस्मात्, तथा पूर्वोक्तप्रकारेण, उत्थितम् उदितं भीमवचसः प्रतिध्वनिम् अनुरूपशब्दं, निपीय दूतमुखात् भीमवचनं श्रुत्वेत्यर्थः व्रजामि अधुनैव गच्छामि, गुरोः श्वशुरस्य चरणौ वन्दे। व्रजामि वन्दे इत्यत्र `वर्त्तमानसामीप्य-’ इति भविष्यदर्थे लट् स्वयम् अहम् आगच्छामि गुरुपादवन्दनायेत्यर्थः, इति ब्रुवन् तं दूतं , बहु बहुधनं, पारितोषिकमिति यावत्, प्रदाय दत्त्वा, प्रजिघाय प्राहिणोत्। `हि गता’ विति घातोः लिटि `हेरचङि’ इति हस्य कुत्वम्॥ 15.10 ॥
निपीतदूतालपितस्ततो नलं विदर्भभर्त्ताऽऽगमयाम्बभूव सः।
निशावसाने श्रुतताम्रचूडवाक् यथा रथाङ्गस्तपनं धृतादरः॥ 15.11 ॥
अन्वयः–ततः निपीतदूतालपितः सः विदर्भभर्त्ता निशावसाने श्रुतताम्रचूडवाक् रथाङ्गः यथा तपनं धृतादरः नलम् आगमयाम्बभूव।
जीवातु–निपीतेति। ततो दूतप्रत्यावर्त्तनान्तरं, निपीतदूतालपितः श्रुतदूतवाक्यः, स विदर्भभर्त्ता भीमः, निशावसाने श्रुता ताम्रचूजडवाक् प्राभातिकं कुक्कुटकूजितं येन सः तादृशः `कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः’ इत्यमरः। रथाङ्गः चक्रवाकः, कोकश्चक्रश्चक्रवाको रथाङ्गाह्वयनामकः’ इत्यमरः। रथाङ्गपर्यायाणां चक्रवाकनामत्वाभिदानात् पुंल्लिङ्गता। तपनं यथा सूर्यमिव, इति श्रौती उपमा `इव-वत्-वा-यथाशब्दानां प्रयागे श्रौती’ इति लक्षणात् धृतादरः सञ्जाताग्रहः सन्नित्यर्थः, नलम् आगमयाम्बभूवसाग्रहः स्न् नागमनं प्रतीक्षितवानित्यर्थः, तादृगुपमासामर्थ्यादिति॥ 15.11 ॥
काचित्तदाऽऽलेपनादानपण्डिता कमप्यहङ्कारमगात् पुरस्कृता।
अलम्भि तुङ्गासनसन्निवेशनादपूपनिर्माणविदग्धयाऽऽदरः॥ 15.12 ॥
अन्वयः–तदा आलेपनदानपण्डिता काचित् पुरस्कृता कम् अपि अङङ्कारम् अगात् अपूपनिर्माणविदग्धया तुङ्गासमसन्निवेशनात् आदरः अलम्भि।
जीवातु–काचिदिति। तदा तत्काले, आलेपनदानपण्डिता तण्डुपिष्टिकया गृहकुट्टिमाद् चित्रीकरणक्रियादक्षा, काचित्, पुरन्ध्रीति शेषः, पुरस्कृता आलेपनकर्मणि प्राधान्येन नियुक्ता सती, कमपि अवाच्यम्, अहङ्कारं गर्वम्; अगात्। अपूपानां पिष्टकाख्यभक्ष्यभेदानां निर्माणे विदग्धया दक्षया कयाचित् पुरन्ध्र्या इति शेषः। आदरः आत्मनि अभिमानः, अलम्भि प्रापि `लभेश्च’ इति नुमागमः॥ 15.12 ॥
मुखानि मुक्तामणितोरणात्तदा मरोचिभिः पान्थविलासमाश्रितैः।
पुरस्य तस्याखिलवेश्मनामपि प्रमोदहासच्छुरितानि रेजिरे॥ 15.13 ॥
अन्वयः–तदा तस्य पुरस्य अखिलवेश्मनाम् अपि मुखानि मुक्तामणितोरणात् पान्थविलासम् आश्रितैः मरीचिभिः प्रमोदहासच्छुरितानि रेजिरे।
जीवातु–मुखानीति। तदा तत्काले, आसन्नपरिणयमहोत्सवे इत्यर्थः। तस्य पुरस्य सम्बन्धिनाम् अखिलवेश्मनाम्, अपि सर्वेषामेव गृहाणां, मुखानि द्वाराणि वक्त्राणि च,इति श्लेषः। मुक्तामणोनां तोरणात् तन्मयबहिर्द्वारात्। अपादानात्। `तोरणोऽस्त्री वहिर्द्वारम्’ इत्यमरः। पार्न्थावलासं नित्यपथिकविभ्रमाम्, आश्रितैः अधिगतैः, निरन्तरनिःसृतैरित्यर्थः। पान्थविलासस्य मरीचिषु असम्भवात् तद्विलास इव विलास इति निदर्शना। मरीचिभिः किरणैः। `द्वोयर्मरीचिः किरणौ भानुरुस्रः कः पदम्’ इति शब्दार्णवः। प्रमोदहासच्छुरितानि अट्टहास्यरञ्चिजतानीव, रेजिरे शुशुभे। सुखत्वात् शुभ्रत्वाच्च इत्यत्प्रेक्षा व्यञ्जकाप्रयोगाद्‌गम्या॥ 15.13 ॥
पथामनीयन्त तथाऽधिवासनान्मधुव्रतानामपि दत्तविभ्रमाः।
वितानतामातवनिर्भयास्तदा पतच्छिदाऽकालिकपुष्पजाःस्रजः॥ 15.14 ॥
अन्वयः–तथा अधिवासनात् मधुव्रतानाम् अपि दत्तविभ्रमाः आतपनिर्भयाः पटच्छिदा अकालिपपुष्पजाः स्रजः तदा पथां वितानताम् अनीयन्त।
जीवातु–पथामिति तथा तेन प्रकारेण, यथा केनापि कृत्रिमत्वेन नाववुध्यते तादृशरूपेणेत्यर्थः, अधिवासनात् कृत्रिमपुष्पनिर्मितमालासु चम्पकादिसुगन्धिपुष्पैः संस्कारसाधनात्, `संस्कारो गनधमाल्याद्यैर्यः स्यात्तदविवासनम्’ इत्यमरः, मधुव्रतानां मधुलिहाम् अपि, किमुतान्येषामिति भावः दत्तविभ्रमाः कृताकृत्रिमपुष्पनिर्मितस्रक्‌भ्रान्तयः, इति भ्रान्तिमदलङ्कारः, आतपनिर्भयाः आतपेऽपि अम्लानाः इत्यर्थः, पटच्छिदा पटकर्त्नेन, चेलखण्डेनेत्यर्थः, कृतानि यानि अकालिकानि अकालोद्भवानि पुष्पाणि तेभ्यः जाताः तज्जाः स्रजः मालिकाः, तदा आसन्नंविवाहमहोत्सवकाले, पथां नगरमार्गाणां, वितानताम्उल्लोचतां, चन्द्रातपत्वमित्यर्थः’ अस्त्री वितानमुल्लोचः’ इत्यर्थः, अनीयन्त नीताः, नयतेर्द्विकर्मकत्वात् प्रधाने कर्मणि लङ्, `प्रधानकर्मण्याख्येये लादीनाहुर्द्विकर्मणाम्’ इति वचनात्। रचनापाटवेन सर्वत्र पुष्पवितानभ्रान्तिता वद्‌घ्वा इत्यर्थः॥ 15.14 ॥
विभूषणः कञ्चुकिता बभुः प्रजा विचित्रचित्रैः स्नपितत्विषो गृहाः।
बभूव तस्मिन्माणकुट्टिमैः पुरे वपुः स्वमुर्व्याः परिवर्त्तितोपमम्॥ 15.15 ॥
अन्वयः–तस्मिन् पुरे प्रजाः विभूषणैः कञ्चुकिताः गॉहाः विचित्रचित्रैः स्नपितत्विषः बभूः उर्व्याः स्वं वपुः कणिकुट्टिमैः परिवर्त्तितोपमं बभूव।
जीवातु–विभूषणैरिति। तस्मिन् पुरे प्रजाः जनाः, `प्रजाः स्यात् सन्ततौ जने’ इत्यमरः, विभूषणैः अलङ्कारैः, कञ्चुकिताः सञ्जातकञ्चुकाः, सर्वाङ्गीणा भरणाः सत्यः इति भावः, तथा गृहाः विचित्रचित्रैः विविधालेख्यैः स्नपितत्विषः विशुद्धकान्तयः, शोभनदर्शनाः सन्त इत्यर्थः, `ग्लास्नावनुवमाञ्च’ इति स्नातेरनुपसगस्य मित्त्वविकल्पात् ह्रस्वत्वम्, बभुः विरेजुः। उर्व्याः तत्रत्यभूमेः, स्वं वपुः निजस्वरूपं, मणीनां कुट्टिमैः मणिबद्धप्रदेशैः, कुट्टेन बन्धेन निवृत्त् कुट्टिमं `भावप्रत्ययान्तादिमप् वक्तव्यः’ `कुट्टिमोऽस्त्री निबद्धा भूः’ इति स्वामी, परिवर्त्तितोपमम् अन्यादृशोपमानं, बभूव, पूर्वं नगरस्य यादृशी उपमा आसीत् इदानीमलङ्कृतत्वात् तादृशी उपमा नासीत् इति भावः॥ 15.15 ॥
तदा निसत्वानतमां घनं घनं ननाद तस्मिन्नितरां ततं ततम्।
अवापुरुच्चैः सुषिराणि राणिताममानमानद्धमियत्तयाऽध्वनीत्॥ 15.16 ॥
अन्वयः–तदा तस्मिन् घनं घनं निसस्वानतमां, ततं ततं नितरां ननाद, सुषिराणि उच्चैः राणिताम् अवापुः आनद्धम् इयत्तया अमानम् अध्वनीत्।
जीवातु–तदेति। तदा आसन्नविवाहमहोत्सवकाले, तस्मिन् पुरे, घनं कांश्यतालादिवाद्यं, घनं निरन्तरं यथा स्यात् तथा, निसस्वानतमाम् अतिशयेन दध्वान `किमेत्तिङ्वययधादामु-’ इत्यादिना आमु-प्रत्ययः। तां वीणादिकं वाद्यं, नितराम् अतिशयिकम्, पूर्वदाम-प्रत्यया, ततं विस्तृतं यथा तथा, ननाद। सुषिराणि वेशादिवाद्यानि, उच्चैः उच्चैस्तरां राणितां राणनं, ध्वननमित्यर्थः `रणतेर्ण्यन्ताद्भावे क्तः’ अवापुः। आनद्धं मुरजादिवाद्यम्, इयत्तया केनचित् मानेन, अमानं मानरहितं यथा तथा,अध्वनीत् दध्वान्, ध्वनतेर्लुङ। `अतो हलादेर्लघोः’ इति विकल्पात् वृद्धिप्रतिषेधः। `ततं वीणादिकं वाद्यमानद्धः मुरजादिकम्। वंशादिकन्तु सुषिरं कास्यतालादिकं घनम्॥’ इत्यमरः॥ 15.16 ॥
विपञ्चिराच्छादि न वेणुभिर्न ते प्रणीतगीतैर्न च तेऽपि झझैरैः।
न ते हुडुक्केन न सोऽपि ढक्कया न मर्दलैः साऽपि न तेऽपि ढक्कयाः॥ 15.17 ॥
अन्वयः–विपञ्चिः वेणुभिः न आच्छादि, ते च प्रणीतगीतैः न, ते अपि झर्झरैः न, ते हुडुक्केन, सः अपि ढक्कया न, सा अपि मर्दलैः न, ते अपि ढक्कया न।
जीवातु–विपञ्चिरिति। विपञ्चिः वीणा `विपञ्चिर्वल्लकौ वीणा’ इति वैजयन्ती। `कृदिकारात्–’ इति विकल्पादीकाराभावः। वेणुभिः वेणुवाद्यैः, न आच्छादि न छादिता, न तिरोहितेत्यर्थः छादयतेः कर्मणि लुङ्, ते वेणवः, प्रणीतगीतः प्रयुक्तगानैः गायकैरित्यर्थः। गीतनिःश्वनैरिति यावत्, न, आच्छादिषत इति विभक्तिविपरिणामेनान्वयः, एवमुत्तरत्रापि योज्यम्। तेऽपि च गायकध्वनयश्च, झर्झरैः वाद्यविशेषैः, तद्‌ध्वनिभिरित्यर्थः। न, आच्छादिषत, ते झर्झरध्वनयः, हुडुक्केन वाद्यविशेषेम, न, आच्छादिषत, सोऽपि हुडुकोऽपि, ढक्कया वाद्यविशेषेण, न, आच्छादि, साऽपि ढक्काऽपि, मर्दलैः मृदङ्गध्वनिभिः, न, आच्छादि, तेऽपि मर्दलानां ध्वयनयोऽपि, ढक्कया न, आच्छादिषत, वादकजानानां तथा वादननैपुण्यं, यथा विपञ्च्यादिध्वनयः प्रत्येकमसंश्लिष्टं श्रुता इति भावः॥ 15.17 ॥
विचित्रवादित्रनिनादमूर्च्छितः सुदूरचारी जनतामुखारवः।
ममौ न कर्णेषु दिगन्तदन्तिनां पयोधिपूरप्रतिनादमेदुरः॥ 15.18 ॥
अन्वयः–विवित्रवादित्रनिनादमूर्च्छितः सूदूरचारी जनतामुखारवः पयोधिपूरप्रतिनादमेदुरः दिगन्तदन्तिनां कर्णेषु न ममौ।
जीवातु–विचित्रेति। विचित्राणि नानाविधानि, वादित्राणि ततादिवाद्यानि `चतुर्विधमिदं वाद्यं वादित्रातोद्यनामकम्’ इत्यमरः, तेषां निनादैः ध्वनिभिः, मूर्च्छितः प्रवृद्धाः सूदूरचारी अतिदूरव्यापी, जनतानां जनसमूहानां, मुकेषु आरव शब्दः, लोकालापकोलाहलः इत्यर्थः। पयोधीनां पूरेषु लहरीषु, प्रतिनादेन प्रतिध्वनिना, मेदुरः मेदस्वी, प्रवृद्धः सन् इत्यर्थः। `भञ्जभासमिदो घुरच्’ इति मिददातोर्घुरच्‌प्रत्ययः। दिगन्तदन्तिनां दिग्गजानां कर्णेषु न ममौ न माति स्मेति अतिशयोक्तिः। वधूमङ्गलस्नानार्थं महान्तं मङ्गलतूर्यघोषणमकार्षरित्यर्थः। उच्चैर्वादितविधवाद्यनिनादेन सह मिश्रितः तत्रत्यजनानां महान् कलकलः कर्णवधिरकारी अभूदिति भावः॥ 15.18 ॥
उदस्य कुम्भीरथ शातकुम्भजाश्चतुष्कचारुत्विषि वेदिकोदरे।
यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्वपयाम्बभूव ताम्॥ 15.19 ॥
अन्वयः–अथ पुरन्ध्रिवर्गः चतुष्कचारुत्विषि वेदिकोदरे शातकुम्भजाः कुम्भीः उदस्य यताकुलाचारम् अथ ताम् अवनीन्द्रजां स्नपयाम्बभूव।
जीवातु–उदस्येति। अथ मङ्गलतूर्यघोषणानन्तरं, पुरन्ध्रिवर्गः पुरवासिनीसङ्घ शातकुम्भजाः सौवर्णीः, कुम्भीः पूर्णकलशीः, उदस्य उन्नमय्य, अथ तदनन्तरं, मङ्गलं यथा तथा मङ्गलगीतपूर्वं यथा तथा वा इत्यर्थः। `मङ्गलानन्तरारम्भ-प्रश्नकार्त्स्न्येष्वथो अथ’ इत्यमरः। चतुष्केण चतुस्तम्भमण्डपेन, चारुत्विषि अतिशयशोभे, वेदिकोदरे वेदिमध्ये, यथाकुलाचारम्, कुलाचारम् अनतिक्रम्य इत्यर्थः, ताम् अवनीन्द्रजां भैमीं, स्नपयाम्बभूव स्नानं कारयामास। `ग्लास्नावनु-’ इत्यादिना स्नातेर्मित्वविकल्पात् ह्रस्वत्वम्॥ 15.19 ॥
विजित्य दास्यादिव वारिहारितामवापितास्तत्कुचयोर्द्वयन ताः।
शिखामवाक्षुः सहकारशाखिनस्त्रपाभरम्लानिमिवानतैर्मुखैः॥ 15.20 ॥
अन्वयः–तत्कुचयोः द्वयेन विजित्य दास्यात् इव वारिहारिताम् अवापिताः ताः आन्तैः मुकैः सहकारशाखिनः शिखां त्रपाभरम्लानिम् इव अवाक्षुः।
जीवातु–विजित्येति। तत्कुचयोः द्वयेन भैमीस्तनद्वयेन, विजित्य दास्यात् दासीकरणादिव, वारिहारितां जलवाहिनीत्वम्, अवापिताः प्रापिताः अपेर्ण्यन्तादणिकर्त्तुः अवनतैः मुकैः द्वारैः, द्वाराधोदेशे इत्यर्थः। आननैश्च, सहकारशाखिनः शिखां चूतपल्लवं, त्रपाभारेण था म्लानिः म्लानता तामिव, चूतपल्लवरूपम्लानतामेव, दास्यजनितलज्जयेति भावः॥ अवाक्षुः अधार्षुः, वहेर्लुङि सिवि वादव्रज-’ इत्यादिना वृद्धिः, `होढः’ इति ढः, `षढोः कः सि’ इति कत्वे `इण्‌कोः इति षत्वं, `सिजभ्यस्त-’ इत्यादिना झेजु’सि अडागमः। प्रतिगृहद्वारप्रान्ते सहकारशाखाच्छादितमुखपूर्णकुम्भाः संस्थापिता अभूवन् इति भावः। लोके दासीकृताः स्त्रियो नतानना म्लानमुखकान्तयः जलाहरणादिकर्म कुर्वन्तीति दृश्यते। अत्र दास्यादिवेति हेतूत्प्रेक्षा, म्लातिमिवेति गुणस्वरूपोत्प्रेक्षा, तयोरङ्गाङ्गिभावेन सजातीयसङ्करः॥ 15.20 ॥
असौ मुहुर्जातजलाभिषेचना क्रमाद्‌दुकूलेन सितांशुनोज्ज्वला।
द्वयस्य वर्षाशरदां सदातनीं सनाभितां साधु बभ्रन्ध सन्धया॥ 15.21 ॥
अन्वयः–मुहुर्जातजलाभिषेचना सितांशुना दुकूलेन उज्ज्वला असौ क्रमात् वर्षाशरदां द्वयस्य सदातनी सनाभितां साधु बबन्ध।
जीवातु–असाविति। असौ भैमी, मुहुः जातं जलाभिषेचनं यस्याः सा तादृशी जलाभिषिक्ता सती, तथा सितांशुना शुभ्रसूत्रघटितेन, दुकूलेन पट्टवस्त्रेण, सितः शुभ्रः अंशुः किरणो यस्य तेन चन्द्रेण च, उज्ज्वला शोभिता, सतौ, क्रमात् वर्षाशरदां द्वयस्य सन्धया सन्धिस्थलेन, वर्षर्त्तुशेषरद्दतुप्रारम्भरूपर्तुद्वयमध्यवर्त्तिकालेनेत्यर्थः। सदातनीं सनातनीं, सनाभितां तुल्यत्वं, साधु यथा तथा बबन्ध दधार। वर्षर्त्तुरपि जलाभिषिक्तः शरच्च शीतांशूज्ज्वलो भवतीत्युपमा॥ 15.21 ॥
असौ प्रभिन्नाम्बुददुर्दिनीकृतां निनिन्द चन्द्रद्युतिसुन्दरीं दिवम्।
शिरोरुहौघेण घनेन संयुता तथा दुकूलेन सितांशुनोज्ज्वला॥ 15.22 ॥
अन्वयः–घनेन शिरोरुहौघेण संयुता तथा सितांशुना दुकूलेन उज्जवला असौ प्रभिन्नाम्बुदुर्दिनीकृता चन्द्रद्युतिसुन्दरीं दिवं निनिन्द।
जीवातु–असाविति। घनेन सान्द्रेण, शिरोरुहौघेण केशपाशेन, घनेन मेघेन च, संयुता विशिष्टा, इति वर्षासाम्योक्तिः, तथा सितांशुना सुभ्रसूत्रघटितेन दुकूलेन पट्टवस्त्रेण, उज्ज्वला शोभिता, शीतांशुना चन्द्रेण च, उज्ज्वला, इति शरत्साम्योक्तिः असौ भैमी, प्रभिन्नैः वर्षुकैः, अम्बुदैः गाठकृष्णवर्णमेघैः दुर्दिनीकृताम् अभिवृष्टामित्यर्थः। तथा चन्द्रद्युत्या चन्द्रकान्त्या, सुन्दरीं दिवं नभस्थलीं, निनिन्द तदुपमा अभूदित्यर्थः। कदर्थयति निन्दतीति सादृश्यवाचकेषु दण्डी इति उपमालङ्कारः॥ 15.22 ॥
विरेजिरे तच्चिकुरोत्कराः किराः क्षणं गलन्निर्मलवारिविप्रुषाम्।
तमःसुहृच्चामरनिर्जयार्जिताः सिता वमन्तः खलु कोर्त्तिमौक्तिकाः॥ 15.23 ॥
अन्वयः–क्षणं गलन्निर्मलवारिविप्रुषां किराः तच्छिकुरोत्कराः तमः-सुहृच्चामरनिर्जया अर्जिताः सिताः कीर्त्तिमौक्तिकाः वमन्तः खलु विरेजिरे।
जीवातु–विरेहिरे इति। क्षणं क्षणमात्रं, गलन्तयः स्रवन्त्यः, निर्मलाः स्वच्छाश्च, याः वारिविप्रुषः तोयबिन्दवः तासां, कृद्योगात् कर्मणि षष्ठी। किरन्तीति किराः विक्षेपकाः, स्वच्छजलबिन्दुस्राविण इत्यर्थः। `इगुपधज्ञा सुहृदः तमोनिभस्य, चामरस्य बालव्यजनस्य, कृष्णवर्णचामरस्येत्यर्थः। निर्जयेन `अभाषितपुंस्काच्च-’ इति कात् पूर्वस्य विकल्पादिकारः. कीर्त्तय एव मौक्तिकाः मुक्ताफलानि, वमन्तः उद्गिरन्त इव, इत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्‌गम्या, अथवा खलुशब्द एव इवार्थे प्रयुक्तः तेन वाच्यत्प्रेक्षैव, विरेजिरे खलु। `फणाञ्च सप्तानाम्’ इत्येत्वाभ्यासलोपौ॥ 15.23 ॥
म्रदीयसा स्नानजलस्य वाससा प्रमार्जनेनाधिकमुज्जवलीकृता।
अदभ्रमभ्राजत साऽश्मशाणनात् प्रकाशरोचिः प्रतिमेव हेमजा॥ 15.24 ॥
अन्वयः-म्रदीयसा वाससा स्नानजलस्य प्रमार्जनेन अधिकम् उज्ज्वलीकृता सा अश्मशाणनात् प्रकाशरोचिः हेमजा प्रतिमा इव अदभ्रम् अभ्राजत।
जीवातु–म्रदीयसेति। म्रदीयसा मृदुतरेण, वाससा गात्रमार्जनवस्त्रेण, स्नानजलस्य स्नानहेतोः अङ्गसङ्गिनः जलस्य, प्रमार्जनेन अपाकरणेन, अधिकम् उज्ज्वलीकृता विमलीकृता, सा भैमी, अश्मशाणनात् अश्मना उत्तेजनोपलेन, शाणनात् उद्धर्षणात् प्रकाशम् उज्ज्वलं, रोचिः दीप्तिः यस्याः सा तादृशी, हेमजा हैमी, प्रतिमा इव अदभ्रं बहुलम्, अभ्राजत अराजत॥ 15.24 ॥
तदा तदङ्गस्य बिभर्त्ति विभ्रमं विलोपनामोदमुचः स्फुरद्रुवः।
दरस्फुटत्काञ्चनकेतगीदलात् सुवर्णमभ्यस्यति सौरभं यदि॥ 15.25 ॥
अन्वयः–यदि सुवर्णं दरस्फुटत्काञ्चनकेतकीदलात् सौरभम् अभ्यस्यति तदा विलेपनामोदमुचः स्फुरद्रुचः तदरद्रुचः तदङ्गस्य विभ्रमं विभर्त्ति।
जीवातु–तदेति। सुवर्ण कर्तृ, दरस्फुटतः ईषद्विकसतः। `इषदर्थे दराव्ययम्’ इति शाश्वतः। काञ्चनकेतकीदलात् काञ्चनवर्णकेतकीपत्रात्। `आख्यातोपयोगे’ इत्यपादानत्वात् पञ्चमी। सौरभम् आमोदम्, अभ्यस्यति यदि अधीते चेत्, गृह्णाति चेदित्यर्थः। तदा तर्हि, विलोपनेन अङ्गरागेण, या आमोदः मनोज्ञगन्धः तं मुञ्चति किरतीति तन्मुचः, स्फुरद्रुचः ुज्ज्वलकान्तेः,तदङ्गस्य चन्दनादिसुगन्धिद्रव्यचर्चितदमयन्तीकलेवरस्य, विभ्रममिब विभ्रमं शोभाम्। `विभ्रमः संशये भ्रान्तौ शोभायाम् इति वैजयन्ती। बिभर्त्ति। तथा च तदङ्गस्य सौरभगुणेन तद्रहितात् सुवर्मादाधिक्यकथनाद्वय्तिरेकस्तावदेकः, यदिशब्देन सुवर्मस्य सौरभम्न्धेऽपि सम्भावनया तत्सम्बन्धोक्तेरतिशयोक्तिभेदः, विभ्रममिव विभ्रममिति सादृश्याक्षेपादसम्भवाद्वस्तुसम्बन्धरूपो निदर्शनाभेदः, तदङ्गोपमानसुवर्मस्योपमेयत्वकल्पनात् प्रतीपालङ्कारः, ते चाङिगनाङ्गत्वेन तेषां सङ्कर इति विवेकः॥ 15.25 ॥
अवापितायाः शुचि वेदिकान्तरं कलासु तस्याः सकलासु
क्षणेन सख्यश्चिरशिक्षणस्फुटं प्रतिप्रतीकं प्रतिकर्म पण्डिताः॥ 15.26 ॥
अन्वयः–सकलासु कालासु पण्डिताः तस्याः सख्यः शुचि वेदिकान्तरम् अवापितायाः तस्याः प्रतिप्रतीकं प्रतिकर्म चिरशिक्षणस्फुटं क्षणेन निर्ममुः।
जीवातु अवापिताया इति। सकलासु सकासु सिल्पविद्यासु, `कला शिल्पे कालभेदेऽपि’ इत्यमरः, पण्डिताः कुशलाः, सख्यः शुचि शुद्धं, वेदिकाऽन्तरं स्नानवेदेः अन्यां वेदिम् अवापितायाः नीतायाः, तस्याः दमयन्त्याः, प्रतिप्रतीकं प्रत्यवयवम्, `अङ्गं प्रतीकोवयवः’ इत्यमरः, प्रतिकर्म प्रसाधनं, `प्रतिकर्म प्रसाधनम्’ इत्यमरः। चिरशिक्षणेन चिराभ्यासेन, क्षणेन क्षणकालेनैव, स्फुटं, सुस्पष्टं निर्ममुः चक्रुरित्यर्थः॥ 15.26 ॥
विनाऽपि भूषामवधिः श्रियामियं व्यभूषि विज्ञाभिरदर्शि चाधिका।
न भूषयैषाऽतिचकास्ति किन्तु साऽनयेति कस्यास्तु विचारचातुरो?॥ 15.27 ॥
अन्वयः–भूषां विना अपि श्रियाम् अवधिः इयं विज्ञाभिः व्यभूषि अधिका च अदर्शि, एषा भूषया न अतिचकास्ति कुंतु सा अनया–इति विचारचातुरी कस्य अस्तु।
जीवातु–विनेति। भूषां विनाऽपि अलङ्कारमन्तरेणाऽपि, श्रियां शोमानाम्, अवधिः सीमाभूताः, इयं भैमी, विज्ञाभिः अलङ्करणे निपुणाभिः `प्रवीणे निपुणाभिज्ञ-विज्ञनिष्णातशिक्षिताः’ इत्यमरः, व्यभूषि विभूषिता, तथा अधिका पूर्वास्थातोऽप्युत्कृष्टा, अदर्शि दृष्टा च, तादृशी अमानीत्यर्थः। वस्तुतस्तु एषा भैमी, भूषया नातिचकास्ति नात्यर्थं शोभते, किन्तु सा भूषैव, अनया, भैम्या, अतिचकास्तीति विचारचातुरी विमर्शनकौशलं, भूषैव भैम्या अतिचकास्तीति निश्चयनैपुण्यमित्यर्थः, कस्यास्तु? न कस्यापीत्यर्थः। अनयैव भूषणे भूषित न तु भूषणेनेयम् इति निश्चेतुं सामर्थ्याभावादेव भूषमानामधिकशोभाकारित्वमिति सर्वासां भ्रान्तिरिति भावः॥ 15.27 ॥
विधाय बन्धूकपयोजपूजनं कृतां विधोर्गन्धफलोबलिश्रियम्।
निनिन्द लब्धाधरलोचनार्चनं मनःशिलाचित्रकमेत्य तन्मुखम्॥ 15.28 ॥
अन्वयः–लब्धाधरलोचनार्चनं तन्मुखं मनःशिलाचित्रकम् एत्य विधोः बन्धूकपयोजपूजनं विधाय कृतां गन्धफलीबलिश्रियं निनिन्द।
जीवातु–विधायेति। लब्धम् अधिमतम्, अधराभ्यामोष्ठाभ्यां, लोचनाभ्याञ्च अर्चनं येन तत् तादृशम् अधरलोचनाभ्यां रमणीयमित्यर्थः। तन्मुखं भैमीवदनं कर्तृ मनःशिलया पीतवर्णधातुविशेषेण, चित्रकं विधोः, चन्द्रस्य, बन्धूकेन बन्धूकचित्रकाणि विशेषकम्’ इत्यमरः, एत्य प्राप्य, विधोः चन्द्रस्य, बन्धूकेन बन्धूजीवकाख्यरक्तवर्णकुसुमेन, पयोजाभ्यां नीलोत्पलाभ्याञ्च, पूजनं विधाय कृत्वा, कृतां गन्धफल्या गन्धफली स्यात्’ इत्यमरः, बलेः पूजनस्य, श्रियं शोभां, निनिन्द, अधराद्यञ्चितं तन्मुखं बन्धूकाद्यञ्चितं चन्द्रबिम्बमिव बभौ इत्यर्थः॥ 15.28 ॥
महीमघोनां मदनान्धतातमीतमःपटारम्भणतन्तुसन्ततिः।
अबन्धि तन्मूर्द्धजपाशमञ्जरी कयाऽपि धूपग्रहधूपकोमला॥ 15.29 ॥
अन्वयः–महीमघोनां मदनान्धतातमीतमः पटारम्भणतन्तुसन्ततिः धूपग्रहधूमकोमला तन्मूर्द्धजपाशमञ्जरी कया अपि अबन्धि।
जीवातु–महीति। महीमघोनां भूदेवेन्द्राणां, या मदनान्धता काममूढता, सैव तमी रजनी `रजनी यामिनी नाम’ इत्यमरः। तस्याः तमः एव पटः वस्त्रं तस्य आरम्भणे निर्माणविषये, तन्तुसन्ततिः तदर्थं तन्तुपुञ्जवत् स्थिता इत्युत्प्रेक्षा, धूपग्रहस्य धूमग्रहणसाधनीभूतपात्रविशेषस्य, यः धूमः दह्यमानकर्पूरचन्दनादिजन्मयसुगन्धिधूमः तेन कोमला रम्या, तन्मूर्द्धजपाशमञ्जरी, दमयन्तीकेशपाशवल्लरी कयाऽपि सख्या, अबन्धि बद्धा॥ 15.29 ॥
पुनः पुनः काचन कुर्वती कचच्छटाधिया धूपजधूमसंयमम्।
सखीस्मितैस्तर्किततन्निजभूमा बबन्ध तन्मूर्द्धजचामरं चिरात्॥ 15.30 ॥
अन्वयः–कचच्छटाधिया धूपजधूमसंयमं पुनः पुनः कुर्वती काचन सखी स्मितैः तर्किततन्निभ्रमा तन्मूद्धजचामरं चिरात् बबन्ध।
जीवातु–पुनः पुनरिति। कचच्छटाधिया भैमीकेशपाशभ्रान्त्या, धूपजधूमस्य पुनः पुनः संयमं बन्धनं, कुर्वती इति भ्रान्तिमदलङ्कारः। काचन काऽपि सखी, सखीनां, स्मितैः तर्कितः ऊहितः सः पूर्वोक्तः, निजभ्रमः यया सा तादृशी सती, चिरात् बहुकालेन, तस्या मूर्द्धजाः चामरमिव तत्, बबन्ध॥ 15.30 ॥
बलस्य कृष्टेव हलेन भाति या कलिन्दकन्या घनभङ्गभङ्गुरा।
तदाऽर्पितैस्तां करुणस्य कुड्मलैर्जहास तस्याः कुटिला कचच्छटा॥ 15.31 ॥
अन्वयः–कुटिला तस्याः या कचच्छटा बलस्य हलेन कृष्टा धनभङ्गभङ्गुरा कलिन्दकन्या इव भाति, तदा अर्पितैः करुणस्य कुड्मलैः तां जहास।
जीवातु–बलस्येति। या कलिन्दकन्या कालिन्दी, बलस्य बलभद्रस्य, हलेन लाङ्गलेन, कृष्टेन अद्यापि आकर्षणविशष्टेव, घनैः निरन्तरैः, भङ्गैः तरङ्गैः, भङ्गुरा कुटिला, भाति तस्याः दमयन्त्याः कुटिला वक्रा, कचच्छटा केशपाशः, तदा प्रसाधनकाले, अर्पितैः शिरसि न्यस्तैः, करुणस्य वृक्षविशेषस्य, `करुणस्तु रसे वृक्षे’ इति विश्वः। कुड्मलैः मुकुलैः, तां कालिन्दीं, जहास उपहसितवतीवेत्यर्थः। व्यञ्जकाप्रयोगाद् गम्योत्प्रेक्षा।ष यमुना बलरामस्य हलाकर्षणजन्यभङ्गेन पुष्पशून्या च, किन्तु भैमोकचच्छटा स्वभाववक्रा पुष्पार्चिता चेति उपहासो युक्त इति भावः॥ 15.31 ॥
धृतैतया हाटकपट्टिकाऽलिके बभूव केशाम्बुदविद्युदेव सा।
मुखेन्दुसम्बन्धवशात् सुधाजुषः स्थिरत्वमूहे नियतं तदायुषः॥ 15.32 ॥
अन्वयः–एतया अलिके धृता सा हाटकपट्टिका एव केशाम्बुदविद्युत् बभूव, ऊहे, मुखेन्दुसम्बन्धवशात् सुधाजुषः तदायुषः नियतं स्थिरत्वम्।
जीवातु–धृतेति। एतया भैम्या, अलिके ललाटे `ललाटमलिकं गोधिः’ इत्यमरः। धृता सा अतीव रम्यदर्शना, हाटकपट्टिका सुवर्णपट्टः, केश एव अम्बुदः मेघः, तस्य विद्युदेव बभूव। विद्युच्चेत् कथं स्थिरत्वम्? तत्राह-मुखेन्दुसम्बन्धवशात् मुखचन्द्रेण सह संस्पर्शात्, सुधाजुषः अमृतपायिनः, तस्याः विद्युतः समबन्धिनः, आयुषः जीवितकालस्य, नियतं स्थिरत्वं चिराय स्थायित्वम्, ऊह उत्प्रेक्षे अमृतपानात् विद्युदायुषः स्तइरत्वकथनेन विद्युतोऽपि स्थिरत्वमिति भावः। `उपसर्गदस्यत्युह्योर्वेति वाच्यम्’ इत्यात्मनेपदमं्॥ 15.32 ॥
ललाटिकासीमनि चूर्णकुन्तला बभुस्तमां भीमनरेन्द्रजन्मनः।
मनःशिलाचित्रकदीपसम्भवा भ्रमनरेन्द्रात् कज्जलधूमवल्लयः॥ 15.33 ॥
अन्वयः–ललाटिकासीमनि भीमनरेन्द्रजन्मनः चूर्णकुन्तलाः मनःशिलाचित्रकदीपसम्भवाः भ्रमीभृतः कज्जलवूमवल्लयः (इव) बभुस्तमाम्।
जीवातु–ललाटिकेति। भीमनरेन्द्रात् जन्म यस्याः तस्याः भैम्याः, अवर्ज्यो बहुव्रीहिव्यधिकरणो जन्माद्युत्तरपदे’ इति वामनः। ललाटिका ललाटस्य अलङ्कारः, `कर्णललाटात् कनलङ्कारे’ इति कन्‌प्रत्ययः। तस्याः सीमनि प्रान्ते, चूर्णकुन्तलाः अलकाः, मनःशिलायाः धातुविशेषस्य, चित्रकं तिलकं, स एव दीपः प्रदीपः मनःशिलायाः पिङ्गलवर्णत्वात् तथा नलस्य कामोद्दीप कत्वात् चित्रके दीपत्वारोपणमिति भावः. ततः सम्भवाः जाताः, भ्रमीं भ्रमं विभ्रतीति भ्रमीभृतः भ्रमन्त्यः, कज्जलस्य धूमः कज्जलोत्पादकधूमः, तस्य वल्लयः तलाः इव, श्रेण्य इवेत्यर्थ इत्युत्प्रेक्षा, बभुस्तमाम् अतिशयेन बभुः तिङश्च’ इति तमप्प्रत्यये `किमेत्तिङव्ययघात्-’ इत्यनेनामुप्रत्ययः॥ 15.33 ॥
अपाङ्गमालिङ्ग्य तदीयमुच्चकैरदीपि रेखा जनिताऽञ्जनेन या।
अपाति सूऊं तदिव द्वितीयया वयःश्रिया वर्द्धयितुं विलोचने॥ 15.34 ॥
अन्वयः–अञ्जनेन जनिता या रेखा तदीयम् अपाङ्गम् आलिङ्ग्य उच्चकैः अदीपि, तत् द्वितीयया वयःश्रिया विलोचने वर्द्धयितुं सूत्रम् इव अपाति।
जीवातु–अपाङ्गमिति। अञ्जनेन जनिता या रेखा तदीयं दमयन्तीयम्, अपाङ्गं नेत्रप्रान्तम्, आलिङ्ग्य स्पृष्ट्वा, उच्चकैर्नितरात्, अदीपि आयतत्वात् नेत्राद्‌बहिः अपाङ्गपर्यन्तं प्रसारिता सती रराज, तत् सा रेखेत्यर्थः। विधेयसूत्रापेक्षया नपुंसकनिर्देशः, अथवा तत् रेखारूपमञ्जनमित्यर्थः। द्वितीयया वयःश्रिया यौवनसम्पदा कर्त्र्या, विलोचने वर्द्धयितुं वाल्यकालापेक्षया दीर्घीकर्तुं, सूत्रम् अपातीव पातितमिव इत्युत्प्रेक्षा पततेर्ण्यन्तात् कर्मणि लुङ्, एतावत् मे क्षेत्रमिति निश्चित्य पातितं सीमासूत्रमिव सा अञ्जनरेखा विरराजेत्यर्थः।
अनङ्गलीलाभिरपाङ्गधाविनः कनीनिवानीलमणेः पुनः पुनः।
तमिस्रवंशप्रभवेण रश्मिनास्वपद्धतिः सा मरञ्जिनाञ्जनैः?॥ 15.35 ॥
अन्वयः–अनङ्गलीलाभिः पुनः पुनः अपाङ्गधाविनः कनीनिकानीलमणेः तमिस्रवंशप्रभवेण रश्मिना किं सा स्वपद्धतिः अरञ्जि, अञ्जनैः न?
जीवातु–अनङ्गेति। अनङ्गलीलाभिः कटाक्षपातरूपस्मरविलासहेतुभिः, पुनः पुनः अपाङ्गधाविनः नेत्रान्तगामिनः, कनीनिका तारका, सा एव नीलमणिः इन्द्रनीलोपलः तस्य सम्बन्धि, तमिस्रवंशप्रभवेण तमः कुलसम्भवेन, असितेनेत्यर्थः, रश्मिना प्रभया, सा कज्जलरेखारूपा, स्वपद्धतिः रश्मिमार्गः, अरञ्जिरञ्जिता किम्? अञ्जनैः कज्जलैः, न? अरञ्जीति सापह्नवोत्प्रेक्षा॥ 15.35 ॥
असेविषातां सुषमां विदर्भजादृशाववाप्याञ्जनरेखयाऽन्वयम्।
भुजद्वयज्याकिणपद्धतिस्पृशोः स्मरेण बाणीकृतयोः पयोजयोः॥ 15.36 ॥
अन्वयः–विदर्भजासदृशौ अञ्जनरेखया अन्वयम् अवाप्य भुजद्वयज्याकिणपद्धतिस्पृशोः स्मरेण बाणीकृतयोः पयोजयोः सुषमाम् असेविषाताम्।
जीवातु–असेविषातामिति। विदर्भजादृशौ वैदर्भीनेत्र, अञ्जनरेशया सह अन्वयं सम्बन्धम्, स्मरस्य प्राप्य, भुजद्वेय ये ज्याकिणपद्धती ज्याघातरेखे, तत्स्पृशोः तद्‌युक्तोयोः, एतेन स्मरस्य सव्यसाचित्यं गम्यते। स्मरेण बाणीकृतयोः पयोजयोः नीलोत्पलयोः, सुषमामिव सुषमां परमशोभाम्, असेविषातां प्राप्नुताम्। साञ्जनरेखे तद्‌दृशौ ज्याघातरेखास्पृशौ स्मरसन्धितनीलोत्पलबाणौ इव रेजतुरित्यर्थः। असम्भवाद्वस्तुसम्बन्धरूपो निरदर्शनाभेदा॥ 15.36 ॥
तदक्षितत्कालतुलागसा नखं निखाय कृष्णस्य मृगस्य चक्षुषी।
विधिर्यदुद्धर्तुमियेष तत्तयोरदूरवर्त्तिक्षतता स्म शंसति॥ 15.37 ॥
अन्वयः–विधिः तदक्षितत्कालतुलागसा नखं निखाय कृष्णस्य मृगस्य चक्षुषी उद्धर्त्तुम् यत् इयेष, तत् तयोः अदूरवर्त्तिक्षतता शंसतिस्म।
जीवातु–तदिति। तस्याः दमयन्त्याः, अक्षिभ्यां सह मृगनेत्रापेक्षया श्रेष्ठाभ्यां नेत्राभ्यां सहेति भावः। तत्काले चक्षुःप्रसाधनकाले, तुला मृगनेत्रयोः सादृश्यं, तदेव आगः अपराधः, तेन हेतुना, विधिः वेधा, कृष्मस्य मृगस्य कृष्णसाराख्यहरिणस्य, चक्षुषी नखं निखाय निक्षिप्य, उद्धर्त्तुं नखेन उत्पाटयितुम्, इयेष ऐच्छदिति यत्, तत् उद्धारैषणं कर्म तयोः मृगचक्षुषोः अदूरवर्तिक्षतता निकटवर्त्तिक्षतत्व कर्त्री, शंसति स्म शशंस। मृगस्य ईक्षणसमीपस्थस्वाभाविकक्षताकारचिह्ने पूर्वोक्तापराघप्रयुक्तविधिनखोत्पाटक्षतत्वमुत्प्रेक्ष्यते॥ 15.37 ॥
विलोचनाभ्यामतिमात्रपीडितेऽवतंसनीलाम्बुरुहद्वयीं खलु।
तयोः प्रतिद्वन्द्विधियाऽधिरोपयाम्बभूपतुर्भीमसुताश्रुती ततः॥ 15.38 ॥
अन्वयः–खलु भीमसुताश्रुती विलोचनाभ्याम् अतिमात्रपीडिते ततः अवतंसनीलाम्बुरुहद्वयीं तयोः प्रतिद्वन्दिधिया अधिरोपयाम्बभूवतुः।
जीवातु–विलोचनाभ्यामिति। भीमसुताश्रुती भैमीश्रोत्रद्वयं, विलोचनाभ्याम् अतिमात्रं पीडिते आकर्णविस्तारितया अत्यन्तमाक्रन्ते सत्यौ, ततः स्वपॣडनख्पकारणात्, अवतंसनीलाम्बुरुहद्वयीं, कर्णभूषणीकृतनीनोत्पलयुगलं, तयोः विलोचनयोः, प्रतिद्वन्दिवधिया प्रतिपक्षबुद्ध्या, अधिरोपयाम्बभूवतुः आरोपयामासतुः खलु इत्युत्प्रेक्षा, बलिना पीडितस्तुल्यबलं तत्प्रतिपक्षमाश्रयते इति भावः॥ 15.38 ॥
धृतं वतंसोत्पलयुग्ममेतया व्यराजदस्यां पतिते दृशाविवि।
मनोभुवाऽऽन्ध्यं गमितस्य पश्यतः स्थिते लगित्वा रसिकस्य कस्यचित्॥ 15.39 ॥
अन्वयः–एतया धृतं वतंसोत्पलयुग्मम् अस्यां पतिते लगित्वा स्थिते मनोभुवान्ध्यं गमितस्य पश्यतः कस्यचित्रसिकस्य दृशौ इव व्यराजत्।
जीवातु–धृतमिति। एतया भैम्या, धृतं वतंसोत्पलयुग्मं कर्णभूषणीकृतनीलोत्पलद्वयम्, अस्यां भैम्यां, पतिते निक्षिप्ते, तथा लगित्वा तत्रैव आसज्य स्थिते च, पश्यतः भैमीं तत्कणौं वा विलोकयतः, अत एव मनोभुवा कामेन, आन्ध्यं गमितस्य तदेकासक्तीकृतस्य इत्यर्थः। स्थानान्तरे नेत्रगमनादेवास्य अन्धत्वं बोद्धव्यम्। कस्यचित् रसिकस्य रसवतः, रागिणः इत्यर्थः। `अतइनिठनौ’ इति ठन्-प्रत्ययः। दृशौ इव व्यराजत् विरराज इत्युत्प्रेक्षा॥ 15.39 ॥
विदर्भसुभ्रूश्रवणावतंसिकामणीमहःकिंशुक्रककार्मुकोदरे।
उदोतनेत्रोत्पलबाणसम्भृतिर्नलं परं लक्ष्यमवैक्षत स्मरः॥ 15.40 ॥
अन्वयः–विदर्भसुभ्रुश्रवणावतंसिकामणीमहऋकिंशुककार्मुकोदरे उदीतनेत्रोत्पलबाणसंभृतिः स्मरः परं नलं लक्ष्यम् अवैक्षत।
जीवातु–विदर्भेति। स्मरः विदर्भसुभ्रुवः वैदर्भ्याः श्रवणावतंसिका कर्णावतंसीभूता, या मणी, `कृदिकारात्-’ इतीकारः। तस्या महः प्रभा एव, किंशुककार्मुकं पलाशकुसुमचापं, तस्य उदरे मध्ये, उदीता उद्‌गता, प्रतिफलितेत्यर्थः। नेत्रस्य एव उत्पलबाणस्य सम्भृतिः सम्भरणं, नेत्ररूपनीलोत्पलबाणसम्भारः इत्यर्थः। यस्य सा तादृशः सन्; पलाशकुसुमवनुषि समारोपितनीलोत्पलशरः सन्नित्यर्थः। नलं परं नलमेव, लक्ष्यम् अवैक्षत प्रतीक्षते स्म। नल आगत्य भैम्या विभूषितकर्णने6सौन्दर्य दर्शनमात्रेणैव कामबाणविद्धो भविष्यतीति भावः॥ 15.40 ॥
अनाचरत्तथ्यमपृषविचारणां तदाननं कर्णलतायुगेत किम्।
बबन्ध जित्वा मणिकुण्डले विधू द्विचन्द्रबुद्ध्या कथितावसूयकौ?॥ 15.41 ॥
अन्वयः–तथ्यमृषाविचारिणाम् अनाचरत् तदाननं किं द्विचन्द्रबुद्‌ध्या असूयकौ कथितौ मणिकुण्डले विधू जित्वा कर्णलतायुगेन बबन्ध?
जीवातु–अनाचरदिति। तथ्यमृषाविचारणाम् अनाचरत् सौन्दर्यमदात् सत्यासत्यविमर्शम् अकुर्वत् तदानन कर्तृ, द्विचन्द्रबुद्ध्या द्वौ चन्द्रौ इमौ इति भ्रान्त्या, कथितौ सूचितौ असूयकौ स्वद्वेषिणौ, आननस्योत्कर्षमसहमानावित्यर्थः। मणिकुण्डले एव विघू चन्द्रौ, जित्वा कर्णलतयोः युगेन बबन्ध किम्? इति मिथ्याचन्द्रयोरेव बन्धनमुत्प्रेक्षते। जितस्य शत्रोर्बन्धंन मुचितमिति भावः॥ 15.41 ॥
अवादि भैमी परिधाप्य कुण्डले वयस्ययाऽऽभ्यामभितः समन्वयः।
त्वदाननेन्दोः प्रियकामजन्मनि श्रयत्ययं दौरधुरीं धुरं ध्रुवम्॥ 15.42 ॥
अन्वयः–वयस्यया कुण्डले, परिधाप्य भैमी अवादि-त्वदाननेन्दोः अभितः आभ्याम अयं समन्वयः प्रियकामजन्मनि दौरधुरीं धुरं ध्रुवं श्रयति।
जीवातु–अवादीति। वयस्यया सख्या, कुण्डले मणिकुण्डले, परिधआव्य आरोप्य, भैमी अवादि गदिता। किमिति? हे भैमि! आभ्यां मणिकुण्डलाभ्यां सह, अभितः उभयतः, त्वदाननेन्दोः तव मुखचन्द्रस्य, अयं समन्वयः समायोगः, प्रियस्य नलस्य कामजन्मनि त्वयि रागोदये, दौरधुरीं दुरधुराख्ययोगसम्बन्धिनीं धुरं भारं, श्रयति फलदानभारं वहति, ध्रुवमित्युत्प्रेक्षा। चन्द्रस्यार्कातिरिक्तोभयग्रहमध्यगते दौरधुरयोगः; यदाह वराहमिहिरः- `हित्वाऽर्कं सुनयानयाद् दुरधुरा स्वान्त्योभयस्थैर्ग्रहैः शीतांशोः’ इति॥ 15.42 ॥
निवेशितं यावकरागदीप्तये लगत्तदीयाधरसीम्नि सिक्थकम्।
रराज तत्रैव निवस्तुमुत्सुकं मधूनि निधूय सुधासधर्मिणि॥ 15.43 ॥
अन्वयः–तदीयाधरसीम्नि यावकरागदीप्तये निवेशितं लगत् सिक्थकं मधूनि निर्धूय सुधासधार्मिणि तत्र एव निवस्तुम् उत्सुकं रराज।
जीवातु–निवेशितमिति। तदीयाधरस्य दमयन्तीयाधरस्य, सीम्नि सीमप्रदेशे, यावकरागस्य ्लक्तकरागस्य, दीप्तये स्फुरणाय, निवेशितं न्यस्तम्, अत एव लगत् दृढ्भावेन संसजत्, सिक्थकं मधूच्छिष्टं, मधुकोषजमिति यावत्। मधूनि क्षौद्राणि, निर्घूय निरस्य, सुधया समानः धर्मः स्वादुतारूपः यस्याः सा सुधासधर्मा। `नामगोत्ररूपस्थानवर्णवयोवचनधर्मजातीयेषु समानस्य सभवाः’ इति वर्द्धमानसूत्रम्। `समानस्य छन्दस्यमूर्द्धप्रभृत्युदर्केषु’ इत्यत्र `समानस्येति योगो विभज्यते, तेन सपक्षः साधर्म्य सजातीयमित्यादि सिद्धमिति काशिका’। `धर्मादिनिच् केवलात्’ इत्यनिच्। `मनः’ इति मननन्तान्न ङीप्। तस्यां सुधाधर्मिणि अमृतसदृश्यां, तत्र एव तदीयाधरसीम्नि एव, निवस्तुं स्थायिभावेन अवस्थातुम्, उत्सुकम् आग्रहान्वितं सत्, रराज। मधूच्छिष्टसम्बन्धिक्षौद्रापेक्षया तदीयाधरस्योत्कृष्टत्वादिति भावः। अन्यथा कथम् अत्रैव लगेदित्युत्प्रेक्षा। अन्योऽपि उत्कृष्टस्तानलाभे चिरपरिचितमपि स्वस्थानमुत्सृजति इति दृश्यते॥ 15.43 ॥
स्वरेण वीणेत्यविशेषणं पुराऽस्फुरत्तदीया खलु कण्ठकन्दली।
अवाप्य तन्त्रीरथ सप्त मौक्तिकासरानराजत् परिवादिनी स्फुटम्॥ 15.44 ॥
अन्वयः–तदीया कण्ठकन्दली पुरा स्वरेम वीणा इति खलु अस्फुरत्, अथ सप्त मौक्तिकासरान् तन्त्रीः अवाप्य स्फुटं परिवादिनी अराजत्।
जीवातु–स्वरेणेति। तदीया दमयन्तीया, कण्ठकन्दली कण्ठनालः, कण्ठस्य कलध्वनिरिति वा। `कलध्वनौ कन्दली तु मृगगुल्मप्रभेदयोः’ इति मेदिनी। पुरा पुर्वं, स्वरेण ध्वनिना, वीणेत्यविशेषणं साधारणतः वीणेति निर्विशेषं, नामरूपविशेषशून्यं यथा तथा इत्यर्थः। अस्फुरत् वीणा इत्येव अबोधीत्यर्थः खलु इति निश्चये। अथ वीणैवेति स्फुरणानन्तरं, सप्त मौक्तिकासरान् सप्त समुक्तायष्टीरेव, तन्त्रीः वीणागुणान्; अवाप्य परिवादिनी परि वादिन्याक्या वीणा सती। `वीणा तु वल्लकी। विपञ्ची सा तु तन्त्रीभिः सप्तभिः परिवादिनी’ इत्यमरः। अराजत्, स्फुटम् इयुत्प्रेक्षायाम्॥ 15.44 ॥
उपास्यमानाविव शिक्षितुं ततो मृदुत्वमप्रौढमृणालनालया।
विरेजतुर्माङ्गलिकेन संयुतौ भुजौ सुदत्या वलयेन कम्बुनः॥ 15.45 ॥
अन्वयः–ततः माङ्गलिकेन कम्बुनः वलयेन संयुतौ सुदत्याः भुजौ अप्रौढमृणालनालया मृदुत्वं शिक्षितुम् उपास्यामानौ इव विरेजतुः।
जीवातु–उपास्यमानाविति। ततः कण्ठभूषणानन्तरं, माङ्गलिकेन मङ्गलार्थेन। `प्रयोजनम्’ इति ठञ्। कम्बुनः शङ्खस्य, `शङ्खः स्यात् कम्बुरस्त्रियाम्’ इत्यमरः। वलयेन संयुतौ, सुदत्याः तस्याः दमयन्त्याः भुजौ अप्रौढमृणालनालया बालविसकाण्डदण्डेन, मृदुत्वं मार्दवं, शिक्षितुम् अभ्यसितुम्, उपास्यमानौ सेव्यमानौ इव, विरेजतुः इत्युत्प्रेक्षा॥ 15.45 ॥
पदद्वयेऽस्या नवयावरञ्जना जनैस्तदानीमुदनीयतार्पिता।
चिराय पद्मौ परिरभ्य जाग्रती निशीव विश्लिष्य नवा रविद्युतिः॥ 15.46 ॥
अन्वयः–तदानीम् अस्याः पदद्वये अर्पिता नवयावरञ्जना निशि विश्लष्य चिराय पद्‌मौ परिरभ्य जाग्रती नवा रविद्युतिः इव जनैः उदनीयत।
जीवातु–पदेति। तदनीं प्रसाधनकाले, अस्याः भैम्याः, पदद्वये अर्पिता नवयावस्य नवालक्तस्य। `यावोऽलक्तो द्रुमामयः’ इत्यमरः। रञ्जना रागः, निसि रात्रौ, विश्लिष्य वियुज्य, पद्मादिति भावः। चिराय दीर्घकालानन्तरं, प्रभाते इत्यर्थः। पद्मौ पद्मे`वा पुंसि पद्म नलिनम्’ इत्यमरः। परिरभ्य आलिङ्ग्य, प्राप्य इत्यर्थः। जाग्रती प्रकाशमाना, नवा प्रत्यग्रा, रविद्युतिः इव बालार्कप्रभेव, स्थितेति जनैः उदनीयत उन्नीता; नवा प्रत्यग्रा, रविद्युतिः इव बालार्कप्रभेव, स्थितेति जनैः उदनीयत उन्नीता; उत्प्रेक्षेत्यर्थः॥ 15.46 ॥
कृतापराधः सुतनोरनन्तरं विचिन्त्य कान्तेन समं समागमम्।
स्फुटं सिषेवे कुसुमेषुपावकः सरागचिह्नश्वरणौ न यावकः॥ 15.47 ॥
अन्वयः–(पूर्वं) सुतनोः कृतापराधः कुसुमेषुपावकः अनन्तरं कान्तेन समं समागमं विचिन्त्य सरागचिह्नः स्फुटं चरणौ सिषेवे, यावकः न।
जीवातु–कृतेति। सुतनोः भैम्याः, कृतापराधः पूर्वं विरहकाले सापराधः, कुसुमेषुपावकः कामाग्निः, अनन्तरम् इदानीं, कान्तेन समं नलेन सह, समागमं विचिन्त्य सरागचिह्नः, अनन्तरम् इदानीं, कान्तेन समं नलेन सह, समागमं विचिन्त्य सरागचिह्नः पावकस्य लौहित्यचिह्नयुक्तः स्न् अनुरागचिह्नयुक्तः सन् इति वा, अन्यथा कुत एष राग इति भावः। चरणौ सिषेवे इति स्फुटं स्वापराधमार्जनार्थं सेवयामासेव। यावः एव यावकः `यावादिभ्यः कन्’ इति स्वार्थे कन्-प्रत्ययः। अलक्तस्तु, न, इति सापह्नवीत्प्रेक्षा। 15.47 ॥
स्वयं तदङ्गेषु गतेषु चारुतां परस्परेणैव विभूषितेषु च।
किमूचिरेऽलङ्करणानि तानि तत् वृथैव तेषां करणं बभूव यत्?॥ 15.48 ॥
अन्वयः–स्वयं चारुगतां गतेषु परस्परेण विभूषितेषु च तदङ्गेषु तेषां यत् कारणं तत् वृया एव बभूव-तानि अलङ्गरणानि ऊचिरे किम्?
जीवातु–स्वयमिति। स्वयं स्वभावत एव, चारुतां गतेषु, तथा परस्परेण अन्योऽन्येनैव, विभूषितेषु समलङ्कृतेषु च, परस्परमेलनात् भूषणं विनैव प्रत्यवयवं कस्यचित् कमनीयताविशेषस्य स्फुरणादिति भावः। तदङ्गेषु भैमीगात्रेषु, तेषां पूर्वोक्तहेमपट्टादीना,यत् करणम् अर्पणं, तत् वृया एव निष्प्रयोजनमेव, बभूव इति तानि वास्तवानि, अलङ्करणानि कर्तॄणि, ऊचिरे किम्? अलङ्काराणां भैमीचारुताकरणासामर्थ्यात् स्वकरणस्य निष्प्रयोजनकत्वेन करणम् अलमिति स्वनाम सान्वयमभूदिति भावः॥ 15.48 ॥
क्रमाधिकामुत्तरमुतरं श्रियं पुपोष यां भूषणचुम्भनैरियम्।
पुरः पुरस्तस्थुषि रामणोयके तया बबाधेऽवदिबुद्धिधोरणिः॥ 15.49 ॥
अन्वयः–इयं भूषणचुम्बनैः उत्तरं क्रमाधिकां यां श्रियं पुपोष, तया पुरः पुनः रामणीयके तस्थुषि अवदिबुद्धदोरणिः बबाधे।
जीवातु–क्रमेति। इयं दमयन्ती, भूषणचुम्बनैः आभरणसम्बन्धैः, उत्तरम् उत्तरम् उपर्युपरि, परं परमित्यर्थः। `उपर्युदीच्यश्रेष्ठेष्वप्युत्तरः स्यात्’ इत्यमरः। क्रमेण पारम्पर्येण, पूर्वपूर्वभूषणापेक्षया उत्तरोत्तरभूषणेन इत्यर्थः। अधिकां पूर्वापेक्षयाऽतिरिक्तां, यां श्रियं शोभां, पुपोष, तया श्रिया, पुरः पुर उत्तरोत्तरं, रामणीयके कमनीयत्वै। मनोज्ञादित्वात् वुञ् प्रत्ययः। तस्थुषि स्तितिशीले सति, अवधिबुद्धिधोरणिः रामणीयकस्य इयमेव सीमा इयमेव सीमा इत्याकारिका इयत्ताधीपरम्परा, बबाधे बाधिता। पूर्वपूर्वरामणीयकस्य स्थितिजन्यतदियत्ताबुद्धिपरम्पराया उत्तरोत्तरवर्द्धितशोभया निराकृतौ सत्याम् इयत्तराहिता सा शोभासम्पत्तिरीसीदिति भावः। धोरणिशब्दः, पङ्क्तौ देशीये इति सम्प्रदायः॥ 15.49 ॥
मणीसनाभौ मुकुरस्य मण्डले बभौ निजास्यप्रतिबिम्बदर्शिनी।
विधोरदूरं स्वमुखं विधाय सा निरूपयन्तीव विशेषमेतयोः॥ 15.50 ॥
अन्वयः–मणीसनाभौ मुकुरस्य मण्डले निजास्यप्रतिबिम्बदर्शिनी सा स्वमुखं विधोः अदूरं विधाय एतयोः विशेषं निरूपयन्ती इव बभौ।
जीवातु–मणीति। मणीसनाभौ रत्नप्रख्ये, मुकुरस्य मण्डले दर्पणतले, निजास्यप्रतिबिम्बदर्शिनी सा भैमी, स्वमुखं विधोः चन्द्रस्य, दर्पणरूपचन्द्रस्येत्यर्थः, दर्पणे प्रतिबिम्बितचन्द्रस्येत्यर्थो वा। अदूरं समीपगतं, विधाय सम्पाद्य, एतयोः स्वमुख–चन्द्रयोः, विशेषं तारतम्यं, निरूपयन्ती परीक्षमाणा इव, बभौ परीक्षका हि उभयमेकत्र अवस्थाप्य परीक्षन्ते इति भावः। अत्रोत्प्रेक्षा॥ 15.50 ॥
जितस्तदास्येन कलानिधिर्दधे द्विचन्द्रधीसाक्षिकमायकायताम्।
तथापि जिग्ये युगपत् सखीयुगप्रदर्शितादर्शबहूभविष्णुना॥ 15.51 ॥
अन्वयः–तदास्येन जितः कलानिधिः द्विचन्द्रधीसाक्षिकमायकायातां दधे, तथापि युगपत् सखीयुगप्रदर्शितादर्शबहूभविष्णुना जिग्ये।
जीवातु–जित इति। कलानिधिः चन्द्रः। `शिल्पे कला विधोरशे’ इत्यभिधानात्। तदास्येन भैमीमुखेन, जितः सन् द्वौ चन्द्रौ इति धीरेव कार्यभूता साक्षी प्रमाणं यस्याः सा तत्साक्षिका माया कारणभूता यस्य स तादृशः द्विचन्द्रधीसाक्षिकमायः कायः यस्याः तस्याः भावः तत्ता तां, दधे दधार। एकाकिना तन्मुखस्य दुर्जयत्वादेकोऽपि चन्द्रो मायया द्वावभूत् इत्यर्थः। तन्मुखन्तु स्वयमपि कपटादेव त्रित्वमापद्य पुनस्तं जिगायेत्याह-तथापि द्विभूतोऽपि, युगपत् समकालं, सखीयुगेन सहचरीद्वयेन, प्रदर्शिताभ्याम् आदर्शभ्यां दर्पणाभ्यां, तद्‌गतप्रतिविम्बद्वयवशेन इत्यर्थः। ` दर्पणे मुकुरादशौ’ इत्यमरः। बहूभविष्णुना बहूभवित्रा, प्रतिबिम्बद्वयेन आत्मना च त्रित्वमापन्नेन तन्मुखेनेत्यर्थः `भुवश्च’ इति इष्णुच्‌ प्रत्ययः। जिग्ये जितः। त्रिभिद्वौं सुजयाविति भावः॥ 15.51 ॥
किमालियुग्मार्पितदर्पणद्वये तदास्यमेकं बहु चान्यदम्बुजम्।
हिमेषु निर्वाप्य निशासमाधिभिस्तदास्यसालोक्यमितं व्यलोक्यत?॥ 15.52 ॥
अन्वयः–आलियुग्मार्पितदर्पणद्वेय एकं तदास्यम्, अन्यत् च बहु अम्बुजम् निशासमाधिभिः हिमेषु निर्वाप्य तदास्य सालोक्यमितं किं व्यलोक्यत?
ज?३९ैु–किमिति। आलियुग्मेन सखीद्वयेन , अर्पिते, दर्पणद्वये एकम् एकत्वसङ्ख्याविशिष्टं मुख्यञ्च, तदास्यं बिम्बभूतं भैमीमुखम्, अन्यत् तन्मुखप्रतिबिम्बरूपञ्च, बहु अनेकम्, अम्बुजं पदम्म्, एकार्कप्रतिबिम्बितानेकार्वत् ब्रह्मा चैकम् अनेकाविद्याप्रतिबिम्बितब्रह्मवच्चेति भावः। निशासु समाधिभिः तन्मुख्ध्यानैः, मुकुभावलक्षणैः उपलक्षितं सत्, हिमेषु शिशिरर्तुषु, निर्वाप्य निर्वाणं विनाशं प्राप्य, तदास्यस्य भैमीमुखस्य, आलोकेन दर्शनेन सह वर्त्तते इति सालोकं तस्य भावः सालोक्यम् आलोकनीयत्वं रम्यत्वम् इतं प्राप्तं यावत्, तदाननसालोक्यं तदाननसमानालोकत्वं सालोक्यरूपमुक्तिञ्च, इतं प्राप्तं सत्, इणः कर्त्रि क्तः। व्यलोक्यत किमि? दृष्टं किम्? इत्युत्प्रक्षा। निर्वाणकाले यां देवतां ध्यायन्ति तत्सालोक्यं लभन्ते इत्यागमः। भैमीमुखस्य दर्पणस्थप्तिबिम्बानाञ्च परस्परसान्निध्यात् दर्पणस्थप्रतिबिम्बानि किं शिशिरर्तुषु नष्टानि तन्मुखसदृशानि तत्सतमीपस्थानि पद्मानि? इति लोकैरुत्प्रेक्षितमिति भावः॥ 15.52 ॥
पलाशदामैति मिलच्छिलीमुखैर्वृता विभूषामणिरश्मिमण्डलैः।
अलक्षि लक्षैर्धनुषामसौ तदा रतीशसर्वस्वतयाऽभिरक्षिता॥ 15.53 ॥
अन्वयः–असौ पलाशदाम-इति मिलच्छिलीमुखैः विभूषामणिरश्मिमण्डलैः वृता तदा रतीशसर्वस्वतया धनुषा लक्षैः अभिरक्षिता अलक्षि।
जीवातु–पलाशेति। पलाशदाम इयं किंशुकमाला, इति विचिन्त्येति शेषः। मिलन्तः सङ्गच्छमानाः, शिलीमुखाः अलयः, बाणाश्च येषु तैः, तादृशैः, इति भ्रान्तिमदलङ्कारः। विभूषामणिरश्मिमण्डलैः आभरणरत्नकान्तिपटलैः, वृता वेष्टिता, असौ भैमीः तदा प्रसाधनानान्तरसमये इत्यर्थः। रतीशस्य कामस्य, सर्वस्वतया सर्वधनत्वेन, धनुषां धनुर्घारिणाम्। कुन्ताः प्रविशन्तीतिवदिति भावः॥ लक्षैः शतसहस्रैः, अभिरक्षिता समन्तात् रक्षितेव, इति अलक्षि उत्प्रेक्षिता। लोकैरिति शेषः। कार्मुखरूपतादडशरश्मिमण्डलैर्वेष्टितायास्तसाय धनुर्लक्षैः रक्षितत्वमुत्प्रेक्षितमिति व्यञ्जकाप्रयोगात् गम्योत्प्रेक्षा। राजधनं शस्त्रिभिः अभिरक्ष्यते इति भावः॥ 15.53 ॥
विशेषतीर्थैरिव जह्नुनन्दना गुणैरिवाजानिकरागभूमिका।
जगाम भाग्यैरिव नीतिरुज्ज्वलैर्विभूषणैस्तत्सुषमामहार्घताम्॥ 15.54 ॥
अन्वयः–विशेषतीर्थैः जह्नुनन्दना इव गुणैः आजानिकरागभूमिका भाग्यैः नीतिः इव उज्जवलैः विभूषणैः तत्सुषमा महार्घतां जगाम।
जीवातु–विशेषेति। विशेथीर्थैः प्रयागादिषु यमुनासरस्वतीप्रमुखैः, जह्नुनन्दना जनभिन्नात् उत्पन्नः आजानिकः सहजः, शैषिकष्ठञ्-प्रत्ययः। तादृशस्य रागस्य प्रेम्णः, भूमिः एव भूमिका इव आस्पदमिव, विनायादिभिः गुणः सहजस्नेहास्पदपुत्रादिरिव इति यावत् भाग्यैः अगुकूलदैवैः नीतिः इव, उज्ज्वलैः विभूषणैः तस्या भैम्याः, सुषमा परमा शोभा, कान्तिरित्यर्थः। महार्घतां महामूल्यताम्, अत्यन्तोत्कृष्टतामित्यर्थः। जगाम तीर्थान्तरसम्मेलनेन जाह्नव्याः पावनत्वोत्कर्ष इव विनयगुणैः पुत्रादौ स्नेहोत्कर्ष इव तथा दैवानुकूल्येन नीतेः फलप्राप्तिः इव तस्याः मुषमायास्तु लोकोत्तरचमत्कारित्वमिति भावः॥ 15.54 ॥
नलान् स्ववैश्वस्त्यमनाप्तुमानता नृपस्त्रियो भीममहोत्सवागताः।
तदङ्‌घ्रिलाक्षामदधन्त मङ्गलं शिरःसु सिन्दूरमिव प्रियायुषे॥ 15.55 ॥
अन्वयः–नलात् स्ववैश्वस्त्यम् अनाप्नुम् आनताः भीममहोत्सवागताः नृपस्त्रियः प्रियायुषे मङ्गलं सिन्दूरम् इव शिरःसु तदङ्‌घ्रिलाक्षाम् अदधन्त।
जीवातु–नलादिति। नलात् नलसकाशात्, नलसकाशात्, स्वस्य वैश्वस्त्यं वैधव्यम्। `विश्वस्ताविधेवे समे’ इत्यमरः। अनाप्नुम् अप्राप्तुम्, आनताः प्रणताः अन्यथा नलः स्वभर्तॄन् वरायमाणान् हनिष्यतीति भयात् भैमीं प्रणताः इति भावः। भीमस्य महोत्सवे भैमीविवाहे इति यावत् आगताः नृपस्त्रिय; अन्यराजपत्न्यः, राजकान्ताः इति याव्त्। प्रियायुषे स्वभर्तृजीवनार्थं, न केवलं प्रणामेन मङ्गलाचरणादपि स्वभर्त्तृजीवनाय इति भावः, मङ्गलं मङ्गलकरम्, अवैधव्यसूचकमिति भावः, सिन्दूरमिव तस्याः भैम्याः, अङ्घ्र्योः पादयोः, लाक्षां प्रणामात् संसक्तम् अलक्तकं, शिरःसु स्वस्वसीमन्तेषु, अदधन्त अधारयन् `दघ धारणे’ इति धातोः लङि तङ। स्त्रीणां ललाटे सिन्दूरधारणम् अवैधव्यसूचकम् इति भावः॥ 15.55 ॥
अमोघभावेन सनाभितां गताः प्रसन्नगीर्वाणवराक्षरस्रजाम्।
ततः प्रणम्याधिजगाम सा ह्रिया गुरूर्गुरुब्रह्मपतिव्रताशिषः॥ 15.56 ॥
अन्वयः– ततः ह्रिया गुरुः सा प्रणम्य अमोघभावेन प्रसन्नगीर्वाणवराक्षरस्रजां सनाभितां गताः गुरुब्रह्मपतिव्रताशिषः अधिजगाम।
जीवातु–अमोघेति। ततः प्रसाधनानन्तरं, ह्रिया लज्जया,गुरुः भारवती, अतिलज्जितेत्यर्थः, सा भैमी, प्रणम्य गुर्वादीन् अभिवाद्य, अमोघभावेन अवैफल्यगुणेन, प्रसन्नानां गीर्वाणानाम् इन्द्रादिदेवतानां, वराक्षरस्रजां वरदानरूपग्गुम्फानां, सनाभितां सादृश्यं, गताः प्राप्ताः, तद्वदमोघ इत्यर्थः, गुरूणां पित्रादीनां, ब्रह्मणां ब्राह्मणानां, पतिव्रतानां च आशिषः आसीर्वादान्, अधिजगाम लेभे॥ 15.56 ॥
तथैव तत्कालमथानुजीविभिः प्रसाधनासञ्जनशिल्पपारगैः।
निजस्य पाणिग्रहणक्षणोचिता कृता नलस्यापि विभोर्विभूषणा॥ 15.57 ॥
अन्वयः–अथ तत्कालं तथा एव प्रसाधनासञ्जनशिल्पपारगैः अनुजीविभिः निजस्य विभोः नलस्य अपि पाणिग्रहणक्षणणोचिता विभूषणा कृता।
जीवातु–तथैवेति। अथ अस्मिन् अवसरे इत्यर्थः, सः एव कालः यस्मिन् कर्मणि तत् तत्कालं भैमीप्रसाधनसमकालमित्यर्थः, तथैव यथा भैम्याः तथैव, प्रसाधनासञ्जनं प्रसाधनकरणं, तत् एव शिल्पं विद्या-विशेषः, तस्य पारगैः पारदर्शिभिः `अन्तात्यन्ता-’ इत्यादिना ड प्रत्ययः। अनुजीविभिः सेवकैः, निजस्य आत्मीयस्य, विभोः स्वामिनः, नलस्यापि पाणिग्रहणक्षणोचिता बिवाहकालोचिता, बिभूषणा प्रसाधना, कृता॥ 15.57 ॥?
नृपस्य तत्राधिकृताः पुनः पुनर्विचार्य तान् बन्धमवापयन् कचान्।
कलापलीलोपनिधिर्गरुत्त्यजः स यैरपालापि कलापिसंसदः॥ 15.58 ॥
अन्वयः–तत्र अधिकृताः पुनः पुनः विचार्य तान् तृपस्य कचान् बन्धम् अवापयन्, यैः गरुत्त्यजः कलापिसंसदः सः कलापलीलोपनिधिः अपालापि।
जीवातु–नृपस्येति। तत्र प्रसाधने, अधिकृताः नियुक्ताः, तान् वक्ष्यमाणान्, नृपस्य नलस्य, कचान् केशान्, विचार्य अपराधम् अनुचिन्त्य, पुनः पुनः बन्धं संयमनविशेषम्, अवापयन् प्रापितवन्तः, `अवापिपन्’ इति पाठे तु-आपेणौ चङ् दितीयस्यैकाचो द्विर्भावः। यः कचैः केशैः, गरुतः पक्षान्, त्यजतीति गरुत्त्यग् तस्याः शरदि मयूराणां पक्षपतनं भवतीति प्रसिद्धिः कलापिसंसदः मयूरसङ्घस्य, सः पक्षत्यागकाले कृत इत्यर्थः, कलापस्य बर्हभारस्य, लीला विलासः, स एव उपनिधिः न्यासः, बर्हमोचनकालकृतो निक्षेप इत्यर्थः, `पुमानुपनिधिर्न्यासः’ इत्यमरः, अपालापि अपलपितः, पुनः बर्होदयेऽपि न प्रत्यर्पित इत्यर्थः, अतो बन्धनमुचितमिति भावः॥ 15.58 ॥
पतत्रिणां द्राघिमशालिना धनुर्गुणेन संयोगजुषां मनोभुवः।
कचेन तस्यार्जितमार्जनश्रिता समेत्य सौभग्यमलम्भिकुड्मलैः॥ 15.59 ॥
अन्वयः–अर्जितमार्जनश्रिया द्राघिमशालिना तस्य कचेन समेत्य कुड्मलैः (द्राघिमशालिना अर्जितमार्जनश्रिया) धनुर्गुणेन संयोगजुषां मनोभुवः पतत्रिणां सौभाग्यम् अलम्भि।
जीवातु–पतत्रिणामिति। कुड्मलैः अर्द्धविकसितकुसुमैः कर्त्तृभिः, द्राधिमशालिना दैर्घ्यशोभिना `प्रयस्थिर-’ इत्यादिना दीर्घशब्दस्य द्राघिमादेशः. अर्जितमार्जनश्रिया सम्पादिकङ्कतिकादिसंस्कारसम्पदा, तस्य नलस्य, कचेन केशपाशेन, समेत्य मिलित्वा, द्राघिमशालिना अर्जितमार्जनश्रिया सम्पादितसिक्थकादिघर्षणसम्पदा, धनुर्गुणेन अलिमालारूममौर्व्या, संयोगजुषां सन्धानभाजां, मनोभुवः कुसुमेषोः, पतत्रिणां बाणानां, सौभाग्यम् इव सौभाग्यं सौन्दर्यम् अलम्भिलब्धम् इति निदर्शनाभेदः॥ 15.59 ॥
अनर्घ्यरत्नौघमयेन मण्डितो रराज राजा मुकुटेन मूर्द्धनि।
वनीयकानां स हि कल्पभूरुहस्ततो विमुञ्चन्निव मञ्जुमञ्जरीम्॥ 15.60 ॥
अन्वयः–हि सः राजा वनीयकानां कल्पभूरुहः ततः अनर्घ्यरत्नौघमयेन मुकुटेन मूर्द्धनि मण्डितः मञ्जुमञ्जरीं विमुञ्जन् इव रराज।
जीवातु–अनर्ध्येति। हि यस्मात्, स राजा नलः, वनीयकानाम् अर्थिनां `वनीयको याचनको मार्गणो याचकार्थिनौ’ इत्यमरः, कल्पभूरुहः कल्पवृक्षः, ततः अर्थिकल्पवृक्षत्वात्, अनर्घ्यरत्नौघमयेन अमूल्यमणिनिचयप्रचुरेण, मुकुटेन मूर्द्धनि मण्डितः अलङ्‌कृतः सन्, मञ्जुं फलदां मनोहराञ्च, मञ्जरी सकलिकां बालशाखां, विमुञ्चन् अर्थिनां त्यजन् इव, रराज इत्युत्प्रेक्षा॥ 15.60 ॥
नलस्य भाले मणिवीरपट्टिकानिभेन लग्नः परिधिर्विधोर्बभौ।
तदा शशाङ्काधिकरूपतां गते तदानने मातुमशक्तिमुद्वहन्॥ 15.61 ॥
अन्वयः–विधोः परिधिः नलस्य भाले मणिवीरपट्टिकानिभेन लग्नः तदा शशाङ्काधिरूपतां गते तदानने मातुम् अशक्तिम् उद्वहन् बभौ।
जीवातु–नलस्येति। विधोः इन्दोः, परिधिः परिवेषः, नलस्य भाले ललाटे, पणिवीरपट्टिकानिभेन मणिमयवीरधार्यपट्टमिषेण, लग्नः सन्, तदा प्रसाधनकाले, शशाङ्कात् अधिकं रूप स्वरूपं सौन्दर्यं वा यस्य तस्य भावः तत्तां, गते प्राप्ते, चन्द्रापेक्षया बृहत्परमिते अधिकसुन्दरे वा इत्यर्थः, तदानने नलमुखे, मातुम् अभिव्याप्तुम् अशक्तिम् उद्वहन् अशक्य इव, बभौ। परिवेषः चन्द्रं परिवेष्ट्य शोभते, किन्तु अत्रैकदेशवर्त्तीत्याधाराधेययोः आनुरूप्याभावात् अधिकालङ्कारः `आधाराधेययोरानुरूप्याभावादधिको मतः’ इति लक्षणात्। वस्तुतोऽत्र मणिवीरपट्टिकापह्नवेन चन्द्रपरिधेर्नलमुखैकदेशवर्त्तित्वोत्प्रेक्षणात् सापह्नवोत्प्रेक्षालङ्कारः, तत्रोत्प्रेक्षा व्यञ्जकाप्रयोगाद्‌गम्या॥ 15.61 ॥
बभूव भैम्याः खलु मानसौकसं जिघांसतो धैर्यभरं मनोभुवः।
उपभ्र तद्वर्त्तुलचित्ररूपिणि धनुःसमीपे गुलिकेव सङ्गता॥ 15.62 ॥
अन्वयः–भैम्याः मानसौकसं धैर्यभरं जिघांसतः मनोभुवः धनुः समीपे सङ्गता उपभ्रु तद्वर्त्तुलचित्ररूपिणी गुलिका इव बभूव खलु।
जीवातु–बभूवेति। भैम्याः मानसं स्वान्तं सरोविशेषक्ष `मानसं सरसि स्वान्ते’ इति विश्वः। तत् ओकः स्थानं यस्य तं मनोनिष्ठं हंसञ्च, `हंसास्तु श्वेतगरुतश्चक्राङ्गा मानसौकसः’ इत्यमरः धैर्यभरं धैर्यातिशयं, धैर्यधनमिति यावत् जिघांसतः हन्तुमिच्छतः हन्तेः सन्नन्ताल्लटः शत्रादेशः, `सन्यङोः’ इति द्विर्भावः `अभ्यासाच्च’ इति हस्य कुत्वम्, `अज्झनगमां सनि’ इति दीर्घः, मनोभुवः कामस्य, धनुः समीपे गुलिका या पक्षिवेधघुटिका सा, उपभ्रू भ्रूसमीपे, सामीप्यस्याव्ययीभावे नपुंसकह्रस्वत्वम्, नलस्येति शेषः, सङ्गता मिलिता, तस्य नलस्य, यत् वर्त्तुलं चित्रं तिलकं, तद्रूपिणी इव, `चित्रं स्यादद्भुतालेख्यतिलकेषु’ इति विश्वः, बभूव खलु इत्युत्प्रेक्षा, नलः सद्यः भैमीचित्ताकर्षकं तिलकं दधार इति भावः। `त्रिपुण्ड्रं सुरविप्राणां वर्त्तुलं नृपवैश्ययोः। अर्द्धचन्द्रन्तु शूद्राणामन्येषामूद्‌र्घ्वपुण्ड्रकम्॥’ इति स्मरणाद्वर्त्तूलेत्युक्तम्॥ 15.62 ॥
अचुम्बि ता चन्दनबिन्दुमण्डली नलीयवक्त्रेण सरोजतर्जिना।
श्रिय श्रिता काचन तारका सखी कृता शशाङ्कस्य तयाऽङ्कवर्त्तिनी॥ 15.63 ॥
अन्वयः–सरोजतर्जिना नलीयवक्त्रेण या चन्दनबिन्दुमण्डली अचुम्बि, तया शशाङ्कस्य अङ्कवर्त्तिनी श्रियं श्रिता काचन तारका सखीं कृता।
जीवातु– अचुम्बीति। सरोजतर्जिना पद्मधिक्कारिणा, नलस्य इदं नलीयम्। ` वा नामधेयस्य-’ इति वृद्धसंज्ञायां वक्तव्यत्वात् `वृद्धाच्छः’ इति छप्रत्ययः, योगसामर्थ्यच्च या चन्दनबिन्दोः मण्डली बिम्बं, पूर्वोक्तवर्तुलतिलकमित्यर्थः। `बिम्बोऽस्त्री मण्डलं त्रिषु’ इत्यमरः। अचुम्बि चुम्बिता धृता, इत्यर्थः। तया चन्दनबिन्दुमण्डल्या, शशाङ्कस्य चन्द्रस्य, अङ्कवर्त्तिनी, समीपवर्तिनी, श्रियं श्रिता श्रीधारिणी सती, काचन तारका दिनकृतसमागमा काचिदश्विन्यादीनाम अन्यतमा तारका, सखी कृता सहचरी कृता। चन्दनबिन्दुतिलकेन तु नलमुखं दिवसे तारायुक्तचन्द्रवच्छकासामास इति भावः। उत्प्रेक्षा, सा च इवाद्यप्रयोगात् गम्या॥ 15.63 ॥
न यावदग्निभ्रममेत्युदूढतां नलस्य भैमीति हरेर्दुराशया।
स बिन्दुरिन्दुः प्रहितः किमस्य सा न वेति भाले पठितुं लिपीमिव॥ 15.64 ॥
अन्वयः–`अग्निभ्रमं यावत् भैमी नलष्य उदूढतां न एति; सा अस्य (अस्तिः न वा’-इति हरेः दुराशया सः इन्दुः इव बिन्दुः किं भाले लिपीं पठितुं प्रहितः?
जीवातु–नेति। सः पूर्वोक्तः, बिन्दुर्वर्तुलचन्दनतिलकः, अग्निभ्रमं यावत् यावदग्निभ्रमं, वैवाहिकाग्निप्रदक्षिणीकरणपर्यन्तमित्यर्थः। `पतित्वं सप्तमे पदे’ इति स्मृतेः, वैवाहिकाग्निसमीपे यावत् सप्तपदीगमनं न भवेत् तावत् भैमी नलस्य भार्या न भवेदिति तादृशाग्निप्रदक्षिणीकरणपर्यन्तमितिभावः। `यावदवधारणे’ इत्यव्ययीभावः। भैमी नलस्य उदूढताम् उद्वाहसंस्कृतत्वं, भार्यात्वमित्यर्थः। न एति न प्राप्नोति, इति हरेः इन्द्रस्य, दुराशया वृथाभिलाषेण हेतुना, सा भैमी, अस्य नलस्य, किं, भवेत्? इति शेषः, न वा? इति भाले नलस्य ललाटे, लिपीं ब्रह्मकर्तृकललाटलिखितम् `कृतिकारात्-’ इतीकारः। पठितुं वाचयितुं, प्रहितः इन्द्रेण प्रेषितः इन्दुः इव, आभातीति शेषः। उत्प्रेक्षा॥ 15.64 ॥
कपोलपालीजनितानुबिम्बयोः समागमात् कुण्डलमण्डलद्वयी।
नलस्य तत्कालमवाप चित्तभूरथस्फुरच्चक्रचतुष्कचारुताम्॥ 15.65 ॥
अन्वयः–तत्कालं नलस्य कुण्डलमण्डलद्वयी कपोलपालीजनितानुबिम्बयोः समागमात् चित्तबूरथस्फुरच्चक्रचतुष्कचारुताम् अवाप।
जीवातु–कपोलेति। नलस्य कुण्डलमण्डलद्वयी कर्णवेष्टनभूषणयुगली, कपोलपाल्यां जनिन्योः स्वच्छगण्डमण्डलसड्क्रान्तयोः, अनुबिम्बयोः स्वप्रतिबिम्बयोः, समागमात् मेलनात्, तत्कालं तस्मिन् काले, चित्तभुवः कामस्य, रथे स्फुरतः चक्रचतुष्कस्य चारुताम् अवाप। रथस्य चतुश्चक्रत्वात् मण्डलाकारकुण्डलद्वयी स्वप्रतिबिम्बद्वयेन सह चतुष्टयत्वं पाप्य रथचक्रचतुष्टयत्ववती इव भातीत्यर्थः। अत्र रथचक्रचारुतायाः कुण्डलेऽसम्भवात् तच्चारुतामिव चारुतामिति निदर्शनालङ्कारः॥ 15.65 ॥
श्रिताऽस्य कण्ठं गुरुविप्रवन्दनाद् विनम्रमौलेश्चिबुकाग्रचुम्बिनी।
अवाप मुक्तावलिरास्यचन्द्रमःस्रवत्सुधातुन्दिलबिन्दुवृन्दताम्॥ 15.66 ॥
अन्वयः–कुरुविप्रवन्दनात् विनम्रमौलेः अस्य चिबुकाग्रचुम्बिनी कण्ठं श्रिता मुक्तावलिः आस्यचन्द्रमःस्रवत्सुधातुन्दिलबिन्दुवृन्दताम् अवाप।
जीवातु–श्रितेति। गुरूणां मातामपित्रादीनां, विप्राणाञ्च वन्दनात् प्रणामात्, विनम्रमौलेः नम्रशिरसः, अस्य नलस्य, चिबुकं मुखाधोभागः, मुखस्य `अघस्ताच्चिबुकम्’ इत्यमरः। तस्य अग्रं चुम्बति स्वृशति इति तच्चुम्बिनी, कण्ठं श्रिता मुक्तावलिः मौक्तिकमाला, आस्यचन्द्रमसः मुखचन्द्रात्, स्रवन्त्याः सुधायाः तुन्दिलानां स्थूलानां, बिन्दूनां वृन्दतां समूहत्वम्, अवाप तदिव बभौ इति भावः। अत्र गम्योत्प्रेक्षा॥ 15.66 ॥
यदुद्धता श्रीर्बलवान् द्विषन् बभूव यस्याजिषु वारणेन सः।
अपूपुरत् तान् कमलार्थिनो घनान् समुद्रभावं स बभार तद्‌भुजः॥ 15.67 ॥
अन्वयः–श्रीः यदुद्धता, बलं द्विषन् सः, आजिषु यस्य वारणेन बलिवान् बभूव, (यः) तान्घनान् कमलार्थिनः अपूपुरत्, स- तद्‌भुजः समुद्रभावं बभार।
जीवातु–यदति। श्रीः सम्पत्तिः लक्ष्मीश्च `शोभा सम्पत्तिपद्माषु लक्ष्मीः श्रीरिव कथ्यते’ इति विश्वः। यदुद्धता यस्मात् भुजात् समुद्‌गाच्च उद्‌भूता; यद्वा यदिति भिन्नं पदम् अव्ययं पञ्चम्पर्थे योज्यम्। बलं सैन्यं, द्विषन् विरुन्धन्, सः नलः आजिषु युद्धेषु, यस्य भुजस्य कर्त्तृकेन, वारणेन शत्रुनिवारणीन्, बलवान् प्रबलः, बभूव, अन्यत्र-सः प्रसिद्धः, बलं द्विषन् बलासुरस्य द्विट् इन्द्रः। `द्विषोऽमित्रे’ इति शतृप्रत्यये तस्य लादेशत्वाभावात् तृन्’ इति प्रत्याहारात् `न लोका-’ इत्यादिना षष्ठीप्रतिषेधे `द्विषः शतुर्वा’ इति वैकल्पिकषष्ठीविदानात् पक्षे-कर्मणि द्वितीया। यस्य समुद्रस्य सम्बन्धिना, वारणेन ऐरावतगजेन साधनेन, आजिषु बलवान् बभूव, `बल स्थैल्यं बलं शक्तिर्वलोऽसुरः’ इति शाश्वतः। यः भुजः घानान् सान्द्रान्, निरन्तरमागतानित्यर्थः। तान् दारिद्र्येण प्रसिद्धान्, कलमार्थिनः लक्ष्मीकामान्, याचकानित्यर्थः। अन्यत्र–य) समुद्रः, तान् कमलार्थिनः, जालार्थिनः; `कमला श्रीर्जलं पद्मं कमलं कमलो मृगः’ इति शाश्वतः। घनान् अम्बुदान्, मेघानित्यर्थः. `घनं सान्द्रं घनं वाद्यं घनो मुस्ता घनोऽम्बुदः’ णौ चङि’ इति ह्रस्वे `दीर्घो लघोः’ इत्यभ्यासस्य दीर्घः। सः तद्‌भुजः नलबाहुः, मुद्रया अङ्गुरीयकेण सह वर्त्तते इति समुद्रः साङ्गुरीयकः, सम् उनत्तीति समुद्रः सागरश्च। सा विपञ्चीत्यादिना जलधेः कारणादिकः ठ-प्रत्ययः। तस्य भावं समुद्रत्वं, बभार मुद्रिताभरणम् आमुमोचेति प्रकृतार्थः। सागरार्थस्तु ध्वनिरेव विशेषणविशेष्ययोरुभयोरपि श्लिष्टत्वादिति॥ 15.67 ॥
कृतार्थयन्नर्थिजनाननारतं बभूव तस्यामरभूरुहः करः।
तदीयमूले निहितं द्वितीयवद् ध्रुवं दधे कङ्कणमालवालताम्॥ 15.68 ॥
अन्वयः–तस्य करः अनारतम् अर्थिजनान् कृतार्थयन्, ध्रुवम् अमररुहः बभूव, तदीयमूले निहितं द्वितीयवत् कङ्कणं आलवालतां दधे।
जीवातु–कृतार्थयन् सार्थान्, कुर्वन्, अमरभूरुहः कल्पवृक्षः, बभूव। तदीये करकल्पवृक्षसम्बन्धिनि, मूले मणिबन्धे, निहितम्, द्वतीयकङ्कमसहितमित्यर्थः। कङ्कणं कनकवलयम्, आलवालतां दधे दधार, ध्रुवम् इत्युत्प्रेक्षायाम्। वृक्षमूलेऽपि कनकलयम्, आलवालतां दधे दधार, ध्रुवम् इत्युत्प्रेक्षायाम्। वृक्षमूलेऽपि आलवालद्वयं भवति, अतस्तदीयकरमूलेऽपि कङ्कमद्वयं वर्त्तते इति भावः। 15.68 ॥
रराज दोर्मण्डनमण्डलीजुषोः स वज्रमाणिक्यसितारुणत्विषोः।
मिषेण वर्षन् दशदिङ्मुखोन्मुखी यशःप्रतापाववनीजयार्जितौ॥ 15.69 ॥
अन्वयः–सः दोर्मण्डनमण्डलीजुषोः वज्रमाणिक्यसितारुणात्विषोः मिषेण दशदिङ्मुकोन्मुखौ अवनीजयार्जितौ यशःप्रतापौ वर्षन् रराज।
जीवातु–रराजेति। सः नलः, दोर्मण्डने बाहुबषणे, मण्डलीजुषोः श्रेणीभाजोः), वज्राणां हीराणां, माणिक्यानां पद्मरागाणाञ्च, यथासङ्ख्यं सितारुणयोः श्वेतलोहितयोः त्विषोः कान्त्योः, मिषेण छलेन, दशदिङ्मुखोन्मुखौ दशदिगन्तव्यापिनौ, अवनीजयार्जितौ भूविजयसम्पादितौ, यथासङ्ख्यं यशःप्रतापौ वर्षन् विस्तारयन्, रराज। अत्र त्विषोषेणेच्छिलादिशब्दैः असत्यत्वप्रतीतिरूपापऽङ्नवालङ्कारभेदः, तस्य पूर्वसूचितयथासङ्ख्यद्वयमभेदेन सङ्करः; वर्षन्निवेत्युत्प्रेक्षा गम्यते सा च सापह्नवेति सङ्करः॥ 15.69 ॥
घने समस्तापघनावलम्बिनां विबूषणानां मणिमण्डले नलः।
स्वरूपरेखामवलोक्य निष्फलीचकार सेवाचणदर्फणार्पणम्॥ 15.70 ॥
अन्वयः–नलः समस्तापघनावलम्बिनां विभूषणानां घने पाणिमण्डले स्वरूपरेखान् अवलोक्य सेवाचणदरपणार्पणं निष्फलीचकार।
जीवातु–घन इति। नलः समस्तापघानावलम्बिनां सर्वावयवगतानाम्। `अङ्गं प्रतीकोऽवयवोऽपघनः’ इत्यमरः। विभूषणानां सम्बन्धिनि, घने सान्द्रे, मणिमण्डले रत्नसमूहे, स्वरूपरेखाम् आत्मसौन्दर्यप्रतिबिम्बमित्यर्थः। अवोक्य, सेवया वित्ताः सेवाचणाः सेवाकुशलाः, तेन वित्तश्चुञ्चुप्‌चणपौ, तालीयन्यायतः मणिमण्डलेनैव दर्पणकार्यस्य कृतत्वादिति भावः। अत एव समाध्यलङ्कारोऽयम्, `एकस्मिन् कारणे कार्यसाधनेऽन्यसमागतिः। काकतालीयनयतः स समाधिरुदीर्यते॥’ इति लक्षणात्॥ 15.70 ॥
व्योलोकि लोकेन न केवलं चलन्मुदा तदीयाभरणार्पणद्युतिः।
अदर्शि विष्फारितरत्नलोचनैः परस्परेणैव विभूषणैरपि॥ 15.71 ॥
अन्वयः–तदीयाभरणार्पणद्युतिः चलन्मुदा लोकेन केवलं न व्यलोकि, विष्फारितरत्नलोचनैः विभूषणैः अपि परस्परेण एव अदर्शि।
जीवातु–व्यालोकीति। तदीयानां नलीयानाम्, आभरणानाम्, अर्पणेन नलाङ्गे विन्यासेन, या द्युतिः शोभा सा, चलन्मुदा चलन्ती प्रवहन्ती, निरन्तरेत्यर्थः। मुत् हर्षो यस्य तादृशेन, लोकेन जनेन, केवलं न व्यलोकि विलोकिता, किन्तु विष्फारितानि विस्तारितानि, रत्नानि एव लोचनानि यैः तादृसैः, विभूषणैरपि अचेतनैरपीति भावः। परस्परेणैव अदर्शि, किमुत चेतनलोकेनेति भावः। अर्थापत्तिरलङ्कारः, सा च रत्नलोचनेति रूपकोत्थेति सङ्करः, तेन विभूषणानि रत्नलोचनैरन्योऽन्यं पश्यन्ति इव दृश्यन्ते इत्युत्प्रेक्षा व्यज्यते॥ 15.71 ॥
ततोऽनु वार्ष्णेयनियन्तृकं रथं युधि क्षतारिक्षितिभृज्ययद्थः।
नृपः पृथानुरिवाधिरूढवान् स जन्ययात्रामुदितः किरोटवान्॥ 15.72 ॥
अन्वयः–ततः अनु युधि क्षतारिक्षितिभृज्जयद्रथः जन्ययात्रामुदितः किरीटवान् सः नृपः पृथासूनुः इव वार्ष्णेयनियन्तृकं रथम् अधिरूढवान्।
जीवातु–ततोऽन्वितिः ततोऽनु तदनन्तरं प्रसाधनानन्तरमित्यर्थः। युधि युद्धे, क्षता अरिक्षितिभृतः शत्रुभूपाः येन सः जयन् रथः यस्य सः जयद्रथः जैत्ररथ इत्यर्थः। अन्यत्र-क्षतौ विध्वस्तौ, अरिक्षितभृत् चापौ जयद्रथः सिन्धुराजश्चेति तौ येन सः तथोक्तः। जन्यानां वरस्निग्धानां, स्वकीयस्नेहभाजनानामित्यर्थः। यात्रया विवाहयात्रया, मुदितः हृष्टः, अन्यत्र-संग्रामयात्रया मुदितः। `जन्यं हट्टे परीवादे संग्रामे च नपुंसकम्। जन्या मातृवयस्यायां जन्यः स्याज्जनके पुमान्। त्रिषुत्पाद्यजनित्रोश्च नवोढाज्ञातिभृत्ययोः। वरस्निग्धे-’ इति मेदिनी। किरीटवान् किरीटयुक्तः, अन्यत्र-किरीटवान् किरीटी इति नाम्ना प्रसिद्धः, सः नृपः नलः, पृथासूनुः अर्जुनः इव, वार्ष्णेयः वार्ष्णेयनामा, अन्यत्र-वृष्णेः अपत्यं पुमान् वार्ष्णेयः कृष्णश्च `इतश्चानिञ’ इति ढक्। नियन्ता सारथिः यत्र तं वार्ष्णेयनियन्तृकं, `नद्यृतश्च’ इति कप्। रथम् अधिरूढवान् अध्यरोहत। श्लिष्टविशेषणेयं पूर्णोपमा॥ 15.72 ॥
विदर्भनाम्नस्त्रिदिवस्य वीक्षितुं रसोदयादप्सरसस्तमुज्जवलम्।
गृहात् गृहादेत्य धृतप्रसाधनाव्यराजयन् राजपथानथाधिकम्॥ 15.73 ॥
अन्वयः–अथ विदर्भनाम्नः त्रिदिवस्य अपसरसः उज्ज्वलं तं वीक्षितुं रसोदयात् धृतप्रसाधनाः गृहात् एत्य राजपथान् अधिकं व्यराजयन्।
जीवातु–विदर्भेति। अथ विदर्भनाम्नः विदर्भदेशाख्यस्य, त्रिदिवस्य स्वर्गस्य सम्बन्धिन्यः अप्सरसः तत्कल्पाः पौराङ्गनाः, उज्ज्वलं वरवेशेन दीप्यमानं, तं नलं, वीक्षितुं रसोदयात् रागातिरेकात्, धृतं प्रसाधनं याभिः ताः अलङ्कृताः सक्यः, गृहात् वीप्सायां द्विर्भावः। एत्य आगत्य राजपथान् राजमार्गन्, अधिकम् अत्यर्थ, व्यराजयन् अशोभयन्॥ 15.73 ॥
अजानती काऽपि विलोकनोत्सुका समीरधूतार्द्धमपिस्तनांशुकम्।
कुचेन तस्मै चलतेऽकरोत् पुरः पुराङ्गना मङ्गलकुम्भसम्भृतिम्॥ 15.74 ॥
अन्वयः–विलोकनोत्सुका समीरधूतार्द्धम्, अपि स्तनांशुकम् अजानती का अपि पुराङ्गना चलते तस्मै कुचेन पुरः मङ्गलकुम्भसम्भृतिम् अकरोत्।
जीवातु–अथ पौराङ्गनानां तात्कालिकीः श्रृङ्गारचेष्टा नवभिर्वणंयति–अजानतीत्यादि। विलोकनोत्सुका नलदर्शनासक्ता, अत एव समीरेण धूतम् अपसारितम्, अर्द्ध यस्य तादृशमपि अर्द्धापसृतमपि, स्तनांशुकं स्तनावरणवस्त्रम्, अजानती अविदन्ती, व्यासङ्गात् एवेति भावः। काऽपि पुराङ्गाना, कुचेन स्रस्तांशुकेन कुचकुम्भेन इति यावत्। चलते गृहात् निर्गच्छते, तस्मै नलाय, `क्रयया यमभिप्रैति स सम्प्रदानम्’ इति सम्प्रदानत्वम्। पुरः अग्रे, मङ्गलकुम्भसम्भृतिं मङ्गलार्थं पूर्णकुम्भसम्भरणं, पूर्णकुम्भस्थापनमिति यावत्; अकरोत्। प्रायेण उत्सवेषु नववस्त्रवेष्टितं पूर्णकलशमग्रे स्थापयतीत्याचारः। शुभसूचकशकुनरूपतया मङ्गलकुम्भसम्भृतेर्यात्रायामुपयोगित्वात् तस्य च कुचतादात्म्येनारोपात् परिणामालङ्कारः, तेन च पूर्मकुम्भदर्शनस्य भाविशुभसूचकत्वरूपवस्तुध्वनिः॥ 15.74 ॥
सखीं नलं दर्शयमानयाऽङ्कतो जवादुदस्तस्य करस्य कङ्कणे।
विषज्यहारैस्त्रुटितैरतर्कितैः कृतं कयाऽपि क्षणलाजमोक्षणम्॥ 15.75 ॥
अन्वयः–सखीं नलं दर्शयमानया कया अपि जवात् अङ्कतः उदस्तस्य करस्य कङ्कणे विषज्य अतर्कितैः हारैः क्षणलाजमोक्षणं कृतम्।
जीवातु–सखीमिति। अङ्कतः कुतश्चित् श्वेतच्छत्रादिचिह्नात्, `उत्सङ्गचिह्नयोरङ्कः’ इत्यमरः। सखीं प्रति नलं दर्सयमानया सखी नलं पश्यति, तां सखीं नलं दर्शयन्त्यर्थः। `णिचश्च’ इत्यात्मनेपदम्; ततः शानचि `हृक्रोरन्यतरस्याम्’ इत्यत्र `अभिवादिदृशोरात्मनेपदम् वा’ इति वक्तव्यादणिकर्त्र्याः सख्याः वैकल्पिकं कर्मत्वम्। कयाऽपि पुराङ्गनया, जवात् वेगात्, उदस्तस्य नलं दर्शयितुम् उत्क्षिप्तस्य, करस्य सम्बन्धिनि कङ्कणे विषज्य लगित्वा, अतर्कितैः अचिन्तितैः, सहसैवेत्यर्थः। नलदर्शनव्यासङ्गादलक्षितैरित्यर्थो वा। त्रुटितैः छिन्नैः, हारैः क्षणं लाजमोक्षणं क्षणस्य उत्सवसम्बन्धि, लाजमोक्षणं वा, तृतं तदेव माङ्गलिकं लाजावकिरणं जातमिति भावः। आवश्यकश्चायमाचारः। यथोक्तं रघुवंशेऽपि-`अवाकिरन् वयोबृद्धास्तं लाजैः पौरयोषितः’ इति ॥ 15.75 ॥
लसन्नखादर्शमुखाम्बुजस्मितप्रसूनवाणीमधुपाणिपल्लवम्।
यियासतस्तस्य नृपस्य जज्ञिरे प्रशस्तवस्तूनि तदेव यौवतम्॥ 15.76 ॥
अन्वयः–नखादर्शमुखाम्बुजस्मितप्रसुनवाणीमधुपाणिपल्लवं सत् यौवनम् एव यियासितः तस्य नृपस्य प्रशस्तवस्तूनि जज्ञिरे।
जीवातु–लसदिति। नखाः एव आदर्शाः मुखानि एव अम्बुजानि, स्मितानि एव प्रसूनानि, वाण्यः एव पल्लवाः, तेषां द्वन्द्वः ते लसन्तः यस्मिन् तत्तादृशं, तत् यौवतं युवतिसमूहः एव। `गार्भिण यौवतं गणे’ इत्यमरः। `भिक्ष्वादिभ्योऽण्’ इति अण्। युवतिशब्दस्य गणे ग्रहणसामर्थ्यादेव `भस्याढे तद्धिते’ इति पुंवद्भावः। यियासतः अभिजिगमिषतः। यातेः सन्नन्ताल्लटः शत्रादेशः। तस्य नृपस्य नलस्य, प्रसस्तवस्तूनि तत्कालोचितमङ्गलद्रव्याणि, जज्ञिरे जातानि जनेर्लिटि `गमहन-’ इत्यादिना उपधालोपः। अत्र तादृशपाणिपल्लवमुद्दिश्य प्रशस्तवस्तूनां विधेयतयाऽऽरोपणात् विधेयप्राधान्यादेव जज्ञिरे इत्यत्र बहुवचनम्। अत्रारोप्यमाणप्रसस्तवस्तूनां तादृशपाणिपल्लवतादात्म्यस्य प्रकृते गमनारम्भे उपयोगात् परिणामालह्कारः, स च रूपकानुप्राणितः॥ 15.76 ॥
करस्थताम्बूलजिघत्सुरेकिका विलोकनैकाग्रविलोचनोत्पला।
मुखे निचिक्षेप मुखद्विराजतारुषेव लीलाकमलं विलासिनी॥ 15.77 ॥
अन्वयः–विलोकनैकाग्रविलोचनोत्पला करस्थताम्बूलजिघत्सुः एकिका विलासिनी मुखद्विराजतारुषा इव लीलाकमलं मुखे निचिक्षेप।
जीवातु–करस्थेति। विलोकने नलदर्शने, एकाग्रे एकासक्ते, विलोचनोत्पले यस्याः सा तादृशी, एका एव एकिका काचित्, विलासिनी स्री, करस्थताम्बूलं जिघत्सुः अतुमिच्छुः सती। अदो घसादेशात् सन्नन्तादुप्रत्ययः। मुखस्य द्वितीयः राजा द्विराजः। वृत्तिविषये संख्याशब्दस्यापूरणार्थत्वं त्रिभागेत्यादिवत्। तस्य भावः द्विराजता, कमले मुखसादृश्यस्य कविभिर्वर्णनीयत्वादि भावः। तत्र रुषा रोषेण इव, लीलाकमलं मुखे निचिक्षेप विदधे। ताम्बुलचर्वणेच्छुः काचित् स्त्री अन्यमनस्कतया लीलापद्मं वदने अर्पितवती इति भावः। लीलाकमलस्य मुखप्रतिद्वन्द्वित्वेन एव रुषा मुके चर्वणार्थमर्पणम् इति उत्प्रेक्षालह्कारः। एतेन विभ्रमाख्यश्चेष्टानुभाव उक्तः, `विभ्रमस्त्वरयाऽस्थाने भूषास्थानविपर्ययः’ इति लक्षणात्॥ 15.77 ॥
कयाऽपि वीक्षाविमनस्कलोचने समाज एवोपपतेः समीयुषः।
घनं सविघ्नं परिरम्भसाहसैस्तदा तदालोकनमन्वभूयत॥ 15.78 ॥
अन्वयः–कया अपि वीक्षाविमनस्कलोचने समाजे एव समीयुषः उपपतेः घनं परिरम्भसाहसैः तदा तदालोकनं सविघ्नम् अन्वभूयत।
जीवातु–कयाऽपीति। कयाऽपि कान्तया, वीक्षया अनिमेषदर्शनेन, विमनस्के नलदर्शनलालसेन विषयान्तरविमुखे, लोचने यस्य तादृशे, समाजे जनसमूहे, एव, समीयुषः समेतस्य, उपपतेः जारस्य, घनं गाढं यथा तथा, परिरम्भसाहसैः आलिङ्गनरूपसाहसकृत्यैः, तदा तत्काले, तदालोकनं नलविलोकनं, सविघ्नं यथा तथा अनवभूयत अनुभूतं, जारकर्त्तृकालिङ्गनेन व्यवधानात् निरन्तरदर्शनं न जातमित्यर्थः। कामान्धाः किं न कुर्वन्तीति भावः॥ 15.78 ॥
दिदृक्षुरन्या विनिमेषवीक्षणा नृणामयोग्यां दधती तनुश्रियम्।
पदाग्रमात्रेण यदस्पृशन्महीं न तावता क्वलमप्सरोऽभवत्॥ 15.79 ॥
अन्वयः–दिदृक्षुः विनिमेषवीक्षणा नृणाम् अयोग्यां तनुश्रियं दधती अन्या पदाग्रमात्रेण यत् महीम् अस्पृशत् तावता केवलं न अपेसरः अभवत्।
जीवातु–दिदृक्षुरिति। दिदृक्षुः नलं द्रष्टुमिच्छुः, अत एव विनिमेषवीक्षणा अनिमेषदृ,्टिः, नृणाम् अयोग्याम् अमानुषीं, तनुश्रियम् अङ्सौन्दर्यं, दधती अन्या काचित् सुन्दरी, पदाग्रमात्रेण पदाङ्गुल्यग्रेण भरं कृत्वेत्यर्थः। महीं यत् अस्पृशत्, तावता केवलं महीतलस्पर्शेनैव, न अप्सरोऽभवत्, अन्यथा अप्सरोऽस्याश्च को भेदः? इति भावः अत्र `कृभ्वस्तियोगे-’ इत्यादिना अभूततद्भावार्थे अपसरःशब्दात् च्वि-प्रत्ययः। प्रकृतिविकृतिस्थले क्रियया प्रकृतिसङ्ख्याग्रहणनियमात् अन्या इत्यस्यैकवचनान्तत्वेन अभवदित्यत्राप्येकवचनम्। अत्र महीमस्पृशदित्युपमेयस्योपमानादीषदल्पत्वकथनेन भेदप्रधानसादृश्योक्तिव्यतिरेकालङ्कारभेदः; `भेदप्रधानं साधर्म्यमुपमानोपमेययोः। आधिक्याल्पत्वकरणात् व्यतिरेकः स उच्यते॥’ इति लक्षणात्॥ 15.79 ॥
विभूंषणं स्रं सनशंसनार्पितैः करप्रहारैरपि धूननैरपि।
अमान्तमन्तः प्रसभं पुरा परा सखीषु सम्मापयतीव सम्मदम्॥ 15.80 ॥
अन्वयः–परा (अपरा) अन्तः अमान्तं सम्मदं विभूषणस्रंसनशंसनार्पितैः करप्रहारैः प्रसभं सखीषु पुरा सम्मापयति इव।
जीवातु–विभूषणेति। परा अन्या काचित्, अन्तःसखीषु अन्तःशरीरे, अमान्तमत्याविक्यात् उल्लसन्तं, सम्दं हर्षं, दिभूषणानां स्रं सनस्य स्थानभ्रंशस्य, शंसनाय यथास्थानं निवेशय इति कथनाय, अर्वितैः प्रयुक्तैः, प्रसभं बलात् करप्रहारैः पाणिघातैरपि, तथा धूननैरपि तदीयगात्रकम्पनैरपि, पुरा सम्मापयतीव सम्मापयामासेवेत्युत्प्रेक्षा। `पुरि लङ् चास्मे’ इति भूते लट्। यथा तण्डुलादिसम्मापनाय प्रस्थादिकं मुष्टिभिर्वध्नन्ति धुवन्ति च तद्वदिति भावः॥ 15.80 ॥
वतंसनीलाम्बुरुहेण किं दृशा विलोकमाने विमनीबभूवतुः?।
अपि श्रुती दर्शनसक्तचेतसां न तेन ते शुश्रुवतुर्मृगीदृशाम्॥ 15.81 ॥
अन्वयः–दर्शनसक्तचेतसां मृगीदृशां श्रुती वतंसनीलाम्बुरुहेण दृसा विलोकमाने किं विमनीबभूवतुः तेन ते न शुश्रुवतुः?
जीवातु–वतंसेति। दशंनसक्तचेतसां नलविलोकनासक्तचित्तानां, मृगीदृशां स्त्रीणां, श्रुती कर्णौ अपि, वतंसनीलाम्बुरुहेण कर्णभूषणीकृतनीलोत्पलेन, दृशा चक्षुषा, इति व्यस्तरूपकं, विलोकमाने नलं पश्यन्त्यौ, अविमानसौ विमनसौ बभूवतुः मनः सम्बन्धरहिते इव किम्? इत्युत्प्रेक्षा। `अरुर्मनस्चक्षुश्चेतोरहोरजसां लोपश्च’ इति च्विप्रत्ययः सलोपश्च, `अस्य च्वौ’ इतीकारः। तेन विमनीभावेन, ते श्रुती, न शुश्रुवतुः विभूषणस्रं सनमिकि सखीकर्त्तृकयथास्थाननिवेशनशंसनमिति वा शेषः, मृगीदृशः चक्षुर्भ्यां नलविलोकनासक्तचित्ताः सत्यः यथा विमनीबभूवुः तथा तासां कर्णावपि कर्णावतसनीलोत्पलरूपदृशा नलं पश्यन्तौ सन्तौ विमनीबभूवतुः किम्? तत एत तासां श्रुती भूषमभ्रशशब्दं सखीकर्तृकतच्छंसनं वा न शुश्रुवतुः? इति तात्पर्यम्। अत्रोत्प्रेक्षालंकारः॥ 15.81 ॥
काश्चिन्निर्मय चक्षुःप्रसृतिचतुलुकितं तास्वशङ्कन्त कान्ता
मौग्ध्यादाचूंडमोघर्निचुलितमिव तं भूषणानां मणीनाम्।
साहस्रीभिर्निमेषाकृतमतिभिरयं दृग्भिरालिङ्गितः किं
ज्योतिष्ठोमादियज्ञश्रुतफलजगतोसार्वभौमभ्रमेण?॥ 15.82 ॥
अन्वयः–तासु काश्चित् कान्ताः भूषणानां मणीनाम् ओघैः आचूडं निचुलितम् इव तं चक्षुप्रसृतिचुलुकितं निर्माय मौग्ध्यात् अशङ्कन्त–अयं ज्योतिष्टोमादियज्ञश्रुतफलजगतीसार्वभौमभ्रमेण निमेषाकृतमतिभिः साहस्राभिः दृग्भिः किम् आलिङ्गितः?
जीवातु–काश्चिदिति। तासु पौरकान्तासु मध्ये, काश्चित् का अपि, कान्ताः सुन्दर्यः, भूषणानां सम्बन्धिनां, मणीनाम् ओघैः समूहैः, आचूडम् आशिखण्डकं, शिखापर्यन्तमित्यर्थः, अभिविधाव्ययीभावः। निचुलितं छादितमिव स्थितम्, सर्वावयवेष्वेव मणिघटितभूषणसत्वात् मणिभिराच्छादितमिव स्थितमित्यर्थः, साग्रहं दृष्ट्वेति भावः, मौग्ध्यात् मोहात्, अशङ्कन्त। शङ्काप्रकारमेवाह-अय पुमान्, ज्योतिष्टोमादियज्ञैः श्रुतम् अवगतम्, ज्योतिष्ठोमादियज्ञानुष्ठानजन्यप्राप्तमित्यर्थः, फल फलभूता, जगती स्वर्गलोकः, तस्याः सार्वभौमः सर्वभूमेः ईश्वरः इन्द्रः, इति भ्रान्त्या, निमेषाकृतमतिभिः निमेषेऽकृतबुद्धिभिः, अनिमेषाभिरित्यर्थः साहस्रीभिः सहस्रसङ्ख्यकाभिः, `अण्च’ इति मत्वर्थीयोऽण्-प्रत्ययः दृग्भिः नेत्रैः, आलिङ्गतिः स्पृष्टः, आश्रित इत्यर्थः, किम्? इति आशङ्कन्त इत्येकान्वयो वा, मणिभूषितम् एनं दृष्ट्वा पौरकान्ताः अस्मिन् इन्द्रभ्रान्त्या नेत्रसहस्रम् एनं नलं प्राप्तं किम्? इति उत्प्रेक्षितवत्यः; इत्यर्थः। भ्रान्तिमत्सङ्कीर्णेयमुत्प्रेक्षा। स्रग्धरा वृत्तम्॥ 15.82 ॥
भवन् सुद्युम्नः स्त्री नरपतिरभूद् यस्य जननी
तम्‌र्वश्याः प्राणानपि विजयमानस्तनुरुचा।
हरारब्धक्रोधन्धनमदनसिंहासनमसौ
अलङ्कर्मीणश्रीरुदभवदलङ्कर्त्तुमधुना॥ 15.83 ॥
अन्वयः–सुद्यम्नः नरपतिः स्त्री भवन् यस्य जननी अभूत्, उर्वश्याः प्राणान् तम् अपि तनुरुचा विजयमानः असौ हरारब्धक्रोधेन्धनमदनसिंहीसनम् अलङ्कर्त्तुम् अलङ्कर्मीणश्री अधुना उदभवत्।
जीवातु–भवन्निति। सुद्युम्नो नाम नरपतिः राजा स्त्री भवन् ईश्वरशापात् इलाख्या स्त्री सन्, यस्य पुरूरवसः, जननी माता, अभूत्, उर्वश्याः प्राणान् प्राणभूतम्, अप्सरोमनोहारिरूपमित्यर्थः, तमपि तस्याम् इलायां बुधात् उत्पन्नम् ऐलं पुरुरवसमपीत्यर्थः तनुरुचा अङ्गलावण्येन विजयमानः अतिशयानः, पराभावुक इत्यर्थः, असौ नलः, हरेण आरब्धस्यआवेशितस्य, क्रोधस्य क्रोधाग्नेः, इन्धनस्य दाह्यस्य, मदनस्य अनङ्गस्य, सिंहासनं हरकोपानलदगघत्वात् शून्यं मदनस्य सिंहासनमित्यर्थः, अलङ्कर्त्तुम् अधिष्ठातुम्, अलं कर्मणे अलङ्कर्मीणः, `कर्मक्षमोऽलङ्कर्मीणः’ इत्यमरः। `अषडक्ष-’ इत्यादिना खप्रत्ययः। अलङ्कर्मीणा कर्मक्षमा, श्रीः शोभा यस्य सः, मदनसिंहासनयोग्यः स्न् इत्यर्थः, अधुना उदभवत् उत्पन्नः, ततोऽपि सुन्दर इत्यर्थः, इति आलेपुरिति परेणान्वयः। अत्र सूर्यस्य नप्ता मनोः पुत्रः सुद्युम्नो नाम राजा मृगयासक्तो हिमवत्पार्श्वे पार्वतीवनं प्रविष्टः ईश्वरशापात् स्त्रीत्वं प्राप्य बुधात् पुरूरवसमतिसुन्दरमिन्दुवंशप्रवर्त्तक जनयामासेति पौराणिको कथा अत्रानुसन्धया। शिखीरिणीवृत्तम्॥ 15.83 ॥
अर्थी सर्वसुपर्वणां पतिरसावेतस्य यूनः कृते
पर्यत्याजि विदर्भराजसुतया युक्तं विशेषज्ञया।
अस्मिन्नाम तया वृते सुमनसः सन्तोऽपि यन्निर्जरा
जाता दुमनसो न सोञुमुचितास्तषान्तु साऽनौचिती॥ 15.84 ॥
अन्वयः–विशेषज्ञया विदर्भराजसुतया अर्थी असौ सर्वसुपर्वणां पतिः एतस्य पुनः कृते युक्तं जातः नाम, तेषां तु सा अनौचिती सोढुंन उचिता।
जीवातु–अर्थिति। विशेषज्ञया गुणानां तारतम्याभिज्ञया, विदर्भराजसुतया वैदर्भ्या, अर्थी भैमीं परिणेतुम् अर्थित्वं गतः, असौ प्रसिद्धः, सर्वसुपर्वणां पतिः देवेन्द्रः, एतस्य यूनः पूर्णतारुण्यवतः, कृते निमित्तं, नललाभार्थमित्यर्थः पर्यत्याजि नलात् हीनगुणत्वात् परित्यक्तः, इति युक्तम्, अन्यथा अज्ञत्वं स्यादिति भावः, किन्तु अस्मिन् नले, तया वैदर्भ्या, वृते सति निर्जरा देवाः इन्द्रादयः, सुष्ठु मन्यन्ते जानन्तीति सुमनसः सर्वज्ञाः, सुज्ञोऽजाणादिकोऽसुन्‌प्रत्ययः, शोभनचित्ताश्च, सन्तोऽपि, दुर्मनसः दूनमनसः, जाता नाम इति यत्, नामेति सम्भावनायां, तेषां देवानां, सा तु दुर्मनीभावरूपा, दुःखितमानसरूपेत्यर्थः, विधेयप्राधान्यात् स्त्रीलिङ्गनिर्देशः। अनौचिती अनौचित्यम्, अनुचितकार्यकारित्यमित्यर्थः, सोढुं न उचिता, अस्माभिरिति शेषः। विशेषज्ञानाम् उत्कृष्टवस्तुस्वीकरणम् उचितमेव, किन्तु सुमना इति नामधारिणामपि देवतानाम् दमयन्तीकर्तृकनलवरणे दुर्मनस्त्वमनुचितमिति भावः। शार्दूलविक्रीडितं वृत्तम्॥ 15.84 ॥
अस्थोत्कण्ठिलोठिवरणस्रक्‌साक्षिभिर्दिग्धवैः
स्वं वक्षः स्वयमस्फुटन्न किमदः शस्त्रादपि स्फोटितम्।
व्यावृत्योपनतेन हा! शतमखेनाद्य प्रसाद्य कथं
भैम्यां व्यर्थमनोरथेन च शची साचीकृताऽऽस्याम्बुजा?॥ 15.85 ॥
अन्वयः–अस्य उत्कण्ठितकण्ठलोठिवरणस्नक्‌साक्षिभिः दिग्धवैः स्वयम् अस्फुटत् अदः स्वं वक्षः शस्त्रात् अपि किं न स्फोटितम्? हा, अद्य भैम्यां व्यर्थमनोरथेन व्यावृत्य उपनतेन च शतमखेन साचीकृतास्याम्बुजा सा शची कथं प्रसाद्या?
जीवातु–अस्येति। अस्य नलस्य, उत्कण्ठिते बहुदिनात् भैमीवरमाल्यलाभार्थमुत्सुके, कण्ठे लुठतीति तादृश्याः लोठिन्याः, वरणस्रजः वरमालायाः, साक्षिभिः साक्षाद्‌द्रष्टुभिः, दिग्धवः इन्द्रादिभिः, दिक्पतिभिः स्वयं स्वतः एव, अस्फुटन् अपि लज्जाविरहादिविदीर्णमपि, अदः स्वं वक्षः शस्त्रादर्पि नलस्यस्त्रप्रहारादपि, स्वयं छुरिकादिघातादपि वा किं न स्फोटितम्? भैमीलाभार्थ नलेन सह युद्धं कृत्वा तदीयास्त्रेण वा स्वयं व्यर्थमनोरथेन विफलाभिलाषेण, अत एव व्यावृत्योपननतेन प्रत्यावृत्य शचीमुपनतेन, स्वापराधमार्जनार्थ शचीसमीपे प्रणतेनेत्यर्थः। शतमखेन इन्द्रेण, साचीकृतं तिर्यक्कृतम्, आस्याम्बुजं यया सा तादृशी विषादे। शची क्रोघवशात् वक्रास्यतया सन्मुखस्थानवलोकनात् इन्द्रकृतप्रणामाढ्जल्यादिकं नावलोकयिष्यतीति कथं प्रसाद्येति भावः॥ 15.85 ॥
मा जानीत विदर्भजामविदुषीं कीर्त्तिर्मुदः श्रेयसी
सेयं भद्रमचीकरद् मघवता न स्वं द्वितीयां शचीम्।
कः शच्या रचयाञ्चकार चरिते काव्यं स नः कथ्यतामेतस्यास्तु करिष्यते रसधुनीपात्रे चरित्रे न कैः?॥ 15.86 ॥
अन्वयः–विदर्भजां मुदः कीर्त्तिम् अविदुषी मा जानीत, सा इयं मघवता स्वं द्वितीयां शचीं भद्रं न अचीकरत्, शच्याः चरिते कः काव्यं रचयाञ्चकार सः नः कथ्यताम्; एतस्याः तु रसधुनीपात्रे चरित्रे कैः न करिष्यते?
जीवातु–मेति। हे प्रयसख्यः! विदर्भजां वैदर्भीम्, अविदुषीम् अविशेषज्ञां, मा जानीत मा मन्यध्वं, यूयमिति शेषः, देवानन्दं विहाय मानुषानन्दे प्रवृत्ता कथं विदुषी? इति शङ्कां निरस्यति यः मुदः आनन्दात्, कीर्त्तिः श्रेयसी प्रसस्यतरा ततः किं तत्र? इति आह-सा इयं दमयन्ती, (प्रयोजिका) मधवता इन्द्रेण, (प्रयोज्येन) स्वम् आत्मानं, द्वितीयां शचीं न अचीकरत् न कारितवती इन्द्रं यदि वृमुयात् तदा तत्पत्नीत्वेन शचीत्वप्राप्त्या स्वयं द्वितीया शची स्यादिति न इन्द्रं वव्रे इत्यर्थः, करोतेर्णौ चङ्युपधाया ह्रस्वः `चङि’ इति द्विर्भावे सन्वद्भावे `सन्यतः’ इत्यभ्यासस्य इत्वे `दीर्घो लघोः’ इति दीर्घः। इति भद्रम्, इन्द्रस्यावरणम् एव साधु कीर्त्तिकरत्वादिति भावः। कथं शचीत्वमेव न साधु? इत्याह-कः कविः, शच्याः चरिते काव्यं रचयाञ्चकार? सः कविः, नः अस्मभ्यं, कथ्यतां, न कोऽपीत्यर्थः, एतस्यास्तु दमयन्त्याः पुनः सम्बन्दिनी, रसधुनी रसवती `तटिनी ह्रदिनी धुनी’ इत्यमरः। तस्याः पात्रे कूलद्वयमध्ये, प्रवाहस्थाने इत्यर्थः, `पात्रन्तु भाजने योग्ये वित्ते कूलद्वयान्तरे’ इति वैजयन्ती, विविधसुरसाधारे इत्यर्थः। चरित्रे विषये, कैः कविभिः, न करिष्यते? काव्यमिति शेषः। सर्वैरपि स्वत एव करिष्यते इत्यर्थः, स्वयमेव दृष्टान्तः इति कवेः तात्पर्यं, तस्मात् कीर्त्तिकरत्वात् नलवरणमेव भद्रमिति भावः॥ 15.86 ॥
वैदर्भीबहुजन्मनिर्मिततपःशिल्पेन देहक्षिया
नेत्राभ्यां स्वदते युवाऽयमवनीवासः प्रसूनायुधः।
गीर्वाणालयसार्वभौमसुकृतप्रग्भारदुष्प्रापया
योगं भीमजयाऽनुभूय भजतामद्वैतमद्य त्विषाम्॥ 15.87 ॥
अन्वयः–अवनीवासः प्रसूनायुधः अयं युवा वैदर्मीबहुजन्मनिर्मिततपःशिल्पेन देहश्रिया नेत्राभ्यां स्वदते, गीर्वामालयसार्वभौमसुकृतप्राग्भारदुष्प्रापया भीमजया योगम् अनुभूय त्विषाम् अद्वैतं भजताम्।
जीवातु–वैदर्भीति। अवन्यां वासः यस्य सः तादृशः, प्रसूनायुधः पुष्पेषुः, भूलोकमन्मथः इति यावत् अयं युवा नलः, वैदर्भ्याः दमयन्त्याः बहुषु जन्मसु निर्मितेन कृतेन, तपसा तपस्यालब्धेनेत्यर्थः, शिल्पेन कलाकौशलेन, दमयन्तीतपःफललब्धकलाकौशलस्वरूपणेत्यर्थः, देहश्रिया कायकान्त्या, नेत्राक्ष्यां स्वदते रोचते, पस्यन्तीनामस्माकं नेत्रानन्दं करोतीत्यर्थः, `रुच्यर्थानां प्रीयमाणः’ इति चतुर्थी। अत एव गीर्वाणालयसार्वभौमसुकृतप्राग्भारैः नाकनायकपुण्यराशिभिः अपि, दुष्प्राया दुर्लभया, इन्द्रादिभिरपि दुरधिगम्यया इत्यर्थः, भीमजया भैम्या सह, योगं मिलनम्, अनुभूय अद्य त्विषां कान्तीनाम्, अद्वैतम् अद्वितीयत्वम्, असाधारण्यमित्यर्थः भजतां गच्छतु अयं युवेति पूर्वेणान्वयः॥ 15.87 ॥
स्त्रीपुंसव्यतिषञ्जनं जनयतः पत्युः प्रजानामभूदभ्यासः परिपाकिमः किमनयोर्दाम्पत्यसम्पत्तये?।
आसंसारपुरन्ध्रिपूरुषमिथः प्रेमार्पणक्रीडयाऽप्येतज्जम्पतिगाढरारचनात् प्राकर्षि-चेतोभुवः॥ 15.88 ॥
अन्वयः–स्त्रीपुंसव्यतिषञ्जनं जन्यतः प्रजानां पत्युः अभ्यासः किम् अनयोः दाम्पत्यसम्पत्तये परिपाकः अभूत्? चेतोभूवः अपि आसंसारपुरन्ध्रिपूरुषमिथःप्रेमार्पणक्रीडया एतज्जम्पतिगाढरागरचनात् प्राकर्षि।
जीवातु–स्त्रीपुंसेति। त्री च पुमांश्च स्त्रीपुमांसौ `अचतुर-’ इत्यादिनां निपातनात् साधुः। तयोः व्यतिषञ्जनं जनयतः सङ्घटनं कुर्वतः; प्रजानां पत्युः स्रष्टुः, परिपाकेण निर्वृत्तः परिपाकिमः परिपक्वः इत्यर्थः; `भावप्रत्ययान्तादिमप् वक्तव्यः’ इति इमप्‌प्रत्ययः। अभ्यासः पुनः पुनः स्त्रीपुंससंयोजनकरणरूपावृत्तिः, अनयोः नलदमयन्त्योः, दाम्पत्यस्य जायापतित्वस्य, सम्पत्तये सम्पादनाय, अभूत् किम्? नो चेत् तस्य कथमीदृगनुरूपसङ्घटकत्वमिति भावः। तथा अभ्यासं विना कथम् ईदृगन्योऽन्यानुरागजननचातुरौबावः? इति तात्पर्यम्। किञ्च, चेतोभुवः कामस्य अपि, आसंसारं संसारम् आरभ्य अभिविधाव्ययीभावः। पुरन्ध्रिपूरुषयोः स्त्रीपुंसयोः, मिथः अन्योऽन्यं, प्रेम्णोऽर्पणम् अनुरागोत्पादनम् एव, क्रीडा तयाऽपि, एतज्जम्पत्योः एतयोर्नलदमयन्तीरूपयोः दम्पत्योः `दम्पती जम्पती जायापती’ इत्यमरः। जायाशब्दस्य दम्भावो ज्मभवाश्च निपातितः। गाढः बद्धमूलः, रागः प्रेम, तस्य रचनात् सम्पादनात् प्रकर्षि प्रकृष्टया जातम् इत्यर्थः। परस्परानुरागोत्पादनक्रीडाया उत्कर्षः एतयोर्नलभैम्योरेव विश्रान्त इति भावः, कृषेर्भावे लुङ्॥ 15.88 ॥
ताभिर्दृश्यत एष यान् पथि महाज्यैष्ठीमहे मन्महे
यद्‌दृग्भिः पुरुषोत्तमः परिचितः प्राग् मञ्चमञ्चन् कृतः।
सां स्त्रीराट् पतयालुभिः शितिसितैः स्यादस्य दृक्चामरैः
सस्ने माघमघाभिघातियमुनागङ्गौघयोगे यया॥ 15.89 ॥
अन्वयः–मन्महे-महाज्यैष्ठीमहे यदृग्भिः प्राक् मञ्टम् अञ्चन् पुरुषोत्तमः परिचितः कृतः ताभिः पथि यान् एषः दृश्यते; यया अघाभिघातियमुनागङ्गौं घयोगे माघं पतयालुभिः शितसितैः अस्य दृग्चामरैः सा स्त्रीराट् स्यात्।
जीवातु–ताभिरिति। ताभिः स्त्रीभिः, पथि राजपथे, यान् गच्छन्, यातेर्लटः शत्रादेशः। एष नलः, दृश्यते, यासां दृग्भिः नेत्रैः, प्राक् पूर्वस्मिन् जन्मनि, ज्येष्ठया नक्षत्रेण युक्ता पौर्णमासी, ज्यैष्ठी, `नक्षत्रेण युक्तः कालः’ इति म़ञ्च षर्यङ्कम्, अञ्चन् गच्छन् मञ्चस्थ इत्यर्थः, `मञ्चपर्यङ्कल्यङ्काः खट्वया समाः’ इत्यमरः, पुरुषोत्तमः नारायणः, परिचितः दष्टः कृतः, नेत्रैः, उपासितः इत्यर्थः, तादृक् सुकृतं विना कथमीदृङ्महाभागदर्शनं लभ्यते इति भावः, यथाऽऽहुः, `दोलारूढञ्च गोविन्दं मञ्चस्थं मधुसूदनम्। रथस्थं वामनं दृष्ट्वा पुनर्जन्म न विद्यते॥’ इति। तथा पतयालुभिः उपरिपातुकैः `स्पृहिगृहिपति-’ इत्यादिना चौरादिकात् पतेरालुचि `अयामन्तालु-’ इत्यादिना णेरयादेशः। शितिभिः श्यामवर्णैः, तथा सितैः शुभ्रश्च, अस्य नलस्य दृग्भिः दृष्टिभिः एव चामरैः व्यजनैः, सा स्त्रीणां राट् स्त्रीराट् स्त्रीणां राज्ञी, स्त्रीषु श्रेष्ठेत्यर्थः स्यात् भवेत्, `सत्सूद्विष-’ इत्यादिना क्विप्। राजचिह्नत्वात् चामराणामिति भावः, यथा स्त्रिया अघानि अभिहन्तीति अघाभिघाती पापविनाशी, ताच्छील्ये णिनिः, `हो हन्तेः-’ इति कुत्वं `हनस्तोऽचिण्णलोः’ इति नकारस्य तकारः। तस्मिन् यमुनागङ्गयोः ओघयोगे प्रवाहसंयोगसमीपे, गङ्गायमुनासङ्गमे प्रयागादौ इत्यर्थःष सामीप्ये अव्यीभावः, `तृतीयासप्तम्योर्बहुलम्’ इति विकल्पादम्भावाभावः। मघाभिर्नक्षत्रेण युक्ता पौर्णमासी माघी `नक्षत्रेण युक्तः कालः’ इत्यण्। सा माघी अस्मिन् इति माघः। `साऽस्मिन् पौर्णमासीति’ इति संज्ञायामण्-प्रत्ययः। तं माघं माघमासं व्याप्य, अत्यन्तसंयोगे द्वितीया। सस्ने स्नातम् स्नातेर्भावि लिट्। यया प्रयागे स्नातं सैव नलेन अवलोक्यते, अन्यता कथमीदृङ्महालाभ इति भावः। अत्राप्याहुः-`सितासितेषु यैः स्नातं माघमासे युधिष्टिर!। न तेषां पुनरावृत्तिः कल्पकोटिशतैरपि॥’ इति मन्महे विवेचयामि, वाक्यद्वयार्थः कर्मपदम्॥ 15.89 ॥
वैदर्भीविपुलानुरागकलनासौभाग्यमत्राखिलक्षौणीचक्रशतक्रतौ निजगदे तद्‌वृत्तवृत्तक्रमै।
किञ्चास्माकनरेन्द्रभूभगतासम्भूतये लग्नकं
देवेन्द्रावरणप्रसादितशचीविश्राणिताशीर्वचः॥ 15.90 ॥
अन्वयः–तद्‌वृत्तवृत्तक्रमैः वैदर्भीविपुलानुरागकलनासौभाग्यम् अत्र अखिलक्षोणीचक्रशतक्रतौ निजगदे; किम् च आस्माकनरेन्द्रभूसुभगतासम्भूतये देवेन्द्रावरणप्रसांदितशचीविश्राणिताशीर्वचः लग्नकम्।
जीवातु–वैदर्भीति। अखिलक्षौणीचक्रशतक्रतौ अखिलभूलोकदेवेन्द्रे, अत्र अस्मिन् नले, वैदर्भीविपुलानुरागकलना दमयन्तीगाढानुरागलाभझ, सा एव सौभाग्यं वालल्भ्यम् (कर्म) तस्याः भैम्याः वृत्तवृत्तक्रमैः अतीतचरित्रप्रकाशैः इन्द्रप्रतिषेधादिभिः (कर्त्तृभिः) `वृत्तं पद्ये चॉरित्रें त्रिष्वतीते दृढनिस्तले’ इत्यमरः, निजगदे गदितं, तादृगनुरागाभावे कथमिन्द्रादिप्रतिषेध इति भावः। किञ्च, देवेन्द्रस्य अवरणेन वरणाकरणेन, प्रसादितया सन्तोषितया, शच्या विश्राणितं दत्तम्, आशीर्वचः एव अस्माकमियम् आस्माकास्माकौ’ इति अस्माकादेशः। तस्याः नदेन्द्रभुवः राजपुत्र्याः भैम्याः, सुभगतायाः पतिवाल्लभ्यस्य, सम्भूतये लाभाय, लग्नकं प्रतिभूः `स्युर्लग्नकाः प्रतिभुवः’ इत्यमरः। अभूत् इति शेषः। स्त्रीणां सौभाग्यस्य शचीप्रसादलभ्यत्वादिति भावः॥ 15.90 ॥
आसुत्राममपासनान्मखभुजां भैम्यैव राजव्रजे
तादर्थ्यागमनानुरोधपरया युक्ताऽऽर्जि लज्जामृजा।
आत्मानं त्रिदशप्रॅसादफलितं पत्ये विधायानया
ह्रीरोषापयशःकथानवसरः सृष्टः सुराणामपि॥ 15.91 ॥
अन्वयः–तादर्थ्यगमनानुरोधपरया भैम्या एव आसुत्रामं मखभुजाम् अपासनात् राजव्रजे युक्ता लज्जामृजा आर्जि; अनया त्रिदशप्रसादफलितम् आत्मानं पत्ये विधाय सुराणां ह्रीराणां ह्रीरोषापशः कथानवसरः अपि सृष्टः।
जीवातु–आसुत्राममिति। राज्ञां भूभुजां व्रजे राजव्रजे स्वयंवरगतराजसमाजे, तादर्थ्येन स नलः अर्थः प्रयोजनं यस्य तस्य भावः तादर्थ्यं नलप्रयोजनकत्वं, तेन हेतुना यत् आगमन स्वयंवरप्रवेशनं, तस्य अनुरोधः अनुवर्त्तनमेव, परं प्रधानं यस्याः तया नलैकपरया, भैम्या आसुत्रामम् इन्द्रपर्यन्तम्, अभिविधावव्ययीभावः। `अन्श्च’ इति समासान्तष्टच्। `सुत्रामा गोत्रभिद् वज्री’ इतीन्द्रपर्याये अमरः मखभुजां देवानाम्, अपासनात् प्रत्याख्यानात् हेतोः; लज्जायाः मृजा प्रमार्जनं, युक्ता योग्या एवं आर्जि अर्जिता, आहारे व्यवहारे च त्यक्तलज्जः सुखी भवेत्’ इति न्यायादिति भावः। अनया भैम्या, त्रिदशप्रसादेन देवानुग्रहेण, फलितं सफलम्, आत्मानं पत्ये पराय नलाय, विधाय दत्वा, सुराणां ह्रीरोषापयशसां प्रत्यख्यानजनितलज्जाक्रोधदुष्कीर्त्तिप्रसक्तानां, कथानाम् अनवसरोऽपि सृष्टः अनवकाशः कृतः, तदनुज्ञयैव प्रकृते वरणम् इति अत्र कश्चिदपयशःकथानवकाश इति भावः॥ 15.91 ॥
इत्यालेपुरनुप्रतीकनिलयालङ्कारसारश्रियाऽलङ्कुर्वत्तनुरामणीयकममूरालोक्य पौरस्त्रियः।
सानन्दं कुरुविन्दसुन्दरकरस्यानन्दनं स्यन्दनं
तस्याध्यास्य यतः शतक्रतुहरित्क्रीडाद्रिमिन्दोरिव॥ 15.92 ॥
अन्वयः–कुरुविन्दसुन्दरकरस्य आनन्दनं स्यन्दनम् अध्यास्य यतः तस्य शतक्रतुहरिक्क्रीडाद्रिम् इन्दोः इव अनुप्रतीकनिलयालङ्कारश्रिया अलङ्कुर्वत्तनुरामणीयकम् आलोक्य अमूः पौरस्त्रियः कानन्दम् इति आलेपुः।
जीवातु–इतीति। कुरुविन्दः पद्मरागः `कुरुविन्दस्तु मुस्तायां कुल्माषर्व्राहिभेदयोः। हिङ्‌गुले पद्मरागेऽपि मुकुलेऽपि समीरितः॥’ इति विश्वः। तद्वत् सुन्दरौ करौ हस्तौ यस्य तस्य; अन्यत्र सुन्दराः कराः अंशवः यस्य तस्य, आनन्दयतीति आनन्दनम् आनन्दकरम्, नन्द्यादित्वाल्ल्युः। स्यन्दनं रथम्, अध्यास्य अधिष्ठाय, यतेः गच्छतः, इणो लटः शत्रादेशः। तस्य नलस्य, शतक्रतुहरितः प्राच्याः दिशः, क्रीडाद्रिं क्रीडापर्वतम्, उदयाद्रिमिति यावत्, अध्यास्य यतः गच्छतः, इन्दोः इव अनुप्रतीकनिलयानां प्रत्यवयवसंश्रयाणाम्, अलङ्कारसाराणाम् उत्कृष्टाभरणानां, श्रिया शोभया साधनेन, अलङ्कुर्वत्या आत्मानं प्रसाधयन्त्याः, तनोः मूर्त्तेः, रामणीयकं रमणीयत्वम्। `योपधाद् गुरूपोत्तमाद् वुञ्’ इति वुञ्‌प्रत्ययः, आलोक्य अमूः पौरस्त्रियः इति वूर्वोक्तरीत्या, सान्न्दं यथा तथा आलेपुः आलपन्। आलपेर्लिट्, अत एव एत्वाभ्यासलोपौ॥ 15.92 ॥
श्रीहर्ष कविराजराजिमुकुटालङ्कारहोरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
यातः पञ्चदशः कृशेतररसस्वादाविहायं महाकाव्ये तस्य वैरसेनिचरिते सर्गो निसर्गोज्ज्वलः॥ 15.93 ॥
अन्वयः–पूर्वार्द्धस्य पूर्ववत्। हि कृशेतररसस्वादौ तस्य वैरिसेन-चरिते महाकाव्ये इह अयं निसर्गोज्ज्वलः पञ्चदशः सर्ग यातः।
जीवातु–श्रीहर्षमिति। कृशेतरेण अकृशेन, निर्भरेण इत्यर्थः, रसेन श्रृङ्गारेण, स्वादौ रुचिरे इह स्वस्य कृतौ काव्ये, पञ्चदशानां पूरणः पञ्चदशः `तस्य पूरणे डच्’ इति डट् अय सर्गो यातः गतः, समाप्तः इति यावत्॥ 15.93 ॥
इति `मल्लिनाथ’विरचिते `जीवातु’ समाख्याने पञ्चदशः सर्गः समाप्तः॥ 15 ॥

*****************************************************************************

.

षोडशः सर्गः

वृतः प्रतस्थे स रथैरथो रथो गृहान् विदर्भाधिपतेर्धराधिपः।
पुरोधसं गौतममात्मवित्तमं द्विधा पुरस्कृत्य गृहीतमङ्लः॥ 16.1 ॥
अन्वयः–अथो गृहीतमङ्गलः रथी सः धराधिपः आत्मवित्तमं गौतमं पुरोधसं द्विधा पुरस्कृत्य रथैः वृतः विदर्भाधिपतेः गृहान् प्रतस्थे।
जीवातु–वृत इति। अथो प्रसाधनानन्तरं, गृहीतमङ्गलः स्वीकृतमङ्गलाचारः, रथः अस्य अस्तीति रथी रथिकः, स धराधिपः नलः, आत्मवित्तमम् आत्मतत्वज्ञानिनां श्रेष्ठं, गौतमं गौतमाख्यम् ऋषिः, पुरोधसं पुरोहितं, द्विधा प्रकारद्वयेन, पुरस्कृत्य पूजयित्वा अग्रे कृत्वा च `पुरस्कृतः पूजितेऽरात्यभियुक्तेऽग्रतः कृते’ इत्यमरः। रथै रथिभिः पुरूषैः, `कुन्ताः प्रविशन्ति’ इतिवत् रथशब्दस्य रथिषु लक्षणा। वृत्तः वेष्टितः सन्, विदर्भाधिपतेः भीमस्य, गृहान् प्रति प्रतस्थे प्रस्थित। `समवप्रविभ्यः स्थः’ इत्यात्मनेपदम्। वंशस्थविलं वृत्तम्॥ 16.1 ॥
स्वभूषणांशुप्रतिबिम्बितैः स्फुटं भृशावदातैः स्वनिवसिभिर्गूणैः।
मृगेक्षणानां समुपासि चामरैर्विधुयमानैः स विधुप्रभैः प्रभुः॥ 16.2 ॥
अन्वयः–सः प्रभुः स्वभूषणांशुप्रतिबिम्बितैः विधूयमानैः विधुप्रभः भृशावदातैः मृगेक्षणानां चामरैः स्वनिवासिभिः गुणैः स्फुटं समुपासि।
जीवातु–स्वेति। सः प्रभुः नलः, स्वभूषणानाम् अंशुषु प्रभासु, प्रभाशालिमणिषु इति यावत्, प्रतिबिम्बितैः प्रतिफलितैः, विधूयमानैः कम्प्यमानैः, विधोः चन्द्रस्य, प्रभा इव येषां तैः, अत्र निदर्शनाविशेषः, मृगेक्षणानां हरिणलोचनानां, चामरग्राहिणीनां सम्बन्धिभिरिति भावः, चामरैः चामरव्यजनेनेत्यर्थः, भृशावदातैः अतिशुभ्रैः, स्वनिवासिभिः स्वनिष्ठैः, अत एव स्वभूषणांशुप्रतिबिम्बितैः, गुणैः नलस्य श्रुतशीलादिगुणैः एव, समुपासि उपासितः, स्फुटम्। प्रतिबिम्बितचामरेषु स्वामिसेवार्थम् आविर्भूतस्वीयशीलसौन्दर्यादिगुणत्वस्योत्प्रेक्षालङ्कारः॥ 16.2 ॥
पराद्धर्यवेशाभरणैः पुरःसरैः सहाऽऽजिहनाने निषधावनीभृति।
दधे सुनासीरपदाभिधेयतां स रूढिमात्रात् यदि वृत्रशात्रवः॥ 16.3 ॥
अन्वयः–निषधावनी भृति पराद्धर्थवेशाभरणैः पुरःसरैः सह आजिहाने सः वृत्रशात्रवः यदि सुनासीरपदाभिधेयतां दधे, रूढिमात्रात् (एव दधे) ।
जीवातु–परार्द्ध्यति। निषधावनीभृति नले, आकल्पाः, वस्त्राभरणादिशोभाः इति यावत् `आकल्पवेशौ नेपथ्यम्’ इत्यमरः। ते च येषां तैः पुरःसरैः सुनासीरैः, अग्रगामिभिः वरपक्षीयः लोकैरिति यावत्, सह आजिहाने गच्छति सति, स प्रसिद्धः, वृत्रशात्रवः इन्द्रः, रूढिमात्रात् अश्वकर्णादिवत् समुदायशक्त्या अर्थप्रतीतिमात्रात्, सु शोभनाः, `सु पूजायाञ्च सुरे’ इति स्वामौ। नासीरा अग्रेसराः यस्य सः सुनासीरः इन्द्रः, इति पदस्य शब्दस्य, अभिर्धयतां वाच्यत्वं, यदि सम्भावनायां, दधे दधार, न तु सु शोभनाः, नासीराः अग्रेसरा यस्येति योगलभ्यार्थप्रतीतितिः, यौगिकतया सुनाशीरशब्दप्रतिपाद्यत्वस्य नले एव वर्त्तमानत्वात् न तु इन्द्रे। नलस्य नासीरदर्शनादयमेव सुनासीरः न तु इन्द्र इति प्रतीयते, नलपुरःसराणाम् इन्द्रपुरः सरेभ्यो देवेभ्योऽपि श्रेष्ठत्वात् इति भावः॥ 16.3 ॥
नलस्य नासीरसृजां महीभुजां किरीटरत्नैः पुनरुक्तदीपया।
अदीपि रात्रौ वरयात्रया तया चमूबरजोमिश्रतमिस्रसम्पदा॥ 16.4 ॥
अन्वयः–चमूरजोमिश्रतमिस्रसम्पदा नलस्य नासीरसृजां महीभुजां किरीटरत्नैः पुनरक्तदीपया तया वरयात्रया रात्रौ अदीपि।
जीवातु–नलस्येति। चमूरजोभिः सैन्यपदोत्थधूलिभिः,मिश्राः धनीभूताः, तमिस्रसम्पदः यस्यां तया, चमूपदोत्थितरजोहेतुना गाढान्धकारयेत्यर्थः, तथाऽपि नलस्य नासीरसृजाम् अग्रेसरत्वसम्पादकानाम्, अग्रयायिनमित्यर्थः। महीभुजां राज्ञां, किरीटरत्नैः मुकुटस्थितमणिभिः, पुनरुक्ताः रत्नकिरणैरेवान्धकारापसारणात् निष्प्रयोजनतया अधिकार्थकाः, दीपाः यस्यां तादृशया, तथा प्रकृतया, वरस्य वोढुः यात्रया वैवाहिकगृहयात्रया, रात्रौ अदीपि दीप्तं, शोभितमित्यर्थः। (भावे लुङ्) रत्नदीपप्रकाशेन यात्रा गाढान्धकारेऽपि दीपवती इत्यर्थः॥ 16.4 ॥
विदर्भराजः क्षितिपाननुक्षणं शुभक्षणासन्नतरत्वसत्वरः।
दिदेश दूतान् पथि यथोत्तरं चमूममुष्योपचिकाय तच्चयः॥ 16.5 ॥
अन्वयः–शुभक्षणासन्नतरत्वसत्वरः विदर्भराजः अनुक्षणं यान् क्षितिपान् दूतान् यथोत्तरं दिदेश, तच्चयः पथि अमुष्य चमूम् उपचिकाय।
जीवातु–विदर्भेति। विदर्भराजः भीमः, शुभक्षणस्य विवाहमुहूर्त्तस्य; आसन्नतरत्वेन समीपवर्त्तित्वेन, सत्वरः सन् अनुक्षणं प्रतिक्षणं, मुहुर्मुहुरित्यर्थः। यान् क्षितिपान् एव दूतान्, उत्तरोत्तरं यथा यथोत्तरं परं परं यथा स्यात्। याथार्थ्ये वीप्सायामव्ययीभावः। दिदेश आज्ञापयामास, नलं सत्वरमानयितुं प्रेषितवान् इत्यर्थः। तच्चयः तेषां प्रेषितानां राज्ञां, चयः समूहः, पथि मार्गे, अमुष्य नलस्य, चमूं सैन्यम्, उपचिकाय वर्द्धयामास। चिञ्धातोः लिटि `विभाषा चेः’ इति कुत्वम्। दूतत्वेन बहूनां प्रेषणया लग्नतिक्रमभीरोः राज्ञस्त्वरातिशयोक्तिः॥ 16.5 ॥
हरिद्विपद्वीपिभिरंशृकैर्नभोनभस्वदाध्मापनपोनितैरभूत्।
तरस्वदश्वध्वजिनीध्वजैर्वनं विचित्रचीनांशुकवल्लिवेल्लितम्॥ 16.6 ॥
अन्वयः–नभस्वदाध्मापनपीनितैः अंशुकैः हरिद्विपद्वीपिभिः तरस्वदश्वध्वजिनीध्वजैः नमः विचित्रचीनांसुकवल्लिवेल्लितं वनम् अभूत्।
जीवातु–हरीति। नभः अन्तरिक्षं, नभस्वता वायुना, आध्मापनेन पूरणेन, पीनितैः स्थूलितैः, वायुवेगेन स्फीततां गतैरित्यर्थः। अत एव सजीवसिंहादिवत् प्रतीयमानैरिति भावः। `पीनपीव्नी न स्थूलपीवरे’ इत्यमरः। अंशुकैः वस्त्रनिर्मितैः, हरिद्विपद्वीपिभिः सिंहगजव्याघ्रैः, तदाकारैः ध्वजैः इत्यर्थः। सिंहो मृगेन्द्रः पञ्चास्यः हर्यक्षः केशरी हिः’ इति, `मतङ्गजो गजो नागो द्विरदोऽनेकपो द्विपः’ इति, `शार्दूलद्वीपिनौ व्याघ्रे’ इति चामरः। तथा तरस्विनां वेगवतम्, अश्वानां ध्वजिनीषु अश्वारोहिसेनासु, ये ध्वजाः पताकाः तैः करणैः, विचित्राणि नानारूपाणि, चीनांशुकानि ध्वजसम्बन्धीनि चीनदेशभवसक्ष्मवस्त्राणि, तैः एव वल्लिभिः लताभिः वेल्लितं वेष्टितं सत्, वनम् वनतुल्यम्, अभूत्, वनकल्पम्, अभूदित्यर्थः। वनं यथा सिंह-हस्ति-व्याघ्र-वक्षादिभिः वेष्टितं भवति, तथा तद्देशावच्छिन्नं नभोऽपि क्स्त्रनिर्मितसिंहहस्तिव्यघ्रचिह्नतध्वजैर्वेष्टितमभूदिति भावः॥ 16.6 ॥
भ्रुवाऽऽह्वयन्तीं निजतोरणस्रजा गाजालिकर्णानिलखेलया ततः।
ददर्श दूतीमिव भीमजन्मनः स तत्प्रतीहारमहीं महीपतिः॥ 16.7 ॥
अन्वयः–ततः सः महीपतिः गजालिकर्णानिलखेलया नजतोरणस्रजा भ्रुवा आह्वयन्ती भीमजन्मनः दूतीम् इव तत्प्रतीहारमहीं ददर्श।
जीवातु–भ्रुवेति। (ततः प्रस्थानानन्तरम्) सः महीपतिः नलः, गजालीनां द्वारस्थितगजघटानां, कर्णानिलैः कर्णसञ्चालनोत्थवातैः, खेलतीति तादृशया खेलया चञ्चया, `शीघ्रम् आगच्छ’ इति भ्रूसङ्केतेन आकारयन्तीं, भीमजन्मनः भैम्याः, दीतीम् इवेत्युत्प्रेक्षा। तस्य भीमस्य, प्रऐतीहारमहीं द्वारभूमिं, द्वारदेशमित्यर्थः। प्रतिपूर्वकात् हृधातोर्धञि `उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इति उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इति उपसर्गस्य दीर्घः `स्त्री द्वार्द्वारं प्रतीहारः’ इत्यमरः। ददर्श॥ 16.7 ॥
श्लथैर्दलैः स्तम्भयुगस्य रम्भयोश्चकास्ति चण्डातकमण्डिता स्म सा।
प्रियासखीवास्य मनः स्थितिस्फुरत्सुखागतप्रश्निततूर्यनिस्वना॥ 16.8 ॥
अन्वयः–रम्भयोः स्तम्भयुगस्य श्लथैः दलैः चण्डातकमण्डिता सा मनः-स्थितिस्फुरत्सुकागतप्रश्निततूर्यनिस्वना अस्य प्रियासखी इव चकास्तिस्म।
जीवातु–श्लथैरिति। रम्भयोः स्तम्भयुगस्य द्वारशोभार्थ स्थापितकदलिस्तम्भयुगलस्य, श्लथैः शिथिलैः, दलैः पर्णैः, तद्रूपेणेत्यर्थः। चण्डातकेन अर्द्धोरुकेण, वराङ्गनापरिधेयवस्त्रविशेषेणेत्यर्थः। `अर्द्धोरुकं वरस्त्रीणां स्याच्छण्डातकमंशुकम्’ इत्यमरः। मण्डिता भूषिता, सा तत्प्रतीहारमही, मनसि नलस्य चित्ते, स्थितिः सर्वदा चिन्तया अवस्थानं, तया नलमनोगतत्वेनेत्यर्थः। स्फुरन् सर्वदा मनसि अवस्थानात् निर्गच्छन्, यः सुखागतस्य प्रश्नः सुखेनागमनविषयकप्रश्नः, स कृतः सुखागतप्रश्नितः सुखागमनप्रश्नरूपतासम्पादितः। `तत् करोतेः-’ इति णिजन्तात् कर्मणि क्तः। तूर्यनिस्वनः यया सा सती, अस्य नलस्य, प्रियासखी भैमीसखी इव, चकास्ति स्म चकासामास। कदलीदलरूपसुवासना तत्प्रतीहारभूमिः तूर्यनिस्वनयोगात् स्वागतं पृच्छती भैमीसखीव बभौ इत्युत्प्रेक्षा॥ 16.8 ॥
विनेतृभर्त्तृद्वयभीतिदान्तयोः परस्परस्मादनवाप्तवैशसः।
अजायत द्वारि नरेन्द्रसेनयोः समागमः स्फारमुखारवोद्‌गमः॥ 16.9 ॥
अन्वयः–विनेतृभर्त्तृद्वयभीतिदान्तयोः नरेन्द्रसेवयोः परस्परस्मात् अनवाप्तवैशसः स्फारमुखारवोद्‌गमः समागमः द्वारि अजायत।
जीवातु–विनेत्रिति। विनेत्रोः नियामकयोः भर्त्रोः नलभीमरूपयोः स्वामिनोः द्वयं तस्मात् भीत्या भयेन, दान्तयोः शान्तयोः नरेन्द्रसेनयोः भीमनलवाहिन्योः, परस्परस्मात् अन्योऽन्यस्मात्, अनवाप्तम् अप्राप्तं, वैशसं र्हिसनं यस्मिन् स तादृशः, स्फारः तारः, मुखारवोद्‌गमः मुखकलकलोदयः यस्मिन्, स तादृशः, समागमो मेलनं, द्वारि राजभवनद्वारे, अजायत जातः॥ 16.9 ॥
निवेश्य बन्धूनित इत्युदीरितं दमेन गत्वाऽर्द्धपथे कृतार्हणम्।
विनीतमाद्वारत एव पद्‌गतां गतं तमैक्षिष्ठ मुदा विदर्भराट्॥ 16.10 ॥
अन्वयः–दमेन गत्वा बन्धून् विवेश्य निवेश्य `इतः’ इति उदीरितम् अर्द्धपथे कृतार्हणं विनौतम् आद्वारतः एव पद्‌गतां गतं त विदर्भराट् मुदा ऐक्षिष्ट।
जीवातु–निवेश्येति। दमेन भीमात्मजेन, गत्वा प्रत्युद्‌गम्य, बन्धून् जामातृबन्धून्, निवेश्य उपेश्य, इत इति उदीरितम् अस्यां दिशि आगम्यताम् इति प्रार्थितम्, अर्द्धपथे अर्द्धमार्गे, कृतार्हणं कृतपूजनं, विनीतम् तनुद्धतम्, आद्वारतः द्वारम् आरभ्य, पादाभ्यं गच्छति इति पद्‌गः, तत्तां पद्गतां द्वारदेशे रथादवतीर्य पादचारित्वम्। `पादस्य पदाज्यातिगोपहतेषु’ इति पादस्य पदादेशः। गतं तं नलं, विदर्भराट् भीमः मुदा हर्षेण, ऐक्षिष्ट अद्राक्षीत्॥ 16.10 ॥
अथायमुत्थाय विसार्य दोर्युगं मुदा प्रतीयेष तमात्मजन्मनः।
सुस्रवन्त्या इव पात्रमागतं धृताभितोवीचिगतिः सरित्पतिः॥ 16.11 ॥
अन्वयः–अथ अयम् उत्थाय दोर्युगं विसार्य आत्मजन्मनः पात्रम् आगतं तं धृताभितोवीचिगतिः सरित्पतिः सुरस्रवन्त्याः आगतं पात्रम् इव मुदाप्रतीयेष।
जीवातु–अथेति। अथ नलेक्षणानन्तरम्, अथं विदर्भराट्, उत्थाय दोर्युगं बाहुद्वयं, विसार्य प्रसार्य, आगतं सम्मुखमुपस्थितम्, आत्मजन्मनः आत्मजायाः भैम्याः, पात्रं योग्यं वरं, तं नलं, धृता अवलम्बिता, अभितः उभयपार्श्वतः वीचिगतिः तरङ्गप्रसारः यस्य सः तादृशः, सरित्पतिः समुद्रः, सुरस्रवन्त्याः सुराणां देवानां, स्रवन्त्याः नद्याः,भागीरथ्याः इत्यर्थः। `अथ नदी सरित् स्रवन्ती निम्नगाऽपगा’ इत्यमरः। आगतं पात्रं तीरद्वयमव्यवर्त्ति प्रवाहम् इव। `पात्रम् स्रुवादौ पर्णे च भाजने राजमन्त्रिणि। तीरद्वयान्तरे योग्ये’ इति मेदिनी। मुदा हर्षेण, प्रतीयेष प्रत्यैच्छत्, आलिलिङ्गेत्यर्थः॥ 16.11 ॥
यथावदस्मै पुरुषोत्तमाय तां स साधुलक्ष्मीं बहुवाहिनीश्वरः।
शिवामथ स्वस्य शिवाय नन्दिनीं ददे पतिः सर्वविदे महीभृताम्॥ 16.12 ॥
अन्वयः–अथ बाहुवाहिनीश्वरः महीभृतां पतिः सः पुरुषोत्तमाय शिवाय सर्वविदे अस्मै साधुलक्ष्मीं शिवां स्वस्य नन्दिनीं यथावत् ददे।
जीवातु–यथावदिति। अथ वरालिङ्गनानन्तरं, वहुवाहिनीस्वरः बहुसेनाधिश्वरः, महीभृतां राज्ञां, पतिः राजराजः, सः भीमः, पुरुषोत्तमाय पुरुषश्रेष्ठाय, शिवां भद्रमूर्त्ति, स्वस्य नन्दिनी दुहितरं, तां दमयन्तीं, यथावत् यथार्ह, विधिवत्, इत्यर्थः। `तदर्हम्’ इति वति प्रत्ययः। ददे दत्तवान्। अन्यत्र-बहुवाहिनीस्वरः बहुनदीपतिः, स समुद्रः, पुरुषोत्तमाय विष्णवे, लक्ष्मीं यथावत् ददे ददौ, तत् साधु। तथा महीभृतां पर्वतानां पतिः हिमवान्, स्वस्य नन्दिनीं शिवां गौरीं, सर्वविदे शिवाय सम्भवे। `शिवं भद्रं शिव सम्भुः शिवा गौरी शिवाऽमया’ इति सर्वत्र शाश्वतः। ददौ, तच्च साधु। विशेषणविशेष्ययोरपि श्लिष्टत्वादभिधायाः प्रकृतार्थबोधनेनोपक्षीणत्वात् वाच्यार्थानुपपत्त्यभावेन लक्षणाया असम्भवाच्च व्यञ्जनया अर्थान्तरप्रतीतेः ध्वनिरेवौपम्यपर्यवसायी॥ 16.12 ॥
असिस्वदद्यन्मधुपर्कमर्पितं स तद्‌व्यधात्तर्कमुदर्कदर्शिनाम्।
यदेषपास्यन्मधु जीमजाऽधरं मिषेण पुण्याहविधिं तदाऽकरोत्॥ 16.13 ॥
अन्वयः–सः अर्पितं मधुपर्क यत् असिस्वदत् तत् उदर्कदर्शिनां तर्कं व्यधात् धत् एषः भीमजाधरं मधु पास्यन् तदा मिषेण पुण्याहविधिम् अकरोत्।
जीवातु–असिस्वददिति। सः नलः, अर्पितं भीमेन दत्तं, मधुपर्कं कांस्यपात्रस्थं दधिमधुवृतात्मकं त्रिमधुपर्कस्वादनम्, उदर्कदर्शिनां, विवाहोत्तरभाविफलाभिज्ञानाम्। `उदर्कः फलमुत्तरम्’ इत्यमरः। तर्कं कञ्चित् रहस्यं, व्यधात् अकार्षित्। तं माक्षिकं, पास्यन् धास्यन् अधरमधुपानं करिष्यति इत्यर्थः। तत एव तदा तस्मिन् काले, मिषेण मधुपर्कपानव्योजेन, पुण्याहविधिं कर्मादौ कर्त्तव्यं पुण्याहकर्म एव अकरोत्। विवाहदिन्रूपपुण्याहे मधुपर्कपान्च्छलेन भाविन्या अधरमधुपानक्रियायाः शुभारम्भं चकारेत्यर्थः। माङ्गल्यकृत्यषु आदौ पुण्याहक्रिया प्रसिद्धा एव। अत्र सापह्नवोत्प्रेक्षा॥ 16.13 ॥
वरस्य पाणिः परधातकौतुकी वधूकरः पङ्कजकान्तितस्करः।
सुराज्ञि तौ तत्र विदर्भमण्डले ततो निबद्धौ किमु कर्कशैः कुशैः॥ 16.14 ॥
अन्वयः–वरस्य पाणिः परघातकौतुकी, वधूकरः पङ्कजकान्तितस्करः, ततः तौ सुराज्ञि त6 विदर्भमण्डले कर्कशैः कुशैः निबद्धौ किमु?
जीवातु–वरस्येति। वरस्य नलस्य, पाणिः परघातकौतुकी शत्रुवधलम्पटः परहिंसालोलुपस्च, वधूकरः भैमीपाणिः पङ्गजकान्तेः पद्मश्रियः तस्करः चौरश्च। `तद्‌बृहतोः करपत्योः-’ इत्यादिना सुट् तलोपश्च। ततः पूर्वावराधात्, एको हिंस्रः अपरस्तस्कर इत्यपराधात् हेतोरित्यर्थः। ततौ वधूवरकरौ, शोभनो राजा यस्य तस्मिन्, सुराज्ञि राजन्वति, तत्र तस्मिन्, विदर्भमण्डले विदर्भराज्ये, कर्कशैः कुशैः विबद्धौ संयतौ, किमु? धार्मिकराज्ये तुष्टा बध्यन्ते इति भावः। देशाचारप्राप्तस्य वधूवरयोः कुशसूत्रेण करबन्धनस्य अपराधहेतुकत्वमुत्प्रेक्ष्यते॥ 16.14 ॥
विदर्भजायाः करवारिजेन यन्नलस्य पाणेरुपरि स्थितं किल।
विशङ्क्य सूत्रभं पुरुषायितस्य तद्भविष्यतोऽस्मायि तदा तदालिभिः॥ 16.15 ॥
अन्वयः–विदर्भजायाः करवारिजेन यत् नलस्य पाणेः उपरि स्थितं किल, तत् भविष्यतः पुरुषायितस्य सूत्रं विशङ्क्य तदा तदालिभिः अस्मायि।
जीवातु–विदर्भजाया इति। विद्रभजायाः वैदर्भ्याः करवारिजेन पाणिकमलेन, नलस्य पाणेः उपरि स्थितं किलेति यत्। भावे क्तः। तत् उपरि अवस्थानं, भविष्यतः पुरुषायितस्य विपरीतसुरते पुरुषवदाचरितस्य, सूत्र्यते सूच्यते अनेन इति सूत्रं सूचकं, विशङ्क्य विभाव्य, तदा तदालिभिः भैमीसखीभिः, अस्मायि मन्दम् अहासि। स्मयतेर्भावे लुङ्, चिणि वृद्ध्या अयादेशः। विपरीतसुरते पुरुषोपरि स्त्रियः शयनेन पुरुषकरोपरि स्त्रीकरः सम्भवति इति पुंजावमुत्प्रेक्ष्य स्मितं कृतमिति भावः॥ 16.15 ॥
सखा यदस्मै भीमसंज्ञया स यक्षसख्याधिगतं ददौ भवः।
ददे तदेष श्वशुरः सुरोचितं नलाय चिन्तामणिदाम कामदम्॥ 16.16 ॥
अन्वयः–बीमसंज्ञया सखा सः भवः यक्षसख्याधिगतं यत् चिन्तामणिदाम अस्मै ददौ, सुरोचितं कामदं तत् एषः श्वशुरः नलाय ददे।
जीवातु–अथ एकविंशतिश्लोक्य यौतकदानं वर्णयति सखेत्यादि। सः प्रसिद्धः भवः भगवान् ईश्वरः, यक्षसख्याधिगतं यक्षेण सह यत् सख्यं बन्धुत्वं, तेनाधिगतं प्राप्तं कुबेरमैत्रीलब्धं कुबेरात् लब्धमित्यर्थः। `कुवेरस्त्र्यम्बकमखो यक्षराड्’ इत्यमरः। यत् चिन्तामणिदाम चिन्तामणिघटितमाल्यं, भीम इति सज्ञया नाम्ना हेतुना, सखा स्वनामसादृश्यात् मित्रमिति बुद्ध्या इत्यर्थः। `व्योमकेशो भवो भीमः’ इत्यमरः। अस्मै भीमनृपाय, ददौ स्वकीयभीमनामधारणात् बन्धुत्वसूत्रेणेति भावः। सुरोचितं देवतायोग्यं, कामदं कामदुघं, तत् चिन्तामणिदाम, श्वशुरः पत्न्याः पिता, एष भीमभूपत्तिः, नलाय जामात्रे, ददे॥ 16.16 ॥
बहोर्दुरापस्य वराय वस्तुनश्चित्तस्य दातुं प्रतिबिम्बकैतवात्।
बभौतरामन्तरवस्थितं दधद्यदर्थमभ्यर्थितदेयमर्थिने॥ 16.17 ॥
अन्वयः–यत् वराय दातुं चित्तस्य दुरापस्य बहोः वस्तुनः प्रतिविम्बकैतवात् अन्तरवस्तितम् अर्थिने अभ्यर्थितदेयम् अर्थं दधत् बभौतराम्।
जीवातु–तत् मणिदामैव वर्णयति बहोरिति। यत् चिन्तामणिदाम; वराय दातुं चित्तस्य राशीकृतस्य, दुरापस्य दुर्लभस्य, बहोः अनेकस्य। भाषितपुंस्कत्वात् पुंवद्भावः। वस्तुतः पदार्थजातस्य, प्रतिबिम्वस्य प्रतिच्छायायाः, कैतवात् मिषात्, अन्तः अभ्यन्तरे, अवस्थितम्, अर्थिने याचकाय, अभ्र्थितः याचितः सन्, देयः देयत्वेन निश्चितम् अभर्थितदेयम्, अर्थं वस्तुजातं, दधत् धारयन्निव, बभौतराम् अतिशयेन बभौ। `किमेत्तिङव्ययघादा-’ इत्यादिना आमुप्रत्ययः। प्रार्थनामात्रेणैव याचकाय तत्तद्वस्तूनां दानार्थ प्रतिबिम्बव्याजात् तत्तद्वस्तुजातमन्तर्धारयतीवेति भावः। अत्र सापह्नवोत्प्रेक्षा सा च व्यञ्जकाप्रयोगाद्‌गम्या॥ 16.17 ॥
असिं भवान्याः क्षतकासरासुर वराय भीमः स्म ददाति भासुराम्।
ददे हि तस्मै धवनामधारिणे स सम्भुसम्भोगनिमग्नयाऽनया॥ 16.18 ॥
अन्वयः–भीमः क्षतकासरासुरं भासुरं भवान्याः असिं वराय ददातिस्म, हि शम्भुसम्भोगनिमग्नया अनया घवनामधारिणै तस्मै सः दत्तः।
जीवातु–असिमिति। भीमः क्षतकासरासुरं हतमहिषासुरं, `लुलापो महिषो वाहद्विषत्कासरसैरिभाः इत्यमरः। भासुरं भास्वरं, भवान्याः दुर्गायाः, असिं खड्गं, भवान्या भीमाय दत्त्मिति भावः। वराय नलाय, ददाति स्म। किमर्थं दुर्गया अस्मै दत्तः? तत्राह–हि यतः, सम्भुसम्भोगनिमग्नया महिषासुरादिमर्दनान्तर निवृत्तरणरागया केवलसुरतसुखासक्तया, अनया दुर्गया, धवस्य स्वप्रियस्य शम्भोः, नामधारिणे `भीम’ इति नामान्तरधराय इति प्रीतिकरणोक्तिः। `धवः प्रियः पतिर्भर्त्ता’ इत्यमरः। तस्मै भीमभूभुजे, सः असिः, ददे दत्तः; शत्रुवधानन्तरं निष्प्रयोजनकत्वबुद्ध्या इति भावः। ददातेः कर्मणि लिट्॥ 16.18 ॥
अधारि यः प्राङ्महिषासुरद्विवषा कृपामस्मै तमदत्त कूकुदः।
अहायि तस्या धवार्द्धमज्जिना स दक्षिमार्द्धैन पराङ्गदारणः॥ 16.19 ॥
अन्वयः–महिषासुरद्विषा प्राक्‌ यः अधारि तं कृपाणं कूकुदः अस्मै अदत्त, हि धवार्द्धमज्जिना तस्याः दक्षिणाद्धेन पराङ्गदारणः सः अहायि।
जीवातु अधारीति। यः कृपणाः, महिषासुरद्विषा दुर्गया, प्राक् पूर्वम्, अधारि धृतः, तं कृपाणम् असिं, कूकुः कन्या, `कूकिरित्यच्यते कन्या’ इति स्मरणात्। तां ददातीति कूकुदः कन्याप्रदः भीमः, `सत्कृत्यालङ्कृतां कन्यां यो ददाति स कूकुदः’ इत्यमरः। अस्मै नलाय, अदत्त दत्तवान्। दुर्गायाः कृपाणस्य भीमहस्तगत्वे कारणान्तरमाह हि यतः, धवस्य प्रियस्य, भीमापराख्यशम्भोरिति यावत्, अर्द्धे वामार्द्धे, मज्जति प्रविशतीति तन्मज्जिना अर्द्धनारीश्वरत्वात् प्रियार्द्धाङ्गप्रविष्टेन, तस्याः दुर्गायाः सम्बन्धिना, दक्षिणार्द्धेन दक्षिणाङ्गेन कर्त्रा, परेषां संसर्गिणामन्येषाम्, अङ्गदारणः गात्रविदारकः, स कृपाः, अहायि अत्याजि खड्गसहितदक्षिणार्द्धेन स्वामिशरीरप्रवेशे स्वामिनो।ङ्गविदारणं स्यादिति धिया स परित्यक्तः इति भावः। हातेः कर्मणि लुङा, चिणि युगागमः॥ 16.19 ॥

उवाह यः सान्द्रतराङ्ककाननः स्वशौर्यसूर्योदयपर्वतव्रतम्।
सनिर्झरः शाणनधोतधारया समूढसन्ध्यः क्षतशत्रुजास-जा॥ 16.20 ॥
अन्वयः–सान्द्रताङ्ककाननः शाणनधौतधारया सनिर्झरः क्षतशत्रुजासृजा समूढसन्ध्यः यः स्वशौर्यसूर्योदयपर्वतव्रतम् उवाह।
जीवातु–उवाहेति। सान्द्रतराः शुष्कत्वादतिशयेन घना इत्यर्थः, अङ्काः कृष्मवर्णरक्तचिह्नानि एव, काननानि अरण्यस्वरूपाणि यस्य सः, खड्गलग्नशुष्करक्तचिह्नानि कृष्णत्वात् तत्र काननत्वारोपणमिति बोध्यम्, शाणनेन उत्तेजनेन, शाणघर्षणेनेत्यर्थः, धौतया उज्ज्वलीकृतया, धारया निशितमुखेन, सनिर्झरः सप्रवाहः, निर्झरयुक्तवत् परिदृश्यमान इत्यर्थः, क्षतेभ्यः प्रहृतेभ्यः,शत्रुभ्यः, जातं निर्गतं, ताद्दशेन असृजा रक्तेन, कृपाणलग्नेनेति भावः। समूढा धृता, प्रकटिता इत्यर्थः, सन्ध्या प्रातःसन्ध्याकालिकशोभा इत्यर्थः, येन सः तादृशः, सन्ध्याकालीनाकाशस्य रक्तवर्णत्वादिति भावः, यः कृपामः, स्वशौर्यमेव शत्रुहननरूपं शूरत्वमेव सूर्यः तस्य उदयपर्वतः उदयाचलः, तस्य व्रतं नियमं, नित्यसूर्योदयकारित्वरूपमित्यर्थः, नित्यमेव शत्रुदमनेन स्वपराक्रमप्रकाशरूपव्रतमिति समुदितार्थः, उवाह वहति स्म। खड्गस्याङ्कादिषु काननत्वाद्यारोपणाद्रुकालङ्कारः॥ 16.20 ॥
यमेन जिह्वा प्रहितेव या निजा तमात्मजां याचितुमर्थिना भॉशम्।
स तां ददेऽस्मै परिवारशोभिनीं करग्रहार्हमसिपुत्रिकामपि॥ 16.21 ॥
अन्वयः–भृशम् अर्थिना यमेन तम् आत्मजां याचयितुं निजा जिह्वा इव या प्रहिता, परिवारशोभिनीं करग्रहार्हां ताम् असिपुत्रिकाम् अपि सः अस्मै ददे।
जीवातु–यमेनेति। भृशमत्यर्थम्, अर्थिना याचकेन, यमेन अन्तकेन, तं भीमम्, आत्मजां भैमीं, याचितुं प्रार्थयितुं, असिपुत्रिका, प्राहेता भीमप्रीत्यर्थ दूतीप्रेरणसमये प्रेषिता, परिवारेण कोशेन परिजनेन च `परिवारः परिजने खड्गकोशे परिच्छदे’ इति विश्वः। शोभिनीं, करग्रहस्य हस्तेन धारणस्य विवाहस्य च, अर्हां योग्यां, तामसिपुत्रिकां छुरिकामपि, तथा असिरूपां कनायञ्च `स्याच्छस्त्री चासिपुत्री च च्छुरिका चासिधेनुका’ इत्यमरः। सः भीमः भूपतिः, अस्मै नलाय, ददे। शस्त्रपुत्रिकयोः प्रकृत्वात् केवलप्रकृतश्लेषः॥ 16.21 ॥
यदङ्भमौ बभतुः स्वयोषितामुरोजपत्त्रावलिनेत्रकज्जले।
रणस्थलस्थण्डिलशायितव्रते गृहीतदीक्षैरिव दक्षिणीकृते॥ 16.22 ॥
अन्वयः–यदङ्गभूमौ रणस्थलस्थण्डिलशायिताव्रते गृहीतदीक्षैः दक्षिमीकृते स्वयोषिताम् उरोजपत्रावलिनेत्रकज्जले इव बभतुः।
जीवातु–यदिति। यस्याः असिपुत्रिकायाः, अङ्गभूमी प्रान्तदेशौ, रणस्थलमेव स्थण्डिलमनिम्नोन्नता परिष्कृता भूः, सा एव व्रतं नियमविशेषः तत्र, गृहीतदीक्षैः रणस्थले उरिकाघातेन मृत्युशय्यायां शयनरूपव्रतदीक्षितैः शत्रुभिरित्यर्थः, दक्षिणीकृते तादृशव्रतोपदेशिन्यै ऋत्विक्‌स्वरूपायै असिपुत्रिकायै दक्षिणारूपेण प्रदत्ते इत्यर्थः। स्वयोषितां निजस्रीणाम्, उरोजयोः स्तनयोः, पत्रावलिः मृगमदादिरचितपत्रभङिगः नेत्रकज्जलञ्तच ते इव, बभतुः विरेजतुः शत्रिस्त्रीभिः वैध्यव्यशात् पत्रावलिनेत्रकज्जले परित्यक्ते इति भावः। भाधातोर्भावे लिटि अतुसादेशः। कृष्णवर्णयोश्छुरिकाप्रान्तदेशयोः स्तनपत्रवल्लीत्वनेत्रकज्जलत्वाभ्यामुत्प्रेक्षालङ्कारः॥ 16.22 ॥
पुरैव तस्मिन् समदेशि तत्सुताऽभिकेन यः सौहृदनाटिनाऽग्निना।
नलाय विश्राणयति स्म तं रथं नृपः सुलङ्घ्याद्रिसमुद्रकापथम्॥ 16.23 ॥
न्वयः–तत्सुताऽभिकेन सौहृदनाटिना अग्निना यः पुरा एव तस्मिन् समदेशिष सुलङ्ध्याद्रिसमुद्रकापथं तं रथं नृपः नलाय विश्राणयति स्म।
जीवातु–पुरेति। तत्सुताऽभिकेन भैमीकामुकेन `कामुके कमिताऽऽनुकः। कम्रः कामयिताऽभीकः कमनः कामनोऽभिकः॥’ इत्यमरः। अत एव सुहृदो भावः सौहृदं सौहार्दम् युवादित्वादण `हृद्भगसिन्ध्वन्ते-’ इति वामनः। तत् नाटयति प्रकाश्यतीत्यर्थः। यः तेन सौहृदनाटिना, अग्निना अनलेन, यः रथः, पुरा एव स्वयंवरात् प्रागेव, दूतीप्रेरणसमये एव अतिक्रम्याः, अद्रयः पर्वताः समुद्राः सागराः, कापथाः उन्नतानतकुत्सितपथाश्च येन तादृशां, `का कथ्यक्षयोः’ इति कोः कादेशः। तमश्निदत्तं, रथं नृपः भीमः, नलाय विश्राणयति स्म विततार, ददौ इत्यर्थः। `विश्राणनं वितरणम्’ इत्यमरः॥ 16.23 ॥
प्रसूतवत्ताऽनलकूबरान्वयप्रकाशिताऽस्यापि महारथस्य यत्।
कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टतैतस्य ततोऽनुमीयते॥ 16.24 ॥
अन्वयः–यत् अस्य अपि महारथस्य प्रसूतावत्ता अनलकूबरान्कयप्रकाशिता ततः एतस्य कुबेरदृष्टान्तबलेन पुष्पकप्रकृष्टता अनुमीयते।
जीवातु–प्रसूतवत्तेति। यत् यस्मात् अस्यापि महारथस्य महतः रथस्य, अन्यत्र-`एको दशसहस्राणि योधयेद् यस्तु धन्विनाम्। अस्त्रशस्त्रप्रवीणश्च मिज्ञेयः स महारथः॥’ इत्युक्तलक्षणरथिकविशेषस्य, प्रसूतवत्ता प्रकृष्टसारथिमत्ता, `सूतः क्षत्ता च सारथिः’ इत्यमरः। मत्वन्तत्वात् तल्‌प्रत्ययः। प्रपूर्वात् सूतेः क्तवत्वन्तत्वात् तल्‌प्रत्ययः। अनलेन रथप्रदात्रा अग्निना, कूबरेण युगन्धरेण च, रथस्य युगकाष्ठबन्धनस्थानेनेत्यर्थः। `कूबरस्तु युगन्धरः’ इत्यमरः। अन्यत्र-नलकूबरेण तदाख्येन कुबेरपुत्रेण अन्वयात् योगात्, प्रकाशिता प्रकटिता, ततः कारणात्, एतस्य महारथस्य, कुबेरः एव दृष्टान्तः निदर्शनं, तद्‌बलेन तत्प्रभावेण, पुष्पकप्रकृष्टता देवतान्तरापेक्षयोत्कृष्टता, अनुमीयते अयं महारथः पुष्पकप्रकृष्टो भवितुमर्हति प्रसूतान्तरापेक्षयोत्कृष्टता, अन्यत्र-पुष्पकेण विमानविशेषेण, प्रकृष्टता देवतान्तरापेक्षयोत्कृष्टता, अनुमीयते अयं महारथः पुष्पकप्रकृष्टो भवितुमर्हति प्रसूतवत्तादिधर्मसहितमहारथत्वात् कुबेरवदिति अनुमातुं शक्यत्वात् इति भावः। नलकूबरेति पाठे तु–प्रसूतवत्ता प्रकृष्टसारथिमत्ता इत्यर्थः। नलेन नैषधेन सह, कूबरस्य रथयुगन्धरस्य, अन्वयात् सम्बन्धात्, प्रकाशिता नलापेक्षया प्रकृष्टत्वमनुमितमिति भावः। अत एवानुमानालह्कारः, `साध्यसाधननिर्देशस्त्वनुमानमुदीरितम्’ इति लक्षणात्। रूपहेतुत्वेन तर्कानुमानेन वैलक्षण्यं रूपकञ्च प्रसूतवत्तादिप्रकाशितैः तत्प्रकाशितेति श्लिष्टरूपकं द्रष्टव्यम्॥ 16.24 ॥
महेन्द्रमुच्चैःश्रवसा प्रतार्य्य यन्निजेन पत्याऽकृत सिन्धुरन्वितम्।
स तद्ददेश्मै हयरत्मर्पितं पुरानुबद्‌धुं वरुणेन बन्धुताम्॥ 16.25 ॥
अन्वयः–सिन्धुः उच्चेः(वसा महेन्द्रं प्रतार्ययत् हयरत्ननं निजेन पत्या अन्वितम् अकृत, पुरा बन्धुताम् अनुबद्‌धुं वरुणेन अर्पितं तत् सः अस्मै ददे।
जीवातु–महेन्द्रमिति। सिन्धुः समुद्रः उच्चैःश्रवसा तन्नामकाश्वेन, महेन्द्रं देवराजं, प्रतार्य वञ्चयित्वा, यत् हयरत्नम्, उच्चेःश्रवसोऽपि श्रेष्ठमित्यर्थः निजेन पत्या स्वामिना वरुणेनेत्यर्थः, अन्वितं दानेन संयुतम्, अकृत वरुमाय ददौ इत्यर्थः। पुरा स्वयंवरात् पूर्वमेव, बन्धुतां बान्धवत्वम्, अनुबद्‌धुं प्रवर्त्तयितुं, वरुणेन अर्पितं भीमाय दत्तं, तत् हयरत्नं, सः भीमः, अस्मै नलाय, ददे दत्तवान्॥ 16.25 ॥जवादवारीकृतदूरदृक्पथस्तथाऽक्षियुग्माय ददे मुदं न यः।
ददद्दिदृक्षादरदासतां यथा तथैव तत्पांशुलकण्ठनालताम्॥ 16.26 ॥
अन्वयः–अक्षियुग्माय दिदृक्षादरदासतां ददत् यः जवात् अवारीकृतदूरद्दक्‌पथः यथा मुदं न ददे एव तत्पांशुलकण्ठनालताम्(ददत् मुदं न ददे)।
जीवातु–जवादिति। अक्षियुग्मया द्रष्टुः दृष्टियुगलाय, दिदृक्षायां दर्शनेच्छायां, या आदरः आस्था, तस्य दासतां वश्यत्वं,ददत् अत्यन्तदिदृक्षामेव सम्पादयन्, यः हयः, जवात् वेगात्, तथा तेन प्रकाकेण, अवारीकृतः, अर्वाक्कृतः द्राक् अदूरीकृतः इति यावत्, तनिर्जलीकृतश्च गम्यते। `पारावारे परार्वाची तीरे’ इत्यमरः। दूरदृक्‌पथः दूरप्रसारिदृष्टिमार्गः, अश्वदिदृक्षूणां बहुयोजनदूरे प्रेरितदृष्टिपथः इत्यर्थः. येन तथाभूतः सन्, अथवा-वारो वारणं, णिजन्तात् वृधातोः घञ्। अवारः वारः कृत इति वारीकृतः, अभूततद्भावे च्विः। स न भवतीति अवारीकृतः अप्रतिरोधीकृतः, दूरदृक्‌पथो येन सः, तथा च द्रष्टव्यवस्तुना दिदृक्षूणां दूरदृक्‌पथस्य प्रतिरोधो भवति, किन्तु प्रकृतेऽस्वस्य सवेगमनादेव दूरदृक्‌पथस्य प्रतिरोधाभाव इत्यर्थः, यथा मुदं हर्षं, न ददे न ददौ,
अश्वस्य सवेगगमनात् द्रष्टुणां दर्शनावकाशाभावेन नयनतृप्तिर्नाभूत्, अतः केवलं तृष्णामेव वर्द्धयति इति भावः। तथा तेन प्रकारेणैव, तत् तेन अश्वेन, पांशुलः पांशुमान्, अश्वखुरोत्थरजसा धूलियुक्तः शुष्कश्च, कण्ठनालः यस्य द्रष्टुर्नेत्रयुग्मस्य वा, तस्य भावः तत्ता तां, ददत् लक्षणया उत्कण्ठितत्वं ददानः, मुदं न ददे, कण्ठशोषकारी कथं मुदं दद्यादिति भावः। अक्षियुग्मस्य पांशुलकण्ठनालत्वं नाम दूरोद्धतधूलीधूसरप्रान्तत्वमुत्कण्ठाचरितत्वञ्च। अजस्रदर्शनीयवेगोऽयमश्व इति तात्पर्यम्। अत्र अवारीकृतेति पांशुलकण्ठनालेति शब्दशक्त्या पिपासोः दृष्टिपथे निर्जलीकरणात् शुष्ककण्ठनालत्वकरणाच्च हर्षाजननरूपं वस्तु व्यञ्जनया बोध्यते इति ध्वनिः। अवारीकरणाद्यसम्बन्धेऽपि तत्सम्बन्धोक्तेरतिशयोक्तिः॥ 16.26 ॥
दिवस्पतेरादरदर्शिनाऽदरादढौकि यस्तं प्रति विश्वकर्मणा।
तमेकामाणिक्यमयं महोन्नतं पतद्‌ग्रहं ग्राहितवान् नलेन सः॥ 16.27 ॥
अन्वयः–दिवस्पतेः आदर्दर्शिना विश्वकर्मणा तं प्रति आदरात् यः अढौकि तम् एकमाणिक्यमयं महोन्तं पतद्‌ग्रहं सः नलेन ग्राहितवान्।
जीवातु–दिवस्पतेरिति। दिवस्पतेः इन्द्रस्य, दमयन्तीरागिणः इति भावः। `तत्पुरुषे कृति वहुलम्’ इति षष्ठ्या अलुकि कस्कादित्वाद् विसर्जनीयस्य सत्वम्। आदरदर्शिना भीमं प्रति समादरं पश्यता, विश्वकर्मणा देवशिल्पिना, तं भीमं प्रति, आदरात् स्वप्रभोरिन्द्रस्य भैम्यामनुरागित्वात् भीमे आदरदर्शनात् स्वस्यापि तत्पितरि भीमे समादरदर्शनमुचितमिति भीमे आदरप्रदर्शनार्द्धेतोरित्यर्थः। यः पतद्‌ग्रहः अढौकि उपाहाररुपेण प्रेरितः ढौकतेर्गत्यर्थे ण्यन्तात् कर्मणि लुङ्। तं विश्वकर्मदत्तम्, एकमाणिक्यमयम् एकमात्रपद्मरागाख्यमणिनिर्मितं, महती उन्नतिः यस्य तम् अत्युन्नतम् अत्युत्कृष्टमित्यर्थः, पतत् मुखादिभ्यः स्रवत् ताम्बूलादिकं गृह्णातीति तं पतद्‌ग
्रहं प्रतिग्राहं, `पिकदानी’ इति ख्यातं निष्ठ्युतताम्बूलभाजनमित्यर्थः, `प्रहिग्रहः पतद्‌ग्रहः’ इत्यमरः। `विभाषा ग्रहः’ इति ण-प्रत्ययाभावपक्षे `नन्द्रिग्रहिपचादिभ्यः-’ इत्यातिना अच् प्रत्ययः। सः भीमः, नलेन ग्राहितवान् अग्राहयत्, नलाय ददौ इत्यर्थः॥ 16.27 ॥
नलेन ताम्बूलविलासिनोज्झितैर्मुखस्य यः पूगकणैर्भृतो न वा।
इति व्यवेचि स्वमयूखमण्डलादुदञ्चदुच्चारुणतारुचा चिरात्॥ 16.28 ॥
अन्वयः–यः स्वमयूखमण्डलात् उदञ्चदुच्चारुणतारुचा ताम्बूलविलासिना नलेन उञ्झितैः मुखस्य पूगगणैः भृतः न वा (भृतः) इति मिरात् व्यवेचि।
जीवातु–नलेनेति। यः पतद्‌ग्रहः प्रतिग्राहः `पिकदानी’ इति ख्यात इत्यर्थः, स्वमयूखमण्डलात् स्वकीयकिरणसमृहात्, `उदञ्चन्ती उद्‌गच्छन्ती; उच्चा महती, या अरुणता अरुणत्वं रक्तवर्णता इति यावत्। तस्याः रुचा कान्त्या, ताम्बूलविलासिना ताम्बूलप्रियेण, नलेन उज्झितैः निष्ठ्यूतैः, मुखस्य सन्बन्धिभिः पूगकणैः गुवाकशकलैः, भृतः पूर्णः, न वा इति सन्दिह्य इति शेषः, चिरात् बहूकालेन, व्यवेचि विविक्तः, पूगकणैः भृतः इति निश्चित इत्यर्थः। निस्चयान्तः सन्देहालङ्कारः॥ 16.28 ॥
मयेन भीमं भगवन्तमर्चता नृपेऽपि पूजा प्रभुनाम्नि या कृता।
अदत्त भोमोऽपि स नैषधाय तां हरिन्मणेर्भोजनभाजनं महत्॥ 16.29 ॥
अन्वयः–भगवन्तं भीमम् अर्चता मयेन प्रभुनाम्नि नृपे अपि या पूजा कृता हरिन्मणेः महत् भोजनभाजनं ताम् अपि सः भीमः नैषधाय अदत्त।
जीवातु–मयेनेति। भगवन्तं भीमम् महादेवम्, अर्चता पूजयता। अर्चतेर्भौवादिकाल्लटः, शत्रादेशः। मयेन तदाख्यदैत्यशिल्पिना, प्रभोः शिवस्य, नाम भीम इति संज्ञा अस्ति यस्मि तस्मिन् प्रभुनाम्नि स्वामिनामधारिणि, नृपे भीमेऽपि, या पूजा कृता, उपहारत्वेन यन्मरकतभाजनं दत्तमित्यर्थः। सः भीमः हरिन्मणेः गारुत्मतमणेः सम्बिधि, मरकतमणिमयमित्यर्थः। भोजनद्रव्यमिश्रितविषनाशयोग्यमिति भावः। महत् भोजनभाजनं भोजनपात्रं, भोजनपात्ररूपमित्यर्थः, तामपि मयकृतपूजामपीत्यर्थः, नैषधाय नलाय अदत्त॥ 16.29 ॥
छदे सदैव च्चविमस्य बिभ्रतां न केकिनां सर्पविषं प्रसर्पति।
न नीलकण्ठत्वमधास्यदत्र चेत् स कालकूटं भगवानभोक्ष्यत॥ 16.30 ॥
अन्वयः–अस्य छविं सदा एव छदे बिभ्रतां केकिनां सर्पविषं न प्रसर्पति, सः भगवान् अत्र कालकूटम् अबोक्ष्यत चेत् नीलकण्ठत्वं न अधास्यत्।
जीवातु–छदे इति। अस्य गारुत्मतभाजनस्य, छविं नीलां कान्तिं, सदा सर्वदा एव, छदे पक्षे, बिभ्रतां दधतां, केकिनां मयूराणां सम्बन्धे, सर्पविषंन प्रसर्पति न तच्छरीरं व्याप्नोति। सः भगवान् ईश्वरः अपि, अत्र गारूत्मतभाजने, कालकूटं हलाहलम्, अभोक्ष्यत चेत् भुञ्जीत यदि, क्रियातिपत्ती लृङ् `भुजोऽनवने’ इति तङ्‌। तदा नलकण्ठत्वं न अधास्यत्, तदभावात् कालकूटविषस्य कण्ठव्यापित्वेन नीलकण्ठत्वं जानमस्येत्यर्थः यत्सावराण्यात् केकिनः विषभयशून्याः, तत्पात्रे भोजने किं वक्तव्यम् इति भावः॥ 16.30 ॥
विरोध्य दुर्वासममस्खलद्दिवः स्रजं त्यजन्नस्य किमिन्द्रसिन्धुरः?।
अदत्त तस्मै स मदच्छलात् सदा यमभ्रमातङ्गतयेव वर्षुकम्॥ 16.31 ॥
अन्वयः–अभ्रमातङ्गतया मदच्छलात् सदा वर्षुकं यं सः तस्मै अदत्त सः दुर्वाससं विरोध्य अस्य त्यजान् किम् इन्द्रसिन्धुरः दिव अस्खलत्।
जीवातु–विरोध्येति। अभ्रमातङ्गतया ऐरावतत्वेनेव, ऐरावतत्वहेतुकमिव इत्यर्थः। `ऐरावतोऽभ्रमातङ्गैरावणाभ्रुवल्लभाः’ इत्यमरः। अथवा अभ्रवत् श्यामवरणत्वात् जलधरसदृशः मातह्गः हस्ती, तस्य भावस्तत्ता तयेव तद्वेतुकमिव, मदच्छलात् दानजलस्रावमिषात्, सदा वर्षुकं वर्षणशीलमिति सापह्रवोत्प्रेक्षा, `लषपत-’ इत्यादिना उकञ्‌प्रत्ययः। यः सिन्धुरं, सः भीमः तस्मै नलाय अदत्त दत्तवान्, यत्तदोर्नित्यसम्बन्धादत्र स इति पदमूहनीयम्। सः नलसात्कृतसिन्धुरः, दुर्वाससं विरोध्य मालात्यागादेव क्रोधयित्वा, अस्य दुर्वाससः सम्बन्धिनीं, दुर्वाससा इन्द्राय दत्ताम् इन्द्रेणापि ऐरावतकुम्भे स्थापितामित्यर्थः। स्रजं माल्यं, त्यजन् शुण्डया भुवि क्षिपन्, इन्द्रसिन्धुररः इन्द्रगजः, ऐरावतः इत्यर्थः। दिवः स्वर्गात्, अस्खलत् तदभिशापवशात् भ्रष्टः किम्? स्वदत्तस्रक्‌त्यागापराधनिम्त्तात् दुर्वाससः शापात् दिवशच्युत ऐरावत एवायं किमित्युत्प्रेक्षा॥ 16.31 ॥
मदान्मदग्रे भवताऽथवा भिया परं दिगन्तादपि यात जीवत।
इति स्म यो दिक्करिणः! स्वकर्णयोर्विनाऽऽह वर्णस्रजमागतैर्गतेः?॥ 16.32 ॥
अन्वयः–यः वर्णस्रजं विना स्वकर्णयोः आगतैः गतैः इति आह स्म–दिक्करिणः, मदात् मदग्रे भवत अथवा भिया दिगन्तात् अपि परं यात् जीवत।
जीवातु–मदादिति। दिवकरिणः! दिग्गजाः! मदात् बलगर्वात् मदर्ग्रममाग्रे, भवत योद्‌धुंतिष्ठत इत्यर्थः। अथवा भिया बलाभावजनितभयेन, दिगन्तात् अपि दिक्‌प्रान्तादेव, दूरादेवेत्यर्थः। परं दूरं यात गच्छत, जीवतपलायित्वा यथा कथञ्चित् प्राणान् धारयत, सवंत्र यूयमिति शेषः। यः गजः, इति इत्थं, वर्णस्रजम् अक्षरपङ्क्तिं, विनैव वाग्‌जालमन्तरेणैवेत्यर्थः। स्वकर्णयोः आगतैर्गतैः यातायातः, केवलं कर्णसञ्चालनैरेवेत्यर्थः। आह स्म ब्रूते स्म किम्? इत्यर्थः। गम्योत्प्रेक्षा। `लट्‌ स्मे’ इति भूते लट्‌, `ब्रुवः पञ्चानामादित–इत्यादिना ण्लाहादेशौ॥ 16.32 ॥
अधत्त बीजं निजकीर्त्तये रदौ द्विषामकीर्त्त्यै खलु दानविप्रुषः?।
श्रवश्रमैः कुम्भकुचां शिरः श्रियं मुदे मदस्वेदवतीमुपास्त यः?॥ 16.33 ॥
अन्वयः–यः निजकीर्त्तये रदौ बीजं द्विषाम् अकीर्त्त्यै दानविप्रुषः (बीजम्) अधत्त खलुः कुम्भकुचां मदस्वेदवतीं शिरश्रियं श्रवश्रमैः मुदे उपास्त।
जीवातु–अधत्तेति। यः गजः, निजकीर्त्तये स्वयशसे कीर्त्तिप्ररोहायेत्यर्थः। रदौ दन्तौ एव, बीजम् अङ्कुरोद्‌गमकारण, तथा द्विषां शत्रूणाम्, अकीर्त्त्ये अयशसे, अकीर्त्तिप्ररोहाय इति भावः। दानविप्रुषः मदबिन्दून् एव, बीजम् अधत्त खलु? धारयामास किम्? दन्ताभ्यां परेषां विदारणात् निजकीर्त्यत्युत्पत्तिरिति तथा मदगन्धेनैव परगजानां भीत्या पलायनात् तेषामकीर्त्त्युत्पत्तिरिति च भावः। कीर्त्त्यकीर्त्त्योः सितासितत्वात् सितासितयोरेव दन्त-दानकणयोः कीर्त्त्यकीरत्तिबीजत्वेनोत्प्रेक्षा। किञ्च, कुम्भावेव कुचौ यस्यास्ताम्, अन्यत्र-कुम्भौ इव कुचौ यस्याः ता, मदस्वेदवतीं मदजलरूपधर्मोदकवतीम्, अन्यत्र-मदजलवत् स्वेदवतीमिति सात्त्विकोक्तिः शिवरः श्रियं शिरःशोभां, श्रवसोः कर्णयोः, श्रमैः व्यापापैः, कर्णतालैरेव व्यजनवातैरिति भावः। मुदे स्वेदापहरणात्तस्याः हर्षाय, उपास्त असेवत किम्? इत्युत्प्रेक्षात्रयस्य संसृष्टिः॥ 16.33 ॥
न तेन वाहुषु विवाहदक्षिणीकृतेषु सङ्ख्यानुभवेऽभवत् क्षमः।
न शातकुम्भेषु न मत्तकुम्बिषु प्रयत्नवान् कोऽपि न रत्नराशिषु॥ 16.34 ॥
अन्वयः–तेन विवाहदक्षिणीकृतेषु वाहेषु सङ्ख्यानुभवे प्रयत्नवान् कः अपि क्षमः न अभवत्, न शातकुम्भेषु मत्तकुम्भिषु, न रत्नराशिषु।
जीवातु–नेति। तेन भीमेन, विवाहे दक्षिणीकृतेषु वराय दक्षिणास्वरूपेण दत्तेषु इत्यर्थः, वाहेषु वाजिषु विषये `वाजिवाहार्वगनधर्व-’ इत्यमरः। सङ्ख्यानुभावे इयत्तापरिच्छेदे, प्रयत्नवान् उद्योगवानपि, कोऽपि जनः, शक्तः, क्षमः न अभवत्, तथा शातकुम्भेषु स्वर्णेषु, `स्वर्णं सुवर्णं कनकं हिरण्यं हेम हाटकम्। तपनीयं शातकुम्भम्’ इत्यमरः। न, मत्तकुम्भिषु मदस्राविगजेषु न, रत्नराशिषु रत्नसमूहेषु च, न, सर्वत्र सङ्ख्यानुभवे क्षमः अभवत् इत्यनुषङ्गः. विवाहकालप्रदत्ताश्वादिषु सङ्ख्यासम्बन्देऽप्यसम्बन्धोक्तेरतिशयोक्तिभदः॥ 16.34 ॥
करग्रहे वाम्यमधत्त यस्तयोः प्रसाद्य भैम्याऽनु च दक्षिणीकृतः।
कृतः पुरस्कृत्य ततो नलेन सः प्रदक्षिणस्तत्क्षणमाशुशुक्षणिः॥ 16.35 ॥
अन्वयः–यः आशुशुक्षणिः तयोः करग्रहे वाम्यम् अधत्त, अनु भैम्या प्रसाद्य दक्षिणीकृतः ततः च नलेन सः तत्क्षणं पुरस्कृत्य प्रदक्षिणः कृतः।
जीवातु–करेति। यः आशु शोषितुम् इच्छतीति आशुशुक्षणिः अग्निः `अग्निर्वैश्वानरो वह्निः शिखावानाशुशुक्षणिः’ इत्यमरः। `आङि शुषेः सनश्छन्दसि’ इत्यौणादिकसूत्रेणाङ्‌पूर्वाच्छुषेर्धातोः सन्नन्तादनिप्रत्ययः। अयञ्च शिष्टप्रयुक्तोऽपि भाषायामपीष्यते तयोर्भैमीनलयोः, करग्रहे पाणिग्रहे विषये, वाम्यं वामभावं, वक्रतामिति वामभागवर्त्तित्वमिति चार्थः। `वामं विषये, वाम्यं वामभावं, वक्रतामिति वामभागवर्त्तित्वमिति चार्ः। `वामं सव्ये प्रतीपे च’ इति विश्वः। अधत्त भैमीकामुकतया पूर्वं प्रतिकूल आसीदित्यर्थः। अनु पश्चात्, वाम्यानन्तरमित्यर्थः। भैम्या प्रसाद्य स्तुत्यादिना प्रसन्नीकृत्य, दक्षिणीकृतश्च अदक्षिणः दक्षिणः कृतः इति दक्षिणीकृतः अनुकूलीकृतः इत्यर्थः। दक्षिणभागवर्त्ती कृतः इत्यर्थश्च। `दक्षिणो दक्षिणोद्‌भूतपरच्छन्दानुवर्त्तिषु। अवामे-’ इति विश्वः। ततस्तदनन्तरं, नलेन सः आशुशुक्षणिः, तत्क्षणं सः एव क्षणः यस्मिन् कर्मणि तत् इति क्रियाविशेषणम्, सः चासौ क्षणश्चेति कर्मधारये वाऽत्यसंयोगे द्वितीया। विवाहसमये, पुरस्कृत्य उल्लेखनादिसंस्कारपूर्वकम् अग्रतः कृत्वा च, प्रदक्षिणः अत्यन्तानुकूलः दक्षिणभागवर्त्ती च, दक्षिणभागे बलयाकारेण वेष्टित इति वा, कृतः। पूर्वं प्रतिकूलोऽप्यग्निः प्रार्थनया अनुकूलितः इत्येकोऽर्थः। अग्निप्रदक्षिणीकृत्येत्यादिशास्त्रार्थोऽनुतिष्ठतः इत्यपरार्थः॥ 16.35 ॥
स्थिरा त्वमश्मेव क्षवेति म्न्त्रबागनेशदाशास्य किमाशु तां ह्रिया?।
शिला चलेत् प्ररणया नृणमपि स्थितेस्तु नाचालि विडौजसाऽपि सा॥ 16.36 ॥
अन्वयः–त्वम् अश्मा इव स्थिरा भव-इति मन्त्रवाक् ताम् आशास्य किं ह्रिया आशु अनेशत्? शिला नृणाम् अपि प्रेरणया चलेत्, सा तु विडौजसा अपि स्थितेः न अचालि।
जीवातु–स्थिरेति। त्वम् अश्मा पाषाणखण्ड इव, स्थिरा निश्चला, भव तिष्ठेत्यर्थः इति मन्त्रवाक् तां दमयन्तीम्, आशास्य स्वाक्षरैः प्रकाश्यां `शिलावत् अचला भव’ इति एवंरूपाम् आशिषं वितीर्य,ह्रिया हीनोपमाकरणहेतुकलज्जया इवेत्युत्प्रेक्षा गम्या, आशु सपदि, अनेशत् अदृश्यतां गता, किम्? वर्णानाम् उच्चरितान्तरप्रध्वंसित्वादिति भावः, नशेर्लुङि पुषादित्वादङि’ वर्णानाम् उच्चरितानन्तरप्रध्वंसित्वादिति भावः, नशेर्लुङि पुषादित्वादङि। `नशिमन्थोरलिट्येत्वं वक्त्व्यम्’ इति एत्वम्। हीनोपमात्वं व्यनक्ति शिला अश्मा, नृणां मनुष्याणाम् अपि, प्रेरणया व्यापारविशेषेण, चलेत्, तु पुनः, सा दमयन्ती, विडौजसा देवेन्द्रेण अपि, स्थितेः पतिव्रतामार्गात्, न अचालि न चालिता, न चालियुतं शक्तेत्यर्थः, चलेर्ण्यन्तात् कर्मणि लुङ्। अत्र पूर्ववाक्यार्थस्योत्तरवाक्कयार्थहेतुकत्वात् काव्यलिङ्गमलङ्कारः॥ 16.36 ॥
प्रियांशुकग्रन्थिनिबद्धवाससं तदा पुरोधा विदधद्‌ विदर्भजाम्।
जगाद विच्छिद्य पटं प्रयास्यतः नलादविश्वासमिवैष विश्ववित्॥ 16.37 ॥
अन्वयः–तदा विदर्भजां प्रियांशुकग्रन्थिनिबद्धवाससं विदधत् विश्ववित् एषः पुरोधः पटं विच्छिद्य प्रयास्यतः नलस्य अविश्वासम् एव जगाद।
जीवातु–प्रियेति। तदा तत्काले, विदर्बजां वैदर्भी प्रियस्य नलस्य, अंशुके उत्तरीये, `अंशुकं श्लक्ष्णवस्त्रे स्याद् वस्त्रमात्रोत्तरीययोः’ इति मेदिनी। ग्रन्थिना बन्धविशेषेण, निबद्धवाससं ग्रथितांशुकां, विदधत् कुर्वन्, देशाचारप्राप्तत्वादिति भावः। विश्ववित् सर्वज्ञः, त्रिकालज्ञ इत्यर्थः। एष पूर्वोक्तः, पुरोधाः पुरोहितः, गौतम्ः इति यावत्। पटं वस्त्रं, विच्छिद्य द्वेधा विपाट्य, प्रयास्यतः वने भैमीं परित्यज्य गमिष्यतः नलात् अविश्वासम् अप्रत्ययं, जगादेव उवाचेव, ज्ञापयामासेवेत्यर्थः। आगम्यर्थज्ञापनार्थमिवानयोरविच्छेदेनावस्थानार्थ वस्त्राञ्चलद्वयं जग्रन्थेति उत्प्रेक्षा। भारते आरण्यपर्वणि नलोपाख्याने श्लेकः,-`ततोर्द्ध वाससश्छित्त्वा विवस्य च परन्तप! सुप्तामुत्सृज्य वैदर्भी प्राद्रवद्‌गतचेतनः॥’ इति ॥ 16.37 ॥
ध्रुवावलोकाय तदुन्मुखभ्रुवा
निर्दिश्य पत्याऽभिदधे विदर्भजा।
किमस्य न स्यादणिमाऽक्षिसाक्षिकस्तथाऽपि तथ्यो महिमाऽऽगमोदितः॥ 16.38 ॥
अन्वयः–ध्रुवावलोकाय तदुन्मुखभ्रुवा पत्या निर्दिश्य विदर्भजा अभिदधेकिम् अस्य अणिमा अक्षिसाक्षिकः न स्यात् तथापि अस्य आगमोदितः महिमा तथ्यः।
जीवातु–ध्रुवेति। ध्रुवावलोकाय दमयन्तीं ध्रुवनक्षत्रप्रदर्शनाय, `विवाहे ध्रुवमरुन्धतीञ्च दर्शयेत्’ इति शास्त्रात्। तदुन्मुखभ्रुवा तदुन्मुखी ध्रुवाभिमुखी भ्रूः यस्य तादृशेन, पत्या नलेन, निर्दिश्य ध्रुवं पश्येति आदिश्य, विदर्भजा वैदर्भी, अभिदधे अभिहिता, कर्मणि लिट्। किं तत्? इत्याह-अस्य ध्रुवस्य, अणिमा अणुत्वं, क्षुद्रपरिमाणत्वमित्यर्थः। अक्षिसाक्षिकः चक्षुः प्रमाणकः, न स्यात् किम्? चक्षुषा किमित्यर्थः, तथाऽपि अस्य क्षुद्रपरिमाणवत्त्वे चक्षुष एव प्रमाणत्वे सत्यपीत्यर्थः। आगमोदितः ज्योतिः शास्त्रोक्तः महिमा महत्ता एव, बृहत्परिमाणत्वमेवेत्यर्थः। तथ्यः प्रामाणिकः, दूरत्वदोषेण अणुत्वग्राहिप्रत्यक्षस्य आगमापेक्षया दुर्बलत्वात् हस्तार्द्धमितचन्द्रप्रत्यक्षवदिति भावः। महदपि दूरात् अणु प्रतीयते इति प्रसिद्धिः॥ 16.38 ॥
धवेन साऽदर्शि वधूररुन्धतीं सतीमिमां पश्य गतामिवाणुताम्।
कृतस्य पूर्वं हृदि भूपतेः कृते तृणीकृतस्वर्गपतेर्जनादिति॥ 16.39 ॥
अन्वयः–पूर्वं हृदि कृतस्य भूपतेः कृते तृणीकृतस्वर्गपतेः जनात् अणुतां गताम् इव सतीम् इणाम् `अरुन्धती पश्य-इति वधूः धवेन अदर्शि।
जीवातु–धवेनेति। पूर्वं विवाहात् प्रागेव, हृदि कृतस्य पतित्वेन मनसि निश्चितस्य, भूपतेः नलस्य, कृते निमित्तं, नलचरणार्थमित्यर्थः तदर्थ्येऽव्ययम्। तृणीकृतस्वर्गपतेः अगणितमहेन्द्रात्, जनात् त्वत्तः इति यावत्। `पञ्चमी विभक्ते’ इत पञ्चमी। अणुनां सूक्ष्मतां, पातिव्रत्यगुणेन न्यूनताञ्च, गतामिव स्थितां, सतीं साध्वीम्, इमाम् अरुन्धतीनक्षत्रं पश्य इति, उक्त्वेति शेषः। सा वधूः नवोढा भैमी, धवेन भर्त्रा नलेन, अदर्शि दर्शिता। दृशेर्ण्यन्तादात्मनेपदिना कर्मणि लुङ। `अभिवादिदृशोरात्मनेपदे वेति वाच्यम्’ इति अणि कर्त्तुः कर्मत्वम्, अत्र च तस्याभिहितत्वात् न द्वितीया॥ 16.39 ॥
प्रसूनता तत्करपल्लवस्तितैरुडुच्छविर्व्योम्नि विहारिभिः पथि।
मुखेऽमराणामनले रदावलेरभाजि लाजैरनयोज्झिर्तर्द्युतिः॥ 16.40 ॥
अन्वयः–तत्करपल्लवस्थितैः लाजैः प्रसूनता, अनया उज्झितैः पथि व्योम्नि विहारिभिः उडुच्छविः, अमराणआं अनले रदावलेः द्युति अभाजि।
जीवातु–प्रसूनतेति। तत्करपल्लवस्थितैः होमार्थ भैम्याः पाणिकिसलयधृतैः इत्यर्थः। लाजैः भष्टशालिभिः परिवापकापरपर्थायैः, `लाजाः पुम्भूम्नि परिवपके’ इति वैजयन्ती। प्रसूनता पुष्पत्वम् अभाजि प्रापि, तत्सादृश्यं प्राप्तम् इत्यर्थः। लाजा दमयन्तीकरकमले पुष्पवत् परिदृश्यमाना अभूवन् इति निष्कर्षः। भजतेः कर्मणि लुङ। अथ अनया वध्वा, उज्झितैः अग्निं लक्ष्यीकृत्य त्यक्तैः, अथ एव पथि मध्ये मार्गे, व्योम्नि विहारिभिः, खेचरैः सद्भिरित्यर्थः, उडुच्छविः नक्षत्रकान्तिः, तत्सदृशशोभा इत्यर्थः। अभाजि, ततश्च अमराणां देवानां मुके आस्यभूते, अनले, अग्नौ, `अग्निमुका वै देवाः’ इति श्रुतेः। रदावलेः दन्तपङ्क्तेः द्युतिः शोभा, तत्सदृशकान्तित्यिर्थः अभाजि। अत्र एकस्य लाजद्रव्यस्य क्रमेण करपल्लवाद्येनकाधारवृत्तित्वकथनात् पर्यायभेदः तथा लाजानां प्रसूननक्षत्रदन्तशोभासादृश्यान्नदर्शनाभेदः इत्यनयोरङ्गाङ्गिभावेन सङ्करः॥ 16.40 ॥
तया गृहीताऽहुतिधूमपद्धतिर्गता कपोले मृगनाभिशोभिताम्।
ययौ दृशोरञ्जनतां श्रुतौ श्रिता तमाललीलामलिकेऽलकायिता॥ 16.41 ॥
अन्वयः–तया गृहीता आहुतिधूमपद्धतिः कपोलंम मृगनाभिशोभितां, दृशोः श्रुतौ तमाललीलां गता, अलके अलकायिता।
जीवातु–तयेति। तया वध्वा, गृहीता स्वीकृता, आहुतेः लाजाहोमस्य, धूमपद्धतिः धूमरेखा, कपोले गण्डदेशे, मृगनाभिः कस्तूरी इव शोभते इति मृगनाभिशोभिनी, तस्या भावः तत्ता तां मृगनाभिशोभितां, `कर्त्तर्युपमाने’ इति णिनिः। `त्वतलोः’ इति पुंवद्भावः। गता प्राप्ता, तथा दृशोः नयनयोः, अञ्जनतां कज्जलतां, ययौ प्राप, तत्सादृश्यं गता इत्यर्थः। तथा श्रुतौ श्रोत्रे, तमालस्य तमालावतंसस्य, लीलां विलासं, श्रिता प्राप्ता, अलिके ललाटे च, `ललाटमलिकं गोधिः’ इत्यमरः। अलकायिता अलकवत् आचरिता, चूर्णकुन्तलत्वं गतेत्यर्थः। उपमानादाचारक्यङन्तात् कर्मणि क्तः। अत्रापि एकस्यैव धूमस्य क्रमात् अनेकाधारसन्बन्धात् पर्यायः, तदुपजीविनामुत्तरेषां यथायोगमुपमानिदर्शनाभ्यां पूर्ववत् सङ्करः॥ 16.41 ॥
अपह्‌नुतः स्वेदभरः करे तयोस्त्रपाजुषोर्दानजलैर्मिलन्मुहुः।
दृशारपि प्रोद्‌गतमश्रु सात्त्विकं घनैः समाधीयत धूमलङ्घनैः॥ 16.42 ॥
अन्वयः–त्रपाजुषोः तयोः करे स्वेदभरः मुहूः दानजले मिलन् अपह्‌नुतः, दृशो अपि प्रोद्‌गतं सात्त्विकम् अश्रु घनैः धूमलङ्घनैः समाधीयत।
जीवातु–अथानयोस्त्रिभिः सात्त्विकोदयमाह-अपह्‌नुत इत्यादिभिः। त्रपाजुषोः लज्जाभाजोः, तयोः वधूवरयोः, करे पाणौ, स्वेदभरः सत्त्विकभावोदयसूचकधर्मजलातिशयः, मुहुः पुनः पुनः, दानजलैः तत्कालोचितदानार्थमुदकैः, मिलन् मिश्रीभवन्, अपह्‌नुतः आच्छादितः आत्मानं, गोपायितवान् इत्यर्थः। दृशोः अक्ष्णोः अपि, प्रोद्‌गतम् आविरभूतं, सात्त्विकं सत्त्वसमुद्‌भूतम्, अश्रुनेत्रोदकं, घनैः सान्द्रैः, पुञ्जीभूतैरित्यर्थः। धूमलङ्नैः धूमपीडनैः, समाधीयत समाहितः, परिहृतः इति यावत्। अत्र स्वेदाश्रुणोः सहजयोरागन्तुकदानोदकधूमाभिभावाभ्यां तिरोधानान्मीलनभेदः, `मीलनं वस्तुहा यत्र वस्तवन्तरनिगूहनम्’ इति लक्षणात्॥ 16.42 ॥
बहूनि भीमस्य वसूनि दक्षिणां प्रयच्छतः सत्वमवेक्ष्य तत्क्षणम्।
जनेषु रोमाञ्चमितेषु मिश्रतां ययुन्तयोः कण्टककुड्मलश्रियः॥ 16.43 ॥
अन्वयः–बहूनि वसूनि दक्षिणां प्रयच्छतः भीमस्य सत्त्वम् अवेक्ष्य तत्क्षणं रोमाञ्चितेषु जनेषु तयोः कण्टककुड्मलश्रियः मिश्रतां ययुः।
जीवातु–बहुनीति। तयोः वधूवरयोः, कण्टककुड्मलश्रियः पुलकाङ्कुरसम्पदः कर्त्र्यः, बहूनि प्रचुराणि, वसूनि धनानि, दक्षिणां दक्षिणारूपेण, प्रयच्छतः ददतः, भीमस्य सत्त्वं सत्त्वगुणं स्वभावं वा, दानशौण्डीरत्वमित्यर्थः। अवेक्ष्य दृष्ट्वा, तत्क्षणं तत्काले, अत्यन्तसंयोगे द्वितीया। रोमाञ्चं पुलकाञ्चितत्वम्, इतेषु गतेषु, जनेषु दर्शकलोकसमूहेषु, मिश्रतां मेलनं ययुः। दक्षिणादर्शनजन्यविस्मयात् सर्वेषां रोमाञ्चे सति वधूवरयोः सात्त्विकभावोद्भूतानि रोमाञ्चान्यपि तादृशविस्मयोद्‌भूतत्वेनैव तिरोहितानि इत्यर्थः। पूर्ववदलङ्कारः॥ 16.43 ॥
बभूव न स्तम्भविजित्वरी तयोः श्रुतिक्रियारम्भपरम्परात्वरा।
न कम्पसम्पत्तिमलुम्पदग्रतः स्थितोऽपि वह्निः समिधाः समेधितः॥ 16.44 ॥
अन्वयः–श्रुतिक्रियारम्भपरम्परात्वरा तयोः स्तम्भविजित्वरी न बभूव, समिधाः, समेधितः वह्निः अग्रतः स्थितः अपि कम्पसम्पत्तिं न अलुम्पत्।
जीवातु–बभूवेति। तयोः वधूवरयोः श्रुतिक्रियाणां वेदोक्तकर्मणाम्, आरम्भपरम्परायां त्वरा उत्तरोत्तरप्रयोगरूपशीघ्रता, स्तम्भस्य सात्त्विकभावोदयजन्यनिष्क्रियाङ्गत्वलक्षणस्य, विजित्वरौ विजेत्री, `इण् नशजिसर्त्तिभ्यः क्वरप्‌’ इति क्वरप् प्रत्यये `टिड्ढाणञ्’ इत्यादिना ङीप्। न बभूव न अपह्नोतुं शशाक इत्यर्थः। श्रुत्युक्तकर्मजातानां शौघ्रसम्पादनेच्छायां सत्यामपि सात्त्विकस्तम्भवशात् तौ वधूवरौ किमपि कर्म शीघ्रं सम्पादयितुं न समर्थौ इति भावः। तथा समिधा इन्धनेन, समेधितः प्रदीपितः, वह्नि अग्निः, अग्रतः स्थितोऽपि कम्पसम्पर्त्तिं वेपथूद्रेकं, न अलुम्पत् निरोद्धुं न अशकदित्यर्थः। समिद्धोऽग्निः शीतजकम्पमेव शमयितुं समर्थः न तु सात्त्विकं कम्पं गाढानुरागविकाराणां दुर्वारवेगत्वादिति तयोः स्तम्भकम्पौ सर्वे ज्ञातवन्त इति भावः। अत्र कर्मत्वरा-समिद्धवह्निरूपकारणसद्भावेऽपि स्तम्भकम्पनिवृत्तिरूपकार्यानुत्पत्तेर्विशेषोक्तिरलङ्कारः, `सत्यां तत्सामग्र्यां तदनुत्पत्तिर्विशेषोक्तिः’ इति लक्षणात्॥ 16.44 ॥
दमस्वसुः पाणिममुष्य गृह्णतः पुरोधसा संविदधेतरां विधेः।
महर्षिणवाङ्गिरसेन साङ्गता पुलोमजामुद्वहतः शतक्रतोः॥ 16.45 ॥
अन्वयः–दमस्वसुः पाणिं गृह्‌णतः अमुष्य पुलोमजाम् उद्‌वहतः शतक्रतोः महर्षिण आङ्गिरसेन इव पुरोधसा विधेः साङ्गता संविदधेतराम्।
जीवातु–दमस्वसुरिति। दमस्वसुः दमयन्त्याः, पाणिं करं, गृह्णतः आददानस्य, ताम् उद्वहत इत्यर्थः। अमुष्य नलस्य, पुलोमजां शचीम्, उद्वहतः परिणयतः, शतक्रतोः इन्द्रस्य, महर्षिणा आङ्गिरसेन बृहस्पतिना इव, पुरोधसा गौतमेन, विधेः, श्रुत्युक्तवैवाहिकानुष्ठानस्य, साङ्गता साङ्गत्वं, समाप्तिरिति यावत्, संविदधेतराम् अतिशयेन सम्पादिता, `किमेत्तिङव्ययधादा-’ इत्यादिना आमुप्रत्ययः॥ 16.45 ॥
स कौतुकागारमगात् पुरन्ध्रिभिः सहस्ररन्ध्रीकृतमीक्षितुं ततः।
अधात् सहस्राक्षतनुत्रमित्रतामधिष्ठितं यत् खलु जिष्णुनाऽमुना॥ 16.46 ॥
अन्वयः–ततः सः पुरन्द्रिभिः ईक्षितुं सहस्ररन्ध्रीकृतं कौतुकागारम् अगात् यत् विष्णुना अमुना अधिष्ठितं सहस्राक्षतनुत्रमित्रताम् अधात् खलु।
जीवातु– स इति। ततः विवाहविधिसम्पादनान्तरं, सः नलः, ईक्षितुं द्रष्टुं, वधूवरविश्रम्भालापमिति शेषः, सहस्ररन्ध्रीकृतम् अनेकच्छिद्रीकृतम्। बहुव्रीहावभूततद्भावे च्विः। कौतुकागारं कुतूहलवर्द्धकं मङ्गलगृहं, पुरन्ध्रिभिः पुरनारीभिः सह। `वृद्धो यूना’ इति ज्ञापकात् सहाप्रयोगे सहार्थे तृतीया। अगात् प्राविक्षत्। यत् अगारं, जिष्णुना जयशीलेन, अमुना नलेन, जिष्णुना इन्द्रेण इत्यपि गम्यते, अधिष्ठितम् अधिरूढं सत्, सहस्राक्षतनुत्रमित्रताम् इन्द्रकवचतुल्यताम्, इन्द्रस्य सहस्राक्षैर्देशंनार्थ सहस्रच्छिद्रीकृतकवचसादृश्यमिति यावत्। अधात् खलु निश्चितं धारयामासेत्यर्थः॥ 16.46 ॥
अथाशनाया निरशेषि नो ह्रिया न सम्यगालोकि परस्परक्रिया।
विमुक्तसम्भोगमशायि सस्पृहं वरेण वध्वा च यथाविधि त्र्यहम्॥ 16.47 ॥
अन्वयः–अथ वरेण वध्वा च यथाविधि यत्र्हं ह्रिया अशनाया नो निरशेषि, परस्परक्रिया सम्यक् न आलोकि,विमुक्तसम्भोगं सस्पृहम् अशयि।
जीवातु–अथेति। अथ कौतुकागारप्रवेशानन्तरं, वरेण नलेन, वध्वा दमयन्त्या च, यथाविधि यथाशास्त्रं त्र्यहं त्रिदिनम्। अत्यन्तसंयोगे द्वितीया। `तद्धितार्थ-’ इत्यादिना समाहारे द्विगुः, `राजाहः सखिभ्यष्टच्’ इत्यनेन टच्, `न सङ्ख्यादेः समाहारे’ इति अह्नादेशाभावः, `द्विगुरेकवचनम्’ इत्येकवचनान्तता, `रात्राह्नाहाः पुंसि’ इति पुंलिङ्गता। अशनमिच्छतीति अशनाया बुभुक्षा, `अशनायोदन्यधनायावुभुक्षापिपासगर्द्धेषु’ इति क्यजन्ततया निपातनात् सादुः। नो निरशेषि न निःशेषीकृता, न पर्याप्तम् अभोजि इत्यर्थः। ह्रिया लज्जया, परस्परक्रिया अन्योऽन्यचेष्टा, सम्यक् यथेच्छं, न आलोकि नो वीक्षिता, तथा विमुक्तसम्भोगं सम्भोगपराङ्मुखं यथा तथा, सस्पृहं साभिलाषम् एव, अशायि शयितुम्। भावे लुङ्। यथाह आपस्तम्बः–`त्रिरात्रमुभयोरधःशय्या ब्रह्मचर्यमक्षारलवणाशित्वञ्च तयोः शय्यामन्तरेण दण्डोपलिप्तवाससा सुत्रेण परिवीतयोरवस्थानत्वम्’॥ 16.47 ॥
कटाक्षणाज्जन्यजनेर्निजप्रजाः क्वचित् परीहासमचीकरत्तराम्।
धराऽप्सरोभिर्वरयात्रयाऽऽगतानभोजयत् भोजकुलाङ्कुरः क्वचित्॥ 16.48 ॥
अन्वयः–भोजकुलाङ्कुरः क्वचित् निजप्रजाः कटाक्षणात् जन्यजनैः परिहासम् ऊचीकरत्तराम्क्वचित् वरयात्रया आगतान् धराप्सरोक्षिः अभोजयत्।
जीवातु–कटाक्षणादिति। भोजकुलाङ्कुरः भोजवंशकुमारः दमः, क्वचित् कस्मिंश्चित् प्रदेशे प्रजाः स्वजनान्। `हृक्रोरन्यतरस्याम्’ इति अण्यन्तकर्तुः कर्मत्वम्। `प्रजासन्ततौ जने’ इत्यमरः। कटाक्षणात् कटाक्षकरणात्, कटाक्षसङ्केतेन इत्यर्थः। करोतेः `तत् करोति-’ इति ण्यन्ताद्भावे ल्युट्। जन्यनैः वरपक्षीयस्निग्धजनैः सह। ` जन्याः स्निग्धाः वरस्य ये’ इत्यमरः। परीहासं द्रवम्, उपहासमिति यावत्। `द्रवकेलिरिहासाः’ इत्यमरः। `उपसर्गस्य घञ्यमनुष्ये बहुलम्’ इति दीर्घः. अचीकरत्तराम् अतिशेन कारयामास। करोतेर्णो लुङि चङ्, सन्वद्भावादभ्यासस्य दीर्घः, `किमेत्तिङव्यघादा-’ इत्यादिना आमुप्रत्ययः। तथा क्वचित् कस्मिंश्चित् प्रदेशान्तरे, वरस्य यात्रया गमनेन उत्सवेन वा, `यात्रा तु यापनेऽपि स्याद्‌गमनोत्सवयोः स्त्रियाम्’ इति मेदिनी। सह आगतान् उपस्थितान्, जनानिति शेषः। धराःप्सरोभिः क्षितिसुन्दरीभिः करणैः, अभोजयत् भोजयामास, तत्काले परिहासकरणसौकर्यदिति भावः। `निगरणचलनार्थेभ्यश्च’ इति परस्मैपदं, `गतिबुद्धि-’ इत्यादिना अणिकर्त्तुः कर्मत्वम्॥ 16.48 ॥
स कञ्चिदूचे रचयन्तु तेमनोपहारमत्राङ्ग! रुचेर्यथोचितम्।
पिपासतः काश्चन सर्वतोमुखं तवार्पयन्तामपि काममोदनम्॥ 16.49 ॥
अन्वयः–सः कञ्चित् ऊचे-अङ्ग, काचन पिपासतः तव सर्वतोमुखं रुचेः यथोचितं तेमनोपहारं रचयन्तु, काभम् ओदनम् (काममोदनम्) अपि अर्पयन्ताम्।
जीवातु–तत्कालिकमेव परीहासं बहुधा वर्मयति-स इत्यादि। सः दमः, कञ्चित् वरपक्षीयं किमपि जनम्, ऊचे उवाच, किमिति? अङ्ग! भोः!, अत्र अस्मिन्, प्रदेशे काश्चन का अपि, स्त्रियः शेषः। पिपासतः तृष्यतः। पिबते सनन्ताल्लटः शत्रादेशः। तव सर्वतोमुकम् उदकं, `कबन्धमुदकं पाथः पुष्करं सर्वतोमुकम्’ इत्यमरः। तथा रुचेः अभिलाषस्य, यथोचितम् अनुरूपं, तेमनस्य निष्ठानापराख्यस्य व्यञ्जनस्य, `स्यात् तेमनन्तु तिष्ठानम्’ इत्यमरा। `तेमनं व्यञ्जने कलेदे’ इति हेमचन्द्रः। उपहारं समर्पणं, रचयन्तु कुर्वन्तु तथा कामं यतेष्ठम्, ओदनम् अन्नमपि, अर्पयन्तां प्रयच्छन्तु इति। रहस्यपक्षे–अत्र आसु परिवेशिकासु मध्ये, कास्चन का अपि स्त्रियः अङ्गरुचेः आसामङ्गसौन्दर्यदर्शनजन्याभिलाषवतः, ते तव, यथोचितं यथायोग्यं, मनः अपहरतीति मनोऽपहारं स्वाङ्गप्रदर्शनेन मनोहरणं रचयन्तु कुर्वन्तु, तथा पिपासतः मुखतुम्बनेच्छोः तव कामस्य स्मरस्य, मोदनं हर्षकारकम्, उद्‌बोधकमिति यावत्। मुखम् आस्यं, सर्वतः सर्वथा इत्यर्थः। सम्पूर्णभावेनेति याव्त, अर्पयन्ताम् इत्यूचे इत्यन्वयः। अत्रोभयोरप्यर्थयोर्विवक्षितत्वेन प्रकृतत्वात् केवलप्रकृतश्लेषः॥ 16.49 ॥
मुखेन तेऽत्रोपविशत्वसाविति प्रयाच्य सृष्टानुमतिं खलाऽहसत्।
वराङ्गभागः स्वमुखं मतोऽमुना स हि स्फुटं येन किलोपविश्यते॥ 16.50 ॥
अन्वयः–`अत्र असौ ते मुखेन उपविशतु’- इति प्रयाच्च सृष्टानुमतिं खला अहसत् हि येन उपविश्यते किल सः वराङ्गभागः अमुना स्पष्टं स्वमुखेन मतः।
जीवातु–मुकेनेति। हे जन्य! अत्र अस्या पङ्क्तौ, असौ अयं जनः, ते तव, मुकेन सामुख्येन वक्त्रेण च अधिकरणे साधनत्वनिर्देशः। सम्मुखे इत्यर्थः। उपविशतु आस्तां, प्रार्थनायां लोट। भोजनार्थमिति शेषः। इति प्रयाच्य प्रार्थ्य, सृष्टानुमतिंश्लिष्टार्थमबुद्ध्वा `मुखेनोपविशतु’ इति सृष्टा प्रदत्ता, अनुमतिः सम्मतिर्येन तं तादृश कृताङ्गीकारं, कञ्चित् जन्यमिति शेषः। खला काचित् धूर्त्ता स्त्री, अहसन् परिजहास। किमिति! येन वराङ्गेण, उपविश्यते आस्यते किल, सः वराङ्गभाग गुह्यप्रदेशः, `वराङ्गो मूर्द्धगुह्ययोः’ इत्यमरः। अमुना जनेन स्फुटं स्पष्टं यथा तथा, स्वमुखं मतः हि स्ववक्त्रसदृशत्वेन अनुमतः इत्यर्थः। मुखोपवेशनाङ्गीकारो नान्तरीयकः सिद्धः इति भावः। अत्रापि पूर्ववत् श्लेषः॥ 16.50 ॥
युवामिमे मे स्त्रितमे इतीरिणो गले तथोक्त निजगुच्छमेकिका।
न भास्यदस्तुच्छगलो वदन्निति न्यधत्त जन्यस्य ततः पराऽऽकृषत्॥ 16.51 ॥
अन्वयः–`इमे युवां मे स्त्रितमे’-इति ईरिणः जन्यस्य गले तथा उक्ता एकिका `अदः वदन् तुच्छगलः न भासि’-इति निजगुच्छम् अधत्त परा आकृषत्।
जीवातु–युवामिति। इमे युवां भवत्यौ, मे मम, स्त्रितमे अतिशयेन स्त्रियौ, अन्यापेक्षया प्रियतमे इत्यर्थः। `नद्याः शेषस्यान्तरस्याम्’ इति विकल्पात् ह्रस्वः। इति ईरिणः एवं वादिनः। ईरतेर्णिनिः। जन्यस्य कस्यचित् वरसखस्य, गले कण्ठे, तथा उक्तप्रकारेण, उक्ता कथिता, एकैव एकिका तयोः अन्यतरा स्त्री,`प्रत्ययस्थात् कात् पूर्वस्य’ इति इकारः। हे जन्य! अदः इदं, युवाम् इमे मे स्त्रितमे इति वचः इति यावत्। वदन् कथयन्, त्वमिति शेषः। तुच्छगलः रिक्तकण्ठः, हारशून्यकण्ठः सन् इत्यर्थः। न भासि न शोभसे, इति, उक्त्वेति शेषः। गम्यमानार्थत्वादप्रयोगः। निजम् आत्मीयं, गुच्छं द्वात्रिंशद्यष्टिकहारम्। `ह्मरभेदा यष्टिभेदात् गुच्छगुच्छार्द्धगोस्तनाः’ इत्यमरः। न्यधत्त निदधे। ततः शब्दमित्यर्थः। वदन् छगलः छागः, न भास? न प्रतीयसे? अपि तु आत्मानं छगलमेव स्वीकारोषि, इति आकृषत् आचकर्ष! कृषेस्तौदादिकाल्ल्ङ्। `स्तभच्छागवस्तच्छगलका अजे’ इत्यमरः। अत्रापि पूर्ववत् श्लेषः॥ 16.51 ॥
नलाय बालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदेऽर्पितात्।
अहासि लोकैः सरटात् पटोज्झिनी भयेन जङ्घायतिलङ्गिरंहसः॥ 16.52 ॥
अन्वयः–नलाय बालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदे अर्पितात् जङ्घायतिलङ्घिरंसः सरटात् भयेन पटोज्झिनी लोकैः अहासि।
अन्वयः–नलाय बालव्यजनं विधुन्वती दमस्य दास्या निभृतं पदे अर्पितात् जङ्घायतिलङ्घिरंहसः जङ्घाया ऊद्‌र्ध्वभागाक्रमिवेगात्, वेगेन जङ्घामारोहत इत्यर्थः, सरटात् कृकलासात्, `सरटः कृकलासः स्यात्’ इत्यमरः। भयेन पटोज्झिनी वस्त्रायागिनी, विवस्त्रा सतीत्यर्थः, लोकैः जनैः, अहासि परिहसिता॥ 16.52 ॥
जीवातु–नलायेति। नलाय बालव्यजनं चामरं, विधुन्वती कम्पयन्ती; चामरेण नलं वीजयन्ती इत्यर्थः, काचिद् स्त्रीति शेषः। दमस्य दमयन्तीभ्रातुः, दास्या परिचारिकया, निभृतं निगूढं यथा तथा, पदे अर्पितात् विसृष्टात्. अथ एव जङ्घायतिलङ्घिरंहसः जङ्घाया ऊद्‌र्ध्वभागाक्रमिवेगात्, वेगेन जङ्घामारोहत इत्यर्थः, सरटान् कृकलासात्, `सरटः कृकलासः स्यात्’ इत्यमरः। भयेन पटोज्झिनी वस्त्रत्यागिनी, विवस्त्रा सतीत्यर्थः, लोकैः जनैः, अहासि परिहसिता॥ 16.52 ॥
पुरःस्थलाङ्कूलमदात् खला वृषीमुपाविशत् तत्र ऋजुर्वरद्विजः।
पुनस्तमुत्थाप्य निजामतेर्वदाऽहसच्च पश्चात्कृतपुच्छत्प्रदा॥ 16.53 ॥
अन्वयः–खला पुरस्थलाङ्गूलं वृषीम् अदात् तत्र ऋजुः वरद्विजः उपाविशत्, पुनः च निजामतेः वदा तम् उत्थाप्य पस्चात्कृतपुच्छतत्प्रदा अहसत्।
जीवातु–पुरःस्थेति। खला काचित् धूर्त्ता स्त्री, वृषीम् आसनम् `यतीनामासनं वृषी’ इत्यमरः। तस्य टीकायां `ब्रूवन्तः सीदन्त्यस्यामिति पृषोदरादित्वात् साधु। अतसी वृसी मांसी स्वसृ नासेति चन्द्रगोमी दन्त्येष्वपि पठति’ पुरःस्थलाङ्गूलं पुरोभागस्थपुच्छं यता तथा, अदात् दत्तवती, वरद्विजायेति शेषः, ददातेर्लुङि `गातिस्थाघुपा–’ इत्यादि सिचो लुक्। तत्र तस्यां वृष्याम्, ऋजुः सरलः, अकुटिलवुद्धिरित्यर्थः। तस्याः कौतुकचातुर्यमजानन्निति भावः, वरद्विजः वरपक्षीयः कश्चित् ब्राह्मणः, उपाविशत् उपविष्टः, पुनः अनन्तरं,निजामतेः स्वाज्ञानस्य, वदतीति वदा अज्ञानात् मया वैपरीत्येनासनं दत्तमितिवादिनीत्यर्थः, पचाद्यत्। `वदो वदावदो वक्ता’ इत्यमरः। सा खलेति शेषः। तं द्विजम्, उत्थाप्य उत्तोल्य, पश्चात्कृतपुच्छां तां वृषीं प्रददातीति पश्चाद्‌देशस्तापितलाङ्गूलासनप्रदा सती, प्रदेति प्रपूर्वाद्ददातेः कर्मोपपदात् प्रेदाज्ञः’ इति कप्रत्ययः। अहसत् जहास च, पुच्छस्य सन्मुखस्थत्वे द्विजस्य प्रकाशितमेहनात्वप्रतीतेः, पृष्ठत उपस्थाने पशुत्वप्रतीतेश्चेति भावः॥ 16.53 ॥
स्वयं कथाभिर्वरपक्षसुभ्रुवः स्थिरीकृतायाः पदयुग्ममन्तरा।
परेण पस्चान्निभृतं न्यधापयद्द्दर्श चादर्शतलं हसन् खलः॥ 16.54 ॥
अन्वयः–खलः स्वयं कथाभिः स्थिरीकृतायाः वरपक्षसुभ्रुवः पदयुग्मम् अन्तरा परेण पश्चात् निभृतम् आदर्शतलं न्यधापयत् हसन् च ददर्श।
जीवातु–स्वयमिति। खलः कश्चित् धूर्त्तः, स्वयम् आत्मना, कथाभिः इष्टालापः, स्थिरीकृतायाः तत्कथाश्रवणासक्तत्वेन निस्चलीकृतायाः, वरपक्षसुभ्रुवः वरयात्रसम्बन्धिन्याः कस्याश्चित् स्त्रियाः, पदयुग्मम् अन्तरा पादयुगलस्य अन्तराले, `अन्तराऽन्तरेण युक्ते’ इति द्वितीया। परेण पुरुषान्तरेण प्रयोज्येन, पश्चात् पृष्ठतः, निभृतं निगूढं यथा तथा आदर्शतलं दर्पणम्, उत्तानीभूतदर्फणमित्यर्थः, न्यधापयत् निधापयामास, हसन् ददर्श च। वराङ्गप्रतिबिम्बदर्शनात् हासः इति भावः॥ 16.54 ॥
अथोपचारोद्धुरचारुलोचनाविलासनिर्वासितधैर्यसम्पदः।
स्मरस्य शिल्पं वरर्गविक्रिया विलोककं लोकमहासयन् मुहुः॥ 16.55 ॥
अन्वयः–अथ उपचारोद्‌धुरचारुलोचनाविलासनिर्वासितधैर्यसम्पदः स्मरस्य शिल्पं वरवर्गविक्रियाः विलोककं लोकं मुहुः अहासयन्।
जीवातु–अथेति। अथ अनन्तरम्, उपचारेषु सेवाकार्येषु, उद्धुरा उदूढभारा, तत्परा इत्यर्थः। `ऋक्‌पूर–’ इत्यादिना समासान्तः। तथाविधानां साधनैः, निर्वासिता निष्कासिता, धैर्यसम्पत् येन तादृशस्य, स्मरस्य कन्दर्पस्य, शिल्पं सृष्टिः, स्मरकृता इत्यर्थः, तादृशविलासैर्निर्वासिता धैर्यसम्पत् आत्मदमनसामर्थ्यं याभिस्तादृश्यः इति वरवर्गविक्रियाया विशेषणं वा वरवर्गस्य जन्यजनसमूहस्य, विक्रियाः वक्ष्यमाणस्मरविकाराः कर्त्र्यः, विलोककं तद्वकारद्रष्टुजनं, मुहुः अहासयन् परिचारिकाविलासदर्शनादेव जन्यजनस्य जनहासकरः स्मरविकारो जातः इत्यर्थः॥ 16.55 ॥
तिरोबलद्वलक्त्ररोजनालया स्मिने स्मितं यत् खलु यूनि बालया।
तया तदीये हृदये निखाय तत् व्यधीयतासम्मुखलक्ष्यवेधिता॥ 16.56 ॥
अन्वयः–यूनि स्मिते तिरोबलद्वक्त्रसरोजनालया बालया यत् खलु स्मितं, तया तदीये हृदये तत् निकाय असंमुखलक्ष्यवेधिता व्यधीयत।
जीवातु–तिर इति। तिरोबलन् तिर्यक्‌प्रेरयन्, वक्त्रसरोजनालः मुखकमलमृणालः,कण्ठः इति यावत्, यया तादृशया, तिर्यक् परिवर्त्तितकन्धरया, बालया कयाचित् युवत्या, यूनि कर्समिंश्चित् तरुणे, स्मिते स्मितवति सति कर्त्तरि क्तः। यत् स्मितं खलु हसितं किल, लज्जया, पराङ्मुखीभूय यत् हांस्यमकारि इत्यर्थः, भावे क्तः। तया बालया, तदीयेहास्यकारियुवसम्बन्धिनि, हृदये चेतसि, तत् स्मितं, निकाय गाढं प्रवेश्य, असम्मुखम् अनभिमुखं, पार्श्वदेशावस्थितमिति यावत्, यत् लक्ष्यं वेध्यं, तद्वेधित्वं, स्वस्या इति शेषः। व्यधीयत विहिता, तत् स्मितं तस्य पार्श्वावस्थितलक्ष्यवेधौ शरो आतः इत्यर्थः॥ 16.56 ॥
कृतं यदनयत् करणोचितत्यजा दिदृक्षु चक्षुर्यदवारि बालया।
हृदस्तदीयस्य तदेव कामुके जगाद वार्त्तामखिलां खले खलु॥ 16.57 ॥
अन्वयः–करणोचितत्यजा बालया यत् अन्यत् कृतं, दिदृक्षु चक्षः यद्‌ अवारि, तत् ेव तदीयस्य हृदः अखिलां वार्त्तां कामुके खले जगदा खलु।
जीवातु–कृतमिति। करणोचितं क्रियार्ह, त्यजतीति तादृशया करणोचितत्यजा कर्त्तव्यमकुर्वन्त्या करणोचितं क्रियार्ह, त्यजीति तादृशया करणोचितत्यजा कर्त्तव्यमकुर्वन्त्या इत्यर्थः, त्यजे क्विप्। बालया पूर्वोक्तया तरुण्या, अन्यत् अकर्त्तव्यं, यत् कृतम् अनुष्ठितं, तथा दिदृक्षु दर्शनोत्सुकं, चक्षुः स्वदृष्टिः, यत् अवारि वारितं, द्रष्टव्यात् परावर्त्तितमित्यर्थः, हृदः हृदयस्य, अखिलां समग्रां, वार्त्तां वृत्तान्तं, खले धूर्त्ते, इङ्गितदर्शनादभिप्रायज्ञान चतुरे इति यावत्, कामुके विषये, जगाद खलु तस्मै निःसंशयम् उवाच इत्यर्थः, अकर्त्तव्यकरणरूपेङ्गितेन बालाया अन्यासक्तचित्त्ता, दर्शनप्रवृत्तचक्षुःपरावर्त्तनेङ्गितेन तस्या लज्जायाः प्रकाशनात् धूर्त्तो `मयि आसक्ता लज्जिता चेयमि’ति विवेद इति भावेः॥ 16.57 ॥
जलं ददत्याः कलितानतेर्मुखं व्यवस्यता साहसिकेन चुम्बितुम्।
पदे पतद्वारिणि मन्दपाणिना प्रतीक्षितोऽन्येक्षणावञ्चनक्षणः॥ 16.58 ॥
अन्वयः–जलं ददत्याः कलितानतेः मुखं चुम्बितुं व्यवस्यता मन्दपाणिना साहसिकेन पदे पदद्वारिणि अन्येक्षणवञ्चनक्षणः प्रतीक्षितः।
जीवातु–जलमिति। जलं ददत्या आवर्जयन्त्याः, अत एव कलिता कृता इत्यर्थः, आनतिः उद्‌र्ध्वदेहस्य अवनमनं यया तादृश्याः जलदानतां न्युब्जीकृतशरीराया इत्यर्थः, कस्याश्चित् स्त्रिया इति शेषः, मुखं चुम्बितुं व्यवस्यता उद्युञ्जानेन, व्यवस्यतेर्लटः शत्रादेशः। अत एव मन्दपाणिना जलग्रहणे श्लथहस्तेन, सहसा बलात्कारेण वर्त्तते यः स तेन, अथवा-सहसा अविवेचनेन कृतं यत् तत् साहसं, तत्र प्रवृत्तः साहसिकः तेन साहसिकेन अविमृश्यकारिणा इत्यर्थः। `ओजःसहोऽम्भसा वर्त्तते’ इति ठक्। केनचित् कामुकेनेति शेषः; पदे स्वीयचरणे, पतत् श्लथहस्तात् विगलत्, वारि यस्मिन् तस्मिन् सति, चुम्बनौत्सुक्यात् स्वीयचरणोपरि शिथिलहस्तात् जले विगलति सतीत्यर्थः; अन्येक्षणवञ्चनक्षणः परदृष्टिवञ्चनसमयः, तत्रत्यजनान्तराणां विषयान्तरे दृष्टिप्रेरणावसरः इत्यर्थः, प्रतीक्षितः अपेक्षितः इत्यर्थः; कामान्धाः किं न कुर्वन्तीति भावः॥ 16.58 ॥
युवानमालोक्य विदग्धशीलया स्वपाणिपाथोरुहनालनिर्मितः।
श्लथोऽपि सख्यां परिधिः कलानिधौ दधावहो! तं प्रति गाढबन्धताम्॥ 16.59 ॥
अन्वयः–अहो, विदग्धशीलया युवानम् आलोक्य कलानिधौ सख्यां स्वपाणिपाथोरुहनालनिर्मितः श्लथः अपि परिधिः तं प्रति गाढबन्धतां दधौ।
जीवातु–युवानमिति। विदग्धशीलया प्रगल्भस्वभावया, कयाचित् तरुण्येति शेषः। युवानां कमपि तरुणम्, आलोक्य दृष्ट्वा, कलानिधौ कलानां शिल्पानां, चतुःषष्टिप्रकारगीतवाद्यादिरूपाणामित्यर्थः। निधौ आधारभूतायां, सख्यां सहचर्याम्, अन्यत्र–सख्यां सखारूपे कलानिधौ चन्द्रे। `कला शिल्पे विधोरंशे’ इत्यभिधानात्। स्वपाणिपाथोरुहनालाभ्यां निजभुजरूपपद्मनालाभ्यां, निर्मितः कृतः; उक्तयुवकालिङ्गनाभिलाषरूपनिभावसूचनार्थमिति भावः। परिधिः परिवेष्टनं, सखीपरिरम्भ इति यावत्। अन्यत्र–परिधिः परिवेषः, श्लयः शिथिलः सन्नपि, तं युवानं प्रति, गाढबन्धतां सुदृढालिङ्गनतामिति यावत्। दधौ पुपोष, तस्य यूनः गाढालिङ्गनसुखोत्पादेन कार्यकरणयोर्वैयधिकरण्यात् शिथिलालिङ्गनात् विरुद्धस्य गाढबन्धत्वस्योत्पादाच्च आश्चर्यम्। अत एवासङ्गतिविषमालह्कारयोः सङ्करः। ` कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः। विरुद्धकार्यस्योत्पत्तिः’ इति च लक्षणात्। अत्र रतिरहस्योक्तिः–`उत्सङ्गसङ्गताऽपि प्रियसख्यां विविधविभ्रमं तनुते। भावादङ्कगतं शिशुमालिङ्गति चुम्बन्ति व्रते च॥’ इति ॥ 16.59 ॥
नतभ्रुवः स्वच्छनखानुबिम्बनच्छलेन कोऽपि स्फुटकम्पकण्टकः।
पयो ददत्याश्चरणे भृशं क्षतः स्मरस्य बाणैः शरणे न्यविक्षतः॥ 16.60 ॥
अन्वयः–स्मरस्य बाणैः भृशं क्षतः इव स्फुटकम्पकण्टकः कः अपि पयः ददत्याः नतभ्रवः चरणे स्वच्छनखानुबिम्बनच्छलेन शरणं न्यविक्षत।
जीवातु–नतेति। स्मरस्य कामस्य, बाणैः शरैः भृशम् अत्यर्थ, क्षतः पीडित इव, अत एव स्फुटौ व्यक्तौ, कम्पकण्टकौ सात्त्विकवेपथुरोमाञ्चौ यस्य तादृशः। `रोमाञ्चेऽपि च कण्टकः’ इत्यमरः। कोऽपि युवा, पयः दुग्धं जलं वा, ददत्याः परिवेषयन्त्याः, नतभ्रुवः कस्याश्चित् स्त्रियाः, स्वच्छनखेषु शुभ्रुचरणनखरेषु, अनुबिम्बनच्छलेन प्रतिबिम्बव्याजेन, चरणे पादे एव। `पदङ्घ्रिश्चरणोऽस्त्रियाम्’ इत्यमरोक्तेश्चरणे इति द्वितीयाद्विवचनान्तम्, `अभिनेर्विशः’ इति कर्मसंज्ञा। शरणे रक्षयितारौ, रक्षयितुरूपे चरणे इत्यर्थः. `शरणं गृहरक्षित्रोः’ इत्यमरः। न्यविक्षत प्रविष्टः। अत्र सापह्नवोत्प्रेक्षा, व्यञ्जकाप्रयोगाद् गम्या। `नेर्विशः’ इति लुङि तङ `शलः इगुवधादनिटः क्सः’ इति अनिटश्चलेः क्सादेशः॥ 16.60 ॥
मुखं यदस्मायि विभज्य सुभ्रुवा ह्रियं तदालम्ब्य नतास्यमासितम्।
अवादि वा यन्मृदु गद्‌गदं युवा तदेव जग्राह तदाप्तिलग्नकम्॥ 16.61 ॥
अन्वयः–मुखं विभज्य सुभ्रुवा यत् अस्मायि, ह्रियम् आलम्ब्य यत् नतास्यम् आसितं यत् वा मृदु गद्‌गदम् अवादि, युवा तत् एव तदाप्तिलगनकं जग्राह।
जीवातु–मुखमिति। सुभ्रुवा सुवाङ्किमभ्रूशालिन्या, कयाचित् योषिता इति सेषः, मुखं विभज्य कुटिलीकृत्य, किञ्चित् विकृत्येत्यर्थः। यत् अस्मायि हसितं स्मयतेर्भावे लुङि चिणि वृद्ध्यायादेशौ। तथा ह्रियं लज्जाम्, आलम्ब्य आश्रित्य, यत् नतास्यं नम्रमुकं यथा तथा, आसितं स्थितम्, आसेर्भावे क्तः। तथा मृदु अनुच्चैः, गद्‌गदम् अस्पष्टाक्षरं यत् अवादि वा उदितञ्च, वदेः कर्मणि लुङ्। युवा पूर्वोक्तस्तरुणः, तदेव तच्छेष्टात्रयमेव, तदाप्तौ तस्याः प्राप्तौ, लग्नकं प्रतिभुवं तत्प्राप्तिविषये `जामिन’ इत्याख्यप्रतिनिधिस्वरूपमित्यर्थः, जग्राह मेने, तादृशानुरागप्रकाशनात् इयं मयि गाढानुरक्ता अत एव सुलभेति निश्चिकायेति भावः॥ 16.61 ॥
विलोक्य यूना व्यजनं विधुन्वतीमवाप्तसत्त्वेन भृशं प्रसिष्विदे।
उदस्तकण्ठेन मृषोष्मनाटिना विजित्य लज्जां ददुशे तदाननम्॥ 16.62 ॥
अन्वयः–व्यजनं विधुन्वतीं विलोक्य अवाप्तसत्त्वेन यूना भृशं प्रसिस्विदे, मृषोष्मनाटिना उदस्तकण्ठेन लज्जां विजित्य तदाननं ददृशे।
जीवातु–विलोक्येति। व्यजनं तालवृन्तकं, विधुन्वतीं चालयन्तीं, काञ्चित् स्त्रियमिति शेषः। विलोक्य दृष्ट्वा, अवाप्तसत्त्वेन उद्रिक्तसात्त्विकभावेन, यूना केनचित् तरुणेन, भशम् अत्यर्थ, प्रसिष्विदे स्विन्नं, सञ्जातसात्त्विकभावेनाभावि इत्यर्थः। स्विद्यतेर्भावे लिट्। मृषोष्मनाटिना मृषा मिथ्या उष्माणं स्वेदकारणं ग्रीष्मादिकं, नाटयति अभिनयतीति तादृशेन सात्त्विकभावोत्थस्वेदगोपनार्थ मिथ्या सन्तापादिकं प्रकाशयतेत्यर्थः, अत एव उदस्तकण्ठेन उद्‌ग्रीवेण सता, तेन यूनेति शेषः, लज्जां विजित्य विसृज्येत्यर्थः। तदाननं तस्याझ वदनं, ददृशे दृष्टम्, व्यजनपवनापेक्षयेति भावः। दृशेः कर्मणि लिट्। अत्र आगन्तुकेन धर्मस्वेदेन सहजसात्त्विकस्वेदगूहनान्मीलनालङ्कारः, `मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्’ इति लक्षणात्॥ 16.62 ॥
स तत्कुचस्पृष्टकटकचेष्टदोर्लताटलद्‌दलाभव्यजनानिलाकुलः।
अवाप नानानलानाश्रृङ्खलानिबद्धनीडोद्भवविभ्रमं युवा॥ 16.63 ॥
अन्वयः–तत्कुचस्पृष्टकटेष्टदोर्लताचलद्दलाभव्यजनानिलाकुलः सः युवा नानानलनालश्रृङ्खलानिबद्धनीडोद्‌भवविभ्रमम् अवाप।
जीवातु– स इति। सः पूर्वोक्तः, युवा, तस्याः व्यजनं विधुन्वत्याः स्त्रितः, कृचयोः स्तनयोः स्पृष्टमेव स्पृष्टकं धर्षणं, तदेव चेष्टा कुचस्पर्सनरूपव्यापारविशेषः यस्याः तादृश्याः, दोर्लतायाः बाहुवल्लयाः, चलद्दलः कम्पमानपत्रम् इव आभातीति चलद्दलाभं चञ्चलपत्रसदृशम्, इत्युत्प्रेक्षा, लतायाः पत्रेण भवितव्यत्वादिति भावः, तादृशस्य, व्यजनस्य तालवृन्तस्य, अनिलेन तच्चालनजवायुना, आकुलः विवशः, तत्कुचालिङ्गिभुजसन्दर्शनजन्यभावविशेषेण चञ्चलः सन्नित्यर्थः, नानानलनालेननानाविधतृणकाण्डेन, या श्रृङ्खला निगडः बन्धनहेतुत्वात् तन्निर्मितश्रृङ्खलमित्यर्थः, तया निबद्धस्य संयतस्य, नीडोद्भवस्य पक्षिणः `शकुन्तिपक्षिशकुनि….नीडोद्भवा गरुत्मन्तः’ इत्यमरः। विभ्रमं तत्सदृश विलासम्, अवाप प्राप तत्कुचालिङ्गिभुजसन्दर्शनेन कामातुरया तदालिङ्गितुकामोऽपि सर्वजनसमक्षं यथेष्टं चेष्टितुमशक्तः सन् श्रृङ्खलाबद्धपक्षिविभ्रममिवानुबभूवेति निष्कर्षः॥ 16.63 ॥
अवच्छटा काऽपि कटाक्षणस्य सा तथैव भङ्गी वचनस्य काचन।
यया युवभ्यामनुनाथने मिथः कृशोऽपि दूतस्य न शेषितः श्रमः॥ 16.64 ॥
अन्वयः–का अपि सा कटाक्षणस्य अवच्छटा तथा काचन एव वचनस्य भङ्गी, यया युवभ्यां मिथः अनुनाथने दूतस्य कृशः अपि श्रमः न शेषितः।
जीवातु–अवच्छटेति। सा तात्कालिकीत्यर्थः, काऽपि अनिर्वचनीया, कटाक्षणस्य, कटाक्षकरणस्य, अपाङ्गदर्शनस्य इति यावत्,`तत् करोति-’ इति व्यन्तात् ल्युट्। अवच्छटा भङ्गी परम्परा वा, तथा वचनस्य परस्परभाषणस्य, काचन एव काऽप्येव, भङ्गी वक्रोक्त्यादिरूपा इत्यर्थः, जाता इति शेषः, यया कटाक्षणच्छटया वचनभङ्ग्या च कर्त्र्या, युवभ्यां युवत्या यूना च, `पुमान् स्त्रिया’ इत्येकशेषः। मिथः अनुनाथने परस्परप्रार्थने, नाथतेर्याचनार्थत्वात् ल्युट्। दूतस्य वार्त्तावहस्य, कृशः अल्पोऽपि, श्रमः प्रयासः, न शेषितः शेषतया न रक्षित इत्यर्थः, स्वयमेव तत्कार्यकारित्वात् परस्परमिलनार्थ दूतो नापेक्षित इति भावः॥ 16.64 ॥
पपौ न कश्चित् क्षणमास्यमोलितं जलस्य गण्डूषमुदीतसम्मदः।
चुचुम्ब तत्र प्रतिबिम्बितं मुखं पुरःस्फुरन्त्याः स्मरकार्मुकभ्रुवः॥ 16.65 ॥
अन्वयः–उदीतसम्मदः कश्चित् पुरः स्फुरन्त्याः स्मरकार्मुकभ्रुवः आस्यमीलितं जलस्य गण्डूषं क्षणं न पपौ, तत्र प्रतिबिम्बितं मुखं चुचुम्ब।
जीवातु–पपाविति। उदीतसम्मदः सञ्जातहर्षः कश्चित् युवा, पुरःस्फुरन्त्याः पुरोवर्त्तिन्याः स्मरस्य कार्मुके धनुषी इव भ्रुवौ यस्याः तादृश्याः, कस्याश्चित् जलदात्र्याः इति शेषः, आस्येन मुखेन, मीलितं मिश्रितं, मुखस्य प्रतिबिम्बयुक्तमिति भावः, जलस्य गण्डूषं पानार्थ करधृतं गण्डूषितजलमित्यर्थः, क्षणं क्षणमात्रं गण्डूषे जलदानकाले इति यावत् न पपौ न पीतवान्, अन्यथाप्रतिबिम्बादिकार्यायोगादिति भावः, किन्तु यत्र जले, प्रतिबिम्बितं प्रतिफलितं; तस्या मुखं चुचम्ब चुम्बितवान्॥ 16.65 ॥
हरिन्णेर्भोजनभाजनेऽर्पिते गताः प्रकोपं किल वारयात्रिकाः।
भृतं न शाकैः प्रवितीर्ममस्ति वस्त्विषेदमेवं हरितेति बोधिताः॥ 16.66 ॥
अन्वयः–हरिन्मणएः भोजनभाजने अर्पिते प्रकोपं गताः वरयात्रिकाः `वः प्रवितीर्णम् इदं शाकैः भृतं न अस्ति, तु हरिता त्विषा एवम्’ इति विज्ञापिताः किल।
जीवातु–हरिदिति। हरिन्मणेः मरकतोपलस्य, भोजनभाजने भोजनपात्रे, मरकतमणिनिर्मितभोजनपात्रे इत्यर्थः, अर्पिते पुरतः स्थापिते सति, प्रकोपम् अतिरोषं, गताः प्राप्ताः, अतिशयेन रुष्टा इत्यर्थः, पत्रभाजनभ्रान्त्येति भावः; वरयात्रा प्रयोजनम् एषामस्तीति वारयात्रिकाः वरेण सह समागताः, `प्रयोजनम्’ इति ठक्। वः युष्माकं सम्बन्धे, प्रवितीर्ण दत्तम्, इदं भोजनभाजनं, शकैः `शेगुन’ इत्याख्यातरुविसेषपत्रैः ` शाको द्वीपान्तरेऽपि च। शक्तौ तरुविशेषे च पुमान् हरितकेऽस्त्रियाम्॥’ इति मेदिनी। भृतं कृतं, निर्मितमित्यर्थः, न अस्ति न भवति, किन्तु हरिता हरितया, हरिद्वर्णयेत्यर्थः। `पालाशो हरितो हरित्’ इत्यमरः। त्विषा स्वकान्त्या, एवम् इत्थं शाकपत्रनिर्मितभाजनमिति वो भ्रान्तिरिति भावः, इति बोधिताः विज्ञापिताः। अत्र कल्पितसादृश्यान्मरकतभाजनेन पत्रभाजनभ्रान्तिनिबन्धनात् भ्रान्तिमदलङ्कारः॥ 16.66 ॥
ध्रुवं विनीतः स्मितपूर्ववाग्युवा किम्प्यपृच्छन्नविलोकयन्मुखम्।
स्थितां पुरः स्फाटिककुट्टिमे वधूं तदङ्घ्रियुग्मावनिमध्यबद्धदृक्॥ 16.67 ॥
अन्वयः–पुरः स्फाटिककुट्टिमे स्थितां वधुं तदङ्‌घ्रियुग्मावनिमध्यदृक् मुखं न विलोक्यन् ध्रुवं विनीतः स्मितपूर्ववाक्‌ युवा किम् अपि अपृच्छत्।
जीवातु–ध्रुवमिति। युवा कोऽपि तरुणः; पुराः अग्रे, स्फटिके स्फटिकमये, कुट्टिमे निबद्धभूमौ, स्थितां तिष्ठन्तीं, वधूं कामपि सीमन्तिनीं, तस्याः बध्वा एवेत्यर्थः, अङ्‌घ्रियुग्मस्य पादद्वलयस्य, अवनिः आधारभूतभूभागः, तस्याः मध्ये अन्तरालभूभागे, तस्याः पादद्वयाधारभूतमूम्योरन्तराले इत्यर्थः, बद्धदृक् दत्त्दृष्टिः सन्, तत्सङ्क्रान्ततद्वराङ्गप्रतिबिम्बाकृष्टदृष्टितः सन्नित्यर्थः, मुखं न विलोकयन् अधोदर्शनार्थ मुखं न पश्यन्, नञर्थस्य न शब्दस्य सुप्‌सुपेति समासः। विनीतः ध्रुवं साधुरिव, स्मितपूर्वा वाक् यस्य सः तादृशः सन् ईषद्धास्यपूर्वकमित्यर्थः। किमपि यत् किञ्चित् अपृच्छत् जिज्ञासितवान्। अत्र यूनः स्त्रीसम्भाषणे पादावलोकनेन सुखानवलोकनधर्मयोगात् विनीतत्वोत्प्रेक्षा॥ 16.67 ॥
अमी लसद्‌बाष्पमखण्डिताखिलं वियुक्तमन्योऽन्यममुक्तमार्दवम्।
रसोत्तरं गौरमपीवरं रसादभुञ्जतामोदनमोदनं जनाः॥ 16.68 ॥
अन्वयः–अमी जनाः लसद्‌बाष्पम् अखण्डिताखिलम् अन्योऽन्यं वियुक्तम् अमुक्तमार्दवं रसोत्तरं गौरम् अपीवरम् आमोदनम् ओदनं रसात् अभुञ्जत।
जीवातु–अमी इति। अमो जनाः जन्यजनाः, लसन् प्रकाशयानः, उद्‌गच्छन्नित्यर्थः, बाष्पं धूमायमानोष्मा यस्य तादृशम् ईषदुष्णमित्यर्थः, अखण्डितम् अभग्नम्, अखिलं स्वरूपम्, आकृतिरिति यावत्, यस्य तादृशम्, अन्योऽन्यं परस्परं, वियुक्तम् असंश्लिष्टं, तथाऽपि अमुक्तमार्दवम् अकठिनं, सुकोमलमित्यर्थः रसोत्तरं स्वादुभूयिष्ठं गौरं शुभ्रम्, अपीवरम् अस्थूलं, सूक्ष्ममित्यर्थः, आमोदनम् आह्लादजनकं, सुगन्धम् इत्यर्थः, ओदनम् अन्नं, रसात् रागात् अभुञ्जत अखादन्। सार्थकविशेषणत्वात् परिकरः॥ 16.68 ॥
वयोवशस्तोकविकस्वरस्तनीं तिरस्तिरश्चुम्बति सुन्दरे दृशा।
स्वयं किल स्रस्तमुरःस्थमम्बरं गुरुस्तनो ह्रोणतराऽपराऽऽदवे॥ 16.69 ॥
अन्वयः–सुन्दरे वयोवशस्तोकविकस्वरस्तनीं तिरस्तिरः दृशा चुम्बति शुरुस्तनी अपरा ह्रीणतरा स्वयं स्रस्तम् उरःस्यम् अम्बरम् आदधे किल।
जीवातु–वय इति। सुन्दरे रूपसम्पन्ने, वरपक्षीये कस्मिंश्चित् पुंसि इति शेषः। वयोवशेन बाल्ययौवनयोः सन्विरूपवयोऽधीनतया, स्तोकविकस्वरस्तनीम् ईषदुद्भिन्नकुचमण्‍लां, काञ्चित् स्त्रीति शेषः। ह्रीणतरा अतिशयेन ह्रीणा लज्जिता, अतिशयज्जिता सतीत्यर्थः। क्षुद्रस्तन्यां बालिकायामनुरागदर्शनात् पृथुस्तन्यां स्वस्यां तस्यारुचित्वबुद्ध्या अति सलज्जत्वं युक्तमिति भावः। ह्रीधातोः `कालात्’ इति तरप्, `नुदविद-’ इत्यादिना पक्षे निष्ठानत्वं, `तसिलादिष्वाकृत्वसुचः’ इति पुंवद्भावः। स्वयमात्मनैव, स्रस्तं गलितं, किल इति अलीके, स्वस्थानात्‌भ्रष्टमिव जातमित्यर्थः। इति उरःस्थं वक्षःस्थितम्; अम्बरं वसनम् उत्तरीयमित्यर्थः। आदधे स्वेच्छया स्वस्थानादपसारितं कृत्वा पुनराच्छादनार्थं यथास्थानं निदधे। क्षुद्रस्तनीं प्रति हृदयावरणसंकेतं स्वकीयहृदयावरणनिधानेन ज्ञापयामास, अथवा अहं पीवरस्तनी नवोपभोगक्षमेति बुद्ध्या स्तनयुगं दर्शयामासेति भावः॥ 16.69 ॥
यदादिहेतुः सुरभिः समुद्भवे भवेत्तदाज्यं सुरभि ध्रुवंततः।
वधूभिरेभ्यः प्रवितीर्य पायसं तदोधकुल्यातटसैकतं कृतम्॥ 16.70 ॥
अन्वयः–सुरभिः समुद्‌भवे यदादिहेतुः ततः ध्रुवं सुरभि तदाज्यं वधूभिः एभ्यः प्रवितीर्य पायसं तदोधकुल्यातटसैकतं कृतम्।
जीवातु–यदिति। यत् यस्मात् कारणात्, समुद्भवे उत्पत्तौ, सुरभिः गौः; सुगन्दिः पदार्थश्च। `सुरभिर्वाच्यवत् सौम्ये सुगन्धौ गोषु योषिति’ इति यावदः। आदिहेतुः मूलकारणं, ततः कारणात्, तत् आज्यं घृतं, सुरभि सुगन्धि, भवेत्, `कारणगुणाः कार्यगुणमारभन्ते’ इति सुरभिसूतस्य सुरभित्वं युक्तमिति भावः। ध्रुवमित्युत्प्रेक्षायाम्। वधूभिः परिवेष्टीभिः, एभ्यः जन्यजनेभ्यः, परमान्नं, पयसि संस्कृतमन्नमित्यर्थः। `परमान्नन्तु पायसम्’ इत्यमरः। `संस्कृतं भक्षाः’ इत्यण्‌प्रत्ययः। प्रवितीर् दत्त्वा, परिवेष्येत्यर्थः। तस्य सुरभ्याज्यस्य, ओघः प्रवाहः एव, कुल्या कृत्रिमसरित्, तस्याः तटे तीरदेशे, सैकतं सिकतामयं पुलिनं, कृतं रचितमिति रूपकम्। `देशे लुबिलचौ च’ इति सिकताशब्दादण्‌प्रत्ययः। प्रदत्तपायसोपरिनिक्षिप्तधृतधाराप्रवाहेण द्विधा विभक्तं पायसं शुक्लत्वात् घृतमभितः घृतकुल्यातटसैकतमिव विरेजे इति भावः॥ 16.70 ॥
यदप्यपीता वसुधालयैः सुधा तदप्यदः स्वादु ततोऽनुमीयते।
अपि क्रतूषर्बूधदग्धगन्धिने स्पृहां यदस्मै सुधाऽन्धसः॥ 16.71 ॥
अन्वयः–यद्यपि वसुधालयैः सुदा अपीता तदपि अदः ततः स्वादु अनुमीयते, यत् सुधान्धसः क्रतूषर्बुधदग्धगन्धिते अपि अस्मै स्पृहां दधते।
जीवातु–यदपीति। यदपि यद्यपि, वसुधालयैः भूनिलयैः, मनुष्यादिभिरित्यर्थः। सुधा अमृतम्, अपीता न पीता तदपि तथाऽपि, अपीतत्वेऽपीत्यर्थः। अदः आज्यं, ततः सुधातोऽपि, स्वादु मधुरम्, अनुमीयते तर्क्यते, यत् यतः, सुधा एव अन्धः अन्नं येषां ते सुधाऽन्धसः देवा, क्रतूषर्बुधदग्धगान्धिने यज्ञाग्निप्लुष्टगमेधवतो, अस्मै आज्याय, स्पृहाम् इच्छां, दधते कुर्वते इत्यर्थः। `स्पृहेरीप्सितः’ इति सम्प्रदानत्वाच्चतुर्थी। अस्माकमुभयानुभवाभावेऽपि अमृतभोजिनामपि विशिष्टप्रवृत्तिलिङ्गेन तदुभयरसतारतम्यानुमानं सुकरमित्यर्थः। अग्निदग्धत्वेन विकृतगन्धमपि घृतम् अमृतादपि स्वादुरसं किमुत सौरभयुक्तमिति भावः। अनुमानन्तु घृतममृतादपि स्वादुरसं किमुत सौरभयुक्तमितित भावः। अनुमानन्तु घृतममृतादपि स्वादु अमृतान्नानां देवानां विशिष्टेच्छाविषयत्वादिति अत्रानुमानालङ्कारः॥ 16.71 ॥
अबोधि नो ह्रीनिभृतं मदिङ्गितं? प्रतीत्य वा नादृतवत्यवसाविति?
लुनाति यूनः स्म धियं कियद्गता निवृत्य बालाऽऽदरदर्शनेषुणा॥ 16.72 ॥
अन्वयः–असौ ह्रीनिभृतं मदिङ्गितं न अबोधि वा प्रतीत्य न आदृतवतीइति यूनः धियं कियद् गता बाला निवृत्य आदरदर्सनेषुणा लुनाति स्म।
जीवातु–अबोधीति। असौ बाला स्त्री, ह्रीनिभृतं लज्जानिगूढं, मदिङ्गितं सभ्रू भङ्गदर्शनादिना मम हृद्‌गतभावं, नो अबोधि? न अज्ञासीत्? बुध्यतेः कर्त्तरि लुङि तङ्, `दीपजन-’ इत्यादिना च्लेश्चिणादेशः। वा अथवा, प्रतीत्य बुद्‌ध्वाऽपि, न आदृतवती अनभिप्रेतत्वात् तत् न गणितवती, इत्येवंरूपां, यूनः तरुणस्य कस्यचत्, धियं संशयबुद्धिं, कियत् कतिचित् पदानि, गता चलिता अपि, निवृत्य प्रत्यावत्य, आदरदर्शनं सरागदृष्टिः, यद्वा-दरदर्शनम् ईषद्‌दृष्टिः लज्जया संकोचपूर्णदृष्टिरिति यावत्। `ईषदर्थे दराण्ययम्’ इति मेदिनी। तद्रूपेण इषुणा बाणेन, लुनाति स्म चिच्छेद। एतावतैव यूनः अनुरागाभावशङ्काशङ्कुरुद्‌धृत इति भावः॥ 16.72 ॥
न राजिकाराद्धमभोजि तत्र कैर्मुखेन सीत्कारकृता दधद्दधि।
धृतोत्तमाङ्गैः काटुभावपाटवादकाण्डकण्डूयितमूर्द्धतालुभिः?॥ 16.73 ॥
अन्वयः–तत्र राजिकाराद्धं दधद्दधिः कटुभावपाटवात् धुतोत्तमाङ्गैः अकाण्डकण्डूयितमूर्द्धतालुभिः कैः सीत्कारकृता मुखेन न अभोजि।
जीवातु–नेति। तत्र भोजनसमये, कैः जनैः, दधद्दधि दधिवत्, दध्ना संस्कृतम् इत्यर्थः। राजिकाराद्धं राजसर्पपनिष्पन्नं, सर्पपचूर्णसंयुक्तं व्यञ्जनमित्यर्थः। `अथो राजसर्षपः। क्षवः क्षुधाऽभिजननो राजिका कृष्णिकाऽऽसुरी’ इति यादवः। कटुभावपाटवात् कटुत्वसामर्थ्यात्, कटुरसातिरेकादित्यर्थः। धुतोत्तमाङ्गैः कम्पितमस्तकैः, तथा अकाण्डे असमये, भोजनसमये मस्तककण्डूयनस्य समार्त्तचननिषिद्धत्वात् भोजनसमयः कण्डूयनस्य असमय इति भावः। कण्डूयितं मूर्द्धतालु मूर्द्धानः तालूनि च यैः तादृशैः सद्भिः, सीत्कारकृता ससीत्कारेण, मुकेन वक्त्रेण, न अभोजि? न अखादि? सर्वैः एवंकुर्वद्भिरपि अभोजि इत्यर्थः। स्वभावोक्तिरलङ्कारः॥ 16.73 ॥
वियोगिदाहाय कटुभवत्त्विषः तुषारभानोरिव खण्डमाहृतम्।
सितं मृदुप्रागथ दाहदायि तत् खलः सुहृत्पूर्वमिवाहितस्ततः॥ 16.74 ॥
अन्वयः–वियोगिदाहाय कटूभवत्त्विषः तुषारभानोः आहृतं खण्डम् इव सितं तत् प्राक् मृदु अथ दाहदायि पूर्वं सुहृत् ततः अहितः खलः॥
जीवातु–वियोगीति। वियोगिनां प्रियवियुक्तानां, दाहाय सन्तापाय, कटूभवन्त्यः तीक्ष्णीभवन्त्यः, त्विषः प्रभाः यस्य तादॉशस्य, तुषारभानोः चन्द्रस्य, खण्डं शकलम्, आहृतम् आनीतम् इव स्थितम् इत्युत्प्रेक्षा। सितं शुभ्रं, प्रभुतदधियोगादिति भावः। तत् राजसर्पपमिश्रं व्यञ्जनं, पूर्वम् आदौ, सुहृत् आप्तः, ततः पश्चात् कार्यकाले इत्यर्थः, अहितः अनाप्तः खलः दुर्जन इव, इत्युपमा, प्राक् आदौ, स्पर्शकाले इत्यर्थः, मृदु कोमलम्, अथ पश्चात् मुखे प्रक्षेपानन्तरमित्यर्थः, दाहदायि कटुरसातिरेकात् जिह्वादेर्दाहकारि, बभूव इति शेषः॥ 16.74 ॥
नवौ युवानौ निजभावगोपिनावभूमिषु प्राक् प्रहितभ्रमिक्रमम्।
दृशोर्विधत्तः स्म यदृच्छया किल त्रिभागमन्योऽन्यमुखे पुनः पुनः॥ 16.75 ॥
अन्वयः–नलौ निजभावगौपिनौ युवानौ प्राक् यदृच्छया अभूमिषु प्रहितभ्रमिक्रमं दृशोः त्रिभागं पुनः पुनः अन्योऽन्यमुखे विधत्तः स्म किल।
जीवातु–नवाविति। नवौ बाल्ययौवनयोः सन्धौ वर्त्तमानो, अत एव निजभावगोपिनौ लज्जावशात् स्वाभिप्रायं स्पष्टमप्रकाशयन्ती, युवानौ युवतिश्च युवा च तौ, `पुमान् स्त्रिया’ इत्येकशेषः। प्राक् प्रथमम्, अभूमिषु अन्यविषयेषु, दर्शनायोग्येषु इत्यर्थः, नञर्थेन नञ्समासः। प्रहितभ्रमिक्रमं कृतसञ्चारप्रकारं, विषयान्तरेषु इतस्ततः प्रवर्त्तितम् इत्यर्थः, दुशोःनयनयोः, त्रिभागं तृतीयभागम्, अपाङ्गदर्शनम् इत्यर्थः, `वृत्तिविषये सङ्ख्याशब्दस्य पूरणार्थत्वम्’ इति कैयटः। पुनः पुनः वारं वारम् अन्योऽनयस्य परस्परस्य, मुखे वदने, यदृच्छया, किल अनिच्छयैव, किल इत्यलीके, इच्छापूर्वकमेव इत्यस्य तात्पर्यम्। विधत्तः स्म निचिक्षिपतुरित्यर्थः, आदौ ह्रिया विषयान्तरदर्शनव्याजादवे अन्योऽन्यमुखम् अपाङ्गदृष्ट्या पुनः पुनर्दशतुरिति चक्षुःप्रतीत्याख्या प्रथमावस्थैषा॥ 16.75 ॥
व्यधुस्तमां ते मृगमांससाधितं रसादशित्वा मृदु तेमनं मनः।
निशाधवोत्सङ्गरङ्गजैरदः पलैः सपोयूषरसैः किमश्रपि?॥ 16.76 ॥
अन्वयः–ते मृगमांससाधितं मृदु तेमनं रसात् अशित्व `अदः निशाध वोत्सङ्गकुरङ्गजैः सपीयूषरसैः पलैः किम् अश्रपि?’-(इति) मनः व्यधुस्तमाम्।
जीवातु–व्यधुसतमामिति। ते जन्याः,मृगमांसेन हरिणमांसेन, साधितं निष्पादितं, मृदु कोमलं, तेमनं व्यञ्जनम् `तेमनं व्यञ्जने क्लेदे’ इति हेमचन्द्रः। रसात् रागात्, साग्रहमित्यर्थः, अशित्वा आस्वाद्य, अदः इदं तेमनं, निशाधवस्य निशापतेः इन्दोः, उत्सङ्गे क्रोडे, यः कुरङ्गः मृगः, तज्जैः तत्सन्बन्धिभिः, अत एव सपीयूषरसैः अमृतद्रवमिश्रितैः पलैः मांसैः, अश्रपि किम् अपाचि किम्? पाकार्थात् श्राधातोः व्यन्तात् कर्मणि लुङ्, घटादित्वात् मित्त्वात् ह्रस्वः। इति मनो मतिं, व्यधुस्तमाम् अतिशयेन विदधुः इत्युत्प्रेक्षितवन्तः इत्यर्थः। दधातेर्लुङि `तिङश्च’ इति तमप्‌प्रत्ययः, ततः `किमेत्तिङव्ययघादा-’ इति आमुप्रत्ययः॥ 16.76 ॥
परस्पराकूतजदूतकृत्ययोरनङ्गमाराद्‌धुमपि क्षणं प्रति।
निमेषणेनैव कियच्छिरायुषा जनेषु यूनोरुदपादि निर्णयः॥ 16.77 ॥
अन्वयः–परस्पराकूतजदूतकृत्ययोः यूनोः अनङ्गम् आराद्धुं क्षणं प्रति निर्णयः अपि जनेषु कियच्चिरायुषा निमिषेण एव उदपादि।
जीवातु–परस्परेति। परस्परस्य आकूतात्। अभिप्रायावेदकनयनादिचेष्टाविशेषात्, जातं निर्वृत्तं, दूतकृत्यं सम्भोगसम्मतिविषयकप्रश्नोत्तरपरिज्ञानरूपं दौत्यकार्यं ययोः तादृशयोः, संज्ञाभिरेव कृतसमागमनिश्चययोरित्यर्थः, यूनोः कयोश्चित् तरुमयोः स्त्रीपुंसयोः, अनङ्गं आराद्‌धुं सेवितुं, रन्तुमित्यर्थः, क्षणं कालं प्रति, निर्णयोऽपि निश्चयोऽपि, समागमकालनिर्द्धारणमपीत्यर्थः, जनेषु जनमध्ये एव, कियच्चिरायुषा किञ्चिद्दीर्घकालावस्थायिना, निमेषणैनैव नयनिमीलनेन एव, साधारणनिमेषकालापेक्षया किञ्चिदधिककालव्यापिना नेत्रमुद्रणकरणेनैवेत्यर्थः, उदपादि उत्पन्नः उत्पद्यतेः कर्त्रि लुङ `चिण्‌ ते पदः’ इति चिण्। एतेषु निद्रितेष्वेव आवयोः समागमः भवेत् इति कालनिश्चयोऽपि नेत्रनिमीलनरूपसंज्ञयैव कृताः इति भावः॥ 16.77 ॥
अहर्निशा वेति रताय पृच्छति क्रमोष्णशीतान्नकरार्पणात् विटे।
ह्रिया विदग्धा किल तन्निषेधिनी न्यधत्त सन्ध्यामधुरेऽधरेऽङ्गुलिम्॥ 16.78 ॥
अन्वयः–विटे क्रमोष्णशीतान्करार्पणात् `रताय अहः वा निशा’–इति पृच्छति विदग्धा ह्रिया तन्निषेधिनी सन्ध्यामधुरे अधरे अङ्गुलिम् अधत्त।
जीवातु–अहरिति। विटे कस्मिंस्चित् कामुके क्रमेण पर्यायानुसारेण; उष्मशीतयोः अन्ययोः भोज्यद्रव्ययोः उपरि, करार्पणात् हस्तसथापनात्, तद्रूपसङ्‌केतविशेषादित्यर्थः, रताय सम्भोगाय, अहः सूर्यसम्पर्केण उष्णोपलक्षितं दिनं वा कालः? निशा वा चन्द्रसम्पर्केण शैत्योपलिक्षिता निशा वा कालः? इति एवं, पृच्छति जिज्ञासमाने सति, विदग्धा चतुरा, तदक्षिप्राया भिज्ञेत्यर्थः, ह्रिया लज्जया, किल तत् कालद्वयं, निषेधतीति तन्निषेधिनी तन्निवारिका सती, सन्ध्यामधुरे सन्ध्यावत् मनोहरे, सन्ध्यारुणवर्णे इत्यर्थः, अधरे ओष्ठे, अङ्गुलिं न्यधत्त स्थापयामास, सन्ध्यासवर्णाधरस्पर्शेन आवयोः सन्ध्यासमये समागमः इति सूचयामास इत्यर्थः। ह्रिया स्त्रीभिरङ्गुल्या अधरमाच्छाद्यते इति प्रसिद्धम्॥ 16.78 ॥
(क्रमेण कूरं स्पृशतोष्मणः पदं सिताञ्च शीताञ्चतुरेण वीक्षिता।
दधौ विदग्धाऽरुणितेऽधरेऽङ्गुलीमनौचितीचिन्तनविस्मिता किल॥ 16.78.1 ॥
अन्वयः–क्रमेण उष्मणः पदं कूरं शीतां सितां च स्पृशता चतुरेण वीक्षिता अनौचितीचिन्तनविस्मिता विदग्धा अरुणिते अधरे अङ्गुलीं दधौ किल।
कियत्तयजन्नोदनामानयन् कियत् करस्य पप्रच्छ गतागतेन याम्।
अहंकिमेष्यामि? किमेष्यसीति? सा व्यधत्त नम्रं किल लज्जयाऽऽननम्॥ 16.79 ॥
अन्वयः–कियत् ओदनं त्यजन्, कियत् आनयन् करस्य गतागतेन `किम् अहम् एष्यामि, किम् (वा) एष्यसि’ इति यां पप्रच्छ, सा लज्जया किल आननं नम्रं व्यधत्त।
जीवातु–कियदिति। कियत् किञ्चित्, ओदनम्, अन्नं, त्यजन् भोजनपात्रैकदेशे अपसारयन् कियत् किञ्चित् ओदनम्, आनयन् तत्रैव स्वयं प्रति आकर्षन् पूर्वोक्तः विटः इति शेषः, करस्य पाणेः, गतागतेन ओदनस्यापसारणार्थमाकर्षणार्थञ्च यातायाताभ्याम् `विप्रतिषिद्धञ्चानधिकरणवाचि’ इति वैभाषिको द्वन्द्वे एकवद्भावः किम् अहम् एष्यामि? त्वां प्रति िति शेषः, किं एष्यसि वा? त्वं मां प्रति इति शेषः, इति यां तरुणीं पप्रच्छ जिज्ञासयामास, सा स्त्री, लज्जया किल किलेत्यलीके, वस्तुतः तज्जिज्ञासितोत्तरदानार्थमेव इति भावः। आननं मुखं, नम्रम, अवनतं, व्यधत्त कृतवती, शिरोऽवनतिसंज्ञया त्वमेव मां प्रति आगच्छ इति सूचितवती इति भावः॥ 16.79 ॥
यथाऽऽमिषे जग्मुरनामिषभ्रमं निरामिषे चामिषमोहमूहिरे।
तथा विदग्धैः परिकर्मनिर्मितं विचित्रमेव परिहस्य भोजिताः॥ 16.80 ॥
अन्वयः–यथा आमिषे अनमिषभ्रमं जग्मुः निरामिषे च आमिषमोहम् ऊहिरे तथा विदग्धैः परिकर्मनिर्मितं विचित्रम्, एव परिहस्य भोजिताः।
जीवातु–यथेति। एते जन्याः, यथा येन प्रकारेण, आमिषे मांसे अनामिषम् अमांसम् इति भ्रमं भ्रान्तिं, जग्मुः प्रापुरित्यर्थः यथा च निरामिषे अनामिषे, आमिषमोहं मांसभ्रमञ्च, ऊहिरे प्राप्नुवन्ति स्म, तथा तेन प्रकारेण, विदग्धैः परिहासनिपुणैः पाचकैरिति शेषः, परिकर्मणा तत्तद्भोज्यसंस्कारकद्रव्यविशेषेण, निर्मितं निष्पादितम्, अत एव विचत्रम्, आश्चर्यं, भोज्यवस्तु इति शेषः, परिहस्य आमिषदानकाले च निरामिषपरिवेषणरूपं,निरामिषदानकाले च आमिषपरिवेषणरूपं परिहासं, कृत्वा, भोजिताः भोजनं कारिताः॥ 16.80 ॥
नखेन कृत्वाऽधरसन्निभां निभाद्युवा मृदुव्यञ्जनमांसफालिकम्।
ददंश दन्तैः प्रशशंस तद्रसं विहस्य पश्यन् परिवेषिकाऽधरम्॥ 16.81 ॥
अन्वयः–युवा मृदुव्यञ्जनमांसफालिकां नखेन निभात् अधरसन्निभां कृत्वा दन्तैः ददंश, परिवेषिकाधरं पश्यन् विहस्य तद्रसं प्रशशंस।
जीवातु–नखेनेति। युवा कश्चित् तरुणः मृदो कोमलस्य, व्यञ्जनमांसस्य तेमनीभूतमांसस्य फलिकां खण्डिकां निभात् भक्षणव्याजात्, नखेन नखरद्वारा, सञ्छिद्य इति भावः, अधरसन्निभां परिवेषिकाधराकारां, कृत्वा विधाय, परिवेषकायाः भोज्यप्रदात्र्याः, अधरं निम्नोष्ठं, पश्यन् अवलोक्य, विहस्य हसित्वा, दन्तै। ददंश दष्टवान्, तस्य रसं स्वादं, प्रशशंस अहो अमृतकल्पमिति तुष्टाव चेत्यर्थः; तदधरबुद्ध्या इति भावः॥ 16.81 ॥
अनेकसंयोजनया तदा कृतं निष्पिष्य च तादृगर्जनात्।
अमी कुताकालिकवस्तुविस्मयं जना बहु व्यञ्जनमभ्यवाहरन्॥ 16.82 ॥
अन्वयः–तदा अमी जनाः अनेकसंयोजनया निकृत्य निष्पिष्य च अर्जनात् तादृक् कृतं कृताकालिकवस्तुविस्मयं बहु व्यञ्जनम् अभ्यवाहरन्।
जीवातु–अनेकेति। तदा भोजनकाले, अमी जनाः भोक्तारः, अनेकेषां बहूनां संस्कारकद्रव्याणां संयोजनया मेलनेन, तथा निकृत्य छित्त्वा, निष्पिष्य पिष्ट्‌वा च अर्जनात् वस्त्वन्तरसादृश्यसम्पादनात् हेतोः, तादृक् तादृशं, विचित्रमित्यर्थः, कृतं निष्पादितं, यथा (तथा) कृतः सम्पादितः, आकालिकेषु अकालभवेषु, तत्कालदुर्लभेषु इत्यर्थः, वस्तुषु पदार्थेषु, विस्मयः अद्‌भुतता येन तत् तादृशं, बहु अनेकं व्यञ्जनं शामांसादिकम्, अभ्यवाहरन् अभुञ्जत॥ 16.82 ॥
पिपासुरस्मीति विबोधिता मुखं निरीक्ष्य बाला सुहितेन वारिणा।
पुनः करे कर्त्तुमना गलन्तिकां हसात् सखीनां सहसा न्यवर्त्तत॥ 16.83 ॥
अन्वयः–वारिणा सुहितेन मुखं निरीक्ष्य `पिपासुः अस्मि’–इति विबोधिता बाला पुनः गलन्तिकां करेकर्त्तुमनाः सखीनां हसात् सहसा न्यवर्त्तत।
जीवातु–पिपासुरिति। वारिणा जलेन, सुहितेन तृप्तेन इत्यर्थः। `सौहित्यं तर्पणं तृप्तिः’ इत्यमरः। शेषार्थे षष्ठी `पूरणगुण–’ इत्यादिना समासनिषेधः। केनचित् यूना इति शेषः। मुखं बालिकाया वदनं, निरीक्ष्य अवलोक्य, पिपासुः पातुम् इच्छुः, अस्मि भवामि, इति विबोधिता विज्ञापिता, बाला तरुणी, निगूढाभिप्रायपरिज्ञानमूढा काचिदप्रौढा इति भावः। पुनः गलन्तिकां कर्करीं, जलदानपात्रमित्यर्थः `कर्कर्यालुर्गलन्तिका’ इत्यमरः। करे हस्ते, कर्त्तुमनाः धर्त्तुकामा सती `पृषोदरादीनि’ इत्यादौ `तुंकाममनसोरपि’ इति कारिकातोमकारलोपः। सखीनां सहचरीणां, हसात् हास्यात्, `स्वनहसोश्च’ इति विकल्पादप्‌प्रत्ययः। सहसा सपदि, न्यवर्त्तत निवृत्ता जलेन तृप्तस्याप्यस्य कर्मविशेषमनुपादाय केवलं `पिपासुरस्मि’ इति कथनेन बालिकाया अस्या अधरमेव पिपासुरयमिति तद्वाक्यतात्पर्यमवधार्य सखीनां हास्याद् बाला तदशयं परिज्ञाय जलपरिवेषणव्यापारान्नवृत्तेति भावः॥ 16.83 ॥
यवा समादित्सुरमत्रगं घृतं विलोक्य तत्रैणदृशोऽनुबिम्बिनम्।
चकार तन्नीविनिवेशितं करं बभूव तच्च स्फुटकण्ठकोत्करम्॥ 16.84 ॥
अन्वयः–अमत्रगं घृतं समादित्सुः युवा तत्र एणद्दशः अनुबिम्बनं विलोक्य करं तन्नीविनिवेशितं चकार तत् च स्फुटकष्टकोत्करं बभूव।
जीवातु–युवेति। युवा कश्चित्तरुमः, अमत्रगं पात्रगतम् `सर्वमावपनं भाण्डं पात्रामत्रञ्च भाजनम्’ इत्यमरः। घृतं समादित्सुः ग्रहीतुमिच्छुः सन् ददातेः सन्नन्तादुप्रत्ययः, `सति मीमा-’ इत्यादिना इसादेशे अभ्यासलोपः। तत्र घृते, एणदृशः मृघाक्ष्याः परिवेषिकायाः इति शेषः। अनुबिम्बनं प्रतिबिम्बं, विलोक्य दृष्ट्वा, करं स्वकीयहस्तं, तस्य स्त्रीप्रतिबिम्बस्य, नीव्या कटिवस्त्रबन्धने, निवेशितं स्थापितं, चकार कृतवान्, तत् प्रतिबिम्बश्च, स्फुटं व्यक्तं, कण्टकोत्करं पुलकप्रकरं यस्य तादृशं, बभूव सञ्जातम् स्वीयनीविग्रन्थिमोचनाभिगाभिप्रायं परिज्ञाय तस्मिन्ननुरागात् सा पुलकिता अभूत् तत एव तत्प्रतिबिम्बमपि पुलकितं बभूवेति भावः॥ 16.84 ॥
प्रलेहजस्नेहकृतानुबिम्बनां चुचुम्ब कोऽपि श्रितभोजनस्थलः।
मुहुः परिस्पृस्य काङ्गुलीमुखैस्ततोऽनुरक्तैः स्वमवापितैर्मुखम्॥ 16.85 ॥
अन्वयः–श्रितभोजनस्थलः कः अपि प्रलेहजस्नेकृतानुबिम्बनां क्वं मुखम् अवापितैः ततः अनुक्तैः कराङ्गुलीमुखैः चुचुम्ब।
जीवातु–प्रलेहजेति। कोऽपि युवा, श्रितभोजनस्थलः प्राप्तभोजनप्रदेशः सन् प्रलेहजस्नेहे लेह्यद्रव्यजातस्नेहरसे, कृतानुबिम्बनां प्राप्तप्रतिबिम्बां, प्रतिबिम्बितामित्यर्थः परिवेषिकाम् इति शेषः। मुहुः वारं वारं, परिस्पृश्य स्पृष्ट्वा, अङ्‌गुल्यग्रैरिति भावः। ततः स्पर्शात् अनन्तरं, स्व निजं, मुखम् आस्यम्, अवापितैः प्रापितैः चुम्बितैः इत्यर्थः। अत एव अनुरक्तैः हस्ताङ्गुल्यग्रैः, चुचुम्ब चुम्बितवान् प्रतिबिम्बितां तामिति शेषः। मुहुः लेह्यलेहनव्याजेन सम्मुखस्थपरिवेषिकाप्रतिबिम्बानुस्पृष्टाङ्गुलिमुखचुम्बनात् एव तत्प्रतिबिम्बचुम्बनात् सुखम् अन्वभूत्, तां प्रति अनुरागमदर्शयच्च इति भावः॥ 16.85 ॥
अराधि यन्मीनमृगाजपत्रिजैः पलैर्मृदु स्वादु सुगन्धि तेमनम्।
अशाकिलोकैः कुत एव जेमितुं? न तत्तु सङ्ख्यातुमपि स्म शक्यते॥ 16.86 ॥
अन्वयः–मीनमृगाजपत्रिजैः पलैः मृदु स्वादु सुगन्धि यत् तेमनम् अराधि, तत् लोकैः सङ्ख्यातुम् अपि न शक्यते स्म जेमितुं तु कुतः एव अशाकि?
जीवातु–अराधीति। मीनाः मत्स्याः मृगाः शशादयः, अजाः छागाः, पत्रिणः पक्षिणः चटकादयः, तेब्यः जातैः तत्सम्बन्धिभिः, पलैः मासैः। `पलमुन्मानमांसयोः’ इति मेदिनी। मृदु कोमलं स्वादु रसवत्, सुगन्धि सुरभि, यत् तेमनं, व्यञ्जनम्, अराधि अपाचि, निष्पादितमित्यर्थः तत् तेमनं, लोकैः भोक्तृजनैः, सङ्ख्यातु बहुत्वात् गणयितुम् अपि, न शक्यते स्म न समर्थ्यते स्म, तु पुनः, जेमितुम् अशितुं, कुत एव कथं वा, अशाकि? शक्तैरभावि? बहुलत्वादिति भावः। `पाके राध्यते रध्यति जेमत्यत्ति चमती’ति भट्टमल्लः॥ 16.86 ॥
कृतार्थनश्चाटुभिरिङ्गितैः पुरा परासि यः किञ्चन कुञ्चितभ्रुवा।
क्षिपन् मुखे भोजनलीलयाऽङ्गुलीः पुनः प्रसन्नाननयाऽन्वकम्पि सः॥ 16.87 ॥
अन्वयः–किञ्चनकुञ्चितभ्रुवा चाटुभिः इङ्गितैः कृतार्थनः यः पुरा परासि, सः भोजनलीलया मुखे अङ्गुलीः क्षिपन् प्रसन्नाननया पुनः अचकम्पि।
जीवातु–कृतेति। चाटुभिः अनुनायसूचकैरित्यर्थः। इङ्गितैः नयनादिचेष्टितैः, कृतार्थनः कृसम्भोगप्रार्थनः, यः युवा, किञ्चन किञ्चित् कुञ्चितभ्रुवा कुटिलभ्रुवा कृतभ्रुकुट्या इत्यर्थः। स्त्रिया इति शेषः, पुरा पूर्वं, पर्यहारि, प्रत्याख्यान इत्यर्थः, सः युवा, भोजनलीलया भोजनव्यापारेण, तद्व्याजेन इत्यर्थः। मुखे अङ्गुलीः तत्प्रतिबिम्बस्पृष्टाङ्गुलीरित्यर्थः, क्षिपन् स्थापयन्, प्रतिबिम्बस्पृष्टाङ्गुलीचुम्बनव्याजेन तामेव चुम्बयन्निति भावः, प्रसन्नाननया तदनुरागदर्शनेन सानुरागदर्शनादिव्यञ्जितप्रसन्नमुख्या तया, पुनः अन्वकम्पि अनुदर्शनेन सानुरागदर्शनादिव्यञ्जितप्रसन्नमुख्या तया, पुनः अन्वकम्पि अनुकम्पितः, तदव्याकुलतादर्शनेन सम्भोगप्रार्थनं तया स्वीकृतमिति भावः॥ 16.87 ॥
अकारि नीहारनिभं प्रभञ्जनादधूपि यच्चागुरुसारदारुभिः।
निपीय भृङ्गारकसङ्गि तच्च तैरवार्णि वारिप्रतिवारमीदृशम्॥ 16.88 ॥
अन्वयः–यत् प्रभञ्जनात् नीहारनिभम् अकारि अगुरुसारदारुभिः च अधूपि, मृङ्गारकसङ्गि तत् च निपीय प्रतिवारं तैः ईदृशम् अवर्णिः।
जीवातु–अकारीति। यत् वारि जलं, प्रभञ्जनात् वायोः, वायुसञ्चाल नात् इत्यर्थः। `श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः। नभस्वद्वातपवनपवमानप्रभञ्-जनाः॥’ इत्यमरः। नीहारनिभं हिमकल्पं, तद्वत् शीतलम् इत्यर्थः। अकारि कृतं, तथा अगुरोः कृष्णागुरुवृक्षस्य, सारदारुभिः अभ्यन्तरस्थितोत्कृष्टसुगन्धिकाष्ठैः, धूपकाष्ठैरिति यावत्, अधूपि धूपितञ्च, वासितञ्च इत्यर्थः। भृङ्गारकसङ्गि क्षुद्रकनकालुकान्तर्गतं, स्वर्णमयजलपात्रविशेषस्थितमित्यर्थः। `भृङ्गारः कनकालुका’ इत्यमरः। तत् पूर्वोक्तं वारि, निपीय पीत्वा, प्रतिवारं प्रतिपानकालं, तैः पातृभिः, ईदृशं वक्ष्यमाणरूपण्, अवर्णि वर्णितम्॥ 16.88 ॥
त्वया विधातर्यदकारि चामृतं कृतञ्च यज्जीवनमम्बु साधु तत्।
वृथेदमारम्भि तु सर्वतोमुखं तथोचितः कर्त्तुमिदं पिबस्तव॥ 16.89 ॥
अन्वयः–विधातः, त्वया अम्बु यत् अमृतं यत् जीवनम् अकारि, तत् साधु कृतम्; तु इदं सर्वतोमुखं वृथा आरम्भि, तथा इदं पिबः तव कर्त्तुम् उचितः।
जीवातु–त्वयेति। विधातः! हे स्रष्टः। त्वया भवता, अम्बु जलं यत् अमृतम् अमृतनामकं तथा जीवनं जीवनसंज्ञकञ्च, यत् अकारि कृतं तत् उभयं कर्म साधु सम्यक्, सार्थकमित्यर्थः; कृतं विहितम्, अम्बुनोऽमृततुल्यरसत्वात् जीवनाधायकत्वाच्च तादृशसंज्ञाद्वयं सार्थकमेवेति भावः। तु किन्तु, इदम् अम्बु, सर्वतः सर्वदिक्षु मुखानि प्रवाहरूपवक्त्राणि यस्य तत् सर्वतोमुखं सर्वतोमुखमिति संज्ञाविशिष्टम् इत्यर्थः। `आपः स्त्री भूम्नि वार्वारि सलिलं कमलं जलम्। कबन्धमुदकं पाथः पुष्करं सर्वतोमुखम्’ इत्यमरः। वृथैव निरर्थकमेव, आरम्भि अकारि, पेयस्य मुखवैयर्थ्यादिति भावः। अतः अस्य अम्बुनः, पिवतीति इदं पिबः जलपायी अस्मदादिः। `पाघ्राध्माधेट्दृशः शः’ इति शप्रत्ययः। तथा सर्वतः सर्वस्थाने मुखानि यस्य स सर्वतोमुखः कर्त्तु विधातुम् इत्यर्थः, तव उचितः योग्यः; जलापायिनां बहुमूखसत्त्वे आतृप्ति जलपानं सम्भवति न त्वेकमुखेनेति तेषामेव सर्वतोमुखभाविताया औचित्यादिति भावः॥ 16.89 ॥
सरोजकोशाभिनयेन पाणिना स्थितेऽपि कूरे मुहुरेव याचते।
सखि!त्वमस्मै वितर त्वमित्युभे मिथो न वादाद्‌ददतुः किलौदनम्॥ 16.90 ॥
अन्वयः–`सखि, त्वं कूरे स्थिते अपि मुहुः एव सरोजकोशाभिनयेन पाणिना याचते अस्मै वितर, वितर’–इति मिथः वादात् उभे किल ओदनं न ददतुः।
जीवातु–सरोजेति। कूरे ओदने स्थितेऽपि भोजनपात्रे अन्ने विद्यमानेऽपीत्यर्थः, `अन्धः कूरं भक्तमन्नमोदनं भिस्सा’ इति हलायुधः। सरोजकोशस्य कमलमुकुलस्य, अभिनय अनुकरणं यस्य तादृसेन कमलमुकुलानुकारिणा तदीयकुचग्रहणाभिलाषव्यञ्जकेन इत्यर्थः, पाणिना करेण, मुहुः पुनः पुनः एव, याचते कूरं याचमानाय, यूने इति शेषः, याचेरुभयपदित्वात् शतृप्रत्ययः। हे सखि। त्वम् अस्मै याचमानाय, वितर कूरं देहि, द्वितीया त्वाह-त्वं वितर, इति एवं रूपेण, उभे द्वे, स्त्रियौ इति शेषः। मिथ परस्परं, वादात् विवादात्, ओदनं भक्तं न ददतु, न परिविविषतुः, किल खलु तस्य जनहासकरव्यापारं विलोक्य पैतुकवशात् न काऽपि तत्प्रार्थितमङ्गीचकारेति भावः॥ 16.90 ॥
इयं कियच्चारुकुचेति पश्यते पयःप्रदाया हृदयं समावृतम्।
ध्रुवं मनोज्ञा व्यतरद्यदुत्तरं मिषेण भृङ्गारधृतेः करद्वयौ॥ 16.91 ॥
अन्वयः–`इयं कियच्चारुकुचा’–इति पयःप्रदायाः समावृतं हृदयं पश्यते भृङ्गारधृतेः मिषेण करद्वयी उत्तरं व्यतरत् `यत्‌ ध्रुवं मनोज्ञा’।
जीवातु–इयमिति। इयम् एषा स्त्री, कियन्तौ किंपरिमाणकौ, चारुमनोहरौ, पीनौ इति यावत्, कुचौ स्तनौ यस्याः सा तादृशी, इति एवं, विचार्य इति शेषः, पयः प्रददातीति पयःप्रदा तस्याः जलदायिन्याः, समावृतं वस्त्राच्छादितं, हृदयं वक्षः, (कर्म) पश्यते अवलोकयते, कुचपरिमाणं जिज्ञासमानाय विटाय इत्यर्थः, करद्वयी तस्याः पाणियुगली, भृङ्गारधृतेः स्वर्णमयजलपात्रधारणस्य, मिषेण व्याजेन, भृङ्गारग्रहणच्छलेनेत्यर्थः, यत् उत्तरम् एतद्‌भृङ्गारपरिमाणं कुचद्वयम् इत्येवंरूपम् उत्तरं व्यतरत् अददात्, तेन ध्रुवं निश्चितं, मनोज्ञा चित्तज्ञा, पराभिप्रायज्ञा इत्यर्थः, करद्वयीति शेषः। पराशयज्ञत्वस्य प्रश्नोत्तरदानस्य च चेतनधर्मतया अचेतने करद्वये ततुत्प्रेक्षणादुत्प्रेक्षालङ्कारः॥ 16.91 ॥
अमीभिराकण्ठमबोजि तद्‌गृहे तुषारधारामृदितेव शर्करा।
वाहद्विषद्‌बष्कयणीपयःस्रुतं सुधाह्रदात् पङ्कमिवोद्‌धृतं दधि॥ 16.92 ॥
अन्वयः–अमीभिः तद्‌गृहे तुषारघारामृदिता इव शर्करा (इव) सुधाह्रदात् उद्‌धृतं पङ्कम् इव वाहद्विषद्‌बष्कयणीपयः स्रुतं दधि आकण्ठम् अभोजि।
जीवातु–अमीभिरिति। अमीभिः जन्यः, तद्‌गृहे भीमभवने, तुषारधारया हिमधारया, मृदिता मर्दिता, शर्करा खण्डविकार इव तद्वत् स्वादु शुभ्रञ्चेत्यर्थः। `शर्करा खण्डविकृतौ’ इति हैमः। सुधाह्रदात् अमृतह्रदात्, उद्‌धृतम् उत्तालितं, पङ्कं कर्दमम्, अमृतकर्दमम् इव स्थितम् इत्युत्प्रेक्षा। वाहं हयं, द्विषन्ती विरुध्यन्ती, महिषी इत्यर्थः, `लुलायो महिषो वाहद्विषत्कासरसैरिभाः’ इत्यमरः। `स्त्रियाः पुंवत्’ इत्यादिना पुंवद्भावः सा च सा बष्कयणी चिरप्रसूता, `चिरप्रसूता बष्कयणी’ इत्यमरः। तस्याः पयसः क्षीरात्, स्रुतम् उत्पादितं; स्रुणोतेः कर्मणि क्तः। दधि दुग्धविकारः आकण्ठम् अभोजि भुक्तम्॥ 16.92 ॥
तदन्तरन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता जगत्कृता।
इतस्ततः स्पष्टमचोरि मायिना निरीक्ष्य तृष्णाचलजिह्वताभृता॥ 16.93 ॥
अन्वयः–तत् निरीक्ष्य तृष्णाचलजिह्वताभृता मायिना जगत्कृता अन्तः सुषिरस्य बिन्दुभिः करम्बितं कल्पयता इतस्ततः स्पष्टम् अचोरी।
जीवातु–तदिति। निरीक्ष्य दृष्ट्वा, सृष्ट्यादौ स्वसृष्टं दधि इति भावः। तृष्णया स्पृहया, दधिभोजनवासनया इत्यर्थः। चला चञ्चला, अधरप्रान्तलेहिनी जलस्राविणी चेति भावः। जिह्वा यस्य तस्य भावस्तत्तां, बिभर्त्ति धारयतीति तद्‌भृता तद्धारिणा, दधिलुब्देनेत्यर्थः। अत एव मायिना स्वचापल्यवञ्चनाचतुरेण, अथवा, दर्शकलोकानां दृष्टिवञ्चनाचतुरेण, जगत्कृता स्रष्ट्रा, तत् दधि, अन्तरन्तः मध्ये मध्ये, सुषिरस्य। जातावेकवचनम्। सुषिराणां, छिद्राणामित्यर्थः। बिन्दुभिः मण्डलैः, करम्बितं मित्रितं, कल्पयता रचयता, तद्दधि वर्त्तुलच्छिद्रयुक्तं कुर्वता सता इत्यर्थः। इतस्ततः सर्वप्रदेशेभ्यः, स्पष्टं व्यक्तम्, अचोरि चोरितमिव, तद्दधि इति शेषः। सफेनदुग्धे दधिरूपेण परिणते व्यक्तम्, अचोरि चोरितमिव, तद्दधि इति शेषः। ब्रह्मणा लोकचक्षुरगोचरतया इतस्ततो दधिस्थसारांशो भोक्तुमिच्छयाऽपहृतः, अन्यथा कथमितस्तततस्तत्र छिद्राणि दृश्यन्ते इति ब्रह्मणोऽपि आकर्षकं माहिषदधि किमुतान्येषामिति भावः। स्पष्टमित्युत्प्रेक्षायाम्॥ 16.93 ॥
ददासि मे तन्न रुचेर्यदास्पदं न यत्र रागः सितयाऽपि तया।
इतीरिणे बिम्बफलं रुचिच्छलाददायि बिम्बाधरयाऽरुचच्च तत्॥ 16.94 ॥
अन्वयः–`यत् रुचेः तत् मे न ददासि; यत्र रागः न, तया सितया अपि किम्?-इति ईरिणे रुचिच्छलात् बिम्बाधरया बिम्बफलम् अदायि; तत् च अरुचत्।
जीवातु–ददासीति। यत्, द्रव्यमिति शेषः। रुचेः अभिलाषस्य, आस्पदं पात्रं, विषयीभूतमित्यर्थः। तत् मे मह्यं, न ददासि न यच्छसि, यत्र यस्मिन् द्रव्ये, रागः अनुरागः, रुचिरित्यर्थः न नास्ति, तया सितया शर्करयाऽपि, `शर्करा सिता’ इत्यमरः। किम्? अलं, न किमपि प्रयोजनमित्यर्थः। रक्तवस्तुरागिणः किं सितवस्तुना? इति च गम्यते। इतीरिणे इतिवादिने, अधरबिम्बचुम्बनेच्छया एवं भाषिणे रागिणे इत्यर्थः। रुचिच्छलात् अभिलाषव्याजात्, `छलप्रयोगे छलप्रयोगः एव कर्त्तव्यः’ इति न्यायात् इति भावः। बिम्बांसव अधरः यस्याः तया बिम्बाधरया बिम्बोष्ठया स्त्रिया, बिम्बफलम् ओष्ठोपमाफलम्, अदायि दत्तं, मिषान्तरेणाधरबिम्बं याचितं मिषान्तरात् बिम्बफलं दत्तम् इत्यर्थः, तत् बिम्बफलञ्च, अरुचत् तस्मै अरोचिष्ट, रुचिकरमभूदित्यर्थः, अस्य प्रियाधरबिम्बप्रतिनिधित्वादिति भावः। रुच दीप्तौ प्रीत्यर्थाल्लङ् `द्युद्भ्यो लुङि’ इति परस्मैपदं, `पुषादिद्युतादि-’ इत्यादिना च्लेरङादेशः॥ 16.94 ॥
समं ययोरिङ्गितवान् वयस्ययोस्तयोर्विहायोपहृतप्रतीङ्गिताम्।
अकारि नाकूतमवारि सा यया विदग्धयाऽञ्जि तयैव भावतित्॥ 16.95 ॥
अन्वयः–ययोः वयस्ययोः सम्‌ इङ्गितवान् भाववित् तयोः उपहृतप्रतीङ्गितां विहाय यया विदग्घया आकूतं न अकारि तया एव अरञ्जि, सा अकारि।
जीवातु–सममिति। ययोः वयस्ययोः सहचर्योः विषये, मम युगपत्, इङ्गितवान् दृगादिसंज्ञावान्, नयनभ्रमणादिचेष्टाविशेषं कुर्वन्नत्यर्थः। भाववित् गूढाभिप्रायाभिज्ञः, चातुर्यवेत्ता इत्यर्थः। कश्चित् विट इति शेषः। तयोः मध्ये उपहृतप्रतीङ्गितां दत्ततदभिप्रेताङ्गीकारसूचकप्रतिसंज्ञां, प्रथमवयस्यामिति भावः। विहाय परिहृत्य,जनसमाजे सखीसमक्षं चभुरिङ्गितादिकरणादियमचतुरेति निश्चित्य तां प्रत्यननुरागेण तां हित्वा इति भावः। यया विदग्धया चतुराया, आकूतं तदभिप्रेताङ्गीकारसूचकं प्रतीङ्गितं, न अकारि न कृतं, बहुजनसमक्षं तत्करणे प्रकाशभिया लज्जातिशयादिति भावः। किन्तु सा प्रथमा इति यावत्, अवारि वारिता, अययस्यां विरक्तः मयि चानुरक्तः तत् कथमियं मत्प्रियं प्रति इङ्गितं करोतीति सापत्न्येर्ष्यया जनसम्क्षमिङ्गितादिकरणमनुचितमिति व्याजेन द्वितीयया सा इङ्गितादिचेष्टातो निवारितेत्यर्थः, तथा द्वितीययैव विदग्धया, अरञ्चि रञ्चितः, आकृष्टः, इत्यर्थः। द्वितीयास्तथाविधगूढभावदर्शनेन सन्तुष्टतया तस्यामेवानुरक्त इति भावः। एतेन प्रथमापेक्षया द्वितीया गम्भीरा सोऽपि भावज्ञः तत् युक्तम् एतदिति गम्यते॥ 16.95 ॥
सखीं प्रति स्माह युवेङ्गितेक्षिणी क्रमेण तेऽयं क्षमते न दित्सुताम्।
विलोम तद्‌व्यञ्जनमर्प्यते त्वया वरं किमस्मै न नितान्तमर्थिने?॥ 16.96 ॥
अन्वयः–युवेङ्गितेक्षिणि सखीं प्रति आह स्म-अयं युवा ते क्रमेण दित्सुतां न क्षमते, त्वया नितान्तम् अर्थिने अस्मै वरं तत् व्यञ्जनं विलोम किं न अप्यंते?
जीवातु–सखीमिति। युवेङ्गतेक्षिणी युवाभिप्रायसूचकनयनादिचेष्ठादर्शिनी, काचित् तरुणीति शेषः। सखीं परिवेषिकां वयस्यां, प्रति आह स्म उवाच। `लट्‌ स्मे’ इति भूते लट्‌। किमिति? अयं युवा, ते तव सम्बन्धिनीं, क्रमेण पारम्पर्येण, दित्सुतां परिविविक्षुतां, न क्षमते न सहते, एकमेकं कृत्वा उत्तरोत्तरक्रमेण परिवेषणविल्भ्वं सोढुं न शक्नोति इत्यर्थः। अतः त्वया नितान्तमर्थिने अत्यन्तव्यग्रतया याचकाय, अस्मै यूने, वरम् उत्कुष्टं, तद्‌ व्यञ्जने निष्ठानं, विलोम विपरीतं यथा तथा, व्युत्क्रमेण इत्यर्थः. किं न अर्प्यते? कथं न दीयते? अपि तु व्यग्राय शीघ्रदेयमिति व्याजोक्तिरितिं भावः। अयं युवा, क्रमेण आलिङ्गनस्तनमर्दनचुम्बनादिव्यापारक्रमेण दित्सुतां मैथुनार्थ वराङ्गदानेच्छुतां, तद्दानबिलम्बमित्यर्थः, न क्षमते न सहते, अत स्त्वया विलोम अरोमकम्, अत एव वरम् उत्कृष्टं व्यञ्जनम् अवयवः, वराङ्गमित्यर्थः। `व्यञ्जनं श्मश्रुनिष्ठानचिह्नेष्ववयवेऽभरे’ इति यादवः। नितान्तमर्थिने अस्मै किं न अर्प्यते? अपि तु शीघ्रमेवार्पय इत्यर्थान्तरस्यापि विवक्षितत्वात् केवलप्रकृतश्लेषः॥ 16.96 ॥
समाप्तिलिप्येव भुजिक्रियाविधेदलोदरं वर्त्तुलयाऽऽलयीकृतम्।
अलङ्कृतं क्षीरवटैस्तदाऽश्नतां रराज पाकार्पितगैरिकश्रियाः॥ 16.97 ॥
अन्वयः–तदा क्षीरवटैः अलङ्कृतम् अश्नतां दलोदरं पाकार्पितगैरिकश्रिया वर्त्तुलया भुजिक्रियाविधेः समाप्तलिप्या इव आलयीकृतं रराज।
जीवातु–समाप्तीति। तदा तत्काले, अश्नतां भुञ्जानानां, जन्यामिति शेषः। दलोदरं कदलीपत्रादिबोजनपात्राभ्यन्तरं, पाकेन विविधसंस्कारकद्रव्यद्वारा पाकविशेषेम, अर्पिता सम्पादिता, गौरिकस्य शैलजरक्तवर्मघातुविशेषस्य, श्रीरिव श्रीः येषां तैरिति विभक्तिव्यत्ययेनान्वयः। वृत्ताकारैः वटानां वर्त्तुलत्वादिति भावः। क्षीरवटैः दुग्धपक्वमाषनि,्पादितवटकाख्यपिष्टकविशेषैः, अलङ्कृतं शोभितं सत्, तदर्पणादिति भावः। पाकार्थ रक्तवर्णसम्पादनार्थम् अर्पितेन निक्षिप्तेन, गैरिकेण रक्तवर्णधातुविशेषेण, श्रीः रक्तकान्तिर्थस्यां तादृशया, तथा वर्त्तुलया वर्त्तुलाकारया, वृत्ताकारः रक्तवर्णश्चिह्नविशेषः लिप्रिशेषे क्रियते इति व्यवहारादिति भावः। भुजिक्रियाविधेः भुजधात्वर्थानुष्ठानस्य, भोजनव्यापारस्येत्यर्थः, समाप्तिलिप्या समाप्तिसूचकवर्णविशेषविन्यासेन लिप्यन्तरे प्रवृत्त्यभावात्, अन्यत्र-व्यढ्जनान्तरे रुच्यभावादिति भावः। आलयीकृतम् आस्पदीकृतं, चिह्नीकृतमित्यर्थः। दलोदरं तालपत्रादिलेख्यपत्राभ्यन्तरमिव, रराज शुशुभे, रक्तवर्णतादृशवटकैः शोभते स्म। तादृशवटकप्रदानानन्तरमेव जन्यानां तेषां व्यञ्जनान्तरभोजनप्रवृत्तिर्विनष्टेति भावः। अत्रोपमालङ्कारः॥ 16.97 ॥
चुचुम्ब नोर्वीवलयोर्वशीं परं पुरोऽधिपारि प्रतिबिम्बतां विटः।
पुनः पुनः पानकपानकैतवाच्चकार तच्चुम्बनचुङ्कृतान्यपि॥ 16.98 ॥
अन्वयः–विटः पुरा अधिपारि प्रतिबिम्बताम् उर्वीवलयोर्वशीं परं न चुचुम्ब, पुनः पुनः पानकपानकैतवात् तच्चुम्बनचुङ्कृतानि अपि चकार।
जीवातु–चुचुम्बेति। विटः कश्चित् कामुकः, पुरः अग्रे, पार्यामा अधि अधिपारि ककैर्यां, पानीयपात्र्याम् इत्यर्थः। `कर्करीपूरयोः पारी पादरज्ज्वाञ्च हस्तिनः’ इति विश्चः। `वारिवहनभाण्डम्’ इति स्वामी। प्रतिबिम्बितां प्रतिफलिताम्, उर्वीवलयोर्वशीं भूमण्डलोर्वशीं, सर्वोत्कृष्टरूपतीमित्यर्थः। स्त्रीमिति शेषः। परं केवलं, न चुचुम्ब न चुम्बितवान्, किन्तु पुनः पुनः वारं वारं, पानकपानकैतवात् पानीयपानच्छलात्, तस्याः प्रतिबिन्मबताया भूमण्डलोर्वश्या इत्यर्थः। अधरसुधापाने, चुङकृतानि अपि चूषणचुङ्कारशब्दानपि, चकार कृतवान्॥ 16.98 ॥
घनैरमीषां परिवेषकैर्जनैरिवर्षि वर्षोपलगोलकावली।
चलद्भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः श्रियचान्द्रसौरभा॥ 16.99 ॥
अन्वयः–चलद्‌भुजाभूषणरत्नरोचिषा धृतेन्द्रचापैः धनैः परिवेषकैः जनैः अमीषां श्रितचान्द्रसौरभा वर्षोपलगोलकावली अवर्षि।
जीवातु–घनैरिति। चलन्त्यः परिवेषणार्थम् इतस्ततः भ्रमन्त्यः; याः भुजा बाहवः, तासु यानि भूषणरत्नानि रत्नखचितालङ्काराः, तेषां रोचिषा प्रभया एव, धृतः गृहीतः, इन्द्रचापः इन्द्रचाप इव इत्यर्थः। यौ तादृशैः; षरिवेषन्तीति परिवेषकाः तैः अन्नव्यञ्जनादिदातृभिः, जनैः लोकैरेव, घनैः स्त्रीजनरूपमेधैः, अमीषां भोक्तॄणां कृते, श्रितचान्द्रसौरभा प्राप्तकर्पूरसम्बन्धिगन्धा, अन्यत्र-चन्द्र एव चान्द्रः, सूर एव सौरः तयोर्बाः प्रभा, श्रिता व्याप्ता यया सा, करकाणां रात्रिदिनयोः सम्भाव्यमानेन चन्द्रसूर्ययोः क्रमेण कान्तिव्याप्तत्वं सम्भवति, अथवा शैत्योज्ज्वलत्वाभ्यां तत्कान्तिसदृशीति भावः। वर्षोपलाः करका इव, गोलकाः घुटिकाकाराः पिष्टकविशेषाः, तेषाम् आवली राशिः, अवर्षि वृष्टा, प्रदत्तेत्यर्थः॥ 16.99 ॥
कियद्‌बहु व्यञ्जनमेतदर्प्यते? ममेति तृप्तेर्वदतां पुनः पुनः।
अमूनि सङ्ख्यातुमसावढौकि तैश्ठलेन तेषां कठिनीव भूयसी॥ 16.100 ॥
अन्वयः–`मम एतत् कियत् बहु व्यञ्जनम् अर्प्यते?’ -इति तृप्तेः पुनः पुनः वदतां तेषआं छलेन अमूनि सङ्ख्यातु भूयसी कठिनी इव तैः असौ अढौकि।
जीवातु–कियदिति। मम एतत् कियत् कतिपरिमाणं, बहु प्रभूतं, व्यञ्जनं शाकमांसादिरूपतेमानादिकं, कति व्यञ्जनानीत्यर्थः। अर्प्यते? दीयते? तृप्ता वयम् अतो नापरं दातव्यम् इति भावः। तृप्ते भोजनजन्यसन्तोषात् हेतोः इति एवं, पुनः पुनः वदतां वारं वारं कथयतां, तेषां भोक्तॄणां, छलेन व्याजेन, तेषां तादृशवाक्येन कति व्यञ्जनानि अस्माभिर्दत्तानि? इति सङ्ख्याजिज्ञासैवाभिप्राय इति व्याजेन इत्यर्थः। अमूनि व्यञ्जनानि, सङ्ख्यांतु गणयितुं, भूयसी बहुतरा, कठिनी इव करिका इव, भूयस्यः सङ्ख्यानघुटिकाः इवेत्यर्थः। `करिका कठिनी’ इति विश्वः। तैः परिवेषकैः असौ गोलकावलिः,प्रागुप्तपिष्टकविशेषराशिरित्यर्थः। अढौकि ढौकिता, उपहृता इत्यर्थः। भवद्भिः व्यञ्जनबाहुल्यं कथ्यते, अतः आभिः कठिनीभिः तानि गणयेति च्छलेनेव भूयसी कठिनी अर्पितेवेति भावः। अत्रोत्प्रेक्षालङ्कारः॥ 16.100 ॥
विदग्धबालेङ्गितगुप्तिचातुरीप्रवह्लिकोद्‌घाटनपाटवे हृदः।
निजस्य टीकां प्रबबन्ध कामुकः स्पृशद्भिराकूतशतैस्तदौचितीम्॥ 16.101 ॥
अन्वयः–कामुकः विदग्धबालेङ्गितगुप्तिचातुरीप्रवह्लिकोद्‌घाटनपाटवे तदौचितीं स्पृशद्भिः आकूतशतैः निजस्य हृदः टीकां प्रबबन्ध।
जीवातु–विदग्धेति। विदग्धबालायाःचतुराङ्गनायाः, इङ्गितगुप्तिचातुरी भ्रूभङ्ग्याद्याकारगोपनचातुर्य, निगूढार्थोक्तिविशेषः। `प्रवह्लिका प्रहेलिका’ इत्यमरः। तस्याः उद्‌घाटने बोधने, अर्थोद्भेदने इत्यर्थः। औचितीम् आनुकूल्यं, स्पृशद्भिः प्राप्तैः, तदनुकूलैरित्यर्थः। तवेङ्गितगुप्तिचातुर्यं मया ज्ञातमित्यर्थप्रकाशकैस्तदीयेङ्गितानुरूपैः इति भावः। आकूतानां शतैः अभिप्रायव्यञ्जकैः बहुविधेङ्गितैः, कामुकः कश्चित् कामी, निजस्य आत्मीयस्य हृदः दृदयस्य, टीकां व्याख्याम्, अभिप्रायप्रकाशनमित्यर्थः। प्रबबन्ध प्रकर्षेण कृतवान्, स्वहृदयं तस्यै निवेदयामास इत्यर्थः। उचितोत्तरदानादेव प्रश्नार्थ प्रकाशनात् तदेव तद्‌व्याख्यानमिति भावः॥ 16.101 ॥
घृतप्लुते भोरजनभाजने पुरःस्फुरन्ध्रीप्रतिबिम्बिताकृतेः।
युवा निधायोरसि लड्‌डुकद्वयं नखैर्लिलेखाथ ममर्द निर्दयम्॥ 16.102 ॥
अन्वयः–युवा घृतप्लुते भोजनभाजने पुरःस्फुरत्पुरन्ध्रीप्रतिबिम्बिताकृतेः उरसि लड्डुकद्वयं निधाय नखैः लिलेख अथ निर्दयं ममर्द।
जीवातु–घृतेति। युवा कश्चित्तरुणः, पुरः अग्रेः, घृतेन प्लुते सिक्ते, भोजनभाजने भाजनपात्रे, स्फुरन्ती प्रकाशमाना, या पुरन्ध्र्या अङ्गनायाः, प्रतिबिम्बिता प्रतिफलिता, आकृतिः शरीरं, तस्याः उरसि वक्षसि, लड्डुकद्वयं वर्त्तुलाकृतिमिष्टान्नविसेषपिण्डयुग्मं, निधाय स्थापयित्वा, नखैः लिलेख विददार; अथ अनन्तरं, निर्दयम् अशिथिलं यथा तथेत्यर्थः। ममर्द पीडयामास, तदीयकुचकुम्भयुगलभावनयेति भावः॥ 16.102 ॥
विलोकिते रागितरेण सस्मितं ह्रियाऽथ वैमुख्यमिते सखीजने।
तदालिरानीय कुतोऽपि शार्करीं करे ददौ तस्य विहस्य पुत्रिकाम्॥ 16.103 ॥
अन्वयः–रागितरेण सखीजने सस्मितं विलोकिते अथ ह्रिया वैमुख्यम् इते तदालिः कुतः अपि शार्करीं पुत्रिकाम् आनीय विहस्य तस्य करे ददौ।
जीवातु–विलोकिते इति। सखी एव जनः तस्मिन् निजसख्यां, रागितरेण अत्यन्तानुरक्तेन, केनचित् कामुकेनेति शेषः। सस्मितम् ईषद्धास्यसहितं विलोकिते दृष्टे, अथ विलोकनानन्तरं, ह्रिया लज्जया,वैमुख्यं पराङ्मुखताम्, इते गते सति, एतेन तस्याः अपि तस्मिन् तथाअनुरागः सूचितः। तदालिः तस्य सखीजनस्य, आलिः सखी, कुतः अपि कस्मादपि स्थानात्, शार्करीं शर्करामयीम्। विकारार्थात् ण्यप्रत्ययः। पुत्रिकां पाञ्चालिका पुत्रिका स्याद्वस्त्रदन्तादिभिः कृता’ इत्यमरः। पुत्रीव प्रतिकुतिरस्याः सा पुत्रिका `इवे प्रतिकृतौ’ इति कन् `केऽणः’ इति ईकारह्रस्वः। आनीय सङ्गृह्य, तस्य रागितरस्य, करे पाणौ, विहस्य किञ्चित् हसित्वा, ददौ अर्पयामास। वैमुख्यादननुरागसन्देहो न कर्त्तव्यः, परन्तु एवम् एषा सखी तव करगता यथा भवेत् तथा करिष्यामि इति सूचयामासेति भावः॥ 16.103 ॥
निरीक्ष्य रम्याः परिवेषिका ध्रुवं न भुक्तमेवैभिरवाप्ततृप्तिभिः।
अशक्नुवद्भिर्बहुभुक्तवत्तया यथोज्झिता व्यञ्जनपुञ्जराजयः॥ 16.104 ॥
अन्वयः–बहुभुक्तवत्तया अशक्नुवद्भिः यथा व्यञ्जनपुञ्जराजयः उज्झिता, एभिः रम्याः परिवेषिकाः निरीक्ष्य ध्रुवं न भुक्तम्।
जीवातु–निरीक्ष्येति। बहुभुक्तवत्तया यथेष्टं कृतभोजनतया, अशक्नुवद्भिः निःशेषं भोक्तुम् अपारयद्भिः, जनान्तरैरिति शेषः। यथा व्यञ्जनपुञ्जराजयः शाकमांसाद्युपकरणराशीनां श्रेणयः, जन्यजनैरपि, रम्याः रमणीयाः, परिवेषिकाः परिवेषणकारिण्यः तरुण्यः, निरीक्ष्य विलोक्य एव, अवाप्ततृप्तिभिः तावतैव `तृप्तैः सद्भिः, व्यञ्जनपुञ्जराजयः उज्झिताः त्यक्ताः, न भुक्तं न खादितं, ध्रुवम् इत्युत्प्रेक्षायाम्, अन्यथा कथमेते भोज्यराशयः पात्रेषु तथैव दृस्यन्ते इति भावः॥ 16.104 ॥
पृथक्प्रकारेङ्तिशंसिताशयो युवा ययोदासि तथाऽपि तापितः।
ततो निराशः परिभावयन् परामये! तयाऽतोषि सरोषयैव सः॥ 16.105 ॥
अन्वयः–पृथक्‌प्रकारेङ्गितशंशिताशयः युवा यया उदासि, तया तापितः अपि; ततः निराशः परां परिभावयन् सः अये सरोषया तया एव अतोषि।
जीवातु–पृथगिति। यथा स्त्रिया, पृथक्‌प्रकारेङ्गितसंशिताशयः नानाविधचेष्ठाप्रकाशिताभिप्रायः, युवा कश्चित्तरुणः, उदासि प्रतीङ्गिताद्यकरणेन औदासीन्यं प्रापित इत्यर्थः, तथाऽपि रोषात् अनादरपरया अपि तयैव स्त्रिया, तापितः सन्तापितः दुःखं प्रापितः इत्यर्थः, प्रतीङ्गितादर्शनेन स्वाभीष्टलाभनैराश्यात् दुःखितोऽभूदिति भावः, यो यत्रोदासीनः तस्य तदलाभजन्यं दुःखं न भवति, प्रकृते तु त्सयामुदासीनस्यापि तयैव जनितमिति विरोधार्थकोऽपिशब्दः, ततः औदासीन्यात्, निराशः तत्प्राप्तौ हताशः सन्, पराम् अन्यां, परिभावयन् इङ्गितादिना विभावयन्, सानुरागमवलोकयन् इति यावत्, सः युवा, सरोषया अन्यावलोकनरुष्टया, तयैव पूर्वया एव, अतोषि तोषितः, न तु द्वितीयया इति भावः, तोषयतेः कर्मणि लुङ्। अये इति आश्चर्ये, औदासीन्यं जनयित्र्याऽपि दुःख जनितं सरोषयैव सन्तोषो जनित इति विरुद्धार्थद्वयसमावेश आश्चर्यकर इत्यर्थः। पूर्वया तदनुरक्तयाऽपि जनसमक्षमिङ्गितादिकरणमयुक्तमिति बुद्ध्या पूर्वं प्रतीङ्गितादिना न सम्भावितः, अत ेव युवा दुःखितः, किन्तु तस्या गूढाभिप्रायमज्ञात्वा इयं मय्यनुरागिणीति निश्चित्यान्यां प्रति तस्मिन् सानुरागं विलोकयति सति तद्दर्शनेन पूर्वा सा सरोषा जाता, सानुरागैव सरोषा भवतीति व्याप्तेः तस्या रोषदर्शनेनानुरागमनुमाय स सन्तुष्ट इति भावः॥ 16.105 ॥
पयः स्मिता मण्डपमण्डलाम्बरा वटाननेन्दुः पृथुलड्‌डुकस्तनी।
पदं रुचेर्भोज्यभूजां भुजिक्रिया प्रिया बभूवोज्ज्वलकूरहारिणी॥ 16.106 ॥
अन्वयः–पयःस्मिता मण्डपमण्डलाम्बरा वटाननेन्दुः पृथुलड्डुकस्तनी उज्ज्वलकूरहारिणी रुचेः पदं भुजिक्रिया भोज्यभुजां प्रिया बभूव।
जीवातु–पय इति। पयः पाथः क्षीरं वा, स्मितं हास्यं यस्याः सा, मण्डपमण्डलं जन्यजनानामाश्रयसमूहः, चन्द्रातपसमूहः एव इत्यर्थः। `मण्डपोऽस्त्री जनाश्रयः’ इत्यमरः, अम्बरं वस्त्रं यस्याः सा तादृशी, मण्डपानामावरकत्वात् शुभ्रत्वाच्चेति भावः, वटः वटकः एव, शुभ्रवर्त्तुलपिष्टकविशेषः एव इत्यर्थः, आननेन्दुः आह्लादकरत्वात् मुखचन्द्रः यस्याः सा ताद्दशी, पृथू महान्तौ लड्‌डुकौ मिष्टान्नविशेषौ एव, स्तनौ यस्याः सा तादृशी, रुचेः पदम् अभिलाषास्पदं लावण्यास्पदञ्च, उज्ज्‌वलैः शुभ्रैः, कूरैः भक्तैः, `अन्धः कूरं भक्तम्’ इति हलायुधः। हारिणी मनोहरा हारवती च, भुजिक्रिया भोजनव्यापारः, भुज इति धातुनिर्देशेनार्थलक्षणा। भोज्यभुजां भोक्तॄणां भोगिनाञ्च, प्रीणातीति प्रिया तृप्तिकारिणी वल्लभा च, बभूव। रूपकालङ्कारः॥ 16.106 ॥
चिरं युवाऽऽकूतशतैः कृतार्थनश्चिरं सरोषेङ्गितया च निद्‌र्धुतः।
सृजन् करक्षालनलीलयाऽञ्जलिं न्यषेचि किञ्चिद्विधुताम्बुधारया॥ 16.107 ॥
अन्वयः–चिरम् आकूतशतैः कृतार्थनः सरोषेङ्गितया च निद्‌र्धुतः करक्षालनलीलया चिरम् अञ्जलिं सृजन् युवा किञ्चिद्‌विधुताम्बुधारयान्यषेचि।
जीवातु–चिरमिति। चिरं दीर्घकालं व्याप्य, आकूतशतैः इङ्गितसमूहैः, कृतार्थनः कृतप्रार्थनः ततश्च सरोषेङ्गिताया रोषव्यञ्जकचेष्टावत्या, कयाचित्तरुण्या इति शेषः। निद्‌र्धूतश्च निराकृतश्च, युवा कश्चित्तरुणः, करक्षालनलीलया हस्तप्रक्षालनव्याजेन इत्यर्थः, चिरं दीर्घकालं यावत्, अञ्जलिं करद्वयसंयोगं, सृजन् विदधन् सन्, अञ्जलिबन्धेन चिरं प्रार्थयमानः सन् इत्यर्थः। किञ्चिद्विधुतया ईषत् कम्पितया, अम्बुधारया जलधारया, धाराविधूननव्याजेन इत्यर्थः। न्यषेचि निषिक्तः। कोपानलशान्तिज्ञापनाय इति भावः, तरुण्या इति शेषः॥ 16.107 ॥
न षड्विधः षिङ्गजनस्य भोजने तथा यथा यौवतविभ्रमोद्भवः।
अपारश्रृङ्गारमयः समुन्मिषन् भृश रसस्तोषमधत्त सप्तमः॥ 16.108 ॥
अन्वयः–षिड्‌गजनस्य भोजने षड्विधः रसः तथा तोषं न अधत्त यथा यौवनविभ्रमोद्‌भवः भृशं समुन्मिषन् अपारश्रृङ्गारमयः सप्तमः।
जीवातु–न षड्विध इति। षिङ्गजनस्य विटजनस्य `षिङ्गः पल्लविको विटः’ इत्यमरः, भोजने भोजनकाले, षड्विधः षट्‌प्रकारः, रसः मधुरादिरूपः, तथा तादृशं, तोषं प्रीतिं, नाधत्त न अपुषत्; पोषणार्थे लुङि लङ्। यथा याद्दशां, युवनतीनां समूहः यौवतम् `भिक्षादिभ्योऽण्’ इति अण्। तत्र युवतीति सामर्थ्यात् `भस्याढे तद्धिते’ इति पुवद्भावः। तस्य विभ्रमैः विलासैः, उद्भवः सञ्जातः, पटाद्यच्। भृशम् अत्यर्थं, समुन्मिषन् समुज्जुम्भमाणः, वर्धमान इत्यर्थः, अपारः अपरिमित, श्रृङ्गारमयः श्रृङ्गारः नाम, सप्तमः रसः। अत्र सप्तमत्वं मधुरादिषड्रसापेक्षया, न तु आलङ्कारिकोक्तरसापेक्षया षड्‌रसातिरिक्तस्य रसस्याभावात् श्रृङ्गाररसस्यापि तदन्तर्गतत्वात् इति तात्पर्यम्। तोषम् अधत्त इत्यनेनान्वयः, एकोऽपि लोकोत्तरो वहूनतिशेते इति भावः॥ 16.108 ॥
मुखे निधाय क्रमुकं नलानुगैरथौज्झि पर्णालिरवेक्ष्य वृश्चिकम्।
दमार्पितान्तर्मुखवासनिर्मितं भयाविलैः स्वभ्रमहासिताखिलैः॥ 16.109 ॥
अन्वयः–अथ नलानुगैः क्रमुकं मुके निधाय दमार्पितान्तर्मुखवासनिर्मितं वृश्चिकम् अवेक्ष्य भयविलैः स्वभ्रमहासिताखिलैः पर्णालिः उज्झिता।
जीवातु–मुखे इति। अथ करक्षालनानन्तरं, नलानुगैः नलानुयायिभिः, जन्यजनैरिति शेषः, क्रमुकं पूगफलं, मुखे वदने, निधाय दत्त्वा, दमेन दमयन्ती भ्रात्रा, अर्पितं दत्तम्,। अन्तःर्मुखस्य अन्तर्मुखं मुखाभ्यन्तरम्, विभक्त्यर्थेऽव्ययीभावः। त्दावसयति सुगन्धीकरोतीति अन्तर्मुखवासं लवङ्गकक्कोलकर्पूरादिवासनाद्रव्यम्, कर्मण्यण्। तेन निर्मित कल्पितं, वृश्चिकं वृश्चिकाकृतिताम्बूलोपकरणसुगन्धिद्रव्यविशेषम्, अवेक्ष्य दृष्ट्वा, भयेन दंशनभीत्या, आविलैः आकुलैः, अत एव स्वभ्रमेण स्वस्य भ्रमेण, अवृश्चिके वृश्चिकज्ञानरूपनिजभ्रान्त्या इत्यर्थः हासिताः जनितहासाः, अखिलाः समस्तदर्शकवृन्दा यैः तादृशैः सद्भिः, पर्णालिः नागवल्लीदलपङ्क्तिः, औज्झि उज्झिता, परित्यक्ता इत्यर्थः, उज्झ विसर्गे कर्मणि लुङ्॥ 16.109 ॥
अमीषु तथ्यानृतरत्नजातयोर्विदभंराट् चारुनितान्तचारुणोः।
स्वयं गृहणैकमिहेत्युदीर्य तद्‌द्वयं ददौ शेषजिघृक्षवे हसन्॥ 16.110 ॥
अन्वयः–विदर्भराट् `चारुनितान्तचारुणोः इह तथ्यानृतरत्नजातयोः एकं स्वंय गृहाण’ अमीषु इति उदीर्य शेषजिघृक्षवे हसन् तद्‌द्वयं ददौ।
जीवातु–अमीष्विति। विदर्भराट् विदर्भदेशाधीश्वरः भीमः, चारुनितान्तचारुणोः यथासङ्ख्यं रम्यातिरमणीययोः, इह अनयोः तथ्यानृतरत्नजातयोः सत्यासत्यरत्नौधयोः मध्ये `जातं जात्योघजन्मसु’ इति विश्वःच एकं स्वयम् आत्मना, गृहाण स्वीकुरु, अमीषु वारयात्रिकेषु मध्ये, इति एवम्, उदीर्य उक्त्वा, शेषम् असत्यमेव, जिघृक्षवे गृहीतुमिच्छवे, कृत्रिमत्वेन तस्यैवातिचारुत्वादिति भावः। ग्रहेः सनन्तात् `सनाशंसभिक्ष उः’ इति उप्रत्ययः, मधुपिपासादित्वात् द्वितीयासमासः। हसन् तस्य रत्नज्ञानाभावात् हास्यं कुर्वन्, तयोः कृत्रमाकृत्रिमयोः, द्वयम् उभयमेव, ददौ अर्पयामास। तत्र कृत्रिमं विनोदाय ददौ अन्यदौचित्यादिति भावः॥ 16.110 ॥
इति द्विकृत्वः शुचिमिष्टबोजिनां दिनानि तेषां कतिचिन्मुदा ययुः।
द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिस्तुष्टिमुपेयुषां निशि॥ 16.111 ॥
अन्वयः–इति द्विकृत्वः शुचिमिष्टभोजिनां निशि द्विरष्टसंवत्सरवारसुन्दरीपरीष्टिभिः तुष्टिम् उपेयुषां तेषां कतिचित् दिनानि मुदा ययुः।
जीवातु–इतिती। इति पूर्वोक्तप्रकारेण, द्विकृत्वः द्विवारं, दिवा रात्रौ च इत्यर्थः, `सङ्खयायाः क्रियाभ्यावृत्तिगणने कृत्वसुच्’ इति कृत्वसुच्। शुचि विशुद्धं, मिष्टं मधुरं, भुञ्जते अश्नन्ति इति तेषां विशुद्धलड्डुकादिभोजिनां, तथा निशि रात्रौ, द्विः द्विरावृत्ताः, अष्टसंवत्सराः यासं तासां षोडशवर्षाणां, वारसुन्दरीणां गणिकानां, प्राकाम्येऽन्वेषणे स्त्रियाम्’ इति मेदिनी। तुष्टिं प्रीतिम् उपेयुषां प्राप्नुवतां, तेषां नलानुगानां, कतिचित् दिनानि कतिपयानि अहानि, मुदा हर्षेण, ययुः अतिवाहितानि बभूवुः॥ 16.111 ॥
उवास वैदर्भगृहेषु पञ्चषाः निशाः कृशाङ्गीं परिणीय तां नलः।
अथ प्रतस्थे निषधान् सहानया रथेन वार्ष्णेयगृहीतरश्मिना॥ 16.112 ॥
अन्वयः–नलः कृशाङ्गीं तां परिणीय वैदर्भगृहेषु पञ्चषाः निशाः उवास, अथ अनया सह वार्ष्णेयगृहीतरश्मिना रथेन निषधान् प्रतस्थे।
जीवातु–उवासेति। नलः कृसाङ्गीं तन्वङ्गीं, तां दमयन्तीं, परिणीय उदूह्य, वैदर्भगृहेषु भीमभवनेषु, पञ्चषाः पञ्च षट् वा, `सङ्ख्ययाऽव्यय-’ इत्यादिना बहुव्रीहिसमासे कृते `बहुव्रीहौ सङ्ख्येये इच्’ इति डच्‌समासान्तः। निशाः रात्रीः। अत्यन्तसंयोगे द्वितीया उवास तस्थौ। अथ सप्तमाहे, अनया भैम्या सह, वृष्णेः अपत्यं पुमान् वार्ष्णेयः तन्नामकनलसारथिः `इतश्चानिञ’ इति ढक्। तेन गृहीताः धृताः, रश्मयः प्रग्रहः यस्य तादृशेन `किरणप्रग्रहौ रश्मी’ इत्यमरः। रथेन निषधान् तदाख्यनिजजनपदान्, प्रतस्थे जगाम॥ 16.112 ॥
परस्य न स्प्रष्टुमिमामधिक्रिया प्रिया शिशुः प्रांशुरसाविति ब्रुवन्।
रथे स भैमीं स्वयमध्यरूरुहन्त तत् किलाश्लिक्षदिमां जनेक्षितः॥ 16.113 ॥
अन्वयः–परस्य इमां स्प्रष्टुम् अधिक्रिया न, प्रिया शिशुः, असौ प्रांशुःइति ब्रुवन् सः स्वयं भैमीं रथे अध्यरुहत्, तत् जनेक्षितः इमां न आश्लिक्षत् किल।
जीवातु–परस्येति। परस्य मदितरस्य लोकस्य, इमां पतिव्रतां भैमीं, स्पष्टुं परामष्टुम्, अधिक्रिया अधिकारः, न, अस्तीति शेषः। प्रिया भैमी, शिशुः, बाला, ह्रस्वप्रमाणाइति भावः। असौ रथः, प्रांशुः उन्नतः, अत एव स्वंय रथारोहणे असमर्थेति भावः। इति एवं,, ब्रुवन् किल वदन्निव, सः नलः; स्वयम् आत्मनैव, भैमीं दमयन्तीं, रथे अध्यरूरुहत् अधिरोहयामास, स्वर्शलोभादिति भावः। णिजन्तरुहधातोः लुडि `णौ चङि’ इत्युपधाह्रस्वः, `दीर्घो लघोः’ इत्यभ्यास्य दीर्घत्वम्। किन्तु तत् तदा, रथारोहणकाले इत्यर्थः, जनेक्षितः जनैः दृष्टः सन्, बहुभिर्जनैः दृष्ट्वादिति भावः। इमां भैमीं, नाश्लिक्षत् न आलिङ्गष्ट, शालीनताविरोधिव्यवहारत्वादिति भावः। श्लिष आलिङ्गने इति श्लिषो लुङि च्लेः क्सादेशः॥ 16.113 ॥
इति स्मरः शीघ्रमतिश्चकार तं वधूञ्च रोमाञ्चभरेण कर्कशौ।
स्खलष्यति स्निग्धतनुः प्रियादियं म्रदीयसी पीडनभीरुदोर्युगात्॥ 16.114 ॥
अन्वयः–`स्नग्धतनुः मद्रीयसी इयं पीडनभीरुदोर्युगात् प्रियात् स्खलिष्यति’-इति शीघ्रमतिः स्मरः तं वधूं च रोमाञ्चभरेण कर्कशौ चकार।
जीवातु–इतिति। स्निग्धतनुः मसृणाङ्गी, म्रदीयसी अतिसुकोमला च, इयं भैमी, पीडनात् दृढतया धारणजन्यव्यथाप्राप्तेः, भीरु भयशीलं, दोर्युगं बाहुद्वयं यस्य तस्मात् म्रदीयसः पीडनासहत्वात् सुदृढधारणेन व्यथाप्राप्तिशङ्कया शिथिलधारिण इति भावः। प्रियात् नलात्, स्खलिष्यति भ्रंशिष्यति, इति हेतोरिवेत्यर्थः। शीघ्रमतिः प्रत्युत्पन्नमतिः, स्मरः कामः, तं नलं, वधुं भैमीञ्च, रोमाञ्चभरेण पुलकातिशय्येन, कर्कशौ खरस्पशौं, अस्निग्धगात्रौ इत्यर्थः, चकार विदधे। अनयोः परस्पराङ्गसङ्गहेतुके रोमांचे स्खलनप्रतिबन्धार्थत्वमुत्प्रेक्षते॥ 16.114 ॥
तथा किमाजन्म निजाङ्कवर्द्धितां प्रहित्य पुत्रीं पितारौ विषेदतुः?।
विसृज्च तौ तं दुहितुः पति यथा विनीततालक्षगुणीभवद्‌गुणम्॥ 16.115 ॥
अन्वयः–पितरौ आजन्म निजाङ्कवर्द्धितां पुत्रीं प्रहित्य किं तथा विषेदतुः, यथा विनीततालक्षगुणीभवद्‌गुणं दुहितुः पतिं तं विसृज्य?
जीवातु–तथेति। पितरौ भैम्या मातापितरौ `पिता मात्रा’ इति विकल्पादेकदेशः। आजन्म जन्यप्रभृति, अभिविधावव्ययीभावः। निजांके स्वोत्संगे, वर्द्धितां पोषितां, पुत्रीं दुहितरम्। गौरादित्वादिकारः। प्रहित्य प्रस्थाप्य, हिनोतेः क्त्वो ल्यप्। तथा तादृक्, विषेदतुः विषण्णौ बभूवतुः, किम्? नेत्यर्थः, सदेर्लिटि `अत एकहल्‌मध्ये-’ इत्यादिना एत्वाभ्यासलोपौ। यथा यादृक्, तौ भैमीपितरौ, विनीततया विनयसम्पन्नतया, लक्षगुणीभवन्तः लक्षगुणत्वेन सम्पद्यमानाः, गुणाः शौर्यादयः यस्य तथोक्तं, दुहितुः पतिं जामातरम् `विभाषा स्वसृपत्योः’ इति विकल्पात् षष्ठ्या अलुक्। तं नलं, विसृज्य, सम्प्रेष्य, विषेदतुरिति पूर्वक्रियया अन्वयः। कन्यावियोगापेक्षया गुणशालिजामातृवियोगस्तयोर्नितरां विषादकारणमभूदिति भावः॥ 16.115 ॥
निजादनुव्रज्य स मण्डलावधेर्नलं निवृत्तौ चटुलापतां गतः।
तडागकल्लोल इवानिलंतटाद्धृताऽऽनतिर्व्याववृते विदर्भराट्॥ 16.116 ॥
अन्वयः–नलम् अनुव्रज्य निवृत्तौ चटुलापतां गतः धृतानतिः सः विदर्भराट् अनिलम् अनुव्रज्य (चटुलापतां गतः) तडागकल्लोलः तटात् इव मण्डलावधेः व्याववृते।
जीवातु–निजादिति। नलम् अनुव्रज्य अनुसृत्य, निबृत्तौ प्त्यावर्त्तनसमये, चटु चाटु, प्रियवाक्यमित्यर्थः, लपति कथवतीति चटुलापः तस्य भावः तत्तां चाटुभाषितां, गतः प्राप्तः, मनोहरवाक्यवादी इत्यर्थः, `कर्मण्यण्’ इति अण्‌प्रत्ययः। सः विदर्भराट् भीमः धृता स्वीकृता, आनतिः नलनमस्कारः येन तादृशः सन् अनिलं वायुम्, अनुव्रज्य अनुयाय चटुलाः चञ्चलाः, आपः जलानि यस्य तस्य भावः तत्तां चलजलत्वं, गतः प्राप्तः, वातेनान्दोलिताप इत्यर्थः, `ऋक्पूर-’ इत्यादिना समासान्तः। तडागस्य सरोवरस्य, कल्लोलः महोर्मिः `अथोर्मिषु। महत्सूल्लोलकल्लोलौ’ इत्यमरः धृता प्राप्ता, आनतिस्तटाधातजन्यनमनं येन तादृशः सन्, तटात् तीरप्रदेशादिव, निजात् स्वकीयात्, मण्डलावधेःराष्ट्रसीमान्तात्, व्याववृते प्रतिनिवृत्तः॥ 16.116 ॥
पिताऽऽत्मनः पुण्यमनापदः क्षमा धनं मनस्तुष्टिरथाखिलं नलः।
अतः परंपुत्रि! न कोऽपि तेऽहमित्युदश्रुरेष व्यसृजन्निजौरसीम्॥ 16.117 ॥
अन्वयः–`पुत्रि, आत्मनः पुण्यं पिता, क्षमाः अनापदः, मनस्तुष्टिः धनम्, अथ अखिलं नलः; अतः परं तेन कः अपि (अथवा अतः परम् अहं ते न कः अपि), (अथवा-मनस्तुष्टः धनम्, अखलं नलः, कः अपि (अन्यः) न-अथ अतः परं ते (किं वच्मि)’-इति उदश्रुः एषः निजौरषीं व्यसृजत्।
जीवातु–पितेति। पुत्रि! हे वत्से! आत्मनः तव, पुण्यं सुकृतमेव, पिता जनकः, हितकारित्वादहितनिवारकत्वाच्चेति भावः। क्षमाः सहिष्णुताः, अनापदः न विद्यन्ते आपदो याभ्यस्ताः आपन्निवारिका इत्यर्थः, मनस्तुष्टिः सन्तोषः, अलोभित्वमेव इत्यर्थः, धनं वित्तम्, अथ अनन्तरम्, एतत्परं किं बहु वच्मि इत्यर्थः, अखिलम् उक्तम् अनुक्तञ्च सर्वमेव, नलः नलः एव तव सर्वस्वम् अभीष्टदायित्वादिति भावः। अतः असमात् नलात्, परम् अन्यत्, न, अस्तीति शेषः, अहन्तु ते तव, कोऽपि यः कश्चिदेवेत्यर्थः। यद्वा-अतः परम् अत ऊर्ध्वम्, अद्यारभ्येत्यर्थः, अह ते कोऽपि न मया सह तव कोऽपि सम्बन्धो नास्तीत्यर्थः, इति इत्थम्, उक्त्वेति शेषः। एषः भीमः, उदश्रुः उद्‌बाष्पः साश्रुनेत्रः सन् इत्यर्थः। निजाम् आत्मीयाम् उरसा निर्मितां पुत्रीम् `उरसोऽण् च’ इत्यण्प्रत्ययः, `संज्ञाधिकारादभिधेयनियमः’ इति काशिका व्यसृजद् विससर्ज, प्रेषयामासेत्यर्थः॥ 16.117 ॥
प्रियः प्रियेकाचरणाच्चिरेण तां पितुः स्मरन्तीमचिकित्सदाधिषु।
शशाम सोऽम्बाविरहौर्वपावको न तु प्रियप्रेममहाम्बुधावपि॥ 16.118 ॥
अन्वयः–प्रियः प्रियैकाचरणात् पितुः स्मरन्तीं तां आधिषु चिरेण अचिकित्सत् तु सः अम्बाविरहौर्वपावकः प्रियोप्रेममहाम्बुधौ अपि न शशाम।
जीवातु–प्रिय इति। प्रियः नलः, प्रियैकाचरणात् केवलप्रीतिजनकव्यवहारात्, शोकापनोदनार्थं मनःप्रसादकव्यवहारं कृत्वेत्यर्थः, पितुः स्मरन्तीं पितरं स्मरन्तीम् इत्यर्थःष पित्रर्थ शोचन्तीमिति यावत्। `अधीगर्थदयेशां कर्मणि’ इति कर्मणि षष्ठी। तां दमयन्तीं, चिरेण बहुकालेन, आधिषु पितृविरहजमनोव्यथासु विषये, अचिकित्सत् चिकित्सां कृतवान्, नलः सप्रेमसान्त्वनावचनेन दमयन्त्याः पितृविरहजदुःखं कथञ्चित् निवारयामास इत्यर्थः, कित निवासे इति धातोर्व्याधिप्रतीकारे अर्थे `गुप्‌तिज्‌किद्भ्यः सन्’ इति सन्। तु किन्तु, सः अतिदुःसह इत्यर्थः, अम्बाविरहः मातृविच्छेद एव, और्वपावकः वडवाग्निः, असह्यात्वादिति भावः। प्रियप्रेममहाम्बुधौ नलानुरागसमुद्रेऽपि न शशाम न निववृते, नले अतिप्रियमाचरत्यपि तस्या मातृविरहजदुःखं नोपशान्तमित्यर्थः, कन्यानां पितृतो मातरि अनुरागाधिक्यात् तद्विरहो दुःसहः इतिभावः। जलानलयोरेकत्रावस्थानविरोधऽपि वडवाग्निर्न शान्त इति तात्पर्यम्॥ ( 16.118 ॥
असौ महीभृद्‌बहुधातुमण्डितस्तया निजोपत्यकयेव कामपि।
भुवा कुरङ्गेक्षणदन्तिचारयोर्बभार शोभां कृतपादसेवया॥ 16.119 ॥
अन्वयः–बहुधातुमण्डितः असौ महीभृत् कुरङ्गेक्षणदन्तिचारयोः भुवा कृतपादसेवया निजोपत्यकया इव तया काम् अपि शोभां बभार।
जीवातु–असाविति। बहुधातुभिः सुवर्णादिभिः, मण्डितः अलङ्कृतः, एकत्र-सुवर्णादिनिर्मिताभरणेनालङ्कृतत्वात्, अन्यत्र-तत्तद्धातूनामाकरत्वेन तद्युक्त्व्तादिति भावः। असौ अयं, महीभृत् राजा नलः, पर्वतश्च, कुरङ्गस्येव मृगस्येव, ईक्षणं चक्षुः, अन्यत्र-दन्तिनां चारः गतिः, तयोः भुवा स्थानेन, मृगवत् नयनयोः गजवत् गमनस्य च आश्रयभूतया इत्यर्थः, मृगाक्ष्या गजगामिन्या च इति भावः। अन्यत्र-मृगाणां दन्तिनाञ्च तत्र विद्यमानत्वेन तयोर्दर्शनगमनाश्रयभूतया इत्यर्थः, कृता विहिता, पादसेवा भर्त्तुश्चरणसेवा,अन्यत्र–पादानां प्रत्यन्तपर्वतानां, सेवा सान्निध्यमित्यर्थः, `पादाः प्रत्यन्तपर्वताः’ इत्यमरः। यथा तादृश्या, निजया आत्मीयया, उपत्यकया आसन्नभूम्या इव, तया भैम्या, काम्, अपि अनिर्वाच्यां, शोभां कान्तिं, बभार धारयामास॥ 16.119 ॥
तदेकतानस्य नृपस्य रक्षितुं चिरोढया भावमिवात्मनि श्रिया।
विहाय सापत्न्यमरञ्जि भीमजा समग्रतद्वाञ्छितपूर्त्तिवृत्तिभिः॥ 16.120 ॥
अन्वयः चिरोढया श्रिया तदेकतानस्य नृपस्य भावम् आत्मनि रक्षितुम् इव सापत्न्यं विहाय भीमजा समग्रतद्‌वाञ्छितपूर्त्तिवृत्तिभिः अरञ्जि।
जीवातु–तदिति। चिराय बहुकालात्, ऊढया धृतया परिणीतया च, श्रिया राज्यलक्ष्म्या तदेकतानस्य दमयन्त्येकवृत्तेः, `एकतानोऽनन्यवृत्तिः’ इत्यमरः। नृपस्य नलस्य, भाव चित्तवृत्तिम्, अनुरागमिति यावत्, आत्मनि स्वविषये, रक्षितुं स्थिरीकर्तुम् इव, इत्युत्प्रेक्षा। सापत्न्यं सपत्नीभावं, सपत्नीद्वेषमित्यर्थः, विहाय परित्यज्य, भीमजा भैमी, समग्राणां सर्वविधानां, तद्वाञ्छितानां दमयन्तीप्सितानामित्यर्थः, पूर्त्तिवृत्तिभिः पूरणव्यापारैः, अरञ्जि रञ्जिता, पतिचित्तानुरञ्जनाय सपत्नीः अपि उपासते साध्व्यः इति भावः॥ 16.120 ॥
मसारमालावलितोरणां पुरीं निजाद्वियोगादिव लम्बितालकाम्।
ददर्श पश्यामिव नैषधः पथामताश्रितोद्‌ग्रीविकमुन्नतैर्गृहेः॥ 16.121 ॥
अन्वयः–अथ नैषधः मसारमालावलितोरणां निजात् वियोगात् लम्बितालकाम् इव उन्नतैः गृहैः आश्रितोद्‌ग्रीविकं पथां पश्याम् इव पुरीं ददर्श।
जीवातु–मसारेति। अथ अनन्तरं, दमयन्त्याश्चित्तप्रसादनानन्तरमित्यर्थः, नैषधः नलः मसारमालावलयः इन्द्रनीलमालाश्रेण्यः, तोरणेषु बहिर्द्वारेषु यस्यास्तादृशीम्, इन्द्रनीलमणिभूषितबहिर्द्वाराम्, `नीलमणिर्मसारः स्यात्’ इति हारावली। अत एव निजात् स्वात् वियोगात् विच्छेदात्, नलविरहादित्यर्थः, लम्बितालकां संस्काराभावात् विस्रस्तकुन्तलाम् इव स्थिताम्, इत्युत्प्रेक्षा। उन्नतैः तुङ्‌गैः गृहैः प्रासादैः आश्रिता अवलम्बिता, उद्‌ग्रीविका उद्‌ग्रीवकारणेन दर्शननं यस्मिन् कर्मणि तत् यथा तथा, उद्‌ग्रीवयतेः `तत्करोति-’ इति ण्यन्तात् `धात्वर्थनर्देशे ण्वुल्’ इति वक्तव्यात् ण्वुल्, ततः `प्रत्ययस्थात् कात् पर्वस्य-’ इतीकारः। पथां नलागमनमार्गाणाम्, कृद्योगात् कर्मणि षष्ठी। पस्यतीति पश्यामवलोकिकाम्, इव स्थिताम्, इत्युत्प्रेक्षा। `पाघ्रा-’ इत्यादिना शप्रत्यये पुनरन्येन `पाघ्रा-’ इत्यादिना दृशेः पश्यादेशः पुरीं नगरं ददर्श अवलोकयामास। प्रीषितभर्त्तृकाः लम्बालकाः पतिमार्गान् प्रतीक्षन्ते इति भावः॥ 16.121 ॥
पुरीं नीरीक्ष्यान्यमना मनागिति प्रियाया भैम्या निभृतं विसर्जितः।
ययौ कटाक्षः सहसा निवर्त्तिना तदीक्षणेनार्द्धपथे समागमम्॥ 16.122 ॥
अन्वयः–पुरीं निरीक्ष्य मनाक् अन्यमनाः-इति भैम्या प्रियाय निभृतं विसर्जितः कटाक्षः सहसा निवर्त्तिना तदीक्षणेन अर्द्धपथे समागमं ययौ।
जीवातु–पुरीमिति। पुरीं नगरीं, निरीक्ष्य दृष्ट्वा, मनाक् ईषत्, अन्यमनाः विषयान्तरासक्तचित्तः, मत्स्वामीति शेषः, इति एवं, विविच्येति शेषः, भैम्या दमयन्त्या, प्रियाया नलाय, निभृतं गूढं, विसर्जितः प्रहितः, तद्‌दृष्टिपरिहाराय इति भावः। कटाक्षः अपाङ्गदर्शनं, सहसा अकस्मात्, निवर्त्तिना भैमीं द्रष्टुं विषयान्तरात् समाकर्षिणा इत्यर्थः, तदीक्षणेन नलदृष्ट्या सह, अर्द्धपथे अर्द्धमार्गे, समागमं संयोगं, ययौ प्राप, दमयन्ती लज्जाभरात् नलसमक्षं तन्मुखं द्रष्टुं न शशाक, तं पुरीदर्शनेन अन्यमनस्कं विविच्य यदैव कटाक्षमकरोत्, तदैव नलेनापि दृष्टिप्रत्यावर्त्तनात् तद्‌दृष्ट्या दृष्टिमेलनात् लज्जिता अभवत् इति निष्कर्षः। उभावपि अन्योऽन्याभिप्रायं जज्ञतुः इति भावः॥ 16.122 ॥
अथ नगरधृतैरमात्यरत्नैः पथि समियाय स जाययाऽभिरामः।
मधुरिव कुसुमश्रिया सनाथः क्रममिलितैरलिभिः कुतूहलोत्कैः॥ 16.123 ॥
अन्वयः–अथ जायया अभिरामः सः क्रममिलितैः कुतूहलोत्कैः अलिभिः कुसुमश्रिया सनाथः मधुः इव नगरधृतैः अमात्यरत्नैः पथि समियाय।
जीवातु–अथेति। अथ पुरीनिरीक्षणानन्तरं, जायया, भार्यया, अभिरामः रमणीयः, सः नलः, कुसुमश्रिया पुष्पसम्पदा, सनाथः युक्तः, मधुः वसन्तः, क्रमेण अनुक्रमेण, पारम्पर्येण इत्यर्थः, मिलितैः एकत्र समागतैरित्यर्थः, कुतूहलोत्कैः कुतूहलाय कौतुकाय, मधुपानजनितानन्दलाभायेत्यर्थः, उत्कैः उत्सुकैः, अन्यत्र-दमयन्तीसहितनलदर्शनार्थ साग्रहविस्मयेन, उत्कैः उत्सुकैः, अलिभिः मधुकरैरिव, नगरे धृतैः संरक्षणाय स्थितैः, ध्रियतेः कर्तरि क्तः। अमात्यरत्नैः मन्त्रिवर्यैः सह, पथि नगरपथे, राजमार्गे इत्यर्थः, समियाय सङ्गतः॥ 16.123 ॥
कियदपि कथयन् स्ववृत्तजातं श्रवणकुतुहलचञ्चलेषु तेषु।
कियदपि निजदेशवृत्तमेभ्यः श्रवणपथं स नयन् पुरीं विवेश॥ 16.124 ॥
अन्वयः–श्रवणकुतूहलचञ्चलेषु तेषु कियत्, अपि स्ववृत्तजातं कथयन्, एभ्यः निजदेशवृत्तं कियत् अपि श्रवणपथं नयन् सः पुरीं विवेश।
जीवातु–कियदिति। सः नलः, श्रवणकुतूहलेन स्वयवरवृत्तान्तश्रवणकौतुहलेन, चञ्चलेषु व्यग्रेषु, तेषु अमात्येषु विषये, स्ववृत्तजातं स्वचरितसमूहम्, इन्द्रादीनां दौत्यादिरूपं मुख्यं कर्मसमूहमित्यर्थः, कियत्, अपि स्तोकं, सङ्क्षेपेण इत्यर्थः, कथयन्, वणैयन्, तथा निजदेशवृत्तं स्वराष्ट्रावृत्तान्तम्, एभ्यः अमात्येभ्यः सकाशात्, कियत्, अपि किञ्चित्, श्रवणपथं श्रुतिमार्गं, नयन् प्रापयन्, श्रृण्वन् इत्यर्थः, पुरीं नगरं विवेश प्रविष्टवान्॥ 16.124 ॥
अथ पथि पथि लाजैरात्मनो बाहुलवल्लीमुकुलकुलसकुल्यैः पूजयन्त्यो जयेति।
क्षितिपतिमुपनेमुस्तं दधाना जनानाममृतजलमृणालीसौकुमार्यं कुमार्यः॥ 16.125 ॥
अन्वयः–अथ पथि पथि अमृतजलमृणालीसौकुमार्यं दधानाः आत्मनः बाहुवल्लीमुकुलकुलसकुल्यैः लाजैः `जय’-इति पूजयन्त्यः कुमार्य जनानां तं क्षितिपतिम् उपनेमुः।
जीवातु–अथेति। अथ पुरप्रवेशानन्तरं पथि पथि प्रतिमार्गम्, अमृतजलस्य सुधोदकस्य, या मृणाली मृणालम्, अमृतजलोत्पन्ना या बिसतन्तुरित्यर्थः, तद्वत् सौकुमार्य कोमलतां, दधानाः धारयन्त्यः, कोमलाङ्ग्यः इत्यर्थः, कुमार्यः अविवाहिता नार्यः, आत्मनः स्वस्य, बाहुवल्लीनां भुजलतानां, मुकुलकुलसकुल्यैः कुड्मलोत्करतुल्यैः, लाजैः भृष्टधान्योद्भवः, जय विजयीभव, इति जयशब्दपूर्वमित्यर्थः, पूजयन्त्यः सत्यः, जनानां समागतलोकानां मध्ये, तं क्षितिपतिं नलम्, उपनेमुः उपतस्थिरे इत्यर्थः॥ 16.125
अभिनवदमयन्तीकान्तिजालावलोकप्रवणपुरपुरन्ध्रीवक्त्रचन्द्रान्वयेन।
निखिलनगरसौधाट्टावलीचन्द्रशालाः क्षणमिव निजसंज्ञां सान्वयामन्वभूवन्॥ 16.126 ॥
अन्वयः–अभिनवदमयन्तीकान्तिजालावलोकप्रवणपुरपुरन्ध्रौवक्त्रचन्द्रान्वयेन निखिलनगरसौधाट्टावलीचन्द्रशालाः निजसंज्ञां सान्वयाम् अन्वभूवन् इव।
जीवातु–अभिनवेति। अभिनवायाः नवीनायाः, सद्यः समागतायाः इत्यर्थः। दमयन्त्याः भैम्याः, कान्तिजालस्य लावण्यराशेः अवलोकप्रवणानां योगेन, निखिलासु समग्रासु, नगरे पुरे, सौधाट्टावलीषु सुधाधवलिताट्टालकपङ्क्तिषु, प्रासादोपहितनगरगृहश्रेणीषु इत्यर्थः। याः चन्द्रशालाः शिरोगृहाणि ताः, `चन्द्रशाला शिरोगृहम्’ इति हलायुधः। क्षणं क्षणकालं, तन्मुखचन्द्रयोगकालमात्रमिति भावः। निजां स्वां, संज्ञां, नाम, चन्द्रशालाभिधानमित्यर्थः। सान्वयाम् अनुगतार्थां, चन्द्राणां सम्बन्धिन्यः चन्द्रयुक्ता वा शाला इत्येवं सार्थामित्यर्थः। अन्वभूवन् अनुभूतवत्य इव॥ 16.126 ॥
निषधनृपमुखेन्दुश्रीसुधां सौधवातायनविवरगरश्मिश्रेणिनालोपनीताम्।
पपुरतुलपिपासापांशुलत्वोपरागान्यखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि॥ 16.127 ॥
अन्वयः–अतुलपिपासापांशुलत्वोपरागानि अखिलपुरपुरन्ध्रीनेत्रनीलोत्पलानि सौधवातायनविवरगारश्मिश्रेणिनालोपनीतां निषधनृपमुखेन्दुदुश्रीसुधां पपुः।
जीवातु–निषधेति। अतुलया निरुपमया, अतिप्रबलयेत्यर्थः। पिपासया पानेच्छया, दर्शनलालसयेत्यर्थः। यत् पांशुलत्वं कलुषितत्वं, परपुरुषदर्शनाग्रहेण पापवासनावत्त्वमित्यर्थः। यत् पांशुलत्वं कलुषितत्वं, परपुरुषदर्शनाग्रहेण पापवासनावत्त्वमित्यर्थः। तत् एव उपरागः दुर्नयां व्यसनं वा येषां तादृशानि, `उपरागस्तु पुंसि स्याद् राहुग्रासेऽर्कचन्द्रयोः। दुर्नये ग्रहकल्लोले व्यसनेऽपि निगद्यते।’ इति मेदिनी। अखिलपुरपुरन्ध्रीणां समस्तपौराङ्गनानां, नेत्राणि चक्षूंषि एव, नीलोत्पलानि इन्दीवराणि, सौधवातायनविवरैः अट्टालिकागवाक्षरन्ध्रैः, गच्छन्ति बहिर्निः सरन्तीति तेषां सौधवातायनविवरगाणां, रश्मीनां, नयनप्रभाणां, श्रेणिभिः पङ्क्तिभिः, एव, नालः सच्छिद्रेन्दीवरदण्डरूपनाडीविशेषैः, उपनीताम् आकृष्टां, नेत्रसमीपं प्रापितामित्यर्थः। निषधनृपस्य नलस्य, मुखेन्दुश्रीसुधां मुखचन्द्रशोभामृतं, पपुः पीतवन्तः। साग्रहम् अद्राक्षुः इत्यर्थः॥ 16.127 ॥
अवनिपतिरथोद्‌र्ध्वस्त्रैणपाणिप्रवालस्खलितसुरभिलाजव्याजभाजःप्रतीच्छन्।
उपरि कुसुमवृष्टीरेष वैमानिकानामभिनवकृतभैमीसौधभूमि विवेश॥ 16.128 ॥
अन्वयः–अथ ऊर्ध्वस्त्रैणपाणिप्रवालस्खलितसुरभिलाजव्याजभाजः उपरि वैमानिकानां कुसुमवृष्टीः प्रतीच्छन् एषः अवनिपतिः अभिनवकृतभैमीसौधभूमिं विवेश।
जीवातु–अवनीति। अथ पुरप्रवेशानन्तरम्, एषः अयम् अवनीपतिः, भूपालः ऊद्‌र्ध्वेषु उपरिगृहेषु, ये स्त्रैणाः स्त्रीसमूहाः। `स्त्रीपुसाभ्यां नञ्सुञो’ इत्यादिना नञ्प्रत्ययः। तेषां पाणिप्रवालेभ्यः करकिसलयेभ्यः, स्खलिताः पतिताः, ये सुरभयः सुगन्धयः, लाजाः अक्षताः, तद्‌व्याजं तच्छलं, भजन्ते आश्रयन्तीति तद्भाजः, वैमानिकानां विमानैः चरतां देवानाम्। `चरति’ इति ठक्। उपरिष्टात् कुसुमवृष्टीः, पुष्पवर्षणमिव लाजवृष्टीरिति भावः। प्रतीच्छन् स्वीकुर्वन्, अभिनवकृतां प्रत्यग्रनिर्मिता, भैम्याः दमयन्त्याः, सौधभूमिं प्रासाददेशं विवेश प्रविष्टवान्॥ 16.128 ॥
इति परिणयमित्थं यानमेकत्र याने दरचकितकटाक्षप्रेक्षितञ्चानयोस्तत्।
दिवि दिविषदधीशाः कौतुकेनावलोक्य प्रणिदधुरथगन्तुं नाकमानन्दसान्द्राः॥ 16.129 ॥
अन्वयः-अथ दिविषदधीषाः दिवि अनयोः इति परिणयम् इत्थम् एकत्र याने यानं तत् दरचकितकटाक्षप्रेक्षितं च कौतुकेन अवलोक्य आनन्दसान्द्राः नाकं गन्तुं प्रणिदधुः।
जीवातु–इतिति। दिविषदाम् अधीशाः देवाः, दिवि आकाशे, स्थित्वेति शेषः। अनयोः दमयन्तीनलयोः, इति एवंविधं, परिणयं विवाहम्, इत्थम् उक्तप्रकारेण, एकत्र एकस्मिन्, याने रथे, यानं यात्रां, तथा तत् पूर्वोक्तं, दरचकितम् ईषत् सभयं, परस्परदृष्टिमेलनभयादिति भावः। कटाक्षप्रेक्षितम् अपाङ्गवीक्षणञ्च, कौतुकेन कुतूहलेन, अवलोक्य दृष्ट्वा, अथ भैमीनलयोः सौधप्रवेशानन्तरम्, आनन्दसान्द्राः आनन्दपूर्णाः सन्तः, नाकं स्वर्गलोकं, गन्तु प्रयातु, प्रणिदधुः चिन्तयामासुः॥ 16.129 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
काश्मीरैर्महिते चतुर्दशतयीं विद्यां विदद्भिर्महाकाव्ये तद्‌भुवि नैषधीयचरिते सर्गोऽगमत् षोडशः॥ 16.130 ॥
अन्वयः–श्रीहर्षं-इत्यादि पूर्वाद्ध का पूर्वोक्तरीति से। चतुर्दशतयीं विद्यां विद्भिः काश्मीरैः महिते तद्‌भुवि काव्ये नैषधीयचरिते षोडशः सर्गः अगमत्।
जीवातु–श्रीहर्षमिति। चतुर्दशतयीं चतुर्दशावयवां, चतुर्दशविधाम् इत्यर्थः। `सङ्ख्याया अवयवे तयप्’ इति तयप्। `टिड्ढाणञ्द्वयसज्‌दध्नञ्‌मात्रच्‌तयप्‌ठक्‌ठञ्‌क्वरपः’ इत्यादिना ङीप्। विद्यां विदद्भिः ज्ञिनिभिः, काश्मीरैः काश्मीरदेशीयैः, विद्वद्भिरिति शेषः। महिते पूजिते। तद्‌भुवि श्रीहर्षोत्पन्ने, तद्विरचिते इत्यर्थः। षोडशानां पूरणं षोडशः। `पुरणे डट्’ इति डट्। गतमन्यत्॥ 16.130 ॥
इति मल्लिनाथविरचिते `जीवातु’समाख्याने षोडशः सर्गः समाप्तः॥ 16 ॥

*****************************************************************************

.

सप्तदशः सर्गः

अथारभ्य वृथाप्रायं धरित्रीधावनश्रमम्।
सुराः सरस्वदुल्लोल-लीला जग्मुर्यथाऽऽगतम्॥ 17.1 ॥
अन्वयः–अथ धरित्रीधावनश्रमं वृथाप्रायम् आरभ्य सरस्वदुल्लोललीला सुराः यथागतं जग्मुः।
जीवातु–अथेति। अथ स्वर्गलोकजिगमिषानन्तरं, नलदमयन्त्योः सौधप्रवेशानन्तरं वा, सुराः इन्द्रादयः, धरित्रीधावनश्रमं पृथिव्यामागमनायासं, वृथाप्रायं व्यर्थमिव, दमयन्त्याभेऽपि नलदमयन्तीवरदानजन्यात्मगौरवरक्षणात् प्रायशब्दप्रयोगः, न तु सर्वथा वृथैवेति बोध्यम्। आरभ्य कृत्वा, मत्वेति यावत्; सरस्वदुल्लोलानां समुद्रमहोर्मीणां, लीला इव लीला येषां तथाभूताः सन्तः, यथाऽऽगतं यस्मादागतं तत्रैव इत्यर्थः। जग्मुः प्रतस्थिरे। सागरतरङ्गाः यथा वृथैव तटं धावित्वा व्यावर्त्तनेन यथाऽऽगतं गच्छन्ति तद्वद्‌ देवा अपि गता इत्यर्थः। दमयन्तीमलब्ध्वैव प्रत्यावृत्ता इति तात्पर्यम्॥ 17.1 ॥
भैमीं पत्ये भुवस्तस्मै चिरं चित्ते धृतामपि।
विद्यामिव विनीताय न विषेदुः प्रदाय ते॥ 17.2 ॥
अन्वयः–ते चिरं वित्ते धृताम् अपि भैमीं भुवः पत्ये तस्मै विनीताय विद्यां प्रदाय इव न विषेदुः।
जीवातु–भैमीमिति। ते देवाः, चिरं दीर्घकालं, चित्ते मनसि, धृतां स्थापितामपि, आकाङ्क्षितामपीत्यर्थः, अभ्यस्तामित्यर्थश्च। भैमीं दमयन्तीं, भुवः पत्ये भूपतये, तस्मै नलाय, विनीताय विनययुक्ताय शिष्याय, विद्याम्, इव ज्ञानमिव, प्रदाय दत्त्वा, न विषेदुः नानुतापं जग्मुः। न हि महान्तो दत्त्वाऽनुतापितः, न च तेषामदेयमस्ति इति भावः॥ 17.2 ॥
कान्तिमन्ति विमानानि भेजिरे भासुराः सुराः।
स्फटिकाद्रेस्तटानीव प्रतिबिम्बा विवस्वतः॥ 17.3 ॥
अन्वयः–विवस्वतः प्रतिबिम्बा स्फटिकाद्रेः तदानि इव भासुराः सुराः कान्तिमन्ति विमानानि भेजिरे।
जीवातु–कान्तिमन्तीति। विवस्वतः अर्कस्य, प्रतिबिम्बाः प्रतिच्छायाः, सूर्यस्यैकत्वेऽपि तटभेदेन प्रतिबिम्बानां बहुत्वं बोध्यम्; स्फटिकाद्रेः कैलासस्य, तटानि भृगुप्रदेश इव, भासुराः तैजसमूर्त्तयः, सुराः इन्द्रादयः, कान्तिमन्ति समुज्ज्वलानि, विमानानि व्योमयानानि, भेजिरे आरुरुहुरित्यर्थः। एतेन विमानानां तदधिष्ठातॄणाञ्च अतितेजस्वित्वमुक्तम्॥ 17.3 ॥
जवाज्जातेन वातेन बलाकृष्टबलाहकैः।
श्वसनात् स्वस्य शीघ्रत्वं रथै रेषामिवाकथि॥ 17.4 ॥
अन्वयः–जवात् जातेन वातेन बलाकृष्टबलाहकैः एषां रथैः स्वस्य श्वसनात् शीघ्रत्वं अकथि इव।
जीवातु–जवादिति। जवात् निजवेगात्, जातेन समुत्थितेन, वातेन वायुना, बलात् आकृष्टाः आक्षिप्ताः बलाहकाः मेघाः यैः तादृशैः, एषाम् इन्द्रादीनां रथैः विमानैः, स्वस्य आत्मनः, श्वसनाद् वायोरपि, शीघ्रत्व त्वरितगामित्वम्, अकथि अवादि इव, इत्युत्प्रेक्षा। स्ववेगजन्यवायोः स्वपश्चाद्वर्त्तितया रथानान्तु पुरोवर्त्तितया वाय्वपेक्षया सुतरां शीघ्रगामित्वमिति भावः। कथेश्चौरादिकात् कर्मणि लुङ्, मित्त्वात् ह्रस्वत्वम्॥ 17.4 ॥
क्रमाद्दवीयसां तेषां तदानीं समदृश्यत।
स्पष्टमष्टगुणैस्वर्य्यपर्यवस्यन्निवाणिमा॥ 17.5 ॥
अन्वयः–क्रमात् दवीयसां तेषां तदानीम् अणिमा अष्टगुणैश्वर्यपर्यवस्तन् इव स्पष्टं समदृश्यत।
जीवातु–क्रमादिति। क्रमात् अनुक्रमात्, आनुपूर्व्या इत्यर्थः। उत्तरोत्तरं गमनादिति यावत्, `क्रमश्चानुक्रमे शक्तौ कल्पे चाक्रमणेऽपि च’ इति मेदिनी। दवीयसां दविष्ठानां, दूरवर्त्तितराणामित्यर्थः। दूरशब्दादीयसुनि `स्थूलदूर-’ इत्यादिना यणादिपरलोपः पूर्वगुणश्च। तेषाम् इन्द्रादीनां, तदानीं दुरवर्त्तित्वभवन काले, अणिमा अणुत्वम्, अष्टविधेषु ऐश्वर्येषु प्रथमोक्तैश्वर्यविशेष इत्यर्थः। अष्टगुणम् अणिमाद्यष्टगुणात्मकं, यत् ऐश्वर्य वैभवं, निग्रहानुग्रहसामर्थ्यमिति यावत्। तस्मात् तन्मध्यात् इत्यर्थः। पर्यवस्यन् इव, परिशिष्यमाण इव, लघिमादिसप्तविदात् पृथग्भूत इव इत्यर्थः। स्पष्टं व्यक्तं, समदृश्यत सन्दृष्टः। दूरे अणुत्वेन अवभाषादियमुत्प्रेक्षा॥ 17.5 ॥
ततान विद्युता तेषां रथे पीतपताकतम्।
लब्धकेतुशिखोल्लेखा लेखा जलमुचः क्वचित्॥ 17.6 ॥
अन्वयः–क्वचित् जलमुचः लब्धकेतुशिखोल्लेखा लेखा तेषा रथे विद्युता पीतपताकतां ततान।
जीवातु–ततानेति। क्वचिद् गगनस्य कुत्रापि प्रदेशे, जलमुचः मेघस्य, लेखा श्रेणी, लब्धः प्राप्तः, केतुशिखाभिः ध्वजाग्रैः, उल्लेखो विदारणं यस्याः सा तादृशी सती, तेषाम् इन्द्रादीनां, रथे स्यन्दने, विद्युता तडिता करणेन, पीताः पीतवर्णाः, पताकाः ध्वजा येषां तेषां भावः तत्ता तां, ततान विस्तारयामास। ध्वजदण्डाग्रोल्लेखनेनोत्थाः तडितो रथेषु पीतपताकाः इव रेजुरित्यर्थः॥ 17.6 ॥
पुनः पुनर्मिलन्तीषु पथि पाथोदपङ्क्तिषु।
नाकनाथरथालम्बि बभूवाभरणं धनुः॥ 17.7 ॥
अन्वयः–पथि पुनः पुनः मिलन्तीषु पाथोदपङ्‌क्तिषु धनुः नाकनाथरथावलम्बि आभरणं बभूव।
जीवातु–पुनः पुनरिति। नाकनाथरथलम्बि इन्द्रस्यन्दनस्थं, धनुः चापः, पथि गगनमार्गे, पुनः पुनः वार वार, मिलन्तीषु संसज्यमानासु, पाथोदानां मेघानां, पङ्‌क्तिषु श्रेणीषु, आभरणं भूषणं, बभूव सञ्जज्ञे यद्यत् मेघवृन्दं रथेन सङ्गच्छते धनुः तस्य तस्य आभरणं बभूव इत्यर्थः। पूर्वं कुत्रिमेन्द्रधनुर्योगः अद्य मुख्येन्द्रधनुर्योगो लब्धः इति भावः। अत्र तादृशासम्बन्धे सम्बन्धोक्तेरतिशयोक्तिरलङ्कारः॥ 17.7 ॥
जले जलदजालानां व्रज्रिवज्रानुबिम्बनैः।
जाने तत्कालजैस्तेषां जाताऽशनिसनाथता॥ 17.8 ॥
अन्वयः–जलदजालानां जले जाने तत्कालजैः वज्रिवज्रानुबिम्बनैः तेषाम् अशनिसनाथता जाता।
जीवातु–जले इति। जलदजालानां मेघवृन्दानां, जले वारिणि, तत्कालजैः इन्द्रादिगमनकालजातैः, वज्रिवज्रस्य इन्द्रकुलिशस्य अनुबिम्बनैः, प्रतिबिम्बैः, तेषआं जलदजालानाम्, अशनिसनाथता वज्रसाहित्यं, वज्रयुक्तत्वमित्यर्थः। जाता सम्भूता, जाने इति मन्ये, इत्युत्प्रेक्षायाम्॥ 17.8 ॥
स्फुटं सावर्णिवंश्यानां कुलच्छत्रं महीभुजाम्।
चक्रे दण्डभृतश्चुम्बन् दण्डश्चण्डरुचिं क्वचित्॥ 17.9 ॥
अन्वयः–दण्डभृतः दण्डः क्वचित् चण्डरुचिं चुम्बन् सावर्णिवंश्यानां महीभुजां कुलच्छत्रं स्फुटं चक्रे।
जीवातु–स्फुटमिति। क्वचित् कुत्रचित् प्रदेशे, दण्डभृतः यमस्य, दण्डअस्त्रविशेषः, चण्डरूचिं सूर्यं, चुम्बन् सूर्यमण्डलं स्पृशन् इत्यर्थः। सावर्णिः सूर्यपुत्रः अष्टमो मनुः, तद्वंश्यानां मनुवंशजानां, महीभुजां राज्ञां, कुलस्य वंशस्य, छत्रम् आतपत्रं, चक्रे विदधे। स्फुटमित्युत्प्रेक्षायाम्। अधःप्रदेशे दण्डसंयोगात् अर्कमण्डलं तद्वंश्यराजकुलस्य उद्‌धृतं छत्रमिव बभौ इत्यर्थः। इन्द्रादयः क्रमात् मेघपथमतीत्य सूर्यमण्डलं प्राप्ता इति तात्पर्यम्॥ 17.9 ॥
नलक्षीमभुवोः प्रेम्णि विस्मिताया दधौ दिवः।
पाशिपाशः शिरःकम्पस्रस्तभूषश्रवःश्रियम्॥ 17.10 ॥
अन्वयः–पाशिपाशः नलभीमभुवोः प्रेम्णिः विस्मितायाः दिवः शिरःकम्पस्रस्तभूषश्रव श्रियं दधौ।
जीवातु–नलेति। पिशिनः वरुणस्य, पाश, वलयाकारपाशास्त्रं, नलभीमभुवोः नलक्षैम्योः प्रेम्णि अन्योऽन्यानुरागे विषये, विस्मितायाः विस्मयाविष्टायाः, दिवः नभसः शिरः कम्पेन मस्तकचालनेन, स्रस्तभूषस्य, गलितावतंसस्य श्रवसः श्रोत्रस्य, श्रियं, शोभां, दधौ धारयामास। अत्र श्रियमिव श्रियमिति सादृश्या क्षेपान्निदर्शनाभेदः॥ 17.10 ॥
पवनस्कन्धमारुह्य नृत्यत्तरकरः शिखी।
अनेन प्रापि भैमीति भ्रमञ्जक्रे नभःसदान्॥ 17.11 ॥
अन्वयः–पवनस्कन्धम् आरुह्य नृत्यत्तरकरः शिखी `अनेन भैमी प्रापि’-इति नभः सदां भ्रमं चक्रे।
जीवातु–पवनेति। पवनस्कन्धं वायुपथाख्यस्य नभोदेशांशविशेषस्य उपरिभागम्, आरुह्य अधिष्ठाय, नृत्यत्तराः अथिशयेन नृत्यन्तः, वायुवेगेन अत्यर्थ चञ्चला इत्यर्थः। कराः अंशवः हस्ताश्च यस्य सः तादृशः `बलिहस्तांशवः कराः’ इत्यमरः। शिखी अग्निः, नभःसदां खेचराणाम्, अनेन अग्निना, भैमी दमयन्ती, प्रापि प्राप्ता, अन्यथा कथमेतज्जृम्भणमिति भावः। इति एवं भ्रमं चक्रे भ्रान्तिं जनयामास इत्यर्थः॥ 17.11 ॥
तत्कर्णो भारती दूनौ विरहाद् भीमजागिराम्।
अध्वनि ध्वनिभिर्वैणैरनुकल्पैर्व्यनोदयत्॥ 17.12 ॥
अन्वयः–भारती भीमजागिरां विरहात् दूनौ तत्कणौं अध्वनि अनुकल्पैः वैणैः ध्वनिभिः व्यनोदयत्।
जीवातु–तदिति। भारती सरस्वती, भीमजागिरां दमयन्तीवचनानां, विरहात् अभावात् अश्रवणादिति यावत्। दूनौ परितप्तौ, तेषां देवानां, कणौ श्रवणौ, अध्वनि आकाशमार्गे, अनुकल्पैः भैमीगिरां सदृशैः, तदपेक्षया हीनगुणैरित्यर्थः। कुशाभावे काशवत् प्रतिनिधिमिरिति भावः। `मुख्यः स्यात् प्रथमः कल्पोऽनुकल्पस्तु ततोऽधमः’ इत्यमरः। वैणैः वीणासम्बन्धिभिः, `तस्येदम्’ इत्यण। ध्वनिभिः शब्दैः व्यनोदयत् विनोदितवती॥ 17.12 ॥
अथाऽऽयान्तमवैक्षन्त ते जनौघमसित्विषम्।
तेषां प्रत्युद्‌गमप्रीत्या मिलद्‌व्योमेव मूर्तिमत्॥ 17.13 ॥
अन्वयः–अथ ते तेषां प्रत्युद्‌गमप्रीत्या मिलत् मूर्त्तिमत् व्योम इव असित्विषण् आयान्तं जनौधम् अवैक्षन्त।
जीवातु–अथेति। अथ तादृशवाणीवीणाध्वनिश्रवणानन्तरं, ते देवाः, आयान्तम् आगच्छन्तम्, असेः खड्गस्य त्विटि इव त्विट् प्रभा यस्य तादृशम् असिनिभकान्तिम्, असिवत् श्यामोज्ज्वलप्रभमित्यर्थः। जनौघं जनसमाजं, तेषां देवानां, प्रत्युद्‌गमप्रीत्या प्रत्युद्‌गमनार्थं हर्षेण, मिलत् आगच्छत्, मूर्तिमत् विग्रहवत् व्योम आकाशमिव, इत्युत्प्रेक्षा, अवैक्षन्त अपश्यन्॥ 17.13 ॥
अद्राक्षुरादिहानं ते स्मरमग्रेसरं सुराः।
अक्षाविनयशिक्षार्थं कलिनेव पुरस्कृतम्॥ 17.14 ॥
अन्वयः–ते सुराः अग्रेसरम् आजिहानम् अक्षाविनयशिक्षार्थं कलिना पुरस्कृतम् इव स्मरम् अद्राक्षुः।
जीवातु–अद्राक्षुरिति। ते सुराः इन्द्रादयः आजिहानम् आगच्छन्तम्, ओहाङ् गताविति धातोर्लटः शानजादेशः। अग्रेसरं जनौघपुरोवर्त्तिनम्, अत इव अक्षणाम्, इन्द्रियाणाम्, अविनयस्य औद्धत्यस्य, दुर्व्यवहारस्य इत्यर्थः। अन्यत्रअक्षाणां पाशकानाम्, आ सम्यक्, विनयः विनीतता, स्ववशीकरणमित्यर्थः। तस्य `अक्षो रथस्यावयवे पाशकेऽप्यक्षमिन्द्रिये’ इति विश्वः। शिक्षार्थम् अभ्यासार्थ, कलिना कलिपुरुषेण पुरस्कृतं पूजितम्, अग्रतः कृतम्, इव स्थितम् इत्यर्थः। स्मरं कामम्, अद्राक्षुः अवालोकिषत। दृशेर्लुङि `इरितो वा’ इति विकल्पादङ्भावपक्षे सिचि वृद्धिः॥ 17.14 ॥
अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः।
शम्भलीभुक्तसर्वस्वा जना यत्पारिपार्श्वकाः॥ 17.15 ॥
अन्वयः–अगम्यार्थं तृणप्राणाः पृष्ठस्थीकृतभीह्रियः शम्भलीभुक्तसर्वस्वाः जनाः यत्पारिपार्श्वकाः।
जीवातु–अगम्येति। अगम्यार्थम् अगम्यागमनार्थम् इत्यर्थः। तृणप्राणाः तृणप्रायप्राणा, प्राणान् तृणवत् अविगणय्य अगम्यागन्तार इत्यर्थः, पृष्ठस्थीकृते पश्चाद् देशस्थीकृते, अविगणिते इति यावत्, भीह्रियौ भयलज्जे यैः तादृशाः, लज्जाभयवर्जिताः इत्यर्थः, शम्भलीभिः कुट्टनी शम्भली समे’ इत्यमरः। भुक्तं कवलीकृतमित्यर्थः, सर्वस्वं सर्वधनं येषां तादृशाः, जनाः लोकाः, यस्य स्मरस्य, पारिपार्श्वकाः परिपार्श्ववर्त्तिनः, परिजनाः इत्यर्थः, वयस्या इति यावत्। `परिमुखञ्च’ इति चकारात् ठक्॥ 17.15 ॥
बिभर्त्ति लोकजिद्भावं बुद्धस्य स्पर्द्धयेव यः।
यस्येशतुलयेवात्र कर्त्तृत्वमशरिणः॥ 17.16 ॥
अन्वयः–यः (स्मरः) बुद्धस्य स्पर्द्धया इव लोकजिद्‌भावं बिभर्त्ति, ईशतुलया इव यस्य अशरीरिमः अत्र कर्त्तृत्वम्।
जीवातु–बिभर्त्तिति। यः स्मरः, बुद्धदेवेन जित इति भावः, बुद्धस्य सुगतस्य मारजित इत्यर्थः। सम्बन्धसामान्ये षष्ठी। स्वर्द्धया इव संहर्षणेनेव, जिगौषयेवेत्यर्थः, साम्येन इति वा, बुद्धेन सह शौर्यादिभिः समत्वाकाङ्‌क्षयेत्यर्थः, `स्पर्द्धा संहर्षणेऽपि स्यात् साम्थे क्रमसमुन्नतौ’ इति मेदिनी। लोकजिद्भावं सर्वलोकजेतृत्वं, बिभर्त्ति धारयति। `सर्वज्ञः सुगतो बुद्धो मारजिल्लोकजिज्जिनः’ इत्यमरोक्तेः। बुद्धस्य सर्वलोकजेतृत्वादिभावः। यस्य स्मरस्य, ईशतुलया इव ईश्वरसमाम्यापेक्षया इवेत्यर्थः। देहदाहकारीश्वरस्पर्द्धयेवेति यावत्, शरीरं न भवतीति अशरीरि तस्य अशरीरिणः दग्धदेहत्वाद् अनङ्गस्य सतः, अत्र लोके, कर्तृत्वम् एकत्र-जेतृत्वम्, अन्यत्र-स्रष्टुत्वम् उपादानादिगोचरापरोक्षज्ञानादिमत्वादेवेश्वरस्य कर्त्तृत्वं शरीरमतन्त्रमिति तार्किकाः। पराभिभूताः तन्मत्सराः तत्साम्याय तद्वत् आचरन्तीति भावः॥ 17.16 ॥
ईश्वरस्य जगत् कृत्स्नं सृष्टिमाकुलयन्निमाम्।
अस्ति योऽस्त्रीकृतस्त्रीकस्तस्य वरमनुस्मरन्॥ 17.17 ॥ (कुलकम्)
अन्वयः–अस्त्रीकृतस्त्रीकः ईश्वरस्य इमां सृष्टिम् कृत्स्नं जगत् तस्य वैरम् अनुस्मरन् यः आकुलयन् अस्ति।
जीवातु–ईश्वरस्येति। यः स्मरः, तस्य ईश्वरस्य, वैरं शत्रुताम्, अनङ्गीकरणरूपमित्यर्थःष अनुस्मरन् मनःस्थीकुर्वन्, स्त्रियः न भवन्तीति अस्त्रियः, अस्त्रीकृताः स्त्रियो येन तादृशः सन्, अत्र स्त्रियाः स्त्रीत्वाभावकरणरूपः विरोधः, तत्परिहारस्तु-अस्त्राणि आयुधानि कृतानि इति अस्त्रीकृताः, अभूततद्‌भावे च्विः, अस्त्रीकृताः स्त्रियः येन सः तादृशः अस्त्रीकृतस्त्रीकः सन्, `नद्यृतश्च’ इति कप्। ईश्वरस्य इमां स्त्रीपुंसात्मिकाम् इत्यर्थः, सृष्टिं निर्माणं, कृत्स्नं जगत् आकुलयन् अस्थिरीकुर्व्, अस्ति वर्त्तते। ईश्वरेण या स्त्रीकृता सा अनेनास्त्रीकृता इति ईश्वरप्रतिकूलाचरणेन, तथा ईश्वरेण त्रिपुरासुरवधकाले विष्णोर्मोहिनी मूर्त्तिरूपा स्त्री शस्त्रीकृता, अनेनापि स्त्रियः शस्त्रीकृता इत्येककार्यकारितया च ईश्वरेण सह स्पर्द्धामसौ अकरोत् इति निष्कर्षः॥ 17.17 ॥
चक्रे शक्रादिनेत्राणां स्मरः पीतनलश्रियाम्।
अपि दैवतवैद्याभ्यामचिकित्स्यमरोचकम्॥ 17.18 ॥
अन्वयः–काम ने नल की शोभा का पान किये (सादर नल की शोभा को देखे) इन्द्र आदि देवों के नेत्रों को ऐसा असाध्य अथवा रुचि-हीनता का रोगातिशेष दे दिया, जिसकी चिकित्सा सुरवैद्य अश्विनीकुमार भी न कर सकते थे।
जीवातु–चक्रे इति। स्मरः कामः, पीतनलश्रियां पानविषयीकृतनलकान्तीनां, साक्षात्कृतनलसौन्दर्याणामित्यर्थः। शक्रादिनेत्राणाम् इन्द्रादिचक्षुषां, दैवतवैद्याभ्याम् अश्विनीकुमाराभ्यामपि, अचिकित्स्यं चिकित्सितुम् अशक्यं, न `रोचयते इति अरोचकं रोगविशेषं चक्रे जनयामास, नलरूपदर्शिभ्यः तेभ्यः स्मररूपं न अरोचत इत्यर्थः। स्मरादपि रमणीयो नल इति भावः॥ 17.18 ॥
यत्तत् क्षिपन्तमुत्कम्पमुत्थायुकमथारुणम्।
बुबुधुर्विबुधाः क्रोधमाक्रोशाक्रोशघोषणम्॥ 17.19 ॥
अन्वयः–अथ विबुधाः यत् तत् क्षिणन्तम् अत्कम्पम् उत्थायुकम् आक्रोशाक्रोशघोषणम् अरुणं क्रोधं बुबुधुः।
जीवातु–यदिति। अथ स्मरदर्शनानन्तरं, विबुधाः देवाः, यत्तत् यत्किञ्चित् लोष्टादिकं वस्तु इत्यर्थः। क्षिपन्तं दूरात् मुञ्चन्तं, परप्रहाराय इति भावः। उत्कम्पं कम्पितं, क्रोधावेगेन कम्पनस्य स्वाभाविकत्वादिति भावः। उत्थायुकं युद्धार्थम् उल्लम्भयन्तम्, आक्रोशं क्रोशपरिमितदूरपर्यन्तं क्रोशमभिव्याप्य वा, आक्रोशस्य परनिन्दावादसहितं तिरस्कारस्य, घोषणा उच्चैरुच्चारणं यस्य तादृशम्, उच्चैः तर्जनसहकारेण परनिन्दां कुर्वाणम् इत्यर्थः, अरुणं रक्तवर्णं, क्रोधं मूर्तिमन्तं क्रोधाख्यं रिपुविशेषं बुबुधु ददृशुः इत्यर्थः निरुक्तचिह्नैरयं क्रोध इति अवगतवन्तः इति तात्पर्यम्। बुधैभौवादिकाल्लट्॥ 17.19 ॥
यमपासत दन्तौष्ठक्ष्तासृक्‌शिष्यचक्षुषः।
भ्रुकुटीफणिनीनादनिभनिःश्वसफूत्कृताः॥ 17.20 ॥
अन्वयः–दन्तौष्ठक्षतासृक्‌शिष्यचक्षुषः भ्रुकुटीफणिनीनादनिभनिःश्वासफूत्कृताः यम् उपासत।
जीवातु–यमिति। यं क्रोधं, दन्तैः ओष्ठस्य क्षतेन दंशनजव्रणेन, यत् असृक् रक्तं, तच्छिष्याणि तत्कल्पानि इत्यर्थः, चक्षूंषि नेत्राणि येषां तादृशाः, भ्रुकुटी एव भ्रूसङ्कोचनमेव, फणिनी भुजङ्गी, तन्नादनिभानि तत्फूत्कारकल्पानि, निःश्वासफूत्कृतानि निःश्वासस्य फूत् इति प्रबलशब्दा येषां तादृशाः, परिजनाः इति शेषः, उपासत असेवत, आसेर्लुङ्। तत्सेवका अपि तादृशा एवेत्यर्थः॥ 17.20 ॥
दुर्गं कामाशुगेनापि दुर्लङ्घ्यमवलम्ब्य यः।
दुर्वासोहृदयं लोकान् सेन्द्रानपि दिधक्षति॥ 17.21 ॥
अन्वयः–यः कामाशुगेन अपि दुर्लङ्घ्यं दुर्वासोहृदयम् अवलम्ब्य सेन्द्रान् लोकान् अपि दिधक्षति।
जीवातु–दुर्गमिति। यः क्रोधः, कामाशुगेन कन्दर्पबाणेन अपि, दुर्लङ्घ्यं दुरतिक्रमम्, अजेयमित्यर्थः। दुर्वाससः तदाख्यस्य अतिक्रोधिनः मुनेः हृदयं चित्तम् एव, दुर्गं कोट्टम्, अवलम्ब्य आश्रित्य, सेन्द्रान् इन्द्रादिदेवतासहितानपि, लोकान् भुवनानि, त्रैलोक्यमित्यर्थः, दिधक्षति शापाग्निना दग्धुमिच्छति। दहतेः सनन्ताल्लटि ढत्वकत्वभावाः। दुर्लङ्घ्यदुर्गावलम्बनो दुर्जेय इति भावः। नित्यक्रुद्धो भगवान् दुर्वासा दुर्द्धर्षश्चेति प्रसिद्धम्॥ 17.21 ॥
वैराग्यं यः करोत्युच्चै रञ्जनं जनयन्नपि।
सूते सर्वेन्द्रियाच्छादि प्रज्वलन्नपि यस्तमः॥ 17.22 ॥
अन्वयः–यः उच्चैः रञ्जनं जनयन् अपि वैराग्यं करोति, यः प्रज्वलन् अपि सर्वेन्द्रियाच्छादि तमः सूते।
जीवातु–वैराग्यमिति। यः क्रोधः, उच्चैः अत्यर्थ, रञ्जनं रागं, रक्तवर्णतामिति यावत्,। जनयन् अपि उत्पादयन्नपि, वैराग्यं तद्राहित्यं, करोति जनयतीति विरोधः, नैस्पृह्यं करोतीति तदाभासीकरणात्, विरोधाभासोऽलङ्कारः, क्रुद्धस्य न कुत्रापि अनुरागाः इति भावः, तथा यः क्रोधः, प्रज्वलन् सन्धुक्षमाणोऽपि, प्रकाशमानः अपि इत्यर्थः, अन्तः, सन्तापयन्नपि इत्यर्थश्च, सर्वेन्द्रियाणि चक्षुरादिनि ज्ञानेन्द्रियाणि आच्छादयतीति तदाच्छादि सर्वेन्द्रियवरकं, ज्ञानेन्द्रियाणामावरकमित्यर्थः, तमः मोहम् अन्धकारञ्च, सूते जनयति क्रोधान्धो न किञ्चित् पस्यतीति भावः। अत्र प्रज्वलत्तमःशब्दयोः अर्थभेदेन विरोधपरिहारात् पूर्ववदलङ्कारः॥ 17.22 ॥
पञ्चेषुविजयासक्तौ भवस्य क्रूध्यतो जयात्।
येनान्यविगृहीतारिजयकालनयः श्रितः॥ 17.23 ॥
अन्वयः–पञ्चेषुविजयासक्तौ क्रुध्यतः भवस्य जयात् येन अन्यविगृहीतारिजयकालनयः श्रितः।
जीवातु–पञ्चेष्विति। येन क्रोधेन, पञ्चेषु विजयासक्तौ पञ्चेषु विजये कन्दर्पपराभवे, या आसक्तिः तत्परता तस्यां, कन्दर्पभस्मीकरणाभिनिवेशे, क्रुध्यतः स्मराय कुप्यतः, भवस्य हरस्य कर्मणि षष्ठी। जयात् स्वाधीनीकरणात् हेतोः, अन्येन पुरुषान्तरेण, विगृहीतस्य आक्रान्तस्य, अरेः शत्रोः, जयकाले आयत्तीकरणसमये, यो नयः नीतिः सः, श्रितः अवलम्बितः, तत्कालोचिता नीतिराश्रिता इत्यर्थः। अन्यदा महादेवं जेतुमशक्योऽपि स्मरविग्रह काले स्मरहरं क्रोधो जिगाय तत्काले तस्य क्रोधवशीभूतत्वादिति भावः। अत्र कामन्दकः-`बलिना विगृहीतस्य द्विषता कृच्छ्रवर्त्तिनः। कुर्वताऽपचयं शत्रोरात्वमच्छित्तिविशङ्कया॥’ इति ॥ 17.23 ॥
हस्तौविस्तारयन्निभ्ये बिभ्यदर्द्धपथस्थवाक्।
सूचयन् काकुमाकूतैर्लोभस्तत्र व्यलोकि तैः॥ 17.24 ॥
अन्वयः–तत्र तैः इभ्ये हस्तौ विस्तारयन् बिभ्यदर्द्धपथस्थवाक् आकूतैः काकुं सूचयन् लोभः व्यलोकि।
जीवातु–हस्ताविति। तत्र जनौघे, तैः इन्द्रादिभिः, इभ्ये धनिके `इभ्य आढ्यो धनी स्वामी’ इत्यमरः। हस्तौ करौ, विस्तारयन् प्रसारयन्, आच्ञामुद्रया इति भावः। बिभ्यत् अयं कटूक्तिं करिष्यति न वेति त्रस्यन्, अत एव अर्द्धपथस्थवाक् अर्द्धोक्तवाक्यः, आकूतैः अभिप्रायविशेषैः, आत्मनो दैन्यज्ञापकचेष्टाविशेषैरित्यर्थः। काकु शोकभीत्यादिजनितां स्वरविकृतिं, सूचयन् कुर्वन्नित्यर्थः, भयेन गद्‌गदाभाषीत्यर्थः, लोभः विग्रहवान् तदाख्यरिपुविशेषः, व्यलोकि दृष्टः॥ 17.24 ॥
दैत्यस्तैन्यमया नित्यमत्याहारामयाविनः।
भुञ्जानजनसाकूतपश्या यस्यानुजीविनः॥ 17.25 ॥
अन्वयः–दैन्यस्तैन्यमयाः नित्यम् अत्याहारामयाविनः भुञ्जानजनसाकूतपश्याः यस्य अनुजीविनः।
जीवातु–दैन्येति। दैन्यं दारिद्र्यं, स्तैन्यं स्तेयम् `स्तेनात् यत् नलोपश्च’ इत्यत्र स्तेनादिति योगविभागात् ष्यण्‌प्रत्ययः। तदुभयमयाः तत्प्रचुराः, नित्यं सर्वदा, अत्याहारेण बहुभोजनेन, आमयाविनः अजीर्णादिरोगिणः `आमयस्योपसङ्ख्यानं दीर्घश्च’ इति विन् दीर्घश्च. तथा भुञ्जानानाम् अश्नतां, जनानां लोकानां, साकूतं साभिप्रायं, पश्यन्ति अवलोकयन्तीति पश्या द्रष्टारः। `पाघ्रा-’ इत्यादिना शप्रत्ययः, पश्यादेशश्च। जना इति शेषः। यस्य लोभस्य, अनुजीविनः अनुचराः॥ 17.25 ॥
धनिदानाम्बुवृष्टेर्यः पात्रपाणाववग्रहः।
स्वान् दासानिवा हा! निःस्वान् विक्रीणीतेऽर्थवत्सु यः॥ 17.26 ॥
अन्वयः–हा, पात्रपाणौ धनिदानाम्बुवृष्टेः अवग्रहः यः निःस्वान् स्वान् दासान् इव अर्थवत्सु विक्रीणिते।
जीवातु–धनिदानेति। यः लोभः, पात्रपाणी पा6स्य सम्प्रदानार्हजनस्य, पाणौ हस्ते, निःस्वजनकरे इत्यर्थः। धनिनाम् अर्थशालिनां, दानाम्बुवृष्टेः त्यागोदकवर्षस्य, अवग्रहः प्रतिवबन्धकस्वरूपः। `वृष्टिर्वर्षं तद्विघातेऽवग्राहा वग्रहौ समौ’ इत्यमरः। प्रभूतधनसत्वेऽपि लोभवशीभूतः सन् पात्रपाणी दानार्थोदकं नार्पयतीति भावः। तथा निःश्वान् धनहीनान्, स्वान् स्वजनान्, पुत्रदारादीनिति यावत्। दासान् इव किङ्करानिव, अनायासदेयान् इव इति यावत्। अर्थवत्सु आढ्येषु, विक्रीणीते अर्थविनिमयेन ददाति, लोभात् इति भावः हा! इति विषादे अहो लोभस्य वैचित्र्यमयी शक्तिरिति भावः॥ 17.26 ॥
एकद्विकरणे हेतू महापातकपञ्चके।
न तृणे मन्यते कोपकामौ यः पञ्च कारयन्॥ 17.27 ॥
अन्वयः–महापातकपञ्चके एकद्विकरणे हेतू कोपकामौ पञ्च कारयन् यः तृणे न मन्यते।
जीवातु–एकेति। यः लोभः, पञ्च ब्रह्महत्यादीनि पञ्चापि महापातकानि, कारयन् नरादिना स्वयम्, अनुष्ठापयन्, महापातकानां `ब्रह्महत्या सुरापानं स्तेयं गुर्वङ्गनागमः। महान्ति पातकान्याहुस्तत्संसर्गी च पञ्चमः॥’ इत्युक्तानां ब्रह्महत्यादीनां, पञ्चके पञ्चकमध्ये एकञ्च द्वे च एकद्वीनि। सङ्ख्येयद्वन्द्वे बहुत्वोपजननात् बहुवचनम्। तेषाम् एकद्वीनां, यथासङ्ख्याम् एकस्य ब्रह्महननस्य द्वयोः पानागम्यागमनयोश्च, करणे अनुष्ठाने, हेतू कारणभूतौ, कोपकामौ क्रोधकामौ, तृणे तृणतुल्यौ तुच्छौ इत्यर्थः। अपीति शेषः। न मन्यते न गणयति इत्यर्थः। न हि बहुकारी स्वल्पकारिणं गणयतीति भावः। कामक्रोधाभ्यामपि पापिष्ठो लोभ रहस्यम्॥ 17.27 ॥
यः सर्वेन्द्रियसद्मापि जिह्वां बह्ववलम्बते।
तस्यामाचार्य्यकं याच्ञापटवे बटवेऽर्जितुम्॥ 17.28 ॥
अन्वयः–सर्वेन्द्रियसद्मा अपि यः जिह्वां बहु अवलम्बते, तस्याम् याच्ञपटवे वटवे आचार्यकम् अर्जितुम्।
जीवातु–य इति। यः लोभः, सर्वेन्द्रियाणि चक्षुरादीनि पञ्चैव, सद्म आश्रयः यस्य सः तादृशः सन् अपि, सर्वेन्द्रियाधिष्ठानोऽपि, जिह्वां रसनेन्द्रियमेव, बहु प्रचुरतया, अवलम्बते आश्रयति, प्रायेण तत्रैवास्ते इत्यर्थः। किमर्थम्? तत्राह–तस्या जिह्वायाम्, अध्ययनशालाभूतायामिति भावः, याच्ञापटवे भिक्षानिपुणाय, बटवे ब्राह्मणाय, शिष्यभूताय इति भावः। आचार्यकं गूरुत्वम्, अर्जितुं लब्धुमिवेत्युत्प्रेक्षा। लुब्धब्राह्मणबटुभ्यः याच्ञवाणीशिक्षादानार्थ वागिन्द्रियमधिष्ठाय आचार्यो भूत्वा वर्त्तते इत्यर्थः। याच्ञवाणीशिक्षादानार्थ वागिन्द्रियमधिष्ठाय आचार्यो भूत्वा वर्त्तते इत्यर्थः। गुरवस्तु अध्ययनशालायां स्वशिष्येभ्यो विद्याशिक्षां ददतीति प्रसिद्धम्। गुरवस्तु अध्ययनशालायां स्वशिष्येभ्यो विद्याशिक्षां ददतीति प्रसिद्धम्। अत्रोपमोत्प्रेक्षाभ्यां सजातीयकाभ्यां वाक्यार्थयोः शब्दहेतुत्वात् शब्दार्थहेतुककाव्यलिङ्गमलङ्कारः सङ्कीर्यते इत्यलङ्कारत्रयस्य परस्परसम्बन्धेनाङ्गाङ्गिभावः॥ 17.28 ॥
पथ्यां तथ्यामगृह्णन्तं मन्दं बन्धुप्रबोधनाम्।
शून्यमाश्लिष्य नोज्झन्तं मोहमैक्षन्त हन्त ते॥ 17.29 ॥
अन्वयः–हत्त, ते मन्दं तथ्यां बन्धु प्रबोधनाम् अगृह्णन्तं शून्यम् आश्लिष्य न उज्झन्तं मोहम् ऐक्षन्त।
जीवातु–पथ्यामिति। ते देवाः, मन्दं मूढस्वभावम्, अत एव पथ्यां हितां, तथ्यां सत्यां युक्तियुक्तामिति यावत्। बन्धुप्रबोधनां सुहृदुपदेशम्, अगृह्णन्तम् अस्वीकुर्वाणम्, अशृण्वन्तमित्यर्थः। शून्यं यत्किञ्चित् तुच्छं वस्तु इत्यर्थः। आश्लिष्य अवलम्ब्य इत्यर्थः। न उज्झन्तं मौढ्यात् न त्यजन्तं, हन्तेति खेदे, मोहं मूर्त्तिमन्तं तदाख्य चतुर्थरिपुम्, ऐक्षन्त अपश्यन्॥ 17.29 ॥
श्वः श्वः प्राणप्रयाणेऽपि न स्मरन्ति स्मरद्विषम्।
मग्नाः कुटुम्बजम्बाले बालिश यदुपासिनः॥ 17.30 ॥
अन्वयः–कुटुम्बजम्बाले मग्नाः बालिशाः यदुपासिनः श्वः श्वः प्राणप्रयाणे अपि स्मरद्विषं न स्मरन्ति।
जीवातु–श्वः श्वः इति। यदुपासिनः यस्म मोहस्य सेवका, अत एव कुटुम्बजन्बाले पुत्रकलत्रादिरूपपङ्गे। `निषद्वरस्तु जम्बालः पङ्कोऽस्त्री शादकर्दमौ’ इत्यमरः। मग्नाः अन्तः प्रविष्टा इत्यर्थो वा। प्राणानां जीवनस्य, प्रयाणे निष्क्रमणेऽपि जीवनत्यागेऽपि, स्मरद्विषं कामारिम् ईश्वरं शङ्करं, न स्मरन्ति न चिन्तयन्तीत्यर्थः॥ 17.30 ॥
पुंसामलब्धनिर्वाणज्ञानदीपमयात्मनाम्।
अन्तर्म्लापयति व्यक्तं यः कज्जलवदुज्ज्वलम्॥ 17.31 ॥
अन्वयः–यः अलब्धनिर्वाणज्ञानदीपमयात्मनां पुंसाम् उज्जवलम् अन्तः कज्जलवत् व्यक्तं म्लापयति।
जीवातु–पुंसामिति। यः मोहः, अलब्धः अप्राप्तः, निर्वाणज्ञानदीपमयः निर्वाणज्ञानं मोक्षविषयिणी बुद्धिः, तदेव दीपः प्रकाशकत्वात् प्रदीपः, तन्मयः तदात्मकः, आत्मा स्वभावः यैः तेषाम् अनात्मज्ञानां, विषयासक्तानामित्यर्थः। पुंसाम् उज्ज्वलं स्वभावत एव निर्मलम्, अन्तः अन्तःकरणं, कज्जलवत् अञ्जनवत्, व्यक्तं स्फुटं, म्लापयति मलिनीकरोति मोक्षसाधनात्मसाक्षात्कारविघातकोऽयं दुरात्मेत्यर्थः॥ 17.31 ॥
ब्रह्मचारिव्रतस्थायियतयो गृहिणं यथा।
त्रयो यमुजीवन्ति क्रोधलोभमनोभवाः॥ 17.32 ॥
अन्वयः–ब्रह्मचारिव्रतस्थायियतयः त्रयः यथा गृहिणं (तथा) क्रोधलोभमनोभवाः यम् उपजीवन्ति।
जीवातु–ब्रह्मचारीति। ब्रह्मचारिव्रतस्थायियतयः ब्रह्मचारिवानप्रस्थभिक्षुरूपाः, त्रयः आश्रमत्रयम् इत्यर्थः। गृहिणं गृहस्थाश्रमिणं, यथा इव, क्रोधलोभमनोभवाः क्रोधलोभकामाः त्रयः, यं मोहम्, उपजीवन्ति आश्रित्य वर्त्तन्ते। मोहमूलास्ते तन्निवृत्तौ तेऽपि निवर्त्तन्ते इति भावः॥ 17.32 ॥
जाग्रतामपि निद्रा यः पश्यतामपि योऽन्धता।
श्रुते सत्यपि जाड्यं यः प्रकाशेऽपि च यस्तमः॥ 17.33 ॥
अन्वयः–यः जाग्रताम् अपि निद्रा, यः पश्यताम् अपि अन्धता, यः श्रुते सति अपि जाड्यं, प्रकाशे अपि च यः तमः।
जीवातु–जाग्रतामिति। यः मोहः, जाग्रतां प्रबुद्धानाम् अपि, निद्रा निद्रास्वरूपः, निद्राया इव सदसज्ज्ञानविलोपकत्वादिति भावः। यः मोहः,पश्यतां चक्षुष्मताम् अपि,अन्धता तद्राहित्यम्, अन्धो यथा सुपथं कुपथं वा निश्चेतुं न शक्नोति तद्वदिति भावः। यः मोहः, श्रुते शास्त्रे, शास्त्रज्ञाने इत्यर्थः। सत्यपि विद्यमानेऽपि जाड्यं, मोढ्यं, जडवत् शास्त्रविरुद्धकार्यकरणादिति भावः। यश्च मोहः, प्रकाशे आतपे, रौद्रे सत्यपि इत्यर्थः। तमश्च अन्धकारः, अन्धकारे यथा वस्तुज्ञानं न भवति तद्वदिति भावः। निद्रादिचतुष्ठयकार्यकारित्वात् तद्वत् जागरचक्षुरादिभिरनिवर्त्यत्वाच्च प्रसिद्धिनिद्रादिचतुष्टयविलक्षणः कोऽपि तत्समष्टिरिति निष्कर्षः॥ 17.33 ॥
(कुरुसैन्यं हरेणेव प्रागलज्जत नार्जुनः।
हतं येन जयन् कामस्तमोदुणजुषा जगत्॥ 17.33.1 ॥)
अन्वयः–तमोगुणजुषा येन हतं जगत् जयन् कामः प्राक् हरेण कुस्सैन्यम् अर्जुनः इव न अलज्जत।
चिह्निताः कतचिद्‌देवैः प्राचः परिचयादमी।
अन्ये न केचनाचूडमेनःकञ्चुकमेचकाः॥ 17.34 ॥
अन्वयः–अमी केचित् देवैः प्राचः परिचयात् चिह्निताः आचूजम् एनःकञ्चुकमेचकाः केचन अन्ये न।
जीवातु–चिह्निता इति। अमी पूर्वोक्तस्मरादयः, कतिचित् कियत्सङ्ख्यकाः, देवैः इन्द्रादिभिः, प्राचः परिचायात् इन्द्रादीनां कामादिवशीभूतत्वेन पूर्वजातपरिचयात्, पूर्वानुभवजन्यसंस्कारादिति यावत्। चिह्निताः चिह्नविशेषैः परिज्ञाताः, प्रत्यभिज्ञाता मेचकाः श्यामवर्णाः, अन्ये अपरे च, कामादिव्यतिरिक्ता इत्यर्थः। केचन केचित्, न, देवैः चिह्निताः इति पूर्वेणान्वयः, नीलवस्त्रावृतशरीरत्वेन `अमी ते’ इति न प्रत्यभिज्ञाताः इत्यर्थः॥ 17.34 ॥
तत्रोदीर्ण इवार्णोधौ सैन्येऽभ्यर्णमुपेयुषि।
कस्याप्याकर्णयामासुस्ते वर्णान् कर्णकर्कशान्॥ 17.35 ॥
अन्वयः–उदीर्णे अर्णधौ इव तत्र सैन्ये अभ्यर्णम् उपेयुषि ते कस्य अपि कर्णकर्कशान् वर्णान् आकर्णयामासुः।
जीवातु–तत्रेति। उदीर्णे उच्चलिते, अर्णोधौ अम्भोधौ इव, तत्र तस्मिन्, सैन्ये रमराद्यनुगते सैन्ये, अभ्यर्णम् उपेयुषि समीपं गते सति, ते देवाः, कस्यापि अपरिज्ञातशरीरस्य कस्यचित् पुरुषस्य, चार्वाकस्येति भावः। कर्णकर्कशान् श्रुतिकठोरान्, वर्णान् वाक्यानि, आकर्णयामासुः शुश्रुवुः॥ 17.35 ॥
ग्रावोन्मज्जनवद्यज्ञ-फलेऽपि श्रुतिसत्यता।
का श्रद्धा? तत्र धीवृद्धाः! कामाद्धा यत् खिलोकृतः॥ 17.36 ॥
अन्वयः–धीवृद्धाः, यज्ञफले श्रुतिसत्यता अपि ग्रावोन्मज्जनवत्, तत्र का श्रद्धा, यत् कामाद्‌ध्वा खिलीकृतः।
जीवातु–अथ सप्तचत्वारिंशता श्लोकैस्तानेव वर्णानाह-ग्रावेत्यादि। धीवृद्धाः! हेज्ञानवृद्धाः! यज्ञफले ज्योतिष्टोमादियज्ञाद्यनुष्ठानस्य फलभूतस्वर्गादौ विषये, श्रुतिसत्यता वेदवाक्यस्य प्रामाण्यं, ग्रावोन्मज्जनवत् पाषाणप्लवनवत्, पाषाणप्लवनं यथा न प्रत्यक्षं, तद्वत् यज्ञफलं स्वर्गादिकमपि न प्रत्यक्षम्, अत एव तत्प्रतिपादिका श्रुतिरपि `ग्रावाणः प्लवन्ते’ इति वाक्यवत् न प्रमाणमित्यर्थः। अपिशब्दोऽत्र निन्दायाम्; श्रुतिरियं मिथ्या इत्यर्थः। तत्र तत्फलप्रतिवादिकायां श्रुतौ, का श्रद्धा? युष्माकं कः विश्वासः? यत् यतः, कामाद्धा तृतीयपुरुषार्थमार्गः, यथेच्छव्यवहारामार्ग इति यावत्। खिलकृतः प्रतिरुद्धेः, श्रत्वा इति शेषः। `द्वे खिलाप्रहते समे’ इत्यमरः। सिद्धं प्रमाणं विहाय तद्विरुद्धो न श्रद्धेयम् इत्यर्थः॥ 17.36 ॥
केनापि बोधिसत्त्वेन जातं सत्त्वेन हेतुना।
यद्वेदमर्मभेदाय जगदे जगदस्थिरम्॥ 17.37 ॥
अन्वयः–केन अपि बोधिसत्त्वेन वेदमर्मभेदाय जातं यत् सत्त्वेन, हेतुना जगत् अस्थिरं जगदे।
जीवातु–केनेति। बोधिसत्त्वेन बुद्धेन। `बुद्धस्तु श्रीधनः शास्ता बोधिसत्वो विनायकः’ इति यादवः। केनापि अवाच्यमहिम्ना, जातं प्रादुर्भूतम्। भावे क्तः। अतः स एव श्रद्धेयवचन इति भावः। यत् यस्मात्, वेदस्य कालान्तरभाविफलभोगिनित्यात्मसाधकश्रुतेः, मर्मभेदाय रहस्योद्‌घाटना, प्रामाण्यभङ्गाय इति यावत्। सत्वेन हेतुना `यत् सत्‌ तत् क्षणिकम्’ इति कारणेन, जगत् इदं विश्वम्, अस्थिरं क्षणिकम्, इति जगदे गदितम्। अयं भावः-जगातः क्षणिकत्वे सिद्धे आत्मनोऽपि जगदन्तर्गततया क्षणिकत्वं सिद्धमेव, ततश्च येनात्मना पापं कृतं तस्यात्मनः क्षणोत्तरं नाशात् कथं तस्य फलभोगसम्भवः? इति आत्मनः कालान्तरभाविफलभोगित्वस्यासम्भवात् तद्‌भोधकश्रुतेः कथं प्रामाण्यम्? कथं वा पापात् भयम्? अतो न पारलौकिकसुखाशया हस्तगतम् ऐहिकं सुखं हात्वयमिति॥ 17.37 ॥
अग्निहोत्रं त्रयी तन्त्र त्रिदण्डं भस्मपुण्ड्रकम्।
प्रज्ञापौरुषनिःस्वानां जीवो जल्पति जीविकाः॥ 17.38 ॥
अन्वयः–जीवः अग्निहोत्रं त्रयी तन्त्रं त्रिदण्डं भस्मपुण्ड्रके प्रज्ञापौरुषनिःस्वप्नां जीविकाः जल्पति।
जीवातु–सम्प्रति बृहस्पतिमतावलम्बनेन वैदिकं विडम्बयति अग्निहोत्रमिति। अग्निहोत्रम् अग्निहोत्राख्यो यागः, त्रयी त्रिवेदी, वेदत्रयमित्यर्थः। तन्त्रं तदर्थविचारात्मकं मीमांसाशास्त्रं, त्रिदण्डं सन्यासः। पात्रादिपाठात् नपुंसकत्वम्। भस्मनः भूतेः, भस्मकृतमित्यर्थः। पुण्ड्रकं तिलकविशेषः, एतानि जीवः बृहस्पतिः, प्रज्ञापौरुषाभ्यां, बुद्धिपुरुषकाराभ्यां, निःस्वानां दरिद्राणां, तद्रहितानाम् इत्यर्थः। जीविकाः जीवनोपायाः, इति जल्पति ब्रूते। अतश्च नास्ति परलोकः इति निश्चयात् यथेष्टचेष्टितमेव हितमिति भावः॥ 17.38 ॥
शुद्धं वंशद्वयीशुद्धौ पित्रोः पित्रोर्यदेकशः।
तदनन्तकुलादोषाददौषा जातिरस्ति का॥ 17.39 ॥
अन्वयः–यत् पित्रोः पित्रोः एकशः वंशद्वयी शुद्धौ शुद्धं तत् अनन्तकुलादोषात् अदोषा जाति का अस्ति?
जीवातु–शुद्धमति। यत् यतः कारणात्, पित्रोः पित्रोः मातापितृपरम्परयोः मध्ये। निद्धारणे सप्तमी। वीप्सायां द्विरुक्तिः। `पिता मात्रा’ इत्येकशेषः। एकशः एकैकस्य, वंशद्वयीशुद्धौ उभयकुलशुद्धौ, पितृवंशमातामहवंशयोः विशुद्धितायां सत्यामित्यर्थः। शुद्धं निर्दोषं, पुत्रं जायते इति शेषः। पुत्रस्यापि शुद्धता भवति इत्यर्थः। तत् तस्मात् अनन्तानाम् अशेषाणाम्, आमूलानामिति भावः। कुलानां वंशानाम्, अदोषात् दोषराहित्यात्, अदोषा निर्दोषा, जातिः जन्म, का अस्ति? न काऽपि इत्यर्थः। यथाहुः-`अनादाविह संसारे दुर्वारे मकरध्वजे। कुले च कामिनीमूले का तजातिपरिकल्पना?॥’ इति ॥ 17.39 ॥
कामिनीवर्गसंसर्गैर्न कः सङ्क्रान्तपातकः?।
नाश्नाति स्नाति हा! मोहात् कामक्षामव्रतं जगत्॥ 17.40 ॥
अन्वयः–कामिनीवर्गसंसर्गैः कः सङ्क्रान्तपातकः नः? हा, कामक्षामव्रतं जगत् मोहात् न अश्नाति, स्नाति।
जीवातु–कामिनीति। किञ्चि, कामिनीवर्गस्य पुरुषापेक्षया अष्टगुणकाम्स्य स्त्रीजातस्य, संसर्गैः सम्बन्धैः, स्त्रीभिः सह एकत्र वासैरित्यर्थः। कः पुमान्, सङ्क्रान्तपातकः प्राप्तपातः, पापाक्रान्त इत्यर्थः। न? अपि तु सर्वः एव पातकी, संवत्सरात्तु पतति पतितेन सहाचरन्’ इति शास्त्रात् पतितस्त्रीसंसर्गेण सर्वोऽपि पातकी एवेति भावः। अत एव कामेन कन्दर्पेण अभिलाषेण वा, क्षामव्रतं क्षीणव्रतं, निष्फलव्रतं वा। `क्षायो मः’ इति निष्ठातकारस्य मकारः। जगत् इदं विश्वं, विश्ववासीत्यर्थः। मोहात् स्ववृत्तानाकलनात्, न अश्नाति उपवसति; तथा स्नाति च तीर्थादौ स्नानं करोति च, स्नानेन आत्मनः शुद्धत्वबुद्ध्यैव पुनः व्रतानि चरति इति भावः। हा इति खेदे। व्रतसहस्रे कृतेऽपि एकेनैव स्त्रीसंसर्गपातकेन सर्वनाश इति भावः॥ 17.40 ॥
ईर्ष्यया रक्षतो नारीं धिक्‌ कुलस्थितिदाम्भिकान्।
स्मरान्धत्वाविशेषेऽपि तथा नरमरक्षतः॥ 17.41 ॥
अन्वयः–स्मरान्धत्वाविशेष अपि ईर्ष्यया नारीं रक्षतः नरम् अरक्षतः कुलस्थितिदाम्भिकान् धिक्।
जीवातु–ईर्ष्ययेति। स्मरान्धत्वस्य कामविमूढत्वस्य, अविशेषेऽपि समानत्वेऽपि, स्त्रीपुसयोरिति शेष। ईर्ष्यया पुरुषान्तरसंसर्गासहिष्णुतया, नारीं स्त्रियं, रक्षतः निरुन्धतः, अवरोधमधअये शासनवाक्येन वा इति शेषः। किन्तु नरं पुरुषं, तथा तद्वत्, अरक्षतः परस्त्रीसंसर्गात् अनिवारयतः, अथ च कुलस्य वंशस्य स्थितिः मर्यादा, विशुद्धिता इत्यर्थः। असाङ्कर्येणावस्थानमिति यावत्, तथा तद्रूपेण, दम्बेन कैतवेन रचन्तीति तथोक्तान् स्त्रीमात्ररक्षणादेव जातेरसाङ्कर्य मन्यमानान् वञ्चकान्। `चरति’ इति ठक्। `दम्भस्तु कैतवे कल्के’ इति विश्वः। जनानिति शेषः। धिक् निन्दामीत्यर्थः। `धिगुपर्यादिषु’ इति द्वितीया। स्त्रीदोषादिव पुरुषदोषादपि कुलहानेरवश्यम्भाव्यत्वेऽपि एकत्राभिनिवेशे ईर्ष्यैव केवलं हेतुरिति भावः॥ 17.41 ॥
परदारनिवृत्तिर्या सोऽयं स्वयमनादृतः।
अहल्याकेलिलोलेन दम्भो दम्भोलिपाणिना॥ 17.42 ॥
अन्वयः–या परदारनिवृत्तिः सः अयं दम्भः अहल्याकेलिलोलेन दम्भोलिपाणिना स्वयम् अनादृतः।
जीवातु–परेति। या परदारेभ्यः परस्त्रीसंसर्गेभ्यः, निवृत्तिः उपरतिः, तदर्थमुपदेश इति यावत्, सः अयं परदारा अगम्या इत्यादिरूपः, दम्भः कपटोपदेशः इत्यर्थः, अहल्याकेलिलोलेन गौतमस्त्रीरतिलालसेन, दम्भोलिपाणिना वज्रवरेण इन्द्रेण, स्वयम्, आत्मना, अनादृतः उपेक्षितः, अतो न पारदार्यम् अनाचार इति भावः॥ 17.42 ॥
गुरुतल्पगतौ पापकल्पनां त्यजत द्विजाः!।
येषां वः पत्युरत्युच्चैर्गुरुदारग्रहे ग्रहः॥ 17.43 ॥
अन्वयः–द्विजाः, गुरुतल्पगतौ पापकल्पनां त्यजत, येषां वः पत्युः गुरुदारगृहे उच्चैः ग्रहः।
जीवातु–गुरुतल्पेति। किञ्चि, द्विजाः! हे विप्राः! गुरुतल्पगतौ गुरुदारगमने, `तल्पं शय्याऽट्टदारेषु’ इत्यमरः पापकल्पनां पातकसम्भावनां, त्यजत जहित। कुतः? येषां द्विजानां, वः युष्माकं, पत्युः स्वामिनः, द्विजराजस्य चन्द्रस्य इत्यर्थः, `तस्मात् सोमराजानो ब्राह्मणाः’ इति श्रुतेः, गुरोः देवगुरोः बृहस्पते, दारग्रहे ताराख्यभार्य्याभिगमने, अत्युच्चैः अतिमहान्, ग्रहः निर्बन्धः, तस्मात् अत्रापि न दोषबुद्धिः कार्या इति भावः॥ 17.43 ॥
पापात् तापा मुदः पुण्यात् परासोः रयुरिति श्रुतिः।
वैपरीत्यं ध्रुवं साक्षात् तदाख्यात बलाबले॥ 17.44 ॥
अन्वयः–`परासोः पापोत् तापाः पुण्यात् मुदः स्युः’-इति श्रुतिः, साक्षात् वैपरीत्यं ध्रुवम् तत् बलाबले आख्यात।
जीवातु–पापादिति। परासोः मृतस्य, पापात् ऐहिकपातकाचरणात्, तापाः, दुःखानि, नरकयन्त्रणा इत्यर्थः, पुण्यात् ऐहिकसुकृताचरणात्, मुदः हर्षाः; स्वर्गः सुखानि इत्यर्थः, स्युः भवेयुः, इति एवं, श्रुतिः वेदः, आहेति शेषः, विधिनिषेधाभ्यासगम्यं तदित्यर्थःष किन्तु वैपरीत्यमुक्तश्रुतिवाक्यस्य विपर्ययं, पानागम्यागमनादिपापात् सुखं तथा यज्ञादिपुण्याद् दुःखञ्चेति विपरीतफलमित्यर्थः। ध्रुवं सत्यम् एव, साक्षात् प्रत्यक्षं, दृश्यते इति शेषः, तदित्यव्ययं तयोरित्यर्थः, तयो प्रत्यक्षागमयोः, बलाबले बलवत्त्वं दौर्बल्यञ्च, आख्यात हे द्विजाः! कथयत, ग्रावप्लवनवाक्यवत् प्रत्यक्षविरोधात् यता श्रुतिप्रत्यक्षयोर्विरोधे प्रत्यक्षस्यैव बलवत्त्वाच्च श्रुतिरिह दुर्बला, ततश्च पापजन्यसुखस्य प्रत्यक्षतया पापमेव सर्वैरनुष्ठातव्यमिति भावः॥ 17.44 ॥
सन्देहेऽप्यन्यदेहाप्तेर्विवर्ज्यं वृजिनं यदि।
त्यजत श्रोत्रियाः! सत्रं हिंसादूषणसंशयात्॥ 17.45 ॥
अन्वयः–अन्यदेहाप्ते सन्देहे अपि यदि वृजिनं विवर्ज्यं, श्रोत्रियाः, हिंसादूषणसंशयात् सत्रं त्यजत।
जीवातु–सन्देहे इति। अन्यदेहाप्तेः मृतस्य देहान्तरप्राप्तेः, सन्देहेऽपि संशयेऽपि पापकारी चेत् तदा मृत्वा देहान्तरमाश्रित्य नरकभोगी स्यादिति वादिनः, यः पापकारी स दग्ध एव, अतस्तस्य देहान्तरप्राप्त्यसम्भवेन नरकभोगस्याप्यसम्भवः, इति देहात्मवादिनः तत्प्रतिवादिनश्च तादृशविरुद्धवाक्यद्वयजन्यसन्देहे सत्यपि इत्यर्थः, यदि वृजिनं पारदार्‌ययादिपापं, `पापं किल्विषकल्मषं कलुषं वृजिनैनोऽधम्’ इत्यमरः। विवर्ज्यं त्याज्यं, पाक्षिकदोषस्यापि परिहार्यत्वादिति भावः। तर्हि, श्रोत्रियाः! हे छान्दसाः! हेवेदाध्यायिनः! इत्यर्थः। `श्रोत्रियच्छान्दसौ समौ’ इत्यमरः। छन्दो वेदमधीते इति छन्दसो वा श्रोत्रभावो निपात्यते `तदधीते’ इत्येतस्मिन्नर्थे घंश्च इति निपातनात् साधुः, हिंसादूषणसंशयात् जीवहत्याजनितपापशङ्कातः, वैधहिंसायामपि साङ्ख्यादिभिः प्रत्यवायाङ्गीकारादिति भावः। सत्रं यज्ञं, त्यजत जहीत, `पाक्षिकोऽपि दोषः परिहर्त्तव्यः’ इति न्यायादिति भावः। पारदार्यादेः पुनरहिंसात्मकत्वात् प्रत्युत सुखकरत्वाच्च न कश्चित् प्रत्यवायः इति तात्पर्यम्॥ 17.45 ॥
यस्त्रिवेदीविदां वन्द्यः स व्यासोऽपि जजल्प वः।
रामाया जातकामायाः प्रशस्ता हस्तधारणा॥ 17.46 ॥
अन्वयः–यः वः त्रिवेदीविदां वन्द्यः सः व्यासः अपि जजल्प-जातका मायाः रामायाः हस्तधारणा प्रशस्ता।
जीवातु–य इति। किञ्च,त्रयाणां वेदानां समाहारः त्रिवेदी, त्रिलोकीं वत् प्रक्रिया। तद्विदां त्रयीवृद्धानां, वेदत्रयाभिज्ञानामित्यर्थः, यः वन्द्यः पूज्याः श्रेष्ठइत्यर्थः सः व्योसोऽपि कृष्णद्वैपायनोऽपि, जातकामायाः रन्तुं जाताभिलाषायाः, रामायाः कामिन्याः, हस्तधारणा करग्रहणं, प्रशस्ता कर्त्तव्या, इति वा युष्माकं, जजल्प उक्तवान्, भारतादौ इति शेषः। स्मरार्त्तां विह्वलां दीनां यो न कामयते स्त्रियम्। ब्रह्महा स तु विज्ञेयो व्यासो वचनमब्रवीत्॥’ इति महाभारतादिवाक्यात् स्वयञ्ज विचित्रवीर्यभार्याभिगमनेन पुत्रोत्पादनादिति भावः॥ 17.46 ॥
सुकृते वः कथं श्रद्धा? सुरते च कथं न सा?
तत् कर्म पुरुषः कुर्य्याद् येनान्ते सुखमेधते॥ 17.47 ॥
अन्वयाः–वः सुकृते श्रद्धा कथं सुरते च सा कथं न? पुरुषः तत् कुर्यात् येन अनते सुखम् एधते।
जीवातु–सुकृते इति। सुकृते तपोयज्ञादौ पुण्यकर्मणि, वः युष्माकं, कथं केन हेतुना, श्रद्धा विश्वासः? सुरते स्त्रीसङ्गमादौ च, सा श्रद्धा, कथं न? अस्तीति शेषः। तत्रैव श्रद्धया भवितव्यम् इति भावः। कुतः? पुरुष नरः, तत् तादृशं, कर्म क्रियां, कुर्यात् आचरेत्, येन कर्मणा, अन्ते परिणामे, कर्मान्ते इत्यर्थः, सुखम् आनन्दम्, एधते वरद्धते, सुखार्थमेव कर्म कुर्यात् इत्यर्थः। तच्च सुरतम् एव अनुभवसिद्धत्वात्, न सुकृतं वैपरीत्यादिति भावः॥ 17.47 ॥
बलात् कुरुत पापानि सन्तु तान्यकृतानि वः।
सर्वान् बलकृतानर्थानकृतान्मनुरब्रवीत्॥ 17.48 ॥
अन्वयः–पापानि बलात् कुरुत्, तानि वः अकृतानि सन्तु, मनुः बलकृतान् सर्वान् अर्थान् अकृतान् अब्रवीत्।
जीवातु–बलादिति। किञ्च, बलात् बलपूर्वकं, शास्त्रवाक्यमुपेक्ष्य शास्त्रशासनमुपेक्ष्य इत्यर्थः, पापानि कलुषाणि, पापनाम्ना अभिहितानीत्यर्थः। कुरुत आचरत, तानि बलात् कृतपापानि, वः युष्माकम्, अकृतानि अनाचरितानि, सन्तु भवन्तु, अकृतान्येव भविष्यन्तीत्यर्थः। कुतः? सर्वान् निखिलान्, बलकृतान् बलपूर्वकमनुष्ठितान् अर्थान् व्यापारान्, अकृतान् अननुष्ठितान्, मनुः आदिस्मार्त्तः, अब्रवीत् उवाच, तस्माता बलात् कृते दोषो नास्तीत्यर्थः। अत्र मनुः,-`बलाद्दत्त बलाद्‌भुक्तं बलात् यच्चापि लेखितम्। सर्वान् बलकृतानर्थानकृतान् मनुरब्रवीत्॥’ यद्यपि बलात्कृतं व्यवहारपरावृत्तिपरमेतत् तथाऽपि पापमाकलयतां चार्वाकविषयतया प्रलपनमिति द्रष्टव्यम्॥ 17.48 ॥
स्वागमार्थेऽपि मा स्थास्मिंस्तीर्थिकाः! विचिकित्सवः।
तं तमाचरतानन्दं स्वच्छन्दं यं यमिच्छथ॥ 17.49 ॥
अन्वयः–तीर्थिकाः अस्मिन् स्वागमार्थे अपि विचिकित्सवः मा स्थ यं यम् इच्छथ तं तम् आनन्दं स्वच्छन्दम् आचरत।
जीवातु–स्वेति। तीर्थिकाः! हेशास्त्रिणः! मत्वर्थीयष्ठक्‌प्रत्ययः। `तीर्थं शास्त्रध्वरक्षेत्रोपायनारीरजसु च। अवतारर्षिजुष्टाम्बुपात्रोपाध्यायमन्त्रिषु॥’ इत्यमरः। अस्मिन् मनुप्रोक्ते स्वागमार्थे बलात्कारलक्षणे स्वशास्त्रार्थेऽपि, विचिकित्सवः सांशयिकः। `विचिकित्सा तु संशयः’ इत्यमरः। कितः सन्नन्तादुप्रत्ययः। मा स्थ न वथ, यूयमिति शेषः। अतः यं यम् आनन्दं परदारगमनादिकं सुखम्, इच्छथ वाञ्छथ, तं तम् आनन्दं, स्वच्छन्दं यथेच्छम्, आचरतअनुभवत इत्यर्थः॥ 17.49 ॥
श्रुतिस्मृत्यर्थबोधेषु क्वैकमत्यं महाधियाम्?।
व्याख्या बुद्धिबलापेक्षा सा नोपेक्ष्या सुखोन्मुखी॥ 17.50 ॥
अन्वयः–श्रुतिस्मृत्यर्थबोधेषु महाधियाम् ऐकमत्यं क्व, व्याख्या बुद्धिबलापेक्षा, सुखोन्मुखी सा न उपेक्ष्या।
जीवातु–ननु मनुवचनस्य व्यवहारविषयत्वान्नायमर्थः, सम्प्रदायविरुद्धत्वात् इत्याक्षिपन्तं प्रत्याह–श्रुतीति। महाधियां तीक्ष्णबुद्धीनां पुंसां, श्रुतिस्मृत्यर्थानां वेदधर्मणास्त्रोक्तविषयाणां, बोधेषु, एकमत्यं मतैक्यं, मत्विरोधाभाव इत्यर्थः। क्व? कुत्र? न क्वापि, अपि तु सर्वत्रैव विसंवाद इति भावः। किन्तु व्याख्या पदवाक्यार्थप्रतिपादनं, बुद्धिबलापेक्षा ज्ञानौत्कर्ष्यानुसारिणी, ज्ञानस्य उतकर्षापकर्षानुसारेण शास्त्रस्य विविधव्याख्या कर्त्तु शक्यते यथा परमतनिरसनेन स्वमतं स्यापयितुं युज्यते इति भावः। एवं स्थिते या व्याख्याः सुखोन्मुखी सुखप्रवणा, आनन्दसाधिका इत्यर्थः। सा न उपेक्ष्या न त्याज्या, सा एव ग्राह्या इत्यर्थः। अतः यथेच्छमाचरतिति भावः॥ 17.50 ॥
यस्मिन्नस्मीति धीर्देहे तद्दाहे वः किमेनसा?।
क्वापि किं तत् फलं न स्यादात्मेति परसाक्षिके?॥ 17.51 ॥
अन्वयः–यस्मिन् देहे `अस्मि’ इति धीः तद्‌दाहे वः किम्? परसाक्षिके क्व अपि आत्मा इति अपि आत्मा इति तत्फलं किं न स्यात्?
जीवातु–नन्वेवं सुखलौल्यात् पापाचरणे परत्रानिष्टं स्यादित्यत्राह-यस्मिन्निति। यस्मिन् देहे शरीरे, अस्मीति धीः अहमिति बुद्धिः। `अस्मीत्यव्ययमस्मदर्थानुवादे अहमर्थेऽपि’ इति गणव्याख्याने। `पादप्रहारमिति सुन्दरि! नास्मि दूये’ इत्यादिप्रयोगश्च। तस्य देहस्य, दाहे भस्मीभावे सति, वः युष्माकम् एनसा पापेन, किम्? कर्त्तु शक्यते इति शेषः। गौरोऽहं कृशोऽहमित्यादिबुद्धिप्रामाण्याद्‌देहादतिरिक्तः फलभोक्ता नास्तीत्यभिमानः; येन देहेन पापं कृतं तस्य दाहे सति देहात्मवादिनां युष्माकं पापेन नरकभोगादिकं न किञ्चिदपि कर्त्तु शक्यते इति भावः। अथ पापपुण्यफलभोक्ता देहव्यतिरिक्त आत्माऽस्ति तत्रैव कर्मफलमिति चेत् तत्राह-क्वापीति। परसाक्षिके परो वेदादिः, साक्षी प्रमाणं यस्य तस्मिन्, देहातिरिक्तया बेदप्रतिपादिते, क्वापि यत्र कुत्रचिदात्मान्तरेऽपि, आत्मेति हेतोः आत्मेति कृतनामतया, आत्मत्वाविशेषादित्यर्थः। तत् निरयादिरूपं, फलं पापस्य परिणामः, किं कथं, न स्यात्? न भवेत्?, अपि तु एकेनात्मना पापे कृते आत्मत्वेन तदविशेषात् आत्मान्तरस्यापि तत्फलभोक्तृत्वं कथं न स्तान्? इत्यर्थः। देहातिरिक्तस्यात्मनः फलभोक्तृत्वाभावात् एतद्‌देहनाशे पापफलभोगस्यासम्भवाच्च यथेच्छमाचरतेति भावः॥ 17.51 ॥
मृतः स्मरति कर्माणि मृते कर्मफलोर्मयः।
अन्यभुक्तैर्मुते तृप्तिरित्यलं धूर्त्तवार्त्तया॥ 17.52 ॥
अन्वयः–`मृतः कर्माणि स्मरति, मृते कर्मफलोर्मयः, अन्यभुक्तैः मृते तृप्तिः’-इति धूर्त्तवार्त्तया अलम्।
जीवातु–नन्वत्रागमो बलवदस्ति प्रमाणमत् आह–मृत इति। मृतः परेतः, कर्माणि स्वकृतानि, स्मरति आध्यायति, मृते परेते जन्तौ, कर्मणां पापपुण्याद्यनुष्ठानानां, मलोर्मयः सुखदुःखसन्तानाः, भवन्तीति शेषः। अन्युभुक्तैः श्राद्धादिषु ब्राह्मणभोजनैः मृते प्रेते, तृप्तिः सन्तोषः, भवति इति शेषः। इति पवं, धूर्त्तवार्त्तया धूर्त्तानां परप्रतारणया स्वस्य उपजीविकां निर्वाहतां, वार्त्तया वृत्तान्तेन, वाक्येन इति यावत्, अलं निष्प्रयोजनम्, आगमोऽषि कस्याचित् प्रलाप एव, अतो न विश्वसितव्यम् इति भावः। देहात्मवादिमते देहनाशे स्मृतिभोग तृप्तीनां सामानाधिकरण्यासम्भवात् तादृशवाक्यमप्रामाणिकमिति भवाः॥ 17.52 ॥
एकं सन्दिग्धयोस्तावद्‌ भावि तत्रेष्टजन्मनि।
हेतूनाहुः स्वमन्त्रादीनसाङ्गानन्यथा विटाः॥ 17.53 ॥
अन्वयः–संदिग्धयोः एकं तावत् भावि, तत्र इष्टजन्मनि विटाः स्वमन्त्रादीन् हेतून् आहुः अन्यथा असाङ्गान् (आहुः)।
जीवातु–धौर्त्त्यप्रकारमेवाह-एकमित्यादि। सन्दिग्धयोः सम्भवासम्भवाभ्यां संशयितयोः, पुत्रादिलाभालाभरूपेष्टफलयोर्मध्ये इति भावः। एकम् इष्टनिष्टं वा अन्यतरत् फलमिति शेषः। ताबत् अवश्यमेव, भावि भविष्यति, तत्र तयोर्मध्ये, इष्टजन्मनि इष्टसिद्धौ सति, विटाः धूर्त्ताः, स्वमन्त्रादीन् निजमन्त्रादिप्रयोगान्, हेतून् कारणभूतान्, आहुः वदन्ति, मयैतन्मन्त्रजपादिकं कृतं तत एव तव, पुत्रादीष्टलाभोऽभूदिति आत्मश्लाघां कुर्वन्तीति भावः। अन्यथा तदसिद्धौ, असाङ्गान् अङ्विकलान्, हेतून् आहुः इति पूर्ववाक्येनान्वयः। कार्योपयोगिनां तत्तद्वस्तूनामभावादेव फलं नाभूदिति गृहस्थस्य दोषं प्रकटयन्तीति भावः॥ 17.53 ॥
जनेन जानताऽस्मीति कार्य नायं त्वमित्यसौ।
त्याज्यते ग्राह्यते चान्यदहो! श्रुत्याऽतिधूर्त्तया॥ 17.54 ॥
अन्वयः–अहो, अतिधूर्त्तया श्रुत्या `कायम् अस्ति’-इति जानता जनेन `अयं त्वं न’–इति असौ त्याज्यते अन्यत् च ग्राह्यते।
जीवातु–इत्थं कर्मकाण्डं विडम्ब्याज्ञानकाण्डं विडम्बयति, जनेनेति। अतिधूर्त्तया अतिप्रतारिकया, श्रुत्या वेदेन, प्रयोजककर्त्र्या। कायं देहम्, अस्मि अहम्, इति जानता अवगच्छता, गौरोऽहं कृशोऽहमित्याद्यहं प्रत्ययविषयः देहः एव, न तु तदतिरिक्तः कश्चिदिति देहमेवात्मानं मन्यमानेनेत्यर्थः। जनेन पुंसा, प्रयोज्येन। अयं कायः, त्वम् आत्मा, न, भवतीति शेषः, इति अस्माद्धेतोः, असौ कायः, त्याज्यते हाष्यते, `अहं’ प्रत्ययविषयत्वेन कायः परित्याज्यते इत्यर्थः। अन्यत् अपरं, देहात् अन्यत् आत्मलक्षणं वस्तु इत्यर्थः। ग्राह्यते स्वीकार्यते च, `अहं’ प्रत्ययविषयतयेति शेषः। तत्त्वमसीत्यादिवाक्यैः अङ्गीकार्यते च इत्यर्थः। इत्यहो आश्चर्यम्! सत्यस्य असत्यकरणात् य्सत्यस्य सत्यकरणाच्च आश्चर्यमेतत्॥ 17.54 ॥
एकस्य विश्वपापेन तापेऽनन्ते निमज्जतः।
कः श्रौतस्यात्मनो भीरो! भरः स्याद्‌दुरितेन ते?॥ 17.55 ॥
अन्वयः–विश्वपापेन अनन्ते तापे निमज्जतः श्रौतस्य एकस्य आत्मनः ते भीरो, दुरितेन कः भरः स्यात्?
जीवातु–एकस्येति। विश्वेषां यावतां संसारिणां, पापेन परदारगममनादिरूपविविधपातकेन, अनन्तेऽक्षये, तापे नरकादिदुःखे, निमज्जतः अवगाहमानस्य, यावल्लोककृतपापजन्यानन्तदुःखमनुभवतः इत्यर्थः। श्र तस्य `एकमेवाद्वितीयं ब्रह्मा’, `नेह नानाऽस्ति किञ्चन’ इत्यादि श्रुतिसिद्धस्य, एकस्य परमार्थतोऽद्वितीयस्य, हेतुगर्भविशेषणमेतत्। तथा हि-यतः सर्वदेहेतु आत्मा एक एव, अतः यावद्‌देहावच्छेदे कृतानां यावत्पापानां फलभोक्ता स एवेति भावः। ते तव, त्वदुक्तस्य इत्यर्थः। आत्मनः परमात्मसंज्ञकस्य, भीरो! हे पापभयशील! दुरितेन पापेन, परदारगमनरूपैकमात्रपातकेन इति भावः। को भरः भारः स्यात्? भवेत्? देहातिरिक्तैकात्मवादिमते नानादेहोपाधिकृतनानापापसम्बन्धवत् आत्मनः एकेन पापेन न कोऽपि भारः स्यात् अतः यथेच्छं पापं कुरु इति निष्कर्षः॥ 17.55 ॥
किन्ते वृन्तहृतात् पुष्पात् तन्मात्रे हि फलत्यदः।
न्यस्य तन्मूद्‌र्ध्न्यनन्यस्य न्यास्यमेवाश्मनो यदि॥ 17.56 ॥
अन्वयः–वृन्तहृतान् पुष्पात् ते किम् हि अदः तन्मात्रे फलति? यदि अश्मनः मूर्ध्नि न्यास्य तत् अनन्यस्य एव न्यस्य।
जीवातु–किमिति। हे याजक! वृन्तहृतान् बन्धनावचितात् पुष्पातु चम्पकादिकुसुमात् पुष्प वृन्तच्युतं कृत्वा इत्यर्थः। ल्यब्‌लोपे पञ्चमी। ते त्वया, किं कुत्सितं कर्म कृतमित्यर्थः। `किं कुत्सायां बितर्के च निषेधप्रश्नयोरपि’ इति मेदिनी। हि यतः, अदः इदं पुष्पं, मन्मात्रे तस्मिन् वृन्ते एव, फलसि फलकूपेण परिणमति, न त्वन्यत्र। पुष्पं वृन्तच्युतं कृत्वा फलव्याधातसम्पादनाद्दोष एव कृतस्त्वयेति भावः। अथ अश्मनः देवताधिष्ठितस्य शालग्रामादिप्रस्तरस्य, मूर्ध्नि शिरसि, न्यास्यम् अर्पणीयम् एव, यदि `ऋहलोर्ण्यत्’ देवतापूजादिप्रयोजनमेव तत्कारणं चेदित्यर्थः। तत् तर्हि, अनन्यस्य तादृशप्रस्तरादभिन्नस्य स्वस्य एव, मूर्ध्नि न्यस्य निधेहि अस्यतेर्लोटि सिचि हेर्लुक्। `सर्वं विष्मुमयं जगत्’ इत्यादिवादिभवन्मते भेदस्य कालपनिकतया सर्वत्रैव ईश्वरस्य वर्त्तमानतया च विष्णुशिलातः त्वच्छिरसः अभिन्नत्वात् अन्योपासः नापेक्षया वरं स्वमुपभोग इति भावः॥ 17.56 ॥
तृणानीव घृणावादान् विधूनय वधूरनु।
तवापि तादृशस्यैव का चिरं जनवञ्चना?॥ 17.57 ॥
अन्वयः–वधूः अनु घृणावादान् तृणानि इव विधूनय, तव अपि तादृशस्य एव चिरं जनवञ्चना का?
जीवातु–तृणानीति। वधूः कामिनीः, अनु लक्षीकृत्य, स्त्रीविषये इत्यर्थः। घृणावादान् `हासोऽस्थिसन्दर्शनमक्षियुग्ममत्युज्ज्वलं तत् कलुषं वसायाः। स्तनौ च पीनौ पिशितौ च पिण्डी स्थानान्तरे किं नरकोऽपि योषित्॥’ इत्यादिजुगुप्सावाक्यनि, `घृणा जुगुप्साकृपयोः’ इति यादवः। तृणानि इव असारतया यवसानीव विधूनय विसर्जय। `धूञ्प्रीञोर्नुग्वक्तव्यः’। तव अपि भवतोऽपि, तादृशस्य नारीवत् असारतया जुगुप्सितस्य एव सतः, चिरम् अत्यन्त, जनवञ्चना स्त्रीविषये-विरक्तिसूचकप्रलापैः, लोकप्रतारणा, का? किमर्थ? स्त्रीणां याद्दशा निन्दावादाः तादृशास्तवापि, अतः स्त्रीनिन्दया लोकवञ्चना न युक्तेति भावः॥ 17.57 ॥
कुरुध्वं कामदेवाज्ञां ब्रह्माद्यैरप्यलङ्घिताम्।
वेदोऽपि देवकीयाज्ञा ततत्राज्ञाः! काऽधिकार्हणा?॥ 17.58 ॥
अन्वयः–अज्ञाः, ब्रह्माद्यैः अपि अलङ्घिता कामदेवाज्ञां कुरुध्वम्; वेदः अपि देवकीया आज्ञा, तत्र अधिका अर्हणा का?
जीवातु–कुरुध्वमिति। अज्ञाः! हे मूढाः! ब्रह्माद्यैः विधातृप्रभृतिभिरपि, अलङ्घिताम् अनतिक्रान्तां, कामदेवस्य कामः कन्दर्प एव, देवः देवता, तस्य आज्ञां नारीवशीभूतत्वरूपमादेशं, कुरुध्वं पालयत। न चायमवैदिकाचार इत्याह-वेदः अपि श्रुतिरपि, देवस्य इयं देवकीया देवतासम्बन्धिनी, `गहादिभ्यश्च’ इति छप्रत्यये `देवस्य च’ इति कुग्‌वक्तव्यः आज्ञा शासनं, `श्रुतिः स्मृतिर्ममैवाज्ञा’ इति भगवद्वचनादिति भावः। तत्र देवाज्ञारूपे वेदे, अधिका कामदेवाज्ञातो बलवतीत्यर्थः। अहंणा पूजा, समादेवाज्ञा एव कार्या ब्रह्माद्यैरप्यङ्गीकृत्वेन शिष्टपरिगृहीतत्वरूपप्रामाण्यात् प्रत्यक्षसुखहेतुत्वाच्चेति भावः॥ 17.58 ॥
प्रलापमपि वेदस्य भागं मन्यध्वमेव चेत्।
केनाभाग्ये दुःखान्न विधीनपि तथेच्छथ?॥ 17.59 ॥
अन्वयः–वेदस्य एव भाग प्रलापम् अपि मन्यध्वं चेत्, केन अभाग्येन दुःखान् विधीन् अपि तथा न इच्छुथ।
जीवातु–प्रलापमिति। हे मूढाः! वेदस्य भागम् अंशविशेषम्, अर्थवादात्मकमिति भावः। प्रलापम् अनर्थकं वचः, अपि प्रश्ने, मन्यध्वं जानीथ एव, चेत् यदि, तदा केन कीदृशेन, अभाग्येन भाग्यविपर्ययेण, विधिभागम् अपि, तथा तद्वत् प्रलापान् इत्यर्थः। न इच्छथ? न मन्यध्वम्? एकदेशोपहतान्नराशिवत् कृत्स्नस्यापि अनुपादेयत्वादिति भावः॥ 17.59 ॥
श्रुतिं श्रद्दध्वं विक्षिप्ताः प्रक्षिप्तां ब्रूथ च स्वयम्।
मीमांसामांसलप्रज्ञास्तां यूपद्विपदापिनीम्॥ 17.60 ॥
अन्वयः–मामांसामांसलप्रज्ञाः; विक्षिप्ताः, श्रुतिं श्रद्दध्वम् स्वयं च यूपद्विपदापिनी तां प्रक्षिप्तां ब्रूथ।
जीवातु–श्रुतमिति। हे मीमांसया जैमिनिप्रोक्ततत्त्वनिर्णायकग्रन्थभेदाध्ययनेन मांसलप्रज्ञाः! परिपुष्टबुद्ध्यः! स्थूलबुद्धयः! इति परिहासोक्तिः। विक्षिप्ताः वादिनिराकृताः भ्रान्ताः सन्तः, श्रुतिं वेदं, श्रद्धध्वं विश्वसिथ, अथ च यूपद्विपदापिनीं यूपसम्बन्धिहस्तिदानप्रतिपादिकां, यूपे यूपे हस्तिनो वद्‌ध्वा ऋत्विग्ब्यो दद्याद्’ इत्यादिवादिनीमित्यर्थः। तां श्रुतिं, स्वयम् आत्मनैव, वेदप्रामाण्यं स्वीकुर्वाणः स्वयमेव इत्यर्थः। प्रक्षिप्तां विप्लुतार्थां केनचित् लुब्धेन वैदान्तर्निवेशितां न तु ईश्वरप्रणीतामित्यर्थः। ब्रूथ च वदथ च, तत् कुतो वेदस्य प्रामाष्यमिति भावः॥ 17.60 ॥
को हि वेत्ताऽस्त्यमुष्मिन् वा लोक इत्याह या श्रुतिः।
तत्प्रामाष्यादमुं लोकं लोकः प्रत्येति वा कथम्?॥ 17.61 ॥
अन्वयः–क- हि वा अमुष्मिन् लोके वेत्ता अस्ति-इति श्रुतिः आह, तत्प्रामाण्यात् अमुंलोकं वा लोकः कथं प्रह्येति?
जीवातु–को हीति। किञ्च, को हि वा को जनः अमुष्भिन्, लोके परलोकविषये, वेत्ता ज्ञाता, अस्ति? विद्यते? न कोऽपि परलोकतत्त्वाभिज्ञ इत्यर्थः। इति एवं, या श्रुतिः वेदः, आह कथयति, तस्याः एवं सन्दिहानायाः श्रुतेः, प्रामाण्यात् प्रमाणावलम्बनात्, अमुं लोकं परलोकं, लोकः जनः, कथं वा केन वा प्रकारेण, प्रत्येति? विश्वसिति? न प्रत्ययार्हः परलोक इत्यर्थः। अतः प्रतिष्ठावादिनी श्रुतिर्न श्रद्धेया इति भावः॥ 17.61 ॥
धर्माधर्मौ मनुर्जल्पन्नशंक्यार्जनवर्जनौ।
व्याजान्मण्डलदण्डार्थी श्रद्‌दधायि मुधा बुधैः॥ 17.62 ॥
अन्वयः–अशक्यार्जनवर्जनौ धर्माधमौं जल्पन् व्याजात् मण्डलदण्डार्थी मनुः बुधै। मुधा श्रद्‌दधायि।
जीवातु–एवं श्रुतेरप्रामाण्यमुक्त्वा स्मृतेरप्याह–धर्मेत्यादि। व्याजात् कैतवात्, धर्माधर्मोपदेशमपदिश्येत्यर्थः। मण्डलस्य राष्ट्रस्य, राष्ट्रवासिलोकस्येत्यर्थः। दण्डार्थी दमार्थी, शासननिमित्तमित्यर्थः। लोकस्य विधिनिषेधातिक्रमजन्यमपराधं निमित्तीकृत्य प्रायश्चित्तादिद्वारा, धनाभिलाषुकः सन् इति भावः, अशक्ये कर्त्तुः असाध्ये, अर्जनवर्जने यथासङ्ख्यं करणाकरणे ययोः तादृशौ, धर्माधर्मौ पुण्यपापे, धर्मो अर्जनवर्जने यथासङ्ख्यं करणाकरणे ययोः तादृशौ, धर्माधर्मौ पुण्यपापे, धर्मो यागादिकः बहुधनव्ययायाससाध्यत्वात् अर्जितुमशक्यः, अधर्मः परदारादिगमनाद्यात्मकः इन्द्रियनिग्रहं कर्त्तुमशक्यत्वात् सुखकारणत्वाच्च वर्जितुमशक्य इति भावः। जल्पन् कथयन् यथासङ्ख्यम् अर्ज्यत्वेन वर्ज्यत्वेन च उपदिशन् इत्यर्थः। मनुः आदिस्मृतिकर्त्ता, बुधैः विद्विद्भिः, मुधा वृथैव, श्रद्दधायि श्रद्धितः, आद्दत इत्यर्थः। परदाराभिगमनादिरूपमधर्मं प्रत्यक्षसुखजनकतया सर्वं एवाचरन्ति इति ज्ञात्वा तज्जन्यकल्पितदुरितपरिहारमपदिश्य धनलाभार्थं प्रायश्चित्तात्मको दण्डो मनुना विहितः, न तु तदधर्मम्, अतो मनुवचनमूला स्मुतिर्न प्रमाणमिति भावः॥ 17.62 ॥
व्यासस्यैव गिरा तस्मिन् श्रद्धेत्यद्धा स्थ तान्त्रिकाः।
मत्स्यस्याप्युपदेश्यान् वः को मत्स्यानपि भाषताम्॥ 17.63 ॥
अन्वयः–व्यासस्य एव गिरा तस्मिन् श्रद्धा-इति अद्धा तान्त्रिकाः स्य। मत्स्यस्य उपदेश्यान् वः मत्स्यान् कः भाषताम् अपि?
जीवातु–व्यासस्येति। व्यासस्य धीवरकन्याव्यभिचारोत्पन्नस्य भ्रातृपत्न्यां सुतोत्पादयितुः स्वयमेव व्भिचाररतस्य पराशरपुत्रस्यैव, गिरा वाचा, पुराणवाक्येन, मनुक्तं ग्राह्यम् इत्युक्त्या वा इत्यर्थः। तस्मिन् परलोके धर्मे वा, श्रद्धा आदरबुद्धिः, इति एवं, तान्त्रिकाः शास्त्रवेदिनो युक्तिज्ञाः। `तद्‌धीते तद्वेद’ इति ठक्। स्थ भवथ, इति अद्धा सत्यम्। पुराणसामान्यमुपहस्य विशेषपुराणमुपहसति–मत्स्यस्य मीनस्यापि, मत्यरूपधारिणो विष्णोर्वाक्यरूपस्य मत्स्यपुराणस्यापीत्यर्थः। उपदेश्यान् अनुसासनीयान्, अत एव मत्स्यान्, मत्स्यपायान्, वः युष्मान्, कः सूधीः, अपि प्रश्ने, भाषताम्? आलपति? न कोऽपि इत्यर्थः। मत्स्याः कस्यापि न सम्भाष्याः इति भावः। मत्सयः उपदेष्टा इति स्वकपोलकल्पितं वदनं व्यासो न श्रद्धेयवचन इति तात्पर्यम्॥ 17.63 ॥
पण्डितः पाण्डवानां स व्यासश्चाटुपटुः कविः।
निनिन्द तेषु निन्दत्सु स्तुवत्सु स्तुतवान्न किम्?॥ 17.64 ॥
अन्वयः–पाण्डवानां चाटुपटुः कविः सः व्यासः तेषु निन्दत्सु न निनिंद किम्, स्तुवत्सु स्तुतवान् न किम्?
जीवातु–पुनर्व्यासमेव विडम्भयति-पण्डित इत्यादि। पाण्डवानां युधिष्ठिरादीनां, चाटुपुटुः मिथ्यास्तुतिवादकुशलः कविः उत्प्रेक्षितार्थवर्मयिता, पण्डितः पण्डितमानी, स भवतामाप्ततम इत्यर्थः। व्यासः महाभारतकारः, अपि इति शेषः। तेषु पाण्डवेषु, निन्दत्सु दुर्योधनादीन् आक्षिप्तसु, न निनिन्द किम्? न परिववाद किम्? दुर्योधनादीनिति सेषः। तेषु पाण्डवेषु, स्तुवत्सु कृष्णादीन् स्तृतिं कुर्वत्सु सत्सु, न स्तुतवान् किम्? स्तुतिं न कृतवान् किम्? कृष्णादीनिति शेषः तेषां निन्द्यान् निन्दन् स्तुत्यांश्च स्तुवन् व्यासोऽपि पाण्डवपक्षपाती कश्चित् कविर्न आप्ततमः यथार्थवादीति भावः॥ 17.64 ॥
न भ्रातुः किल देव्यां स व्यासः कामात् समासजत्।
दासीरतस्तदासीद्यन्मात्रा तत्राप्यदेशि किम्॥ 17.65 ॥
अन्वयः–सः व्यासः भ्रातुः देव्यां कामात् न समासजत् किल? यत् तदा दासीरतः आसीत्, तत्र अपि किं मात्रा अदेशि?
जीवातु–कामचारी च स इत्याह-नेति। सः प्रसिद्धपारदारिकाः, व्यासः सत्यवतीनन्दनः भ्रतुः विचित्रवीर्यस्य देव्यां महिष्यां, कामात् स्मरावेगात्, न समासजत् किल? न आसक्तः किम्? गुर्वनुज्ञानान्त दोषश्चेत् तत्राहतदा तत्काले, विचित्रवीर्यस्य पत्न्यां सुतोत्पत्तिकाले इत्यर्थः। दासीरतः दास्यां विदुरमातरि, रतः आसक्तः, आसीत् अभूत्, विदुरोत्पादायेति भावः। इति यत् तत्रापि दासीगमनेऽपि, मात्रा सत्यवत्या, अदेशि किम्? आदिष्टां किम्? अपि तु नादिष्ट इत्यर्थः। उभयत्रैव कामपरवशत्वात् प्रवृत्तस्य एवम्भूतदुश्चरित्रजनस्याप्ततमत्वासम्भवात् तद्वचनमप्रमाणमिति भावः॥ 17.65 ॥
देवैर्द्विजैः कृता ग्रन्थाः पन्था येषां तदादृतौ।
गां नतैः किं न तैर्व्यक्तं ततोऽप्यात्माऽधरीकृतः॥ 17.66 ॥
अन्वयः–देवैः द्विजैः कृताः ग्रन्थाः येषां तदादृतौ पन्थाः, गां नतैः तैः ततः अपि व्यक्तं किम् आत्मा न अधरीकृतः?
जीवातु–देवैरिति। हे मूढाः! येषां वः, देवैः ब्रह्मादिभिः, द्विजैः व्यासादिभिश्च, कृताः रचिताः, ग्रन्थाः पुस्तकानि, `गां प्रणमेत्’ इत्यादि स्मृतयः इति यावत्। पन्थाः प्रमाणं, धर्माधर्मोपदेष्टा इत्यर्थः। तदादृतौ तदादरनिमित्तं, तस्मिन् ग्रन्थे श्रद्धाहेतोरित्यर्थः। निमित्तार्थे सप्तमी। गां धेनुं नतैः प्रणतैः तैः भवद्भिः, ततः गोः अपि, आत्मा स्वं, व्यक्तं स्फुटम्, अधरोकृतः हीनीकृतः, न किम्? अपि तु कृतः एव इत्यर्थः। पशुप्रणामात् पशोरपि निकृष्टता स्यात्, न चास्य किञ्चित् फलमस्तीति भावः॥ 17.66 ॥
साधु कामुकता मुक्ता शान्तस्वान्तैर्मखोन्मुखैः।
सारङ्गलोचनासारां दिवं प्रेत्यापि लिप्सुभिः?॥ 17.67 ॥
अन्वयः–शान्तस्वान्तैः मखोन्मुखैः प्रेत्य अपि सारङ्गलोचनासारां दिवं लिप्सुभिः कामुकता साधु मुक्ता।
जीवातु–साध्विति। शान्तस्वान्तैः संयतचित्तैः, विषयभोगनिवृत्तचित्तैरित्यर्थः। मखोन्मुखैः क्रतुप्रवणैः, याज्ञिकैरित्यर्थः। प्रेत्य मृत्वाऽपि, अन्ये तु इह जन्मन्येव परस्त्रीकामुकाः, याज्ञिकास्तु परजन्मन्यपि कामुका इति अपेरर्थः। सारङ्गलोचनाः मृगाक्ष्यः स्त्रियः एव, साराः श्रेष्ठांशाः यस्यां तादृशीं, दिर्व स्वर्गं, लिप्सुभिः लब्धुमिच्छुभिः सद्भिः कामुकता अभिस्त्रिरतिः, कामपरतन्त्रता इत्यर्थः। साधु सम्यक् यथा तथा, मुक्ता? त्यक्ता? इति काकुः नैव त्यक्ता इत्यर्थः। इति सिद्धं विहाय साध्यप्रवृत्तेरुपहासः। तस्मात् यागकाले ब्रह्मचर्यादिकम् आत्मवञ
्चनमात्रफलं न चान्यत् किमपि इति भावः॥ 17.67 ॥
उभयी प्रकृतिः कामे सज्जेदिति मुनेर्मतम्।
अपवर्गे तृतीयेति भणतः पाणिनेरपि॥ 17.68 ॥
अन्वयः–उभयी प्रकृतिः कामे सज्जेत्-इति `अपवर्गे तृतीया’ इति भमतः मुनेः पाणिनेः अपि मतम्।
जीवातु–उभयीति। `अपपर्गे तृतीया’ इति मणतः कथयतः, सूत्रं कुर्वतः इत्यर्थः। पाणिनेः तदाख्यस्य प्रसिद्धवैयाकरणस्य, मुनेः, ऋषेरपि, उभपी प्रकृतिः स्त्रीपुंसात्मिका द्वीयी योनिः, कामे कामात्मके तृतीयपुरुषार्थे कामासक्तो भवेदित्यर्थः। इति मतम् अभिप्रायः स्फुटमेव इत्यर्थः। तथा तृतीया प्रकृतिः शण्ढः, क्लीब षण्ढो नपुंसकम्’ इत्यमरः अपवर्गे मोक्षे, नपुंसकत्वेन मैयुनाशक्तत्वात् ब्रह्मवर्यादिद्वारा मोक्षलाभायेत्यर्थः। सज्जेत् इति पाणिनिसूत्रार्थेन उभयी प्रथमद्वितीया, प्रकृतिः स्त्रीपुंसात्मिका योनिरित्यर्थः। कामे सज्जेत् इति पारिशेष्याद् बोध्यते इति भावः। सूत्रस्थशब्दच्छलेन तादृशविकृतार्थं परिकल्प्या स्वमतसमर्थनं कृतम्, वस्तुतस्तु `अपवर्गे फलप्राप्तौ तृतीया विभक्ति’रिति तत्त्रसूत्रस्यार्थः। तथा च वृथा कामं विहाय अपवर्गे प्रवर्त्तमाना यूयं नपुंसका हताः स्थेति भावः॥ 17.68 ॥
बिभ्रत्युपरि यानाय जनाः जनितमज्जनाः।
विग्रहायाग्रतः पश्चाद्‌गत्वरोरभ्रविभ्रमम्॥ 17.69 ॥
अन्वयः–उपरि यानाय जनितमज्जनाः जनाः अग्रतः विग्रहाय पश्चाद्‌गत्वरोरभ्रवीभ्रमं बिभ्रति।
जीवातु–बिभ्रतीति। उपरि यानाय ऊद्‌र्ध्वलोकगमनाय, जनितमज्जनाः निमग्नाः, तीर्थोदकेषु कृतस्नानाः इत्यर्थः। अधः गच्छन्तः इति भावः। जनाः स्वर्गार्थिनो लोकाः, अग्रतः पुरतः, सम्मुखे इत्यर्थः, विग्रहाय युद्धाय, सम्मुखयुद्धाय इत्यर्थः, पश्चाद्‌गत्वराणां पश्चाद्‌गामिनाम्। `गत्वरश्च’ इति क्वरबन्तो निपातः, उरभ्राणां मेषाणां, विभ्रममिव विभ्रमं चेष्टां, बिभ्रति दधतीति निदर्शनालङ्कारः, स चोद्‌र्ध्वगमनाय अधो गच्छत इति स्थूलबुद्धीनां स्थूलबुद्धिप्रयासौरूपविचित्रालङ्गारोत्थापित इति सङ्करः, तेन् तेषामविमृश्यकारित्वं व्यज्यते इत्यलङ्कारेण वस्तुध्वनिः॥ 17.69 ॥
कः शमः? क्रियतां प्राज्ञाः! प्रियाप्राप्तौ परिश्रमः।
भस्मीभूतस्य देहस्य पुनरागमनं कुतः?॥ 17.70 ॥
अन्वयः–प्राज्ञाः, (प्र+अज्ञाः) शमः कः? प्रियाप्राप्तौ परिश्रमः क्रियतां, भस्मीभूतस्य, देहस्य पुनः आगमनं क्व?
जीवातु–क इति। प्राज्ञः! हे ज्ञावन्तः! इति सोपहासमामन्त्रणं, प्रकृष्टज्ञानहीनाः इत्यर्थः, `प्रज्ञाश्रद्धा’ इत्यादिना मत्वर्थीयो णप्रत्ययः शमः शान्तिः, वैराग्यमित्यर्थः, कः? न कोऽपीत्यर्थः। शमावलम्बनस्य न किमपि फलमस्तीति भावः। प्रियाप्राप्तौ इष्टस्त्रीसङ्गतौ, परिश्रमः प्रयासः, क्रियतां विधीयताम्। न च त्पापेन नरकयातनाप्राप्तिशङ्का कार्येत्याह-भस्मीभूतस्य दग्धस्य, देहस्य कायस्य, आत्यभूतस्य इति यावत्। पुनः भूयः आगमनं परलोके प्रत्यावर्त्तनं, कुतः? कथं सम्भवेदित्यर्थः?। देहात्मवादिमते पलोकसद्भावेऽपि यस्मिन्, देहे पापं कृतं तस्यैव भस्मीभूतत्वेन कथं पापफलभोगसम्भवः? देहातिरिक्तात्मवादिमते तु परलोकस्यैवाभावात् पापफलभोगार्थं कृमिकीटादिदेहप्राप्तिः कथं सम्भवेत्? इति पुनरुद्भवः भ्रम एव इति निष्कर्षः॥ 17.70 ॥
एनसाऽनेन तिर्य्यक् स्यादित्यादिः का विभीषिकाः?।
राजिलोऽपि हि राजेव स्वैः सुखी सुखहेतुभिः॥ 17.71 ॥
अन्वयः–अने एनसा तिर्यक् स्यात् इत्यादिः का विभीषिका, हि राजिलः अपि स्वैः सुखहेतुभिः राजा इव सुखी?
जीवातु–अस्तु वा नरकभोगार्थं यातनाशरीरं तत्रापि सुखमेवेत्याह–एनसेति। अनेन एवंविधेन, एनसा पापेन, निर्यक् कृमिकीटादियातनाशरीरं स्याद् भवेत्, इत्यादिः एतत्प्रभृतिः, का विभीषिका? किं त्रासनम्? अनिष्टाजनकत्वात् तदकिञ्चित्करमित्यर्थः, विपूर्वात् भीषयतेर्धात्वर्थनिर्देशे ण्वुल् कात् पूर्वस्येकारः। हि तथा हि, राजिलः डुण्डुभाख्यः निर्विषः सर्पोऽपि। `समौ राजिलडुण्डुभौ’ इत्यमरः। स्वैः आत्मीयैः, स्वजात्यनुरूपैरित्यर्थः। सुखहेतुभिः जलविहारभेकभक्षणसजातीयरमणीसम्भोगादिभिः सुखसाधनैः, राजा इव नृपतिवत्, सुखी सुखवान्, सुखमनुभवतीत्यर्थः। तिरश्चामपि शरीरेन्द्रियाभिमानिनां सुखानुभूतिरस्ति। अतः तिर्यग्योनित्वे प्राप्तेऽपि तद्धेतोः पापात् न भेतव्यम् इति भावः॥ 17.71 ॥
हताश्चेद्दिवि दीव्यन्ति दैत्या दैत्यारिणा रणे।
तत्रापि तेन युध्यन्तां हता अपि तथैव तु॥ 17.72 ॥
अन्वयः–रणे हताः दिवि दीव्यन्ति चेत्, दैत्यारिणा हताः दैत्यः अपितु तत्र अपि तेन तथा एव युध्यन्ताम्।
जीवातु–अन्यच्च शास्त्रं विडम्बयति-हता इति। रणे युद्धे, हताः विनष्टाः, शूरा इति शेषः। दिवि स्वर्गे, दीव्यन्ति क्रीडन्ति, चेत् यदि, दिव्यदेहं प्राप्येति भावः। तर्हि दैत्यारिणा विष्णुना, हताः रणे विनष्टाः, दैत्याः असुराः, पापकारिण इति भावः। तत्रापि स्वर्गेऽपि, तेन विष्णुना सह, युध्यन्तां युध्येरन्, रणे हतत्वात् दिव्यदेहं प्राप्य इति भावः। यस्मात् हता रणे विनष्टा अपि, ते दैत्याः, तथैव सम्मुखरणहतत्वात् स्वर्गे जीवनविशिष्टा एव; मरणसमयेऽपि दैत्यारिणा सह शत्रुभावस्य हृदये वर्त्तमानतया स्वर्गगमनेऽपि असुरभावस्य वर्त्तमानत्वात्, तत्रापि तेन सह सङ्ग्रामयितव्यमेव, न चैतदस्ति, तस्मादपि शास्त्रं मृषा इति निष्कर्षः॥ 17.72 ॥
स्वञ्च ब्रह्म च संसारे मुक्तौ तु ब्रह्म केवलम्।
इति स्वोच्छित्तिमुक्त्युक्तिवैदग्धी वेदवादिनाम्॥ 17.73 ॥
अन्वयः–संसारे स्वं च ब्रह्मा च, मुक्तौ तु केवलं ब्रह्मा; इति वेदवादिनां स्वोच्छित्तिमुक्त्युक्तिवैदग्धी।
जीवातु–अथ मायावादिवेदान्तसिद्धान्तविशेषं विडम्बयति-स्वमित्यादि। संसारे संसारावस्यायां, स्वञ्च जीवात्मप्रपञ्चश्च, ब्रह्म च अनाद्यविद्याविलासवासनाविद्यामानभेदं ब्रह्म च इति द्वयमेव, तथा मुक्तौ मोक्षावस्थायान्तु, केवलं जीवात्मप्रपञ्चरहितम् एकं, ब्रह्म, उभयत्रापि वर्त्तते इति शेषः। यथा आकाशस्य घटाद्युपाधिनिवृत्तौ घटाकाशादिनिवृत्या आकाशमात्रेणावस्थानं तथा ब्रह्मात्मनः संसारोपाधिनिवृत्तौ जीवात्म्निवृत्या `एकमेवाद्वितीयं ब्रह्म’ इत्यादिना ब्रह्मात्मस्वरूपेणैव अवस्थानं भवतीत्यर्थः। इति वेदवादिनां वेदान्तशास्त्रिणां, स्वस्य जीवस्य, उच्छित्तिः विनाश एव, मुक्ति, मोक्षः, तस्याः उक्तौ प्रतिपादने, वैदग्धी वैदग्ध्यं, वाक्‌चातुर्यमित्यर्थः। `गुणवचन-’ इत्यादिना ष्यञ्, स्त्रीत्वविवक्षायां `षिद्‌गौरादिभ्यश्च’ इति ङीप्। दृश्यते इति शेषः। यस्य जीवात्मनः कृते सर्वमेव, तस्यैव उच्छेदः प्रतिपादित इत्यहो वाक्‌चातुर्यमित्युपहासः॥ 17.73 ॥
मुक्तये यः शिलात्वाय शास्त्रमूचे सचेतसाम्।
गौतमं तमवेतैव यया वित्थ तथैव सः॥ 17.74 ॥
अन्वयः–यः सचेतसां शिलात्वाय मुक्तये शास्त्रम् ऊचे, तं गोतयम् एव अवेत; यथा वित्थ सः तया एव।
जीवातु–न्याय-वैशेषिकसम्मतां मुक्तिं दूषयति–मुक्तये इति। यः शास्त्रकर्त्ता, सचेतसां प्राणिनां, शिलात्वाय सुखदुःखादिसंवेदनाभावात् पाषाणावस्थास्वरूपायै, मुक्तये मोक्षाय, शास्त्रं न्यायशास्त्रम्, ऊचे प्रणिनाय तत्वज्ञानेन मिथ्याज्ञानदोषादीनां क्रमशो विनाशात् `तदत्यन्तविमोक्षोऽपवर्गः’ इति सूत्रेण आत्यन्तिकदुःखनिवृत्तिरूपा मुक्तिः गौतमेन व्यवस्थापिता, तेन च नवविधात्मविशेषगुणोच्छेदरूपा मुक्तिः प्रतिपाद्यते, इत्थञ्च मुक्तस्य पाषाणसदृशत्वमायातमिति भावः। तं तच्छास्त्रकर्त्तारं मुनिं, गोतममेव न केवलं नाम्नैव गोतमं किन्तु अर्थतोऽपि गोतममेव उत्कृष्टगावमेव इत्यर्थः। अवेत जानीति। अवपूर्वादिणो मध्यमपुरुषबहुवचनम्। एवञ्च सति यथा मन्मतेऽपि सः अर्थतोऽपि गोतमः गोपशुश्रेष्ठ एव शिलावस्थास्वरूपमोक्षोपदेशाद् गोतमः पशुतमःष मूढतमः एवेत्यर्थः। यौगिकोऽयं शब्दो न तु योगरूढः, वैशेषिका अपि न्यायमतानुसारीतया तद्रूपा इति भावः॥ 17.74 ॥
दारा हरिहरादीनां तन्मग्नमनसो भृशम्।
किं न मुक्ताः? पनः सन्ति कारागारे मनोभुवः॥ 17.75 ॥
अन्वयः–हरिहरादीनां दाराः भृशं तन्मग्नमनसः किं न मुक्ताः, पुनः मनोभुवः कारगारे सन्ति?
जीवातु–हरिहरहिरण्यगर्भोपासनया मुक्तिरिति मतं निरस्यति-दारा इति। हरिहरादीनां दाराः लक्ष्म्यादयः स्त्रियः, भृशम् अत्यर्थ, तेषु हरिहरादिषु एव, मग्नमनसः लग्नचित्ताः, तद्भावभाविताः सन्तः अपि इत्यर्थः। किं कथं, न भुक्ताः? मोक्षं न प्राप्ताः? प्रत्युत मक्तिः दूरे आस्तां, मनोभुवः कामस्य, कारगारे बन्धनालये। `कारा स्याद् बन्धनालये’ इत्यमरः। पुनः सन्ति सदैव कामपरवशा वर्त्तन्ते, अतो हरिहराद्युपासनया मुक्तिप्रतिपादकं तत्तच्छास्त्रं मिथ्यैवेति भावः॥ 17.75 ॥
देवश्चेदस्ति सर्वज्ञः करुणाभागबन्ध्यवाक्।
तत् किं वाग्व्ययमात्रान्नः कृतार्थयति नार्थिनः?॥ 17.76 ॥
अन्वयः–सर्वज्ञः करुणाभाक् अबन्ध्यवाक् देवः चेत् अस्ति, तत् अर्थिनः नः वाग्व्ययमात्रात् किंन कृतार्थयति?
जीवातु–किञ्च, न्यायमतसिद्ध ईश्वरोऽपि नास्ति यत्प्रसादात् मुच्येमहीत्याह-देव इति। सर्वज्ञः, भूतभविष्यद्वर्त्तमानयावद्वस्तुविषयकज्ञानवान्, करुणाभाक् कारुणिकः, वैषम्यनैर्वृण्यरहितबुद्धिः इत्यर्थः। अबन्ध्यवाक् अमोघवचनः, वेदरूपसत्यवचन इत्यर्थः। यथोक्तार्थसम्पादकवचन इत्यर्थो वा, देवः ईश्वरः, अस्ति विद्यते, चेत् यदि, तत् तर्हि, अर्थिनः मोक्षार्थिनः, नः अस्मान्, वाग्‌व्ययमात्राद् भवन्तो मुक्ता भवन्त्विति वाक्योच्चारणमात्रेण, किं कथं, न कृतार्थयति? न मोचयतीत्यर्थः। स सर्वज्ञादिविशेषणत्रयविशिष्टोऽपि यदि न मोचयितुं समर्थो भवति, तदा स नास्त्येवेति भावः॥ 17.76 ॥
भविनां भावयन् दुःखं स्वकर्मजमपीश्वरः।
स्यादकारणवैरी नः कारणादपरे परे॥ 17.77 ॥
अन्वयः–भविनां स्वकर्मजम् अपि दुःखं भावयन् ईश्वरः नः अकारणवैरी स्यात्, अपरे कारणात् परे।
जीवातु–कर्ममीमांसकमतं दूषयति-भविनामिति। भविनां संसारिणां, स्वकर्मजं निजकर्मजातम् अपि, दुःखं क्लेशं, भावयन् दुःखोत्पत्तौ औदासीन्यं विहाय निमित्तं भवन्, दुःखोत्पत्तौ प्रवर्त्यन् वा ईश्वरः नः अस्माकम्, अकारणात् अहेतो, वैरी शत्रुः, स्यात् भवेत्, अपरे अन्ये, कारणात् अन्योऽन्यापकारलक्षणात् निमित्तात् परे वैरिणः, भवन्ति इति शेषः। अतः सोऽपि न विश्वसनीयः इति भावः॥ 17.77 ॥
तर्काप्रतिष्ठया साम्यादन्योऽन्यस्य व्यतिघ्नताम्।
नाप्रामाण्यं मतानां स्यात् केषआं सत्प्रतिपक्षयन्?॥ 17.78 ॥
अन्वयः–तर्काप्रतिष्ठया समाम्यात् अन्योऽन्यस्य व्यतिघ्नतां केषां मतानां सत्प्रतिपक्षयन् अप्रामाण्यं न स्यात्?
जीवातु–किञ्च, सर्वाण्यप्यास्तितकमतानि परस्परविरोधादप्रामाण्यान्येवेत्याह–तर्केति। तर्कस्य प्रामाण्योपपादकयुक्तेः, अप्रतिष्ठया अनन्ततया, एकत्र परिनिष्ठितत्वाभावेन कारणेन इत्यर्थः। यत् साम्यं तुल्यत्वं, व्याप्तिपक्षतादिरूपसमबलत्वमित्यर्थः। तस्मात् हेतोः, अन्योऽन्यस्य परस्परस्य, व्यतिघ्नता दूषयतां विरोधिप्रमाणसद्भावेन परस्परं फलनिश्चयं प्रतिरुन्धतामित्यर्थः। `सर्वनाम्नी वृत्तिमात्रे द्वे भवतः’ इति अन्यशब्दस्य द्विरुक्तिः, पूर्वपादात् प्रथमैकवचनं, शेषे कर्मणि षष्ठी, कर्मव्यतीहारे द्योतनार्थोऽप्युपसर्गप्रयोगः, `इतरेतरान्योऽन्योपपदाच्च’ इति प्रतिषेधात् कर्मव्यतीहारेऽप्यात्मनेपदाभावः. केषां मतानां दर्शनानां सत्प्रतिपक्षवत् सन् वर्त्तमानः, प्रतिपश्रः विरोधिसाध्यसाधको हेतुर्यस्य स सत्प्रतिपक्षस्तद्वत् मिथः प्रतिरुद्धसाध्यसाधकहेतूनाम्, इव, अप्रामाण्यम् अनैकान्तिकत्वं न स्यात्? अपि तु सर्वेषामेव तत् स्यादेव इत्यर्थः। तथा हि वैशेषिकादयो यथा कार्यत्वहेतुना घटादिदृष्टान्तेन शब्दस्यानित्यत्वं प्रमाणयन्ति, तथा मीमांसका अपि निरवयवत्वादिहेतुना आत्माकाशादिदृष्टान्तेन शब्दस्य नित्यत्वं व्यवस्थापयन्ति, इत्थञ्च तादृशमतद्वयस्य समबलतया एकत्र प्रामाण्यनिश्चयाभावेन च तदुत्तरं मध्यस्थस्य शब्दो नित्यो न वेति संशयोत्पादात् निशअचयरूपफलोत्पादविराहात् तादृशमतद्वये एव अप्रामाण्यज्ञानं जायते इति भावः॥ 17.78 ॥
अकोधं शिक्षयन्त्यन्यान् क्रोधना ये तपोधनाः।
निर्धनास्ते धनायेव धातुवादोपदेशनिः॥ 17.79 ॥
अन्वयः–क्रोधनाः ये तपोधनाः अन्यान् अक्रोधं शिक्षयन्ति निर्धनाः ते धनाय एव धातुवादोपदेशिनः।
जीवातु–अक्रोधमिति। क्रोधनाः स्वयं कोपनशीलाः। `क्रधुमण्डार्थेभ्यश्च’ इति युच्। ये तपोधनाः दुर्वासःप्रभृतयः, अन्यान् इतरान्, अक्रोधं सर्वानर्थहेतुत्वात् क्रोधः। परिहर्त्तव्य इत्यादिना क्रोधपरिहारं, शिक्षयन्ति उपदिशन्ति। `ब्रुविशासि-’ इति द्विकर्मकत्वम्। ते मुनयः, निर्धनाः स्वयं निःस्वाः जनाः, धनाय धनार्थं, धातुवादोपदेशिनः ईदृशप्रक्रियातो लौहः स्वर्णो भवेदित्यादिना परेषां धआतुविद्योपदेष्टारः इव, उपहास्या भवन्ति इति शेषः। धातुविद्योपदेष्टुस्तादृशप्रक्रिया यदि फलवती स्यात् तदा स्वस्य कथं निर्धनत्वमिति स यथा उपहास्यः तद्वत् उपहास्याः स्युरिति भावः॥ 17.79 ॥
किः वित्तं दत्त? तुष्टेयमदातरि हरिप्रिया।
दत्वा सर्वं धनं मुग्धो बन्धनं लब्धवान् बलिः॥ 17.80 ॥
अन्वयः–वित्तं देते हो? यह विष्णुप्रिया (लक्ष्मी) न देने वाले (कृपण) से संतुष्ट रहती है। मूखै बलि को, सब धनं दान कर, बन्धन प्राप्त हुआ था।
जीवातु–किमिति। हे वदान्याः! वित्तं धनं, किं किमर्थं, दत्त? वितरत? न दातव्यमित्यर्थः। सम्प्रश्ने लोट्। न च अदाने लक्ष्मीक्षोभ आशङ्कनीय इत्याह-यतः इयं वित्तरूपा, हरिप्रिया लक्ष्मीः, अदातरि कृपणे एव, तुष्टा प्रसन्ना, अदानेनैव तुष्यतीत्यर्थः। तथा हि, मुग्धः मूढः, दानव्यसनीति भावः। बलिः वैरोचनिः, सर्वं धनं सर्वस्वं, दत्वा प्रदाय, वामनरूपाय विष्णवे इति भावः। बन्धनं संयमनं, लब्धवान् प्राप्तवान्, त्रिविक्रमेण तेनैव बद्धा इत्यर्थः। दानविधायकं शास्त्रमपि तथा प्रमाणम्, एवञ्च कृपणे सम्पद्‌रूपाया लक्ष्म्या अवस्थानदर्शनाद्‌ दानं न कर्त्तव्यमेवेति भावः॥ 17.80 ॥
दोग्धा द्रोग्धा च सर्वोऽयं धनिनश्चेतसा जनः।
विसृज्य लोभसङ्क्षोभमेकद्वा यद्युदासते॥ 17.81 ॥
अन्वयः–अयं सर्वौ जनः घनिनः दोग्धा, चेतसा च द्रोग्धा; लोभसंक्षोभं विसृज्य यदि उदासते, एकद्वा।
जीवातु–दोग्धेति। अयं परिदृश्यमानः, सर्वः निखिलः जनः, लोकः, धनिनः धनिकान् दोग्धा दोहनशीलः, परोपकारस्य कर्त्तव्यताद्युपदेशादिना धनिभ्यो नित्यं धनसंग्रहं करोतीत्यर्थः, तथा चेतसा मनसा, द्रोग्धा च द्रोहकरणशीलश्च, अनिष्टचिन्तनपर इत्यर्थः। कथमेनं वञ्चयित्वा एतस्य धनादिकं संगृह्णीयामित्येवं मनसि तस्यानिष्टं चिन्तयतीति भावः। ताच्छील्ये तृन्, अत एव `न लोक-’ इत्यादिना षष्ठीप्रतिषेधः। कदाचिदेतस्य व्यभिचारोऽपि दृश्यते इत्याह-लोभसङ्क्षोभं धनाभिलाषजन्यं मानसचाञ्चल्यं, विसृज्य विहाय, संयम्य इत्यर्थः। एको द्वौ वा येषां ते एकद्वः, न तु तृतीयः इति भावः। `सङ्ख्ययाव्यय-’ इत्यादिना बहुव्रीहौ, `बहुव्रीहौ सङ्ख्येये’ इति डच्‌समासान्तः। यदि सम्भावनायाम्, उदासते निःस्पृहाः तिष्ठन्ति, तादृशलोभसङ्क्षोभरहितो जनः अत्यल्प एव इति सम्भावयामि इति भावः। तथा च प्रतारकाणामुदरपूरको दानधर्मः सत्पात्राभावात् त्याज्य एवेति निष्कर्षः॥ 17.81 ॥
दैन्यस्यायुष्यमतस्तैन्यमभक्ष्यं कुक्षिवञ्चना।
स्वाछन्द्यमृच्छतानन्द-कन्दलीकन्दमेककम्॥ 17.82 ॥
अन्वयः–अस्तैन्यं दैन्यस्य आयुष्यम्, अभक्ष्यं कुक्षिवञ्चना, आनन्दकन्दलीकन्दम् एककं स्वाच्छन्द्यम् ऋच्छत्।
जीवातु–दैन्यस्येति। अस्तैन्यम् अस्तेयं, चौर्याभावः इत्यर्थः। क्वचित् प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते अहिंसेतिवत्। दन्यस्य दारिद्र्यस्य, आयुषे हितम् आयुष्यं विद्धिकारकमित्यर्थः। चौर्यं विना दैन्यं नापयातीति भावः। हितार्थे यत्-प्रत्ययः। अभक्ष्यं लशुनग्राम्यशूकरादिभोजनविरतिः, कुक्षेः जठरस्य, वञ्चना प्रतारणा एव, सुस्वादुवस्तुभोजनपरित्यागात् जठरमेव वञ्चितं भवति, न तु ततः कश्चित् धर्म इति भावः। अतःआनन्दकनदलीकन्दम् आनन्दाङ्कुरमूलं सकलसुखबीजभूतमित्यर्थः, एककम् एकमात्रम्, असहाये कन्‌प्रत्ययः। स्वाच्छन्द्यं स्वेच्छाचारित्वम्, ऋच्छत अवलम्बध्वम्, श्रुतिस्मृतिपुराणादिप्रतिपादितान् निषेधान् उल्लङ्घ्य सकलसुखनिदानं स्वेच्छाचारित्वमेव कुरुतेति भावः॥ 17.82 ॥
दैन्यस्यायुष्यमतस्तैन्यमक्ष्यं कुक्षिवञ्चना।
स्वाछन्द्यमृच्छतानन्द-कन्दलीकन्दमेककम्॥ 17.83 ॥
अन्वयः–अस्तैन्यं दैन्यस्य आयुष्यम्, अभक्ष्यं कुक्षिवञ्चना, आनन्दकन्दलीकन्दम् एककं स्वाच्छन्द्यम् ऋच्छत्।
जीवातु–दैन्यस्येति। अस्तैन्यम् अस्तेयं चौर्याभावः इत्यर्थः। क्वचित् प्रसज्जप्रतिषेधेऽपि नञ्‌समास इष्यते अहिंसेतिवत्। दन्यस्य दारिद्र्यस्य, आयुषे हितम् आयुष्यं वृद्धिकारकमित्यर्थः। चौर्य विना दैन्यं नापयातीति भावः। हितार्थे यत्-प्रतारणा एव, सुस्वादुवस्तुभोजनपरित्यागात् जठरमेव वञ्चितं भवति, न तु ततः कश्चित् धर्म इति भाः। अतः आनन्दकन्दलीकन्दम् आनन्दाङ्‌कुरमूलं सकलसुखबीजभूतमित्यर्थः। एककम् एकमात्रम्, असहाये कन्‌प्रत्ययः। स्वाच्छन्द्यं स्वेच्छाचारित्वम् ऋच्छत अवलम्बध्वम्, श्रुतिस्मृतिपुराणादिप्रतिपादितान् निषेधान् उल्लङ्ख्य सकलसुखनिदानं स्वेच्छाचारित्वमेव कुरुते भावः॥ 17.83 ॥
लोकत्रयीं त्रयीनेत्रां वज्रवीर्य्यस्फुरत्करे।
क इत्थं बाषते पाक-शासने मयि शासति?॥ 17.84 ॥
अन्वयः–त्रयीनेत्रां लोकत्रयीं वज्रवीर्यस्फुरत्करे मयि पाकशासने शासति कः इत्थं भाषते?
जीवातु–लोकेति। त्रयीनेत्रां बाह्यप्रत्यक्षाविषयपदार्थज्ञापकवेदत्रयचक्षुषं, लोकत्रयीं त्रिलोकीं, वज्रवीर्येण कुलिशप्रभावेण, स्फुरत्कारे दीप्यमानहस्ते, पाकशासने पाकासुरघातिनि, एतेन धर्मदूषकाणां हननसामर्थ्यं स्वस्य सूचितम्। मयि देवेन्द्रे शासति दण्डयति, धर्मसंस्थापनपूर्वंकं पालयति सतीत्यर्थः। क इत्यम् एवं, धर्मदूषणादिरूपमित्यर्थः। भाषते? प्रलपति?॥ 17.84 ॥
वर्णासङ्कीर्णतायां वा जात्यलोपेऽन्यथाऽपि वा।
ब्रह्महादेः परीक्षासु भङ्गमङ्ग! प्रमाणय॥ 17.85 ॥
अन्वयः–वर्णासङ्कीर्णतायां वा अन्यथा अपि जात्यलोपे अङ्ग, ब्रह्महादेपरीक्षासु भङ्गं प्रमाणाय।
जीवातु–`शुद्धं वंशद्वयी शुद्धौ’ इत्यादिश्लोकद्वयेन (1739-40) यत् सर्वस्यैव जातिदूषणमुक्तं तत् परिहरति-वर्णेत्यादि। वर्णानां ब्राह्मणादिवर्णानाम्, असङ्कीर्णतायाम् असाङ्कर्ये वा, योनिसाङ्कर्याभावे वा इत्यर्थः। अन्यथाऽपि प्रकारान्तरेणापि वा, वाणिज्यादिनिषिद्धवृत्त्याश्रयणेन इत्यर्थः, जात्यलोपे जातिभ्रंशाभावे, जातिशुद्धिविषये इत्यर्थः। ब्रह्महादेः ब्रह्महत्यादिकारिणः पापिनः, परीक्षासु तुलादिदिव्यबाधनेषु, भङ्गं पराजयम्, अङ्ग! भोः! प्रमाणय प्रमाणत्वेनावगच्छ इत्यर्थः। यदि ब्राह्मणत्वादिजातिशुद्धिर्न स्यात्, तदा नाहं ब्राह्मणहन्तेति दिव्यकारिणः ब्राह्मणादिहन्तु शुद्धत्वादिज्ञापकेषु स्मृतिशास्त्राद्युक्तेषु जलानलतुलादिव्यशोधनेषु कथं पराजयः स्यात्? अतस्तत्र पराजय एव जातिशुद्धौ प्रमाणमिति भावः॥ 17.85 ॥
ब्राह्मण्यादिप्रसिद्धाया गन्ता यन्नेक्षते जयम्।
तद्विशुद्धिमशेषस्य वर्णवंशस्य शंसति॥ 17.86 ॥
अन्वयः-ब्राह्मण्यादिप्रसिद्धायाः गन्ता यत् जायं न ईक्षते तत् अशेषस्य वर्मवंशस्य विशुद्धं शंसति।
जीवातु–ब्राह्मण्यादीति। किञ्च, ब्राह्मणी आदिः यस्याः सा ब्राह्मण्यादिः क्षत्रियादिस्त्री, सा चासौ प्रसिद्धा चेति तस्याः प्रख्यातब्राह्मण्यादिस्त्रियाः, गन्ता सम्भोक्ता, जन इति शेषः। जयं दिव्यपरीक्षणे जिनविजयं, न ईक्षते न पश्यति, ब्राह्मण्यादिगन्ता परीक्षासु कुत्रापि विजयं न लभते इत्यर्थः। इति यत्, तत् पराजयनम् एव जयादर्शनमेव वा, अशे षस्य सबलस्य, वर्णवंशस्यः ब्राह्मणादिकुलस्य विशुद्धिं मातापित्रादिपरम्परया निर्दोषत्वं, शंसति कथयति, अन्यथा कथं तद्‌गन्तुः पातकित्वशंसी पराजयः? इति भावः॥ 17.86 ॥
जलानलपरीक्षादौ संवादो वेदवेदिते।
गलहस्तितनास्तिक्यां धिग्‌ धियं कुरुते न ते?॥ 17.87 ॥
अन्वयः–वेदविदिते जलानलपरीक्षादौ संवादः ते धियं गलहस्तिनास्तिक्यां न कुरुते? धिक्।
जीवात– जलेति। किञ्च, वेदवेदिते श्रुतिप्रतिपादिते, जलानलपरीक्षादौ जलाग्न्यादिदिव्यशोधनादौ, आदिशब्दात् प्रत्यक्षफलक-कारीर्यादिसंग्रह। संवादः शुद्धाशुद्धवृष्ट्यादिदर्शनरूपः व्यापार इत्यर्थः। ते तव धियं मतिं, गलहस्तेन तुल्यं गलहस्तितं गले हस्तं दत्त्वा बलाद् दूरीकृतम्, नास्तिक्यं परलोको नास्तीत्यादिप्रकारकं ज्ञानं यस्याः ताम् आस्तिक्यबुद्धिमित्यर्थः। न कुरुते? धिक् अतो निन्दामीत्यर्थः। त्वामिति शेषः। `धिङ्निर्भर्त्सननिन्दयोः’ इत्यमरः। वेदबोधितजलदिव्ये तु पापभिशस्तः पुरुषः जले निमज्जता पुरुषान्तरेण आकर्णपूर्णधनुर्मुक्तशरप्रत्यानयनमपेक्षमाणः सन् यदि अप्रत्यानीतशरो जलादुन्मज्जति तदा सः अशुद्धः, प्रत्यानीतशरो यदि उन्मज्जति तदा शुद्ध एव, इत्यमेव च तत्र प्रत्यक्षं दृश्यते इत्येव संवादः। अग्निदिव्योऽपि तप्लोहादौ दाहादाहाभ्याम् अशुद्धिशुद्धी प्रत्यक्षदृश्ये। एवम् अनावृष्ट्यादौ कारीर्यादियागे कृते वृष्टिर्दृश्यते इत्यादिकप्रत्यक्षफलकवेदबोधितकार्यदर्शनात् तव नास्तिक्यबुद्धिर्नापयातीति धिक् इति भावः॥ 17.87 ॥
सत्येव पतियोगादौ गर्भादेरध्रुवोदयात्।
आक्षिप्तं नास्तिकाः! कर्म न किं मर्मभिनत्ति वः?॥ 17.88 ॥
अन्वयः–पतियोगादौ सति एव गर्भादेः अध्रुवोदयात् आक्षिप्तं कर्म नास्तिकाः, किं वः मर्म न भिनत्ति?
जीवातु–सतीति । नास्तिकाः! हे नास्तिपरलोकाः! `अस्ति नास्ति दिष्टं मतिः’ इति ठक्। पतियोगादौ भर्तॉसहवासादिकारणसाकल्ये, सति एव विद्यमानेऽपि, एव शब्दोऽत्र अप्यर्थे बोध्यः। आदिशब्दान्मेघोदयादिप्रत्यक्षीभूतकारणकलापे सत्यपि इति भावः। गर्भादेः अध्रुवोदयात् अनिश्चितोत्पत्तिकत्वात्, कदाचित्कोत्पन्नगर्भादिकार्यादित्यर्थः। आदिशब्दात् वृष्ट्यादिकार्यसग्रहः। आक्षिप्तम् अर्थापत्तिसिद्धम्, अर्थापत्तिप्रमाणसिद्ध स्त्रीपुरुषसहवासादिरूपदृष्टकारणं विनाऽनुपपन्नम् इत्यनुपपत्तिज्ञानरूपादर्थापतिप्रमाणात् प्रमितमित्यर्थः। कर्म धर्माधर्मरूपजन्मान्तरीयादृष्टं, वः युष्माकं नास्तिकानां, मर्म हृदयं,हृद्‌गतसंशयमिति यावत्। न भिनत्ति किम्! न छिनत्ति किम्? एतेनैव अदृष्टमस्तीति बोद्धव्यम् इति भावः॥ 17.88 ॥
याचतः स्वं गायाश्राद्धं भूतस्यविश्य कञ्चन।
नानादेशजनोपज्ञाः प्रत्येषि न कथाः कथम्?॥ 17.89 ॥
अन्वयः–कञ्चन आविश्य स्वं गयाश्राद्धं याचतः भूतस्य नानादेशजनोपज्ञाः कथाः कथं न प्रत्येषि?
जीवातु–यदुक्तम् `अन्यभुक्तैर्मृते तृप्तिरित्यलं धूर्त्तवार्त्तया’ (17/52) इत्यादि, तत्रोत्तरमाह-याचत इति। कञ्चन कमपि जनम्, आविश्य अधिष्ठाय, स्वं स्वकीयं, गयाश्राद्धं गयातीर्थे पिण्डदानं, याचतः प्रर्थयमानस्य, अहं पापवशात् प्रेतयोनिं प्राप्तोऽस्मि, अतो मम सद्‌गत्यर्थ गयायां श्राद्धं त्वया कार्यमित्यादि प्रर्थयमानस्य इत्यर्थः। भूतस्य भूतयोनिं प्राप्तवतः प्रेतस्य सम्बन्धिनीः, नानादेशजनोपज्ञाः नानादेशजनाः विविधदेशवासिलोका एव, उपज्ञा आद्यं ज्ञानं, प्रमाणमिति यावत्। यासां तादृशीः, तत्प्रमाणकाः इत्यर्थः। उपज्ञा आद्य ज्ञानं, प्रमाणमिति यावत्। यासां तादृशीः, तत्प्रमाणकाः इत्यर्थः। `उपज्ञा ज्ञानमाद्यं स्यात्’ इत्यमरः। कथाः उपाख्यानानि, गयाश्राद्धात् अमुकस्य मुक्तिरासीत् इयेवंरूपान् आलापान् इत्यर्थः। कथं न प्रत्येषि? विश्वसिषि? प्रत्येतव्य एवायमर्थः प्रामाणिकसंवादादिति निष्कर्षः॥ 17.89 ॥
नीतानां यमदूतेन नामभ्रान्तेरुपागतौ।
श्रद्धत्से संवदन्तीं न परलोककथां कथम्?॥ 17.90 ॥
अन्वयः–यमदूतेन नामभ्रान्तेः नीतानाम् उपागतौ। संवदन्तीं परलोककथां कथं न श्रद्धत्से?।
जीवातु–`को हि वेत्ताऽस्त्यमुष्मिन्’ (17/61) इत्यादेरुत्तरमाहनीतानामिति। यमदूतेन यमकिङ्करेण, नाम्ना धर्मराजः यन्नामकपुरुषाणां, स्थूलशरीरात् लिङ्गशरीरमाकर्ष्टुंदूतं प्रेषयामास अन्येषामपि केषाञ्चित् तान्येन नामानि इति नामसाम्येन्, भ्रान्तैः भ्रमात् हेतोः, नीतानां यमसन्निधिं प्रापितानाम्, आनेत्वयपुरुषेभ्यः अन्येषां जनानामिति भावः। उपागतौ पुनर्मर्त्त्यलोकप्रत्यागमनविषये, एतेषां नामसदृशान् यान् आनेतुं त्वं प्रेषितः एते ते न भवन्ति, अत एतान् मर्त्त्यलोकं नीत्वा स्व-स्वस्थूलशरीरे प्रवेशयेति यमाज्ञया सद्यः एव पुनः स्वदेहसङ्क्रान्तिविषये इत्यर्थः। संवदन्तीं श्रुतिस्मृतिपुराणादिषु श्रुतस्वर्गनरकादिकथया सह समानार्थीभवन्तीं, परलोककथां यमलोकात् प्रत्यावृत्तपुरुषोक्तां स्वर्गनरकादेरस्तित्ववार्त्ता, कथं न श्रद्धत्से? न प्रत्येषि? अतस्तादृशवाक्यस्य सत्यत्वादेव परलोकमस्त्येवेति भावः॥ 17.90 ॥
जज्वाल ज्वलनः क्रोधादाचख्यौ चाक्षपननमुम्।
किमार्थ रे! किमात्थेदमस्मदग्रे निरर्गलम्?॥ 17.91 ॥
अन्वयः–ज्वलनः क्रोधात् जज्वाल अमुं च आक्षिपन् आचख्ये–रे किम् आत्थ? अस्मदग्रे निरर्गलम् इदं किम् बकता है?
जीवातु–जज्वालेति। अथ ज्वलनः अग्निः, क्रोधात् कोपात्, जज्वाल दिदीपे, तथा अमुं चार्वाकम्, आक्षिपन् परुषवाक्यैरधिक्षिपन्, आचख्ये च जगाद च, रे इति तुच्छसम्बोधने; रे चार्वाक! किमार्थ? अस्मदग्रे मम पुरतः, निरर्गलम् अप्रतिबन्धम्, अबाधं यथा तथेत्यर्थः। इदम् उक्तरूपं वेदादिविरुद्धमित्यर्थः। किम् आत्थ? किं प्रलपसि! इत्यर्थः। कोपे द्विरुक्तिः॥ 17.91 ॥
महापराकिणः श्रौत-धर्मैकबलजीविनः।
क्षणाभक्षणमूर्च्छाल! स्मरन् विस्मयसेऽपि न?॥ 17.92 ॥
अन्वयः–क्षणाभक्षणमूर्च्छाल, श्रौतधर्मैकबलजीविनः मरापराकिणः स्मरन् अपि न विस्मयसे?
जीवातु–अथ यदन्यत् प्रलपितम् `अग्निहोत्रं त्रयी’ (17/38) इत्यादि तत् निराचष्टे-महापराकिण इति। हे क्षणम् अत्यल्पसमयम्, अभक्षणे अभोजने, मूर्छाल! मूर्छामापन्न! भ्रियमाण! इत्यर्थः। `सिध्मादिभ्यश्च’ इति सूत्रस्य सिध्माद्यन्तर्गणे `क्षुद्रजन्तूपतापाच्च’ इति पाठात् उपतापवाचकात् मूर्च्छाशब्दात् लच्‌प्रत्ययः। श्रौतश्रुतिचोदितः, धर्मः आचारः एव, अनुष्ठानमेवेत्यर्थः। `धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः’ इत्यमरः। एक केवलं, बलं सामर्थ्यं, तेन जीवन्तीति तादृशान् श्रौतधर्मैकबलजीविनः वैदिकधर्मानुष्ठानमाहात्म्यादेव प्राणधारिमः, महान्तः महात्मान इत्यर्थः। ये पराकिणः मासोपवासनिष्पाद्यतदाख्यव्रतिनः तान्, स्मरन् चिन्तयन् अपि, न विस्मयसे? न चित्रीयसे। धर्मोपजीविनी वैदिकाश्चिरम् अभोजिनोऽपि धर्मानुष्ठानजनितमनोबलादेकजीवन्ति अतो धर्मस्य अस्तित्वे न कोऽपि संशय इति भावः॥ 17.92 ॥
पुत्रेष्टिश्येनमकारीरी-मुखा दृष्टफला मखाः।
न वः किं धर्मसन्देह-मन्देहजयभानवः?॥ 17.93 ॥
अन्वयः–पुत्रेष्टिश्येनकारीरीमुखाः दृष्टफलाः मखाः किं वः धर्मसन्देहमन्देहजयभानवः न?
जीवातु–पुत्रेष्टीति। हे नास्तिकाः! पुत्रेष्टिः पुत्रकामयागः, श्येनः शत्रुमारणार्थं तदाख्यक्रतुविशेषः, कारीरी वृष्टिकामेष्टिः, ता मुखम् आदिः येषां ते पुत्रेष्टिश्येनकारीरीमुखाः पुत्रेष्टिश्येनकारीरीप्रभृतयः, दृष्टफलाः दृष्टं प्रत्यक्षीभूतं, फलं सुतोत्पत्तिशत्रुमारणवृष्टिरूपं फलं येषां तादृशाः, मखाः क्रतवः; वः युष्माकं नास्तिकानां, धर्मस्य सदनुष्ठानजनितफलदातुरित्यर्थः। सदनुष्ठानजनितसुफलस्येत्यर्थो वा, यः सन्देहः धर्मोऽस्ति न वेति संशयः, स एव सन्देहाः सन्ध्याद्वये सूर्यग्रासार्थमुत्पद्यमानाः तेन सह युध्मानाश्र राक्षसविशेषाः, तेषां जये निराशे, विनाशसम्पादने इत्यर्थः। भानवः सूर्याः, सूर्यवत् विनाशकाः इत्यर्थः। न किम्? भवन्तीति शेषः। `तिस्रः कोट्योऽर्द्धकोटी च मन्देहा नाम राक्षसाः। उदयन्तं सहस्रांशुमभिबुध्यन्ति ते सदा॥ गायत्र्या चाभिमन्त्र्योऽर्ध जलं त्रिः सन्ध्ययोः क्षिपेत्। तेन शाम्यन्ति ते दैत्या वज्रीभूतेन वारिणा॥’ इत्यादिशास्त्रात् गायत्र्यभिमन्त्रितजलप्रक्षेपात् तेषां नाशः, तदुत्तरमेव सूर्योदयेन सूर्य एव तान् नाशयतीत्युच्यते, एवञ्च सूर्यो यथा तन्नाशकः तद्वत् यागोऽपि भवदीयधर्मसन्देहनाशको भवतु इत्यर्थः। दृष्टफलयागानां फलनिश्चयदर्शनात् अदृष्टफलयागादौ तज्जन्यादृष्टेऽपि वा सन्देहो न कर्त्तव्य इति भावः॥ 17.93 ॥
दण्डताण्डवनैः कुर्वन् स्फुलिङ्गालिङ्गितं तभः।
निर्ममेऽथ गिरामूर्मीभिन्नमर्मेव धर्मराट्॥ 17.94 ॥
अन्वयः–अथ भिन्नमर्मा इव धर्मराट्‌ दण्डताण्डवनैः नभः स्फुलिङ्गलिङ्गितं कुर्वन् गिराम् ऊर्मीः निर्ममे।
जीवातु–दण्डेति। अथ अग्निवाक्यानन्तरं, धर्मराट् यमः, भिन्नमर्माचार्वाकप्रलापैः विदीर्णजीवस्यान इव सन्, दण्डस्य स्वकीयास्त्रस्य, ताण्डवनैः भ्रामणैः, नभः आकाशप्रदेशं, स्फुलिङ्गालिङ्गितम् अग्निकणाकीर्णं, कुर्वत् सम्पादयन्, गिरम् ऊर्मीः वाक्परम्पराः, निर्ममे रचयामास, उवाच इत्यर्थः॥ 17.94 ॥
तिष्ठ भोस्तिष्ठ कण्ठोष्ठं कुण्ठयामि हठादहम्।
अपष्ठु पठतः पाठ्यमधिगोष्ठि शठस्य ते॥ 17.95 ॥
अन्वयः–तिष्ठ, भोः तिष्ठ, अहम् अधिगोष्ठि अपष्ठु पाठ्‌यं पठतः ते शठस्य कण्ठोष्ठं कुण्ठयामि।
जीवातु–तिष्ठेति। भोः पातकापसद! तिष्ठ तिष्ठ अपेक्षस्व अपेक्षस्वः कोपे द्विरुक्तितः। अधिगोष्ठि सभायाम्, इन्द्रादिदेवसमाजे इत्यर्थः। विभक्त्यर्थे अव्ययीभावः। अप्रतिष्ठतीति अपष्ठुः प्रतिकूलं, विरुद्धार्थकमिति यावत्। `अपदुःसुषुस्तः’ इति तिष्ठतेः औणादिक उप्रत्यये `आतो लोपः इटि च’ इत्याकारलोपः, `उपसर्गात् सुनोति-’ इत्यादिना षत्वम्। `प्रसव्यं प्रतिकूलं स्यादपसव्यमपष्ठु च’ इत्यमरः। पाठ्यं पठनीयप्रबन्धं, पठतः वाचयतः, शठस्य धूर्त्तस्य, ते तव, कण्ठश्च ओष्ठौ च कण्ठोष्ठम्। प्राण्यङ्गत्वात् एकवद्भावः। अहं हठात् प्रसभं, बलादित्यर्थः। `पार्षिणकप्रसभौ हठौ’ इति वैजयन्ती। कुण्ठयामि स्तम्भयामि। वर्त्तमानसामीप्ये भविष्यति लट्॥ 17.95 ॥
वेदैस्तद्वेषिभिस्तद्वत् स्थिरं मतशतैः कृतम्।
परं कस्ते परं वाचा लोकं लोकायत!त्यजेत्?॥ 17.96 ॥
अन्वयः–वेदैः तद्‌वत् तद्‌वेषिबिः मतशतैः स्थिरं कृतं परं लोकं लोकायत, परं ते वाचः कः त्यजेत्?
जीवातु–वेदैरिति। लोकायत! लोकेषु भुवनेषु, आयतं विस्तृतम्, अनायाससाध्यत्वादितिभावः। मतं यस्य स तत्सम्बुद्धौ। लोकेषु अयत! असयत! स्वेच्छाचारिन्! इत्यर्थो वा। हे चार्वाक! इत्यर्थः। वेदैः श्रुतिभिः, वेदोक्तैरित्यर्थः। तद्वेषिभिः वेदविरोधिभिः, बौद्धादिदर्शनोक्तैरित्यर्थः। तथा तद्वत् वेदतुल्यैरन्यैश्चेत्यर्थः। मतशतैः विविधमतैः, स्थिरं कृतं व्यवस्थापितं, परं लोकं स्वर्गादिस्वरूपमित्यर्थः। परं केवलं, ते तव, वाचा प्रलापवाक्येन, कः त्येजेत्? कः जह्यात्? न कोऽपीत्यर्थः। बहुजनसमादृतमतस्यैव प्रामाणिकत्वादिति भावः॥ 17.96 ॥
असज्ज्ञानाल्प! भूयिष्ठपान्थवैमत्यमेत्य यम्।
लोके प्रयासि पन्थानं परलोके न तं कुतः?॥ 17.97 ॥
अन्वयः–असज्ज्ञानाल्प, लोके भूयिष्ठपान्थवैमत्यम् एत्य यं पन्थानं प्रयासि, परलोके तं कुतः नः?
जीवातु–असदिति। अजज्ज्ञानेन मन्दबुद्ध्या, अल्पः क्षुद्रः, नीच इत्यर्थः, तत्सम्बुद्धौ असज्ज्ञानाल्प! रे नीचप्रकृतिनास्थिक! लोके इहलोके, भूयिष्ठाः बहवः, अधिकसङ्ख्याकाः एव जना इत्यर्थः। पान्थाः परलोकपयिकाः, आस्तिकाः इत्यर्थः। तेषां वैमत्यं मार्गभेदविषयकमतविरोधम्, एत्य प्राप्य, सर्वसम्मतं मार्गम् उत्सृज्य इत्यर्थः। यं पन्थानं दुर्मार्गं, प्रयासि अनुयासि, परलोके अमुत्रापि, तं पन्थानं कुतः कस्मात् न प्रसायसि? इति पूर्वक्रियया अन्वयः, प्रयास्यन्नेव तत्फलमनुभविष्यसीत्यर्थः। `इह प्रच्छन्नपापानां शास्ता वैवस्वतो मतः’ इति शास्त्रात् अहमेव नियन्ता इति भावः॥ 17.97 ॥
स्वकन्यामन्यसात्कर्त्तुं विश्वानुमतिदृश्वनः।
लोके परत्र लोकस्य कस्य न स्याद् दृढं मनः?॥ 17.98 ॥
अन्वयः–स्वकन्याम् अन्यसात्कर्त्तु विश्वानुमतिदृश्वनः कस्य लोकस्य परत्र लोके दृढं मनः न स्यात्?
जीवातु–सेवेति। स्वकन्यां निजदुहितरम्, अन्यसात्कर्त्तुम् अन्यस्मै दातुम् इत्यर्थः । `देये त्रा च’ इति साति-प्रत्ययः विश्वानुमतिं सर्वलोकसम्मतिं दृष्टवानिति विश्वानुमतिदृश्वा तस्य विश्वानुमतिदृश्वनः, `ब्राह्मेविवाहे आहूय दीयते शवत्यलङ्कृता। तज्जः पुनात्युभयतः पुरुषानेकविशतिम्॥ त्रीण्याहुरतिदानानिं कन्या पृथ्वी सरस्वती’ इत्यादि सर्वशास्त्रसम्मतिद्रष्टुः इत्यर्थः। `दृशेः क्वनिप्’ कस्य लोकस्य जनस्य, मनः चित्तं, परत्र लोके परलोके, दृढं स्थिरं, स्थिरविश्वासीत्यर्थः। न स्यात्? न भवेत्? अपि तु सर्वेषामेव स्यादेव, परलोकभयेनैव सर्वो जनः स्वदुहितरमन्यस्मै ददाति यदि परलोको नाभविष्यत् तदा स्वदुहितमन्यस्मै कथमदास्यत्? स्वेनैव स्वदुहितुः पाणिग्रहणमापद्येत, अतः सर्वसम्मतिदर्शनात् परलोकोऽङ्गीकर्त्तव्य एव भवेतेति भावः॥ 17.98 ॥
कस्मिन्नपि मते सत्ये हताः सर्वमतत्यजः।
तद्‌दृष्ट्या व्यर्थतामात्र्मनर्थस्तु न धर्मजः॥ 17.99 ॥
अन्वयः–कस्मिन् अपि मते सत्ये सर्वमतत्यजः हताः, तद्‌ दृष्ट्या व्यर्यतामात्रं धर्मजः अनर्थः तु न।
जीवातु–ननु नास्तिकानामिह तावत् सुखं सिद्धम्, आस्तिकानान्तु तन्नास्ति, आमुष्मिकन्तु सन्दिग्धं तथा च वृथाऽनुष्ठानक्लेश इति कुतो दार्ढ्यमित्यत्राह-कस्मिन्नपीति। कस्मिन्नपि आस्तिकमतमध्ये कस्मिंश्चिदपि, मले कन्यादानविधिमातृगमननिषेधादिरूपे परलोकसाधकमते, सत्ये प्रमाणत्वेनाङ्गीकृते सति, सर्वमतत्यजः, परस्परविरोधात् सर्बमप्रमाणमित्यादिरीत्या सर्वास्तिकमतत्याजिनः, नास्तिका इति शेषः। हताः विनष्टाः, परलोकभ्रष्टा इति यावत्। स्युः भवेयुः यदि परलोकः स्यात् तदा सर्वास्तिकमतत्यागेन यूयं पारलौकिकसुखास्वादादिभ्यो वञ्चिता भवेतेति भावः। तद्‌दृष्ट्या सर्वास्तिकमताप्रामाण्यदर्शनेन तु, व्यर्थतामात्रम् अनुष्ठानवैयर्थ्यमेव, यदि परलोकसाधकं स्रावस्तिकमतमप्रमाणं स्यात् तदाऽस्माकं यागाद्यनुष्ठानस्य निष्फलत्वमात्रं न तु ततः किञ्चिदनिष्टं भवेदिति भावः। कुतो नानिष्टमित्यत आह-अनर्थ इति। धर्मजः धर्मोपचारजन्यः, धर्मानुष्ठनजन्य इति यावत्। अनर्थः विपत्तिस्तु, परलोकभ्रंशरूपः अनिष्टव्यापारस्तु इत्यर्थः। न नास्त्येव, परलोकासत्त्वपक्षेऽस्माकं धर्मानुष्ठानजन्यः न कश्चिदनर्थः, परलोकसत्त्वपक्षे तु युष्माकं धर्माननुष्ठानेन परलोकभ्रंशरूपः अनर्थ इत्यपि बोद्धव्यम्, एतच्च पाक्षिकत्वमभ्युपेत्योक्तम्, परमार्थतस्तु आस्तिकमतमेव ग्राह्यम् इति भावः॥ 17.99 ॥
क्वापि सर्वैरवैमत्यात् पातित्यादन्यथा क्वचित्।
स्थातव्यं श्रौत एव स्याद्धर्मे शेषेऽपि तत्कृते॥ 17.100 ॥
अन्वयः–क्व अपि अवैमत्यात् क्वचित् अन्यथा पातित्यात्, शेषे अपि तत्कृते श्रौते एव धर्मे सर्वैः स्थातव्यम्।
जीवातु–उपसंहरति-क्वापीति। क्वापि कुत्रापि, अहिंसाकन्यादानादिरूपे वैदिकानुष्ठानविषये इति यावत्। अवैमत्यात् सर्वेषामैकमत्यात्, तथा क्वचित् कुत्रापि विषये, अन्यथा वैमत्येऽपि, पातित्यात् वर्णाश्रमाधिकारे विहिताकरणनिषिद्धाचरणजन्यप्रत्यवायमयात्, तथा शेषेऽपि नित्यनैमित्तिकातिरिक्ते ज्योतिष्टोमादावपि, अथवा शेषे वेदविहितातिरिक्ते स्मार्त्तेऽपि धर्मे, तत्कृते वेदकृते, वेदविहितत्वाविशेषे इति यावत्। हेतुगर्भविशेषणमेतत्। श्रौते एव ग्राह्यः इत्यर्थः। `तयोरेव कृत्यक्तखलर्थाः’ इति भावे कृत्यस्तव्यत्प्रत्ययः। विहितानामहिंसादीनां केषाञ्चित् श्रौतस्मार्त्ताविशेषादेव स्थातव्यं स्यात्, तत्कृताः शोषा धर्मा अपि अवश्यमङ्गीकार्या इति भावः॥ 17.100 ॥
बभाण वरुणः क्रोधादरुणः करुणोज्झितम्।
किं त प्रचण्डात् पाषण्ड-पाश! पाशाद् बिभेषि नः?॥ 17.101 ॥
अन्वयः–क्रोधात् अरुणः वरुमः करुणोज्झितं बभाण-पाखण्डपाश, किं नः प्रचण्डात् पाशात् न विभेषि?
जीवातु–बभाणेति। अथ वरुणः जलेशः, क्रोधात् रोषात्, अरुणः रक्ताङ्गः सन् करुमोज्झितम् उज्झितकरुणं, निष्कृपं यता इत्यर्थः। बभाण उवाच। तदेवाह-याप्यः कुत्सितः, पाषण्डः वेदबाह्यापसदः, पाषण्डपाशः। `याप्ये पाशष्’ तत्सम्बुद्धौ पाषण्डपाश! रे नास्तिकाधम! प्रचण्डात् भयङ्करात्, नः अस्माकं, पाशात् पाशायुधात्, न बिभेषि किम्? न त्रस्यसि किम्? `निजपाशेन बध्नाति वुरणः पापकारिणः’ इति किं न श्रुतम्? इति भावः॥ 17.101 ॥
मानवाशक्यनिर्माणा कूर्माद्यङ्कबिला शिला।
न श्रद्धापयते मुग्धस्तिर्थकाध्वनि वः कथम्?॥ 17.102 ॥
अन्वयः–मानवाशक्यनिर्माणा कूर्माद्यङ्कबिला शिला मुग्धाः, वः तर्थिकाध्वनि कथं न श्रद्धापयते?
जीवातु–मानवेति। मुग्धाः! रे मूढाः! मानवानां नराणाम्, अशक्यनिर्माणा निर्मातुम् अशक्या, कूर्मादि कच्छपवराहादि, अङ्कं चिह्नं यस्य तादृशं, बिलं विवरं, चत्रमिति यावत्, यस्याः तादृशी, शिला पाषाणखण्डः, गण्डकाख्यनदीविशेषसम्भूता शालग्रामशिला इत्यर्थः। व- युष्मान्, तिर्थिकाध्वनि श्रोत्रियमार्गे कथम् न श्रद्धापयते? न विश्वासयति? शास्त्रोक्तलक्षणसंवादित्वादिति भावः॥ 17.102 ॥
शतक्रतूरुजाद्याख्याविख्यातिर्नास्तिकाः? कथम्।
श्रुतिवृत्तान्तसंवादैर्न वश्चमदचीकरत्?॥ 17.103 ॥
अन्वयः–नास्तिकाः, शतक्रतूरुजाद्याख्याविक्यातिः श्रुतिवृत्तान्तसंवादैः वः कथं न चमदचीकरत्?
जीवातु–शतेति। नास्तिकाः। रे नास्तिपरलोकाः! शतक्रतुः शतश्वमेधयज्ञकारी इन्द्रः ऊरुजः विष्णोरूरुदेशसम्भूत वैश्यः, स आदिर्येषां ते ब्राह्मण क्षत्रियादयः तेषामाख्याः शतक्रतुः ऊरुचः बाहुजः मुखजः पादज इत्यादीनि नामानि, तासां विख्यातिः प्रसिद्धिः, श्रुतिवृत्तान्तसंवादैः श्रृतिषु वेदेषु, यादृसा वृत्तान्ताः `शताश्वमेधक्रतुकारी इन्द्रो भवति’ इतीन्द्रस्यैव शतक्रतुत्वं `ब्रह्माणोऽस्य मुखमासीत्’ इत्यादिना ब्राह्मणस्यैव मुखजत्वं वैश्यस्यैवोरुजत्वम् इत्यादयो वेदोक्ता इतिहासाः, तेषां संवादैः श्रुत्युक्तवृत्तान्तेन सह लोकव्यवहारस्य मेलनदर्शनैरित्यर्थः। लोकेन इन्द्रस्यैव शतक्रतुनाम व्यवह्रियते न तु अन्यदेवानां, ब्राह्मणस्यैव मुखजत्वं व्यवह्रियते न त्वन्यवर्णानाम् इत्यादिव्यवहारैः करणैरिति यावत्। वः युष्मान्, कथं न चमदचीकरत्? न व्यसिरमयत्? श्रुतिवृत्तान्तस्य लोकव्यवहारेण ऐक्यदर्शनात् कथं श्रुतिः प्रमाणत्वेन युष्माभिः न स्वीक्रियते? इति भावः॥ 17.103 ॥
तत्तज्जनकृतवेशान् गयाश्राद्धादियाचिनः।
भूताननुभवन्तोऽपि कतं श्रद्धत्थ न श्रुतीः?॥ 17.104 ॥
अन्वयः–तत्तज्जनकृतावेशान् गयाश्राद्धादियाचिनः भूतान् अनुभवन्तः अपि श्रुतीः कथं न श्रद्धत्थ?
जीवातु–श्रुतेः प्रामाण्यमेव कुतः? इत्याशङ्क्य तदेव द्वाभ्यामुपपादयतितदित्यादि। तेषु तेषु जनेषु लोकेषु, कृतावेशान्, तन्मुकेन यत्किञ्चित्, याचितुं कृताधिष्ठानान्, गयाश्राद्धादियाचिनः प्रेतत्वादिविमोचककर्मयाचकान्, भूतान् प्रेतयोनिभेदान्, अनुभवन्तः प्रत्यक्षेण पश्यन्तः अपि, श्रुतीः तद्विधायकवेदान् कथं न श्रद्धत्थ? न विश्वसिथ?॥ 17.104 ॥
नामभ्रमाद् यमं नीतानथ स्वतनुमागतान्।
संवादवादिनो जीवान् वीक्ष्य मा त्यजत श्रृतीः॥ 17.105 ॥
अन्वयः–नामभ्रमात् यमं नीतान् अथ स्वतनुम् आगतान् संवादवादिनः जीवान् वीक्ष्य श्रुतीः मा त्यजत।
जीवातु–नामेति। किञ्च, नामभ्रमात् नामसाम्यकृतभ्रान्तेः; यमं परेतराजम्, नीतान् यमदूतैः प्रापितान्, अथ अनन्तरम्, भ्रामन्तिशोधनार्थं यमेन पुनः मर्त्त्यलोकप्रेरणानन्तरमित्यर्थः. स्वतनुम् आगतान् अप्राप्तकालत्वात् पुनर्यमाज्ञया स्वशरीरं प्रविष्टान् संवादवादिनः वेदोक्त्या सह ऐक्यवादियम लोकवृत्तान्तकयकान्, जीवान् मर्त्त्यान्, वीक्ष्य अवलोक्य, श्रुती वेदान् मा त्यजत न जहीत, एकत्र प्रामाण्यदर्शनादत्राप्यश्रद्धा न कार्या इति भावः॥ 17.106 ॥
नापरधी पराधीनो जनोऽयं नाकनायकाः!।
कालस्याहं कलेर्वन्दी तच्चाटुचटुलाननः॥ 17.107 ॥
अन्वयः–नाकनायकाः अयं पराधीनः जनः अपराधी न, अहं कलेः कालस्य तच्चाटुलाननः वन्दी।
जीवातु–यदूचिवान् तदाह–नेति। नाकनायकाः! हे देवाः! अयं जनः अहमित्यर्थः पराधीनः परवशः, अतो न अपराधी न दोषी, अहम् अयं जनः, कलेः कालस्य कलियुगाधिदेवस्य, तच्चाटुभिः तस्य कलेः, चाटुभिः प्रियवादैः, चटुलाननः चपलमुखः, स्वामिचित्तानुकूलवादीत्यर्थः। वन्दी स्तुतिपाठकः, अतोऽहं क्षन्तव्य इति भावः। स्वामीचित्तानुरञ्जनार्थ वेदादिदूषणं कृतं न तु स्वतः, अतो नाहं भवद्भिर्दण्डनीय इति निष्कर्षः॥ 17.107 ॥
इति तस्मिन् वदत्येव देवाः स्यन्दमन्दिरम्।
कलिमाकलायाञ्चक्रुर्द्धापरञ्चापरं पुरः॥ 17.108 ॥
अन्वयः–तस्मिन् इति वदति एव देवाः स्यन्दनमन्दिरं कलिम् अपरं द्वापरं च पुरः आकलयाञ्चक्रुः।
जीवातु–इतिति। तस्मिन् वन्दिनि, इति इत्थं, वदति जल्पति एव राति, देवाः इन्द्रादयः, स्यन्दनमन्दिरं रथमध्यस्थं, कलिं कलियुगाधिष्ठतारं, तथा अपरं ततः अन्यं, द्वापरं द्वापरयुगाधिदेवञ्च, पुरः अग्रे आकलयाञ्चक्रुः ददृशुः॥ 17.108 ॥
सन्ददर्शोन्नमद्‌ग्रीवः श्रीबहुत्वकृताद्भुतान्।
तत्तत्पापरीतस्तान् नाकीयान् नारकीव सः॥ 17.109 ॥
अन्वयः–तत्तत्पापरीतः नारकी इव उन्नमद्‌ग्रीवः सः श्रीबहुत्वकृताद्‌ नाकीयान् संददर्श।
जीवातु–सन्ददर्शेति। नरकः अस्य अस्तीति नारकी नरकस्थः जन इव, तैः तैः पापैः ब्रह्महत्यादिभिः पातकैः, परीतः परिवेष्टिता, सः कलिः, श्रीबहुत्वेन सौन्दर्यबाहुल्येन, कृताद्‌भुतान् जनितविस्मयान्, रूपातिशयेन दर्शकानां विस्मयोत्पादकानित्यर्थः। नाकीयान् स्वर्गस्थान्, तान् इन्द्रदीन्, उन्नमद्‌ग्रीवः उत्कन्धरः सन्, सन्ददर्श अवलोकयामास॥ 17.109 ॥
गुरुव्रीडावलीढः प्रागभून्नमितमस्तकः।
स त्रिशङ्कुरिवाक्रान्तस्तेजसैव विडौजसः॥ 17.110 ॥
अन्वयः–प्राक् गुरुव्रीडावलीढः नमितमस्तकः सः विडौजसः तेजसा एव आक्रान्तः त्रिशङ्कुः इव अभूत्।
जीवातु–गुर्विति। सः कलिः, प्राक् प्रथमं, दर्शनमात्रमेवेत्यर्थः। गुर्व्या प्रबलया, व्रीडया लज्जया, देवानां वैमुख्यजनितया इति भावः। `मन्दाक्षं ह्रीस्त्रपा व्रीडा लज्जा’ इत्यमरः। अवलीढः ग्रस्तः पश्चात् विडौजसः इन्द्रस्य, तेजसा एव प्रभावेणेव, आक्रान्तः अभिभूतः सन्, त्रिशङ्कुः इन्द्रतेजसा स्वर्गात् भ्रशितः नमितमस्तकः सूर्यवंशीयो राजविशेष इव, नमितमस्तकः अवनतशिराः, अभूत् अजायत॥ 17.110 ॥
विमुखान् द्रष्टुमप्येनं जनङ्गममिव द्विजान्।
एष मत्तः सहेलं तानुपेत्य समभाषत॥ 17.111 ॥
अन्वयः–जनङ्गमं द्रष्टुम् अपि विमुखान् द्विजान् इव एनं तान् उपेत्य मत्तः एषः सहेलं समभाषत।
जीवातु–विमुखानिति। जनात् गच्छति इति जनङ्गम चण्डालः तम्। `गमश्च’ इति संज्ञायां खच्‌प्रत्यय इति क्षीरस्वामी। `चण्डालप्लवमातङ्गदिवाकीर्त्तिजनङ्गमाः’ इत्यमरः। द्रष्टुम् ईक्षितुम् अपि, विमुखान्, परावर्त्तिताननान्, द्विजान् विप्रादीन् इव, एनं कलिं, द्रष्टुमपि किमुत सम्भाषितुं स्प्रष्टुं वेति भावः। विमुखान् तान् इन्द्रादीन्, मत्तः मदान्धः एषः कालः, सहेलं सावज्ञम्। `हेलाऽवज्ञाविलासयोः’ इति विश्वः। उपेत्य समागत्य, समभाषत सम्भाषितवान्॥ 17.111 ॥
स्वस्ति वास्तोष्पते! तुभ्यं? शिखिन्नस्ति न खिन्नता?।
सखे काल! सुखेनासि? पाशहस्त! मुदस्तव?॥ 17.112 ॥
अन्वयः–वास्तोष्पते, तुभ्यं स्वस्ति? शिखिन् खिन्नता न अस्ति? सखे काल, सुखेन असि? पाशहस्त, तव मुदः?
जीवातु–स्वस्तीति। वास्तोष्पते! वास्तोः गृहक्षेत्रस्य, पतिः अधिष्ठाता तत्सम्बुद्धौ, हे भुवस्पते! इन्द्र!, `वास्तेष्पतिगृहमेधाच्छ च’ इत्यस्मादेव निपातनादलुकिं षत्वम्। `इन्द्रो मरुत्वान्मधवा विडौजाः पाकशासनः। वास्तोष्पतिः सुरपतिर्बलारातिः शचीपतिः॥` इत्यमरः। तुभ्यं स्वस्ति क्षेमम्, अस्ति कच्चित्? इति शेषः। `नमः स्वस्ति-’ इत्यादिना चतुर्थी। `स्वस्त्याशीः क्षेमपुण्यादौ’ इत्यमरः। शिखिन्! हे अग्ने! खिन्नता खेदः, न अस्ति,कच्चित्? इति शेषः। सखे काल! हे सुहृत् यम! सुखेन प्रीत्या, असि वर्त्तसे, किम्? इति शेषः। पाशहस्त! हे वरुण! तव भवतः, मुदः मोदाः, सन्ति किम्? इति शेषः। सर्वत्र काकुरनुसन्धेया॥ 17.112 ॥
स्वयंवरमहे भैमी-वरणायत्वरामहे।
तदस्माननुमन्यध्वमध्वने तत्र धाविने॥ 17.113 ॥
अन्वयः–स्वयंवरमहे भैमीवरणाय त्वरामहे, तत् तत्र धाविने अध्वने अस्मान् अनुमन्यष्वम्।
जीवातु–स्वयमिति। हे देवाः। स्वयंवरः एव आत्मना पतिवरणमेव, महः उत्सवः तस्मिन्, स्वयंवराय महः तस्मिन् इति वा। भैमीवरणाय दमयन्तीं भार्यात्वेन वरीतुं, त्वरामहे त्वरां कुर्महे, शीघ्रं याम इत्यर्थः। तत् तस्मात्, अस्मान् तत्र धाविने स्वयंवरगामिने,अध्वने अध्वगमनाय इत्यर्थः। अनुमन्यध्वम् अनुजानीध्वम्॥ 17.113 ॥
तेऽवज्ञाय तमस्योच्चैरहङ्कारमकारणम्।
ऊचिरेऽतिचिरेणैनं स्मित्वा दृष्टमुखा मिथः॥ 17.114 ॥
अन्वयः–ते अस्य अकारणम् उच्चैः तम् अहङ्कारम् अवज्ञाय अतिचिरेण मिथः दृष्टमुखाः स्मित्वा एनम् ऊचिरुः।
जीवातु–ते इति। ते देवाः, अस्य कलेः, तं पूर्वोक्तम्, उच्चैः उत्कटम्, अकारणम् अहेतुकम्, अहङ्कारं गर्वम्, अवज्ञाय अविगणय्य अत एव अतिचिरेण अतिविलम्बेन, पापिष्ठोऽयं कथमस्माभिः सम्भाष्य इति बुद्ध्या इति भावः। मिथो दृष्टमुखाः परस्परमुखावलोकिनः सन्तः, स्मित्वा मूढोऽयं स्वयंवरवार्त्तां करोतीति ईषत् हसित्वा, एनं कलिम्, ऊचिरे ऊचुः॥ 17.114 ॥
पूनर्वक्ष्यसि मा मैवं कथमुद्वक्ष्यसे नु सः?।
सृष्टवान् परमेष्ठी यं नैष्ठिकबह्मचारिणम्॥ 17.115 ॥
अन्वयः–पुनः एवं मा मा वक्ष्यसि, परमेष्ठी यं नैष्ठिकब्रह्मचारिणं सृष्टवान्, सः तु कथम् उद्‌वक्ष्यसे?
जीवातु–पुनरिति। हे कले! पुनः भुयः, एवं स्वयंवरार्थं गमिष्यामीत्‌येवं रूपं, मा मा वक्ष्यसि नैव वक्तव्यम्, कोपे द्विरुक्तिः। `अनवक्लृप्त्यमर्षयोरकिंवृत्तेऽपि’ इत्यमर्षार्थे वचेलृट्। कुतः? परमे तिष्ठतीति परमेष्ठी पितामहः। `परमेस्थः कित्’ इति इनिः। `अम्बाम्बगोभूमि-’ इति षत्वम्। यं त्वां, नैष्ठिकब्रह्मचारिणं यावज्जीवं ब्रह्मचर्येण अवतिष्ठमानं, सृष्टवान् निर्मितवान्, सः त्वं, कथं नु केन प्रकारेण, उद्वक्ष्यसे? वहेर्लृट्। तेन चालङ्ख्यशासनेन कृतयुगादयोऽपि निष्कलत्रा एव सृष्टाः, अतस्तव स्वयंवरवार्त्ता नैव कर्त्तव्या नैष्ठिकब्रह्मचारिव्रतस्य हानिभयात् इति भावः॥ 17.115 ॥
द्रोहिणं द्रुहिणो वेत्तु त्वामाकर्ण्यावकीर्णिनम्।
त्वज्जनैरपि वा धातुः सेतुर्लङ्ख्यस्त्वया न किम्?॥ 17.116 ॥
अन्वयः–द्रुहिणः त्वाम् अवकीर्णिनम् आकर्म्य द्रोहिणं वेत्तु वा त्वज्जनैः अपि धातुः सेतुः लङ्ध्यः, त्वया किम् न?
जीवातु–द्रोहिणमिति। वा अथवा, त्वज्जनैः तव भृत्वैः कामक्रोधादिभिरपि, भृत्यत्वादतिक्षुद्रैरपीति भावः। धातुः ब्रह्मणः, सेतुः मर्यादा, नियोग इति यावत्, लङ्घ्यः लङ्घयितुं शक्यः। `शकि लिङ् च’ इति चकारात् शक्यार्थे कृत्प्रत्ययः। सुतरां त्वया तत्स्वामिना भवताऽपि, न किम्? स सेतुः किं न लङ्घ्यः? अपि तु लङ्घ्यः एव इत्यर्थः। यस्य क्षुद्रभृत्यैरपि स्रष्टुराज्ञालङ्घनं सम्भाव्यते, तेनापि तदाज्ञालङ्घनं नासम्भाव्यमिति भावः। किन्तु द्रुहिणः ब्रह्मा, त्वाम् अपकीर्ण स्खलितम् अनेनेत्यवकीर्णी क्षतव्रतः। `इष्टादिभ्यश्च’ इति इनिप्रत्ययः। तम् अवकीर्णिनं क्षतव्रतम्, व्रतलङ्घिनमित्यर्थः। `अवकीर्णी क्षतव्रतः’ इत्यमरः। आकर्ण्य श्रुत्वा, द्रोहिणम् आज्ञालङ्घनापराधिनम्, वेत्तु जानातु, ज्ञात्वा च यत् कर्त्तव्यं तत् करोतु इति भावः॥ 17.116 ॥
अतिवृत्तः स वृत्तान्तस्त्रैलोक्ययुवगर्वनुत्।
आगच्छतामपादानं न स्वयंवर एव नः॥ 17.117 ॥
अन्वयः–त्रैलोक्ययुवगर्वनुत् सः वृत्तान्तः अतिवृत्तः; आगच्छतां नः सः स्वयंवरः एव अपादानम्।
जीवातु–अतिति। भवतु तावत्, त्रैलोक्ये त्रिलोकमध्ये, ये युवानः यावन्तस्तरुणाः तेषां गर्वनुत् सौन्दर्याहङ्कारहन्ता, भैमीकर्तृकप्रत्याख्यानादिति भावः। सः वृत्तान्तः स्वयंवरप्रसङ्गः, अतिवृत्तः अतीतः। कथं त्वया ज्ञातम्? इत्याह–आगच्छताम् आयातानां, नः अस्माकं, सः प्रसिद्धः, स्वयंवरः एव स्वयंवरस्थानमेव, अपादानम् आगमनक्रियाया अवधिभूतः, ततः एव आगच्छामः इत्यर्थः॥ 17.117 ॥
नागेषु सानुरागेषु पश्यत्सु दिविषत्सु च।
भूमिपालं नलं भैमी वरं साऽववरत् वरम्॥ 17.118 ॥
अन्वयः–सानुरागेषु नागेषु दिविषत्सु च यश्यत्सु सा भैमी वरं भूमिपालं नलं वरम् अवरत्।
जीवातु–नागेष्विति। सानुरागेषु अनुलारुयुक्तेषु, नागेषु नागकुमारेषु, दिविषत्सु देवेषु च, पश्यत्सु अवलोकयत्सु, पश्यतः तान् सर्वाननादृत्येत्यर्थः। `षष्ठी चानादरे’ इति चकारात् अनादरे सप्तमी। सा भैमी दमयन्ती, वरं नागाद्यपेक्षया श्रेष्ठम्, भूमिपालं चक्रवर्त्तिनम्,नलं निषेधेशम्, वरं वोढारम्, अववरत् वृणोतिस्म। वरयतेश्चौरादिकात् ईप्सायाम् अदन्ताल्लङ, अग्लोपत्वेनासन्वद्भावाद्द्वित्वदीर्धयोरभावः॥ 17.118 ॥
भुजगेशानसद्वेशान् वानरानितरान् नरान्।
अमरान् पामरान् भैमी नलं वेद गुणोज्ज्वलम्॥ 17.119 ॥
अन्वयः–भैमी भुजगान् असद्‌वेशान् इतरान् नरान् वानरान्, अमरान् पामरान् वेद, नलं गुणोज्ज्वलं वेद।
जीवातु–भुजगेति। भैमी दमयन्ती, भुजगेशान् वासुकिप्रमुखमहानागान्, असद्धेशान् अपकृष्टपरिच्छदाम्, वैख्प्यादमनोज्ञाकृतीन् इत्यर्तः। इतरान् नलात् अन्यान्, नरान् मानवान्, नरेन्द्रान् इति यावत्। वानरान् मर्कटान् चापल्यनिर्गुणत्वाभ्यां मर्कटतुल्यान् इत्यर्थः। तथा अमरान् इन्द्रादीन् देवान्, पामरान् नीचान्। `विवर्णा पामरो नीचः’ इत्यमरः। वेद वेत्ति। `विदो लटो वा’ इति णलादेशः। नलं केवलं नलनृपतिम् एव, गुणोज्ज्वलं गुणढ्यम्, वेद इति पूर्वक्रियया अन्वयः॥ 17.119 ॥
इति श्रुत्वा स रोषान्धः परमश्चरमं युगम्।
जगन्नाशनिशारुद्र मुद्रस्तानुक्तवानदः॥ 17.120 ॥
अन्वयः–इति श्रुत्वा परमः रोषान्धः चरमं युगं सः जगन्नाशनिशारुद्रमुद्रः(सन्)तान् अदः उक्तवान्।
जीवातु–इतीति। इति इदं, श्रुत्वा आकर्ण्य परमः उत्कट इत्यर्थः। रोषेण क्रोधेन, अन्वः दृष्टिशक्तिहीनः, हिताहितविवेचनापरिशून्य इत्यर्थः। अज्ञानपरवशः इति यावत्। चरमम् अन्त्यम्, युगं चतुर्थयुगमित्यर्थः। सः कलिः, जगन्नाशनिशा त्रिभुवनध्वंसकारिणी रात्रीः, कालरत्रिरित्यर्थः। तत्र रुद्रः प्रलयकाले संहारमूर्त्तिः शिवः, तस्य मुद्रा इव चिह्नम्, आकारः इति यावत् यस्य सः सादृशः सन्, तान् इन्द्रादीन्, अदः वक्ष्यमाणं वाक्यम्, उक्तवान् कथितवान्॥ 17.120 ॥
कयऽपि क्रीडतु ब्रह्मादिव्याः स्त्रीर्दीव्यत स्वयम्।
कलिस्तु चरतु ब्रह्म प्रैतु चातिप्रियाय वः॥ 17.121 ॥
अन्वयः–ब्रह्मा कया अपि क्रोडतु, स्वयं दिव्याः स्त्रीः दीव्यत, कलिः तु ब्रह्मा चरतु, वः अति प्रियाय च प्रंतु।
जीवातु–यदुक्तं `पुनर्वक्ष्यसि इत्यादिना श्लोकद्वयेन (17/115/116) तत्रोत्तरं सोल्लुण्ठमाह-कयाऽपीत्यादिना श्लोकद्वेयन। हे देवाः! ब्रह्मा स्रष्टा, कयाऽपि अगम्यााऽपीति भावः। `प्रजापतिर्वै स्वां दुहितरमभ्यगात्’ इति श्रुतेः, क्रीडतु रमताम्, स्वयं यूयञ्च इत्यर्थः। दिव्याः स्वर्गीयः;, स्त्रीः नारीः, दिव्याभिः वेश्यभिरिति भावः। `कर्म च’ इति करणस्य कर्मत्वम्। दीव्यत क्रीडत, कलिस्तु अहं पुनरित्यर्थः, वः युस्माकम्, अतिप्रियाय अत्यन्त प्रीतिजननाय, ब्रह्म चरतु ब्रह्मचर्यमवलम्ब्य तिष्ठतु, प्रैतु म्रियताञ्च॥ 17.121 ॥
चर्य्येव कतमेयं वः परस्मै धर्मदशिनाम्?।
स्वयं तत् कुर्वतां सर्वं श्रोतुं यद् विभितः श्रुती॥ 17.122 ॥
अन्वयः–परस्मै धर्मदेशिनां स्वयं तत् सर्वं कुर्वतां यत् श्रोतुं श्रुती बिभितः वः इयं कतमा इव चर्या?
जीवातु–ततः किम्? तत्राह चर्येवेति। परस्मै अन्यस्मै, धर्मदेशिनां स्वसुतादिगमनं न कार्यमित्यादिरूपमाचारमुपदिशताम्, स्वयं तु आत्मना पुनः, यत् कर्म, ब्रह्महत्यागुरुदारगमनादिरूपमित्यर्थः। श्रुती कर्णौं अपि, श्रोतुम् आकर्णयितुम्, बिभितः त्रस्यतः। `भियोऽन्यतरस्याम्’ इति विकल्पादिकारः। तत् सर्वं ब्रह्महत्यापारदार्यादिकम्, कुर्वातम् आचारताम्,`अहल्यायै जार’ इति श्रुतेः। वः युष्माकम्, इयम् एषा, चर्या आचारः, रीतिरिति यावत्, कतमेव? कीदृशीव? अवाच्या इत्यर्थः। स्वयमनाचारिणां युष्माकं परोपदेशवचनं न ग्राह्यम् इति भावः॥ 17.122
तत्र स्वयंवरेऽलम्भि भुवः श्रीर्नैषधेन सा।
जगतो ह्रीश्च युष्माभिर्लाभस्तुल्याभ एव वः॥ 17.123 ॥
अन्वयः–तत्र स्वयंवरे नैषधेन सा भुवः श्रीः अलम्भि, युष्माभिः तु जगातः ह्रीः, वः लाभः तुल्याभः एव।
जीवातु–यदुक्तम् `अतिवृत्तः स वृत्तान्तः’ इत्यादिना श्लोकत्रयेण (17/117/119) तत्रोत्तरं प्रपञ्चेनाह–तत्रेत्यादिभिः षोडशभिः। हे देवाः! तत्र स्वयंवरे दमयन्तीकर्त्तृकेप्सितपतिवरणे, भुवः श्रीः भूलोकलक्ष्मीः, सा भैमी, नैषधेन नलेन, अलम्भि लब्धा। लभेर्ण्यन्तात् कर्मणि लुङि त्रिलोकस्य, ह्री लज्जा, त्रैलोक्ये यावती लज्जा वर्त्तते सा इत्यर्थः। अलम्भि इति पूर्वेणान्वयः। स्वर्लोकलज्जाकरमिदमवमानमिति भावः। एवञ्च वः युष्माकं, नलस्य देवानाञ्च इत्यर्थः। स च यूयञ्जेति तेषां युष्माकमिति तदाद्देकशेषः। लाभः फलप्राप्तिः, तुल्याभः समानरूप एव, एकविधः एव इत्यर्थः। श्री-ह्रीति शकार-हकारयोः विभिन्नतामात्रमन्यत् तुल्यमिति भावः॥ 17.123 ॥
दीरान्नः प्रेक्ष्य यौष्माकी युक्तेयं वक्त्रवक्रणा।
लज्जयैवासमर्थानां मुखमास्माकमीक्षितुम्॥ 17.124 ॥
अन्वयः–दूरात् नः प्रेक्ष्य यौष्माकी इयं वक्त्रवक्रणा लज्जया एव आस्माकं मुखम् ईक्षितुम् असमर्थानां युक्ता।
जीवातु–दूरादिति। हे देवाः! दूरात् विप्रकृष्टदेशात्, नः अस्मान्, प्रेक्ष्य दृष्ट्वा, युष्माकम् इयं यौष्माकी भवदीया। `युष्मदस्मदोरन्यतरस्याम्’ इश्यण्‌प्रत्यये `तस्मिन्नणि च’ इत्यादिना युष्माकादेशे `टिड्‌ढाणञ्‌’ इत्यादिना ङीप्। इयम् एषा, वक्राणां मुखानां वक्रणा वक्रीकरणम्, तिर्यङ्मुखत्वमित्यर्थः। `तत्करोति–’ इति ण्यन्तात् यच्। लज्जया एव व्रीडावशेनैव, दमयन्त्या अवृतत्वादिति भावः। अस्माकम् इदम् आस्माकम्, यौष्माकीवत् प्रक्रिया। मुखम् आननम् ईक्षितुं द्रष्टुम्, असमर्थानाम्, अशक्यानां युष्माकमिति शेषः। अथवा समासान्तर्गततया गुणीभूतस्य यौष्माकीत्यत्र युष्मच्छब्दस्य विशेषणम्; युक्ता उचिता॥ 17.124 ॥
स्थितं भवद्भिः पश्यद्‌भिः कथं भीस्तदसाम्प्रतम्।
निदग्धा दुर्विदग्धा किं सा दृशा न ज्वलत्क्रुधा?॥ 17.125 ॥
अन्वयः–भोः पश्यद्भिः भवद्भिः कथं स्थितम्? तत् असाम्प्रतम्; दुर्विदग्धा सा ज्वलत्क्रधा दृशा किं न विदग्धा?
जीवातु–स्तितामिति। भोः देवाः! पश्यद्भिः अवलोकयद्भिः, नलवरणमिति शेषः। भवद्भिः युष्माभिः, कथं केन प्रकारेण, स्थितम्? उदासितम्? भावे क्तः। तद्‌ औदासीन्यम्, असाम्प्रतम् अयुक्तम्। किं तर्हि तदा कार्यम्? तदाह-दुर्विदग्धा दुर्विनीता सा भैमी, ज्वलत्क्रुधा दीप्यमानकोपया, कोपप्रज्वलितया इत्यर्थः। दृशा दृष्ट्या, किं कथं, न निर्दग्धा? न भस्मीकृता? दग्धुमेव उचिता इत्यर्थः॥ 17.125 ॥
महावंशाननादृत्य महान्तमभिलाषुका।
स्वीचकार कथङ्कारमहो! सा तरलं नलम्॥ 17.126 ॥
अन्वयः–अहो महान्तम् अभिलाषुका सा महावंशान् अनादृत्य तरलं नलं कथङ्कारं स्वीचकार?
जीवातु–दाह्यत्वे हेतुमाह–महेति। महान्तम् उत्कृष्टपुरुषम्, वरमिति शेषः। अभिलाषुका कामयमाना। `लषपत-’ इत्यादिना उकङ्प्रत्ययः, `न लोका’ इत्यादिना षष्ठीप्रतिषेधः। सा भैमी, महावंशान् उत्कृष्टकुलान्, सर्वलोकवरेण्यप्रजापतिकश्यपसुताना इति भावः। युष्मान् इति शेषः। महतः वेणून् च। `वंशो वेणौ कुले वर्गे’ इति विश्वः। अनादृत्य अवधीर्य, तरलं चपलम्, नलं नलाख्यं राजानम्, पोटगलाख्यक्षुद्रतृणविशेषञ्च। `नलः पोटगले राज्ञि’ इति विश्वः। कथङ्कारं कथम् इत्यर्थः। `अन्यथैवंकथम्–’ इत्यादिना णमुल्प्रत्ययः। स्वीचकरा? वव्रे? अहो! इत्याश्चर्ये। प्रखरनदीस्रोतसा नीयमानस्य वेण्ववलम्बनं परित्यज्य तृणावलम्बनवदुपहास्यमिदं चेष्टितमिति भावः॥ 17.126 ॥
भवादृशैर्दिशामीशैर्मृग्यमाणां मृगेक्षणाम्।
स्वीकुर्वामः कथं सोढः कृतरीढस्तृणं नलः?॥ 17.127 ॥
अन्वयः–भवादृशैः दिशाम् ईशैः मृग्यमाणां मृगेक्षणं स्वीकुर्वाणः कृतरीढः तृणं नलः कथं सोढः?
जीवातु–भवादृशैरिति। भवादृशैः भवद्विधैः, दिशाम् ईशैः दिक्‌पालैः, मृग्यमाणां काम्यमानाम्, मृगेक्षणां हरिणलोचनाम्, भैमीमिति शेषः। स्वीकुर्वाणः गृह्णन् अत एव कृतरीढः भवतां कृतावज्ञः। `रीढाऽवमाननाऽवज्ञा’ इत्यमरः। `कृतव्रीडः’ इति पाठे–जनितलज्जः, दमयन्तीकर्त्तु कप्रत्याख्यानात् युष्माननादृत्य नलकत्तुर्तृ कदमयन्तीग्रहणाच्च लज्जा इति बोध्यम्। तृणं तृणकल्पः, नलः नैषधः, कथं केन प्रकारेण सोढः? क्षान्तः? भवद्भिरिति शेषः। महद्भिः हि परिभवो न सोढव्यः इत्यर्थः॥ 17.127 ॥
दारुणः कूटमाश्रित्य शिखी साक्षीभवन्नपि।
नावहत् किं तदुद्धाहे कूटसाक्षिक्रियामयम्?॥ 17.128 ॥
अन्वयः–अयं दारुमः कूटम् आश्रित्य साक्षीभवन् अपि शिखी तदुद्वाहे किं कूटसाक्षिक्रियां न अवहत्?
जीवातु–दारुण इति। अयं पुरोवर्त्ती, शिखी शिखावान् अग्निः, दारुणः काष्ठस्य, कूटं राशिम्,आश्रित्य अवलम्ब्य, अन्यत्र-दारुणः पापकार्यकारित्वात् क्रूरकर्मा, पुरुषः इति शेषः। कूटं कपटम्, आश्रित्य अवलम्ब्य, साक्षीभवन्नपि प्रत्यक्षद्रष्टा सन् अपि, अग्निसाक्षिके विवाहे व्यवहारे च साक्षीभवन्नपि इति भावः। तदुद्वाहे तयोः दमयन्तीनलयोः विवाहे, कूटसाक्षिमः मिथ्यासाक्षिणः, क्रियां चोष्टितम्, नलेन दमयन्ती नोढा किन्तु अन्येनोढा इत्याद्यनृतवचनव्यापारमित्यर्थः। किं कथम्, नावहत्? नावहत्? नावलम्बत? शिखिनस्तादृगकूटसाक्षिदाने च भवतां दमयन्तीलाभः स्यादेव यतः कूटटसाक्षी परकीयं वस्तु अन्यस्मै दापयतीति भावः॥ 17.128 ॥
अहो! महःसहायानां सम्भूता भवतामपि।
क्षमैवास्मै कलङ्काय देवस्येवामृतद्युतेः॥ 17.129 ॥
अन्वयः–अहो, महःसहायानाम् अपि भवातम् अमृतद्युतेः देवस्य इव क्षमा अस्मै कलङ्काय एव सम्भूता।
जीवातु–अहो इति। भो देवाः! महःसहायानां तेजस्विनामपि, भवतां युष्माकम्, अमृतद्युतेः सुधाकरस्य, देवस्य इन्दोः इव, क्षमा क्षान्तिः एव, अन्यत्र–क्षितिः एव `क्षितिक्षान्त्योः क्षमा’ इत्यमरः। अस्मै इन्द्रादिदेवेषु सत्स्वपि दमयन्त्या नलो वृत इति स्त्रीकृतपरिभवरूपाय, कलङ्काय अपवादाय, अयशसे इत्यर्थः। अन्यत्र-कलङ्काय अङ्काय, कृष्णवर्णचिह्नविशेषायेत्यर्थः। चन्द्रे श्यामिका भूच्छायैवेति केचित्। `कलङ्कोऽङ्कापवादयोः’ इत्यमरः। सम्भूता स़ञ्जाता, इत्यो! खेदे। क्षमाया गुणभूतत्वेऽपि समयविशेषे क्षमाकरणात् सञ्जाता, इत्यहो! खेदे। क्षमाया गुणभूतत्वेऽपि समयविशेषे क्षमाकरणात् स्त्रियः अपि न गणयन्तीति भावः॥ 17.129 ॥
सा वव्रे यं तमुत्सृज्य मह्यमीर्ष्याजुषः स्थ किम्?।
ब्रूतागः सद्मनस्तस्माच्छद्मनाऽद्यऽच्छिनद्मि ताम्॥ 17.130 ॥
अन्वयः–सा यं वव्रे तम् उतसृज्य किं मह्यम् ईर्ष्याजुषः स्थ? ब्रुत–आगःसद्‌मनः त्स्मात् अद्य छद्मनां तां छिनद्मि।
जीवातु–सेति। हे देवः! सा भैमी, यं नलम्, वव्रे पतित्वेन वृत्तवती, तम् अपराधिनं तं नलम्, उत्सृदज्य विहाय, किं किमर्थम् मह्यं मां प्रति। `क्रधदुह–’ इत्यादिना सम्प्रदानत्वाच्चतुर्थी। ईर्ष्याजुषः अक्षान्तिभाजः, कोपपरवशा इत्यर्थः। स्थ? भवथ? ब्रूत कथयत, यूयमिति शेषः। अस्तु तावत्, नलात्, अद्य अस्निन्नेव अहनि, तां भैमीम्, छद्मना कपटेन, आच्छिनद्मि आहरामि, आनयामीत्यर्थः, अहमेवेति शेषः। सामीप्ये वर्त्तमाननिर्देशः॥ 17.130 ॥
यतध्वं सहकर्त्तुं मां पाञ्चाली पाण्डवैरिव।
साऽपि पञ्चभिरस्माभिः संविभज्यैव भुज्यताम्॥ 17.131 ॥
अन्वयः–मां सहकर्त्तुं यतध्वम्, पाण्डवैः पाञ्चाली इव सा अपि पञ्चभिः अस्माभिः संविभज्य एव भुज्यताम्।
जीवातु–ततः किमस्माकम्? अत आह-यतध्वमिति। अत्र `ततश्च’ इति पदमध्याहृत्य पूर्वश्लोकेन सह सङ्गतिः रक्षणीया, ततश्च कपटेन दमयन्त्या नयनानन्तरमित्यर्थः। पाञ्चाली द्रौौपदी, पाण्डवैः युधिष्ठिरादिभिः चतुर्भिश्च। त्यदाद्येकशेषः संविभज्य विभागं कृत्वा, पृथक् पृथक् समयं निर्दिश्य इत्यर्थः। भुज्यतां रम्यतामिति यावत्। अतो मां सहकर्त्तु भैम्यानयेन सहायो भवितुम्, यतध्वं चेष्टध्वम्, दमयन्त्यानयेन माम् अनुमन्यध्वम् इति भावः॥ 17.131 ॥
अथापरिवृढा सोढुं मूर्खतां मुखरस्य ताम्।
चक्रे गिरा शरघातं भारती सारतीव्रया॥ 17.132 ॥
अन्वयः–अथ मुखरस्य तां मूर्खतां सोढुम् अपरिवृढा भारती सारतीव्रया गिरा शराधातं चक्रे।
जीवातु-अथेति। अथ कलिप्रलापान्तरम्, भारती सरस्वती, मुखरस्य दुर्मुखस्य, अप्रियवादिन इत्यर्थः। प्रलपतः इति यावत्। कलेरिति शेषः। `दुर्मुखे मुखराबद्धमुखौ’ इत्यमरः. तां तादृशोम्, मूर्खतां मूढताम्, सोढुं क्षन्तुम्, अपरिवृढा अप्रभुः, असमर्था सतीत्यर्थः। `प्रभौ परिवृढ’ इति निपातनात् साधुः। `प्रभुः परिवृढोऽविषः’ इत्यमरः। सारेण न्यायेन, न्यायसङ्गतत्वेनेत्यर्थः, यथार्थत्वेनेति यावत्। `सारो बले स्थिरांशे च न्याये क्लीबं वरे त्रिषु’ इत्यमरः। तीव्रया तीक्ष्णया, अथवा सारया गुर्वर्थप्रतिपादकत्वेन श्रेष्ठया, तीव्रया परुषत्वात् दुःसहया च, गिरा वाचा एव, शरावातं बामप्रहारम्, चक्रे कृतवती, वाक्‌सायकेन तं विव्याव इत्यर्थः॥ 17.132 ॥
कीर्त्तिं भैमीं वरांश्चास्मै दातुमेवागमन्नमी।
न लीढे धोरवैदग्धीं धोरगम्भीरगहिनी॥ 17.133 ॥
अन्वयः–अमी अस्मै कीर्त्तिं, भैमीं, वरान् च दातुम् एव अगमन्; अगम्भीरगाहिनी धीः धीरवैदग्धीं न लीढे।
जीवातु–कीर्त्तिमिति। रे राठ! अमी देवाः, अस्मै नलाय, कीर्त्तिं पुण्यश्लोकताम्, भैमीं दमयन्तीम्, तथा वरान् ईप्सितान् च, दातुं क्तिरितुम् एव अगमन् स्वयंवरसभां गतवन्तः, न तु स्वयं तां परिणेतुमिति भावः। गमेर्लुङ्, इदित्त्वात् च्लेङादेशः। तथा हि, अगम्भीरगाहिनी उत्तानग्राहिणी, गूढार्थं बोद्‌धुमसमर्था यथास्थूलग्राहिणीत्यर्थः। धीः त्वादृशां बुद्धिः, धीराणां मनीषिणाम्, वैदग्धीं चातुर्यम्, गूढाभिप्रायमित्यर्थः। न लीढे आस्वादयति, न वेत्ति इत्यर्थः॥ 17.133 ॥
वाग्मिनीं जडजिह्वस्तां प्रतिवक्तुमशक्तिमान्।
लीलावहेलिनां कृत्वा देवानेवावदत् कलिः॥ 17.134 ॥
अन्वयः–वाग्मिनीं तां प्रतिवक्तुम् अशक्तिनान् जडजिह्वः लीलावहेलितां कृत्वा देवान् एव अवदत्।
जीवातु–वाग्मिलितां जडजिह्वः अप्रगल्भवाक्, वाक्‌प्रयोगानभिज्ञः इत्यर्थः। कलिः कलियुगम्, वाग्मिनीं वाग्मिनीं प्रगल्भवाचम्, तां भारतीं सरस्वतीम्, प्रतिवक्तुं प्रत्युत्तरं दातुम्, अशक्तिमान् असमर्थः सन्, लीलंया विलासेन, उपेक्षाप्रदर्शनरूपचेष्टितविशेषेण इत्यर्थः। अवहेलिताम् अवज्ञाताम्, स्त्रियमित्येवमवधीरितामित्यर्थः। कृत्वा विधाय, अगमयन्तिवेत्यर्थः। देवान् इन्द्रादीन् एव, अवदत् उवाच॥ 17.134 ॥
प्रौञ्छि वाञ्छितमस्माभिरपि तां प्रति सम्प्रति।
तस्मिन् नले न लेशोऽपि कारुण्यस्यास्ति नः पुनः॥ 17.135 ॥
अन्वयः–सम्प्रति अस्माभिः अपि तां प्रति वाञ्छितं प्रौञ्चि, पुनः तस्मिन् नले नः कारुण्यस्य लेशः अपि न अस्ति।
जीवातु–प्रौञ्छीति। सम्प्रति अधुना, अस्माभिः अपि तां भैमीं प्रति, वाञ्छिततम् इच्छा प्रौञ्छि प्रोञ्छितम्, परित्यक्तमिति यावत्। उञ्छतेः कर्मणि लुङ। पुनः किन्तु, तस्मिन् तादृशदुष्कार्यकारिणि इत्यर्थः। नले नैषधे, यः अस्माकं, कारुण्यस्य कृपायाः, लेशः बिन्दुमात्रम् अपि, न अस्ति नैव विद्यते। अस्माकं, कारुण्यस्य कृपायाः, लेशः बिन्दुमात्रम् अपि, न अस्ति नैव विद्यते॥ 17.135 ॥
वृत्ते कर्मणि कुर्मःकिं? तदा नाभूम तत्र यत्।
कालोचितमिदानीं नः श्रृणुतालोचितं सुराः॥ 17.136 ॥
अन्वयः–सुराः वृत्ते कर्मणि किं कुर्मः, यत् तदा त6 न अभूम? इदानीं नः कालोचितम् आलोचितं श्रृणुत।
जीवातु-अकरुणस्तं कृतार्थं किं करिष्यतीत्याशङ्क्याह-वृत्ते इति। सुराः! हे देवाः! वृत्ते गते, कर्मणि भैमीवरणक्रियायाम्, किं कुर्मः? किं सम्पादयामः? इदानीं न किञ्चत् कर्त्तु शक्नुम इत्यर्थः। यत् यस्मात्, तदा तत्काले, तत्र स्वयंवरे; न अभूम नास्म इत्यर्थः. वयमिति शेषः। भवतु, इदानीम् अधुना, नः अस्माकम्, कालोचितं भैम्या नले वृत्तेऽपि एतत्समयोपयोगि, आलोचितं विचारं पुनः। भावे क्तः। श्रृणुत आकर्णयत॥ 17.136 ॥
प्रतिज्ञेयं नले विज्ञाः। कलेर्विज्ञायतां मम।
तेन भैमीञ्च भूमिञ्च त्याजयामि जयामि तम्॥ 17.137 ॥
अन्वयः–विज्ञाः, विज्ञायतां, नले मम कलेः इयं प्रतिज्ञा-तेन भैमीं च भूमिं च त्याजयामि, तं जयामि।
जीवातु–प्रतिज्ञेति। विज्ञाः! हे विबुधाः! नले नलविषये, कलेः कलियुगाधिदेवस्य, मम मे, इयम्, इयम् एषा, प्रतिज्ञा शपथः, विज्ञायताम् अवधार्यताम्। तामेवाह-तेन नलेन, प्रयोज्येन। भैमीञ्च दमयन्तीञ्च, भूमिञ्च राज्यञ्च, त्याजयामि विसर्जयामि, एवञ्च, तं नलम्, जयामि आत्माधीतीकरोमि, उभयत्र भविष्यत्सामीप्ये वर्त्तमानप्रत्ययः॥ 17.137 ॥ 17.137 ॥
नैषधेन विरोधं मे चण्डतामण्डितौजसः।
जगान्ति हन्त गायन्तु रवेः कैरववैरवत्॥ 17.138 ॥
अन्वयः–हन्त, चाण्डतामण्डितौजसः मे नैषधेन विरोधं रवेः कौरववैरवत् जगन्ति गायन्तु।
जीवातु–नैषधेनेति। चण्डतामण्डितौजसः क्रौर्योपस्कृततेजसः, मे मम कलेः, नैषधेन नलेन सह, विरोधं वैरम्, रवेः सूर्यस्य कैरवैः कुमुदैः, वैरवत् शत्रुतालुल्यम्, जगन्ति लोकाः, गायन्तु उच्चैर्घुष्यन्तु इत्यर्थः. हन्तेति हर्षे॥ 17.138 ॥
द्वापरः साधुकारेण तद्विकारमदीदिपत्।
प्रणीय श्रवणे पाणिमवोचन्नमुचेः रिपुः॥ 17.139 ॥
अन्वयः–द्वापरः साधुकारेण तद्विकारम् अदीदिपत्; श्रवणे पाणिं प्रणीय नमुचेः रिपुः अवोचत्।
जीवातु–द्वापर इति। द्वापरः कलेः सहचारितृतीययुगाधिदेवः, साधुकारेम `साधु’ इति शब्दोच्चारणेन, तस्य कलेः, विकारं प्रलापम्, अदीदिपत् अवावृधत्। तीप्यतेर्णौ चङि भ्राजभासभाषदीपजीव-‘इत्यादना विक्लपादुपधाह्रस्वः, `दीर्घो लघोः’ इत्यभ्यासदीर्घः अथ नमुचेः रिपुः इन्द्रः, श्रवणे कर्णे, पाणिं करम् प्रणीय निधाय, पाणिभ्यां कर्णौ पिधाय इत्यर्थः। अवोचत् अचीकथत्॥ 17.139 ॥
विस्मेयमतिरस्मासु साधु वैलेक्ष्यमीक्षसे।
यद्‌दत्तेऽल्पमनल्पाय तद्‌दत्ते ह्रियमात्मने॥ 17.140 ॥
अन्वयः–विस्मेयमतिः(त्वम्) अस्मासु साधु वैलक्ष्यम् ईक्षसे, यत् अल्पम् अनल्पाय दत्ते, तत् आत्मने ह्रियं दत्ते।
जीवातु–विस्मेयेति। हे कलेः! विस्मेयमतिः विस्मयनीयबुद्धिः, त्वमिति शेषः। अस्मासु वैलक्ष्यं सलज्जत्वम्, ईक्षसे पश्यसि, साधु `जगतो ह्रीस्तु युष्माभिः’ इति यदुक्तं तत् साधु उक्तम्, इत्यर्थः। कुतः? अनल्पाय महार्हाय, अल्पं स्तोकम् यत्‌ दत्ते अर्पयति, तत् अल्पदत्तम्, आत्मने अल्पदात्रे जनाय, ह्रियं लज्जाम्, दत्ते जनयतीत्यर्थः। अधिकदानार्हाय अल्पदानस्य दातुरेव ह्रीकरत्वात् महते नलाय कीर्त्त्यादिकमल्पमेव प्रदत्तमित्यस्माकं लज्जा युक्तैवेति भावः॥ 17.140 ॥
फलसोमां चतुर्वर्ग यच्छतांशोऽपि यच्छति।
नलस्यास्मदुपघ्ना सा भक्तिर्भूताऽवकेशिनी॥ 17.141 ॥
अन्वयः–यच्छतांशः अपि फलसीमां चतुर्वगं यच्चति, अस्मदुपघ्ना नलस्य सा भक्तिः अवकेशिनी भूता।
जीवातु–ततः किमत आह-फलेति। यच्छतांशः यस्याः भक्तेः, शततमांशः अपि। सङ्ख्याशब्दस्य वृत्तिविषये पूरणार्थत्वं त्रिभागवत्। फलसीमां फलावधिम्, चरमफलरूपमिति यावत्। चतुर्वर्गं धर्मार्थकाममोक्षरूपपुरुषार्थचतुष्टयम्, यच्छति ददाति नलाय दातुमर्हतीत्यर्थः। `पाघ्रा-’ इत्यादिना यच्छादेशः। वयम्, उपघ्नः आश्रयः यस्याः सा अस्मदुपघ्ना अस्मद्विषया, उपघ्न आश्रये’ इति निपातः। नलस्य नैषधस्य, सा प्रकर्षतां गता, भक्तिः सेवादिशेषः इत्यर्थः। अवकं शून्यम् ईष्ट इत्यवकेशिनी निष्फला। `सुप्यजातौ णिनिस्ताच्छील्ये’ इति णिनिः `ऋन्नेभ्यो ङीप्’ इति ङीप्। `बन्ध्योऽफलोऽनकेशी च’ इत्यमरः. भूता सञ्जाता, नलस्यास्मद्विषयकभक्तेः शततमांशेनापि संतुष्टैरस्माभिः चतुर्वर्गोऽपि नलाय दातुं शक्यते, किन्तु चतुर्वर्गादधिकस्य फलस्याभावात् प्रकृष्टायास्तद्भक्तेरुचितफलस्य दातुमसामर्थ्यात् तद्भक्तिः निष्फलैव सञ्जातेत्यर्थः। तद्भक्तेः चतुर्वर्गदानरूपम् अपि फल न पर्याप्तं किं पुनर्भैमीदानमिति ऋणिनाम् अस्माकं युक्ता एव ह्रीः इति भावः॥ 17.141 ॥
भव्यो न व्यवसायस्ते नले साधुमतौ कले!
लोकपालविशालोऽसौ निषधानां सुधाकरः॥ 17.142 ॥
अन्वयः–कले, साधुमतौ नलै ते व्यवसायः भव्यः न, असौ निषधानां सुधाकरः लोकपालविशालः।
जीवातु–भव्य इति। हे कले! साधुमती रागद्वेषादिशून्यत्वात् पवित्रचेतसि, नले नैषधे, ते तव, व्यवसायः चेष्टितम्, विरोधकरणोद्‌योगं इत्यर्थः। न भव्यः न श्रेयः, न परिणामशुभावह इत्यर्थः। कुतः? निषधानां निषधाख्यजनपदानाम्, सुधाकरः चन्द्रः, आह्लादकत्वात् चन्द्रसदृश इत्यर्थः। असौ नलः, लोकपालविशालः लोकपाला इन्द्रादयो दिक्‌पाला इत्यर्थः। तद्वत् विशेषेण शालते शोभते इति तादृशः, तदंशत्वात् इति भावः। अतः तदपकारो न परिणामश्रेययस्करः इति निष्कर्षः॥ 17.142 ॥
न पश्यामः कलेस्तस्मिन्नवकाशं क्षमाभृति।
निचिताखिलधर्मे च द्वापरस्योदयं वयम्॥ 17.143 ॥
अन्वयः–वयं क्षमाभृति निचिताखिलधर्मे तस्मिन् कलेः अवकाशं द्वापरस्य च उदयं न पश्यामः।
जीवातु–नेति। किञ्च, क्षमाभृति पृथिवीपाले क्षान्तिशीले च, तस्मिन् नले, कलेः कलियुगाधिपतेः कलहस्य च। `कलिः स्त्री कलिकायां न शूराजिकलह युगे’ इति मेदिनी। अवकाशं छिद्रम्, आक्रमणावसरमित्यर्थः। वयं न पश्यामः न ईक्षामहे, धर्मेण भूमिं पालयतः क्षान्तस्य कुतः कलिदोषः कलहो वेदि भावः। किञ्च, निचिताः उपार्जिताः निश्चिताश्च, अखिलाः कृत्स्नाः, धर्माः पुण्यकर्माणि उपनिषदश्च, वेदस्य गूढार्थाः इत्यर्थः। येन तादृशे, नले द्वापरस्य भवन्मित्रस्य तृतीययुगस्य, सन्देहस्य च, उदयम् आक्रमणावकाशं प्रकाशञ्च, वयं न, पश्यामः। `द्वापरौ युगसंशयौ’ इत्यमरयादवो। क्षान्तिशीले नले कलहस्यावकाशो न, निश्चितसकलधर्मरहस्ये च नले धर्मसन्देहस्यापि उदयो न सम्भवतीत्यर्थः॥ 17.143 ॥
सा विनीततमा भैमी व्यर्थानर्थग्रहैरहो!।
कथं भवद्विधैर्बाध्या प्रमितिर्विभ्रमैरिव?॥ 17.144 ॥
अन्वयः–अहो विनीततमा सा भैमी व्यर्थानर्थग्रहैः भवद्‌विषैः प्रमितिः विभ्रमैः इव कथं बाध्या?
जीवातु–सेति। किञ्च, विनिततमा अतिशयेन विनम्रा, उपमानपक्षे चविनीत निराकृतं, तमः अझानं यया सा भ्रमज्ञाननिरासिनीत्यर्थः। सा भैमी दमयन्ती, व्यर्थः निष्फलः अनर्थग्रहः वैराचरणरूपाकार्याभिनिवेशः येषां तादृशैः, पक्षान्तरे च-व्यर्थो निष्फलः, अनर्थस्य शुक्तौ रजतादेः निष्प्रयोजनस्य, ग्रहो ज्ञानं येषां तादृशैः, भवद्विधैः युष्मादृशैः, प्रमितिः प्रमाज्ञानम्, सम्यगनुभूतिरिति यावत्। विभ्रमैः मिथ्याज्ञानैः इव, कथं केन प्रकारेम, बाध्या बाधितुं पीडयितुं शक्या? नैव शक्येत्यर्थः। अहो! इत्याश्चर्ये; पातिव्रत्यतेजसो दुर्द्धर्षत्वादिति भावः॥ 17.144 ॥
तं नासत्ययुगं तां वा त्रेता स्पर्द्धितुमर्हति।
एकप्रकाशधर्माणं न कलिद्वापरौ! युवाम्॥ 17.145 ॥
अन्वयः–कलिद्वापरौ, एकप्रकाशधर्माणं तं तां वा नासत्ययुगं त्रेता वा (असत्ययुगं त्रेता वा नः स्पर्द्धितुम् अर्हति, युवां न।
जीवातु–तमिति। कलिद्वापरौ! हे युगविशेषौ!,एकः केवलः, प्रकाश उज्ज्वलः प्रसिद्धो वा, धर्मो न्यायः, न्यायविचार इत्यर्थः। पुण्यं वा स्वभावो वा यस्य तम् एकप्रकाशधर्माणम्, एतत् दमयन्त्यामपि योज्यम्। `धर्मदनिच्केवलात्’ इत्यनिच्। `धर्माः पुण्ययमन्यायस्वभावाचारसोमपाः’ इत्यमेव, युगं सत्ययुगमित्यर्थः. तथा त्रेता त्रेतायुगमपि स्पद्धितुमर्हति तुलयितुं योग्य भवति; न तु जेतुमिति भावः। युवां कलिद्वापरौ युगे, न तां तां वः स्पर्द्धितुं नार्हथ इति विभक्तिविपरिणामेनान्वयः। अथवा–अस्त्यस्य युगं कृतयुगापेक्षया अधर्मयुगम्, त्रेता युगविशेषः अग्नित्रयञ्च। `त्रेताऽग्नित्रितये युगे’ इत्यमरः। स्पर्द्धितुं नार्हति, नासत्ययोर्युगमश्विनोर्द्धयञ्च, तं नलम्, स्पर्द्धितुम् अर्हति सौन्दर्येणोति च गम्यते। सुतरां युवां कलिद्वापरौ न स्पर्द्धितुमर्हथ इत्यर्थः॥ 17.145 ॥
करिष्ये।ष़वश्यमित्युक्त्वा करिष्यन्नपि दुष्यसि।
दृष्टादृष्टा हि नायत्ताः कार्य्यीया हेतवस्तव॥ 17.146 ॥
अन्वयः–अवश्यं करिष्ये–इति उक्त्वा करिष्यन् अपि दुष्यसि, हि कार्यीयाः दृष्टादृष्टाः हेतवः तव आयत्ताः न।
जीवातु–करिष्य इति। हे कले! अवश्यं निश्चितम्, करिष्ये विधास्यामि, इत्युक्त्वा एवं कथयित्वा, सर्वथा पापं करिष्यामि इति प्रतिज्ञाय इत्यर्थः। करिष्यन् अपि चिकीर्षुरपि, दुष्यसि दुष्टोऽसि, किमुत कृत्वा इति भावः। हि तथा हि, कार्यस्य इमे कार्यींयाः कार्योत्पादनयोग्याः। `वृद्धाच्छः’ दृष्टादृष्टा लक्षितालक्षिताः, हेतवः कारणानि, दडचीवरादयो दृष्टहेतवः, कालकर्मेश्वरेच्छादयोऽदृष्टा हेतवः इत्यर्थः। तव ते, आयत्ताः अधीनाः, न,किन्तु तत्तत्कार्योत्पादिका सामग्री कालवशाददृष्टवशाच्च स्वयमेव सम्पाद्यते, न तु त्वया सम्पादयितुं शक्या, तथा च करिष्येऽवश्यमित्युक्त्वा पापकार्येऽकृतेऽपि मनसि तच्छिन्तया मुके तदुच्छारणेन च भवद्विधानां पातकं जातमिति भावः॥ 17.146 ॥
द्रोहं मोहेन यस्तस्मिन्नाचरेदचिरेम सः।
तत्पापसम्भवं तापमाप्नुयादनयात् ततः॥ 17.147 ॥
अन्वयः–यः मोहेन तस्मिन् द्रोहम् आचरेत्, सः अचिरेम ततः अनयात् तत्पापसम्भवं तापम् आप्नुयात्।
जीवातु–द्रोहमिति। किञ्च, यः यो जनः, मोहेन अज्ञतावशेन, मौर्ख्यतया इत्यर्थः। तस्मिन् नले विषये, द्रोहम् अपकारम्, आचरेत् विदधीत, सः जनः, अचिरेण शीघ्रमेव ततः तस्मात् अनयात् दुर्नयात् हेतोः, तत्पापसम्भवं नलद्रोहजन्यपातकसम्भूतम्, तापं तीव्रयातनाम्, आप्नुयात् लभेत॥ 17.147 ॥
युगशेष! तव द्वेषस्तस्मिन्नेष न साम्प्रतम्।
भविता न हितायैतद्‌वैरं ते वैरसेनिना॥ 17.148 ॥
अन्वयः–युगशेष, तस्मिन्,तव एषः द्वेषः साम्प्रतं न, वैरसेनिना एतद् वैरं ते हिताय न भविता।
जीवातु–युगेति। युगशेष! युगानां सत्यादीनां शेषः चरम! हे कले?, तस्मिन् नले तव ते, एषः अयम्, द्वेषः द्रीहबृद्धिः, न साम्प्रत न युक्तम्, वैरसेनिना नलेन सह, एतत् वैरं विरोधः, ते तव, हिताय मङ्गलाय, न भविता न भविष्यति॥ 17.148 ॥
तत्र यामीत्यसज्ज्ञानं राजसं परिहार्य्यताम्।
इति तत्र गतो मा गा राजसंसदि हास्यताम्॥ 17.149 ॥
अन्वयः–`तत्र यामि’-इति राजसम् असत् ज्ञानं परिहहार्यताम्-इति तत्र राजसंसदि गतः हास्यतां मा गाः।
जीवातु–तत्रेति। हे कले! तत्र स्वयंवरे, यामि यास्यामि, सामीप्ये वर्त्तमानप्रयोगः, इति एवभ्भूतम्, राजसं रजःप्रयुक्तम्, असत् ज्ञानं दुर्बुद्धिः, परिहार्य्यतां निरस्यताम्, इति असज्ज्ञानात् तत्र राजसंसदि राजसभायाम्, गतः उपस्थितः सन्, हास्यताम् उपहास्यताम्, मा गाः न गच्छे॥ 17.149 ॥
(गत्वान्तरा नलं भैमीं नाकस्मात्त्वं प्रवेक्ष्यसि।
षण्णां चक्रमसंयुक्तं पठ्यमानं डकारवत्॥ 17.149.1 )
अन्वयः–गत्वा नलं भैमीम् अन्तरा षण्णां चक्रम् असंयुक्तं पठ्यमानं डकारवत् अकस्मात् त्वं न प्रेवेक्ष्यसि।
अपरेऽपि दिशामीशा वाचमेनां शचीपतेः।
अन्वमन्यन्त किन्त्वेनां नादत्त युगयोर्युगम्॥ 17.150 ॥
अन्वयः–अपरे अपि दिशाम् ईशाः शचीपतेः एनां वाचम् अन्वमन्यत्, किन्तु युगयोः युगम् एनां न अदत्त।
जीवातु–अपरे इति। दिशां ककुभाम्, अपरे अन्ये, ईशाः अधिपाः, अग्न्यादयोऽपीत्यर्थः। शचीपतेः इन्द्रस्य, एनां पूर्वोक्ताम्, वाचम् उपदेशवचनम्, अन्वमन्यन्त अन्वमोदन्त, इन्द्रवाक्यं युक्ततया अभ्यन्दन् इत्यर्थः। तेऽपि तथैव ऊचुः इति भावः। किन्तु एनां वाचम्, युगयोः कलिद्वापरयोः युगं युग्मम्। कर्तृ, न आदत्त न अगृह्णात्, न स्वीचकार इत्यर्थः॥ 17.150 ॥
कलिं प्रति कलिं देवा देवान् प्रत्येकशः कलिः।
सोपहासं समैर्वर्णैरित्थं व्यरचयन्मथः॥ 17.151 ॥
अन्वयः–देवाः किलं प्रति कलिः देवान् प्रत्येकशः समैः वर्णैः इत्थं मिथः सोपहासं कलिं व्यरचयन्।
जीवातु-कलिमिति। देवाः इन्द्रादयः, कलिं कलियुगं प्रति, कलिश्च देवान् प्रति एकशः प्रत्येकम् वीप्सायां शस्। समैः वर्णैः उभयसाधारणशब्दैः, श्लिष्टाक्षरैरित्यर्थः। इत्थं वक्ष्यमाणभङ्ग्या, मिथः परस्परम्, सोपहासम् उपहाससंहितम्, कलिं कलहम्, व्यरचयन् अकुर्वन्॥ 17.151 ॥
तत्रागमनमेवार्हं वैरसेनौ तया वृते।
उद्‌वेगेन विमानेन किमनेनापि धावता?॥ 17.152 ॥
जीवातु–कलहप्रकारमेवाहं-तत्रेति। हे कले! तया भैम्या, वैरसेनौ नले, वृते भर्त्तृत्वेन स्वीकृते सति, तत्र स्वयंवरे,अगमनम् अप्रयाणम् एव, अर्हं युक्तम्, अत एव उद्धेगेन उत्कटजवेन, धावता शीघ्रं गच्छता, अनेन विमानेन व्योमयानेन, किम्? किं इदानीं त6 गमनं निष्फलमित्यर्थः।
अन्वयः–तत्र तया वैरसेनौ वृते अगमनम् (आगमनम्) एव अर्हम्, उद्धेगेन अनेन विमानेन अपि धावता किम्?
अन्यत्र-हे इन्द्र! तत्र स्वयंवरे, तया वैरसेनौ वृते सति आगमनं ततः प्रत्यावर्त्तनमेव, गमेर्ण्यन्तात् लियुट्। अर्हं युक्तम्, अथवा, अगमनमेव स्वर्गं प्रति गमनाबाव एव, अहं भैमीलाभार्थं पृथिव्यागतैः भवद्भिव्यर्थमनोरथत्वेन इन्द्राण्यादिसविधे मुखं दर्शयितुमशक्यत्वात् सर्वथा स्वर्गो न गन्तव्य एवेति भावः। तथा अपिधआ अपिधानम्, आच्छादनमित्यर्थः, `आतश्चोपसर्गे’ इत्यङ्प्रत्ययः। तद्वतः आच्छादनवता, निंगूहितेन इत्यर्थः। विमानेन मानरहितेन, अनेन मुखदर्शनानुमितेन, उद्‌वेगेन चित्तचाञ्चल्येन, अपमानजनितमनःक्षोभेणेत्यर्थः। किम्? अलम्, तद्‌गोपनं व्यर्थवेत्यर्थः। धैर्यावलम्बनेन भैम्यलाभजन्यदुःखं संवृतमपि मया भावदर्शनादिना सम्यगनुमितमेव, सुतरां दुःखगोपनं व्यर्थमेवेति भावः। अत्र द्वयोः अर्थयोः प्रकृतत्वात् केवलप्रकृतश्लेषः॥ 17.152 ॥
पुरा यासि वरीतुं यामग्र एव तया वृते।
अन्यस्मिन् भवतो हाऽऽस्यं वृत्तमेतत्त्रपाकरम्॥ 17.153 ॥
अन्वयः–यां वरीतु पुरा यासि तया अग्रे एव अन्यस्मिन् वृते हा, भवतः एतत् वृत्तम् आस्यं त्रपाकरम्(भवतः एतत् वृत्तं हास्यं त्रपाकरम्)।
जीवातु–पुरेति। हे कले! यां भैमीम् वरीतुं पत्नीत्वेन स्वीकत्तुंम, पुरा आगमिनि, शीग्रमेवेत्यर्थः। यासि यास्यसि, `यावत्पुरा-’ इति भविष्यति लट्। `निकटागामिके पुरा’ इत्यमरः। तया भैम्या, अग्रे एव तवागमनात् प्राक् एव, अन्यस्मिन्‌ पुरुषान्तरे, वृतस्वीकृते सति, त्रपायाः लज्जायाः, आकरम्, हा! शोचामः इत्यर्थः। `अभितः
परितः-’ इत्यादिना हा-शब्दयोगे द्वितीया। `हा विषादशुगर्त्तिषु’ इत्यमरः।
अन्यत्र-हे वह्ने! पुरा पूर्वम्, यां वरीतुम्, यासी; आयासीः, `पुरि लुङ्चास्मे’ इति भूते लट्। त्वमिति शेषः। तया अग्रे एव तव समक्षमेव, अन्यस्मिन् नले, वृते सति भवतस्तव, एतत् प्रत्यक्षदृश्यम्, वृत्तं वर्त्तृलाकारम्, आस्यं मुखम्, त्रपामाकरोतीति त्रपाकरं लज्जाकरम्, जातमिति शेषः, अत एव हा! शोचामीत्यर्थः॥ 17.153 ॥
पत्यौ तया वृतेऽन्यस्मिन् यदर्थं गतवानसि।
भवतः कोपरोधस्तादक्षमस्य वृथारुषः॥ 17.154 ॥
अन्वयः–यदर्थं गतवान् असि तया अन्यस्मिन् पत्यौ वृते अक्षमस्य वृथारुषः भवतः कोपरोधः स्तात् (भवतः अधःस्तात् अपरः कः?)।
जीवातु–पत्याविति। हे! यदर्थं यद्भैमीनिमित्तम् गतवान् गमनवान्, गमनपरः इत्यर्थः, भावविहितगतशब्दात् मतुप्‌प्रत्ययः। असि भवसि, यां वरीतुं गच्छसीत्यर्थः। तया भैम्या, अनयस्मिन् पत्यौ पूर्वमेव वृते सति, अक्षमस्य प्रतीकाराशक्तस्य, अत एव वृथारुषः निष्फलकोपस्य, भवतः तव, कोपरोधः क्रोधस्य उपशमः, स्तात् अस्तु, इदानीं कोपो न कार्य इत्यर्थः। अस्तेर्लोटि तातङादेशः।
अन्यत्र तु-हे यम! यदर्थं गतवानसि पूर्वं गतोऽसि, भूते क्तवतुः। अक्षमस्य भवतः तव, अधस्तात् अधरः हीनः इत्यर्थः, `दिक्‌ठब्देभ्यः सप्तमी-‘इत्यादिना अधरशब्दात् प्रथमार्थे अस्तातिप्रत्ययः, `अस्ताति च’ इत्यधरस्याधादेशः, `षष्ठ्यतसर्थप्रत्ययेन’ इति तद्योगे षष्ठी। अपरः कः? अन्यः कः? त्वत्तः अधमः कश्चिन्नास्ति इत्यर्थः। समानमन्यत्॥ 17.154 ॥
यासि स्मरं जयन् कान्त्य योजनौघं महार्वता।
समूढस्त्वं वृतेऽन्यस्मिन् किं न ह्रीस्तेऽत्र पामर!॥ 17.155 ॥
अन्वयः–कान्त्या स्मरं जयन् तं महार्वता समूढः योजनौघं यासि (यः कान्त्या जनौघं रंजयन् महार्वता यासि स्म सः त्वं मूढः) पामर अत्र (अत्रप अमरः अन्यस्मिन् वृते ते किं ह्रीः न?
जीवातु–वासीति। पामर! हे नीच! कले! `विवर्णः पामरो नीचः’ इत्यमरः। त्वं कान्त्या सौन्दर्येण, स्मरं कन्दर्पम्, जयन् अधरीकुर्वन्, प्रसाधनविशेषेण स्मरादपि अधिकरूपवान्, सन् इत्यर्थः। तथा महार्वता महाश्वेन, विमानेन इति शेषः। समूढः सम्यक् वाहितश्च सन्, योजनानां चतुष्क्रोशाध्वमानानाम्, ओघं समूहम्, बहुयोजनमित्यर्थः। `योजनानां चतुष्क्रोशाध्वमानानाम्, ओघं समूहम्, बहुयोजनमित्यर्थः। `योजनं परमात्मनि। चतुष्क्रोश्याञ्च योगे च’ इति मेदिनी। यासि गच्छसि, किन्तु अत्र स्वयंवरे, अन्यस्मिन् वृते सति ते ह्रीः लज्जा, न किम्? भविष्यतीति शेषः।
अन्यत्र तु-अत्रप! हे निर्लज्ज!, अमर! वरुण! वः त्वं कान्त्या निजदेहसौन्दर्येण, जनौघं जनसङ्घम्, रञ्जयन् प्रीणयन्, महार्वता वृहदश्वेन, यासि स्म स्वयंवरमयासीः, स त्वं मूढः मूर्खः, असि इति शेषः। अत्र अन्यस्मिन् वृते तव ह्रीः न किम्? पूर्ववदलङ्कारः॥ 17.155 ॥
नलं प्रत्यनपेतार्तिं तार्त्ती तार्त्तीयीकतुरीययोः।
युगयोर्युगलं बुद्‌ध्वा दिवि देवा धियं दधुः॥ 17.156 ॥
अन्वयः–देवाः तार्त्तीकतुरीययोः युगयोः युगलं नलं प्रति अनपेतर्त्तिं बुद्‌ध्वा दिवि धिय दधुः।
जीवातु–नलमिति। अथ देवाः इन्द्रादयः, तार्त्तीयीकतुरीययोः तृतीयचतुर्थयोः, `तीयादीकक् स्वार्थे वा वाच्यः’ इत्यनेन तार्त्तीयीकसिद्धिः। `चतुरश्छयता वाऽऽ
द्यक्षरलोपश्च’ इत्यनेन तुरीयसिद्धिः। युगयोः द्वापरकल्योः, युगलं द्वयम्, कर्म। नलं प्रति अनपेता अनपगता, अस्मद्वाक्येनापि न दूरीभूतेत्यर्थः। आर्त्तिः पीडनेच्छा यस्य तत् तादृशम्, बुद्‌ध्वा विविच्य, दिवि स्वर्गे, धियं मतिम्, दधुः कृतवन्तः, दिवं गन्तुम् ऐषुरित्यर्थः॥ 17.156 ॥
द्वापरैकपरीवारः कलिर्भत्सरमूर्च्छितः।
नलनिग्राहिणीं यात्रां जग्राह ग्रहिलः किल॥ 17.157 ॥
अन्वयः–द्वापरैकपरीवारः मत्सरमूर्च्छितः ग्रहिलः कलिः नलनिग्राहिणीं किल यात्रां जग्राह।
जीवातु–द्वापरेति। मत्सरमूर्च्छितः मूर्च्छितमत्सरः, प्रवृद्धनलशुभद्वेष इत्यर्थः। नलनिर्यातनाय दृढसङ्कल्प इति यावत्। आहिताग्न्यादिषु द्रष्टव्यः। अत एव ग्रहिलः आग्रहवान्, पिट्ठादित्वात् मत्वर्थीय इलच्‌प्रत्ययः। कलिः चतुर्थयुगम्, द्वापरस्तृतीययुगम् एव, एकः केवलः, परीवारः परिजनः यस्य तादृशः, द्वापरमात्रसहायः सन्नित्यर्थः। नलनिग्राहिणीं नलनिग्रहार्थाम् इत्यर्थः। यात्रां गमनम्, जग्राह स्वीचकार, किल खलु॥ 17.157 ॥
नलेष्टापूर्त्तसम्पूर्त्तेर्दूरदुर्गानमुं प्रति।
निषेधन् निषघआन् गन्तुं विघ्नः सञ्जघटे घनः॥ 17.158 ॥
अन्वयः–नलेष्टापूर्त्तसम्पूर्त्तेः अमुं प्रति दूरदुर्गान् निषधान् गन्तुं निषेधन्घनः विघ्नः सञ्जघटे।
जीवातु–नलेति। नलस्य वैरसेनेः, इष्टापूर्त्ताभ्यां क्रतुखातादिधर्मकर्मभ्याम्। `अथ क्रतुकर्मेष्टं पूर्त्तं खातादिकर्मणि’ इत्यमरः। सम्पूर्त्तेः सम्यक् पूर्णत्वात्, बहुधर्मानुष्ठानचिह्नव्याप्तत्वादित्यर्थः। अमुं पापरूपं कलिं प्रति, दूरमत्यर्थ, दुःखेन गच्छति एष्विति दुर्गाः, `सुदुरोरधिकरणे’ इति डप्रत्ययः। तान् दूरदुर्गान् अतिदुर्गमान्, निषधान् देशान्, गन्तुं प्रयातुम्, निषेधन् निवारयन्, गमनं प्रतिबघ्नन्निवेत्यर्थः। घनः निरन्तरः, विघ्नः प्रत्यूहः, सञ्जघटे वक्ष्यमाणरीत्या घटितवानित्यर्थः। धर्मगुप्तया निषधदेशाः कलिना दुष्प्रवेशा बभूवुरिति निष्कर्षः॥ 17.158 ॥
(मण्डलं निषधेन्द्रस्य चन्द्रस्येवामलं कलिः।
प्राप म्लापयितुं पापः स्वर्भानुरिव संग्रहात्॥ 17.158.1 )
अन्वयः–स्वर्भानुः इव पाः कलिः चन्द्रस्य इव, निषधेन्द्रस्य अमलं मण्डलं संग्रहात् म्लापयितुं प्राप।
कियताऽथ च कालेन कालः कलिरुपेयिवान्।
भैमीभर्त्तुरहंमानी राजधानीं महीभुजः॥ 17.159 ॥
अन्वयः–अथ च कालः अहंमीनी कलिः कियता अपि कालेन भैमीभर्त्तुः महीभुजः राजधानीम् उपेयिवान्।
जीवातु–कियतेति। अथ देवानां सन्निधानात् प्रस्थानानन्तरम्, कियता च कालेन किञ्चित्कालेऽतीते इत्यर्थः। अहंमानी अहङ्कारी, कलिः कालः युगात्मकसमयरूपः पापात्मकत्वात् श्यामरूपो वा, भैमीभर्त्तुः दमयन्तीपतेः, महीभुजः राज्ञो नलस्य, राजानः धीयन्ते अस्यामिति राजधानी नगरी ताम्, `करणाधिरकणयोश्च’ इत्यधिकरणार्थे ल्युट् उपेयिवान् उपगतः, निपातनात् साधुः॥ 17.159 ॥
वेदानुच्चरतां तत्र मुखादाकर्णयन् पदम्।
न प्रसारयितुं कालः कलिः पदमपारयत्॥ 17.160 ॥
अन्वयः–तत्र वेदान् उच्चरतां मुखात् पदम् आकर्णयन् कालः कलिः पदं प्रसारयितुं न अपारयत्।
जीवातु–अथ पुरप्रवेशे विघ्नप्रकारमाह-वेदानिति। तत्र राजधान्याम्, वेदान् श्रुतीः, उच्चरताम् उच्चारयताम्, अधीयानानां श्रोत्रियाणाम् इत्यर्थः। मुखात् वदनात्, पदं मन्त्रतुर्थाशापराख्यं पदजातम्, आकर्णयन्, श्रृण्वन् कालः समयात्मकः पापात्मको वा, कलिः जघन्ययुगम्, पदं चरणम्, असारयितुं विस्तारयितुम्, न अपारयत् न अशक्नोत्॥ 17.160 ॥
श्रुतिपाठकवक्त्रेभ्यस्तत्राकर्णयतः क्रमम्।
क्रमः सङ्कुचितस्तस्य पुरे दूरमवर्त्तत॥ 17.161 ॥
अन्वयः–तत्र पुरे श्रुतिपाठकवक्त्रेभ्यः क्रमम् आकर्णयतः तस्य क्रमः सङ्कुचितः दूरम् अवर्त्तत।
जीवातु-श्रुतीति। तत्र पुरे, श्रुतिपाटकवक्त्रेभ्यः वेदाध्येतृमुखेभ्यः, क्रमम् उभयापराख्यं पदजातम्, आकर्णयतः श्रुतिपाठकवक्त्रेभ्यः, तंस्य कलेः, क्रमः पादन्यासः, सङ्कुचितः प्रतिबद्धः सन्, दूरम् अवर्त्तत प्रवेशाशक्त्या दूरे स्थितः इत्यर्थः। वेदध्वनिप्रभावेणेति भावः॥ 17.161 ॥
तावद्‌गतिर्धृताटोपा पादयोस्तेन संहिता।
न वेदपाठिकण्ठेभ्यो यावदश्रावि संहिता॥ 17.162 ॥
अन्वयः–तेन वेदपाठिकण्ठेभ्यः यावत् पादयोः संहिता न अश्रावि तावत् धृताट
ोपा (पादयोः) गतिः संहिता।
जीवातु–तावदिति। तावत् तत्पर्यन्तम्, तेन कलिना, पादयोः चरणयोः, धृताटोपा साडम्बरा, सदर्पा इति यावत्, गतिः विहरणम्, संहिता सन्धृता, अवलम्बितुं शक्ता इत्यर्थः। यावत् यत्पर्यन्तं, वेदपाठिनाम् वेदाध्येतॄणाम्, कण्ठेभ्यः मुखेभ्यः, संहिता पूर्वोक्तपदक्रमरूपावस्थाद्वयविलक्षणा ऋगादिरूपा, न अश्रावि न श्रुता, तच्छृणोतेस्तूभय एव पादयोरिति भावः। तदेतदारण्यकेश्रुतम् अन्नाद्यकामो निर्भुजं ब्रू यात् स्वर्गकामः प्रतृण्वन् उभयमन्तरेण’ इति॥ 17.162 ॥
तस्य होमाज्यगन्धेन नासा नाशमिवागमत्।
तत्रातत दृशौ नासौ क्रतुधूमकदर्थिते॥ 17.163 ॥
अन्वयः–तत्र तस्य नासा होमाज्यगन्धेन नाशम् इव अगमत् असौ क्रतुधूमकदर्थिते दृशौ न अतत।
जीवातु–तस्येति। तत्र पुरे, होमाज्यगन्धेन होमसम्बन्धिधृतपरिमलेन, तस्य कलेः, नासा घ्राणेन्द्रियम्, नाशं विध्वस्तम्, आगमत् इव प्रापदिव, तथा असौ कलिः, क्रतुधूमेन, यज्ञधूमेन, कदर्थिते दूषिते, अन्धीभूते इत्यर्थः। दृशौ नेत्रे, नातत न अतनिष्ट, नोन्मीलयितुं शक्त इत्यर्थः, हव्यगन्धज्ञधूमाद्यसहिष्णुतया इति भावः। तनोतेर्लुङि तङ्‌ `तनादिभ्यस्तथासोः’ इति सिचो लुक्। पक्षे `अनुदात्तोपदेश-’ इति सिचो लुक्। पक्षे `अनुदात्तोपदेश-’ इत्यादिना अनुनासिकलोपः॥ 17.163 ॥
अतिथीनां पदाम्भोभिरिमं प्रत्यतिपिच्छिले।
अङ्गणे गृहिणामत्र खलेनानेन चस्खले॥ 17.164 ॥
अन्वयः–अत्र अतिथीनां पदाम्भोभिः इमं प्रति अतिपिच्छिले गृहीणाम् अङ्गणे अनेन खलेन चस्खले।
जीवातु–अतिथीनामिति। अत्र पुरे, अतिथीनां गृहागतपान्थानाम्, पदाम्भोभिः चरणप्रक्षालनोदकैः, इमं कलिं प्रति, न तु धार्मिकान् प्रतीति भावः, अतिपिच्छिले सर्वदा जलार्द्रत्वात् विजिले अतिमसृणे इत्यर्थः, पिच्छादित्वादिलच्प्रत्ययः। गृहीणां गृहस्थानाम्, अङ्गणे चत्वरे, खलेन दुर्जनेन, अनेन कलिना, चस्खले स्खलितम्, पतितमित्यर्थः, भावे लिट्॥ 17.164 ॥
पुटपाकमिव प्राप क्रऐतुशुष्ममोष्मभिः।
तत्प्रतय्ङ्गमिवाकर्त्ति पूर्तोर्मिव्यजनानिलैः॥ 17.165 ॥
अन्वयः–क्रतुशुष्ममहोष्मभिः पुटपाकम् इव प्राप, पूर्त्तोर्मिव्यजनानिलैः तत्प्रत्यङ्गम् इव अकर्त्ति।
जीवातु–पुटेति। क्रतुषु यज्ञेषु, शुष्मणाम् अग्नीनाम्, `अग्‌निर्वैश्वानरो वह्निर्वीतिहोत्रो धनञ्जयः। बर्हिः शुष्मा कृष्मवर्त्मा’ इत्यमरः। महोष्मभिः प्रबलसन्तापैः, पुटपाकं निरुद्धमुखपात्रे अन्तर्धूमपाकमित्यर्थः। प्राप लेभे इवेत्युत्प्रेक्षा, कलिरिति शेषः, तथा पूर्त्तानां वापीतडागदीनाम्, ऊर्मयः तरङ्गा एव, व्यजनानि तालवृन्तानि, तेषाम्, अनिलैः वायुभिः, तत्प्रत्यङ्गं तस्य कलेः अङ्गजातम्। वीप्सायमव्ययीभावः। अकर्त्ति इव छिन्नमिवेत्युत्प्रेक्षा। कृती छेदने इति धातोः कर्मणि लुङ॥ 17.165 ॥
पितॄणां तर्पणे वर्णैः कीर्णाद्‌ वेश्मनि वेश्मनि।
कालादिव तिलात् कालाद्‌ दूरमत्रसदत्र सः॥ 17.166 ॥
अन्वयः–अत्र सः वेश्मनि वेश्मनि वर्णैः पितॄणां तर्पणे कीर्णात् कालात् तिलात् कालात् इवल दूरम् अत्रसत्।
जीवातु–पितॄणामिति। सः कलिः, अत्र पुरे, वेश्मनि वेश्मनि गृहे गृहे, वीप्सायां द्विर्भावः। वर्णैः ब्राह्मणादिवर्णचतुष्टयैः, पितॄणां पितृपितामहादीनाम् अग्निष्वात्तादीनां पितृलोकानाञ्च, तर्पणे तर्पणकर्मणि, पितॄनुद्दिश्य तत्त्प्त्यर्थं सतिलोदकदानरूपपैत्र्यक्रियाविशेषे इत्यर्थः। कीर्णात् निक्षिप्तात्, कालात् तिलात् कृष्णतिलात्, कालात् मृत्योरिव `कालो मृत्यौ महाकाले समये यमकृष्णयोः’ इति विश्वः। दूरमत्यर्थम्, अत्रसत् त्रस्तः॥ 17.166 ॥
स्नातॄणां तिलकैर्मेने स्वमन्तर्दीर्णमेव सः।
कृपाणीभूय हृदयं प्रविष्टैरिव तस्य तैः॥ 17.167 ॥
अन्वयः- कृपाणीभूय हृदयं प्रविष्टैः इव तैः स्नातॄणां तिलकैः सः स्वयम् अन्तर्दीर्णम् एव मेने।
जीवातु–स्नातॄणामिति। कृपाणीभूय खड्गीभूय, तस्य कलेः, हृदयं वक्षःस्थलं, प्रविष्टैः कृतप्रवेशैः इव स्थितैः, तैः प्रसिद्धैः, स्नातॄणां स्नायिनां, कृतस्नानामित्यर्थः। तिलकः ऊद्‌र्ध्वपुण्ड्रादिभिः, सः कलिः, स्वम् आत्मानम् अन्तः वक्षसि, दीर्णमेव पाटितमेव, मेने बुबुधे॥ 17.167 ॥
पुमांसं मुमुदे तत्र विन्दन् मिथ्यावदावदम्।
स्त्रियं प्रति तथा वीक्ष्य तमथ म्लानवानयम्॥ 17.168 ॥
अन्वयः–तत्र अयं मिथ्यावदावदं पुमांसं विन्दन् मुमुदे अथ त स्त्रियं प्रति तथा वीक्ष्य म्लानवान्।
जीवातु–पुमांसमिति। अयं कलिः, तत्र पुरे, मिथ्या अनृतम्, तस्याः, वदावदं वक्तारम्, `चरिचलिपतिवदीनां वा द्वित्वमच्याक् चाभ्यासस्येति वक्तव्यम्’ इति साधुः। `वदो वदवदो वक्ता’ इत्यमरः. पुमांसं नरम्, विन्दन् प्राप्नुवन्, मिथ्यावादिनं लोकं पश्यन् इत्यर्थः. मुमुदे तुतोष, तद्‌द्वारा प्रवेष्टुमैच्छदिति भावः। अथ हर्षलाभानन्तरमेव, तं पुरुषं स्त्रियं नारीं प्रति, तथा मिथ्या वदन्तम्, वीक्ष्य दृष्ट्वा, तस्य तां मिथ्यां नर्मोक्तिं ज्ञात्वेत्यर्थः। म्लानवान् म्लानः, विषण्ण इत्यर्थः। `संयोगादेरातो धातोः’ इति निष्ठानत्वम्। अभूत् इति शेषः। स्त्रिया सह नर्मोक्तौ मिथ्याभाषणे दोषाभावादिति भावः॥ 17.168 ॥
यज्ञयूपघनां जज्ञौः स पुरं शङ्कुसङ्कुलाम्।
जनैर्धर्मधनैः कीर्णा व्यालक्रीडीकृताञ्च ताम्॥ 17.169 ॥
अन्वयः–सः यज्ञयूपघनं पुरं शङ्कुसङ्कुलां धर्मधनैः जनैः च कीर्णा तां व्यालक्रोडीकृतां जज्ञौ।
जीवातु–यज्ञेति। सः कलिः, यज्ञयूपैः यज्ञीयपशुबन्धनस्तम्भैः, धनां निरन्तराम्, व्याप्तामित्यर्थः पुरं नगरीम्, शङ्कुसङ्कुलाम् `अस्त्रविशेषाकीर्णामिव, तथा धर्मधनैः धार्मिकैः, जनैः लोकैः, कीर्णा व्याप्ताम्, तां पुरीम् व्यालैः सर्वैः श्वापदैः वा, `व्यालो भुजङ्गमे क्रूरे श्वापदे दुष्टदन्तिनि’ इति विश्वः। क्रोडीकृताम् अङ्कीकृतामिव, जज्ञौ ज्ञातवान्, तद्वत् दुरासदाम् अमन्यतेत्यर्थः। 17.169 ॥
स पार्श्वमशकद् गन्तुं न वराकः पराकिणाम्।
मासोपवासिनां छाया-लङ्घने घनमस्खलत्॥ 17.170 ॥
अन्वयः–सः वराकः पराकिणां पार्श्वं गन्तुं न अशकत् मासोपवासिनां छायालङ्घेन घनम् अस्खलत्।
जीवातु–स इति। वराकः तुच्छः, सः कलिः, पराकिणां कृच्छ्रव्रतविशेषवारिणाम्, `द्वादशाहोपवासस्तु पराकः परिकीर्त्तितः’ इति स्मरणात्। पार्श्व समीपम्, गन्तुं यातुम्, न अशकत् न समर्थोऽभूत्। शक्नोतेर्लिदित्त्वात् च्लेरङादेशः। तथा मासोपवासिनां मासं व्याप्य अनशनव्रतिनान्तु, छायालङघने प्रतिबिम्बाक्रमणेऽपि, घनं भृशम्, अस्खलत् अभ्रंशत्, दुरासदत्वात् तपस्तिनाम् इति भावः॥ 17.170 ॥
आवाहितां द्विजैस्तत्र गायत्रीमर्कमण्डलात्।
स सन्निदधतीं पश्यन् दृष्टनष्टोऽभवद्भिया॥ 17.171 ॥
अन्वयः–तत्र द्विजैः आवाहिताम् अर्कमण्डलात् सन्निदधतीं गायत्रीं पश्यन् सः भिया दृष्टनष्टः अभवत्।
जीवातु–आवाहितामिति। सः कलिः, तत्र पुरे, द्विजैः विप्रैः, आवाहिताम् आहूताम्, अत एव अर्कमण्डलात् सूर्यबिम्बात्, सन्निदधतीं समीपमागच्छन्तीम् गायत्रीं गायत्रीदेवीम्, पश्यन् अवलोकयन्, भिया भयेन, तत्प्रभावादिति भावः। दृष्टनष्टः पूर्वं दृष्टः ईक्षितः, अनन्तरं नष्टः, सद्यः एव अदर्शनं गतः इत्यर्थैः। स्नातानुलिप्तवत् पूर्वकालसमासः। अभवत् अजायत॥ 17.171 ॥
स गृहे गृहीणां पूर्णे घने वैखानसैर्वृते।
यत्याधारेऽमरागारे क्वापि न स्थानमानशे॥ 17.172 ॥
अन्वयः–सः गृहिणां पूर्णे गुहे, वैखानसैः वृते धने (वने), यत्याधारे अमरागारे-क्व अपि स्थानं न आनशे।
जीवातु–स इति। सः कलिः, गृहिणां पूर्ण गृहस्थैः व्याप्ते, सन्बन्धसामान्ये षष्ठी। गृहे भवने, तया वैखानसैः वानप्रस्थैः, `वैखानसो वनेवासो वानप्रस्थश्च तापसः’ इति यादवः। वृते वेष्टिते, घने निरन्तरे, `घने’ इत्यत्र `वने’ इति पाठः साधुः। तथा यतिनां संन्यासिनाम्, आधारे आश्रये, यत्यधिष्ठे इत्यर्थः। अमरागारे देवालये, क्वापि कुत्रापि, स्थानं स्थितिम्, न आनसे न लेभे, `अत आदेः’ इत्यभ्यासदीर्घःष `अश्नोतेश्च’ इति नुडागमः॥ 17.172 ॥
हिंसागवीं मखे वीक्ष्य रिरंसुर्धावति स्म सः।
सा तु सौम्यवृषासक्ता खरं दूरं निरमा तम्॥ 17.173 ॥
अन्वयः–मखे हिंसागवीं वीक्ष्य सः रिरंसुः धावतिस्म, सौम्यवृषासक्ता सा तु तं खरं दूरं निरास।
जीवातु–हिंसेति। सः कलिः, मखे गोमेधाख्ययज्ञे, हिंसाया गौः तां हिंसागवीम् आलम्भार्थां गाम् इत्यर्थः। `गोरतद्धितलुकि’ इति समासान्तष्टच्। वीक्ष्य दृष्ट्वा, रिरंसुः चित्तविनोदनेच्छुः सन् इत्यर्थः। निजाधिपत्यसूचकं गोवधोद्यमं दृष्ट्वेति भावः। अन्यत्र-रन्तुम् इच्छुः, विहर्त्तुम् इच्छुरित्यर्थः। रमेः सनन्तादुप्रत्ययः। धावति स्म द्रुतम् अगात्, सा गौस्तु, सौम्यः सोमदवतो यागः, सः एव वृष धर्मः, तत्र आसक्ता सङ्गता, धर्माभिलषिणी सतीत्यर्थः। सुन्दरवृषभाक्रान्ता चेति गम्यते। `वृषो धर्मे बलीवर्दे, इति मेदिनी। वलीवर्दो वृषभः। अत एव खरं रलयोरभेदात् खलम्, क्रूरमित्यर्थ।, खरं गर्दभञ्च, तं कलिम्, दूरं विप्रकृष्टदेशम्, निरास निचिंक्षेप वृषाक्रान्ताया गोर्विजातीयत्वात् खरनिराकरणं युक्तमिति भावः॥ 17.173 ॥
क्वापि नापश्यदन्विष्यन् हिंसानात्मप्रियामसौ।
स्वमित्रं तत्र न प्रापदपि मूखमुखे कलिम्॥ 17.174 ॥
अन्वयः–तत्र क्व अपि असौ आत्मप्रिया हिंसाम् अन्विष्यन् न अपश्यत्, मूर्खमुखे अपि स्वमित्रं कलिं न प्रापत्।
जीवातु–क्वापीति। असौ कलिः, तत्र पुरे, क्वापि कस्मिन्नपि स्थाने, आत्मनः स्वस्य, प्रियाम् इष्टाम्, हिंसां जीवहत्यादिरुपाम्, अन्विष्यन् मृग्यमाणोऽपि, न अपश्यत् न अवालोकयत्, तथा मूर्खमुखे मूढवक्त्रेऽपि, स्वस्य निजस्य मित्रं सखायम् अनुकूलमिति यावत्। कलिं कलहञ्च, न प्रापत् न अलम्भिष्ट, प्रजानां तथा नियमनादिति भावः॥ 17.174 ॥
मौनेन व्रतनिष्ठानां स्वाक्रोशं मन्यते स्म सः।
वन्द्यवन्दारुभिर्जज्ञो स्वशिरश्च पदाहतम्॥ 17.175 ॥
अन्वयः–सः व्रतनिष्टानां मौनेन स्वाक्रोशं मन्यते स्म वन्द्यवन्दारुभिः च स्वशिरः पदाहतं जज्ञौ।
जीवातु–मौनेति। सः कलिः,व्रतनिष्ठानां नियमावलम्बिनाम्, मौनेन वाक्संयमनेन, स्वस्य आत्मनः, आक्रोशं शापम्, मन्यते स्म बुध्यते स्म; मौनिनो भूत्वा मामेते अशपन् इति अमन्यत इत्यर्थः। तथा वन्द्यानाम् अभिवाद्यानाम्, वन्दारुभिः वन्दनशीलैः, गुरुजनान् नमस्कुर्वंद्भिर्जनैरित्यर्थः। `श्रृवन्द्योरारुः’ स्वशिरः निजमस्तकञ्च, पदेन चरणेन, आहतं ताडितमिव, जज्ञौ मेने। तत् सर्वं शास्त्रविधिपालनं तस्य तादृग्दुःखजनकं सञ्जातम् इति भावः॥ 17.175 ॥
मुनीनां स वृसीः पाणौ पश्यन्नाचामतामपः।
मेने धनैरमी हन्तुं शप्तुं मामद्भिरुद्यताः॥ 17.176 ॥
अन्वनयः–मुनीनां पाणौ वृसीः, आचमताम् अपः पश्यन् सः मेने-अमी मां धनैः हन्तुं अद्भिः शप्तुम् उद्यताः।
जीवातु–मुनीनामिति। सः कलिः, मुनीनां तापसानाम्, पाणौ करे, वृसीः आसनानि, उपवेशनार्थं गृहीताः इति भावः। `व्रतिनामासनं वृसी’ इत्यमरः। तथा आचामताम् उपस्पृशताम्, एषां पाणौ इति शेषः। अपश्चज जलानि, पश्यन् अवलोकयन्, अमी मनयः, मां घनैः मुद्‌गरैः, `द्रुवणे मुद्‌गरधनौ’ इति वैजयन्ती। हन्तुं ताडयितुम्, तथा अद्भिः जलैः, शप्तुञ्च अभिशापं दातुञ्च, उद्यताः प्रवृत्ताः,इति मेने बुबुधे। तादृग्धुःखं प्राप इत्यर्थः॥ 17.176 ॥
मौञ्जीभृतो धृताषाढानाशशङ्के स वर्णिनः।
रज्ज्वाऽमो बद्‌धुमायान्ति हन्तु दंडेन माम ततः॥ 17.177 ॥
अन्वयः–मोञ्जीभृतः धृताषाढान् वर्णिनः सः आशशङ्के–अमी मां रज्ज्वा बद्‌धुं ततः विव्यथे इत्यर्थः॥
जीवातु–मौञ्जीति। सः कलिः, मौञ्जीभृतः मुञ्जतृणनिर्मितमेखलाधारिणः, धृताषाढान् गृहीतपालाशदण्डान्। `विशाखाषाढादण् मन्थदण्डयोः’ इत्यण्‌प्रत्ययः। `पालशो दण्ड आषाढः’ इत्यमरः। वर्णिनः ब्रह्मचारिणः वर्णाद् ब्रह्वारिणि इति इनिप्रत्ययः। दृष्ट्वेति शेषः। अमी वर्णिनः, मां रज्ज्वा पाशेन, मुञ्जमयेनेति भावः। बद्‌धुं संयन्तुम्,ततः बन्धनानन्तरम्, दण्डेन पालशयष्ट्या, हन्तुं ताडयितुञ्च, आयान्ति आगच्छन्ति, इति आशशङ्के सन्दिदेह तथा विव्यथे इत्यर्थः॥ 17.177 ॥
दृष्ट्वा पुरः पुरोडाशमासीदुत्त्रासदुर्मनाः।
मन्वानः फणिनीस्त्रस्तः स मुमोचाश्रु च स्रु चः॥ 17.178 ॥
अन्वयः–पुरः पुरोडाशं दृष्ट्वा सः त्रासदुर्मनाः आसीत् स्रुचः च फणिनीः मन्वातय त्रस्तः अश्रु मुमोच।
जीवातु–दृष्ट्वेति। सः कलिः, पुः अग्रे, पुरोडाशं यज्ञीयपिष्टकपिण्डविशेषम्, `पुरोडाशो हविर्भेदे चमर्या पिष्टकस्य च। रसे सोमलतायाञ्च हुतशेषे च कीर्त्तितः॥’ इति विश्वः। दृष्ट्वा अवलोक्य, उत्त्रासेन भयेन, दुर्मनाः विह्वलः आसीत् अभूत् स्वघातार्थ पाषाणभ्रमादिति भावः। तथा स्रुवः होमादिपात्राणि, फणिनीः भुजङ्गीः, मन्वानः शङ्कमानः, त्रस्तः भीतः सन्, अश्रु बाष्पम्, मुमोच च तत्याज च। अत्र स्रुक्षु फणिनीभ्रान्त्या भ्रान्तिमदलङ्कारः॥ 17.178 ॥
आनन्दन्मदिरादानं विन्दन्नेष द्विजन्मनः॥
दृष्ट्वा सौत्रामणीमिष्टिं तं कुर्वन्तमदूयत॥ 17.179 ॥
अन्वनयः–द्विजन्मनः मदिरादानं विन्दन् एषः आनन्दत्, तं सात्रामणिम् इष्टिं कुर्वन्तं दृष्ट्वा अदूयत।
जीवातु–आनन्ददिति। एषः कलिः, द्विजन्मनः ब्राह्मणस्य, मदिरायाः सुरायाः, आदानं ग्रहणम्, विन्दन्, जानन्, पश्यन् इत्यर्थः। आनन्दत् अमोदत, शास्त्रमर्यादलङ्घनं दृष्ट्वेति भावः। अथ तं मदिरामाददानं ब्राह्मणम्, सौत्रामणीं सौत्रामण्याख्याम्, इष्टिं यागम्, कुर्वन्तं सम्पादयन्तम् दृष्ट्वा अवलोक्य, ज्ञात्वा इत्यर्थः। अदूयत पर्यतप्त,`सौत्रामण्यां सुरां पिबेत्’ इति श्रुतेः। तस्मिन् यज्ञे सुराग्रहणस्य शास्त्रविहितत्वेन पापाभावात् निराशोऽभूत् इति भावः॥ 17.179 ॥
अपश्यद् यावतो ब्रह्म विदां ब्रह्माञ्जलीनसौ।
उदडीयन्त तावन्तस्तस्तास्त्राञ्जलयो हृदः॥ 17.180 ॥
अन्वयः–असौ ब्रह्मविदां यावतः ब्रह्माञ्जलीन् अपश्यत् तस्य हृदः तावन्तः अस्राञ्जलयः उदडीयन्त।
जीवातु–अपश्यदिति। असौ कलिः, ब्रह्मविदां वेदाध्यायिनाम्, यावतः यावत्सङ्ख्याकान्,ब्रह्माञ्जलीन् वेदाध्ययनकालीनपाणिद्वयसम्पुटान्। `संहत्य हस्तावध्येयं स हि ब्रह्माञ्जलिः स्मृतः’ इति स्मरणात्। `अञ्जलिः पाठे ब्रह्माञ्जलिः’ इत्यमरः। अपश्यत् ऐक्षत, तस्य कलैः, हृदः दृदेयात्, तावन्तः तावत्सङ्ख्यकाः, अस्त्राञ्जलयः रक्ताञ्जलयःष उदडीयन्त उड्डीनाः, निर्गता इत्यर्थः॥ 17.180 ॥
स्नातकं घातुकं जज्ञे जज्ञौ दान्तं कृतान्तवत्।
वाचंयमस्य दृष्ट्यैव यमस्येव बिभाय सः॥ 17.181 ॥
अन्वयः–सः स्नातकं धातुकं जज्ञे, दान्तं कृतान्तवत् जज्ञौ, वाचंयमस्य दृष्ट्या एव यमस्य इव (दृष्ट्या) बिभाय।
जीवातु–स्नातकमिति। सः कलिः, स्नातकं समाप्तवेदं जनम्, `स्नाताद्वेदसमासौ’ इति कन्प्रत्ययः। घातुकं स्वस्य हन्तारम्, `लषपत–’ इत्यादिना उकञ्प्रत्ययः। जज्ञे मेने, दान्तं तपःक्लेशसहं, तपस्विनमित्यर्थः। `तपःक्लेशसहोदान्तः’ इत्यमरः। कृतान्तवत् यमतुल्यम्, जज्ञौ बुबुधे, तथा वाचं यच्छतीति वाचयमः मौनव्रती तस्य `वाचि यमो व्रते’ इति खच्प्रत्ययः। `वाचंयमपुरन्दरौ च’ इति निपातनात् साधुः। दृष्ट्यैव दर्शनेनैव, यमस्येव शमनस्येव, बिभाय भीतवान्, भियो लिट्। सर्वत्रैषां तपःप्रभावरय दुर्द्धर्षत्वात् भीतिरिति द्रष्टव्यम्॥ 17.181 ॥
स पाषण्डजनान्वेषी प्राप्नुवन् वेदपण्डितम्।
जलार्थीवानलं प्राप्य पापस्तापादपासरत्॥ 17.182 ॥
अन्वयः–पाषण्डजनान्वेषी पापः सः वेदपण्डितं प्राप्नुवन् जलार्थौ अनलम् इव प्रप्य तापात् अपासरत्।
जीवातु–स इति। पापः क्रूरः, सः कलिः, पाषण्डजनान्वेषी शास्त्रदूषकजनानुसन्धायी सन्, वेदपण्डितं वैदिकः, प्राप्नुवन् लभमानः, पश्यन्नित्यर्थः। जलार्थीं पानीयाभिलाषी, जन इति शेषः। अनलम् अग्निम्, प्राप्येव लब्ध्वेव, तापात् तत्तेजोजन्यसन्तापाद्धेतोः, अपासरत् अपसृतः। ब्रह्मतेजसः पाषण्डदाहकत्वादिति भावः॥ 17.182 ॥
तत्र ब्रह्महणं पश्यन्ततिसन्तोषमानशे।
निर्वर्ण्य सर्वमेधस्य यज्वानं ज्वलति स्म सः॥ 17.183 ॥
अन्वयः–तत्र ब्रह्महणं पश्यन् सः अतिसन्तोषम् आनशे सर्वमेधस्य यज्वानं निर्वर्ण्य ज्वलति स्म।
जीवातु–तत्रेति। सः कलिः, तत्र पुरे, ब्रह्महणं ब्राह्मणं धातयन्तम्, जनमिति शेषः। `ब्रह्मभ्रूणवृत्रेषु-’ इति क्विप्। पश्यन् विलोकयन्, अति अतितराम्, सन्तोषं हषैम्, आनशे प्राप इत्यर्थः। अथ तं ब्रह्महणं, सर्वमेधस्य सर्वमेधाख्ययागस्य, यज्वानं विधिनेष्टवन्तम्, यथाविधि होतारमित्यर्थः। निर्वर्ण्यं निश्चित्य, ज्वलति स्म सन्तप्तोऽभूत `ब्रह्मणे ब्राह्मणमालभेते’ इति श्रुत्या सर्वमेधे ब्राह्णणादिसर्वालम्भविधानात् तस्य धर्मत्वादिति भावः॥ 17.183 ॥
यतिहस्तस्तितैस्तस्य राम्भैरारम्भि तर्जना।
दुर्जनस्याजनि क्लिष्टिर्गृहिणां वेदयष्टिभिः॥ 17.184 ॥
अन्वयः–दुर्जनस्य तस्य यतिहस्तस्थितैः राम्भैः तर्जना आरम्भि, गृहिणां वेदयष्टिभिः क्लिष्टिः अजनि।
जीवातु–यतीति। दुर्जनस्य खलस्य, तस्य कलेः, यतीनां मस्करिणाम्, परिव्राजकानामित्य्रथः। हस्तेषु करेषु, स्थितैः वर्त्तमानैः, रम्भैः वेणुदण्डैः, `त्रिदण्डेन कमण्डलुः’ इति स्मृतेरिति भावः। `राम्भस्तु वैणवः’ इत्यमरः। तर्जना त्रासनम्, आरम्भि कृतेत्यर्थः। तथा गृहीणां गृहस्थाश्रमिणाम्, वेदयष्टिभिः सन्दर्भवेणुदण्डैश्च, `वेणुमान् स कमण्डलुः’ इति स्मृतेः, इति भावः। क्लिष्टिः क्लेशः, अजनि जनिता जनेर्ण्यन्तात् कर्मणि लुङ। `यतिः पाराशरी भीमस्तत्कर्म मस्करी यतिः। बद्धदर्भा वेदयाष्टिर्दम्भो राम्भस्तु वैणवः॥’ इति सर्वत्र यादवः॥ 17.184 ॥
मण्डलत्यागमेवैच्छद् वीक्ष्य स्थण्डिलशायिनः।
पवित्रालोकनादेष पवित्रासमविन्दत॥ 17.185 ॥
अन्वयः–एषः स्थण्डिलशायिनः वीक्ष्य मण्डलत्यागम् एव ऐच्छत्, पवित्रालोकनात् पवित्रासम् अविन्दत।
जीवातु–मण्डलेति। एषः कलिः, स्थण्डिलशायिनः अनास्तृतभूमिशयनव्रतिनः॥ `व्रते’ इति इनिः। `यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ’ इत्यमरः। वीक्ष्य दृष्ट्वा, मण्डलत्यागं देशत्यागम् एव ऐच्छत् अवाञ्छत्, तथा पवित्राणां कुशानाम्, `अस्त्री कुशं कुथो दर्भः पवित्रम्’ इत्यमरः। आलोकनात् दर्शनात्, पवेः कुलिशात्, त्रासं भयम्, अविन्दत अलभत। यथा शक्रकरे वज्रं तथा विप्रकरे कुशाः’ इति स्मृतेरिति भावः॥ 17.185 ॥
अपश्यज्जिनमन्विष्यन्नजिनं ब्रह्मचारिणाम्।
क्षपणार्थी सदीक्षस्य स चाक्षपणमैक्षत॥ 17.186 ॥
अन्वयः–जिनम् अन्विष्यन् सः ब्रह्मचारिणाम् अजिनम् अपश्यत् क्षपणार्थी च सदीक्षस्य अक्षपणम् ऐक्षत।
जीवातु–अपश्यदिति। सः कलिः, जिनं जिनाख्यं बौद्धदैवतम्, स्वमित्रमिति भावः। अन्विष्यन् मृग्यन्, ब्रह्मचारिणां ब्रह्मचर्यपरायणानाम्, अजिनम् आसनार्थं मृगचर्म, जिनराहित्यञ्च, अपश्यत् ऐक्षत, किञ्च क्षपणार्थी स्वमित्रबौद्धसंन्यासिनोऽन्वेषी, सदीक्षस्य दीक्षितस्य राज्ञः, अक्षपणं पाशकदेवनम्, क्षपणकराहित्यञ्च, ऐक्षत अपश्यत् `राजसूये अभिषेचनीये अष्टावक्षैर्दीव्यन्तीति श्रवणात्; तदुभयमप्यस्य दुःसहमिति’ भावः॥ 17.186 ॥
जपतामक्षमालासु बीजाकर्षणदर्शनात्।
स जीवाकृष्टिकष्टानि विपरीतदृगन्वभूत्॥ 17.187 ॥
अन्वयः–विपरीतदृक् सः जपताम् अक्षमालासु बीजाक्रषणदर्शनात् जीवाकृष्टिकष्टानि अन्वभूत्।
जीवातु–जपतामिति। विपरीतदृक् वेदविरुद्धदर्शी, सः कलिः, जपताम् इष्टमन्त्रस्य असकृदुच्चारणं कुर्वताम्, जनानामिति शेषः। अक्षमालासु जपमालिकासु, स्थितानां बीजानां पद्मादिबीजानाम्, जपसङ्ख्यानार्थानामिति भावः। आकर्षणस्य आकृष्टेः, पुनः पुनर्भ्रामणस्येति यावत्। दर्शनात् अवलोकनात् जीवाकृष्टिकष्टानि निजप्राणाकर्षणदुःखानि, अन्वभूत् अनुभूतवान्॥ 17.187 ॥
त्रिसन्ध्यं तत्र विप्राणां स पश्यन्नघमर्षणम्।
परमैच्छद्‌ दृशोरेव निजयोरपकर्षणम्॥ 17.188 ॥
अन्वयः–तत्र त्रिसन्ध्यं विप्राणाम् अघमर्षणं पश्यन् सः परं निजयोः दृशोः एव अपकर्षणम् ऐच्छत्।
जीवातु–त्रिसन्ध्यमिति। स कलिः, तत्र पुरे, त्रिसन्ध्यं सन्ध्यात्रये, `समाहारैकत्वे वा तस्य’ इति नपुंसकत्वम्, अत्यन्तसंयोगे द्वितीया। विप्राणां, ब्राह्मणानाम्, अघमर्षणं तत्तन्मन्त्रसाध्यं पापहरं चुलुकोदकेन नासास्पर्शाभिमन्त्रितं क्रियाविशेषणम्, पश्यन् अवलोकयन्, परं केवलम्, निजयोः दृशोरेव स्वनेत्रयोरेव, अपकर्षणम् उत्पादनम्, ऐच्छत् अवाञ्छत्। अघमर्षणक्रियां दृष्ट्वा नेत्रोत्पाटनवद्‌दुःखमाप इति भावः॥ 17.188 ॥
अद्रक्षीत् तत्र कञ्चिन्न कलिः परिचितं क्वचित्।
भैमानलव्यलीकाणुप्रश्नकामः परिभ्रमन्॥ 17.189 ॥
अन्वयः–तत्र भैमीनलव्यलीकाणुप्रश्नकामः परिभ्रमन् कलिः क्वचित् कञ्चित् परिचितं न अद्राक्षीत्।
जीवातु–अद्राक्षीदिति। कलिः युगाधमः, भैमीनलयोः दमयन्तीनैषधयोः, व्यलीकामोः अकार्यलेशस्य, किञ्चिन्मात्रदोषस्यापीत्यर्थः। `व्यलीकमप्रियाकार्यवैलक्ष्येष्वपि पीडेन’ इति विश्वः। प्रश्नं पृच्छाम्, कामयते वाञ्छिति इति तत्कामः सन् `शीलिकामिभक्ष्याचरिभ्यो णः’। तत्र पुरे, परिभ्रमन् विचपन्, क्वचित् कुत्रापि, कञ्चिदपि कमपि, परिचितं संस्तुतम्, जनमिति शेषः। न अद्राक्षीत् न ऐक्षिष्ट॥ 17.189 ॥
तपःस्वाध्याययज्ञानामकाण्‍डद्विष्टतापसः।
स्वविद्विषां श्रियं तस्मिन् पश्यन्नुपतताप सः॥ 17.190 ॥
अन्वयः–प्रकाण्डद्विष्टतापसः सः तस्निन् तपःस्वाध्यायज्ञानां स्वविद्धिषां श्रियं पश्यन् उपतताप।
जीवातु–तपः इति। अकाण्डे अनवसरे, अकारणमित्यर्थः। द्विष्टा विरुद्धा, तापसाः, तपस्विनः येन तादृशः, सः कलिः, तस्मिन् पुरे, स्वविद्धिषां निजविरोधिनाम्, तपः चान्द्रायणादिचर्या, स्वध्यायः वेदपाठः, यज्ञाः सोमादयः तेषाम्, श्रियं समृद्धिम्, पश्यन् अवलोकयन् उपतताप सन्तप्तो बभूव, शत्रुवृद्धेरसहनीयत्वादिति भावःष॥ 17.190 ॥
कम्रं तत्रोपनम्राया विश्वस्या वीक्ष्य तुष्टवान्।
स म्मलौ तं विबाव्याथ वामदेवाभ्युपासकम्॥ 17.191 ॥
अन्वयः–तत्र सः उपनम्रायाः विश्वस्याः कम्रं वीक्ष्य तुष्टवान्, अथ तं वामदेवाभ्युपासकं विभाव्य म्मलौ।
जीवातु–कम्रमिति। कलिः, तत्र पुरे, उपनभ्रायाः उपासकस्य समीपं स्वयमागतायाः, विश्वस्याः सर्वस्याः, सजातीयाया विजातीयायाः गम्यायाः अगम्यायाश्चेत्यर्थः, स्त्रिया इति शेषः। कम्रं कमितारम्, रन्तारमित्यर्थः। कञ्चनपुरुषमिति शेषः। `नमिकम्पि-’ इत्यादिना रप्रत्ययः। वीक्ष्य दृष्ट्वा, तुष्टवान् तुतोष, तस्य माहापातकित्वेन स्वाश्रयलाभाश्येति भावः। अथ अनन्तरम्, विशेषनिक्षणानन्तरमित्यर्थः। तं कम्रं पुरुषम्, वामदेवः तन्नामदेवताविशेषः, तस्य अभ्युपासकं पूजकम्, विभाव्य विमृश्य, मम्मौ विषसाद। तदुपासकानां `न काञ्चन स्वयमागतां परिहरेत्’ इति श्रुतेस्तदुपभोगस्य धर्म्यत्वादिति भावः॥ 17.191 ॥
वैरिणी शुचिता तस्मै न प्रवेशं ददौ भुवि।
न वेदध्वनिरालम्बमम्बरे विततार च॥ 17.192 ॥
अन्वयः–वैरिणी शुचिता तस्मै भुवि प्रवेशं न ददौ वेदध्वनिः च अम्बरे आलम्बं न विततार।
जीवातु–वैरिणीति। वैरिणी विरोधिनी, कलेरिति भावः। शुचिता लोकानां बाह्याभ्यन्तरशुद्धता गोमयाद्यनुलेपनादिजनितभूमिशुद्धता च, तस्मै कलये, भुवि निषधभूमौ, प्रवेशम् अन्तर्गमनम् न ददौ न दत्तवती, तथा अम्बरे च नगरसम्बन्धिनमसि च, वेदध्वनिः ब्रह्मघोषः, आलम्बम्, आलम्बनम् अवस्थानावकाशमित्यर्थः। न विततार न ददौ॥ 17.192 ॥
दर्शस्य दर्शनात् कष्ठमग्निष्टोमस्य चानशे।
जुघूर्मे पौर्णमासेक्षी सौमं सोऽमन्यतान्तकम्॥ 17.193 ॥
अन्वयः–सः दर्शस्य अग्निष्टोमस्य दर्शनात् कष्चम् आनशे, पौर्णमासेक्षी जुघूर्णे सोमम् अन्तकम् अमन्यत।
जीवातु–अनन्तरश्लोकद्वयं प्रक्षिप्तमिति पूर्वैरुपेक्षितम्, तथाऽपि क्वचित् स्थितत्वात् व्याख्यायते-दर्शस्येत्यादि। सः कलिः, दर्शस्य दर्शयागस्य, तथा अग्निष्टोमस्य तदाख्ययागविशेषस्य च, दर्शनात् अवलोकनात्, कष्टं महत् दुःखम्, आनशे प्राप तथा पौर्ममासं पूर्णमासेष्टिम्, ईक्षते पश्यति इति पौर्णमासेक्षी पौर्ममासयागदर्शी सन्, जुघूर्णे बभ्राम, मूर्छितप्रायोऽभूतदित्यर्थः। तथा सौमं सोमयागञ्च, अन्तकं मृत्युम्, अबुध्यत, मरणयातनामिव यातनामन्वभूदित्यर्थः।. 17.193 ॥
तेनादृश्यन्त वीरघ्ना न तु वीरहणो जिनाः।
नापश्यत् सोऽभिनिर्मुक्तान् जीवन्मुक्तानवैक्षत॥ 17.194 ॥
अन्वयः–तेन वीरघ्नाः अदृश्यन्त, वीरहणः जिनाः तु न; सः अभिनिर्मुक्तान् न अपश्यत् जीवन्मुक्तान् अवैक्षत।
जीवातु–तेनेति। तेन कलिना, वीरघ्नाः क्षात्रधर्मानुसारेण रणे वीरघातिनः, जनाः इति शेषः, `अमनुष्यकत्तृके च’ इति चकारादच्, अत एव क्वचिन्मनुष्यक्रर्त्तुके च’ इति कौमारं सूत्रम्। अद्दश्यन्त एक्ष्यन्त, तु किन्तु, वीरहणः क्षत्रियघातिनः, जिनाः भट्टबास्कराः अग्नित्यागिनः वा वीरहा वा, `एष देवानां योऽग्निमुद्धासयत’ इति श्रुतेरित्यनेन उपलक्षिता इति यावत्, न, अदृश्यन्त इति पूर्वक्रियया अन्वयः. सः कलिः, अभिनिर्मुक्तान् यान् सुप्तान् अभी सूर्योऽस्तमेति ते अभिनिर्मुक्ताः। तान् मुञ्चतेः कर्मणि क्तः। सूर्यास्तकाले निद्रितान् आचारहीनान्, न अपश्यत् न व्यलोकयत्, किन्तु जीवन्मुक्तान् आत्मारामान् पुण्यान् , जनान्, अवैक्षत अपश्यत्॥ 17.194 ॥
स तुतोषाश्नतो विप्रान् दुष्ट्वा स्पृष्टपरस्परान्।
होमशेषीभवत्सोम भुजस्तान् वीक्ष्य दूनवान्॥ 17.195 ॥
अन्वयः–स्पृष्टपरस्परान् अश्नतः विप्रान् दृष्ट्वा सः तुतोष, होमशेषीभवत्सोमभुजः तान् वीक्ष्य दूनवान्।
जीवातु–स इति। सः कलिः, स्पृष्टं कृतस्पर्शम्, परस्परम्, अन्योऽन्यं यैः तान् स्पृष्टपरस्परान् परस्परस्पर्शपूर्वकमित्यर्थः। अश्नतः भक्षयतः, विप्रान् ब्राह्मणान्, दृष्ट्वा विलोक्य, तुतोष मुमुदे, भोजनकाले परस्परस्पर्शस्य निषेधात् तद्विपरीतव्यवहारिणस्तान् दृष्ट्वा स्वाश्रयलाभाशया सन्तुष्ट इत्यर्थः। अथ तान् पूर्वोक्तप्रकारेणाश्नतो विप्रान्, होनशेषीभवन्तं होमावशिष्टम्, सोमं सोमलताचूर्णम्, भुञ्जते अश्नन्ति इति भुजः वीक्ष्य दृष्ट्वा ज्ञात्वा इति यावत्। दूनवान् परतप्तवान्, दुःखमनुभूतावनित्यर्थः। `न सोमेनोच्छिष्टो भवति’ इति श्रुतेः’ `इक्षुदण्डे तिले सोमो नोच्छष्टो मनुरब्रवीत्’ इति स्मृतेश्च सोमभक्षणे परस्परस्पर्शदोषाभावादिति भावः॥ 17.195 ॥
दृष्ट्वा जनं रजोजुष्टं तुष्टिं प्राप्नोज्झटित्यसौ।
तं पश्यन् पावनस्नानावस्थं दुःस्थस्ततोऽभवत्॥ 17.196 ॥
अन्वयः–असौ रजोजुष्टं जनं दृष्ट्वा झटिति तुष्टिं प्राप्नोत् ततः तं पावनस्नानावस्थं पश्यन् दुःस्थः अभवत्।
जीवातु–दृष्टेति। असौ कलिः, रजोभिः धूलिभिः, जुष्टं सेवितम्, व्याप्तमिति यावत्। जनं लोकम् दृष्ट्वा जनोऽयं निषिद्धच्छागखरादिखुरोत्थधूलिव्याप्त इति निश्चित्य स्वाश्रयलाभसम्भावनया तुतोषेत्यर्थः। ततः विशेषनिरीक्षणानन्तरमित्यर्थः। तं रजोजुष्टं जनम्, पावनं पवनसम्बन्धि, यत् स्नानं गोरजःस्नानमित्यर्थः। तादृशी अवस्था दशा यस्य तादृशम् वायव्यस्नाननिरतमित्यर्थः। पश्यन् विलोकयन्, जानन् इत्यर्थः। दुःस्थः दूनः, दुखितः इत्यर्थः। अभवत् अजायत। `वारुणन्तु जलस्नानमापो हिष्ठेति मान्त्रिकम्, वायव्यं गोरजःस्नानमाग्नेयं भस्मनोदितम्॥ यत्तु सातपवर्षेण दिव्यं तदिति पञ्चधा॥’ इति मनुक्तपञ्चविधस्नानान्तर्गतस्य वायव्यस्नानस्य वैधत्वात् तदवस्थं तं दृष्ट्वा दुःखितोऽभवदित्यर्थः॥ 17.196 ॥
अधावत् क्वापि गां वीक्ष्य हन्यमानामयं मदा।
अतिथिभ्यस्तु तां बुद्‌ध्वा मन्दं मन्दो न्यवर्त्तत॥ 17.197 ॥
अन्वयः–अयं क्व अपि हन्यमानां गां वीक्ष्य मुदा अधावत्, तु ताम् अतिथिभ्यः बुद्‌ध्वा मन्दः मन्दं न्यवर्तत।
जीवातु–अधावदिति। मन्दः मूढः, अयं कलिः, क्वापि कुत्रचित् प्रदेशे, गां सौरभेयीम्, हन्यमानाम् आलभ्यमानाम्, वीक्ष्य दृष्ट्वा, मुदा हर्षेण अधावत् द्रुतमागाच्छत्। तु किन्तु, तां गाम्, अतिथिभ्यः अतिथ्यर्थं हन्यमानाम्, बुद्‌ध्वा ज्ञात्वा, मन्दं शनैः शनैः, न्यवर्त्तत व्यरमत्, सखेदं प्रत्यागच्छदित्यर्थः। `महोक्षं वा महाजं वा श्रोत्रियायोपकल्पयेत्’ इति विधानादिति भावः॥ 17.197 ॥
हृष्टवान् स द्विजं दुष्ट्वा नित्यनैमित्तिकत्यजम्।
यजमानं निरूप्यैनं दूरं दीनमुखोऽद्रवत्॥ 17.198 ॥
अन्वयः–सः नित्यनैमित्तिकत्यजं द्विजं दृष्ट्वा हृष्टवान् एनं, यजमानं निरूप्य दीनमुखः दूरम् अद्रवत्।
जीवातु–हृष्टवानिति। सः कलिः नित्यनैमित्तिकत्यजं दानहोमादिकर्मत्यागिनम्, क्विप्। द्विजं विप्रम्, दृष्ट्वा वीक्ष्य, हृष्टवान् मुमुदे। अथ एनं पूर्वोक्तद्विजम्, यजमानं यज्ञे दीक्षितम्, निरूप्य निश्चित्य, दीनमुखः विषण्णवदनः सन्, दूरं विप्रकृष्टदेशम्, अद्रवत् अधावत्, पलायत इत्यर्थः। दीक्षितो न ददाति न जुहोति न वदतीति दीक्षितस्य तन्निषेधे तेन दोषाभावादिति भावः॥ 17.198 ॥
आननन्द निरीक्ष्यायं पुरे तत्रात्मघादितम्।
सर्वस्वारस्य यज्वानमेनं दृष्ट्वाऽथ विव्यथे॥ 17.199 ॥
अन्वयः–तत्र पुरे आत्मघातिनं निरीक्ष्य अयम् आननन्द, अथ एनं सर्वस्वारस्ययज्वानं दृष्ट्वा विव्यथे।
जीवातु–आननन्देति। अयं कलिः, तत्र तस्मिन्, पुरे राजधान्याम्, आत्मघातिनम्, आत्मनाशिनम्, निरीक्ष्य विलोक्य, आननन्द स्वाश्रयलाभाशया तुतोष। अथ एनम् आत्मघातिनम्, सर्वस्वारस्य सर्वस्वारनामात्माहुतिकयागविशेषस्य, तथा रघुवंशेऽप्युक्तः–`यो मन्त्रपूतां तनुमप्यहौषीत्’ इति। यज्वानं यागकारिणम्, दृष्ट्वा वीक्ष्य, तद्याजिनं विदित्वेत्यर्थः। विव्यथे सन्तताप। `सः अन्त्येष्टौ सर्वस्वाराख्ये यज्ञे आत्मानमेव पशुमन्‌त्रैः संस्कृतं घातयित्वा यज्ञभागमर्पयति’ इति श्रुतेः। तत्रात्मघातस्य वैधत्वेन दोषाभावाद् व्यथितोऽभवदित्यर्थः॥ 17.199 ॥
क्रतौ महाव्रते पश्यन् ब्रह्मचारीत्वरीरतम्।
जज्ञौ यज्ञक्रियामज्ञः स भाण्डाकाण्डताण्डवम्॥ 17.200 ॥
अन्वयः–अज्ञः सः महाव्रते क्रतौ ब्रह्मचारीत्वरीरतं पश्यन् यज्ञक्रियां भाण्डाकाण्डताण्डवं जज्ञौ।
जीवातु–क्रताविति। अज्ञः, मूर्खः, कलिः, महाव्रते महाव्रताख्ये, क्रतौ यागे, ब्रह्मचारिणः वर्णिनः, इत्वर्याः कुलटायाश्च, रतं मैथुनम् `महाव्रते ब्रह्मचारिपुंश्चल्योः सम्प्रवादः’ इति श्रुतिविहितं ग्राम्यभाषणादिकं वा, `इण्नश्‌जिमर्त्तिभ्यः क्वरप्’ `असती कुलटेत्वरी’ इत्यमरः। पश्यन् विलोकयन्, यज्ञक्रियां यागव्यापारम्, भाण्डानाम् अश्लीलभाषिणाम्, अकाण्डताण्डवम् असमयकृतोद्धतनृत्यमिव, जज्ञौ मेने, भण्डचेष्टितममन्यतेत्यर्थः॥ 17.200 ॥
यज्वभार्याश्वमेधाश्वलिङ्गालिङ्गिवराङ्गतान्।
दृष्ट्वाऽऽचष्ट स कर्त्तारं श्रुतेर्भण्डमपण्डितः॥ 17.201 ॥
अन्वयः–यज्वभार्याश्वमेधाश्वलिङ्गालिङ्गिवराङ्गतां दृष्ट्वा सः अपण्डितः श्रुतेः कर्त्तारं भण्डम् आचष्ट।
जीवातुः–यज्वेति। अपिण्डितः मूर्खः, सः कलिः, यज्वभार्यायाः यजमानस्य पत्न्याः, अश्वमेधे तदाख्यायज्ञे, अश्वस्य यज्ञियाश्वस्य, लिङ्गेन मेहनेन, आलिङ्गिवराङ्गतां सेयोजितयोनिताम्, `निरायत्याश्वस्य शिश्नं महिष्युपस्थे निधत्ते’ इति श्रुतिविहितामिति भावः। दृष्ट्वा वीक्ष्य, श्रुतेः कर्त्तारं वेदप्रणेतारम्, भण्डम्, असज्जनम्, अश्लीलविषयोपदेष्टारमिति यावत्। आचष्ट अकथयत्। केनचित् भण्डेन प्रणीताः वेदाः इति बभाषे इत्यर्थः।
अथ भीमजया जुष्टं व्यलोकत कलिर्नलम्।
दुष्टदृग्भिर्दुरालोकं प्रभयेव प्रभाविभुम्॥ 17.202 ॥
अन्वयः–अथ कलिः प्रभया (जुष्टं) दुष्टदृग्भिः दुरालोकं प्रभाविभुम भीमजया जुष्टं नलं व्लोकत।
जीवातु–अथेति। अथ पूर्वोक्तरूपदर्शनानन्तरम्, कलिः चतुर्थयुगाधिपतिः, भीमजया भैम्या, जुष्टं सेवितम्, दुष्टदृग्भिः पापदृष्टिभिः, अन्यत्र-रोगोपहतदृष्टिभिः, दुरालोकं दुर्दर्शनम्, नलं वैरसेनिम्, प्रभमा दीप्त्या सूर्यभार्यया संज्ञादेव्या च जुष्टं प्रभाविभुं प्रभाकरं, सूर्यम्, इवेत्यर्थः। व्यलोकत अपश्यत्॥ 17.202 ॥
तयोः सौहार्दसान्द्रत्वं पश्यन् शल्यमिवानशे।
मर्मच्छेदमिवानच्छ स तन्नर्मोक्तिभिर्मिथः॥ 17.203 ॥
अन्वयः–तयोः सौहार्दसान्द्रत्वं पश्यन् सः शल्यम् इव आनशे, मियः तन्नर्मोक्तिभिः मर्मच्छेदम् इव आनच्छ।
जीवातु–तयोरिति। सः कलिः, तयोः, भैमीनलयोः, सुहृदोः भावः सौहार्दं प्रेम, `युवादिभ्योऽण्’, `हृद्भग-’ इत्यादिना उभपदवृद्धिः, तस्य सान्द्रत्वं घनत्वम्, पूर्मत्वमित्यर्थः। सौहार्दोतर्षमिति यावत्। पश्यन् अवलोकयन् शल्यम् अस्त्रविशेषाघातम्, आनशे इव प्राप इव। तथा मिथः परस्परम्, तयोः भैमीनलयोः, नर्मोक्तिभिः परिहासविशेषैः, मर्मच्छेदं हृदयच्छेदनम्, आनर्च्छ इव प्राप इव। अनुबभूव इवेत्यर्थः॥ 17.203 ॥
अमर्षादात्मनो दोषात् तयोस्तेजस्वितागुणात्।
स्प्रष्टुं दृशाऽप्यनीशस्तौ तस्मादप्यचलत् कलिः॥ 17.204 ॥
अन्वयः–आत्मनः अमर्षात् दोषात् तयोः तेजस्वितागुणात् दृशा अपि तौ स्प्रष्टुम् अनीशः कलिः तस्मात् अपि अचलत्।
जीवातु–अमर्षादिति। कलिः कलियुगम्, अमर्षात्, क्रोधात् आत्मनः स्वस्य, दोषात् पापिष्ठत्वापराधात्, तयोः भैमीनलयोः, तेजस्वितागुणाच्छ प्रभावसम्पन्नत्वाच्च, तौ भैमीनलौ, दृशाऽपि दृष्ट्यापि, किमुत करेणेति भावः स्प्रष्टुं पराम्रष्टुम्, द्रष्टुमपि इत्यर्थः। अनीशः अक्षमः सन्, तस्मादपि तत्स्थानादपि, अचलत् पलायत॥ 17.204 ॥
अगच्छदाश्रयान्वेषी नलद्वेषी स निःश्वसन्।
अभिरामं गृहारामं तस्य रामसमश्रियः॥ 17.205 ॥
अन्वयः–नलद्वेषी आश्रयान्वेषी निःश्वसान् सः रामसमश्रियः तस्य अभिरामं गृहारामम् अगच्छत्।
जीवातु–आगच्छदिति। नलद्वेषी निषधेशविरोधी, अत एव आश्रयान्वेषी नलनिर्यातनार्थं तत्र निवासार्थी, सः कलिः, निःश्वसन् कुत्रापि तदलाभात् उच्छ्‌वसन् सन्, रामः समश्रियः रामचन्द्रसमानकान्तेः, तस्य नलस्य, अभिरामं रमणीयम्, गृहारामं प्रासादसमीपवर्त्तिक्रीडावनम्, अगच्छत् प्रायात्। कवेरेतत्काव्यप्रणयनकाले रामस्य सम्भूतत्वेन सृष्टिप्रवाहस्य अनादित्वेन वा सत्ययुगीनस्य नलस्य रामसादृश्यं बोध्यम्॥ 17.205 ॥
रक्षिलक्षवृतत्वेन बाधनं न तपोधनैः।
मेने मानी मनाक् तत्र स्वानुकूलं कलिः किल॥ 17.206 ॥
अन्वयः–`रक्षिलक्षवृतत्वेन तपोधनैः न बाधने’-मानी कलिः किल तत्र मनाक् स्वानुकूलं मेने।
जीवातु–रक्षीति। रक्षिणां गृहपालानाम्, लक्षेण शतसहस्रेण, बहुसङ्ख्यकप्रासादरक्षिपुरुषेणेत्यर्थः। यत् वृतत्वंपरिवेष्टितत्वं तेन हेतुना, तत्र गृहारामे, तपोधनैः तपस्विभिः कर्त्तृभिः बाधनं पीडनम् न, अस्ति स्वस्येति शेषः। प्रासादसमीपवर्त्तितया बहुजनसंकुलत्वेन नित्यं धर्मकार्यनिरतानां निर्जनप्रियाणां तपस्विनामभावत् धर्मद्वेषिलेः बाधाभावः इति भावः। अत एव मानी अभिमानवान्, अहङ्कारीत्यर्थः। कलिः अन्त्ययुगम्, मनाक्‌ ईषत्, स्वस्य अनुकूलं प्रियम्, अभीष्टसाधनयोग्यस्थानमित्यर्थः। मेने बुबुधे किल, तमाराममिति शेषः। सर्वदा वैधकार्यकारिणां मुनीनां तत्र सद्भावे धर्मकार्यासहिष्णुः कलिः तत्रारामे वस्तुं न शक्नुयात्, रक्षिबाधने सत्यपि तत्रादृश्यतया प्रवेष्टुं सर्वदा धर्मालोचनाविरहेण तत्र निर्बाधं वस्तुञ्च शक्नुयात् एवम्, आरामादन्यत्र सर्वत्रैव धर्माचरणदर्शनात् तदपेक्षया आरामे वासस्य ईषत् स्वानुकूलत्वमिति भावः॥ 17.206 ॥
दलपुष्फलैर्देवद्विजपूजाभिसन्धिना।
स नलोनार्जितान् प्राप तत्र नाक्रमितुं द्रुमान्॥ 17.207 ॥
अन्वयः–तत्र सः दलपुष्पफलैः देवद्विजपूजाभिसन्धिना नलेन अर्जितान् द्रुमान् आक्रमितुं न प्राप।
जीवातु–दलेति। सः कलिः, तत्र गुहारामे, दलैः पत्रैः, कुसुमैः, फलैः शस्यैश्च, देवानां हिरहरादीनाम्, द्विजानां ब्राह्मणानाञ्च, पूजायाः अर्चनायाः अभिसन्धिना अभिप्रायेण हेतुना, नलेन नैषधेन, अर्जितान् रोपितान्, द्रुमान् वृक्षान्, विभीतकेतरानिति भावः। आक्रमितुम् अधिष्ठातुम्, न प्राप न शशाक इत्यर्थः। तेषआं धर्मकार्योपयोगित्वेन स्वस्य चज पारूपत्वेन तानारोढुं नापारयदित्यर्थः॥ 17.207 ॥
अथ सर्वोद्भिदासत्ति पूरणाय स रोपितम्।
बिभीतकं ददर्शेकं कुटं धर्मेऽप्यकर्मठम्॥ 17.208 ॥
अन्वयः–अथ सः धर्मे अपि अकर्मठं सर्वोद्भिदासत्तिपूरणाय रोपितम् एकं कुटं बिभीतकं ददर्श।
जीवातु–अथेति। अथ उद्यानप्रवेशानन्तरम्, सः कलिः, कर्मणि घटते इति कर्मठं कर्मक्षमं, तन्न भवतीति अकर्मठम्, `कर्मणि घटोऽठच्’ इति सप्तम्यन्तकर्मशब्दात् अठच्‌प्रत्ययः। धर्मे धर्मकार्ये, अकर्मठमपि अनुपयुक्तमपि, सर्वेषां समस्तजातीयानाम्, उद्भिदां तरुगुल्मलतादीनाम्‌, आसत्तेः विद्यमानतायाः, पूरणाय पूर्त्तये, रोपितम् अर्जितम्, अत्रोद्याने सर्वविधतरुगुल्मादयः सन्तीति कीर्त्तिस्थापनायारोपितं न तु देवद्विजपूजाद्यर्थम्, तत्पत्रादीनां देवपूजाद्यनर्हत्वादिति भावः। बिभीतकं कर्षफलं नाम एकं कञ्चित्, कुटं कञ्चित्, कुटं वृक्षम्। `वृक्षो महीरुहः शाखी, अनोकहः कुटः शालः’ इत्यमरः। ददशं अवलोकयामास॥ 17.208 ॥
स तं नैषधसौधस्य निकटं निष्कुटध्वजम्।
बहु मेने निजं तस्मिन् कलिरालम्बनं वने॥ 17.209 ॥
अन्वयः–सः कलिः तस्मिन् वने नैषधसौधस्य निकटं निष्कटध्वजं तं निजम् बहु आलम्बनं मेने।
जीवातु–स इति। सः कलिः, तस्मिन् वने गृहारामे, नैषधसौधस्य नलप्रासादस्य, निकटं नेदिष्ठम्, निष्कृटस्य गृहारामस्य `गृहारामस्तु निष्कुटः’ इत्यमरः। ध्वजं चिह्नस्वरूपमित्यर्थः। तं बिभीतकम्, निजम् आत्मीयम्, आलम्बनम्, आश्रयम्, बहु अधिकं यथातथा, मेने विवेचयामास। धर्मकार्यानुपोयगिनि तत्र सुखवाससम्भवात् अत्युच्चे तस्मिन्नवस्थानेन नलदोषविचारसम्भवाच्च तं स्वावलम्बनं बहु मेने इति भावः॥ 17.209 ॥
निष्पदस्य कलेस्तत्र स्थानदानात् बिभीतकः।
कलिद्रुमः परं नासीदासीत् कल्पद्रुमोऽपि सः॥ 17.210 ॥
अन्वयः–सः बिभीतकः निष्पदस्य कलेः तत्र स्थानदानात् परं कलिद्रुमः न आसीत्, कल्पद्रुमः अपि आसीत्।
जीवातु–निष्पदस्येति। कलिवासत्वात् प्रसिद्धिः, बिभीतकः कर्षफलवृक्षः निष्पदस्य निराश्रयस्य, क्वचिदपि आवासप्रदानात्, परं केवलम्, कलिद्रुमः तत्र वासात् कलिसम्बन्धिवृक्ष एव, `त्रिलिङ्गस्तु बिभीतकः। नाऽक्षस्तुषः कर्षफलो भूतावासः कलिद्रुमः॥’ इत्यमरः। न आसीत् न अभवत्, किन्तु कल्पद्रुमः॥’ इत्यमरः। न आसीत् न अभवत्, किन्तु कल्पद्रुमः कल्पवृक्षोऽपि, आसीत् अभवत्। वासरूपसङ्कल्पितार्थदानादिति भावः॥ 17.210 ॥
ददौ पदेन धर्मस्य स्थातुमेकेन यत् किलः।
एकः सोऽपि तदा तस्य पदं मन्येऽमिलत् ततः॥ 17.211 ॥
अन्वयः–यत् कलिः धर्स्य एकेन पदेन स्थातुं ददौ ततः तदा एकः सः अपि तस्य पदम् अमिलत्-मन्ये।
जीवातु–ददाविति। यत् यस्मात् कलिः युगाधमः, धर्मस्य, पुण्यस्य, एकेन पदेन चतुर्थाशेन; स्थातु वर्त्तितुम्, ददौ दत्तवान्, सृष्टिप्रवाहस्य अनादितया प्राक्तनकलियुगे कलिः धर्मस्य एकेन पदेन स्थानमर्पितवानित्यर्थः। ततः तस्मात्; तदा नलराज्यकाले परवर्त्तिसत्ययुगे, एकः केवलः सोऽपि बिभीतकतरुरेव, तस्य कलेः; पदं स्थानम्, अमिलम् जातम्, एकपदस्थानदानात् एकवृक्षरूपस्थानं प्राप्तमित्यर्थः। इति मन्ये विवेचयामि, अहमिति शेषः। दानानुरूपं फलमश्नुतेइति भावः॥ 17.211 ॥
उद्भिद्विरचितावासः कपोतादिव तत्र सः।
राज्ञः साग्नेर्द्विजात् तस्मात् सन्त्रासं प्राप दीक्षितात्॥ 17.212 ॥
अन्वयः–तत्र उद्‌भिद्‌विरचितावासः सः साग्नेः द्विजात् दीक्षितात् तस्मात् कपोतात् इव सन्त्रासं प्राप।
जीवातु–द्भिदिति। उद्भिदि बिभीतकवृक्षे, विरचितावासः कल्पितस्थितिः, अन्यत्र-उद्भिदा तृणगुल्मादिना, विरचितावासः निर्मितहः, सः कलिः, कश्चित् पुरुषश्च, साग्नेः आहिताग्नेः, सजाठराग्नेश्च, द्विजात् द्विजातं क्षत्रियात्, अण्डजाच्च, दीक्षितात् अग्निहोत्रे कृतदीक्षात्, अन्यत्र-ईक्षितात् गृहोपरि दृष्टात् तस्मात् राज्ञः नलात्, कपोतात् अङ्गारभक्षिपारावतविशेषादिव, सन्त्रासम् अभिशापभयम्, गृहे अग्निसंयोगभयञ्च, प्राप लेभे, लिट्। अन्यत्र-प्रापत् अलम्भिष्ट, इति, लुङ्। अत्र साग्नेर्दीक्षितादिति विशेषणद्वयेन नलस्य कलिं प्रति तपःप्रभावजन्याभिशापप्रदानसामर्थ्यं राज्ञो द्विजादिति विशेषणद्वयेन च तस्य क्षत्रियराजोचितण्डदानसामर्थ्यं सुचितम्॥ 17.212 ॥
बिभीतकमधिष्ठाय तथाभूतेन तिष्ठता।
तेन भीमभुवोऽभीकः स राजर्षिरधर्षि न॥ 17.213 ॥
अन्वयः–बिभीतकम् अधिष्ठाय तथाभूतेन तिष्ठता तेन भीमभुवः अभीकः सः राजर्षिः न अधर्षि।
जीवातु–बिभीतकमिति। तथाभूतेन नलरन्द्रान्वेषिणा, अत एव बिभीतकम् अक्षवृक्षम्, अधिष्ठाय अधिरुह्य, तिष्ठता विद्यमानेन, तेन कलिना, भीमभुवः भैम्याः, अभिकामयते इति अभीकः कमिता, कामुक इत्यर्थः। `अनकाभिकाभीकः कमिता’ इति कन्‌प्रत्ययान्तो निपातनात् साधुः। `कामुके कमिताऽनुकः। कम्रः कामयिताऽभीकः’ इत्यमरः। सः राजर्षिः मनतुल्यो राजा नलः, न अधर्षि न अभ्यभावि, न पीडयितुं शक्त इत्यर्थः॥ भूतावासापराख्यं बिभीतकवृक्षमाश्रित्य तिष्ठता तथा तादृशेन, अतिमहता इत्यर्थः। भूतेन देवयोनिविशेषेण, भीमभुवो भयङ्करस्थानात् अभीको निर्भीकः, राजर्षिः राजश्रेष्ठः, धार्मिकः इत्यर्थः। भूतापसारकन्त्रवादी इत्यर्थो वा, न पारभूयते इति ध्वनिः, तेन च राजमन्त्रवादिनोरौपम्यं गम्यते॥ 17.213 ॥
तमालम्बनमासाद्य वैदर्भीनिषधेशयोः।
कलुषं कलिरन्विष्यन्तवात्सीद् वत्सरान् बहून्॥ 17.214 ॥
अन्वयः–कलिः तम् आलम्बनम् आसाद्य वैदर्भीनिषधेशयोः कलषम् अन्विष्यम् बहून् वत्सरान् अवासीत्।
जीवातु–तमिति। कलिः तुरीययुगम्, तं वृक्षम्, आलम्बनन् आश्रयम्, आसाद्य प्राप्य, वैदर्भीतिषधेशयोः भैमीनलयोः, कलुषं दृष्कृतम्, पापानष्ठानमित्यर्थः। अन्विष्यन् अनसन्दधन्, बहून् अनेकान्, वत्सरान् वर्षान्, अत्यन्तसंयोगे द्वितीया। अवात्सीत् उवास, वसेर्लुङि सिचि, `सः स्यार्द्धधातुके’ इति सस्य तत्वम्, `वदव्रज-’ इत्यादिना वृद्धिः॥ 17.214 ॥
यथाऽऽसीत् कानने तत्र विनिद्रकलिका लता।
तथा नलच्छलासक्तिविनिद्रकलिकालता॥ 17.215 ॥
अन्वयः–तत्र कानने यथा विनिद्रकलिका लता आसीत् तथा नलच्छलासक्तिविनिद्रकलिकालता (आसीत्)
जीवातु–यथेति। तत्र तस्मिन्, कानने वने, यथा विनिद्रकलिका उन्निद्रकोरका, लतां व्रततिः, आसीत् अवर्त्तत; तथा तद्वदेव, नलस्य वैरसेनेः, छले छलने, र्द्रान्वेषणे इत्यर्थः। असक्त्या अभिनिवेशेन, विनिद्रः जागरूकः, सततमप्रमत्त इत्यर्थः। कलिः कलिरूपः, कालः समयो यस्मिन् तस्य भावः तत्ता, आसीत् इति शेषः, अत्रार्थभेदेऽपि विनिद्रकलिकालतेति शब्दमात्रसाम्ययात्तथेति सादृश्यमुक्तम्॥ 17.215 ॥
दोषं नलस्य जिज्ञासर्बभ्राज द्वापरः क्षितौ।
नादोषः कोऽपि लोकस्य मुकेऽस्तीति दुराशया॥ 17.216 ॥
अन्वयः–नलस्य दोषं जिज्ञासुः द्वापरः `लोकस्य मुखे अदोषः कः अपि न अस्ति’-इति दुराशया क्षितौ बभ्राज।
जीवातु–दोषमिति। अथ द्वापरः तृतीययुगमपि, नलस्य नैषधस्य, दोषम्, अनाचरम्, जिज्ञासुः ज्ञातुमिच्छुः सन्, लोकस्य जनस्य, मुके वाचि, अदोषः निर्दोषः, कोऽपि कश्चिदपि, नास्ति न विद्यते, इति दुराशया दुष्टवाञ्छया, लोको हि सर्वदा दोषदृष्टिपरत्वात् सर्वथा दोषलेशं द्रक्ष्यति वक्ष्यति चेति दुराग्रहेण इत्यर्थः। क्षितौ भुवि, बभ्राव रराज, बभ्रामेति यावत्॥ 17.216 ॥
अमुष्मिन्नारामे सततनिपतद्‌दोहदतया
प्रसूनैरुन्निद्रैरनिशममृतांशुप्रतिभटे।
असौ बद्धालम्बः कलिरजनि कादम्बविहगच्छदच्छायाभ्यङ्गोचितरुचितया लाञ्छनमृगः॥ 17.217 ॥
अन्वयः–सततनिपतद्दोहदतया उन्निद्रैः प्रसूनैः अनिशम् अमृतांशुप्रतिमहे अमुष्मिन् आरामे बद्धालम्बः असौ कलिः कादम्बविहगच्छदच्छायाभ्यङ्गोचितरुचितया लाञ्छनमृगः अजनि।
जीवातु–अमुष्मिन्निति। सततम् अविरतम्, निपतद्दोहदतया मिलद्धूपादिसंस्कारतया, `तरुगुल्मलतादीनामकाले कुशलैः कृतम्। पुष्पाद्युत्पादकं द्रव्यं दोहदं स्यात्तु तत्क्रिया।’ इति शब्दार्णवः। उन्निद्रैः विकसितैः, प्रसूनैः कुसुमैः, अनिशं निरन्तरम्, अमृतांशुप्रतिभटे चन्द्रस्पर्द्धिनि, चन्द्रकल्पे इत्यर्थः। अमुष्मिन् अस्मिन्, आरामे गृहोद्याने, बद्धालम्बः वृताश्रयः, असौ कलिः युगशेषः, कादम्बविहगस्य कलहंसस्य, यः छदः पक्षः, धूम्रवर्ण इति भावः। तस्य छाया कान्तिः, तया अभ्यङ्गे लेपने, उचिता अभ्यस्ता, रुचिः स्पृहा यस्य तस्य भावः तत्ता, तथा कलहंसपक्षवत् कृष्णवर्णतया इत्यर्थः। लाञ्छनमृगः कलङ्कशशः, अजनि जनितः। चन्द्रे कलङ्कवत् उद्यानचन्द्रस्य अयं कृष्णवर्णकलङ्करूपः अभृत् इति भावः॥ 17.217 ॥
स्फारे तादृशि वैरसेनिनगरे पुण्यैः प्रजानां धनं
विघ्नं लब्धवतश्चिरादुपनतिस्तस्मिन् किलासीत् कलेः।
एतस्मिन् पुनरन्तरेऽन्तरमितानन्दः स भैमीनलावाराद्धुं व्यधित स्मरः श्रुतिशिखावन्दारुचूडं धनुः॥ 17.218 ॥
अन्वयः–ताद्दशि स्फारे वैरसेनिनगरे प्रजानां पुण्यैः घनं बिघ्नं लब्धवतः कले तस्मिन् किंल चिरात् उपनतिः आसीत्। एतस्मिन् पुनः अन्तरे अन्तरमितानन्दः सः स्मरः भैमीनलौ आराद्‌धुं श्रुतिशिखावन्दारुचूडं धनुः व्यधित।
जीवातु–स्फारे इति। तादृशि तथाभूते, स्फारे विशाले, वैरसेनेः नलस्य; नगरे पुरे, निषधराज्ये इत्यर्थः। कलेः कलियुगस्य, तस्मिन्नुद्याने, चिरात् बहुकालम्, उपनतिः स्थितिः, अभूत् आसीत् किल, एतस्मिन् अन्तरे अस्मिन् अवकाशे पुनः, अन्तः अन्तःकरणे, अमितानन्दः अतिहृष्टः सः अमोघलक्ष्यः स्मरः कन्दर्प, भैमीनलौ दमयन्तीनैषधौ, आराद्‌धुम् उपासितुम्, वशीकर्त्तुमिति यावत्। श्रुतिशिखाम् आकर्णाग्रम् वन्दारुः उपनता इति यावत्। चूडा कोटिः यस्य तत् तादृशम्, आकर्णाकृष्टम् इत्यर्थः। धनुः चापम्, व्यधित विहितवान्, बाणेन संयोजितवानित्यर्थः। कलेराक्रमणात् प्राक्तौ यथाकामं कामसुखम्, अन्वभूताम् इति निष्कर्षः॥ 17.218 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
यातः सप्तदशः स्वसुः सुसुदृशि छन्दः प्रशस्तेर्महाकाव्ये तद्‌भुवि नैषधईयचरिते सर्गो निसर्गोज्ज्वलः॥ 17.219 ॥
अन्वयः–पूर्वार्द्धस्य पूर्ववत्। स्वसुः छन्दःप3शस्तेः (छिन्दप्रशस्तेः) सुसदृशि तद्‌भुवि महाकाव्ये नैषधीयचरिते निसर्गोज्ज्वलः सप्तदशः सर्गः यातः।
जीवातु–श्रीहर्षमिति। स्वसुः सोदर्याः एककर्त्तृत्वात् एकोदरत्वव्यपदेशः। छन्दःप्रशस्तः छन्दोबद्धराजचरितवर्णनाग्रन्थस्थ, स्वकृतेरिति भावः। सुसदृशि अत्यन्ततत्सदृशि। तस्मात् श्रीहर्षात् भवतीति तद्‌भुवि। व्याख्यातमन्यत्॥ 17.219 ॥
इति मल्लिनाथसूरिविचरिते `जीवातु’ समाख्याने सप्तदशः सर्गः समाप्तः॥ 17 ॥
॥नैषदीयचरिते सप्तदशः सर्गः समाप्तः॥

***************************************************************************

.

अष्टादशः सर्गः

सोऽयमित्थमथ भीमनन्दिनीं दारसारमधिगम्य नैषधः!
तां तृतीयपुरुषार्थवारिधेः पारलम्भनतरीमरीरमत्॥ 18.1 ॥
अन्वयः–अथ सः नैषधः इत्थं दारसारं भीमनन्दिनीम् अधिगम्य तृतीयपुरुषार्थवारिधेः पारलम्भनतरीं ताम् अरीरमत्।
जीवातु–सोऽयमिति। अथ इति वाक्यारम्क्षे अध्यायारम्भे वा, सः प्रसिद्धः, अयं नैषधः नलः, इत्थम्, एवम्, पूर्ववर्णितप्रकारेणेत्यर्थः। दारसारं दारेषु स्त्रीषु, सारं वरम्, श्रेष्ठमित्यर्थः। स्त्रीरत्नमिति यावत्। `सारो बले स्थिरांशे च न्याये सारं वरे तथा’ इति शाश्वतः। भीमनन्दिनी भैमीम्। नन्द्यादित्वात् ल्युट्‌प्रत्ययः। अधिग्म्य प्राप्य, तृतीयपुरुषार्थवारिधेः कामसागरस्य, पारलम्भने परतीरप्राप्तौ, तरीं नावम्, तरणीस्वरूपामित्यर्थः। तां दमयन्तीम्, अरीरमत् रमयामास, रमेणौं चङ्। अस्मिन् सर्गे रथोद्धतावृत्तम्–`रो नराविह रथोद्धता लगौ’ इति लक्षमात्॥ 18.1 ॥
आत्मवित्सह तया दिवानिशं भोगभागपि न पापमाप सः।
आहृता हि विषयैकतानता ज्ञानधीतमनसं न लिम्पति॥ 18.2 ॥
अन्वयः–आत्मवित् सः तया सह दिवानिशं भोगभाक् अपि पापं न आप, हि आहृता विषयैकतानता ज्ञानधौतमनसं न लिम्पति।
जीवातु–आत्मेति। आत्मवित् आत्मज्ञानी, जीवब्रह्माभेदबुद्धिशाली इति यावत्। सः नलः, तया भैम्या सह, दिवानिशम् अहोरात्रम्, द्वन्द्वैकवद्भावः। अत्यन्तसंयोगे द्वितीया। भोगभाक् अपि विषयसुखमनुभवन् अपीत्यर्थःष `भजोण्विः’ पापम् इन्द्रियानिग्रहजनितप्रत्यवायम्, न आप न लेभे। ननु `अनिग्रहाच्चेन्द्रियाणां नरः पतनमृच्छति’ इति निषेधात् कथं दिवानिशं विषयलोलुपस्य न पापमत आह-आहृतेति। हि तथाहि, आहृता कृत्रिमा, विषयेषु शब्दादिषु एकतानता एकाग्रता, `एकतानोऽनन्यवृत्तिरेकाग्रैतानावपि’ इत्यमरः। ज्ञानेन तत्त्वबुद्ध्या, धौतमनसं निर्मलान्तःकरणम्, जनमिति शेषः। न लिम्पति न स्पृशति, न पातयति इत्यर्थः। `ज्ञानाग्निः सर्वकर्माणि भस्मसात् कुरुते तथा’ इति भगवद्वचनादिति भावः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ 18.2 ॥
न्यस्य मन्त्रिषु स राज्यमादरादारराध मदनं प्रियासखः।
नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे॥ 18.3 ॥
अन्वयः–सः मन्त्रिषु राज्यं न्यस्य नैकवर्णमणिकोटिकुट्टिमे हेमभूमिभृति सौधभूधरे प्रियासखः आदरात् मदनम् आरराध।
जीवातु–न्यस्येति। सेः राजा, मन्त्रिषु अमात्येषु, राज्यं राज्यभारम्, न्यस्य निधाय, नैकवर्माः अनेकवर्णाः, नञर्थस्य न शब्दस्य सुप्‌सुपेति समासः। मणिकोटयः असङ्ख्यरत्नानि यस्मिन् तादृशम्, कुट्टिमं बद्धभूमिः यस्मिन् तथोक्ते, हेमभूमिभृति सुवर्णमयभूयुक्ते, भृञः क्विप्। सौधः प्रसाद एव, भूधरः पर्वतः तस्मिन्, पर्वतसदृशे अत्युच्चप्रसादे, प्रियासखः भैमीद्वितीयाः सन्, आदरात् आग्रहादित्यर्थः। मदनं कन्दर्पम्, आरराध सिषेवे, शच्या मेरौ इन्द्र इव स भैम्या सह तत्र सौधे रतिसुखमन्वभूदिति भावः॥ 18.3 ॥
वीरसेनसुतकण्ठभूषणीभूतादव्यमणिपंक्तिशक्तिभिः।
कामनोपनमदर्थतागुणाद् यस्तृणीकृतसुपवपर्वतः॥ 18.4 ॥
अन्वयः–यः वीरसेनसुतकण्ठभूषणीभूतदिव्यमणिपङ्‌क्तिशक्तिभिः काम नोपनमदर्थतागुणात् तृणीकृत सुपर्वपर्वतः।
जीवातु–अथ चतुर्विशतिश्लोक्या सौधं वर्मयति-वीरेत्यादि।यः सौधः, वीरसेनसुतस्य नलस्य, कण्टभूषणीभूतायाः गलदेशस्य शक्तिभिः अचिन्त्यप्रभावैः, कामनया सङ्कल्पमात्रेणैव, उपनमदर्थता सुराचलः, सुमेरुभूधरः इत्यर्थः। येन तादृशः, न केवलमौन्नत्येन सम्पदाऽपि सुमेरोरधिकः सः इति निष्कर्षः॥ 18.4 ॥
धूपितं यदुदराम्बरं चिरं मैचकैरगुरुसारदारुभिः।
जालजालधृतच्द्रचन्दनक्षोदमेदुरसमीरशीतलम्॥ 18.5 ॥
अन्वयः–मेचकैः अगुरुसारदारुभिः चिरं धूपितं जालजालधृतचन्द्रचन्दनक्षोदमेदुरसमीरशीतलं युददराम्बरम्।
जीवातु–धूपितमिति। यस्य सौधस्य, उदराम्बरम् अभ्यन्तराकाशम् मध्यदेशमित्यर्थः। चिरं नित्यम्, मेचकै कृष्णैः, अगुरुण तदाख्यचन्दनविशेषस्य, सारदारुभिः अभ्यन्तरस्थदृढकाष्ठैः, धूपितं तद्‌धूमवासितमित्यर्थः। किञ्च, जालजालेषु गवाक्षसमूहेंषु, धृतैः स्थितै, चन्द्रचन्दनक्षोदैः कर्पूरश्रीखण्डचूर्णैः, मेदुरेम सान्द्रस्निग्धेन, मृदुसुरभिणेति यावत्। समीरेम वायुना, शीतलं हिमम्, दूरीभूतधूपजसन्तापमित्यर्थः॥ 18.5 ॥
क्वापि कामशरवृत्तवर्त्तयो यं महासुरभितैलदीपिकाः।
तेनिरे वितिमिरं स्मरस्फुरद्दोः प्रतापनिकराङ्गुरश्रियः॥ 18.6 ॥
अन्वयः–क्व अपि कामशरवृत्तवर्त्तयः महासुरभितैलदीपिकाः स्मरस्पुरद्दोः प्रतापनुकुराङ्कुरश्रियः यं वितिमिरं तेनिरे।
जीवातु–क्वापीति। कामशरः चूतमुकुलः, कर्पूरविशेषः इति वा, तेन वृत्ताः निष्पन्नाः, वर्त्तयः दशाः यासां तादृश्यः, महासुरभीणि अतिशयसुगन्धीति, तैलानि तिलजानि यासां ताइश्यः, दीपिकाः प्रदीपाः, स्मरस्य कामस्य, स्फुरतोः स्पन्दमानयोः, भैमीनलव्यधार्यं चलितयोरित्यर्थः। दोषोः भुजयोः, प्रतापनिकरस्य तेजोराशेः, अङ्‌कुराणां प्ररोहाणाम्, श्रीः शोभा इव, श्रीः यासां तादृश्यः सत्यः, यं सौधम्, क्वापि कुत्रचित्, भैमीनलालङ्कृतदेशे इत्यर्थः। वितिमिरं तमोराहित्यम्, तेनिरे चक्रिरे॥ 18.6 ॥
कुङ्‌कुमैणमदपङ्कलेपिताः क्षालिताश्च हिमवालुकाऽम्बुभिः।
रेजुरध्वततशैलजस्रजो यस्य मुग्धमणिकुट्टिमा भुवः॥ 18.7 ॥
अन्वयः–कुङ्‌कुमैणमदपङ्कलेपिताः हिमबालुकाम्बुभिः च क्षालिताः अध्वततशैलस्रजः मुग्धमणिकुट्टिमाः यस्य भुवः रेजुः।
जीवातु–कुङ्‌मुमेति। कुङ्‌कुमैणमदयोः काश्मीरजकस्तूरिकयोः, पङ्केन कर्दमेन, घृष्टकुङ्‌कुमममृगमदाभ्यामित्यर्थः। लेपिताः दिग्धाः, च किञ्च, हिमबालुकाऽम्बुभिः कर्पूरोदकैः `अथ कर्पूरमस्त्रियाम्। धनसारश्चन्द्रसंज्ञः सिताभ्रो हिमबालुका’ इत्यमरः। क्षालिताः धौताः, तथा अध्वुस प्रवेशमार्गेषु, तताः विस्तृताः शैलजस्य शैलेयस्य, शिलाकुसुमाख्यगन्धद्रव्यस्येत्यर्थः। स्रजः माला यासु तादृश्यः, तथा मुग्धाः सुन्दराः। `कुट्टिमोऽस्त्री निबद्धा भूः’ इति यादवः। यस्य सौधस्य, भुवः अङ्गणादिप्रदेशा इत्यर्थः। रेजुः शुशुभिरे। चूतवृक्षवत् सामान्यविशेषभावादषौनरुक्तयम्। समृद्धिमद्वस्तुवर्णनादुदात्तालङ्कारः॥ 18.7 ॥
नैषधाङ्गपरिमर्दमेदुरामोदमार्दवमनोज्ञवर्णया।
यद्‌भुवः क्वचन सूनशय्याऽभाजि भालतिलकप्रगल्भता॥ 18.8 ॥
अन्वयः–क्वचन नैषधाङ्गपरिमर्दमेदुरामोदमार्दवमनोज्ञवर्णया सूनशय्यया यद्‌भुवः भालतिलकप्रगल्भता अभाजि।
जीवातु–नैषधेति। नैषधस्य नलस्य, अङ्‌गपरिमर्देन शरीरमर्देनेन, अङ्गलोठनेनेत्यर्थः। मेदुरः सान्द्र, आमोदः गन्धः, मार्दवं मृदुत्वम्, मनोज्ञः मनोरमः वर्णश्च शौभ्र्यञ्चेत्यर्थः। यस्याः तादृश्याः, सूनशय्यया कुसुमशयनेन, यस्य सौधस्य, भुवः प्रदेशविशेषाः, क्वचन कुत्रचित्, नलस्य शयनस्थाने इति यावत्, भालतिलकस्य ललाटदेशे तिलकधारणस्य, प्रगल्भता स्पर्द्धा, शोभेति यावत्। अभाजि प्राप्ता इति निदर्शनालङ्कारः॥ 18.8 ॥
क्वापि यन्निकटनिष्कुटत्कोरकप्रकरसौरभोर्मिभिः।
सान्द्रमध्रिया भीमनन्दिनीनासिकापुटकुटीकुटुम्बिता॥ 18.9 ॥
अन्वयः–क्व अपि यन्निकटनिष्कुटस्फुटत्करकप्रसारसौरभोर्मिभिः सान्द्रं भीमनन्दिनीनासिकापुटकुटीकुटुम्बिता अध्रियत।
जीवातु–क्वापीति। क्वापि क्वचित् प्रदेशे, यस्य सौधस्य, निकटे समीपस्थे, निष्कुटे गृहारामे, स्फुटतां विकशताम्, कोरकप्रकराणां कलिकानिवहानाम्, सौरभोर्मिभिः परिमलपरम्पराभिः, सान्द्रं निरन्तरम्, भीमनन्दिनी भैमी, तस्याः नासिकापुटयोः नासारन्द्रयोः, कुटीकुटुम्बिता गार्हस्थ्यम्, नित्यस्थायित्वमित्यर्थः। अघ्रियत अधारि, नन्दनविहारसुखम् अनुभूयते तया इति भावः॥ 18.9 ॥
रुद्धसर्वऋतुवृक्षवाटिकाकीरकृत्तसहकारशीकरैः।
यज्जुषः स्म कुलमुख्यमाशुगा घ्राणवातमुपदाभिरञ्चति॥ 18.10 ॥
अन्वयः–आशुगः यज्जुषः कुलमुख्यं घ्राणवातं रुद्धसर्वऋतुवृक्षवाटिकाकीरकृत्तसहकारशीकरैः उपदाभिः अञ्चति स्म।
जीवातु–रुद्धेति। आशुगः वायुः बहिश्चरो वायुरिति भावः। `आशुगोऽर्के शरे वायौ’ इति यादवः। कुलमुख्यं वंशमध्ये श्रेष्ठम्, नलदमयन्त्योः तत्परिजनानाञ्च घ्राणरन्ध्रे स्थानलाभादिति भावः। यज्जुषः यत्सौधसेविनः, जनस्य इति शेषः घ्राणवातं निःश्वासमारुतम्, रुद्धाः अवरुद्धाः, एकत्र सम्भूय स्थिता इत्यर्थः। रुधेः कर्मणि क्तः। `ऋद्धाः इति पाठे-ऋद्धाः समृद्धः, ऋध्यतेः कर्त्तरि क्तः। सर्वे समस्ताः, ऋतवः वसन्तादयः यस्यां तादृशाम्, `ऋग्यकः’ प्रकृतिभावः। एकत्रावस्थितषडृतुकायामित्यर्थः। वृक्षवाटिकायां गृहसंलग्नोपवने, कारै शुकैः, कृत्तानां खण्डितानाम्, सहकाराणां सुरभिचूतवृक्षाणाम्, शीकरैः अम्बुकणैः, जलकणामिश्रितमृदुसौरभैरेवेत्यर्थः। उपदाभिः उपायनैः, अञ्चति स्म पूजयति स्म॥ 18.10 ॥
कुत्रचित् कनकनिर्मिताखिलः क्वापि यो विमलरत्नजः किल।
कुत्रचिदचितचित्रशालिकः क्वापि चास्थिरविधैन्द्रजालिकः॥ 18.11 ॥
अन्वयः–कुत्रचित् यः कनकनिर्मिताखिलः क्व अपि किल विमलरत्नजः, कुत्रचित् रचितचित्रशालिकः, क्व अपि च अस्थिरविधैन्ध्रजालिकः।
जीवातु–कुत्रचिदिति। यः सौधः, कुत्रचित् क्वापि प्रदेशे, कनकनिर्मितं सुवर्णमयम्, अखिलः समग्रांशं यस्य सः सौधः, कुत्रचित् प्रदेशे, विमलरत्नेभ्यः उज्ज्वलमणिभ्यः, जातः निर्मितः, भास्वररत्घटित इत्यर्थः। किल इति प्रसिद्धः। कुत्रचित् कस्मिन्नपि भागे, रचिताः, निर्मिताः, चित्रशालिकाः आलेख्यगृहाः यस्य तादृशः, बहुचित्रसमन्वितगृहविशिष्टः चित्राङ्किकगृहविशिष्टो वा इत्यर्थः। क्वापि च कस्मिंश्चिद्‌ भागे, अस्थिरविधः क्षणे परिवर्तितप्रकारः, कदाचित् तमसः कदाचिदालोकस्य प्रकाशादिरूपः इत्यर्थः। ऐन्द्रजालिकः इन्द्रजालवान्, प्रतिक्षणमन्यथाऽन्यथा प्रतीयमानत्वात् आश्चर्यदर्शनः इत्यर्थः। मत्वर्थीयष्ठन्॥ 18.11 ॥
चित्रतत्तदनुकार्यविभ3माधायिनैकविधरूपरूपकम्।
वीक्ष्य यं बहु धुवन् शिरो जरावातको विधिरकल्पि शिल्पिराट्॥ 18.12 ॥
अन्वयः–चित्रतत्तदनुकार्यविभ्रमाधायायिनैकविधरूपकं यं वीक्ष्य बहुशिरः धुवन् शिल्पिराट् विधिः जरावातकः अकल्पि।
जीवातु–चित्रेति। चित्रेषु आलेख्येषु तेषां तेषाम् अन्यत्र दृष्ठानां प्रसिद्धानां वा, अनुकार्याणाम्, अनुकरणयोग्यानां राजर्षिमनुष्यादीनाम्, विभ्रमस्य विलासस्य, आधायीनि उत्पादकानि, नैकविधरूपाणि नानाप्रकारस्वरूपाणि, रूपाण्येवेति रूपकाणि प्रतिकृतयः यस्मिन् तादृशम्, यं सौधम्, वीक्ष्य दृष्ट्वा, बहु पुनः पुनः शिरः मस्तकम्, धुवन् कम्पयन्, शिल्पिराट् कारुश्रेष्ठः, विधिः स्रष्टा, जरया वार्द्धकेन, वातकी वातरोगी, वेपथुवाताक्रान्त इत्यर्थः। `वातातिसाराभ्यां कुक् च’ इति कुक्‌, चकारात् इनिप्रत्ययश्च। इति अकल्पि अतर्कि, देवादिभिरिति शेषः। सौधशिल्पिनः आश्चर्यशिल्पनैपुण्यं दृष्ट्वा विस्मयवशात् तदा शिल्पिश्रेष्ठेन विधात्रा अपि पुनः पुनः शिरःकम्पितम् इत्यर्थः॥ 18.12 ॥
भित्तगर्भगृहगोपितैर्जनैर्यः कृताद्‌भुतकथदिकौतुकः।
सूत्रयन्त्रजविशिष्टटेष्टयाऽऽश्चर्यसञ्जिबहुशालभञ्जिकः॥ 18.13 ॥
अन्वयः–यः भित्तिगर्भहगोपितैः जनैः कृताद्‌भुतकथादिकौतुकः सूत्रयन्त्रजविशिष्टचेष्टया आश्चर्यसञ्जि बहुशालभञ्जिकः।
जीवातु–भित्तीति। यः सौधः, भित्तिगर्भेषु कुड्याभ्यन्तरेषु, ये गृहाः कक्षाः, तेषु गोपितैः गुप्तभावेनावस्तितैः, जनैः लोकैः, कृतं विहितम् अद्‌भुतकथादिकौतुकं विस्मयजनकभाषणादिकुतूहलं येन सः तादृशःष स्वयमेव सौधः कथयतीति भ्रान्तिकरः इत्यर्थः। `कौतूहलं कौतुकञ्च कुतुकञ्च कुतूहलम्’ इत्यमरः। किञ्च, सूत्राणां यन्त्रेण तन्तुनिर्मितयन्त्रविशेषेण, जाता उत्पादिता, या विशिष्टचेष्टा हसितनिमेषोन्मेषादिरूपासाधारणक्रॅियाविशेषा तया, आश्चर्यं विस्मयम्, सञ्जयन्ति उत्पादयन्तीति तत्सञ्जिन्यः, बह्व्यः अनेकाः, शालभञ्जिकाः दारुपुत्रिकाः यत्र सः तादृशः॥ 18.13 ॥
तामसीष्वपि तमीषु भित्तिगै रत्नरश्मिभिरमन्दचन्द्रिकः।
यस्तपेऽपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः॥ 18.14 ॥
अन्वयः–यः तामसीषु अप तमीषु भित्तिगैः रत्नरश्मिभिः अन्दचन्द्रिकः तपे अपि जलयन्त्रपातुकासारदूरधुततापतन्द्रिकः।
जीवातु–तामसीष्विति। यः सौधः, तामसीषु तमस्विनीषु अपि, `ज्योत्स्नादिभ्य उपसङ्ख्यानम्’ इति मत्वर्थीयोऽण्-प्रत्ययः। तमीषु रात्रिषु, भित्तिगैः कुड्यगतैः, रत्नरश्मिभिः मणिप्रभाभिः, अमन्दा प्रभूता, चन्द्रिका ज्योत्स्ना यस्य तादृशः, तथा तपेऽपि ग्रीष्मेऽपि, जलयन्त्रेभ्यः जलोत्सारकयन्त्रविशेषेभ्यः, कृत्रिमप्रस्रवणेभ्यः इत्यर्थः। पातुकैः पतनशीलैः, आसारैः धारासम्पातैः, दूरम् अतिशयेन, धुता निराकृता, तापतन्द्रिका ग्रीष्मजनितमोहप्रायावस्था यस्य सः तादृशः॥ 18.14 ॥
यत्र पुष्पशरशास्त्रकारिका शारिकाऽध्युषितनागदन्तिका।
भीमजानिषधसार्वभौमयोः प्रत्यवैक्षत रते कृताकृते॥ 18.15 ॥
अन्वयः–यत्र अध्युषितनागदन्तिकाः पुष्पशरशास्त्रकारिकाः शारिकाः भीमजानिषधसार्वभौमयोः रते कृताकृते प्रत्यवेक्षत।
जीवातु–यत्रेति। यत्र सौधे, पुष्पशरशास्त्रस्य वात्स्यायनादिप्रमीतकामः तन्त्रस्य, कारिका कर्त्री, प्रायश एव लोकमुखे श्रवणात् तत्पुनरुक्तिकारिणीत्यर्थः। तथा अभ्युषिता अधिष्ठिता, नागदन्तिका भित्तिनिर्गतदारुविशेषः यया तादृशी `नागदन्ती द्विपरदे गृहान्निर्गतदारुणि’ इति मेदिनी। शारिका शारीतिख्यातः पक्षिविशेषः। `शारिका शारी’ इति यादवः। भीमजानिषधसार्वमौमयोः भैमीनलयोः रते सुरते, कृताकृते विहिताविहिते, कामशास्त्रानुसारेण सुरतमनुष्ठितं न वा इत्यादिरूपे इत्यर्थः प्रत्यवैक्षत निपुणभावेनापश्यत्। इदं कृतम् इदं न कृतम्, इति अनुसन्दधे इत्यर्थः॥ 18.15 ॥
यत्र मत्तकलविङ्कशारिकाश्लेष्यकेलिपुनरुक्तिवत्तयोः।
क्वापि दृष्टिभिरवापि वापिकोत्तंसहंसमिथुनस्मरोत्सवः॥ 18.16 ॥
अन्वयः–यत्र क्व अपि तयोः दृष्टिभिः वापिकोत्तंसहंसमिथुनस्मरोत्सवः मत्तकलविङ्कशारिकाश्लेष्यकेलिपुनरुक्तिवत् अवापि।
जीवातु–यत्रेति। यत्र सौधे, क्वापि कुत्रचित् प्रदेशे, तयोः भैमीनलयोः, दृष्टिभिः दर्शनैः, वापिकोत्तंसाना दीधिकालङ्काराणाम्, हंसमिथुनानां हंसद्वन्द्वानाम्, स्मरोत्सवः सुरतकेलिः, मत्तानां हृष्टानाम्, कलविङ्कानां चटकानाम्, तथा शारिकाणआं पक्षिविशेषाणाञ्च आश्लेष्यकेलिभिः ग्राम्यक्रीडाभिः, पुनरुक्तिवत् पौनरुक्त्यमिव, अवापि अबोधि तत्तुल्यम् अदशि इत्यर्थः॥ 18.16 ॥
य6 वैणरववैणवस्वरैहूङ्‌कृतैरुपवनीपिकालिनाम्।
कङ्कणालिकलहैश्च नृत्यतां गोपितं सुरतकूजितं तयोः॥ 18.17 ॥
अन्वयः–यत्र तयोः सुरतकूजितं वैणरववैणवस्वरैः उपवनीपिकालिनां हूङ्‌कृतैः नृत्यतां कङ्कणालिकलहैः च गोपितम्।
जीवातु–यत्रेति। यत्र सौधे, वैणैः वीणासम्बन्दिभिः, रवैः शब्दैः, वैणवैः वेणुसम्बन्धिभिः स्वरैः ध्वनिभिः, तथा उपवन्याम् आरामे, पिकानां कोकिलानाम्, अलिनां भृङ्गाणाञ्च, हूङ्‌कृतैः हूङ्कारैः, तथा नृत्यतां नर्त्तकीजनानाम्, कङ्कणालिकलहैः करभूषणावलीकलकलैश्च, तयोः दम्पत्योः, सुरतकूजितं श्रृङ्गारकालिकमणितादिशब्दः, गोपितं तिरस्कृतम्। अतो न विस्रम्यविधातः इति भावः॥ 18.17 ॥
(सीत्कृतान्यश्रृणुतां विशङ्कयोर्यत्प्रतिष्ठितरतिस्मरार्चयोः।
जालकैरपवरान्तरेऽपि तौ त्याजिनैः कपटकुड्यतां निशि॥ 18.17.1 )
अन्वयः–अपवरान्तरे अपि तौ विशङ्कयोः यत्प्रतिष्ठितरतिस्मरार्चयोः सीत्कृतानि निसि कपटकुड्यतां त्याजितैः जालकैः अश्रृणुताम्।
कृष्णसारमृगश्रुङ्गभङ्गुरा स्वादुरुज्ज्वलरसैकसारणिः।
नानिसं त्रुटति यत्पुरः पुरा किन्नराविकटगीतिझङ्‌कृतिः॥ 18.18 ॥
अन्वयः–कृष्णसारमृगश्रृङ्गभङ्गुरा स्वादुः उज्वलरसैकसारणिः किन्नरीविकटगीतिझङ्कृतिः यत्पुरः पुरा अनिशं न त्रुटति।
जीवातु–कृष्णेति। यत्पुरः यस्य सौधस्य सम्मुखदेशे, कृष्णसारमृगस्य कालसाराख्यहरिणस्य, श्रृङ्गवत् विषाण इव, भङ्गुरा भङ्गवती, अतिवेक्रेति यावत्। एकत्र-कण्ठस्वरस्य कम्पनविशेषेण तथोच्चारणात्, अन्यत्रस्वभावादिति भावः। अत एव उज्ज्वलरसस्य श्रृङ्गाररसस्य, `श्रृङ्गारः शिचिरुज्ज्वलः’ इत्यमरः। एका मुख्या, सारणिः कुल्या, स्वल्पनदीत्यर्थःष `प्रसारण्यां स्वल्पनद्याञ्ज सारिणां किन्नरस्त्रीणाम्, देवगायिकानामित्यर्थः, विकटा विपुला, गीतस्य गानस्य, झङ्‌कृतिः झङ्काराख्यस्वरः, अनुकारिशब्दोऽयम्, अनिशं नित्यम्, पुरा अतीते वर्तमाने भाविनि वा इत्यर्थः। न त्रुटति न छिनत्ति, न विच्छिन्ना इत्यर्थः। `पुरिललुङ्चास्मे’ इति भूते लट्। अत्र गीतझङ्कृतेः श्रृंगाररससारणित्वेन रूपकालङ्कारः॥ 18.18 ॥
भित्तिचित्रलिखिताखिलक्रमा यत्र तस्थुरितिहाससङ्कथाः।
पद्मनन्दनसुतारिरंसुताऽमन्दसाहसहसन्मनोभुवः॥ 18.19 ॥
अन्वयः–यत्र नन्दनसुतारिरंसुतामन्दसाहसहसन्मनोभुवः इतिहाससङ्कथाः भित्तिचि6लिखिताखिलक्रमाः तस्थुः।
जीवातु–भित्तीति। यत्र सौधे, भित्तिषु कुड्येषु, चित्रलिखिता अलेख्यरूपतया अङ्किताः, अखिलाः सकलाः, क्रमाः अनुक्रमाः, पुर्वापरघटनाविशेषाः इत्यर्थः। यासां पद्‌मनन्दनस्य पद्‌मयोनेः ब्रह्मणः, तस्य विष्मुनाभिकमलोत्पन्नत्वादिति भावः। सुतया कन्यया भारत्या, रिरंसुता रन्तुमिच्छता, सा एव अमन्दं महत्, साहसम् अविमृष्यकारित्वम्, तेन हसन् स्वप्रयाससाफल्यसन्तोषात् स्मयमानः, मनोभूः कामः यासु तथाभूताः, इतिहाससङ्कथाः पुरावृत्तोक्तवृत्तान्ता, तस्थुः विद्यन्ते स्म। यस्य सौधस्य भितौकामस्य ब्रह्माणोऽपि पराक्षवादिप्रभावः चित्रकरेम अङ्कितः अवर्त्तत इत्यर्थः॥ 18.19 ॥
पुष्पकाण्डजडिण्डिमायितं यत्र गौतमकलत्रगामिनः।
पारदारिकविलाससाहसं देवभर्त्तुरुदटङ्कि भित्तिषु॥ 18.20 ॥
अन्वयः–यत्र गौतमकलत्रगामिनः देवभर्त्तुः तथा पुण्पकाण्डजडिण्डिमायितं परदारिकविलाससाहसं भित्तिषु उदटङ्कि।
जीवातु–पुष्पेति। यत्र सौधे, भित्तिषु कुड्येषु, पुष्पकाण्डस्य कुसुमेषोः, जयडिण्डमायितुं विजयघोषकडिण्डिमाख्यवाद्यविशेषवत् आचरितम्। `उपभानादाचारे’ इति क्यजन्तात् कर्त्तरि क्तः. गौतमकलत्रगामिनः अहल्यागन्तुः, देवभर्तुः इन्द्रस्य, परदारान् गच्छतीति पारदारिकः। `गच्छतौ परदारादिभ्यः’ इत्युसङ्ख्यानात् ठक्। तस्य विलासः विजृम्भणम्, तत् एव साहसं हठकारिता, उद्‌टङ्कि उट्टङ्कितम् अङ्कितम् इत्यर्थः तथा दम्पत्योः हर्षजननार्थञ्च सर्वमेतत् वृत्तान्तं तत्र लिखितम् इति भावः॥ 18.20 ॥
उच्चलत्कलरवालिकैतवाद् वैजयन्तविजयार्जिता जगत्।
यस्य कीर्तिरवदायति स्म सा कार्त्तिकीतिथिनिशीथिनीस्वसा॥ 18.21 ॥
अन्वयः–वैजयन्तविजयार्जिता कार्त्तिकीतिथिनिशीथिननीस्वसा यस्य कीर्त्तिः उच्चलत्कलरवालिकैतवात् जगत् अस्ववदायति एव।
जीवातु–उच्चलदिति। कृतिकाभिः नक्षत्रेण युक्ता पौर्णमासी कार्तिकी। `नक्षत्रेण युक्तः कालः’ इत्यण्। सा एव तिथिः पूर्णिमा, तस्याः निशीथिनी रात्रिः, तस्याः स्वसा भगिनी, तत्सदृशी सुशुभ्रा इत्यर्थः। तथा वैजयन्तस्य इन्द्रप्रसादस्य `स्यात् प्रासादो वैजयन्तः’ इत्यमरः। विजयेन पराभवेण, औन्नत्येन सौन्दर्येण व इति भावः। अर्जिता लब्धेत्यर्थः। यस्य सौधस्य, सा प्रसिद्धा, कीर्त्तिः यशः, धवलतेति यावत्। `यशसि धवलता वर्ण्यते हासकीर्त्त्योः’ इत्युक्तेरिति भावः। उच्चलताम् उड्डीयमानानाम्, कलरवालीनां पारावतश्रेणीनाम्, कैतवात् व्याजात्, इत्यपह्नवभेदः। जगत् भुवनम्, अवदायति स्म इत्यर्थः। सौधोपरि उड्डीयमाना एते तावत् पारावता न भवन्ति, परन्तु एतस्य शरच्छन्द्रचन्द्रिकातुल्या कीर्त्तिरेवेति भावः। दैप् शोधने इत्यस्य लट्॥ 18.21 ॥
गौरभानुगुरुगेहिनोस्मरोद्‌भूतभावमितिवृत्तमाश्रिताः।
रेजिरे यदजिरेऽभिनीतिभिर्नाटिका भरतभारतीसुधा॥ 18.22 ॥
अन्वयः–यदजिरे गौरभानुगुरुगेहिनीस्मरोद्‌भूतभावम् इतिवृत्तम् आश्रिताः भरतभारतीसुधाः नाटिकाः अभिनीतिभिः रेजिरे।
जीवातु–गौरेति। यस्य सौधस्य, अजिरे प्राङ्गणे, गौरभानोः सितांशोः, चन्द्रस्येत्यर्थः। गुरुगेहिन्यां बृहस्पतिपत्न्यां तारायाम्, स्मरोद्भूतभावकामजव्यापारमेव, इतिवृत्तं वर्णनीयविषयम्, आश्रिताः अवलम्बिताः, तद्वर्णनपराः इत्यर्थः। भरतभारतीसुधाः नाट्यशास्त्रस्य सारभूताः अमृतकल्पाः, नाटिकाः चतुरङ्करूपकविशेषाः, `चतुरङ्का तु नाटिका’ इत्युक्तलक्षणात्, अभिनीतिभिः अभिनयैः, रेजिरे शुशुभिरे॥ 18.22 ॥
शम्भुदारुवनसम्भुजिक्रियामाधवव्रजवधूविलासयोः।
गुम्फितैरुशनसा सुभाषितैर्यस्य हाटकविटङ्कमङ्कितम्॥ 18.23 ॥
अन्वयः–यस्य हाटकविटङ्कं शम्भुदारुवनसम्भुक्रियामाधवव्रजवधूविलासयोः उशनसा गुम्फितैः सुभाषितैः अङ्कितम्।
जीवातु–शम्भुदार्विति। यस्य सौधस्य, हाटकविटङ्कं हिरण्मयकपोतपालिका, `हिरण्यं हेमहाटकम्’ `कपोतपालिकायान्तु विटङ्कपुन्नपुंसकम्’ इति चामरः। शम्भोः हरस्य, दारुवने देवदारुकानने, सम्भुजिक्रिया कोचस्त्रीभिः सह सम्भोगव्यापारः माधवस्य श्रीकृष्णस्य, व्रजवधूविलासः गोपाङ्गनाविहारश्च तयोः विषये, उशनसा शुक्रचार्येण, गुम्फितैः, विरचितैः, सुभाषितैः सूक्तैः, शिवकृष्णविहारवर्णनैरित्यर्थःष अङ्कितं चित्रितम्। तत्र लिखितम् इत्यर्थः॥ 18.23 ॥
अह्नि भानुभुवि दासदारिकां यच्चरः परिचरन्तमुज्जगौ।
कालदेशविषयासहस्मरादुत्सुकं शुकपितामहं शुकः॥ 18.24 ॥
अन्वयः–यच्चरः शुकः कालदेशविषयासहस्मरात् उत्सुकम् अह्नि भानुभुवि दासदारिकां परिचरन्तं शुकपितामहम् उज्जगौ।
जीवातु–अह्नीति। यच्चरः यत्सौधचारी, शुकः कीरः, कालः रात्र्यादिः, देशः निर्जनादिः, विषयः उपभोग्याया नार्य्या अवस्थादिः, तेषाम् असहात् अक्षमात् योग्यायोग्यविचारविलम्बासहिष्णोरित्यर्थः। `इष्टार्थोद्‌युक्त उत्सुकः’ इत्यमरः। अत एव अह्नि दिवैव, न रात्रौ इति भावः। भानुभुवि सूर्यतनयायां यमुनायाम्, यमुनामद्यस्थद्वीपे इत्यर्थः। न विविक्ते इति भावः। `कालिन्दी सूर्यतनया यमुना शमनस्वसा’ इत्यमरः। दासदारिकां कैवर्त्तकन्याम्, सत्यवतीमित्यर्थः। न तु कुलीनामिति भावः। कैवर्त्ते दासीधीवरो’ इत्यमरः। परिचरन्तं सेवमानम्, रमयन्तमिति यावत्। शुकपितामहं व्यासपितरं पराशरम्, `शुको व्याससुते कीरे’ इति विश्वः उज्जगौ गायति स्म। पराशरस्य दासराजकन्यकासमागमं पुराणादौ श्रुतं पुनः पुनरुच्चैः पपाठेत्यर्थः॥ 18.24 ॥
नीतमेव करलभ्यपारतामप्रतीर्य मुनयस्तपोऽर्णवम्।
अप्सरःकुचघटावलम्बनात् स्थायिनः क्वचन यत्र चित्रगाः॥ 18.25 ॥
अन्वयः–यत्र क्वचन करलभ्यपारतां नीतम् एवं तपोऽर्णवम् अप्रतीर्य अप्सरः कुचघटावलम्बनात् स्थायिनः मुनयः चित्रगाः।
जीवातु–नीतमिति। यत्र सौधे, क्वचन कुत्रचित् प्रदेशे, करलभ्यपारतां पाणिप्राप्यचरमसीमात्वम्, अचिरमेव लप्स्यमानफलत्वमित्यर्थःष नीतमेव प्राप्तमेव, तीर्मप्रायमेवेत्यर्थः। तपोऽर्णवं तपस्यासागरम्, अप्रतीर्य अनुत्तीर्य तपस्यातो विरत्येत्यर्थः। अप्सरसां स्वर्वेश्यानां, कुचाः स्तना एव, घटाः कुम्भाः, तेषाम् अवलम्बनात् आश्रयात्, स्थायिनः अवतिष्ठमानाः, विश्रामपरा इत्यर्थः। तरणश्रान्ताः घटादिकमवलम्ब्य विश्राम्यन्तीति प्रसिद्धिः। मुनयः विश्वामित्रादयः, चित्रगाः आलेख्यवर्त्तिनः, चित्रे अङ्किताः विद्यन्ते स्म इत्यर्थः॥ 18.25 ॥
(स्वामिना च वहता च तं मया स स्मरः सुरतवर्णनाज्जितः।
यो।
यमोदृगिति नृत्यते स्म यत्केकिना मुरजनिस्वदैर्धनैः॥ 18.25.1)
अन्वयः–यत्केकिना-यः अयम् ईदृक् सः स्मरः स्वामिना तं च वहता मया च सुरतवर्जनात् जितः-इति घनैः मुरजनिस्वनैः नृत्यते स्म।
यत्र वीक्ष्य नलक्षीमसम्भवे मुह्यतो रतिरतीशयोरपि।
स्वर्द्धयेव जयतोर्जयाय ते कामकामरमणीबभूवतुः॥ 18.26 ॥
अन्वयः–यत्र नलक्षीमसम्भवे वीक्ष्य मुह्यतोः स्पर्द्धया एव जायतोः रतिरतीशयोः अपि जयाय तै कामकामरमणीबभूवतुः।
जीवातु–यत्रेति। यत्र सौधे, नलभीमसम्भवे निषधेशभैम्यौ, वीक्ष्य दृष्ट्वा, मुह्यतोः मोहं गतोः, रूपदर्शनात् विस्मयविमूढदोरित्यर्थः। अत एव स्पर्द्धया साम्येनेव, तुल्यताभिमानेनेवेत्यर्थः। जयतोः अभिभवोः, रतिरतीशयोः रतिकामयोरपि, जयाय अभिभवाय, ते नलदमयन्त्यौ, कामकामरमणीबभूवतुः तज्जयाय स्वमन्ये ततोऽप्युत्कृष्टे कन्दर्पकन्दर्पस्त्रियौ जज्ञाते, ते अतिशय्य स्थिते इत्यर्थः। अभूततद्भावे च्विः॥ 18.26 ॥
तत्र सौधसुरभूधरे तयोराविरासुरथ कामकेलयः।
ये महाकविभिरप्यवीक्षिताः पांशुलाभिरपि ये न शिक्षिताः॥ 18.27 ॥
अन्वयः–अथ तत्र सौधसुरभूधरे तयोः कामकेलयः आविरासुः ये महाकविभिः अपि अवीक्षिताः ये पांशुलाभिः अपि न शिक्षिताः।
जीवातु–तत्रेति। यत्र तस्मिन्, सौधसुरभूधरे मेरुतुल्यप्रासादे, तयोः भैमीनलयाः, कामकेलयः अनङ्गक्रीडाः। `द्रवकेलिपरिसासाः क्रीडा खेला च’ इत्यमरः। अथ आरम्भे कार्त्स्येन वा, अविरासुः आविर्बभूवुः, विहारस्य प्रथमप्रवृत्तिः कार्त्स्येन वा प्रवृत्तिरभूदित्यर्थः। प्रादुराविः शब्दयोः कृभ्वस्तिपरनियमात् तत्रम्प्रत्ययवत् कृभ्वस्तिग्रहणसामर्थ्यात् नास्ति भूभावः। ये केलयः, महाकविभिः वात्स्यायनशास्त्रज्ञैरपि, अवीक्षिताः अदृष्टाः, वर्णितुमशक्ता इत्यर्थः। तथा ये पांशुलाभिः कुलटाभिरपि, न शिक्षिताः न अभ्यस्ताः, एतेन वर्णयिष्यमाणकामकेलीनामसाधारणत्वं सूच्यते॥ 18.27 ॥
पौरुषं दधति योषिता नले स्वामिनी श्रिततदीयक्षावया।
यूनि शैशवमतीर्मया कियत्प्रापि भीमसुतया न साध्वसम्॥ 18.28 ॥
अन्वयः–पौरुषं दधति यूने स्वामिति नले योषिता सैशवम् अतीर्णया श्रिततदीयभावया भीमसुतया कियत् साध्वसं न आपि?
जीवातु–पौरुषमिति। पौरुषं पुरुषत्वम्, युवादित्वादण्‌प्रत्ययः। दधति दधाने, यूनि तरुणे, स्वामिनी पत्यौ, नले नैषधविषये, क्रमात् योषिता स्त्रिया, भीरुस्वभावया इत्यर्थः। शैशवम् अतीर्णया अद्यापि अनुत्तीर्णबाल्यया। कर्तरिक्तः। श्रितः अवलम्बितः, तदीयभावः नलाभिप्रायः, तदधीनत्वमिति यावत्। यथा तादृश्या, अस्वतन्त्रया इत्यर्थः। भीमसुतया भैम्या, साध्वसं सङ्गमभयम्, कियत् किञ्चिन्मात्रम्, न प्रापि न अलम्भि, परन्तु महदेव भयं प्रापि इति भावः। तच्च रसीभवतः स्थायिनः अंगं पत्युः अत्यानन्दकरञ्च इति प्रपञ्चितं कुमारसम्भवसञ्जीवन्यां `भावसाध्वसपरिग्रहात्’ इत्यत्र। अत्र भयहेतूनां नलगतपौरुषादीनां त्रयाणां भैमीगतस्त्रीत्वादीना त्रयाणाञ्च यथासङ्ख्यं सम्बन्धात् यथासङ्ख्यालङ्कारः॥ 18.28 ॥
दूत्यसङ्गतिगतं यदात्मना प्रागशिश्रवदियं प्रियं गिरः।
तं विचिन्त्य विनयव्ययं ह्रिया न स्म वेदे करवाणि कीदृशम्॥ 18.29 ॥
अन्वयः–इयं प्राक् दूत्यसङ्गतिगतं प्रियं यत् आत्मना गिरः अशिश्रवत् तं विनयव्ययं विचिन्त्य ह्रिया `कीदृशं करवाणि’ न वेद स्म।
जीवातु–दूत्येति। इयं दमयन्ती, प्राक स्वयंवरात् पूर्वम्, दूत्ये इन्द्रस्य दूतकर्मणि, सङ्गतिगतं समागमं प्राप्तम्, प्रियं नलम्, आत्मना स्वयम्, गिरः नवसर्गोक्तवाक्यानि, हृदयनिहितप्रेमभाषणानीति यावत्, अशिश्रवत् श्रावयति स्म। श्रृणोतेणौं चङ्युपधाया हस्वे सन्वद्भावः, `स्रवतिश्रृणोति-’ इत्यादिना विकल्पादभ्यासस्येत्वम्। इति यत्, तं पूर्वकृतम्, विनयव्ययम् अविनयम्, प्रगल्भातामिति यावत् विचिन्त्य अनुस्मृत्य, ह्रिया लज्जया, सा भैमी, कीदृशं किम्, करवानि विदधानि, इति न वेद स्म न बुबुधे। शालीनताऽभावस्मरणात् लज्जया इतिकर्त्तव्यताविमूढा अभवदित्यर्थः॥ 18.29 ॥
यत् तया सदसि नैषधः स्वयं प्राग्वृतः सपदि वीतलज्जया।
तन्निजं मनसिकृत्य चापलं सा शशाक विलोकतुं नलम्॥ 18.30 ॥
अन्वयः–प्राक्‌ यत् वीतलज्जया तया स्वयं सदसि नैषधः सपदि वृतः तत् निजं चापलं मनसिकृत्य सा नलं विलोकितुं न शशाक।
जीवातु–यदिति। किञ्च, तया भैम्या, प्राक् पूर्वम्, स्वयंवरकाले इत्यर्थः। सदसि स्वयंवरसभायाम्, सपदि सहसा, वीतलज्जया विगतत्रपया सत्या, नैषधः नलः, स्वयम् आत्मना, नलकर्तृकयाच्ञाऽभावेऽपि इति भावः। वृतः पतित्वेन स्वीकृतः, इति यत् तत् स्वयंवरणरूपम्, निजम् आत्मीत्यम्, चापलं धाषर्ट्यम्, मनसिकृत्य हृदि निधाय `अनत्याधान उरसिमनसी’ इति समासे क्त्वो ल्यबादेशः। सा भैमी, नलं नैषधम्, विलोकितुं द्रष्टुमपि, न शशाक न चक्षमे॥ 18.30 ॥
आसने मणिमरीचिमांसले यां दिशं स परिरभ्य तस्थिवान्।
तामसूयितवतीव मानिनी न व्यलोकयदियं मनागपि॥ 18.31 ॥
अन्वयः–मणिमरीचिमासले आसने यां दिशं परिरभ्य सः तस्थिवान् मानिनी इयम् असूयितवती इव तां मनाक् अपि न व्यलोकयत्।
जीवातु–आसने इति। सः नलः, मणिमरीचिभिः रत्नकिरणैः मांसले सान्द्रे, समुद्भासिते इत्यर्थः। आसने मणिपीठे, यां दिशं ककुभम्, परिरभ्य आश्रित्य इत्यर्थः। तस्थिवान् उपविवेश, यद्दिगाभिमुख्येनावस्थित इत्यर्थः। मानिनी अभिमानवती, इयं दमयन्ती, तां प्रियपरिरब्धां दिशम्, असूयितवतीव दिशः स्त्रीत्वे साफल्यात् ईर्ष्यितवतीव इत्युत्प्रेक्षा, मनागपि ईषदपि न व्यलोकयत् न अपश्यत् नलन्तु किमु वक्तव्यमिति भावः॥ 18.31 ॥
ह्रीसरिन्निजनिमज्जनोचित मौलिदूरनमनं दधानया।
द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतमश्रुतीकृतम्॥ 18.32 ॥
अन्वयः–ह्रीसरिन्निजनिमज्जनोचितं मौलिदूरनमनं दधानया द्वारि चित्रयुवतिश्रिया तया भर्तृहूतिशतम् अश्रुतीकृतम्।
जीवातु–ह्रीति। ह्रीसरिति लज्जानद्याम्, निजस्य आत्मनः, निमज्जनं निमग्नीभवनम्, तस्य उचितं बोग्यम्, लज्जाप्रयुक्तत्वात् मौलिनमनस्येति भावः। मौले मूद्‌र्ध्नः, दूरम् अत्यर्थम्, नमणं नतिम्, दधानया धारयन्त्या, अत एव द्वारि द्वारदेशे, चित्रयुक्तेः आलेख्यलिखितायाः तरुण्याः, श्रीरिवश्रीः कान्तिः यस्याः तथाभूतया, तद्वन्निश्चलया इत्यर्थः। तया भैम्या, भर्त्तुः नलस्य, हूतिशतं पुनः पुनराह्वानम्। `हूतिराकारणाह्वानम्’ इत्यमरः। अश्रुतीकृतं न श्रवणविषयीकृतम्, श्रुतमपि लज्जया प्रत्युत्तराप्रदानात् अगमनाच्च अश्रुतमिव कृतमित्यर्थः। ह्रिया प्रियं न किञ्चित् प्रत्युवाच इति निष्कर्षः। अभूततद्भावे च्विः॥ 18.32 ॥
वेश्म पत्युरविशन्न साध्वसाद् वेशिताऽपि शयनं बभाज न।
भाजिताऽपि सविधं न साऽस्वपत् स्वापिताऽपि न च सम्मुखाऽभवत्॥ 18.33 ॥
अन्वयः–सा साध्वसात् पत्युः वेश्म न अविशत् वेशिता अपि शयनं न बभाज, भाजिता अपि सविधं सविधं न अस्वपत्, स्वापिता अपि च सम्मुका न अभवत्।
जीवातु–वेश्मेति। सा भैमी, साध्वसात् भयात्, पत्युः भर्त्तुः, वेश्म गृहम्, न अविशत् न प्रविष्टवती, वैशिताऽपि वेशिताऽपि सखीभिः कथञ्चित् गृहान्तः प्रापिताऽपि शयनं तल्पम् न बभाज न सिषेवे शय्यायां न अगच्छदित्यर्थः॥ बाजिताऽपि सखीभिरनुनयादिना शयनं प्रापिताऽपि, सविधं समीपम्, अत्यन्तसंयोगे द्वितीया। न अस्वपत् न अशेन `स्वापः शयननिद्रयोः’ इति मेदिनी। स्वापिताऽपि सखीभिः समीपे शायिताऽपि, सम्मुखा अबिमुखी, न अभवत् नबभूव। एतेन नवोढाया मौग्ध्यात् लज्जाविजितमन्मथत्वमुक्तम्॥ 18.33 ॥
(केवलं न खलु भीमनन्दिनी दूरमत्रपत नैषधं प्रति।
भीमजाहृदि जितः स्त्रिया ह्रिया मन्मथोऽपि नियतं लज्जितः॥ 18.33.1 )
अन्वयः–भीमनन्दिनी केवलं नैषधं प्रती दूरं न अत्रपत; बीमजाहृदि ह्रिया स्त्रिया जितः सः मन्मथः अपि नियतं खलु लज्जिताः।
आत्मनाऽपि हरदारसुन्दरी यत् किमप्यभिललाष चेष्टितुम्।
स्वामिना यदि तदर्थमर्थिता मुद्रितस्तदनया तदुद्यमः॥ 18.34 ॥
अन्वयः–हरदारसुन्दरी आत्मना अपि यत् किम् अपि चेष्टितुम् अभिललाष, यदि तदर्थ स्वामिना अर्थिता तत् अनया तदुद्यमः मुद्रितः।
जीवातु–आत्मनेति। हरदाराः पार्वती इव, सुन्दरी सुरूपा, सा भैमीति शेषः। आत्मना स्वयमपि, यत् किमपि चेष्टितुं यत् किञ्चिन कटाक्षवीक्षणादि कर्त्तुम्, अभिललाष स्पृहयामास, किन्तु स्वामिना पत्या, तदर्थ तन्निमित्तम्, अर्थिता यदि प्रार्थिता चेत्। तत् तदैव, अनया भैम्या, तदुद्यमः तस्य नलस्य उद्यमः चेष्टा, स्वकीयकटाक्षवीक्षणादिचेष्टा वा, मुद्रितः प्रतिबद्धः, निरुद्धीकृतः इत्यर्थः। स्वयं चिकीर्षितमपि लज्जावशात् न करोति इति निष्कर्षः॥ 18.34 ॥
ह्रीभराद् विमुखया तया भियं सञ्चितामननुरागशङ्किनि।
स स्वचेतसि लुलोप संस्मरन् दूत्यकालकलितं तदाशयम्॥ 18.35 ॥
अन्वयः–ह्रीभरात् विमुखया तया अननुरागशङ्किनि स्वचेतसि सञ्चितां भियं दूत्यकालकलितं तदाशयं संस्मरन् सः लुलोप।?
जीवातु–ह्रोभरादिति। सः नलः ह्रीभरात् लज्जातिशयात्, विमुखया प्रतिकूलया, तया भैम्या, अननुरागशङ्किनि वैमुख्यदर्शनात् अनुरागाभावसन्देहिनि, स्वचेतसि निजमनसि, सञ्चितां पुञ्जीकृताम्, भियं विरागसम्भावनाजनितं भयम, दूत्यकाले दूतक्मसमये, कलितम्, अवगतम्, तस्याः भैम्याः, आशयं चित्तवृत्तिम् संस्मरन् सञ्चिन्तयन्, लुलोप विनाशयामास। तदनुरागस्य स्मरणेन भयं नुनोद इत्यर्तः॥ 18.35 ॥
पार्श्वमागमि निजं सहालिभिस्तेन पूर्वमथ सा तयैकया।
क्वापि तामपि नियुज्य मायिना स्वात्ममात्रसचिवाऽवशेषिता॥ 18.36 ॥
अन्वयः–सा पूरम् आलिभिः सह नजिं पार्श्वम् आगमि, अथ एकया तया अवशेषिता, मायिना तेन ताम्, अपि क्व अपि नियुज्य स्वात्ममात्रसचिवा (अवशेषिता)।
जीवातु–पार्श्वमिति। मायिना कपटपटुना, चतुरेणेत्यर्थः। तेन नलेन, सा भैमी, पूर्वम् आदौ, आलिभिः वह्नीभिः सखीभिः सह, निजं पार्श्व स्वसमीपम्, आगमि आगमिता, आनीतेत्यर्थः। गमेर्ण्यन्तात् कर्मणि लुङ मित्त्वात् ह्रस्वत्वम्। अथ अन्यासां सखीनां कार्यव्यपदेशेन प्रस्थापनानन्तरम्, एकया एकमात्रया, तया आल्या सह, अवशेषिता अवशिष्टीकृता। अथ ताम् एकामपि आलिम्, क्वापि ताम्बूलानयनादिरूपे कस्मिन्नपि कर्मणि, नियुज्य सम्प्रेष्य, स्वात्ममात्रं केवलं स्वयमेव, सचिवः सहायः, सहचर इत्यर्थः! यस्याः सा तादृशी, चक्रे इति शेषः विविक्तमकरोदित्यर्थः॥ 18.36 ॥
सन्निधावपि निजे निवेशितामालिभिः कुसुमशस्त्रशास्त्रवित्।
आनयद् व्यवधिमानिव प्रियामङ्कपालिवलयेन सन्निधिम्॥ 18.37 ॥
अन्वयः–कुसुमशास्त्रवित् आलिभिः निजे सन्निधौ निवेशिताम् अपि प्रियां व्यवधिमान् इव अङ्कपालिवलयेन सन्निधिम् आनयत्।
जीवातु–सन्निधाविति। कुसुमाशस्त्रशास्त्रवित् कामतन्त्रपारगः नलः, आलिभिः सहचरीभिः. निजे सन्निधौ स्वसमीपे, निवेशितां स्थापितामपि, प्रियां दमयन्तीम्, व्यवधिमान् इव असन्निहितः इव, अङ्कपालिः पृष्ठदेशस्पर्शपूर्वकालिङ्गनविशेषः, तद्रूपेण वलयेन वलयाकारवेष्टनेन, सन्निधिं स्वसमीपम्’ आनयत् आनीतवान्। `आदौ रतं `बाह्ममेव प्रयोज्यं तत्रापि चालिङ्गनमेव पूर्वम्’ `तथा सामीप्यगां भीरुं नवोढां सन्निधावयेत्। विश्वासच्छद्मना गाढालिङ्गनात् त्याजयेद् भयम्।’ इति कामशास्त्रादिति भावः॥ 18.37 ॥
प्रागचुम्बदलिके ह्रिया नतां तां क्रमाद्दरनतां कपोलयोः।
तेन विश्वसितमानसां ढटित्यानने स परिचुम्ब्य सिष्मिये॥ 18.38 ॥
अन्वयः–सः ह्रियानतां तां प्राक् अलिके अचुम्बत्, क्रमात् दरनतां कपोलयोः, तेन विश्वसितमानसां ढटिति आनने परिचुम्ब्य सिष्मिये।
जीवातु–प्रागिति। स नलः, ह्रिया लज्जया, नतां नम्रमुखीम्, तां भैमीम्, प्राक् पूर्वम्; अलिके ललाटपट्टके। `ललाटमलिकं गोत्रिः’ इत्यमरः। अचुम्बत् चुम्बितवान्, अथ क्रमात् क्रमशः दरनताम् ईषदवनताम्, पूर्वापेक्षया किञ्चिदुन्नमितमुखीमित्यर्थः। कपोलयोः तामचुम्बदिति पूर्वेणान्वयः तेन पूर्वोक्तरूपमृदुव्यवहारेणेत्यर्थः। विश्वसितमानसां विस्रब्धचित्ताम्, तामिति शेषः। झटिति द्राक्, आनने मुखे, परिचुम्ब्य चुम्बयित्वा, सिष्मिये स्मितवान्, अधरचुम्बनहर्षात् ईषत् जहासेत्यर्थः। अनुप्रवेशलाबात् इति भावः॥ 18.38 ॥
लज्जया प्रथममेत्य हूङ्‌कृतः साध्वसेन बलिनाऽथ तर्जितः।
किञ्चितदुच्छ्वसित एव तद्‌धृदि न्यग्बभूव पुनरर्भकः स्मरः॥ 18.39 ॥
अन्वयः–तद्‌धूदि किञ्चित् उच्छ्‌वसितः एव अर्भकः स्मरः प्रथमं लज्जया एत्य हूङ्‌कृतः अथ बलिना साध्वसेन तर्जितः पुनः न्यग्बभूव।
जीवातु–लज्जयेति। अर्भकः शिशुः, अप्रगल्भावस्थत्वात् तथा रूपणम्।
स्मरः कामः, तस्याः दमयन्त्याः, हृदि चेतसि, किञ्चित् ईषत्, उच्छ्वसितः स्फुरित एव पूर्वोक्तचुम्बनाद्युपलालनेन किञ्चिदुल्लसितः सन् एवेत्यर्थः। प्रथमम् आदौ, लज्जया ह्रिया, एत्य आगत्य, हूङ्‌कृतः हूङ्कारेण वारितः, अथ भर्त्सितः सन्, पुनः भूयः, न्यग्बभूव सञ्चुकोच प्रशशामेत्यर्थः॥ 18.39 ॥
वल्लभस्य भुजयोः स्मरोत्सवे दित्सतोः प्रसभमङ्कपालिकाम्।
एककश्चिरमरोधि बालया तल्पयन्त्रणनिरन्तरालया॥ 18.40 ॥
अन्वयः–स्मरोत्सवे प्रसभम् अङ्गपालिकां दित्सतोः बल्लभस्य भुजयोः एककः तल्पयन्त्रणनिरन्तरालया बालया चिरम् अरोधि।
जीवातु–वल्लभस्येति। स्मरोत्सवे सुरतारम्भे, प्रसभं बलात्, अङ्कपालिकाम् आलिङ्गनम्। `सम्परीरम्भ आश्लेषः परिष्वङ्ग प्रगूहनम् आलिङ्गनमपि क्रोडीकरणञ्चाङ्कपाल्यपि॥’ इति यादवः। दित्सतोः दातुमिच्छतोः, आलिङ्गनप्रवृत्तयोरित्यर्थः। ददातेः सनन्ताल्लटः शत्रादेशःष `सनि मीमा-’ इत्यादिना इत्वेऽभ्यासलोपः। वल्लभस्य प्रियस्य, भुजयोः बाह्वोः, एककः एको भुचः, असहाये कन्-प्रत्ययः। तल्पयन्त्रणे शय्यानिरोधने, शय्याऽऽम्लेषणे इत्यर्थः। निरन्तरालया अव्यवधानया, दृढरूपेण निरन्तराश्लिष्‍तल्पया इत्यर्थः। बालया तरुण्य भैम्या, चिरं दीर्घकालम्, अरोधि निरुद्धः, तल्पमास्लिष्य प्रियस्य एकं करमरुणत् इत्यर्थः। भैम्याः पृष्ठदेशशय्ययोर्मध्ये अन्तरालाभावात् नलः एकं हस्तं तत्र प्रवेश्य दमयन्तीमालिङ्गितुं न समर्थ इति भावः॥ 18.40 ॥
हारसाधिमविलोकने मृषा कौतुकं किमपि नाटयन्नयम्।
कण्ठमूलमदसीयमस्पृशत् पाणिनोपकुचधाविना धवः॥ 18.41 ॥
अन्वयः–हारसाधिमविलोकने किम् अपि मृषा कौतुकं नाटयन् अयं धवः उपकुचधाविना पाणिना अदसीयं कण्ठमूलम् अस्पृशत्।
जीवातु–हारेति। धोवः पतिः, अयं नलः, हारस्य मुक्तावल्याः, साधिम्न अतिशयेन साधुतायाः, रमणीयताया इत्यर्थः। विलोकने दर्शने, परीक्षार्थमित्यर्थः। किमपि अनिर्दिष्टमित्यर्थः। मृषा मिथ्या, कौतुकं कुतूहलम्, नाटयन् प्रदर्शयन्नित्यर्थः। वस्तुतस्तु पीडनाभिप्रायेणैवेति भावः। उपकुचं कुचसमीपे, धावति द्रुतं गच्छतीति तद्धाविना स्तनसमीपगामिना, पाणिना करेण, अमुष्याः इदम् अदसीयं दमयन्ती, सम्बन्धि। `त्यदादीनि च’ इति वृद्धिसंज्ञायां `वृद्धाच्छः’ इति छप्रत्ययः। कण्टमूलं गलाधोबागम्, उरःस्थलमित्यर्थः। अस्पृशत् स्पृष्टवान्॥ 18.41 ॥
यत् त्वयाऽस्मि सदसि स्रजाऽञ्चितस्तन्मयाऽपि भवदर्हणाऽर्हति।
इत्युदीर्य निजहारमर्पयन्नस्पृशत् स तदुरोजकोरकौ॥ 18.42 ॥
अन्वयः–यत् त्वया सदसि स्रजा अञ्चितः अस्मि, तत् मया अपि भवदर्हणा अर्हति-इति उदीर्य निजहारम् अर्पयन् सः तदुरोजकोरकौ अस्पृशत्।
जीवातु–यदिति। हे प्रिये! यत् यस्मात्, त्वया भवत्या, सदसि स्वयंवरसभायाम्, स्रजा वरणमालया, अञ्चितः पजुतः, `अञ्चेः पूजायाम्’ इतीडागमः, `नाञ्चेः पूजायाम्’ इत्यनुनासिकलोपप्रतिषेधः। अस्मि भवामि, अहमिति शेषः। तत् तस्मात्, मयाऽपि भवत्याः तव, अर्हणा पूजा। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’। अर्हति युज्यते, इति एवम्, उदीर्य उक्त्वा, निजं स्वकम्, हारं कण्ठभूषान्, अर्पयन् ददत्, गलदेशे सन्निधापयन्नित्यर्थः। सः नलः, तस्याः दमयन्त्याः, उरोजकोरकौ कुचकुड्‌मलौ, अस्पृशत् स्पृष्टवान्॥ 18.42 ॥
नीविसीम्नि निहितं स निद्रया सुभ्रुवो निशि निषिद्धसंविदः।
कम्पितं शयमपासयन्निजं दोलनैर्जनितबोधयाऽनया॥ 18.43 ॥
अन्वयः–सः निशि निद्रया निषिद्धसंविदः सुभ्रुवः नीविसीम्नि निहितं कम्पितं निजं सयं दोलनैः जनितबोधया अनया अपासयत्।
जीवातु–नीवीति। सः नलः, निशि रात्रौ, निद्रया स्वापेन, निषिद्धसंविदः निवृत्तसंज्ञायाः, सुभ्रुवः सुन्दरभ्रूशालिन्याः प्रियायाः, नीविसीम्निकटीवस्त्रग्रन्थिसमीपे, निहितं स्तापितम्, उन्मोचनाय इति भावः। अत एव कम्पितं सत्त्वोदयात् सकम्पम्, निजं स्वीयम्, शयं पाणिम्, दोलनैः पाणिकम्पनैः, कम्पनाद्धेतोः दमयन्त्याः गात्रे सहसा संलग्नत्वात् इति भावः। जनितबोधया प्रबुद्ध्या, अनया भैम्या, प्रयोज्यया। अपासयत् अपासारयत्॥ 18.43 ॥
स प्रियोरुयुगकञ्चुकांशुके न्यस्य दृष्टिमथ सिष्मिये नृपः।
आववार तदथाम्बराञ्चलैः सा निरावृत्तिरिव त्रपावृता॥ 18.44 ॥
अन्वयः–सः नृपः प्रियोरुयुगकञ्चुकांशुके दृष्टिं न्यस्य सिष्मिये, अथ सा निरावृतिः इव त्रपावृता अम्बराञ्चलैः तत् आववार।
जीवातु–स इति। सः नृपः नलः, प्रियायाः दमयन्त्याः, ऊरूयुगस्य सक्थिद्वयस्य, कञ्चुके चोलके, आवरके इत्यर्थः। अंशुके सूक्ष्मवस्त्रे, दृष्टिं नेत्रम्, न्यस्य निक्षिप्य, सिष्मिये स्मितवन्, सूक्ष्मवस्त्राभ्यन्तरात् ऊरुयुगसौन्दर्यं दृष्ट्वा आनन्दोदयादिति भावः। अथ दर्शनानन्तरम्, सा दमयन्ती, निरावृतिरिव आवरणरहितेव, साक्षाद्‌दृष्टोरुयुगा इवेत्यर्थः। अत एव त्रपावृता लज्जामग्ना सती, तदूरुयुगम्, अम्बराञ्चलैः वस्त्रप्रान्तैः, आववार आच्छादयामास। आवृतमपि अनावृतमितीव आवृणोदिति त्रपातिशयोक्तिः॥ 18.44 ॥
बुद्धिमान् व्यधित तां क्रमादयं किञ्चिदित्थमपगोतसाध्वसाम्।
किञ्च तन्मनसि चित्तजन्मना ह्रीरनामि धनुषां सामं मनाक्॥ 18.45 ॥
अन्वयः–बुद्धिमान् अयं तां क्रमात् इत्थं किञ्चित् अपनीतसाध्वसां व्यधित; किम् च चित्तजन्मना तन्मनसि ह्रीः धनुषा सह मनाक् अनाभि।
जीवातु–अथ शनैमौंग्ध्यत्यागान्मावस्थां प्रापितेत्याह-बुद्धिमानिति। बुद्धिमान् उपायज्ञः अयं नलः, तां प्रियाम्, क्रमात् क्रमशः, इत्थम् उक्तरीत्या, किञ्चित् ईषत्, अपनीतसाध्वसाम् अपसारितभयाम्, व्यधित विहितवान्। किञ्च, चित्तजन्मना कामेनापि, तस्याः भैम्याः, मनसि चेतसि, ह्रीः लज्जा, धनुषा समं चापेन सह, मनाक् ईषत्, अनामि नामिता, एकत्र-अल्पीकृता, अन्यत्र-न्युब्जीकृतेत्यर्थः। `ज्वलह्वल-’ इति वार्तिकात् मित्त्वाभावपक्षे वृद्धिः। शनैर्लज्जानमनेन कामः स्वयमुत्थितः इति भावः। अत्र हि हीनमनःघनुर्नमनयोः कार्यकारणयोः पौर्वापर्यविपर्ययेण सहोक्त्यलङ्कारः॥ 18.45 ॥
सिष्मिये हसति तेन न स्म सा प्रीणिताऽपि परिहासबाषणैः।
स्वे हि दर्शयति ते परेण काऽनर्घ्यदन्तकुरुविन्दमालिके॥ 18.46 ॥
अन्वयः–तेन परिहासभाषणैः प्रीणिता अपि सा सिष्मिये, न हसतिं स्म, हि का स्वे अनर्घ्नदन्तकुरुविन्दमालिके परेम दर्शयति?
जीवातु–सिष्मिये इति। सा भैमी, तेन नलेन, परिहासभाषणैः नर्मोक्तिभिः, प्रीणिता हर्षिताऽपि। प्रीञो ण्यन्तात् कर्णणि क्तः, `धूञ्‌प्रीञार्नुग्‌ वक्तव्यः’ सिष्मिये स्मितवती, न तु हसति स्म न जहास, स्मितमात्रमकरोत् न तु हसिवतीति गाम्भीर्योक्तिः। हसितं लक्ष्यदशनं स्मितञ्च न तथा इति उभयोर्भेदः। हि तथाहि, का स्त्री, स्वे आत्मीये, ते अतिसुन्दरे इत्यर्थः। अनर्घ्याः अतिसुन्दरत्वात् बहुमूल्याः, दन्ताः दशना एव, कुरुविन्दाः पद्मरागाः, ताम्बूलरञ्चितत्वादिति भावः। `कुरुविन्दस्तु मुस्तायां पद्मरागे’ इति यादवः। तेषां मालिके मालाद्वयम्, दन्तङ्‌क्तिद्वयमित्यर्थः। परेण अन्येन, दर्शयति? दर्शनविषयीकरोति? नैव दर्शयतीत्यर्थः। `अणौ यः कर्त्ता’ इति कर्तृसंज्ञानुः वादेन कर्मत्वविधानात् संज्ञापूर्वकविधेरनित्यत्वात् परेण इत्यत्र दृशेर्बुद्ध्यर्थत्वात् `गतिबुद्धि-’ इत्यादिना प्राप्तकर्मत्वाभावः॥ 18.46 ॥
वीक्ष्य भीमतनयास्तनद्वयं मग्नहारमणिमुद्रयाऽङ्कितम्।
सोढकान्तपरिरम्भगाढता सा त्वमानि सुमुखी सखीजनैः॥ 18.47
अन्वयः–सखीजनै। मग्नहारमणिमुद्रया अङ्कितं भीमतनया स्तनद्वयं वीक्ष्य सुमुखी सा सोढकान्तपरिरम्भगाढता तु अमानि।
जीवातु–वीक्ष्येति। सखीजनैः सहचरीभिः, भीमतनयास्तनद्वयं भैम्याः कुचयुगलम् मग्नानां नलोरसा दृढनिपीडनात् अन्तःप्रविष्टानाम्, हारमणीनां कण्ठभूषणस्थितरत्नानाम्, मुद्रया चिह्नेन, अङ्कितं चिह्नितम्, वीक्ष्य, दृष्ट्वा, सुमुखी सुवदना, सा भैमी, सोढा क्षान्ता, सोढुं समर्था इत्यर्थः। कान्तस्य प्रियस्य, यः परिरम्भः आलिङ्गनम्, तस्य गाढता दार्ढ्यं यया सा तादृशी, इति अमानि अबोधि। गाढपरिरम्भं विना स्तनयोस्तादृशचिह्नासम्भवः इत्यनुमितमित्यर्थः॥ 18.47 ॥
याचते स्म परिधापिकाः सखीः सा स्वनीविनिबिडक्रियां यथा।
अन्वमिन्वत तथा विहस्य ता वृत्तमत्र पतिपाणिचापलम्॥ 18.48 ॥
अन्वयः–सा परिधापिकाः सखीः यथा स्वनीविनिविडक्रियां याचते स्म तथा ताः विहस्य अत्र वृत्तं पतिपाणिचापलं अन्वमिन्वत।
जीवातु–याचते इति। सा दमयन्ती, परिधापिकाः वस्त्रपरिधापनकारिकाः, सखीः सहचरीः, यथा यादृशभावेन, स्वस्या आत्मनः, नीवेः वस्त्रग्रन्थेः, निबिडक्रियां दृढतासम्पदानम्, याचते स्म प्रार्थयामास, तया तेनैव कृत्वेत्यर्थः। ताः सख्यः, विहस्य मध्यमस्मितं कृत्वा, अत्र नीविदेश, पत्युः भर्त्तुः, पाणिचापलं करचाञ्चल्यम्, नीव्रग्रन्थेराकर्षणमित्यर्थः। वृत्तं भूतम्, अन्वमिन्वत इत्यनुमितवत्यः, अन्यथा एतत्प्रर्थनाऽनुपपत्तेरिति भावः। मिनोतेर्लङि तङ्॥ 18.48 ॥
कुर्वती निचुलितं ह्रिया कियत् सौहदात् विवृतसौरभंम कियत्।
कुड्मलोन्मिषितसूनसेविनीं पद्मिनीं जयति सा स्म पद्मनी॥ 18.49 ॥
अन्वयः–पद्मिनी सा कियत् ह्रिया निचुलितं कियत् सौहृदात् निवृतसौरभं कुर्वती कुड्‌मलोन्मिषितसूनसेविनीं पद्मिनीं जयति स्म।
जीवातु–कुर्वतीति। पद्मिनी पद्मिनीस्त्रीजातीया, सा भैमी, कियत् किञ्चित् रात्रिवृत्तम्, ह्रिया लज्जया, निचुलितं सखीसमीपेऽपि निगूहितम्, कियत् किञ्चिच्च, सुहृदो भावः सौहृदं तस्मात् सौहृदात् सौहार्दात्, प्रणयाधिक्यादित्यर्थः। युवादित्वादण प्रत्ययः। हृदयस्य `हृदयस्य हृल्लेखयदण्‌लासेषु’ इति हृद्भावे बाहूलकान्नोभयपदवृद्धिः। विवृतं प्रकटितम्, सौरभं मनोज्ञत्वं सौगन्ध्यञ्च यस्य तत् तादृशम्, कुर्वती विदधती सती, कुड्‌मलानि मुकुलानि, उन्मिषितसूनानि प्रस्फुटितकुसुमानि च, सेवते भजते इति तादृशीम्, पद्मिनी, उन्मिषितसूनानि प्रस्फुटितकुसुमानि च, सेवते भजते इति तादृशीम्, पद्मिनीं कमलिनीम्, जयति स्म विजितवती, कियत्कलिकाढ्या किर्याद्वकसितकमलाढ्या च कमलिनीव सा बभौ इत्यर्थः। रहस्यगोपने कलिकातुल्यं रहस्यप्रकटने च विकसितपद्मतुल्यमिति भावः॥ 18.49 ॥
नाविलोक्य नलमासितुं स्मरो ह्रीनं वीक्षितुमदन्मृगीदृशः।
तद्‌दुशः पतिदिशोऽलन्नथ व्रीडिताः समकुचन्मुहुः पथः॥ 18.50 ॥
अन्वयः–स्मरः मृगीदृशः नलम् अविलोक्य आसितुं न अदात्, ह्रीः वीक्षितुं न; तद्‌दृशः मुहुः पतिदिशः अचलन्, अथ व्रीडिताः पथः समकुचन्।
जीवातु–नेति। स्मरः कामः मृगीदृशः हरिणलोचनायाः भैम्याः सम्बन्धे, नलं नैषधम्, अविलोक्य अदृष्ट्वा, आसितुं स्थातुम्, न अदात् न दत्तवान्, ह्रीः लज्जा पुनः, वीक्षितु द्रष्टुम्, न अदात्, अत एव तस्याः दमयन्त्याः, दृशः दृष्टयः, पतिदिशः स्वामिनं प्रतीत्यर्थः। मुहुः पुनः पुनः तन्मार्गात्, समकुचन् सङ्कुचिताः अभवन्। अतीव कौतुकमिदमित्याशयः॥ 18.50 ॥
नानया पतिरनायि नेत्रयोर्लक्ष्यतामपि परोक्षतामपि।
वीक्ष्यते स खलु यद्विलोकने तत्र तत्र नयने ददानया॥ 18.51 ॥
अन्वयः–अनया पतिः नेत्रयोः लक्ष्यताम् अपि न अनायि, परोक्षताम् अपि (न अनायि), यत् विलोकने तत्र तत्र नयने ददानया सः खलु वीक्ष्यते।
जीवातु–नेति। अनया भैम्या, पतिः नलः, नेत्रयोः, नयनयोः, लक्ष्यतां विषयतामपि, न अनायि न नीतः लज्जावसादिति भावः। तथा परोक्षताम्, अविषयतामपि, न अनायि इति पूर्वेणान्वयः। अनुरागवशादिति भावः। ननु लक्ष्यताऽलक्ष्यतयोरेकतराकरणे प्रकारान्तराभावात् कथमेषोक्तिः सङ्गच्छते? इत्याह-यत् यस्मात् विलोकने दर्शने निमित्ते, दर्शनार्थमित्यर्थः। तत्र तत्र तेषु तेषु विषयेषु; आदर्शादो इति भावः। नयने ददानया दत्तदृष्टया तया, स नलः, आदर्शादौ प्रतिबिम्बित इति भावः। वीक्ष्यते स्म अवलोक्यते स्म खलु। अवर्जनीयता वीक्षितः एव प्राय इति भावः॥ 18.51 ॥
वासरे विरहनिःसहा निशां कान्तयोगसमयं समैहत।
सा ह्रिया निशि पुनर्दिनोदयं वाञ्छति स्म पतिकेलिज्जिता॥ 18.52 ॥
अन्वयः–स वासरे विरहनिःसहा सा कान्तयोगसमयं निशां समैहत, निसि पुनः पतिकेलिलज्जिता ह्रिया दिनोदयं वाञ्छति स्म।
जीवातु–वासरे इति। सा भैमी, वासरे दिवसे, विरहस्य विच्छेदस्य, निःसहा सहनासमर्था सती। पचाद्यच्। कान्तयोगसमयं प्रियसमागमकालम्, निशां रात्रिम्, समहत ऐच्छत्, निशि पुनः रात्रौ तु, पत्युः भर्तुः, केलिषु अनङ्गक्रीडासु, लज्जिता प्राप्तलज्जा सती, ह्रिया सहजलज्जया, दिनोदयं दिवसप्रादुर्भावम्, वाञ्छति स्म अभिललाष। विचित्रा हि नवोढानां चित्तवृतिरिति भावः॥ 18.52 ॥
तत् करोमि परमभ्युपैषि यन्मा ह्रियं व्रज भियं परित्यज।
आलिवर्ग इव तेऽहमित्यमूं शश्वदाश्वसनमूचिवान् नलः॥ 18.53 ॥
अन्वयः–नलः अमूं शश्वत् इति आश्वसनम् ऊचिवात्-परं तत् करोमि, यत् अभ्युपैषि, ह्रियं मा व्रज, भियं भियं परित्यज, अहं ते आलिवर्गः इव।
जीवातु–तदिति। हे प्रिये! यत् चुम्बनादिषु यत् किञ्चिन्मात्रम्, अभ्युपैषि स्वीकरोषि, अनुमोदसे इत्यर्थः। त्वमिति शेषः। परं केवलम्, तत् तन्मात्रमेव, करोमि सम्पादयामि, अहमिति शेषः। न पुनस्तवानभिप्रेतं किञ्चदपि करोमीति भावः। अत एव ह्रियं लज्जाम्, मा न, व्रज गच्छ भियं त्रासञ्च, परित्यज दूरीकुरु, अहं ते तव, आलिवर्गः सखीजनः इव, विश्रम्भभाजनमिति भावः। नलः नैषधः अमू प्रियाम्, इति एवम्, शश्वत् मुहुर्मुहुः। `मुहुः पुनः पुनः शश्वत्’ इत्यमरः। आश्वसनं सान्त्वनावचनम्, अचुवान् उवाच॥ 18.53 ॥
येन तन्मदनवह्निना स्थितं ह्रीमहौषधिनिरुद्धशक्तिना।
सिद्धिमद्भिरुदतेजि तैः पुनः स प्रियप्रियवचोऽभिमन्त्रणैः॥ 18.54 ॥
अन्वयः–येन तन्मदानवह्निना ह्रीमहौषधिनिरुद्धशक्तिना स्थितं सिद्धिमद्भिः तैः प्रियाप्रियवचोऽभिमन्त्रणै- सः पुनः उदतेजि।
जीवातु–येनेति। येन तन्मदनवह्निना तस्याः दमयन्त्याः, कामाग्निना, ह्रीः लज्जा एव, महौषधिः अव्यर्थभेषजम्, तया निरुद्धशक्तिना प्रतिबद्धवीर्येण सता, स्थितं तस्थे, भावे क्तः। सः मदनवह्निः, सिद्धिमद्भिः साफल्यजनकशक्तियुक्तैः, तैः पूर्वोक्तैः, प्रियस्य पत्युः, प्रियवचोभिः एव सप्रेमभाषणैरेव, अभिमन्त्रणैः मन्त्रप्रयोगैः, पुनः भूयः उदतेजि उत्तेजितः। तिज निशाने इति घातोर्ण्यन्तात् कर्मणि लुङ्। औषधप्रतिबद्धोऽग्निः प्रतिमन्त्रेण पुनरुद्दीपितौ भवतीति लोके दृश्यते। रूपकालङ्कारः॥ 18.54 ॥
यद्विधूय दयितार्पितं करं दोर्द्वयेन पिदधे कुचौ दुढम्।
पार्श्वगं प्रियमपास्य सा ह्रिया तं हृदि स्थितमिवालिलिङ्ग तत्॥ 18.55 ॥
अन्वयः–दयितार्पितं करं विधूय यत् सा दोर्द्वयेन कुचौ दृढं पिदधे, तत् ह्रिया पार्श्वगं प्रियम् आपास्व हृदि स्थितम् इव तम् आलिलिङ्ग।
जीवातु–यदिति । सा भैमी, दयितेन प्रियेण, अर्पितम्, उपसि स्थापितम्, करं पाणिम्, विधूय अपसार्य, दोर्द्वयेन निजभुजयुगेन, कुचौ स्तनौ, दृढम् अशिथिलं यता तथा, यत् पिदधे आच्छादयामास, तत् तेन कुचपिधानेन इत्यर्थः। एवमवगम्यते यदिति शेषः। हृदि लज्जया, पार्श्वगं बहिः समीपस्थम्, प्रियं नलम्, अपास्य, निरस्य, हृदी हृदयमध्ये, स्थितं वर्त्तमानम्, प्रियम्, आलिङ्ग इव आलिङ्गितवतीव, इत्युत्प्रेक्षा। अन्तरालस्थितस्य आलिङ्गने अन्यैर्दर्शनसम्भावनाविरहात् लज्जाऽऽभावेन हृदयाभ्यन्तरस्थं नलं दृढरूपेण आलिङ्गतवतीवेति भावः॥ 18.55 ॥
अन्यदस्मि भवतीं न याचिता वारमेकमधरं धयामि ते।
इत्यसिस्वददुपांशु काकुवाक् सोपमर्दहठवृत्तिरेव तम्॥ 18.56 ॥
अन्वयः–भवतीम् अन्यत् न याचिता अस्मि, एकवारं ते अधरं धयामि-इति उपांशुकाकुवाक् सोपमर्दहठवृत्तिः एव तम् असिस्वदत्।
जीवातु–अन्यदिति। हे प्रिये! भवतीं त्वाम्, अन्यत् अपरं किमपि, याचिता अर्थयिता। तृन्, दुहादित्वात् द्विकर्मता। न अस्मि न भवामि। धेट् पाने इत्यस्य भविष्यत्सामीप्ये लट्। इति इत्थम्, उपांशु रहसि, काकुः अनुनयेन विकृतस्वरा, वाक् वचनं यस्य तादृशः, नलः इति शेषः। उपमर्दे कुचपीडने, हठेन अनुमतिमनपेक्ष्यैव बलात्कारेण, वृत्तिः प्रवृत्तिः, तया सह इति सः तादृशः सन् एव, तम् अधरम्, असिस्वदत् स्वादितवान्, चुचुम्बेत्यर्थः। स्वदेर्णौ चड्युपधाया ह्रस्वः॥ 18.56 ॥
(पीततावकमुखासवोऽदुना भृत्य एष निजकृत्यमर्हति।
तत्करोमि भवदूरुमित्यसौ तत्र सन्न्यधित पाणिपल्लवम्॥ 18.56.1 )
अन्वयः–पतितावकमुखासवः एषः भृत्यः अधुना निजकृत्यम् अर्हति, तत् भवदूरु करोमि-इति असौ तत्र पाणिपल्लवं सन्न्यधित।
चुम्बनादिषु बभूव नाम किं? तद्‌वृथा भयमिहापि मा कृथाः।
आलिपन्निति तदीयमादिमं स व्यधत्त रसनावलिव्ययम्॥ 18.57 ॥
अन्वयः–चुम्बनादिषु किं नाम बभूव? तत् इह अपि वृथा भयं मा कृथाःइति आलपन् सः तदीयम् आदिम रसनावलिव्ययं व्यधत्त।
जीवातु–चुम्बनेति। हे प्रिये! चुम्बनादिषु अधरपानादिषु कृतेषु, किं नाम तव किमनिष्टमित्यर्थः. नाम इति प्रश्ने, बभूव? सञ्जातम्? न किञ्चिदपीत्यर्थः। तत् तस्मात्, इह करिष्यमाणे अस्मिन् सुरतेऽपि, वृथा मिथ्या, भय शङ्काम्, मा कृथाः न कुरु, इति एवम्, आलपन् उदीरयन्नेव, स नलः, तदीय तस्याः प्रियायाः इत दमयन्तीसम्बन्धिनम्, आदिमम् आद्यम्। `अग्रादिपश्चाड्डिमच्’ इति वार्त्तिकवचनात् डिमच्‌प्रत्ययः। रसनावलिव्ययं काञ्चीदाममोचनम्, व्यधत्त चकरा। रन्तुमिति भावः॥ 18.57 ॥
अस्तिवाम्यभरमस्तिकौतुकं साऽस्तिधर्मजलमस्तिवेपथु।
अस्तिभीति रतमस्तिवाञ्छितं प्रापदस्तिसुखमस्तिपीडनम्॥ 18.58 ॥
अन्वयः–सा अस्तिवाक्यम्, अस्तिकौतुकम्, अस्तिधर्मजलम्, अस्तिवेपथु, अस्तिभीतिः, अस्तिवाञ्छितम्, अस्तिपीडनं रंत प्रापत्।
जीवातु–अस्तीति। सा भैमी, अस्ति विद्यमानः, वाम्यस्य सर्वेष्वेव व्यापारेषु प्रतिकूलतायाः, भरः आतिशय्यं यस्मिन् तत् तादृशम्, `अस्ति’ इति विभक्तिप्रतिरूपकं विद्यमानार्थकमव्ययम्, `अस्तितक्षीराक्षीरादयश्च’ इति वचनात् वहुव्रीहिः। एवमुत्तरत्रापि द्रष्ट्वयम्। अस्ति विद्यमानं, कौतुकम् औत्सुक्यं यस्मिन् तत् एवमुत्तारत्रापि द्रष्टव्यम। अस्ति विद्यमानं, कौतुकम् औत्सुक्यं यस्मिन् तत् तादृशम्, अस्ति वेपथुः कम्पः, शब्दोऽयं सात्त्विकमात्रोपलक्षणम्, यस्मिन् तत् तादृशम्, अस्ति भीतिः भयं यस्मिन् तत् तादृसम्, अस्ति वाञ्छितम् ईप्सितं यस्मिन् तत् तादृशम् अस्ति सुखम् आनन्दानुभवो यस्मिन् तत् तादृशम्, अस्ति पीडनं नखदन्तक्षतादिव्यथा यस्मिन् तत् तादृशम्, रतम् एवम्भूतं सुरतसम्भोगम्, प्रापत् अलम्बिष्ट। नलादिति शेषः॥ 18.58 ॥
ह्रीस्तवेयमुचितैव यन्नवस्तावके मनसि मत्समागमः।
तत्तु निस्त्रपमजस्रसङ्गमात् व्रोडमावहति मामकं मनः॥ 18.59 ॥
अन्वयः–यत् तावके मनसि मत्समागमः नवः तत् तव इयं ह्रीः उचिता एव, तु अजस्रसङ्गमात् निस्त्रपं मामकं मनः व्रीडम् आवहति।
जीवातु–ह्रीरिति। हे प्रिये! यत् यस्मात्, तावके त्वदीये, मनसि चेतसि, मत्समागमः मम सङ्गतिः, नवः साम्प्रतिकः, इति सोल्लोण्ठोक्तिः, तत् तस्मात्, तव ते, इयम् एषा, ह्री; लज्जा, उचिता अनुरूपा एव। तु किन्तु, अजस्रसङ्गमात् एतावन्तं कालं सदैव मनसा नित्यमागमात् हेतोः, निस्त्रपं निर्लज्जम्, मामकं मदीयम्, मनोऽपि व्रीडं लज्जाम्, आवहति प्राप्नोति। त्वया सह वहिरभिनवसमागमादिति भावः॥ 18.59 ॥
इत्युपालभत सम्भुजिक्रियारम्भविघ्ननलज्जितैर्जिताम्।
तां तथा स चतुरो न सा यथा त्रप्तुमेव तमनु त्रपामयात्॥ 18.60 ॥
अन्वयः–इति सम्भिजिक्रियारम्भविघ्नधनलज्जितैः जितां तां चतुरः सः तथा उपालभत यथा सा तम् अनु त्रप्तुम् एव त्रपाम् अयात्।
जीवातु–इतीति। सम्भुजिक्रियारम्भस्य सम्भोगव्यापारोपक्रमस्य, विघ्नैः प्रतीबन्धकीभूतैः, घनलज्जितैः प्रागाढलज्जाभिः, जिताम्, अभिभूताम्, तां प्रियाम्, चतुरः परिहासनिपुणः, स नलः, तथा तादृशरूपेण, उपालभत अभ्ययुङ्क्त, यथा येन कृत्वा, सा प्रिया, तम् अनु नलं प्रति, त्रप्तुमेव मज्जितुमेव। ऊदित्त्वात् विकल्पादिडभावः। त्रपां ल्ज्जाम्, अयात् अगच्छत्, प्राप्तवतीत्यर्थः। पुनरपि उपाल्म्भजनितलज्जाभयात् त्रपां जहौ इति भावः॥ 18.60 ॥
(बाहुवक्त्रजघनस्तनाङ्‌घ्रितद्‌बन्धगन्धरतसङ्गतानतीः।
इच्छुरुत्सुकजने दिनेऽस्मि ते वीक्षितेति समकेति तेन सा॥ 18.60.1 )
अन्वयः–उत्सुकजने दिने ते बाहुवक्त्रजघनस्तनाङ्‌घ्रितद्‌बन्धगन्धरतसङ्गतानतीः इच्छुः अस्मि-इति तेन वीक्षिता सा समकति।
प्रातरात्मशयनाद्विनिर्यतीं सन्नरुध्य यदसाध्यमन्यदा।
तन्मुखार्पणमुखं सुखं भुवो जम्भजित् क्षितिशचीमचीकरत्॥ 18.61 ॥
अन्वयः–भुवः जम्भजित् प्रातः आत्मशयनात् विनिर्यतीं क्षितिशचीं सन्निरुध्य अन्यदा यत् असाध्यं तत् मुखार्पणमुखं सुखम् अचीकरत्।
जीवातु–प्रातरिति। भुवः पृथिव्याः, जम्भजित् इन्द्रः, नलः इत्यर्थः। प्रातः प्रभातसमये, आत्मशयनात् निजशय्यायाः, विनिर्य्यतीं निर्गच्छन्तीम्, क्षितिशचीं भूलोकेन्द्राणीम् प्रियामिति शेषः। सन्ननरूध्य, प्रतिबन्ध काराभ्यामाकृष्येति यावत्। अन्यदा अन्यस्मिन् समये, गृहान्निर्गमनानन्तरमित्यर्थः। यत् यादृशं सुखम्, असाध्यं कर्त्तुमशक्यम्, सखीसमीते अवस्थानादिति भावः। तत् अनुभूतचरम्, मुखार्पणमुखं मुखचुम्बनादिरूपम्, दमयन्तीकर्तृकमिति भावः। सुखम् अचीकरत् कारयामास। दमयन्तीमवरुध्य तया निजमुखचुम्बनादिकमकारयदित्यर्थः। करोतेर्णौ चङ्‌युपधाह्रस्वादि। `हृक्रोरन्यतरस्याम्’ इति विकल्पादणिकर्त्तुः कर्मत्वम्॥ 18.61 ॥
नायकस्य शयनादहर्मुखे निर्गता मुदमुदीक्ष्य सुभ्रुवाम्।
आत्मना निजनवस्मरोत्सवस्मारिणीयमहृणीयत स्वयम्॥ 18.62 ॥
अन्वयः–अहर्मुखे नायकस्य शयनात् निर्गता सुभ्रुवां मुदम् उदीक्ष्य आत्मना निजनवस्मरोत्सवस्मारिणी इयं स्वयम् अहृणीयत।
जीवातु–नायकस्येति। अहर्मुखे उषसि। `रोऽसुपि’ इत्यह्नो नकारस्य रेफादेशः। नायकस्य पत्युः, शयनात् शय्यायाः, निर्गता निःसृता, इयं भैमी; सुभ्रुवां सुलोचनानां सखीनाम्, मुदं हर्षम्, स्वसम्भोगचिह्नदर्शनजन्यमिति भावः। उदीक्ष्य आलोक्य, आत्मना मनसा, पुंसि स्वभावे च प्रयत्न मनसोरपि’ इति मेदिनी। निजं स्वकीयम्, नवं नूतनं सद्यस्कं वा, स्मरोत्सवं सम्भोगानन्दम्, स्मरति चिन्तयतीति तादृशी सती, स्वयम् एव आत्मनैव, अहृणीयत तत्प्रकाशनात् अजिह्रत्। `त्रपायां हृणीडिति जिह्रेति लज्जते। हृणीयते’ इति भट्टमल्लः। कण्ड्‌वादियगन्तत्वाल्लङ्, तत्र हृणीङिति ङित्करणादात्मनेपदम्॥ 18.62 ॥
तां मिथोऽभिदधतीं सखीः प्रियस्यात्मनश्च स निशाविचेष्टितम्।
पार्श्वगः सुरवरात् पिधां दधद् दृश्यतां श्रुतकथो हसन् गतः॥ 18.63 ॥
अन्वयः–सुरवरात् पिधां दधत् पार्श्वगः सः प्रियस्य आत्मनः च निशाविचेष्टितं मिथः सखीः अभिदधतीं तां श्रुतकथः हसन् दृश्यतां गतः।
जीवातु–तामिति। पार्श्वगः समीपस्थोऽपि, सुराणाम् इन्द्रादीनाम्; वरात् वरप्रसादात्, पिधाम् अन्तर्द्धाम्, `आतश्चोपसर्गे’ इत्यङ्‌ प्रत्ययः। `वष्टि भागुरिरल्लोपम्’ इत्यकारलोपः। दधत् धारयन्, सः नलः, प्रियस्य पत्युः, आत्मनश्च निजायाश्च, निशाविचेष्टितं रात्रिवृत्त्म्, मिथः रहसि, सखीः सहचरीः, अभिदधतीं भाषमाणाम् सखीभ्यः कथयन्तीमित्यर्थः। ब्रुवेरर्थवत्त्वाद् द्विकर्मकत्वम्। तां प्रियाम्, श्रुतकथः आकर्णितप्रियावचनः, अत एव हसन् उच्चैर्हास्यं कुर्वन् सन्‌, दृश्यतां तासां नयनगोचरताम्, गतः प्राप्तः॥ 18.63 ॥
चक्रदारविरहेक्षणक्षणे बिभ्यती धवहसाय साऽभवत्।
क्वापि वस्तुनि वदत्यनागतं चित्तमुद्यदनिमित्तवैकृतम्॥ 18.64 ॥
अन्वयः–चक्रवाकविरहेक्षणक्षणे बिभ्यती सा धवहासाय अभवत्, क्व अपि वस्तुति उद्यदनिमित्तवैकृतं चित्तम् अनागतं वदति।
जीवातु–अथास्याः प्रयविरहासहिष्णुतामाह-चक्रेति। चक्रदाराणां रात्रौ चक्रवाकवनितायाः, विरहेक्षणक्षणे वियोगदर्शनकाले, बिभ्यती स्वस्या अपि कादचिन्नलेन विरहसम्भवानया त्रस्यन्ती, सा भैमी, धवस्य नलस्य, हसाय हास्याय, अभवत् अजायत, प्रियाया अकाण्डत्रासदर्शनात् प्रियो जहास इत्यर्थः। `स्वनहसोर्वा’ इति विकल्पदप्‌प्रत्ययः। अथवा युक्तमेतत् भयमित्याह-क्वापि कुत्रचित्, वस्तुनि विषये, उद्यत् उत्पद्यमानम्, अनिमित्तिवैकृतम् आकस्मिकविकारः यस्य तत् तादृक्, चित्तं मनः कर्तृ, अनागतं भाविशुभाशुभादिकमेव, वदति ज्ञापयतीत्यर्थः। चक्रविरहदर्शनात् आशङ्कितनिज आगमिविरह एव भयहेतुभूत इति तात्पर्यम्॥ 18.64 ॥
चुम्बितं न मुखमाचकर्ष यत् पत्युरन्तरमृतं ववर्ष तत्।
सा नुनोद न भुजं यदर्पितं तेन तस्य किमभून्न तर्पितम्॥ 18.65 ॥
अन्वयः–सा यत् चिम्बितं मुखं न आचकर्ष, तद् पत्युः अन्तः अमृतं वववर्ष; अर्पितं भुजं न नुनोद, तेन तस्य किं तर्पितं न अभूत्?
जीवातु–चुम्बितमिति। सा भैमी, चुम्बितं नलेन चुम्बितुमारब्धम्, चुम्बितुम्’ इति पाठे-चुम्बितुं नलेनाधरं पातुमुद्यते सतीत्यर्थः। मुखं निजाननम्, न आचकर्ष न अपासारयत्। इति यत् तत् चुम्ब्यमानमुखस्य अनाकर्षणमेव, पत्युः नलस्य, अन्तः अन्तःकरणे, अमृतं सुधाम्, ववर्ष निषिषेच, तत्तुल्यमानन्दमजनयदित्यर्थः। तथा अर्पितं स्तनोपरि न्यस्तम्, भुजं नलकरम् यत् न नुनोद न निरास, तेन भुजानपसारणेन, तस्य नलस्य सम्बन्धि, किं किं वस्तु,अङ्ग व चित्त वा इत्यर्थः। न तर्पितम् अभूत्? न आप्यायितम् अभूत्? अपि तु सर्वाङ्गसन्तर्पणमेवाभूदित्यर्थः॥ 18.65 ॥
नीतयोः स्तनपिधानतां तया दातुमाप भुजयोः करं परम्।
वीतबाहुनि ततो हृदंशुके केवलेऽप्यथ स तत्कुचद्वये॥ 18.66 ॥
अन्वयः–सः तया स्तनपिधानतां नीतयोः भुजयोः परं ततः वीतबाहुनि हृदंशुके अथ केवले तत्कुचद्वये करं दातुम् आप।
जीवातु–नीतयोरिति। सः नलः, तया भैम्या, स्तनपिधानतां कुचावरणताम्, नीतयोः प्रापितयोः, भुजयोः तद्दोर्युगयोः परं केवलम्, प्रथममिति भावः। आदौ केवलं कुचस्थभुजोपरि इति निष्कर्षः। ततः अनन्तरम्, वीतबाहुनि अपसारितभुजे, शनैः शनैः नलेनेति भावः। हृदंशुके स्तनावरकवस्त्रे अथ तदनन्तरम्, केवलेऽपि अपसारितांशुकत्वात् उन्मुक्तेऽपि इति भावः। तत्कुचद्वये दमयन्तीस्तनयुगले, करं हस्तम्, दातुम्, अर्पयितुम्, आप शशाक इत्यर्थः। दमयन्त्या अपि क्रमशो मन्मथोदयेन लज्जाजन्यसङ्कोचापगमादिति भावः। अत्रैकस्य करस्य क्रमादनेकेषु भुजांशुककुचेषु वृत्तिकथनात् `क्रमेणैकमनेकस्मिन्’ इत्यादुयक्तलक्षणः पर्यायालङ्कारभेदः॥ 18.66 ॥
याचनान्न ददतीं नखार्पणं तां विधाय कथयाऽन्यचेतसम्।
वक्षसि न्यसितुमात्ततत्करः स्वं बिभेद मुमुदे स तन्नखैः॥ 18.67 ॥
अन्वयः–याचनात् नखार्पणं न ददतीं तां सः कथया अन्यचेतसं विधाय वक्षसि न्यसितुम् आत्ततत्करः तन्नखैः स्वं बिभेद, मुमुदे।
जीवातु–याचनादिति। स नलः, याचनात् मां नखेन विदारय इति प्रार्थनाकरणादपि, नखार्पणं नखेन भेदनम्, न ददतीं नार्पयन्तीम्, स्नेहवशात् नखक्षतमकुर्वतीमित्यर्थः। तां प्रियाम्, कथया विविधालापप्रसङ्गेन। `चिन्तिपूजिकथि-‘इत्यादिना अङ्‌प्रत्ययः। अन्यचेतसम् अन्यमानसाम्, प्रसङ्गान्तरव्यासक्तचित्तमित्यर्थः। विधाय कृत्वा, वक्षसि स्वोरसि, न्यसितुं, स्थापयितुम्, आत्ततत्करः गृहीतभैमीपाणिः सन्, तन्नखैः प्रियाया एव नखैः, स्वम्, आत्मानम्, बिभेद अभिनत्, व्यदारयदित्यर्थः। मुमुदे च ननन्द च॥ 18.67 ॥
स प्रसह्य हृदयापवारकं हत्तुं मक्षमत सुभ्रुवो बहिः।
ह्रीमयं न तु तदीयमान्तरं तद्विनेतुमभवत् प्रभुः प्रभुः॥ 18.68 ॥
अन्वयः–प्रभुः सः सुभ्रुवः बहिः हृदयापवारकं प्रसह्य हर्त्तुम् अक्षमत न तु तदीयम् आन्तर ह्रीमयं तत् विनेतुं प्रभुः अभवत्।
जीवातु–स इति। प्रभुः स्वामी, सः नलः, सुभ्रुवः सुलोचनायाः प्रियायाः, बहिः बाह्यम्, हृदयापवारकं वक्षोदेशाच्छादकम्, स्तनावरणवस्त्रमित्यर्थः। प्रसह्य बलात्, हर्त्तुम् अपसारयितुम् अक्षमत अशक्नोत्, तु किन्तु तदीयं दमयन्तीयम्, आन्तरम्, अन्तर्वर्ति, ह्रीमयं लज्जारूपम्, तत् हृदयापवारककम् विनेतुम् अपसारयितुम्, न प्रभुः न समर्थः, अभवत् अजायत। तस्य सहजत्वादिति भावः॥ 18.68 ॥
सा स्मरेण बलिनाऽप्यहापिता ह्रीक्षमे भृशमशोभताबला।
भाति चापि वसनं विना न तु व्रीडधैर्यपरिवर्जने जनः॥ 18.69 ॥
अन्वयः–बलिना अपि स्मरेण ह्रीक्षमे आहापिता अबला सा भृशम् अशोभत; जनः वसनं विना अपि भाति व्रीडधैर्यपरिवर्जने तु न च।
जीवातु–सेति। बलिनः प्रबलेनापि, स्मरेण कामेन, ह्रीक्षमे लज्जाधैर्ये, अहापिता अत्याजिता, त्यजयितुमक्षमेत्यर्थः। जहातेर्ण्यन्तात् पुगि द्विकर्मकादप्रधाने कर्मणि क्तः अबला दुर्बला, सा भैमी, भृशम्, अत्यर्थम्, अशोभत अराजत, `नारीणां भूषणं लज्जा’ इति नीतिशास्त्रोक्तेरिति भावः। तथा हि जनः लोकः वसनं वस्त्रम्, विनाऽपि ऋतेऽपि, भाति शोभते, तु किन्तु; व्रीडधैर्ययोः लज्जाधीरत्वयोः, परिवर्जने परित्यागे, न च नैव, भीतीति अन्वयः॥ 18.69 ॥
आत्थ नेति रतयाचितं न यन्मामतोऽनुमतवत्यसि स्फुटम्।
इत्यमुं तदभिलापनोत्सुकं धूनितेन शिरसा निरास सा॥ 18.70 ॥
अन्वयः–मां रतयाचितं यत् न इति न आत्थ अतः स्फुटम् अनुमतवती असि-इति तदभिलापनोत्सुकम् अमुं सा धूनितेन शिरसा निरास।
जीवातु–आत्थेति। हे प्रिये! मां रतयाचितं सुरतभिक्षाम्, यत् यतः, न इति, `न दास्यामि’ इति, न आत्थ न ब्रवीषि, मम सुरतप्रार्थनायां न दास्यामि इति यत् त्वं न वदसीत्यर्थः। अतः अप्रतिषेधाद्धेतोः, स्फुटं व्यक्तम्, अनुमतवती स्वीकृतवती, असि भवसि, `अप्रतिषिद्धं परमतम्, अनुमतं भवति’ इति न्यायात् इति भावः। इति इत्थम्, तस्याः दमयन्त्याः, तस्य अप्रतषेधवचनस्येत्यर्थो वा, अभिलापनाय वाचनाय, उत्सुकम् उद्‌युक्तम्, आग्रहान्वितमित्यर्थः। अमुं प्रियम्, सा भैमी, धूनितेन कम्पितेन। `धूञ्-प्रञोर्नुग्वक्तव्यः’ शिरसा मूद्‌र्ध्ना, निषेधसूचकशिरश्चालनेनेत्यर्थः। निरासप्रत्याख्यातवती अहो। अत्यन्ताभिमातार्थेऽपि निषेधशीलता स्त्रीणामिति भावः॥ 18.70 ॥
या शिरोविधुतिराह नेति ते सा मया न किमियं समाकलि?
तन्निषेधसमसङ्ख्यताविधिर्व्यक्तमेव तव वक्ति वाञ्छितम्॥ 18.71 ॥
अन्वयः–ते या शिरोविधुतिः न इति आह, सा इयं किं मया न समाकिल? तन्निषेधसमसङ्ख्यताविधिः तव वाञ्छितं स्फुटम् एव वक्ति।
जीवातु–येति। हे प्रिये! ते तव, या शिरोविधुतिः निषेधसूचकमस्तकचालनम्। कर्त्री। न इति आह न दास्यामि इति निषेधं ब्रूते, सा इयं शिरोविधुतिः, मया न समाकलि किम्? न सम्यक् अबोधि किम्? अपि तु गृहीतार्थैव इत्यर्थः। क लयतेः कर्मणि लुङ्। किं त्वया समाकलि? इत्याहतस्य शिरोविधुतिद्वयरूपस्य प्रतिपाद्यस्य, प्रतिपादितो विधिः विधानम्। `द्वौ नञौ प्रकृतमर्थं गमयतः’ इति न्यायात् सुरतानुमोदनरूप इत्यर्थः। तव वाञ्छितम् अभिलाषम्, व्यक्तं स्फुटमेव, वक्ति कथयति। वचेर्लट्। निषेधार्थमपि वारद्वयशिरोविधूननं ते सम्मतिमेव सूचयति, नञ्‌द्वयेन प्रकृतार्थस्य गम्यमानत्वादिति भावः॥ 18.71 ॥
नात्थ नात्थ श्रृणवानि तेन किं ते न वाचमिति तां निगद्य सः।
सा स्म दूत्यगतमाह तं यथा तज्जगाद मॉदुभिस्तदुक्तिभिः॥ 18.72 ॥
जीवातु–नेति। हे प्रिये! न आत्थ मया सह त्वं न आलपसि, न आत्थ नैव कथयसि, तेन अनालपनेन हेतुना, ते तव, वाचं वचनम्, न श्रृणवानि किम्? न श्रृणुयां किम्? अपि तु श्रृणुयामेव, इत्यसम्भावनानिषेधः। सः नलः, तां प्रियाम्, इति एवम्, निगद्य उक्त्वा, सा भैमी, दूत्यगतं दूतरूपेण दमयन्तीसमीपमुपस्थितम्, तम् आत्मानं नलम्, यथा नवमसर्गोक्तेन येन प्रकारेण, आह स्म उक्तवती, तत् सर्वम्, मृदुभिः, नम्राभिः, तस्याः दमयन्त्या एव, उक्तिभिः कथाभिः, दमयन्तीवाक्यानुकरणैरित्यर्थः। जगाद उवाच। तदा मत्समीपे वाक्यमुच्चार्य इदानीमनुच्चारणे न किमपि फलम्, अतोऽवश्यमेव मया सह आलपिष्यसीति भावः॥ 18.72 ॥
नीविसीम्नि निबिडं पुराऽरुणत् पाणिनाऽथ शिथिलेन तत्करम्।
सा क्रमेण न न नेति वादिनी विघ्नमाचरदमुष्य केवलम्॥ 18.73 ॥
अन्वयः–सा पुरा नीविसीम्नि तत्करं पाणिना निबिडम् अरुमत् अथ शिथिलेन, क्रमेण केवलं `न-न’ इति वादिनी अमुष्य विघ्नम् आचरत्।
जीवातु–नीवीति। सा दमयन्ती, नीविसीम्नि कटीवस्त्रग्रन्थिसमीपे, तत्करं प्रियहस्तम्, ग्रान्थिमोचनाय उपस्थितमिति भावः। पुरा प्रथमम्, पाणिना स्वकरेण, निबिडं दृढं यथा तथा, अरुमत् रुद्धवती। रुणद्धेः कर्त्तरि लङ्‌। अथ कियद्दिनानन्तरम्, शिथिलेन श्लथेन, अदृढेनेत्यर्थः, पाणिना अरुणदित्यन्वयः। क्रमेण क्रमशः भयभङ्गेन, तत्परमित्यर्थः। केवल न न नेति अरुणदित्यन्वयः क्रमेण क्रमशः भयभङ्गेन, तत्परमित्यर्थः। केवलं न न नेति वादिनी केवलं वाचिकनिषेधम् एवं कुवंती सती, अमुष्य प्रियकरव्यापारस्य, विघ्नं नीविमोचनप्रतिबन्धम्, आचरत् न तु अङ्गेनेति भावः। अत्रैकस्मिन् नीविदेशे क्रमादनेकव्यापारसम्बन्धोक्तेः पर्यायालङ्कारभेदः॥ 18.73 ॥
रूपवेषवसनाङ्गवासनाभूषणादिषु पृथग्विदग्धताम्।
साऽन्यदिव्ययुवतिभ्रमक्षमा नित्यमेत्य तमागान्नवा नवा॥ 18.74 ॥
अन्वयः–रूपवेषवसनाङ्गवासनाबूषणादिषु नित्यं पृथग्विदग्धताम् एत्य नवा नवा सा अन्यदिव्ययुवतिभ्रमक्षमा सा तम् अगात्।
जीवातु–रूपेति। रूपं सौन्दर्यम्, वेषः विविधप्रकारनेपथ्यम्, वसनं वस्त्रम्, अङ्गवासना धूपादिना शररसंस्कारः, भूषणं कङ्कणादि, तानि आदिः येषां तेषु विविधप्रकारप्रसाधनादिषु विषयेषु, नित्यं प्रत्यहमेव, पृथक् भिन्नभिन्नरूपाम्, विदग्धतां कुशलिताम्, एत्य प्राप्य, प्रत्यहमेव नवनववेषरचनां कुर्वतीत्यर्थः। अत एव नवा नवा नूतना सती, अभीक्षण्ये द्विर्भावः सा भैमी, अन्या अपरा काचित्, दिव्या स्वर्गीया, युवतीः तरुणी, उर्वश्यादिरित्यर्थः। इति भ्रमे भ्रान्तिजनने, क्षमा समर्था सती, तं नलम्, अगात् अगच्छत् समतोषयदित्यर्थः। इणो गा लुङ्॥ 18.74 ॥
इङ्गितेन निजरागसागरं संविभाव्य चटुभिर्गृणज्ञताम्।
भक्तताञ्च परिचर्ययाऽनिशं साऽधिकाधिकवशं व्यधत्त तम्॥ 18.75 ॥
अन्वयः–सा अनिशम् इङ्गितेन निजरागसागरं, चटुभिः गुणज्ञतां, परिचर्यया भक्तततां च संविभाव्य तम् अधिकाधिकवशं व्यधत्त।
जीवातु–इङ्गितेनेति। सा भैमी, अनिसं निरन्तरम्, इङ्गितेन कटाक्षवीक्षणादिचेष्टितेन, निजं स्वकीयम्, रागसागरम्, अनुरागार्णवम्, सागरवदसीममनुरागाधिक्यमित्यर्थः। चट
ुभिः प्रियवादैः, गुमज्ञतां पत्युः गुणाभिज्ञताम्, तथा परिचर्यया सेवया, भक्तताञ्च तस्मिन् भक्तिमत्त्वञ्च, संविभाव्य सम्यग् ज्ञापयित्वा, तं प्रियम्, अधिकाधिकवशम् उत्तरोत्तरमदिकायत्तम्। `प्रकारे गुणवचनस्‌य’ इति द्विरुक्तिः, कर्मधारयवद्भावात् सुपो लुक्। व्यधत्त अकरोत्। इङ्गिताद्यनुमितैः। रागादिगुणैस्तस्याः सोऽत्यन्तवशंवदोऽभूत् इति निष्कर्षः॥ 18.75 ॥
स्वाङ्गमर्पयितुमत्य वामतां रोषितं प्रियमथानुनीय सा।
आतदीयहठसम्बुभुक्षुतं नान्वमन्यत पुनस्तमर्थिनम्॥ 18.76 ॥
अन्वयः–सा स्वाङ्गम् अर्पयितुं वामताम् एत्य रोषितं प्रियम् अनुनीय अथ पुनः अर्थिनं तम् आतदीयहठसम्बुभुक्षुतं न अन्वमन्यत।
जीवातु–स्वाङ्गमिति। सा दमयन्ती, स्वाङ्गं निजवाराङ्गादिकम् अर्पयितुं नलकर्त्तृ कस्पर्शताद्यर्थं प्रदातुम्, वामतां प्रतिकूलताम्, असम्मतिमित्यर्थः। एत्य प्राप्य, अथ तदनन्तरम्, रोषितम् इच्छाऽपूरणात् कोपितम्, प्रियं पतिम्, अनुनीय चरणधारणादिना प्रसाद्य, पुनः भूयः अर्थिनम् अङ्गार्पणयाचिनम्, तं प्रियम्, तदोया प्रियसम्बन्धिनी, या हठात् बालात्, सम्बुभुभुता सम्बोक्तुमिच्छा, तावत् पर्यनतम् आतदीयहठसम्बुभुक्षुतम्, यावत् स बलपूर्वकं न सम्भोक्तुमैच्छत् तावत्पर्यन्तमित्यर्थः। `आङ् मर्यादाऽभिविध्योः’ इत्यव्ययीभावेन नपंसकह्रस्वत्वम्। न अन्वमन्यत न अनुमोदितवती। व्यवहारोऽयं सम्भोगपिपासावर्द्धनार्थमिति भावः॥ 18.76 ॥
आद्यसङ्गमसमादराण्यधाद् वल्लभाय दधती कथञ्चन।
अङ्गकानि घनामानवामताव्रीडलम्भितदुरापतानि सा॥ 18.77 ॥
अन्वयः–धनमानवामताव्रीडलम्भितदुरापतानि अङ्गकानि वल्लभाय कथञ्चन दधती सा आद्यसह्गमसमादराणि अधात्।
जीवातु–आद्येति। सा नलप्रिया, घनैः प्रगाढैः मानवामताव्रीडैः प्रमयकोपप्रतिकूलतात्रपाभिः, सम्भिता प्रापिता, दुरापता दौर्लभ्यं येषां तादृशानि, अङ्गकानि सदयभोग्यानि सुकुमारावयवानीत्यर्थः। ह्रस्वे अनुकम्पायां वा कन्। वल्लभाय प्रियनलाय, कथञ्चन लज्जावशात् कृच्छ्रेण, दधती धारयन्ती, ददती सतीत्यर्थः। आद्यसङ्गमेन प्रथमसम्भोगकालेन, समः तुल्यः, आदरः प्राप्त्याग्रहः येषां तादृशानि, अधात् धृतवती। प्रथमसङ्गमतुल्यादरं प्राप्तानीव स्वाङ्गानि प्रियाय अपिंतवतीति भावः॥ 18.77 ॥
पत्युरागिरिशमातरु क्रमात् स्वस्य पागिरिजमालतं वपुः।
तस्य चार्हमखिलं पतिव्रता क्रीडति स्म तपसा विधाय सा॥ 18.78 ॥
अन्वयः–पतिव्रता सा तपसा क्रमात् पत्युः आगिरिशम् आलतं वपुः तस्य अर्हम् अखिलं च विधाय क्रीडति स्म।
जीवातु–पत्युरिति। पतिव्रता साध्वी, सा दमयन्ती, तपसा पतिसेवारूपेण तपस्याप्रभावेण, क्रमात् क्रमानुसारेण, औचित्यानुसारेणेत्यर्थः। पत्युः नलस्य, आगिरिशं शङ्करमारभ्य, आतरु वृक्षपर्यन्तम्, स्वस्य आत्मनश्च, आगिरिजं गिरिजाम् अम्बिकामारभ्य, आलतं लतापर्यन्तम्। सर्वत्राभिविधाव्ययीभावः। वपुः देवगन्धर्वोरगमृगविहगादिद्वन्द्वशरीरम्, तथा तस्य वपुषः; अर्हम् अनुरूपम्, अखिलञ्च समग्रं क्रीडासाधनञ्चेत्यर्थः। विधाय कृत्वा क्रीडति स्म चिक्रीड, पत्युर्गिरिशस्वरूपत्वे स्वस्य गिरिजास्वरूपत्वं तथा तदनुरूपं व्याघ्रचर्मादिरूपशय्यदिकम्, तथा नलस्य वृक्षस्वरूपत्वे स्वस्य लतास्वरूपत्वञ्च सम्पाद्य सा इच्छानुरूपं रेमे। निरङ्कुशमहिमत्वात् पतिव्रतानामिति भावः॥ 18.78 ॥
न स्थली न जलधिर्न काननं नाद्रिभूर्नविषयो न विष्टपम्।
क्रीडिता न सह तेन सा सा विधैव न यया यया न वा॥ 18.79 ॥
अन्वयः–न स्तली, न जलधिः न काननं, न अद्रिभूः, न विषयः, न विष्टपम्-यत्र यत्र तेन सह सा न क्रीडिता, सा विधा एव वा न यया यया न (क्रीडिता)
जीवातु–नेति। सा भैमी, तेन नलेन सह, यत्र यस्मिन् प्रदेशे, न क्रीडिता न क्रीडितवती। कर्त्तरि क्तः। सा तादृशी, स्थली अकृत्रिमभूमिः, स्थलदेश इत्यर्थः, न। `जानपद-’ इत्यादिना अकृत्रमार्थे ङीष्। स जलधिः नदीसागरतडागादिजलाधार इत्यर्थः। न, तत् काननं वनम्, न, सा अद्रिभूः पर्वतसानुः, न, स विषयः देशः, न, तत् विष्टपं जगत्, न, सर्वत्र आसीदिति शेषः। किञ्च सा तादृशी, विधैव प्रकारः एव, न, आसीदिति शेषः। यया यया विधया धेनुकादिबान्धप्रकारेम, न वा, क्रीडिता इति शेषः। तेन सह सर्वत्रैव विजहार इत्यर्थः॥ 18.79 ॥
नम्रयांशुकविकर्षिणि प्रिये वक्त्रवातहतदीप्तदीपया।
भर्त्तृमीलीमणिदीपितास्तया विस्मयेन ककुभो निभालिताः॥ 18.80 ॥
अन्वयः–प्रिये अंशुकविकर्षिणि नम्रया वक्त्रवातहतदीप्तदीपया तया भर्तृमौलिमणिदीपिताः ककुभः विस्मयेन निभालिताः।
जीवातु–नम्रेयेति। प्रिये नले, अंशुकविकर्षिणि परिहितवसनाकर्षणकारिणि सति, नम्रया नतया, गूढाङ्गगोपनाय अवनतपूर्वकायया इत्यर्थः। तथा वक्त्रवातेन मुखमारुतेन, फुत्कारेणेत्यर्थः। हतः निर्वापितः, दीप्तः प्रज्वलितः, दीपः प्रदीपः यया यथाभूतया, तया भैम्या, भर्त्तृमोलिकमणिभिः पत्युर्मुकुटस्थरत्नैः, दीपिताः प्रकाशिताः, ककुभः दिशः, विस्मयेन दीपे निर्वापितेऽपि कथामालोकप्रकाश इत्याश्चर्येण, निबालिताः दृष्टाः॥ 18.80 ॥
कान्तमूद्‌र्ध्नि दधती पिधित्सया तन्मणेः श्रवणपूरमुत्पलम्।
रन्तुमर्चनमिवाचरत पुरः सा स्ववल्लभतनोर्मनोभुवः॥ 18.81 ॥
अन्वायः–तन्मणेः पिधित्सया कान्तस्य मूर्दिध्न श्रवणपूरम् उत्पलं दधती सा रन्तुं पुरा स्ववल्लभतनोः मनोभुवः अर्चनम् इव आचरत्।
जीवातु–कान्तेति सा। भैमी तस्य भर्त्तृमौलीस्थितस्य मणेः रत्नस्य, पिधित्सया पिधातुम् आवरितुम् इच्छया, कान्तस्य प्रियस्य, मूद्‌र्ध्नि शिरसि, श्रवणपूरं निजकर्णभूषणीभूतम्, उत्पलं नीलोत्पलम्, दधती स्तापयन्ती सती, रन्तुं, रतिकर्म कर्तुम्, पुरः कर्मप्रारम्भे, स्ववल्लभः निजपतिः एव, तनुः मूर्त्तिः यस्य तादृश्य नलमूर्त्तेः, मनोभुवः कामस्य, रत्यधिदैवतस्य इति यावत्। अर्चनं पूजनम्, आचरत् इव अन्वतिष्ठदिव इत्युत्प्रेक्षा॥ 18.81 ॥
तं पिधाय मुदिताऽथ पार्श्वयोर्वीक्ष्य दीपमुभयत्र सा स्वयोः।
चित्तमाप कुतुकाद्‌भूतवपाऽऽतङ्कसङ्कटनिवेशितस्मरम्॥ 18.82 ॥
अन्वयः–तं पिधाय मुदिता सा अथ स्वयोः उभयत्र पार्श्वयोः दीपं वीक्ष्य कुतुकाद्‌भुतत्रपातङ्कसङ्कटनिवेशितस्मरं चित्तम् आप।
जीवातु–तमिति। सा भैमी, तं दिगुद्भासकं शिरोमणिम्, पिधाय कर्णोत्पलेन आच्छाद्य, मुदिता अन्धकारसम्भावना हृष्टा, अभूदिति शेषः। अथ अनन्तरम्, स्वयोः स्वकीययोः, उभयत्र उभयोः, पार्श्वयोः दीपं प्रज्वलितप्रदीपद्वयमित्यर्थः। वीक्ष्य दृष्ट्वा, कुतुकम्, अकस्माद्दीपद्रशनात् कौतुकम्, अद्‌भुतं निर्वापितस्यापि पुनः प्रादुर्भावादाश्चर्यम्, त्रपा पत्या विवस्त्रीकरणात् लज्जा, आतङ्गः कोऽयमदृष्टपूर्वव्यापार इति शङ्का, तेषां सङ्कटे सम्बाधे, परस्परसङ्घर्षे इत्यर्थः। निवेशितः संस्थापितः, निरुद्ध इत्यर्थः। स्मरः कामः यस्मिन्‌ तत् तादृक्‌ चित्तं मनोभावम्, आप प्राप्तवती। तथा प्रवृद्धोऽपि कामः तदा किञ्चित् सङ्‌कुचितः इव आसीत् इति भावः॥ 18.82 ॥
एककस्य शमने परं पुनर्जाग्रतं शमितमप्यवेक्ष्य तम्।
जातवह्निवरसंस्मृतिः शिरं सा विधूय निमिमील केवलम्॥ 18.83 ॥
अन्वयः–एककस्य शमने शमितम् अपि परं तं पुनः जाग्रतम् अवेक्ष्य जातिविह्निवरसंस्मृतिः सा शिरः विधूय केवलं निमिमील।
जीवातु–एककस्येति। एककस्य तयोरेकस्य, दीपस्य प्रदीपस्य, शमने निर्वापणे कृते सति, शमितमपि पूर्वं निर्वापितपि, परम् अपरम्, तं दीपम्, पुनः भूयः, जाग्रतं नलमायया प्रज्वलन्तम्, `नाभ्यस्ताच्छतुः’ इति नुमः प्रतिषेधः। अवेक्ष्य विलोक्य, जाता उत्पन्ना, वह्नेः अग्नेः, वरस्य `या दाहपाकौपयिकी तनुः’ इत्यादिनोक्तवरदानस्य, संस्मृतिः सम्यक् स्मरणं यस्याः सा ताद्दशी, सा भैमी, शिरः मस्तकम्, विधूय कम्पयित्वा, स्मरणं नाटयित्त्वा दुर्वारत्वं निश्चित्येति भावः। केवलं निमिमील स्वयं निमीलिताक्षी जाता। स्वाभाविक लज्जावशादिति भावः॥ 18.83 ॥
पश्य भीरु! न मयाऽपि दृस्यते यन्निमेषितवती दृशावसि।
इत्यनेन परिहस्य सा तमः संविधाय समभोजि लज्जिता॥ 18.84 ॥
अन्वयः–भीरु, यत् दृशौ निमेषितवती असि, मया अपि न दृश्यसे, पश्य, इति अनेन परिहस्य तमः विधाय लज्जिता सा समभोजि।
जीवातु–पश्येति। भूरु! हे वाराङ्गने! लज्जाया वराङ्गनाभूषमत्वादिति भावः। `भियः क्रक्लुकनौ’ इति क्रुप्रत्ययः, ततः ऊङन्तत्वात् नदीत्वात् ह्रस्वः। `भीरुरार्त्ते त्रिलिङ्गः स्यात् वरयोषिति योषिति’ इति मेदिनी। यत् यतः दृशौ नयनद्वयम्, निमेषितवती लज्जया निमीलितवती, असि भवसि, त्वमिति शेषः। मम दर्शनभयादिति भावः। तत् तत एव, मया अपि न दृश्यसे अवलोक्यसे, त्वमिति शेषः। त्वन्निमीलने सर्वस्यान्धकारावृतत्वादिति भावः। पश्य अवलोकय, इति इत्थम्, अनेन नलेन, परिहस्य उपहस्य, तमः अन्धकारम्, संविधाय निर्माय, लज्जिता व्रीडिती, सा दमयन्ती, समभोजि समाभुक्ता। अन्यथा उभयोस्तुल्यप्रीतेरयोगादिति भावः॥ 18.84 ॥
चुम्ब्यसेऽयममयङ्क्यसे नखैः श्लिष्यसेऽयमयमर्प्यसे हृदि।
नो पुनर्न करवाणि ते गिरं हुँ त्यज त्यज तवास्मि किङ्करा॥ 18.85 ॥
अन्वयः–अयं चुम्ब्यसे, अयं न खैः अङ्क्यसे, अयं श्लिष्यसे, अयं हृदि आर्यसे, ते शिरं पुनः न करवाणि, नो; हुम्, त्यज त्यज, तव किङ्करा अस्मि।
जीवातु–अथान्धकारकल्पनायाः फलं युग्मेनाह-चुम्ब्यसे इत्यादि। हे प्रियतम्! इत्यान्त्रणपदमूहनीयम्। अयं त्वम्, चुम्ब्यसे तव अधरः पीयते; अयं त्वम्, नखः अङ्क्यसे क्षतकरणेन चिह्न्यसे; अयं त्वम्, श्लिष्यसे आलिङ्ग्यसे; अयं त्वम्, हृदि उरसि अर्प्यसे स्थाप्यसे इत्यर्थः। सर्वत्र मयेति शेषः। ते तव, गिरं वाक्यं, चुम्बनादिप्रार्थनारूपामित्यर्थः। पुनः न करवाणि? न पालयामि? इति नो न, अवश्यमेव करवाणीत्यर्थः। हुमिति अनुनये, त्यज त्यज मां मुञ्च मुञ्च, ते तव, किङ्करा दासी। `किंयत्तद्‌बहुषु कुञोऽज्‌विधानम्’ इत्यच्‌प्रत्यये टाप्। अस्मि भवामि। अतस्तवाभिलाषः सर्वथैव पूरणीयो मयेति भावः॥ 18.85 ॥
इत्यलीकरतकातरा प्रियं विप्रलभ्य सुरते ह्रियं च सा।
चुम्बनादि विततार मायिनी किं विद्गधमनसामगोचरः?॥ 18.86 ॥
अन्वयः–इति अलीकरतकातरा मायिनी सा सुरते प्रियं ह्रियं च विप्रलभ्य चुम्बनादि विततार, विदग्धमनसाम् अगोचरः किम्?।
जीवातु–इतीति। इति इत्थम्, अलीकं मिथ्या यता तथा, रते रमणे, कातरा असमर्था, कपटेनैव रतकातर्य नाटयन्ती न पुनस्तत्वत इति भावः। मायिनी वाक्छलचतुरा, सा भैमी, सुरते रमणकाले, प्रियं नलम्, ह्रियञ्च लज्जाञ्च, विप्रलभ्य प्रतार्य, चुम्बनादिकेवलमधरपानादिकमेवेत्यर्थः। विततार नलाय ददौ। मध्यानायिकभावत्वेऽपि मुग्धात्वप्रकटनात् प्रकृतसुरताकरणेन प्रियविप्रलम्भ इति भावः। तथा हि विदग्धानि कालोचितव्यवहारकुशलानि, मनांसि धियः येषां तादृशानाम्, जनानामिति शेषः। किं वैदग्ध्यम्, अगोचरः? अविषयः? न किमपीत्यर्थः। अत एव सा विस्रब्धं विहर्त्तु शशाक इति भावः॥ 18.86 ॥
स्वेप्सितोद्‌गमितमात्रलुप्तया दीपिकाचपलतया तमोघने।
निविशङ्करतजन्मतन्मुखाकूतदर्शनसुखान्यभुङ्क्त सः॥ 18.87 ॥
अन्वयः–सः तमोघने स्वेप्सितोद्‌गमितामात्रलुप्तया दीपिकाचपलतया निर्विशङ्करतजन्मतन्मुखाकूतदर्शनसुखार्नि अभुङ्क्त।
जीवातु–स्वेति। सः नलः, तमः अन्धकार एव, घनः मेघः तस्मिन्, स्वेप्सितेन निजेच्छामात्रेणैव, उद्‌गमितामात्रं प्रज्वलनक्षणमेव, लुप्ता विनष्टा तया तथोक्तया, क्षणिकयेत्यर्थः। दीपिका प्रदीप एव, चपला विद्युत्‌ तया तद्वारा इत्यर्थः। `विद्युच्चञ्चला चपलाऽपिच’ इति यादवः। निर्विशङ्करतात् अन्धकारजन्यनिरुद्वेगरमणात्, जन्म सम्भवः। येषां तादृशानाम्, तस्याः, भैम्याः मुखाकूतानां वदनचेष्टितानाम्, दर्शनात् अवलीकनात्, यानि सुखानि हर्षाः तानि, अभुङ्क्त अन्वभूत्। स्थिप्रकाशे तद्विस्रम्भविधातभयात् क्षणिकप्रकाशेन तन्मुखदर्शनसुखम् अनुभूतवान् इत्यर्थः॥ 18.87 ॥
यद्‌भ्रुवौ कुटिलिते तया रते मन्मथेन तदनामि कार्मुकम्।
यत्तु हुं हुमिति सा तदा व्यधात्तत् स्मरस्य शरमुक्तिहुङ्कृतम्॥ 18.88 ॥
अन्वयः–तया रते यत् भ्रुवौ कुटिलते तत् मन्मथेन कार्मुकम् अनाभि; सा तदा `हुँ हुम्’ इति व्यधात् तत् तु स्मरस्य शरमुक्तिहुङ्कृतम्।
जीवातु– अथ तन्मुखाकूतान्येवाह-यदित्यादि। तया भैम्या, रते सुरतकाले, यत् भ्रुवौ भ्रूद्वयम्, कुटिलिते सुखातिरेकात् सङ्कोचिते, तत् एव भ्रूकुटिलीकरणमेव, मन्मथेन कामेन, कार्मुकं धनुः, अनाभि नमितम्, आकर्षीत्यर्थः। तस्या भ्रूद्वयस्य कामकार्मुकवत् मनोहरत्वादिति भावः। किञ्चसा भैमौ, तदा रमणकाले, हूं हुम् इति यत् व्यधात् सुखातिरेकात् `हुहुँ’ इति यत् अव्यक्तशब्दम् अकरोत्, तत्तु तत् हुङ्‌कृतमेव, स्मरस्य शरमुक्तिहुङ्कृतं बाणमोक्षस्य हुह्कारस्वरूपम्, अभूदिति शेषः। तत् सर्वं तस्य अधिकमुद्दीपकम् अभूत् इति भावः॥ 18.88 ॥
ईक्षितोपदिशतीव नर्त्तितुं तत्क्षणोदितमुदं मनोभुवम्।
कान्तदन्तपरिपीडिताधरा पाणिधूननमियं वितन्वती॥ 18.89 ॥
अन्वयः–कान्तदन्तपरिपीडिताधरा पाणिधूननं वितन्वती इयं तत्क्षणोदितमुदं मनोबुवं नर्त्तितुम् उपदशती इव वीक्षिता।
जीवातु–ईक्षितेति। कान्तस्य प्रियस्य, दन्तैः दशनैः परिपीडिताधरा दंशनेन व्यथितरदनच्छदा, अत एव पाणिधूननं तन्निवारणाय करकम्पनम्, वितन्वती कुर्वती, इयं दमयन्ती, तत्क्षणे सुरतकाले, उदितमुदं स्वप्रभावदर्शनात् सञ्जातहर्षम्, मनोभुवम्, अनङ्गम्, नर्त्तितुं नृत्यं कर्त्तुम्, उपदिशतीव इत्थं नृत्यं कुरु इति शिक्षयन्ती इव, स्थितेति शेषः। `आच्छीनद्योर्नुम्’ इति विकल्पान्नुमभावः। ईक्षिता दृष्ट्वा, प्रियेणेति शेषः। नृत्यशिक्षको हि हस्तनर्त्तनेनैव स्वशिष्यान् नर्त्तितुं शिक्षयतीति लौकिकाः॥ 18.89 ॥
सा शशाक परिरम्भदायिनी गाहितुं बृहदुरः प्रियस्य न।
चक्षमे स च भङ्गुरभ्रुवस्तुङ्गपीनकुटदूरतां गतम्॥ 18.90 ॥
अन्वयः–परिरम्भदायिनी सा प्रियस्य बृहत् उरः गाहितुं न शशाक सः च भङ्गुरभ्रुवः तुङ्गपीनकुचदूरतां गतम् (उरःगाहितुं) न चक्षमे।
जीवातु–सेती। परिरम्भदायिनी आलिङ्गनप्रदायिनी, सा भैमी, प्रियस्य नलस्य, बृहत् विशालम्, उपः वक्षःस्थलम् गाहितुं प्रवेष्टुम्, साकल्येनाभिव्याप्तुमित्यर्थः। न शशाक न चक्षमे, नलोरःस्थलमपेक्ष्य स्वस्य क्षीणाङ्गत्वादिति भावः। इत्याश्रयाषिक्येनाधिकालङ्कारभेदः। सः च नलोऽपि, भङ्गुरभ्रुवः सुवङ्किभ्रूशालिन्याः प्रियायाः, तुङ्गपीनकुचाभ्याम् उन्नतस्थूलपयोधराभ्याम्, दूरतां व्यवधानम्, गतं प्राप्तम्, उरः गाहितुमिति पूर्वेणान्वयः, न चक्षमे न शशाक। कुचयोरौन्नत्यस्थौल्याभ्यां व्यवहितत्वादिति भावः। इति सम्बन्धेऽप्यसम्बन्धरूपातिशयोक्तिः॥ 18.90 ॥
बाहुवल्लिपरिरम्भमण्डलीय या परस्परमपीडयत् तयोः।
आस्त हेमनलिनीमृणालजः पाश एव हृदयेशयस्य सः॥ 18.91 ॥
अन्वयः–तयोः या बाहुवल्लिपरिम्भमण्डली परस्परम् अपीडयत् सः हृदयेशयस्य हेमनलिनीमृणालजः पाशः एव आस्त।
जीवातु–बाह्विति। तयोः भैमीनलयोः, या बाहुवल्लिभ्यां भुजलताभ्याम्, परिरम्भेण परस्परसंश्लेषेण, मण्डली वेष्टनम्, भुजचतुष्टयानां मण्डलाकारता इत्यर्थः। परस्परम् अन्योऽन्यम्, अपीडयत् प्रगाढसंश्लेषेण पीडितवती, सः परिरम्भव्यापार इत्यर्थः। हृदयेशयः कामः तस्य। `अधिकरणे शेतेः’ इत्यचप्रत्ययः। `शयवासवासिष्वकालात्’ इत्यलुक्। हेमनलिनीमृणालात् स्वर्णकमलिनीदण्डात्, जायते इति तज्जः अतिगौरत्वात् मृदुत्वाच्च सुवर्णमयकलमदण्डात् जात इव प्रतीयमानः, पाशः पाशाख्यबन्धनरज्जुरेव, आस्त अभवत् इत्युत्प्रेक्षा॥ 18.91 ॥
वल्लभेन परिरम्भपीडितौ प्रेयसीहृदि कुचाववापतुः।
केलतीमदनयोरुपाश्रये तत्र वृत्तमिलितोपधानताम्॥ 18.92 ॥
अन्वयः–प्रेयसीहृदि वल्लभेन परिरम्भपीडितौ कुचौ केलतीमदनयोः उपाश्रये तत्र वृत्तमिलितोपधानताम् अवापुतुः।
जीवातु–वल्लभेनेति। वल्लभेन प्रियेण नलेन, परिरम्बेण प्रगाढालिङ्गनेन, पीडितौ चिपिटीकृतौ इत्यर्थः। प्रेयस्याः दमयन्त्याः; हृदी वक्षसि, स्थितौ इति शेषः। कुचौ स्तनौ एव, कैलतीमदनयोः रतिकामयोः। `कामस्त्री केलती रतिः’ इति यादवः। उपाश्रये अवष्टम्भभूते, तत्र दमयन्तीवक्षसि, वृत्ते वर्तुले, मिलिते परस्परसङ्गते, उपधाने उपबर्हे। `उपधानं तूपबर्हम्’ इत्यमरः। तयोः भावः तत्ता ता शिरोनिदानताम्, अवापतुः जग्मनुः इवेति शेषः। इत्युत्प्रेक्षा॥ 18.92 ॥
तत् प्रियोरुयुगलं नलार्पितैः पाणिजस्य मृदुभिः पदैर्बभौ।
उत्प्रशस्ति रतिकामयोर्जयस्तम्भयुग्ममिव शातकुम्भजम्॥ 18.93 ॥
अन्वयः–तत् प्रियोरवयुगलं नलार्पितैः मृदुभिः पाणिजस्य पदैः उत्प्रशस्ति शातकुम्भजं रतिकामयोः जयस्तम्भयुग्मम् इव बभौ।
जीवातु–तदिति। तत् अतिमनोज्ञम्, प्रियायाः कान्तायाः, उरुयुगलं सक्तिद्वयम्, नलेन अर्पितैः न्यस्तैः, कृतैरित्यर्थः मृदुभिः कोमलैः, ईषान्मात्रैरित्यर्थः। पाणिजस्य नखस्य, पदैः चिह्नैः, नखक्षतैरित्यर्थः। उत्त उद्‌गता, उत्कीर्णा इत्यर्थः। प्रशस्तिः प्रशंसावचनं तत् तादृसम् उत्प्रशस्ति उत्कीर्मप्रशंसावचनम्, शातकुम्भजं हिरण्मयम्, रतिकामयोः जयस्तम्भयुग्मम् इव जेतृत्वसूचकस्तम्भद्वयमिव, बभौ शुशुभे इत्युत्प्रेक्षा॥ 18.93 ॥
बह्वमानि वधिनाऽपि तावकं नाभिमूरुयुगमन्तराऽङ्गकम्।
स व्यधादधिकवर्मकैरिदं काञ्चनैर्यदिति तां पुराऽऽह सः॥ 18.94 ॥
अन्वयः–तावकं नाभिम् ऊरुयुगम् अन्तरा अङ्कं विधिना अपि बहु अमानि, यत् सः इदम् अधिकवर्णकैः काञ्चनैः व्यधात्-इति सः तां पुरा आह।
जीवातु–बह्विति। हे प्रिये! तावकं त्वदीयम्, नाभिम् ऊरुयुगञ्च अन्तरा तन्मध्यवर्त्ति। `अन्तराऽन्तरे युक्ते’ इति द्वितीया। `अन्तराशब्दो मध्यमादेयप्रधानमाचष्टे’ इति काशिका। अङ्गकम् अत्यन्ताभिलषणीयत्वेन अदरणीयमङ्गम्, वराङ्गमित्यर्थः। विधिना वेधसाऽपि, बहु अमानि अतिशयेन समादृतम्। कुतः? यत् यस्मात् सः विधिः, इदम् अङ्गकम्, अधिकर्णकैः समुज्जलाभैः, काञ्चनैः सुवर्णैः, व्यधात् सृष्टवानिव, इति इत्थम्, सः नलः, तां प्रियाम्, पुरा सुरतारम्भात् पूर्वम्, आह उक्तवान्। `पुरि लुङ् चास्मे’ इति भूते लट्॥ 18.94 ॥
पीडनाय मृदुनी विगाह्य तौ कान्तपाणिनलिने स्पृहावती।
तत्कुचौ कलशपीननिष्ठुरौ हारहासविहते वितेनतुः॥ 18.95 ॥
अन्वयः–कलशपीननीष्ठुरौ मृदुनी तौ तत्कुचौ विगाह्य पीडनाय स्पृहावती (मृदुनी) कान्तपाणिनलिने हारहासविहते वितेनतुः।
जीवातु–पीडनायेति। कलशवत् घटवत्, पीनी स्तूली, निष्ठुरौ कठिनौ च, तस्याः दमयन्त्याः, कुचौ स्तनौ। कर्त्तारौ। मुदुनी कोमले, तथाऽपि तौ अतिकठिनौ दमयन्तीकुचौ, विगाह्य अवगाह्य, प्राप्य इत्यर्थः। पीडनाय पीडनं कर्त्तुम्, स्पृहावती अभिलषितवती, व्याप्रियमाणे इत्यर्थः। कान्तस्य नलस्य, पाणिनलिने करकमले। कर्मणी। हारः कुचविलम्बितमुक्तावली एव, हासः हास्यम्, शुभ्रताधिक्यादिति भावः। तेन विहते तिरस्कृते, तिरस्कारेण विताडिते इव इत्यर्थः। वितेनतुः चक्रतुः कोमलत्वात् दुर्बलयोः नलपाण्योः स्थूलकठिनयोः बलिनोः दमयन्तीकुचयोः पीडनप्रवृत्तौ दुर्वलस्य प्रबलकर्त्तृकहासताडनयोरवश्यम्भाव्यत्वादिति भावः। अशक्यार्थप्रवृत्ताः परिहासास्पदं भवन्तीति निष्कर्षः॥ 18.95 ॥
यौ कुरङ्गमदकुङ्कुमाञ्चितौ नीललोहितरुचौ।
स प्रियोरसि तयोः स्वयम्भुवोराचचार नखकिंशुकार्चनम्॥ 18.96 ॥
अन्वयः–यौ वधूकुचौ कुरङ्गमदकुङ्कुमाञ्चितौ नीललोहितरुचौ, सः प्रियोरसि स्वयम्भुवोः तोयः नखकिंशुकाचंनम् आचचार।
जीवातु–याविति। यौ बधूकुचौ दमयन्तीस्तनौ, कुरङ्गमदकुङ्गकुमाभ्यां कस्तूरिकाश्मीरजाभ्याम्, अञ्चितौ पूजितौ, लेपनेन शोभितौ सन्तौ इत्यर्थः। अत एव नीला कस्तूरीलिप्तस्थाने कुष्णवर्णा च, सा लोहिता कुङ्कुमलिप्तस्थाने रक्तवर्णा च। `वर्णो वर्णेन’ इति तत्पुरुषसमासः। रुच् प्रभा ययोः तादृशौ, अन्यत्र-कण्ठे लोहितः केशेषु इति नीललोहितः महादेवः तस्मिन् रुक् रुचिः, अनुराग इत्यर्थः। ययोः तादृशौ, बभूवतुरिति शेषः। प्रियायाः भैम्याः, उरसि वक्षसि, स्वयम्भुवोः यौवनागमे स्वतः एव उत्पन्नयोः, अन्यत्र-स्वयम्भूमूर्त्त्योश्च, रक्तवर्मतासाम्यात् वक्रतारूपाकारसाम्याच्चेति भावः। अर्चनं पूजनम्, आचचार चकारेव। स्वयम्भूत्वेन देवत्वात् तयोरर्चनया औचित्यः दिति भावः गम्योत्प्रेक्षा॥ 18.96 ॥
अम्बुधेः कियदनुत्थितं विधुं स्वानुबिम्बिमिलितं व्यडम्बयत्।
चुम्बदम्बुजमुखीमुखं तदा नैषधस्य वदनेन्दुमण्डलम्॥ 18.97 ॥
अन्वयः–तदा अम्बुजमुखीमुखं चुम्बत् नैषधस्य वदनेन्दुमण्डलं अम्बुधेः कियत् अनुत्थितं स्वानुबिम्बमिलितं विधुं व्यडम्बयत्।
जीवातु–अम्बुधेरिति। तदा संसर्गकाले, अम्बुजमुख्याः कमलवदनायाः प्रेयस्याः, मुखं वदनम्, चुम्बत् अधरं स्वदमानम्, नैषधस्य नलस्य, वदनेन्दुमण्डलं मुखचन्द्रबिम्बम्। कर्त्तृ। अम्बुधेः सागरात्, कियत् किञ्चित् अनुत्थितम् अनुदितम्, अधिकांशमुदितम् ईषत् समुद्रगर्भे अवस्थितमित्यर्थः। स्वानुबिम्बेन स्वस्य विधोरेव जलानर्वर्त्तिप्रतिबिम्बेन, मिलितं युक्तम्, विधुम् इन्दुम्, व्यडम्बयत् अनुचकार। तयोः मुखयोर्मिथ संश्लेषात् कार्त्स्न्येनादृश्यमानत्वादिदमुपमितम्॥ 18.97 ॥
पूगभोगबहुताकषायितैर्वासितैरुदयभास्करेण तौ।
चक्रतुर्निधुवनेऽधरामृतैस्तत्र साधु मधुपानबिभ्रमम्॥ 18.98 ॥
अन्वयः–पूगभागबहुताकषायितैः उदयभास्करेण वासितैः अधरामृतैः तत्र निधुवने तौ साधु मधुपानविभ्रमं चक्रतुः।
जीवातु–पूगेति। तौ भैमीनलौ, तत्र तस्मिन्, निधुवने रते। `व्यवायो ग्राम्यधर्मो मैथुनं निधुवनं रतम्’ इत्यमरः। पूगभोगः क्रमुकभक्षणं, ताम्बूलचर्वणमिति यावत्। ` पूगः क्रमुकवृन्दयोः’ इत्यमरः। तस्य बहुतया बाहुल्येन, `पूगभाग’ इति पाठे-चर्व्यमाणताम्बूले गुवाकभागस्य आधिक्यतया इत्यर्थः। कषायितैः सञ्जातकषायरसैः, तथा उदयभास्करेण कर्पूरविशेषेण, वासितैः सुरभितैः, अधरामृतैः परस्परमधनसुधापानैरित्यर्थः। साधु सम्यक्, मधुपानस्य मद्यपानस्य, विभ्रममिव विभ्रमं लीलाम्, चक्रतुः आचेरतुः। गुवाकादिमदकारकद्रव्यसन्धानजमद्यपानेन निष्कर्षः। अत्र सादृश्याक्षेपात् निदर्शनालङ्कारः॥ 18.98 ॥
आह नाथवदनस्य चुम्बतः सा स्म शीतकरतामनक्षरम्।
सीत्कृतानि सुदती वितन्वती सत्त्वदत्तपृथुवेपथुस्तदा॥ 18.99 ॥
अन्वयः–तदा सीत्कृतानि वितन्वती सत्त्वदत्तपृथुवेपथुः सुदती सा चुम्बतः नाथवदनस्य शीतकरताम् अनक्षरम् आह स्म।
जीवातु–आहेति। सुदती मनोज्ञदशना, सा भैमी, तदा अधरपानकाले, सीत्कृतानि दंशनवेदनया सीत्कारान्, वितन्वती कुर्वती,तथा सत्त्वेन सत्त्वगुणोद्रेकेण, दत्तः जनितः पृथुः महान्, वेपथुः कम्पाख्यः सात्त्विकभाव यस्याः सा तादृशी च सती, चुम्बतः चुम्बनं कुर्वतः, नाथवदनस्य प्रियमुखस्य, शीतकरतां शीतांशुत्वमेव शीतकारित्वम्। `कृञो हेतु-’ इत्यादिना ताच्छील्ये टप्रत्ययः। अनक्षरम् अशब्दमेव, आह स्म उवाच, ज्ञापयामासेत्यर्थः। अन्यथा कथं शीतजन्यं कम्पसीत्कारादिकार्यमिति भावः॥ 18.99 ॥
चुम्बनाय कलितप्रियाकुचं वीरसेनसुतवक्त्रमण्डलम्।
प्राप भर्त्तु ममृतैः सुधांशुना सक्तहाटकघटेन मित्रताम्॥ 18.100 ॥
अन्वयः–चुम्बनाय कलितप्रियाकुचं वीरसेनसुतवक्त्रमण्डलम् अमृतैः भर्तुं सक्तहाटकघटेन सुधांशुना मित्रतां प्राप।
जीवातु–चुम्बनायेति। चुम्बनाय स्तनोपरि चुम्बनकरणाय, कलितः गृहीतः मुखेनैव स्पृष्ट इत्यर्थः। प्रियाकुचः भैमीस्तनो येन तादृशम्, वीरसेसुतवक्त्रमण्डलं नलमुखविम्बम्। कर्तृ। अमृतैः सुधाभिः भर्त्तु पूरयितुम्, सक्तः स्पटष्टः, हाटकस्य कनकस्य, घटः कुम्भो यस्मिन् तादृशेन, मुधांशुना चन्द्रेण, भित्रतां सदृशताम्, प्राप लेभे। नलमुखस्य चन्द्रतुल्यत्वात् भैमीकुचस्य च स्वर्णघटसाम्यादिति भावः। कनककलशे अमृतसम्भरणार्थं समागतः साक्षात् अमृतांशुरिव इत्युत्प्रेक्षया अमृतकरत्वं व्यज्यते इति अलङ्कारेण वस्तुध्वनिः॥ 18.100 ॥
वीक्ष्य वीक्ष्य पुनरैक्षि साऽमना पर्यरम्भि परिरभ्य चासकृत।
चुम्बिता पुनरचुम्बि चादरात्तृप्तिरापि न कथञ्चनापि च॥ 18.101 ॥
अन्वयः–अमुना सा वीक्ष्य आदरात् पुनः ऐक्षि, असकृत् परिरभ्य च पर्रम्भि, चुम्बिता च पुनः अचुम्बि-कथञ्चन अपि च तॉप्तिः न आपि।
जीवातु–वीक्ष्येति। अमुना नलेन, सा भैमी, आदरात् आग्रहातिशयात्, पदमिदं चुम्बनालिङ्गनयोरपि योज्यम्। वीक्ष्य वीक्ष्य पुनः पुनर्दृष्ट्वाऽपि, पुनः भूयः ऐक्षि ईक्षिता, असकृत् वारं वारम्, आदरात् परिरभ्य आलिङ्ग्यापि, पर्यरम्भि पुनः परिरब्धा। `रभेरशब्‌लिटोः’ इति नुमागमः। तथा आदरात् `चुम्बिता कृतचुम्बनाऽपि, पुनश्च भूयोऽपि, अचुम्बि चुम्बिता। कथञ्चनापि केनापि प्रकारेण, तृप्तिः आकाङ्‌क्षापूर्त्तिः, न च आपि नैव प्राप्ताः। रागातिरेकात् इति भावः। सर्वत्र कर्मणि लुङ्॥ 18.101 ॥
छिन्नमप्यतनु हारमण्डलं मुग्धया सुरतलास्यकेलिभिः।
न व्यतर्कि सुदृशा चिरादपि स्वेदबिन्दुकितवक्षसा हृदि॥ 18.102 ॥
अन्वयः–सुदृशा अपि मुग्धया सुरतलास्यकेलिभिः हृदि अतनु हारमंडलं छिन्नम् अपि स्वेदबिन्दुकितवक्षसा चिरात् अपि न व्यतर्कि।
जीवातु–छिन्नमिति। मुग्धया सुरतमोहितचित्तया, सुदृशा सुनयनया, भैम्येति शेषः। सुरतानि रमणान्येव, लास्यकेलयः नृत्यक्रीडाः तैः, हृदि वक्षोपरि, स्थितमिति शेषः। अतनु महत्, हारमण्डलं मुक्ताकलापः, छिन्नं त्रुटितमपि, स्वेदबिन्दवः एव स्वेदबिन्दुकितं सुरतश्रमजन्यधर्मबिन्दुयुक्तम्। `तारकादित्वादितच्’ वक्षः उरःस्थलं यस्याः तादृशया सत्या, चिरात् दीर्घकालेनापि; न व्यतकिं न व्यभावि, छिन्नेति न अज्ञायि इत्यर्थः। स्वेदबिन्दुषु हारभ्रमादिति भावः। अतएव भ्रान्तिमदलङ्कारः॥ 18.102 ॥
यत् तदीयहृदि हारमौक्तिकैरासि तत्र गुण एव कारणम्।
अन्यथा कथममुत्र वर्त्तितुं तैरशाकि न तदा गुणच्युतैः?॥ 18.103 ॥
अन्वयः–तदीयहृदि हारमोक्तिकैः यत् आसि तत्र गुमः एव कारणम्, अन्यथा तदा गुणच्युतैः तैः अमुत्र वर्त्तितुं कथं न अशाकि?
जीवातु–यदिति। तदीये भैमीसम्बन्धिनि, हृदि वक्षसि, अन्तःकरणे च, हारमौक्तिकैः हारस्थितमुक्तावलीभिः, यत् आसि अवस्थितम्। आसेर्भावे लुङ्। तत्र स्थितौ, गुमः एव मुक्तानां छिद्रान्तर्वर्त्तिसूत्रमेव, सूत्रेम ग्रथितत्वमेवेत्यर्थः। कान्तिमत्त्वादिगुण एव च, कारणं हेतुः। अन्यथा तद्वैपरीत्ये, तदा सुरतकाले, गुणयुक्तैः गुणभ्रष्टैः, तैः हारमौक्तिकैः, अमुत्र अस्मिन् वक्षसि मनसि च, वर्त्तितुं गुणभ्रष्टैः, तैः हारमौक्तिकैः, अमुत्र अस्मिन् वक्षसि मनसि च, वर्त्तितुं स्थातुम्, कथं कस्मांत्, न अशाकि? न शक्तम्? अच्छिन्नसूत्रैः कतिपयमोक्तिकैरेव तत्र स्थितं न पुनश्छिन्नसूत्रांशैः, ततो गुण एव अत्र कारणम् अन्यथा पतनप्रसङ्गादनुपादेयत्वाच्चेति भावः॥ 18.103 ॥
एकवृत्तिरपि मौक्तिकावलिश्ठिन्नहारविततौ तदा तयोः।
छाययाऽन्यहृदयेऽपि भूषणं श्रान्तिवारिभरभावितेऽभवत्॥ 18.104 ॥
अन्वयः–तदा तयोः एकवृत्तिः अपि मौक्तिकावलिः छिन्नहारविततौ अपि श्रान्तवारिभरभाविते अन्यहृदये छायया भूषणम्, अभवत्।
जीवातु–एकेति। तदा तत्काले, तयोः दमयन्तीनलयोः मध्ये, एकस्मिन् नले एव, वृत्तिः अवस्तानं यस्याः सा तादृशी अपि, नलवक्षःस्थिता अपीत्यर्थः मौक्तिकावलिः मुक्ताहारः छिन्ना त्रुटिता, हारविततिः विस्तृतहारो यस्य तादृशे। भाषितपुस्कत्वात् पुवद्भावः। श्रान्तिवारिभरेम सुरतश्रमोद्‌भूतस्वदपूरेण, भाविते आप्लुते, अन्यस्याः भैम्याः हृदये वक्षसि। `सर्वनाम्नो वृत्तिमात्रे पुवद्भावः’ इति पुवद्भावः। छायया प्रतिबिम्बेन, विभूषणम् अलङ्कारणम्, अभवत् अजायत। अत्र एकस्यैव हारस्य उभयत्र भूषणत्वेन असम्बन्धेऽपि सम्बन्धोक्तेः तद्रुपातिशयोक्तिरलङ्कारः॥ 18.104 ॥
वामपादतललुप्तमन्मथश्रीमदेन मुखवीक्षिणाऽनिशम्।
भुज्यमाननवयौवनाऽमुना पारसीमनि चचार सा मुदाम्॥ 18.105 ॥
अन्वयः–वामपादतललुप्तमन्मथश्रीमदेन अनिशं मुखवीक्षिणा अमुना भुज्यमाननवयौवना सा मुदां पारसीमनि चचार।
जीवातु–वामेति। वामपादस्य सव्यचरणस्य, तलेन अधःप्रदेशेन, अत्यन्तापकृष्टावयवेनेति भावः। लुप्तः हृतः, मन्मथस्य कामस्य, श्रियः मदः सौन्दर्यदर्पः येन दादृशेन, अतिसुन्दरेणेत्यर्थः। अनिशं निरन्तरम्, मुखवीक्षिणा दमयन्तीवदनदर्शिना, अमुना नलेन, भुज्यमानम् उपभोगं कुर्वन्तं, नवयौवनम् अभिनवतारुण्यं यस्याः तादृशी, सा भैमी, मुदाम् आनन्दानाम्, पारसीमनि चरमावस्थायाम्, चचार विचरितवती नलम्भोगात् परमानन्दमाप इत्यर्थः॥ 18.105 ॥
आन्तरानपि तदङ्गसङ्गमैस्तर्पितानवयवानमन्यत।
नेत्रयोरमृतसारपारणां तद्विलोकनमचिन्तयन्नलः॥ 18.106 ॥
अन्वयः–नलः तदङ्गसङ्गमैः आन्तरान् अपि अवयवान् तर्पितान् अमन्यत्, तद्विलोकनं नेत्रयोः अमृतसारपारणाम् अचिन्तयत्।
जीवातु–आन्तरानिति। नलः तस्याः दययन्त्याः, अङ्गसङ्गमैः बाह्यावयवसम्पर्कैः, आन्तरान् आभ्यन्तरानपि, न केवलं वक्षःप्रभृतिबहिरवयवानिति भावः। अवयवान् अन्तःकरणादीन् अंशान्, तपर्तिन् प्रीणीतान् अमन्यत अबुध्यत। तथा तस्याः भैम्याः, विलोकनं साक्षात्कारम्, नेत्रयोः स्वाक्ष्णोः, अमृतस्य पीयूषस्य, सारेम उत्कृष्टांशेन, पारणाम् उपवासानन्तरमाहारविशेषमिव, अचिन्तयत् अभावयत्। तद्वत् तृप्तिबोधादिति भावः॥ 18.106 ॥
बह्वमन्यत विदर्भजन्मनो भूषणानि स दृशा न चेतसा।
तैरभावि कियदङ्गदर्शने यत् पिधानमयविघ्नकारिभिः॥ 18.107 ॥
अन्वयः–सः विदर्भजन्मनः भूषमानि दृशा बहु, अमन्यत, चेतसा न; यत् तैः कियदङ्गदर्सने पिधानमयविघ्नकारिभिः अभावि।
जीवातु–बह्विति। सः नलः, विदर्भजन्मनः वैदर्भ्याः, भूषणानि आभरणानि, दृशा दृष्ट्या भावः। चेतसा मनसा, न, बहु अमन्यत इति शेषः। कुतः? यत् यस्मात्, तैः भूषणैः, कियताम् अङ्गानां प्रकोष्ठादीनां केषाञ्चिदवयवानाम्, दर्शने विलोकने, पिघानमयं छादनरूपम्, विघ्नं प्रत्यूहम्, कुर्वन्तीति तादृशैः दृष्टिव्याघातोत्पादकैरित्यर्थः। अभावि भूतम्। अतः भूषणबहुमानः नातिपुष्कलः इति भावः॥ 18.107 ॥
योजनानि परिरम्भणेऽन्तरं रोमहर्षजमपि स्म बोधतः।
तौ निमेषमपि वीक्षणे मिथो वत्सरव्यवधिमध्यगच्छताम्॥ 18.108 ॥
अन्वयः–तौ परिरम्भणे रोमहर्षजम् अपि अन्तरं योजनानि बोधनः स्म, मिथः वीक्षणे निमेषण् अपि वत्सरव्यवधिम् अध्यगच्छताम्।
जीवातु–योजनानीति। तौ भैमीनलौ, परिरम्भणे आलिङ्गनकाले; रोमहर्षात् सात्त्विकभावोदयेन रोमाञ्चात्, जातम् उत्पन्नम्, अन्तरमपि तन्मात्रव्यवधानमपि, योजनानि बहुयोजनव्यवधानानीत्यर्थः. बोधतः स्म अबुध्यताम्। बोधतेभैंवादिकाद् भूते `लट्‌ स्म्’ इति लट्। तथा मिथः अन्योऽन्यम्, वीक्षणे दर्शनविषये, निमेषमपि अक्षि वर्त्तनिमीलोन्मीलनकालव्यवधानमपि, वत्सरव्यवधिं वर्षकालव्यवधानम्, अध्यगच्छतां मन्येते स्म। अनुरागाधिक्यादिति भावः॥ 18.108 ॥
वीक्ष्य भावमधिगन्तुमुत्सुकां पूर्वमच्छमणिकुट्टिमे मृदुम्।
कोऽयमित्युदितसम्भ्रमीकृतां स्वानुबिम्बमददर्शतैष ताम्॥ 18.109 ॥
अन्वयः–मृदुं पूर्व भावम् अधिगन्तुम् उत्सुकाम् वीक्ष्य `अयं कः’-इति उदितसम्भ्रमां ताम् एषः अच्छमणिकुट्टिमे स्वानुबिम्बं ददर्श।
जीवातु–अथानयोः चयुतिसुख पञ्चभिर्वर्णयति, वीक्ष्येत्यादि। एषः नैषधः, तां प्रियां, मृदुम् कोमलां, परिश्रमासहिष्णुत्वात् श्लथावयवामिति यावत्, अत एव पूर्वम् आत्मनः प्राक्, भावं, च्युतिसुखावस्थाम्, अधिगन्तुं प्राप्नुम्, उत्सुकाम् इच्छन्तीं, वीक्ष्य गाढालिङ्गनादिलिङ्गैः ज्ञात्वा, कोऽयम्? अयं कः अत्र समागतः? इति, उक्त्वा इति शेषः, उदितः सञ्जातः, सम्भ्रमीकृताम्। अभूततद्भावे च्विः। प्रियामिति शेषः। अच्छे निर्मले, प्रतिबिम्बग्राहिणि इत्यर्थः। मणिकुट्टिमे रत्ननिबद्धभूमौ, स्वानुबिम्बं निजप्रतिबिम्बम्, अददर्शत दर्शितवान्। मत्प्रतिबिम्बदर्शनात् भ्रानतं मया इति तस्याः त्रासम्, अपाचकार इत्यर्थः। दृशेणौं चङि `णिचश्च’ इति तङ्। `अभिवादिदृशोरात्मने पदे वेति वाच्यम्’ इति अणिकत्तुः कर्मत्वम्। उभयोर्युगपद्भावप्राप्तये तस्याः प्राक्‌ पातं व्यासङ्गेन प्रत्यबध्नात्, अन्यथा वैरस्यं स्यादिति भावः॥ 18.109 ॥
तत्क्षणावहितभावभावितद्वादशात्मसितदीधितिस्थितिः।
आत्मनोऽनभिमतक्षणोदयां भावलाभलघुतां नुनोद सः॥ 18.110 ॥
अन्वयः–तत्क्षणावहितभावभावितद्वादशात्मसितदीधितिश्थितिः सः आत्मनः अनभिमतक्षणोदयां भावलाभलघुतां नुनोद।
जीवातु–तदिति। सः नलः तस्मिन् क्षणे आसन्नच्युतिसमये, अवहितभावेन अवहितत्वेन, एकाग्रतया इति यावत्। भाविता ध्याता, द्वादशात्मसितदीधित्योः सूर्याचन्द्रमसोः, स्थितिः नभोदेशे अवस्थानक्रमः येन सः तादृशः सन्, तेन च विषयान्तरनिविष्टतया च्युतिनिरोध इति भावः। आत्मनः स्वस्य, अनभिमतक्षणे अनभिप्रेतकाले, उदयः प्रादुर्भावः यस्याः तादृसीम्, भावलाभस्य च्युतिसुखप्राप्तेः, लघुताम् आशुभाविताम्, नुनोद निवारयामास। `तत्काले हृदी सोमार्कदारणात् सिद्धिः’ इति रतिरहस्ये। अत्र पुंस एव शक्त्याधिक्योक्त्या योषितो बहुशक्तिप्रयुक्तरसाभासशङ्गाऽपि समूलकाषकषितेति द्रष्टव्यम्॥ 18.110 ॥
स्वेत बावभजने स तु प्रियां बाहुमूलकुचनाबिचम्बनैः।
निर्ममे रतरहः समापनाशर्मसारसमसंविभागिनीम्॥ 18.111 ॥
अन्वयः–सः तु भावभजने बाहुवमूलकुचनाभिचुम्बनैः स्वेन प्रियां रतरहःसमापनाशर्मसारसमसंविभागीनां निर्ममे।
जीवातु–स्वेनेति। तु पुनः सः नलः, भावभजने च्युतिसुखप्राप्तिविषये, बाहुमूलयोः कश्रदेशयोः कुचयोः स्तनयोः, नाभौ नाभिदेशे च, चुम्बनैः पुनरुद्दीपनार्थं चुभ्बनरूपैः उपायः स्वेन आत्मना सह, प्रियां दमयन्तीम्, रतरहसः सुरतरहस्यस्य, समापनायां समाप्तिकाले, यः शर्मसारः च्युतिसुखोत्कर्षः, तत्र समसंविभागिनीं समानसुखभागिनीम्, निर्ममे चक्रे, युगपदेवोभयोर्बीजनिःसरणात् समानसुखभागित्वमिति भावः। एतेन तयोर्विप्रलम्भवत् सम्भोगस्यापि समानशक्तित्वमुक्तं भवतीत्यनुसन्धेयम्॥ 18.111 ॥
विश्लथैरवयवैर्निमीलया लोमभिद्रु तमितैर्विनिद्रताम्।
सूचितं श्वसितसीत्कृतैश्च भावमक्रमजमध्यगच्छताम्॥ 18.112 ॥
अन्वयः–तौ विश्लथैः अवयवैः निमीलया द्रुतं विनिद्रताम् इतैः लोमभिः श्वसितसीत्कृतैः च अक्रमजं भावम् अध्यागच्छताम्।
जीवातु–विश्लथैरिति। तौ भैमीनलौ, विश्लथैः शिथिलप्रायैः अवयवैः हस्तपादाद्यङ्गैः, निमीलया उत्कटसुखानुभवजनितनेत्रनिमिलनेन। भिदादित्वादङ्। द्रुतं हठात्, विनिद्रताम् उद्भेदम्, इतैः प्राप्तैः, कण्टकितैरित्यर्थः। लोमभिः रोमभिः, रोमाञ्चोद्‌गमैरित्यर्थः। तथा श्वसितानि श्रमजनितद्रुतनिःश्वासाः, सीत्कृतानि सीत्काराश्च तैः सूचितं ज्ञापितम्, `स्त्रस्तता वपुषि मीलनं दृशोर्मूर्च्छना च रतिलाभलक्षणम्। श्लेषयत् स्वजघनं धनं मुहुः सीत्कृतानि गलगर्जितानि च॥’ इत्युक्तत्वादीति भावः। अक्रमात् पौर्वापर्यं विहाय, जायते इति अक्रमज युगपज्जातम्, भावं पातसुखम्, अध्यागच्छतां प्राप्तवन्तौ, ज्ञानवन्तौ वा। एवञ्च उभयोः समरागिता सम्भवति, अन्यथा पूर्वच्युतस्य उत्तरच्याविनि वैराग्येण तद्भङ्गप्रसङ्गः इति भावः॥ 18.112 ॥
आस्त भावमधिगच्छतोस्तयोः सम्मदेसु करजप्रसर्पणा।
फालणितेषु मरिचावचूर्णना सा स्फुटं कटुरपि स्पृहावहा॥ 18.113 ॥
अन्वयः–भावम् अधिगच्छतोः तयोः करजप्रसर्पणा सम्मदेषु आस्त; कटुः अपि सा फाणितेषु मरिचावचूर्मना स्फुटं स्पृहावहा।
जीवातु–आस्तेति। भावं च्युतिसुखम्, अधिगच्छतोः प्राप्नुवतोः, तयोः दम्पत्योः करजप्रसर्पमा पुनरपि मिथो नखक्षतकरमम्, सम्मदेषु आनन्दलाभेषु, आस्त स्थिता, अन्तर्भूता इत्यर्थः। ननु नखक्षतं वेदनाजनकमपि कथमानन्देषु अन्तर्भूतमित्याशङ्क्याह-सा नखक्षतक्रिया, कटुः तीक्ष्णा अपि कटुरसा अपि च। `रसे कटुः कट्वकार्ये त्रिषु मत्सरतीक्ष्णयोः’ इत्यमरः। फाणितेषु खण्डविकारेषु। `मत्स्यण्डी फाणितं खण्डविकारे’ इत्यमरः। मरिचस्य अवचूर्णना चूर्णैः अवध्वंसना, तच्छूर्णमिश्रणमित्यर्थः। `सत्याप-’ इत्यादिना ण्यन्तात् `ण्यासश्रन्थो युच्’ इति युच्। स्फुटं व्यक्तम् अत एव स्पृहावहा रुचिकरी। या इयं सम्मदेषु नखार्प्णा मा फाणितेषु मरिचार्णणावत् इष्टा इव अभूदित्यर्थः। अत्र वाक्यार्थयोः सादृश्ययोगेन सादृश्याक्षेपात् असम्भवद्वस्तुसम्बन्धलक्षणो वाक्यार्थवृत्तिनिदर्शनाभेदोऽलङ्कारः॥ 18.113 ॥
अर्द्धमीलितविलोलतारेके सा दृशौ निधुवनक्लमालसा।
यन्मुहूर्त्तमवहन्न तत् पुनस्तृप्तिरास्त दयितस्य पश्यतः॥ 18.114 ॥
अन्वयः–निधुवनक्लमालसा सा मुहूर्त्तं यत् अर्द्धमीलितविलोलतारके दृशौ अवहत् तत् पश्यतः दयितस्य पुनः तृप्तिः न आस्त।
जीवातु–अर्द्धेति। निधुवनक्लमालसा सुरतश्रमेणावसन्ना, सा भैमी; भुहूर्त्तं किञ्चित्कालमपि, यत् अर्द्धमीलिते ईषत्सङ्कुचिते, च ते विलोलतारके चञ्चलकनीनिके चेति ते तादृश्यौ। `तारकाऽक्ष्णः कनीनिका’ इत्यमरः। दृशौ नेत्रे,अवहत् अधारयत्, अकारयदित्यर्थः। तत् तादृशीमवस्तामित्यर्थः। पश्यतः विलोकयतः, दयितस्य प्रियस्य नलस्य पुनः, तृप्तिः आकाङ्क्षापूर्त्तिः, न आस्त नासीत्। अतिरमणीयत्वात् पुनः पुनरेव तामवस्थां ददर्श स मुग्धो नलः इति भावः॥ 18.114 ॥
तत्कल्मस्तमदिदीक्षत क्षणं तालवृन्तचलनाय नायकम्।
तद्विधाधिभवधूननक्रिया वेधसोऽपि विदधाति चापलम्॥ 18.115 ॥
अन्वयः–तत्क्लमः तं नायकं क्षणं तालवृन्तचलनाय अंदिदीक्षत, तद्विधा अधिभवधूननक्रिया वेधसः अपि चापलं विदधाति।
जीवातु–तदिति। तस्याः दमयन्त्याः, क्लमः श्रान्तिः, तं नायकं स्वामिनं नलम्, क्षणं क्षणकालम्, तालवृन्तचलनाय व्यजनवीजताय। `व्यजनं तालवृन्तकम्’ इत्यमरः। अदिदीक्षत दीक्षयति स्म, प्रावर्त्यदित्यर्थः। तथा हि तद्विधः तादृशः, यः आधिः श्रमकातर्यं, तद्भवे तदुद्‌भूते सन्तापे, धूननक्रिया व्यजनसञ्चालनम्, व्यजनक्रियया सुरतश्रान्तिशान्तिचेष्टेत्यर्थः। वेधसः जितसर्वेन्द्रियस्य लोकपितामहस्य ब्रह्मणोऽपि, चापल तरलताम्, तत्करणार्थं चित्तचाञ्चल्यमित्यर्थः। विदधाति जनयति, किमुतान्यस्येति भावः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः॥ 18.115 ॥
स्वेदबिन्दुकितनासिकाशिखं तन्मुकं सुखयति स्म नैषधम्।
प्रोषिताधरसयालुयावकं सविलुप्ततिलकं कपोलयोः॥ 18.116 ॥
अन्वयः–स्वेदबिन्दुकितनासिकाशिखं प्रोषिताधरसयलुयावकं कपोलयोः संविलुप्ततिलकं तन्मुखं नैषधं सुखयति स्म।
जीवातु–स्वेदति। स्वेदबिन्दुकिता सञ्जाप्तधर्मबिन्दुका, नासिकाशिका नासाग्रं यस्य तादृशम् प्रोषिताधरशयालुयावकम् अधरपानात् प्रमृष्टौष्ठगतालक्तकम्, कपोलयोः गण्डयोः, संविलुप्ततिलकं चुम्बनादेव विनष्टविशेषकम्। `तमालपत्रतिलकचित्रकाणि विशेषकभ्’ इत्यमरः। तस्याः दमयन्त्याः, मुखं वदनम् नैषधं नलम्, सुखयति स्म आनन्दयामास॥ 18.116 ॥
ह्रीणमेव पृथु सस्मयं कियत् क्लान्तमेव बहु निर्वृतं मनाक्।
कान्तचेतसि तदीयमाननं तत्तदालभत लक्षमादरात्॥ 18.117 ॥
अन्वयः–पृथुलज्जितम् एव कियत् सस्मयं बहु क्लान्तम् एव मनाक् निर्वृतं तदीयम् आननं तदा कान्तचेतसि आदरात् लक्षम् अलभत।
जीवातु–ह्रीणमिति। पृथु एव भूयिष्ठमेव, ह्रीणं लज्जितम्,सुरतकालिकनिजाचरणस्मरणादिति भावः। कियत् किञ्चित् सस्मयं सगर्वं, सुरते कान्तं सन्तोषयितुं निजसामर्त्यस्मरणादिति भावः। तथा बहु एव बाहुल्येनैव, क्लान्तं परिश्रान्तम्, बहुक्षणं व्याप्य सुरतपरिश्रमादिति भावः। ईषत् मनाक् निर्वृतं सुखितम्, कामवेगस्य किञ्चित् प्रशमादिति भावः। तदीयं दमयन्तीसम्बन्धि, तत् लज्जागर्वादिभावसमावेशादतिमनोज्ञम्, आननं मुखम्, तदा तत्काले, सुरतावसाने इत्यर्थः। कान्तचैतसि नलहृदये, आदरात् पुनरपि रमणागहात्, लक्षं व्याजम्, उद्दीपकतया पुनः सुरताय हेतु स्वरूपमित्यर्थः। अलभत प्राप्नोत्, बहुमतमभूदित्यर्थः। सर्वावस्थामनोहरं तन्मुखमिति भावः॥ 18.117 ॥
स्वेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथा यथा।
नैषधस्य दृगपात् तथा तथा चित्रमापदपतृष्णतां न सा॥ 18.118 ॥
अन्वयः–नैषधस्य दृक् स्वेदवारिपरिपूरितं प्रियारोमकूपनिवहं यथा यथा अपात् तथा तथा सा अपतृष्णतां न आपत्-चित्रम्!
जीवातु–स्वेदति। नैषधस्य नलस्य, दृक्र दृष्टिः, स्वेदवारिणा धर्मोदकेन, परिपूरितं सम्भृतम्, प्रियायाः भैम्याः, रोमकूपाणां लोमच्छिद्राणाम्, निवहं समूहम्,यथा यथा येन येन, यावता परिमाणेनेत्यर्थः। अपात् पिबति स्म। पिबतेर्लुङि `गातिस्था-’ इत्यादिना सिचो लुक्। सा दृष्टिः, तथा तथा तेन तेन, तावता परिमाणेनेत्यर्थः। अपतृष्णतां पिपासानिवृत्तिम्, न आपत् नालभत वितृष्णा नाभूदित्यर्थः। इति चित्रम्, आश्चर्यम्, बहुकूपसम्भृतोदकपानेऽपि तृष्णा न अपगता इत विरुद्धमित्यर्थः। लोकोत्तरवस्तुदर्शने तृष्णावर्द्धते एवेति विरोधाभासोऽलङ्कारः॥ 18.118 ॥
वान्माल्यकचहस्तसंयमन्यस्तहस्तयुगाया स्फुटीकृतम्।
बाहुमूलमनया तदुज्ज्वलं वीक्ष्यसौख्यजलधौ ममज्ज सः॥ 18.119 ॥
अन्वयः–वान्माल्यकचहस्तसंयमन्यस्तहस्तयुगया अनया स्फुटीकृतम् तत् उज्जवलं बाहुमूलं वीक्ष्य सः सौख्यजलधौ ममज्ज।
जीवातु–वान्तेति। सः नलः वान्तम्, उद्‌गीर्मम्, परित्यक्तमित्यर्थः। प्रबलरमणवेगजसञ्चालनेनेति भावः। `वान्त’ इत्यत्र `वीत’ इति पाठान्तरं साधु। माल्यं कुसुमस्रक् येन तादृशस्य कचहस्तस्य केशपाशस्य, संयमे बन्धने, न्यस्यं निवेशितम्, हस्तयुगं करद्वयं यथा तादृशया, अनया भैम्या, स्फुटीकृतं हस्तोत्तोलनेन व्यक्तिकृतम्, उज्जवलं सुन्दरम्, तत् अतिमनोहरम्, बाहुमूलं कक्षदेशम् वीक्ष्य दृष्ट्वा, सौख्यजलधौ आनन्दसागरे, ममज्ज निमग्नीभूतः। बाहुमूलदर्शनस्य उद्दीपकत्वादिति भावः॥ 18.119 ॥
वीक्ष्य पत्युरधरं कुशोदरी बन्धुजीवमिव भृङ्गसङ्गतम्।
मञ्जुलं नयनकज्जलैर्निजैः संवरीतुमशकत् स्मितं न सा॥ 18.120 ॥
अन्वयः–कृशोदरी सा निजैः नयनकज्जलैः मञ्जुलं भृङ्गसह्गतं बन्धुजीवम् इव पत्युः अधरं वीक्ष्य स्मितं संवरीतुं न अशकत्।
जीवातु–वीक्ष्यति। कृशोदरीं क्षीणमध्या, सा दमयन्ती, मञ्जुलं मनोहरम्, पत्युः नलस्य, अधरं दशनच्छदम्, निजैः स्वकैः, नयनकज्जलैः नेत्राञ्जनैः, नेत्रचुम्बनसङ्क्रानतैरिति भावः। भृङ्गसङ्गतम् अलिचुम्बितम्, बन्धुजीवं बन्धूकपुष्पम् इव स्थितम् वीक्ष्य दृष्ट्वा स्मितं मन्दहासम्, संवरीतुं निरोद्‌धुम्, न अशक्त न शक्ताभूत्, हासः प्रसक्तः एवेति भावः॥ 18.120 ॥
तां विलोक्य विमुखश्रितस्मितां पृच्छतो हसितहेतुमीशितुः।
ह्रीमतो व्यतरदुत्तरं वधूः पाणिपङ्करिहि दर्पणार्पणाम्॥ 18.121 ॥
अन्वयः–विमुखश्रितस्मितां तां विलोक्य हसितहेतुं पृच्छतः ईशितुः पाणिपङ्करिहि ह्रीमती वधूः दर्फणार्पणाम् उत्तरं व्यतरत्।
जीवातु–तामिति। तां दमयन्तीम्, विमुखं पराङ्मुखं यथा तथा, श्रितस्मितां कृतमन्दहासाम्, विलोक्य दृष्ट्वा, हसितहेतुं स्मितकारणम्, पृच्छतः जिज्ञासयतः, ईशितुः पत्युः नलस्य, पाणिपङ्करुहि करपद्मे, ह्रीमती लज्जावती, वधूः नवोढा भैमी, दर्पणार्पणां मुकुरप्रदानरूपमेव, उत्तरं व्यतरत् अदात्। अधरे कज्जलरेखादर्शनार्थमिति भावः॥ 18.121 ॥
लाक्षयाऽऽत्मचरणस्य चुम्बनाच्चारुभालमवलोक्य तन्मुखम्।
सा ह्रिया नतनताननाऽस्मारच्छेषरागमुदितं पतिं निशः॥ 18.122 ॥
अन्वयः–आत्मचरणस्य चुम्बनात् लाक्षया चारुभालं तन्मुखम् अवलोक्य ह्रिया नतनतानना सा उदितं शेषरागं निशः पतिम् अस्मरत्।
जीवातु–लाक्षयेति। सा भैमी, आत्मचरणस्य निजपादतल्स्य, चुम्बनात् रतिप्रार्थनाकाले ललाटे एव स्पर्सकरणात् हेतोः, लाक्षया अलक्तकेन, निजचरणालक्तकस्पर्शेनेत्यर्थः। चारुभालं रम्यललाटम्, तस्य नलस्य, मुखम् आननम्, अवलोक्य हृष्ट्वा, ह्रिया भर्तृकर्तृकचरमपतनस्मरणजलज्जया, नतनतानना अतिनभ्रमुखी सती, उदितं प्राज्ञोदयम्, शेषरागं तदानीमपि किञ्चिदवशिष्टलौहित्यम्, निशः निशायाः। `पद्दन्नोमास्-’ इत्यादिना निसायाः निश्भावः। पतिं नाथं चन्द्रम्, अस्मरत् स्मृतवती ललाटस्य अर्द्धचन्द्राकृतित्वात् तत्र निजपादालक्तकरागसंस्पर्शाच्च मुखस्य तादृशचन्द्रतुल्यत्वमिति भावः। स्मरणालङ्कारः॥ 18.122 ॥
स्वेदभाजि हृदयेऽनुबिम्बितं वीक्ष्य मूर्त्तमिव हृदूगतं प्रियम्।
निर्ममे धुतरतश्रमं निजैर्ह्रीनताऽतिमृदुनासिकानिलैः॥ 18.123 ॥
अन्वयः–स्वेदभाजि हृदये अनुबिम्बितं हृद्‌गतं मूर्त्तम् इव प्रियं वीक्ष्य ह्रीनता निजैः अतिमृदुनासिकानिलैः धुतरतक्षमं निर्ममे।
जीवातु–स्वेदेति। स्वेदभाजि स्विन्ने, हृदये वक्षसि, अनुबिम्बितं प्रतिबिम्बितम्, अत एव हृद्‌गतं नियतचिन्तया हृदयावस्थितम्, चिन्तनीयत्वादमूर्त्तमपीति भावः। प्रियं कान्तं नलम्, मूर्त्तं मूर्त्तिमन्तमिव, वीक्ष्य दृष्ट्वा, ह्रीनता लज्जाऽवनता, दमयन्तीति शेषः। निजैः स्वीयैः, अतिमृदुभिः अतिकोमलैः; मन्दवेगैरित्यर्थः। नासिकानिलैः निःश्वासमारुतैः, धुतः निरस्तः, रतश्रमः सुरतजनितक्लमः यस्य तादृसम्, निर्ममे चकार, इवेति शेषः। तस्य श्रममपनुदतीव स्थिता इत्युत्प्रेक्षा॥ 18.123 ॥
सूनसायकनिदेशविभ्रमैरप्रतीतरवेदनोदयम्।
दन्तदंशमधरेऽधिगामुका साऽस्पृशन्मृदु चम्च्चकार च॥ 18.124 ॥
अन्वयः–सूनसायकनिदेशविभ्रमैः अप्रतीततरवेदनोदयम् अधरे दन्तदंशम् अधिगामुका सा मृदु अस्पृशत् चमच्चकार च।
जीवातु–सूनेति। सा भैमी, सूनसायकस्य पुष्पबाणस्य, कामस्येत्यर्थः। निदेशविभ्रमैः आज्ञाविलासैः, अप्रतीततरः अतिशयेनाज्ञातः, `अप्रतीतचरः’ इति पाठः साधुः। अप्रतीतचरः पूर्वं किमपि अज्ञात इत्यर्थः। वेदनोदयः व्यथोत्पत्तिः यस्मिन् तं तादृशम्, मदनपारवश्यात् प्राक् अज्ञानमानदुःखमित्यर्थः। अधरे निजोष्ठे, दन्तदंशं नलस्य दन्तेन दंशनम्, अधिकामुका जानती, वेदनया अनुभवन्ती सती। `लषपत-’ इत्यादिना उकञ्, `नलोक-’ इत्यादिना षष्ठीप्रतषेधः। मृदु मन्दं यथा तथा, अस्पृशत् करतलेन दन्तदंशं परामृशदित्यर्थः। चमच्चकार च किमेतत्? कदा जातमिति साश्चर्या बभूव च॥ 18.124 ॥
वीक्ष्य वीक्ष्य करजस्य विभ्रमं प्रेयसोऽर्जितमुरोजयोरियम्।
कान्तमैक्षत हसस्पृशं कियत्कोपसङ्कुचितलोचनाञ्चला॥ 18.125 ॥
अन्वयः–प्रेयसा उरोजयोः अर्जितं करजस्य विभ्रमं वीक्ष्य-वीक्ष्य कियत्कोपसङ्कुचितलोचनाञ्चला इयं हसस्पृशं कान्तम् ऐक्षत।
जीवातु–वीक्ष्येति। इयं भैमी, प्रेयसा प्रियतमेन नलेन, अर्जितम् उत्पादितम्, कृतिमित्यर्थः, उरोजयोः निजकुचयोः करजस्य विभ्रमं नखक्षतरूपं विलासम्, वीक्ष्य वीक्ष्य दृष्ट्वा दृष्ट्वा, कियत् किञ्चित्, कोपेन रोषेण, सङ्कुचितौ कुटिलीकृतौ,लोचनाञ्चलौ नेत्रप्रान्तौ, कटाक्षावित्यर्थः। यया सा तादृशी सती, हसं हास्यम्, स्पृशति परामृश्यतीति हसस्पृशं हसन्तम्, कान्तं नलम्, ऐक्षत दृष्टवती॥ 18.125 ॥
रोषभूषितमुखीमिव प्रियां वीक्ष्य भीतिदरकम्पिताक्षरम्।
तां जगाद स त वेद्मि तन्वि! तं ब्रूहि शास्मि तव कोपरोपकम्॥ 18.126 ॥
अन्वयः–रोषभूषितमुखीम् इव तां प्रियां वीक्ष्य सः भीतिदरकम्पिताक्षरं जगाद-तन्वि, तव कोपरोपकं न वेद्मि, तं ब्रूहि, शास्मि।
जीवातु–रोषेति। सः नलः, तां पूर्वोक्तरूपकोपसङ्गकुचितलोचनाञ्चलाम्, प्रियां दमयन्तीम्, रोषेण कोपेन,भूषितमुखीम् आरक्तवर्णतया अलङ्कृताननामिव, स्थितामिति शेषः। वीक्ष्य विलोक्य, भीत्या भयेन, दरकम्पिताक्षरम् ईषच्चलाक्षरं यथा तथा, जगाद उवाच। किमिति? तन्वि! हे कृशाङ्गि! तव ते, कोपरोपकं क्रोधजनकम्, जनमिति शेषः। न वेद्मि न जानामि। तम् अपराधिनं जनम्, ब्रूहि कथय। शास्मि दण्डयामि। अहमिति शेषः॥ 18.126 ॥
रोषकुङ्कुमविलेपनान्मनाक् नन्ववाचि कृशतन्ववाचि ते।
भूदयुक्तसमयैव रञ्जना माऽऽनने विधुविधेयमानने॥ 18.127 ॥
अन्वयः–ननु कृशतनु, अवाचि विधिविधेयमानने ते आनने अयुक्तसमया एव रोषकुङ्गुमविलेपनात् मनाक् रञ्जना मा भूत्।
जीवातु–रोषेति। ननु अथे! कृशतनु! क्षीणाङ्गि! सम्बुद्धौ नदीह्रस्वः। अवाचि अवनते। अवपूर्वादञ्चतेः क्विन्। अवाचि वाचंयमे, वाग्‌विरहिते इत्यर्थः। तथा विधुना चन्द्रेणापि, विधेया कर्त्तव्या, मानना पूजायस्य तादृशे विधोरपि उत्कृष्टे इत्यर्थः। ते तव, आनने मुखे, अयुक्तः अनुचितः, समयः कालो यस्याः तादृशी, रमणाकाङ्क्षाया अपरितृप्तत्वेन इदानीं प्रसन्नताया एवौचित्यादिति भावः। रोषः कोप एव, कुङ्‌कुमं काश्मीरजम्, तस्य विलेपनात् प्रलेपाद्धेतोः, मनाक्, ईषदपि, रञ्जना रक्तिमा, मा भूत्एव न भवत्वेव। निष्कलङ्के मुके रोषकलङ्कस्य नेदानीं कालः इति निष्कर्षः॥ 18.127 ॥
क्षिप्रमस्यतु रुजा नकादिजास्तावकीरमृतशीकरं किरत्।
एत्तदर्थमिदमर्जितं मया कण्ठचुम्बि मणिदाम कामदम्॥ 18.128 ॥
अन्वयः–कण्ठचुम्बि कामदम् अमृतशीकरं किरत् मणिदाम नखादिजाः तावकीः रुजाः क्षिप्रम् अस्यतु, इदं मया एतदर्थम् अर्जितम्।
जीवातु–क्षिप्रमिति। हे प्रिये! कण्ठचुम्बि गलदेशविलम्बि, कामदम् अभीष्टपूरकम्, इदं दृश्यमानम्, मणिदाम् रत्नमालिका। अमृतशीकरं सुधाबिन्दुम्, किरत् वर्षत् सत्, नखादिजाः नखदन्तक्षतादिजन्याः, तावकीः त्वदीयाः, रुजाः पीडाः, भिदादित्वादङ्प्रत्ययः। क्षिप्रे शीघ्रम्, अस्यतु दूरीकरोतु, मया एतदर्थं क्षतादिजपीजानिरासार्थम् एव, अर्जितमं सङ्गृहीतम्, इदं यणिदामेति शेषः॥ 18.128 ॥
स्वापराधमलुपत् पयोधरे मत्करः सुरधनुः करस्तव।
सेवया व्यजनचालनाभुवा भूय एव चरणौ करोतु वा॥ 18.129 ॥
अन्वयः–ते पयोधरे सुरधनुः करः मत्करः व्यजनचालनाभुवा सेवया स्वापराधम् अलुपत्, भूयः एव तव चरणौ करोतु?
जीवातु–स्वेति। हे प्रिये! तव ते, पयोधरे स्तने, मेघे च। `पयोधरः कोषकारे तारिकेले स्तनेऽपि च। कशेरुमेधयोः पुंसि’ इति मेदिनी। सुरधनुः इन्द्रचापाकृति नखाङ्गम्, इन्द्रचापञ्च करोतीति तादृशः। `दिवाविबा-’ इत्यादिना टप्रत्ययः। मत्करः मम पाणिः, करः सूर्यकिरणश्च, व्यजनस्य तालः वृन्तस्य, चालनया संचालनेन, वायुप्रवाहणेन च भवति सम्पादयतीति तादृशया, सेवया परिचर्यया, स्वापराधं नखक्षतकरणजनितनिजदोषम्, अलुपत् नुनोद, प्रागेवेति भाव। लुम्पेः लुदित्त्वात् च्लेरङादेशः। भूय एव पुनरपि, चरणौ वा तव पादौ, वा, करोतु धातूनामनेकार्थत्वात् सेवतामित्यर्थः। सामान्ये विशेषलक्षणा॥ 18.129 ॥
आननस्य मम चेदनौचिती निर्दय दशनदंशदायिनः।
शोध्यते सुदति। वैरमस्य तत् किं त्वया वद विदश्य नाधरम्?॥ 18.130 ॥
अन्वयः–निर्दयं दशनंदशदायिनः मम आननस्य अनौचिती चेत् सुदति, त्वया (मम) अधरं विदश्य वद, तत् अस्य वैरं किं न शौध्यते?
जीवातु–आननस्येति। हे प्रिये! निर्दयं निष्कृपं यथा तथा, दशनदंशं दन्तेन दंशनम्, ददाति करोतीति तादृशस्य, ते अधरं दष्टवतः इत्यर्थः। मम आननस्य मन्मुखस्य, अनौचिती अन्यायता, चेत् यदि तर्हि हे सुदति! सुन्दरदशने! त्वया भवत्या, अधरं मम ओष्ठम्, विदश्य-दष्ट्वा, दन्तक्षतं कृत्वेति यावत्। अस्य मदाननस्य, तत् पूर्वोक्तरूपम्, वैरं शभुता, किं कथं शोध्यते? न निर्यात्यते? न प्रतिकियते? इत्यर्थः। वद तत् कथय। मद्दशनदंशस्य प्रतिदंशनमेव प्रतीकारः इति भावः॥ 18.130 ॥
दीपलोपमफलं व्यधत्त यस्ते पटाहृतिषु मच्छिखामणिः।
नो तदागसि परं समर्थना सोऽयमस्तु पदपातुकस्तव॥ 18.131 ॥
अन्वयः–ते पटाहृतिषु यः मच्छिखामणिः दीपलोपम् अफलं व्यधत्त, तदागसि परं समर्थना नो, सः अयं तव पदपातुकः अस्तु।
जीवातु–दीपेति। हे प्रिये! ते तव, पटाहृतिषु वस्त्राकर्षणकालेषु, यः यच्छिखामणिः मम चूडारत्नम्, दीपलोपं त्वत्कर्तृकदीपनिर्वापणम्, अफलं व्यर्थम्व्यधत्त चकार, स्वप्रभया आलोकोत्पादनात् तव प्रयत्नं निष्फलीचकार इत्यर्थः। तदागसि तस्मिन् अपराधे, परम्, उत्कृष्टम्, समर्थना अनुमोदनम्, तदपराधस्य यौक्तिकत्वसमर्थनमित्यर्थः। नो न, अस्तीति शेषः। अत एव सः अयं शिखामणिः, तव ते, पदापदुकः पादपाती `लषपत-’ इत्यादिना उकञ्। अस्तु भवतु। प्रणिपातेन एवापराधप्रमार्जनं करोतु इत्यर्थः॥ 18.131 ॥
इत्थमुक्तिमुपहृत्य कोमलां तल्पचुम्बिचिकुरश्चकार सः।
आत्ममौलिमणिकान्तिभङ्गिनीं तत्पदारुणसरोजसङ्गिनीम्॥ 18.132 ॥
अन्वयः–इत्थं कोमलाम् उक्तिम् उपहृत्य तल्पचुम्बिचिकुरः सः आत्ममौलिमणिकान्तिभङ्गिनी तत्पदारुमसरोजसङ्गिनीं चकरा।
जीवातु–इत्थमिति। सः नलः, इत्थम् उक्तप्रकाराम्,कोमलां ललित पदाम्, उक्तिं वाणीम्,उपहृत्य उपायनीकृत्य, तस्या। सन्तोषविधानाय उपढौकनवत् प्रयुज्येत्यर्थः। तल्पचुम्बित शय्‌यास्पर्शिनः, मस्तकनमनादिति भावः। चिकुराः स्वकेशाः यस्य सः तादृशः सन्, आत्ममौलिमणिकान्तिः निजशिरोरत्नप्रभा एव, भङ्गिनी तरङ्गिणी, तरङ्गप्रवाहवत् कुटिलतया प्रसरणात् नदीत्यर्थः। ताम्, तत्पदे भैमीचरणावेव, अरुणसरोजे कोकनदद्वयम्, तत्सङ्गिनीं तद्युक्ताम् चकरा विदधे। तत्पादयोर्नमश्चकार इत्यर्थः। नद्यो हि रक्तनीलकमलदियुक्ता भवन्तीति प्रसिद्धिः॥ 18.132 ॥
ततपदाखिलनखानुबिम्बनैः स्वैः समेत्य समतामियाय सः।
रुद्रभीतिविजिगीषया रतिस्वामिनोपदशमूर्त्तिताभृता॥ 18.133 ॥
अन्वयः–स्वैः तत्पदाखिलनखानुबिम्बनैः समेत्य सः रुद्रभीतिविजिगीषया रतिस्वामिनोपदशमूर्त्तिताभृता समाताम् इयाय।
जीवातु–तदिति। सः नलः, स्वैः आत्मीयैः, तस्याः दमयन्त्याः, पदयोः चरणयोः, अखिलेषु समग्रेषु, दशस्वेवेति यावत्। नखेषु अनुबिम्बनैः, प्रतिबिम्बैः, समेत्य मिलित्वा, दशभिः मेलनेन एकादशसङ्ख्यको भूत्वेत्यर्थः। रुद्रेभ्यः एकादशभ्यः रुद्रदेवताभ्यः, भीतेः भयस्य, विजिगीषया जेतुमिच्छया, भयात् परित्रातुमिच्छया इत्यर्थः। उप समीपे दशानाम् उपदशाः एकादश इत्यर्थः। `सङ्ख्याव्यया-’ इत्यादिना बहुव्रीहौ समासान्तो डच् टिलोपश्च। मूर्त्तयः यस्य तस्य भावः तत्ता तां बिभर्त्तीति तादृशेन, रतिस्वामिना कामेन, समतां सादृश्यम्, इयाय प्राप। एकादशरुद्रजिगीषया एकादशमूर्त्तिधारी साक्षात् काम इव अलक्ष्यत इत्युत्प्रेक्षा॥ 18.133 ॥
आख्यतैष कुरु कोपलोपनं पश्य नश्यति कृशा मधोर्निशा।
एवमेव तु निशान्तरे वरं रोषशोषमनुरोत्स्यसि क्षणम्॥ 18.134 ॥
अन्वयः–एषः आख्यत–कोपलोपनं कुरु, पश्य कृशा मधोः निशा नश्यति, एवम्, एव निशान्तरे क्षणं रोषशेषम् अनुरोत्स्यसि तु वरम्।
जीवातु–आख्यतैष इति। हे प्रिये! कोपस्य क्रोधस्य, लोपनं संहरणम्, कुरु विधेहि, क्रोधं परित्यज इत्यर्थः। यतः कृशा क्षीणा, अल्पपरिमाणा इत्यर्थः। मधोः वसन्तस्य, निसा रात्रिः, नश्यति अपगच्छति। पश्य अवलोकय, निशान्तरे तु अन्यस्यां रात्रौ पुनः, एवमेव इत्थमेव, क्षणं क्षणमात्रम्, न तु चिरमिति भावः। रोषशेषम् अविशिष्टक्रोधम् अनुरोत्स्यसि अनुरिष्यसि, वरं तत्तु किञ्चित् प्रियम्, एषः नलः, आख्यत इति आह स्म। चक्षिङो लुङि ख्याञादेशे तङ्,`अस्यतिवक्तिख्यातिभ्योऽङ्’ इति च्लेङादेशः॥ 18.134 ॥
साथ नाथमनयत् कृतार्थतां पाणिगोपितनिजाङ्ग्रिपङ्कजा।
तत्प्रणामधुतमानमाननं स्मेरमेव सुदती वितन्वती॥ 18.135 ॥
अन्वयः–अथ पाणिगोपितनि जाङ्घ्रिपङ्कजा सुदती सा तत्प्रणामधुतमानम् आननं स्मेरं वितन्वती एव नाथं कृतार्थताम् अनयत्।
जीवातु–सेति। अथ प्रियप्रणामानन्तरम्, पाणिभ्यां कराभ्याम्, गोपिते तच्छिरःस्पर्शभयात् छादिते, निजाङ्घ्रिपङ्कजे स्वीयपादपद्‌मयुगलं यथा तादृसी, सुदती सुन्दरदन्तशालिनी, सा भैमी, तस्य नलस्य, प्रणामेन पादपतनेन, धूतमानं दूरीभूतकोपम्, अपगतकोपचिह्नमित्यर्थः, आननं स्वमुखम्, स्मेरं सस्मितम्, वितन्वती एव कुर्वती एव, नाथं स्वामिन नम्, कृतार्थतां पूर्णकामम्, अनयत् प्रापिवती॥ 18.135 ॥
तौ मिथोरतिरसायनात् पुनः सम्बुक्षुक्षुमनसौ बभूवतुः।
चक्षमे न तु तयोर्मनोरथं दुर्जनी रजनिरल्पजीविता॥ 18.136 ॥
अन्वयः–तौ मिथः रतिरसायनात् पुनः सम्बुभुक्षुमनसौ बभूवतुः तु दुर्जनी अल्पजीविता रजनिः तयोः मनोरथं न चक्षमे।
जीवातु–ताविति। तौ भैमीनलौ, मिथः अन्योऽन्यम्, रतिः अनुरागः एव, रसायनं जरादिजातावसादनाशकौषधविशेषः तस्मात्, `यज्जराव्याधिविध्वंसि भेषजं तद्रसायनम्’ इति वाग्भटोक्तेः। प्रथमसुरतजावसादनाशकौषधविशेषसेवनेन पुनः प्रवृत्तिहेतोः, पुनः भूयः, सम्बुभुक्षुणी सम्भोक्तुमिच्छुनी, मनसी चित्ते ययोः तादृसौ सम्भोक्तुकामौ, बभूवतुः जज्ञाते। तु किन्तु, दुर्जनी दुष्टजन्मा, पारसुखद्वेषित्वादिति भावः। अल्पजीविता वसन्तरात्रीणाम्, अतिह्रस्वत्वात् अचिरस्थायिनी, अल्पायुष्का च, रजनिः रात्रिः काचित् स्त्री च, तयोः दम्पत्योः, मनोरथम् अभिलाषम्, न चक्षमे न सेहे। शीघ्रमेव अवसितत्वात् विघ्नाचरणाच्चेति भावः। दुर्जनः परशुभासहोऽल्पजीवी चेति युक्तम्। रात्रे, अल्पावशिष्टत्वात् तयोः, पुनः सम्भोगवाञ्छा न पूर्णा इति तात्पर्यम्॥ 18.136 ॥
स्नप्तुमात्तशयनीययोस्तयोः स्वैरमाख्यत वचः प्रियां प्रियः।
उत्सवैरधरदानपानजैः सान्तरायपदमन्तराऽन्तरा॥ 18.137 ॥
अन्वयः–स्वप्तुम् आत्तशयनीययोः तयोः प्रियः प्रियाम् अधरदानपानजैः उत्सवैः अन्तरा अन्तरा सान्तरायपदं वचः स्वैरम् आख्यत।
जीवातु–स्वप्तुमिति। स्वप्तुं निद्रातुम्, आत्तशयनीययोः आश्रिततल्पयोः तयोः प्रिययोः मध्ये,प्रियः नलः, प्रियां भैमीम्, अधरयोः रदनच्छयोः, दानात् अन्योऽन्यं चुम्बनाय समर्पणात्, तथा पानात् चुम्बनाच्च, जायन्ते उत्पद्यन्ते इत तादृशः, उत्सवैः आनन्दैः, अन्तराऽन्तरा मध्ये मध्ये, दानपानयोर्मध्ये मध्ये इत्यर्थः। सान्तरायाणि सप्रतिबन्धानि, दानपानरूपैर्विघ्नैः विच्छिद्य विच्छिद्य प्रयोज्यमानानीत्यर्थः। पदानि सुप्तिङन्तरूपशब्दाः यस्निन् तत् तादृशम् वचः वाक्यम्, निजप्रेमज्ञापकमिति भावः। स्वैरं यथेच्छम्, असम्बद्धरूपं यथा तथेत्यर्थः. आख्यत अवोचत्॥ 18.137 ॥
देवदूत्यमुपगत्यनिर्दयं धर्मभीतिकृततादृशागसः।
अस्तु सेयमपराधमार्जना जीवितावधि नलस्य वश्यता॥ 18.138 ॥
अन्वयः–देवदूत्यम् उपगत्य निर्दयं धर्मभीतिकृततादृशागसः नलस्य जीवितावधि सा इयं वश्यता अपराधमार्जना अस्तु।
जीवातु–किं तत् वाक्यं तदेवाष्टभिराटष्टे-देवेत्यादि। हे प्रिये! देवदूत्यं देवानां दूतकृत्यम्, उपगत्य स्वीकृत्य, देवदौत्यस्वीकारहेतोरित्यर्थः। निर्दयं निष्करुणं यथा तथा, धर्मभीत्या प्रतिश्रुतिभङ्गजनितधर्मलोपभयेन, कृतम्, अनुष्ठितम्, तादृक् तथाभूतम्, इन्द्रादिवरणार्थमनुरोधात् प्रतिकूलाचरणरूपमित्यर्थः। आगः अपराधः येन तादृशस्य, नलस्य अपराद्धस्य मम सम्बन्धिती, जीवितावधि यावज्जीवम्, सा इयं क्रियमाणेत्यर्थः। वश्यता तव आज्ञानुवर्त्तिता, `वशङ्गतः’ इति यत्प्रत्ययः। अपराधस्य दोषस्य, मार्जना परिहारः, क्षालनीत्यर्थः। अस्तु भवतु। यावज्जीधं दास्येनापराधमिमं क्षालयिष्यामीत्यर्थः॥ 18.138 ॥
स क्षमः सुमुखि! यत्त्वदीक्षणं तच्च राज्यमुरु येन रज्यसि।
तन्नलस्य सुधयाऽभिषेचनं यस्त्वदङ्गपरिरम्भविभ्रमः॥ 18.139 ॥
अन्वयः–सुमुखि, यत् त्वदीक्षणं नलस्य सः क्षमः, येन रज्यसि तत् च उरु राज्यम्, यः त्वदङ्गपरिरम्भविभ्रमः तत् सुधया अभिषेचनम्।
जीवातु–स इति। सुमुखि! हे सुवदनि! यत् त्वदीक्षणं तव दर्शनम्, तव दर्शनलाभ इत्यर्थः। नलस्य नैषधस्य मम, सः क्षणः उत्सवः। `अथ क्षण उद्धर्षो मह उद्धव उत्सवः’ इत्यमरः। अनुपमानन्दजनकत्वादिति भावः। येन कर्मणा द्रव्येण वा, रज्यसि रक्ता भवसि, प्रीयसे इत्यर्थः। त्वमिति शेषः। `कूषिरञ्जोः’ इत्यादिना श्यन्, परस्मैपदञ्च। तच्च तदेव, उरु महत्, राज्यं राजत्वस्वरूपम्, तव प्रसन्नवदनद्रशनसुखस्य राज्यसुखादपि अधिकसुखकरत्वादिति भावः। यः त्वदङ्गस्य तव वक्षस्थलाद्यवयवस्य, परिरम्भविभ्रमः आलीङ्गनलीला, तत् एव सुधया पीयूषेण, अभिषेचनं सिञ्चनम्, अमृताभिषेचनवदङ्गानां प्रहर्षजननमित्यर्थः। अवसन्नस्यापि देहस्य उत्तेजकत्वादिति भावः। त्वत्सम्बन्धं विना मे न किञ्चिदपि रोचते इति निष्कर्षः॥ 18.139 ॥
शर्म किं हृदि हरेः प्रियाऽर्पणं? किं शिवाऽर्द्धघटनं शिवस्य वा?।
कामये तव मयेह तन्वि! तं नन्वहं सरिदुदन्वदन्वयम्॥ 18.140 ॥
अन्वयः–हरेः हृदि प्रियार्पणं किं शर्म? शिवस्य वा शिवार्द्धघटने किम्? ननु तन्वि, इह अहं मया तव तं सरिदुदन्वदन्वयं कामये।
जीवातु–शर्मेति । हरेः विष्णोः, हृदि वक्षसि, प्रियायाः हरिप्रियायाः लक्ष्मीदेव्याः, अर्पणं दानम्, स्थानदानमित्यर्थैः। वक्षसि धारणमिति यावत्। किं शर्म? सुखं किम्? नैव सुखकरमित्यर्थः। सर्वथा एकीभावाभावादिति भावः। वा अथवा, शिबस्य महादेवस्य,शिवायाः गौर्याः अर्द्धे अर्द्धाङ्गे, घटनं निजार्द्धाङ्गसम्मेलनम्, अर्द्धनारीश्वरभावमित्यर्थः। किं शर्म? सुखकरं किम्? नैवेत्यर्थः। उभयोरर्द्धार्द्धाङ्गमात्रयोजनेन सर्वथा एकीभावाभावादिति भावः। तर्हि किं तत् शर्म, यत् त्वं कामयसे? इत्याह-ननु तन्वि! हे कृशाङ्गि! इह अस्मिन् लोके, अहं नलः, मया सह, तव ते, तं प्रसिद्धत्वेन सर्वथा प्रर्थनीयमित्यर्थः। सरिदुदन्वतोः नदीसमुन्द्रयोः, अन्वयं मेलनम्, तयोः संयोगमिव संयोगमित्यर्थः। नदीसागरयोरिव एकात्मत्वेन मिश्रणमिति यावत्। कामये प्रार्थये। मिथुनान्तरमेलवत् सरित्सागरमेलने भेदानवभासात् इति भावः॥ 18.140 ॥
दीयतां मयि दृढं ममेति धीर्वक्तुमेवमवकाश एव कः?।
यद्विध्रूय तृमवद्‌दिवस्पतिं क्रीतवनत्यसि दयापणेन माम्॥ 18.141 ॥
अन्वयः–मयि मम इति धीः दृढं दीयताम्-एवं वक्तुम् अवकाश एव कः? यत् दिवस्परिं तृणवत् विधूय दयापणेन मां क्रीतवती असि।
जीवातु–दीयतामिति। हे प्रिये! मयि मद्विषये, मां प्रतीत्यर्थः। मम इति धीः तव ममत्वबुद्धिः, दृढं निश्चलं यथा तथा, दीयताम् अर्प्यतां, स्थआप्यतामित्यर्थः। भवत्या इति शेषः। एवम् इत्थम्, वक्तुं कथयितुम्, अवकाशः अवसरः एव, कः? नैवास्तीत्यर्थः। अप्राप्तमेवार्थं लोकाः प्रार्थयन्ति-यत् यस्मात्, दिवस्पतिम् इन्द्रमपि, तृमवत् तृम इव, विधूय निरस्य, परित्यज्य इत्यर्थः. दयया एव कृपारूपेणैव, पणेन मूल्येन, मां नलम्, क्रीतवती स्वीकृतवती, असि भवसि। अतः क्रीतदासे मयि प्रभो ते ममत्वबुद्धिविषये प्रर्थनाऽवकाशो नास्त्येवेति भावः॥ 18.141 ॥
श्रृण्वता निभृतमालिभिर्भवद्धाग्विलासमसकृन्मया किल।
मोघराघवविसर्ज्यजानकीश्रानिणी भयचलाऽसि वीक्षिता॥ 18.142 ॥
अन्वयः–आलिभिः असकृत् भवद्‌वाग्विलासं निभृतं श्रृण्वता मया मोधराघवविसर्ज्यजानकीश्राविणि भयचला वीक्षिता असि किल।
जीवातु–श्रृण्वतेति। हे प्रिये! आलिभिः सखीभिः सह, भवत्याः तव, वाग्विलासं कथोपकथनव्यापारमित्यर्थः। सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः। असकृत् अनेकशः, निभृतं गूढं यथा तथा, अन्तराले अवस्तायआत्मगोपनं कृत्वेत्यर्थः। श्रुण्वता आकर्णयता, मया नलेन, मोघं व्यर्थम्, सर्वसमक्षमेव अग्निपरीक्षया विशुद्धितायां प्रमाणितायामपि अकारणमेवेत्यर्थः। राघवेण राचन्द्रण, विसर्ज्यां त्याज्याम्, जानकीं सीताम्, श्रृणोति आकर्णयतीति तादृशी, किलेति वार्त्तायाम्, उत्तरकाले उत्पत्स्यमानो रामचन्द्रः मिथ्यालोकापवादेन धर्मपत्नीं सीतां विसर्जयिष्यतीति समागतैः त्रिकालज्ञमुनिभिः वर्णितमुपाख्यानं सखीमुखेभ्यः श्रृण्वतीत्यर्थः। अत एव भयेन आत्मनोऽपि तादृशश्चेत् सम्भवेदिति भीत्या, चला सकम्पा, त्वमिति शेषः। वीक्षिता दृष्टा, असि भवसि। अत एव मयि ते ममत्वबुद्धौ नास्ति वचनावकाश इति भावः॥ 18.142 ॥
(युगम्)
छुप्तपत्रविनिमीलितक्षुपात् कच्छपस्य धृतचापलात् पलात्।
त्वत्सखीषु सरटाच्छिरोधुतः स्वं भियोऽभिदधतीषु वैभवम्॥ 18.143 ॥
त्वं मदीयविरहान्मया निजां भीतिमीरितवती रहः श्रुता।
नोज्झितास्मि भवतीं तदित्ययं व्याहरद्वरमसत्यकातरः॥ 18.144 ॥
अन्वयः–छुप्तपत्रविनिमीलितक्षुपात्, धृतचापलात् कच्छपस्य पलात्, शिरोधुतः सरटात् स्वं भियः वैभवम् अभिदधतीषु त्वत्सखीषु पलात्, शिरोधुतः सरटात् स्वं भियः वैभवम् अभिदधथीषु त्वत्सखीषु मदीयविरहात् निजां भीतिम् ईरितवती त्वं रहः मया श्रुता-तत ्सत्यकातरः अयम् इति वरं व्याहरत्-`भवतीं न उज्झिता अस्म’
जीवातु–अथ युग्मेनाह, छुप्तेत्यादि। छुप्तेन स्पृष्टेन, स्पर्शमात्रेणेत्यर्थः। क्षुप्तेति क्वचित्पाठः। `छुपस्पर्शे’ अयं पकारान्तस्तौदादिकोऽनिटश्च। पत्रेषु पर्णेषु, यद्वा-छुप्तपत्रः स्पृष्टपर्ण एव, विनीमीलितः सङ्कुचितः, यः क्षुपः ह्रस्वशाखशिफक्षुद्रवृक्षविशेषः, लज्जालुसं5कक्षुद्रशाखामूलविशिष्टवृक्षः इत्यर्थः, तस्मात्। `ह्रस्वशाखशिफः क्षुपः’ इत्यमरः। निरिन्द्रियस्यापि सेन्द्रियवत् व्यवहारदर्शनेन भौतिकोऽयमिति त्रासादिति भावः। तथा धृतचापलात् पुनः पुनः कृतङ्कोचविस्ताररूपचाञ्चल्यात्, कच्छपस्य कमठस्य, पलात् मांसात्, शुण्डारूपादिति यावत्। अस्थिवत् कठिनपदार्थमध्यात् सहसा कोमलमांसनिःसरणप्रवेशयोः अन्यत्र कुत्राप्यदर्शनजनितत्रा सादिति भावः। तथा शिरोधुतः शिरो मस्तकं धुनोति कम्पयतीति तादृशात् सदा चालितमस्तकात्, सरटात् कृकलासात्, तस्य आकारप्रकारयोरस्वाभाविकत्वदर्शनजनितभयादिति भावः। वाक्यत्रेयेऽपि अह बिभेमीति शेषः। त्वत्सखीषु तव सहचरिषु, रहो निर्जने, स्वं स्वकीयं, भियः भयस्य, वैभवं सम्पदम्, भयातिरेककारणमित्यर्थः। अभिदधतीषु वर्णयन्तीषु सतीषु, युष्माकं का कस्मात् बिभेषि? इति परस्परालोचनायां तव सखीषु एकैका उक्तरूपं व्याहरन्तीसु सतीषु इत्यर्थः। त्वमिति। मदीयविरहात् मम विच्छेदात्, निजां स्वकीयाम्, भीतिं भयम्, ईरितवती उक्तवती, त्वं भवती; मया नलेन, श्रुता आकर्णिता, आर्यपुत्रविरहाशङ्का एव मां भापयति इति त्वदुक्तिः मया श्रुतेत्यर्थः। तत् तस्मात् तव भयस्मरणादित्यर्थः। भवतीं त्वाम्, न उज्झितास्मि न त्यक्ष्यामि। उज्झतेः लुटि मिप्। अहमिति शेषः। असत्यकातरः अनृतभीतः, अयं नलः, इति इत्थम्, वरम् अपरित्यागरूपं वरम्, व्याहरत् अवोचत्। दमयन्तीं वरं ददौ इत्यर्थः॥ 18.143,144 ॥
सङ्गमय्य विरहेऽस्मि जीविका यैव वामथ रताय तत्क्षणम्।
हन्त दत्थ इति रुष्टयाऽऽवयोर्निद्रयाऽद्य किमु नोपसद्यते?॥ 18.145 ॥
अन्वयः–या एव विरहे वां सङ्गमय्य जीविका अस्मि, हंत, अथ तत्क्षणं रताय तद्थः-इति रुष्टया निद्रया अद्य किम् आवयोः न उपसद्यते?
जीवातु–सङ्गमय्येति। या एव या अहं निद्रा, विरहे परिणयात् पूर्वं विच्छेददशायाम्, वां युवाम्, सङ्गमय्य मेलयित्वा, स्वप्नसङ्गतिसुखम् अनुभाव्येत्यर्थः। जीविका जीवितवती, युवयोर्जीवनरक्षाकारिणीत्यर्थः। अस्मि भवामि। अथ अनन्तरम्, परिमयात् परमिदानीमित्यर्थः। तस्याः मम निद्राया एवेत्यर्थः। क्षणं समयम्, रात्रिरूपं कालमित्यर्थः। रताय सुरताय, दत्थः अर्पयतः, क्षणं समयम्, रात्रिरूपं कालमित्यर्थः। रताय सुरताय, दत्थः अर्पयथः, युवामिति सेषः। तस्मिन् समये युवां मां परित्यज्य सुरतं प्रपद्यथः इत्यर्थः। ददातेर्लटि थस्। हन्त इति खेदे, इति अस्माद्धेतोः, किमु किम्, इत्यत्प्रेक्षा, रुष्टया, क्रुद्धया, निद्रया स्वापेन, अद्य अस्यां रात्रौ, आवयोः तव मम च, न उपसद्यते? न सन्निकृष्यते? न समीपे आगम्यते? इत्यर्थः। सीदतेर्भावे लट्। निद्रां लब्धु चेष्टायां कृतायामपि तदलाभेन नलस्योक्तिरियम्॥ 18.145 ॥
ईदृशं निगदति प्रिये दृशौ सम्मदात् कियदियं न्यमीमिलत्।
प्रातरालपति कोकिलं कलं जागरादिव निशः कुमुद्वती॥ 18.146 ॥
अन्वयः–प्रिये सम्मदात् ईदृशं निगदति, प्रातः कोकिले कलम् आलपति निशः जागरात् कुमुद्वती इव इयं किञ्चित् दृशौ न्यमीमिलत्।
जीवातु–ईदृशमिति। प्रिये नले, सम्मदात् सन्तोषात्, यथेष्टसम्भोगसुखानुभवजनितानन्दादित्यर्थः। ईदृशम्, ईदृक् वाक्यम्, निगदति कथयति सति, तथा प्रातः तदा निशावसानात् उषसि, कोकिले पिके, कलं मधुरास्फुटं यथा तथा, आलपति कूजति च सति, निशः रात्रे, सम्बन्धिनः, जागरात् जागरणात् हेतोः, कुमुदपक्षे-रात्रौ प्रस्फुटनात्, अन्यत्र-सुरतव्यापारेम निद्रापरिहारादित्यर्थः। कुमुद्वतीव कुमुदलतेव कुमुदमिवेत्यर्थः। इयं भैमी, कियत् किञ्चित्, दृशौ नेत्रे, न्यमीमिलत् निमीलितवती, `भ्राजभासः’ इत्यादिना विकल्पादुपधाह्रस्वः, `दीर्घो लघोः’ इत्यभ्यासदीर्घः॥ 18.146 ॥
मिश्रितोरु मिलिताधरं मिथः स्वप्नवीक्षितपरस्परक्रियम्।
तौ ततोऽतु पररम्भसम्पुटे पीडनां विदधतौ निदद्रतुः॥ 18.147 ॥
अन्वयः–ततः अनु तौ मिथः मिश्रितोरु मिलिताधरं स्वप्नवीक्षितपरस्परक्रियं परिरम्भसम्पुटे पीडनां विदधतौ निदद्रतुः।
जीवातु–मिश्रितेति। ततः दमयन्त्याः दृङ्‌निमीलनात्, अनु पश्चात्, तौ भैमीनलौ, मिथः परस्परम्, मिश्रितौ संशिलष्टौ, उरू द्वयोः सक्थिनी यस्मिन् तद्यथा तथा, मिलितौ स्पृष्टौ, अधरौ रदनच्छदौ यस्मिन् कर्मणि तत् यथा तथा, स्वप्ने वासनावशात् निद्राकालिकविषयानुभवे, वीक्षिताः दृष्टाः, परस्परक्रियाः अन्योऽन्यचुम्बनादिव्यापारा यस्मिन् तत् यथा तथा च, परिरम्भसम्पुदे आलिङ्गनरूपपुटके, पीजनां प्रगाढपेषणम्, विदधतौ कुर्वन्तौ सन्तौ, निदद्रतुः सुषुपतुः, निद्रासुखम् अनुबभूवतुरित्यर्थः॥ 18.147 ॥
तद्यातायातरंहश्छलकलितरतिश्रान्तिनिःश्वासधाराऽजस्रव्यामिश्रभावस्फुटकथितमिथः प्राणभेदव्युदासम्।
बालावक्षोजपत्राङ्कुरकरिमकरीमुद्रितोर्वीन्द्रवश्रश्चिह्नाख्यातैकभावोभयहृदयमगात् द्वन्द्वमानन्दनिद्राम्॥ 18.148 ॥
अन्वयः–यातायातरंहश्छलकलितरतिश्रान्तिनिःश्वासधाराजस्रव्यामिश्रबावस्फुटकथितमिथःप्राणभेदव्युदासं बालावक्षोजपत्राङ्गकुरकरिमकरीमुद्रितोर्वीन्द्रवक्षश्चिह्नाख्यातैकभावोभयहृदयं तत् द्वन्द्वम् आनन्दनिद्राम् अगात्।
जीवातु–तदिति। यातायातानां निःसरणप्रवेशानाम्, रंहसः वेगस्य, छलेन व्यजेन, कलिता ज्ञापिता, रतिश्रान्तिः, रमणक्लान्तिः, याभिः तादृशानां निःख्वासधाराणां निःश्वासपरम्पराणाम्, अजस्रव्यामिश्रभावेन अनवरतमेलनेन, स्फुटं व्यक्तम्, कथितः, विज्ञापितः मिथः परस्परम्, प्राणभेदस्य पॉथक्प्राणवायुतायाः, व्युदासः अभावः यस्य तत् तादृशम्, माषराश्यादौ माषान्तरादिमिश्रणवत् निःश्वासवाते निःश्वासवातान्तरमिश्रणस्य बेदानुपलम्भात् अभिन्नत्वं युज्यते एव निःश्वासवायोरेव प्राणरूपत्वादिति भावः। तथा बालायाः षोडशवर्षीयायाः प्रियायाः, वक्षोजयोः कुचयोः, ये पत्राह्कुराः कुङ्कुमादिना रचितक्षुद्रतिलकविशेषाः, तेषु याः करिमकर्यः कस्तुरीप्रभृतिभिः रचिता हस्तीमकरी प्रभृतीनां मृर्त्तयः, ताभिः मुद्रितस्य चिह्नितस्य, उर्वीन्द्रवक्षसः पृथिवीपतिनलोरःस्यलस्य, चिह्नेन प्रगाढालिङ्गनेनाङ्कितकरिप्रभृतीनामाकृत्या, आख्यातः कथितः, एकभावः ऐक्यं ययोः ते तादृशी, उभये द्वे, हृदये वक्षःस्थले, ययोः तत् तादृक् एकविधचिह्नत्वात् सर्वथैव एकमिति भावः। वृत्तिविषये उभयशब्दस्थाने उभयशब्दप्रयोगः इत्युक्तं प्राक्। तत् नलदमयन्तीरूपम्, द्वन्द्वं मिथुनम्, आनन्दनिद्रां सुखे स्वापम्, अगात् अगच्छत्॥ 18.148 ॥
श्राहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहोरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
याताऽस्मिन् शिवशक्तिसिद्धिभगिनोसौभ्रात्रभव्ये महाकाव्ये तस्य कृतौ नलीयवरिते सर्गोयमष्टादशः॥ 18.149 ॥
अन्वयः–पूर्वार्द्ध (प्रथम-द्वितीयचरणम्) पूर्ववत्। शिवशक्तिसिद्धिभगिनीसौभ्रात्रभव्ये तस्य कृतौ अस्मिन् महाकाव्ये नलीयचरिते अयम् अष्टादशः सर्गः यातः।
जीवातु–श्रीहर्षमित्यादि। शिवशक्तिसिद्धिः नाम काचित् स्वकृतिः, सा एव भगिनी उभयोरेव एककर्तृत्वात् स्वसा, तपा सह सौभ्रात्रं सुभातृत्वम्,। युवादित्वादण्‌प्रत्ययः। भ्राता च भगिनी च भ्रातरौ। `भ्रातृभगिन्यौ भ्रातरौ’ इत्यमरः। `भ्रातृपुत्रौ स्वसृदुहितृभ्याम्’ इत्येकशेषः। तेन सौभ्रात्रेण हेतुना, भव्ये शुभे, उत्कृष्टे इत्यर्थः। एककर्तृकत्वादित्थं निर्देशः। अष्टौ च दश च अष्टादश। `द्व्यष्टनः सङ्ख्यायामबहुव्रीह्यशीत्योः’ इत्यात्त्वम्। तेषां पूरणः अष्टादशः। `तस्य पूरणे डट्’ टिलोपश्च। गतमन्यत्॥ 18.149 ॥
इति मल्लिनाथसूरिविरचिते `जीवातु’ समाख्यानेऽष्टादशः सर्गः समाप्तः॥ 18 ॥

*****************************************************************************

.

॥ ऊनविंशः सर्गः ॥

निशि दशमितामालिङ्गन्त्यां विभोधविधित्सुभिर्निषधवसुधामीनाङ्कस्य प्रियाऽङ्कमुपेयुषः।
श्रुतिमधुपदस्रग्वैदग्धौविभावितभाविकस्फुटरसभृशाभ्यक्ता वैतालिकैर्जगिरे गिरः॥ 19.1 ॥
अन्वयः–निशि दशमिताम् आलिङ्गन्त्यां प्रियाङ्कम् उपेयुषः निषधवसुधामीनाङ्कस्य विबोधविधित्सुभिः वैतालिकैः श्रुतिमधुपदस्रग्वैदग्धीविभावितभाविकस्फुटरसभृशाभ्यक्ता गिरः जगिरे।
जीवातु–अथ काव्ये प्रयोगवैचित्र्यस्यालङ्कारत्वादस्मिन् सर्गे तद्वैचित्र्यमाश्रित्य प्रभातवर्णनमारमते-निशीति। निशि निशायाम्। `पद्दन्नोमास्-’ इत्यादिना निशादेशः। दशमः वयोऽवस्थाविशेषः अस्याः अस्तीति दशमिनी वृद्धा `वर्षीयान् दशमी ज्यायान्’ इत्यमरः। `वयसि पूरणात्’ इति इनः प्रत्ययः। तस्याः भावः तत्ता दशमिता वृद्धत्वं तां चरमावस्तामित्यर्थः। `त्वतलोर्गुणवचनस्य’ इति पुंवद्भावः। आलिङ्गन्त्यां स्पृशन्त्याम्, प्राप्नुवन्त्यामित्यर्थः। प्रभाताप्राययां सत्यामिति भावः। प्रियायाः दमयन्त्याः, अङ्कम् उत्सङ्गम्, उपेयुषः प्राप्तस्य, प्रियामालिङ्ग्य निद्रितस्येत्यर्थः। निषधवसुधामीनाङ्कस्य निषधदेशमन्मथस्य नलस्य, निबोधविधित्सुभिः जागरणं विधातुमिच्छुभिः। गम्यादिपाठात् द्वितीयासमासः। वैतालिकैः बोधकरैः, निद्राभञ्जकै; वन्दिभिरित्यर्थः। `वैतालिका बोधकराः’ इत्यमरः। श्रुतिमधुपदस्रजां श्रुतौ कर्णे, मधूनां मधुराणाम्, पदानां सुप्तिङन्तशब्दानाम्, या स्रक् माला, पङ्क्तिरित्यर्थः। तासां या वैदग्धी रचनाचातुर्यम्, कौशिक्यादिवृत्तिसम्पत्तिरिति यावत्। तया विभाविताः व्यञ्जिताः, भावाः, स्थायिप्रभृतयः अस्य सन्तीति भाविकः रसबोधकविबावादिचतुर्विधभाववान्. `अतः इनिठनौ’ इति मत्वर्थीयष्ठन्‌प्रत्ययः। अत एव स्फुटः अभिव्यक्तः, संवेद्यतां प्राप्तः इत्यर्थः। रसः श्रृङ्गारादिरेव रसः स्नेहद्रवः, तेन भृशम् अत्यर्थम्, अभ्यक्ताः भ्रिक्षिताः, स्निग्धीकृता इत्यर्थः। रसभरिताः इति यावत्। गिरः वक्ष्यमाणगीतवाचः जगिरे सीयन्ते स्म। गायतेः कर्मणि लिट्। अस्मिन् सर्गे हरिणीवृत्तम्; `रसयुगहयैन्सौं भ्रौ म्लौ गो यदा हरिणी तदा’ इति लक्षणात्॥ 19.1
जय जय महाराज! प्राभातिकीं सुषमामिमां
सफलयतमां दानादक्ष्णोर्दरालसपक्ष्मणोः।
प्रथमशकुनं शय्योत्थायं तवास्तु विदर्भजा
प्रियजनमुखाम्भोजात् तुङ्गं यद्ङ्ग! न मङ्गलम्॥ 19.2 ॥
अन्वयः–महाराज, जय जय, दरालसपक्ष्मणोः अक्ष्णोः दानात् इमां प्राभातिकीं सुषमां सफलयतमाम्, विदर्भजा शय्योत्थायं तव प्रथमशकुनम् अस्तु यत् अङ्ग, प्रियजनमुखाम्भोजात् तुङ्गं मङ्गलं न।
जीवातु–जय जयेति। हे महाराज! नल! जय जय अभीक्ष्णं सर्वोत्कर्षेण वर्त्तस्व। `नित्यवीप्सयोः’ इति द्विर्भावः। दरम् ईषत्, अलसानि तदाऽणि निद्रावेशसत्त्वात् निश्चेष्टानि, पक्ष्माणि नेत्रलोमानि ययोः तादृसयोः `अल्पार्थे त्वव्ययं दरम्’ इति यादवः। अश्क्षणोः चक्षुषोः, दानात् निक्षेपात्, दृष्टिप्रदानादित्यर्थः। इमां पुरोवर्त्तिनीम्, प्राभातिकीं प्रत्युषकालिकीम्, सुषमां परमां शोभाम्, सफलयतमाम् अतिशयेन सफलय नरपतिकर्तृकदर्शने शोभायाः सफलत्वात्। `किमेत्तिङव्यय-’ इति आमुप्रत्ययः। विदर्भजा वैददर्भी,शय्योत्थायं शय्यायाः सत्वरम् उत्थाय, `अपादाने परीप्सायाम्’ इति णमुल्। परीप्सा त्वरा। एतेन स्त्रियः प्रथमोत्थानं लभ्यते, `चरममपि शयित्वा पूर्वमेव प्रबुद्धा’ इत्युत्तमाङ्गनालक्षणात् त्वत्तः पूर्वमेव शयनात्सत्वरमुत्थाय अवस्थिता इत्यर्थः। तव ते, प्रथमशकुनं प्राथमिकं मङ्गलजनकं दृश्यम्, अस्तु भवतु, तदा तस्यामेव प्रथमाक्षिपातात् इति भावः। कुत इत्यत आह-यत् यस्मात्, अङ्ग! भोः! प्रियजनस्य प्रीतिपात्रस्य, मखाम्भोजात् वदनकमलात्, आननपद्मदर्शनादित्यर्थः। तङ्गम् अधिक्म्, मङ्गलं श्रेयः, न, अस्ति इति शेषः। इत्यर्थान्तरन्यासः।
वरुणगृहिणीमाशामासादयन्तममुं रुचीनिचयसिचयांशांशभ्रंशक्रमेण निरंशुकम्।
तुहिनमहसं पश्यन्तीव प्रसादमिषादसौ
निजमुखमिव स्मेरं धत्ते हरेर्महिषो हरित्॥ 19.3 ॥
अन्वयः–असौ हरेः महिषी हरित् वरुणगृहिणोम् आशाम् आसादयन्तं रुचीनिचयसिचयांशांशभ्रंशक्रमेण निरंशुकम् अमुं तुहिनमहसं पश्यन्ती इव प्रसःदमिषात् निजमुखं स्मेरं धत्ते इव।
जीवातु–वरुणेति। असौ दृश्यमाना, हरेः इन्द्रस्य, महिषी साम्रज्ञीस्वरूपा, हरित् प्राची दिक्, काचित् राजपत्नी च, वरणगृहिणीं वारुणीम्, आशां दिशम् प्रतीवीमित्यर्थः। काञ्चित् पुरुषान्तरपत्‌नीञ्च, आसादयन्तम् अस्तोन्मुखत्वात् प्राप्नुवन्तम्, सङ्गच्छन्तमिति यावत्। सम्भागार्थं गृह्णान्तमिति च, रुचीनिवयः प्रभासमूहः एव, `कृदिकारात्-’ इति ङीष्। सिचयः वसनम्, आच्छादकत्वसाधर्म्यादिति भावः। `सिवयो वस्त्रवसनमंशुकम्’ इति यादवः। तस्य अंशांशस्य किञ्चित किञ्चिद्भागस्य, वीप्सायां द्विरूक्तिः। भ्रंशक्रमेण उत्तरोतरं परित्यागेन, एकत्र-निशावसानात्, अन्यत्र-नग्नीभवताय इति भावः। निर्नास्ति अंशुः किरणो यस्य तादृशं निरंशुकं निष्प्रभम्। शैषिकः कप्। निः नास्ति अंशुः किरणो यस्य तादृशं विवसनञ्च, अमुं पुरःस्थम्, तुहिनमहसं शीतकिरणं चन्द्रम्, कमपि पुरुषञ्च, पश्यन्ती अवलोकयन्ती इव, प्रसादमिषात् प्रामातिकवैशद्यच्छलात्, कौतुकजनितप्रसन्नताव्याजाच्च, निजमुखं स्वोयपुरो भागम् आननञ्च, स्मेरं सहासम्, धत्ते इव करोतीव। अत्र मिषशब्देन प्रसादरूपापह्नवेन पराङ्गनासङ्गतपुरुषदर्शनजन्मस्मितत्वोत्प्रेक्षणात् सापह्नवोत्प्रेक्षा॥ 19.3 ॥
अमहतितरास्तादृक् तारा न लोचनगोचरास्तरणिकिणा द्यमञ्चन्ति क्रमादपरस्पराः।
कथयति परिश्रान्तिं रात्रीतमः सह युध्वनाम्
अयमपि दरिद्राणप्राणस्तमीतयितस्त्विषाम्॥ 19.4 ॥
अन्वयः–अमहतितराः ताराः तादृक् लोचनगोचराः न, अपरस्पराः तरणिकिरणाः क्रमात् द्याम् अञ्चन्ति, दरिद्राणप्राणः अयं तमीदयितः रात्रीतमः सह युध्वनां त्विषां परिश्रान्तिं कथयति।
जीवातु–अमहतीति। अतिशयेन महत्यः महतितराः `धरूपकल्प-’ इत्यादिना ङ्यो ह्रस्वः, अनेन ह्रस्वविधानेन परत्वात् `तसिलादिषु’ इति प्राप्तपुंवद्भावप्रतिषेधः, ततो नञ्समासः। अमहतितराः सूक्ष्माः, ताराः अरुन्धत्यादयः तारकाः, तादृक् पूर्ववत्, रात्रौ इवेत्यर्थः। लोचनस्य नयनस्य, गोचराः विषयाः, न, भवन्तीति शेषः। उत्तरोत्तरं सूर्यतेजोवर्द्धनादिति भावः। परे पेर न भवन्तीति अपरस्पराः, सततक्रियाः, सततम् अविच्छेदेन प्रवृत्ता इति यावत्, युगपदेव प्रसरणशीला इति भावः। `अपरस्पराः क्रियासातत्ये’ इति निपातनात् साधुः। तरणेः अर्कस्य, किरणाः मयूखाः, क्रमात् क्रमशः, द्याम् आकाशम्, अञ्चन्ति गच्छन्ति, व्याप्नुवन्तीत्यर्थः। दरिद्राणप्राणः क्षीणबलः। दरिद्रातेः कर्त्तरि ल्युट्। `बलान्तर्मारुतोः प्राणः’ इति यादवः। अयं परिदृश्यमानः तमीतयितः निशापतिरपि, रात्र्याः निशायाः। `कृदिकारात्-’ इति वा ङीष्। तमांसि अन्धकाराः तैः सह युध्वनां युद्धं कुर्वतीनाम्। `सहे च’ इति क्वनिप्। `वनो न हशः-इति वक्तव्यात् `वनो र च’ इति ङीप् प्रत्ययो रश्च नास्ति। त्विषां भासाम्, स्वप्रभाणामित्यर्थः। परिश्रान्तिं क्लान्तिम्, कथयति ख्यापयति। प्रभातः सञ्जातः, अतः शयनं परित्यजेति भावः। समुच्चयोऽलङ्कारः॥ 19.4 ॥
स्फुरति तिमिरस्तोमः पङ्कप्रपञ्च इवोच्चकैः
पुरुसितगरुच्चञ्चच्चञ्चू पुटस्फुटचुम्बितः।
अपि मधुकरी कालिम्मन्या विराजति धूमलच्छविरिव रवेर्लाक्षालक्ष्मीं करैरभिपातुकैः॥ 19.5 ॥
अन्वयः–तिमिरस्तोमः लाक्षालक्ष्मीम् अभिपातुकैः रवेः करैः पुरुसितगरुच्चञ्च्चञ्चूपुचस्फुटचुम्बितः पङ्कप्रपञ्चः इव उच्चकैः स्फुरति, कालिम्मन्या मधुकरी अपि धूमलच्छविः इव विराजति।
जीवातु–स्फुरतीति। तिमिरस्तोमः तमोराशिः, लाक्षालक्ष्मीम्, अलक्तकशोभाम् अभिपातुकैः अभिक्रामद्भिः, पराजेतुमिच्छुभिरित्यर्थः। लाक्षावर्णादपि अधिकारुण वर्णैरिति यावत्। उदीयमानसूर्यकिरणानां तद्वत् परिदृश्यमानत्वादिति भावः। `लषपत-’ इत्यादिना उकञ्‌,`न लोक-’ इत्यादिना षष्ठीप्रतिषेधात् कर्मणि द्वितीया। रवेः सूर्यस्य, करैः किरणैः, किरणसम्पातैरित्यर्थः। पुरू भूयिष्ठं यथा तथा, सितगरुतां श्वेतवक्षाणां हंसानाम्, `हंसास्तु श्वेतगरुतः’ इत्यमरः। चञ्चद्भिः चञ्चलैः, मृणालभक्षणार्थ कर्दमालोडनव्यग्रतयेति भावः। चञ्चूपुटैः अरुणवर्णैः त्रोटियुगलैः, स्फुटं स्पष्टम्, चुम्बितः स्पृष्टः, विलोडितः इत्यर्थः। पङ्कप्रपञ्चः कर्दमराशि इव, उच्चकैः अत्यर्थ, स्फुरति दीप्यते इत्युपमा। तथा कालीम् आत्मानं मन्यते इति कालिम्मन्या अतिकृष्णा इत्यर्थः। वर्णे अर्थे `जानपद-’ इत्यादिना ङीप्, कालशब्दोपपदात् मन्यतेः `आत्ममाने खश्च’ इति खश् प्रत्ययः, `खित्यनव्ययस्य’ इति ह्रस्वः। `अरुर्द्विषत्-’ इत्यादिना मुमागमः। मधुकरी भृङ्गी अपि, लाक्षालक्ष्मीम् अभिपातुकैः रवेः करैः धूमलच्छविः कृष्णलोहितकान्तिः इव। `धूम्रधूमलौ कृष्णलोहितौ’ इत्यमरः। विराजति शोभते। अत्र काल्या भृङ्ग्या रविकरलौहित्याद्युत्कृष्टगुणग्रहणे तद्‌गुणालङ्कारः, तदुत्थापिता धूमलत्वोत्प्रेक्षेति सङ्करः॥ 19.5 ॥?
रजनिवमथुप्रालेयाम्भःकणक्रमसम्भृतैः
कुशकिशलयस्याच्चैरग्रेशयैरुदबिन्दुभिः।
सुषिरकुशलेनायः सूचीशिखाङ्‌कुरसङ्करं
किमपि गमितान्यन्तर्मुक्ताफलान्यनुमेनिरे॥ 19.6 ॥
अन्वयः–रजनविमयुप्रालेयाम्भः कणक्रमसम्भृतैः कुशकिशलयस्य अग्रेशयैः अच्छैः उदबिन्दुभिः सुषिरकुशलेन किम् अपि अन्तः अयःसूचीशिखाङ्कुरसङ्करं गमितानि मुक्ताफलानि अनुमेनिरे।
जीवातु–रजनीति। रजनेः नात्रेः, हस्ति नीरूपाया इति भावः। वमथवः करशीकराः, शुण्डाग्रविक्षिप्तजलकणस्वरूपा इत्यर्थः। `वमथुः करशीकरः’ इत्यमरः। ये प्रालेयाम्भसः हिमजलस्य, कणाः बिन्दवः, तैः क्रमेण क्रमशःष किञ्चित् कृत्वेत्यर्थः। सम्मृतैः सञ्चितैः, किञ्चित् किञ्चत् कृत्वा सञ्चयात् स्थूलीभूतैरिति भावः। कुशकिशलयस्य सूचीवत् सूक्ष्माग्रनवीनदर्भपत्राणामित्यर्थः। जातावेकवचनम्। अग्रे शेरते इति अग्रे शयाः तैः अग्रस्थैः। `अधिकरणे शेतेः’ इत्यच्। अच्छैः निर्मलैः, उदबिन्दुभिः जलकणैः। कर्त्तृभिः। सुषिरे मुक्तादिषु छिद्रविधाने, कुशलेन निपुणेन, शिल्पिनेति शेषः। किमपि किञ्चित्, अन्त मध्ये, अयसः लौहस्य, सूचोनां व्यधनीनाम्, सीवनसाधनसूक्ष्माग्रशलाकाविशेषाणामित्यर्थः शिखाङ्कुरः शिखा अग्रभागाः, स एव सूक्ष्मत्वादङ्करुः, तैः सङ्करं सङ्गमम्, गमितानि प्रापितानि, मुक्ताफलानि मौक्तिकानि, अर्द्धविद्धानि मुक्ताफलानीत्यर्थः। अनुमेनिरे हीनतया बुबुधिरे, हीनीकृतानीत्यर्थः। सूर्यकिरणसम्पर्केण अन्तरौज्जवल्यसाधर्मात् मुक्ताफलानि तिरस्कृतानीति भावः। इति सादृश्ये लक्षणा। अत्र दर्भाग्रोदविन्दूनां वेधसूच्यग्रलग्नमुक्ताफलैरुपमा, प्रालेयाम्भःकणेषु वमथुत्वरूपणात् रजनेः करिणीत्वरूपसिद्धेरेकदेशविवर्त्तिरूपकम् इत्यनयोरङ्गाङ्गिभावात् संसृष्टिः॥ 19.6 ॥
रविरुचिऋचामोङ्कारेषु स्फुटामलबिन्दुतां
गमयितुममूरुच्चीयन्ते विहायसि तारकाः।
स्वरविरचनायासामुच्चैरुदात्ततयाऽऽहृताः
शिशिरमहसो बिम्बादस्मादसंशयमंशवः॥ 19.7 ॥
अन्वयः–रविरुचिऋचाम् ओङ्कारेषु स्फुटामलबिन्दुतां गमयितुं विहायसि अभूः तारकाः उच्चीयन्ते, आसाम् उदात्ततया उच्चैः स्वरविरचनाय अस्मात् शिशिरमहसः बिम्बात् असंशयम् आहृताः।
जीवातु–रवीति। रवेः सूर्यस्य, रुचयः उदयकालीनकिरणाः एव, ऋचः पूर्वाह्णत्वात् ऋग्वेदमन्त्रविशेषाः तासाम्, `ऋग्भिः पूर्वाह्णे दिवि देव ईयते’ इत्यादि तन्मयत्वश्रुतेरिति भावः। आङ्कारेषु आदौ उच्चार्यमाणप्रणवेषु, स्फुटाः व्यक्ताः, अमलाः सव्च्छाः, बिन्दवः उपरिस्थितबिन्द्वाकृतिवर्णाः, तेषां भावः तत्ता ताम्, गमयितुं प्रापयितुम्, ओङ्कारणामुपरिदेशे बिन्दून्, संस्थापयितुमित्यर्थः। विहायसि आकाशे, अमूः परिदृश्यमानाः, तारकाः नक्षत्राणि, उच्चीयन्ते एकमेकं कृत्वा सङ्गृह्यन्ते, प्रभातालोकेन क्षुद्रभूततया परिदृश्यमानत्वात् वृत्तत्वसाम्याच्चेति भावः। किञ्च, आसाम् ऋचाम्, उदात्ततया हृद्यतया, `उच्चैरुदात्तः’ इत्युक्तलक्षमस्वरविशेषतया च। `उदात्तः स्वरेभेदे स्यात् काव्यालङ्कारहृद्ययोः’ इति विश्वः। उच्चैः अत्यन्तम्, स्वरविरचनाय उदात्ताख्यस्वरसम्पादनार्थम्। अस्मात् परिदृश्यमानात्, शिशिरमहसः शीतकिरणस्य चन्द्रस्य, बिम्बात् मण्डलात्, अंशवः किरणाः, असंशयं निश्चयम्। अभावार्थेऽव्ययीभावः। आहृताः संगृहीताः, केनापीति शेषः। अन्यथा चन्द्रांशवस्तारकाश्च कव गताः? इति भावः। असंशयमित्यत्प्रेक्षायाम्॥ 19.7 ॥
व्रजति कुमुदे दृष्ट्वा मोहं दुशोरपिधायके
भवति च नले दूरं तारापतौ च हतौजसि।
लघु रघुपतेर्जायां मायामयीमिव रावमिः
तिमिरचिकुरग्राहं रात्रिं हिनस्ति गभस्तिराट्॥ 19.8 ॥
अन्वयः–दृष्ट्वा कुमुदे मोहं व्रजति, नले च दृशोः अपिधायके भवति, तारापतौ च दूरं हतौजसे रावणिः मायामयीं रघुपतेः जायाम् इव गभस्तिराट् रात्रिं तिमिरचिकुरग्राहं लघु हिनस्ति।
जीवातु–व्रजतीति। दृषट्वा विलोक्य, रात्रेर्नाशोपक्रमं सीतावधोपक्रमञ्च इति शेषः। कुमुदे कैरवे कपिविशेषे च। `कुमुदं कैरवे रक्तपङ्कजे कुमुदः कपौ’ इति विश्वः। मोहं सङ्कोचं मूर्च्छनञ्च, एकत्र-दिवा मुद्रणस्वभावात्, अन्यत्र-शोकादिति भावः। व्रजति गच्छति सति, तथा भवति त्वयि, नले च नैषधे च, दृशोः दर्शनयोः, दर्शनसाधनदृष्टिमण्डलयोरित्यर्थः। `दृक्‌ स्त्रियां दर्शने नेत्रे बुद्धौ च त्रिषु वीक्षके’ इति मेदिनी। अपिधायके आच्छादके सति, तदाऽपि निद्रावेशापगमात् निमीलिताक्षे सतीत्यर्थः। अन्यत्र-नले कपिविशेषे। `नलः पोटगले राज्ञि पितृदेवे कपीश्वरे’ इति विश्वः। दृशोः अपिधायके सीतावधोद्यमं द्रष्टुं सोञुञ्च, अशक्यत्वात् हस्ताभ्यां चक्षुषेराच्छादके, भवति सति, तथा तारापतौ चन्द्रे सूग्रीवे च। `ऋक्षाक्षिमध्ययोस्तारा सुग्रीवगुरुयोषितोः’ इति विश्वः। दूरम् अत्यन्तम्, हतौजसि निस्तेजस्के च सति, सूर्यतेजसा अभिभूतत्वात् सीतावधोद्यमस्य प्रतीकाराशक्यत्वाच्चेति भावः। रावणस्य अपत्यं रावणि। इन्द्रजित्, मायामयीं मायाकल्पितां रघुपतेः रामचन्द्रस्य, जायां भार्यां सीतामिव, कल्पान्तरीयमायासीतावधविवरणावलम्बनेन अत्र उपमासङ्गतिर्बोद्धव्या। गभस्तिराट् सूर्यः, रात्रिं रजनीम्, लघु क्षिप्रम्, तिमिराणि अन्धकारा एव, चिकुराः केशाः, सीतापक्षे-तिमिराणीव चिकुराः, तेषु गृहीत्वा तिमिरचिकुरग्राहम्। सप्तम्युपपदे `समासत्तौ’ इति णमुल्-भावः। हिनस्ति विनाशयति॥ 19.8 ॥
त्रिदशमिथुनक्रीडातल्पे विहायसि गाहते
निधुवनधुतस्रग्भागश्रीभरं ग्रहसङ्ग्रहः।
दुतरकराकारैस्तूलोत्करैरुदरम्भरिः
परिहरति नाखण्डो गण्डोपधानविधां विधुः॥ 19.9 ॥
अन्वयः–ग्रहसङ्ग्रहः त्रिदशमिथुनक्रीडातल्पे विहायसि निधुवनधुतस्रग्भागश्रीभरं गाहते, मृदुतरकराकारैः तूलोत्करैः उदरम्भरिः अखण्डः विधुः गण्डोपधानविधां न परिहरति।
जीवातु–त्रिदशेति। ग्रहसंग्रहः तारकात्मकशुक्रादिग्रहगणः, ग्रहशब्दस्य उपलक्षणत्वात्, रजन्याः पश्चिमयामे शुक्रताराया उदयदर्शनाच्चेति भावः। त्रिदशमिथुनानां देवद्वन्द्वानाम्, क्रीडातल्पे विहारशय्यास्वरूपे, विहायसि आकाशे, निधुवनेन सुरतेन, सुरतकालिकप्रबलसञ्चालनेनेत्यर्थः। धुतस्रग्भागानां धुतानाम् इतस्ततो विक्षिप्तानाम्, स्रग्भागानां पुष्पमालांशानाम्, मालातो विक्षिप्तानामेकैकपुष्पाणामित्यर्थः। निर्माल्यानामिति यावत्, श्रीभरमिव श्रीभरं शोभाऽतिरेकम् आश्रयति। किञ्च अखण्डः परिपूर्णमण्डलः, विधुः चन्द्रः, मृदुरकराः अतिशयेन कोमलाः किरणा एव, आकाराः रूपाणि येषआं तादृशैः, तूलोत्करैः तूलपटलैः, उदरम् अभ्यन्तरम् बिभर्त्ति पूरयतीति उदरम्भरिः, पूरितमध्यः व्यासोदरः सन् इत्यर्थः। `फलग्रहिरात्मम्भरिश्च’ इति चकारात् सिद्धः। गण्डोपथारस्य कपोलोपबर्हस्य, गोलाकार-कपोलनिधानास्येत्यर्थः। `उपधानन्तूवबर्हः’ इत्यमरः। विधां प्रकारम्, तुल्यतामित्यर्थ। न परिहरति न त्वजति, गण्डोपधानत्वं भजते इत्यर्थः। उषागमेन क्षीणप्रभत्वादिति भावः। अत्र श्रियमिव श्रियं विधामिव विधामिमि सादृश्याक्षेपात् उभयत्र निदर्शनोत्थानात् सजातीयसंसृष्टिः॥ 19.9 ॥
दशशतचतुर्वेदीशाखाविवर्त्तनमूर्त्तयः
सविधमधुनाऽलङ्कुर्वन्ति ध्रुवं रविरश्मयः।
वदनकुहरेष्वध्येतॄणामयं तदुदञ्चति
श्रुतिपदमयस्तेषामेवप्रतिध्वनिरध्वनि॥ 19.10 ॥
अन्वयः–दशशथचतुर्वेदीशाखाविवर्त्तनमूर्त्तयः रविरश्मयः अधुना ध्रुवं सविधम् अलङ्कुर्वन्ति, तत् अध्येतॄणां वदनकुहरेषु तेषाम् एव अथं श्रुतिपदमयः प्रतिध्वनिः अध्वनि उदञ्चति।
जीवातु–देशेति। दश शतानि यासु ताः सहस्रमङ्ख्याः इत्यर्थः। ताश्च ताः चतुर्वेदीशाखरच इति। विशेषणसमासः, अन्यथोभयद्विगुप्राप्तौ बहुस्यादिति। वेदचतुष्टयस्य सहस्रसङख्यकाः शाखा इत्यर्थः। तासां विवर्त्तनानि अतत्त्वतोऽन्यथाभावाः, परिवर्त्तनानीत्यर्थः। परिणतयः इति यावत्। मूर्त्तयः रूपाणि येषां ते तादृशाः तद्विवर्त्तनरूपाः सहस्रसङ्ख्यकोपनिषत्स्वरूपा इत्यर्थः। रवेः सूर्यस्य, रश्मयः सहस्रसङ्ख्यकाः किरणाः, अधुना सम्प्रति, अहर्मुखे इत्यर्थः। ध्रुवम् अजस्रम्, अविरतमित्यर्थः। `घ्रुवं खेऽजस्रतर्कयोः’ इति हैमः। सविधम् अस्मदादिसामीप्यम्, अलङ्कुर्वन्ति भूषयन्ति, समीपमागच्छन्ति इत्यर्थः। तत् तस्मात् रविरश्मीनां समीपागमनादित्य्रथः। तेषां रश्मीनामेव, अयं श्रूयमाणः, श्रुतिपदमयः वेदाक्षरात्मकःष प्रतिध्वनिः प्रतिशब्दः, रविरश्मीनवलम्ब्य अत्रागतः सूर्यलोकीयवेदध्वनेः प्रतिशब्दः इत्यर्थः। अध्येतॄणाम् अत्रत्यवेदपाठकानां जनानाम्, वदनकुहरेषु मुखदरीषु, तथा `अध्वनि शब्दगुणमये आकाशमार्गे न, उदञ्चति उद्‌गच्छति। `ऋग्भिः पूर्वाह्णे, दिविदेव ईयते’ इत्यादिश्रुत्या रविरश्मयः श्रुतिपदमया एव, सूर्यलोकवासिभिरपि इदानीं वेदा अधीयन्ते, `द्वितीये च तथा भागे वेदाम्भासो विधीयते’ इति दक्षवचनात् इदानीं मर्त्त्यानां वेदाध्येतॄणां मुखविवरेषु योऽयं ध्वनिरूद्‌गच्चति स पुनः सूर्यलोकवासिनां वेदाध्ययनस्य रविरश्मीनवलम्ब्य आगतः प्रतिध्वनिरिव प्रतिभातीति भावः॥ 19.10 ॥
नयति भगवानम्भोजस्यानिबन्धनबान्धवः
किमपि मघवत्प्रासादस्य प्रघाणमुपघ्नताम्।
अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डलीलगनफलदश्रान्तस्वर्णाचलभ्रमविभ्रमः॥ 19.11 ॥
अन्वयः–अपसरदरिध्वान्तप्रत्यग्वियत्पथमण्डलीलगनफलदश्रान्तस्वर्णाचलभ्रमविभ्रमः अम्भोजस्य अनिबन्धनबान्धवः भगवान् किम् अपि मघवत्प्रासादस्य प्रघाणम् उपघ्नतां नयति।
जीवातु–नयतौति। अम्भोजस्य पद्मस्य, अनिबन्धनबान्धवः निर्व्याजबन्धुः, भगवान् माहात्म्यवान्, सूर्यः इति शेषः। अपसरन्ति अपगच्छन्ति, पलायमानानीत्यर्थः। अरीणि विरोधीनि ध्वान्तानि अन्धकाराः यस्यां तादृश्याम्, प्रत्यग्वियत्पथमण्डल्यां पश्चिमाकाशमार्गदेशे, लगनात् किरणसम्पर्केण संयोगात्, तथाविधभावेन ध्वान्तध्वंसनादित्यर्थः। फलन् सफलीभवन्, अश्रान्तस्वर्णा चलभ्रमः निरन्तरमेरुप्रदिक्षिमीकरणमेव, विभ्रमः विलासः यस्य सः तादृशः सन्, किमपि कस्यापि हेतोः मधवत्प्रासादस्य इन्द्रसौधस्य वैजयन्तस्य, प्रघाणम् प्रघमः प्रघाणश्च’ इति निपातः। उपघ्ननाम् अन्तिकाश्रयताम्, `स्यादुपध्नो।न्तिकाश्रये’ इत्यमरः। नयति प्रापयति, प्रघाणसमीपमाश्रितवानित्यर्थः। यथा स्वर्णादिपूर्णकोषागारपरिरक्षणाय नियुक्तः कश्चित् रक्षिसैन्यः कमप्यनुसरन् तत्कोषागारप्राचीरावलम्बनोनावस्थाय तं दूरीकृत्य सफलप्रदक्षिणः सन् श्रान्तिपरिहाराय अलिन्दं प्रविशति तद्वदिदि भावः। सूर्यः शत्रुमिव अन्धकारं निरस्य क्षणादुदायद्रिमाश्रितः इति निष्कर्षः॥ 19.11 ॥
नभसि महासां ध्वान्तध्वाङ्‌क्षप्रमापणपत्रिणामिह विहरणेः श्यैनम्पातां रवेरवधारयन्।
शशविशसनत्रासादाशामगाच्चरमां शशी तदधिगमनात्तारापारावतैरुदडोयत॥ 19.12 ॥
अन्वयः–ध्वान्तध्वाङ्क्षप्रमाणपत्रिणां महासाम् इह नभसि विहरणैः रवेः श्यैनम्पाताम् अवधारयन् शशी शशविशसनत्रासात् चरमाम् आशाम् अगमत् तदधिगमनात् तारापारावतैः उदडीयत।
जीवातु–नभसीति। शशी चन्द्रः ध्वान्तानाम् अन्धकाराणामेव, ध्वाङ्क्षाणां कृष्णवर्णसाम्यात् वायसानाम्। `ध्वाङ्‌क्षात्मधोषपरभृद्‌बलिभुग्‌वायसा अपि’ इत्यमरः। प्रमापणे मारणे, पत्रिणां श्येनानाम्, श्येनस्वरूपाणामित्यर्थः। `अथ शशादनः पत्री स्येनः’ इत्यमरः। पत्रिणां शराणामिति वा, बाणस्वरूपाणामित्यर्थः। `कलम्बमार्गणशाराः पत्री रोप इषुर्द्वयोः’ इत्यमरः। महसां तेजसाम्, सूर्यकिरणानामित्यर्थः। इह नभसि आकाशे, विहरणैः परिक्रमणैः, रवेः सूर्यस्य, श्येनपातः अस्यां क्रियायां वर्त्तते इति श्यैनम्पाता मृगया ताम्। `घञः साऽस्यां क्रियेति ञः’ इति अप्रत्ययः। `श्येनतिलस्य पाते ञे’ इति मुमागमः। `श्यैनम्पाता च मृगाया’ इत्यमरः। अवधारयन् निश्चिन्वन्, इवेति शेषः। शशः स्वाङ्कस्थितमृगविशेषः, तस्य विशसनत्रासात्, हिंसाभयात्, मारणभया=दित्यर्थः। चरम् पश्चिमाम्, आशां दिशम्, अगात् अगमत्, पलायितवानि=त्यर्थः। तस्य श्यैनम्पातावृत्तान्तस्य, रवेः, मृगयाव्यापारस्येत्यर्थः। अधिगमनात् ज्ञानात्, ताराभिः नक्षत्रैरेव, पारावतैः कपोताख्यपक्षिविशेषैः `पारावतः कलरवः कपोतः’ इत्यमरः। उदडीयत उड्‌डीनम्, उड्डीय पलायितामित्यर्थः। भावे लङ्। रविकिरणा गगने प्रसरन्ति, शशाङ्कः पश्चिमां दिशं यातः, तारकाश्च अलक्ष्यतां गता इति निष्कर्षः। रूपकालङ्कारः॥ 19.12 ॥
भृशमबिभरुस्तारा हाराच्युता इव मौक्तिकाः
सुरसुरतक्रीडालूनाद् द्युसद्वियदङ्गणम्।
बहुकरकृतात् प्रातः सम्मार्जनादधुना पुनर्निरुपधिनिजावस्थालक्ष्मीविलक्षणमीक्ष्यते॥ 19.13 ॥
अन्वयः–सुरसुरतक्रीडालूनात् हारात् च्युताः मक्तिकाः इव ताराः द्युसद्वियदङ्गणं भृशम् अबिभरुः, अधुना प्रातः बहुकरकृतात् सम्मार्जनात् पुनः निरुपधिनिजावस्तालक्ष्मीविलक्षणम् ईक्ष्यते।
जीवातु–भृशमिति। तारा, तारकाः, सुराणां देवमिथुनानाम्, सुरतजया रमणोद्‌भूतया, क्रीडया परिमर्दरूपविहारेण, लूनात् छिन्नात्, हारात् मुक्तावलीतः, च्युताः विक्षिप्ताः, कप्रत्ययः, `प्रत्ययस्थात् कात् पूर्वस्य-’ इतीकराः। द्युसद्वियदङ्गणं द्युसदां देवानां नभोरूपं प्राङ्गणम्, भृशम् अत्यर्थम्, अबिभरुः अपूरयन्, रात्रौ परिपूरितवत्य इत्य्रथः। `डुभृञ् धारणपोषणयोः’ इत्यस्य लङिरूपम्, `लङः शाकटायनस्यैव’ इति झैर्जुसादेशः। अधुना इदानीम्, प्रतः पुनः प्रभाते तु, बहुकरेण वहवः सहस्रसङ्ख्यकाः इत्यर्थः। कराः किरणा यस्य स बहुकरः सूर्यः, स एव बहुमरः। खलपूसंज्ञक सम्मार्जनकारी जातिविशेषः तेन, `खलपूः स्यात् बहुकरः’ इत्यमरः। कृतात् सम्पादितात्, सम्मार्जनात् शोधनात्, शोधन्या तारापसारणेन धूल्याद्यपसारणेन च परिष्करणादित्यर्थः। निरुपधेः निर्व्याजायाः, अकृत्रिमाया इत्यर्थः। `कपटोऽस्त्री व्याजदम्भोपधयश्छद्मकैतवे’ इत्यमरः। निजावस्थायाः आत्मस्वरूपस्य, लक्ष्म्याः नीलनिर्मलशोभायाः, विलक्षणं रात्रिकालिकावस्थातोऽन्याद्दशं रूपम्, ईक्ष्यते एतत् वियदङ्गणं दृस्यते, खलपूपरिसुद्धिवत् बहुकरशुद्धमन्तरीक्षमपि पूर्वबिलक्षणं लक्ष्यते इत्यर्थः, जनैरिति शेषः॥ 19.13 ॥
प्रथममुपहृत्यार्घ्यं तारैरखण्डिततण्डुलैस्तिमिरपरिषद्‌दूर्वापर्वावलीशबलीकृतैः।
अथ रविरुचां ग्रासातिथ्यं नभः स्वविहारिभिः
सृजति शशिरक्षोदश्रेणीमयैरुदसक्तुभिः॥ 19.14 ॥
अन्वयः–नभः तिमिरपरिषद्‌दूर्वापर्वापर्पावलीशबलीकृतैः तारैः अखण्डिततण्डुलैः प्रथमं रविरुचाम् अर्घ्यम् उपहृत्य अथ स्वविहारिभिः शिशिरक्षोदश्रोणीमयैः उदसक्तुभिः ग
्रासातिथ्यं सृजति।
जीवातु–प्रथममिति। नभः आकाशम्। कर्तृ। तिमिरपरिषत् तमोवृनन्दम् सा एव दूर्वापर्वणां दूर्वाग्रान्थीनाम्, दूर्वादलानामित्यर्थः। आवली श्रेणी, श्यामवर्णत्वादिति भावः। तया शबलीकृतैः चित्रीकृतैः, मिश्रितैतैरित्यर्थः। तारैः नक्षत्रैरेव। `नक्षत्रे नेत्रमध्ये च तारा स्यात् तार इत्यपि’ इति व्याडिः। अखण्डिततण्डुलैः निस्तुषाभग्नशालिबीजैः, प्रथमम् आदौ, रविरुचां सूर्यकिरणानाम्, अर्धः पूजाविधिः तस्मै इदम् अर्ध्यं पूजोपकरणमित्यर्थः। `मूल्ये पूजाविधावर्घः’ इति `अर्घ्यमर्घार्थे’ इति चामरः। उपहृत्य दत्त्वा, अथ अनन्तरम्, स्विविहारिभिः स्वस्मिन् नभसि सञ्चरणशीलैः, शिशिरक्षोदश्रेणीमयः हिमशी करपुञ्चरूपैः, उदसक्तुभिः जलालोडितभृष्टयवचूर्णैः। `मन्थौदन-’ इत्यादिना उदकशब्दस्योदादेशः। ग्रासातिथ्यं ग्रासरूपम् अतिथिसत्कारम्, अतिथये इदम् इति `अतिथेर्ञ्येः’ इति ञ्यः। सृजति सम्पादयति, इवेति शेषः। समागताय अतिथये अर्घ्यदानानन्तरमन्नदानं हि गृहिणां रीतिः। रूपकालङ्कारः॥ 19.14 ॥
असुरहितमप्यादित्योत्थां विपत्तिमुपागतं
दितिसुतागुरुः प्राणौर्योक्तुं न किं कचवत् तमः।
पठति लुठतीं कण्ठे विद्यामयं मृतजीवनीं?
यदि न वहते सन्ध्यामौनव्रतव्ययभीरुताम्॥ 19.15 ॥
अन्वयः–दितिसुतगुरुः असुरहितम् अपि आदित्योत्थां विपत्तिम् उपागतं कचवत् तमः प्राणैः योक्तुं कण्ठे लुठती मृतजीवनीं विद्यां न पठति किम्, यदि अयं सन्ध्या-मौनव्रतव्ययभीरुतां न वहते?
जीवातु–असुरेति दितिसुतानां दैत्यानाम्, गुरुः उपदेष्टा शुक्राचार्यःष असुरेभ्यः दैत्येभ्यः, हितमपि हितकरमपि, निशायामेव असुराणां बलवृद्धेरिति भावः। `चतुर्थी तदर्थार्थ-’ इत्यादिना समासः। अन्यत्र-असुभिः प्राणैः, रहितं विहीनम्, अचेतनमपीत्यर्थः। आदित्योत्थां सूर्योद्‌भूताम्, कचपक्षे-देवोद्‌भूतमा, देवानामनुरोधेनैव कचस्य तत्रागमनात् तद्विपत्तेः अदुत्थोत्वव्यपदेशः। विपत्तिं विनाशम्, उपागतं प्राप्तम्, तमः अन्धकारम् कचवत् बृहस्पतिसुतं कचमिव, बृहस्पतिपुत्रः कचः देवताप्रेरपितः सञ्जीवनीविद्यार्थं शुक्रमुपागतः,, स दैत्यहतः पुनः शुक्रेणोज्जीवितः इति भारती कथा। प्राणैः असुभिः, योक्तुं सङ्घटयितुम्, कण्ठे गलमध्ये, लुठतीं परवर्त्तमानाम्, सदा तिष्ठन्तीवनीम्, विद्यां ज्ञानम्, मन्त्रमिति यावत्, न पठति किम्? न अधीते किम्? अपि तु पठेदेव यदि, अयं शुक्रः, सन्ध्यामौनव्रतव्ययात् सन्ध्यायां प्रातःसन्ध्यायाम्, यत् मौनव्रतं वाक्संयमनियमः, तस्य व्ययात् भङ्गात्, भीरुतां भयशीलताम्, न वहते न धत्ते, अन्यता कथमीदृक् विद्यावानपि पुरोवर्त्तिनं स्वशिष्यासुररहितकरान्धकारविनाशमुपेक्षते इति भावः॥ 19.15 ॥
उदयसिखरिप्रस्थान्यह्ना रणेऽत्र निशः क्षणे।
दधति विहरत्पूषाण्युष्मद्रुताश्मजतुस्रवान्।
उदयदरुमप्रह्वीभावादरादरुणानुजे
मिलति किमु तत्सङ्गाच्छङ्क्या नवेष्टकवेष्टना?॥ 19.16 ॥
अन्वयः–अत्र क्षणे निशः अह्ना रणे विहरत्पूषाणि उदयशिखरिप्रस्थानि उष्मद्रुताश्मजतुस्रवान् दधति; उदयदरुमप्रह्वीभावादरात् अरुणानुजे मिलति तत्सङ्गात् किमु तवेष्टकवेष्टना शङ्क्या?
जीवातु–उदयेति। अत्र अस्मिन्, क्षणे समये, अहर्मुखे इत्यर्थः। निशः निशायाः, अह्ना दिवसेन सह, रणे युद्धे, स्वाधिकारस्तापनाय युद्धे प्रारब्धे सतीत्यर्थः। विहरत्पूषाणि विहरन् सञ्चरन्, युद्धदर्शनकौतूहलेनेति भावः। पूषा सूर्यः यत्र तादृशानि सञ्चरत्सूर्याणि, उदयशिखरिप्रस्थानि उदयाद्रेः सानूनि। `प्रस्थोऽस्त्री सानुमानयोः’ इति यादवः। उष्मणा सूर्यस्यैव तेजसा, द्रुतानां विलीनानाम्, अश्मजतूनां शिलाजत्वाख्यधातुविशेषाणाम्, स्रवान् स्रावान् प्रवाहानित्यर्थः। दधति धारयन्ति, रक्तप्रवाहानिवेति भावः। तेन च उदयतः उत्तिष्ठतः अरुणस्य सूर्यसारथेः गरुडाग्रजस्य अनूरोः सम्बन्धे, प्रह्वीभावादरात् प्रणामकरणाग्रहात्, अरुणानुजे गरुडे, रक्तवर्णे इति भावः। मिलति सङ्गमं प्राप्तवति, अरुणाय नन्तुं समागच्छति सतीत्यर्थः। तत्सङ्गात् गरुडसम्पर्कात् हेतोः नवाः प्रत्यग्राः, इष्टकाः रक्तवर्णदग्धमृत्खण्डविशेषाः यस्यां सा तादृशी, वेष्टना परिधिः, प्राकार इत्यर्थः। शङ्क्या शङ्कनीया, क्रिम्? किम्? रक्तवर्णकरुडकान्तेः पर्वतसमन्तात् स्थितेरिति भावः। यदुक्तहेतुना गरुडः न सङ्गच्छेत् तदा सुवर्णपक्षव्याप्तिरूपा उदयाद्रेः नवेष्टकावेष्टना कस्मादिति सम्भावनयोत्प्रेक्षा॥ 19.16 ॥
रविरथहयानश्वस्यन्ति ध्रुवं बडवा बलप्रतिबलबलावस्तायिन्यः समीक्ष्य समीपगान्।
निजपरिवृढं गाढप्रेमा रथाङ्गविहङ्गमी
स्मरशरपराधीनवान्ता वृषस्यति सम्प्रति॥ 19.17 ॥
अन्वयः–बलप्रतिबलबलावस्तायिन्यः बडवाः समीपगात् रतिरथहयान् समीक्ष्यट ध्रुवम् अश्वस्यन्ति, गाढप्रेमा स्मरशरपराधीनस्वान्ता रथाङ्गविहङ्गमी सम्प्रति निजपरिवृढं वृषस्यति।
जीवातु–रवीति। बलप्रतिबलस्य बलाख्यासुरप्रतिपक्षस्य पूर्वदिगधिपतेरिन्द्रस्य, बलेषु सैन्येषु, अवतिष्ठन्ते वर्त्तन्ते इति तदवस्थायिन्यः, बडवाः तुरङ्ग्यः, पूर्वदिग्वर्त्तिन्य इति भावः। समीपगान् निकटस्थान्, रविरथहयान् सूर्यस्य स्यन्दनाकर्षिणः सप्त घोटकान्, समीक्ष्य विलोक्य, अश्वस्यन्ति कामयन्ते मैथुनार्थमश्वमिच्छन्तीत्यर्थःष ध्रुवमित्यत्प्रेक्षायाम्। तथा गाढप्रेमादृढानुरागा, अत एव स्मरशराणां कन्दर्पबाणाानां पराधीनस्वान्ता परतन्त्रचित्तः कामपीडितचित्ता इत्य्रथः। रथाङ्गविहङ्गमी चक्रवाकपक्षिणी। `जातेरस्त्री-’ इत्यादिना ङीप्। निजपरिवृढं स्वप्रभुम्, आत्मनः कान्तमित्य्रथः। सम्प्रति ऊषःकाले, वृषस्यति मैथुनाय कामयते इत्यर्थः। रात्रिवियोगिनोः चक्रवाकमिथुनयोः दिने एव मेथुनकरणादिति बोध्यम्। `सूप आत्मनः क्यच्’ इति क्यच्। `अश्वक्षीरवृषलवणानामात्मप्रीतौ क्वचि’ इत्यसुगागमः। `अश्ववृषयोमौथुनेच्छायाम्’ इति वक्तव्यादर्थनियमः॥ 19.17 ॥
निशि निरशनाः क्षीरस्य्नतः क्षुधाऽश्वकिशोरका
मधुरमधुरं ह्रेषन्त्येते विलोलितबालधि।
तुरगसमजः स्तानोत्थायं क्वणन्मणिमन्थभूधरभवशिलालेहायेहाचणो लवणस्यति॥ 19.18 ॥
अन्वयः–निशि निरशनाः क्षुधा क्षीरस्यन्तः एते अश्वकिशोरकाः विलोलितबालधि मधुरमधुरं ह्रेषन्ति; मणिमन्थभूधरभवशिलालेहाय ईहाचणः तुरगसमजः क्वणन् स्थानोत्थायं लवणस्यति।
जीवातु–निशीति। हे महाराज! निशि रात्रौ, निरशनाः निराहाराः, मातुः सकाशात् दूरे अवस्थापनादिति भावः। अत एव क्षुधा क्षुधया, क्षीरस्यन्तः क्षीरम् आत्मनः भृशमिच्छन्तः, दुग्धं पिपासतः इत्यर्थः। एते ह्रेषाध्वनिना अनुमितसमीपावस्थाना इत्यर्थः। अश्वकिशोरकाः। घोटकबालकाः। `बालाकिशोरः’ इत्यमरः। विलोलितबालधि सञ्चलितपुच्छं यथा तथा, मधुरमधुरम् अतिशयेन मनोहरम्, ह्रेषन्ति स्वनन्ति। किञ्च मणिमन्थभूधरः सैन्धवाचलः। `सैन्धपोऽस्त्री शीतशिवं माणिमन्थञ्च सिन्धुजे’ इत्यमरः। तद्भावानां तज्जानाम्, शिलानां लवणोपविशेषाणाम्, लेहाय आस्वादाय, ईहाचणः चेष्टया वित्तः, लवणलोलुपत्वेन ख्यात इत्यर्थः। `तेन वित्तश्चुञ्चुप्‌णपौ’ इति चणप्‌प्रत्ययः। तुरगाणां घोटकानाम्, समजः समूहः। `पशूनां समजः’ इत्यमरः। `समुदोरजः पशुषु’ इत्यप्‌प्रत्यय। क्वणन् शब्दायमानः, ह्रेषाध्वनिं कुर्वन् इत्यर्थः। `क्वणन्मणि मन्थभू’ इति न्यस्तपाठे-मन्थभूदरः रविपर्वताः, उदयाचल इत्यर्थः। `मन्थो रवौ मथि। साक्तवे नेत्ररोगे च’ इति हैमः। तद्भवशिलालेहाय ईहाचणः तुरगसमजः, क्वणन्तः शब्दायमानाः, मणयः क्षुद्रघण्टिकासमूहा यस्मिन् तत् यथा तथा क्वणत्किङ्किणीकं यथा तथा इत्यर्थः। स्थानोत्थायं स्थानात् निजशयनप्रेदेशात्, उत्थाय उद्‌गत्य `अपादाने परीप्सायाम्’ इति ममुल्। लवणस्यति लवणम् आत्मनः भृशमिच्छति, लवणं भोक्तुमिच्छतीत्यर्थः। `अश्वक्षीर-’ इत्यादिना `क्षीरलवणयोर्वलालसायाम्’ इत्यर्थनियमेऽसुगागमः। लालसा तृष्णातिरेकः॥ 19.18 ॥
उडुपरिषदः किं नार्हत्त्वं? निशः किमु नौचिती?
पतिरिह न यत् ताभ्यां दृष्टा गणेयरुचीगमः।
श्फुटमुडुपतेराश्मं वक्षः स्फुरन्मलिनाश्मनच्चिवि यदनयोर्विच्छेदेऽपि मृतं बत न द्रुतम्॥ 19.19 ॥
अन्वयः–उडुपरिषदः अर्हत्त्वं किं न, निशः किमु औचिती न, यत् इह गणेयरुचीगणः पतिः ताभ्यां न दृष्टः? स्फुरन्मलिनाश्मनच्छवि उडुपतेः वक्षः स्फुटम् आश्मं, यत् अनयोः विच्छेदे अपि बत द्रुतं न मृतम्।
जीवातु–उड्विति। उडुपरिषदः तारागणस्य, अर्हतः भावः अर्हत्त्वं पूज्यत्वम्, प्रशंसनीयत्वमित्यर्थः। प्रागेवास्तगमनस्येति भावः। न किम्? अपि तु अर्हत्त्वमेव। `अर्हत्त्वम्’ इति पाठे-अर्हत्त्वम्, औचित्यम्, न किम्? अपि तु औचित्यमेवेत्यर्थः। `आर्हन्तौ’ इति पाठे। `अर्हः प्रशंशायाम्’ इति शतरि, अर्हतो नुम् च’ इति नुमागमः, `ष्यञः षित्करणादीकारो बहुलम्’ इति वामनः। `यस्य हलः’ इति यकारलोपः एतेन औचिती व्याख्याता। नुमभावस्तु विशेषः। निशः रात्रेरपि, न औचिती न औचित्यम्, किमु? अपि तु उचितमेव, प्रागेवापगमनमिति भावः। अर्हत्त्वमेवौचित्यमेव चाह-यत् यस्मात् इह अस्मिन् समये, प्रभातकाले इत्यर्थः। गणेयरुचीगणः परिगणनीयकान्तिचयः, अतिशयेन परिक्षीणकिरणः इत्यर्थः। `गणेरेयः’ इत्यौणादिकण्यप्रत्ययः। पतिः चन्द्रः, ताभ्याम् उडुपरिषन्निशाभ्यां न दृष्टः न अवलोकितः। `धन्यास्तात! न पश्यन्ति पतिभङ्गं कुलक्षयम्’ इति स्मृतेः स्त्रीणां पत्युः क्षीणावस्थाया ईक्षणस्य अधन्यत्वसूचकत्वादिति भावः। किञ्च, अश्मनः इयम् आश्मनी, `तस्येदम्’ इत्यण्, सम्बन्धे अणि विकाराभावात् `अश्मनो विकारे टिलोपो वक्तव्यः’ इति टिलोपाबावः। स्फुरन्ती शशाङ्कतया कृष्णवर्णत्वेन प्रकाशमाना, मलिना कृष्णवर्णा, आश्मनी पाषाणमयी, पाषाणवत् कठिनेत्यर्थः। छविः कान्तिः यस्य तत् स्फुरन्मिलनाश्मंनच्छवि कृष्मवर्णप्रस्तरसदृशम्, उडुपतेः ताराकान्तस्य, वक्षः हृदयम्, अश्मनो विकारः आश्मं पाषाणमयम्, प्रस्तरवत् दुर्भेद्यमिति भावः। विकारार्थेऽण्‌प्रत्ययः। `अश्मनो विकारे टिपोलो वक्तव्यः’ इति टिलोपः। स्फुटं सत्यम्। कुतुः? यत् यस्मात्, अनयोः स्वकान्तयोः उडपरिषन्निशयोः, विच्‌छेदे वियोगेऽपि, प्रागेवापगमनादिति भावः। द्रुतं शीघ्रम्, न मृतं न विदीर्ण जातम् बत इति खेदे। अनयोर्वियोगेन उडुपतेः वक्षोविदारणेन मरणस्यैवौचित्यादिति भावः॥ 19.19 ॥
अरुणकिरणे वह्नौ लाजानुडूनि जुहोति या
परिमयति तां सन्ध्यामेतामवैमि मणिदिवः।
इयमिव स एवाग्निभ्रान्तिं करोति पुरा यतः
करमपि न कस्तस्यैवोत्कः सकौतुकमीक्षितुम्? ॥ 19.20 ॥
अन्वयः–या अरुणकिरणे वह्नौ उडूनि लाजान् जुहोति, अवैमि-ताम् एतां सन्ध्यां दिवः मणिः परिणयति, यतः इयम् इव सः एव पुरा अग्निभ्रान्ति करोति; कः एव सकौतुकम् अपि तस्य करम् ईक्षितुं न उत्कः? (सर्वे अपि उत्काः)।
जीवातु–अरुणेति। या प्रातःसन्ध्या, अरुणस्य सूर्यसारथेः अनुरोः, किरणे रश्मौ एव, वह्नौ अनले, आरक्तवर्णत्वसाम्यादिति भावः। उडूनि नक्षत्राणि एव, लाजान् भृष्टधान्यकृतान् अक्षतान् जुहोति आहुतिदानेनेव अदर्शनं नयतीत्यर्थः। आहुतिं ददाति च। प्रभातालोकेन नक्षत्राणां क्षीणत्वशुभ्रत्वमादिरूपेण प्रतीयमानत्वात् लाजसाम्यत्वं बोध्यमिति। ताम् उक्तरूपाम्, एतां परिदृश्यमानाम्, सन्ध्यां प्रातःसन्ध्यारूपां वभूम्, दिवः आकाशस्य, मणिः रत्नम्, सूर्यः इति यावत्। वरः इति भावः। परिणयति परि सर्वतोभावेन नयति प्रापयति, उपरथापयतीत्यर्थः। उपयच्छते च, इति अवैमि जानामि। वाक्यार्थः कर्म। इत्युत्प्रेक्षे इत्यर्थः। कथमवैषीत्यपेक्षायामाह-यतः यस्मात् हेतोः इयं सन्ध्यावधूरिव, सोऽपि स वरः सूर्योऽपि, पुरा पूर्वम् आगामिनि काले च। `स्यात् प्रबन्धे चिरातीते निकटागामिके पुरा’ इत्यमरः। तत्र सन्ध्या पूर्व सूर्यश्च आगामिनि काले इत्याशयः। अग्निभ्रान्तिम् आरुण्यात् आत्मनि अग्निविभ्रमं लाजहोमानन्तरम् अग्निप्रदक्षिणरूपं भ्रमणञ्च, करोति चकार करिष्यति च। `यावत्पुरानिपातयोर्लट्’। एकत्र-सन्ध्यायाः सुयस्य च उभरोरेव अग्निवर्णत्वात् उभावेन आत्मनि तद्‌भ्रमं कुरुतः अन्यत्र च-अग्रे वधूः तत्पृष्ठतो वरश्च अग्निप्रदक्षिणं करोतीति परिणयविधौ दृश्यते इत्याशयः। एवञ्च क एव को वा जनः, सकौतुकं सकौतूहल यथा तथा, ससूत्रञ्च, `कौतुकं विषयाभोगे हस्तसूत्रे कुतूहले’ इति यादवः तस्य परिणेतुः द्युमणेः, करम् अंशुं हस्तञ्च। `बलिहस्तांशवः कराः’ इत्यमरः। ईक्षितु द्रष्टुम् न एव उत्कः? नैध उत्सुकः? एकत्र-अरुणोदयकालिकहोमादिनित्यकर्मानुष्ठानार्थम्, अन्यत्र-चित्तविनोदनार्थञ्चेति भावः। भवतीति शेषः। अपि तु सर्वेऽपि उत्सुका एव भवन्तीत्यर्थः। अरुणोदयः जातः, तारकाश्च अरुणप्रभायां लीना सत्यः न दृश्यन्ते, सन्ध्यासमयश्च समागतः, इदानीं सूर्य उदेष्यति इति निष्कर्षः॥ 19.20 ॥
रतिरतिपतिद्वैतश्रीकौ! धुर बिभृमस्तमां
प्रियवचसि यन्नग्नाचार्या वदामतमां ततः।
अपि विरचितो विघ्नः पुण्यद्रुहः खलु नर्मणः
परुषमरुषे नैकस्यै वा मुदेतु मुदेऽपि तत्॥ 19.21 ॥
अन्वयः–रतिरतिवतिद्वैतश्रीकौ, नग्नाचार्याः प्रियवचसि यत् धुरं बिभृमस्तमां ततः वदामतमाम्,-पुण्यद्रुहः नर्मणः खलु विघ्नः अपि विरचितः तत् परुषं वाम् एकस्यै अरुषे न, मुदे अपि उदेतु।
जीवातु–रतीति। रतिरतिपत्योः कामाङ्गनाकामदेवयोः, द्वैतं द्वितीयत्वं यत्र सा तादृशी, श्रीः सौन्दर्यं ययोः तादृशौ हे द्वितीयौ रतिकामौ! हे तादृशौ भैमीनलौ! प्रियवचसि चाटुवादे, स्तुतिपाठकर्मणीत्यर्थः। धुरं भारम्, बिभृमस्तमाम् अतिशयेन धारयामः। भवतां सन्तोषकरवचनप्रयोगे एव वयं नियुक्ताः स्म इत्यर्थः। तथाऽपि यत् यस्मात्, नग्नानां वन्दिनाम्, अन्यान्यस्तुतिपाठकानामित्यर्थः। `नग्नः क्षपवन्दिनोः’ इत्यमरः। आचार्याः ुपदेशादिकारिमः, वन्दिप्रधाना इत्यर्थः। वयमिति शेषः। ततः तस्मात्, वदामतमाम, अतिशयेन वदामः, औचित्यात् अप्रियमपि हितमिति भावः। उभयत्रापि तिङव्यात्-’ इत्यामुप्रत्ययः। ननु किं वा अप्रिय किं वा हितं वदथ? इत्याह-पुण्यद्रुहः सन्ध्यार्चनाद्यवश्यकर्त्तव्यनित्यकर्मणां व्याधतजनकत्वेन सुकृतविरोधिनः। नर्मणः युवयोः सुखविहारस्य, विघ्नः अन्तरायः, विचरितः खलु अपि ईदृगप्रियवाक्येन सम्पादितः एव, अतः तत् तादृशम्,षरुपषं नर्मव्याधातकतया निष्ठुरम्, वाक्यमिति शेषः। वां युवयोः मध्ये, एकस्यै भैम्यै, अरुषे क्रोधाभावाया, क्वचित् प्रसज्य प्रतिषेधेऽपि अञ्समास इष्यते। न उदेति न जायते, बालाया अदीक्षितायाः तस्याः सन्ध्यादिप्रयोजनाभावात् क्रोधायैव भवतु इति भावः। मुदे हर्षाय अपि, सन्ध्यार्चनाद्यवश्यकर्मप्रयोजकत्वात् तव सन्तोषायापीत्यर्थः। उदेतु। अप्रियमपि हितं वाच्यमेवेत्यतो वदाम इत्याशयः॥ 19.21 ॥
भव लघुयुताकान्तः सन्ध्यामुपास्स्व तपोमयः!
त्वरयति कथं सन्ध्येयं त्वां न नाम निशानुजा?।
द्युतिपतिरथावश्यङ्कारी दिनोदयमासिता
हरिपतिहरित्पूर्णभ्रूणायितः कियतः क्षणान्?॥ 19.22 ॥
अन्वयः–तपोमय, लघुयुताकान्तः भव, उपास्स्व, इयं निशानुजा सन्ध्या कथं नाम त्वां न त्वरयति। अथ दिनोदयम् अवश्यङ्कारी हरिपतिहरित्पूर्मभ्रूणायिताः द्युतिपतिः कियतः क्षणान् आसिता?
जीवातु–भवेति। तपोमय! हे तपोनिष्ठ! महाराज! अत एव विहितकाले सन्ध्यादिनिमित्तं तत्परो भव इत्याशयः। लघु शीघ्रम्, युता पृथग्‌भूता, कान्ता प्रिया यस्य सः तादृशः युताकान्तः विसृष्टप्रियः। भव जायस्व। कान्ताशब्दस्य प्रियादिपाठात् `स्त्रियाः पुवत्’ इत्यादिना पूर्वपदस्य न पुवद्भावः, `अप्रियादिषु’ इति प्रतिषेधात्। सन्ध्यां प्राभातिकोपासनाम्, उपास्स्व सेवस्व। इयम् उपस्थिता, निशानुजा रात्रेरनन्तरं सञ्जाता, सन्ध्या प्रातःसन्ध्या, त्वां भवन्तम्, कथं किमर्थम्, नाम प्रश्ने, न त्वयति? न सत्वरीकरोति? सन्ध्योपासनार्थमिति भावः। यतः, अथ अनन्तरमेव, सत्वरमेवेत्यर्थः। दिनोदयं दिवसप्रादुर्भावम्, अवश्यं करिष्यतीति अवश्यङ्कारी दिनं निश्चितमेव करिष्यन् इत्यर्थः। `आवश्यकाघमर्ण्ययोः’ इत्यावश्यकार्थे णिनिः। मयूरव्यंसकादित्वात् समासः। आवश्यकार्यत्वादिह भविष्यति इत्यर्थः। लभ्यते, अतः `अकेनोर्भविष्यदाधमर्ण्ययोः’ इतीन्युक्तषष्ठीप्रतिषेधः सम्भवति, अत एव भविष्यदर्थाभावे अत्र प्रत्युदाहरणं काशिकायाम्, `अवश्यङ्कीरी कटस्य’ इति। हरिः इन्द्रः, पतिः प्रभुः यस्याः तादृश्याः, हरितः दिशः प्राचीदिगङ्गनाया इत्यर्थः। पूर्मभ्रूणः सम्पूर्मगर्भः, दशममासीयगर्भ इत्यर्थः। `गर्भो भ्रूण इमौ समौ’ इत्यमरः। स इव आचरितः इति तादृशः। `आचारक्यङन्तात् कर्त्रि क्तः। द्युतिपतिः सूर्यः, कियतः क्षणान् कति कालान्, अत्यन्तसंयोगे द्वितीया। आसिता? स्थाता? स्वोदय स्थगयित्वा अपेक्षिष्यते? इत्यर्थः। न क्षणमपीति भावः। शीघ्रमेव सूर्यस्य ुदयो भविष्यति, अतः सूर्योदयात् प्राक् सन्ध्योपासनार्थं सत्वरमुत्तिष्ठ इति तात्पर्यम्॥ 19.22 ॥
मुषितमनिश्चित्रं भैमि! त्वायऽद्य कलागृहैर्निषधवसुधानाथस्यापि श्लश्लथतां विधौ।
अजगणदयं सन्ध्यां वन्धअयां वन्ध्यां विधाय न दूषणं
नंमसितुमता यन्नाम स्यान्न सम्प्रति पूषणम्॥ 19.23 ॥
अन्वयः–भैमि, अद्य कलागृहैः त्वया मुषितमनसः निषधवसुधानाथस्य अपि विधौ श्लथश्लथता चित्रम्, यत् अयं सन्ध्यां वन्ध्यां विधाय दूषणं न अजगत्, सम्प्रति पूषणं नमसितुमनाः नामः न स्यात्।
जीवातु–मुषितेति। भैमि! हे दमयन्ति! अद्य अस्मिन् दिवसे, कलागृहैः कालनां चुम्बनालिङ्गनादिरूपकामक्रीडाशानाम्, गृहैः निवासैः, आश्र्यस्वरूपया इत्यर्थः। `गृहाः पुसि च भूम्न्येव’ इत्यमरः। त्वया भवत्या, मूषितमनासः अपहृतचित्तस्य, निषधवसुधानाथस्य नलस्यापि, परमधार्मिकस्यापिति भावः। विधौ श्रुतिविहितसनध्योपासनादिनित्यकर्मानुष्ठाने, श्लथश्लथता। कर्मधारयवद्भावे पुवद्भावात् सुपो लुक्। चित्रम्, आश्चर्यम्, यत् यस्मात्, अयं नलः, सम्प्रति अधुना, न इतः पूर्वमिति भावः। सन्ध्यां प्रातः कालिकोपासनाम्, वन्ध्यां निष्फलाम्, विधाय कृत्वा, अनुपास्येत्यर्थः। दूषणं दोषम्, न अजगणत् न गणयति स्म, तथा पूषणं सूर्यम्, अचिरमेव उदेष्यन्तमिति भावः। `इन्‌हन्‌पूषाऽर्म्णां शौ’ इति नियमान्नात्र दीर्घ। नमसितुमनाः नमस्कर्त्तुकामश्च। `नमोवरिवश्चित्रङ क्यच्’ इति क्यजन्तात् तुमुन्, `क्यस्य विभाषा’ इति क्यलोपः, `तुं काममनसोरपि’ इति मकारलोपः। न स्यात् नाम न भवेदपीत्यर्थः। अप्यर्थे नाम॥ 19.23 ॥
न विदुषितरा काऽपि त्वत्तस्ततो नियतक्रियापतनदुरिते हेतुर्भर्त्तुर्मनस्विनि! मास्य भूः।
अनिशभवदत्यागादेन जनः खलु कामुकीसुगमभिधास्यत्युद्दामाऽपराङ्कवदावदः॥ 19.24 ॥
अन्वयः–मनस्विनि त्वत्तः विदुषितरा का अपि न, ततः भर्त्तुः नियतक्रियापतनदुरिते हेतुः मास्म भूः; उद्दामा अपराङ्कवदावदः जनः खलु अनिशभवदत्यागात् एनं कामुकीसुभगम् अभिधास्यति।
जीवातु–नेति। मनस्विनि! हे प्रशस्तचित्ते! अतः अवश्यमेव स्वामिनम्, अवैधकार्यात्, निवारयिष्यसीत्याशयः। त्वत्तः भवत्याः, त्वामपेक्ष्य इत्यर्थः। `पञ्चमी विभक्ते’ इति पञ्चमी। अतिशयेन विदुषी विदुषितरा। `घरूप-’ इत्यादिना ह्रस्वः। काऽपि अन्या काचिदपि स्त्री, न, अस्तीति शेषः। ततः तस्मात् हेतोः, भर्तृ पत्युः; नियतक्रियापतनदुरिते सन्ध्यादिनित्यकर्मभ्रंशपापे, हेतुः कारणम्, मास्म भूः नैव भव। `स्मोत्तरे लङ्च’ इति चकाराल्लुङ्, `न माङ्योगे’ इत्यडभावः। तथा हि-उद्दामा उत् उद्‌गतम्, तल्लङ्घितमित्यर्थः। दाम लोकस्थितिरूपपाशः येन तादृशः उच्छृङ्खलः, उग्रवभाव इत्यर्थः। अत एव अपरेषाम् अन्येषाम्, अङ्कस्य कलङ्कस्य, वदावदः वक्ता। `चरि-‘इत्यादिना वदेर्द्धिरुक्तितः अभ्यासस्यागागमश्च। जनः लोकः, खलु निश्चितम्, अनिशं निरन्तरम्, भवत्या त्वया, कर्त्र्या। अत्यागात् अमुक्तत्वात् हेतोः `सर्वनाम्नो वृत्तिमात्रे पुवद्भावः’। एनं नलम्, तव स्वामिनमिति भावः। कामुकी वृषस्यन्ती। `वृषस्यन्ती तु कामुकी’ इत्यमरः। `अश्ववृषयोर्मैथुनेच्छायाम्’ इति क्यच्। तस्याः सुभगं वक्ष्यतीत्यर्थः। तस्मादेनं क्षणं मुञ्च इति भावः॥ 19.24 ॥
रह सहचरोमेतां राजन्नपि स्त्रितरां क्षणं तरणिकिरणैः स्तोकोन्मुक्तैः समालभते नभः।
उदधिनिरयद्भास्वरत्स्वर्णोदकुम्भदिदृक्षुतां
दधति नलिन प्रस्थायिन्यः श्रियः कुमुदान्मुदा॥ 19.25 ॥
अन्वयः–राजन्, स्त्रितराम् अपि सहचरीम् एतां क्षणं रह; नभः स्तोकोन्मुक्तैः तरणिकिरणैः समालभते; कुमुदात् नलिनं प्रस्थायिन्यः श्रियः मुदा उदधिनिरयदभास्वत्स्वर्णोदमुम्भदिदृक्षुतां दधति।
जीवातु–रहेति। हे राजन्, स्त्रितराम् उत्कृष्टस्त्रियमपि। स्त्रीशब्दस्य जातिवाचित्वेऽपि तन्निष्गुणगतातिशयविवक्षया तरप्प्रत्यय इति भगवान् भाष्यकारः। `नद्याः शेषस्यान्यतरस्याम्’ इति विभाषया ह्रस्वः। सहचरीं सहचारिणीम् पचादिषु चरट् इति टित्करणेन ङीप्। एतां प्रियां दमयन्तीम्, क्षणं कियत्कालम्, रह त्यज, वैधक्रियासम्पादनार्थमिति भावः। `रहति त्यजति त्यागे’ इति भट्टमल्लः। रहेभौंवादिकाल्लोटि सिप्। नभः आकाशम्, कर्तु स्तोकेन लेशेन, उन्मुक्तैः प्रकटितैः। ` करणे च स्तोकाल्प-’ इत्यादिना पक्षे तृतीया। कर्मणि कर्मकर्त्रि वा क्तः। स्वल्पमुदितैरित्यर्थः। तरणिकिरणैः सूर्यरश्मिबिः करणैः। समालभते आत्मानं विलिम्पति, अनुलिम्पति इत्यर्थः। `समालम्भो विलेपनम्’ इत्यमरः। `समालम्भनमित्यपि’ इत्यनुलेपनपर्याये यादवः कुङ्कुमैरिवेति भावः। किञ्च, कुमुदात् कैरवात्। अपादानात् नलिनं पद्मं प्रति। गम्यमानोद्देशक्रियापेक्षया कर्मत्वम्। नलिनम् उद्दिश्य इत्यर्थः। प्रस्थायिन्यः प्रतिष्ठमानाः रजन्यपगमेन कुमुदस्य भुद्रणोन्मुखत्वात् पद्मस्य च सुफुटनोन्मुखत्वादिति भावः। ग्रह्यदित्वात् णिनिः। अत्र गम्यादिपाठत् `अकेनोः’ इति ष्ठीप्रतिषेधात् कर्मणि द्वितीयेति केचित्, तत् प्रतिष्ठतेरकर्मकत्वमनालोच्य उक्तमित्युपेक्षणीयम्। श्रियः शोभाः, मुदाहर्षेण, उदकानि धीयन्ते अस्मिन् इति उदधिः समुद्रः। `कर्मण्यधिकरणे च’ इति किप्रत्ययः। `पेषवासवाहनधिषु च’ इत्युदादेशः। तस्मात् निरयन् निर्गच्छन्। एतेर्लटः शत्रादेशः। स चासौ भास्वान् सूर्यश्च, स एव स्वर्णस्य उदकुम्भः जलपूर्णहेमघटः। `एकहलादौ पूरयितव्येऽन्यतरस्याम्’ इत्युदादेशः। तद्दिदृक्षुतां द्रष्टुमिच्छवः दिदृक्षवः तासां भावः तत्ता ताम्, विलोकयितुमिच्छुताम्। `न लोक-’ इत्यादिना षष्ठीप्रतिषेधे गम्यादिपाठात् द्वितीयासमासः। दधति धारयन्तीव, दिदृक्षन्ते इवेत्यर्थः। प्रस्थानकाले पूर्मकुम्भदर्शनस्य मङ्गलावहत्वादिति भावः॥ 19.25 ॥
प्रथमककुभः पान्थत्वेन स्फुटेक्षितवृत्रहाण्यनुपदमिह द्रक्ष्यन्ति त्वां महांसि महः पतेः।
अन्वयः–प्रथमककुभः पान्थत्वेन स्फुटेक्षितवृक्षितवृत्रहाणि महःपतेः महांसि अनुपदम्, इह त्वां द्रक्ष्यन्ति; अहह, पटिमवहनात् ऊहापोहक्षमाणि युवयोः लक्ष्मीविवेचनचातुरीं तावत् वितन्वताम्।
पटिमवहनादूहापोहक्षमाणि वितन्तवतामहह! यवुयोस्तावल्लक्षमीविवेचनचातुरीम्॥ 19.26 ॥जीवातु–प्रथमेति। महःपतेः सूर्यस्य महांसि तेजांसि, प्रथमककुभः इन्द्रस्वामिकायाः प्राच्यः, पन्थानं गच्छतीति पान्थः नित्यपथिकः। `पन्थोण नित्यम्’ इति णप्रत्ययः पन्थादेशश्च। तत्त्वेन पथिकत्वेन, नित्यमिन्द्रदिग्गतत्वेन इत्यर्थः। स्फुटं स्पष्टम्, ईक्षितः दृष्टः, वृत्रहा इन्द्रः यैः तानि। `इन्‌हन्-’ इत्यादिना शौ दीर्घः। अनुपदम् अनुगमेव, इन्द्रेक्षणानन्तरमेवेत्यर्थः। `अन्वगन्वक्षमनुगेऽनुपदं क्वीबमव्ययम्’इत्यमरः। इह अस्मिन् प्रदेशे, त्वां नलं, द्रक्ष्यन्ति अवलोकयिष्यति। ततः किं तत्राह–पटिमवहनात् पटिमा तीक्ष्णता, तीक्ष्णरश्मिता इत्यर्थः। चातुर्यञ्च प्रज्ञातिशयञ्च इत्यर्थः। तस्य वहनात् धारणात् `पटुश्चतुरतीक्ष्णयोः’ इति शाश्वतः। ऊहापोहयोः ऊहः तर्कः, विचारपूर्वकसद्‌ग्रहणमित्यर्थः। अपोहः परित्यागः, अपकृष्टवस्तुन इति भावः। तयोः क्षमाणि शक्तिनि, तानि महांसि इति शेषः। युवयोः तस्य इन्द्रस्य तव च। `त्यदादीनि सर्वैर्नित्यम्’ इति त्यदाद्येकशेषः। लक्ष्मीविवेचनचातुरीं शोभासम्पदां तारतम्यविचारकौशलम्, तावत् साकल्येन, वितन्वतां विस्तारयन्तु, प्रदर्शयन्तु इति यावत्। उभयद्रशिनाम् उभयतारतम्यं विवेक्तुं युक्तमेवेति भावः, अहह इत्यद्‌भुते॥ 19.26 ॥
अनतिशिथिले पुम्भावेन प्रगल्भबलाः खलु
प्रसभमलयः पाथोजास्ते निवश्य निरित्वराः।
किमपि मुखतः कृत्वाऽऽनीतं वितीर्य सोजिनीमधुरसमुषोयोगे जायां नवान्नमचीकरन्॥ 19.27 ॥
अन्वयः–खलु पुम्भावेन प्रगल्भबलाः अनतिशिथिले पाथोजास्ये प्रसभं निविश्य निरित्वराः अलयः मुखतः कृत्वा आनीतं सरोजिनीमधुरसं वितीर्य उषोयोगे जायां किम् अपि नवान्नम्, अचीकरन्।
जीवातु–अनतीति। पुम्भावेन पुंस्त्वेन हेतुना; प्रगल्भबलाः स्त्रीभ्योऽधिकशक्तिसम्पन्नाः, अलयः भृङ्गाः, अनतिशिथिले ईषद्विकसिते, पाथोजस्य पद्मस्य, आस्ये मुके, उपरिबागे इत्यर्थः। प्रसभं बलात्, निविश्य अधिष्ठाय, निरित्वराः निर्गच्छन्तः सन्तः, `इण्‌नश्‌जिसर्त्तिभ्यः क्वरप्’ इति क्वरप्। मुखतः मुखे कृत्वा धृत्वेत्यर्थः। आनीतम् आहृतम्, सरोजिनीमॉधुरसं नलिन्याः मकरन्दद्रवम्, वितीर्य दत्त्वा, उषोयोगे प्रातः, जायां स्वकान्ताम् अलिनीम्, किमपि पूर्वमनास्वादात् अनिर्वचनीयसुस्वादु, नवान्नं नूतनं भोज्यम्, अचीकरन् कारयामासुः, भोजयामासुः इत्यर्थः। करोतेर्णौ चङ्‌युपधाया ह्रॅस्वः, `हृक्रोरन्यतरस्याम्’ इति अणिकर्त्तुः कर्मत्व्। बली पुमान् स्त्र्यन्तराधिकृतमपि मिष्टमन्नं बलात् आछिद्य स्वस्त्रियै प्रयच्चतीति भावः॥ 19.27 ॥
मिहिरकिरणाभोगं भोक्तुं प्रवृत्ततया पुरः
कलितचुलूकाऽऽपोशानस्य ग्रहार्थमियं किमु?।
इति विकसितेनैकेन प्राग्दलेन सरोजिनी
जनयति मतिं साक्षात्कर्त्तुर्जनस्य दिनोदये॥ 19.28 ॥
अन्वयः–इयं सरोजिनी दिनोदये प्राक् विकसितेन एकेन दलेन मिहिरकिरणाभोगं भोक्तुं प्रवृत्ततया पुरः आपोशानस्य ग्रहार्थं कलित-चुलुका किमु-इति साक्षात्कर्त्तुः जनस्य मतिं जनयति।
जीवातु–मिहिरेति। इयं किञ्चित् विकसिता, सरोजिनी पद्मिनी, दिनोदये अस्मिन् प्रातः काले, प्राक् दलान्तरविकाशात् पूर्वम्, विकसितेन प्रस्फुटितेन, संहतीभावात् पृथग्भूतेनेत्यर्थः। एकेन एकमात्रेण, दलेन पत्रेम हेतुना, मिहिरकिरणः सूर्यरश्मिरेव, आ सम्यक् भुज्यते इति आभोगः भोज्यं तम्, भोक्तुं खादितुम्, प्रवृत्ततया कृतारम्भतया हेतुना, पुरः पुर्वम्, भोजनात् प्रागित्यर्थः। आपोशानस्य आपोशानं नाम भोजनादौ कर्त्तव्यम्, `अमृतोपस्तरणमसि स्वाहा’ इति समन्त्रकजलपानेन अन्नस्य अमृतास्तरणरूपं कार्यं, समन्त्रकाचमनमित्यर्थः. तस्य। पृषोदरादित्वात् साधुः। ग्रहार्थम् आचरणार्थं, कलितः कृतः, चुलुकः गण्डूषकरणार्थं विश्लिष्टकनिष्ठाङ्गुलिकः प्रसृत्यपराख्यः निकुब्जपाणितलविशेषः यस्याः सा तादृशी, किमु? इति उत्प्रेक्षा, इति एवम्, साक्षात्कर्त्तुः स्वस्या एव द्रष्टः, जनस्य लोकस्य, मतिं बुद्धिम्, जनर्यात उत्पादयति। आपोशानकार्यकारी हस्तस्य कनिष्ठाङ्गुलिं प्रसार्य अन्याङ्गुलीनां सङ्कोचं विधाय च लं पिबति इति सम्प्रदायः। प्राग्‌विकसितैकदलस्य विश्लिष्टकिनिष्ठाङ्गुलीतुल्यतया पद्मस्य च निकुब्जपाणितलतुल्यतया कलितचुलुकत्वं बोद्धव्यम्॥ 19.28 ॥
तटतरुखगश्रेणीसांराविणैरिव साम्प्रतं
सरसि विगलन्निद्राऽजनिष्ट सरोजिनी।
अधरसुधया मध्ये मध्ये वधूमुखलब्धया
धयति मधुपः स्वादुङ्कारं मधूनि सरोरुहाम्॥ 19.29 ॥
अन्वयः–साम्प्रतं सरसि सरोजिनी तटतरुखगश्रेणीसांराविणैः इव विगलन्निन्द्रामुद्रा अजनिष्ट; मधुपः सरोरुहां मधूनि मध्ये मध्ये वधूमुखलब्धया अधरसुधया स्वादुङ्कारं धयति।
जीवातु–तटेति। साम्प्रतं सम्प्रति, सरसि सरोवरे, स्तितेति शेषः सरोजिनी पद्मिनी, तटतरुषु तीरस्तितवृक्षसमूहेषु, याः खगश्रेण्यः पक्षिसमूहाः तासां सांराविणैः सम्यग् रावैरिव, उच्चकलकलैरिवेत्यर्थः। इत्युत्प्रेक्षा। `अभिवधौ भावे इनुण्’ इति सावार्थे इनुण्प्रत्ययः। विगलन्निद्रामुद्रा विगलन्ती अपागच्छन्ती, निद्रा स्वप्न इव, मुद्रा निमीलनम्, सङ्कोच इत्यर्थः। यस्याः सा तादृशी, अजनिष्ट जाता। जनेः कर्त्तरि लुङ्। तथा मधुपः भ्रमरः सरोरुहा कमलानाम्, मधूनि मकरन्तदान्, मध्ये मध्ये अन्तराऽन्तरा, वधूमुखे स्वकान्तान्ने, लब्धया चुम्बनकाले प्राप्तया, अधरसुधया अधरामृतेन, स्वादुङ्कारं स्वादूकृत्य, सुरसानि कृत्वेत्यर्थः। `स्वादुमि णमुल्’ इति णमुल् प्रत्ययः। मान्तनिर्देशादेव पूर्वपदस्य मकारान्तनिपातः। धयति पिबति। धेटो लट्॥ 19.29 ॥
गतचरदिनश्यायुभ्रुंशे दयोदयसङ्कुचत्कमलमुकुलक्रोडे नीडे प्रवेशमुपेयुषाम्।
इह मधुलिहां भिन्नेष्वम्भोरुहेषु समायातां
सह सहचरैरालोक्यन्तेऽधुना मधुपारणाः॥ 19.30 ॥
अन्वयः–गतचरदिनस्य आयुर्भ्राशे दयोदयसङ्गकुचत्कमलमुकुलक्रोडे नीडे प्रवेशम् उपेयुषाम् इह भिन्नेषु अम्भोरुहेषु समायतां मधुलिहाम् अधुना सहचरैः सह मधुपारणाः आलोक्यन्ते।
जीवातु–गतेति। गतचरस्य गतपूर्वरय। `भूतपूर्वे चरट्’ प्रागतीतस्य इत्यर्थः। दिवस्य दिवसस्य, आयुर्भ्रशे जीवितावसाने सति, सायंसमये इति भावः। दयोदयात् कृपाविर्भावात् इव, तद्‌दुरवस्थादर्शनेनेति भावः। कमलमुकुलानां पद्मकोरकाणाम्, क्रोडे अभ्यन्तरे एव, नीडे कुलाये। `कुलायो नीडमस्त्रियाम्’ इत्यमरः। प्रवेशम्, अन्तर्गमनम्, उपेयुषां प्राप्नुवताम्, अन्तः प्रविशतामित्यर्थः, रात्रौ तत्रैव आबद्धानाम्, अत एव कृतोपवासानामिति भावः। इह अधुना, प्रभाते इत्यर्थः। भिन्नेषु विकसितेषु, अम्भोरुहेषु पद्मेषु, समायतां निपतताम्, इतस्ततो भ्रमतामित्यर्थः। इणो लटः शत्रादेशः। मधुलिहां मधुपानाम्, अधुना इदानीम्, सहचरैः सुहृद्भिर्भ्रमरान्तरैः सह, सम्प्रत्यागतैरिति भावः। मधुना मकरन्देन, पारणाः उपवासानन्तरं भोजनानि, आलोक्यन्ते दृश्यन्ते जनैरिति शेषः॥ 19.30 ॥
तिमिलविहात् पाण्डूयन्ते दिशः कृशतारकाः
कमलहसितैः श्येवोन्नीयते सरसी न का?।
शरणमिलितध्वान्तध्वंसिप्रभाऽऽदरधारणाद्
गगनशिखरं नीलक्येकं निजैरयशोभरैः॥ 19.31 ॥
अन्वयः–दिसः तिमिरविरहात् कृशतारकाः पाण्डूयन्ते; का सरसी कमलहसितैः श्येनी इव उन्नीयते? एक गननशिखरं शरणमिलितध्वान्तध्वंसिप्रभादरधारणात् निजैः अयश भरैः नीलति।
जीवातु–तिमिरेति। दिशः प्राच्यादयः, तिमिरेण अन्धकारेण सह, विरहात् विच्छेदात्, कृशाः क्षीणाः, सूर्यप्रभया औज्जवल्लह्रासादिति भावः। तारकाः नक्षत्राणि यासां ताः तादृश्यः सत्यः, पाम्डूयन्ते पाण्डुवर्णाः इव आचरन्ति, विरहिधर्मत्वादिति भावः। का सरसी तडागः, कमलानि विकसितपद्मानि एव, हसितानि हास्यानि तैः, कमलानां हसितैः विकसनरूपैः हास्यैरिति वा, श्येनी इव श्वेतवर्णा इव, न उन्नीयते? न दृस्यते? अपि तु सर्वा एव उन्नीयन्ते इत्यर्थः। प्रियसमागमेन सर्वा एव हास्यविकसितानना भवन्ति इति भावः। `वर्णादनुदात्तात्तोपधात्तो नः’ इति ङीप्‌प्रत्ययः, `त’कारस्य च `न’कारः। किन्तु एकं केवलम्, गगनाशखरम्, आकाशोपरिभागः, तुङ्गनभोमण्डलमित्यर्थः। शरणमिलितानि राक्षतृत्वेन प्राप्तानि, शरणागतानीत्यर्थः। ध्वान्तानि अन्धकारान्, ध्वंसयन्ति विनाशयन्तोति तादृशीनाम्। `स्त्रियाः पुवत्’ इत्यादिना पुवद्भावः। प्रभाणा सूर्यकिरणानाम्, आदरेण आग्रहातिशयेन, धारणात् भरणाद् हेतोः, स्वस्मिन् स्थानदानाद्वेतोरित्यर्थः। निजैः स्वकीयैः, अयशोभरैः अकीर्त्तिबाहुल्लट्। शरणागतहन्तुराश्रयदानात् हेतोर्निजैर्निन्दाभरैः कृष्णीभवात इत्यर्थः, शरणागतापालनकीर्त्तिलोपादिव स्वमेक नीलमदृस्यत इति निष्कर्षः। तारकाप्रभाक्षयात् गगन स्वेन नीलरूपेण प्रकटं जातमिति भावः॥ 19.31 ॥
सरसिजवनान्युद्यत्पक्षार्थमाणि हसन्तु न?
क्षतरुचिसुहृच्चन्द्रं तन्द्रामुपैतु न कैरवम्?।
हिमगिरिदृषद्दायादश्रीप्रतीतमुदः स्मितं
कुमुदविपिनस्याथो पाथोरूहैर्निजनिद्रया॥ 19.32 ॥
अन्वयः–उद्यत्पक्षार्थमाणि सरसिजवनानि न हसन्तु? क्षतरुचिसुहृच्चन्द्रं कैरवं तन्द्रां न उपैतु? अयो पाथोरुहैः हिमगिरिदृषद्दायादश्रीप्रतीतमुदः कुमुदविपिनस्य निजनिद्रया स्मितम्।
जीवातु–सरसिजेति। उद्यन् उदयं गच्छन्, पक्षः सहायभूतः, अर्यमा सूर्यः येषां तादृशानि, सरसिजवनानि कमलकाननानि, न हसन्तु? न विकसन्तु? न हास्यं कुर्वन्तु? इति च काकुः हसन्त्वेव इत्यर्थः। सुहृदाम् उदये सर्वे एव हसन्तीति लोके दर्शनादिति भावः। क्षतरुचिः शीर्णद्युतिः, सुहृत् मित्रम्, चन्द्रः निशापतिः यस्य तत् तादृशम् कैरवं कुमुदम्, कर्त्तृ। तन्द्रां तन्द्रावत् निमीलनमित्यर्थः। प्रमीलां च, न उपैतु? न प्राप्नोतु? अत्रापि काकुः, उपैत्वेव इत्यर्थः। सुहृत्पीडायां सर्वे एवावसीदन्तीति लोके दर्शनादिति भावः। अथो किञ्च, पाथोरुहैः पद्मैः। कर्त्तृभिः हिमगिरिदृषद्‌दायादया हिमगिरेः हिमालयस्य, दृषदां शिलानाम्, दायादया अंशहरया सदृशया इत्यर्थः। श्रिया वैशद्यसम्पदा, प्रतीतमुदः प्रतीता प्रकाशं गता, मुत् हर्षः यस्य तादृशस्य प्रकटहर्षस्य, रात्रौ तथा हृष्टस्य इत्यर्थः। कुमुदविपिनस्य कैरववनस्य सम्बन्धिन्या, निजनिद्रया स्व निद्रया निमित्तेन, निशाकालिकस्वकीयनिमीलनात्मकनिद्रायाः सम्प्रति कुमुदवनगामित्वेन हेतुनेत्यर्थः। स्मितं हसितम्, विकसितञ्च, भावे, निष्ठा। रात्रौ कुमुदवनस्य हृष्टत्वं कमलवनस्य च निद्रा आसीत्, इदानीं पद्मानि रात्रिजां स्वनिद्रां कुमुदवने सञ्चार्य तस्य हृष्टत्वं गृहीत्वा हसन्तीवेत्युत्प्रेक्षा व्यञ्जकाप्रयोगाद्‌गम्या। `हिमगिरदृषद्‌दायादश्रि प्रतीष्टमदः स्मितम्’ इति पाठान्तरे-पाथोरुहैः निजनिद्रया स्वीयनिमीलनरूपनिद्रादानेन, हिमगिरिदृषददायादा सदृशी, श्रीः शोभा यस्य तादृशम्, कुमुदवनस्य अदः इदम् स्मितं नैशविकसनं हास्यञ्च, प्रतीष्टं वाञ्छितम्, प्रतिगृहीतमित्यर्थः॥ 19.32 ॥
धयतु नलिने माध्वीक वा न वाऽभिनवागतः
कुमुदमकरन्दौघैः कुक्षिम्भरिर्भ्रमरोत्करः।
इह तु लिहते रात्रीतर्ष रथाङ्गविदङ्गमा
मधु निजवधूवक्त्राम्भोजेऽधुनाऽधरनामकम्॥ 19.33 ॥
अन्वयः–कुमुदमकरन्दौधैः कुक्षिम्भरिःनलिने अभिनवागतः भ्रमरोत्करः माध्वीकं धयतु वा, न वा, इह तु राताङ्गविहङ्गमाः रात्रोतर्षा निजवधूवक्त्राम्भोजे अधरनामकं मधु अधुना लिहते।
जीवातु–धयत्विति। कुमुदानां कैरवाणाम्, मकरन्दौधैः मधुसमूहैः, कुक्षिम्भरिः उदरपूरकः। `फलेग्रहिरात्मम्भरिश्च’ इति चकारात् कुक्षिम्भरिः सिद्धः। नलिने पद्मे, अभिनवागतः सद्यः समागतः, भ्रमरोत्करः भृङ्गसङ्घः, माध्वीक मकरन्दम्, कमलमथु इत्यर्थःष धयतु विबतु वा, न वा, धयतु इति शेषः। रात्रौ कुमुदमधुभिः उदरपूरं पीतत्वात् तृप्तस्य अतियेः पानाद्यभावे न काऽपि भतिः इति भावः। तु किन्तु, रथाङ्गविहङ्गमाः चक्रवाकाः, रात्रीतर्ष रात्रिं व्याप्य तृषित्वा, पियाविरहात् तर्षणैः रित्रिं नीत्वा इत्यर्थः। `अस्यतितृषोः क्रियान्तरे कालेषु’ इति णमुल्‌प्रत्ययः। इह अस्मिन्, निजवधुव क्त्राम्भोजे स्वकान्ता मुखकमले, अधुना सम्प्रति प्रभाते अधरनामकम् ओष्टसंज्ञकम्, मधु मकरन्दम् लिहते आस्वादयन्ति। प्रभाते चक्रवाकदम्पतीनां परस्परमेलननियमादिति भावः। ततश्च भुक्तस्य भोजनापेक्षया अभुक्तस्य भोजनादेव सहृदयानां तृप्तिरित्याशयः॥ 19.33 ॥
जगति मिथुने चक्रावेव स्मरागमपारगौ
नवमिव मिथः सम्भुञ्जाते वियुज्य वियुज्य यौ।
सततममृतादेवाहाराद् यदापदरोचकं
तदमृतभुजां भर्त्ता शम्भुर्विषं बुभुजे विधुः॥ 19.34 ॥
अन्वयः–जगति मिथुने चक्रौ एव स्मरागमपारगौ, यौ मिथः वियुज्य वियुज्य नवम् इव सम्भुञ्जाते यत् अमृतभुजां भर्त्ता विभुः शम्भुः सततम् अमृतात् आहारात् अरोचकम् एव आपत् तत् विषं बुभुजे।
जीवातु–जगतीति। जगति त्रिलोकमध्ये, मिथुने मिथुनेषु, स्त्रीपुरुषयुगलमध्ये इन्यर्थः। निर्द्धारणे सप्तमी। जातावेकवचनम्। चक्रौ चक्रवाकौ एव, चक्रवाकमिथुनमेवेत्यर्थः। स्मरागमपारगौ कामशास्त्रतत्त्वज्ञौ, कामोपभोगे चतुरौ इत्यर्थः। `अन्तात्यन्ताध्व-’ इत्ति डप्रत्ययः। कुतः? यौ चक्रौ, मिथः परस्परम्, वियुज्य वियुज्य पुनः पुनः विश्लिष्य विश्लिष्य, प्रतिरात्रं स्वेच्छ्यैवेति भावः। नवमिव प्रत्यहंनूतनमिव, इदं प्रथममिवेत्यर्थः। सम्भुञ्जाते सुरतसम्भोगानन्दमनुभवतः। अन्था अरोचकभयात् इति भावः। अत्र दृष्टान्तमाह-यत् तस्मात्, अमृतभुजां सूधासेविनां देवानाम्, भर्त्ता अधीश्वरः, एतेन-यत् तस्मात्, अमृतभुजां सूधासेविनां देवानाम्, भर्त्ता अधीश्वरः, एतेन सर्वदा अमृतपानं सम्भवतीति बोद्धव्यम्। विभुः प्रतीकरसमर्थः, एतेन विषपानजानिष्टप्रतीकारसामर्थ्यं सूच्यते। शम्भुः शिवः सततम् अनारतम्, अमृतान् पीयूषात्, आहारात् अशनात्, प्रात्यहिकाहार्यभूतादमृतादित्यर्थः। न रोचेते इति अरोचकं तदाख्थं रोगम्, अशनात्, प्रात्यहिकाहार्यभूतादमृतादित्यर्थः। न रोचेते इति अरोचकं तदाख्थं रोगम् आपत् अलभत, तत् तस्मात् एव, विषं गरलम्, बुभुजे पपौ। नित्यं मधुरादिसेवनेन जाताया अरुचेः कटुतिक्तादिविपरीतरससेवनेन निवृत्तिदर्शनादिति भावः॥ 19.34 ॥
विशति युवतित्यागे रात्रीमुचं मिहिकारुचं
दिनमणिमणिं तापे चित्तान्निजाच्व यियासति।
विरहतरलज्जिह्वा वह्वाह्वयन्त्यतिविह्वलामिह सहचरीं नामग्राहं रथाङ्गविहङ्गमाः॥ 19.35 ॥
अन्वयः–युवतित्यागे रात्रीमुचं मिहिकारुचं विशति तापे च निजात् चित्तात् दिवमणिमणिं यियासति विरहतरलज्जिह्वाः रथाङ्गविहङ्गमाः इह अतिविह्वलां सहचरीं नामग्राहं बहु आङ्वयत्ति।
जीवातु–विशतीति। इह प्रातः समये, रथाङ्गविहङ्गमाः पुश्चक्रवाकः युवतित्यागे निजतरुणीकान्तावियोगे, चक्रवाककान्ताविच्छेदतुल्यविच्छेदे इत्यर्थः। दिनोदयेन रात्रेरदर्शनादिति भावः। रात्रीमुचम् अधुनैव रात्रीरूपपत्नीवियोगिनम्। मुचेः क्विप्। रात्रीति कृदकारादी4कारः। मिहिकारुचं मिहिकायाः हिमस्य, रुक् इव रुक् प्रभा यस्य तम तादृशम्, विरहात् हिमवत् शुभ्ररुचि चन्द्रमित्यर्थः। विशति आश्रयति सतिष चक्रवाकविरहवत् शशिनोऽपि रात्रीविरहे समुपस्थिते सतीत्यर्थः। तापे सन्तापे च, विरहजनितमनस्तापे औष्ण्ये च इत्यर्थः। निजात् स्वात्, चक्रवाकीयादित्यर्थः। चित्तात् मनसः। अपादानात्। दिनमणिमणिं सूर्यकान्तमणिम्, यियासति यातुमिच्छति सति, सन्तापे चक्रवाकचित्तात् सूर्यकान्तं गन्तुमिच्छति सति इत्यर्थः। सूर्यकरसम्पर्केण सूर्यकान्तमणेः ज्वलनस्य स्वाभाविकत्वादिति भावः। यातेः सनन्ताल्लटः शत्रादेशः। जिह्वाः रसना येषां ते तादृशाः सन्तः, अतिविह्वलां दीर्घकालादर्शनात् अतिविवशाम्, सहचरीं प्रियां चक्रवाकीम्, नामग्राहं नाम गृहीत्वा। `नाम्न्यादिशिग्रहोः’ इति णमुल्प्रत्ययः। बहु वारंवारम्, आह्वयन्ति आकारयन्ति। दिनकरः समुदितः, अतः सत्वरमुत्तिष्ठ इति भावः॥ 19.35 ॥
स्वमुकुलमथैर्नेत्रैरन्धम्भविष्णुतया जनः
किमु कुमुदिनीं दुर्व्याचष्टेरवेरनवेक्षिकाम्?
लिखितपठिता राज्ञो दाराः कविप्रतिभासु ये।
श्रृणुत श्रृणुतासूर्यम्पश्या न सा किल भाविनी?॥ 19.36 ॥
अन्वयः–जनः स्वमुकुलमयैः नेत्रैः अन्धम्भविष्णुतया खेः अनवेक्षिकां कुमुदिनी किमु दुर्व्याचष्टे? कविप्रतिभासु ये राज्ञः दाराः लिखितपठिताः, श्रृणुत श्रृणुत-सा किल असूर्यम्पश्या न भाविनी?
जीवातु–स्वेति। जनः लोकः, स्वमुकुलमयैः निजकोरकरूपैः, निमीलि तैरित्यर्थः। नेत्रैः नयनैः, अन्धम्भविष्णुतया अन्धीभूततथा, अन्धाया अपि अन्धाया भूततया हेतुनेत्यर्थः। अविचारादिति भावः। `कर्त्रि भुवः खिष्णुच्’ इति अभूततद्भावे कर्त्तेरि खिष्णुच्‌प्रत्ययः, `अरूर्द्विषत्-’ इत्यादिना मुमागमः। रेवः सूर्यस्य, अनवेक्षिकाम् अनवेक्षणीम्, सूर्यमपश्यन्तीमित्यर्थः। ण्वुल्। `प्रत्ययस्थात्-’ इति ण्वुलि कात्पूर्वस्येकारः। कुमुदिनीं कैरविणीम्, राजपत्नीमिति भावः। किमु किमिति, दुर्व्याचष्टे? दुर्वदति? कुमुदिनी जगत्पावनम् अवश्यदर्शनीयं सूर्यमपि न पश्यति, अहो! महदनुचितमिदमाचरणम् अस्याः इत्यादिरूपेण वृथा अपवदतीत्यर्तः। ननु `लोकेऽस्मिन् मङ्गलान्यष्टौ ब्राह्मणो गौर्हुताशनः। हिरण्यं सर्पिरादित्य आपो राजा तथाऽष्टमः। एतानि सततं पश्येन्नमस्येदर्चयेत्तु यः प्रदक्षिणञ्च कुर्वीति तस्य चायुन्न हीयते॥’ इति शास्त्रात् सूर्यावेक्षणस्य विहितत्वेन तदनाचरन्ती कथं न दुर्वाच्या? इत्याशंसायामाह-कविप्रतिभासु कीवनां विदुषाम्, प्रतिभासु प्रज्ञासु, प्रतिभोद्भासितकाव्येषु इत्यर्थः। ये कुमुदिनीत्याख्यया प्रसिद्धाः, राज्ञः चन्द्रस्य नृपस्य च। `राजा प्रभौ नृपे चन्द्रे’ इति विश्वः। दाराः पत्नी राजदाराः लिखितपठिताः कविभिर्लिपीकृताः अध्येतृभिश्च अधीताः। लिखिताश्च ते पठिताश्च इति विशेषणसमासः कवयो यां राजपत्नीं वदन्ति, तच्छिष्याश्च तथैव जानन्तीत्यर्थः। सा राजदारत्वेन वर्णिता कुमुदिनी, सूर्य न पश्यतीति असूर्यम्पश्या सूर्यादर्शिनी। `असूर्यललाटयोर्दृशितयोः’ इति खश्प्रत्ययः। `प्राघ्राइत्यादिनी दृशेः पश्यादेशः। असूर्य इति चासमर्थसमासोऽयं दृशिना नञः सम्बन्धत्वात्। `यदा तु सूर्यभावदर्शनामात्रं सूर्येतरच्नद्रादेर्दर्शनं वा विवक्षितं तदा खश् न भवेति’ अनभिधानात् इति न्यासकारादयः। अस्मादेव ज्ञापकात् क्रियाऽन्वयिनोऽपि नञ उत्तरपदेन समासः। न भाविनी किल? न भविष्यति किम्? न भविष्यत्येवेत्यर्थः। `भविष्यति गम्यादयः’ इति साधुः। श्रृणुत श्रृणुत भोः दुर्वाचो जनाः? आकर्णयत आकर्णयत। आक्रोशे द्विरुक्तिः। यदि असूर्यम्पश्या राजदारा इति राजनीत्यनुसारेण युक्तं स्यात्, तदा चन्द्रस्य राजापरानामकत्वात् चन्द्रर्शनेनैव विकसनस्वभावायाः कुमुदिन्याः चन्द्रपत्नीत्वेन कविभिः रूपणात् कुमुदिन्या अपि राजदारत्वं सिद्धमेव, एवञ्च राजद्वारत्वात् तस्याः सूर्यानवेक्षणस्य युक्तत्वेन सूर्यादर्शनेन यत् जनाः तां निन्दन्ति तदसङ्गतमेवेति निष्कर्षः। परमार्थतस्तु कैमुत्यन्यैयेन पुरुषान्तरदर्शननिषेधपरमेतत् न सूर्यदर्शननिषेधपरम् इति द्रष्टव्यम्, अत एव काशिका `गुप्तिपरञ्चैतत्’ इति॥ 19.36 ॥
चतुलुकिततमःसिन्धोर्भृङ्गैः करादिव शुभ्यते
नभसि बिसिनीबन्धो रन्ध्रच्युतैरुदबिन्दुभिः।
शतदलमधुस्रोतः कच्छद्वयीपरिंरम्भणादनुपदमदःपङ्काशङ्काममी मम तन्वते॥ 19.37 ॥
अन्वयः–नभसि भृङ्गैः चुलुकिततमःसिन्धोः बिसनीबन्धो करात् रन्ध्रच्युतैः उदबिन्दुभिः इव शुभ्यते; अमी अनुपद शतदलमधुस्रोतः कच्छद्वयीपरिरम्भणात् अदःपङ्काशङ्कां मम तन्वते।
जीवातु–चुलुकितेति। नभसि आकाशे, भृङ्गैः उड्डीयमानभ्रमरैः, चुलुकितः चुलुकीकृतः, पानार्थं निकुञ्चपाणौ गृहीत इत्यर्थः। तमःसिन्धुः अन्धकारसागरः येन तथोक्तस्य, बिसिनीबन्धोः पद्मिनीसखस्य सूर्यस्य, करात् अंशोः हस्ताच्च, रन्ध्रच्युतैः अङ्गुल्यन्तरालागलितैः उदबिन्दुभिः इव तमःसिन्धोः जलकणैरिव, सुभ्यते दीप्यते, प्रतीयते इत्यर्थः, इत्युत्प्रेक्षा। शुभेर्भावे लट्। भृङ्गतमसोः तुल्यवर्णत्वात्, तथा भङ्गाणां कृष्णवर्णस्स्थूलजलबिन्दुवत् प्रतीयमानत्वाच्चेति भावः। किञ्च, अमी भृङ्गाः, अनुपदम् अनुक्षणम्, उक्तरूपेण प्रतीयमानानन्तरमेवेत्यर्थः। शतदलमधुस्रीतसः कमलमकरन्दप्रवाहस्य; कच्छद्वयीपरिरम्भणात् उभयपार्श्वस्थजलप्रायभागसंश्लेषात्; मधुरप्रवाहस्य उभयतटोपरि उपवेशनाद्धेतोरित्यर्थः। अमुष्य मधुस्रोतसः पङ्काशङ्कां कर्दमभ्रान्तिम्, मम वैतालिकस्य, तन्वते विस्तारयन्ति, उत्पादयन्तीत्यर्थः। पङ्कभृङ्गयोः समानवर्णत्वादिति भावः॥ 19.37 ॥
घुसृणसुमनः श्रेणिश्रीणामनादरिभिः सरपरिसरचरैर्भासां पत्युः कुमारतरैः करैः।
अजनि जलजामादानन्दोत्पतिष्णुमधुव्रतावलिशबलनाद् गुञ्जापुञ्जश्रियं गृहयालुभिः॥ 19.38 ॥
अन्वयः–घुसृणसुमनः श्रेणिश्रीणाम् अनादरिभिः सरःपरिचरसरैः कुमारतरैः भासां पत्युः करैः जलजामोदानन्दोत्पतिष्णुमधुव्रतावलिशबलनात् गुञ्जापुञ्जश्रियं गृहयालुभिः अजनि।
जीवातु–घुसृणेति। घुसृणसुमनश्रेणिश्रीणां कुङ्कुमकुसुमावलिशोभानाम्। `वाऽऽमि’ इिति नदीत्वपक्षे नुडागमः। `कुङ्कुमं घुसृणं वर्णम्’ इति हलायुधः। अनादरिभिः अवज्ञाकारिभिः, कुङ्कुमवर्णादप्यधिकारुणवर्णत्वादिति भावः। सरःपरिसरचरैः सरोवरप्रान्तवर्त्तिभिः, कुमारतरैः नवीदितत्वादतिबालैः, भासां पत्युः अर्कस्य, करैः. कर्त्तृभिः जलजामोदेन कमलपरिमलेन, यः आनन्दः हर्षः, तस्मात् उत्पतिष्णूनाम् उत्पतनशीलानाम्, उड्‌डीयमानानामित्यर्थः। `अलङ्कृञ-’ इत्यादिना इष्णुच्। मधुव्रतानां भृङ्गाणाम्, आवल्याः पङ्क्तेः, शबलनात् चित्रणात्, निजवर्णेन मिश्रीकरणात् हेतोरित्यर्थः। गुञ्जापुञ्जस्य, `कुंच्’ इ`रत्ती’ इति ख्यातस्य कृष्णलासमूहस्य। `गुञ्जा तु कृष्णला’ इत्यमरः। श्रियम् इव श्रियं शोभाम्, इति निदर्शनाभेदः, गुञ्जाया उपरिभागस्य कृष्णवणंत्वात् निम्नभागस्य च रक्तवर्णत्वादिति भावः। `न लोक-’ इत्यादिना षष्ठीप्रतिषेधः। गहयालुभिः ग्राहकैः, ग्रहणशीलैरित्यर्थः। `गृहि’ इत्यदन्ताच्चौरादिकात् णिच् `स्पृहिगृहि-इत्यादिना आलुच्। अजनि जातम्। भावे लुङ्। अलिकुलयोगेन सूर्याशुकिशोरकास्तद्वत् बभुः इत्यर्थः। गुञ्जाबीजानां नीलमुखत्वात् अधो रक्तवर्णत्वाच्च उपरि सञ्चरतां कृष्णवर्णानामलिकुलानां सम्पर्केण अधोवर्त्तिनां बालसूर्यकिरणानामारक्तवर्णानां गुञ्जासादृश्यमिति भावः॥ 19.38 ॥
रचयति रुचिः शोणीमेतां कुमारितरा रवेर्यदलिपटली नीलीकर्त्तु व्यवस्यति पातुका।
अजनि सरसी कल्पाषी तद्‌ध्रुवं धवलस्फुटत्कमलकलिकाषण्डैः पाण्डूकृतोदरमण्डला॥ 19.39 ॥
अन्वयः–यत् रेवः कुमारितरा रुचिः एतां शोणीं रचयति, पातुका अलिपटली नीलीकर्त्तु व्यवस्यति; तत् ध्रुव धवलस्फुटत्कमलकलिकाषण्डैः पाण्डूकृतोदरमण्डला सरसी कल्माषी अजनि।
जीवातु–रचयतीति। यत् यस्मात्, अतिशयेन कुमारी कुमारितरा अतिशयेन बाला, नवप्रकाशिता इत्यर्थः। `घरूप-’ इत्यादिना ङ्यो ह्रस्वः। रवेः सूर्यस्य, रुचिः प्रभा, एतां सरसीम् शोणीं शोणवर्णाम् अरुणवर्णामित्यर्थः। `शोणात् प्राचाम्’ इति विकल्पात् ङीष्। रचयति करोति, निजारुण्यस्पर्शनेनेति भावः। तथा पातुका पतयालुः, सरस्या एवोपरि उत्पतनशीला इत्यर्थः। `लषपत-’ इत्यादिना उकञ्। अलीनां भ्रमराणाम्, पटली मण्डली च, नीलीकर्त्तु स्वकान्तिसम्पर्केण कृष्णवर्णीकर्त्तुम्। अभूततद्भावे च्विः। सरसीमेवेति भावः। व्यवस्यति उद्युङ्क्ते इच्छतीत्यर्थः। तत् तस्मात् सरसी दीर्धिका, धवलैः शुभ्रैः, सुफुटद्भिः विकसद्भिश्च, कमलकलिकानां पद्ममुकुलानाम्, षण्डैः कदम्बैः, समूहैरित्यर्थः। `कदम्बे षण्डमस्त्रियाम्’ इत्यमरः। पाण्डूकृतं धवलीकृतम्, अभूततद्भावे च्विः। उदरमण्डलं मध्यभागः यस्या सा तादृशी सती, कल्माषी चित्रवर्णा, विविधर्णेत्यर्थः। गौरादित्वात् ङीष्। अजनि जाता। `दीपजन-’ इत्यादिना कर्त्तरि लुङ्‌चिण्। ध्रुवं निश्चितम्, इत्युत्प्रेक्षायाम्। अत्र सरस्याः स्वगुणत्यागेन रविकिरणादिगुणस्वीकारात्तद्‌गुणालङ्कारः, `तद्‌ गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहः’ इति लक्षणात्। तत्रैकैकगुणसङ्क्रान्ति परिचयात् शोणाद्यनेकगुणसङ्क्रमद्वारा कल्माषस्वीकारोत्प्रेक्षणात्तद्‌गुणोत्प्रेक्षयोरङ्गाङ्गिभावेन सङ्करः॥ 19.39 ॥
कमलकुशलाधाने भानोरहो! पुरुषव्रतं
यदुपकुरुते नेत्राणि श्रीगृहत्वविवक्षुभिः।
अन्वयः–अहो, कमलकुशलाधाने भानोः पुरुषव्रतं यत् असौ श्रीगृहत्वविवक्षुभिः कविभिः उपमानात् अम्भोजतां गमितानि नेत्राणि अपि उपकुरुते, यत् अतथाभावात् उलूकविलोचने मुञ्चति।
कविबिरुपमादानादम्भोजतां गमितान्यसावपि यदतथाभावान्मुञ्चत्युलूकविलोचने॥ 19.40 ॥
जीवातु–कमलेति। कमलानां पद्मानामां प्रकृतानामुपमितानां वा इति भावः। कुशलाधाने क्षेमविधाने विकासजनने इति भावः। भानोः सूर्यस्य, पुरुषव्रतं पुरुषस्य पुरुषाबिमानिनः, व्रतं नियमः, दृढाध्यवसाय इत्यर्थः। पौरुषमिति यावत् अहो। चित्रम्! अथवा-अहोपुरुषः पुरुषाभिमानवान्। अहोपुरुष इति मयूरव्यंसकादिषु कैयटः। तस्य व्रतं दृढनियम इत्यर्थः। कुतः? यत् यस्मात् असौ भानुः श्रीगृहत्वं शोभाश्रयत्वम्, नेत्रायां सौन्दर्यवर्णने उपमानत्वमित्यर्थः। विवक्षुभिः वक्तुमिच्छुभिः। `द्वितीया-’ इति योगविभागात् द्वितीयासमासः। कविभिः काव्यकर्त्तुभिः वाल्मीकादिभिः उपमादानात् नेत्राणां सादृश्यत्वेन वर्णनामात्रात्, अम्भोजतां गमितानि कमलत्वेन रूपितानि, नेत्राणि नयनानि अपि, सौन्दर्याशय्यख्यापनाय कमलतुल्यतया वर्णितानि जननयनान्यपीत्यर्थः, उपकुरुते उन्मीलनेन उपकृतानि करोति, विकासयतीत्यर्थः। आलोकसहकारादेव लोकलोचनानां विषयेषु प्रवृत्तेरिति भावः। सूर्योदये सर्व एव प्राणिनो निद्रां परिहृत्य नयनोन्मीलनकरणात् भानोः उपमितकलानां कुशलाधायकत्वम्, प्रकृतानाञ्च विकाससम्पादनेन कुशलाधायकत्वमिति बोद्धव्यम्। यत् अपि यस्माच्च, अतथाभावात् औषमानिकाम्योजत्वस्यापि अभावादित्यर्थः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः। उलूकस्य पेचकस्य, विलोचने नयने। गोलाकारे क्षुद्रे च इति भावः। मुञ्चति परिहरति, न उन्मीलनेन उपकरोतीत्यर्थः। सूर्यकरासहत्वेन निमीलिताक्षत्वादिति बोध्यम्। अन्वयव्यतिरेकाभ्याम्, अम्भोजसदृश्य लोकलोचनस्य विकासेन कृशलाधायकत्वात् तदसदृशस्य ऊलूकलोचनस्य च अविकाशेन कुशलानाधायकत्वात् सहस्रकरस्य देवस्य अम्भोजक्षेङ्करत्वव्रतं किमु वाच्यम्? इति निष्कर्षः। प्रातः अम्भोजवल्लोकलोचनाम्भोजान्यपि विकासयामास इति भावः॥ 19.40 ॥
यदतिमहतीभक्तिर्भानौ तदेनमुदित्वरं
त्वरितमुपतिष्ठस्वाध्वन्य! त्वमध्वरपद्धतेः।
इह हि समये मन्देहेषु व्रजन्त्युदवज्रताम्
अभिरविमुपस्थानोत्क्षिप्ता जलाञ्जलयः किल॥ 19.41 ॥
अन्वयः–अध्वरपद्धतेः अध्वन्यः यत् भानौ महती भक्तिः तत् उदित्वरम् एनं त्वं त्वरितम् उपतिष्ठस्व; हि; इह समये अभिरविम् उपस्थानोत्क्षिप्ताः जलाञ्जलयः मन्देहेतु उदवज्तां किल व्रजन्ति।
जीवातु–यदिति। अध्वरस्य यज्ञस्य, पद्धतेः पथः, अध्वन्य! नित्यपानन्थ! अध्वानमलं गच्छतीति अध्वन्यः, `अध्वनो यत्खौ’ इति यत्प्रत्ययः। `ये चाभावकर्मणोः’ इति प्रकृत्तिभावः। हे नित्ययज्ञानुष्ठाननिरत महाराज! यत् यस्मात्, त्वं भवान्, भानौ सूर्ये, अतिमहती अत्युत्तमा, भक्तिः अनुरागविशेषः यस्य सः तादृशः, असीति शेषः। भक्तिशब्दस्य प्रियादिषु पाठात् न पुवद्भावः। तत् तस्मात्, अदित्वरम् उद्यन्तम्। `इत्यादिना क्वरप्। एनं भानुम्, त्वरितं शीघ्रम्, उपतिष्ठस्व उपास्स्व। `उपाद्‌देवपूजा-‘इत्यादिना देवपूजायामात्मनेपदम्। कुतः? हि यस्मात् कारणात्, इह अस्मिन्, समये उदयकाले, रविम् अर्कम् अभि लक्षयित्वा, रविमुद्दिश्य इत्यर्थः। `अभिरभागे, इति लक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया। उपस्थाने उपासनायाम्स, उत्क्षिप्ताः ऊद्‌र्ध्वं निक्षिप्ताः `आपः ऊर्ध्वं विक्षिपन्ति’ इति श्रुतेः। जलाञ्जलयः उदकाञ्जलयः मन्देहेषु मन्देहाख्येषु राक्षसेषु, उदवज्रतां जलमयवज्रायुधत्वम्। `मन्थौदन-’ इत्यादिनोदादेशः व्रजन्ति गच्छन्ति, किल इत्यागमे। अत्र श्रुतिः `तदुह वा एते ब्रह्मवादिनः पूर्वाभिमुखाः, सन्ध्यायां गायत्र्याऽभिमन्त्रिता आप ऊद्‌र्ध्वं विक्षिपन्ति, ता एता आपो वज्रीभूत्वा तानि रक्षांसि मन्धेहारुणे द्वीपे प्रक्षिपन्ति’ इति॥ 19.41 ॥
उदयशिखरिप्रस्थावस्थायिनी खनिरक्षया
शिशुतरमहोमाणिक्यानामहर्मणिमण्डली।
रजनिदृषदं ध्वान्तश्यामां विधूय पिधायिकां
न खलु कतमेनेयं जाने जनेन विमुद्रिता?॥ 19.42 ॥
अन्वयः–इयम् उदयशिखरिंप्रस्थावस्थायिनी शिशुतरमहोमाणिक्यानाम् अक्षया खनिः अहर्मणिमण्डली ध्वान्तश्यामां पिधायिकां रजनिदृषदं विधूय कतमेव जनेन विमुद्रिता-खलु न जाने।
जीवातु–उदयेति। इयं परिदृश्यमाना, अहर्मणिमण्डली सूर्यबिम्बस्वरूपा, उदयशिखरिणः उदयाद्रेः, प्रस्थावस्थायिनी सानुनिष्ठा, अक्षया अवनश्वरा, भूयसीत्यर्थः। शिशुतराणि अतिशयेन बालानि सद्यःप्रकाशितानीति यावत्। महांसि तेजांसि एव, माणिक्यानि पद्मरागाः, अरुणवर्णत्वादिति भावः। तेषां खनिः आकरः, ध्वान्तेन अन्धकारेण, श्यामां कृष्णवर्णाम्, ध्वान्तवत् श्यामाञ्च, पिधायिकाम् आच्छादिकाम् जगतः खनेः प्रवेशद्वारस्य चेति भावः। रजनिं रात्रिम्, एव, दृषदं शिलाखण्डम्, विधूय अपसार्य, कतमेन केन, जनेन लोकेन, विमुद्रिता? उद्‌घाटिता? इति न बुध्ये, खलु इति वितर्के। अत्र सूर्यमण्डल्यादिषु खनित्वाद्यारोपात् रूपकालङ्कारः॥ 19.42 ॥
सुरपरिवृढः कर्णात् प्रत्यग्रहीत् किल कुण्डलद्वयमथ खलु प्राच्यै प्रादान्मुदा स हि तत्पतिः।
विधूरुदयभागेकं तत्र व्यलोकि विलोक्यत
नवतरकरस्वर्णस्रावि द्वितीयमहर्मणिः॥ 19.43 ॥
अन्वयः–सुर परिवृढः कर्णात् कुण्डलद्वयं प्रत्यग्रहीत् किल; अथ प्राच्यै मुदा प्रादात्, हि सः तत्पतिः; तत्र एकम् उदयभाक् विधुः व्यलोकि, नवतरकरस्वर्णस्रावि द्वितीयम् अहर्मणिः विलोक्यते।
जीवातु–सुरेति। सुराणां देवानाम्, परिवृढः प्रभुः इन्द्रः। `प्रभौ परिवृढः’ इति निपातनात् साधुः। कर्णात् राधेयात्, कुण्डलद्वयं कर्णाभरणयुगलम्, सूर्यप्रदत्तं सहजमक्षयञ्चेति भावः। प्रत्यग्रहीत् याचित्वा आदात्, किल इति वार्त्तायाम्। `ततो निकृत्य गात्राणि शस्त्रेणण निशितेन सः। प्राच्छद्‌देवराजाय दिव्यं वर्मसकुण्डलम्॥’ इति भारतवचनात्। तत्रोत्प्रेक्षते अथ प्रतिग्रहानन्तरम् प्राच्ये पूर्वस्य दिशे, मुदा प्रीत्या, प्रादात् दत्तावान्, तत् कुण्डलद्वयमिति शेषः। खलु निश्चये। हि यस्मात् सः इन्द्रः तस्याः प्राच्याः दिशः, पतिः भर्त्ता, भार्यायै आभरणदानस्य पत्युरौचित्यादिति भावः। कथं त्वया तद्‌बुध्यते? इत्याह-तत्र तयोः कुण्डलयोः मध्ये, एकं कुण्डलम्, उदयं भजतीति उदयभाक् उद्यन्, उदयकालिकः इत्य्रथः। `भजो ण्विः’ इति ण्विप्रत्ययः। विधुः चन्द्रः, इवेति शेषः। व्यलोकि विलोक्यते स्म, जनैर्गतसायंकाले इति शेषः। नवतरान् अतिशयेन प्रत्यग्रान्, करान्, किरणान् एव, स्वर्णानि सुवर्णानि, तुल्यप्रभासम्पन्नत्वादिति भावः। स्रावयति आत्मनो वर्षयतीति तत् तादृशम्, द्वितीयं कुण्डलम्, अहर्मणिः दिनमणिः सूर्यः इवेति शेषः। `रोऽसुपि’ इति रेफादेशः। विलोक्यते इदानीं प्रातः दृश्यते, जनैरिति शेषः। एतदेव पूर्वानुमानस्य कारणमिति भावः॥ 19.43 ॥
दहनमविशद्दीप्तिर्याऽस्तङ्गते गंतवासरप्रशमसमयप्राप्ते प्तयौ विवस्वति रागिणी।
अधरभूवनात् सोद्‌धृत्यैषा हठात्तरणेः कृतामरपतिपुरप्राप्तिर्धत्ते सतीव्रतमूर्त्तिताम्॥ 19.44 ॥
अन्वयः–रागिणी या दीप्तिः गतवासरप्रशमसमयप्राप्ते पत्यौ विवस्वति अस्तं गते दहनम्, अविशत्, सा एषा हठात् अधरभुवनात् पत्यौ विवस्वति अस्तं गते दहनम् अविशत्, सा एषा हठात् अधरभुवनात् उद्‌धृत्य तरणेः कृतामरपुरप्राप्तिः सतीव्रतमूर्त्तितां धत्ते।
जीवातु–दहनमिति। रागिणी सायङ्कालिकत्वात् रक्तवर्णा अनुरागिणी च, या दीप्तिः सूर्यस्य प्रभा काचित् स्त्री च, गतवासरे अतीतदिने, प्रशमसमयम् अवसानकालम्, तेजसो जीववनस्य चेति शेषः। सायंकालं मृत्युकालञ्चेति भावः। प्राप्ते उपस्थिते सति, पत्यौ स्वामिनि भर्त्तरि च, विवस्वति सूर्ये कस्मिंश्चित् पुरुषे च, अस्तम् अस्ताद्रिम् अदर्शनञ्च, गते प्राप्ते सति, दहनम्, अग्निम्, अविशत् प्रविष्टवती, `अग्नि वाऽऽदित्यः सायं प्रविशति’ इति श्रुतेः, `मृते भर्त्तरि ब्रह्मचर्य तदन्वारोहणं वा’ इति स्मृतेश्च सहगमनार्थमिति भावः। सा पूर्वोक्ता, एषा दीप्तिः काचित् साध्वी नारी च, हठात् बलात्, आत्मीयपुण्यप्रभावादित्यर्थः। अधरभुवनात् अधोलोकात्, पातालात् नरकाच्च इत्यर्थः। उद्‌धृत्य उत्तेल्य, तरणेः पत्युः अर्कस्य कस्यचित् पुरुषस्य च, कृता सम्पादिता, अमरपतिपुरप्राप्तिः पूर्वदिगपस्थितेन्द्रनगरलाभः स्वर्गलाभश्च यया सा तादृशी सती तीव्रतया तीक्ष्णतया सह वर्त्तते इति तादृशी सतीव्रता अतीव तीक्ष्णा, सत्याः पतिपरायणतायाः, व्रतं नियमो यत्र सा तादृशी पतिव्रताधर्मश्च इत्यर्थः। मूर्त्तिः आकारः रूपञ्च यस्याः तस्याः भावः सत्ता तां सती व्रतमूर्त्तिताम्, धत्ते धारयति। सूर्यतेजसः उत्तरोत्तरं तीक्ष्णताभावादिति `व्यालग्राही यथाः सर्पं बलादुद्धरते बिलात्। तद्वद्भर्त्तारमादाय तेनैव सह मोदते॥’ इति स्मरणादिति च भावः। अत्र प्रस्तुतदीप्तिविशेषणसाम्यादप्रस्तुतसतीप्रतीतेः समासोक्तिरलङ्कारः॥ 19.44 ॥
बुधजनकथा तथ्यैवेयं तनौ तनुजन्मनः
पितृशितिहरिद्वर्णाद्याहाराजः किल कालिमा।
अन्वयः–तनुजन्मनः तनौ कालिमा पितृशितिहरिद्वर्णाद्याहारजः किल-इयं बुधजनकथा तथ्या एव, यत् अमलच्छायात् कायात् अपि तमसां पिबात् इतः भास्वतः कालैः शमनयमुनाक्रोडैः अभूत्।
शमनयमुनाक्रोडैः कालैरितस्तमसां पिबादपि यदमलच्छायात् कायादभूयत भास्वतः॥ 19.45 ॥
जीवातु–बुधेति। तनोः शरीरात्, जन्म उत्पत्तिः यस्यः तस्य तनुजन्मनः अपत्यस्य। `अवर्ज्यो बहुव्रीहिर्व्यधिकरणो जन्माद्युत्तरपदे’ इति वामनः। तनौशरीरे, कालिमा श्यामता, पित्रोः जननीजनकयोः, शितिहरितौ कृष्णपालाशौ, वर्णौ वर्णविशिष्टम् आहार्यद्रव्यमित्यर्थः। तदादिः तत्प्रभृतिः, यः आहारः भोज्यम्, तस्मात् जायते उत्पद्यते इति तादृशः, इयम् ईदृशी, किल इति प्रसिद्धौ, बुधजनकथा विद्वज्जनानामुक्तिः, तथ्या एव सत्या एव। कुतः? यत् यस्मात्, अमलच्छायात् अतिस्वच्छकान्तेरपि, तमसाम् अन्धकाराणाम्। कृद्योगात् कर्मणि षष्ठी। पिबतीति पिबः तस्मात् पातुः। `पाघ्रा’-इत्यादिना पिबादेशश्च शप्रत्ययः। इवेति शेषः। इतः अस्मात् पूर्वाकाशे दृश्यमानादित्यर्थः। भास्वतः सूर्यस्य, कायात् शरीरात्, कालः कृष्णवर्णैः, शमनयमुनाक्रीङैः यमकालिन्दीशनैश्चरैः, अभूयत जातम्। भावे लङ्। कृष्णवर्णान्धकाराहारादेव शुभ्रकान्तेरपि सूर्यस्य अपत्यानि कृष्णवर्णानि जातानि जातानि इति निष्कर्षः। अत्र शमनादिकालिम्नस्तत्पितृतिमिराहारपरिणतिपूर्वकत्वोत्प्रेक्षा॥ 19.45 ॥
अभजत चिराभ्यासं देवः प्रतिक्षणदाऽत्ययं
दिनमयमयं कालं भूयः प्रसूयं तथा रविः।
न खलु शकिता शीलं कालप्रसूतिरसौ पुरा
यमयमुनयोर्जन्माधानेऽप्यनेन यथोज्झितुम्॥ 19.46 ॥
अन्वयः–अयं देवः रतिः प्रतिक्षणदात्ययं दिनमयं कालं भूयः प्रसूय तथा चिराभ्यासम् अभजत यथा अनेन असौ पुरा शीलं कालप्रसूतिः यमयमुनयोः जन्माधाने अपि उज्झितुं खलु न शकिता।
जीवातु–अभजतेति। अयम् उद्यन्, देवः द्युतिमान्, रविः सूर्यः प्रतिक्षणदाऽत्ययं प्रत्येकरात्र्यवसाने। अव्ययीभावसमासः, `तृतीयासप्तम्योर्बहुलम्’ इति विकल्पात् सप्तम्यामम्भावः। दिनमयं दिवसरूपम्, कालं समयं कृष्णवर्णञ्च। `कालौ मृत्यौ महाकाले समये यमकृष्मयोः’ इति विश्वः। भूयः पुनः पुनः प्रसूय जनयित्वा, तथा तादृक्, चिराभ्यासं वहुकालाभ्यसनम्; पौनः पुन्येन करणस्वभावमित्यर्थः। अभजत प्राप्नोत्। यथा येन कृत्वेत्वर्थः। अनेन रविणा, असौ चिराभ्यस्ता इत्यर्थः। अत एव शीलं स्वभावभूता, कालस्य समयस्य कृष्णवर्मस्य च, प्रसूतिः उत्पादना, पुरा पूर्वम्, वर्त्तमानात् प्राक् समयोत्पादानात् परञ्चेत्यर्थः। यमयमुनयोः शमनकालिन्द्योः स्वापत्ययोः; जन्माधाने जननार्थं बी-निधानविषयेऽपि, उज्झितु त्यक्तुम्, न शकिता खलु नैव शक्ता, इवेति शेषः। क्मणि क्तः, कर्मणि निष्ठायामिडागमः, तथा च काशिकावृत्तौ-सौनागाः कर्मणि निष्ठायां शकेरिटमिच्छन्ति विकल्पेन, शकितो घटः कर्त्तुम् शक्तो घटः कर्त्तुमति। तत्र कालशब्दे वाच्यप्रतीयमानयोरभेदाध्यवसायेन भगवतो भानोः प्रत्यहं कालप्रसूत्या अभ्यासादपत्येष्वपि शमनयमुनादिषु कालप्रसवितृत्वमुत्यप्रेक्ष्यते, तत्र कालयोः कृष्मानेहसीरभेदाध्यवसायादतिशयोक्तिः इति तयोरेकाश्रयत्वेनात्र सङ्करः॥ 19.46 ॥
रिचिरचरणः सूतोरुश्रीसनाथरथः शनिं
शमनमपि स त्रातु लोकानसूत सुताविति।
रथपदकृपासिन्धुर्बन्धुर्दृशामपि दुर्जनैर्यदुपहसितो भास्वान्नास्मान् हसिष्यति कः खलः?॥ 19.47 ॥
अन्वयः–रचिरचरणः (अचरणः रुचिः) सूतोरुश्रीसनाथरथः शनिं शमनं सुतौ अपि लोकान् त्रातुम् असूत्, सः रथपदकृपासिन्धुः दृशाम्, अपि बन्धुः-इति यत् दुर्जनैः उपहसितःत कः खलः अस्मान् हसिष्यति?
जीवातु–ननु ईदृशबाहुल्येन सूर्यवर्णनं लोकानां हासजनकं भवितुमर्हति इत्याशङ्क्याहरुचिरेति। रुचिरचरणः मनोज्ञाचरणशीलः, जगदाह्लादकत्वादिति भावः। अथ च विपरीतलक्षणया अरुचिरचरमः किरणार्थस्य पादशब्दकस्य चरणपर्यायकत्वात् तीव्रपादः इत्यर्थः, सन्तापकत्वादिति भाव। तथा सूतया प्रसूतया, उदयानन्तरं प्रकाशितया इत्थर्थः। उर्व्या प्रचुरया, श्रिया शोभया, अथ च, सूतस्य सारथेः अरुणस्य, अनुरोरिति भावः। `सूरसूतोऽरुमोऽनूरुः’ इत्यमरः। ऊर्वोः सक्थिद्वयस्य, `सक्थि क्लीबे पुमानूरूः’ इत्यमरः। श्रिया शोभया, इति सोपहासोक्तिः सनाथः युक्तः, रथः स्यन्दनं दयासागरः, स्वोदयेन दम्पत्योर्मेलनघटनात् चक्रवाकाणामुपकारीत्यर्थः। तथा दृशां लोकचक्षुषाम्, बन्धुः सुहृत्, स्वोदयेन प्रकाशकत्वादिति भावः, सः सर्वलोकनमस्कृतः भास्वन् सूर्योऽपि, शनिं शनैश्चरम्, क्रूरग्रहत्वेन लोकानामनिष्टकारितया अत्यन्तारू चिरचरणत्वेन तथा पङ्गुत्वात् गमनकाले कुत्सितदर्शनत्वेन च पित्रपेक्षया अत्यन्तविसदृशमिति भावः। तथा शमनमपि यमञ्च, दम्पत्योरन्यतरप्राणहरणेन विच्छेदजनकत्वादकरुणत्वेन तथा स्वजनप्राणविनाशनेन नियतरोदनादन्धत्वोत्पदाकतया जननेत्राणां शत्रुभूतत्वेन च पित्रपेक्षया अत्यन्तविसदृशमिति भावः। सुतौ पुत्रौ, लोकान् जगन्ति, त्रातुं रक्षितुम् विपरीतलक्षणया विनाशयितुञ्च असूत अजनयत् इति एवमुक्त्वा इत्यर्थः। दुर्जनैः खलैः, यत्, यदा, उपहसितः उपहासः कृतः, तदा कः खलः दुर्जनः, अस्मान् वैतालिकानित्यर्थः। न हसिष्यति? न उपहास करिष्यति? अपि तु सर्व एव सूर्यवर्मनात् उपहासं करिष्यतीत्यर्थः। परन्तु तत्र न काऽपि अस्माकं क्षतिरिति भावः। कैमुत्येनार्थान्तरापादनादर्थापत्तिरलङ्कारः॥ 19.47 ॥
शिशिरजरुजां घर्मं शर्मोदयाय तनूभृतामथ खरकराश्यानास्यानां प्रयच्छति यः पयः।
जलभयजुषां तापं तापस्पृसां हिममित्ययं
परहितमिलत्कृत्यावृत्तिः स भानुरुदञ्चति॥ 19.48 ॥
अन्वयः–यः शिशिरजरुजां तनूभृतां शर्मोदयाय धर्मम् अथ खरकराश्यानास्यानां पयः, जलभयजुषां तापं, तापस्पृशां हिमं प्रयच्छति-इति परहितमिलत्कृत्यावृत्तिः सः अयं भानुः उदञ्चति।
जीवातु–शिशिरेति। यः देवः, शिशिरजा शीतर्त्तुजा, रुक्‌ पीडा येषां तादृसानाम्, तनूभृतां शरीरिणाम्, शर्मोदयाय सुखोत्पादनाय। एतत् पदद्वयमुत्तरवाक्यत्रयेऽप्यनुषञ्जनीयम्। धर्मं निदाधम्, वसन्तग्रीष्मकालिकौ सन्तापौ इत्यर्थः। अथ तदनन्तरम्, खरकरैः वसन्तनिदाधजनितैः तीक्ष्णैः किरणैः, आश्यानानि शुष्काणि, आस्यानि मुखानि येषां तादृशानाम्, `खरकरश्याना’ इति पाठेऽपि स एवार्थः। तनूभृतां शर्मोदयाय पयः वर्षासु जलम्, तथा जलभयजुषां वर्षाजलभीतानाम्, तनूभृतां शर्मोदयाय तापं शारदसन्तापम्, तथा तापस्पृसां शारदसन्तापभाजाम्, तनूभृतां शर्मोदयाय हिमं हेमन्तकालजशैत्यम्, प्रयच्छति ददाति, कालचक्रपरिभ्रामणेन आनयतीर्यर्थः। इति इत्यम्, परहिताय अन्येषामुपकाराय, मिलन्ती युज्यमाना, कृत्यावृत्तिः व्यापाराभ्यासः यस्य सः तादृशः, सः प्रसिद्धः, अयं परिदृश्यमानः भानुः भगवान् सूर्यः, उदञ्चति उदेति। क्रियासमुच्चयोऽलङ्कारः॥ 19.48 ॥
इह न कतरश्चित्रं धत्ते तमिस्रततीर्दिशामपि चतसृणामुत्सङ्गेषु श्रिता धयतां क्षणात्।
तरुशरणतामेत्य च्छायामयं निवसत्तमः
शमयितुमभूदानैश्वर्यं यदर्यमरोचिषाम्॥ 19.49 ॥
अन्वयः–चतसृणाम् अपि दिशाम् उत्सङ्गेषु श्रिताः तमिस्रततीः क्षणात् घयताम् अर्यमरोचिषां तरुशरणताम् एत्य निवसत् छायामयं तमः शमयितुं यत् आनैश्वर्यम् अभूत्-इह कतरः चित्रं न धत्ते?
जीवातु–इहेति। चतसृणां चुःसङ्ख्यकानामपि। `न तिसृचतसृ’ इति निषेधान्नामि दीर्घो न। दिशां पूर्वादीनाम्, उत्सङ्गेषु क्रोडेषु, तत्तत्प्रदेशेष्वित्यर्थः। श्रिताः स्थिताः, तमिस्रस्य तिमिरस्य, ततीः समूहान् क्षणात् अल्पेनैव समयेन, धयतां पिबताम्, दूरीकुर्वतामित्यर्थः। धेटो लटः शत्रादेशः। आर्यमरोचिषां सूर्यतेजसाम्, तरवः वृक्षा एव, शरणानि त्रातारः यस्य तद्भावं तत्ताम्, एत्य प्राप्य, निवसत् वर्त्तमानम्, छायामयम् अनातपरूपम्, तमः अन्धकारम्, शमयितुं संहर्त्तुम्, यत् अनीश्वरस्य भावम् आनैश्वर्यम्, असामर्थ्यम्। `नञः शुचीश्वरः-’ इत्यादिनोभयपदवृद्धिः। अभूत् जातम्, इह अस्मिन् आनैश्वर्यविषये, कतरः को नाम जनः, चित्रम् आश्चर्यम्, न धत्ते? चेतसि न आवहति? अपि तु सर्व एव धत्ते इत्यर्थः। संहतिविनाशसमर्थस्य अल्पविनाशकताया अकिञ्चित्करत्वादिति भावः। तमोराशिविघआतिनो देवस्याल्पतमोविषये सामर्थ्यविघातकतायाः विरोधात् छायामयत्वेन तत्परिहाराच्च विरोधाभासोऽलङ्कारः॥ 19.49 ॥
जगतितिमिरं मूर्च्छामब्जव्रजेऽपि चिकित्सतः
पितुरिव निजादस्माद्दस्रावधीत्य भीषज्यतः?।
अपि च शमनस्यासौ तातस्ततः किमनौचिति
यदयमदयः कह्लाराणामुदेत्यपमृत्यवे?॥ 19.50 ॥
अन्वयः–जगति तिमिरम् अब्जव्रजे अपि मूर्च्छां चिकित्सतः निजात् पितुः असमात् अधीत्य इव दस्रौ भिषज्यतः, अपि च अदयः अयं यत् कह्लाराणाम् अपमृत्यवे उदेति ततः असौ शमनस्य तातः;-अनौचिती किम्?
जीवातु–जगतीति। दस्रौ अश्विनौ, जगति लोके, तिमिरं तमो नेत्ररोगञ्च, `तिमिरं ध्वान्ते नेत्रामयान्तरे’ इति विश्वः। तथा अब्जव्रजेऽपि, पद्मषण्डेऽपि, मूर्छां निमीलनं रोगविशेषञ्च, चिकित्सतः प्रतिकुर्वाणात्। कितः सनन्ताल्लटः शत्रादेशः, `गुप्तिज्‌किद्भ्यः सन्’ इति निन्दाक्षमाण्याधिप्रतीकारेषु सन्निष्यते। निजात् स्वात्, पितुः जनकात्, अस्मात् परिदृस्यमानात्, सूर्यादिति शेषः। अधीत्य पठित्वा इव, आयुर्वेदमिति शेषः। भिष्ज्यतः स्वर्गे चिकित्सतः, किम्? इति शेषः, इत्युत्प्रेक्षा। अन्यथा कुत्र तयोः तादृशी शिक्षा जाता? इति भावः। कण्ड्‌वादौ भिषजेति पाठात् यगन्ताल्लटि तस्, `चिकित्सति भिषज्यति’ इति भट्टमल्लः। अपि च किञ्च, असौ सूर्यः यत् वतः शमनस्य यमस्य, तातः जनकः, ततः तस्मात् इवेति शेषः, अयं भानुः, अदयः निष्करुणः सन्, कह्‌लाराणां कैरवाणाम् अपमृत्यवे अकालमरणाय, निमीलनरूपायेति भावः। उदेति उत्तिष्ठति, सा अनौष्ठिति, सा अनौचिती किम्? अन्यायं किम्? कारणगुणा कार्यगुणानारभन्ते’ इति न्यायात् नित्यमेव प्राणिसंहारकस्य तनयस्य पितुरपि तथैव गुमवत्त्तवस्य युक्तत्वात् नैवानौचित्यम्, वरमुचितमेवेति निष्कर्षः। उत्प्रेक्षा। दस्रयोः पितृवत् सर्वोपकारित्वमुचितं, यमपितुस्तु रवेः कह्‌लारमारकत्वं न अनुचितम् इति भावः॥ 19.50 ॥
उडुपरिवृढः पत्या मुक्तां सतीं यदपीडयद्यदपि बिसिनीं भानोर्जायां जहास कुमुद्वती।
तदुभयमतः शङ्के सङ्कोचितं निजशङ्कया
प्रसरति नवार्के कर्तन्धूकणारुणरोचिषि॥ 19.51 ॥
अन्वयाः–उडुपरिवृढः पत्या मुक्तां सतीं बिसिनीं यत् अपीडयत्, कुमुद्वती अपि भानोः जायां अतः शङ्के-कर्कन्धूकणारुणरोचिषि नवार्के प्रसरति तदुभयं निजशङ्कया सङ्कोचितम्।
जीवातु–उड्‌विति। उडुपरिवृढः तारापतिः चन्द्रः पत्या भर्त्रा भनुना, मुक्तां त्यक्ताम्, दिनान्ते अस्तमितत्वादिति भावः। सतीं साध्वीम्, बिसिनीं पद्मिनीम्, यत्यतः, अपीडयत् पीडितवान्, रात्रौ सङ्कोचनेन इति भावः। तथा कुमुद्वती कुमुदिनी अपि। `कुमुदनडवेतसेभ्यो ड्‌मतुप्’। भानोः सूर्यस्य, जायां भार्याम्, बिसिनीं पद्मिनीम्, यत् यस्मात्, जहास हसितवती, इवेति शेषः। निशायां स्वविकाशेन इति भावः। अतः अस्मादेव कारणात्, कर्कन्धूः पक्वः बदरीफलमित्यर्थः। `अन्दूदृन्भू-’ इत्यादिना कूप्रत्ययान्तनिपातः तत्कणावत् तच्चुर्म इव, अरुणरोचिषि लोहितकान्तौ, प्रभातकालिकत्वात्, क्रोधाच्चेति भावः। नवार्के बालसूर्ये, प्रसरति आकाशं व्याप्नुवाने सति, तयोः चन्द्रकुमुद्वत्योः उभयं द्वन्द्वम्, निजशङ्कया स्वकृतपद्मिनीलाञ्छनाभयेन, सङ्कोचितं निस्तेजस्त्वं गतम्, निष्प्रभीभूतमिति यावत्। निमीलितञ्च। शङ्के इति मन्ये, अहमिति शेषः। इत्युत्प्रेक्षा। सर्वो हि स्वदुष्‍टव्यवहारेणात्मानं कलुषयतीति भावः॥ 19.51 ॥
श्रुतिमयतरोर्भानोर्जानेऽवनेरधराध्वना
विहरणकृतः शाखाः साक्षाच्छतानि दश त्विषाम्।
निशि निशि सहस्राभ्यां दृग्भिः श्रृणोति सहस्वराः
पृथगहिपतिः पश्यत्यस्याक्रमेण च भास्वराः॥ 19.52 ॥
अन्वयः–अवनेः अधराध्वा विहरणकृतः श्रुतिमयतरोः अस्य भानोः त्विषां दशशतानि सहस्वराः भास्वराः शाखाः अहिपतिः निशिनिशिं पृथक् सहस्राभ्यां दृग्भिः अक्रमेण साक्षात् श्रृणोति पश्यति च।
जीवातु–श्रुति। अवनेः भूमेः, अधराध्वना अधोमार्गेण, पातालवर्त्मना इत्यर्थः। एतच्च अनूर्ध्ववस्थानमात्रोपलक्षणम्। `अधरस्तु पुमानोष्ठे हीनेऽनूर्ध्वे तु वाच्यवत्’ इति मेदिनी। विहरणकृतः विहारकृः सञ्चरतः इत्यर्थः, आविर्भवत इत्यर्थश्च। श्रुतिमयतरोः वेदात्मकवृक्षस्य, `श्रुतिमयतनोः’ इति पाठे-श्रुतिमयी पूर्वोक्तश्रुत्यनुसारेण वेदात्मिका, तनुः शरीरं यस्य तादृशस्य इत्यर्थः। अस्य उदयं गच्छतः, भानोः सूर्यस्य, त्विषां रश्मीनाम् दशशतानि सहस्रम्, सहस्ररश्मिरूपेण परिणता इत्यर्थः। स्वरैः उदात्तादिभिः सह वर्त्तन्ते इति सहस्वराः सस्वराः। `वोपसर्जनस्य’ इति सहशब्दस्य विकल्पात् सभावाभावः। पृथक् असाङ्कर्येण, भास्वराः दीप्तिशीलाः। `स्थेशभास-’ इत्यादिना वरच्। शाखाः वेदभागान् वृक्षावयवांश्च। `शाखा पक्षान्तरे वाहौ वेदभागद्रुमाङ्गयोः’ इति मेदिनी। अहिपतिः शेषः, निशि निशि प्रतिनिशम्। वीप्सायां द्विर्भावः। तत्र तदा सूर्यसञ्चारेण निशाभावत् मर्त्यलोकापेक्षया निशीति बोध्यम्। सहस्राभ्यां द्विसहस्रसङ्ख्याभिः, दृग्भिः नेत्रैः, शेषनागस्य सहस्रफणत्वात् प्रतिफणञ्च नेत्रद्वयसद्भावात् नेत्राणां द्विसहस्रत्वं बोध्यम्। अक्रमेण यौगपद्येन, साक्षात् प्रत्यक्षम्, क्षृणोति आकर्णयति, पश्यति अवलोकयति च, शेषस्य चक्षुःश्रवस्त्वात् शाखानां शब्दात्कत्वेन श्रवणत्वोपपत्तेः रश्मिपरिणामेन चाक्षुषात्वाच्च दर्शनोपपत्तेरति भावः, जाने इति मन्ये इत्युत्प्रेक्षा रूपकसङ्कीर्णा। एकेन दृक्सहस्रेणपश्यतीति विश्वेश्वरभट्टारकव्याख्यानां चिन्त्यम्, दृशां प्रत्येकमुभयशक्तियुक्तानां शक्तिप्रविभागायोगात्, तस्मात् ग्राहकस्योभयशक्तिभत्त्वात् ग्राह्यस्य च तेजः शब्दोभयात्मकत्वात् सर्वाभिरेव दृग्भिः सर्वाश्च शाखा युगपत् पश्यति श्रृणोति चेति रमणीयम्॥ 19.52 ॥
बहु नखरता येषामग्रे खलु प्रतिभासते
कमलसुहृदस्तेऽमी भानोः प्रबालरुचः कराः।
उचितमुचितं जालेष्वन्तःप्रेवेशिभिरायतैः
कियदवयवैरेषामालिङ्गिताऽङ्गुलिवल्गता॥ 19.53 ॥
अन्वयः–येषाम् अग्रे बहु नखरता खलु प्रतिभासते कमलसुहृदः प्रबालरुचः ते भानोः अमी कराः जालेषु अन्तः प्रवेशिबिः आयतैः एषां कियदवयवैः उचितम् उचितम् अङ्गुलिवल्गता आलिङ्गिता।
जीवातु–बह्विति। येषां कराणाम्, अग्रे प्रत्यग्रावस्थायाम्, प्रभाते इत्यर्थः। बह्वी प्रभूता, अत्यर्थाः। न-खरता अतीक्ष्णता, अन्यत्र-अग्रे अग्रभागे, बहुनखरता बहुनखत्वम्। `नखोऽस्त्री नखरोऽस्त्रियाम्’ इत्यमरः। खलुनिश्चितम्, प्रतिभासते प्रतीयते, कमलानां पद्मानाम्, सुहृदः बन्धवः, विकाशकत्वादिति भावः। सुहृत्त्वेनैव न-खरता बोद्धव्या; अन्यत्र-सौन्दर्यमार्दवाभ्यां तत्सदृसाः। प्रबालरुचः विद्रुमभासः, उभयत्रापि समानम्; भानोः सूर्यस्य, ते तादृशाः, अमी परिदृश्यमानाः, कराः अंशवः हस्ताश्च, प्रसर्पन्तीति शेषः। अत एव जालेषु गवाक्षविवरषु अन्तःप्रवेशिबिः अभ्यन्तरप्रविष्टैः, आयतैः दीर्घैः, एषां कराणाम्, कियदवयवैः किञ्चिदंशः। कर्तृभिः। उचितमुचितम् अत्यन्तोचितं यथा स्यात् तथा। आतिशय्ये द्विरुक्तिः। अङ्गुलीनां करशाखानाम्। `अङ्गुल्यः करशाखाः स्युः’ इत्यमरः। वल्गता चारुता, आलिङ्गता प्राप्ता इति श्लेषसङ्कीर्णनिदर्शनाबेदः। कराणआं कररूपत्वात् तदवयवानाम् अङ्गुलीरूपत्वस्य सर्वथैव सम्भाव्यत्वादिति भावः॥ 19.53 ॥
नय नयनयोर्द्राक् पेयत्वं प्रविष्टवतीरमू
भवनवलभीजालान्नाला इवार्ककराह्गुली।
भ्रमदगुणक्रान्ता भ्रान्ति भ्रमन्त्य इवाशुद्ध याः
पुनरपि धृताः कन्दे किं वा न वर्द्धकिना दिवः?॥ 19.54 ॥
अन्वयः–भवनवलबीजालात् प्रविष्टवतीः नालाः इव अमूः अर्ककराङ्गुलीः द्राक् नयनयोः पेयत्वं नय, याः भ्रमदणुगणक्रान्ताः आशु भ्रमन्त्यः इव भान्ति; किं वा पुनः अपि दिवः वर्द्धकिना कुन्दे न धृताः?
जीवातु–नयेति। भवनवलभीनां भवत्प्रासादोपरि विद्यमानानां गृहविशेषाणाम्। `शुद्धान्ते वलभी चन्द्रशाले सौधोद्‌र्ध्ववेश्मनि’ इति रभसः। जालात् गवाक्षविविरात्, गवाक्षविवरमाश्रित्येत्यर्थः। प्रविष्टवतीः अभ्यन्तरं गतवतीः, नालाः कमलदण्डान् इव स्थिताः; कमलकाण्डायिताः इत्यर्थः। अमूः पुरोवर्त्तिनीः अर्कस्य भानोः, कराः किरणा एव करा हस्ताः, श्लिष्टरूपकम्। `बलिहस्तांशवः कराः’ इत्यमरः। तेषाम् अङ्गुलीः करशाखाः, अङ्गुलीव प्रतीयमानानवयवानित्यर्थः। द्राक् प्रापय, नयनयोः नेत्रयोः, पेयत्वम् आस्वाद्यत्वम्, विषयत्वमित्यर्थः। द्राक् झटिति, नयनयोः नेत्रयोः, पेयत्वम् आस्वाद्यत्वम्, विषयत्वमित्यर्थः। नय प्रापय, सादरं पश्य इत्यर्थः। अथ आसां दर्शनीयतामुत्प्रेक्षया दर्शयति-याः कराङ्गुल्यः भ्रमद्भिः घूर्णमानैः, अणुगणैः त्रसरेणुजालैः, क्रान्ताः वेष्टिताः सत्यः, आशुन शीघ्रम्, भ्रमन्त्यः घूर्ममाना इव, भान्ति प्रकाशन्ते इत्युत्प्रेक्षा। भ्रमणे कारणमुत्प्रेक्षते-पुनरपि पूर्ववत् अधुनाऽपि, दिवः स्वर्गस्य, वर्द्धकिना तक्ष्णा, देवशिल्पिना विश्वकर्मणा इत्यर्थः। `तक्षा तु वर्द्धकिस्त्वष्टा’ इत्यमरः। कुन्दे शाणयन्त्रे। `शाणः कुन्दश्च यन्त्रकम्’ इति यादवः। धृता वा तक्षणाय स्थापिताः इव किम्? कराङ्गुल्य इति शेषः। अपि तु धृता एव इत्यर्थः। पुनः पुनः घर्षणेन तदुत्थैः सूक्ष्मसूक्ष्मांशैः धूर्ममानैरिव दृश्यते, अतः भ्रमणं युज्यते इति भावः। पुरा किल स्वर्गे सन्ध्यादेव्या सूर्यभार्यया दुःसहस्पर्शं सवितारमालोक्य प्रार्थितः विश्वकर्मा तं शाणयन्त्रोल्लेखनेन सन्तक्ष्य सन्तक्ष्य सुखस्पर्शं चकारेति पौराणिकी कथाऽत्रानुसन्धेया॥ 19.54 ॥
दिनमिव दिवाकीर्त्तिस्तीक्ष्णैः क्षुरैः साबितुः करैस्तिमिरकबरीलूनीं कृत्वा निशां निरदीधरत्।
स्फुरति परितः केशस्तोमैस्ततः पतयालुभिर्ध्रुवमधवलं तत्तच्छायच्छलादवनीतलम्॥ 19.55 ॥
अन्वयः–दिवाकीर्तिः इव दिनः तीक्ष्णैः सवितुः करैः क्षुरैः निशां तिमिरलूनीं कृत्वा निरदीधरत्, ततः तत्तच्छायच्छलात् परितः पतयालुकभिः केशस्तोमैः अवनीतलं ध्रुवम् अधवलं स्फुरति।
जीवातु–दिनमिति। दिनं दिवसः। कर्त्तृ। रात्रौ क्षौरकर्मनिषेधात् दिवा कीर्त्तिर्यस्य स दिवाकीर्त्तिर्नापितः इव, `क्षुरिमुण्डिदिवाकीर्त्तिनापितान्तावसायिनः’ इत्यमरः. तीक्ष्णैः निशितैः प्रखरैश्च, सवितुः सूर्यस्य, करैः किरणरूपैः, क्षुरैः वापनशस्ैः। `क्षुरोऽस्य वापनः शस्त्रम्’ इति यादवः। निशां रात्रम्, व्यभिचारिणीं पत्नीमिवेति भावः। तिमिरम् अन्धकारः, कबरी केशपाशः इव, सा लूना छिन्ना यस्याः तां मुण्डितकेशाम्। `जानपद-’ इत्यादिना कबरात् ङीष्, `जातिकालसुखादिभ्यः परा निष्ठा वाच्या’ इति लूनीति निष्ठायाः परनिपातः, `ल्वादिभ्यश्च’ इति निष्ठानत्वं, `बहुव्रीहेश्चान्तोदात्तात्’ इति ङीष्। कृत्वा विधाय, निरदीधरत् निष्कासयामास, इवेति शेषः, इत्युत्प्रेक्षा। धरतेर्णौ चङ्युपधाया ह्रस्वः। ततः निर्द्धारणानन्तरम्, तेषां तेषां गृहादीनाम्, छाया अनातपः तत्तच्छायम्। `विभाषा सेना-’ इत्यादिना `छाया बाहुल्ये’ इत्यनेन वा नपुंसकत्वम्। तस्य छलात् व्याजादित्यपह्नवः, परितसमन्तात्, पतयलुभिः पतनशीलैः। `स्पृहिगृहि-’ इत्यादिना आलुच्। केशस्तोमैः चिकुरराशिभिः, अवनीतलं भूतलम्, अधवलम् असितम्, स्फुरति भाति, ध्रुवं निश्चितमित्युत्प्रेक्षायाम्॥ 19.55 ॥
ब्रूमः शङ्खं तव नल! यशः श्रेयसे सृष्टशब्दं
यत्सोदर्यः स दिवि लिखितः स्पष्टमस्ति द्विजेन्द्रः।
अद्धा श्रद्धाकरमिह करच्छेदमप्यस्य पश्य
म्लानिस्थानं तदपि नितरां हारिणो यः कलङ्कः॥ 19.56 ॥
अन्वयः–नल, श्रेयसे सृष्टशब्दं शङ्खं तव यशः ब्रूमः दिवि लिखितः सः द्विजेन्द्रः यत्सोदर्यः स्पष्टम् अस्ति; इह अश्रद्दाकरम् (यद्वा श्रद्धाकरम्) अस्य अद्धा करच्छेदम् अपि पश्य, हारिमः यः कलङ्कः नितरां म्लानिस्थानम् तत् अपि।
जीवातु–ब्रूम इति। नल? हे तदाख्यमहाराज! तव ते, यशः कीर्त्तिम्, श्रेयसे मङ्गलाय, सृष्टशब्दं सृष्टः निर्मितः, कल्पितः इत्यर्थः। शब्दो ध्वनिः यस्य तादृशं देवार्चनाशुभजातकर्मादौ विहितस्वनम्, शंखं कम्बुम्, शङ्खतुल्यमित्यर्थः। ब्रूमः कथयामः, वयमिति शेषः। शङ्खध्वनेः मङ्गलजनकत्वात् पुण्यश्लोकत्वेन नलयशसश्च लोकानां शुभावहत्वात् उभयोरपि समानधावल्याच्चेति भावः। यद्व-श्रेयसे स्वर्गाय, सृष्टः शब्दः यस्य तं तादृशम्, शङ्खं कम्बुम्, यशः ब्रूमः त्वदीययशस्त्वेन वर्मयामः इत्यर्थः। यस्य यशसः, सोदर्यः समानम् उदरं यस्य सः तादृशः सहोदरः भ्राता, शङ्खचन्द्रयोरुभयोरपि एकसमुद्रजत्वादिति शौकल्यात् सदृश इति वा भावः। समानोदरे शयितः इत्यस्मिन्नर्थे `सोदरात् यः’ इत्यनेन यप्रत्यये विवक्षिते `विभाषोदरे’ इत्यनेन प्रागेव यप्रत्ययात् समानशब्दस्य सभावः। सदृशत्वाभिमानी इति फलितार्थः। स प्रसिद्धः, द्विजेन्द्रः चन्द्रः, दिव गगने, लिखितः चित्रितः, किरणक्षयेण निष्प्रभत्वात् निष्कियत्वाच्च चित्रितवदिति भावः। स्पष्टं सुव्यक्तम्, अस्ति वर्त्तते। इह अधुना प्रभातकाले, अश्रद्धाकरम् अनादरावहम्, प्रभाक्षयादेव इति भावः, यद्वा–श्रद्धाकरं प्रत्यक्षत्वेन विश्वासावहम्, अस्य चन्द्रस्य, अद्धा तत्त्वतः, सूर्यतेजसा अभिहतत्वात् यथार्थमित्यर्थः। करच्छेदम् अशुनाशम्, अपि, पश्य अवलोकय किञ्च, हारिणो हरिणात्मकः, य कलङ्कः चिह्नविशेषः, अत्र विद्यते इति शेषः। तदपि तच्चिह्‌नमपि, नितराम् अत्यर्थम्, म्लानेः मलिनतायाः, स्थानम् आस्पदम्, विलुप्तप्रभत्वादिति भावः। पश्येति पूर्वेणान्वयः। अतः शीघ्रं शयनं त्वजेति भावः। अन्यच्च-श्रेयसे धर्मोपदेशरूपमङ्गलाय, सृष्टशब्दरचितस्मृतिग्रन्थम्, शङ्खं शङ्खाख्यं मुनिम्, तव यशः यशस्तुल्यं यशस्विनमित्यर्थः। यद्वा-सङ्खम्, तव यशःश्रेयसे कीर्त्तेरुत्कर्षरूपमङ्गलायेत्यर्थः। तद्रचितविधानानुसारेण कर्मानुष्ठानात् यशोवृद्धेरिति भावः। सृष्टशब्दं ब्रूमः कथयामः। यस्य शंखस्य, सोदर्यः भ्राता, स प्रसिद्धाः, द्विजेन्द्रः ब्राह्मणोत्तमः, लिखितः लिखिताख्यः मुनिः, दिवि स्वर्गे, स्पष्टं सर्वैर्ज्ञातत्वात् सुव्यक्तम्, अस्ति विद्यते, इति अद्धा सत्यम्। अस्य लिखितस्य, करच्छेदं हस्तच्छेदनम् अपि, चौर्यापराधेन राजाज्ञया इति भावः। पश्य अवलोक्य, विवेचयेत्यर्थः। पुराणोक्तत्वादिति भावः। हारिमः ज्येष्ठस्य भ्रातुः शङ्खमुनेः आश्रमे फलापहारकस्य, लिखितस्य इति शेषः। यः कलङ्कः सहोदराश्रमे फलचौर्यरूपः अपवादः, तदपि नितराम् अत्यर्थम्, म्नलानेः विषादस्य, स्थानं कारणम् जानीहि इति शेषः। अत्र महाभरतीयशान्तिपर्वणि सुद्युम्नोपाख्यानम्-`ततः स पृथिवीपालो लिखितस्य महात्मनः। करौ प्रच्छेदयामास धृतदण्डो जगाम सः॥’ इति। अत्र विशेषणविशेष्ययोरपि श्लिष्टत्वादभिधायाः प्रकृतार्थत्वात् अप्रकृतार्थध्वनिरेवेति सङ्क्षेपः। मन्दाक्रान्तावृत्तम्॥ 19.56 ॥
ताराशङ्खविलोपकस्य जलजं तीक्ष्णत्विषो भिन्दतः
सारम्भं चलता करेण निविडां निष्पीडनां लम्भितः।
छेदार्थोपहृताम्बुकम्बुजरजोजम्बालपाण्डूभवच्छङ्खच्छित्करपत्रातामिह वहत्यस्तं गातार्द्धो विधुः॥ 19.57 ॥
अन्वयः–ताराशङ्खविलोपकस्य जलजं भिन्दतः तीक्ष्णत्विषः सारम्भं चलता करेण निष्पीडनां लम्बितः अस्तंगतार्द्धः विधुः इह छेदार्थोपहृताम्बुकम्बुजरजोजम्बालपाण्डूभवच्छङ्खच्छित्करपत्रतां वहति।
जीवातु–तारेति। ताराः तारकाः एव, शङ्खा, कम्बवः, दिनोदयेन ताराणां शुभ्रत्वेन प्रतीयमानत्वादिति भावः। तेषां विलोपकस्य विनाशकस्य, अन्तर्द्धायकस्येत्यर्थः। छेदकस्य च, तथा जलजं पद्मं शङ्खञ्च। `जलजं शङ्खपद्मयोः’ इति विश्वः। मिन्दतः विदारयतः, प्रस्फोटयत इत्यर्थः। करभूषणनिर्माणार्थं सच्छिद्रं कुर्वतश्च, तीक्ष्णत्विषः तिग्मांशोः, तीक्ष्णास्त्रधरस्य कस्यचित् शङ्खकारस्य च, सारम्भं सप्रयत्नम्, चलता प्रसरता, छेदनकर्मणि व्यापृतत्वात् पुरः पश्चाच्च पुनः पुनः गतागतं कुर्वता इत्यर्थश्च, करेण किरणेन हस्तेन च, निविडां प्रगाढाम्, निष्पीडनां बाधनां धारणञ्च, लम्भितः प्रापित; अस्तम्, अदर्शनम्, गतं प्राप्तम्, अर्द्धम्, एकांशः यस्य सः तादृशः, विधुः चन्द्रः, इह अस्मिन् अर्द्धास्तमितसमये, छेदार्थं कर्त्तनार्थम्, तारकारूपशङ्खच्छेदनसौकर्यसिद्धये इत्यर्थः। उपहृतम्, अर्पितम्, यत् अम्बु जलम्, शङ्ख्चेदनसौकर्याय जलं दीयते शाङ्खिकैरिति व्यवहारात्, तेन सह कम्बुजं छिद्यमानात् शङ्खात् जातम्, यत् रजः करप6धर्षणनिपतिति चूर्णम्, तस्य यः जम्बालः कर्दमः, रजोराशौ जलनिक्षेपेण कर्दमताया अवश्यम्भावादिति भावः। तेन पाण्डूभवत् शुभ्रीभवत्’ यत् शङ्खं छिनत्तीति शङ्खच्छित् शङ्खच्छेदकम्, करपत्रं क्रकचः। `क्रकचोऽस्त्री करपत्रम्’इत्यमरः. तस्य भावः तत्तम्, वहति धारयति, इवेति शेषः इत्युत्प्रेक्षा। शङ्खच्छेदककरपत्रस्य अर्द्धचन्द्राकारत्वात् अर्द्धास्तमितः चन्द्रः शङ्खच्छेदककरपत्रमिव दृश्यते इति भावः। शार्दूलविक्रीडितं वृत्तम्॥ 19.57 ॥
(जलजभिदुरीभावं प्रेप्सुः करेण निपीडयत्यशिशिरकरस्ताराङ्खप्रपञ्चविलोपकृत्।
रजनिरमणस्यास्तक्षोणीधरर्द्धपिधावशाद्दधतमधना बिम्बं कम्बुच्छिदः करपत्त्रताम्॥ 19.57.1 )
अन्वयः–ताराशङ्खप्रपञ्चविलोपकृत् जलजभिदुरीभावं प्रेप्सुः अशिशिरकरः अधुना अस्तक्षोणीधरार्धपिधावशात् कम्बुच्छिदः करपत्रतां दधतं रजनिरमणस्य बिम्बं करेण निपीडयति।
यत्पाथोजविमुद्रणप्रकरणे निर्निद्रयत्यंशुमान्
दृष्टीः पूरयति स्म यज्जलरुहामक्ष्णा सहस्रं हरिः।
साजात्यं सरसीरुहामपि दृशामप्यस्ति तद्वास्तवं
यन्मूलाऽऽद्रियतेतरां कवितृभिः पद्मोपमा चक्षुषः॥ 19.58 ॥
अन्वयः–अंशुमान् पाथोजविमुद्रप्रकरणे यत् दृष्टीः निर्निद्रयति, यत् हरिः जलरुहां सहस्रम् अक्ष्णा पूरयति स्म, तत् सरसीरुहां दृशाम् अपि वास्तवं साजात्यम् अस्ति, यन्मूला चक्षुषः पद्मोपमा कवितृभिः आद्रियतेतराम्।
जीवातु–यदिति। यत् यस्मात्, अंशुमान् अर्कः, पाथोजविमुद्रणाप्रकरणे पद्मविकासकरणप्रस्तावे, दृष्टीः दृशः, जननेत्राणि इति यावत्। निर्निद्रयति निः नास्ति, निद्रा स्वापः, निद्राकालिकनिमीलनमित्यर्थः। यासु तास्तादृशीः करोति उन्मीलयतीत्यर्थः। तथा यत् यस्माच्च, हरिः विष्णुः जलरुहां कमलानाम्, शिवपूजाऽर्थमानीतानामिति भावः। यदुक्तं शिवमहिम्नःस्तोत्रेहरिस्ते साहस्रं कमलबलिमाधाय पदयोर्यदेकोने तस्मिन् निजमुदहरन्नेत्रकमलम्,’ इति। तत् तस्मात् सरसीरुहामपि कमलानाञ्च, दृशामपि नयनानाञ्च, वास्तवं पारमार्थिकम्, साजात्यं समानजातीयत्वम्, अस्ति विद्यते। यतः हरिसूर्याभ्यां परमाप्ताभ्यां तत्तत् कार्यमकारि अतः पद्मचक्षुषोः साजात्ये सन्देह एव नास्ति, अन्यथा पद्मोल्लासप्रकरणबाधाद्विजातीयेन त्रपुषा कनकसङ्ख्यापूरणवत् चक्षुषा कमलसङ्ख्यापूरमायोगाच्छेति भावः। कवितृभिः कविभिः, यत् साजात्यम्, मूलं हेतुः यस्याः सा तादृशी, चक्षुषः नयनस्य, पद्मैः कमलैः सह, उपमा औपम्यम्, आद्रियतेतरां सत्क्रियतेतराम्, अत्यर्थमाद्रियते इत्यर्थः। `किमेत्तिङव्ययात्-’ इति आमु-प्रत्ययः। वैजात्येनं अजागरुः, अतः त्वमपि जागृहि इति वक्तुराशयः॥ 19.58 ॥
अवैमि कमलाकरे निखिलयामिनीयामिकश्रियं श्रयति यत्‌ पुरा विततपत्त्रनेत्रोदरम्।
तदेव कुमुदं पुनर्दिनमवाप्य गर्भभ्रमद्‌द्विरेफरवघोरणाघनमुपैति निद्रामुदम्॥ 19.59॥
अन्वयः–अवैमि यत् कुमुदं पुरा कमलाकरे विततपत्रनेत्रोदरं निखिलयामिनीयामिकश्रियं श्रयति तत् एव पुनः दिनम् अवाप्य गर्भभ्रमद्‌द्विरेफरवधोरणाघनं निद्रामुदम् उपैति।
जीवातु–अवैमीति। यत्‌ कुमुदम्, कर्त्तृ। पुरा इतः पूर्वम्, कमलाकरे पद्माकरे सरसि, कमलायाः पद्‌मालयायाः लक्ष्म्याः, धनसम्पत्तिरूपायाः इति यावत्। आकरे वसतिस्थाने को,ागारे च, विततानि विस्तृतानि, पत्राणि दलानि एव, नेत्रोदराणि नयनमध्यानि यस्य तत् प्राहरिकः, प्रहरिरूपेण जागरूक इत्यर्थः। तस्य श्रियम्, इव श्रियं शोभाम्, सादृस्यमित्यर्थः। इति सादृश्याक्षेपान्निदर्शनाभेदः। श्रयति भजते स्म। `पुरि लुङ चास्मे’ इति चकाराद् भूते लट्। तदेन उक्तरूपमेव, कुमुदं कैरवम्, पुनः इदानीम्, दिनं दिवसम्, अवाप्यं, गर्भे अभ्यन्तरे, भ्रमतां धूर्णमानानाम्, द्विरेफाणां भ्रमराणाम् प्रातःकाले कुमुदानां मुद्रणात् तदन्तराबद्धानामिति भावः। रवः शब्द एव, धोरणा निद्रितस्य घर्घरशब्दाधिक्यम्, नासागर्जनमिति भावः। घुरः भीमार्थशब्दयोः इति तौदांदिकाद्भावे ल्युट्। तस्याः धनं गाढं यथा तथा, निद्रामुदं निद्रानिमीलनं स्वप्नस्च, तस्याः मुदं सुखम्, उपैति लभते, अवैमि इति मन्ये, इत्युत्प्रेक्षायाम्। रात्रौ जागरितो हि दिवा निद्रातीति दृश्यते। अत्र एकस्मिन् कुमुदे अनेकयोर्निद्राजागरयोः क्रमेण प3त्यभिधानात् `एकस्मिन्नथवाऽनेकम्’ इत्युक्तलक्षणपर्यायालङ्कारेण पूर्वोक्तनिदर्शना सङ्कीर्णा। पृथ्वीवृत्तं-`जसौ जसयला वसुग्रहयतिश्च पृथ्वी गुरुः, इति लक्षणात्॥ 19.59 ॥
इह किमुषास पृच्छाशंसिकिंशब्दरूपप्रतिनियमितवाच वायसेनैष पृष्टः।
भण फणिभवशस्त्रे तातङः स्थानिनौ काविति विहिततुहीवागुत्तरः कोकिलोऽभूत्?॥ 19.60 ॥
अन्वयः–इह उषसि पृच्छाशंसिकिंशब्दरूपप्रतिनियमितवाचा वायसेन `भण, फणिभवशास्त्रे तातङः स्थानिनौ कौ’-इति पृष्टः एषः कोकिलाः विहिततुहिवागुत्तरः अभूत्।
जीवातु–इहेति। इह अस्मिन्, उषसि प्रभाते, पृच्छां प्रश्नम्, शंसति सूचयतीति पृच्छाशंसी प्रश्नवाचकः। `प्रश्नेऽनुयोगः पृच्छ च’ इत्यमरः। तादृशस्य किं शब्दस्य किमिति सर्वनामपदस्य, रूपे रूपविशेषे, कौ इति प्रथमाद्विवचनान्तपदनिष्पत्तौ, प्रतिनियमिता सदैव निर्दिष्टा, वाक् वाक्यं यस्य तादृशेन, काविति व्यक्तवाक्येनेत्यर्थः। वायसेन काकेन, फणिनः शेषात्, भवे उत्पन्ने, शोषप्रणीते इत्यर्थः। शास्त्रे पाणिनीये महाभाष्ये; तातडङादेशस्य; स्थानिनौ आदेशिनौ कौ? किं शब्दौ? भण ब्रूहि, इति एवम्, पृष्टः जिज्ञासितः, इवेति शेषः! एषः पुरुतो वृक्षशाखायामुपविष्टः इत्यर्थः। कोकिलः पिकः, विहितं प्रयुक्तम्, तुही तुश्च तुही इति, वाक् निजध्वनिरेव, उत्तरं प्रतिवचनं येन सः तादृशः, अभूत् अजनि, किम्? `तुह्योस्तातङाशिष्यन्यतरस्याम्’ इति पाणिनिसूत्रे स्थाने तातङ् विधीयते, प्रातः काकः कौ इति शब्देन तातङः स्थानिनो कौ इति पृच्छति किम्? कोकिलश्च तुही इति शब्देन तस्य उत्तरं ददाति किम्? इत्यर्थः। पक्षिप्रभृनामव्यक्तध्वनी यस्य चेतसि यदुदेति स तथैव मनःकल्पितं प्रकाशयति, एवञ्च कविरयं तदा काकध्वनिं `कौ’ इति कोकिलध्वनिश्च `तुही’ इति कल्पयित्वा काविति तुहीति च काककोकिलकूजितेन पूर्वोक्तप्रश्नोत्तरत्वमुत्प्रेक्षते। प्रभातं जातं काकादयः पक्षिणः कूजन्तीति भावः॥ 19.60 ॥
दाक्षीपुत्रस्य तन्त्रे ध्रुवमयमभवत् कोऽप्यधीती कपोतः
कण्ठे शब्दौघसिद्धितबहुकठिनीशेषभूषाऽनुयातः।
सर्वं विस्मृत्य दैवात् स्मृतिमुषसि गतां घोषयन् यो धुसंज्ञां
प्राक्संस्कारेण सम्प्रत्यपि धुवति शिरः पट्टिकापाठनेन॥ 19.61 ॥
अन्वयः–अयं कः अपि कपोतः दाक्षीपुत्रस्य न्तत्रे ध्रुवम् अधीती अभवत् यः कण्ठे शब्दौघसिद्धिक्षतबहुकठिनीशेशभूषाऽनुयातः सर्वे विस्मृत्य पट्टिकापाठनेन प्राक्संस्कारेण दैवीत्, स्मृतिं गतां घुसंज्ञां घोषयन् सम्प्रति अपि शिरः धुवति।
जीवातु–दाक्षीति। अपं परिदृश्यमानः, कः अपि अपिरिज्ञातपूर्ववृत्तान्त इत्यर्थः। कपोतः पारावतः दाक्षीपुत्रस्य दक्षगोत्रसञ्जातमातॉकस्य दाक्षीनामकमातृगर्भजातस्य वा पाणिनेः, दक्षस्यापत्यम् `अत इञ्’ इति इञि `इतो मनुष्यजातेः’ इति ङीष्। तन्त्रे शास्त्रे व्याकरणे, ध्रुवं निश्चतमेव, अधीतम् अध्ययनम् अस्य अस्तीति अधीती दाक्षीपुत्रतन्त्राध्ययनकारी इत्यर्थः। `इष्टादिभ्यश्च’ इतीनिप्रत्ययः, `क्तस्येन्‌विषयस्य कर्मण्युपसङ्ख्यानम्’ इति सप्तमी। अभवत् अजायत। यः कपोतः, कण्ठे निजगलदेशे, शब्दौघेषु `रामः रामौ रामाः’ इत्यादि प्रतिपदिसमूहेषु सिद्ध्यै शिक्षालाभार्थम्, क्षता प्रस्तरफलकादौ पुनः पुनः लिखनेन क्षयं प्राप्ता, बह्वी प्रभूता; या कठिनी खटी। `कठिनी खटिकायामपि’ इति भेदिनी। तस्याः शेषः अवशिष्ठाशः, सः एव भूषा आभरणम्, तयाऽनुयातः अन्वितः; रूषितः सन् इत्यर्थः। इवेति शेषः, खटिकाचूर्मशेषरेखया कण्ठे अनुरञ्जितः सन्निवेत्यर्थः। इवेति शेष, खटिकाचूर्णशेषरेखया कण्ठे अनुरञ्जितः सन्निवेत्यर्थः। कपोतविशेषस्य कष्ठे धवलरेखा भवति, तत्र खटिकाचूर्णारञ्जनत्वाध्यवसायो बोध्यः। सर्वम् अधीतं समस्तशास्त्रम्। विस्मृत्य तिर्यग्योनेः सम्बन्धात् विस्मृतो भूत्वा, पटिकापाठनेन पट्टिकायां प्रस्तरफलकादौ, पाठनेन लिखितविषयस्य अध्यापनाजनितेन, प्राक्संस्कारेण पूर्वतनवासनया, पूर्वाभ्यासवशेनेत्यर्थः। दैवात् सहसा, स्मृतिं स्मरणविषयताम्, गतां प्राप्ताम्, घुसंज्ञां `दाधा ध्वदाप्’ इति सुत्रोक्तां घु इति संज्ञाम्, घोषयन् `घु’ इति शब्देन उच्चैः उच्चारयन्, इत्युत्पेक्षा। लोकेऽपि दृस्यते यत् कश्चित् विस्मृतस्य कस्यचित् विषयस्य स्मरणकाले मस्तकं कम्पयतीति॥ 19.61 ॥
पौरस्त्यायां घुसृणसुमनः श्रीजुषो वैजयन्त्यास्तोकैश्चित्तं हरति हरिति क्षीरकण्ठैर्मयूखैः।
भानुर्जाम्बूनदरुचिरसौ शुक्रसौधस्य कुम्भः
स्थाने पानं तिमिरजलधेर्भाभिरेतद्भवाभिः॥ 19.62 ॥
अन्वयः–जाम्बूनदरुचिः शक्रसौधस्य कुम्भः असौ भानुः पौरस्त्यायां हरिति घुसृणसुमनःश्रीजुषः वैजयन्त्याः तोकैः क्षीरकण्ठैः मयूखैः चित्तं हरति, एतद्‌भवाभिः भाभिः तिमिरजलधेः पानं स्थाने।
जीवातु–पौरस्त्यायामिति। जाम्बूनदरुचिः उदयरागात् कनककान्तिः अत एव शक्रसौधस्य पूर्वदिगवस्थितस्य इन्द्रप्रसादस्य वैजयन्तस्य, कुम्भः सौधाग्रवतर्किनककलशरूपः इति रूपकम्। असौ परिदृश्यमानः भानुः सूर्यः पुरो भवायां पौरस्त्यायां प्राच्याम्। `दक्षिणापश्चात्पुरसस्त्यक्’ इति त्यक्, `किति च’ इति वृद्धिः हरिति दिशि, घुसृणस्य कुङ्‌कुमस्य, सुमनसां पुष्पाणाम्, या श्रीः शोभा, तज्जुषः तत्सेविन्याः, रक्तवर्णायाः इत्यर्थः। `अपत्यं तोकं तयोः समे’ इत्यमरः। क्षीरकण्ठैः दुग्वपायिभिः बालैः, मयूखैः किरणैः, चित्तं मनः हरति मुष्णाति, मनोहरः भवतीत्यर्थः। किञ्च एतस्मात् कुम्भरूपात् भानोः, भवति जायते इति ताभिः एतद्भवाभिः कुम्भोत्पत्राभिः, भाभिः प्रभाभिः, तिमिरजलधे, अन्धकारसमुद्रस्य, पानच चुलुकी करणम्, विनाशनमिति यावत्। `उभयप्राप्तौ कर्मणि’ इति कर्मणि षष्ठी। स्थाने युक्तम्। `युक्ते द्वे साम्प्रतं स्थाने’ इत्यमरः। कुम्भसम्भवः अगस्त्यः यथा युलुकेन जलधिं पपौ, तथा तपरस्यापि कुम्भसम्भवस्य जलधिपानमुचितमेवेति भावः। रूपकालङ्कारः॥ 19.62 ॥
द्वित्रैरेव तमस्तमालगहनग्रासे दवीभावुकैरुस्रैरस्य सहस्रपत्रसदसि व्यश्राणि धस्रोत्सवः।
धर्माणांरयचुम्बितं वितनुते तत् पिष्टपिष्टीकृतक्ष्मादिगव्योमतमोऽघमोघमधुना मोघं निदाघद्यतिः॥ 19.63 ॥
अन्वयः–तमस्तमालगहनग्रासे दवीभावुकैः अस्य द्वित्रैः एव उस्रैः सहस्रपत्रसदसि घस्रोत्सवः व्यश्राणि तत् निदाघद्युतिः पिष्टपिष्टीकृतक्ष्मादिग्व्योमतमोऽघं रयचुम्बितं घर्माणाम् ओघम् अधुना मोघं वितनुते।
जीवातु–द्वित्रैरिति। तमः अन्धकारः एव, तमालगहनं तुल्यवर्णत्वात् तमालाख्यवृक्षाणां गभीरं वनम्, तस्य ग्रासे गिलने, दूरीकरणे इत्यर्थः। दवीभावुकैः आरण्यवह्नीभवद्भिः। `दवदावौ वनारण्यवह्नी’ इत्यमरः। अभूततद्बावेच्चिः, `अस्य च्वौ’ इतीकारः। `लषपत-’ इत्यादिना उक्ञ् प्रत्ययः। अस्य निदाघद्युतेः, द्वौ वा त्रयः वा द्वित्राः। `संख्ययाऽव्यया-’ इत्यादिना बहुव्रीहिः, `बहुव्रीहौ संख्येये-’ इति डच्‌समासान्तः। तैरेव द्वित्रिसंख्यकमात्रैरेव, उस्रैः करैः। कर्त्तुभिः। सहस्रपत्रसदसि कमलसभायाम्, पद्मसमूहे इत्यर्थः। विश्राणि अवश्राणित, प्रदत्तः इत्यर्थः। श्रण दाने इत्यस्य कर्मणि निदाधद्युतिः सूर्यः, विष्टपिष्टीकृतं पिष्टस्य चूर्णोकृततण्डूलादेः, पिष्टौकृतम् पुनः पेषणवत्कृतम्, द्वित्रैरेव मयूखैः अन्धकारं दूरीकृतमपि पुनः मयूखान्तरैः अत्यर्थं दूरीकृतमित्यर्थः। क्ष्मादिग्व्योमतमः पृथिवीककुब्गगनानाम् अन्धकारमेव, अधं पापम्, मालिन्यावहत्वादिति भावः। येन तादृशम्। `पापं किल्विषकल्मषम्। कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम्’ इत्यमरः। रयचुम्बितं वेगव्याप्तम्, वेगेन प्रसरणशीलमित्यर्थः। घर्माणाम्, आतपानाम्, ओघं समूहम्, अधुना प्रातः, मोघं व्यर्थम् एव, वितनुते विस्तारयति करोतीत्यर्थः। घनान्धकारनाशस्य कमलविकाशस्य च प्राभातिकैः द्वित्रैरेव किरणैः कृतत्वात् किरणसमूहविकिरणं सूर्यस्य पिष्टपेषणवत् निष्प्रयोजनमिति भावः॥ 19.63 ॥
दूरारूढस्तिमिरजलधेर्वाडवश्चित्रभानुर्भानुस्ताम्यद्वनरुहवनीकेलिवैहासिकोऽयम्।
न स्वात्मीयं किमिति दधते भास्वरश्वेतिमानं द्यामद्यापि द्युमणिकिरणश्रेणयः शोणयन्ति॥ 19.64 ॥
अन्वयः–तिमिरजलधेः वाडवः चित्रभानुः ताम्यद्‌वनरुहवनीकेलिवैहासिकः अयं बानुः दूरारूढः, द्युमणिकिरणश्रेणयः अद्य अपि द्यां शोणयन्तिइति किं स्वात्मीयं भस्वरश्वेतिमानं न दधते।
जीवातु–दूरेति। तिमिरजलधेः तमःसमुद्रस्य, असीमत्वकृष्णवर्णत्वसादृश्यादिति भावः। वाडवः समुद्रगर्भस्थाश्वमुखोद्‌गतः, चित्रभानुः अनलः, वडवग्निरूप इत्यर्थः। तिमिरसंहर्त्ता इति यावत्, तथा ताम्यन्त्याः क्लिश्यन्त्याः, पतिविच्छेदेन निशि क्लेशमनुभवन्त्या इत्यर्थः, वनरुहवन्याः जलजवनसमूहस्य, पद्‌मवनस्य इत्यर्थः। केलिषु क्रीडासु, विहासः मध्महसितं प्रयोजनं यस्य स तादृशः इति वैहासिकः विकाशरूपहास्यजनकः। `प्रयोजनम्’ इति ठञ। अयं परिदृश्यमानः, भानुः सूर्यः दूरं विप्रकृष्टदेशम्, आरूढः उत्थितः। द्युमणेः रवेः, किरणश्रेणयः मयूखपङ्क्तयः, अद्यापि इदानीमपि, द्याम्, आकाशम्,; शोणयन्ति शोणाम्, अभिनवत्वेन अरुमवर्णत्वेन अरुणवर्णत्वात् अरुमवर्णां कुर्वन्तीत्यर्थः। स्वात्मीं निजम् भास्वरम् अत्युज्ज्वलम्, श्वेतिमानं श्वैत्यम्, प्रोज्ज्वलशुभ्रवर्णमित्यर्थः। न दधते किम्? न धारयन्ति किम्? अपितु सत्वरमेव धारयिष्यन्तीत्यर्थः। तस्मात् उत्थातुमयमुचितः काल इति निष्कर्षः॥ 19.64 ॥
प्रातर्वर्णनयाऽनया निजवपुर्भूषाप्रसादानदाद्
देवीः वः परितोषितेति निहितामान्तःपुरीभिः पुरः।
सूता मण्डनमण्डलीं परिदधुर्माणिक्यरोचिर्मयक्रोधावेगसरागलोचनरुचा दारिद्र्यविद्राविणीम्॥ 19.65 ॥
अन्वयः–अनया प्रातर्वर्णनया परितोषिता देवी वः निजवपुर्भूषाप्रसादान् अदात् इति आन्तःपुरीभिः पुरः निहितां माणिक्यरोचिर्मयक्रोधावेगसरागलोचनरुचा दारिद्र्यविद्राविणीं मण्डनमण्डलीं सूताः परिदधुः।
जीवातु–प्रातरिति। हे वन्दिनः! अनया युष्माभिरुक्तया, प्रातर्वणंनया प्रभातवर्णनेन, परितोषिता प्रीणीता, देवी महिषी दमयन्ती, वः युष्मभ्यम्, निजवपुषः स्वाङ्गस्य, निजव्यवहार्याणि अत बहुमूल्यानीति भावः। भूषाः आभरणानि एव, प्रसादान् पारितोषिकाणि, अदात् दत्तवती। देवी अदात् इत्यनेन पूर्वमेव प्रातःसन्ध्याचरणार्थं नलस्य प्रासादात् अप्रयोगः। आन्तः पुरीभिः अन्त पुरिकाभिः, अन्तःपुरे नियुक्ताभिः सहचरीभिरित्यर्थः। `तत्र नियुक्त’ इति ठक्। पुरः अग्रे, वैतालिकानामिति भावः। निहितां स्थापिताम्, माणिक्यरोचिर्मय्या पद्मरागप्रभारूपया, क्रोधावेगेन दारिद्र्यं प्रति कोपवशेनैव, सरागया रक्तवर्णस्या, लोचनरुचा नेत्रभासा, मण्डनमण्डल्या एव प्रभयेति भावः। दारिद्र्यस्य निर्धनतायाः, विद्राविणीम् उच्चाटनीम्, बलेन दूरीकुर्वतीमिव स्थितामित्यर्थः इत्युत्प्रेक्षा। मण्डनमण्डलीम् आभरणराशिम्, सूताः वन्दिनः। `सूतो मागधवन्दिनोः’ इति विश्वः। परिदधुः स्वाङ्गे धारयामासुः॥ 19.65 ॥
आगच्छन् भणतामुषःक्षणमथातिथ्यं दृशोरानशे
स्वर्गङ्गाम्बुनि वन्दिनां कृतादिनारम्भाप्लुतिर्भूपतिः।
आनन्दादतिपुष्पकं रथमधिष्ठाय प्रियायौतुक प्राप्तं तैरवरागतैरविदितप्रासादतो निर्गमः॥ 19.66 ॥
अन्वयः–अथ अवरागतैः तैः अविदितप्रासादतः निर्गमः स्वर्गङ्गाम्बुनि कृतदिनारम्भप्लुतिः भूपतिः प्रियायौतुकप्राप्तम् अतिपुष्पकं रथम् अधिष्ठाय आनन्दात् आगच्छन् उषः भणतां वन्दिनां दृशोः आतिथ्यं क्षणम् आनशे।
जीवातु–आगच्छन्निति। अथ दमयन्त्याः प्रसाददानानन्तरम्, अवरागतैः अवरं पश्चात्, स्नानार्थ नलस्य बहिर्गमनानन्तरमित्यर्थः। आगतैः उपस्थितैः, नलस्य निद्रापनयनार्थं प्रासादे इति शेषः। तैः वैतालिकैः, अविदितः अज्ञातः, पश्चादागतत्वादिति बोध्यम्, प्रासादतः हर्म्यात् निर्गमः बहिर्निष्क्रमणं यस्य सा तादृशः, भूपति पृथ्वीशः नलः, स्वर्गङ्गाम्बिनि मन्दाकिनीप्रवाहे, कृतदिना रम्भाप्लुतिः कृता सम्पादिता, दिनारम्भस्य प्रभातकालस्य, आप्लुतिः निमज्जनम्, स्नानमित्यर्थः, येन स तादृशः कृतप्रातःस्नानः सन्, एतेन नलस् महाधार्मिकत्वं प्रतिपाद्यते। प्रियायाः भैम्याः, यौतुके विवाहकालिकोपाहरणे, प्राप्तं लब्धम्, भीमदत्तमित्यर्थः। अतिक्रान्तपुष्पकम् अतिपुष्पकं पुष्पकादपि उत्कृष्टमित्यर्थः। `अत्यादयः क्रान्ताद्यर्थे द्वितीयया’ इति समासः, `द्विगुप्राप्तापन्नालम्’-इत्यादिना `परवल्लिङ्गं द्वन्द्वतत्पुरुषोः’ इति प्राप्तस्य परवल्लिङ्गत्वस्य प्रतिषेधः। रथं स्यन्दनम्, अधिष्ठाय आस्थाय। `अधिशीङ्-’ इत्याधारस्य कर्मत्वम्। आनन्दात् हर्षात् दमयन्तीसमागमाशया इति भावः। आगच्छन् प्रत्यावर्त्तमानः सन्, उषः प्रभातकालम्, भणतां तथैव वर्णयताम्, वन्दिनां वैतालिकानाम्, दृशोः नेत्रयोः दृशाम्, इत्यर्थः। आतिथ्यम् आगनतुकत्वम्, विषयत्वमिति यावत्, क्षणं किञ्चित्कालम्, सौधान्तःप्रवेशात् पूर्वपर्यन्तमित्यर्थः। आनशे प्राप्तः, तैर्द्दष्टः इत्यर्थः `अत आदेः’ इत्यभ्यासदीर्धः, `अश्नोतेश्च’ इति नुडागमः अत एव नलस्य स्नानार्थं गमनात् पूर्वश्लोके देव्यैव पारितोषिकं दत्तमित्युक्तम्॥ 19.66 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
एकां न त्यजतो नवार्थघटनामेकान्नविंशो महाकाव्ये तस्य कृतौ नलीयचरिते सर्गोऽयमस्मिन्नगात्॥ 19.67 ॥
अन्वयः–पूर्वार्द्धस्य पूर्ववदन्वयः। एकां नवार्थघटनां न त्यजतः तस्य कृतौ, महाकाव्ये अस्मिन् नलीयचरिते एकात् नविंशः अयं सर्गः अगात्।
जीवातु–श्रीहर्षमिति। एकां मुख्याम्, नवार्थघटनाम् अपूर्वार्थसृष्टिम्,न त्यजतः न मुञ्चतः, सर्वदा नवं नवं विषयं वर्णयत इत्यर्थः। तस्य श्रीहर्षस्य, विंशतेः पूरणः इत्यर्थे–`तस्य पूरणे डट्’ इति डट्, `ति विंशतेर्डिति’ इति तिशब्दलोपः। ततः एकेन न विंशः इति `तृतीया’ इति योगविभागात् समासे `एकादिश्चैकस्य चादुक्’ इति नञः प्रकृतिभावः, एकशब्दात् अदुगागमश्च। ऊनार्थे चात्र नञ्। गतमन्यत्॥ 19.67 ॥

*****************************************************************************

विंशः सर्गः

सौधाद्रिकुट्टिमानेधातुकाधित्यकातटम्।
स प्राप रथपाथोभृद्वातजातजवो दिवः॥ 20.1 ॥
अन्वयः–वातजातजवः सः रथपाथोभृत् दिवः सौधाद्रिकुट्टिमानेकधातुकाधित्यकातटं प्राप।
जीवातु–सौधेति। वातवत् वायुरिव, जातः समुत्पन्नः, जवः वेगः यस्य सः तादृशः, अन्यत्र-वातात् वायोः; जातः उत्पन्नः, जवः वेगो यस्य स तादृशः, स पूर्वोक्तः अतिपुष्पकः, रथः स्यन्दन एव, पाथोभृत् जलधरः; दिवः स्वर्गात् आकाशाच्च। `द्यौश्च स्वर्गतन्मार्गयोः’ इति विश्वः। सौधः अट्टः एव, अद्रिः पर्वतः, तस्य कुट्टिमम् उपरिगुहेषु विवधरत्नादिनिबद्धभूमि। `कुट्टिमोऽस्त्री निबद्धा भूः’ इत्यमरः। इति कप्। अत्यधिका ऊर्ध्वभूमिप्रदेशः, तस्याः तटं पर्यनतप्रदेशः शिखरञ्च, प्राप लेभे। रूपकालङ्कारः॥ 20.1 ॥
ततः प्रत्युदगाद् भैमी कान्तमायान्तमन्तिकम्।
प्रतीचीसिन्धुवीचीव दिनोङ्कारे सुधाकरम्॥ 20.2 ॥
अन्वयः–ततः भैमी दिनोङ्कारे प्रतीचीसिन्धुवीची अन्तिकम् आयान्तं कान्तं सुधाकरम् इव (कान्तं) प्रत्युदगात्।
जीवातु–तत इति। ततः रथस्य कुट्टिमतटप्राप्त्यनन्तरम्, भैमी दमयन्ती, दिनस्य दिवसस्य, ओङ्कारप्रयोगदर्शनादत्रापि ओङ्कारशब्दस्य आरम्भार्थे लक्षणा ज्ञात्वया। `ओमाङोश्च’ इति पररूपत्वम्। प्रतिचीसिन्धोः परिचमदिगवस्थितसमुद्रस्य वीची ऊर्मिः, अन्तिकं समीपम्, आयान्तम् आगच्छन्तम् कान्तं रमणीयम्, सुधाकरं चन्द्रमिव, प्रत्यूषे एव अस्तोन्मुखतया सुधाकरस्य पश्चिमार्णवतरङ्गलग्नवत् प्रतीयमानत्वादिति भावः। अन्तिकं समीपम्, आयान्तम् आगच्छन्तम्, कान्तं पतिं नलम्, प्रत्युदगात् सादरं प्रत्युत्थितवती। `इणो गालुङि’ इति गादेशः। `गातिस्था-’ इत्यादिना सिचो लुक्॥ 20.2 ॥
स दूरमादरं तस्या वदने मदनैकदृक्।
दृष्टमन्दाकिनीहेमारविन्दश्रीरविन्दत॥ 20.3 ॥
अन्वयः–दृष्टमन्दाकिनिहेमारविन्दश्रीः मदनैकदृक् सः तस्याः वदने दूरम् आदरम् अविन्दत।
जीवातु–स इति। दृष्टा अवलोकिता, मन्दाकिन्याः स्वर्गङ्गायाः, हेमारविन्दस्य स्वर्णकमलस्य, श्रीः शोमा येन सः तादृशः सदृशदर्शनजातप्रियामुखारविनदस्मृतिः इत्यर्थः। एवञ्च दमयन्तीमुखारविन्द-मन्दाकिनीहेमारविन्दयोः उत्कर्षापकर्षनिर्द्धारणे समर्थः इति भावः। मदनैकदृक् कामैकशरणः, कामासक्तचित्त इत्यर्थः। सः नलः, तस्याः प्रियायाः भैम्याः, वदने आनने, दूरम्, अत्यन्तम्, तत्पद्‌मापेक्षया समधिकमित्यर्थः। आदरम् आग्रहम्, अविन्दत अलभत। तत्पद्‌मापेक्षया दमयन्तीमुखस्य अथिकसुन्दरत्वात् तत्रैव समधिकादरवान् बभूवेत्यर्थः॥ 20.3 ॥
तेन स्वर्देशसन्देशमर्पितं सा करोदरे।
बभ्राज बिभ्रती पद्मं पद्मेवोन्नद्रपद्मदृक्॥ 20.4 ॥
अन्वयः–उन्निद्रपद्मदृक् सा स्वर्देशसन्देशम् अर्पितं पद्‌मं करोदरे बिभ्रीति पद्मा इव बभ्राज।
जीवातु–तेनेति। उन्निद्रपद्‌मदृक् विकचारविन्दलोचना, सा दमयन्ती, तेन तदानयता प्रियेण नलेन, अर्पितं दत्तम्, स्वर्देशस्य स्वर्गलोकस्य, सन्देशं सूचकम्, त्वं स्वर्लोकं गच्चसि, अतः तल्लोकस्थमेकं पद्‌मं मन्निमित्तमानयेः इति दमयन्तीप्रार्थनाऽनुसारेणानीतम्, अत एव स्वर्गभूमेः नलः आगतः इति ज्ञापयदिव स्थितमित्यर्थः। पद्‌मं हेमारविन्दम्, करोदरे पाणिमध्ये, बिभ्रती दधती सती, पद्‌मा इव साक्षादेव लक्ष्मीः इव, बभ्राज रेजे। लक्ष्मीरवि उन्निद्रपद्‌मदृक् पद्‌महस्ता च इति उपमासङ्गतिः बोद्धव्या॥ 20.4 ॥
प्रियेणाल्पमपि प्रत्तं बहु मेनेतरामसौ।
ह्येकलक्षतया दध्यौ दत्तमेकवराटकम्॥ 20.5 ॥
अन्वयः–असौ प्रत्तम् अल्पम् अपि बहु मेनेतराम् हि दत्तम् एकः वराटकम् एकलक्षतया दध्यौ।
जीवातु–प्रियेणेति। असौ भैमी, प्रियेण कान्तेन नलेन इष्टजनेन च, प्रत्तं दत्तम्। `अच उपसर्गात्तः’ इति दस्तादेशः। अल्पम् अपि किञ्चिदपि वस्तु, बहु प्रभूतं समधिकादरणीयञ्च, मेनेतराम् अतिशयेन मेने। `किमेत्तङव्ययात्-’ इति आमु-प्रत्ययः। कुतः? हि यस्मात् कारणात्, दत्तम्, अर्पितम्, एकः एकसंख्यामात्रः, वराटकः बीजकोपो यस्य तत् तादृशं पद्‌मम् `बीजकोषो वराटकः’ इत्यमरः। एकलक्षतया एकलक्षसंख्यकत्वेन तदेकपरतया लक्षसंख्यकधनत्वेन च। `लक्ष्ञ्च संख्यायाम्’ इति विश्वः। दध्यौ मेने, प्रियदत्तं वराटकमपि रत्नात् अतिरिच्ते इति भावः॥ 20.5 ॥
प्रेयसावादि सा तन्वी त्वदालिङ्गनविघ्नकृत्।
समाप्यतां विधिः शेषः क्लेशश्चेतसि चेन्न ते?॥ 20.6 ॥
अन्वयः–प्रेयसा सा तन्वी अवादि ते चेतसि क्लेशः न चेत्, त्वदालिङ्गनविघ्नकृत् शेषः विधिः समात्यताम्।
जीवातु–प्रेयसेति। प्रेयसा प्रियतमेन नलेन, तन्वी कृशाङ्गी, सा दमयन्ती, अवादि कथिता। किमवादि? तदेवाह दे प्रिये! चेत् यदि, ते तव, चेतसि मनसि, क्लेशः दुःखम्, मदागमनविलम्बजनितमिति भावः, न, भवेदिति शेषः। तर्हि त्वदालिङ्गनस्य तव आश्लेषजनितसुखस्य, विघ्नकृत् अन्तरायभूतः, शेषः प्रातः स्नानसन्ध्योपासनानन्तरं कर्त्तव्यतया अवशिष्टः, विधिः नित्याग्निहोत्रादेः अनुष्ठानम्, समाप्यतां समाप्तिः विधीयताम् मयेति शेषः, भवत्या एतेषां कर्मणां समाप्तिः अनुज्ञायतामिप्यर्थः॥ 20.6 ॥
कैतावान्नर्ममर्माविद्विद्यते विधिरध्य ते?।
इति तं मनसा रोषादवोचद्वचसा न सा॥ 20.7 ॥
अन्वयः–`अद्य ते एतावान् नर्ममर्मावित् विधिः क्व विद्यते?’-इति सा तं रोषात् मनसा अवोचत्, वचसा न।
जीवातु–क्वेति। अद्य इदानीमपि, त्वयि मम प्रगाढानुरक्तिं विदित्वाऽपिति भावः। यद्वा-प्रत्यूषे उत्थाय स्नानार्थ गतोऽसि, तदनन्तरं बहवः कालाः अपगताः, इदानीमपीति मर्मावित् मर्माभिघातकः, अतीव क्लेशप्रदप्रतिबन्धक इत्यर्थः। `नहिवृति-’ इत्यादिना पूर्वस्य दीर्घः। विधिः नित्यक्रयानुष्ठानाम्, क्व कुतः, किमर्थमित्यर्थः। विद्यते? अस्ति? बहुक्षणं त्वया सह वियुक्ता अस्मि, न पुनरिदानीं विलम्बं सोढुं मया शक्यते, अतः वैधानुष्ठानमिदानीं तिष्ठतु, आगच्छ मत्समीपमित्याशयः, इति एवम्, सा भैमी, रोषात् कोपात्, नलस्य आगमनविलम्बजनिताभिमानादिति भावः। त नलम्, मनसा चेतसा, अवोचत् उक्तवती, वचसा वाक्येन, सुस्पष्टमित्यर्थः, न, अवोचदिति पूर्वक्रियया अन्वयः। लज्जादाक्षिण्यादिति भावः॥ 20.7 ॥
क्षणविच्छेदकादेव विधेर्मुग्धे! विरज्यसि।
विच्छेत्ताहे चिरं नु त्वा हृदाऽऽह स्म तदा कलिः॥ 20.8 ॥
अन्वयः–तदा कलिः हृदा आह स्म-मुग्धे, क्षणविच्छेदकात् एव विधेः विरज्यसि? नु त्वा चिरं विच्छेत्ताहे।
जीवातु–क्षणेति। मुग्धे! हे मूढे! भैमि! क्षणविच्छेदकादेव किञ्चित्कालमात्रविरहसम्पादकादेव, विधेः अनुष्ठानात्, विरज्यसि विरक्ता भवसि, किन्तु, नु भोः! त्वा त्वाम्। `त्वामौ द्वितीयायाः’ इति त्वाऽऽदेशः। चिरं चिरकालम्, विच्छेत्ताहे विच्छेत्स्यामि। छिदेः स्वरितेत्त्वाल्लुटि तङि इट्, स्यातासी लृलुटोः’ इति धातोः तासि प्रत्यये कृते `टित आत्मनेपदानां टेरे’ इत्यनेन इटष्टेरेत्वे `ह एति’ इति सकारस्य हकारः। अहमिति शेषः। इति एवं, तदा तत्काले, दमयन्त्याः मुखमलिनीकरणसमये इत्यर्थः। कलिः कलिपुरुषः, हृदा स्वचेतसा, आह स्म उवाच॥ यद्यपि अधुना किमपि अनिष्टं कर्त्तुं न शक्नोमि, तथाऽपि रन्ध्रान्वेषी तिष्ठामि इति भावः। नलस्य पापच्छिद्रमन्विष्यन् ईर्ष्युः कलिः तयोः प्रासादसमीपरवर्त्तिनि अक्षवृक्षे अधिष्ठानं कृतवानिति प्राक्‌वर्णितमीसीत्, तत्रस्थ एव स नलदमयन्त्योः आलापनं श्रुत्वा विरहेण दीनानना भैमीं विलोक्य एवमुक्तवानिति मन्तव्यम्॥ 20.8 ॥
सावज्ञेवाथ सा राज्ञः सखीं पद्ममुखीमगात्।
लक्ष्मीः कुमुदकेदारादारादम्बोजिनीमिव॥ 20.9 ॥
अन्वयः–अथ सा सावज्ञा इव कुमुदकेदारात् आरात् अम्भोजिनीं लक्ष्मीः इव राज्ञः (आरात्) पद्‌ममुखी सखीम् अगात्।
जीवातु–सावज्ञेति। अथ नलवाक्यश्रवणानन्तरम्, सा भैमी, सावज्ञेव सतिरस्कारेव सती, स्वां विहाय होमाद्यनुष्ठानार्थं नलस्य गमनाभिप्रायात् सावमानेव सतीत्यर्थः। लक्ष्मीः शोभा, कुमुदकेदारात् कैरवक्षेत्रात्, तं विहाय इत्यर्थः। आरात् कुमुदाकरसमीपस्थिताम्, पद्ममेव मुखं यस्याः तादृशीम्, अम्भोजिनीं पद्मिनीम्, इव, प्रातःकाले इति भावः। राज्ञः नलसमीपात, राजानं विहाय इति वा। कर्मणि ल्यब्लोपे पञ्चमी, मुखं यस्याः तादृसीम्, अम्भोजिनीं पद्मिनीम् इव, प्रातःकाले इति भावः राज्ञः नलसमीपात् राजानं विहाय इति वा। कर्मणि ल्यब्लोपे पञ्चमी। आरात् समीपे, समीपवर्त्तिनीमित्यर्थः। पद्मम् इव मुखं यस्याः तादृशीम्, सखीं वयस्याम्, अगात् अगमत्, अवज्ञाता हि अवज्ञाकारिणं विहाय गच्छन्तीति प्रसिद्दिः। लक्ष्मीनिर्गमे कुमुदक्षेत्रस्य यथा मालिन्यं तत्सम्पर्कात् प्दमानां च यथा विकासो भवति, तथा भैमीविरहात् नलमुखस्य मालिन्यं तत्समागमात् सखीमुखस्य च स्मितशोभित्वं सूचितमनया उपमया इति द्रष्टव्यम्॥ 20.9 ॥
ममासावपि मा सम्भूत् कलिद्वापरवत् परः।
इतीव नित्यसत्रे तां स त्रेतां पर्यतूतुषत्॥ 20.10 ॥
अन्वयः–असौ अपि कलिद्वापरवत् मम परः मा सम्भूत्-इति इव नित्यसत्रे सः तां त्रेतां पर्यतूतुषत्।
जीवातु–ममेति। असौ त्रेता अपि, कलिद्वापरवत् चतुर्थतृतीययुगाधोशाविव, मम मे, परः शुत्रुः, मा सम्भूत् न जायतां, मायोगादडभावः। इतीव इति मत्वेव, सः नलः, नित्यसत्रे प्रत्यहमनुष्टेययज्ञे अग्निहोत्रे, `एतद्वै जरामथ सत्रं यदिग्निहोत्रम्’ इति श्रुत्या नित्यत्वावगमदित्यर्थः। `सत्रमाच्छादने यज्ञे’ इत्यमरः। ताम् आहवनीय-गार्हपत्य-दक्षिणाग्नित्वेन प्रसिद्धाम्, रामरावणादीनां विविधव्यापाराश्रयत्वेन प्रसिद्धाञ्च, त्रेताम् अग्नित्रयम्, द्वितीययुगञ्च। `त्रेता त्वग्नित्रये युगे’ इत्यमरः। पर्यतूतुषत् हविषा परितोषयामास। `सत्कर्मणि पतयः-’ इत्यादिना विकल्पेनोपधाया ह्रस्वः॥ 20.10 ॥
क्रियां प्राह्णेतनीं कृत्वा निषेधन् पाणिनी सखीम्।
कराभ्यां पृष्ठगस्तस्या न्यमोमिलदसौ दृशौ॥ 20.11 ॥
दमयन्त्या वयस्याभिः सहास्याभिः समीक्षितः।
प्रसृतिभ्यामिवायामं मापयन् प्रेयसीदृशोः॥ 20.12 ॥
अन्वयः–प्राह्णेतनी क्रियां कृत्वा पाणिना सखीं निषेधन् पृष्ठगः प्रसृतिभ्यां प्रेयसीदृशोः आयामं मापयन् इव दमयन्त्याः सहास्याभिः वयस्याभिः समीक्षितः असौ कराभ्यां तस्याः दृशौ न्यमीलत्।
जीवातु–क्रियामिति। असौ नलः, प्राह्णेतनीं प्राह्णे भवाम्, पूर्वाह्णकृत्यामित्यर्थः। `सायं चिरम्-’ इत्यादिना ट्‌युप्रत्ययः तस्य तुट् च। तस्मात् एव निपातनात् प्राह्णेतनीमिति। क्रियाम् अनुष्टानम्, कृत्वा विधाय, सखीं पूर्वोक्तां सहचतीम्, पाणिना हस्तसंज्ञया, निषेधन् निवारयन्, स्वागमनं विज्ञापयितुमिति शेषः, तस्याः भैम्याः, पृष्ठगः पश्चाद्‌देशे स्थितः सन् कराभ्यां पाणिभ्याम्, दृशौ लोचने, दमयन्त्या एव इति शेषः, न्यमीमिलम् अवारुणत् कौतुकार्थमिति भावः। `भ्राजभास-’ इत्यादिना विकल्पेनोपधाया ह्रस्वविधानात् पक्षे ह्रस्वः॥ दमयन्त्या इति। प्रसूतिभ्यां निकुब्जपाणिभ्याम्, गणडुषार्थं क्रियमाणकरतुल्यसङ्कोचितकराभ्यामित्यर्थः। `पाणिर्निकुब्जः प्रसृतिः’ इत्यमरः। प्रेयसीदृशोः भैमीनयनयोः, आयामं दैर्घ्यम्, मापयन् तोलयन् इव स्थितः, मातेः माङो वा ण्यन्तात् लटः शत्रादेशः। तथा सहास्याभिः सम्मुखतः नलदशनात् ईषत् हसन्तीभिः, दमयन्त्याः भैम्याः, वयस्याभिः सखीभिः, समीक्षितः दृष्टः, असौ नलः लोचने न्यमीमिलदिति पूर्वेणान्वयः॥ 20-11,12 ॥
तर्किताऽऽति! त्वमित्यर्द्धवाणीका पाणिमोचनात्।
ज्ञातस्पर्शान्तरा मौनमाशे मानसेविनी॥ 20-13 ॥
अन्वयः–आलि, त्वं तर्किता-इति अर्द्धवाणीका पाणिमोचनात् ज्ञातस्पर्शान्तरं मानसेविनी मौनम् आनशे।
जीवातु–तर्कितेति। अलि! हे सखि! त्वं नेत्राच्छादिका भवती, तर्किता अवधारिता अनुमानेन ज्ञाता इत्यर्थः., मया इति शेषः। इति एवम्, अर्द्धा `अतो मां जहीहि’ इत्यवशिष्टांशस्य अवचनात् असम्पूर्णरूपा, वाणी वाक्यं यस्याः सा तादृशी। शैषिकः कप्। पाण्योः नयनपिधायकनलहस्तयोः, मोचनात् निजपाणिभ्याम् अपनोदनात् हेतोः, ज्ञातं विदितम्, स्पर्शान्तरम् अन्यविधः स्पर्शः, सखीस्पर्शात् विलक्षणः नलस्पर्शः इत्यर्थः। यया सा तादृशी निश्चितप्रियपाणिस्पर्शा, दमयन्तीति शेषः। मानसेविनी अभिमानवती, नलस्य दमयन्त्यनादरपूर्वकत्रेतानुरक्तत्वेन तस्मिन् मानवती सतीत्यर्थः। मौनं नीरवताम्। आनशे प्राप, न किञ्चदूचे कोपादिति भावः॥ 20.13 ॥
साऽवाचि सुतनुस्तेन कोपस्ते नायमौचिती।
त्वां प्रापं यत्प्रसादेन प्रिये! तन्नाद्रिये तपः॥ 20.14 ॥
अन्वयः–सुतनुः सा तेन अवाचि–प्रिये, ते अयं कोपः औचिती, न, यत्प्रसादेन त्वां प्रपं तत् तपः न आद्रिये?
जीवातु–सेति। तेन नलीन, सुतनुः अनवद्याङ्गी, सा भैमी, अवाचि उक्ता। वचेः कर्मणि लुङ्। तदेवाह-हे प्रिये! ते तव, अयं क्रियमाणः, कोपः रोषः, नौचिती न न्यायः, अनुचित इत्यर्थः। तथा हि, यस्य तपसः, प्रसादेन अनुग्रहेण, त्वां भवतीम्, प्राप प्राप्तवान् अस्मि, अहमिति शेषः। आप्नोतेलुर्ङ् `तस्थस्थमिपां तान्तन्तामः’ इति मिपोऽमादेशः। तत् महोपकारि, तपः अग्निहोत्रादिकर्म,न आद्रिये? न सत्करोमि? इति काकुः, अपि तु अवश्यमेव तस्य समादरं करोमि, तत्प्रसादादेव यतः त्वां लब्धवानस्मि इति निष्कर्षः॥ 20.14 ॥
निशि दास्यं गतोऽपि त्वां स्नात्वा यन्नाभ्यवीवदम्।
तं प्रवृताऽसि मन्तुं चेन्मन्तुं तद्वद वन्द्यसे॥ 20.15 ॥
अन्वयः–निशि दास्यं गतः अपि स्नात्वा त्वां यत् न अभ्यवीवदं तं मन्तुं मन्तुं प्रवृत्ता असि चेत् तत् वद, वन्द्यसे।
जीवातु–निशीति। हे प्रिये! निशि रात्रौ, दास्यं दासत्वम्, तवेति शेषः। चरणमर्दनव्यजनादिना सुरतश्रान्त्यपनोदनार्थमिति भावः। गतः प्राप्तोऽपि अहमिति शेषः। स्नात्वा स्नानात् आगत्य, त्वां भवतीम् यत् न अभ्यवीदवदं न अभिवादितवान् अस्मि वदेरभिवादनार्ताच्चौरादिकात् ण्यन्ताच्चङि। `णौ चङ्यु पधाया ह्रस्वः’ इति उपधाह्रस्वः। तम् अनभिवादनमेव, मन्तुम् अपराधम्, `आगोऽपराधो मन्तुश्च’ इत्यमरः मनेरौणादिकस्तुमुन्‌प्रत्ययः। मन्तुं विवेचयितुम्। मन्यतेस्तुमुन्‌प्रत्ययः। प्रवृत्ता उद्युक्ता, असि भवसि, चेत् यदि, दासस्याप्रणतेरपराधत्वादिति भावः। तत् तर्हि, वद कथय, वन्द्यसे नमस्त्रियसे, इदानीमेव मया त्वमिति शेषः। प्रणिपातप्रतीकारत्वात् अपराधस्येति भावः॥ 20.15 ॥
इत्येतस्याः पदसत्त्यै पत्यैषा प्रैरितौ करौ।
रुद्‌ध्वा सकोपं सातङ्कमं तं कटाक्षैरमूमुहम्॥ 20.16 ॥
अन्वयः–इति एतस्याः पदासत्त्यै पत्या प्रेरितौ करौ एषा रुद्‌ध्वा सकोपं सातङ्कं कटाक्षैः तम् अमूमुहत्।
जीवातु–इतीति। एषा दमयन्ती, पत्या प्रियेण नलेन, इति इत्थम्, उक्तवेति शेषः, एतस्याः प्रियाया भैम्याः, पदासत्त्यै अभिवादनार्थं पादग्रहणायः, प्रेरितौ प्रसारितौ, करौ हस्तौ, रुद्‌ध्वा स्वकराभ्यां निरुध्य, सकोपम् अनर्हकरणात् सक्रोधम्, सातङ्कं सभयञ्च, स्वचरणे स्वामिकरस्पर्शस्य अनौचित्यादिति भावः। कटाक्षैः अपाङ्गविलोकनैः, तं प्रियम्, अमूमुहत् मोहयति स्म, स्मारार्त्तं कृतवतीत्यर्थः॥ 20.16 ॥
अवोचत ततस्तन्वीं निषधनामधीश्वरः।
तदपाङ्गचलत्ताराझलत्कारवशीकृतः॥ 20.17 ॥
अन्वयः–ततः तदपाङ्गचलत्ताराझलत्कारवशीकृतः निषधानाम् ईश्वरः तन्वीम् अवोचत।
जीवातु–अवोचतेति। ततः कटाक्षैर्मुग्धीभावानन्तरम्, तस्याः, प्रियायाः, अपाङ्गे नेत्रान्ते, चलन्त्याः भ्रमन्त्याः, तारायाः कनीनिकायाः, झलत्कारेण प्रभास्फुरणेन, वशीकृतः, आयत्तीभूतः, निषधानां निषधदेशीयानाम्, अधीस्वरः अधिपतिः नलः, तन्वीं कृशाङ्गीं प्रियाम्, अवोचन अभाषत। ब्रुवोलुङि रूपम्॥ 20.17 ॥
कटाक्षकपटारब्धदूरलङ्घनरंहसा
दृशा भीत्या निवृत्तं ते कर्मकूपं निरूप्य किम्?॥ 20.18 ॥
अन्वयः–कटाक्षकपटारब्धदूरलङ्घनरंहसा ते दृशा कर्णकूपं निरूप्य किं भीत्या निवृत्त्म्?
जीवातु–कटाक्षेति। हे प्रिये! कटाक्षकपटेन अपाङ्गदर्शनव्याजेन, आरब्धम् उपंक्रान्तम्, दूरलङ्घनरंहः विप्रकृष्टदेशोत्पतनवेगः यथा तादृशया, ते तव, दृशा नयनेन, कर्णः श्रुतिः एव, कूपः गर्त्तः तम्, निरूप्य निरीक्ष्य, भीत्या भयेन, कूपलङ्घनोपक्रमे तत्र पतनमिया इत्यर्थः, निवृत्तं किम्? निरस्तं किम्? दूरलङ्घनेच्छुरन्योऽपि जनः सम्मुखे कूपं तिष्ठेच्चेत् तत्र पतनभिया स्वारब्धात् निवृत्तो भवतीतिन लोके दृश्यते। आकर्णविश्रान्तलोचना दमयन्तीति तात्पर्यम्॥ 20.18 ॥
सरोषऽपि सरोजाक्षि! त्वमुदेषि मुदे मम।
तप्ताऽपि शतपत्रस्य सौरभायेव सौरभाः॥ 20.19 ॥
अन्वयः–सरोजाक्षि, त्वं सरोषा अपि मम मुदे उदेषि, तप्ता अपि सौरभा शतपत्रस्य सौरभाय एव।
जीवातु–सरोषेति। सरोजाक्षि! हेकमललोचने! सरोषाऽपि रुष्ठाऽपि, त्वं भवती, मम मे, मुदे हर्षाय एव, उदेषि भवसि, नयनाननयोः तात्कालिकसुषमाया अतीवरमणीयत्वादिति भावः। तथा हि-तप्ता उष्णा अपि, सूर्यस्य इयं सौरी सूर्यसम्बन्धिनी। `सूर्यागस्त्ययोः-’ इत्यादिना यकारलोपः। सौरी च सा भा प्रभा च सौरभा सूर्यप्रभा। `स्त्रियाः पुवत्-’ इत्यादिना पुंवद्भावः। शतप6स्य कमलस्य, सौरभाय एव सुरभित्वाय, भवतीति शेषः। दृष्टान्तालङ्कारः॥ 20.19 ॥
छेत्तुमिन्दौ भवद्वक्त्रबिम्बविभ्रमविभ्रमम्।
शङ्के शशाङ्कमानङ्के भिन्नभिन्नविधिर्विधिः॥ 20.20 ॥
अन्वयः–भिन्नभिन्नविधिः विधिः इन्दौ भवद्‌वक्त्रबिम्बविभ्रमविभ्रमं छेत्तुं शङ्के शशाङ्कम् आनङ्के।
जीवातु–छेत्तुमिति। हे प्रिये! भिन्नभिन्नः पृथक् पृथक् प्रकारः अत्यन्तविलक्षणरूप इत्यर्थः। विधिः निर्माणव्यापारः यस्य सः तादृशः, विधिः विधाता, इन्दौ चन्द्रे, भवत्याः तव, वक्त्रबिम्बस्य मुखमण्डलस्य। `सर्वनाम्नो वृत्तिमात्रे पुंवद्भावः’। यः विभ्रमः शोभा, तस्य विभ्रमं भ्रान्तिम्, `विभमः संशये भ्रान्तौ शोभायञ्च’ इति यादवः। सादृश्यजन्यं लोकानां तव मुखभ्रममित्यर्थः। छेत्तूं निराकर्त्तुम्। छिदेः तुमुन्। शशङ्कं शशस्य मृगस्य, अङ्कं चिह्नम्, आनङ्के अङकितवान्। `अकि लक्षणे’ इति धातोर्भौवादिकाल्लिटि तङ्, `तस्मान्नुड्‌द्विहलः’ इति नुडागमः। इति शङ्के मन्ये, अहमिति शेषः। ईदृशाकरणे निश्चितमेव इन्दौ लोकानां तव मुखभ्रान्तिरुत्पद्येत इति भावः॥ 20.20 ॥
ताम्रपर्णितटोत्पर्न्नौर्मौक्तिक्तैरिन्दुकुक्षिजैः।
बद्धस्पर्द्धतरावर्णाः प्रसन्नाः स्वादवस्तव॥ 20.21 ॥
अन्वयः–प्रनन्नाः स्वादवः तव वर्णाः ताम्रपर्णीतटोत्पन्नौः इन्दुकुक्षिजैः मौक्तिकैः बद्धस्पर्द्धतराः।
जीवातु–ताम्रेति। प्रसन्नाः प्रसादगुणसम्पन्नाः, सुस्पष्टा इत्यर्थः। स्वच्छाश्च, स्वादवः मनोज्ञोः, श्रवणपिपासावर्दधकाः इति यावत्,। सुमधुराश्च `स्वादू मिष्टमनोज्ञयो-’ तदाख्यायाः स्वच्छजलायाः कस्याश्चित् नद्याः, तटे तीरदेशे, उत्पन्नैः सञ्जातैः, अत एव स्वच्छैरिति भावः। तथा इन्दुकुक्षिजैः चन्द्रगर्भोत्पन्नैश्च, अत एव पीयूषसम्पर्कात् मधुरैरिति भावः। मोक्तिकैः मुक्ताफलै सह, बद्धस्पर्द्धतराः बद्धा धृता इत्यर्थः, स्पर्द्धा सादृश्यजनिताभिमानः यैस्ते तादृशाः बद्धस्पर्द्धाः अतिशयेन बद्धस्पर्द्धाः बद्धस्पर्द्धतराः, भवन्तीति शेषः। ततोऽपि तव वर्मानामेव अधिका स्वच्छता मधुरता च इति भावः॥ 20.21 ॥
त्वद्‌गिरः क्षीरपाथोधेः सुधयेव सहोत्थिताः।
अद्य यावदहो! धावदूदुग्धलेपलवस्मिताः॥ 20.22 ॥
अन्वयः–त्वद्‌गिरः क्षीरपाथोधेः सुधया सह एव उत्थिताः, अद्य यावत् अहो, धावद्‌दुग्धलेपलवस्मिताः।
जीवातु–त्वदिति। हे प्रिये! त्वद्गिरः तव वाक्यानि, सुधया अमृतेन, सहैव सार्द्धमेव,क्षीरपाथोधेः दुग्धसागरात्, अत्थिताः उद्‌गताः, इवेति शेषः। अतः सुधासंसर्गादेव तासां सुधावत् माधुर्यं प्रतीयते इति भावः। ततश्च अद्य यावत् अद्यपर्यन्तमपीत्यर्थः। धावन्ति स्नवन्ति, दुग्धलेपानां क्षीरसमुद्रे अवस्थानात् लिप्तक्षीराणाम्, लवाः बिन्दव एव, स्मितानि ईषद्धास्यानि याभ्यः ताः तादृश्यः, यद्वा-धावतां स3वताम्, दुग्धानां लेपस्य, तत्र संसृष्टस्य, लवा एव स्मितानि यासु ताः तादृश्यः परिलक्ष्यन्ते इति शेषः। इति अहो! आश्चर्यम्! स्मितव्याजेन क्षीरलिप्तत्वात् त्वद्‌गिरां सुधया क्षीरेण च सार्द्ध क्षीरसागरोत्पन्नत्वम् उन्नीयते, अन्यथा तथाभावासम्भवादिति भावः॥ 20.22 ॥
पूर्वपर्वतामाश्लिष्टचन्द्रिकश्चन्द्रमा इव।
अलञ्चक्रे स पर्यङ्कमङ्कसङ्क्रमिताप्रियः॥ 20.23 ॥
अन्वयः–आश्लिष्टचन्द्रिकः चन्द्रमाः पूर्वपर्वतम् इव अङ्कसङ्क्रमिताप्रियः सः पर्यङ्कम् अलञ्चक्रे।
जीवातु–पूर्वेति। आश्लिष्टा आलिङ्गिता, स्पृष्ट इति यावत्, चन्द्रिका कौमुदी येन सः तादृशः, चन्द्रमाः चन्द्रः, पूर्वपर्वतम्उदयाद्रिम् इव, अङ्कसङ्क्रमिता क्रोडारोपिता, प्रिया दमयन्ती येन सः तादृशः क्रोडोपवेशितभैमीकः `अपूरणीप्रियादिषु’ इति वचनान्न प्रियापरस्य पूर्वपदस्य `स्त्रियाः पुंवत्-’ इत्यादिना पुंवद्भावः। सः नलः, पर्यङ्क शयनम्, अलञ्चक्रे भूषयामास, उपविवेश इत्यर्थः॥ 20.23 ॥
प्रावृडारम्भणाम्भोदः स्निग्धो द्यामिव सा प्रियाम्।
परीरम्भ चिरायास विश्लेषायासमुक्तये॥ 20.24 ॥
अन्वयः–स्निगधः प्रवृडारम्भणाम्भोदः द्याम् (स्नग्धः) सः प्रियाम् विश्लेषायासमुक्तये परीरभ्य चिराय आस।
जीवातु–प्रावृडिति। स्निग्धः अनुरक्तः, दमयन्तीं प्रति प्रीतिसम्पन्नः इत्यर्थः. जलगर्भत्वात् मसृणश्च। सः नलः, प्रावृडारम्भणे वर्षाप्रारम्भे, अम्भोदः मेघः द्यां नभःस्थलीम् इव, विश्लेषायासमुक्तये वियोगक्लेशपरिहाराय, प्रियां भैमीम्, परीरभ्य आलिङ्ग्य, चिराय दीर्घकालपर्यन्तम्, आस शुशुभे, चिरमाश्लिष्य अवस्थितः इत्यर्थः। `आसेति तिङन्तप्रतिरूपकम्’ इति शाकटायनः, वामनश्च `अस गतिदीप्यादानेष्विति अस्‌धातो-’ इत्याह `आसेत्यसतेः’ इति॥ 20.24 ॥

चुचुम्बास्यमसौ तस्या रसमग्नः श्रितस्मितम्।
नभोमणिरिवाम्भोजं मधुमध्यानुबिम्बितः॥ 20.25 ॥
अन्वयः–श्रितस्मितम् अम्भोजं मधुमध्यानुबिम्बितः रसमग्नः नभोमणिः इव असौ तस्याः आस्यं चुचुम्ब।
जीवातु–चुचुम्बेति। रसमग्नः अनुरागसागरान्तर्निविष्टः, असौ नलः श्रितस्मितं प्राप्तमन्दहासम्, आलिङ्गनजन्यानन्देन क्रोधापगमादिति भावः। प्राप्तविकासञ्च, तस्याः दमयन्त्याः, आस्यं मुखम्, मधुमध्ये कमलस्यैव मकान्दाभ्यन्तरे, अनुबिम्बितः प्रतिफलितः, एवञ्च नभोमण्यम्भोजयोः परस्परं सुदूर्वयवधाने सत्यपि चुम्बने न काऽप्यनुपपत्तिरिति मन्तव्यम्। नभोमणिः रविः, अम्भोजं कमलम्, इव, चुचुम्ब चुम्बितवान्॥ 20.25 ॥
अथाहूय कलां नाम पाणिना स प्रियासखीम्।
पुरस्ताद्वेशितामूचे कर्त्तुं नर्मणि साक्षीणीम्॥ 20.26 ॥
अन्वयः–अथ सः कलां नाम प्रियासखीं पाणिना आहूय पुरस्तात् वेशितां नर्मणि साक्षिणँीं कर्त्तुम् ऊचे।
जीवातु–अथेति। अथ चुम्बनानन्तरम्, स नलः, कलां नाम कलानाम्नीम्, प्रियासखीं भैम्याः वयस्याम्, नर्मणि परिहासक्रीडायाम्, साक्षिणीं, प्रत्यक्षदर्शिनीम्, कर्त्तुं विधातुम्, पाणिना हस्तसंज्ञया, आहूय आकार्य; पुरस्तात् अग्रे, वेशिताम्, उपवेशितान्, कृत्वेति शेषः, उचे बभाषे॥ 20.26 ॥
कस्मादस्माकमब्जास्या वयस्या दयते न वः?।
आसक्ता भवतीष्वन्यं मन्ये न बहु मन्यते॥ 20.27 ॥
अन्वयः–अब्जास्या वः वयस्या कस्मात् अस्माकं न दयते? मन्ये, अवतीषु आसक्ता अन्यं बु न मन्यते।
जीवातु–कस्मादिति। हे कले! अब्जास्या कमलवदना, वः युष्माकम्, वयस्या सखी, कस्मात् कस्य हेतोः, अस्माकं मामित्यर्थः। `अधीगर्थ-’ इत्यादिना कर्मणि षष्ठी। न दयते? न दयते? न अनुकम्पते? मन्ये विवेचयामि, अहमिति शेषः। भवतीषु युष्मासु, आसक्ता अत्यन्तमनुरक्ता सती, अन्यम्, अपरं जनम्, न बहु मन्यते न समाद्रियते॥ 20.27 ॥
अन्वग्राहि मया प्रेयान्निशि स्वोपनयादिति।
न विप्रलभते तावदालीरियमलीकवाक्॥ 20.28 ॥
अन्वयः–निशि मया स्वोपनयात् प्रेयान् अन्वग्राहि-इति इयम् अलीकवाक् आलीः तावत् न विप्रलभते।
जीवातु–अन्वग्राहीति। मया भैम्या, निशि रात्रौ, स्वोपनयात् आत्मसमर्पणात्, स्वाङ्गदानं कृत्वेत्यर्थः। प्रेयान् प्रिततमः नलः, अन्वग्राही अनुगृहीतः इति एवम्, अलीकवाक् अनृनवादिनी, इयम् एषा वः सखी, तावत् सकला एव, आलीः सखीः भवतीः, न विप्रलभते? किमिति शेषः, इति काकुः अपि तु प्रतारयत्येव। तस्मात् अहं रात्रौ प्रियतमाय आत्मसमर्पणं कृतवतीति युष्मत्समीपे यदियमुक्तवती तद्‌ वचः न श्रद्धेयम् इति भावः॥ 20.28 ॥
आह स्मैषा नलादन्यं न जुषे मनसेति यत्।
यौवनानुमितेनास्यास्तन्मृषाऽभून्मनोभुवा॥ 20.29 ॥
अन्वयः–नलात् अन्यं मनसा न जुषे-इति एषा यत् आह स्म, अस्याः तत् यौवनानुमितेन मनोभुवा मृषा अभूत्।
जीवातु–आहेति। एषा इयं वः सखी, नलात् नैषधात्, अन्यम्, अपरं पुरुषम्, मनसा चेतसा, अपीति शेषः, न जुषे न सेवे, इति यत् आह स्म ऊचे, अस्याः तव सख्याः, तद्‌ वचनम्, यौवनानुमितेन यौवनेन तारुम्येन, लक्षणेन, अनुदितः तादृशेन, एषा मनोभूमती यौवनवत्त्वात्, या या यौवनवती सा सा मनोभूमती इत्यनुमानविषयीकृतेनेत्यर्थः। मनोभुवा मनः चित्तमेव, भूः उत्पत्तिस्थानं यस्य तादृसेन कामेन, मृषा मिथ्या, अभूत् अजनि; मदन्यस्य कामस्य मनसा सेवनात् अस्याः तादृसी उक्तितः मिथ्या जाता इति निन्दाच्छलेन मय्येवेयं कामानुरक्तेति स्तुतेः व्याजस्तुतिः॥ 20.29 ॥
आस्यसौन्दर्यमेतस्याः श्रृणुमो यदि भाषसे।
तद्धि लज्जानमन्मौलेः परोक्षमधुनाऽपि नः॥ 20.30 ॥
अन्वयः–यदि एतस्याः आस्यसौन्दर्यं भाषसे, श्रृमुमः; हि लज्जानमन्मौलेः तत् अधुना अपि नः परोक्षम्।
जीवातु–आस्येति। हे कले! एतस्याः युष्मत्सख्याः, आस्यसौन्दर्य मुखशोभाम्, यदि चेत्, भाषसे वर्णयसि, त्वमिति शेषः। तदा श्रृणुमः आकर्णयामः, वयमिति शेषः। ननु तव उत्सङ्गे एव यदा इयमुपविष्टा, तदा अस्मन्मुखे कथं श्रृणुथ, पश्यथ न कथम्, इति चेदाह-हि यस्मात्, लज्जया त्रपया, नमन्मौलेः नम्रशिरसः, एतस्याः इति शेषः। तत् आस्यसौन्दर्म्, अधुना अपि विवाहात् परमद्यपर्यन्तमपीत्यर्थः. नः अस्माकम्, परोक्षम् अक्ष्णोरगोचरमेव, वर्त्तते इति शेषः। तत् यथा एषा लज्जां परित्यज्य स्वमुखकमलमस्मान् दर्शयति तथा क्रियताम् इति भावः॥ 20.30 ॥
पूर्णयैव द्विलोचन्या सौषाऽलीरवलोकते।
द्राग्दृगन्ताणुना मान्तु मन्तुमन्तमिवेक्षते॥ 20.31 ॥
अन्वयः–सा एषा पूर्णया द्विलोचन्या आलीः एव अवलोकने, मां तु मन्तूमन्तम् इव द्राक् दृगन्ताणुना ईक्षते।
जीवातु–पूर्णयेति। सा उक्तरूपा लज्जानतशिस्का, एषा दमयन्ती, पूर्णयैव समग्रयैव, न तु अन्तेन इति भावः। द्वयोः लोचनयोः समाहारः इति द्विलोचनी तया द्विलोचन्या नेत्रद्वयेन त्रिलोकीवत् प्रक्रिया। आलीः सखीः, अवलोकते पश्यति, मान्तु मां पुनः, मन्तुमन्तम् अपराधीनम् इव, द्राक्‌ झटिति, क्षणमात्रमित्यर्थः। दृगन्तांणुना दृशः एकमात्रस्य चक्षुषः, न तु द्वयोः, अन्तः शेषभागः, न सम्पूर्मभागः, तस्यापि अणुना लेशमात्रेण, कटाक्षलेशेन इत्यर्थः, ईक्षते अवलोकयति, अन्योऽपि लोको यथा अपराधिनं घृणया कटाक्षमात्रेणावलोकयति तद्वदिति निष्कर्षः॥ 20.31 ॥
नालोकते यथेदानीं मामियं तेन कल्पये।
योऽह दूत्येऽनया दृष्टः सोऽपि व्यस्मारिषीदृशा॥ 20.32 ॥
अन्वयः–इयं माम् इदानीं यथा न आलोकने, तेन परिकल्पये-यः अहं दूत्ये अनया दृ,्टः सः अपि ईदृशा व्यस्मारिषि।
जीवातु–नेति। इयं दमयन्ती, यथा येन प्रकारेण, इदानीम् अधुना, मां नलम्, न आलोकते न ईक्षते, तेन तादृशानालोकनव्यापारेण, कल्पये एवं मन्ये, यत् यः अहं नलः, दूत्ये इन्द्रादीनां दूत्यकाले, अनया भैम्या, दृष्टः पूर्णलोचद्वयेन अवलोकितः, सोऽपि अहम्, ईदृशा इदानीमेतादृशव्यवहारेण माम् अपश्यन्त्या अनया, व्यस्मारिषि विस्मृतः अस्मि। स्मरतेः कर्मणि लुङ्। `स्यसिच्‌सीयुट्‌’ इत्यादिना सिच इडागमे तस्य चिण्वद्भावे `अचो ञिणति’ इति वृद्धिः। अविस्मरणे पूर्ववत् सादरं पश्येत् इति भावः॥ 20.32 ॥
रागं दर्शयते सैषा वयस्याः सूनृतामृतैः।
मम त्वमिति वक्तुं माम मानिनी मौनिनी पुनः॥ 20.33 ॥
अन्वयः–सा एषा सूनृतामृतैः वयस्याः रागं दर्सयते, मानिना पुनः मां तु `त्वं मम’ इति वक्तुं मौनिनी।
जीवातु–रागमिति। सा उक्तरूपा, एषा प्रिया, सूनृतामृतैः सत्यप्रियवाक्यपीयूषैः। `सूनृतं प्रिये सत्ये’ इत्यमरः। वयस्याः सखीः, रागम् अनुरक्तिम्, स्नेभावमित्यर्थः, दर्शयते प्रकाशयतीत्यर्थः. ताभ्यः विस्रब्धं कथयतीति भावः। `अभिवादिदृशोरात्मनेपदे वेति वाच्यम्’ मानिना मानवती इयम्, मां पुनः मान्तु, त्वम्, भवान्, मम मदीयः, इति एवम्, वक्तुं कथयितुम्, `उदीयः त्वम्’ इत्येतावन्मात्रं वक्तुमपीत्यर्थः। मौनिनी वाचंयमा, भवतीति शेषः। अतिनिष्करुणा इयं मयि इति निन्दा, लज्जाशीलेयमिति स्तुतिः॥ 20.33 ॥
कां नामन्त्रयते नाम नामग्रहमियं सखी?
कले! नलेति नास्माकीं स्पृशत्याह्वां तु जिह्वया?॥ 20.34 ॥
अन्वयः–कले, सखी इयं कां नाम नामग्राहं गृहीत्वा न आमन्त्रयते? आस्माकीं `नल’ इति आह्वया न स्पृशति।
जीवातु–कामिति। कले! इयम् एषा, सखी ते वयस्था, कां नाम सखीम्, नामग्रहं नाम गृहीत्वा। `नाम्न्यादिशिग्रहो-’ इति णमुल्। न आमन्त्रयेत? न सम्बोधयति? अपि तु सर्वाः एव आमन्त्रयते इत्यर्थः। नामेति प्रश्ने। तु किन्तु, अस्माकम् इमाम् आस्माकीं मदीयाम्। `युष्मदस्मदोः’ इत्यादिना अण्प्रत्ययः। `तस्मिन्नणि च-‘इत्यादिना आस्माकादेशः, `टिड्‌ढाणञ्-’ इत्यादिना ङीष्। नलेति आह्वां नाम। `आख्याऽऽह्वे अभिधानञ्च नामधेयञ्च, नाम च’ इत्यमरः। जिह्वया रसनया, अपीति शेषः, न स्पृशति न स्पर्श करोति, मां नाम्नाऽपि आह्वयति रहस्यालापस्तु दूरमास्तामिति निन्दा, स्त्रीणां भर्त्तृनामग्रहस्य अनौचित्यात् स्तुतिः॥ 20.34 ॥
अस्याः पीनस्तनव्याप्ते हृदयेऽस्मासु निर्दये।
अवकाशलवोऽप्यस्ति नात्र कुत्र बिभर्त्तु नः?॥ 20.35 ॥
अन्वयः–पीनस्तनव्याप्ते अस्मासु निर्दये अस्याः हृदये अवकाशलवः अपि न अस्ति, अत्र नः कुत्र बिभर्त्तु?
जीवातु–अस्या इति। पीनाभ्यां स्थूलाभ्याम्, स्तानाभ्यां कुचाभ्याम् व्याप्ते सम्पूर्मताभावेन आक्रान्ते, ततश्च बहिरपि अवकाशलवोऽपि नास्तीत्याशयः, अस्मासु मयि विषये, निर्दये अकरुणे, तत एव अन्तरपि अवकाशलवोऽपि नास्तीति भावः, अस्याः दमयन्त्याः, हृदये वक्षसि, अवकाशस्य मदवस्थितिस्थिनास्य, लवः लेशोऽपि, नास्ति न विद्यते, अत एव अत्र हृदये, कुत्र कस्मिन् स्थाने, नः अस्मान् मामित्यर्थः। बिभर्त्तु? धारयतु? न कुत्रापीत्यर्थः। उच्चकुचाभ्यां व्यवहितेनैव मया स्थीयते, न तु हृदयेन ध्रियते इति भावः। अत्रापि निन्दाच्छलात् स्तुतिः॥ 20.35 ॥
अधिगत्येदृगेतस्या हृदयं मृदुतामुचोः।
प्रतीम एव वैमुख्यं कुचयोर्युक्तवृत्तयोः॥ 20.36 ॥
अन्वयः–अस्याः हृदयात् ईदृक् अधिगत्यट मृदुतामुचोः युक्तवृत्तयोः कुचयोः वैमुख्यम् एव प्रतीमः।
जीवातु–अधिगत्येति। एतस्याः भैम्याः, हृदयम्, अन्तःकरणम्, ईदृक् निर्दयत्वात् ईदृशं कठिनम्, अधिगत्य ज्ञात्वा, इवेति शेषः। मृदुतामुचोः कोमलतात्यागिनोः, तथाभूतकठिनहृदयसंसर्गात् स्वयामपि तावत् काठिन्यभाजोः इत्यर्थः। अन्यथा कठिने मृदुताचरणे दुर्नीतिरिति भावः। अत एव युक्तवृत्तायोः युक्तम् उचितम्, वृत्तं व्यवहारः ययोस्तादृशयोः, कठिने कठिनव्यवहारस्य औचित्यात्; अन्यत्र-युक्तौ पीनत्वात् मिथः संश्लिष्टौ, वृत्तौ वर्त्तृलौ च तयोः युक्तवृत्तयोः। विशेषणसमासः। कुचयोः स्तनयोः, अपीति शेषः, वैमुख्यमेव कठिनात् हृदयात् विपरीतमुखत्वमेव औदासीन्यमे च प्रतीमः जीनीमः; एतस्याः निर्दयात् कठिनात् हृदयात् स्वाङ्गभूतौ सद्‌वृत्तौ कुचावपिविमुखौ जातौ, वयन्तु बाह्यः तत्र निवेष्टुं कथं शक्नुमः? इति भावः; यद्वा-वैमुख्यमेव मयि पराङ्मुखत्वमेव, तुङ्गतया आलिङ्गनविघ्नजननादिति भावः, अन्यत्र-विगतमुखत्वमेव, तुङ्गतया आलिङ्गनविघ्नजननादिति भावः, अन्यत्र-विगतमुखत्वमेव, नवोद्भिन्नत्वात् वृन्तहीनतया मनोज्ञमेवेति भावः॥ 20.36 ॥
इति मुद्रितकण्ठेऽस्मिन् सोल्लुण्ठमभिधाय ताम्।
दमयन्तीमुखाधीतस्मितयाऽस्मै तया जगे॥ 20.37 ॥
अन्वयः–अस्मिन् तां सोल्लुण्ठम् इति अभिधाय मुद्रितकण्ठे दमयन्तीमुखाधीतस्मितया तया अस्मै जगे।
जीवातु–इतीति। अस्मिम् नले कान्ते, तां कलाम्, सोल्लुण्ठं सोत्प्रासम्, सपरिहासमित्यर्थः. `सोल्लुण्ठनन्तु सोत्प्रासम्’ इत्यमरः। इति एवम्, अभिधाय उक्त्वा, मुद्रितकण्ठे निरुद्धगले, तूष्णीम्भूते सतीत्यर्थः। तया कलानामसख्या, दमयन्तीमुखाधीतस्मितया दमयन्त्याः वयस्यायाः भैम्याः, मुखात् आननात् अधीतं शिक्षितम्, गृहीतमिति यावत्, स्मितं मन्दहास्यं यया तादृशया सत्या, दमयन्तीं हसन्तीं दष्ट्वा स्वयमपि स्मयमानया सत्या इत्यर्थः। अस्मै नलाय, जगे जगादे, नलः गदितः इत्यर्थः। `क्रियया यमभिप्रैति सोऽपि सम्प्रदानम्’ इति क्रियया अभिप्रायात् सम्प्रदानत्वम्, तथा चाविवक्षितकर्मत्वाद्भावे लिट्। अस्मै इत्यत्र `असौ’ इति पाठे-असौ नलः, जगे ऊचे, वक्ष्यमाणं वच इति शेषः। कर्मणि लिट्॥ 20.37 ॥
भीवितेयं त्वया साधु नवरागा खलु त्वयि।
चिरन्तनानुरागार्हं वर्त्तते नः सखीः प्रति॥ 29.38 ॥
अन्वयः–त्वयि नवरागा इयं खलु साधु भाविता, नः सखीः प्रति चिरन्तनानुरागार्हं वर्त्तते।
जीवातु–यदुक्तं `कस्मादस्माकम्’ इत्यादि तत्र तावदुत्तरमाह-भावितेति। हे महाराज! त्वया भवता, इयं सखी भैमीं, साधु सम्यक् भाविता तर्किता, खलु इति निश्चये यतः, त्वयि भवति नवरागा नृतनपरिचयात् नूतनानुरागा, जातेति शेषः। अतः तदनुरूपं वर्त्तते इति भावः। नः अस्मान्, सखीः सहचरीः प्रति तु, चिरन्तनस्य पुरातनस्य, अनुरागस्य प्रणयस्य, आबाल्यमेकत्रावस्थानात् सहजानुरागस्येत्यर्थः। अर्हम्, अनुरूपं यथा तथा, वर्त्तते विद्यते, व्यवहरतीत्यर्थः। अत एवेयं भवति ससङ्कोचा अस्मासु तु तद्वर्जिता स्वभावत एव, एवञ्चायमुपालम्भः नोचितः इति भावः॥ 20.38 ॥
स्मरशास्त्रविदा सेयं ननोढा नस्त्वया सखी।
कथं सम्भुज्यते बाला? कथमस्मासु भाषताम्॥ 20.39 ॥
अन्वयः–नवोढा बाला नः इयं सखी स्मरशास्त्रविदा त्वया कथं संभुज्यते? कथम् सा अस्मासु भाषताम्?
जीवातु–युक्तम् `अन्वग्राहि’ इत्यनेन तत्रोत्तरं श्लोकद्वयेनाह–स्मरेत्यादिना। नवम् अचिरमेव, ऊढा परिणीता, अत एव लज्जासङ्कुचिता इत्याशयः। तथा बाला अविदग्धा, अत एव स्मरागमानि भिज्ञा इति भावः नः अस्माकम्, सा त्वाया अभियुक्ता, इयं भवदङ्कस्था, सखी सहचरी दमयन्ती, स्मरशास्त्रविदा कामतन्त्रवेदिना, अत एव कामकलाकुशलेनेत्यर्थः। त्वया भवता, कथं केन प्रकारेण, सम्भुज्यते? निर्भरं सम्भोक्तुं शक्यते? कथमपि नैवेत्यर्थः। अस्या लज्जाया एव दुर्वारविघ्नत्वादिति भावः। कथं केन वा प्रकारेण, अस्मासु अस्मत्समीपे, भाषताम्? रात्रिवृत्तमसङ्कोचं कथयतु? बालत्वेन लज्जावशादस्मभ्यं स्वचेष्टचितं नैव कथयिष्यतीत्यर्थः। तस्मान्नासौ अलीकवाक् न वा अस्मान् विप्रलभते, किञ्च नवोढासुलभलज्जापरवशाया अस्याः कामशास्त्रवेदिनस्तव एवमुपालम्भः नोचितः इति भावः॥ 20.39 ॥
नासत्यवदनं देव! त्वां गायन्ति जगन्ति यम्।
प्रिया तस्य सरूपा स्यादन्यथालपना न ते॥ 20.40 ॥
अन्वयः–देव, जगन्ति यं त्वां नासत्यवदनं गायन्ति, तस्य ते सरूपा प्रिया अन्यथालपना न स्यात्।
जीवातु–अत्रैव यत् वेशेषितवान् `अलीकवाक्’ इति तत्रोत्तरमाह–नासत्येति। देव! ह महाराज! जगन्ति लोकाः, यं त्वां भवन्तम्, न असत्यं मिथ्या, वदनं भाषणं यस्य तं तादृशं सत्यवादिनमित्यर्थः। गायन्ति कीर्त्तयन्ति, तस्य तादृशसत्यवादिनः, ते तव, प्रिया स्नग्धा कान्ता, सरूपा समानरूपा, तवानुरूपसत्यवादीन्येवेत्यर्थः। स्यात् भवेत्, अन्यथा तद्विपरीतम्, असत्यभूतम्, लपनं भाषणं यस्याः सा तादृशी, न नैव; स्यादिति पूर्वेणान्वयः। पक्षान्तरेयं त्वाम् असत्यवदनं मिथ्याभाषणशीलम् न गायन्ति? इति काकुः, अपि तु गायन्त्येवेत्यर्थः, तस्य तादृशमिथ्यावादित्वेन गीतस्य, ते प्रिया सरूपा समानरूपा, तवानुरूपेत्यर्थः। स्यात् अतः अन्यथालपना मिथ्याभाषिणो, न स्यात्? इति काकुसः, अपि नु अन्यथालपनैव यादित्यर्थः। एवञ्च भावन् इमां सम्भुज्यापि यथा न भुक्तवान् इति मिथ्या भाषते, तथा इयमपि आत्मसमर्पणमकृत्वापि कृतवती इत्यभाषत, अतः उभयोरेव तुल्यमृषावादित्वात् नायं ते अभियोग उचित इति भावः। पक्षे-यं त्वां नासत्ययोः अश्विनीकुमारयोः इव वदनम् आस्यं यस्य तं तादृशम् अश्विनीकुनमारलुत्यसुन्दरवदनम्, गायन्ति तस्य तादृशसुन्दरमुखस्य, ते तव, सरूपा समानरूपा, अनुरूपसुन्दरमुखी एवेत्यर्थः। प्रिया कान्ता, स्यात्, अन्यथा तद्विपरीतम्, कुत्सितमित्यर्थः लपनं वदनं यस्याः सा तादृशी। `वक्त्रास्ये वदनं तुण्डमाननं लपनं मुखम्’ इत्यमरः। न, स्यादिति अन्वयः; योग्यं योग्येन युज्यते इति भावः॥ 20.40 ॥
मनोभूरस्ति चित्तेऽस्याः किन्तु देव! त्वमेव सः।
त्वदवस्थितिभूर्यस्मान्मनः सख्या दिवानिशम्॥ 20.41 ॥
अन्वयः–देव, अस्याः चित्ते मनोभूः अस्ति, किन्तु सः त्वम् एव; यस्मात् सख्याः मनः दिवानिशं त्वदवस्थितिभूः।
जीवातु–यदुक्तम् `आह स्म’ इत्यादिश्लोके तस्योत्तरं श्लोकत्रयेणाह-मनोभूरित्यादि। देव! हे राजन्; `राजा भट्टारको देवः’ इत्यमरः। किन्तु सः मनोभूः, त्वमेव भवानेव। कूतः? यस्मात् यतः, सख्याः वयस्याया भैम्याः, मनः चित्तम्, दिवानिसं रात्रिन्दिनम्, सदैवेत्यर्थः. त्वदवस्थितिभूः तवैवावस्थानस्य स्थानम्,। मनोभूः आश्रयः यस्येति व्युत्पत्त्या त्वमेव मनोभूः, मनसि भवतीति व्युत्पत्तौ त्वदभिलाषिण्या अस्याः कामस्य त्वत्परत्वादुभयथाऽपि न पुरुषान्तरसेवाशङ्कालव इति भावः। अत्र नलेन कामार्थे प्रयुक्तस्य मनसो भूः उत्पत्तिर्यस्य इति व्युत्पत्तिलभ्यस्य मनोभूपदस्य कलया मन एव भूः वसतिस्थानं यस्येति व्युत्पत्त्या नलार्थे प्रयुज्यमानत्वात् श्लेषवक्रोक्तिरलङ्कारः॥ 20.41 ॥
सतस्तेऽथ सखीचित्ते प्रतिच्छाया स मन्मथः।
त्वयाऽस्य समरूपत्वमतनोरन्यथा कथम्?॥ 20.42 ॥
अन्वयः–अथ सः मन्मथः सखीचित्ते सतः ते प्रतिच्छाया अन्यता अतनोः अस्य त्वया समरूपत्वं कथम्?
जीवातु–सत इति। अथ इति पक्षान्तरे, अथवेत्यर्थः। सः भवदुक्तमनोभूपदवाच्यः, मन्मथः कामः, सखीचित्ते दमयन्तीहदये, सतः वर्तमानस्य, ते तवैव, प्रतिच्छाया प्रतिबिम्बम्, अन्यथा, इत्थं न चेत्, अतनोः अनङ्गस्य, अस्य मन्मथस्य, त्वया भवता, समरूपत्वं तुल्याकारत्वम्, कथं? केन प्रकारेण? भवितुमर्हतीति शेषः। अतनोः रूपासम्भवात् तत् न कथमपि सम्भवतीत्यर्थः। धर्म्यभावे धर्मानवकाशात् स्वच्छदर्पणे प्रतिबिम्बितमुखस्य मुखव्यतिरेकेण यथा स्थितिर्नास्ति, तथा अतिस्वच्छे नः सख्याः मनसि त्वद्व्यतिरेकेण त्वत्प्रतिबिम्बभूतस्य कामस्य पृथक् स्थितिरेव नास्ति अतनुत्वात् तस्य, अतो न पुरुषान्तरसेवावसरोऽस्याः, इति भावः॥ 20.42 ॥
कः स्मरः कस्त्वमत्रेति सन्देहे शोभयोभयोः।
त्वय्येवार्थितया सेयं धत्ते चित्तेऽथवा युवाम्॥ 20.43 ॥
अन्वयः–अथवा उभयोः शोभयोः अत्र स्मरः कः, त्वं कः-इति सन्देहे सा इयं त्वयि एव अर्थितया चित्ते युवां धत्तं।
जीवातु–क इति। अथवा पाक्षान्तरे, हे देव! उभयोः तव कामस्य च, द्वयोः शोभया समानसौन्दर्येण हेतुना, अत्र अन्योः युवयोः मध्ये, स्मरः कामः, कः? त्वं भावन् वा, कः? इति एवं, सन्देहे संशये सति, सेयं भैमी, त्वय्येव भवत्येव, अर्थितया प्रार्थितया, त्वामेव लब्धुमिच्छुतया इत्यर्थः। चित्ते मनसि, युवां त्वां कामञ्च द्ववेव। `त्यदादीनां मिथः सहोक्तौ यत् परं तत् शिष्यते’ इति वचनात् त्यदाद्येकशेषः। धत्ते धारयति, त्वन्मन्मथयोः कतरः त्वम् इति सन्देहे कामस्य परित्यागे तवापि परित्यागाशङ्कया त्वं परित्यक्तः मा स्याः इति त्वदर्थित्वेन अनया उभौ एव चित्ते धार्येते, रत्नयोः कृत्रिमाकृत्रिमयोः सन्देहे उभयोरेव धारणवत्, अन्यथा अन्यतरत्यागे मुख्यस्यैवाकृत्रिमस्य त्यागभ यादिति त्वदर्थमेव कामं धारयति, न तु कामार्थं त्वामिति भावः॥ 20.43 ॥
त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्सनात्।
शङ्कया पङ्कजाक्षी त्वां दृगंशेन स्पृशत्यसौ॥ 20.44 ॥
अन्वयः–पङ्कजाक्षी असौ त्वयि न्यस्तस्य चित्तस्य दुराकर्षत्वदर्शनात् शङ्कया त्वां दृगंशेन स्पृशति।
जीवातु–यदुक्तं `पूर्णया’ इत्यादि श्लोकेन तत्रोत्तरमाह–त्वयीति। पङकजाक्षी कमलनयना, अत एव अक्षिद्वये अस्या महत्येन ममत्वबुद्धिरिति भावः। असौ दमयन्ती, त्वयी भवति, न्यस्यस्य समर्पितस्य, चित्त्स्य मनसः, दुराकर्षत्वदर्शनात् दुःखेनापि पुनः प्रत्यानेतुम्, अशक्यत्वज्ञानात्, शङ्कया भयेन, त्वां भवन्तम्, दृगंशेन दृशः एकमात्रस्य चक्षुषः, अंशेन अवयवेन, किञ्चिन्मात्रभागेनेत्यर्थः। अपाङ्गेनेति यावत्। स्पृशति स्पर्शविषयीकरोति, अवलोकयतीत्यर्थः। यदि पूर्णाभ्यां लोचनाभ्यां पश्येत् तदा पङ्कजवत् सुन्दरं नयनद्वयमपि चित्तवत् अपरावर्त्ततीयतया त्वयि लग्नं भवेदिति संशयेन आकर्णविश्रान्तस्य विशालस्य नेत्रस्य किञ्चिन्मात्रांशस्य त्वत्तः प्रत्याहरणासमर्थेऽपि `सर्वनाशे समुत्पन्ने अर्द्धं त्यजति पण्डितः’ इति शास्त्रात् न विशेषक्षतिरिति विविच्च त्वां पूर्णाभ्यां लोचनाभ्यामपस्यन्ती सा दृगंशमात्रेण पश्यति, अतो नोपालम्भावकाशः इति भावः॥ 20.44 ॥
विलोकनात् प्रभृत्यस्या लग्न एवासि चक्षुषोः।
स्वेनालोकयशङ्काचेत् प्रत्ययः परवाचि कः?॥ 20.45 ॥
अन्वयः–विलोकनात् प्रभृति अस्याः चक्षुषोः लग्नः एव असि; शङ्का चेत् स्वेन आलोकय, परवाचि कः प्रत्ययः?
जीवातु–यदुक्तं `नालोकते’ इत्यादि श्लोकेन तत्रोत्तरमाह–विलोकनादिति। विलोकनात् प्रभृति दूत्यकाले प्रथमदर्शनात् आरभ्यैव, `अपादाने पञ्चमी’ इति सूत्रे `कार्त्तिक्याः प्रभृति इति भाष्यकारप्रयोगात् प्रभॄतियोगे पञ्चमी’ इति कैयटः। अस्याः दमयन्त्याः, चक्षुषोः लोचनयोः, लग्नः संसक्तः एव, असि वर्त्तसे, त्वमिति शेषः शङ्का चेत् मदुक्तौ अविश्वासः यदि, तदा स्वेन आत्मना, स्वयमेवेत्यर्थः, आलोकय पश्य, त्वमस्याः चक्षुषोः लग्नो न वा इति परीक्षय इत्यर्थः। परवाचि अन्येषामुक्तौ, कः प्रत्ययः? का श्रद्धा? नैव श्रद्धा कर्त्तव्य इत्यर्थः। पुरःस्थस्य वस्तुनः प्रतिबिम्बः अक्षिकनीनिकायां साक्षात् अवलोक्यते, एवञ्च नलश्चेत् तथा द्रष्टुं प्रवर्त्तेत तदा स्वप्रतिबिम्बं तत्र प्रतिफलितं दृष्ट्वा स्वलग्नत्वं साक्षादेव पश्येत् इत्यत एव छलात् स्वेनालोक्य इत्युक्तमिति मन्तव्यम्॥ 20.45 ॥
परीलम्भेऽनयाऽऽरभ्य कुचुकुङ्कुमसङ्क्रमम।
त्वयि मे हृदयस्यैवं रागं इत्युदितैव वाक्॥ 20.46 ॥
अन्वयः–अनया परीरम्भे कुचुकुङ्कुमसङ्क्रमम् आरभ्य त्वयि मे हृदयस्य रागः एवम्-इति वाक् एव उदिता।
जीवातु–अथ यदुक्तं `रागं दर्शयते’ इत्यादिश्लोके तत्रोत्तरमाहपरीम्भे इति। हे महाराज! अनया सख्या, परीरम्भे गाढालिङ्गनसमये, कुचकुङ्कुमस्य निजस्तनद्वयलिप्तस्य काश्मीररजस्य, सङ्क्रमं सङ्क्रान्तिम्, मुद्रणमित्यर्थः। आरभ्य उपक्रम्, स्वकुचकुङ्कुमरागं तव हृदये संसञ्जनात् प्रभृतीत्यर्थः। त्वयि भवति नले विषये, मे मम, हृदयस्य अन्तःकरणस्य, रागः अनुरक्तिः, रक्तिमा च, एवम् इत्थम्, हृदयसङ्क्रामितकुचकुङ्कुमवदेवेत्यर्थः। इति इयम्, वाक् वचः, उदितैव उक्तैव, उक्तिवदेव व्यक्तं सूचितमित्यर्थः। अतः सखीषु अनुरक्ता न मयीति नोपालम्भेयमिति भावः॥ 20.46 ॥
मनसाऽयं भवन्नामकामसूक्तजपव्रती।
अक्षसूत्रं सखीकण्ठश्चुम्बत्येकावलिच्छलात्॥ 20.47 ॥
अन्वयः–मनला भवन्नामकामसूक्तजपव्रती अयं सखीकण्ठः एकावलिच्चलात् अक्षसूत्रं चुम्बति।
जीवातु–`कां नामन्त्रयते’ इति श्लोके यदुक्तं तस्योत्तरमाह-मनसेति। अयम् इति हस्तेन पुरोवर्त्तिनिर्देशः, सखीकण्ठः भैमीगलनालः, मनसा अन्तःकरणेन, भवतो नलस्य, नामैव संज्ञा एव, कामसूक्तं कामाविर्भावनाय कामदेवप्रकाशकप्रधानमन्त्रः, तस्य जपः पुनः पुनरुच्चारणमेव, व्रतं नियमः अस्य अस्तीति तद्‌व्रती सन्, `साहस्रो मानसो जपः’ इति स्मृतेः सर्वजपानां मानसिकजपस्य सहस्रगुमत्वात्, नारीणां भर्त्तृनामग्रहणनिषेधात् वा मनसा इत्युक्तम्, न तु जिह्वया इति भावः। एकावलिच्छलात् एकयष्टिकमुक्ताहारधारणव्याजात्, अक्षसूत्रं जपसङ्ख्यानार्थम्, अक्षमालाम्, चुम्बति स्पृशति, धारयतीत्यर्थः। सखीनामग्रहणस्य कदाचित्कत्वात् त्वन्नामग्रहणस्य च नैरन्तर्य्यात् जिह्वया त्वन्नामस्पर्शाभावेऽपि नायमुपालम्भो युज्यते इति भावः॥ 20.47 ॥
अध्यासिते वयस्याया भवता महता हृदि।
स्तनावन्तरसम्म्न्तौ निष्क्रान्तौ ब्रूमहे बहिः॥ 20.48 ॥
अन्वयः–वयस्यायाः हृदि महता भवता अध्यासिते अन्तरसम्मान्तौ कुचौ बहिः निष्क्रान्तौ-ब्रूमहे।
जीवातु–`अस्याः पीनस्तन’ इत्यादिश्लोकोक्तं वैपरीत्यापादनेन परिहरति-अध्यासिते इति। हे महाराज! वयस्यायाः सख्याः, हृदि वक्षसि, वक्षोऽभ्यन्तरे इत्यर्थः। महता गौरववता बृहदाकारेण च, भवता त्वया, अध्यासिते अधिष्ठिते सति, समग्रतया आक्रम्य अवस्थिते सतीत्यर्थः। स्तनौ सख्याः कुचद्वयौ, अन्तरसम्मान्तौ अभ्यन्तरे अवस्थातुं स्थानमप्राप्नुवन्तौ सन्तौ, बहिः हृदयस्य उपरिदेशे, निष्क्रान्तौ निर्गतौ, इति ब्रूमहे कथयामः, सम्भावयामः इति यावत्। भवदध्यासात् प्राक् अनिर्गमात् अध्यासादनन्तरञ्च निष्क्रमादिति भावः। अतोऽस्याः दृदयैकशरणः महाराजः एव इति निष्कर्षः॥ 20.48 ॥
कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया।
कथं दर्शयतामास्यं बृहन्तावावृतौ ह्रिया?॥ 20.49 ॥
अन्वयः–दोषोज्झितौ वृहन्तो अस्याः कुचौ त्वया पीडितौ ब्रणितौ, ह्रिया आवृतौ, आस्यं कथं दर्शयताम्?
जीवातु–`अधिगत्य’ इत्यादि श्लोकोक्तकुचवैमुख्योपालम्भस्योत्तरमाहकुचाविति। बृहन्तौ महान्तौ अतिपीनौ इत्यर्थः, महाशयौ च, तथा दोषोज्झितौ दोषेण शिथिलत्वादिना, उज्झितौ वर्जितौ, कठिनौ इत्यर्थः। अथ च दोषा रात्रौ, उज्झितौ वस्त्रमुक्तौ, निरावरणौ इत्यर्थः। अस्याः सख्याः, कुचौ स्तनद्वयम्,स त्वया भवता, पीडितौ पाणिभ्यां मर्दितौ, अहेतुकं दत्तक्लेशौ च, तथा व्रणितौ नखैः क्षतविक्षतीकृतौ, शस्त्राधातेन व्रणवन्तौ कृतौ इति च। व्रणवच्छब्दात् `तत्करोति-’ इति ण्यन्तात् कर्मणि क्तः, णाविष्ठवद्भावात् `विन्मतोर्लुक्’ इति मतुपो लोपः। अतः ह्रिया लज्जया हेतुना, इवेति शेषः। आवृतौ आच्छन्नौ, वस्त्रेणेति शेषः। कथं केन प्रकारेण, आस्यं मुखम्, चुचुकमिति यावत्, आननञ्च, दर्शयताम्? प्रकाशयताम्? न कथमपीत्यर्थः। महान्तौ जनाः परेम अहेतुकं दूषिता अपि लज्जया न मुखं प्रदर्शयन्तीति भावः। अत्र भवान् स्वयमेव कृतापराधः इति निष्कर्षः। दृसेर्णयन्तात् लोटि तामादेशः॥ 20.49 ॥
इत्यसौ कलया सूक्तैः सिक्तः पीयूषवर्षिभिः।
ईदृगेवेति पप्रच्छ प्रियामुन्नमिताननाम्॥ 20.50 ॥
अन्वयः–इति पीयूषवर्षिभिः कलया सूक्तैः सिक्तः असौ उन्नमिताननां प्रियाम्-ईदृक् एव-इति पप्रच्छ।
जीवातु–इतीति। इति इत्थम्, कलया प्रियायाः सख्या, पीयूषवर्षिभिः अमृतस्यन्दिभिः, सूक्तैः प्रियवचनैः, सिक्तः आर्द्रीकृतः, सन्तोषित इत्यर्थः। असौ राजा, उन्नमितं स्वपाणिना उन्नतं कृतम्, आननं मुखं यस्याः तादृशीम्, प्रियां दमयन्तीम्, ईदृक् एव? कलया यदुक्त तत् किं सत्यमेव? इत्यर्थः। इति एवम्, पप्रच्च जिज्ञासयामास॥ 20.50 ॥
बभौ च प्रेयसीवक्त्रं पत्युरुन्नमयन् करः।
चिरेण लब्धसन्धानमरविन्दमिवेन्दुना॥ 20.51 ॥
अन्वयः–प्रेयसीवक्त्रम् उन्नमयन् पत्युः करः चिरेण इन्दुना लब्धसन्धानम् अरविन्दम् इव बभौ।
जीवातु–बभाविति। प्रेयसीवक्त्रे दमयन्तीमुखम्, उन्नमयन् उत्तोलयन्, पत्युः भर्त्तुः नलस्य, करः पाणिः, चिरेण महता कालेन, बहुकालान्तमित्यर्थः। इन्दुना विधुना, निशाकाले सरसीवक्षः प्रतिबिम्बितेनेति भावः। लब्धं प्रप्ते, सन्धानं सहजवैरनिवृत्तौ संयोगः येन तत् तादृशम्, अरविन्दं पद्मम्, इव, बभौ शुशुभे। अभूतोपमेति दण्डी, अत्यन्तमसम्भवसम्बन्धोक्तेरतिशयोक्तिभेदः इत्यपरे॥ 20.51 ॥
ह्रीणा च स्मयमाना च नमयन्ती पुनर्मुखम्।
दमयन्ती मुदे पत्युरत्युच्चैरभवत्तदा॥ 20.52 ॥
अन्वयः–ह्रीणा च स्मयमाना च पुनः मुखं नमयन्ती दमयन्ती तदा पत्युः उच्चैः मुदे अभवत्।
जीवातु–ह्रीणेति। तदा तत्काले, नलकर्त्तृकदमयन्तीमुखोत्तोलनकाले इत्यर्थः। ह्रणा लज्जिता च। `नुदविद’-इत्यादिना विकल्पपात् निष्ठानन्वम्। स्मयमाना मन्दं हसन्ती च, दमयन्ती भैमी, पुनः भूयः, मुखं वदनम्, नमयन्ती अवनमनं कुर्वती सती, पत्युः नलस्य, अत्युच्चैः उच्चतरायै, मुदे आनन्दाय अभवत् अजायत॥ 20.52 ॥
भूयोऽपि भूपतिस्तस्याःसखीमाह स्म सस्मितम्।
परिहासविलासाय स्पृहयालुः सहप्रियः॥ 20.53 ॥
अन्वयः–सहप्रियः परिहासविलासाय स्पृहयालुः भूपतिः भूयः अपि तस्याः सखीं सस्मितम् आहस्म।
जीवातु–भूय इति। प्रियया भैम्या सह वर्तते इति सहप्रियः कान्तासंयुक्तः। `तेन सह-‘इत्यादिना बहुव्रीहिः भूपतिः नलः, परिहासविलासाय नर्मक्रीडार्थम्, दमयन्त्या सहैव नर्मव्यवहारेण चित्तविनोदनायेत्यर्थः। स्पृहयालुः अभिलाषुकः, केलिकामुकः सन् इत्यर्थः। `स्पृहेरीप्सितः’ इति सम्प्रदानत्वाच्च तुर्थी, `स्पृहिगृहि-’ इत्यादिना आलुच्। भूयः पुनरपि, तस्याः प्रियायाः, सखीं कलाम्, सम्मितम् ईषद्धास्यसहितम्, आह स्म उवाच॥ 20.53 ॥
क्षन्तुं मन्तुं दिनस्यास्य वयस्येयं व्यवस्यतात्।
निशीच निसिधात्वर्थं यदाचरति नात्र नः॥ 20.54 ॥
अन्वयः–इयं वयस्या अस्य दिनस्य मन्तुं क्षन्तुं व्यवस्यातात् यत् निशि इव अत्र नः निसिधात्वर्थं न आचरति।
जीवातु–क्षन्तुमिति। इयम् एषा, वयस्या वः सखी, अस्य वर्त्तमानस्य, दिनस्य दिवस्य, मन्तुम् अपराधम्, क्षन्तुं सोढुम्, व्यस्यातात् प्रवर्त्तताम्। तातङादेशः। ननु दिनस्य कः खलुः दोषः? इत्याह-यत् यस्मात् निशि इव रात्रौ इव, अत्र दिने, नः अस्माकम्, निसिधात्वर्थ निसिधातोः `निसि चुम्बने’ इति धातोः, अर्थम् अभिधेयम्, चुम्बनमित्यर्थः. न आचरति न व्यवहरति, न करोतीत्यर्थः, लज्जयेति शेषः। तत्र चुम्बनस्य विघ्नतानां दिनस्य स्वप्रकाश एव अपराधः नान्यत् किञ्चित् निमित्तं पश्यामः इति भावः॥ 20.54 ॥
दिनेनास्या मुखस्येन्दुः सखा यदि तिरस्कृतः।
तत्कृताः शतपत्त्राणां तन्मित्राणामपि श्रियः॥ 20.55 ॥
अन्वयः–दिनेन अस्याः मुखस्य सखा इन्दुः यदि तिरस्कृतः तन्मित्राणां शतपत्त्राणां श्रियः अपि तत्कृताः।
जीवातु–अथ दिनं किमस्या अनिष्टकारि? इत्यपेक्षायामाह-दिनेनेति। दिनेन अह्ना, अस्याः वः सख्याः, मुखस्य वदनस्य, सखा मित्रम्, सदृशत्वादिभि भावः। इन्दुः चन्द्रः, यदि यद्यपि, तिरस्कृतः अवज्ञातः, सूर्योदयेन निष्प्रभीकरणात् तुच्छीकृतः इत्यर्थः। इति हेतोः दिनम् अपराधि इति उच्यते यदि इति भावः। तर्हि तस्य मुखस्य, मित्राणां सखीनाम्, सदृशानामित्यर्थः। शतपत्त्राणाबहूनां पद्मानाम्, श्रियः अपि, विकाशनेनेति भावः। तत्कृताः तेन दिनेन सम्पादिताः दिनेन एतन्मुखस्य एकस्य सख्युरिन्दोरपकारे कृतेऽपि अनेकेषां मित्राणां कमलानामुपकारोऽपि कृतः। रात्र्या तु केवलं चन्द्र एव उपकृतः, तत् बहूपकारिणः एकोऽपराधो न गणनीयः, अतः दिनेऽपि चुम्बनमुचितमिति भावः॥ 20.55 ॥
लज्जितानि जितान्येव मयि क्रीडितयाऽनया।
प्रत्यावृत्तानि तत्तानि पृच्छ सम्प्रति कं प्रति?॥ 20.56 ॥
अन्वयः–मयि क्रीडितया अनया लज्जितानि जितानि एव, पृच्छ-तत् संपति तानि कं प्रति प्रत्यावृत्तानि।
जीवातु–लज्जावशात् दिने वासौ चुम्बतीति चेत्तदप्ययुक्तमित्याह=लज्जितानीति। क्रीडिताया रात्रौ स्वयमेव कृतसुरतक्रीडया, कर्त्तरि क्तः। अनया वः सख्या, मयि मम विषये मत्समीपे इति वा, यद्वा-मयि मम वक्षति उत्थायेत्यर्थः। क्रीडितया कृतविपरीतविहारया इत्यर्थः। अनया लज्जितानि व्रीडितानि, भावे क्तः। जितान्येव निरस्तान्येव, दूरीकृतान्येवेत्यर्थः। सम्प्रति इदानीं पुनः, कं प्रति कम् उद्दिश्य, तानि लज्जितानि, प्रत्यावृत्तानि प्रत्यागतानि, तत् प्रत्यावृत्तेः निमित्तमित्यर्थः। पृच्छ जिज्ञासय। मयि प्रागेव लज्जात्यागात् नाहमस्याः लज्जायाः निमित्तम्, भवतीनां समीपे लज्जायाः जातत्वात् भवत्य एव अस्याः लज्जाकारणमिति तर्कयामीति भावः॥ 20.56 ॥
निशि दष्टाधरायापि सैषा मह्यं न रुष्यति।
क्व फलं दशते बिम्बिलता कीराय कुप्यति?॥ 20.57 ॥
अन्वयः–सा एषा निशि दष्टाधराय अपि मह्यं न रुष्यति, बिम्बिलता फलं दशते कीराय क्व कुप्यति?
जीवातु–सम्प्रति अधरदशनादिरूपं दष्टः स्वापराघं चतुर्भिः क्षालयति, निशीति। सा एषा प्रिया, निशि रजन्याम्, दष्टः कृतदंशनः, अधरः रदनच्छदः येन तस्मै तादृशायापि, मह्यं नलाय, न रुष्यति न कुप्यति। `क्रुधद्रुह-’ इत्यादिना सम्प्रदानत्वाच्‌चतुर्थी। तथा हि-बिम्बीलता रक्तफलाख्यवृक्षस्य व्रततिः, ओष्ठोपफलस्य वृक्षस्य लता इत्यर्थः. `तुण्डिकेशी रक्तफला बिम्बिका पीलुपरण्यपि’ इत्यमरः। फलं प्रसवम्, निजमेव बिम्बफलमित्यर्थः। दशते निजञ्च्वा छिन्दते, कीराय शुकाय, क्व कुत्र, कुप्यति? क्रुध्यति? न क्वापीत्यर्थः। दृष्टान्तालङ्कारः, प्रतिवस्तूपमेति युक्तमिति केचित्॥ 20.57 ॥
श्रृणीपदसुचिह्ना श्रीश्चरिता कुम्भिकुम्भयोः।
पश्यैतस्याः कुचाभ्यां तन्नृपस्तौ पीडयामि न?॥ 20.58 ॥
अन्वयः–पश्य-एतस्याः कुचाभ्यां कुम्भिकुम्भयोः श्रृणीपदसुचिह्ना श्रीः चोरिता, तत् नृपः तौ न पीडयामि?
जीवातु–यदुक्तं कलया `कुचौ दोषोज्झितावस्याः पीडितौ व्रणितौ त्वया इति तत्रोत्तरमाह-श्रृणीति। एतस्याः दमयन्त्याः, कुचाभ्यां स्तानाभ्याम्, कुम्भिकुम्भयोः गजस्य शिरःस्थपिण्डयोः सम्बन्धिनी, श्रृणीपदानि अङ्कुशक्षतानि एव, सुचिह्नानि उत्कृष्टलक्ष्माणि यस्याः सा तादृशी, श्रीः शोभा सम्पत्तिश्च, चोरिता अपहृता, इति पश्य एतत् त्वं स्वयमेवावलोकय। नखपदस्य अङ्कुशपदवदेव परिदृश्यमानत्वादिति भावः। तत् तस्मात् चौर्यापराधद्धेतोरित्यर्थः। नृपः दण्डधरः, चौर्योचितदण्डविधाता इत्यर्थः। अहं नलः, तौ कुचौ, न पीडयामि? न दण्डयामि? न मर्दयामि च? अपि तु पीडयाम्येव, दुष्टनिग्रहाधिकारात् राज्ञामिति भावः॥ 20.58 ॥
अधरामृतपानेन ममास्यमपराध्यतु।
मूदूर्ध्ना किमपराद्धं यः पादो नाप्नोति चुम्बितुम्?॥ 20.59 ॥
अन्वयः–मम आस्यम् अधरामृतपानेन अपराध्यतु, मूदर्ध्ना किम् अपराद्धं यः पादो चुम्बितुं न आप्नोति?
जीवातु–अधरेति। हे कले! मम मे, आस्यं मुखम्, अधरामृतपानेन अधरसुधास्वादनेन हेतुना, अपराध्यतु अनभिमताचरणात् अपराधि अस्तु। अत एव अपराधिनः अस्य एषा दण्डं विदधातु इति भावः। किन्तु मूद्‌र्ध्ना मम शिरसा, किम् अपराद्धम्? कः अपराधः कृत? यः मूर्द्धा, पादौ अस्याश्चरणौ, चुम्बितु स्प्रष्टुमित्यर्थः। न आप्नोति? न लभते? तत् पृच्छ इति शेषः॥ 20.59 ॥
अपराद्धं भवद्वाणी श्राविणा पृच्छ किं मया?।
वीणाऽऽह परुषं यन्मां कलकण्ठी च निष्ठुरम्॥ 20.60 ॥
अन्वयः–पृच्छ-भवद्वाणीश्राविणा मया किम् अपराद्धं यत् मां वीणा परुषं कलकण्ठी च निष्ठुरम् आह?
जीवातु–अपराद्धमिति। यत् यस्मात् वीणा वाद्यविशेषः, मां नलं, परुषं कर्कशम् अप्रियवाक्यञ्च, आह ब्रवीति, कलकण्ठी च कोकिला अपि, मां निष्ठुरं कठोरं सतिरस्कारञ्च, आह, अतः हे कले! पृच्छ जिज्ञासय, त्वं वः सखीम् इति शेषः। भवत्याः तव दमयन्त्याः, वाणीं वाक्यम्, श्रृणोति आकर्णयतीति तच्छ्राविणा, मया नलेन, किम् अपराद्धम्? कोऽपराधः कृतः? न किञ्चिदप्यपराद्धम् इत्यर्थः। लोकानामयमेव स्वभावो यत् परुषनिष्ठुरवाक्यश्रवणसन्तप्तचित्तं प्रशमयितुं सुमधुरं वाक्यं श्रोतुमिच्छ भवतीति तयोः पारुष्यदोषादरुच्या त्वत्सख्याः सुमधुरां वाणीं शुक्षूषुः अहं सम्भाषणेन वः सख्या अनुकम्पनीयः इति भावः॥ 20.60 ॥
सेयमालिजने स्वस्य त्वयि विश्वस्य भाषताम्।
ममताऽनुमताऽस्मासु पुनः पस्मर्यते कुतः?॥ 20.61 ॥
अन्वयः–सा इयं स्वस्य त्वयि आलिजने विश्वस्य भाषताम्, अस्मासु अनुमता ममता पुनः कुतः प्रस्मर्यते?
जीवातु–सेति। हे कले! सा इयं प्रिया भैमी, स्वस्य आत्मनः, आलिजने सखीजने, त्वयी भवति, विश्वस्य विस्रम्भ्य, प्रत्ययं कृत्वा इत्यर्थः। भाषताम्? इत्याह-अस्मासु मयि विषये, अनुमता अङ्गीकृता, ममता आत्मीयता, मम अयम्, इत्यभिमानः इत्यर्थः। रजन्यां तदनुकूलाचरणादिति भावः। कुः कस्मात् हेतोः पुनः इदानीं प्रस्मर्यते? प्रगतस्मरणीक्रियते? रात्री तथा आत्मीयत्वेन आलप्य दिवा युष्मत्समक्षं दृष्टिनिक्षेपमात्रस्यापि अकरणात् तत् कतं विस्मर्यते अनयेति पृच्छेत्यर्थः। मयि अनात्मीयाचरणे कथं जीवेयम्? इति भावः॥ 20.61 ॥
अथोपवदने भैम्याः स्वकर्णोपनयच्छलात्।
सन्निधाप्य श्रुतौ तस्या निजास्यं सा जगाद ताम्॥ 20.62 ॥
अन्वयः–अथ सा भैम्याः उपवदने स्वकर्णोपनयच्छलात् तस्याः श्रुतौ निजास्यं सन्निधाप्य तां जगाद।
जीवातु–अथेति। अथ राजवाक्यानन्तरम्, सा कला, भैम्याः दमयन्त्याः, उपवदने आननसमीपे। सामीप्येऽव्ययीभावः, `तृतीयासप्तम्योर्बहुलम्’ इति विकल्पात् सप्तम्यां नाम्भावः। स्वकर्णस्य निजश्रवणस्य, उपनयच्छलात् समीपनयनव्याजात्, ततः तस्याः भैम्याः, श्रुतौ कर्णे, निजास्यं स्वमुखम् सन्निधाप्य सन्निहितं कृत्वा, तां भैमीम्, जगाद बभाषे॥ 20.62 ॥
अहो! मयि रहोवृत्तं धूर्त्ते! किमपि नाभ्यधाः।
आस्स्व सत्यमिमं तत्ते भूपमेवाभिदापये॥ 20.63 ॥
अन्वयः–अहो धूर्त्ते, किम् अपि रहोवृत्तं मयि न अभ्यधाः, आसस्व, इमं भूपम् एव ते तत् सत्यम् अभिधापये।
जीवातु–अहो इति धूर्त्तै! हे वञ्चनपरे! मयि अस्मत्समीपे, रहोवृत्त रहस्यचेष्टितम्, चुम्बनालिङ्गनादिरूपं निर्जनवृत्तान्तमित्यर्थः। किम् अपि किञ्चिदपि, न अभ्यधाः न अभिहितवती असि, त्वमिति शेषः, इत्यहो! आश्चर्यम्! भवतु, आस्स्व तिष्ठ। इमम् अमुम्, भूपं राजानां नलमेव, ते तव, तत् रात्रिचेष्टितमित्यर्थः। सत्यं यथायथम्, अबिधापये वाचयामि, कौशलेन भूपमेव सर्वं ख्यापयिष्यामि इत्यर्थः। `गतिबुद्धि-’ इत्यादिना शब्दकर्मत्वादणिकर्त्तुः क्मत्वम्। राजा यथा स्वयमेव तव रहस्यवृत्तान्तं कथयति तथा करोमि इति निष्कर्षः॥ 20.63 ॥
स्मरशास्त्रमधीयाना शिक्षिताऽसि मयैव यम्।
अगोपि सोऽपि कृत्वा किं दाम्पत्यव्यत्ययस्त्वया?॥ 20.64 ॥
अन्वयः–स्मरशास्त्रम् अधीयाना यं मया एव शिक्षिता असि सः दाम्पत्या व्यत्ययः अपि कृत्वा त्वया किम् अगोपि?
जीवातु–स्मरेति। स्मरशास्त्रं वात्स्यायनादिकामतन्त्रम्, अधीयाना पठन्ती, मत्तः अभ्यस्यन्तीत्यर्थः। त्वमिति शेषः। यं दाम्पत्यव्यत्ययमित्यर्थः। मया कलयैव, अध्यापिकया एव इति यावत्, शिक्षिता उपदिष्टा, असि भवसि। `ब्रुविशासि-’ इति शासेरर्थग्रहणात् द्विकर्मकत्वम्, `अप्रधाने दुहादीनाम्’ इति अप्रधाने कर्मणि क्तः। त्वया भवत्या, स मदुपदिष्टः, दाम्पत्यव्यत्ययः दाम्पत्यस्य दम्पतिव्यवहारस्य स्वाभाविकविहारस्य, व्यत्ययः, दाम्परीत्यम्, अन्यथाचरणमित्यर्थः। विपरीतसम्भोगः इति यावत्। कृत्वाऽपि स्वयं निष्पाद्यापि, किं किमर्थम्, अगोपि? मम समीपे गोपितः? शिक्षयित्रीं मामेव यदा त्वं गोपायितुमिच्छसि, तदा नास्ति तवासाध्यं किञ्चिदिति भावः। एतत्तु `लज्जितानि जितान्येव’ इत्यादिना नलोक्तिमनुसृत्यैव चतुरया सख्या अभिदितमिति मन्तव्यम्। `नितरां घार्ष्ट्यमवलम्ब्य मया शिक्षितं विपरीतसुरतं कृत्वाऽपि ममैव पुरस्तात् न कृतमिति कथयसीति नितरां वञ्चनाचतुराऽसीति भावः’ इति नैषधीयप्रकाशः’॥ 20.64 ॥
मोनिन्यामेव सा तस्यां तदुक्तीरिव श्रृण्वती।
वादं वादं मुहुश्चके हुँ हुमित्यन्तराऽन्तरा॥ 20.65 ॥
अन्वयः–सा तस्यां मौनिन्याम् एव तदुक्तीः श्रृण्वती इव अन्तरा अन्तरा वादं वादं मुहः हुं हुम् इति चक्रे।
जीवातु–मौनिन्यामिति। सा कला, तस्यां भैम्याम्, मौनिन्यामेव, तूष्णीम्बूतायामेव, किमपि अकथयन्त्यामेवेत्यर्थः। तदुक्तीः तस्याः दनयन्त्याः वाक्यानि, श्रृण्वती आकर्मयन्तीव, श्रवणभङ्गी प्रकाशयन्तीवेत्यर्थः। अन्तराऽन्तरा मध्ये मध्ये, वादं वादं तद्वाक्यस्य प्रत्युत्तरम् इव चोदित्वा। आभीक्ष्ण्येण्मुल्। मुहुः पुनः पुनः हु हुम् इति हु हुमित्यनवमोदनसूचकं चकार इत्यर्थः। अनेनास्या अतीवपरिहासप्रियत्वं व्यज्यते इति बोद्धव्यम्॥ 20.65 ॥
अथासावभिसृत्यास्या रतिप्रागल्भ्यशङ्किनी।
सख्या लीलाम्बुजाधातमनूभूयालपन्नृपम्॥ 20.66 ॥
अन्वयः–अथ अस्याः रति प्रागलभ्यशङ्किनी असौ अभिसृत्य सख्याः लीलाम्बुजाघातम् अनुभूय नृपम् आलपत्।
जीवातु–ग्रथेति। अथ उक्तप्रकारभङ्गिकरणानन्तरम्, अस्याः भैम्याः, रतिप्रागल्भ्यं सुरतकाले नैपुण्यम्, शङ्कते तर्कयतीति रतिप्रागल्भ्यशङ्किनी सुरतक्रीडायां दमयन्ती निपुणा जाता इति विवेचयन्तीत्यर्थः। असौ कला, अभिसृत्य दययन्तीसकाशं गत्वा सख्याः भैम्याः, लीलाम्बुजानां करस्थितलीलाकमलानाम् आघातं ताडनम्, अनुभूय प्राप्य, नृपं राजानम्, आलपत् अभाषत॥ 20.66 ॥
दृष्टं! दृष्टं!! महाराज! त्वदर्थाभ्यर्थनाक्रुधा।
यत्ताडयति मामेव यद्वा तर्जयति म्रुवा?॥ 20.67 ॥
अन्वयः–महाराज, दृष्टं दृष्टं त्वदर्थार्भ्यम्यनाक्रुधा यत् मात् एव ताडयति, यत् भ्रुवा वा तर्जयति?
जीवातु–तदेवाह षड्भिः-दृष्टमित्यादि। हे महाराज! दृष्ट! दृष्म्!! अवलोकितम्! अवलोकितम्!! इति आक्षेपे द्विरुक्तिः। किं दृष्टम्? तत्राहत्वदर्थं भवन्निमित्तम्, यत् अभ्यर्थना प्रार्थना, भर्त्तुरभिलाषं पूरयतु इत्येवंरूपायाच्ञा इत्यर्थः। तया क्रुधा रोषेम, यत् माम् एवम् अनेन प्रकारेण, ताडयति प्रहारयति, यत् वा यच्च, भ्रुवा भ्रूभङ्गेण, तर्जयति तिरस्करोति, तत् उभयं दृष्टं खलु? इयर्थः। एतच्च रहस्यवाक्यश्रवमार्थमिति भावः। तर्जतेरनुदात्तेत्त्वेऽपि अनुदात्तेतः चक्षिडः ङित्करणेनानित्यताज्ञापनात् परस्मैपदमपि दात्तेत्त्वेऽपि अनुदात्तेतः चक्षिङः ङित्करणेनानित्यताज्ञापनात् परस्मैपदमपि भवति, अत एव तर्जयते भर्त्सयते तर्जयतीत्यपि च दृश्यते इति भट्टमल्लः॥ 20.67 ॥
वदत्यचिह्नि चिह्नेन त्वया केनैष नैषधः?।
शङ्के शक्रः स्वयं कृत्वा मायामायातवानयम्॥ 20.68 ॥
अन्वयः–वदति-त्वया केन चिह्नेन एषः नैषधः अचिह्नि; शङ्के-अयं शक्रः स्वयं मायां कृत्वा आयातवान्।
जीवातु–किं तद्वाक्यम्? तदाह त्रिभिः, वदतीत्यादि। हे राजन्? वदति कथयति, भैमी मामिति शेषः। तदेवाहृहे कले? त्वया भवत्या, एषः अयं जनः, केन चिह्नेन लक्षणेन, नैषधः नलः इति अचिह्नि? चिह्नितः? प्रत्यभिज्ञातः? शङ्के मन्ये, अहमिति शेषः। अयम् एष जनः स्वयं साक्षात्, शक्र इन्द्र एव, मायं छलम्, छलेन नलवेशधारणमित्यर्थः, कृत्वा विधाय, आयातवान् आगतवान् इति॥ 20.68 ॥
स्वर्मदीस्वर्णपद्मिन्याः पद्मदानं निदानताम्।
नयतीय त्वदिन्द्रत्वे दिवश्चागमनञ्च ते॥ 20.69 ॥
अन्वयः–इयं स्वर्मदीस्वर्मपद्मिन्याः पद्म्दानं ते च दिवः आगमनं च त्वदिन्द्रत्वे निदानतां नयति।
जीवातु–कथं मयि अस्याः शक्रशङ्का? इत्याह-स्वर्णदीति। किञ्च, हे महाराज! इयं भैमी, स्वर्मद्याम् आकाशगङ्गायां मन्दाकिनयाम्, या स्वर्णपद्मिनी कनकमयकमललता तस्याः, पद्मस्य स्वर्णकमलस्य, दानं स्वस्यै अर्पणम्, तथा ते तव, दिवश्च अन्तरीक्षाच्च, आगमनञ्च उपस्थितिञ्च, त्वदिन्द्रत्वे तव वासंवत्वसंशये, निदानतां मूलकारणताम्, नयति प्रापयति। मानवे एतदुभयस्यासम्भवत्वादिति भावः॥ 20.69 ॥
भाषते नैषधन्छाया मायाऽमायि मया हरेः।
आह चाहमहल्यायां तस्याकर्णितदुर्मया॥ 20.70 ॥
अन्वयः–भाषते-मया हरेः नैषधच्छाया माया अमायि आह च-अहम् अहल्यायां तस्य आकर्णितदर्णया।
जीवातु–भाषते इति। हे महाराज! भाषते भैमी अन्यदपि वदति। किमिति? हे कले! मया नैषधच्छाया नलरूपधरा, हरेः इन्द्रस्य, माया छलना, अमायि अनुमिता, स्वयंवरकाले तथाभूतव्यापारदर्शनादिति भावः। माङः कर्मणि लुङ् चिणि युगागमः। ननु तदानीं ते कौमार्यात् त्वल्लभार्थं तस्य माया न दूषणीया, इदानीन्तु तव परस्त्रीत्वात् तस्य तथाविधा माया न सम्भवत्येव इत्याह-आह च एतदपि वदतीत्यर्थः। अहं दमयन्ती, अहल्यायां तन्नाम्न्यां गौतमभार्यायाम्, तस्य इन्द्रस्य, आकर्णितः श्रुतः, पुराणादौ इति शेषः! दुर्णयः दुश्चेष्टितम्, मायया गौतमरूपं धृत्वा सतीत्वनाशरूपदुर्व्यवहरा इत्यर्थः। यया सा तादृशी, अस्मीति शेषः सापेक्षत्वेऽपि गमकत्वात् समासः `उपासर्गादसमासेऽपि णोपदेशस्य’ इति णत्वम्, पारदार्यात् भीतिरप्यस्य नास्ति, अत इदानीमपि तत्कर्तृकनलरूपधारणं नासम्भवः इति भावः॥ 20.70 ॥
सम्भावयति वैदर्भी दर्भाग्राभमतिस्तव।
ज्मभारित्वं कराम्भोजाद्दम्भोलिपरिरम्भिणः॥ 20.71 ॥
अन्वय—दर्भाग्राभमतिः वैदर्भी दम्भोलिपरिरम्भिमः कराम्भोजात् तव जम्भारित्वं सम्भावयति।
जीवातु–सम्भावयतीति। किञ्च, दर्भाग्राभा कुशाग्रसदृशी, अतीव तीक्ष्मा इत्यर्थः, मतिः बुद्धिः यस्याः सा तादृशी सूक्ष्मबुद्धिः, वैदर्भी दमयन्ती, दम्भोलिः वज्रायुधं वज्ररेखाञ्च, परिरभते धारयतीति तस्मात् व्रज्रायुधधरात् वज्रचिह्नविशिष्टाच्च, कराम्भोजात् पाणिकमलात् हेतोः, कराम्भोजं दृष्ट्वा इत्यर्थः. तव ते, जम्भारित्वम् इन्द्रत्वम्, सम्भावयति तर्कयति। `वज्रहस्तः पुरन्दरः’ इति श्रुतेः तथा नलस्य पाणितले वज्रादिविविधसार्वभौमलक्षमस्यावस्थानादिति भावः॥ 20.71 ॥
अनन्यसाक्षिकाः साक्षात्तद्व्याख्याय रहःक्रियाः।
शङ्काऽऽतङ्कं नुदैतस्या यदि त्वं तत्त्वनैषधः॥ 20.72 ॥
अन्वयः–त्वं यदि तत्त्वैषधः तत् अनन्यसाक्षिकाः रहःक्रिया साक्षात् व्याख्याय एतस्याः शङ्कातङ्कं नुद।
जीवातु–अनन्येति। हे राजन्! त्वं भवान्, यदि चेत् तत्त्वनैषधः परमार्थनलः, असीति शेषः। तत् तर्हि, अनन्यसाक्षिकाः नास्ति अन्ये स्वेतराः, साक्षिमः प्रत्यक्षदर्शिनः यासां तादृशीः स्वमात्रसंवेद्याः, रहाक्रियाः चुम्बनालिङ्गनादिरूपरहस्यव्यपारान् साक्षात् अस्याः समक्षं स्वयमेव, व्याख्याय उक्त्वा, एतस्याः वैदर्भ्याः, शङ्कायाः इन्द्रत्वसन्देहस्य, आतङ्कं भयम्, नुद निवर्त्तय। यान् गुप्तव्यापारान् केवलं युवामेव जानीथः, न पुनरन्येषां केषाञ्चिदपि तज्ज्ञानसम्भावना, ईदृशान् व्यापारान् यदि त्वं वक्तुं शक्नोषि, तदैव एषा त्वां नलत्वेन अवधारयिष्यति, नान्यता इति भावः॥ 20.72 ॥
इति तत्सुप्रयुक्तार्था निह्‌नुतीकृतकैतवाम्।
वाचमाकर्ण्य तद्भावे संशयालुः शशंस सः॥ 20.73 ॥
अन्वयः–इति तत्सुप्रयुक्तार्था निह्‌नुतीकृतकैतवां वाचम् आकर्ण्य तद्भावे संशयालुः सः शशंस।
जीवातु–इतीति। इति इत्थम् तया कलया, सुप्रयुक्तार्थां सुप्रयुक्ता स्वर्गगमनस्वर्णपद्मदानवज्रधारणादिजन्यसन्देहस्य निरसाय यथाकालं सम्यगुपन्यस्तः, अर्थः अभिधेयः यस्याः तादृशीम्, `सुप्रयुक्तत्व’ इति पाठे-सुप्रयुक्तत्वेन युक्तियुक्तरूपेम प्रयोगेण, निह्‌नुतीकृतकैतवां निह्‌नुतीगृतं कैतवद्योतकहास्यादिविकारराहित्येन गोपायितम्, कैतवं छलं यत्र तादृशीम्, अप्रकाशीकृतनिगूढाभिप्रायाम्, वाचं वाक्यम्, आकर्ण्य श्रुत्वा, सः नलः, तस्याः भैम्याः, भावे अभिप्राये, संशयालुः किमियं सत्यमेव मामिन्द्रमाशङ्ख्य चुम्बनादिकं न करोति इति सन्दिहानः सन्, शशंस कथयामास। संशयोच्छेदकरहस्यवाक्यसमूहम् उवाच इत्यर्थः। एतेन कलायाः वचनचातुर्येण राज्ञः पराजयः सूचित इति बोद्धव्यम्॥ 20.73 ॥
स्मरसिच्छिद्मनिद्रालुर्मया नाभौ शयार्पणात्।
यदानन्दोल्लसल्लोमा पद्मनाभीभविष्यसि?॥ 20.74 ॥
अन्वयः–छद्मनिद्रालुः मया नाभौ शयार्पणात् यत् आनन्दोल्लसल्लोमा पद्मनाभीभविष्यसि-स्मरसि?
जीवातु–अथैतदेव विशत्या श्लोकैः प्रपञ्चेनाह, स्मरसीत्यादि। हे प्रिये! छद्मना कपटेन, निद्रालुः सुप्ता। `स्फृहिगुहि-’ इत्यादिना निपूर्वात् द्रातेरालुच्। त्वमिति शेषः। मया नलेन, नाभौ तव नाभिदेशे, शयस्य पाणेः, अर्पणात् स्थापनात्, नीवीग्रन्थिमोचनार्थमिति भावः। आनन्देन स्पर्शसुखेन, उल्लसल्लोमा प्रहृष्टद्रोमा सती, रोमाञ्चितगात्री सतीत्यर्थः। यत् पद्मं नाभौ यस्याः सा पद्मनाभिः अपद्मनाभिः पद्मनाभिर्भविष्यसीति पद्मनाभीभविष्यसि पद्मनाभितुल्या सञ्जाताऽसि इत्यर्थः। मम पाणेः पद्मतुल्यत्वात् तव रोमाञ्चानाञ्च पद्मस्य कण्टकतुल्यत्वादिति भावः। पद्मनाभः विष्णुश्च सः अपि छद्मनिद्रालुः इति बोध्याम्। `अच् प्रत्यन्ववपूर्वात्-’ इत्यादिसुत्रे `अच्’ इति योगविभागात् उभयत्रापि समासान्तोऽच्‌प्रत्ययः। अभूततद्भावे च्विः। `अभिज्ञावचने लृट्’ इति भूतार्थे लृट्। तत्तु स्मरसि? तत् प्रत्यभिजानासि किम्? इति काकुः॥ 20.74 ॥
जनासि ह्रीभयव्यग्रा यन्नवे मन्मथोत्सवे।
सामिभुक्तैव मुक्ताऽसि मृद्वि! खेदभयान्मया?॥ 20.75 ॥
अन्वयः–मृद्वि, नवे मन्मथोत्सवे ह्रीभयव्यग्रा खेदभयात् मया सामिभुक्ता एव मुक्ता असि-जनासि?
जीवातु–जनासीति। मृद्वि! हेकोमलाङ्गि! अत एव अतिपीडाऽसहत्वात् खेदभयमिति भावः। नवे नूतने, मन्मथोत्सवे स्मरोल्लासे, प्रथमरतक्रीडायामित्यर्थः। ह्रीभयाभ्यां लज्जाऽऽतङ्काभ्याम्, व्यग्रा विभ्रान्तिचित्ता, त्वमिति शेषः, खेदः सुरतश्रमजनितक्लेशः, तद्भयात् तच्छङ्कातः, मया सामिभुक्तैव अर्द्धमात्रतसुरतैवेत्यर्थः। `सामि त्वर्द्धे जुगुप्सिते’ इत्यमरः। मुक्ताऽसि परित्यक्ता भवसि, तदन्तथा वैरस्यात् इति भावः। तदुक्तं रतिरहस्ये-सहसा वाऽप्युपक्रान्ता कन्या खेदमविन्दत। भयाच्चित्तसमुद्धेगं सङ्गद्वेषञ्च गच्छति॥ सा प्रीतियोगमप्राप्य बलोद्वेगेन दूषिता। पुरुषद्वेषिणी वा स्यात् सुप्रीता वा ततोऽन्यथा॥‘इति। तत् जनासि? स्मरसि किम्? इत्यर्थः॥ 20.75 ॥
स्मर जित्वाऽऽजिमेतस्त्वां जरे मत्पदधाविनि।
अंगुलीयुगयोगेन यदाश्लिक्षं घने जने॥ 20.76 ॥
अन्वयः–आर्जि जित्वा त्वाम् एतः करे मत्पदधाविनि घने जने अंगुली युगयोगेन यद्‌ आश्लिक्षम्-स्मर।
जीवातु–स्मरेति। हे प्रिये! आजिं युद्धम्, जित्वा विजित्य, त्वां भवतीम्, त्वत्समीपमित्यर्थः। एतः समागतः अहमिति शेषः। करे पाणौ, तवेति शेषः। मत्पदधाविनि मम चरणप्रक्षालनार्थं प्रवर्त्तमाने सति, मम चरणं स्पृष्टवति सतीत्यर्थः। घने बहुले, जने मद्दर्शनार्थं समागते लोके, बहुजनमध्ये इत्यर्थः। अंगुलियुगयोगेन मम पदाङ्गुलीद्वयस्य, योगेन तव कराङ्गुलीद्वयस्य निबिडयोजनया, मम पादाङ्गुलीद्वेयेन तव कराङ्गुलेः प्रगाढनिपीडनेनेत्यर्थः। यत् आश्लिक्षम् आश्लिष्टवान् अस्मि। `श्लिष आलिङ्गने’ इति लुङि उत्तमैकवचने च्लेः क्सः, `विभाषा साकाङ्क्षे’ इति वैकल्पिकत्वात् लृडभावः तत् स्मर चिन्तय॥ 20.76 ॥
वेत्थ मानेऽपि मत्त्यागदूना स्वं माञ्च तन्मिथः।
मद्‌दुष्टाऽऽलिख्य पश्यन्ती व्यवधा रेखयाऽन्तरा?॥ 20.77 ॥
अन्वयः–माने अपि मत्त्यागदूना स्वं मां च आलिख्य तत् मिथः पश्यन्ती मद्‌दृष्टा अन्तरा रेखया व्यवधाः-वेत्थ?
जीवातु–वेत्थेति। हे प्रिये! माने प्रणयकोपेऽपि, मत्त्तयागदूना मद्विरहतप्ता, त्वमिति शेषः। मिथः रहसि। `मिथोऽन्योन्यं रहस्यपि’ इत्यमरः। स्वम् आत्मानम्, मां नलञ्च, आलिख्य चित्रे लिखित्वा, पश्यन्ती अवलोकयन्ती तदालेख्यमिति शेषः। मद्‌दृष्टा मया त्वया आलेख्याङ्कितेन मया नलेन वीक्षिता सती, अन्तरा लिखितयोरावयोर्मध्ये, रेखया तुलिकया नूतनरेखाङ्कनेन, मद्दर्शनप्रतिरोधार्थमिति भावः। यद्‌ व्यवधाः व्यवधानं कृतवती असि, व्यवधानं विधाय तत्रापि कोपः प्रकटितः इति भावः। व्यवपूर्वाद्दधातेर्लुङ्‌ सिपि `गातिस्था-’ इत्यादिना सिचो लुक्। तत् वेत्थ! स्मरसि किम्? इति काकुः॥ 20.77 ॥
प्रस्मृतं तत् त्वया तादवद् यन्मोहनविमोहितः।
अतृप्तोऽधरपानेषु रसनामपिबं तव!॥ 20.78 ॥
अन्वयः–मोहनविमोहितः अधरपानेषु अतृप्तः यत् तव रसनाम् अपिबम्, तत् तावत् त्वया प्रस्मृतम्?
जीवातु–प्रस्मृतमिति। हे प्रिये! मोहने सुरते, विमोहितः विमुग्धचित्तः, अहमिति शेषः। तव ते सम्बन्धवसामान्ये षष्ठी, `पूरण-’ इत्यादिना पष्ठीसमासमनषेधख्यापनात् षष्ठीति केचित् अधरपानेषु अधरास्वादनेषु,चुम्बनेषु कृतेष्वपि इत्यर्थः। अतृप्तः तावन्मात्रेण अपूर्णाकाङ्क्षः सन्, यत् रसनां जिह्वाम्, अपिबम् आस्वादितवानासम्। तत्, तावत् साकल्येन, त्वया भवत्या, प्रस्मृतम्? चिन्तितं किम्? इति काकुः॥ 20.78 ॥
त्वत्कुचार्द्रनखाङ्कस्य मुद्रामालिङ्गनोत्थिताम्।
स्मरेः स्वहृदि यत् स्मेरः सथीं शिल्पं तवाब्रुवम्?॥ 20.79 ॥
अन्वयः–स्वहृदि आलिङ्गनोत्थितां त्वत्कुचार्द्रनखाङ्कस्य मुद्रां स्मरः यत् सखीं तव शिल्पम् अब्रुवम्-स्मरेः।
जीवातु–त्विदिति। हे प्रिये! स्वस्य आत्मनः, मम नलस्य इत्यर्थः। हृदि वक्षसि, आलिङ्गनेन आश्लेषेण, उत्थिताम् उत्पन्नाम्, सङ्‌क्रान्ताम् इत्यर्थः। त्वत्कुचयोः तव स्वनयोः, आर्द्रनखाङ्कस्य सद्यःकृतनखरक्षतस्य, मत्कर्त्तृकस्येति भावः। मुद्रां रक्तवर्णचिह्नम्, स्मेरः सस्मितः सन्, सखीं तव वयस्यां प्रति, तव ते, शिल्पं कारुकार्यम्, शिल्पनिर्माणनैपुण्यमित्यर्थः। यत् अब्रुवम् अकथयम्, तत् स्मरेः? चिन्तयेः?॥ 20.79 ॥
त्वयाऽन्याः क्रीडयन्मध्येमधुगोष्ठि रुषेक्षितः।
वेत्सि तासां पुरो मूद्‌र्ध्ना त्वत्पादे यत् किलास्खलम्?॥ 20.80 ॥
अन्वयः–मध्येमधुगोष्ठि अन्याः क्रीडयन् त्वया रुषा ईक्षितः तासां पुरः किल यत् त्वत्पादे मूर्ध्ना अस्खलम्-वेत्सि?
जीवातु–त्वयेति। हे प्रिये! मधुगोष्ठ्या मद्यपानसभायाः मध्ये मध्ये मधुगोष्ठि पानगोष्ठमध्ये इत्यर्थः। `पारे मध्ये षष्ठ्या वा’ इत्यव्ययीभावः, गोस्त्रियोरुपसर्जनस्य’ इति ह्रस्वत्वम्। त्वया भवत्या, रुषा रोषेण, ईक्षितः दृष्टः सन् तासां स्त्रीणाम्, पुरः अग्रे एव, मूद्‌र्ध्ना शिरसा, त्वत्पादे तव चरणे, यत् किल अस्खलम् अपतं खलु, मध्यमत्तत्वात् स्खलनच्छलेन तव प्रसादनाय इति भावः। तत् वेत्सि? स्मरसि किम्? इति काकुः॥ 20.80 ॥
वेत्थ मय्यागते प्रोष्य यत्त्वां पश्यति हार्दिनि।
अचुम्बीरालिमालिङ्ग्य तस्यां केलिमुदा किलः?॥ 20.81 ॥
अन्वयः–हार्दिनि, (हार्दिनि) प्रोष्य आगते मयि त्वां पश्यति आलिम् आलिङ्ग्य केलिमुदा तस्यां यत् किल अचुम्बीः-वेत्थि?
जीवातु–वेत्थेति। हे प्रिये! हृदयस्य कर्म हार्दं प्रेम। `प्रेमा ना प्रियता हार्द्रम्’ इत्यमरः। हार्दिनि प्रियपात्रे, हार्दिनि इति दमयन्त्याः सम्बोधनं वा हार्दिनि! हे अनुरागिणि! प्रोष्य प्रवास गत्वा, आगते प्रत्यावृत्ते, मयि नले, त्वां भवतीम्, पश्यति वीक्षमाणे सति, आलिं सखीम् आलिङ्य आश्लिष्य, केलिमुदा क्रीडाहर्षेण, तस्यां सख्याम्, सख्याः गण्डदेशे इति यावत्, यत् किल इति अलीके सख्यालिङ्गनचुम्बनव्याजेन मां प्रति स्वप्रेमभरं यत् सूचितवती असि, तत् वेत्थ? स्मरसि?॥ 20.81 ॥
जागर्त्ति तत्र संस्कारः स्वमुखाद्भवदानने।
निक्षिप्यायाचिषं यत्त्वां न्यायात्ताम्बूलफालिकाः?॥ 20.82 ॥
अन्वयः–स्वमुखान् भवादनने ताम्बूलफालिकाः निक्षिप्य त्वां यत् न्यायात् अयाचिषम्-तत्र संस्कारः जागर्त्ति?
जीवातु–जागर्त्तीत्ति। हे प्रिये! स्वमुखात् निजाननात्, भवदानने तव वदने, ताम्बुलफालिकाः नागवल्लीदलवल्लिकाः, वीटिकाखण्डानीत्यर्थः। चुर्णपूगफलादिसंयुक्तस्य च्चर्वितस्य पर्मस्य खण्डानीति यावत्। निक्षिप्य न्यस्य, त्वां भवतीम् `ताः’ इति पाठे-ताःताम्बूलफालिकाः, न्यायात् निक्षिप्तद्रव्यप्रत्यर्पणधर्मात्, निक्षिप्तं द्रव्यं नि7ेपकस्यैव प्रत्यर्पयितव्यमिति नीत्यनुसारादित्यर्थः। यत् अयाचिषं प्रार्थितवानासम्, अहमितति शेषः। तत्र याचने, संस्कारः नियतभावनाजनितस्मृतिवेशेष इत्यर्थः। जागर्त्ति? उत्पद्यते? स्मरसि किम्? इत्यर्थः, इति काकुः॥ 20.82 ॥
चित्ते तदस्ति कच्चित्ते नखजं मयि यत् क्रुधा।
प्राग्भावाधिगमागःस्थे त्वया शम्बाकृतं क्षतम्॥ 20.83 ॥
अन्वयः–मयि प्राग्भावाधिगमागः स्थे त्वया क्रुधा यत् नखजं क्षतं शम्बाकृतं तत् ते चित्ते अस्ति कच्चित्?
जीवातु–चित्ते इति। हे प्रिये! मयि नले, प्राग्भावेन, प्राक् पूर्वमेव, त्वत्त इति शेषः। भावस्य रेतःपतनकालिकहर्षस्य, अधिगमः लाभ एव, आगः अपराधः तस्मिन् तिष्ठतीति आगःस्थः तादृशे, तादृशापराधेन अपराधिनि सति, तव सुखावाप्तिप्रतिबन्धकत्वादिति भावः। त्वया भवत्या, क्रुधा क्रोधेन, यत् नखजं नखरेण कृतम्, क्षतं व्रणम्, शम्बाकृतं द्विगुणाकृतम्, आनुलोम्यप्रतिः लोम्याभ्यां द्विवारकृष्टं क्षेत्रं शम्बाकृतमुच्यते। `द्विगुणाकृते तु सर्वं द्विपूर्वं सम्बाकृतमपीह’ इत्यमरः। `कृञो द्वितीयतृतीयशम्बवीजात् कृषौ’ इति डाच्प्रत्ययः। तत् शम्बाकरणम्, ते तव, चित्ते मनसि, अस्ति विद्यते कच्चित्? स्मरसि किम्?॥ 20.83 ॥
स्वदिग्विनिमयेनैव निशि पार्श्वविवर्तिनोः।
स्वप्नेष्वप्यस्तवैमुख्ये सख्ये सौख्य स्मरावयोः॥ 20.84 ॥
अन्वयः–निशि स्वदिग्विनिमयेन एव पार्श्वविवर्त्तिनोः आवयोः स्वप्नेषु अपि अस्तवैमुख्ये सख्ये सौख्यं स्मर।
जीवातु–स्वेति। हे प्रिये! निशि रात्रौ, स्वदिशोः निजनिजशयनस्थानयोः, विनिमयेनैव परिवर्त्तनेनैव, मम शयनस्थाने तवागमनेन तव शयनस्थाने मम गमनेन चेत्यर्थः। स्वस्थानपरिवर्त्तनं विना सम्मुखीनयोः शयने पार्श्वपरिवर्त्तने वैमुख्यप्रसङ्गादिति भावः। पार्श्वयोः वामदक्षिणकुक्ष्योः विवर्त्तेते शय्यालग्नपार्श्वपरिवर्त्तनेन शयते यौ तादृशयोः पार्श्वपरिवर्त्तनकारिणोः, आवयोः तव मम च, स्वप्नेषु स्वापकालेषु अपि, अस्तम् उक्तरीत्या निरस्तम्, वैमुख्यं पराङ्मुख्यं यत्र तादृशे, सख्ये मेलने, सौख्यं सुखम्, स्मर चिन्तय॥ 20.84 ॥
क्षणं प्राप्य सदस्येव नृणां विमनितेक्षणाम्।
दर्शिताधरमद्दंशा स्मर यन्मामतर्जयः॥ 20.85 ॥
अन्वयः–सदसि एव नृणां विमनितेक्षणां क्षणं प्राप्य दर्शिताधरमद्दंशा यत् माम् अतर्जयः-स्मर।
जीवातु–क्षणमिति। हे प्रिये! सदसि एव सभायामेव सखीभिरनुष्ठितनृत्यगीतादिसभायामेवेत्यर्थः। नृणां सकीजनानाम् विमनितानि नृत्गीतादिषु व्यासक्तचित्ततया द्रष्टव्यान्तरदर्शने विमुखीभूतानि इत्यर्थः। विमनांसि कृतानि इति विमस्‌शब्दात् `तत्करोति-’ इति ण्यन्तादिष्टवद्भावे टिलोपः, कर्मणि क्तः। ईक्षणानि लोचनानि यस्मिन् तादृशम्, अन्यत्रासक्चजनदृष्टिप्रसरमित्यर्थः। क्षणम् अवसरम्, प्राप्य लब्ध्वा, अन्यथा सखीनां तत्र दृष्टिपातसम्भवात् दर्शितः दृष्टिविषयीकारितः अधरे निजनिम्नौष्ठे, मद्दंशो मत्कृतदशनक्षतं यया सा तादृशी सती, यत् माम् अतर्जय अङ्गुलीनर्त्तनेन भर्त्सितवती, त्वमिति शेषः। तत् स्मर चिन्तय॥ 20.85 ॥
तथावलोक्य लीलाब्जनालभ्रमणविभ्रमात्।
करौ योजयताऽध्येहि यन्मयाऽति प्रसादिता॥ 20.86 ॥
अन्वयः–तथा अवलोक्य लीलाज्जनालभ्रमणविभ्रमात् करौ योजयता यत् मया प्रसादिता असिं, अध्येहि।
जीवातु–तथेति। हे प्रिये! मया नलेन, तथापूर्वोक्तरूपं त्वत्कृततर्जनम्, अवलोक्य दृष्ट्वा, लीलब्जस्य क्रीडापद्मस्य, यत् नालं दण्डम्, तस्य भ्रमणं घूर्मनमेव, विभ्रमः विलासः तस्मात्, तद्व्याजादित्यर्थः। करौ पाणौ, योजयता मेलयता, अञ्जलिं बध्नता सता इत्यर्थः। प्रसादिता प्रसन्नीकृता, असि भवसि, तत् अध्येहि स्मर॥ 20.86 ॥
ताम्बूलदानं संन्यस्तकरजं करपङ्गजे।
न मम स्मरसि? प्रायस्तव नैव स्मरामि तत्?॥ 20.87 ॥
अन्वयः–करपङ्कजे संन्यस्तकरजं मम ताम्बूलदानं प्रायः न स्मरसि? तव तत् न एव स्मरामि?
जीवातु–ताम्बूले। हे प्रिये! तव करपङ्कजे त्वत्पाणिपद्मे, प्राय बाहुल्येन, संन्यस्तकरजं विरचितनखाङ्कम्, नखद्वययोगेन कृतमृद्वाधातमित्यर्थः। मम नलस्य, मत्कर्त्तृकमित्यर्थः। ताम्बूलदानं वीटिकार्पणम्, न स्मरसि? न मनसि करोषि? तव तेऽपि च तत् तादृशं करजक्षतपूर्वकं ताम्बूलदानम्, नैव स्मरामि? न ध्यायामि? अपि तु स्मराम्येव, उभयत्र काकुः; उभयमुभावपि स्मराव एवेत्यर्थः॥ 20.87 ॥
तदध्येहि मृषोद्यं मां हित्वा यच्च गता सखीः।
तत्रापि मे गतस्याग्रे लीलयैवाच्छिनस्तृणम्॥ 20.88 ॥
अन्वयः–मृषोद्य मां हित्वा गता, तत्र अपि गतस्य मे अग्रे लीलया एव यत् तृणम् अच्छिनः, तत् अध्येहि।
जीवातु–तदिति। हे प्रिये! मृषोद्यं मिथ्याभाषिणम्, किमपि तव अप्रियकार्य कृत्वा नाहमेतत् कृतवानिति कथयन्तमित्यर्थः। मां नलम्, हित्वा विहाय, सखीः वयस्याः, सखीसमीपमित्यर्थः। गता प्रयाता, त्वमिति शेषः। तत्रापि सखीसमीपेऽपि गतस्य उपस्थितस्य, मे मम अग्रे सम्मुखे, लीलया विनोदेन एव, यत् तृणं शुष्कयवसम्, अच्छिनः खण्डितवती। बाला हि अन्योऽन्यविच्छेदसूचकं तृमच्छेदनं कुर्वन्ति, तृणद्वयं यथा विच्छिन्नं जातं तथा आवामपि चिरं विच्छिन्नौ इति ज्ञापनार्थमिति भावः। तत् तादृशं चेष्टितम्, अध्येहि स्मर। अधिपूर्वस्य इकि स्मरेण इति धातोरदादित्वाल्लोटिह्यादेशः॥ 20.88 ॥
स्मरसि प्रेयसि! प्रायस्तद्‌ द्वितीयरतासहा।
शुचिरात्रीत्युपालब्धा त्वं मया पिकनादिनी?॥ 20.89 ॥
अन्वयः–प्रेयसि द्वितीयरतासहा पिकनादिनी त्वं प्रायः मया शुचिरात्रीइति उपालब्धा, तत् स्मरसि?
जीवातु–स्मरसीति। प्रेयसि! प्रियतमे! द्वितीयस्य वारद्वयकृतस्य, रतस्य सुरतस्य, अहसा दुर्बलत्वात् अक्षमा, अन्यत्र–अल्पपरिमिततया, एववारसम्भोगेनैव अवसितत्वात् अपर्याप्ता, कोकिलवत् मधुरम्, नदति भाषते इति पिकनादिनी, अन्यत्र-पिकनादः कोकिलध्वनिः अस्ति अस्यामिति पिकनादिनी, त्वं भावती, प्रायः बाहुल्येन, मया नलेन, शुचिरात्री ग्रीष्मरात्री, ग्रीष्मकालिकरात्रिस्वरूपा इत्यर्थः। `कृदिकारादक्तिनः’ इति ङीष्। इति एवम् उक्त्वा, यत् उपालब्दा तिरस्कृता, तत्कल्पाऽसि इत्याक्षिप्ता इत्यर्थः। असीति शेषः। तत् स्मरसि? अध्येषि किम्?॥ 20.89 ॥
भुञ्जानस्य नवं निम्बं परिवेविषती मधौ।
सपत्नीष्वपि मे रागं सम्भाव्य स्वरुषः स्मरेः?॥ 20.90 ॥
अन्वयः–मधौ नवं निम्बं भुञ्जानस्य मे सपत्नीषु अपि रागं सम्भाव्य (निम्बं) परिवेविषती स्वरुषः स्मरैः?
जीवातु–भुञ्जानस्येति। हे प्रिये! परिवेविषती परिवेषमं कुर्वती, परिपूर्वात् विषधातोः जुहोत्यादिगणीयात् शतरि रूपम्। त्वमिति शेषः। मधौ वसन्तकाले, नवं प्रत्यग्रम्, अभिनवोत्पन्नत्वात्, कोमलमित्यर्थः। निम्बम् अरिष्टपत्रम्, व्यञ्जनीभूतमिति भावः। `वसन्ते भ्रमणं पथ्यमथवा निम्बभोजनम्’ इत्यादि स्मरणात्। भुञ्जानस्य खादतः, मे मम, सपत्नीषु समानपतिकासु अपरासु राज्ञीषु अपि, यद्वा-भुञ्जानस्य अभ्यवहरतः, मे मधौ क्षौद्रे सत्यपि। `मस्तु-मधु-सीधु-शीधु-सानु-कमण्डलूनि नपुंशकेच’ इति चकारात् पुंसि चेति पुंल्लिङ्गता। नवं निम्बं पिचुमर्दम्, `पिचुमर्दश्च निम्ब’ इत्यमरः। परिवेविषती ददती, त्वमिति शेषः। सपत्नीषु अपि मे रागम् अनुरागम्, सम्भाव्य कल्पयित्वा, कृता इति शेषः, `वसन्ते भ्रमणं पथ्यमथवा निम्बभोजनम्। अथवा युवती भार्या अथवा वह्निसेवनम्॥’ इति शास्त्रात् मां वसन्ते निम्बभोजनं कृतवन्तं दृष्ट्वा अन्यास्वपि युवतीभार्यासु अहमुपगता इति सम्भाव्य, अथवा शर्करामोदकादिकं स्वादु द्रव्यं विहाय नितरां तिक्ते यदा अस्य रुचिः, तदा सुरूपामपि मां विहाय अपकृष्टासु मम सपत्नीषु अस्यासक्तिः नासम्भाव्या, लोकानां विभिन्नरुचिमत्त्वादिति भावः। स्वस्य आत्मनः, रुषः रोषान्, स्मरेः? मनसि कुर्याः किम्?॥ 20.90 ॥
स्मर शार्करमास्वाद्य त्वया राद्धमिति स्तुवन्।
स्वनिन्दारोषरक्तात्तु यदभैष तवाधरात्॥ 20.91 ॥
अन्वयः–शार्करम् आस्वाद्य त्वया राद्धम्-इति स्तुवन् स्वनिन्दारोषरक्तात् तव अधरात् तु यत् अभैषं-स्मर।
जीवातु–स्मरेति। हे प्रिये! त्वया भवत्या, राद्धं पक्वम्, निष्पादितमित्यर्थः। शर्करायाः विकारं शार्करं शर्कराकृतं पानकादिकं शर्करामिश्रितं व्यञ्जनविशेषं वा, आस्वाद्य पीत्वा लीढ्वा वा, स्तुवन् एतत् सर्वस्मात् अधिकं स्वादु इति प्रशंसन्, अहमिति शेषः। स्वनिन्दारोषेणैव स्वस्य अधरस्यैव, निन्दया गर्हणेन, अधरस्यापि सर्वान्तर्भूतत्वात् शार्करस्य प्रशंसया अधरस्य निन्दासूचनेनेत्यर्थः। यो रोषः कोपः, अधरस्येति भावः। तेनैव रक्तात् अरुणात् अरुणीभूतादिवेत्यर्थः। तव अधरात् निम्नौष्ठात्, यत् अभैषं भीतोऽभूवम्, अहम् इति शेषः। बिभीतेर्युङ्, मिपि सिचि वृद्धिः मादेशश्च। इति तु तच्च, स्मर चिन्तयः॥ 20.91 ॥
मुखादारभ्य नाभ्यन्तं चुम्बं चुम्बं न तृप्तवान्।
न प्रापं चुम्बितुं यत्ते धन्या तच्चुम्बतु स्मृतिः॥ 20.92 ॥
अन्वयः–मुखात् आरभ्य नाभ्यन्तं चुम्बं चुम्बं न तृप्तवान् यत् ते चुम्बितुं न प्रापं तत् धनया स्मृतिः चुम्बतु।
जीवातु–मुखादिति। हे प्रिये! मुखात् तव वदनात्, आरभ्य उपक्रम्य, नाभ्यन्तं नाभिपर्यन्तं कुचादिकम् अङ्गम्, चुम्वं चुम्वं पुनः पुनः चुम्बित्वा चुम्बित्वा। आभीक्ष्ण्ये णमुल्। न तृप्तावान् अपूर्‌णाकाङ्क्षः सन्, ते तव, यत् रतिगृहरूपमङ्गमित्यर्थः. चुम्बितुं चम्बनं कर्त्तुम्, न प्रापं न अलभिषि, अहमिति शेषः। पाण्यादिना प्रतिबन्धात्, लज्जातिशयात् गोपितत्वात् अपापिष्ठनिषेधादिति वा भावः। तत् रतिगृहरूपं तवाङ्गमित्सर्थः। धन्या मया अप्राप्तस्यापि लाभात् भाग्यवती, स्मृतिः तव स्मरणशक्तिः, चुम्बतु स्पृशतु, तव स्मृतिविषयीभवतु इत्यर्थः। अकृतचुम्बनं तदङ्गं स्मरेति भावः। सार्वभौमस्यापि मे यदङ्गचुम्बने योग्यताभावः, धन्या ते स्मृतिस्तदङ्गं विनैव किञ्चिदपि प्रतिबन्धकं चुम्बितुं समर्था इति स्मृतेर्धन्यत्वं बोद्धव्यमित्याशयः॥ 20.92 ॥
कमपि स्मरकेलिं तं स्मर यत्र भवन्निति।
मया विहितसम्बुद्धिर्व्रीडिता स्मितवत्यसि॥ 20.93 ॥
अन्वयः–कम् अपि स्मरकेलिं स्मर यत्र `भवन्’ इति मया विहितसम्बुद्धिः व्रीडिता स्मितवती असि।
जीवातु–कमिति। हे प्रिये! कमपि अवाच्यम्, तम् अतिशयेनानन्दप्रदम्, स्मरकेलिं कामक्रीडाम्, विपरीतसुरतमिति भावः। स्मर स्मृतिविषयीभूतं कुरु, यत्र यस्मिन् स्मरकेलौ, यस्मिन् पुरुषायिते त्वयि इति वा, मया हे भवन्! इति एवम्, विहिता पुरुषवत् आचरणात् पुल्लिङ्गनिर्देशेन कृता, सम्बुद्धिः आमन्त्रणं यस्याः सा तादृशी, त्वमिति शेषः। व्रीडिता लज्जिता। स्मितवती स्वनैपुण्यव्रदर्शनजनितहर्षात् ईषत् हसितवती च, असि भवसि, पुरुषायितत्वात् व्रीडा हर्षात् स्मितम् इति बोध्यम्॥ 20.93 ॥
नीलदाचिबुकं यत्र मदाक्तेन श्रमाम्बुना।
स्मर हारमणौ दृष्टं स्वमास्यं तत्क्षणोचितम्॥ 20.94 ॥
अन्वयः–यत्र मदाक्तेन श्रमाम्बुना आचिबुकं नीलत् तत्क्षणोचितं हरमणौ दृष्टं स्वम् आस्यं स्मर।
जीवातु–नीलदिति। हे प्रिये! यत्र यस्मिन् विपरीतस्मरकेलौ,?मदाक्तेन स्वकपोलाङ्कितपत्रभङ्गकस्तूरीचूर्णकलुषितेन। `मदो रेतसि कस्तूर्याम्’ इति विश्वः। श्रमाम्बुना स्वेदोदकेन, आचिबुकम् अधरोष्ठाधःप्रदेशपर्यन्तम्। `अधस्तात् चिबुकम्’ इत्यमरः। नीलत् नीलीभवत्, अत एव सञ्जातश्मश्रुवत् प्रतीयमानमिति भावः। नील वर्णे धातोर्लट् शत्रादेशः। तत्क्षणोचितं तत्कालयोग्यम्, विपरीतकेलौ पुरुषवत् तव उपरि अवस्थानेन कपोलनिर्गलन्मदाक्तधर्मोदकानां द्रवत्वेन निम्नगामित्वाच्च पुरुषयोग्यं श्मश्रुमिवेति भावः। स्वं निजम्, आस्यं मुखम्, हारमणौ हारस्थितरत्नमध्ये, अध स्थितस्य ममेति भावः। दृष्टम् अवलोकितम्, स्मर चिन्तयः॥ 20.94 ॥
वनकेलौ स्मराश्वत्थदलं भूपतितं प्रति।
देहिमह्यमुदस्येति मद्‌गिरा व्रीडिताऽसि यत्॥ 20.95 ॥
अन्वयः–वनकेलौ भूपतितम् अश्वत्थदलं प्रति उदस्य मह्यं देहि–इति मद्‌गिरा यत् व्रीडिता असि, स्मर।
जीवातु–वनेति। किञ्च्, हे चारुशीले! वनकेलौ प्रमदवनविहारकाले भूपतितं वृक्षात् भूतले च्युतम्, अश्वत्थदलम् अश्वत्थपत्रम्, प्रति उद्दिश्य, उदस्य उद्‌धृत्य, एतदश्वत्थपत्रमिति शेषः। मह्या नलाय, देहि अर्पय, इति उक्तरूपया, मद्‌गिरा ममोक्त्या, यत् व्रीडिता लज्जिता, असि भवसि, रहस्याङ्गस्य अश्वत्थपत्राकृतितुल्यतया तद्याचने रहस्याङ्गयाचनाभिप्रायज्ञानादिति भावः। तत् स्मर चिन्तय। अत्र सामुद्रिकाः-’ अश्वत्थदलसङ्काशं गुह्यं गूढमनिश्चितम्। यस्याः सा सुमगा कन्या सामुद्रिकाः-’ अश्वत्थदलसङ्काशं गुह्यं गूढमनिश्चितम्। यस्याः सा सुभगा कन्या पूर्वपुण्यैरवाप्यते। इति॥ 20.95 ॥
इति तस्या रहस्यानि प्रिये शंसति साऽन्तरा।
पाणिभ्यां पिदधे तस्याः श्रवसी ह्रीवशीकृता॥ 20.96 ॥
अन्वयः–इति प्रिये तस्याः रहस्यानि शंसति ह्रीवशीकृता सा अन्तरा सख्याः श्रवसी पाणिभ्यां पिदधे।
जीवातु–इतीति। प्रिये नले; तस्या, भैम्याः रहस्यानि सुप्तचेष्टितानि; इति इत्थम्, शंसति कथयति सति, सा भैमी, ह्रीवशीकृता लज्जापरवशा सती, अन्तरा कथामध्ये, तस्याः कलायाः, श्रवसी कर्णै, पाणिभ्यां स्वकराभ्याम्, पिदधे छादयामास। इतोऽधिकं रहस्यं कथयिष्यतिं चेत् तदनया न श्रोतव्यमिति बुद्ध्येति भावः॥ 20.96 ॥
कर्णौ पीडयती सख्या वीक्ष्य नेत्रासितोत्पले।
अप्यसादयतां भैमी-करकोकनदे नु तौ॥ 20.97 ॥
अन्वयः–सख्याः नेत्रासितोत्पले कर्णौ पीडयती वीक्ष्य भैमीकरकोकनदे अपि तौ असादयतामु नु।
जीवातु–कर्णाविति। सख्याः कलायायः, नेत्रे लोचने एव, असितोत्पले नीलसरोजे, कर्णौ कलाया एव श्रवणयुगलम्, पीडयती अभिभवती, आक्रम्य पीडनं कुर्वतीत्यर्थः। आकर्णविश्रान्ते इति भावः। वीक्ष्य दृष्ट्वा भैम्याः दमयन्त्याः, करावेव पाणियुगलमेव, कोकनदे रक्तोत्पले अपि। कर्त्तृणी। `अथ रक्तसरोरुहे रक्तोत्पलं कोकनदम्’ इत्यमरः. तौ कर्णौ, आसादयतां स्वयमपि समत्सरे एव अपीडयताम्, न किम्? इत्युत्प्रेक्षा॥ 20.97 ॥
तत्प्रविष्टं सखीकर्णौ पत्युरालपितं ह्रिया।
पिदधाविव वैदर्भी स्वरहस्याभिसन्धिना॥ 20.98 ॥
अन्वयः–वैदर्भी सखीकर्णौ प्रविष्टं तत् पत्युः आलपितं ह्रिया स्वरहस्याभिसन्धिना इत पिदधौ।
जीवातु–कर्णपीडने उत्प्रेक्षान्तरमाह-तदिति। वैदर्भी भैमी, सखीकर्णौ कलायाः श्रवणयुगलम्, प्रविष्टं ढौकितम्, पत्युः नलस्य, तत् पूर्वोक्तम्, आलपितं निजरहस्यभाषितम्, ह्रिया लज्जया, स्वरहस्यस्य निजगुप्तव्यापारस्य, अभिसन्धिना निगूहनाभिप्रायेणेव, बहिर्निर्गमननिरोदाभिप्रायेणेवेत्यर्थः। पिदधौ आच्छादयामास, स्वरहस्यगोपनाय इव कर्णपिधानमकरोदित्युत्प्रेक्षा। यथा कश्चिद् निजगोपनीयं द्रव्यं लिप्यादिकं वा पेटिकादौ संथाप्य तस्य बहिः प्रकाशनिरोधार्थ पिधानेन सुदृढं पिदधाति तद्वदिति भावः॥ 20.98 ॥
तमालोक्य प्रियाकेलिं नले सोल्लुण्ठहासिनि।
आरात्तत्त्वमबुद्‌ध्वाऽपि सख्यः सिस्मियिरेऽपराः॥ 20.99 ॥
अन्वयः–तं प्रियाकेलिम् आलोक्यसोल्लृण्ठहासिनि नले आरात् तत्त्‌वम् अबुद्‌ध्वा अपि अपराः सख्यः सिस्मियिरे।
जीवातु–तमिति। तं पूर्वोक्तम्, प्रियायाः भैम्याः, केलिं सखीकर्णपिधानरूपं विनोदम्, आलोक्य वीक्ष्य, नले नैषधे, सोल्लुण्ठं सपरिहासम्, हसति हास्यं कुर्वतीति तादृशे सति, आरात्दूरात् अपराः कलेतराः सख्यः वयस्याः, तत्त्वं यतार्थव्यापारम्, अबुद्‌ध्वाऽपि, अज्ञात्वाऽपि, सिस्मियिरे जहसुः। नलस्य हाक्यमात्रदर्शनात् ता अपि हसितवत्य इत्यर्थः। दृश्यते च लोके ईदृशव्यापारो नियतमेव॥ 20.99 ॥
दम्पत्योरुपरि प्रीत्या ता धराप्सरसस्तयोः।
ववृषुः स्मितपुष्पाणि सुरभीणि मुखानिलैः॥ 20.100 ॥
अन्वयः–ताः धरापासरसः तयोः दम्पत्योः उपरी प्रीत्या मुखानिलैः सुरभीणि स्मितिपुष्पाणि ववृषुः।
जीवातु–दम्पत्योरिति। ताः पूर्वोक्ताः, धराप्सरसः भूलोकसुराङ्गनासदृश्यः सख्यः, दम्पत्योः जायापत्योः, तयोः दमयन्तीनलयोः, उपरि प्रीत्या हर्षेण, तयोर्व्यापारदर्शनजनितानन्देनेत्यर्थः। मुकानिलैः निःश्वासमारुतैः, सुरभीणि सुगन्धीनि, स्मितानि एव ईषद्धसितान्येव, पुष्पाणि सितकुसुमानि, कविभिर्हास्यस्य धवलतया कीर्त्तनादिति भावः॥ ववृषुः सिषिचुः। सख्यस्तौ सस्मितमवलोकयामासुरिति निष्कर्षः॥ 20.100 ॥
तदास्यहसिताज्जातां स्मितमासामभासत।
आलोकादिव शीतांशोः कुमुदश्रेणिजृम्भणम्॥ 20.101 ॥
अन्वयः–तदास्यहसितात् जातम् आसां स्मितं शीतांशोः आलोकात् कुमुश्रेणिजृम्भणम् इव अभासत।
जीवातु–तदिति। तस्य नलस्य, आस्ये वदने, यत् हसितं हास्यं तस्मात् तद्वास्यदर्शनादित्यर्थः। जातम् उत्पन्नम्, आसां सखीनाम्, स्मितं मृदुहास्यम्, शीतांशोः चन्द्रस्य, आलोकात् प्रकाशात्, जातमिति शेषः। कुमुदश्रेणीनां कैरवपंक्तीनाम्, जृम्भणं विकास इव, अभासत अशोभत॥ 20.101 ॥
प्रत्यभिज्ञाय विज्ञाऽथ स्वरं हासविकस्वरम्।
सख्यास्तासु स्वपक्षायाः कला जातबलाऽजनि॥ 20.102 ॥
अन्वयः–अथ विज्ञा कला तासु स्वपक्षायाः सख्याः हासविकस्वरं स्वरं प्रत्यभिज्ञाय जातबला अजनि।
जीवातु–प्रत्यभिज्ञायेति। अथ सखीनां हासानन्तरम्, विज्ञा अबिज्ञा, सुचतुरेत्यर्थः। कला कलाख्या सखी, तासु स्मितकारिणीषु सखीषु मध्ये, स्वपक्षाया स्वसहायायाः, निजसुहृद्‌भूतायाः इत्यर्थः। `पक्षो मासार्द्धके पार्षिणग्रहे साध्यविरोधयोः। केशादेः परतो वृन्दे बले सखिसहाययोः॥’ इति मेदिनी। सख्याः कस्याश्चित वयस्यायाः सम्बन्धिनम्, हासेन हास्यशब्देन, विकस्वरं प्रकाशमानम्, स्वरं ध्वनिम्, प्रत्यभिज्ञाय ममैव प्रियसख्याः स्वरोऽयमिति निश्चित्य, जातबला प्राप्तसामर्थ्या, दमयन्तीकरनिरुद्धनिजकर्णमोचने इति भावः। अजनि जाता। जनेः कर्त्तरिलुङ्त। `दीपजन’-इत्यादिना च्लेः चिणि तुलुकि रूपम्॥ 20.202 ॥
साऽऽहूयोच्चैरथोचे तामेहि स्वर्गेण वञ्चिते!।
पिब वाणीः सुधावेणीर्नृपचन्द्रस्य सुन्दरि!॥ 20.103 ॥
अन्वयः–अथ सा ताम् उच्चैः आहूय ऊचे-स्वर्गेण वञ्चिते सुन्दरि एहि, नृचन्द्रस्य वाणीः सुधावेणीः पिब।
जीवातु–सेति। अथ स्वरप्रत्यभिज्ञानन्तरम्, सा कला, तां सखीम्, उच्चैः तारम्, आहूय आकार्य, हे स्वर्गेण स्वर्गसुखेन, स्वर्गसुखजनकनलवाक्याश्रवणेनेत्यर्थः। वञ्चिते! प्रतारिते! सुन्दरि! हे सौन्दर्यशालिनि! एहि आगच्छ, नृपचन्द्रस्य राजेन्द्रोः सम्बन्धिनीः, वाणीः वाक्यस्वरूपाः, सुधावेणि। अमृतरसप्रवाहान्, पिब स्वद, यथेच्छम्, आकर्णय इति यावत्, इति ऊचे कथयामास, स्वर्गे चन्द्रात् निःसृतस्य अमृतस्य तुल्यं राजचन्द्रमुखात् उद्‌गतं वाक्यसुधाप्रवाहम्, अनुभूय स्वर्गमुखमनुभवेत्यर्थः॥ 20.103 ॥
साऽश्रृणोत्तस्य वाग्भागमनत्यासत्तिमत्यपि।
कल्पग्रामाल्पनिर्घोषं बदरीव कृशोदरी॥ 20.104 ॥
अन्वयः–कृशोदरी सा अनत्त्यासत्तिमती अपि तस्य वाग्भागं कल्पग्रामाल्पनिर्घोषं बदरी इव अश्रृणोत्।
जीवातु–सेति। कृशोदरी क्षीणमध्या, सा आहूता सखी, अनत्यासत्तिमती अपि ईषद्‌दूरस्था अपि, तस्य नलस्य, वाग्भाग ततः परं कथितं वाक्यांशम्, कल्पग्रामस्य वदरिसमीपवर्त्तिनः कल्पाख्यास्य ग्रामस्य, अल्पनिर्घोषं मन्दध्वनिम्, किञ्विद्‌दूरत्वादनुच्चकलरवमित्यर्थः। बरदी इव बदरिकाश्रमस्थलोकसमूह इव, अश्रृणोत् आकर्णयत्। सन्दिकृष्टेषु ग्रामेषु यथा परस्परमालापाः श्रूयन्ते तद्वदश्रौषीदित्यर्थः॥ 20.104 ॥
अथ स्वपृष्ठनिष्ठायाः श्रृण्वत्या नैषधाभिधाः।
नलमौलिमणौ त या भावमाकलयत् कला॥ 20.105 ॥
अन्वयः–अथ कला स्वपृष्ठनिष्ठायाः नैषधाभिधाः श्रृण्वत्याः तस्याः भावं नलमौलिमणौ आकलयत्।
जीवातु–अथेति। अथ सख्याह्वानानन्तरम्, कला तन्नामसखी, स्वपृष्ठनिष्ठायाः निजपश्चाद्भागस्थितायाः, कर्णपिधानार्थ कलाया एव पश्चाद्‌देशे अवस्थितायाः सत्याः इत्यर्थः। नैषधस्य नलस्य, अभिधीयन्ते इत्यभिधाः वचनानि। `आतश्चोपसर्गे’ इति अङ्‌प्रत्ययः। श्रृण्वत्याः आकर्णयन्त्याः, तस्याः भैम्याः भावं कोपादिचेष्टाम् नलस्य नैषधस्य, मौलिमणो मुकुचस्थरत्ने, आकलयत् अपश्यत्। पुरोवर्त्तितया तस्माः प्रतिफलनादिति भावः॥ 20.105 ॥
प्रतिबिम्बेक्षितै सख्या मुखाकूतैः कृतानुमा।
तद्‌व्रीडाद्यनुकुर्वाणा श्रृण्वती चान्वमायि सा॥ 20.106 ॥
अन्वयः–प्रतिबन्मबेक्षितैः सख्याः मुखाकूतैः कृतानुमा तद्‌व्रीडाद्यनुकुर्वाणा च सा श्रृण्वती अन्वमायि।
जीवातु–प्रतीति। सा कला, प्रतिबिग्बे नलमौलिमणिगतसखीप्रतिच्छायायाम्, ईक्षितैः दृष्टैः, सख्याः भैम्याः, मुकाकुतैः लज्जारोषादिव्यञ्जकवदनभङ्गिभिः लिङ्गैः, कृतानुमा इदमिदमयं वक्तीति विहितानुमाना, दमयन्तीकर्त्तृककर्णपिधानेन श्रवणासामर्थ्यादिति भावः। अत एव तस्याः, दमयन्त्याः व्रीडादि लज्जास्मितादिभावम्, अनुकुर्वाणा अनुकरणशीला सती, दमयन्त्यनुकरणेन स्वयमपि तादृशभावं प्रकटयन्ती सतीत्यर्थः। `ताच्छील्यवयोवचनशक्तिषु’ इति ताच्चील्ये चानश् अनयथा `अनुपराभ्यां कृञः’ इति परस्मैपदप्रसङ्गात्। श्रृण्वती इव साक्षादाकर्णयन्ती इव, कर्णयोः पिहितयोरपि नलवचनं स्पष्टं श्रृण्वती इवेत्यर्थः. अन्वमायि अनुमिता, नलदमयन्तीभ्यामिति शेषः॥ 20.106 ॥
कारङ्कारं तथाऽऽकारमूचे साऽश्रृणवन्तमाम्।
मिथअया वेत्थ गिरस्चेत्तद्व्यर्थाः स्युर्मम देवताः॥ 20.107 ॥
अन्वयः–सा आकारं तथा कारं कारम् ऊचे-अश्रृणवन्तमाम्, चेत् गिरः मिथ्या वेत्थ,तत् मम देवताः व्यार्थाः स्युः।
जीवातु–कारङ्कारमिति। सा कला, तथाऽऽकारं पूर्वोक्तरूपमनुकरणमित्यर्थः, कारं कारं कृत्वा कृत्वा। आभिक्ष्ण्ये णमुल्। अश्रृणवन्तमां भवदुक्तं सर्वमतिशयेनाकर्णयम्, अहमिति शेषः। श्रृणोतेर्लङि मिपो मादेशः, `किमेत्तिङव्ययघात-’ इत्यामुपत्ययः। इति ऊचे कथयामास, चेत्‌ यदि, गिरः अश्रृणवन्तमाम् इति वाचः, मित्थया अनृतम्, वेत्य जानासि, मन्यसे इत्यर्थः। तत् तदा मम मे, देवताः उपास्यदेवताः, व्यर्थाः विफलाः, विफलोपासनाः इत्यर्थः। विशिष्टार्था इत्यपि निगूढार्थो गम्यते, विशिष्टार्थसाधिका इत्यर्थः। स्युः भवेयुः॥ 20.107 ॥
मत्कर्णभूषणानान्तु राजन्!निबिडपीडनात्।
व्यथिष्यमाणपाणिस्ते निषेद्‌धुमुचिता प्रिया॥ 20.108 ॥
अन्वयः–राजन्, मत्कर्णभूषणानां निबिडपीडनात् व्यथिष्यमाणपाणिः ते प्रिया तु निषेद्धुम् उचिता।
जीवातु–मदिति। तु किन्तु, राजन्!हे महाराज! मत्कर्णभूषणानां मम श्रवणालङ्काराणाम्, निबिडपीडनात् दृढमावेन धारणात्, कर्णपिधानार्थमिति भावः। व्यथिष्यमाणपाणिः तोत्स्यमानकरा, ते तव, प्रिया कान्ता भैमी, निषेद्‌धुं कर्णपिधानात् निवारयितुम्, उचिता कर्त्तव्या, मया युवयोः रहस्यस्य सर्वस्यापि श्रुतत्वात् कर्णपिधानस्य स्वपाणिपीडनादतिरिक्तफलं नास्तीति भावः॥ 20.108 ॥
इति सा मोचयाञ्चेक्रे कर्णौ सख्याः करग्रहात्।
पत्युराश्रवतां यान्त्या मुधाऽऽयासनिषेधिनः॥ 20.109 ॥
अन्वयः–इति सा मुधायासनिषेधिनः पत्युः आश्रवतां यान्त्याः सख्याः करग्रहात् कर्णौ मोचयाञ्चक्रे।
जीवातु–इतीति। सा कला, इति इत्थम्, एवंविधवचनकौशलेनेत्यर्थः। मुधाऽऽयासं वृथाक्लेशम्, निषेधति निवारयति, कलया सर्वस्यैव वृत्तान्तस्य यथावत् श्रवणात् मिथ्या कर्णावरणपरिश्रमं मा कुर्विति वारयतीति तादृशस्येत्यर्थः। पत्युः नलस्य, आश्रवतां वाक्यकारित्वम्, वचने स्थित आश्रवः’ इत्यमरः। यान्त्याः प्राप्नुवत्याः, भर्त्तुरादेशात् कर्णौ त्यजन्त्या इत्यर्थः। सख्याः भैम्याः, करग्रहात् हस्ताभ्यां धारणात्, कर्मौ निजश्रवणद्वयम्, मोचयाञ्चक्रे मोचितवती॥ 20.109 ॥
श्रुतिसंरोधजध्वानसन्ततिच्चेदतालताम्।
जगाम झटिति त्यागस्वनस्तत्कर्मयोस्ततः॥ 20.110 ॥
अन्वयः–ततः तत्कर्णयोः झटिति त्यागस्वनः श्रुतिसंरोध्ध्वानसन्ततिच्छेदतालतां जगाम।
जीवातु–श्रुतीति। ततः कर्णमोचनानन्तरम्, तस्याः कलायाः, कर्मयोः श्रवणयोः, झटिति सहसा, त्यागेन मोचनेन, यः स्वनः शब्दः, श्रुतिविवरं प्रविष्टः बाह्यशब्द इत्यर्थः। श्रुतिसोरोधेन कर्णावरणेन, जातायाः उत्पन्नायाः, ध्वानसन्ततेः `धुम् धुम्’ इत्यादिरूपध्वनिपरम्परायाः छेदे विरामे, तालतां गीतादिक्रियासमापनकालिकमानरूपताम्, जगाम प्राप। बाह्यशब्देन आभ्यन्तरध्वनिर्निवृत्त इत्यर्थः। एतत्तु सर्वेषामेवानुभवसिद्धिमिति बोद्धव्यम्॥ 20.110 ॥
सापऽसृत्य कियद् दूरं मुमुदे सिष्मिये ततः।
इदं ताञ्च सखीमेत्य ययाचे काकुभिः कला॥ 20.111 ॥
अन्वयः–ततः सा कला कियद्‌ दूरम् उपसृत्य मुमुदे सिष्मिये च तां सखीम् एत्य काकुभिः इदं ययाचे।
जीवातु–सेति। ततः मुक्तिप्राप्तेरनन्तरं सा कला तन्नामसखी, कियत् किञ्चित्, दूरं विप्रकृष्टदेशम्, अपसृत्य गत्वा, मुमुदे जहर्ष, निजकौशलस्य साफल्यदर्शनादिति भावः। ्त एव सिष्मिये च मन्दं जहास च, किञ्च, ताम् आहूतां स्वपक्षीयाम्, सखीं वयस्याम्, एत्य आगत्य, काकुभिः अनुनयसूचकविकृकस्वरैः, इदं वक्ष्यमाणं ययाचे च प्रार्थयामास च॥ 20.111 ॥
अभिधास्ये रहस्यं तद्‌ यदश्रावि मयाऽनयोः।
वर्णयाकर्णितं मह्यमेह्यालि विनिमोयताम्॥ 20.112 ॥
अन्वयः–आलि, एहि, अनयोः यत् रहस्यं मया अश्रावि, तत् अभिधास्ये; आकर्णितं मह्यं वर्मय, विनिर्मीयताम्।
जीवातु–किं ययाचे इत्याह-अबीति। आलि! हे सखि। एहि आगच्छ, अनयोः भैमीनलयोः सम्बन्धि, यद् रहस्यं गोपनीयव्यापारः, मया अश्रावि कर्णरोवात् प्राक्, तत् अभिवास्ये कथयिध्यामि, तुभ्यमिति शेषः। आकर्णितं त्वया श्रुतञ्च, रहस्यमिति शेषः। मह्यं कलायै, वर्णय कथय, त्वमिति शेषः। विनिर्मीयतां परस्परं श्रुतवृत्तान्तस्य विनिमयः क्रियताम्, आवाभ्यामिति शेषः॥ 20.112 ॥
वयस्याऽभ्यर्थनेनास्याः द्रावकूटश्रुतिनाटने।
विस्मितौ कुरुतः स्मैतौ दम्पती कम्पितं शिरः॥ 20.113 ॥
अन्वयः–वयस्याभ्यर्थनेन अस्याः प्राक्कूटश्रुतिनाटने विस्मितौ एतौ दम्पती शिरः कम्पितं कुरुतः स्म।
जीवातु–वयस्येति। वयस्यायाः स्वपक्षभूतायाः सख्याः, अभ्यर्थनेन प्रर्थनेन, `वर्णयाऽऽकर्णितं मह्यम्’ इत्युक्तरूपेण श्रुतवृत्तान्तस्य विनिमयप्रार्थनया इत्यर्थः। अस्याः कलायाः, प्राक् पूर्वम्, कर्णपिधानावस्थायामित्यर्थः, कूटे मिथ्यैव कृते, श्रुतिनाटने मया सर्वं श्रुतमिति भाव्यञ्जने, निस्मितौ आश्चर्यान्वितौ, दम्पती जातापती, एतौ भैमीनलौ, शिरः स्वस्वमस्तकम्, कम्पितं चालितम् कुरुतः स्म मृदु मृदु शिरश्चालनं चक्रतुरिति विस्मयमावोक्तिः॥ 20.113 ॥
यथाऽऽलिमालपन्तीं तामभ्यधान्निषधाधिपः।
आस्स्व तद्वञ्चितौ स्वश्चेन्मिथ्याशपथसाहसात्॥ 20.114 ॥
अन्वयः–तथा आलिम् आलपन्तीं तां निषधाधिपः अभ्यधात्-मिथ्याशपथसाहसात् चेत् वञ्चितौ स्वः तत् आस्स्व।
जीवातु–तथेति। निषधाधिपः नलः, आलिम् आहूतस्वपक्षसखीम्, तथा तेन प्रकारेण `वर्णायाक्र्णितं मह्यम्’ इत्युक्तप्रकारेणेत्यर्थः। आलपन्तीं सम्भाषमाणाम्, तां कलाम्, अभ्यधात् अवोचत्, किम् इति? हे धूर्त्ते! मिथ्भाषमाणाम्, `व्यर्थाः स्युर्मम देवताः’ इति कृत्वा अनृतशपनमेव साहसम् अविचारितकारित्वं तस्मात् हेतोः, चेत् यदि, वञ्चितौ प्रतारितौ, स्वः भवावः आवामिति शेषः। तत् तर्हि, आस्स्व तिष्ठ, एतदर्थ त्वां यथोचितं दण्डयामि क्व गमिष्यसीति भावः॥ 20.114 ॥
प्रत्यलापीत् कलाऽपीमं कलङ्कः शङ्कितः कुतः?
प्रियापरिजनोक्तस्य त्वयैवाद्य मृषोद्यता॥ 20.115 ॥
अन्वयः–कला अपि इमं प्रति अलापीत्-अद्य एव प्रियापरिजनोक्तस्य मृषोद्यता तव्या कलङ्कः कुतः शङ्कितः?
जीवातु–प्रत्यलापीदित। कला अपि तन्नामसखी अपि, इमं नलम्, प्रत्यलापीत् प्रत्यवोचत्। लपेर्लुङि `अतो हलादेर्लघोः’ इति निषेधविकल्पात् सिचि वृद्धिः। हे राजन्! त्वया भावता, अद्य एव अस्मिन्नेव दिवसे, न तु इतः पूर्वं कदाऽपीति भावः। प्रियायाः भैम्याः परिजनेन सखीजनेन, उक्तस्य कथितस्य वचनस्य, मृषोद्यता मिथ्यावादित्वम्। ` राजसूयसूर्यमृषोद्य-’ इत्यादिना मृषापूर्वाद्वदेः क्यबन्तो निपातः। अनृतवादितारूप इत्यर्थः। कलङ्कः अपवादः, कुतः कथम्, शङ्कितः सम्भावितः? भवत्प्रियायाः सदा सत्यवादित्वात् तत्परिजनानामस्माकमपि मिथ्यावादित्वं न सम्भवति इति भावः। वृत्तस्यापि रात्रिव्यापारस्य न वृत्तिमिति अपलापवत् अस्माकमपि तत्परिजनानां तथा व्यवहारः न दुष्यतीति तु निगूढतात्पर्यम्॥ 20.115 ॥
सत्यं खलु तदाऽश्रौषं परं धुमुधुमारवम्।
श्रृणोमीत्येव चावोचं न तु त्वद्वाचमित्यपि॥ 20.116 ॥
अन्वयः–तदा खलु सत्यम् अश्रौषं, परं धुमुधुमारवम् श्रृणोमि-इति एव अवोचं न तु त्वद्वाचम् इति अपि।
जीवातु–सत्यमिति। अथवा तदा पूर्वोक्तशपथात् पूर्वं कर्मरोधसमये, परं केवलम्, धुमुधुमारवं `धुम् धुम्’ इत्येवमाभ्यन्तरिकं शब्दम्, सत्यं खलु सत्यमेव,अश्रौषम् आकर्णितवती, अहमिति शेषः। च किञ्च, श्रृणोमीत्येव `अश्रृणवन्तमाम्’ इत्यनेन श्रवणमात्रमेव, अवोचम् अकथयम्, अपि तु परन्तु त्वद्वाचं भवदीयवाक्यम्, अश्रृणवन्तमामिति शेषः, इति न, अवोचमित्यनेनान्वयः। यस्मात् श्रृणोमीत्युक्तं, तस्मान्नात्र मृषोद्यतादोषः, शब्दश्रवस्य सत्यत्वादिति भावः॥ 20.116 ॥
आमन्त्र्य देव! तेन त्वां तद्वैयर्थ्यं समर्थये।
शपथः कर्कशोदर्खः सत्यं सत्योऽपि दैवतः॥ 20.117 ॥
अन्वयः–देव,तेन त्वाम् आमन्त्र्य तद्‌वैयर्थ्यं समर्थये, दैवतः सत्यः अपि शपथः सत्यं कर्कशोदर्कः।
जीवातु–आमन्त्र्येति । देव! हे राजन्! ते `व्यर्थाः स्युर्मम देव! ताः’ इत्यादि पूर्वोक्तवाक्येन हेतुना, हे देव! इति त्वां भवन्तम्, आमन्त्र्य सानुनयं सम्बोध्य, ताः अश्रृणवन्तमाम् इत्यादि गिरः व्यर्थाः मिथ्याभूताः इत्युक्त्वा, तस्य अश्रृणवन्तमामिति शफथवाक्यस्य, वैयर्थ्य मिथ्यात्वम्, अथवा श्रुतानां धुमुधुमेत्यादीनां ध्वनीनां वैयर्थ्यम् अर्थशून्यत्वम्, `धुम् धुम्’ इति शब्दस्य डित्थडवित्थादिवत् अर्थशून्यतया तच्छ्रवणस्यापि निरर्थकत्वादिति भावः। समर्थमे सिद्धान्तत्वेन स्थापयामीत्यर्थः. अहमितिशेषः। शपथकरणे मन्वाद्यक्तं दोषं जानत्या मया तु शपथः न कृतः, किन्तु अहं शपथं कृतवतीति देवस्यैव भ्रान्तिर्जाता, तथा हि दैवतः देवताम् उद्दिश्य कृतः, सत्योऽपि यथार्थोऽपि, शपथः शोपनम्, सत्यं निश्चतमेव, कर्कशोदर्खः कर्कशः धर्महानिकरत्वेन निदारुणः उदर्कः उत्तरं फलं यस्य तादृशः, शोचनीयपरिणामः इत्यर्थः। `उदर्कः फलमुत्तरम्’ इत्यमरः। भवतीति शेषः। `सत्येनापि शपेद् यस्तु देवाग्निगुरुसन्निधौ। तस्य वैवस्वतो राजा धर्मस्यार्द्ध निकृन्तति॥’ इति मनुस्मरणादिति भावः॥ 20.117 ॥
असम्भोगकथारम्भैवैञ्चयेथे कथं तु माम्?
हन्त! सेयमनर्हन्ती यत्तु विप्रलभे युवाम्॥ 20.118 ॥
अन्वयः–युवाम् असम्भोगकथारम्भैः कथं तु मां वञ्चयेथे; हन्त, यत् तु विप्रलभे, सा इयम् अनर्हन्ती।
जीवातु–मिथ्याशपथेन युवयोर्वञ्चनायां न कोऽपि दोषः इत्याह-असम्भोगेति। युवां भवन्तौ, असम्भोगकथानां सम्भोगचिह्‌ने विद्यमानेऽपि त्वया उच्यते भैमी मां न स्पृशत्यपि, अनयाऽपि नलेन नाहं स्पृष्टा इत्युच्यते एवम्भूतानां सम्भोगाभावोक्तीनाम्, आरम्भैः उपन्यासैः, प्रवर्त्तरित्यर्थः। मां कलाम्, कथं नु किमर्थम् वञ्चयेथे? प्रतारयथः? तु पुनः, युवां भवन्तौ, यद्विप्रलभे वञ्चयामि, अहमिति शेषः। सा इयं वञ्चना, अनर्हन्ती हन्त! अयुक्ता किम्!! मद्वञ्चनं युवयोः युक्तमेव, मम तु भवद्वञ्चनमयुक्तम् अहो आश्चर्यं धूर्त्तयोरिति भावः। अनर्हन्ती `अर्ह प्रशंसायाम्’ इति शतरि उगित्त्वात् ङीषि, ब्राह्मणादित्वात् ष्यञ्प्रत्यये `अर्हतो नुम् च’ इति नुमागमः, `ष्यञः षित्करणादीकारो बहुलम्’ इति वामनः। `यस्य हलः’ इति यकारलोपे चार्हन्ती, ततः नञ्समासः। यत्तु इत्यत्र `यन्न’ इति पाठे–अनर्हन्ती दासीत्वात् अयोग्याऽपि, सा इयं कलानाम्नी अहं, शेषः। `शठे शाठ्यं समाचरेत्’ इति न्यायाद्‌वञ्चकेन सह प्रतारणापूर्मव्यवहरा एव युज्यते इति भावः॥ 20.118 ॥
कर्णे कर्णे ततः सख्यौ श्रुतमावख्यतुर्मिथः।
मुहुर्विस्मयमाने च स्मयमाने च ते बहु॥ 20.119 ॥
अन्वयः–ततः मुहुः च विस्मयमाने बहु च स्मयमाने ते सख्यौ मिथः कर्णे कर्ण श्रुतम् आचख्यतुः।
जीवातु–कर्णे कर्णे इति। ततः अनन्तरम्, ते सख्यौ कला तत्सपक्षा च, मुहुः पुनः पुनः, विस्मयमाने आश्चर्यभावं प्रकाशयन्त्यौ, तथा स्मयमाने मन्दं हसन्त्यौ च सत्यौ, श्रुतम् आकर्णितं पूर्वोक्तरहस्यजातम्, मिथः अन्योऽन्यम्, कर्णे कर्णे कर्णसमीपे मुखं संस्थाप्य निःशब्दं यथा तथेत्यर्थः। बहु दीर्घकालं व्याप्येत्यर्थः। आचख्यतुः कथयामासतुः॥ 20.119 ॥
अथख्यायि कलासख्या कुप्य मे दमयन्ती! मा।
कर्णाद्वितीयतोऽप्यस्याः सङ्गोप्यैव यदब्रुवम्॥ 20.120 ॥
अन्वयः–अथ कलासख्या आख्यायि-दमयन्ति, मे मा कुप्य, यत् अस्याः द्वितीयतः कर्णात् अपि सङ्गेप्य एव अब्रुवम्।
जीवातु–अथेति। अथ अन्योऽन्यकथनानन्तरम्, कलासख्या कलायाः वयस्यया, आख्यायि उक्तम्, किमिति? हे दमयन्ति! मे मह्यम्-मा कुप्य न क्रुद्धा भव, त्वमिति शेषः। `क्रुधद्रुह-‘इत्यादिना सम्प्रदानत्वाच्चतुर्थी। यत् यस्मात्, द्वितीयतः द्वितीयात्, कर्णात् अपि, सङ्गोप्य गोपायित्वा, अस्याः एव कलायाः एव, अब्रुवं रहस्यम् अकथम्॥ 20.120 ॥प्रियः प्रियामथाचष्ट दृष्टं कपटपाटवम्?।
वयस्ययोरिदं तस्मान्मा सखीष्वेव विश्वसीः॥ 20.121 ॥
अन्वयः–अथ प्रियः प्रियाम् आचष्ट-वयस्ययोः इदं कपटपाटवं दृष्टं तस्मात् सखीषु मा एव विश्वसीः।
जीवातु–प्रिय इति। अथ कलासखीवाक्यानन्तरम्, प्रियः कान्तो नलः प्रियां कान्तां भैमीम्, आचष्ट अवोचत्, किमिति? हे प्रिये! वयस्ययोः सख्योः, इदं त्वत्समक्षमेव आचरितम्, कपटपाटवं वञ्चनाचातुर्यम्, इष्टम्? अवलोकितम्? इति काकुः। तस्मात् एव-व्यवहारदर्शनात्, सखीषु वयस्यासु, मैव नैव, विश्वसीः विश्वासं कुरु, मय्येव विश्वासः कर्त्तव्य इति भावः। श्वसे र्माङि लुङि `न माङ्योगे’ इति अडागमनिषेधः। `अतो हलादेर्लघोः’ इति वृद्धी प्राप्तायां `ह्य्यन्तक्षणश्वस-’ इत्यादिना निषेधः॥ 20.121 ॥
आलापि कलयाऽपीयं पतिर्नालपति क्वचित्।
वयस्येऽसौ रहस्यं तत् सम्भे विस्रभ्यमीदृशि॥ 20.122 ॥
अन्वयः–कलया अपि इयम् आलापि-असौ पतिः क्वचित् अपि न आलपति, तत् ईदृशे सभ्ये वयस्ये रहस्यं विस्रभ्यम्।
जीवातु–आलापीति। कलयाऽपि इयं भैमी, आलापि अवादि, किमालापि? इत्याह–हे दमयन्ति! असौ अयम्, पतिः तव भर्त्ता नलः, क्वचित् कुत्रापि, न आलपति न कथयति, गोप्यरात्रिवृत्तमिति शेषः। अत एव ईदृशि एवम्भूते, सभ्ये सज्जने, वयस्ये सख्यौ, तत् पूर्वोक्तम्, रहस्यं गोप्यवृत्तान्तः, विस्रभ्यं विश्वसनीयम् विश्वस्य वक्तव्यमेवेत्यर्थः। अत्र विपरीतलक्षणया-असौ ते पतिः सर्वत्रैव तव रहस्यमालपति, अत एव ईदृशि असभ्ये वयस्ये न वविस्रभ्यमेव इति। `कृत्यल्युटो बहुलम्’ इति भावे कृत्यप्रत्ययः, तस्याकित्तवान्नकारलोपः॥ 20.122 ॥
इति व्युत्तिष्ठमानायं तस्यामूचे नलः प्रियाम्।
भण भैमि! बहिः कुर्वे दुर्विनीते गृहादमू?॥ 20.123 ॥
अन्वयः–तस्याम् इति व्युत्तिष्ठमानायां नलः प्रियाम् उचैः भौमि भण, गृहात् अमू दुर्विनीते बहिः कुर्वे।
जीवातु–इतीति। तस्यां कलायाम्, इति इत्थम् व्युत्तिष्ठमानायां विरोधम् आचरन्त्याम् तुल्यभावेनैव विपक्षवत् व्यवहर्त्तु प्रवर्त्तमानायामित्यर्थः। `उदोऽनूर्ध्वकर्मणि’ इत्यात्मनेपदम्। नलः नैषधः, प्रियां भैमीम्, ऊचे कथयामास। किमिति? भैमि! हे दमयन्ति! दुर्विनीते उद्धते, अमू एते सख्यौ, गृहात् प्रकोष्ठमध्यादित्यर्थः। बहिः कुर्वे? निर्वासयामि? इति काकुः, भणब्रूहि, आदिश इत्यर्थः॥ 20.123 ॥
शिरःकम्पानुमत्याऽथ सुदत्या प्रीणितः प्रियः।
चुलुकं तुच्छमुत्सर्प्य नस्याः सलिलमक्षिपत्॥ 20.124 ॥
अन्वयः–अथ सुदत्या शिरः कम्पानुमत्या प्रीणितः प्रियः तुच्छं चुलुकम् उत्सर्प्य तस्याः सलितम् अक्षिपत्।
जीवातु–शिर इति। अथ नलवाक्यनन्तरम्, सुदत्या शोभनदन्तया, भैम्या इति शेषः। शिरःकम्पेनैव मस्तकस्य ईषच्चालनरूपेणैव, अनुमत्या अनुमोदनेन, सख्याः बहिष्करणविषये सम्मतिज्ञापनेनेत्यर्थः। प्रीणितः तोषितः, प्रियः नलः, तुच्छ रिक्तमेव, जलशून्यमेवेत्यर्थः, चुलुकं प्रसृतम्, निकुब्जपाणिद्वयमित्यर्थः, अञ्जलिमिति यावत्, उत्सर्प्य उत्क्षिप्य, तस्याः कलायाः उपरीत्यर्थः। सलिलं जलम्, अक्षिपत् अकिरत्॥ 20.124 ॥
तच्चित्रदत्तचित्ताभ्यामुच्चैः सिचयसेचनम्।
ताभ्यामलम्भि दूरेऽपि नलेच्छापूरिभिर्जलैः॥ 20.125 ॥
अन्वयः–तच्चित्रदत्तचित्ताभ्यां ताभ्यां दूरे अपि नलेच्छापूरिभिः जलैः उच्चैः सिचयसेचनम् अलम्भि।
जीवातु–तदिति। तस्मिन् पूर्वोक्तरूपे, रिक्तहस्तादपि जलनिःसरणरूपे, चित्रे आश्चर्ये, दत्तचित्ताभ्यां निवेशितमनोभ्याम्, अत एव अपसर्त्तु विस्मृताभ्यामिति भावः। ताभ्यां सखीभ्याम्, दूरेऽपि विप्रकृष्टदेशे स्थिताभ्यामपि, नलस्य इच्छां पूरयन्तीति तादृशैः नलेच्छापूरिभिः वरुमवरात् नैषधस्य अभिलषितं साधयद्भिः, जलैः सलिलैः, उच्चैः अतिमात्रम्, सिचयशेचनं वस्त्रार्द्राभवनम्। `पटोऽस्त्री सिचयो वस्त्रम्’ इति यादवः। अलम्भि प्रापि। `विभाषा चिण्णमुलोः’ इति नुमागमः॥ 20.125 ॥
वरेण वरुमस्यायं सुलभैरम्भसां भरैः।
एतयोः स्तिमितो चक्रे हृदयं विस्मयैरपि॥ 20.126 ॥
अन्वयः–अयं वरुणस्य वरेम सुलभैः अम्भसां भरैः विस्मयैः अपि एतयोः हृदयं स्तिमितीचक्रे।
जीवातु–ननु नलस्य रिक्तहस्तात् कुतो जलसम्भवः इत्याह-वरेणेति। अयं नलः, वरुणस्य जलेसस्य, वरेण वरदानेन, अभीष्टपूरकवाक्यप्रयोगेणेत्यर्थः। सुलभैः अनायासप्राप्यैः, अम्भसां जलानाम्, भरैः ओघैः, तथा विस्मयैरपि रिक्तहस्तात् जलानि निःसृतानीति आश्चर्यरसैश्च, एतयोः सख्योः, हृदयं वक्षः स्थलम् अन्तरञ्च। `हृदय वक्षसि स्वान्ते’ इति विश्वः। स्तिमितीचक्रे आर्द्रीचकार निश्चलीचक्रे च अभूततद्भावे च्विः। अत्र स्तिमितहृदयमिति विशेषणविशेष्ययोः द्वयोरपि प्रकृतत्वात् श्लेषः॥ 20.126 ॥
(युगम्)
तेनापि नापसर्पन्त्यौ दमयन्तमयं ततः।
हर्षेणादर्शयत् पश्य नन्विमे तन्वि! मे पुरः॥ 20.127 ॥
क्लिन्नीकृत्याम्भसा वस्त्रं जैनप्रव्रजितीकृते।
सख्यौ सक्षौमभावेऽपि निर्विघ्नस्तनदर्शने॥ 20.128 ॥
अन्वयः–ततः अयं तेन अपि न अपसर्पन्त्यौ अम्भसा वस्त्रं क्लिन्नीकृत्य जैनप्रव्रजितीकृते सक्षौमभावे अपि निर्विघ्नस्तनदर्शने सख्यौ दमयन्तीं हर्षेण अदर्शयत्-ननु तन्वि, मे पुरः इमे पश्य
जीवातु–तेनेति। ततः जलसेचनानन्तरम्, अयं नलः, ननु भोः! तन्वि! कृशाङ्गि? प्रिये! अभ्भसा जलेन, वस्त्रं वसनम्, क्लिन्नीकृत्य आर्द्रीकृत्य। अभूततद्भावे च्विः। सक्षौमभावेऽपि क्षौमवस्त्राच्छादने सत्यपि, निर्विघ्नम् अप्रतिबाधनम्, स्तनदर्शनं कुचावलोकनं ययोः ते तादृश्यौ, शुभ्रसूक्ष्मार्द्रवस्त्रेण आच्छादितेऽपि अङ्गे सर्वाङ्गस्य दर्शनविषयीभूतत्वादिति भावः। अत एव जनप्रवजितीकृते बौद्धपरिव्राजिकाप्राये कृते तासामपि दिगम्बरप्रायत्वादिति भावः। तेन तथाविधकरणेनापि, न अपसर्पन्त्यौ न अपगच्छन्त्यौ, इमे एते, सख्यौ वयस्ये, मे मम, पुरः अग्रतः स्थिते इति शेषः। पश्य अवलोकय, इति हर्षेण स्तनादिदर्शनजनितानन्देन, दमयन्तीं भैमीम्, दमयन्त्यै इत्यर्थः। अदर्शयत् अङ्गुलिनिर्देशेन दर्शयामास। अत्र `अभिवादिदृशोरात्मने पदे उपसङ्ख्यानम्’ इति पाक्षिककर्मत्वस्य परस्मैपदे अप्राप्ते `दृशेश्च’ इत्यनेन दमयन्तीमित्यणिकर्त्तुः नित्यकर्मत्वम्। ईदृशघटनया लज्जितयोः तयोः गृहात् बहिर्गमनसभ्भावनया दमयन्त्युपभोगलिप्सा व्यज्यते॥ 20-127,128 ॥
अम्बुनः शम्बरत्वेन मायैवाविरभूदियम्।
यत् पटावृतमप्यङ्गमनयोः कथयत्यदः॥ 20.129 ॥
अन्वयः–अदः यत् पटावृतम् अपि अनयोः अङ्गं कथयति, इयम् अम्बुनः शम्बरत्वेन माया एव आविरभूत्।
जीवातु–अम्बुन इति। अदः नलनिक्षिप्तम् इदं जलम्, कर्त्तृ। पटावृतमपि वस्त्राच्छादितमपि अनयोः सख्योः अङ्गं स्तनादिनिगूढावयवम्, यत् कथयति वदति, सुस्पश्टम् आविष्करतीत्यर्थः। द्वयं पटावृतस्यापि अङ्गस्य आविष्यकरणरूपा एषा अवस्था, अम्बुनः जलस्य, शम्बरत्वेन शम्बरापरनामत्वेन शम्बरासुरत्वेन च, `दैत्ये ना शम्बरोऽम्बुनि’ इति वैजयन्ती। माया एव शाम्बरी एव, छलना एवेत्यर्थः। `स्यान्माया शाम्बरी’ इत्यमरः। आविरभूत् प्रकटिता आसीत्, अन्यथा कथं अनग्नयोरपि स्तनादिर्दृश्यते इति भावः॥ 20.129 ॥
वाससो वाऽम्बरत्वेन दृश्यतेयमुपागमत्।
चारुहारमणिश्रेणितारवीक्षमलक्षणा॥ 20.130 ॥
अन्वयः–वा चारुहारमणिश्रेणितारवीक्षणलक्षणा इयं दृश्यता वाससः अम्बरत्वेन उपागमत्।
जीवातु–वासस इति। वा अथवा, चार्व्यः मनोज्ञाः, हारमणिश्रेण्यः एव मौक्तिकसरस्थरत्नराजय एव, ताराः नक्षत्राणि, तासां वीक्षणं दर्शनमेव, लक्षणं लक्ष्म यस्याः सा तादृशी, इयम् एषा, दृश्यता स्तनादिदर्शनयोग्यता, आकाशरूपेण दर्शनविषयता च, वाससः वस्त्रस्य, अम्बरत्वेन वस्त्रत्वेन आकाशत्वेन च। `अम्बरं व्योम्नि वाससि’ इत्यमरः। उपागमत् प्राप्नोत्, जाता इत्यर्थः॥ 20.130 ॥
ते निरीक्ष्य निजावस्थां ह्रीणे निर्ययतुस्ततः।
तयोर्वीक्षारसात् सख्यः सर्वा निश्चक्रमुः क्रमात्॥ 20.131 ॥
अन्वयः–निजावस्थां निरीक्ष्य ह्रीणे ते ततः निर्ययतुः, तयोः वीक्षारसात् सर्वाः सख्यः क्रमात् निश्चक्रमुः।
जीवातु–ते इति। ते सख्यौ, निजावस्थां जलसेकात् गोप्याङ्गप्रकाशरूपाम् आत्मनो दशाम्, निरीक्ष्य अवलोक्य, ह्रीणे लज्जिते सत्यौ, ततः तस्माद् गृहात्, निर्ययतुः निर्जग्मतुः। ततः तयोः कलातत्सख्योः वीक्षारसाद्दर्शनेच्छातः सर्वा अपराः समस्ताः सख्यः वयस्याः, क्रमात् एकमेकं कृत्वा, निश्चक्रमुः निष्क्रान्ताः॥ 20.131 ॥
ता बहिर्भूय वैदर्भीमूचुर्नीतावधीतिनि!।
उपेक्ष्ये ते पुनः सख्यौ मर्मज्ञे नाधुनाऽप्यमू॥ 20.132 ॥
अन्वयः–वहिर्भूय ताः वैदर्भोम् ऊचुः तीतौ अधीतिति, ते मर्मज्ञे अमू अख्यौ अधुना अपि पुनः न उपेक्ष्ये।
जीवातु–ता इति। ताः सख्यः, बहिर्भूय बहिर्निर्गम्य, वैदर्भी दमयन्तीम्, ऊचुः कथयामासुः। किमिति? नीतावधीतिनि! हे अधीतनीतिशास्त्रे भैमि! इष्टादित्वादिनिप्रत्ययः `क्तस्येनविषयस्य-’ इति कर्मणि सप्तमी। अमू एते, मर्मज्ञे भवत्योः रहस्याभिज्ञे, सख्यौ कलातत्सपक्षे, अधुना पूर्वं यता भवतु इदानीमपि, ते तव त्वयेत्यर्थः। `कृत्यानां कर्त्तरि वा’ इति कर्त्तरि षष्ठी। न पुनः नैव, उपेक्ष्ये अवहेलनीये, `मर्मज्ञं न प्रकोपयेत्’ इति न्यायात् सत्वरमेव गत्वा ते प्रसादनीये, अन्यथा, सर्वमेव रहस्यं ते प्रकाशयिष्यत इति भावः॥ 20.132 ॥
उच्चैरुचेऽथ ता राजा सखीयमिदमाह वः।
श्रुतं मर्म ममैताभ्यां दृष्टं मर्म मयैतयोः॥ 20.133 ॥
अन्वयः–अथ राजा ताः उच्चैः ऊचे-वः इयं सखी इदम् आह-एताभ्यां मम मर्मश्रुतं, मया एतयोः मर्म दृष्टम्।
जीवातु–उच्चैरिति। अथ सखीनामुक्तवचनश्रवणानन्तरम्, राजा नलः, ताः सखीः, उच्चैः तारस्वरेण, तासां तदा दूरप्रयाणादिति भावः। ऊचे बभाषे। `उच्चैरवोचिरे राज्ञा’ इति पाठान्तरम्। किमिति? वः युष्माकम्, इयम् एषा सखी वयस्या दमयन्ती, इदं वक्ष्यमाणम्, आह वक्ति। किमिति? एताभ्यां कलातत्सखीभ्याम्, मम मे, मर्म रहस्यवृत्तान्तः, श्रुतम् आकर्णितम्, न तु दृष्टम्, मया भैम्या तु, एतयोः कलातत्सपक्षयोः, मर्म रहस्यम्, गोपनीयाङ्गमित्यर्थः। दृष्टं प्रत्यक्षीकृतम्, आर्द्रीभूतवस्त्राभ्यन्तरादिति भावः। श्रवणाद्दर्शनस्य अधिकविश्वास्यतया अहमपि सर्वमेव प्रकाशयितुं शक्ष्यामीति मर्मश्रवणात्तद्दर्शनं दुःसहमिति तात्पर्यम्॥ 20.133 ॥
मद्विरोधितयोर्वाचि न श्रद्धातव्यमेतयोः।
अभ्यषिञ्चदिमे माया-मिथ्यासिंहासने विधिः॥ 20.134 ॥
अन्वयः–मद्‌विरोधितयोः एतयोः वाचि न श्रद्धातव्यम्, विधिः इमे मायामिथ्यासिंहाने अभ्यषिञ्चत्।
जीवातु–मदिति। किञ्च, हे सख्यः! मया दमयन्त्या सह, विरोधितयोः सञ्जातवैरयोः, बहिष्करणानुमोदनात् शत्रुभावपन्नयोरित्यर्थः। एतयोसख्योः, वाचि वचने, न श्रद्धातव्यं न विश्वसितव्यम्, युष्माभिरिति शेषः। तथा हि-विधिः ब्रह्मा, इमे सख्यौ, माया कपटता, मिथ्या अनृतम्, तयोः सिंहासने भद्रासने, अभ्याषिञ्चत् जलवर्षणेन अभिषिक्तवान्, मिथ्याकपतटयोः आकरत्वेन कल्पितवानित्यर्थः। तस्मात् मयि मिथ्याचरणस्य सर्वथा सम्भावनासत्त्वात् एतयोः मिथ्याप्रलापो न श्रद्धेयः इति निष्कर्षः॥ 20.134 ॥
धौतेऽपि कीर्त्तिधाराभिश्चरिति चारुणि द्विषः।
मृषामषीलवैर्लक्ष्म लेखितुं के न शिल्पिनः?॥ 20.135 ॥
अन्वयः–कीर्त्तिधाराभि धौते चारुणे अपि द्विषः चरिते मृषामषीलवैः लक्ष्म लेखितुं के न शिल्पिनः?
जीवातु–धौतेऽपीति। कीर्त्तिधाराभिः यशःप्रवाहैः धौते विशुद्धे, अत एव चारुणि मनोहरेऽपि, द्विषः शत्रोः, चरिते स्वभावे, मॉषामषीलवैः मृषा मिथ्यादोषारोप एव, मषी `काली’ इति प्रसिद्धलेखनसाधनद्रव्यविशेषः।, तल्लवैः तद्बिन्दुभिः, अल्पत्वात् किञ्चिन्मात्रैरिति भावः। लक्ष्म कलङ्कम् लेखितुं चित्रतुम्, उत्पादयितुमिति यावत्। के, जना इति शेषः, न शिल्पिनः? शिल्पकुशलाः न? अपि तु सर्वेऽपि कुशलाः एवेत्यर्थः। भवन्तीति शेषः। मम शुभ्रे चरित्रेऽपि इमे मिथ्याकलङ्कम् अवश्यमेव आविष्कुर्यातामिति भावः॥ 20.135 ॥
ते सख्यावाचचक्षाते न किञ्चिद् ब्रूवहे बहु।
वक्ष्यावस्तत्परं यस्मै सर्वा निर्वासिता वयम्॥ 20.136 ॥
अन्वयः–ते सख्यौ आचचक्षाते-बहु किञ्चित् न ब्रूवहे, परं तत् वक्ष्यावः यस्मै वयं सर्वाः निर्वासिताः।
जीवातु–ते इति। ते सख्यौ कला तद्वयस्या च आचचक्षाते ऊचतुः; किमिति? बहु भुरि, किञ्चित् किमपि, न ब्रूवहे न कथयावः, आवामिति शेषः। परं केवलम्, तत् तत्प्रयोजनमात्रमेव, वक्षयवः कथयिष्यावः, यस्मै यत्प्रयोजनाय, वयं सर्वाः समस्ताः सख्यः, निर्वासिताः निष्कासिताः, गृहादिति शेषः। सुरतार्थम् एव युवाभ्यां वयं सर्वा एव निष्कासिता इत्येवं सर्वत्र वदिष्यावः, नान्यत् किञ्चेनेति तात्पर्यम्॥ 20.136 ॥
स्थापत्यैर्न स्म वित्तस्ते वर्षीयस्त्वचलत्करैः।
कृतामपि तथावाचि करकम्पेन वारणाम्॥ 20.137 ॥
अन्वयः–ते तथावाचि वर्षीयस्त्वचलत्करैः स्तापत्यैः करकम्पेन कृताम् अपि वारणां न वित्तः स्म।
जीवातु–स्थापत्यैरिति। ते कलातत्सख्यौ, वर्षीयत्वेन वृद्धत्वेन हेतुना। `प्रियस्थिरः-’ इत्यादिना वृद्धशब्दस्य ईयसुनि वर्षादेशः। चलत्करैः स्वभावत’ एव कम्पहस्तैः, स्थानां दाराणां पतयः पालकाः स्थपतयः, ते एव स्थापत्याः कञ्चुकिनः तैः। `सौविदल्लाः कञ्चुकिनः स्थापत्याः’ इत्यमरः। करकम्पेन हस्तचालनेन, कृतामपि विहितामपि, तथावाचि तादृशवाक्यप्रयोगे, वारणां निवारणम्, न वित्तः स्म न बुध्येते स्म। वारणाय कृते करकम्पे जराजन्यकम्पभ्रमादीति भावः॥ 20.137 ॥
अपयातमितो धृष्टे! धिग् वामश्लीलशीलताम्।
इत्युक्ते चोक्तवन्तश्च व्यतिद्राते स्म ते भियाः॥ 20.138 ॥
अन्वयः–धृष्टे, इतः अपयातम्, वाम् अश्लीलशीलतां धिक्,-इति क्उते भिया ते उक्तवन्तः च व्यतिद्राते स्म।
जीवातु–अपयातमिति। धृष्टे! हे प्रगल्भे! इतः अस्मात् देशात्, अपयातं बहिर्गच्छतम्, युवामिति शेषः। वां युवयोः, अश्लीलशीलतां, ग्राम्यभाषणस्वभावम्, धिक् निन्दामः, इति एवं, उक्ते कथिते, ते इति यावत्। कञ्चुकिभिरिति शेषः। ते कलातत्सख्यौ उभे, भिया भयेन, कञ्चुकिनां प्रहारादिति भावः। तथा इति इत्थम्, उक्तवन्तः कथितवन्तः, भर्त्सिवन्तः इति यावत्। ते कञ्चुकिनः, भिया राजदम्पत्योः क्रोधभयेन, व्यतिद्राते स्म परस्परव्यतिहारेण पलायेते स्म च, गृहस्य निभृतताविधानार्थमिति भावः। दा कुत्सायां गताविति धातोर्लटि `कर्तरि कर्मव्यतिहारे’ इत्यामनेपदम्, अदादित्वात् शपो लुक्। अत्र प्रथमपुरुषस्य द्विवचनबहुवचनयोः समानं रूपम्, एवं ते इत्यत्रापि शापो लुक्। अत्र प्रथमपुरुषस्य द्विवचनबहुवचनयोः समानं रूपम्, एवं ते इत्यत्रापि स्त्रियां द्वित्वे पुंसि बहुत्वे च समानरूपम्॥ 20.138 ॥
आह स्म तद्‌गिरा ह्रीणां प्रियां नतमुखीं नलः।
ईदृग्भण्डसखीकाऽपि निस्त्रपा न मनागपि॥ 20.139 ॥
अन्वयः–नलः तद्‌गिरा ह्रीणां नतमुखीं प्रियाम् आह स्म-ईदृग्भण्डसखीका अपि मनाक् अपि निस्त्रपा न।
जीवातु–आहेति। अथ नलः नैषधः, तयोः कलातत्सख्योः, गिरा `वक्ष्यावः तत्परम्’ इत्यादिकया वाचा, ह्रीणां लज्जिताम्, अत एव नतमुखीम् अवनतवदनाम्, प्रियां दमयन्तीम्, आह स्म उवाच। किमित्याङ्क्षायां सार्द्धश्लोकेनाह-ईदृशौ एवम्भूते भण्डे निर्लज्जे, सख्यौवयस्ये यस्याः सा तादृशी अपि ईदृग्भण्डखीकाऽपि। `नद्यृतश्च’ इति कप् समासान्तः। त्वमिति शेषः। मनाक् अपि ईषदपि, निस्त्रपा निर्लज्जा न, भवसीति शेषः। यस्याः खलु सख्यः एवं निर्लज्जाः, तस्यास्तवापि नैर्लज्ज्यमेव युज्यते, भवती तु न तादृशीति महांस्ते चरित्रोत्कर्षः इति भावः॥ 20.139 ॥
अहो! नापत्रपाकं ते जातरूपमिदं मुखम्।
नातितावार्जनेऽपि स्यादितो दुर्वर्णनिर्गमः॥ 20.140 ॥
अन्वयः–अहो, ते इदं जातरूपं मुखं नापत्रपाकम्, अतितापार्जने अपि इतः दुर्वर्णनिर्गमः न स्यात्।
जीवातु–अहो इति। जातरूपं जातं सम्भूतम्, रूपं सौन्दर्य यस्य तादृशम्, सम्पन्नसौन्दर्यम्, स्वर्मसदृशमित्यर्थः। सुवर्म च। `सुवर्णञ्चामीकरं जातरूपम्’ इत्यमरः। इदं दृश्यमानम्, ते तव, मुखं वदनम्, अपगता दूरीभूता, त्रपा लज्जा यस्मात् तत् अपत्रपम्। शैषिकः कप्प्रत्ययः। तत् न भवतीति नापत्रपाकं सलज्जमिति यावत्। नञर्थेन नः शब्देन समासः। दृश्यते इति शेषः। `लज्जा रूपं कुलस्त्रीणाम्’ इति नीतिसास्त्रात् सलज्जं ते वदनम्, अतीव रमणीयदर्शनं जातमिति निष्कर्षः। अन्यत्र-पत्रस्य पत्रीकृतस्य, कण्टकेवधयोग्यतनूकारितस्येत्यर्थः। यद्वा-पत्रे पात्रविशेषे इत्यर्थः। द्रवीकरणार्थ मृद्भाजनविशेषे इति यावत्। पाकः दग्धीकरणं द्रवीकरणं वा, विशुद्धितासम्पादनाय इति भाव। पत्रपाकः तद्रहितम् अपत्रपाकं न भवतीति नापत्रपाकं पत्रपाकविशुद्धमेवेत्यर्थः। अतितापार्जनेऽपि सखीकृतपरिहासजनितलज्जानिबन्धपीडाप्राप्तावपि, अत्यन्तदाहकरणेऽप च, इतः अस्मात् शोभनवर्णयुक्तात् मुकात् सुवर्णाच्च, दुर्वर्मनिर्गमः कर्कशवचननिर्गमः, श्यामिकानिर्गमश्च, न स्यादिति विरोधः, अत एव अहो! आश्चर्यम्! सखीकृतप्रबलदुःखोत्पातेऽपि मुखात् दुरक्षरनिर्गमनं न स्यादिति चित्रमिति विरोधपरिहारात् विरोधभासोऽलङ्कारः॥ 20.140 ॥
तामथैष हृदि न्यस्य ददौ तल्पतले तनुम्।
निमील्य च तदोयाङ्गसौकुमार्यमसिस्वदत्॥ 20.141 ॥
अन्वयः–अथ एषः तां हृदि न्यस्य तल्पतले तनुं ददौ निमील्य च तदीयाङ्गसौकुमार्यम् असिस्वदत्।
जीवातु–तामिति। अथ उक्तरूपभाषणानन्तरम्, एष नलः तां प्रियाम्, हृदि वक्षसि, न्यस्य निदाय, तल्पतले शय्योपरि, तनुं स्वदेहम्, ददौ स्थापितवान्, शयितवान् इत्यर्थः। तथा निमील्य चक्षुषी मुद्रयित्वा, इत्यानन्दानुभवोक्तिः। प्रगाञसुखानुभवकाले चक्षुर्निमीलनस्य लोकदृष्टत्वादिति बोध्यम्। तदीयाङ्गस्य प्रियाशरीरस्य, सौकुमार्यं मार्दवम्, असिस्वदत् अनुबभूव इत्यर्थः। स्वदेर्णौ चङ्युपधाह्रस्वः॥ 20.141 ॥
न्यस्य तस्याः कुचद्वन्द्वे मध्येनीवि निवेश्य च।
स पाणेः सफलं चक्रे तत्करग्रहणश्रमम॥ 20.142 ॥
अन्वयः–तस्याः कुचद्वन्द्वे न्यस्य मध्येनीवि च निवेश्य सः पाणेः तत्करग्रहणश्रमं सफलं चक्रे।
जीवातु–न्यस्येति। स नलः, तस्याः भैम्याः कुचद्वन्द्वे स्तनयुगे, न्यस्य निधाय, पाणिमिति शेषः। मध्येनीवि नीवीमध्ये, कटीवस्त्रबन्धनमध्ये इत्यर्थः। `पारे मध्ये षष्ठ्या वा’ इत्यव्ययीभावः। निवेस्य प्रवेश्य च, स्वपाणिमिति शेषः। पाणेः स्वकरस्य, तत्करग्रहणश्रमं दमयंतीपाणिग्रहणायासम्, सफलं सार्थकम् चक्रे विदधे। तादृग्विधः प्रियास्पर्शस्तस्य महादानंदफलमित्यर्थः॥ 20.142 ॥
स्थापितामुपरि स्वस्य तां मुदा मुमुदे वहन्।
तदुद्वहनकर्त्तृत्वमाचष्ट स्पष्टमात्मनः॥ 20.143 ॥
अन्वयः–मुदा स्वस्य उपरि स्थापितां तां वहन् मुमुदे, आत्मनः तदुद्धहन कर्तृत्वं स्पष्टम् आचष्ट।
जीवातु–स्थापितामिति। मुदा हर्षेण, स्वस्य आत्मनः, उपरि वक्षसि स्थापितां निहिताम्, तां प्रियाम्, वहन् धारथन्, मुमुदे आननंद, नलः इति शेषः। तथा आत्मनः स्वस्य, तस्याः भैम्याः, उद्वहने विवाहे, कर्त्तृत्वम् अधिकारित्वम् स्पष्टं सुव्यक्तम्, आचष्च कथयामास। अनुद्वहतः एवमुरसि वहनायोगादिति भावः॥ 20.143 ॥
स्विद्यात्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया।
फूत्कार्यपीडितौ चक्रे स सखीषु प्तियास्तनौ॥ 20.144 ॥
अन्वयः–सः प्रियास्तनौ स्विद्यात्कराङ्गुलीलुप्तकस्तूरीलेपमुद्रया सखीषु फूत्कार्यपीडितौ चक्रे।
जीवातु–स्विद्यदिति। सः नलः, प्रियायाः भैम्याः, स्तनौ कुचौ, स्विद्यन्तीभिः सत्त्वोदयात् धर्मोदकार्द्रीभवन्तीभिः, मृगमदकृतपत्रावलीत्यर्थः। सः एव मुद्रा चिह्नम्, स्तनपीडनविषये इति भावः। तथा, सखीषु वयस्यासु विषये, फूत्कार्यं फूत्कारेम उच्चैस्तमुखानिलेन प्रशमनीयम्, पीडितं पिडनम्, पीडनजनितवेदना इत्यर्थः। ययोः तौ तादृशौ फूत्कार्यपीडितौ, चक्रे विदधे। नलः भैमीकुचौ तथा पीडयामास, यथा नलस्य सात्त्विकभावोत्थधर्मोदकविलन्नाङ्गुलीभिः कुचयोः पत्रलेखाः प्रोञ्छिता जायन्ते, मुख्यश्च तद्‌ दृष्टवा प्रगाढपीडनेन कुचयोर्वेदनां तीव्रामनुमाय फूत्कारेण तां प्रशमयितुम् अयतिषत इति निष्कर्षः॥ 20.144 ॥
तत्कुचे नखमारोप्य चमत्कुर्वस्तयेक्षितः।
सोऽवादीत्तां हृदिस्थं ते किं मामभिनदेष न?॥ 20.145 ॥
अन्वयः–तत्कुचे नखम् आरोप्य चमत्कुर्वन् तया ईक्षितः सः ताम् अवादीत्-एषः ते हृदिस्थं किं मां न अभिनत्?
जीवातु–तदिति। स नलः, तत्कुचे दमयन्तीस्तने, नखं कररुहम्, आरोप्य निखाय, चमत्कुर्वन् स्वयमेव आश्चर्येण सजातरोमाञ्चो भवन्, तथा तया दमयन्त्या, ईक्षितः सस्मितमवलोकितश्च सन्, एष नखः, ते तव, हृदिस्थं हृदयान्तर्गतम्। `सुपि स्थः’ इति कप्रत्ययः, `हृद्युभ्याञ्च, इत्युपसङ्ख्यानात् सप्तम्याः अलुक्। मां नलम्, न अभिनत् न व्यदारयत्, किम्? अपि तु अभिनदेव। नो चेत् ममाङ्गेष्वपि कथं चमत्कारनिबन्धना रोमाञ्चाः समुत्पन्नो इति भावः। इति तां दमयन्तीम्, अवादीत् अकथयत्। अत्र भैमीकुचनिष्ठस्य नखक्षतस्य नलहृदये चमत्कारजननात् असङ्गत्यलङ्कारः, `कार्यकारणयोर्भिन्नदेशतायामसङ्गतिः’ इति लक्षणात्॥ 20.145 ॥
अहो! अनौचितीयं ते हृदि शुद्धेऽप्यशुद्धवत्।
अङ्क खलैरिवाकल्पि नखैस्तीक्षणमुखैर्मम॥ 20.146 ॥
अन्वयः–अहो, इयम् अनौचिती, खलैः इव मम तीक्ष्णमुखैः नखैः ते शुद्धे हृदि अपि अशुद्धवत् अङ्कः अकल्पि।
जीवातु–अहो इति। हे प्रिये! तीक्ष्णमुखैः निष्ठुरवाग्भिः, खलैरिव असज्जनैरि, तीक्ष्णमुखैः निशिताग्रैः, मम मे, नखैः कररुहैः, शुद्धे अदुष्टेऽपि, ते तव, हृदि हृदये, कुचे इति यावत्, अशुद्धवत् अशुद्धे इव, सदोषे इवेत्यर्थः। `तत्र तस्येव’ इति वतिप्रत्ययः। अङ्क कलङ्कः, चिह्नञ्च, अकल्पि कल्पितः कृत इत्यर्थः। अहो! इति खेदे, इयं निर्दोषेऽपि दोषकल्पना, अनौचिती अयुक्तम्, अभूदिति शेषः। अहो इति `ओत्’ इति प्रगृङ्यसंज्ञायां `प्लुलप्रगृह्या अचि नित्यम्’ इति प्रकृतिसन्धिः॥ 20.146 ॥
यच्चुम्बति नितम्बोरु यदालिङ्गनि च स्तनौ।
भुङ्क्ते गुणमयं तत्ते वासः शुभदशोचितम्॥ 20.147 ॥
अन्वयः–गुणमयं ते वासः यत् नितम्बोरू चुम्बति यत् च स्तनौ आलिङ्गति तत् शुभदशोचितं भुङ्क्ते।
जीवातु–यदिति। हे प्रिये! गुणमयं सूक्ष्मतन्तुरचितं शौशील्यादिविशिष्टञ्च, ते तव, वासः वसनं, कश्चित् सुभगपुरुषश्च। कर्त्तृ। नितम्बौ ऊरू च नितम्बोरू नितम्बद्वयं सक्थिद्वयञ्च। पाण्यङ्गत्वात् द्वन्द्वैकवद्भावः। यत् चुम्बति स्पृशति, ओष्ठाधरस्पृष्टं करोति च, यच्च स्तनौ कुचौ, आलिङ्गति आश्लिष्यति, तत् शुभदशानां शुभानां शोभनानाम्, दशानां प्रातन्तवर्त्तितन्तूनाम्, ज्योतिःशास्त्रप्रसिद्धशुक्रादिशुभग्राहावस्थानाञ्च, उचितम् अर्हम्, भुङ्क्ते एकत्र-स्पर्शरूपं भोगं करोति, सुदृश्यदशासमन्वितवस्यैव तव प्रियत्वेन तद्वारणादिति भावः। अन्यत्र-भोगात्मकं सुखमनुभवति, शुभग्रहाणां दृष्टि विना तव नितम्बादिस्पर्शरूपभोगासम्भवादिति भावः। `दशाऽवस्थादीपवर्त्त्योः वस्त्रान्ते भूम्नि योषिति’ इति मेदिनी। `शूभग्रहदशायां हि भुङ्क्ते जनः शुभं फलम्’ इति॥ 20.147 ॥
लीनचीनांशुकं स्वेदि दरालोक्यं विलोकयन्।
तन्नितम्बं स निःश्वस्य निनिन्द दिनदीर्घताम्॥ 20.148 ॥
अन्वयः–सः स्वेदि लीनचीनांशुकं दरालोक्यं तन्नितम्बम् आलोक्य निःश्वस्य दिनदीर्घतां निनिन्द।
जीवातु–लीनेति। सः नलः, स्वेदि सात्त्विकोदयात् धर्माक्तम्, अत एव लीनं नितम्बेन सह एकीभूतभावेन संलग्नम्, चीनांशुकं सूक्ष्मवस्त्रविशेषो यत्र सादृशम्, अत एव दरालोक्यम् ईषल्लक्ष्यम्, तस्याः भैम्याः नितम्बं श्रोणीदेशम्, विलोक्यन् पश्यन्, निःश्वस्य दीर्घ श्वासवायु त्यजन्, इति विषादानुभवोक्तिः, दिनस्य दिवसस्य, दीर्घताम् अधिकाकलं व्याप्य स्थायिताम्, निनिन्द गर्हयामास। दिवा सुरतनिषेधात् तत्करणाक्षमत्वाद् विषादं प्राप दिवावसानमभिललाष च इति भावः॥ 20.148 ॥
देशमेव ददंशासौ प्रियादन्तच्छदान्तिकम्।
चकाराधरपानस्य तत्रैवालीकचापलम्॥ 20.149 ॥
अन्वयः–असौ प्रियादन्तच्छदान्तिकं देशम् एव ददंश, तत्र एव अधरपानस्य अलीकचापलं चकरा।
जीवातु–देशमिति। असौ नलः, प्रियादन्तच्छदस्य भैम्याः अधरस्य, अन्तिकं समीपवर्तिनम्, देशं स्थानमेव, चिबुकमेवेत्यर्थः। ददंश दष्टवान्, तथा तत्रैव दष्टदेशे एव, अधरपानस्य निम्नौष्ठचुम्बनस्य, अलीकचापलं मिथ्याचपलताम्, निरर्थकप्रयासमित्यर्थः। चुम्बनशब्दतुल्यं शब्दमिति भावः। चकार विदधे। चुम्बनस्य रत्युद्दीपकत्वात् रमणाङ्गत्वाच्च दिवा च रममनिषेधात् तथा `रतिकाले भुखं स्त्रीणां शुद्धमाखेटके शुनाम्’ इति स्मृत्या तस्य कालान्तरे अशुद्धत्वाच्च न तु अधर चुचुम्ब इति भावः॥ 20.149 ॥
न क्षमे चपलापाङ्गि! सोढुं स्मरशरव्यथाम्।
तत् प्रसीद प्रसीदेति स तां प्रीतामकोपयत्॥ 20.150 ॥
अन्वयः–चपलापाङ्गि, स्मरशरव्यथां सोढुं न क्षमे, तत् प्रसोद प्रसीदइति सः प्रीतां ताम् अकोपयत्।
जीवातु–अथास्य कालक्षेपत्वलक्षणमोत्सुक्यमेव श्लोकद्वयेनाह-नेत्यादि। चपलापाङ्गि! हे चञ्चलाक्षि! स्मरशरैः कामबाणैः, या व्यथा वेदना तां तत्कृतां पीडाम्, सोढुं क्षन्तुम्, न क्षमे न शक्तनोमि। तत् तस्मात्, प्रसीद प्रसीद प्रसन्ना भव प्रसन्ना भव, सुरताय सदया भव इति भावः। इत्येवमुक्त्वा, सः नलः, प्रीतां परिहासादिभिः प्रियवाक्यशतेन च मुदिताम् अपि, तां प्रियाम्, अकोपयत् अक्रोधयत्, दिवा मैथुनस्य निषिद्धत्वात् तत्प्रार्थनया कोपः इति बोध्यम्, तादृशभावश्च कालक्षेपायैव इत्यपि मन्तव्यम्॥ 20.150 ॥
नेत्रे निषधनाथस्य प्रियाया वदनाम्बुजम्।
ततस्स्तनतटौ ताभ्यां जघनं घनमीयतुः॥ 20.151 ॥
अन्वयः–निषधनाथस्य नेत्रे प्रियायाः वदनाम्बुजं ततः स्तनतटौ ताभ्यां घनं जधनम् ईयतुः।
जीवातु–नेत्रे इति। निषधनाथस्य नलस्य, नेत्रे दृशौ, प्रियायाः कान्तायाः, वदनाम्बुजं मुखकमलम्, ईयतुः, ताभ्यां स्तनतटाभ्यां समीपात्, घनं निबिडम्, जघनं नितम्बम्, ईयतुः। अतीत कामपीडितत्वादिति सर्वत्र भावः। अत्र नेत्रयोः क्रमात् अनेकस्थानसंवादात् `क्रमेणकमनेकस्मिन्’ इत्याद्युक्तलक्षणपर्यायालङ्कारः॥ 20.151 ॥
इत्यधीरतया तस्य हठवृत्तिविशङ्किनी।
झटित्युत्थाय सोत्कण्ठमसावन्वसरत् सखीः॥ 20.152 ॥
अन्वयः–इति तस्य अधीरतया हठवृत्तिविशङ्किनी असौ झटिति उत्थाय सोत्कण्ठं सखीः अन्वसरत्।
जीवातु–इतीति। इति उक्तप्रकारया, तस्य स्वप्रियस्य नलस्य, अधीरतया कामजचाञ्चल्येन हेतुना, हठवृत्तिं बलात्कारप्रवृत्तिम्, विशङ्कते सम्भावयतीति सा तादृशी, असौ भैमी, झटिति सहसा, उत्थाय उद्‌गम्य, नलवक्षोदेशादिति भावः। सोत्कण्ठं सोत्कलिकम्, त्वरितप्रस्थानार्थमुत्सुका सतीत्यर्थः। सखीः वयस्याः, अन्वसरत् अन्वगच्छत्॥ 20.152 ॥
न्यवारीच यताशक्ति स्पन्दं मन्दं वितन्वता।
भैमी कुचनितम्बेन नलसम्भोगलोभिना॥ 20.153 ॥
अन्वयः–नलसम्भोगलोभिना कुचनितम्बेन स्पन्दं मन्दं वितन्वता भैमी यथाशक्ति न्यवारि इव।
जीवातु–न्यवारीवेति। भैमी दमयंती, नलस्य नैषधस्य, सम्भोगलोभिना मर्दनस्पर्शनादिरूपसम्भोगलालसेन, कुचनिम्तबेन स्तनद्वयेन जघनयुग्मेन च। प्राण्यङ्गत्वादेकवद्भावः। अतएव स्पन्दं भैम्या एव गमनम्, मन्दं मन्थरम्, स्वल्पीभूतमित्यर्थः। वितन्वता कुर्वता सता, गतिं प्रतिबध्नता इत्यर्थः। आत्मनोरतिपीनत्वेन गुरुभारत्वादिति भावः। यथाशक्ति सामर्थ्यानुसारेण; यावारीव निवारिता, सम्भोगप्रतिबन्धात् खिन्नेन सता अलब्धभोगा ना गच्छ इति न्यषेधीव इत्युत्प्रेक्षा॥ 20.153 ॥
अपि श्रोणिभरस्वैरां धर्त्तु तामशकन्न सः।
तदङ्गसङ्गजस्तम्भो गजस्तम्भोरुदोरपि॥ 20.154 ॥
अन्वयः–गजस्तम्भोरूदोः अपि तदङ्गसङ्गजस्तम्भः सः श्रोणिभरस्वैराम् अपि तां धर्तुं न अशकत्।
जीवातु–अपीति। सः नलः, गजस्तम्भौ आलाने इव, हस्तिबन्धनस्थूणेः इवेत्यर्थः। उरू महान्तौ, दोषौ भुजौ यस्य सः तादृशोऽपि महामुजोऽपि। `भुजवाहू प्रवेष्टो दोः’ इत्यमरः। तस्याः दमयंत्याः, अङ्गसङ्गात् देहस्पर्शात् जायते उत्पद्यते इति तादृशः, स्तम्भः निष्क्रियाङ्गतालक्षमसात्त्विकविकारः यस्य सः तादृशः सन्, श्रोणिभरेण नितम्बभारेण स्वैरां मन्दां मन्दगमनामपि इत्यर्थः। `मन्दस्वच्छन्दयोः स्वैरम्’ इत्यमरः। तां प्रियाम्, धर्त्तु ग्रहीतुम्, निरोद्‌धुमिति यावत्। न अशक्त् न समर्थोऽभूत् । स्वयं निर्व्यापारस्य किं सहकारिसम्पदा? इति भावः॥ 20.154 ॥
आलिङ्गालिङ्ग तन्वङ्गि! मामित्यर्द्धगिरं प्रियम्।
स्मित्वा निवृत्य पश्यन्ती द्वारपारमगादसौ॥ 20.155 ॥
अन्वयः–`तन्वङ्गि, माम् आलिङ्ग आलिङ्ग’,–इति अर्द्धगिरं प्रियं स्मित्वा निवृत्य पश्यन्ती असौ द्वारपारम् अगात्।
जीवातु–आलिङ्गेति। असौ भैमी, तन्वङ्गि! हे कृशाङ्गि। मां नलम् आलिङ्ग आलिङअग आश्लिष आश्लिष, इति एवम्, अर्द्धा अन्यकर्त्तृकश्रवणभयात् अर्द्धस्फुटा, गीः वाक् यस्य तं तादृशम्, प्रियं पतिम्, स्मित्वा मन्दं हसित्वा, निवृत्य, परावृत्य, गतवती अवलोकयन्ती सती, द्वारस्य कपाटस्य, पारं चरमभागम्, अगात् गतवती। द्वारम् अतिचक्राम इत्यर्थः॥ 20.155 ॥
प्रियस्याप्रियमारभ्य तदन्तर्दूनयाऽनया।
शेके शलीनयाऽऽलिभ्यो न गन्तुं न निवर्त्तितुम्॥ 20.156 ॥
अन्वयः–प्रियस्य अप्रियम् आरभ्य तद्तर्दूनया, शालीनया अनया न अलिभ्यः गन्तुं शेके, न निवर्त्तितुम्।
जीवातु–प्रियस्येति। प्रियस्य पत्युः नलस्य, अप्रियम् अतिक्रमरूपम् अप्रीतिजनकव्यापारम्, तं विहाय गमनरूपव्यापारमित्यर्थः। आरभ्य आचरित्वा, तेन अप्रयिचरणेन, तदित्यत्र `तम्’ इति पाठे-तं पूर्वोक्तरूपमप्रियमित्यर्थः। अन्तः अन्तः करणे, दूनया परितप्तया। `ओदितश्च’ इति निष्ठा `न’-त्वम्। शालीनया अधृष्टया, स्वबावत एव सलज्जया इत्यर्थः। अनया भैम्या, आलिभ्यः सखीभ्या, गन्तुम् अपि यातुमपि। `गत्यर्थकर्मणि द्वितीयाचतुर्थ्यौ चेष्टायामनध्वनि’ इति चतुर्थी। न शेके न शक्तम्। भावे लिट्। अन्तर्दूनत्वादिति भावः। तथा निवर्त्तितुं प्रियं प्रत्यागन्तुञ्च, प्रियसन्निधौ प्रत्यावर्त्तनं कर्त्तुमित्यर्थः। न शेके इत्यनेनान्वयः। शालीनतयैवेति भावः। लज्जाविषादाभ्याम् उभयत आकृष्यमाणत्वादिति तात्पर्यम्॥ 20.156 ॥
अकथयदथ वन्दिसुन्दरी द्वाःसविधमुपेत्य नलाय मध्यमह्नः।
जय नृप! दिनयौवनोष्मतप्ता प्लवनजलानि पिपासति क्षितिस्ते॥ 20.157 ॥
अन्वयः–अथ वन्दिसुन्दरी द्वाःसविघम् उपेत्य नलाय अकथयत्-नृप् जय, अह्नः मध्यम्, दिनयौवनोष्मतप्ता क्षितिः ते प्लवनजलानि पिपासति।
जीवातु–अकथयदिति। अथ दमयन्तीनिर्गमनानन्तरम्, वन्दिसुन्दरी काचित् वैतालिकस्त्री, शुद्धान्तःपुरे पुरुषप्रवेशनिषेधादिति भावः। द्वाः सविधं द्वारसमीपम्, उपेत्य समागत्य, नृप! हे राजन्! जय सर्वोत्कर्षेण वर्त्तस्व, अह्नः मध्यं मध्याह्नकालः समागत इत्यर्थः। अत एव दिनस्य दिवसस्य, यौवनं तारुण्यम्, पूर्णावस्था इत्यर्थः। मध्याह्नः इति यावत्। तस्य उष्मणा सन्तापेन, तप्ता उष्णीभूता, क्षितिः धरणी, ते तव, प्लवनजलानि स्नानोदकानि, पिपासति पातुमिच्छति, तापस्य पिपासाहेतुत्वादिति भावः। इति नलाय नैषधाय, अकथयत् अवदत्, माध्याह्निकस्नानकालोऽयमवधार्यतामिति तात्पर्यार्थः॥ 20.157 ॥
उपहृतमधिगङ्गमम्बु कम्बुच्छवि तव वाञ्छति केशभङ्गिसङ्गत्।
अनुर्भावतुमनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशोभाम्॥ 20.158 ॥
अन्वयः–अधिगङ्गम् उपहृतं कम्बुच्छवि अम्बु तव केशभङ्गिसङ्गात् अनन्तरं तरङ्गासमशमनस्वसृमिश्रभावशेभाम् अनुभवितुं वाञ्छति।
जीवातु–उपेति। किञ्च, कम्बुच्छवि शङ्खच्छायम्, शङ्खवत् शुभ्रप्रभमित्यर्थः। अधिगङ्गं गङ्गायाः। विभक्त्यर्थेऽव्ययीभावः। उपहृतम् आनीतम्, कलशेन गङ्गातः समानीतमित्यर्थः। अम्बु गाङ्गं जलम् इत्यर्थः। तव ते, केशभङ्ग्याः कुटिलकृष्णकुन्तलजालस्य, सङ्गात् स्पर्शात् अनन्तरं सङ्गात् परमित्यर्थः। तरङ्गैः ऊर्मिभिः, असमायाः विषमायाः, निम्नोन्नतायाः इत्यर्थः। शमनस्वसुः अतिकृष्णायाः यमुनायाः, मिश्रभावस्य मेलनस्य, शोभां सौन्दर्यम्, अनुभवितुं प्राप्तुम्, वाञ्छति इच्छति। शुभ्रगङ्गाजलमध्ये कुटिलकृष्णकेशकलापं निमज्जय स्नानं करु, ततश्च शुभ्रतरस्य गाङ्गजलस्य कृष्णतरकेशपाशसङ्गेप्रयागजलशोभा भविष्यतीति भावः। निदर्शनालङ्कारः॥ 20.158 ॥
तपति जगत एव मूर्द्ध्नि भूत्वा रविरधुना त्वमिवाद्‌भूतप्रतापः।
पुरमथनपुपास्य पश्य पुण्यैरधरितमेनमनन्तरं त्वदीयैः॥ 20.159 ॥
अन्वयः–अधुना अद्‌भुतप्रतापः रविः जगतः मूर्द्ध्नि एव भूत्वा त्वम् इव तपति, अनन्तरं पुरमथनम् उपास्य त्वदीयैः पुण्यैः अधरितम् एनं पश्य।
जीवातु–तपतीति। त्वम् इव भवानिव अद्‌भुतप्रतापः आश्चर्यतेजःसम्पन्नः एकत्र-कोषदण्डजप्रभावशाली, अन्यत्र-मध्याङ्नकालिकप्रखरकरसम्पन्न इत्यर्थः। रविः सूर्यः, अधुना इदानीम्, जगतः पृथिव्याः, मूर्द्ध्नि एव शिरसि एव, आकाशस्य उपर्यवेति यावत्, भूत्वा स्थित्वा, तपति सन्तापं ददाति, एकत्रदुर्जनान् शास्ति, अन्यत्र-जगन्ति सन्तापयतीत्यर्थः। तदनन्तरं ततश्च स्नानोत्तरकालम्, पुरमथनं शिवम्, उपास्य अर्चयित्वा, त्वदीयैः पुण्यैः तव सेवासुकृतैः, इवेति शेषः। अधरितं मस्तकोपरिभागात् च्यावितम्, तदा मध्याह्नापगमात् अधस्तात् गतमित्यर्थः। एनं रविम्, पश्य अवलोकय, प्रणामार्थमिति भावः। पुरहरप्रसादात् सूर्याभ्यधिकप्रतापो भविष्यसि इत्यर्थः॥ 20.159 ॥
आनन्दं हठमाहरन्निव हरध्यानार्चनादिक्षणस्यासत्तावपि भूपतिः प्रियमाविच्छेदखेदालसः।
पक्षद्वारदिशं प्रति प्रतिमुहुर्द्राङ् निर्गतप्रेयसीप्रत्यावृत्तिधिया दिशन् दृशमसौ निर्ग्तुमुत्तस्थिवान्॥ 20.160 ॥
अन्वयः–हरध्यानार्चनादिक्षमस्य आस्त्तौ अपि प्रियतमाविच्छेदखेदालसः द्राङ्निर्गतप्रेयसीप्रत्यावृत्तिधिया पक्षद्वारदिशं प्रति प्रतिमुहुः दृशं दिशन् हठम् आनन्दम् आहरन् इव असौ भूपतिः निर्गन्तुम् उत्तस्तिवान्।
जीवातु–आनन्दमिति। हरस्य शिवस्य, ध्यानार्चनादिक्षणस्य मनःसमाधानपूर्वकचिन्तापूजादिसमयस्य। आसत्तौ समीपवर्त्तित्वेऽपि, प्रियतमाविच्छेदखेन प्रेयसीवियोगदुःखेन, अलसः चडः, कर्त्तव्यविमुख इत्यर्थः। असौ अयम्, भूपतिः राजा नलः द्राक् झटिति, निर्गतायाः निष्क्रान्तायाः, प्रेयस्याः प्रियतमाया भैम्याः, प्रत्यावृत्तिधिया पुनरागमनुबुद्ध्या, पक्षद्वारदिशं प्रतिपार्श्ववर्त्तिकपाटप्रदेशमुद्‌दिश्य, तेनैव द्वारेण प्रत्यागमनसम्भवादिति भावः। प्रतिमुहुः पुनः पुनः, दृशं दृष्टिम्, दिशन् व्यापारयन्, हठं बलपूर्वकं यथा तथा, स्वत एव आनन्दलाभासम्भवादिति भावः। आनन्दं प्रेयसीमागमहर्षम्, आहरन् इव परावर्त्तयन् इव, निर्गन्तु गृहात् निर्यातुम् उत्तस्थिवान् शय्यातः उज्जगाम॥ 20.160 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
अन्याक्षुण्णरसप्रमेयभणितौ विंशस्तदीये महाकाव्येऽयं व्यगलन्नलस्य चरिते सर्गो निसर्गोज्ज्वलः॥ 20.161 ॥
अन्वयः–पूर्वार्द्ध पूर्ववत्। अन्याक्षुण्णरसप्रमेयभणीतौ तदीये महाकाव्ये नलस्य चरिते अयं निसर्गोज्ज्वलः विशः सर्गः व्यगलत्।
जीवातु–श्रीहर्षमिति। अन्यैः अपरैः, अक्षुण्णाः अस्पृष्टाः पूर्वम् अनालोचिता इत्यर्थः। रसाः श्रृङ्गारादयः, प्रमेयाः वाक्यार्थाश्रयाः, यासु भणितिषु वाक्येषु तस्मिन्। `तृतीयादिषु भाषितपुंस्कं पुंवत्’ इत्यादिना पुंवद्भावः। तदीये श्रीहर्षकृते, महाकाव्ये। विंशतीति पूरणे डटि, `ति विंशतेः’ ति-शब्दस्य लोपः। गतमन्यत्॥ 20.161 ॥नैषधीय चरिते विंशः सर्गः समाप्तिमितः।

****************************************************************************

.

एकविंशः सर्गः

तं विदर्भरमणीमणिसौधादुज्जिहानमनुदर्शितसेवैः।
अर्पणान्निजकरस्य नरेन्द्रैरात्मनः करदता पुनरूचे॥ 21.1 ॥
अन्वयः–विदर्भरमणीमणिसौधात् उज्जिहानं तम् अनुदर्शितसेवैः नरेन्द्रैः निजकरस्य अर्पणात् आत्मनः करदता पुनः ऊचे।
जीवातु–तमिति। विदर्भरमण्या वैदर्भ्या दमयन्त्याः, मणिसौधाद् रत्नमयप्रासादात्, उज्जिहानं निर्गच्छन्तम्,तं नलम्, अनु प्रति, तं लक्ष्यीकृत्य इत्यर्थः। दर्शितसेवैः दर्शिता अन्तःपुरद्वारि प्रमाणादिना विज्ञापिता, सेवा आराधना, आनुगत्यमित्यर्थः, यैः तैः। अनोर्लक्षणार्थे कर्मप्रवचनीयत्वात्तद्योगे द्वितीया। नरेन्द्रैः अधीनराजन्यवर्गैः, निजकरस्य स्वस्वहस्तस्य, अर्पणात् दानात्, सोपानावतरणसमये नलाय हस्तावलम्बनदानादित्यर्थः। आत्मनः स्वस्य, करं हस्तं बलिं च ददातीति करदः। `बलिहस्ताशवः कराः’ इत्यमरः। तस्य भावः तत्ताः पुनः भूयोऽपि, बलिदानादेव करदत्वे सिद्धे पुनर्हस्तदानेन करदता इति पुनरुक्तिरिति भावः। ऊचे बभाषे। एतेन नलस्य चक्रवर्त्तित्वं द्योत्यते॥ 21.1 ॥
तस्य चीनसिचयैरपि बद्धा पद्धतिः पदयुगात् कठिनेति।
तां प्यधत्त शिरसां खलु माल्यै राजराजिरभितः प्रणमन्ती॥ 21.2 ॥
अन्वयः–अभितः प्रणमन्ती राजराजिः चीनसिचयैः बद्धा अपि पद्धतिः पदयुगात् कठिना-इति तां शिरसां माल्यैः खलु प्यधत्त।
जीवातु–तस्येति। राजराजिः सामन्तनृपपङ्‌क्तिः, अभितः समन्तात्, प्रणमन्ती आभूमि शिरो नमयन्ती सती, चीनसिचयैः चीनदेशीयपट्टवस्त्रैः, बद्धा आच्छादिता अपि, पद्धतिः मार्गः, तस्य नलस्य, पदयुगात् चरमयुगलात्, कठिना कठोरा, इति हेतोः। `पञ्चमी विभक्तेः’ इति पञ्चमी। तां पद्धतिम्, शिरसां मूद्‌र्ध्नाम्, माल्यैः मालाभिः साधनैः, प्यधत्त पिहितवती, खलु इति उत्प्रेक्षायाम्। पदयुगलादपि भूमेः कठिनत्वात् तत्र पदविन्यासे वेदनाप्राप्तिसम्भवादिति भावः॥ 21.2 ॥
द्रागुपाह्रियत तस्य नृर्पस्तद्‌दृष्टिदानबहुमानकृतार्थैः।
स्वस्वदिश्यमथ त्नमपूर्वं यत्नकल्पितगुणाधिकचित्रम्॥ 21.3 ॥
अन्वयः–अथ तद्‌दृष्टिदानबहुमानकृतार्थैः नृपैः स्वस्वदिश्यं यत्नकल्पितगुणाधिकचित्रम् अपूर्वं रत्नं द्राक् तस्य उपाह्रियत।
जीवातु–द्रागिति। अथ प्रमामानन्तरम्, तस्य नलस्य, दृष्टिदानम् अक्षिनिक्षेप एव, तेषु नृपेषु तदानीतरत्नेषु च इति भावः। बहुमानः समादरः, तेन कृतार्थैः सफलश्रमैरित्यर्थः। नृपैः सामन्तराजभिः, स्वेषां स्वेषां दिशि भव स्वस्वदिश्यं निजनिजदेशोत्पन्नम्। `तत्र’ इति यत्-प्रत्ययः। यत्नेन समादरेण, कल्पितैः शणघर्षणादिना सम्पादितैः, गुणैः औज्ज्वल्यसुदृस्यत्वादिधर्मैः, अधिकं प्रकृष्टम्, श्रेष्ठमित्यर्थः। चित्रम्, आश्चर्यम्, अपूर्वं पूर्वं केनाप्यप्राप्तम्, रत्नं मणिः, तस्य नलस्य सम्बन्धे, द्राक् शीघ्रम्, स्वमतिक्रम्य गमनसम्भावनया इति भावः। उपाह्रियत उपायनीकृतम्॥ 21.3 ॥
अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम्।
रत्नमन्यनृपढौकितमन्ये तत्प्रसादमलभन्त नृपास्तत्॥ 21.4 ॥
अन्वयः–अन्ये नृपाः अङ्गुलीचलनलोचनभङ्गिभ्रूतरङ्गविनिवेदितदानम् अन्यनृपढौकितं तत् रत्नं तत्प्रसादम् अलभन्त।
जीवातु–अङ्गुलीति। अन्ये अपरे, नृपाः राजानः, अंगुलीचलनेन अङ्गुलीकम्पनेन, अङ्गुलीनिर्देशेनेत्यर्थः। लोचनभङ्ग्या नेत्रसङ्केतेन, भ्रूतरङ्गेण भ्रुवोश्चालनेन च, विनिवेदितं विज्ञापितम्, दानं त्यागः यस्य तत् तथोक्तम्, अन्यैः अपरैः, नृपैः राजभिः, ढौकितम् उपहृतम्, तत् पूर्वोक्तं रत्नम्, तस्य नलस्य, प्रसादम् अनुग्रहस्वरूपम्, अलभन्त प्राप्नुवन्। एकस्मात् लब्धं रत्नजातम् अन्यस्मै प्रदत्तं, न तु कोषागारे निक्षिप्तम् इति अस्य दातृत्वम् अनुजीवितोषणं विवेकित्वञ्चोक्तम्॥ 21.4 ॥
तानसौ कुशलसूनृतसेकैस्तर्पितानथ पितेव विसृज्य।
अस्त्रशस्त्रखुरलीषु विनिन्ये शैष्यकोपनमितानमितौजाः॥ 21.5 ॥
अन्वयः–अथ अमितौजाः असौ कुशलसूनृतसेकैः तर्पितान् तान् विसृज्य शैष्यकोपनमितान् पिता इव अस्त्रशस्त्रखुरलीषु विनिन्ये।
जीवातु–तानिति। अथ उपहारग्रहणदानानन्तरम्, अमितम् अतुलनीयम्, ओजः तेजः यस्य तादृशः असौ नलः, कुशलस्य कुशलप्रश्नस्य, सूनृतस्य सत्यप्रयवचनस्य च, पीयूषरूपस्येति भावः। सेकैः वर्षणैः, उक्तिभिरित्यर्थः। तर्पितान् प्रीणितान्, तान् नृपान्, विसृज्य सम्प्रेष्य, गमनाय अनुमत्य इत्यर्थः। शैष्यकेण शिष्यत्वेन। `योपधाद्‌गुरुपोत्तमाद्‌वुञ्’ उपनमितान् समेतान्, युद्धशिक्षार्थं शिष्यभावेन समागतानित्यर्थः। नृपानिति शेषः। पितेव जनक इव, अस्त्रेषु धनुरादिषु, शस्त्रेषु खाड्गदिषु, खुरलीषु भ्रमणविशेषेषु, अस्त्रशस्त्राणां खुरलीषु प्रयोगसंहारविषयेषु इति वा, विनिन्ये शिक्षितवान्॥ 21.5 ॥
मर्त्त्यदुष्प्रचरमस्त्रविचारञ्चारु शिष्यजनतामनुशिष्य।
स्वेदबिन्दुकितगोधिरधीरं स श्वसन्नभवदाप्लवनेच्छः॥ 21.6 ॥
अन्वयः–मर्त्त्यदुष्प्रचारम् अस्त्रविचारं शिष्यजनतां चारु अनुशिष्य स्वेदबिन्दुकितगोधिः अधीरं श्वसन् सः आप्लवनेच्छुः अभवत्।
जीवातु–मर्त्त्येति। सः नलः, मर्त्त्येषु मनुष्यलोकेषु, दुष्प्रचरम् अविद्यमानप्रसरम्, अस्त्रविचारम् अस्त्रशिक्षाम्, शिष्यजनतां शिषअयभूतनृपसमूहम्, चारु सुष्ठु यथा भवति तथा, अनुशिष्य शिक्षयित्वा, स्वेदेन धर्मोदकेन, बिन्दुकितः स्ञ्जातबिन्दुकः, गोधिः ललाट यस्य सः तादृशः सन्। `ललाटमलिकं गोधिः’ इत्यमरः अधीरम् अस्थिरं यथा भवति तथा, श्वसन् श्रमजनितदीर्घश्वासं त्यजन्, आप्लवनं स्नानम्, तदिच्छुः तदभिलाषी, अभवत् अजायत॥ 21.6 ॥
यक्षकर्दममृदून्मृदिताङ्गं प्राक्कुरङ्गमदमीलितमौलिम्।
गन्धवार्भिरनुबन्धितभृङ्गैरङ्गना सिषिचुरुच्चकुचास्तम्॥ 21.7 ॥
अन्वयः–प्राक् यक्षकर्दममृदून्मृदिताङ्गं कुरङ्गमदमीलितमौलिं तम् अनुबन्धितभृङ्गैः गन्धवार्भिः उच्चकुचाः अङ्गनाः सिषिचुः।
जीवातु–यक्षेति। उच्चाः उन्नताः, कुचा स्तना यसां तादृश्यः, अङ्गनाः स्त्रियः, प्राक् प्रथमम्, यक्षकर्दमेन कर्पूरादियोगजेन सुगन्धिस्नानीयचूर्णेन। `कर्पूरागुरुकस्तूरीकक्कोलैर्यक्षकर्दमः’ इत्यमरः। मृदु कोमल यथा तथा, उन्मुदितं शोधितम्, अङ्ग शरीरं यस्य तं तादृशम्, तथा कुरङ्गमदेन कस्तूर्या, मीलितः सम्बन्धं प्रापितः, लिप्त इति यावत् मौलिः मस्तकः यस्य तं तादृशम्, तं नलम्, अनुबन्धिताः अनुबन्धं गमिताः, स्वसौगन्धात् संयोगं प्रापिता इत्यर्थः। भृङ्गाः भ्रमराः येषु तैः तादृशैः, गन्धवार्भिः गन्धोदकैः साधनैः, सिषिचुः सिक्तवत्यः स्नपयामासुरित्यर्थः॥ 21.7 ॥
भूभृतं पृथुतपोधनमाप्तस्तं शुचिः स्नपयति स्म पुरोधाः।
सन्दधज्जलधरस्खलदोधास्तीर्थवारिलहरीरुपरिष्टात्॥ 21.8 ॥
अन्वयः–जलधरस्खलदोधाः तीर्थवारिलहरीः उपरिष्टात् सन्दधत् आप्तः शुचिः पुरोधाः पृथुतपोधनं भूभृतं स्नपयति स्म।
जीवातु–भूभृतमिति। तदनन्तरं आप्तः विश्वस्तः शुचिः शुद्धः पुरोधाः पुरोहितः, जलधरात् जलपूर्णघटात्, स्खलन् पतन्, ओधः प्रवाहः यासां ताः तादृशीः, तीर्थवारीणां गङ्गादितीर्थोदकानाम्, लहरीः तरङ्गान् धारा इति यावत्, उपरिष्टात् मस्तकोपरिभागे। `उपर्युपरिष्टात्’ इति निपातनात् साधुः। सन्दधत् सन्धानः सन्, वर्षयन् सन् इत्यर्थः। पृथुना महता, तपसा तपस्यया, धनं परिपूर्णम्, भूभृतं राजानम्, तं नलम् स्नपयति स्म अभिषिञ्चति स्म, स्नापितवान् इत्यर्थः। अन्यत्र-आप्तः प्राप्तः, शुचिः आषाढाः `शुचिः शुद्धेऽनुपहते श्रृङ्गाराषाढयोरपि’ इति विश्वः। जलधरेभ्यः मेघेभ्यः, स्खलन् पतन्, ओधः प्रवाहो यासां ताः तथोक्ताः, तीर्थवारिलहरीः पूतजलप्रवाहान्, उपरिष्टात् मस्तकोपरि, सन्दधत् सन्धानः, वर्षयन् सन् इत्यर्थः। पृथो तदाख्यस्य वेणपुत्रस्य नृपक्षभेदस्य, `पृथुः स्तात् महति त्रिषु। त्वक्‌पत्र्यां कृष्णजीरेऽस्त्री पुमानग्नौ नृपान्तरे॥’ इति मेदिनी। तपसा तपस्याप्रभावेण; धनम् अशिथिलम्, दृढमित्यर्थः। तं प्रसिद्धं, भूभृतं भूमिधरं, हिमालयादिपर्वतमित्यर्थः। `भूभृद् भूमिधरे नृपे’ इति विश्वः। स्नपयति स्म। अङ्गनाः सामान्यजलेन पुरोधाः समन्त्रकतीर्थोदकेन तं स्नपयति स्म इति बोद्धव्यम्। अत्र द्वितीयार्थस्य प्रकृते अपर्यवसानाद् उपमाध्वनौ पर्यवसानं ज्ञेयम्॥ 21.8 ॥
प्रेयसीकुचवियोगविर्भुग्जन्मधूमवितीरिव बिभ्रत्।
स्नायिनः करसरोरुहयुग्मं तस्य गर्भधृतदर्भमराजत्॥ 21.9 ॥
अन्वयः–स्नायिनः तस्य गर्भधृतदर्भं करसरोरुहयुग्मं प्रेयसीकुचवियोगहविर्भुग्जन्मधूमविततीः बिभ्रत् इव अराजत्।
जीवातु–प्रेयसीति। स्नायिनः मन्त्रवज्जलेन स्नानं कुर्वतः, तस्य नलस्य, गर्भे अभ्यन्तरे करतले इत्यर्थः, धृतानि गृहीतानि, दर्भाणि कुशाः येन तत् तादृशम्, स्नानकाले कुशग्रहणस्य शास्त्रीयत्वादिति भावः। यद्वा-स्नायिनः कृतस्नानस्य, तस्य नलस्य गर्भेमध्यमाकनिष्ठयोरन्तराले, अनामिकायामित्यर्थः। धृतः परिहितः इत्यर्थः। दर्भः कुशः, कुशाङ्गुरीयको येन तत्तादृशम्, करयोः पाण्योः एव, सरोरुहयोः कमलयोः, युग्मं द्वयम्, प्रेयस्याः दमयन्त्याः, कुचयोः स्तनयोः, वियोगहविर्भुजः विरहवह्नेः, जन्म सम्भवः यस्य तथाभूतस्य, धूमस्य, विततीः सन्ततीः, बिभ्रदिव धारयदिव, अराजत् अशेभत। नृतनदर्भाणां श्यामवर्णत्वात् धूमसाम्यमिति बोध्यम्॥ 21.9 ॥
कल्प्यमानममुनाऽऽचमनार्थं गाङ्गमम्बु चुलुकोदरचुम्बि।
निर्मलत्वमिलितप्रतिबिम्बां द्यामयच्चदुपनीय करे नु?॥ 21.10 ॥
अन्वयः–अमुना आचमनाथं कल्प्यमानं चुलुकोदरचुम्बि गाङ्गम् अम्बु निर्मलत्वमिलितप्रतिबिम्बां द्यां करे उपनीय नु अयच्छत्।
जीवातु–कल्प्यमानमिति। अमुना नलेन, आचमनार्थम् उपस्पर्शनार्थम्, कल्प्यमानं गृह्यमाणम्, अत एव चुलुकस्य प्रसृतस्य, निकुब्जपाणेरित्यर्थः। उदरं मध्यम्, चुम्बात स्पृशतीति तादृशम्, गाङ्गं गह्गासम्बन्धि, अम्बु जलम्। कर्त्तृ। निर्मलत्वेन स्वच्छत्वेन हेतुना, मिलितः संयुक्तः, तत्र निपतित इत्यर्थः। प्रतिबिम्बः प्रतिच्छाया यस्याः तथोक्तम्, द्याम् आकाशं स्वर्गञ्च। `द्यौः स्वर्गसुरावर्त्मनोः’ इत्यमरः। करे हस्ते, उपनीय संस्थाप्य, अयच्छत् नु? अददात् किम? प्रजाभ्य इति शेषः। दानायैव तत्‌ग्रहणसम्भवादिति भावः। द्योः शब्दस्य स्वर्गाकाशवाचित्वाच्छलेनोक्तिः॥ 21.10 ॥
मुक्तमाप्य दमनस्य भगिन्या भूमिरात्मदयितं धृतरागा।
अङ्गमङ्गमनु किं परिरेभे तं मृदो जलमृदु गृहयालुम्?॥ 21.11 ॥
अन्वयः–दमनस्य भगिन्या मुक्तं मृदः गृहयालुम् आत्मदयित तम् आप्य धृतरागा भूमिः किं जलमृदु अङ्म् अनु परिरेभे?
जीवातु–मुक्तमिति। भूमिः तिलकार्थं गृहीता रक्तवर्णा मृत्तिका, अत्र स्मृतिः-’ विप्रा गौरमृदः प्रोक्ताः अत्रा रक्ताः प्रकीर्त्तिताः’ इति। दमनस्य भीमात्मजस्य, भगिन्या सोदरया दमयन्त्या, मुक्तं स्नानार्थ परित्यक्तम्, मृदः तिलकार्था मृत्तिकाः, गृहयालु ग्रहीतारम्, आत्मनः स्वस्य, दयितं प्रियम्, पतिमिति यावत्। राज्ञो भूपतित्वादिति भावः। तंनलम्, आप्य लब्ध्वा, धृतः गृहीतः, बद्ध इत्यर्थः। रागः स्वभावत एव रक्तवर्मः अनुरागश्च यया सा तथोक्ता सती। `रागोऽनुरागे मात्सर्ये क्लेशे च लोहितादिषु’ इति विश्वः। जलेन स्नानोदकेन, मृदु कोमलम्, अङ्गम् अङ्गं ललाटादिकं प्रत्यवयवम्, अनु लक्ष्यीकृत्य, परिरेभे आलिलिङ्ग किम्? अन्याऽपि सपत्न्या दूरेऽवस्थितं वल्लभं प्राप्य सानुरागा सती यथा प्रत्यङ्गमालिङ्गति तद्‌वदिति भावः। ललाटादिषु द्वादशाङ्गेषु मृत्तिलकानि चकारेति निष्कर्षः॥ 21.11 ॥
मूलमध्यशिखरश्रितवेधःशौरिशम्भुकरकाङ्घ्रिशिरःस्थैः।
तस्य मूर्द्ध्नि चकरे शुचि दर्भैर्वारि वान्तमिव गाङ्गतरङ्गैः॥ 21.12 ॥
अन्वयः–मूलमध्यशिखरश्रितवेधः शौरिशम्भुकरकाङ्घ्रिशिरःस्थैः गाङ्गतरङ्गैः वान्तम् इव मुचि वारि दर्भैः तस्य मूर्ध्नि चकरे।
जीवातु–मूलमिति। मूलमध्यशिखराणि दर्भाणाम् आदिमध्याग्रणि, श्रितानां यथाक्रमं प्राप्तानाम् वेधः शैरिशम्भूनां ब्रह्मविष्णुरुद्राणाम् अत्र स्मृतिः`कुशमूले स्थितो ब्रह्मा कूशमध्ये तु केशवः। कुशाग्रे सङ्करं विद्यात् त्रयो देवाः कुशास्थिताः॥’ इति। करकाङ्घ्रिशिरःसु कमण्डलुपादमस्तकेषु तिष्ठन्ति वर्त्तन्ते इति तथोक्तैः, गाङ्गैः गङ्गासम्बन्धिभिः तरङ्गैः ऊर्मिभिः, वान्तं निष्ठ्यूतम् इव, स्थितमिति शेषः। शुचि निर्मलम्, वारि गङ्गोदकम्, दर्भैः कुशैः, कर्तृभिः। तस्य नलस्य, मूर्व्नि शिरसि, चकरे कीर्णम्, नलः कुशाग्रजलेन `आपोहिष्ठा’ इत्यादि मन्त्रं पठन् मान्त्रं स्नानं कृतवान् इत्यर्थः। `कृविक्षेपे’ इति धातोः कर्मणि लिट्॥ 21.12 ॥
प्राणमायतवतो जलमध्ये मञ्जिमानमभजन्मुखमस्य।
आपगापरिवृढोदरपूरे पूर्वकालमुषितस्य सुधांशोः॥ 21.13 ॥
अन्वयः–जलमध्ये प्राणम् आयतवतः अस्य मुखं पूर्वकालम् आपगापरिवृढोदरपूरे उषितस्य सुधांशोः मञ्जिमानम् अभजत्।
जीवातु–प्राणमिति। जलस्य उदकस्य, मध्ये अभयन्तरे, प्राणमायतवतः प्राणयामं कृतवतः अस्य नलस्य मुखं वदनम्, कर्त्तृ। पूर्वकालं समुद्रमन्थनात् प्राक्, आपगपरिवृढस्य नदीभर्तुः समुद्रस्य, उदरपूरे जलगर्भप्रवाहमध्ये, उषितस्य कृतवासस्य, सुधांशोः चन्द्रस्य, मञ्जिमानं सौन्दर्यम्, अभजत् अलभत, समुद्रोदरमध्यस्थचन्द्रसदृशं दर्शनीयभूदित्यर्थः॥ 21.13 ॥
मर्त्त्यलोकमदनः सदशत्वं बिभ्रदभ्रविशदद्युतितारम्।
अम्बरं परिदधे विधुमौलेः स्पर्द्धयेव दशदिग्वसनस्य॥ 21.14 ॥
अन्वयः–मर्त्त्यलोकमदनः दशदिग्वसनस्य विधुमौलेः स्वर्द्धया इव सदशत्त्वं बिभ्रत् अभ्रविशदद्युति तारम् अम्बरं परिदधे।
जीवातु–मर्त्त्यलोकेति। मर्त्त्यलोकमदनः भूलोककन्दर्पः, नलः इति शेषः। दश दशसङ्ख्यकाः, दिशः ककुभ एव वसनं वस्त्रं यस्य तस्य दिगम्बरस्य, विधुमौलेः चन्द्रशेखरस्य, शम्भोरित्यर्थः। स्पर्द्धयेव साम्यबोधहेतुकाहमिकयेव, मदनत्वादेव मदनारिणा हरेण सह स्पर्द्धा युज्यते इति भावः। सदशत्वं दशाभिः प्रान्तविलम्बिदीर्घतन्तुभिः सह वर्तमानम् आकाशपक्षे-दशभिः दिग्विंभागैः सह युक्तम्; तस्य भावः तत्त्वं सदशत्वम्, बिभ्रत् धारयत, `ईषद्धौतं नवं शुभ्रं सदशं यन्न धारितम्’ इत्यादिस्मृत्या सदशवस्त्रधारणस्य प्रशस्तत्वादिति भावः। तथा अभ्रस्येव शारदमेधस्येव, तदाख्यस्य शुभ्रधातुविशेषस्येव वा, विशदा शुभ्रा, द्युतिः प्रभा यस्य तत् तादृशम्, तारं महत् सूक्ष्मतरं वा, अन्यत्र-अभ्रेषु मेघेषु, विशन्त्यः, प्रवेशं कुर्वन्त्यः, अत एव अद्युतयः दीप्तिरहिताः, ताराः नक्षत्राणि यस्मिन् तत्तादृशम्, अम्बरं वस्त्रम् आकाशञ्च। `अम्बरं व्योमिनि वाससि’ इत्यमरः। परिदधे परिहितवान्॥ 21.14 ॥
बीमजामनु चलत् प्रतिवेलं संयियंसुरिव राजऋषीन्द्रः।
प्राववार हृदयं स समन्तादुत्तरीयपरिवेषमिषेण॥ 21.15 ॥
अन्वयः–राजऋषीन्द्रः सः प्रतिवेलं भीमजाम् अनु चलत् हृदयं संयियंसुः इव उत्तरीयपरिवेषमिषेण समन्तात् प्राववार।
जीवातु–भीमजामिति। राजऋषीणाम् ऋषिवत् सदाचारसम्पन्ननृपतीनां मध्ये। राजा ऋषिः, `ऋत्यकः’ इति प्रकृतिभावः। इन्द्रः श्रेष्ठःष सः नलः, प्रतिवेलम् अनुक्षणम्, भीमजाम् आत्मप्रियां दमयन्तीम्, अनु लक्ष्यीकृत्य, चलत् गच्छत्, हृदयं वक्षः अन्तःकरण्ञ्च, सयियंसुरिव संयन्तुमिच्छुरिव, बद्‌धुमिच्छुः सन्निवेत्यर्थः। स्वहृदयस्य सर्वदा स्वं विहाय अन्यत्र गमनस्य अन्यायत्वात् तस्य बन्धनेच्छा इति भावः। उत्तरीयस्य उत्तरासङ्गस्य, यः परिवेषः परिधिः हृदयोपरि वेष्टनमित्यर्थः। तस्या मिषेण व्याजेन, समन्तात् सर्वतः, प्राववार प्रावृतवान् स्वहृदयमेवेति शेषः॥ 21.15 ॥
स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुखेन्दुः।
केशशेषजलमौक्तिकदन्ता तं बभाज सुभगाऽऽप्लवनश्रीः॥ 21.16 ॥
अन्वयः–स्नानवारिघटराजदुरोजा गौरमृत्तिलकबिन्दुमुकेन्दुः केशशेष-जलः मौक्तिकदन्ता सुभगा आप्लवनश्रीः त बभाज।
जीवातु–स्नानेति। स्नानवारिघटौ स्नानीयोदककुम्भावेव, राजन्तौ शोभमानौ, उरोजौ कुचौ यस्याः सा तादृशी गौरः शुभ्रवर्णः, शुष्कत्वादिति भावः। मृत्तिलकबिन्दुः मृत्तिकाकृतवर्त्तु लतिलकमेव, मुखेन्दुः वदनचन्द्रः यस्याः सा तादृशी, केशशेषाणि कुन्तलेषु अवशिष्ठानि, जलमौक्तिकानि मुक्तातुल्यवारिबिन्दव एव, दन्ताः दशनाः यस्याः सा तादृशी। `नासिकोदर-’ इत्यादिना पक्षे ङीषो विधानादन्यत्र पक्षे टाप्। सुभगा रम्या, नलाङ्गसङ्गलाभादिति भावः। आप्लवनस्य श्रीः स्नानशोभा, त नल, बभाज सिषेवे॥ 21.16 ॥
श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीम्।
वीक्ष्य मोघधृतसौरभलोभं घ्राणमस्य सलिलघ्रमिवाभूत्॥ 21.17 ॥
अन्वयः–अस्य घ्राणं श्वैत्यशैत्यजलदैवतमन्त्रस्वादुताप्रमुदितां चतुरक्षीं वीक्ष्य इव मोधधृतसौरभलोभं सलिलघ्रम् अभूत्।
जीवातु–श्वैत्येति। अस्य नलस्य, घ्राणं घ्राणेन्द्रियम्, नासिकेत्यर्थः। चतुर्णां चतुः सङ्ख्यकानाम्, अक्षाणां नयनत्वक्श्रोत्ररसनाख्यानाम् इन्द्रियाणां समाहारः चतुरक्षी तां चतुरक्षीम्, श्वैत्येन जलस्य श्वेततया, तेन नेत्रं प्रमुदितमित्याशयः। सैत्येन जलस्यैव शीतत्वेन, तेन च त्वक् प्रमुदितेत्याशयः। जलं वारि, दैवतं देवता यस्य तेन तादृशेन मन्त्रेण `ऋतञ्च सत्यञ्चाभिध्यात्तपसः’ इत्यादिमनुना, तच्छ्रवणेन च श्रोत्रेन्द्रियं प्रमुदितमित्याशयः। तथा स्वादुतया जलस्यैव माधुर्येण च, तेन च रसना प्रमुदितेत्याशयः। प्रमुदितां प्रहृष्टाम्, वीक्ष्येव दृष्ट्वेव, मोघं व्यर्थं यथा भवति तथा, घृतः प्राप्तः, सौरभे सौगन्ध्ये, द्रव्यान्तरस्येति शेषः। लोभः लोलुपता येन तत् तादृशं सत्, सलिलं जलम्, जिघ्रति घ्राणविषयीकरोतीति तत् तादृशं सलिलघ्रम्। `आतोऽनुप्सर्गे कः’। अभूत् अजायत, अघमर्षणकाले ऋतञ्च इत्यादि मन्त्रं पठन् जलं जिघ्रति स्मेति निष्कर्षः॥ 21.17 ॥
(राज्ञि भानुमदुपस्थितयेऽस्मिन्नात्तमम्बु किरति स्वकरेण।
भ्रान्तयः स्फुरति तेजसि चक्रुस्त्वष्टृतर्कुचलदर्कवितर्कम्॥ 21.17.1 ॥)
अन्वयः–अस्मिन् राज्ञि भानुमदुपस्थितये आत्तम् अम्बु स्वकरेण स्फुरति तेजसि किरति भ्रान्तयः त्वष्ट्टतर्कुचलदर्कवितर्कं चक्रुः।
सम्यगस्य जपतः श्रुतिमन्त्राः सन्निधानमभजन्त कराब्जे।
शुद्धबीजविशदस्फुवटवर्णाः स्फाटिकाक्षवलयच्छलभाजः॥ 21.18 ॥
अन्वयः–शुद्धबीजविशदस्फुटवर्णाः श्रुतिमन्त्राः स्फाटिकाक्षवलयच्छलभाजः सम्यक् जपतः अस्य कराब्जे सन्निधानम् अभजन्त।
जीवातु–सम्यगिति। शुद्धानि आगमोक्तक्रमोच्चाराणान्निर्दोषाणि, बीजानि वह्निवारुणादिमूलमन्त्राणि येषु ते च ते विशदाः निर्मलाः, स्फुठाः स्पष्टाशअचः वर्णाः अक्षराणि येषां ते चेति तथोक्ताः। सुद्धबीजाश्च ते विशदस्फुटवर्णाश्चेति विशेषणसमासः। श्रुतिमन्त्राः वेदोक्तमन्त्राः गायत्र्यादयः, शुद्धानि अदुष्टानि, बीजानि गुडकानीत्यर्थः। यस्य तच्च तत्, विशदः शुभ्रः, स्फुटः उज्ज्वलश्च, वर्णः प्रभाविशेषः यस्य तच्चेति तत्, स्फाटिकं स्फटिकमयम्, यत् अक्षवलयं जपमाला, तस्य छलं व्याजम्; भजन्ति आश्रयन्ति ये ते तादृशाः सन्तः सम्यक् सुष्ठु यथा तथा जपतः जपं कुर्वतः, अस्य नलस्य, करः पाणिरेव, अब्जं कमलं तस्मिन्, सन्निधानं सान्निध्यम्, अभजन्त प्राप्ताः, इवेति शेषः॥ 21.18 ॥
पाणिपर्वणि यवः पुनराख्यद्देवतर्पणयवार्पणमस्य।
न्युप्यमानजलयोगितिलौघैः स द्विरुक्तकरकालतिलोऽबूत्॥ 21.19 ॥
अन्वयः–अस्य पाणिपर्वणि यवः देवतर्पणयवापणं पुनः आख्यत् सः न्युप्यमानजलयोगितिलौघैः द्विरुक्तकरकालतिलः अभूत्।
जीवातु–पाणिरिति। अस्य नलस्य, पाणेः करस्य, पर्वणि ग्रन्थौ, यवः यवाकारा स्पष्टरेखा, देवतर्पणे देवसम्बन्धितर्पणक्रियायाम्; यवानाम् अर्पणं दानम्। कर्म। पुनराख्यत् पुनरुक्तम् अकरोत्। पुनः पुनर्दानमभाषतेवेत्यर्थः। पाणिपर्वस्थयवैरेव तदर्पणसम्पादनादिति भावः। तथा स नलः, न्युप्यमानेन पितृभ्यः दीयमानेन। `पितृदानं निवापः स्यात्’ इत्यमरः। जलेन उदकेन, युज्यन्ते मिल्यन्ते ये, तैः तादृसैः, तिलानां कृष्णतिरानाम्, ओधैः समूहैः करणैः, द्विरुक्तः वारद्वयमुक्तः, पुनरुक्त इत्यर्थः। द्विगुणीभूत इति यावत्। करकालतिलः पाणिस्थकृष्णवर्णतिलाकाररेखा यस्य सः तादृशः, अभूत् अजायत् इवेतिशेषः। नलः देवानां पिदृणाञ्च तर्पणं कृतवानिति भावः। भाग्यवतां हस्ते यवाकाराः तिलाकाराश्च रेखाः दृश्यन्ते इति सामुद्रिकाः॥ 21.19 ॥
पूतपाणिचरणः शुचिनोच्चैरध्वनाऽनितरपादहतेन।
ब्रह्मचारिपरिचारिसुरार्चावेश्म राजऋषिरेष विवेश॥ 21.20 ॥
अन्वयः–पूतपाणिचरणः एषः राजऋषिः अनितरपादहतेन शुचिना अध्वना ब्रह्मचारिपरिचारि उच्चैः सुरार्चावेश्म विवेश।
जीवातु–पूतपाणिरिति। एषः अयम्, राजऋषिः मुनितुल्यनृपतिः, नलः इति शेषः। `ऋत्यकः’ इति प्रकृतिभावः। पूतौ प्रक्षालनेन पवित्रौ, पाणिचरणौ हस्तपादौ यस्य सः तादृशः सन्, इतरेषां ब्रह्मचारिव्यतिरिक्तानाम्, पादौः चरणैः, हतः क्षुण्णः इतरपादहतः, इतरेषां ब्रह्माचारिव्यतिरिक्तानाम्, पादैः चरणैः, हतः क्षुण्णः इतरपादहतः, ताद्दशः न भवतीति अनितरपादहतः तेन जनान्तरपादास्पृष्टेन, अत एव शुचिना शुद्धेन, अध्वना मार्गेण साधनेन, ब्रह्मचारिणः ब्रह्मचर्यव्रतावलम्बिन एव, परिचारिणः परिचारकाः यत्र तत् तादृशम्, उच्चैः उन्नतम्, सुरार्चावेश्म देवपूजागृहम्, विवेश प्रविष्टवान्। पूजार्थमिति भावः॥ 21.20 ॥
क्वपि यन्नभसि धूपजधूमर्मेचकागुरुभवैर्भ्रमराणाम्।
भूयते स्म सुमनःसुनः स्रग्दामधामपटले पटलेन॥ 21.21 ॥
अन्वयः–यन्यभसि क्व अपि सुमनः सुमनः स्रग्दामधामपटले मेचकागुरुभवैः धूपजधूमैः भ्रमराणां पटलेन भूयते स्म।
जीवातु–क्वेति। यस्य सुरार्चटावेश्मनः, नभसि आकाशे, अभ्यन्तराकाशे इत्यर्थः। क्वापि कस्मिंश्चित् प्रदेशे, सुमनः सुमनसां मालतीपुष्पाणाम्। `सुमनाः पुष्पमाल्तयोः’ इति मेदिनी। स्रग्दामभिः मालाभमूहैः, कल्पितस्येति शेषः। धाम्नः गृहस्य, गृहाकाररचनाविशेषस्येत्यत्यर्थः। पटले प्रान्ते, मेचकागुरुभवैः, कृष्णागुरुसम्भवैः धूपधूमैः धूपोत्थधूमैः, भ्रमराणां भृङ्गाणाम्, पटलेन समूहेन, भूयते स्म भूतम्। पुष्पाणामुपरि भ्रमरैः भाव्यम्, अतएव धूपजधूमा एव तत्समूहस्वरूपा जाता इत्यर्थः॥ 21.21 ॥
साङ्कुरेव रुचिपीततमा यैर्यैः पुराऽस्ति रजनी रजनीव।
ते धृता वितरितुं त्रिदशोभ्यो यत्र हेमलतिका इव दीपाः॥ 21.22 ॥
अन्वयः–यैः रुचिपीततमा साङ्कुरा रजनी पुरा यैः (रुचिपीततमा साङ्कुरा) रजनी इव अस्ति,हेमलतिकाः इव ते दीपाः यत्र त्रिदशेभ्यः वितरितु धृता।
जीवातु–साङ्कुरेति। रजनी रात्रिः, यैः दीपैः रुचिभिः दीप्तिभिः साधनैः, पीतं ग्रस्तम्, विनाशितमित्यर्थः। तमः अन्धकारं यस्यां सा रुचिपीततमा सती, साङ्कुरा तेजोऽङ्कुरसहिता इव, पुरा प्राक् अस्ति आसीत् `पुरा लङ्‌ चास्मै’ इति भूते लट्। रजनी रात्रिरेव, यैश्च दीपैः, रुचिभिः दीप्तिभिः, पीनतमा अत्यर्थं पीतवर्णा सती, साङ्कुरा सप्ररोहा, दीपरूपाङ्कुरयुक्तेत्यर्थः। रजनी इव हरिद्रेव, पुरा प्राक् अस्ति आसीत्। `रजनी पीतिकायां रात्रौ हरिद्रायाम्’ इति विश्वः। हेमलतिकाः स्वर्णलता इव स्थिताः, ते पूर्वोक्ताः, दीपाः आलोकवर्त्तयः, यत्र सुराचविश्मनि, त्रिदशेभ्यः देवेभ्यः, वितरितुम् उत्सङ्गीकर्तुम्, धृताः स्थापिताः, परिचारकैरिति शेषः॥ 21.22 ॥
(यत्र मौक्तिकमणेर्विरहेण प्रोतिकामधृतवह्निपदेन।
कुङ्कुमेन परिपूरितमन्तः शुक्तयः शुशुभिरेऽनुभवन्त्यः॥ 21.22.2 ॥)
अन्वयः–यत्र मौक्तिकमणेः विरहेण प्रीतिकामधृतवह्निपदेन कुङ्कुमेन परिपूरितम् अन्तः अनुभवन्त्यः शुक्तयः शुशुभिरे।
अङ्कचुम्बिघनचन्दपङ्कं यत्र गारुडशिलाजममत्रम्।
प्राप केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि॥ 21.23 ॥
अन्वयः–यत्र अङ्कचुम्बिघनचन्दनपङ्क गारूडशिलाजम् अमत्रं केलिकवलीभवदिन्दोः सिंहिकासुतमुखस्य सुखानि प्राप।
जीवातु–अङ्केति। यत्र सुरार्चावेश्मनि, गारुडशिलाज मरकतमणिः निरिमितम्, अमत्रं पात्रम्, अङ्कं क्रोडम्, अभ्यन्तरभागमित्यर्थः। चुम्बति स्पृशतीति अङ्कचुम्बी, घनः सान्द्रः,चन्दनपङ्कः घृष्टचन्दनं यस्य तत्तादृश सत्, केलिना क्रीडया, कवलीभवन् ग्रासीभवन्, अभ्यन्तरं प्रविशन्निति यावत्, इन्दुः चन्द्रो यस्य तादृशस्य `तृतीयादिषु भाषितपुंस्कं पुंवद्‌गालवस्य’ इति पुवद्भावः। सिंहिकासुतमुखस्य राहुवदनस्य। `सिंहिकानन्दनो राहुः’ इति साधुः। सुखानि आनन्दान्, सादृश्यमिति भावः। प्राप लब्धवान्। इन्दुचन्दनपङ्कयोः श्वैत्य-शैत्यसाम्यात् सिंहिकासुत-गारुडमणिपात्रयोश्च गोलत्वकृष्णवर्णत्वसाम्यादिति भावः। यत्र गृहे गारूडमिणिपात्राणि चन्दनभरितानि सन्तीति निष्कर्षः॥ 21.23 ॥
गर्भमैणमदकर्दमसान्द्रं भाजनानि रजतस्य भजन्ति।
यत्र साम्यमगमन्नमृतांशोरङ्करङ्कुकलुषीकृतकुक्षेः॥ 21.24 ॥
अन्यवः–यत्र ऐणमदकर्दमसान्द्रं गर्भ भजनति रजतस्य भाजनानि अङ्करङ्कुकलुषीकृतकुक्षेः अमृतांशोः साम्यम् अगमन्।
जीवातु–गर्भमिति। यत्र सुरार्चावेश्मनि, रजतस्य रौप्यस्य, भाजनानि पात्राणि कर्तृणि एणमदकर्दमेन कस्तूरीपङ्केन, सान्द्रं निबिडम्, परिपूर्ममित्यर्थः। गर्भ मध्यप्रदेशम्, भजन्ति प्राप्नुवन्ति सन्ति, अङ्केन चिह्नेन, कलङ्कात्मकेनेत्यर्थः। रङ्कुणा मृगेण, यद्वा-अङ्के क्रोडे, यो रङ्कुः मृगाकृतिचिह्नम्, तेन कलुषीकृतः मलिनीभूतः, कुक्षिः उदरं यस्य तथोक्तस्य, अमृतांशोः चन्द्रस्य, साम्यं समताम्, अगमन् प्रापन्। रजतभाजनानां शुभ्रत्वगोलाकारत्वसाम्यात् चन्द्रसादृश्यम्, कस्तूरीपङ्कस्य च कृष्णवर्णत्वात् क्रोडस्थहरिणतुल्यत्वं बोद्धव्यम्। यत्र देवपुजीर्थ रजतपात्राणि घृष्टकस्तूरीपूर्णानि सन्तीति निष्कर्षः॥ 21.24 ॥
उज्जिहानसुकृताङ्कुरशङ्का यत्र धर्मगहने खलु तेने।
भूरिशर्करकरम्भबलीनामालिभिः सुगतसौधसखानाम्॥ 21.25 ॥
अन्वयः–धर्मगहने यत्र सुगतसौधसखानां भूरिशर्करकरम्भ बलीनाम् आलिभिः उज्जिहानसुकृताङ्कुरशङ्का तेने खलु।
जीवातु–उज्जिहानेति। धर्मेण सुकृतेन, गहने निबिडे, धर्मगहने बहुविधधर्मानुष्ठानपूर्णे, अन्यत्र-धर्मारण्ये यत्र सुरार्चावेश्मनि, सुगतस्य बुद्धस्य, सौधानां सुधाधवलितप्रासादानाम्, शुभ्रचैत्यानामित्यर्थः। सखायः शुम्रतया तत्सदृशाः, इत्यर्थः, तेषां `राजतःसखिभ्यष्टच्’। भूरयः प्रभूताः, शर्कराः सिताः येषु तथोक्ताः, ये फरम्भाः दधिसक्तवः `करम्भा दधिसक्तवः’ इत्यामरः। ते एव बलयः उपहाराः, नैवेद्यानीत्यर्थः। तेषाम्,आलभि पङ्क्तिभिः कर्त्रोभिः। उज्जिहानेषु उद्‌गच्छत्सु, सुकृहाङ्कुरेषु पुण्यप्ररोहेषु, शङ्का संशयः, तेने विस्तारयामासे, जनयामासे इत्यर्थः। खलु इति निश्चतम्॥ 21.25 ॥
खर्वमाख्यदमरौघनिवासं पर्वतं क्वचन चम्पकसम्पत्।
मल्लिकाकुसुमराशिरकार्षीत् यत्र च स्फटिकसानुमनुच्चम्॥ 21.26 ॥
अन्वयः–यत्र क्वचन चम्पकसम्पत् अमरौघनिवासं पर्वतं खर्वम् आख्यत् मल्लिकाकुसमराशिः च श्फटिसानुम् अनुच्चम् अकार्षीत्।
जीवातु–खर्वमिति। यत्र सुरार्चावेश्मनि, क्वचन क्वचित् प्रदेशे चम्पकानां स्वर्मवर्णचम्पकपुष्पाणाम्, सम्पत् समृद्धिः, राशिरित्यर्थः। अमरौघस्य देवसमूहस्य, निवासं वासस्थलभूतम्, पूर्वत खर्व ह्रस्वम्, आख्यत् उक्तवती तथा मल्लिकाकुसुमानां मल्लिकापुष्पाणाम्, राशिः समूहः, स्फटिकसानुं शुभ्रकैलासपर्वतम् अनुच्च ह्रस्वम्, अकार्षीत् विदधे॥ 21.26 ॥३
स्वात्मनः प्रियमपि प्रति गुप्तिं कुर्वती कुलवभूमवजज्ञे।
हृद्यदैवतनिवेद्यनिवेशान् यत्र भूमिरवकाशदरिद्रा॥ 21.27 ॥
अन्वयः–यत्र हृद्यदेवनिवेद्यनिवेशात् अवकाशदरिद्रा स्वात्मनः प्रियम् प्रति अपि गुप्तिं कुर्वती कुलवधूम् अवजज्ञे।
जीवातु–स्वात्मन इति। सुरार्चावेश्मनि, भूमिः पृथिवी, देवगृहाभ्यन्तरप्रदेश इत्यर्थः। हृदानां मनोज्ञानाम्, दैवतानां देवतासम्बन्धिनाम्, निवेद्यानाम् उपहर्तव्यानाम्, नैवेद्यानामित्यर्थः, दैवतेभ्यः प्रतिष्ठितदेवताभ्यः, निवेद्यानाम् उत्सर्जनीयानामिति वा, निवेशात् स्थापनात् हेतोः, अवकाशदरिद्रा निरन्तराला सती सर्वथा दृष्टेरगोचरा सतीत्यर्थः। स्वात्मनः निजायाः, प्रियं दयितं भर्त्तारम्, भूपतिं नलमित्यर्थः। प्रति अपि नलम् उद्दिश्यापीत्यर्थः। गुप्तिं गोपनम्, स्वाङ्गच्छादनमित्यर्थः। कुर्वती विदती, कुलवधूं सद्वंश्यामङ्गनाम्, अवजज्ञे अवज्ञातवती। कुलबधूरपि स्वभर्त्तारं प्रत्यपि लज्जाधिक्यात् स्वशरीरं गोपयति, अतः सा भूमिः तत्सदृशी जाता इत्यर्थः। बहूनि तत्र नैवेद्यानि गृहे स्थापितानि आसन् इति निष्कर्षः॥ 21.27 ॥
यत्र कानतकरपीडितनीलग्रावरश्मिचिकुरासु विरेजुः।
गातृमूर्द्धविधुतेरनुबिम्बात् कुट्टिमक्षितिषु कुट्टमितानि॥ 21.28 ॥
अन्वयः–यत्र कान्तरपीडितनीलग्रावरश्मिचिकुरासु कुट्टिमक्षितिषु गातृमूर्द्धविधुतेः अनुबिम्बात् कुट्टमितानि विरेजुः।
जीवातु–यत्रेति। यत्र सुरार्चावेश्मनि, कान्तस्य प्रियस्य चन्द्रकान्तमणेश्च। `कान्तः प्रिये चन्द्रकान्ते’ इति यादवः। करेण हस्तेन अंशुना च। `बलिहस्तांश्वः कराः’ इत्यमरः। पीडितानां सुदृढाकर्षणेन व्यथितानाम् स्पर्शेन विकारं प्रापितानाञ्च, वणौन्तरं प्रापितानामित्यर्थः। नीलग्राणाम् इन्द्रनीलमणीनाम्, रश्मयः दीप्तयः एव, चिकुराः केशाः यासां तादृशीषु, कुट्टिमक्षितिषु मणिनिबद्धभूमिषु, गातुः गायकस्य मूर्द्धविधुतेः शिरःकम्पनस्य, अनुबिम्बात् प्रतिबिम्बपतनात् हेतोः, कुट्टमितानि शिरःकम्पनरूपश्रृङ्गारचेष्टाविशेषाः,-विरेजुः शुशुभिरे। अत्र भरतमुनिः-`केशस्तनाधरादिग्रहणेऽपि हर्षसम्भ्रमोत्वन्नं शिरः-करकम्पनं कुट्टमितमिति विज्ञेयं सुखं विदुः’ इति। मणिबद्धा भूमयो गायकाश्च यत्र सन्तीति भावः॥ 21.28 ॥
नैकवर्णमणिभूषापूर्णे स क्षितोन्दुरनवद्यनिवेद्ये।
अध्यतिष्टदमलं मणिपीठं तत्र चित्रसिचयोच्चयचारौ॥ 21.29 ॥
अन्वयः–क्षितीन्दुः सः नैकवर्ममणिभूषणपूर्णे अनवद्यनिवेद्ये चित्रसिचयोच्चारौ तत्र अमल मणिपीठम् अध्यतिष्ठत्।
जीवातु–नैकेति। क्षितीन्दुः भूतलचन्द्रः, सः नलः, नैकवर्णाः विविधवर्मविशिष्टाः, ये मणयो रत्नानि, तेषां भूषणैः, आभरणैः पूर्णे व्याप्ते, अनवद्यानि निर्दोषाणि, निवेद्यानि उत्सर्जनीयानि द्रव्याणि यत्र तस्मिन्, तथा चित्राणां विविधप्रकाराणाम्, सिचयानां वस्त्राणाम्, उच्चयेन समूहेन, चारौ मनोज्ञे, तत्र सुरार्चावेश्मनि, अमलम् उज्जवलम्, मणिपीठं रत्नमयासनम्, अध्यतिष्ठत् अधिष्ठितवान्। सुरार्चनार्थमुपविवेश इत्यर्थः। `अधिशीङ्स्थासाम्’ इति अधिकरणस्य कर्मसज्ञा॥ 21.29 ॥
सम्यगर्चति नलेऽर्कमतूर्ण भक्तिगन्धिरमुनाऽकलि कर्णः।
श्रद्दधानहृदयं प्रति चान्तः साम्बमम्बरमणिर्निरचैषीत्॥ 21.30 ॥
अन्वयः–नले अतूर्ण सम्यक् अर्कम् अर्चति अमुना कर्णः भक्तिगन्धिः आकलि, अम्बरमणिः साम्बं प्रति च अन्तः श्रद्दधानहृदयं निरचैषीत्।
जीवातु–सम्यगिति। नलै नैषधे, अतूर्णम् अव्यग्रम्, व्यग्रत्वे सम्यक्ताऽभावादिति भावः। अत एव सम्यक् सुष्ठु यथा भवति तथा, अर्क सूर्यम्, अर्चति आराधयति सति, अमुना अर्केण, कर्णः राधेयः, भक्ते, श्रद्धाविशेषस्य, गन्धः लेशः अस्ति यस्य सः तादृशः भक्तिगन्धिः अल्पभक्तिः. `गन्धो गन्धक आमोदे लेशे सम्बन्धगर्वयोः’ इति विश्वः। `अल्पाख्यायाम्’ इति समासान्तः इत्। अकलि निरधारि । अम्बरमणिः सूर्यः, साम्बं तदाख्यकृष्णसुतम्, प्रति च उद्दिश्यापि, अन्तः अन्तःकरणे, श्रद्दधानं भक्तिमत्, हृदयं चेतो यस्य तादृशम्, साम्बः केवलं मनसा भक्तः न तु पूजक इति भावः। निरचैषीत् निश्चितवान्। कर्णापेक्षया तथा साम्बापेक्षया च नल एव मे परमभक्त इति निश्चिकाय इत्यर्थः। `यावन्न दीयते चार्घ्यं भास्कराय महात्मने’ इत्यादिना सूर्यर्ध्यदानमन्तरेण देवतान्तरपूजानिषेधात् नलः प्रथमं सूर्यमेवार्चयामासेति भावः॥ 21.30 ॥
तत्तदर्यमरहस्यजपेषु स्रङ्मयः शयममुष्य बभाज।
रक्तिमानमिव शिक्षितुमुच्चै रक्तचन्दनजबीजसमाजः॥ 21.31 ॥
अन्वयः–तत्तदर्यमरहस्यजपेषु स्रङ्मयः रक्तचन्दनवीजसमाजः उच्चैः रक्तिमानं शिक्षितुम् इव अमुष्य शयं बभाज।
जीवातु–तदिति। तेषआं तेषां श्रौतस्मार्तानाम्, अर्यम्णः सूर्यस्य, रहस्यानां मन्त्राणाम्, जपेषु आसकृत् गूढोच्चारणकाले, स्रङ्मयः जपमालास्वरूपः, रक्तचन्दनजानां कुचन्दनोद्भवानाम्, बीजानां गुटिकानाम्। `तिलपर्णी तु पत्राङ्गं रञ्जनं रक्तचन्दनम्। कुचन्दनम्’ इत्यमरः। समाजः समूहः उच्चैः अधिकम्, रक्तिमानं रक्तत्वम्, शिक्षितुमिव अभ्यसितुमिव, अमुष्य नलस्य, शय हस्तम्, बभाज सिषेवे। नलपाणितलस्य प्रकृत्या एव रक्तिमातिशयात् शिक्षार्थ यथा शिष्याः उपाध्यायं सेवन्ते, तथा रक्तिमाधिक्यशिक्षार्थ तत्पाणितलम् आश्रयामास इति भावः॥ 21.31 ॥
(हेमनामकतरूप्रसवेन त्र्यम्बकस्तदुपकल्पितपूजः।
आत्तया युधि विजित्य रतीशं राजितः कुसुमकाहलयेव॥ 21.31.1 ॥)
अन्वयः–हेमनामकतरुप्रसवेन तदुपकल्पितपूजः त्र्यम्बकः रतीशं युधि विजित्य आत्तया इव कुसुमकाहलया राजितः।
अर्चयन् हरकरं स्मितभाजा नागकेसरतरोः प्रसवेन।
सोऽयमापयदिर्यगवाग्दिक्‌पालपाण्डुरकपालिविभृषाम्॥ 21.32 ॥
अन्वयः–स्मितभाजा जागकेसरतरोः प्रसवेन हरकरम् अर्चयन् सः अयम् अतिर्यगवाग्दिक्पालपाण्डुरकपालविभूषाम् आपयत्।
जीवातु–अर्चयन्निति। सः उक्तरूपेम पूजानिरतः, अयम् एषः नलः, स्मितभाजा प्रस्फुटितेनेत्यर्थः। नागकेसरतरोः तदाख्यवृक्षविशेषस्य, प्रसवेन कुसुमेन साधनेन, हरस्य शम्भोः, करं हस्तम्, अर्चयन् पूजयन्, तिरश्च्या दिशः तिर्यग्वर्त्तमानप्राच्यादिदिगष्टकात्, तथा अवाच्या दिशः अधोदिशश्च सकाशात्, अन्या पृथगिति अतिर्यगवाग्दिक् ऊद्‌र्ध्वा दिक् इत्यर्थः। तस्याः पालः रक्षकः ब्रह्मा इत्यर्थः। तस्य पाण्डूरं पाम्डुवर्णम्, यत् कपालं शिरोऽस्थिखण्डम्, भिक्षापात्ररूपेण हरकर्त्तृकचिरकालधारणात् गतकृत्ति अत एव पाम्डूवर्णं ब्रह्मणः पञ्चमशिरोऽस्थिखण्डमित्यर्थः। तस्य विभूषामिव विभूषां शोभाम्, आपयत् प्रापितवान्। हरेण स्वदुहितरं सन्ध्यां प्रति कामभावेनानुधावतः ब्रह्मणः पञ्चमं शिरः छिन्नम्, ततः तत्पापस्य प्रायश्चित्तं चिकीर्षुः हरः भिक्षार्थ तत् करे दधार, नागकेसरपुष्पस्यापि तत्सदृशपाण्डुवर्णत्वाद् इयमुक्तिर्बोद्धव्या। नलेन पूजानां दत्तं नागकेसरपुष्पं ब्रह्मकपालसद्दशं बभौ इति भावः॥ 21.32 ॥
नीलनीररुहमाल्यमयीं स न्यस्य तस्य गलनालविभूषाम्।
स्फाटिकीमपि तनूं निरमासीन्नीलकण्ठपदसान्वयतायै॥ 21.33 ॥
अन्वयः–सः नीलनीररुहमाल्यमयीं गलनालविभूषां न्यस्य तस्य स्फाटिकीम् अपि तनूं नीलकण्ठपदसान्वयतायै निरमासीत्।
जीवातु–निलेति। सः नलः, तस्य हरस्य, नीलनीररुहमाल्यमयीम् इन्दीवरमालारूपाम्, गलनालस्य कण्ठदेशस्य, विभूषां भूषणम्, न्यस्य समर्प्य स्फाटिकीं स्फटिकमयीम् अपि, तनूं शरीरम्, नीलकण्ठः इति पदस्य शिवस्य नीलकण्ठ इति संज्ञावाचकस्य शब्दस्य, सान्वयतायै अन्वर्थत्वाय, नीलः कण्ठो यस्य इति विग्रहस्य सार्थकतासम्पादनायेत्यर्थः। निरमासीत् कल्पितवान्। मा माने इति धातोरदारिकाल्लुङ्॥ 21.33 ॥
प्रीततिमेष्यति कृतेन ममेदृक्कर्मण पुरिपुर्मदनारिः।
तत्पुरः पुरमतोऽयमधाक्षीद् धूपरूपमथ कामशरञ्च॥ 21.34 ॥
अन्वयः–कृतेन मम ईदृक्‌कर्मणा पुरारिः मदनारिः प्रीतिम् एष्यति-अतः अयं तत्पुरः धृपरूपं पुरं कामशरञ्च अदाक्षीत्।
जीवातु–प्रीतिमिति। पुररिपुः त्रिपुरारिः, मदनारिः कामशत्रुश्च, सम्भुरिति शेषः। कृतेन विहितेन, मम मे, ईदृक्कर्मणा गुग्गुलुपर्यायकपुरदाहेन कर्पूरपर्यायककामशरदाहेन च कर्मणा, प्रीतिं सन्तोषम् एष्यति प्राप्स्यति, अतः अस्मादेव कारणात् अयं नलः, तस्य पुररिपोः मदनारेश्च, पुरः अग्रतः, यथाक्रमं धूपव्याजम्, पुरं गुग्गुलुम् असुरपुरञ्च। `गुग्गुलौ कथितः पुरः’ इति विश्वः। अथ अनन्तरम्, कामशरं कर्पूरं मदनवाणञ्च, अधाक्षीत् दग्धवान्। नलः धूपदानरूपं पूजां चकारेति निष्कर्षः॥ 21.34 ॥
तन्महूर्त्तमपि भीमतनूजाविप्रयोगमसहिष्णुरिवायम्।
शूलिमौलिशशिभीततयाऽभद् ध्यानमूर्च्छननिमीलितनेत्रः॥ 21.35 ॥
अन्वयः–तन्मुहूर्त्म् अपि भीमतनूजाविप्रयोगम् असहिष्णुः अयं शूलिमौलिशशिभीततया इव ध्यानमूर्च्छननिमीलितनेत्रः अभूत्।
जीवातु–तदीति। अयं नलः, तन्मुहूर्त्तमपि तस्मिन् मुहूर्त्तेऽपि, `कालाध्वनोरत्यन्तसंयोगे’ इति द्वितीया। शूलिनः अर्च्यमानशम्बोः, मौलिशशिनोः शिरोभूषणचन्द्रसकाशात्, भीततया भीतत्वेन हेतुना, शशिनो विरहिपीडकत्वादिति भावः। भीमतनूजाया दमयन्त्याः, विप्रयोगं विरहम्, असहिष्णुरिव सोढुमक्षमः सन् इव, ध्यानेनैव हृदि देवमूर्त्तिचिन्ततरूपेणैव, मूर्च्छनेन मूर्च्‌छारोगेण, सर्वन्द्रियार्थोपरमत्वसाम्यात् ध्यानस्य मूर्च्छसाम्यत्वं बोद्धव्यम्। निमीलिते मुद्रिते, नेत्रे लोचने, यस्य सः तादृशः, अभूत् अजायत। धपदानानन्तरं रहध्यानमकरोदिति निष्कर्षः॥ 21.35 ॥
दण्डवद् भुवि लुठन् स ननाम त्र्यम्बकं शरणभागिव कामः।
आत्मशस्त्रविशिखासनाबाणान् न्यस्य तत्पदयुगे कुसुमानि॥ 21.36 ॥
अन्वयः–आत्मशस्त्रविशिखासनबाणान् कुसुमानि तत्पदयुगे न्यस्य शरणभाक् कामः इव सः दण्डवत् भुवि लुठन् त्र्यम्बकं ननाम।
जीवातु–दण्डवदिति। आत्मानः स्वस्य, शस्त्राणि आयुधस्वरूपान्, विशिखासनं धनुः बाणान् विशिखान् च, कुसुमानि पुष्पाणि, कामस्य धनुर्बाणयोः पुष्पमयत्वादिति भावः। तस्य 6्यम्बकस्य, पदयोः चरणयोः, युगे द्वये न्यस्य सपर्प्य, शरणभाक् आश्रयार्थी, कामः कन्दर्प इव, सः नलः, दण्डवत् दण्डसदृशः, भुवि भूमौ, लुठन् पतन्, त्र्यम्बकं त्रिलोचनम्, ननाम प्रणतवान्॥ 21.36 ॥
त्र्यम्बकस्य पदयोः कुसुमानि न्यस्य सैष निजशस्त्रनिभानि।
दण्डवद् भुवि लुठन् किमु कामस्तं शरण्यमुपगम्य ननाम्?॥ 21.37 ॥
अन्वयः–सः एषः कामः किमु त्र्यम्बकस्य पदयोः निजश्त्रनिभानि कृसुमानि न्यस्य दण्डवत् भुवि लुठन् शरण्यं तम् उपगम्य ननाम?
जीवातु–उक्तमेवार्थ भङ्ग्यन्तरेणाह-त्र्यम्बकस्येति। सः प्रसिद्धः एषः अयम्, कामः मदनः। `सोऽचि लोपे चेत्पादपूरणम्’ इत्यत्र श्लोकपादस्यापि ग्रहणमिष्यते इति सोर्लोपे वृद्धिः। निजशस्त्रनिभानि स्वायुधसदृशानि, कुसुमानि पुष्पाणि, त्र्यम्बकस्य त्रिलोचनस्य, पदयोः चरणयोः, न्यस्य समर्प्य, भुवि भूमौ, दण्डवत् दण्डसदृशम्, लुठन् पतन्, गात्रं पातयन्नित्यर्थः। शरण्य रक्षितारम्, त्र्यम्बकं त्रिनयनं हरम्, उपगम्य प्राप्य, ननाम किमु? प्रणतवान् किम्?॥ 21.37 ॥

व्यापृतस्य शतरुद्रियजप्तौ पाणिमस्य नवपल्लवलीलम्।
भृङ्गभङ्गिरिव रुद्रपराक्षश्रेणिराश्रयत रुद्रपरस्य॥ 21.38 ॥
अन्वयः–रुद्रपरस्य शतरुद्रियजप्तौ व्यापृतस्य अस्य नवपल्लवलीलं पाणिं रुद्रपराक्षश्रेणिः भृङ्गभङ्गिः इव आश्रयत।
जीवातु–व्यापृतस्येति। रुद्रपरस्य शिवपरायणस्य, अत एव शतरुद्रियस्य शतं रुद्राः देवता अस्य तस्य रुद्रदेवताकमन्त्रविशेषस्य। `शतरुद्राद् घश्च’ इति वक्तव्यात् घप्रत्ययः। जप्तौ जपे। नपुंसके भावे क्तः, `आदितश्च’ इति चकारात् `विश्वस्तवत् निष्ठायाम्, इडभावे जप्तम् `इति भट्टक्षीरस्वामी। तथा च `जपिवमिभ्यां वा’ इति महोपाध्यायवर्द्धमानसूत्रम्। व्यापृतस्य आसक्तस्य, अस्य नलस्य, नवपल्लवस्येव कोमलकिसलयस्येव, लीला विलासः यस्य तं तादृशं, पाणिं करम्, रुद्रात् रुद्रशब्दात्, परेषाम् उपरितनानाम्, पस्चादुच्चार्यमाणानामित्यर्थः। अक्षाणाम् अक्षेत्यक्षराणाम्, रुद्राक्षणामित्यर्थः। यद्वा-रुद्रपराणां शिवभक्तानाम्, ये अक्षाः जपमालाः, रुद्राक्षणामित्यर्थः। यद्वा-रुद्रपराणां शिवभक्तानाम्, ये अक्षाः जपमालाः, रुद्राक्षमाला इत्यर्थः। तेषां श्रेणिः पङ्क्तिः, भृङ्गाणां भ्रमराणाम्, भङ्गिरिव श्रेणिरिव। मालेव इति यावत्। आश्रयत श्रितवती, प्राप्तवतीत्यर्थः॥ 21.38 ॥
उत्तमं स महति स्म महीभृत् पूरुषं पुरुषसूक्तविधानैः।
द्वादशापि च स केशवमूर्त्तीर्द्वादशाक्षरमुदीर्य ववन्दे॥ 21.39 ॥
अन्वयः–सः महीभृत् उत्तमं पूरुषं पुरुषसूक्तविधानैः महति स्म, सः च द्वादशाक्षरम् उदीर्य द्वादश अपि केशवमूर्त्तिः ववन्दे।
जीवातु–उत्तममिति। सः पूजानिरतः महीभृत् भूपालो नलः, उत्तमं पूरुषं पुरुषोत्तमं विष्णुम्, पुरुषसूक्तस्य `सहस्रशीर्षा पुरुषः’ इत्यादिमन्त्रस्य, विधानैः विधिभिः, महति स्म पूजितवान्। तथा सः नलः, द्वादशाक्षरम् `ओं नमो भगवते वासुदेवाय’ इत्येवं रूपं द्वादशाक्षरात्मकं मन्त्रम्, उदीर्य उच्चार्य, केशवस्य नारायणस्य, द्वादशापि च मूर्त्तिः केशवनारायणादि-द्वादशसङ्ख्यकविग्रहान्, ववन्दे तुष्टाव॥ 21.39 ॥
मल्लिकाकुसुमडुण्डुभकेन स भ्रमीवलयितेन कृते तम्।
आसने निहितमैक्षत साक्षात् कुण्डलीन्द्रतनुकुण्डलभाजम्॥ 21.40 ॥
अन्वयः–सः भ्रमीवलयितेन मल्लिकाकुसुमडुण्डुभकेन कृते आसने निहितं कुण्डलीन्द्रतनुकुण्डलभाजं तं साक्षात् ऐक्षत।
जीवातु–मल्लिकेति। सः नलः, भ्रमीवलयितेन चक्राकारवेष्टनः वलयाकारीकृतेन, मल्लिकाकुसुमानां मल्लिकापुष्पाणाम्, मल्लिकापुष्पग्रथितेनेत्यर्थः। डुण्ढुभकेन, राजिलसर्पाकारया स्तूलया मालया। `समौ राजिलडुण्डुभौ’ इत्यमरः। `इवे प्रतिकृतौ’ इति कन्। `मल्लिकाकुसुमडुण्डुभकेन’ इत्यत्र पादान्तगुरुत्वं छन्दःशास्त्रेऽभ्युपगम्यते। कृते निर्मिते, आसने पीठे, निहितं स्तापितम्, कुण्डलीन्द्रस्य नागराजस्य, शेषस्य सम्बन्धिन्याः इत्यर्थः। तनो शरीरस्य, कुम्डलं वलयम्, कुम्डलिततनुमित्यर्थः। भजते आश्रयति, क्षीरोदे शेषशायिरूपेणाधिशेते इत्यर्थः। यः तादृशम्,तं नारायणम्, साक्षाद् ध्यानयोगेन प्रत्यक्षमिव, ऐक्षत अपश्यत्॥ 21.40 ॥
मेचकोत्पलमयी बलिबन्द्‌धुस्तद्‌बलिस्रगरसि स्फुरति स्म।
कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः॥ 21.41 ॥
अन्वयः–बलिबन्द्‌धुः उरसि कौस्तुभाख्यमणिकुट्टिमवास्तुश्रीकटाक्षविकटायितकोटिः मेचकोत्पलमयी तद्‌बलिस्रक् स्फुरति स्म।
जीवातु–मेचकेति। बलेः असुरविशेषस्य, बन्द्‌धुः बन्धकस्य, बलिनामकदैत्यराजबन्धनकारिणो विष्णोरित्यर्थः। उरसि वक्षसि, कौस्तुभाख्यं कौस्तुभरत्नसंज्ञकम्, यत् मणिकुट्टिमं रत्ननिबद्धभूमिः, तदेव वास्तु आवासभूमिः यस्याः तादृश्याः श्रियः लक्ष्म्याः कटाक्षेम अपाङ्गदर्शनेन, विकटायिताः विशालीभूताः वृद्धिं गता इत्यर्थः। कोटयः प्रान्तदेशाः यस्याः सा तादृशी, मेचकोत्पलमयी नीलोत्पलग्रथिता, तस्य नलस्य, तेन नलेन दत्ताः इत्यर्थः। बलिस्रक् पूजामाल्यम्। `बलिः पूजोपहारः स्याद् बलिर्दैत्यो बलिः करः’ इति विश्वः। स्फुरति स्म शुशुभे॥ 21.41 ॥
स्वर्णकेतकशतानि च हेम्नः पुण्डरीकघटनां रजतस्य।
मालयाऽरुणमणेः करवीरं तस्य मूद्‌र्ध्नि पुनरुक्तमकार्षीत्॥ 21.42 ॥
अन्वयः–सः तस्य मूद्‌र्ध्नि हेम्नः मालया स्वर्णकेतकशतानि रजतस्य (मालया) पुण्डरीकघटनाम् अरुणमणेः (मालया) करवीरं पुनरुक्तम् अकार्षीत्।
जीवातु–स्वर्णेति। स नलः, तस्य विष्मोः मूर्दिध्न शिरसि, हेम्नः सुवर्णस्य, मालया माल्येन, स्वर्णनिर्मितपुष्पमाल्यार्पणेनेत्यर्थः। स्वर्णकेतकानां स्वर्णवर्णकेतकीपुष्पाणाम्, शतानि बहुसङ्ख्यकानि, स्वर्णकेतकीकुसुममाल्यार्पणमित्यर्थः। पुण्डरीकानां सिताम्भोजानाम, घटनां रचनाम् श्वेतपद्ममाल्यार्पणमित्यर्थः। अरुणमणे, पद्मरागस्य, मालया माल्येन, पद्मरागमणिघटितमाल्यदानेनेत्यर्थः। करवीरं करवीरकुसुमम्, रक्तकरवीरपुष्पमालार्पणमित्यर्थः। पुनरुक्तं द्विरुक्तम्, द्विगुणीकृतमित्यर्थः। पुनरुक्तानि च पुनरुक्ता च पुनरुक्तञ्चेति द्वन्द्वे `नपुंसकमनपुंसकेन-’ इत्यादिना नपुंसकैकशेषे एकवद्भावः अकार्षित् कृतवान्। द्विविधेनापि माल्येन स नारायणमचयामासेति निष्कर्षः॥ 21.42 ॥
नाल्पभक्तबलिरन्ननिवेद्यैस्तस्य हारिणमदेन स कृष्णः।
शङ्खचक्रजलजातवदर्चः शङ्खचक्रजलपूजनयाऽभूत्॥ 21.43 ॥
अन्वयः–सः तस्य अन्निवेद्यैः नाल्पभक्तबलिः, हारिणमदेन कृष्मः, शङ्खचक्रजलपूजनया शङ्खचक्रजलजातवदर्चः अभूत्।
जीवातु–नति। स भगवान् नारायणः, तस्य नलस्य, अन्ननिवेद्यैः अन्नान्येव भक्तान्येव निवेद्यानि उपहाराः तैः, इवेति शेषः। नाल्पः प्रभूतः भक्तवलिः अन्नोपहारः यस्य स तादृशः। `भक्तमन्धोऽन्नम्’ इत्यमरः। अन्यत्र-ताल्पभक्तः अधिकभक्तिसम्पन्नः, बलिः असुरविशेषः यस्य सः तादृशः, तन्नामकः इत्यर्थः। अभूत् अजनि; तस्य हारिणमदेन कृष्णनामा च, `कृष्णो वर्णे हरौ ध्वांक्षे पिके व्यासे शुकेऽर्जुन’ इत्यजयपालः। अभूत् तथा शङ्खानां दक्षिणावर्त्तादीनां विविधानां कम्बूनाम्, चक्रे समूहे। `चक्रसैन्ये रथाङ्गे च राष्ट्रे दम्भान्तरे चये। आयुधाः सलिलावर्त्ताः’ इत्यजयपालः। यत् जलं वारि, तेन या पूजना अर्चना तया, इवेति शेषः, शङ्ख शङ्खचक्रपद्मविशिष्टेत्यर्थः। अर्चा प्रतिमा पूजा च यस्य सः तादृशश्च। `अर्चा पूजातिमयोः-’ इति विश्वः। अभूत्। नलपूजा निबन्धना खलु भगवतः विष्णोर्नाल्पभक्तवलिरित्यादिशब्द वाच्यता अभूदिति भावः॥ 21.43 ॥
राज्ञि कृष्मलघुधूपजधूमाः पूजयत्यहिरिपुध्वजमस्मिन्।
निर्ययुर्भवधृता भुजगा भीर्दुर्यशोमलिनिता इव जालैः॥ 21.44 ॥
अन्वयः–अस्मिन् राज्ञि अहिरिपुध्वजं पूजयति भीर्दुर्यशोमलिनिताः भवधृताः भुजगाः इव कृष्मलघुधूपजधूमाः जालैः निर्ययुः।
जीवातु–राज्ञीति। अस्मिन् राज्ञि नले, अहिरिपुः नागारिः, गरुडः इत्यर्थः। ध्वजः लाञ्छनम्, ध्वजे रथचुडायामित्यर्थो वा, यस्य तं विष्णुम्, पूजयति अर्चयति सति, भिया अहिरिपुभयेन, यत् दुर्यशः भीरुत्वापवादः, तेन मलिनेति भावः। धृताः भूषणत्वेन परिगृहीताः, भुजगाः वासुकिप्रमुखाः शुभ्रसर्पा इव, कृष्णाः कृष्णवर्णाः लघवः अगुरवः। `शीघ्रे मनोज्ञे निःसारे लघुः स्यादगुरुद्रुमे’ इति शाश्वतः। तेषांधूपजाः धूपोत्थाः, धूपदानाय कालगुरुकाष्टदहनोत्पन्ना इत्यर्थः। धूमाः, जालैः गवाक्षविवरैः निर्ययुः निर्गताः। भवशरीरे भूषणत्वेन धृताः विशदा अपि भुजगाः पूज्यमाननारायणस्य रथध्वजस्तितस्वशत्रुरगुडदर्शनात् भयेन मलिनाः इव सन्तः धूपजातकृष्णधूमरूपेण बहिर्निर्जग्मुरित्यर्थः॥ 21.44 ॥
अर्घनिःश्वमणिमाल्यविमिश्रैः स्मेरजातिमयदामसहस्रैः।
तं पिधाय विदधे बहुरत्नक्षीरनीरनिधिमग्नमिवैषः॥ 21.45 ॥
अन्वयः–एषः अर्घनिऋस्वमणीमाल्यविमिश्रैः स्मेरजातिमथदामसहस्रैः तं पिधाय बहुरत्नक्षीरनिधिमग्नम् इव विदधे।
जीवातु–अर्घेति। एषः नलः, अर्धेण मूल्येन, निःस्वानां दरिद्राणाम्, अमूल्यानामित्यर्थः। मणीनां रत्नानाम्, माल्यैः स्रग्भिः, विमिश्रैः संयुक्तैः, स्मेराणां विकसितानाम्, जातिमयदाम्नां मालतीकुसुमस्रजाम्,सहस्रैः समूहैः, तंविष्णुम् पिधाय आच्छाद्य, बहुरत्नक्षीरनिधौ बहूनि, रत्नानि मणयो यस्मिन् तादृशाः, यः क्षीरनीरनिधिः क्षीरोदसमुद्रः, तत्र मग्नम् इव, विदधे चकार। अत्र क्षीरस्थानीयाः शुभ्रमालतीकुसुमस्रजः रत्नस्तानीयानि च मणिमाल्यानीति बोध्यम्॥ 21.45 ॥
अक्षसुत्रगतपुष्करवीजश्रेणिरस्य करसङ्करमेत्य।
शौरिसूक्तजपितुः पुनरापत् पद्मसद्मचिरवासविलासम्॥ 21.46 ॥
अन्वयः–अक्षसूत्रगतपुष्करबीजश्रेणिः शौरिसूक्तजपितुः अस्य करसङ्करम् एत्य पुनः पद्मसद्मचिरवासविलासम् आपत्।
जीवातु–अक्षसूत्रेति। अक्षसूत्रगतानां जपमालाग्रथनतन्तुस्थितानाम्, पुष्करबीजानां पद्मगुटिकानाम्, श्रेणिः राजिः माला इत्यर्थः। शौरिसूक्तस्य पुरुषसूक्तस्य, जपितुः जपं कर्तुः अस्य नलस्य, करसङ्करं हस्तसम्बन्धम्, एत्य प्राप्य, पुनः भूयोऽपि, पद्मं कमलम् एव, सद्म गृहम्, तत्र चिरवासस्य बहुकालावस्थितेः, विलासं शोभाम्, आपत् प्राप्तवती। नलकरस्य कमलसदृशत्वादिति भावः॥ 21.46 ॥
कौटभारिपदयोर्नतमूद्‌र्ध्ना सञ्जिता विचकिलस्रगनेन।
जह्नजेव भुवनप्रभुणाऽभात् सेविताऽनुनयताऽऽयतमाना॥ 21.47 ॥
अन्वयः–नतमूद्‌र्ध्ना अनुनयता भुवनप्रभुण अनेन कैटभारिपदयोः सञ्जिता आयतमाना सेविता विचकिलस्रक् जह्नजा इव अभात्।
जीवातु–कैटभारीति। नतः भूसंलग्न इत्यर्थः। मूर्द्धा शिरः यत्य तेन प्रणामार्थ मतमस्तकेन, अनुनयता स्तवेन देवं प्रसादयता, भुवनप्रभुणा भूलोकनाथेन, अनेन नलेन भगीरथेन च, यद्वा-जलेश्वरेण समुद्रेण च। `भुवनप्रभुणा भूलोकनाथेन, अनेन नलेन भगीरथेन च, यद्वा-जलेश्वरेण समुद्रेण च। `भुवनं विपिने तोये’ इति विश्वः। कैटभारेः विष्णोः, पादयोः चरणयोः, सञ्जिता संसर्ग प्रापिता, समर्पिता इत्यर्थः। अन्यत्र-आसञ्जिता आसक्तिं गता, भक्तिमतीत्यर्थः। वष्णुदोद्‌भूतत्वादिति भावः। आयतं दीर्घम्, मानं प्रमाणं यस्याः सा, अन्यत्र-यतयाना चेष्टमाना, पृथिव्यां गन्तुं यत्नवतीत्यर्थः। यद्वा-आयतः दीर्घः, मानः ईर्ष्या कोपश्च यस्याः सा। `मानं प्रमाणे प्रस्थादौ मानश्चित्तोन्नतौ गृहे’ इति विश्वः। सेविता आराधिता, एकत्र-सुगन्धेन सर्वैः समादृता इत्यर्थः। अन्यत्र-त्रिभुवनजनपूजिता इत्यर्थः। विचकिलस्रक् मल्लिकाकुसुममाला। स्मृतो विचकिलो मल्ली प्रभेदे मदनेऽपि च’ इति विश्वः। जह्न जा गङ्गा इव, अभात् बभौ॥ 21.47 ॥
(युग्मम्)
स्वानुरागमनघः कमलायां सूचयन्नपि हृदि न्यसनेन।
गौरवं व्यधित वागधिदेव्याः श्रीगृहोद्‌र्ध्वनिजकण्ठनिवेशात्॥ 21.48 ॥
इत्यवेत्य वसुना बहुनाऽपि प्राप्नुवन्न मदुदमर्चनया सः।
सूक्तिमौक्तिकमयैरथ हारैर्भक्तिमैहत हरेरुपहारैः॥ 21.49 ॥
अन्वयः–अनघः हृदि न्यसनेन कमलायां स्वानुरागं सूचयन् अपि श्रीगृहोद्‌र्ध्वनिजकण्ठनिवेशात् वागधिदेव्याः गौरवं व्यधित-इति अवेत्य बहुना अपि वसुना अर्चनया अपि मुदं न प्राप्नुवन् सः अथ सूक्तिमौक्तिकमयैः हारैः उपहारैः हरेः भक्तिम् ऐहत।
जीवातु–स्वेति। अनघः निष्पापः, विष्णुरिति शेषः। हृदि वक्षसि, न्यसनेन स्थापनेन, कमलाया एवेति भावः। कमलायां लक्ष्म्याम्, स्वानुरागं निजप्रेम, सूचयन् प्रकटयन् अपि, श्रियः तस्याः कमलाया एव, गृहात् निवासभूतात्, निजवक्षसः इति शेषः। ऊद्‌र्ध्वे उपरिस्थिते, निजे स्वकीये, कण्ठे गलदेशे,निवेशात् स्थापनात् हेतोः, वागधिदेव्याः, वाग्देवतायाः सरस्वत्याः, गौरवं पूजाम्, सम्मानाधिक्यमित्यर्थः। कमलापेक्षया इति भावः। व्यधित कृतवान्। इतीति। सः नलः, इति पूर्वोक्तप्रकारं विष्णोर्मनोभावम्, अवेत्य ज्ञात्वा, बहुना प्रभृतेनापि वसुना धनेन, लक्ष्मीरूपेण मणिरत्नादिना इति भावः। लक्ष्म्या च इति ध्वन्यते, विहितया इति शेषः। अर्चनया पूजया,अपीति शेषः। मुदं प्रीतम्, न प्राप्नुवन् न लभमानः स्न् अथ अनन्तरम्, सूक्तिमौक्तिकमयैः सूक्तयः सरसपदनिबद्धानि स्तोत्राण्येव, मौक्तिकानि मुक्ता समूहाः, विशदत्वादिति भावः। तन्मयैः तदात्मकैः, हारैः हाररूपैः, सरस्वत्या इति च ध्वन्तयते, उपहारैः उपायनैः, हरेः नारायणस्य, भक्तिम् ऐकान्तिकसेवाविशेषम्, ऐहत अचेष्टत, हरिभक्तिं दर्शयितुमैच्छदिति भावः। हरिणा कमलातः वाण्याः अधिकं गौरवं कृतमतः सरस्वतीकरणकार्चनेनैवास्मिन् अधिका भक्तिः प्रदर्शिता भविष्यतीति मत्वा नलः सरस्वतीमयैः सूक्तैस्तमभजत इति निष्कर्षः॥ 21.48,21.49 ॥
दूरतः स्तुतिरवाग्विषयस्ते रूपमस्मदभिधास्तव निन्दा।
तत् क्षमस्व यदहं प्रलपामीत्युक्तिपूर्वमयमेतदवोचत्॥ 21.50 ॥
अन्वयः–ते रूपम् अवाग्विषयः, स्तुतिः दूरतः अस्मदक्षिधाः तव निन्दा; यत् अहं प्रलपामि, तत् क्षमस्व-इति उक्तिपूर्वम् अयम् एतद् अवोचत्।
जीवातु–दूरत इति। हे भगवन्! ते तव, रूपं स्वरूपम् अवाग्विषयः वाचामगोचरः, `यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह’ इत्यादिश्रुतेरिति भावः। स्तुतिः स्तवः, दूरतः दूरे, कर्त्तु शक्येत? कथमपि नेत्याशयः। निन्दा कदर्थना, भवतीति शेषः। अनन्तगुणस्य तव अत्यल्पगुणप्रकाशकत्वात् वागविषयस्य च वाचा वर्णनात् तिरस्कार एवेत्यर्थः। अत एव अहं नलः, यत् प्रलपामि अनर्थकं वच्मि, तत् प्रलापवचनम् क्षमस्व सहस्व, मार्जयेत्यर्थः। इत्युक्तिः एवं-वचनम्, पूर्वं प्रथमं यस्मिन् तद्‌ यथा भवति तथा, अयं नलः, एतद् वक्ष्यमाणम्, अवोचत् उक्तवान्॥ 21.50 ॥
स्वप्रकाश! जड एव जनस्ते वर्णनं यदभिलष्यति कर्तुम्।
नन्वहर्पतिमहः प्रति स स्यान्न प्रकाशनरसस्तमसः किम्॥ 21.51 ॥
अन्वयः–स्वप्रकाश, जडः एषः जनः यत् ते वर्णनं कर्त्तुम् अभिलष्यति, ननु सः अहर्पतिमहः प्रति किं तमसः प्रकाशनरसः न स्यात्?
जीवातु–स्वेति। स्वप्रकाशः! अन्यनिरपेक्षप्रकाशरूप! विष्णो! `एष आत्मा स्वप्रकाशः’ इति वेदान्तादिति भावः। जडः मूढः, अविद्याऽऽच्छन्नः इति यावत्। एषः अयम्, जनः लोकः, ते तव, चिन्मयस्येति भावः। वर्णनं गुणकीर्त्तुनम्, कर्त्तं विधातुम्, यत् अनिभलष्यति वाञ्छति, ननु भो विष्णो! सः तादृशवर्णनाभिलाषः, अहर्पतेः सूर्यस्य, महः तेजः प्रति लक्ष्यीकृत्य, तमसः अन्धकारस्य, प्रकाशने प्रकटने, स्वाविर्भावविषये इत्यर्थः। रसः वाञ्छा, न स्यात् किम्? न भवेत् किम्? अपि तु स्यादेव इत्यर्थः। स्वप्रकाशस्य तव वर्णने जडस्य ममाभिलाषः प्रकटकाशसूर्वतेज प्रकाशने तमसः अभिलाष इव अत्यन्तमशोभन एवेति भावः। तेजोनाश्यस्य तमसः तेजः प्रकाशाभिलाष यथा विफल एव तथा स्वप्रका4शनाश्याया जडतायाः अपि तं प्रति प्रकाशनात्मकवर्णनोद्यमः विफल एवेति तात्पर्यम्॥ 21.51 ॥
मैव वाङ्मनसयोर्विषयो भूस्त्वां पुनर्न कथमुद्दिशतां ते।
उत्कचातकयुगस्य घनः स्यात् तृप्तये घनमनाप्नुवतोऽपि॥ 21.52 ॥
अन्वयः–वाङ्मनसयोः विषयः मा एव भूः पुनः ते त्वां कथं न उद्दिशताम्? घनम् अनाप्नुवतः अपि उत्कचातकयुगस्य तृप्तये घनः स्यात्।
जीवातु–मेति। हे विष्णो! वाङ्मनसयोः वाक्यचेतसोः। `अचतुर-’ इत्यादिना साधुः। विषयः गोचरः, मैव भूः नैव भव, त्वमिति शेषः। `यतो वाचो निवर्त्तन्ते अप्राप्य सह’ इति श्रुतेरिति भावः। पुनः तथाऽपि, ते वाङ्मनसे, त्वां भवन्तम्, कथं केन हेतुना, न उद्दिशताम्? न लक्षयताम्? त्वामुद्दिश्य न प्रवर्त्तेतामित्यर्थः। अपि तु उद्दीशतामेवेति भावः। `दिश अतिसर्जने’ इत्यस्माद्वातोर्लोटि रूपम्। तथा हि घनं मेघम्, अनाप्नुवतः अलभमानस्य अपि, दूरावस्थितत्वादिति भावः। उत्कयोः मेघार्थमेव उत्सुकयोः; चातकयोः सारङ्गयोः युगस्य द्वन्द्वस्य, चातकमिथुनस्येत्यर्थः। तृप्तये जलदानेन प्रीतये, घनः मेघः स्वयमेव, स्यात् भवेत्। चातकयुगस्य अविषयोऽपि मेघो यथा स्वथमेव तत्तृप्तये उदेति तथा वाङ्मनसयोरगोचरोऽपि त्वं स्वयमेव मत्तृप्तये स्याः, अतो न वर्णनोद्यमो मया त्यज्यते इति निष्कर्षः॥ 21.52 ॥
छद्ममत्स्यवपुषस्तव पुच्छास्फालनाज्जलमिवोद्धृतमब्धेः।
श्वैत्यमेत्य गगनाङ्गणसङ्गादाविरस्ति विबुधालयगङ्गा॥ 21.53 ॥
अन्वयः–छद्‌ममत्स्यवपुषः तव पुच्छास्फालनात् अब्धेः उद्‌धृतं जलम् गगनाङ्णसङ्गात श्वैत्यम् एत्य विबुधालयगङ्गा आविरस्ति इव।
जीवातु–छद्मेति। हे विष्णो? छद्मना कपटेन, वेदोद्धारव्याजेनेत्यर्थः। मत्स्यः मीन, वपुः शरीरं यस्य तथोक्तस्य, तव ते, पुच्छस्य लांगूलस्य, आस्फालनात् ताडनात् हेतोः, अब्धेः सागरात्, उद्धृतम् ऊद्‌र्ध्वम् उत्क्षिप्तम्, जलं वारि, कर्तृ। गगनाङ्गणेन आकाशात्मकचत्वरेण, सङ्गात् सयोगात् हेततोः, श्वैत्यं श्वेतत्वम्, एत्य प्राप्य, विबुधालयगङ्गा स्वर्णदी, भूत्वा इति शेषः। आविरस्तीव प्रादुर्भवतीव। नीलवर्णा अपि सामुद्रा ह्यापो गगनालोकसंस्पर्शादेव धवला दृश्यन्ते इति भावः॥ 21.53 ॥
भूरिसृष्टिधृतभूवलयानां पृष्ठसीमनि किणैरिव चक्रैः।
चुम्बिताऽवतु जगत् क्षितिरक्षाकर्मठस्य कमठस्तव मूर्त्तिः॥ 21.54 ॥
अन्वयः–पृष्ठसीमनि भूरिसृष्टिधृतभूवलयानां किणैः इव चक्रैः चुम्बिता क्षितिरक्षाकर्मठस्य तव कमठः मूर्तिः जगत् अवतु।
जीवातु–भूरीति। हे भगवन्? पृष्ठसीमनि पृष्ठप्रदेशे, भूरिषु प्रतिकल्पं नूतनसृष्टिकरणात् बह्वीषु सृष्टिषु सृजनकार्येषु, धृतानां पृष्ठदेशे एव उदूढानाम्, भूवलयानां पृथ्वीमण्डलानाम्, किणैः पुनः पुनः वहनेन घर्षणजनितचिह्वविशेषैरिव, चक्रैः चक्राकारचिह्वराजिभिः, चुम्बिता स्थाने स्थाने स्पृष्टा, क्षितेः पृथिव्याः, रक्षायां पालने जलनिमज्जनात् रक्षणविषये इत्यर्थः। कर्मठस्य कुशलस्य। `कर्मणि घटोऽठच्’। तव भवत्सम्बन्धिनी, कमठः कूर्मरूपिणी, मूर्तिः तुनः, जगत् भुवनम्, अवतु रक्षतु॥ 21.54 ॥
दिक्षु यत्खुरचतुष्टयमुद्रामभ्यवैमि चतुरोऽपि समुद्रान्।
तस्य पोत्रिवपुषस्तव दष्ट्रा तुष्टेऽस्तु मम वास्तु जगत्याः॥ 21.55 ॥
अन्वयः–दिक्षु चतुरः अपि समुद्रान् यत्खुरचतुष्टयमुद्राम अभ्यवैमि पोत्रिवपुषः तस्य तव जगत्याः वास्तु दंष्ट्रा मम तुष्टये अस्तु। (अथवा तव दंष्ट्रा मम तुष्टये जगत्याः वा (तुष्टये)अस्तु।)।
जीवातु–दिक्ष्विति। हे विष्णो! दिक्षु चतसृषु आशासु, चतुरः चतुः सङ्ख्यकान् अपि, समुद्रान् सागरान्, यस्य वराहमूर्त्तिधरस्य, खुराणां चतुष्टयस्य चतुःसङ्ख्यकशफस्य, मुद्रां चिह्नम्, खुरेण विदलनजनितखातरूपचिह्नमिति यावत्, अभ्यवैमि जानामि, तस्य उक्तविधस्य, पोत्री वराह एव। `वराहः शूकरो घृष्टिः कोल पोत्री किरः किटिः’ इत्यमरः। वपुः शरीरं यस्य तादृशस्य, तव भवतः, जगत्याः पृथिव्याः’ वास्तु वेश्मस्थानम्, रसातलप्रदेशादुद्‌धृत्य दंष्ट्रोपरिस्तापनेन आवासभूता इत्यर्थः। `वेश्मभूर्वास्तुरस्त्रियाम्’ इत्यमरः। दंष्ट्रा विशालदन्तः, मम मे, तुष्टये वाञ्छापूरणजनितप्रीयते, अस्तु भवतु॥ 21.55 ॥
उद्धृतिस्खलदिलापरिरम्भाल्लोमभिबंहिरितैर्बहुहृष्टैः।
ब्राह्मण्डमभवद् बलिनीपं केलिकोल! तव तत्र न मातुः॥ 21.56 ॥
अन्वयः–केलिकोल, तत्र न मातुः तव उद्धृतिस्खलदिलापरिरम्भात् बहुहृष्टैः बहिरितैः लोमभिः ब्राह्मम् अण्डं बलिनीपम् अभवत्।
जीवातु–उद्धृतीति। केलिकोल! हे क्रीडावराह! लीलाप्रदशंनार्थ वराहरूपधारिन्! तत्र ब्रह्मण्डे, न मातुः अवकाशम् अलभमानस्य, अतिविपुलदेहतयेति भावः। माःघातोस्तृचि ष्ष्ठ्येकवचनरूपम्। तव भवतः उद्धृतौ जलाद् उद्धरणसमये, स्खलन्त्याः दन्तात् पतन्त्याः, इलायाः पृथिव्याः, परिरम्भात् सयत्नधारणात् आलिङ्गनाच्च हेतोः, बहु अत्यर्थ यथा भवति तथा, हृष्टैः विकसितैः, पुलकितैरित्यर्थः। उद्‌गतैरिति यावत्, बहिर्ब्रह्माण्‍डस्य बहिःप्रदेशे, इतैः गतैः, लोमभिः तनुरुहैः साधनैः, ब्राह्मम् अण्डं ब्रह्माण्डम्, बलिनीपं तव पूजार्थ कदम्बकुसुमम्, इवेति शेषः, अभवत् अजायत॥ 21.56 ॥
दानवौधगहनप्रभवस्त्वं सिंह! मामव रवैर्घनधोरैः।
वैरिदारिदिविषत्सुकृतास्त्रग्रामसम्भवभवन्मनुजार्द्धः॥ 21.57 ॥
अन्वयः–सिंह, दानवौघगहनप्रभवः वैरिदारिदिविषत्सुकृतास्त्रग्रामसम्भवभवन्मनुजार्द्धः त्वं घनघोरैः रवैः माम् अव।
जीवातु–दानवाविति। सिंह! हे नृसिंहमूर्त्तिधर! विष्णो!, दानवानां दनुजानाम्, ओघः समूहः एव, बहुदानवाधिपतिहिरण्यकशिपुसमा एवेति भावः। गहनं वनम्, हिंस्रप्रकृतिदानवौधपतिहिरण्यकशिपुसमा एवेति भावः। गहनं वनम्, हिंस्रप्रकृतिदानवौधाधिष्ठितत्वेन दुष्प्रवेशत्वादिति भावः। तत्र प्रभवः उत्पत्तिः यस्य सः तादृशः, अनेन सिंहाकारधारणस्य औचित्यं प्रकटितम्, सिंहस्य वनसम्भवत्वादिति भावः। तथा वैरिणः शत्रून् दानवान्, दारयन्ति नाशयन्तीति तादृशानि, यानि दिविषत्सुकृतानि देवानां पुण्यानि, तान्येव अस्त्राणि आयुधानि, तेषआं ग्रामः समूह एव ग्रामः संवसथः, स्वल्पसङ्ख्यकमनुष्यवसतिस्थानमित्यर्थः। तस्मात् सम्भवः उत्पत्तिः यस्य सः तादृशः, भवन् जायमानः, प्रकटयन्नित्यर्थः। मनुजः मनुषअयः एव, राकार एव इत्यर्थः। अर्द्धः अर्घः कायः यस्य स ताद्दशः, एतेन देवोपकारिनरोत्पत्तोरौचित्यं प्रदर्शितम्, नरस्य ग्रामसम्भवत्वादिति भावः, त्वं भवान्, घनैः अनवरतैः, घोरैः भयङ्करैश्च, रवैः ध्वनिभिः, गर्जरिति यावत्, मां नलम्, अव रक्ष॥ 21.57 ॥
दैत्यभर्त्तुरुदरान्धुनिविष्टा शक्रसम्पदमिवोद्धरतस्ते।
पातु पाणिसृणिपञ्चकमस्मांश्छिन्न रज्जुनिभलग्नतदन्त्रम्॥ 21.58 ॥
अन्वयः–दैत्यभर्त्तुः उदरान्धुनिविष्टां शक्रसन्पदम् उद्धरतः इव ते छिन्नरज्जुनिभलग्नतदन्त्र पाणिसृमिपञ्चकम् अस्मान् पातु।
जीवातु–दैत्येति। हे नरसिंह! दैत्यभर्त्तुः हिरणअयकशिपोः, उदरमेव जठरमेव, अन्धुः कूपः। `पुंस्येवान्धुः प्रहिः कूपः’ इत्यमरः। `अजिदृशिकम्ममि-’ इत्यादिना औणादिकः कुप्रत्ययः धुगागमश्च। तस्मिन् निविष्टां मग्नत्वेन स्थिताम्, शक्रसम्पदम् इन्द्रैश्वर्यम्, उद्धरतः उत्तोलयत इव, ते तव, छिन्नरज्जुनिभानि खण्डितदामसद्दशानि, लग्नानि संसक्तानि, पाणिसृणिपञ्चके एव इति भावः। तस्य दैत्यभर्त्तुः, अन्त्राणि पुरीतदाख्यनाडीविशेषाः यत्र तादृशम्। `अन्त्रं पुरीतत्’ इत्यमरः। पाणैः करस्य, सृणीनां तीक्ष्णनखरूपाणाम् अङ्कुशानाम्, पञ्चकं पञ्चसङ्ख्या, अस्मान् मत्प्रभृतीन्, पातु रक्षतु कूपे हि पतितान्युदञ्चनादीन्यङ्कुशाकारेण रज्जुवेष्टितेन लौहयन्त्रविशेषेण उद्‌ध्रियन्ते यथा तद्वदिति भावः॥ 21.58 ॥
स्वेन पूर्यत इयं सकलाशा भो! बले! न मम किं भवतेति?
त्वं वटुः कपटवाचि पटीयान् देहि वामन! मनः प्रमद नः॥ 21.59 ॥
अन्वयः–`भोः बले, भवता इयं सकलाशा स्वेन पूर्यते, किं मम न?’-इति कपटवाचि पटीयान् वटुः वामन, त्वं नः मनः प्रमदं देहि।
जीवातु–स्वेनेति। भोः। बले! हेबलिनामदैत्याधिप! भवता त्वया, इयम् एषा, सकलानां सर्वेषामेव लोकानाम्, आशा मनोरथः, स्वेन धनेन धनवितरणेनेत्यर्थः। पूर्यते परिपूर्णिक्रियते, मम मे, किं न? आशा पूर्यते इति पूर्वेणान्वयः। अपि तु पूर्यते एव। अन्यच्च-भो राजन्! भवता इयं सकला सर्वा, आशा दिक्। `आशा तृष्णादिशोः, प्रोक्ता’ इति विश्वः। स्वेन आत्मीयेन बलेन सामर्थ्येन, पूर्यते व्याप्यते, मम मे, आशा दिक्, किं पूर्यते? अपि तु नैवेत्यर्थः। मम बैकुण्ठलोकव्यापने तव सामर्थ्याभावादिति भावः। यद्वामम किम्? तावता मे किं प्रयोजनम्? मया ते त्रिपादभूमिरेव याच्यते, नाधिकेन अस्ति मे प्रयोजनम्, अतस्ते सर्वदिगधिकारे मम लाभक्षती न स्त इति भावः। वामन! हे वामनरूपधर विष्णो! एत्येवरूपायाम्, कपटवाचि छद्मवचने, भगवतः आशाया एवाभावात् तादृशप्रार्थनायाः एवं भवान् नः अस्माकम्, मनसः चेतसः प्रमदं हर्षम्, अभीष्टसाधनादिना इति भावः। देहि कुरु॥ 21.59 ॥
दानवारिरसिकाय दिवभूतेर्वश्मि तेऽस्मि सुतरां प्रतिपत्तिम्।
इत्युदग्रपुलकं बलिनोक्तं त्वां नमामि कृतवामनमायम्॥ 21.60 ॥
अन्वयः–`अस्मि दानवारिरसिकाय ते विभूतेः सुतरां प्रतिपत्तिं वश्मि-इति बलिना उदग्रपुलकम् उक्तं कृतवामनमायं त्वां नमामि।
जीवातु–दानवारीति। हे वामन! अस्मि अहम्, अस्मीत्येतदव्ययमहमर्थे। दानस्य त्यागस्य, वारिणः जलस्य, दानार्थकसङ्कल्पसलिलस्येत्यर्थः। रसिकाय अनुरागिणे, प्रतिग्रहवाञ्छकाय इत्यर्थः। ते तुभ्यम्, विभूतेः सम्पत्तेः, ममेति शेषः। सुतराम अत्यर्थम्, प्रतिपत्तिं दानम्, वश्मि कामये। वश कान्तावित्यस्य लडुत्तमपुरुषैकवचनम्। अन्यच्च-हे वामन! त्वं दानवानाम् असुराणाम्, अरिः शत्रुः साक्षात् विष्णुः, असि भवसि, अत एव अस्मि अहम्, ते तव, कायविभूतेः शरीरसम्पत्तेः, गृहीतत्रिविक्रममूर्त्तेरिति भावः। सुतराम्, अत्यर्थम्, प्रतिपत्ति ज्ञानम्, तव स्वरूपज्ञानेच्छाम्, दर्शनप्राप्ति वा इत्य्रथः। वश्मि कामये। इत्यनेन प्रकारेण, उदग्राः उत्कटाः, भक्त्यातिशय्यात् अत्यर्थमुद्‌गता इत्यर्थः। पुलका रोमाञ्चा यस्मिन् तत् यथा भवति तथा, बलिना दानवेन्द्रेण, उक्तं कयितम्, कृता विहिता, वामनरूपा वामनाकारधारणात्मिका, माया छलं येन तं तादृशम्, त्वां भवन्तम्, नामामि नतोऽस्मि॥ 21.60 ॥
भोगिभिः क्षितितले दिवि वासं बन्धमेष्यसि धिरं ध्रियमाणः।
पाणिरेव भुवनं वितरेति छद्मवाग्भिरव वामन! विश्वम्॥ 21.61 ॥
अन्वयः–क्षितितले दिवि चिरं ध्रियमाणः योगिभिः वासं बन्धम् एष्यसि, एषः पाणिः, भुवनं वितर-वामन, इति छद्‌मवाग्भिः विश्वम् अव।
जीवातु–भोगिभिरिति। हे बले! क्षितितले भूलोके, दिवि स्वर्गे वा, चिरं बहुकालं, व्याप्य, ध्रियमाणः अवतिष्ठमानः धृङ् अवस्थाने इत्यस्य रूपम्। त्वमिति शेषः। भोगं सुखमेषामस्तीति तादृशैः भोगिबिः सुखिभिः, जनैरिति शेषः। सह सार्द्धम्, वासम् अवस्तानम्, तथा सख्यबन्धनञ्च, एष्यसि प्राप्स्यसि, मम करे दानवारिप्रदानादिति भावः। अत एव एषः अयम्। पाणिः हस्तः, मया प्रसारित इति शेषः। भुवनं जलम्, दानवारीति यावत्। वितर देहि, अत्र पाणौ इति शेषः। अन्यच्च-हे बले! दिवि स्वर्गे, स्वर्गतुल्यपरमरमणीये इत्यर्थः। क्षितितले रसातले, चिरं दीर्घकालं व्याप्य, ध्रियमाणः अवतिष्ठमानः, त्वमिति शेषः, भोगिभिः सर्पैः सह, वासन्, अवस्थितिम्, बन्धं, बन्धनञ्च, एष्यसि प्राप्स्यसि,एषः पाणिः, मया प्रसारितः इतिशेषः, भुवनं लोकम्, इन्द्रात् बलपूर्वकं गृहीतम्, अत एव तस्यैव माप्यमिति भावः। `भुवनं विष्ठपे तोये’ इत्यजयपालः। वितर समर्पय, हे वामन! इत्यनेन प्रकारेण, छद्मवाग्भिः कपटवचनैः, विश्वं जगत्, अव रक्ष॥ 21.61 ॥
आशयस्य विवृतिः क्रियते किम्? दित्सुरस्मि हि भवच्चरणेभ्यः।
विश्वमित्यभिहितो बलिनाऽस्मान् वामन! प्रणतपावन! पायाः॥ 21.62 ॥
अन्वयः–प्रणतपावन वामन, आशयस्य विवृतिः किं क्रियते, हि भवच्चरणेभ्यः विश्वं दित्‌सुः अस्मि-इति बलिना अभिहितः अस्मान् पायाः।
जीवातु–आशयस्येति। हे वामन! आशयस्य अभिप्रायस्य, प्रतिग्रहाभिलाषस्येत्यर्थः। `अभिप्रायश्छन्द आशयः’ इत्यमरः। विवृतिः विवरणम्, प्रकाश इत्यर्थः. कि किमर्थम्, क्रियते? विधीयते? हि यतः भवच्चरणेभ्य इति पूज्यताऽतिशयद्योतनपरम्, भवच्चरणेभ्यः पूज्यतमाय भवते इत्यर्थः। विश्वं सर्वा एव सम्पद इत्यर्थः। दित्सुः स्वयमेव दातुमिच्छुः, अस्मि भवामि। अन्यच्च-हे वामन! शयस्य हस्तस्य, आ सम्यक्, विवृतिः प्रसारणमित्यर्थः। किं कथम्, क्रियते? विधीयते? त्वयेति शेषः। दानग्रहणार्थमिति भावः। हि यतः, भवतः तव, चरणेभ्यः त्रिभ्यः एव पादेभ्यः, न तु पाणौ इति भावः। विश्वं जगत्, दित्सुः अस्मि, प्रणतानां पावन! हे भक्तजनचित्तशोधक! वामन! इत्यनेन प्रकारेण बलिना दानवेन्द्रेण, अभिहितः उक्तः त्वमिति शेषः। अस्मान् नालदीन्, पायाः रक्षेः। `पा रक्षणे’ इत्यस्य लिङो मध्यमपुरुषैकवचनम्॥ 21.62 ॥
क्षत्रजातिरुदियाय भुजाभ्यां या तवैव भुवनं सृजतः प्राक्।
जामदग्न्यवपुषस्तव तस्यास्तौ लयार्थमुचितौ विजयेताम्॥ 21.63 ॥
अन्वयः–प्राक् भुवनं सृजतः तव एव भुजाभ्यां या क्षत्रजातिः उदयाय, तस्याः लयार्थम् उचितौ जामदग्न्यवपुषः तव तौ विजयेताम्।
जीवातु–क्षत्रेति। हे विष्णो! प्राक् पुरा, भुवन जगत्, सृजतः सृष्टिं कुर्वतः, तव भवत एव, भुजाभ्यां दोर्भ्यां सकाशात्, या क्षत्रजातिः क्षत्रियसमूहः, उदियाय उद्‌भूता, `बाहु राजन्यः कृतः’ इति श्रुतेः, तस्याः क्षत्रजातेः, लयार्थ विनाशार्थम्, उचितौ योग्यौ, `नाशः कारणलयः’ इति साङ्ख्यादिसिद्धान्तात् कार्यं हि कारणे एव लीनं भवतीति सर्वत्र दर्शनाच्च कार्यभूतां क्षत्रजातिं प्रति तव भुजयोरेव कारणत्वात् क्षत्रजातेस्तव भुजयोरेव लीनत्वस्यौचित्यादिति भावः। जामदग्न्यः परशुररामः, वपुः शरीरं यस्य तस्य परशुरामदेहधारिणः, तव ते, तौ भुजौ, विजयेतां सर्वोत्कर्षेण वर्त्तेताम्। विपराभ्यां जेस्तङादेशः॥ 21.63 ॥
पांशुला बहुपतिर्नियतं या वेधसाऽरचि रुषा नवखण्डा।
तां भुवं कृतवतो द्विजभुक्तां युक्तकारितरता तव जीयात्॥ 21.64 ॥
अन्वयः–पांशुला बहुपतिः या वेधसा नियतं रुषा नवखण्डा अरचि तां भुवं द्विजभुक्तां कृतवतः तव युक्तिकारितरता जीयात्।
जीवातु–पांशुलेति। हे जामदग्न्य! विष्णो! पांशुला रजोयुक्ता, स्वैरिणी च। `सिध्मादिभ्यश्च’ इति मत्वर्थीयो लच्’ `स्वैरिणी पांशुला समा’ इत्यमरः। बहवः अनेके, पतयः स्वामिनः यस्याः सा बहुपतिश्च अनेकाधिपतिका, अनेकोपपतिका च, या भूः, वेधसा ब्रह्मणा, नियतं निश्चितमेव, रुषा कोपेन हेतुना, नव नवसङ्ख्यकानि, खण्‍डानि अंशाः, भारतादीनि वर्षाणीत्यर्थः। यस्याः सा, नव नवभागेन विभक्तानि, अंशाः, भारतादीनि वर्षाणीत्यर्थः। यस्याः सा, नव नवभागेन विभक्तानि, खण्डानि छेदनेन शकलीकृतानि अङ्गानि यस्याः सा तादृसी च, अरचि रचिता, भारतादिवर्षभेदेन नवधा विभक्तीकृता छेदन्नेन नवधा विभक्तीकृता चेत्यर्थः। तां पूर्वोक्तरूपाम्, भुवं पृथिवीम्, काञ्चित् द्विजौः कश्यपादिभिः ब्राह्मणैः, मांसाशिभिः पक्षिभिश्च। `दन्तविप्राण्डजा द्विजाः’ इत्यभरः। भुक्तां प्रतिग्राहणेन भोगविषयीकृतां खादिताञ्च, कृतबतः विहितवतः, ते तव, युक्तकारिषु उचितकर्मकरेषु प्रकृष्ट इति युक्तकारितरः, तस्य भावस्तत्ता युक्तकारितरता अतिशयेन विवेकिता, जीयात् जयतु। निखिलक्षत्रियविनाशनेन अधिकृताया भूमेः ब्राह्मणसात्करणस्यैव औचित्याद् बहुजारभुक्ताया हि स्त्रिया भर्त्रा खण्डशः कृत्वा पक्षिभिः खादनाया औचित्याच्चेैति भावः॥ 21.64 ॥
कार्त्तवीर्यभिदरेण दशास्ये रैणुकेय! भवता सुखनाश्ये।
कालभेदविरहादसमाधिं नौमि रामपुनरुक्तिमहं ते॥ 21.65 ॥
अन्वयः–रैणुकेय, कार्त्तवीर्यमिदुरेण भवता दशास्ये सुखनाश्ये कालभेदविरहात् असमाधि ते रामपुनरुक्तिम् अहं नौमि।
जीवातु–कार्त्तवीर्येति। हे रैणुकेय!परशुराम! `स्त्रीभ्यो ढक्’। कार्त्तवीर्यस्य कार्त्तवीर्यार्जुनस्य भिदुरेण नाशकेन। भिदेः केर्त्तरि कुरच्। भवता त्वया, दशास्ये रावणेऽपि, सुखम् अनायासं यथा भवति तथा, नाश्ये हन्तव्ये सति,रावणं जितवतः कार्त्तवीर्यस्य यः जेता तस्य रावणनाशे आयासाभावादिति बावः। कालभेदस्य युगरूपस्य समयान्तरस्य, विरहात् अभावात्, एकस्मिन्नेव त्रेतायुगे उभयोरेवावतीर्मत्वात् इति भाव। असमाधिं सिद्धान्तहीनाम् ते तव, रामेण दाशरथिना, पुनरुक्तिं रामनाम्नः पुनः कथनम्, अहं नलः, नौमि रतौमि। द्विरुक्तेः कालभेदात् कार्यभेदाद्वा परिहारो भवितुमर्हति, अत्र तु एकस्यामेव त्रेतायां दशास्यवधादिरूपस्य कार्यस्य एकेनैव कर्तु शक्यत्वेऽपि पुनः दाशरथिरामरूपेणावतीर्णत्वात् तेन सह तव अशक्यपरिहारा पुनरुक्तिर्जाता, तादृशीम् अतर्क्यरूपां महीयसीं रामरूपां पुनरुक्तिमहं नौमीत्यर्थः। रेणुकापत्यत्वात् मात्रंशे एकस्यामेव क्षत्रियजातौ समुद्‌भूतेन एकस्मिन्नेव त्रेतायुगे अवतीर्णेन कार्त्तवीर्यविजयिपरशुरामावतारेणैव कार्त्तवीर्यितस्य रावणस्य वधे सुकरेऽपि पुनः तदर्थं रामावतारग्रहणस्य आनर्थक्यात् तुनरुक्तिमिव प्रतिभाति, अस्याश्च निरसनाय सदुत्तरं नास्तीति भावः॥ 21.65 ॥
हस्तलेखमसृजत् खलु जन्मस्तानरेणुकमसौ भवदर्थम्।
राम! राममधरीकृततत्तल्लखकः प्रथममेव विधाता॥ 21.66 ॥
अन्वयः–राम, अधरीकृततत्त्ल्लेखकः असौ भवदर्थं प्रथमम् एव जन्मस्थानरेणुकं रामं हस्तलेखं खलु असृजत्।
जीवातु–हस्तेति। राम! हे दाशरथे! अधरीकृताः तिरस्कृताः, सुग्रीवादिरूपेण भूतलमवतारिताश्च, ते ते प्रसिद्धाः, लेखकाः लिपिकाराः, लेखाः इन्द्रादयः देवाश्च येन सः तादृशः अधरीकृततत्तल्लेखकः। देवपक्षे `शेषाद्विभाषा’ इति कप् समासान्तः। असौ एषः, विधाता स्रष्टा, भवदर्थं भवादृशोत्तमशिल्पनिर्माणार्थम्, प्रथममेव आदावेव, जन्मस्थानम् उत्पत्तिक्षेत्रम्, रेणुका तनाम्नी जमदग्निभार्या यस्य तं तादृशम्, रामं परशुरामम्, हस्तलेख कराभ्यासम्, असृजत् सृष्टवान्, खलु निश्चितम्। अन्योऽपि शिल्पाजीवी शिल्पनिर्माणे नैपुष्यलाभार्थमादौ यत् किञ्चित् द्रव्यं निर्माय निर्माय अभ्यासं कृत्वा अनन्तरं यथा उत्कृष्टं निर्माति, तद्वदिति भावः। एतेन परशुरामाद् दाशरथेः रामचन्द्रस्य औत्कर्ष्य प्रदर्शितमिति मन्तव्यम्॥ 21.66 ॥
उद्भवाजतनुजादज! कामं विश्वभूषण! न दूषणमत्र।
दूषणप्रशमनाय समर्थं येन देव! तव वेभवमेव॥ 21.67 ॥
अन्वयः–अज, अजतनुजात् कामम् उद्‌भव, विश्वभूषण देव, अत्र दूषणं न, येन तव वैभवम् एव दूषणप्रशमनाय।
जीवातु–उद्भवेति। नजायते इति अजः, तत्सम्बोधने हे अज! जन्मरहित विष्णो! सनातनत्वादिति भावः। अजस्य रघुनन्दनस्य तदाख्यनृपविशेषस्य, तनुजात् आत्मजात् दशरथात्, कामं यथेच्छम्, उद्भव जायस्व, त्वमिति शेषः। भवतेर्लोटि सिपि रूपम्। विश्वभूषण! जगदलङ्कार! पुरुथोत्तमत्वादिति भावः। अत्र अस्मिन् विषये, अजस्य तव अजतनुजोद्भवने इत्यर्थः। दूषणं दोषः, असङ्गतिरुपदोष इत्यर्थः। न नास्ति। कुत इत्याशयेन हेतुमाह-येन हेतुना, हे देव! तव ते, वैभवमेव एश्वर्यमेव, प्रभाव एवेत्यर्तः। दूषणस्य असाङ्गत्यादिदोषस्य तदाख्यराक्षसविशेषस्य च, प्रशमनाय निवारणाय निधनाय च, समर्थ योग्यम्, भवतीति शेषः। स्वयम्। अजस्त्वम् अजस्य पुत्रात् जायसे, अत्र यः अजः स कथं जायते? यस्य पितामहोऽपि न जातः तस्य वा कथं तनुजः? कथं वा तस्मात् तनुजात् तव जन्म सम्भवेत्? इत्यादिरूपं दूषणं नास्ति; यतः दूषणनाशायैव तव उत्पत्तिः, अथ च अजाख्यात् पितामहात् अजपौत्रः जात इत्यत्र दूषणं नास्ति, उभयोः अजाख्यनृपजातत्वात् इति भावः॥ 21.67 ॥
नो ददासि यदि तत्त्वधियं मे यच्छ मोहमपि तं रघुवत्स!।
येन रावणचमूर्युधि मूढा त्वन्मयं जगदपश्यदशेषम्॥ 21.68 ॥
अन्वयः–रघुत्स, मे यदि तत्त्वधियं नो ददासि, येन युधि मूढा रावणचमूः अशेषं जगत् त्वन्मयम् अपश्यत्, तं मोहम् अपि यच्छ।
जीवातु–नो ददासीति। रघुवत्स! हे रघुनन्दन! विष्णो! मे मह्मम्, यदि चेत् तत्त्वे ब्रह्मणि, धियं बुद्दिम् मोक्षोपयोगिज्ञानमित्यर्थः। नो न, ददासि यच्छसि, अज्ञानाच्छन्नत्वादिति भावः। तर्हि येन मेहेन, युधि युद्धे, रावणस्य दशाननस्य, चमूः सेना, मूढा भ्रान्ता सती, अशेषं निखिलम्, जगत्विश्वम्, त्वन्मयं भवदात्मकम्, रामयमित्यर्थः। अपश्यत् ऐक्षत, तं मोहमपि मुग्धतामपि, भ्रमज्ञानमपीत्यर्थः। मे मह्यम्, यच्छ देहि, तेनैव कृतार्थो भवेयमिति भावः॥ 21.68 ॥
आज्ञया च पितुरज्ञभिया च श्रीरहोयत महीप्रभवा द्विः।
लङ्घितश्च भवता किमु न द्विर्वारिराशिरुदकाङ्कगलङ्कः॥ 21.69 ॥
अन्वयः–पितुः आज्ञया च अज्ञभिया च भवता महीप्रभवा श्रीः द्विः अहयत, उदकाङ्कगलङ्कः वारिराशिः (अरिराशिः+वा) च किमु द्विः न लङ्धितः?
जीवातु–आज्ञयेति। हे विष्णो! राम! भवता त्वया, पितुः जनकस्य दशरथस्य आज्ञया च वनं गच्छेत्येवंरूपेण आदेशेन च, अज्ञेभ्यः मूर्खेभ्यः, मिथ्यापवादकरेभ्यः मूढेभ्यः सकाशादित्यर्थः। भिया च भयेन च, मही पृथिवी, प्रभवः उत्पत्तिस्तानं यस्याः सा तादृशी, श्रीः राज्यलक्ष्मीः, लक्ष्म्याः अंशभूता पृथ्वीसुता सीता च, द्विः द्विवराम् अहीयत परित्यक्ता, पितुरादेशपालनाय वनगमनात् राजलक्ष्मीः परित्यक्ता, मूर्खजनापवादभयेन च सीता परित्यक्ता इत्यर्थः, तथा उदकस्य जलस्य, अङ्कं समीपं, गच्छति या सा तादृशी, लङ्का तदाख्या पुरी यस्य सः तादृशः, वारिराशिः जलसमूहात्मकः समुद्रः, अरिराशिर्वा पुरी यस्य सः तादृशः वारिराशिः जलसमूहात्मकः समुद्रः अरिराशिर्वा रावणदिशत्रुसमूहश्च, वा-शब्दोऽत्र समुच्चये चार्थे, द्विः वारद्वयं, न लङ्घितः न अतिक्रान्तः न जितश्च, किमु? अपि तु लङ्घ्रितः एवेत्यर्थः, अत एव सत्यसन्धं जितेन्द्रियं महाप्रभावञ्च भवन्तं नमामीति भावः॥ 21.69 ॥
कामदेवविशिखैः खलु नेशं माऽर्पयज्जनकजामिति रक्षः।
दैवतादमरणे वरवाक्यं तथ्ययत् स्वमपुनाद्‌भवदस्त्रैः॥ 21.70 ॥
अन्वयः–जनकजाम् अर्पयत् कामदेवविशिखैः खलु मा नेशम्-इति दैवतात् अमरणे वरवाक्यं तथ्ययत् रक्षः भवदस्त्रैः स्वम् अपुनात्।
जीवातु–कामेति। हे राम! विष्णो! जनकजां सीताम् अर्पयत् ददत्, रामाय प्रत्यर्पयदित्यर्थः। रक्षोऽहमिति शेषः। कामदेवस्य देवतात्मकमन्मथस्य, विशिखैः वाणैः, मा खलु नेशं नैव विनष्टं भवेयम्, तथात्वे ब्रह्मणो वरो मृषैव भवेदिति भावः। नशेः पुषादित्वाङि `नशिमन्योरलिट्येत्वं वक्तव्यम्’ इत्येत्वम्, `न माङ् योगे’ इत्यङभावे विषये, वरवाक्यं देवात् तव मृत्युर्न भविष्यति इति ब्रह्मा पुरा रावणाय यत् वरवाक्यं तद्‌ वचनम्, तथ्ययत् तथ्यं सत्यं कुर्वत् सत्, रक्षः रावणः, भवतः तव, नरदेहधारिम इति भावः। अस्त्रैः बाणैः स्वम् आत्मानम्, अपुनात् पूतवान्, तावस्त्रेण आत्मानं धातयित्वा पवित्रं जातमित्यर्थः। अपुनादित्यनेन कामबाणात् मरणे आत्मनः अपित्रत्वं सूचितम्। कामबाणात् केवलं मरणमेव भवति, भवतः वाणात् तु पापनाशात् संसारमोक्षोऽपि भवतीति भावः॥ 21.70 ॥
तद्यशो हसति कम्बुकदम्बं शम्बुकस्य न किमम्बुधिचुम्बि?।
नामशेषितससैन्यदशास्यादस्तमाप यदसौ तव हस्तात्॥ 21.71 ॥
अन्वयः–नामशेषितससैन्यदशास्यात् तव हस्तात् असौ यत् अस्तम् आप, शम्बुकस्य अम्बुधिचुम्बि तत् यशः किं कम्बुकदम्बं न हसति?
जीवातु–तदिति। हे राम! विष्णो! नाम संज्ञामात्रम्, शेषः अवशेषः यस्य स तादृशः कृतः इति नामशेषितः कथामात्रशेषीकृतः, ससैन्यः सैन्यसहितः, दशास्यः रावणः येन तस्मात्, तव भवतः, हस्तात् करात्, असौ शम्बुकः, यत् अस्तम् अदर्शनम्, नाशमित्यर्थः। आप लेभे, शम्बुकस्य तदाख्यशूद्रमुनिविशेषस्य, अम्बुचुम्बि सागरपर्यन्तगामि, तत् पूर्वोक्तरूपम्, यशः कीर्त्तिः कर्त्तृ। कम्बूनां शङ्खानाम्, कदमबं समूहम् कर्म। न हसति किम्? न परिहसति किम्? अपि तु हसत्येव इत्यर्थः, स्वशुक्लताऽऽतिशयादिति भावः। यस्य हस्तात् ब्रह्मकुलोद्भवः त्रिभुवनविजयी दशाननो विनाशमाप, तस्यैव हस्तात् नीचशूद्रकुलोद्‌भूतः दुर्बलः शम्बुकः विनष्ट इति शम्बुकस्य महासौभाग्यमिति भावः॥ 21.71 ॥
(मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजमुपार्ज्य यशस्तत्।
ह्रीणवानसि कथन्न विहाय क्षुद्रदुर्जनभिया निजदारान्॥ 21.71.1 ॥)
अन्वयः–मृत्युभीतिकरपुण्यजनेन्द्रत्रासदानजं तत् यशः उपार्ज्य क्षुद्रदुर्जनभिया निजदारान् विहाय कथं न ह्रीणवान् असि?
इष्टदारविरहौर्वपयोधिस्त्वं शरण्य! शरणं स ममैधि।
लक्ष्मणक्षमवियोगकृशानौ यः स्वजीविततृणाहुतियज्वा॥ 21.72 ॥
अन्वयः–शरण्य, यः त्वम् इष्टदारविरहौर्वपयोधिः सः लक्ष्मणक्षणवियोगकृशानौ स्वजीविततृणाहुतियज्वा मम शरणम् एधि।
जीवातु–इष्टेति। शरण्य! हे आश्रितरक्षक! राम! यः त्वं भवान्, लक्ष्मणस्य अनुजस्य सौमित्रेः, क्षणवियोगः अत्यल्पकालविच्छेद एव, कृशानुः अग्निः तस्मिन् स्वजीवितस्यैव निजजीवनस्यैव, तृणस्य यवसस्य, आहृत्या आहुतिदानेन, निक्षेपेणेत्यर्थः। यज्वा इष्टवान्, याज्ञिक इत्यर्थः। `सुयजोङर्वनिप्’। आसीरिति शेषः। सरयूसलिले निमज्जय देहं त्यक्तवतो लक्ष्मणस्य क्षमकालवियोगमपि असहिष्णुः वस्त्वं स्वजीवनं विसर्जयामासेत्यर्थः। सः तादृशः, इष्टदाराणां प्रियभार्यायाः सीतायाः, विरहः वियोग एव, और्वः बाडवानलः, तस्य पयोधिः आश्रयभूतसागरसदृशः, त्वं भवान्, मम मे, शरणं रक्षिता, एधि भव। प्रेयसीस्नेहेभ्योऽपि भ्रातृस्नेहो गरीयानिति तात्पर्यम्॥ 21.72 ॥
क्रौञ्चदुःखमपि वोक्ष्य शुचा यः श्लोकमेकमसृजत् कविराद्यः।
स त्वदुत्थकरुमः खलु काव्यं श्लोकससिन्धुमुचितं प्रबबन्ध॥ 21.73 ॥
अन्वयः–यः आद्यः कविः क्रौञ्चदुःखं वीक्ष्य अपि शुचा एकं श्लोकम् असृजत्, त्वदुत्थकरुमः सः उचितं खलु श्लोकसिन्धुं काव्यं प्रबबन्ध।
जीवातु–क्रौञ्चेति। हे राम! विष्णो! यः आद्यः प्रथमः, कविः कवयिता वाल्मीकिः, क्रौञ्चस्य पक्षिविशेषस्य, कामविमुग्धयोः क्रौञ्चख्यपक्षिमिथुनयोर्मध्ये एकस्मिन् व्याधेन हन्यमाने अपरस्य तदाख्यपक्षिणः इति यावत्। दुःखं शोकम्, वीक्ष्यापि दृष्ट्वाऽपि, शुचा शोकेन, एकम् एकसङ्ख्यकम्, श्लोकं-`मा निषाद! प्रतिष्ठां त्वमगमः शाश्वतीः समाः। यत् क्रौञ्चमिथुनादेकमवधीः काममोहितम्॥’ इति अमुं शोकोद्भवत्वात् श्लोकं पद्यम्, असृजत् अरचयत्। सः आद्यः कविः, त्वदुत्या त्वत् त्वत्तः सीताविरहादिदुःखपीडितात् भवतः, उत्था उद्‌भूता, भवद्विषये समुत्पन्ना इत्यर्थः। करुणा करुणरसो यस्य स तादृशः सन्, उचितं खलु योग्यमेव, अतिभुद्रस्य एकस्य पक्षिमः शोकात् एकस्मिन् श्लोके रचिते पुरुषोत्तमस्य भवतः शोकात् बहुतरश्लोकरचनाया एव औचित्वादिति भावः। श्लोकसन्धुं पद्मसागरम्, चतुर्विशतिसहस्रश्लोकनिबद्धत्वात् सागरतुल्यमित्यर्थः। काव्यं रामायणं नाम महाकाव्यम्, प्रबबन्ध रचयामास॥ 21.73 ॥
विश्रवः पितृकयाऽऽप्तुमनर्हं सश्रवस्त्वमनयेत्युचितज्ञः।
त्वं चकर्त्तिथ न शूर्पणखाया लक्ष्मणेन वपुषा श्रवसी वा?॥ 21.74 ॥
अन्वयः–विश्रवः पितृकया अनया सश्रवस्त्वम् आप्तुम् अनर्हम्-इति उचितज्ञः त्वं लक्षमणेन वपुषा शूर्पणखायाः श्रवसी वा न चकर्त्तिथ?
जीवातु–विश्रव इति। हे राम! विष्णो! विश्रवाः तदाख्यमुनिः श्रवणरहितश्च जनः, पिता जनको शूर्पणखया, सश्रवस्त्वं पितृका तथा। `नद्यृतश्च’ इति कप् समासान्त। अनया शूर्पणखया, सश्रवस्त्वं श्रोत्रसहितत्वम्, आप्तुम् लब्धुम्, अनर्हम् अयोग्यम्, इत्युचितज्ञः इति एवम्, उचितं योग्यम्, जानाति बुध्यते यः स तादृशः, त्वं भवान् लक्ष्मणेन वपुषा लक्ष्मणरूपेण निजदेहेन, एक एव नारायणः आत्मानं चतुर्द्धा विभज्य रामादिभ्रातृचतुष्टयरूपेण अवतीर्णत्वात् इति भावः। शूर्पणखाया तदाख्यायाः रावणभगिन्याः निशाचर्याः, श्रवसी श्रोत्रे, किं वा न चकर्त्तिथ? किं न कृत्तवान् असि? अपि तु चकर्त्तिथ एवेत्यर्थः॥ 21.74 ॥
ते हरन्तु निर्ऋतिव्रततिं मे यैः स कल्पविटपी तव दोर्भिः।
छद्मयादवतनोरुदपाटि स्पर्द्धमान इव दानमदेन॥ 21.75 ॥
अन्वयः–छद्मयादवतनोः तव यैः दोर्भिः दानमदेन स्पर्द्धमानः इव सः कल्पविटपी उदपाटि, ते मे निर्ऋतिव्रततिं हरन्तु।
जीवातु–ते इति। हे विष्णो! कृष्ण! छद्मयादवतनोः छद्मना कपटेन यादवी यदुवंशोद्भवकृष्णरूपिणी, तनुः मूर्त्तिर्यस्य तादृशस्य, निराकारत्वस्यैव स्वाभाविकत्वात् लीलास्वीकृतयादवशरीरस्येत्यर्थः। तव ते, यैः दोर्भिः चतुर्भिर्बाहुभिः, दानमदेन लोकेभ्यः अभीष्टवितरणजनिदर्पेण हेतुना, स्पर्द्धमानः इव तव दोर्भिः सह स्पर्द्धां कुर्वन्निव स्तितः, सः प्रसिद्धः, कल्पविटपीकल्पतरुः, उदपाटि उत्पाटितः, तव दोर्भिः सह स्वर्द्धाकरणजन्याहङ्कारदूरीकरणायेति भावः। ते तादृशाः तव दोषः, मे मम सम्बन्धिनीम्, निर्ऋतिम् अलक्ष्मीमेव व्रततिं लताम्, `दुरितव्रततिम्’ इति पाठ एव साधुः। दुरतव्रततिं पापरूपिणीं लताम्। `स्यादलक्ष्मीस्तु निर्ऋतिः’ इति पाठ एव साधुः। दिरतव्रततिं पापरूपिणीं लताम्। `स्यादलक्ष्मीस्तु निर्ऋतिः’ `वल्ली तु व्रततिर्लता’ इत्युभयत्राप्यमरः। हरन्तु नाशयन्तु, छिन्दन्तु इत्यर्थः। महातरूपाटनशक्तस्य लताच्छेदनमकिञ्चिकरमेवेति भावः। कृष्णकर्तृककल्पवृक्षोत्पाटनकथा हरिवंशेऽनुसन्धेया॥ 21.75 ॥
बालकेलिषु तदा यदलावीः कर्परीभिरभिहत्य तरङ्गान्।
भाविबाणभुजभेदनलीलासूत्रपात इव पातु तदस्मान्॥ 21.76 ॥
अन्वयः–तदा बालकेलिषु कर्परीभिः अभिहत्य तरङ्गान् यत् अलावीः, भाविबाणभुजभेदनलीलासूत्रपातः इव तत् अस्मान् पातु।
जीवातु–बालेति। हे विष्णो! कृष्ण! तदा तस्मिन् समये, शैशवे इत्यर्थः। बालकेलिषु शिशुसुलभक्रीडासु, शर्कराभिः, स्फुटितकलशानां क्षुद्रक्षुद्रद्रखण्डैरित्यर्थः। `स्त्री स्यात् काचिन्मृणल्यादि विवक्षापचये यदि’ इति कोषात् अपचयविवक्षायां स्त्रीत्वम्। अभिहत्य ताडयित्वा, तरङ्गान् ऊर्मीन्, यमुनाया इति भावः। यत् अलावीः छिन्नवान् असि, शिशवो हि खर्परखण्डताडनैस्तरङ्गान् छिन्दन्ति इति दृश्यते। भाविनी भविष्यन्ती, बाणस्य तदाख्यस्य असुरराजविशेषस्य, भुजानां सहस्रबाहूनाम्, भेदनमेव छेदनमेव, लीला क्रीडा, तस्याः सूत्रपातः इव प्रथमसूचनमिव, स्तितमिति शेषः। तत् तरङ्गलवनम्, कर्त्तृ अस्मान् सप्रकृतिवर्गं मामित्य्रथः। पातु अवतु। दृस्यते च लोके यथा रथकाराः काष्ठपातनात् पूर्वं तत्र कृष्णसूत्रेण रेखाङ्कनं कुर्वन्ति तद्वदिति भावः॥ 21.76 ॥
कर्णशक्तिमफलां खलु कर्त्तु सज्जितार्जुनरथाय नमस्ते।
केतनेन कपिनोरसि शक्तिं लक्ष्मणं कृतवता हृतशल्यम्॥ 21.77 ॥
अन्वयः–उरसि शक्तिं लक्ष्मणं हृतशल्यं कृतवता कपिना केतनेन खलु कर्णशक्तिम् अफलां कर्त्तुं सज्जितार्जुनरथाय ते नमः।
जीवातु–कर्णेति। हे विष्णो! कृष्ण! उरसि वक्षसि, शक्तिः रावणनिक्षिप्तसख्तिशेलाख्यः आयुधशिशेषः यस्य तं तादृशम्, `अमूर्द्धमस्तकात् स्वाङ्गादकामे’ इति सप्तम्यलुक्। लक्ष्मणं सौमित्रिम्, हृतं निष्काशितम्, गन्धमादनाख्यपर्वतसहानीतेन विशल्यकरण्याख्यौषधविशेषेणेति भावः। शल्यं तत्-शक्तिशेलाख्यास्त्रविशेषः यस्मात् तं तादृसम् कृतवता विहितवता, कपिना वानरेण, हनूमद्रूपेणेत्यर्थः। यस्मात् तं तादृशम् कृतवता विहितवता, कपिना वानरेण, हनूमद्रूपेणेत्यर्थः। केतनेन लाञ्छनेन, रथध्वजभूतेन हनूमता इत्यर्थः। खलु निश्चितमेव, कर्णस्य राधेयस्य, शक्तिः सामर्थ्यमेव शक्तिः कासूनामास्त्रविशेषः तां, `कासूसामर्थ्ययोः शक्तिः’ इत्यमरः। अफलां व्यर्थाम्, कर्त्तुं विधातुम्, सज्जितः कपिना संयोजितः, अर्जुनस्य पार्थस्य, रथः स्यन्दनं येन तस्मै, ते तुभ्यम्, अर्जुनसारथये इत्यर्थः। नमः प्रणतिः, अस्तु भवतु। रामावतारे रावणनिक्षिप्तशक्तिशेलेन मृतप्रायं लक्ष्मणम् उज्जीवयतः हनूमतः शक्तिशेलनिर्हरणे सामर्थ्य त्वया दृष्टम्, इदनीं कृष्णावतारेऽपि तदेवानुस्मृत्य कर्मनिक्षिप्तां शक्तिमपि विलीकर्त्तुं स एव हनूमान् भवता अर्जुनस्य रथध्वजे स्थापितः इति रणपण्डिताय तुभ्यं नमः इति निष्कर्षः॥ 21.77 ॥
नापगेयमनयः सशरीरं द्यां वरेण नितरामपि भक्तम्।
मा स्म भूत् सुरवधूसुरतज्ञो दिब्यपि व्रतविलोपभियेति॥ 21.78 ॥
अन्वयः–दिवि अपि सं सुरवधूसुरतज्ञः मा भूत्-इति व्रतविलोपभिया नितरां भक्तम् अपि आपगेयं वरेम सशरीरं द्यां न अनयः।
जीवातु– नेति। हे! विष्णो! कृष्ण! व्रतस्य चिरब्रह्मचर्यनियमस्य भोष्मो हि यावच्छरीरं ब्रह्मचर्यं सङ्कल्पितवानिति महाभारतकाराः। विलोपात्, नाशात्, सुरवधुसुरतेनेति भावः। भिया भयेन हेतुना, दिवि स्वर्गेऽपि, सुरवधूनां रम्भादीनां देवाङ्गनानाम्, सुरतस्य मैथुनसुखसम्भोगस्य, ज्ञः अभिज्ञः, मा स्म भूत् न भवतु, भीष्म इति भावः। इति एवम्, विचार्येव इति शेषः। नितराम् अत्यर्थम्, भक्तम् अनुरागिणं सेवकमपि, आपगायाः नद्या गङ्गाया अपत्यमिति आपगेयं गाङ्गेयम्, भीष्ममित्यर्थः। वरेण त्वं सशरीर एव स्वर्गं गच्छ इति वरप्रदानेन, सशरीरं देहसहितम्, द्यां स्वर्गम्, न अनयः न नीतवान् त्वमिति शेषः। किन्तु स्वर्गादपि श्रेष्ठं मोक्षं प्रापितवानित्यपूर्वं ते भक्तवात्सल्यमिति भावः॥ 21.78 ॥
घातितार्कसुतकर्णदयालुर्जैत्रितेन्दुकुलपार्थकृतार्थः।
अर्द्धदुःखसुखमभ्यनयस्त्वं साश्रुभानुविह सद्विवधुनेत्रः॥ 21.79 ॥
अन्वयः–घातितार्कसुतकर्णदयालुः जैत्रितेन्दुकुलपार्थकृतार्थः साश्रुभानुविहसद्‌विधुनेत्रः त्वम् अर्द्धदुःखसुखम् अभ्यनयः।
जीवातु–घातितेति। घातितः विनाशितः, अर्जुनेति शेषः। यः अर्कसुतः सूर्यपुत्रः, कर्णः अङ्गराजः, तस्मिन् दयालुः कारुण्यपरः अत एव अर्करूपदक्षिणः नयनस्य साश्रुत्वमिति भावः। तथा जैत्रितः जेता कृतः, इन्दुकुलः चन्द्रवंशजातः, यः पार्थः अर्जुनः, तेन कृतार्थः सफलमनोरथः, भूभारहरणरूपनिजावतरणप्रयोनस्य साफल्यादिति भावः। एवञ्च चन्द्ररूपवामलोचनस्य हर्षविहसितत्वमिति भावः। एवञ्च यथाक्रमं साश्रुः रोदनजलसहितः, भानुः सूर्यश्च, विहसन् हर्षेण विकासमाप्नुवन्, विधुः चन्द्रश्च, तौ नेत्रे दक्षिणवामलोचनद्वयं यस्य सः तादृशः, सूर्याचम्द्रमसौ नारायणस्य भगवतः नेत्रद्वयमिति श्रुत्युक्तत्वात्, त्वं भवान्, दुःखं सुखञ्च दुःखसुखम् दुःखसुखस्य अर्द्धम्, `अर्द्धं नपुंसकम्’ इति अर्द्ध शब्दस्य पूर्वनिपातः। अभ्यनय इत्यनेन निष्क्रियस्य ते न काऽपि वास्तविकी क्रिया विद्यते, यास्तु क्रियाः तव दृश्यन्ते, तत् सर्वमेवाभिनयमात्रमिति सूचितवानिति भावः॥ 21.79 ॥
प्राणवत्प्रणयिराध! न राधापुत्रशत्रुसखता सदृशी ते।
श्रीप्रियस्य सदृगेव तव श्रीवत्समात्महृदि धर्तुमजस्रम्॥ 21.80 ॥
अन्वयः–प्राणवत्प्रणयिराध, ते राधापुत्रशत्रुसखता सदृशी न, श्रीप्रियस्य तव आत्महृदि अजस्रं श्रीवत्सं धर्त्तु सदृक् एव।
जीवातु–प्राणेति। प्राणवत् जीवनलुत्या, प्राणयिनी प्रेयसी, राधा वृषभानुसुता राधिका यस्य तत्सम्बद्दिः हे प्राणवत्प्रमयिराध! हे कृष्ण! ते तव, राधा अधिरथाख्यसूतजाया, सैव राधआ श्रीराधिका वृन्दावनेश्वरी, तस्याः पुत्रः तनयः, कर्णः इत्यर्थः। अन्यः कश्चिदित्यर्थश्च, तस्य शत्रुः अर्जुनः, तस्य सखा मित्रं राधापुत्रशत्रुसखः तस्य भावः तत्ता सा, न सदृशी न युक्ता, पुत्रशत्रुं प्रति शत्रुताया एवौचित्यादिति भावः॥ परन्तु, श्रीः लक्ष्मीः, प्रिया प्रीतिदायिनी भार्या यस्य तादृश्य, तव भवतः, आत्मनः स्वस्य, हृदि वक्षसि, अजस्रं सवंदता, श्रीवत्सं रोमावर्त्तरूपलाञ्चनविशेषम्, श्रियः लक्ष्म्याः, वत्सं पुत्रञ्ज; धर्त्तु ग्रहीतुम्, सदृक् सदृशमेव योग्यमेवेत्यर्थः। राधाप्रियस्य राधासुतद्वेषिणि सख्यम् अनुचितम्, श्रीप्रियस्य हृदि श्रीवत्सधारणं युक्तमिति राधाश्रीवत्स शब्दाभ्यां छद्मनोक्तिः॥ 21.80 ॥
तावकापरतनोः सितकेशस्त्वं हली किल स एव च शेषः।
साध्वसाववतरस्तव धत्ते तज्जरच्चिकुरनालविलासः॥ 21.80.1 ॥
अन्वयः–तावकापरतनोः सितकेशः हली त्वम् एव, सः एव च शेषः किल असौ अवतरः तव तज्जरच्छिकुरनालविलासः साधु धत्ते।
हृद्यगन्धवह! भोगवतीशः शेषरूपमपि बिभ्रदशेषः।
भोगभूतिमदिरारुचिरश्रीरुल्लसत्कुमुदबन्धुरुचुस्त्वम्॥ 21.81 ॥
अन्वयः–हृद्यगन्दवह, भोगवतीशः भोगभूतिमदिरारुचिरश्रीः उल्लसत्कुमुदबन्धुरुचिः त्वं शेषरूपम् अपि बिभ्रत् अशेषः।
जीवातु–हृद्येति। हृद्यं मनोहरम्, गन्धं चन्दनादिसौरभम्, वहति धारयतीति दृद्यगन्धवहः तस्य सम्बोधनम्, हे दृद्यगन्धवह! भोगवत्याः सुखभोगोचितायाः ककुद्मिकन्यायाः रेवत्याः ईशः भर्त्ता, भोगः स्रक्‌चन्दनादिधारणम्, भूतिः एश्वर्यम्, भूषणादिधारणरूपा समृद्धिरित्यर्थः। मदिरा सुरा च, सुरापानञ्वेत्यर्थः। ताभि रिचिरा मनोहारिणी, श्रीः सौन्दर्य यस्य स तादृशः यद्वा-भोगस्य सम्भोगस्य, भूतिः समृद्धिः, भूतिकारिणीत्यर्थः। तथा भोगभूत्या भोगसमृद्धिजनिकया मदिरया सुरया, रुचिरा मनोज्ञा, श्रीः शरीलशोभा यस्य स तादृशः, मदिराया नेत्रलौहित्यादिरूपशोभाजनकत्वादिति भावः। बलभद्रस्य मदिराप्रियात्वादियमुक्तिः। उल्लसन्ती शोभमाना, कुमुदानां कैरवाणाम्, बन्धोः सख्युः, चन्द्रस्येत्यर्थः। रुचिः इव रुचिः शुभ्र शरीरकान्ति यस्य सः तादृशः, त्वं भवान्, शेषस्य अनन्तनागस्य, रूपं मूर्त्तिम्, बिभ्रदपि धारयन्नपि, बलभद्रस्य शेषावतारत्वादिति भावः।छ अशेषोः शेषो न, शेषात् अनन्तनागात् भिन्नः इत्यर्थः। असि इति शेषः, यो हि शेषः सः कथम् अशेषः इति शब्दतो विरोधः। अन्यच्च–हे विष्णो! हृद्यः आहारेण हृदयान्तस्थः, गन्धवहः वायुः यस्य स तादृशः सर्पाणां पवनाशनत्वात् इति भावः। तत्सम्बुद्धौ हे दृद्यगन्धवह! भोगः फणः विद्यते अस्याः इति भोगवती नागरमणी। `भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः। तस्याः ईशः स्वामी, यद्वा-भोगवत्याः पातालगङ्गायाः, ईश, अधिपतिः, अनन्तस्य पातालाधिपतित्वादिति भावः। हृद्यगन्धवहभोगवतीशः इत्यस्य समस्तपदत्वे हृद्यगन्धवहश्च असौ भोगवतीशश्चेति विशेषसमासः। भोगानां फणानाम्, भूतिः सम्पत्, बाहुल्यमिति यावत् अस्यास्तीति भोगभूतिमान्, सहस्रफणत्वादिति भावः। इरया भवा, शिरःस्थया पृथिव्या इत्यर्थः। `इरा भूवाक्‌सुराप्सु स्यात्’ इत्यमरः। रुचिरा मनोहारिणी, श्रीः शोभा यस्य सः इररिचिरश्रीः, भोगभूतिमांस्चासौ इरारुचिरश्रीश्चेति स तादृशः। कर्मधारयः तथा उल्लसन्ती शोभमाना, प्रकटयन्तीति यावत् कुमुदे कुमुदाख्ये सर्पे `कुमुदः कैरवे रक्त-पङ्कजे कुमुदः कपौ। दैत्यान्तरे च दिङ्नाग-नागयोः परिकीर्त्तितः॥’ इति विश्वः। बन्धौ स्वजने; रुचिः प्रीतिः यस्य स तादृशः, त्वं भवान्, शेषस्य अनन्तस्य रूपं मूर्त्तिम्, बिभ्रत् धारयन् अपि, अशेषः असीमः, असि भवसि, अतो न पूर्वोक्तिविरोधः। अनन्तनागात्मकबलरामस्यापि दशावतारान्तर्गतत्वे न सोऽपि त्वमेव, सर्वात्मकत्वाद्विष्णोरिति भावः॥ 21.81 ॥
रेवतीश!सुषमा किल नीलस्याम्बरस्य रुचिरा तनुभासा।
कामपाल! भवतः कुमदाविर्भावभावितरुचेरुचितैव॥ 21.82 ॥
अन्वय—रेवतीश, कामपाल, कुमुदाविर्भावभावितरुचेः भवतः तनुभासा नीलस्य अम्बरस्य रुचिरा सुषमा उचिता एव किल।
जीवातु–रेवतीति। रेवत्याः कुकुद्मिकन्यायाः, ईशः भर्त्ता, तस्य सम्बोधनं रेवतीश! हे रेवतीरमणबलराम! कामपाल! भोः कामपालापराख्यबलराम! `रेवतीरमणे रामः कामपालो हलायुधः’ इत्यमरः। कोः भूमेः मुदः प्रीतेः, आविर्बावाय उत्पादाय, भूभारहरणेनेति बावः। यद्वा-कुमुदस्य तदाख्यनागस्य, आविर्भावाय उपस्तितये, भाविता कृता, रुचिरिच्छा येन तादृशस्य, बलरामस्य अनन्तनागरूपत्वेन कुमुदस्य च अनन्तसजातीयत्वेन सख्यसम्बन्धादिति भावः, भवतः तव तनुभासा शुभ्रदेहकान्त्या, नीलस्य नीलवर्णस्य, अम्बरस्य वस्त्रस्य, रुचिं रातीति रुचिरा मनोज्ञा, सुषमा शोभा, उचितैव अनुरूपैव, जातेति शेषः। श्वेतनीलयोर्वर्मयोः मिश्रणे शोभातिशयात् शरीरस्य शुभ्रकान्त्या नीलवसनस्य शोभा नितरामुचितैवेति भावः। अन्यच्च-रेवतीश! हे रेवतीनक्षत्रपते! कामपाल! हे मदनोद्‌दीपक! शशधर! कुमुदानां कैरवाणाम्, आविर्भावाय प्रकाशनाय, प्रस्फुटनायेत्यर्थः। भाविता सञ्जाता, रुचिः दीप्तिः तस्य तादृशस्य, भवतः तव, तनुभासा देहप्रभया, ज्योत्स्नयेत्यर्थः। नीलस्य नीलवर्मस्य, अम्बरस्य गगनस्य, रुचिरा रमणीया, सुषमा परमा शोभा, उचितैव युक्तैव किल, जातेति शेषः। नीलाकासे शुभ्रकान्तिशशधरस्य रम्यदर्शनत्वादिति भावः॥ 21.82 ॥
(एकचित्तततिरद्वयवादिन्न त्रयीपरिचितोऽथ बुधस्त्वम्।
पाहि मां विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः॥ 21.82.1 ॥
अन्वयः–अद्वयवादिन्, एकचित्तततिः अथ अत्रयीपरिचितः बुधः विधुतकोटिचतुष्कः पञ्चबाणविजयी षडभिज्ञः त्वं मां पाहि।
तत्र मारजयिनि त्वयि साक्षात्कुर्वति णिकताक्षत्मनिषेधौ।
पुष्पवृष्टिरपतत्सुरहस्तात्पुष्पशस्6शरसन्तरिरेव॥ 21.82.2 ॥
जीवातु–तत्र मारजयिनि क्षणिकतात्मनिषेधौ साक्षात्कुर्वति त्वयि पुष्पशस्त्रशरसन्ततिः सुरहस्तात् पुष्पवृष्टिः एव अपत्‌।
तावके हृदि निपात्य कृतेय मन्मथेन दृढधैर्यतनुत्रै।
कुण्ठनार्दाततमां कुसुमानां छर्त्रामत्रमुखतैव शराणाम्॥ 21.82.3 ॥
अन्वयः–मन्मथेन दृढधैर्यतनुत्रे तावके हृदि निपात्य अतितमां कुण्ठनात् कुसुमानां शराणां छत्रमित्रमुखता एव इयं कृता।
यत्तव स्तवविधौ विधिरास्ये चातुरीं चरति तच्चतुरास्यः।
त्वय्यशेषविदि जाग्रति-शर्वः सर्वविद्‌ब्रुवतया शितिकण्ठः॥ 21.82.4 ॥
अन्वयः–विधिः तव स्तुतिविधौ आस्ये यत् चातुरीं चरति तत् चतुरास्यः, शर्वः अशेषविदि त्वयि जाग्रति सर्वविद्‌ब्रुवतया शितिकण्ठः।
धूमवत्कलयता युधि कालं म्लेच्छकल्पशिखिना करवालम्।
कल्किना दशतयं मम कल्कं त्वं व्युदस्य दशमावतरेण॥ 21.82.5 ॥
अन्वयः–त्वं धूमवत् कालं करवालं युधि कलयता म्लेच्छकल्पशिखिना कल्किना दशमावतरेण मम दशतयं कल्कं व्युदस्य।
देहिनेव यशसा भ्रमतोर्व्या पाण्डुरेण रणरेणुभिरुच्चैः।
विष्णुना जनयितुर्भवताऽभून्नाम विष्णयशसश्च सदर्थम्॥ 21.82.6 ॥
अन्वयः–रणरेणुभिः उच्चैः पाण्डुरेण उर्व्या भ्रमता विष्णुना देहिना इव यशशा च भवता विष्णुयशसः जनयितुः नाम सदर्थम् अभूत्।
सन्तमद्‌वयमयेऽध्वनि दत्तात्रेयमर्जुनयशोऽर्जुनवीरम्।
नौमि योगजनितानघसंज्ञं त्वामलर्कभवमोहतमोऽर्कम्॥ 21.82.7 ॥
अन्वयः–अद्वयमये अध्वनि सन्तम् अर्जुनयशोऽर्जनबीजं योगजनितानधसंज्ञम् अलर्कभवमोहतमोऽर्कं दत्तात्रेयं त्वां नौमि।
भानुसूनुमनुगृह्य जय त्वं राममूर्त्तिहतवृत्रहपुत्रः।
इन्द्रनन्दनसपक्षमपि त्वां नौमि कृष्ण! निहतार्कतनूजम्॥ 21.82.8 ॥
अन्वयः–भानुसूनुम् अनुगृह्य राममूर्तिहतवृत्रहपुत्रः त्वं जय, कृष्ण, इन्द्रनन्दनसपक्षं निहतार्कतनूजम् अपि त्वां नौमि।
वामनादणुतमादनुजीयास्त्वं त्रिविक्रमतनूभृतदिक्कः।
वीतहिंसनकथादथ बुद्धात्कल्किना हतसमस्त! नमस्ते॥ 21.82.9 ॥
अन्वयः–अणुतमात् वामनात् अनु त्रिविक्रमतनूभृतदिक्कः त्वं जीयाः, वीतहिंसनकथात् बुद्धात् अथ कल्किना हतसमस्त, ते नमः।
मां त्रिविक्रम! पुनीहि पदे ते किं लगन्नजनि राहुरुपानत्।
किं प्रदक्षिणनकृद्‌भ्रमपाशं जाम्बवानदित ते बलिबन्धे॥ 21.82.10 ॥)
अर्द्धचक्रवपुषा।टर्जुनबाहून् योऽलुनात् परशुनाऽथ सहस्रम्।
तेन किं सकलचक्रविलूने बाणबाहुनिचयेऽञ्चति चित्रम्?॥ 21.83 ॥
अन्वयः–यः अर्द्धचक्रवपुषा परशुना सहस्रम् अर्जुनबाहूम् अलुनात् अथ तेन सकलचक्रविलूने बाणबाहुनिचये किं चित्रम्, अञ्चति?
जीवातु–अर्द्धति। हे विष्णो! यः भवत एवावतारभूतः यः परशुरामः, चक्रस्य अर्द्धम, अर्द्धचक्रम् अर्द्धचक्राकारम् अर्द्धचक्रमात्रञ्च, वपुः शरीरं यस्य तादृशेन अर्द्धचक्राकारेण, परशुना कुठारेण, सहस्रं सहस्रसङ्क्यकान्, अर्जुनस्य कार्त्तवीर्यस्य ककुभवृक्षस्य च `अर्जुनः ककुबे पार्थे कार्त्तवीर्यमयूखयोः’ इति विश्वः। बाहून् भुजान्, अथशब्दः कार्त्स्न्ये `मङ्गलानन्तरारम्भप्रश्नकार्त्स्न्येष्वथो अथ’ इत्यमरः। अथ कार्त्स्न्येन, अलुनात् अच्चिन्त निःशेषेणाच्छिनदित्यर्थः। अथशब्दस्य परेण वा अन्वयः, अथ अनन्तरम्, तेन भवता कृष्णरूपिणेत्यर्थः। सकलेन सम्पूर्णेन, चक्रेण दानवभेदे तु शरे दासीकुरण्टके’ इत्यजयपालः। बाहूनां भुजानाम्, शाखारूपभुजानाञ्च, निचये समूहे सहस्रसङ्ख्यकबाहुविषये इत्यर्थः। किं चित्रं नास्तीत्यर्थः। ककुभच्छेदिनः कुरण्टकच्छेदो यथा नाश्चर्य, तथा अर्द्धचक्रेम यो बाहुसहस्रच्छेत्ता, तस्य सम्पूर्णचक्रेम पुनः सच्छेदनं न किमपि वैचित्र्याधायकमिति भावः॥ 21.83 ॥
पाञ्चजन्यमधिगत्य करेणापाञ्चजन्यमसुरानिव वक्षि।
चेतनाः स्थ पश्यत किं नाचेतनोऽपि मयि मुक्तविरोधः?॥ 21.84 ॥
अन्वयः–करेण पाञ्चजन्यम् अपां च जन्यम् अधिगत्य असुरान् इति वक्षि इव-चेतनाःस्थ किल पस्यत, अचेपनः अपि मयि किं मुक्तविरोधः न?
जीवातु–पाञ्चजन्यमिति। हे विष्णो! करेम पाणिना, वामहस्तेनेति यावत्। पाञ्चजन्यं तदाख्यशङख्म्। `बहिर्देवपञ्चजनेभ्यश्च’ इति वक्तव्यात् ञ्यः। `शङ्खो लक्ष्मीपतेः पाञ्चजन्यः’ इत्यमरः। दक्षिणेन च करेण अपाञ्च जलानाञ्च, जन्यम्, उत्पाद्यम्, जलजं पद्ममित्यर्थः। अधिगत्य प्राप्य, धृत्वा इत्यर्थः। असुरान् दानवान्, वक्षीव इदं ब्रवीषीव। `वच परिभाषणे’ इत्यम्यादादिकस्य लटि सिपि रूपम्। किमित्याह-हे असराः! चेतनाः, स्थ भवथ, भूयमिति शेषः, अत एव पश्यत अवलोकयत , अचेतनोऽपि, पाञ्चजन्यः अपाञ्चजन्यश्च इति शेषः। मयि अभ्भद्विषये, मुक्तः पूर्वोक्तप्रकारेण त्यक्तः, विरोधः विद्वेषः येन सः तादृशः, जात इति शेषः। न किम्? विरोधं परित्यज्य मयि अवस्थितो न किम्? इत्यर्थः। किल इति प्रश्ने, अपि तु तयोरुभयोरेव मयि अविरोधेनावस्थानात् त्यक्तविरोध एव जात इति भावः। अत एव सचेतनैः युष्माभिरपि विरोधं परित्यज्य मयि स्थातव्यम्, अन्यथा चेतनशङ्खासुरवत् भवतामपि मरणं भविष्यत्येव इति तात्पर्यम्॥ 21.84 ॥
तावकोरसि लसद्वनमाले श्रीफलद्विफलशाखिकयेव।
स्तीयते कमलया त्वदजस्रस्पर्शकण्टकितयोत्कुचया च॥ 21.85 ॥
अन्वयः–त्वदजस्रस्पर्शकण्टकितया उत्कुचया च कमलया लसद्‌वनमाले तावकोरसि श्रीफलद्विफलशाखिकया इव स्थीयते।
जीवातु–तावकेति। हे नारायण! तव भवतः, अजस्रं निरन्तरम्, स्पर्शेन संस्पर्शेन, कण्ट
कितया सात्त्विकभावोदयेन सञ्जातरोमाञ्चया कण्टकयुक्तया च, तथा उत् उद्‌गतौ उन्नतौ, कुचौ स्तनौ यस्याः तादृश्या च, कमलया लक्ष्म्या, लसन्ती शोभमाना, वनमाला आरण्यकुसुमस्रक् काननश्रेणी च यस्मिन्, तादृशे, तावके त्वत्सम्बन्धिनि, उरसि वक्षसि, श्रीफलस्य बिल्ववृक्षस्य। `बिल्वे शाण्डिल्यशैलूषौ मालूरश्रीफलावपि’ इत्यमरः। द्वे फले फलद्वयमात्रं यस्यां सा द्विफला, या शाखिका क्षुद्रशाखा तया इव। अल्पार्थे कन्। स्थीयते वृत्यते। भावे लकारः॥ 21.85 ॥
त्यज्यते न जलजेन करस्ते शिक्षितुं सुभगभूयमिवोच्चैः।
आननञ्च नयनायितम्बिम्बः सेवते कुमुदहासकरांशुः॥ 21.86 ॥
अन्वयः–जलजेन उच्चैः सुभगभूयं शिक्षितुम् इव ते करः न त्यज्यते नयनायितबिम्बः कुमुदहासकरांशुः च आननं सेवते।
जीवातु–त्यज्यत इति। हे विष्णो! जलजेन पद्‌मेन, उच्चैः महत्, सुभगभूयं सुभगत्वम्, कोमलत्वरक्तत्वादिरूपसौभाग्यमित्यर्थः। `भुवो भावे’ इति क्यप्। शिक्षितुम् अभ्यसितुम् इव, ते तव, करः हस्तः, न त्यजते न हीयते। तथा नयनायितं वामलोचनवत् इति श्रुतेरिति भावः। कुमुदानां कैरवाणाम्, हासकराः विकासकारिणः अंशवः किरणा यस्य सः तादृशः चन्द्रश्च, मार्दवादिसौभाग्यं चन्द्रश्च निष्कलङ्कत्वादिसौभाग्यं शिक्षितुमिव तव करं वदनञ्च शुश्रूषते, गुरुसेवाया एव विद्यालाभहेतुत्वादिति भावः॥ 21.86 ॥
ये हिरण्यशिपुं रिपुमुच्चै रावणञ्च कुरुवीरचयं च।
हन्त हन्तुमभवंस्तव योगास्ते नरस्य च हरेश्च जयन्ति॥ 21.87 ॥
अन्वयः–उच्चैः रिपुं हिरण्यकशिपुं रावणं च कुरुवीरचयं च हन्तुं नरस्य च हरेः च तव ये योगाः अभवन्, हन्त, ते जयन्ति।
जीवातु–ये इति। हे विष्णो! उच्चैः महान्तम्, रिपुं शत्रुम्, हिरण्यकशिपुं तदाख्पदैत्येश्वरम्, रात्रण्ञ्च रक्षसाधिपं दशाननञ्च, तथा कुरुवीरचयञ्च दुर्योधनप्रभृतीनां समूहञ्च, हन्तुं विनाशयितुम्, यथाक्रमं क्रमानुसारेण, उत्तरोत्तरमित्यर्थः। नरस्य च मनुष्यस्य च, हरेश्च सिंहस्य च, मनुष्याकारसिंहाकारयोरित्यर्थः। नरस्य च तथा नरस्य च अर्जुनस्य च, हरेश्च कृष्णस्य च, नरनारायणयोरित्यर्थः। `नरोऽर्जुने मनुष्ये च’ इति यादवः। `यमानिलेन्द्रचन्द्रार्कविष्णुसिंहाशुवाजिषु। शुकाहिकपिभेकेषु हरिर्ना कपिले त्रिषु॥’ इत्यमरः। ये योगाः सम्बन्धविशेषाः, देहेन व्यक्तितया च ये सम्मिश्रणविशेषा इत्यर्थः। तत्र हिरण्यकशिपुहनने नरसिंहयोः शरीरचयहनने च नरनारायणयोः अर्जुनकृष्णयोर्व्यक्तयोः संयोगो ज्ञातव्यः, अभवन् अजायन्त, हन्तेति हर्षे, तव भवतः, ते योगाः, जयन्ति सर्वोत्कर्षेण वर्त्तन्ते, अतस्तान् प्रणमामीति भावः॥ 21.87 ॥
केयमर्द्धभवता भवतोहे मायिना ननु भवः सकलस्त्वम्।
शेषतामपि भजन्तमशेषं वेद वेदनयनो हि जनस्त्वाम्॥ 21.88 ॥
अन्वयः–मायिना भवता का इयम् अर्द्धभवता ऊहे, ननु त्वं सकलः भवः हि वेदनयनः जनः शेषतां भजन्तम् अपि त्वाम् अशेषं वेद।
जीवातु–केयमिति। हे विष्णो! मायिना मायाविना। व्रीह्यादित्वादिनिः। भवता त्वया, का कीदृशी, विचित्रैवेत्यर्थः। इयम् एषा, भवस्य शम्भोः संसारस्य च, अर्द्धम् अर्द्धंशः अर्द्धभवः तस्य भावः तत्ता, यद्वा-अर्द्धम् अर्द्धदेहः, भवः शिवः यस्य तस्य भावः तत्ता हरिहरमूर्त्तिता इत्यर्थः। अर्द्धसंसारता च, ऊहे ऊढा, भृता इत्यर्थः। अर्द्धभवता तव न युक्ता इति भावः। हि यतः, ननु भोः! सकलः सम्पूर्णः, भवः महादेवः संसारश्च,त्वं भवानेव, तथा वेदः श्रुतिरेव, नयनं चक्षुःस्वरूपं यस्य सः तादृशः वेदज्ञ इत्यर्थः. जनः लोकः, शेषताम् अनन्तनागताम् उपयुक्तात् अन्यत्वं च। `शेषः सङ्कर्षणेऽनन्ते उपयुक्तेतरे वधे’ इति विश्वः। भजन्तं प्राप्नुवन्तम् अपि, त्वां भवन्तम् अशेषम् अनन्तात् अन्यं सकलञ्च, वेद जानाति, `पुरुष एवेदं सर्वम्’ इत्यादि श्रुतेरिति भावः॥ 21.88 ॥
प्रग्भवैरुदगुदग्भवगुम्फान्मुक्तियुक्तिविहताविह तावत्।
नापरः स्फुरपि कस्यचनापि त्वत्समाधिमवधूय समाधिः॥ 21.89 ॥
अन्वयः–प्राग्भवैः उदगुग्भवगुम्फात् इह मुक्तियुक्तिविहतौ त्वत्समाधिम् अवधूय कस्यचन अपि तावत् अवरः समाधिः न स्फुरति।
जीवातु–प्रागिति। हे विष्णो! प्राग्भवैः पूर्वपूर्वजन्मार्जितकर्मभिः, उदगुदग्भवानाम् उत्तरोत्तरजन्मनाम्, गुम्फात् ग्रथनात्, सम्पादनाद्धेतोरित्यर्थः। जन्मपरम्परोत्पादनात् हेतोरिति यावत्। इह संसारे, मुक्तेः मोक्षस्य, युक्तिः योगः, प्राप्तिरित्यर्थः। तस्या विहतौ विघ्ने विषये, कर्मक्षयाभावेन आत्यन्तिकदुःखनिवृत्तिरूपस्य अविद्यास्तमयलक्षणस्य वा मोक्षस्य अनुपपत्तिविषये इत्य्रथः। त्वत्समार्धि तव ध्यानम्, अवधूय परित्यज्य, तव ध्यानं विनेत्यर्थः। कस्यचन कस्यचित् अपि, आचार्यस्येति शेषः। अपरः त्वत्समाधिभिन्नः, समाधिः समर्थनम्, समाधानमित्य्रथः। सिद्धान्त इति यावत्, `समाधिर्नियमे ध्याने नीवारं च समर्थने’ इति विश्वः। न तावत् नैव, स्फुरति प्रकाशते। तथा हि पूर्वपूर्वजन्मार्जितकर्मभिः उत्तरोत्तरजन्मपरिग्रहात् मुक्तेर्व्याधातः, तत्र च तव ध्यानेन तव साक्षात्कारलाभात् तेनैव च प्राक्तनकर्मक्षयात् मुक्तिर्लभते जीव इति सर्वेषामेव तत्त्वज्ञानिनां सिद्धान्तः, `भिद्यते हृदयग्रन्थिः’ इत्यादिशास्त्रोक्तेरिति भावः॥ 21.89 ॥
ऊर्ध्वदिक्कदलनाद् द्विवरकार्षीः किं तनुं हरिहरीभवनाय?
किञ्च तिर्यगाभनो नृहरित्वे कः स्वतन्त्रमनु नन्वनुयोगः?॥ 21.90 ॥
अन्वयः–हरिहरीभवनाय ऊर्ध्वदिक्‌कदलनात् किं तनुं द्विः अकार्षीः, कि च नृहरिकत्वे तिर्यक् अभिनः? ननु स्वतन्त्रम् अनु कः अनुयोगः?
जीवातु–ऊर्ध्वेति। हे विष्णो! हरिहरीभवनाय विष्णुशङ्करीभावाय, हरिहरमूर्तिपरिग्रहायेत्यर्थः। ऊर्ध्वा दिक् यस्मिन् तत् तादृशम्, ऊर्ध्वदिक्कम् उपरिभागीयमित्यर्थः। वामदक्षिणभावेन चरणात् मूर्द्धपर्यन्तमर्द्धार्द्धांशमिति यावत्। बहुव्रीहिसमासे समासान्तकाः। यत् दलनं विभगः तस्मात् हेतोः, एकमेव देहमूर्ध्वाधोभावेन द्विधा विभज्येत्यर्थः। किं किमर्थम्, तनुं शरोरम्, द्विः द्विधा, सम्पूर्णदक्षिणार्द्धे हरिरूपां तादृशवामार्द्धे च हररूपामित्यर्थः। अकार्षीः? कृतवान् असि? हरिहररूपधारणाय कथं वा पादादारभ्य शिरो यावत् द्विविधरूपेण शरीरं द्विधा विभक्तं कृतवान् असि? इत्यर्थः। किञ्च किमर्थ वा, नृहरित्वे नरसिंहभावे, नरसिंहरूपधारणे इत्यर्थः। तनुं तिर्यक् वक्रं यथा भवति तथा, अभिनः? भिन्नवान् असि? कण्ठात् अधोदेशस्य नररूपेण ऊर्ध्वभागस्य च सिंहरूपेण विभागम् अकरोः? इत्यर्थः। ननु भो विष्णो! स्वतन्त्रं स्वाधीनम्, पुरुषवरं भवन्तमिति शेषः, अनु लक्ष्मीकृत्य कः पूर्वोक्तरूपः को नाम्, अनुयोगः? प्रश्नः? `प्रश्नोऽनुयोगः पृच्छा च’ इत्यमरः। स्वतन्त्रेच्छे परमेश्वरे कथमेवं कृतं कथं वा नैवमिति प्रश्नो न युज्यते, यतः स हि स्वेच्छया यथेष्टमेव कर्तुं शक्यते, तत्र कस्यापि किमपि प्रश्नावसरो नैव स्थानुमर्हति इति भावः॥ 21.90 ॥
आप्तकाम! सृजसि त्रिजगत् किं? किं भिनत्सि यदि निर्मितमेव?।
पासि चेदमवतीर्य मुहुः किं स्वात्मनाऽपि यदवश्यविनाश्यम्?॥ 21.91 ॥
अन्वयः–आप्तकाम्, त्रिजगत् किं सृजसि? यदि निर्मितम् एव किं भिनत्सि? यत् स्वात्मना अपि अवश्यविनाश्यं मुहुः अवतीर्य च इदं किं पासि?
जीवातु–स्वतन्त्रत्वमेव स्फुटयति-आप्तेति। आप्तकाम! हे कृतकृत्य! निजप्रभावादेव पूर्णसर्वाभिलाष! विष्णो! अत एव नास्ति ते कार्यप्रयोजनं किमपि इति भावः। किं किमर्थम्, त्रयाणां जगतां समाहारः इति त्रिजगत् त्रिभुवनम्, सृजसि? रचयसि? आप्तकामस्य स्वप्रोयजनाभावादेतन्निष्प्रयोजनमिति भावः। यदि चेत्, निर्मितमेव सृष्टमेव, त्रिजगदिति शेषः, तर्हि किं किमर्थम्, भिनत्सि? विदारयसि? निष्प्रयोजनमेव संहरसीत्यर्थः। यत् त्रिजगत्, स्वात्मना अपि स्वयमेव, अवश्यविनास्यं निश्चितमेव संहार्यम्। `लुम्पेदवश्यमः कृत्य’ इति म-लोपः। इदं तदिदं त्रिजगत्, मुहुः वारं वारम्, अवतीर्य आविर्भूय, मत्स्यादिरूपेणावतीर्णः सन्नित्यर्थः। किं किमर्थं वा, पासि च? रक्षसि च? अवश्यविनाश्यस्य रक्षणमनुपयुक्तमिति भावः। त्वमेव ब्रह्मादिरूपेम जगतःसृष्टिस्तितिसंहारान् करोषि, पर्यनुयोगानर्हश्चेति निष्कर्षः॥ 21.91 ॥
जाह्नवीजलजकौस्तुभचन्द्रात् पादपाणिहृदयेक्षणवृत्तीन्।
उत्थिताऽब्धिलिलात् त्वयि लोला श्रीः स्थिता परिचितान् परिचिन्त्य?॥ 21.92 ॥
अन्वयः–अब्धिसलिलात् उत्थिता लोला श्रीः पादपाणिहृदयेक्षणवृत्तीन् जाह्नवीजलजकौस्तुभच्नद्रान् परिचितान् परिचिन्त्य त्वयि स्थिता।
जीवातु–जाह्नवीति। हे विष्णो! अब्दिसलिलात् सागरोदकात्, उत्थिता उदभूता, लोला चञ्चलाऽपि, श्रीः लक्ष्मीः, पादपाणिहृदयेक्षणे चरण-करवक्षःस्थल-वाम-नयने, वृत्तिः यथाक्रमवस्थानं येषां तादृशान्, जाह्नवी-जलजकौस्तुभ-चन्द्रान्, गङ्गा-पाञ्चजन्य-शङ्ख-कौस्तुभमणि-शशङ्कान्, परिचितान् संस्तुतान्, समुद्रे एकत्रावस्तानेन विशेषतया परिज्ञातान् अत एव चिरकालप्रणयिन इति भावः। `संस्तवः स्यात् परिचयः’ इत्यमरः। परिचिन्त्य पर्यालोच्य, इवेति शेषः। त्वयि भवति, स्थिता विद्यमाना, चलाऽपि अचलत्वेन चिरं विद्यमाना इत्यर्थः। किम्? इति शेषः। गङ्गाकमलादीनामपि आश्रयं त्वां प्रणमामीति भावः॥ 21.92 ॥
वस्तु वास्तु घटते न भिदानां यौक्तनैकविधबाधविरोधैः।
तत्त्वदीहितविजृम्भिततत्तद्‌भेदतदिति तत्त्वनिरुक्तिः॥ 21.93 ॥
अन्वयः–वस्तु यौक्तनैकविधबाधविरोधैः भिदानां वास्तु न घटते, तत् एतत् त्वदीहितविजृम्भिततत्तद्‌भेदम्-इति तत्त्वनिरुक्तिः।
जीवातु–वस्तिवति। हे विष्णो! यौक्ताः युक्तिसिद्धाः, नैकविधाः अनेकप्रकाराः, बाधाः प्रतिबन्धाः, विरोधाश्च विरुद्धभावाश्च तैः हेतुभिः वस्तु पदार्थः, घटपटादिरूपद्रव्यजातमित्यर्थः। भिदानां भेदानान्, वास्तु आश्रयः, न घटते न युज्यते, तत् तस्मात् कारणात्, एतत् घटपटादिरूपं वस्तुजातम्, त्वदीहितेन भवदिच्छयैव, विजृम्भितः विलसितः, प्रकटिट इत्यर्थः। सः सः तादृशः तादृशः, भेदः विशेषः घटपटादिरूपवैषम्यमित्यर्थः। यस्य तत् तादृशम्, इति एवंरूपा, तत्त्वस्य याथार्थ्यस्य, निरुक्तिः निर्वचनम्। मृन्निर्मितघटस्य मृन्मयत्ववत् एकमात्रमूलकारणोत्पन्नं वस्तु एकविधमेव भवितुमर्हति, भेदे तु युक्तिसिद्धा बहवो बाधाः, तथा एकस्मादेव मूलकारणात् पृथक् वस्तु जायते चेत् तदा तेजस औष्ण्यमिव सैत्यमपि जायेत इत्यादयश्च युक्तिसिद्धाः विविधा विरोधाः, एवञ्च घटपटादीनां यदयमन्योऽन्यभेदोऽनुभूयते, तन्न तात्त्विकः, परन्तु भवदिच्छाप्रेरितया अविद्याख्यया माययैव तत् मासते, अतस्त्वमेवैकः सर्वमिदं वस्तु इति तत्त्वनिर्वचनमिति भावः॥ 21.93 ॥
वस्तु विश्वमुदरे तव दृष्ट्वा बाह्यवत् किल मृकण्डतनूजः।
स्व विमिश्रमुभयं न विविञ्चन् निर्ययौ स कतरस्त्वमवैषि॥ 21.94 ॥
अन्वयः–मृकण्डतनूजः तव उदरे बाह्यवत् विश्वं वस्तु दृष्ट्वा उभयं विमिश्रं स्वं न विविञ्चन् निर्ययौ किल, सः कतरः-त्वम् अवैषि।
जीवातु–वस्त्विति। हे विष्णो! मृकण्डतनूजः मार्कण्डेयमुनिः, तव भवतः, उदरे जठरे, बाह्यवत् बहिर्जगदवस्तितं वस्तुजातमिव, विश्वं निखिलम्, वस्तु पदार्थम्, एकविधप्रकारत्वेन सम्मिलितमित्यर्थः। एकस्मिन्नेनव उदरे बाह्योदराभ्यन्तरस्तितयोः द्वयोरपि स्तितत्वेन प्रतीयमानत्वात् अविविक्तमिति यावत्। स्वम् आत्मानम्, न विविञ्चन् विवेक्तुम् अशक्नुवन्, अविविक्तमिति यावत्। स्वम् आत्मानम्, न विविञ्चन् विवेक्तुम् अशक्नुवन् कोऽहं बहिरासम्? को वा उदराभ्यन्तरे वर्त्ते? इत्येवंपरूपेण भिन्नतया ज्ञातुमसमर्थः सन् इत्यर्थः। निर्ययौ उदरात् निर्गतवान्, किल इति प्रसिद्धौ वार्त्तायां वा, सः मृकण्डतनूजः, कतरः बहिः स्तितो वा कः? उदरस्थितो वा कः? इति त्वं भवानेव, अवैषि जानासि, नान्यः कोऽपि इत्यर्थः। सर्वज्ञत्वादिति भावः॥ 21.94 ॥
ब्रह्मणोऽस्तु तव शक्तिलतायां मूर्द्धिन विश्वमथ पत्युरहीनाम्।
बालतां कलयतो जठते वा सर्वथाऽसि जगतामवलम्बः॥ 21.95 ॥
अन्वयः–विश्वं ब्रह्मणः तव शक्तिलतायाम् अस्तु अथ अहीनां पत्युः मूर्द्धिन, वा बालतां कलयतः जठरे, सर्वथा जगतम् अवलम्बः असि।
जीवातु–ब्रह्मण इति। हे विष्णो! विश्वं जगत्, ब्रह्मणः परब्रह्मरूपिणः, तव भवतः, शक्तिः माया एव, लता वल्ली तस्याम्, अस्तु तिष्ठतु, फलस्वरूपेणेति भावः। अथ किं वा, अहीनां नागानाम्, पत्युः ईशस्य नागराजशेषस्य, अनन्तनागरूपिणः इत्यर्थः। तव भवतः, मूर्द्धिन शिरसि, अस्तु। वा अथवा, बालतां शिशुभावम्, कलयतः दधानस्य, वटपत्रशायिनो बालकभूतस्येत्यर्थः। तव इति शेषः। जठरे उदरे, अस्तु, सर्वप्रकारेणापि, जगतां त्रैलोक्य यस्य, अवलम्बः आश्रयः, असि भवसि, त्वमिति शेषः। अत एव तुभ्यं नमोऽस्तु इति भावः॥ 21.95 ॥
धर्मबीजसलिला सरिदङ्घ्रावर्थमूलमुरसि स्फुरति श्रीः।
कामदैवतमपि प्रसवस्ते ब्रह्म मुक्तिदमसि स्वयमेव॥ 21.96 ॥
अन्वयः–धर्मबीजसलिला सरित् अङ्घ्रौ, अर्थमूलं श्रीः उरसि स्फुरति, कामदैवतम् अपि ते प्रसवः मुक्तिदं ब्रह्मा, स्वयम् एव असि।
जीवातु–धर्मेति। हे विष्णो! धर्मस्य चतुर्वर्गेषु प्रथमवर्गस्य, बीज हेतुभूतम्, सलिलं यस्याः सा तादृशी, सरित् नदी, जाह्ववीत्यर्थः। ते तव, अङ्घ्रौ चरणे, स्फुरति शोभते। अर्थस्य घनरूपस्य द्वितीयवर्गस्य, मूलं बीजभृतम्, श्रीः लक्ष्मी, तव उरसि वक्षसि, स्फुरति। कामस्य कामनारूपस्य तृतीयवर्गस्य, दैवतम् अधिष्ठाता कामदेवोऽपि, ते यदुवंशावतीर्मस्य श्रीकृष्णरूपस्य तव, प्रसवः पुत्रः, प्रद्युम्न इत्यर्थः। मुक्तिदं मुक्तिं सोक्षरूपं चतुर्थवर्गम्, ददाति यच्छतीति तादृशम्, ब्रह्मा परमात्मा च, स्वयमेव साक्षात् त्वमेव, असि भवसि। अतः धर्मार्थकाममोक्षरूपं पुरुषार्थचतुष्टयमेकस्मिन् अविरोधेन वर्त्तते इति पुरुषार्थचतुष्टयाकाङ्क्षिणां त्वमेव सर्वया सेवनीयोऽसीति भावः॥ 21.96 ॥
लीलयाऽपि तव नाम जना ये गृह्णते नरकनाशकरस्य।
तेभ्य एव नरकैरुचिता भीस्ते तु बिभ्तुकथं नरकेभ्यः॥ 21.97 ॥
अन्वयः–ये जनाः नरकनाशकरस्य तव नाम लीलया अपि गृह्णते तेभ्यः नरकैः एव भीः उचिता, ते तु कथं नरकेभ्यः बिभ्यतु।
जीवातु–लीलयेति। हे विष्णो! ये जनाः लोकाः, नरकस्य रौरवादेः निरयस्य असुरविशेषस्य च `नरको निरये दैत्ये’ इति विश्वः। नाशम् उच्छेदं निधनञ्च, करोति विदधाति यः तादृशस्य, तव भवतः नाम कीर्त्तयन्ति, तेभ्यः तादृशजनेभ्य एव, नरकैः निरयैः, भीः भयम्, उचिता युक्ता, नरकनाशकरस्य नामग्राहित्वादिति भावः। ते तथाविधजनास्तु, नरकेभ्यः निरयेभ्यः सकाशात् कथं किमर्थम् बिभ्यतु? त्रस्यन्तु? अपु तु न कथञ्चिदेवेत्यर्थः।’ `साङ्केत्यं पारिहास्यं वा स्तोमं हेलनमेव वा। वैकुण्ठनामग्रहणमशेषाघहरं विदुः॥’ इति श्रीमद्‌भागवतोक्तेरिति भावः॥ 21.97 ॥
मृत्युहेतुषु न व्रजनिपाताद् भीतिमर्हति जनस्त्वयि भक्तः।
यत् तदोच्चरति वैष्णवकण्ठान्निष्प्रयत्नमपि नाम तव द्राक्॥ 21.98 ॥
अन्वयः–त्वयि भक्तः जनः मृत्युहेतुषु वज्रनिपातात् भीतिं न अर्हति, यत् तदा वैष्णवकण्ठात् तव नाम निष्प्रयत्नम् अपि द्राक् उच्चरति।
जीवातु–मृत्य्विति। हे विष्णो! त्वयि भवति भक्तः सेवानुरक्तः, जनः लोकः, मृत्युहेतुषु मरणकारणेषु मध्ये, प्रधानाति शेषः। न अर्हति न योग्यो भवति, कुत इत्याह-यत् यस्मात् कारणात्, तदा वज्रनिपातसमये, वैष्णवस्य विष्णोः तव भक्तस्य, तस्येति शेषः। कण्ठात् गलदेशात् तव भवतः नाम नामधेयम्, निष्प्रयत्नमपि प्रयत्नं विनाऽपि, सततनामोच्चारणाभ्यासात् चेष्टां विनाऽपीत्यर्थः। द्राक् शीघ्रमेव, उच्चरति निष्क्रामति। तदेव वज्रनिपातभयं निवारयतीति भावः। अनभिसन्धिनाऽपि विष्णुनामोच्चारकस्य मृत्युभयं नास्तीति निष्कर्षः॥ 21.98 ॥
सर्वथाऽपि शुचिनि क्रियमाणे मान्दरोदर इवावकरा य।
उद्‌भवन्ति भविचेतसि तेषा शाधनी भवदनुस्मृतधारा॥ 21.99 ॥
जीवातु–सर्वथेति। हे विष्णो! सर्वथा सवप्रकारणापि, सम्माजनोसाधनेन परिष्कारादिना कामादिरिपुषट्कविजयेन च इति भावः। शुचिनि निर्मल शुद्धे च, क्रियमाणे विधीयमाने, अपीत शषः। भविना ससारिणाम्, चतसि मनसि, मन्दिरोदरे गृहाभ्यन्तर इव, ये अवकराः सङ्कराः, सम्माजनाक्षिप्तधूल्यादय इत्यर्थः। रागादयो मलाश्च। `सम्मार्जना शाधना स्यात्सङ्करोऽवकरस्तथा’ इत्यमरः। उद्भवन्ति जायन्ते, भवतः तव कमभूतस्य, अनुस्मृतिधारा चिन्तनपरम्परा, तेषाम् अवकराणाम्, शोधनी सम्माजनीस्वरूपा, पावत्रतासम्पादनहेतुश्च, भवतीति शेषः॥ 21.99 ॥
अस्मदाद्यविषयेऽपि विशेषे रामनाम तव धाम गुणानाम्।
अन्वबन्धि भवतैव तु कस्मादन्यथा ननु जनुस्त्रितयेऽपि?॥ 21.100 ॥
अन्वयः–विशेषे अस्मदाद्यविषये अपि तव राम नाम ननु गुणानां धाम, अन्यथा जनुस्त्रितये अपि भवता एव तु कस्मात् अन्वबन्धि?
जीवातु–अस्मदिति। हे विष्णो! विशेषे पार्थक्ये, तव नामसु कस्य उत्कर्षः इत्येवं तारतम्यनिश्चये इत्यर्थः। अस्मदादीनां मद्विधानां मूढानाम्, अवषये ज्ञानागोचरे सत्यपि, तव ते, रामनाम सहस्रनामसु मध्ये रामेति नामैव, गुणानाम् उत्कर्षाणाम्, धाम आश्रयः, इति मन्यते इति शेषः। कुत इत्याह–अन्यथा तु अथैवं नो चेत् पुनः, तव रामनाम्नोऽस्य गुणधामत्वाभावे तु इत्यर्थः। ननु भो नारायण! जनुषां जन्मनाम्, त्रितयेऽपि त्रयेऽपि, जामदग्न्य दाशरथिः बलभद्रात्मकजन्मत्रयेऽपीत्यर्थः। भवतैव त्वयैव, कस्मात् कुतः हेतोः, अन्वबन्धि? अनुबन्धं नीतम्? राम इति एव तु नाम पुनः पुनरावृत्त्या गृहीतम्? इत्यर्थः! त्रिष्वेव अवतारेषु त्वया रामनामग्रहणात् एतत्तेऽतीव प्रियमिति ज्ञायते अज्ञैरपि अस्माभिरिति भावः। तव नामसु रामनामैव श्रेष्ठमिति निष्कर्षः॥ 21.100 ॥
भक्तिभाजमनुगृह्य दृशा मां भास्करेण कुरु वीततमस्कम्।
अर्पितेन मम नाथ! न तापं लोचनेन विधुना विधुनासि?॥ 21.101 ॥
अन्वयः–यः अहरहः विधिनिषेधमयीं भवदाज्ञां लङ्घयन् अस्मि, हा, सः अहम् अलज्जः गिरा एव तपसा अपि दुर्लभं त्वत्प्रसादम् इच्छुः।
जीवातु–भक्तीति। नाथ!हे प्रभो! विष्णो! भक्तिभाजं भक्तिमन्तं सेवकम्, मां नलम्, अनुगृह्य अनुकम्प्य, भास्करेण सूर्येण, दृशा नेत्रेम, सूर्यात्मकदक्षिणनयनेनेत्यर्थः।वीतम् अवगतम्, तमः तमोगुणः, तमोगुणात्मकमूढतेत्यर्तः। ध्वान्तञ्च यस्य तं तादृशम्, `राहौ ध्वान्ते गुणे तमः’ इत्यमरः। कुरु विधेहि। तथा अर्पितेन मां प्रति दत्तेन, विधुना चन्द्रेण, लोचनेन नेत्रेण, चन्द्रात्मकवामनयनेनेत्यर्थः। मम मे, तापम् आध्यात्मिकादिसन्तापत्रयमित्यर्थः। न विधुनासि? न अपनयसि? इति काकुः, अपि तु विधुनास्येवेत्यर्थः भास्करेण तमोविधूनस्य विधुना च तापविधूननस्य सम्भवत्वादिति भावः। धूञ् कम्पने इत्यस्मात् क्रैयादिकात् सिपि `प्वादीनां ह्रस्वः’ 21.101 ॥
लङ्खयन्नहरहर्भवदाज्ञामस्मि हा! विधिनिषेधमयीं यः।
दुर्लभं स तपसाऽपि गिरैव त्वत्प्रसादमहमिच्छुरलज्जः!॥ 21.102 ॥
अन्वयः–यः अहरहः विधिनिषेधमयीं भवदाज्ञं लङ्घयन् अस्मि, हा, सः अहम्, अलज्जः गिरा एव तपसा अपि दुर्लभं त्वत्प्रसादम् इच्छुः।
जीवातु–लङ्घयन्निति। हे विष्णो! यः योऽहं नलः, अहरहः नित्यं, विधिनिषेधमयीं विधिः–`वसन्ते ज्योतिष्टोमेन यजेत’ इत्यादिरूपः निषेधः-`न सुरां पिबेन्न कलञ्जं भक्षयेत्’ इत्यादिरूपश्च, तन्मयीं तदात्मिकाम्, भवदाज्ञां त्वदादेशं, `श्रुतिस्मृती ममैवाज्ञे’ इत्यनुस्मरणात् लङ्घयन् अतिक्रमान्, अस्मि वर्त्ते, हा! खेदे, स उक्तरूपाज्ञालङ्घनकारी, अहं नलः, अलज्जः निस्त्रपः सन्, गिरैव वचनेनैव, `मामनुगृहण मामनुगृहाण’ केवलमित्येवंरूपवाक्‌प्रयोगेणैवेत्यर्थः। तपसा अपि कठोरतपस्ययाऽपि, दुर्लबं दुष्प्रापम्, त्वत्प्रसादं भवदनुग्रहम्, इच्छुः अभिलाषुकः, अस्मीति शेषः। यस्य खलु तव प्रसादः सर्वदा तपस्यादिक्रिपानुष्ठानरूपेण महता प्रयत्नेन लभ्यः, स मया सर्वदा तवाज्ञालङ्घनकारिणा वाङ्मात्रेणैव प्रार्थ्यते इत्यहो मे निर्लज्जता! सर्वथा अनुग्राह्योऽस्मीति भावः॥ 21.102 ॥
विश्वरूप! कृतविश्व!क्रियत् ते वैभवाद्‌भुतमणौ हृदि कुर्वे।
हेम नह्यति कियन्निजचीरे काञ्चनाद्रिमधिगत्य दरिद्रः?॥ 21.103 ॥
अन्वयः–विश्वरूप, कृतविश्व, अणौ हृदि ते वैमवाद्‌भुतं कियत् कुर्वे, दरिद्रः काञ्चनाद्रिम् अधिगत्य निजचीर कियत् हेम नहह्यति?
जीवातु–विश्वेति। विश्वरूप! हे सर्वात्मक! `सर्वं खल्विदं ब्रह्मा इत्यादि श्रुतेरिति भावः। कृतविश्व! हे सम्पादितभुवन! `यतो वा इमानि भूतानि जायन्ते’ इत्यादि श्रुतेरिति बावः। अणौ अत्यन्तसूक्ष्मपरिमिते, हृदि हृदये, ममेति शेषः। ते तव, वैभवस्य सामर्थ्यातिशयस्य, अद्‌भुतम् आश्चर्यस्वरूपम्, कियत् किम्परिमामम्, कुर्वे? गृह्णामि? इत्यर्थः। हृदयस्य अत्यन्तमल्पपरिमितत्वात् नितान्तमल्पम् एव धारयितुं शक्नोमि इति भावः। तथा हि-दरिद्रः निःस्वः, अत एवातिलोलुपोऽपि इति भावः। काञ्चनाद्रिसुमेरुपर्वतम्, अधिगस्य प्राप्य, निजे स्वीये, चीरे शतधाच्छिन्नवस्त्रखण्डे, कियत् किम्परिमाणम्, हेम सुवर्णम्, नह्यति? बध्नाति? अपि तु अत्यल्पमेव बद्‌धुं शक्नोति इत्यर्थः। चीरखण्डे बहुसुवर्णबन्धनासामर्थ्यवत् मम सकलगुणवर्णनाभिलोषे सत्यपि असापर्थ्यात् कियन्मात्रं वर्ण्यते इति भावः। `णहबन्धने’ इति धातुः॥ 21.203 ॥
इत्युदीर्य स हरिं प्रति सम्प्रज्ञातवासिततमः समपादि।
भावनावशविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः। 21.104 ॥
अन्वयः–हरिं प्रति इति उदीर्य सम्प्रज्ञातवासिततमः सः भावनावशविलोकितविष्णौ प्रीतिभक्तिसदृशानि चरिष्णुः समपादि।
जीवातु–इतीति। सः नलः, इति पूर्वोक्तप्रकारेण, हरिं विष्णुम्, प्रति उद्दिश्य, उदीर्य उक्त्वा, स्तुत्वा इत्यर्थः। सम्प्रज्ञातेन तदाख्येन साकारध्यानेन हेतुना, वासिततमः अतिशेयेन सञ्जातभावनः सन्, अर्त्यर्थं तन्मयः सन्नित्यर्थः। भावनावशेन संस्कारपाटवेन, ध्यानप्रभावेणेत्यर्थो वा, विलोकितः साक्षात्कृतः, विष्णुः नारायणः तस्मिन्, विषये, प्रीतिभक्त्योः प्रेमानुरागयोः, सदृशानि उचितानि, नारायणः तस्मिन् विषये, प्रीतिभक्त्योः प्रेमानुरागयोः, सदृशानि उचितानि, आनन्दबाष्पमोचननृत्यगीतादीनि कर्माणीति शेषः। चरिष्णुः आचरणशीलः, अनुष्ठाता इत्यर्थः। समपादि सम्पन्नः, जात इत्यर्थः। `चिण्ते पदः’ इति कर्त्तरि चिण्॥ 21.104 ॥
विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः।
श्रेयसा हरिहरौ प्रतिपूज्य प्रह्व एष शरणं प्रविवेश॥ 21.105 ॥
अन्वयः–विप्रपाणिषु भृशं वसुवर्षी पात्रसात्कृतपितृक्रतुकव्यः श्रेयसा हरिहरौ प्रतिपूजद्य प्रह्वः एषः शरणं प्रविवेश।
जीवातु–विप्रेति। एषः नलः, विप्राणां ब्राह्मणानाम् पाणिषु करेषु, भृशम् अत्यर्थम्, वसु धनम्, वर्षति विकिरति, ददातीत्यर्थः, यः सः तादृशः, तथा पात्रसात्कृतं सत्पात्रे दत्तम्, वितृक्रतोः पितृयज्ञस्य, श्राद्धस्य इत्यर्थः। कव्यं पित्र्यम् अन्नं येन सः तादृशश्च सन्। `ह्व्यकव्ये दैवपैत्रे (पित्र्ये)’ इत्यमरः. नित्यश्राद्धमनुष्ठाय इति भावः। श्रेयसा उत्कृष्टवस्तुना, हरिहरौ विष्णुशिवौ, परिपूज्य अर्चयित्वा, प्रह्वः हरिहरचरणयोः प्रणतश्च सन्, शरणं गृहम्, भोजनगृहमिति यावत्। `शरणं गृहरक्षित्रोः’ इत्यमरः। प्रविवेश प्रविष्टवान्॥ 21.105 ॥
माध्यन्दिनादनु विधेर्वसुधाविवस्वानास्वादितामृतमयौदनमोदमानः।
प्राञ्चं स चित्रमविदूरितवैजयन्तं वेश्माचलं निजरुचोभिरलञ्चकार॥ 21.106 ॥
अन्वयः–वसुधाविवस्वात् माध्यन्दिनात् विधेः अनु आस्वादितामृतमयौदनमोदमानः सः प्राञ्चं चित्रम् अविदूरितवैजयन्तं वेश्माचलं निजरुचिभिः अलञ्चकार।
जीवातु–माध्यन्दिनादिति। वसुधाविवस्वान् भूलोकसूर्यः सः नलः, म्यन्दिनस्य मध्याह्नकालस्य अयमिति माध्यन्दिनः तस्मात् माध्यन्दिनात् दिनमध्यभागे विधेयात्, विधेः अनुष्ठानादनन्तरमित्यर्थः। आस्वादितेन भुक्तेन, अमृतमयेन प्रीयूषतुल्वेन, सुस्वादुनेत्यर्थः। ओदनेन अन्नेन, मोदमानः हृष्यन्, सानमन्दमनाः सन् इत्य्रथः। प्राञ्चं प्राचीनम्, प्रासादात् पूर्वभागस्थमिति वा।`शयनगृहं प्राच्यां कर्त्तव्यम्’ इति शयनशास्त्रादिति भावः। चित्रम् आश्चर्यम्, आश्चर्यदर्शनमित्यर्थः। अविदूरितः निकटीकृतः, अत्युच्चत्वादिति भावः। वैजयन्तः इन्द्रप्रासादः येन तं तादृशम्, वेश्माचलं प्रासादरूपं पर्वतम्, निजाभिः स्वीयाभिः रुचीभिः कान्तिभिः प्रभाभिश्च, अलञ्चकार भूषयामास, सूर्यस्तु मध्याह्नात् परं पश्चिमदिगवस्थितम् अस्ताचलमेवालङ्करोति, अयं तु भूलोकसूर्यः मध्याह्नात् परमपि पूर्वाचलमलङ्कोतीति चित्रम! एवञ्च सदोदयभागयमिति भावः॥ 21.106 ॥भीमात्मजाऽपि कृतदैवतभक्तिपूजा पत्यौ च भुक्तवति भुक्तवती ततोऽनु।
तस्याङ्कमङ्कुरिततत्परिरिप्समध्यमध्यास्त भूषणभरातितरालसाङ्गी॥ 21.107 ॥
अन्वयः–ततः अनु कृदैवतभक्तिपूजा भीमात्मजा अपि पत्यौ भुक्तवति भुक्तवती भूषणभरातितरालसाङ्गी अङ्कुरिततत्परिरिप्समध्यं च तस्य अङ्कम् अध्यास्त।
जीवातु–भीमेति। ततः परिभोजनात् नलस्य वेश्माचलालङ्करणादिति वा, अनु पश्चात्, भूषणभरेण अलङ्कारमारेण, अतितराम् अत्यर्थम्, अलसानि जडानि, विवशानीत्यर्थः। अङ्गानि अवयवा यस्याः सा तादृशी, भीमात्मजा दमयन्ती अपि, कृता अनुष्ठिता, दैवतानां देवानाम्, भक्त्या श्रद्धया, पूजा अर्चना यया सा तादृशी सती; पत्यौ भर्त्तरि नले, भुक्तवति कृतभोजने सति, भुक्तवती स्वयं च कृतभोजना सती, अङ्कुरिता उद्‌भूता, तस्याः कर्मभूतायाः दमयन्त्याः, परिरिप्सा आलिङ्गनेच्छा यस्य तादृशः, `सनि मीमा-’ इत्यादिना सनि इसादेशे `अत्र लोपोऽभ्यासस्य’ इति अभ्यासलोपः। मध्यः मध्यभागः यस्य तं तादृशम्, तस्य नलस्य, अङ्कम् उत्सङ्गम् क्रोडान्तिकमिति यावत्। अध्यास्त उपाविशत्॥ 21.107 ॥
तामन्वगादिशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिणत्युचितच्छदस्य।
कीरस्य काऽपि करवारिरुहे वहन्तो सौन्दर्यपुञ्जमिव पञ्जरमेकमालो॥ 21.108 ॥
अन्वयः–अशितबिम्बविपाकचञ्चोः स्पष्टं शलाटुपरिमत्युचितच्छदस्य कीरस्य सौन्दर्यपुंजम् इव एकं पंजरं करवारिरुहे वहन्ती का अपि आली ताम् अन्वगात्।
जीवातु–तामिति। अशितस्य भक्षितस्य, बिम्बस्य तदाख्यफलविशेषस्य, विपाकः परिणतिः इव , अत एव अतिरक्तवर्मः इति भावः, चञ्चु, त्रोटिः यस्य तादृशस्य आरक्तचञ्चु विशिष्टस्य इत्यर्थः। तथा स्पष्टं व्यक्तं यथा भवति तथा, शलाटुनः आमफलस्य, अपक्वफलस्य सम्बधिन्याः इत्यर्थः। `आमे फले शलाटुः स्यात्’ इत्यमरः। परिणतेः परिणामस्य, उचितौ योग्यौ, नीलौ इति यावत् छदौ पक्षौ यस्य तादृशस्य, कीरस्य शुकपक्षिणः सौन्दर्यपुञ्जमिव सुघटितत्वेन एकीभूतसौन्दर्यराशिमिव एकं पंजरं पक्षिबन्धनागारम्, करो हस्तः, वारिरुहमिव सरोजमिव तस्मिन्, बहन्ती धारयन्ती, का अपि काचित्, आली सखी, तां दमयन्तीम्, अन्वगात् अनुजगाम॥ 21.108 ॥
कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन।
तिर्यग्धृतस्फटिकदण्डकवर्त्तिनैका तामन्ववत्तंत पिकेन मदाधिकेन॥ 21.109 ॥
अन्वयः–कूजायुजा बहुलपक्षशितिम्नि सीम्ना स्पष्टं कुहूपदपदार्थमिथोऽन्वयेन तिर्यग्धृतस्फटिकदण्डकवर्तिना मदाधिकेन पिकेन एका ताम् अन्ववर्त्तत।
जीवातु–कूजेति। कूजायुजा कूजनकारिणा। `गुरोश्च हलः’ इत्यकारप्रत्ययः। बहुलपक्षस्य कृष्मपक्षस्य यः शितिमा कालिमा तस्मिन्, सीम्ना मर्यादाभूतेनेव, अतीव कृष्णवर्णेनेत्यर्थः। अत एव स्पष्टं व्यक्तं यथा, भवति तथा, कुहूपदं कुहू इति शब्दः, कोकिलालाप इत्यर्थः। तथा कुहूपदस्य अर्थः कुहूशब्दवाच्या अमावस्या च। `कुहूः स्यात् कोकिलालापष्टेन्दुकलयोरपि’ इत्यमरः। तयोः मिथः परस्परम्, अन्वयः तादत्म्यम्, सामानाधिकरण्यसम्बन्ध इत्यर्थः। यत्र तेन तादृशेन, `कुहू कुहू’ इति रवकारिणा अमावास्येव गाढकृष्णवर्णेन चेत्यर्थः। अमावस्याऽपि बहुलपक्षस्य सीमा इति प्रसिद्धमेव। तिर्यक्‌ वक्रभावेन, धृतः गृहीतः, यः स्फटिकस्य स्फटिकनिर्मितः इत्य्रथः। दण्‍डकः क्षुद्रदण्डः, तत्र वर्त्तते तिष्ठतीति तादृसेन, मदाधिकेन अत्यन्तमत्तेन, पिकेन एकेन कोकिलेन उपलक्षिता, कोकिलहस्ता इत्यर्थः। एका काचित्, आलीति शेषः। तां दमयन्तीम् अन्ववर्त्तत अन्वगच्छत्॥ 21.109 ॥
शिष्याः कलाविधिषु भीमभुवो वयस्या वीणामृदुक्वणनकर्मणि याः प्रवीणाः।
आसीनमेनमुपवीणयितुं ययुस्ता गन्धर्वराजतनुजा मनुजाधिराजम्॥ 21.110 ॥
अन्वयः–वीणामृदुक्वणनकर्मणि प्रवीणाः याः गन्धर्वराजतनुजाः कलाविधिषु भीमभुव शिष्याः वयस्याः ताः आसीनं मनुजाधिराजम् एनम् उपवीणयितुं ययुः।
जीवातु–शिष्या इति। वीणायाः वाद्यविशेषस्य, मृदुक्वणनकर्मणि कोमलवादनक्रियायाम् प्रवीणाः निपुणाः, याः गन्धर्वराजतनुजाः गन्धर्वराजकन्याः, कलाविधिषु नृत्यगीतादिकलाविद्याभ्यासेषु, भीमभुवः दमयन्त्याः, शिष्याः अन्तेवासिन्यः सत्यः, वयस्याः सख्यः, अभवन् इति शेषः। ताः गन्धर्वराजतनुजाः, आसीनम् उपविशन्तम्, मनुजाधिराजं नराधिपम्, एनं नलम्, उपवीणयितुं वीणया उपगातुम् ययुः प्राप्तवत्यः॥ 21.110 ॥
तासामभासत कुरङ्गदृशां विपञ्ची किञ्चित् पुरुःकलितनिष्कलकाकलीका।
भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथममप्रतिभावतीव॥ 21.111 ॥
अन्वयः–कुरङ्गदृशां तासां किञ्चित् पुरःकलितनिष्कलकाकलीका विपञ्ची भैमीतथामधुरकण्ठलतोपकण्ठे शब्दायितुं प्रथमम् अप्रतिभावती इव अभासत।
जीवातु–तासामिति। कुरङ्गदृशां मृगलोचनानाम्, तासां गन्धर्वराजतनुजानाम्, विपञ्ची वीणा, किञ्चित् अल्पम्, पुरः प्रथमम्, कलिता स्वीकृता, निष्कला निर्विशेषा, सामान्येत्यर्थः। काकली मधुरास्फुटध्वनिः यस्याः सा सादृशी सतीः `काकली तु कले सूक्ष्मे ध्वनौ तु मधुरास्फुटे’ इत्यमरः। `नद्यृतश्च’ इति कप् समासान्तः। भैम्याः दमयन्त्याः, तथा तादृशी, या मधुरा मनोहारिणी, सुश्राव्या इत्यर्थः। कण्ठलता कण्ठस्वरसन्ततिः, तस्याः उपकण्ठे समीपे, शब्दायितुं सङ्गीतात्मकं शब्दं कर्त्तुम् `शब्दवैर-’ इत्यादिना क्यङ्ततः तुमुन्। प्रथमम आदौ, अप्रतिभावतीव प्रतिभारहिता इव, स्फूर्त्तिमप्राप्तेवेत्यर्थः। अभासत प्रतीयते स्म इत्यर्थः। विद्याधिकानां पुरतोऽल्पविद्यस्य कण्ठो न स्फुरति इत्युचितमेवेति भावः॥ 21.111 ॥
सा यद्‌धृताऽखिलकलागुम्भूमभूमीभैमीतुलाऽधिगतये स्वरसङ्गताऽऽसीत्।
तं प्रागसावविनयं परिवादमेत्य लोकेऽधुनाऽपि विहिता परिवादिनीति॥ 21.112 ॥
अन्वयः–सा धृताऽखिलकलागुणभूमभूमीभैमीतुलाऽधिगतये यत् स्वरसङ्गता आसीत् असौ प्राक् तम्, अविनय परिवादम् एत्य अधुना अपि लोके परिवादिनी इति विहिता।
जीवातु–सेति। सा गन्धर्वराजतनुजानां वीणा, धृतानां प्राप्तानाम्, अखिलानां सर्वासाम्, कलानां नृत्यगीतादिविद्यानाम्, गुणानां सौशील्यसौन्दर्यादिनाञ्च, यः भूमा बाहुल्यम्, तस्य भूमी स्तानम्, आश्रयभूता इत्यर्थः। याः भैमी दमयन्ती, तस्याः तुलाऽधिगतये सादृश्यलाभाय, भैमीकंठस्वरतुल्यस्वरप्राप्तये इत्यर्थः। यत् स्वरसङ्गता स्वरेण ध्वनिना, सङ्गता संयुता, ध्वनिकारिणीत्यर्थः। अथ च स्वरसं स्वयमेवानुरागम्, गता प्राप्ता, आसीत् अभूत् असौ वीणा, प्राक् पूर्वम्, तं तादृशम, दमयन्तीसाम्यलाभेच्छारूपमित्यर्थः। अविनयम् औद्धत्यम्, स्वस्या उत्तमेन सादृश्यलाभाय धृष्टताप्रकाशरूपमित्यर्थः। परिवादं निन्दाम्, एत्य प्राप्य, अधिनाऽपि इदानीमपि, लोके जगति, परिवादिनीति परिवादवती इति अथ च परिवादिनीति आख्या च, विहिता कृता, इव जनैरिति शेषः। `विपञ्ची सा तु तन्त्रीभिः सप्तभिः, परिवादिनी’ इत्यमरः॥ 21.112 ॥
नादं निषादमधुरं ततमुज्जगार साऽम्यासभागवनिभृत्कुलकुञ्जरस्य।
स्तम्बेरमीव कृतश्रुतिमूर्द्धकम्पा वीणा विचित्रकरचापलमाभजन्ती॥ 21.113 ॥
अन्वयः–अवनिभृत्कुलकुञ्जरस्य अभ्यासभाक् कृतसश्रुतिमूर्धकम्पा विचि6करचापलम् आभजन्ती स्तम्बेरमी इव सा वीणा निषादमधुरं ततं नादम् उज्जगार।
जीवातु–नादमिति। सा गन्धर्वराजतनुजाभिः स्वरसङ्गता, वीणा विपञ्ची, अवनिभृत्कुलकुञ्जरस्य राजवंशश्रेष्ठस्य, नलस्य इति शेषः। अन्यत्र अवनिभृत्कुले भूधरसमूहे, यः कुञ्जरः हस्ती, पार्वत्यहस्तीत्यर्थः, तस्य अभ्यासं समीपम्, भजति आश्रयति या सा तादृशी, तथा कृतः विहितः, सश्रुतीनां द्वाविंशतिश्रुतियुक्तानां षड्‌जादीनाम्, मूर्द्धनि नादप्रान्ते, कम्पः कम्पितस्वरः यया सा तादृशी, यद्वा-सश्रुतीनां तद्‌ध्वनिश्रवणकारिणां लोकानाम्, मूद्‌र्ध्नः शिरसः, कम्पः चालनं यया सा तादृशी, अन्यत्र-कृतः विहितः, सश्रुतेः कर्णद्वयसहितस्य, मूद्‌र्ध्नः शिरसः कम्पः चालनं यया सा तादृशी, तथा विचित्रं नानाविधम्, करस्य पाणी, चापल्यं चाञ्चल्यम्, कराङ्गुलीचालनेन द्रुतवादनरूपमित्यर्थः। अन्यत्र-विचित्रम् मनोहरमित्यर्थः। करस्य शुण्डादण्डस्य, चापलं संचालनचापल्यम्, आभजन्ती सम्यक् प्राप्नुवती सती, स्तम्बेरमी हस्तिनी इव। `स्तम्बकर्णयो रमिजपोः’ इत्यच्, `हलदन्तात् सप्तम्याः संज्ञायाम्’ इत्यलुक्, `जातेरस्त्रीविषयात्-’ इत्यादिना ङीप्। निषादेन तदाख्यास्वरविशेषेण, मधुरं रम्यम्, ततं विस्तृतं तारञ्च, नादं ध्वनिं बृंहणञ्च, उज्जगार उद्‌गीर्णवती, आविश्चकारेत्यर्थः। एकत्र-वादननैपुण्यात्, अन्यत्रनिषादञ्च गजो ब्रूते’ इति पशुशास्त्रादिति भावः॥ 21.113 ॥
आकृष्य सारमखिलं किमु वल्लकीनां तस्या मृदुस्वरमसर्जि न कण्ठनालम्?
तेनान्तरं तरलभावमवाप्य वीणा ह्रीणा न कोणममुचत् किमु वा लयेषु?॥
अन्वयः–वल्लकीनाम् अखिलं सारम् आकृष्य तस्याः मृदुस्वरं कण्ठनालं किमु न असर्जि, तेन आन्तरं तरलभावम् अवाप्य ह्रीणा वीणा लयेषु (आलयेषु) किमु वा कोणं न अमुचत्?
जीवातु–आकृष्येति। वल्लकीनां वीणानाम्, अखिलं समग्रम्, सारम् उत्कृष्टांशम्, आकृष्य सङ्गृह्य, मृदुः कोमलः, स्वरः ध्वनिः यस्य तत् तादृशम्, तस्याः दमयन्त्याः, कण्ठनालं गलनालो, न असर्जि किमु? न सृष्ट किम्? ब्रह्मणा इति शेषः। अपि तु तादृशमेवासर्जि इत्यर्थः। कथमन्यथा वीणारवादपि दमयन्तरस्थितम्, तरलभावं ध्वनिचांचल्यम्, सर्वसाराकर्षणेन शून्याभ्यन्तरत्वादिति भावः। अन्यत्र-आन्तरं तरलभावं मानसचांचल्यम्, अवाप्य, प्राप्य, वीणा विपञ्ची, ह्रीणा लज्जिता सती, लयेषु साम्येषु, लयकाले इत्यर्थः। `लयः साम्यम्’ इत्यमरः। अन्यत्र-आलयेषु गृहेषु, कोणं वीणादनदण्डं गृहैकदेशं च। `कोणो वाद्यप्रभेदे स्यात् कोणोऽस्रौ लगुडेऽपि च। वीणादिवादने वा स्यादेकदेशे गृहस्य च॥’ इति विश्वः। न अमुचत् किमु वा? न अत्यजत् वा किम्? अन्योऽपि अपहृतसारो जनः अन्तश्चञ्चलः ह्रीणश्च सन् गृहस्य कोणमाश्रित्य यथा तिष्ठति तथा इति भावः॥ 21.114 ॥
तद्दम्पतिश्रुतिमधून्यथ चाटुगाथा वीणास्तथा जगुरतिस्फुटवर्णबन्धम्।
इत्थं यथा वसुमतीरतिगृह्यकस्ताः कीरः किरन् मुदमुदीरयति स्म विश्वाः॥ 21.115 ॥
अन्वय–अथ वीणाः तद्दम्पतिश्रुतिमधूनि चाटुगाथाः अतिस्फुटवर्णबन्धं तथा जगुः यथा वसुमतीरतिगृह्यकः कीरः मुदं किरन् इत्थं ताः विश्वाः उदीरयति स्म।
जीवातु–तदिति। अथ अन्तरम्, पूर्वोक्तरूपकालध्वन्युग्‌गारानन्तरमित्यर्थः। वीमाः विपञ्चः, कर्त्र्यः। तयोः दम्पत्योः जायापत्योः दमयन्तीनलयोः, श्रुतौ श्रोत्रे, मधूनि क्षौद्ररूपाः, श्रुतिसुखकरा इत्यर्थः। चाटुगाथाः प्रियगीतानि, अतिस्फुटानां सुस्पष्टानाम्, वर्णानामक्षराणाम्, बन्धः विन्यासः यस्मिन् तत् यथा तथा, तथा तादृशप्रकारेम, जगुः गीतवत्यः, यथा येन प्रकारेण, वसुमतीरतेः भूलोकरतिदेवीस्वरूपायाः दमयन्त्याः, गृह्यकः पञ्जरे स्थापितः `पदास्वैरि-’ इत्यादिना अस्वैरी इत्यर्थे कप्। `गृहासक्ताः पक्षिमृगाश्छेकाः स्युर्गृह्यकाश्च ते’ इत्यमरः। कीरः शुकः, मुदं प्रीतिम्, तत्रत्यजनानामिति भावः। किरन् उत्पादयन् इत्यर्थः। इत्थं वक्ष्यमाणेन प्रकारेण, विश्वाः समस्ताः, ताः चाटुगाथाः, बर्णनश्लोकानित्यर्थः। उदीरयति स्म उच्चारयति स्म॥ 21.115 ॥
अस्माकमुक्तिभिरवैष्यथ एव बुद्धेर्गाधं युवामतिमती! स्तुमहे तथाऽपि।
ज्ञानं हि वागवसरावचनाद्भवद्भ्यामेतावदप्यनवधारितमेव न स्यात्॥ 21.116 ॥
अन्वयः–अतिमती, युवाम् अस्माकम् उक्तिभिः बुद्धेः गाधन् अवैष्यथ एव तथापि स्तुमहे; हि भवद्‌भ्यां वागसराकथनात् एतावत् अपि ज्ञानम् अनवधारितम् एव न स्यात्?
जीवातु–अस्माकमिति। अति अत्यधिका, मतिः बुद्धिः ययोः तयोः सम्बोधनम् अतिमती! हे महाबुद्धिसम्पन्नौ दमयन्तीनलौ! अत एव अवैष्यर्थ इति भावः। युवां भवन्तौ, अस्माकं ममेत्यर्थः। उक्तिभिः वचनैरिव, मत्कृताभिः भवतोः स्तुतिगाथाभिरेवेत्यर्थः। बुद्धेः ज्ञानस्य, अस्माकमिति शेषः। गाधम् उत्तानत्वम्, अगभीरत्वमित्यर्थः। स्थूलबुद्धितामिति यावत्। अवैष्यथः ज्ञास्यथः, तथाऽपि स्तुमहे स्तवं कुर्मः, वयं युवामिति शेषः। हि यस्माद् भवद्भ्यां युवाभ्याम्, वागवसरे वाक्यप्रयोगोचितवकाशे, भवदीयगुणोत्कर्षस्य समुचितवर्मनावसरे सत्यपीत्यर्थः। अवचनात् अकथनात् तथावर्णनाऽकरणादित्यर्थः। एतावदपि इयदल्पमपि, ज्ञानम् अस्मदीयबुद्धिम्, अनवधारितमेव अज्ञातमेव, न स्यात् न भवेत्, अपि तु अवधारितमेव स्यादित्यर्थः। भवतोर्गुमौत्कर्ष्यमेव बुद्धिहीनानप्यस्मान् स्तोतुमुत्सहते, अत उत्तानबुद्धयोऽपि वयं भवन्तौ स्तुमहे, ततश्च अनयैव स्तुत्या अस्माकं ज्ञानं कियदिति ज्ञातुं शक्येत भवद्‌भ्यामिति॥ 21.116 ॥
भूभृद्भबाषऽङ्कभुवि राजशिखामणेःसा त्वञ्चास्य भोगसुभगस्य समःक्रमोऽम्।
यन्नाकपालकलनाकलितस्य भर्त्तुरत्रापि जन्मनि सती भवती स भेदः॥ 21.117 ॥
अन्वयः–भूभृद्‌भवता सा त्वं च भोगसुभगस्य राजसिखामणेः अस्य अङ्कभुवि-अयं क्रमः स्मः; भवती अत्र जन्मनि अपि यत् नाकपालकलनाकलितस्य भर्त्तुः सती-सः भेदः।
जीवातु–भूभृदिति। हे दमयन्ति! भूभृतः हिमालयभूधरात्, भीमनृपतेश्च। `भूभृद् भूमिधरे नृपे’ इत्यमरः। भवति जायते या सा तादृशी, हिमालयाङ्गजा राजतनुजा च, सा पार्वती, त्वं भवती च, भोगैः भूषणीकृतसर्पशरीरैः स्रक्‌चन्दनादिसम्भोगैश्च। `भोगः सुखे स्त्र्यादिभृतावहेश्च फणकाययोः’ इत्यमरः। सुभगस्य सुन्दरस्य, तथा राजा चन्द्रः, शिखामणिः शिरोरत्नं यस्य तस्य इन्दुमौलेः, राज्ञां नृपाणाम्, शिखामणेः चूडारत्नस्य च, नृपश्रेष्ठस्येत्यर्थः। `राजा मृगाङ्के क्षत्त्रिये नृपे’ इत्यमरः। अस्य शिवस्य नलस्य च, अङ्कभुवि क्रोडदेशे; वर्त्तते वर्त्तसे च इति शेषः। अयम् एषः, उक्तरूप इत्यर्थः क्रमः परिपाटी, सादृश्यमिति यावत्। समः तुल्यः, पार्वत्या सह ते इति शेषः। परन्तु, भवती त्वम्, अत्रापि अस्मिन्नपि जन्मनि, न केवलं पूर्वजन्मनि इति भावः। नाकस्य स्वर्गस्य, पालः पालकः इन्द्रः, तस्य कलनया सादृश्येन, अंशतया वा, कलितस्य विदितस्य, वासवतुल्यस्येत्यर्थः। भर्त्तुः पत्युः, नलस्य सम्बन्धिनी सती इत्यर्थः। यत् सती पतिव्रतैव, वर्त्तते इति शेषः। पार्वती तु अत्र जन्मनि कपालस्य ब्रह्मकर्परस्य, कलनया धारणया, कलितः विदितः, स न भवतीति अकपालकलनाकलितः, तादृगपि न भवतीति नाकपालकलनाकलितः तस्य असती वर्त्तते इति शेषः। सः उक्तरूप एव, भेदः अन्तरम्, पार्वत्याः तव च इति शेषः। तथा च दुर्गा पूर्वजन्मनि दक्षकन्यापत्ये एव सतीनाम्ना विदिता आसीत्, हिमालयदुहितृत्वेऽघुना तु पार्वतीनाम्ना विदिता सती असती सतीति नामविरहिता, भवती तु अस्मिन्नपि जन्मनि पातिव्रत्येन सतीति प्रसिद्धा, अयमेव तव पार्वत्याश्च भेदः इति भावः॥ 21.117 ॥
एषा रतिः स्पुरति चेतसि कस्य यस्याः सूते रतिं द्युतिरथत्वयित्वाऽऽतनोति?
त्रैयक्षवीक्षण-खिलीकृत-निर्जरत्वसिद्धायुरध्वमकरध्वजसंशयं कः?॥ 21.118 ॥
अन्वयः–एषा कस्य चेतसि रतिः स्फुरति, यस्याः द्युतिः रतिं सूते? अथ कः वा त्वयि त्रैयक्षवीक्षणखिलीकृतनिर्जरत्वसिद्धायुरध्वमकरध्वजसंशयम् आतनोति?
जीवातु–एषेति। हे नल! एषा दमयन्ती, कस्य जनस्य, चेतसि मनसि, रतिः मदनवधूः, इति स्फुरति? प्रकाशते? अपि तु न कस्यापि इत्यर्थः। कुत इत्याह-यस्याः दमयन्त्याः, द्युतिः अङ्गकान्तिः, एवेति शेषः। रतिम् अनुरागं मदनवधूञ्च इत्यर्थः। `रतिः स्त्री स्मरदारेषु रागे सुरतगुह्ययोः’ इति मेदिनी। सूते जनयति, यस्याः अङ्गकान्तिः रतिं जनयति सा कथमपि रतिर्भवितुं नार्हति इति भावः। अथः प्रस्नार्थकमव्यम्, कः वा, जनः इति शेषः। त्वयि भवति नले विषये, त्रैयक्षेण शिवसम्बन्दिना। `न य्वाब्याम्-’ इत्यैजागमः। वीक्षणेन चक्षुषा, तृतीयनयनेनेत्यर्थः। सिद्धस्य प्रसिद्धस्य, आयुषः जीवनकालस्य, अमरत्वरूपदीर्घजीवनस्य इत्यर्थः। अध्वा मार्गः यस्य तादृशस्य, मकरध्वजस्य कन्दर्पस्य, संशयं सन्देहम्, मकरध्वज इति भ्रान्तिमित्यर्थः। आतनोति? विस्तारयति? न कोऽपि इत्यर्थः। देवेत्वेन अमरोऽपि कामः कामारिनयनानलेन दग्धः सन्‌ मृतः, मृतस्य च जीवितप्राणिनि सन्देहासम्भवात् भवति अयं कामो न वा इति संशयो न करयापि उदेतुमर्हति, तस्य मृतत्वादिति भावः। रतिकामाभ्यामपि भवन्तौ मनोहरश्रीकौ इति तात्पर्यम्॥ 21.118 ॥
एतां धरामिव सरिच्छविहारामुल्लासितस्त्वमिदमाननचन्द्रभासा।
बिभ्रद्विभासि पयसामिव राशिरन्तर्वेदिदिश्रियं जनमनःप्रियमध्यदेशान्॥ 21.119 ॥
अन्वयः–सरिच्छविहारिहाराम् अन्तर्वेदिश्रियं जनमनःप्रियमध्यदेशां धराम् इव एतां बिभ्रत् इदमाननचंद्रभासा उल्लसितः पयसां राशिः इव त्वं विभासि।
जीवातु–एतामिति। हे राजन्! त्वं भवान्, सरितः नद्याः इव, छविः शोभा, शुभ्रकान्तिरित्यर्थः। तया हारी मनोहारी, हारः मुक्तासरः यस्याः तां, पक्षे-सरितः नद्यः एव, छव्या कान्त्या, हारिणो मनोज्ञाः, हारा मौक्तिकसरा यस्यास्ताम्, वेद्याम्, अन्तः अन्तर्वेदि वेदिकामध्यम्, तद्वदतिकृशा इत्यर्थः, श्रीः शोभा यस्याः ताम्, यद्वा-अन्तः शरीराभ्यन्तरे, वेदेः कीटविशेषस्य, श्रीरिवश्रीः सौन्दर्यम्, तनुतारूपा इत्यर्थः यस्यास्ताम्, कुमारसम्भवादावपि `मध्येन सा वेदिविलग्नमध्या’ इत्यत्र कीटविशेषार्थे वेदिशब्दः प्रयुक्तः इति दृस्यते। पक्षे-अन्तर्वेदिः तदाख्यगङ्गायमुनाङ्गमस्तानम्, तेन श्रीः शोभा यस्याः तादृशम्, तथा जनमनसां लोकचेतसाम्, प्रियः प्रीतिजनकः, मध्यदेशो नितम्बभागो यस्याः ताम्। पक्षे-जनमनसां लोकचित्तानाम्, प्रियः हर्षजनकः, मध्यदेशः `हिमवद्विन्ध्योरन्तर्यः प्राक्कनखलादपि। प्रत्यगेव प्रयागाच्च मध्यदेशः प्रकीर्त्तितः॥’ इत्युक्तविन्ध्यहिमाचलान्तरभूभागरूपः यस्याः ताम्, एतां दमयन्तीम्, धरामिव पृथिवीमिव, बिभ्रत् अङ्के दधानः, यस्याः दमयन्त्याः धरायाश्च, आननं मुखम्, चंद्रः शशधर इव, पक्षे-आननसदृशचंद्रश्च, तस्य भासा प्रभया, उल्लसितः हर्षं प्रापितः उछ्‌च्वसितश्च सन्, पयसां राशिः समुद्रः इव, विभासि शोभसे। सागरः हि चंद्रभासा उच्छ्वसितः भवति इति प्रसिद्ध एव॥ 21.119 ॥
दत्ते जयं जनितपत्रनिवेशनेयं साक्षीकृतेन्दुवदना मदनाय तन्वी।
मद्यस्थदुर्बलतमत्वफलं किमेतद् भुक्तिर्यदत्र तव भर्त्सितमत्स्यकेतोः?॥
अन्वयः–जनितपत्रनिवेशना साक्षीकृतेन्दुवदना इयं तन्वी मदनाय जयं दत्ते, भर्त्सितमत्स्यकेतोः तव अत्र यत् भुक्तिः, एतत् किं मध्यस्थदुर्बलतमत्वफलम्?
जीवातु–दत्त इति। हे महाराज! जनितं कृतम्, सखिभिः विचारकेण चेति शेषः। पत्रस्य कस्तूर्यादिकल्पितमकरपत्रवल्लयाद्याकारतिलकस्य जयसूचकपत्रस्य च, निवेशनं चरनम्, अङ्कनमित्य्रथः, दानमित्यर्थश्च। यस्याः सा तिलकभूषितकपोलादिका विचारकैः विचार्य लिखितजयपत्रा च, तथा अक्षिभ्यां सह वर्त्तमानः साक्षः। `बहुव्रीहौ सक्थयक्ष्णोः स्वाङ्गात्-’ इति समासान्तः षच्। असाक्षः साक्षः कृतः साक्षीकृतः सलोचनीकृतः, इन्दुः चंद्र एव, वदनं मुखं यस्याः सा, इन्दोः सलोचनीकरणाभावे वदने नेत्रस्तितिः कथं युज्यते इति भावः। अन्यत्र-साक्षीकृताः साक्षाद्‌ द्रष्ट्रीकृताः, इन्दुवदनाः चंद्रमुख्यः सख्यः यस्याः सा, कामजयविषये भैम्याः सख्यः एव साक्षिण्यः वर्त्तन्ते, यतः भैम्यां नलस्य कामवश्यता ताभिरेव साक्षात् दृष्टा इति भावः। अथवा-साक्षीकृतं साक्षाद् द्रष्ट्रीकृतम्, इन्दुवदनं स्वस्याः चंद्रसुन्दरमुखं यया सा, नलस्य कामविजितत्वे भैम्याः मुखचंद्र एव साक्षी इति भावः। इयं पुरतः दृश्यमाना, तन्वी कृशाङ्गी, दमयन्तीति शेषः। अन्यत्र-काचित् सूक्ष्मा विचारप्रणाली च, मदनाय कामाय, जयं विजयम्, दत्ते अर्पयति, मदनेन त्वां विजितं करोतीत्यर्थः। अन्यत्र-स्वविषये नलकामयोः विवादे कामायेव विजयम्, दत्ते अर्पयति, भैमीविषये कामः नलं जितवान् इत्यर्थः। तथाऽपि। भर्त्सितः तिरस्कृतः, रूपेण धिक्कृतः इत्यर्थः। अन्यत्र-बलात् सन्तर्जितश्च, मत्स्यकेतुः मीनध्वजः मदनः येन तादृशस्य, तव भवतः, अत्र अस्यां दमयन्त्यम्, पक्षे-भुवि च, यत् भुक्तिः सुरतसम्भोगः, अन्यत्र प्रतिपक्षात् बलपूर्वकं गृहीत्वा स्वयमुपभोगश्च, तदेतत् मध्यस्थं कटिदेशस्थम्, यत् दुर्बलतमत्वं कृशतया अत्यन्तहीनबलत्वम्, अत एव सम्भोगक्रियासु सुखकरत्वमिति भावः। तस्य, अन्यत्र-मध्यस्थानां विचारकाणाम्, दुर्बलतमत्वस्य बाधाप्रदाने अक्षमतया चित्तदौर्बल्यस्य, फलं परिणामः, किम्? दमयन्त्याः मध्यावयवस्य अतिसूक्ष्मत्वेन परमरमणीयत्वमेव अतिसुन्दरस्य तव भोगप्रयोजकम्, अन्यता पराजितोऽपि भवान् कथमिमां विवादभूमिं भोक्तुं शक्नोति? इति भावः। अन्यत्र-जयपत्रे साक्षिषु च सत्स्वपि विजयिनः विषये अन्येन बलपूर्वकं विजयिनं तिरस्कृत्य या भुक्तिः तत्र सभ्यानां चित्तदौर्ल्यमेव कारणमिति भावः॥ 21.120 ॥
चेतोभवस्य भवती कुचपत्रराजधानीयकेतुमकरा ननु राजधानी।
अस्यां महोदयमहस्पृशि मीनकेतोः के तोरणं तरुणि! न ब्रुवते भ्रुवौ ते?॥ 21.121 ॥
अन्वयः–ननु भवती कुचपत्रराजधानीयकेतुमकरा चेतोभवस्य राजधानीः तरुणि, के मीनकेतोः महोदयस्पृशि अस्यां ते भ्रुवौ तोरणं न ब्रुवते?
जीवातु–चेत इति। ननु भो दमयन्ति! कुचयोः स्तनयुगयो-, पत्रं तिलकरचनैव, राजधानीयः राजावासीभूतनगरसम्बन्धी, केतुः ध्वजः पताकास्तानीय इत्यर्थः. मकरः मीनविशेषः यस्याः सा तादृशी, नगरीस्वरूपेत्यर्थः। राजधान्यमेव राजभिः निजनिजासाधारणचिह्नयुक्तानां ध्वजानां स्थापनीयत्वात् कामराजस्य मुख्यध्वजः मकरः राजधानीभूतयोः तव कुचयोः चित्रितः राजते इति भावः। तरुणि1 हे युवति! के जनाः, मीनकेतोः कामस्य, महोदयः आधिपत्यम्, राज्यप्राप्तिरूपोन्नतिरित्यर्थः। तत्र यः महः उत्सवः, तं स्पृशति स्पर्शं करोतीति तादृश्याम्। `महोदयः कान्यकुब्जेऽप्याधिपत्यापर्वगयोः’ इति विश्वः। `महस्तूत्सवतेजसोः’ इत्यमरः। अस्यां राजधानीस्वरूपायां भवत्याम्, ते तव, भ्रुवौ भ्रूयुगलमेव, तोरणं बहिर्द्वारस्थितवक्रकाष्ठस्वरूपमित्यर्थः। न ब्रुवते? न कथयन्ति? अपि तु सर्व एव ब्रुवते इत्यर्थः॥ 21.121 ॥
अस्या भवन्तमनिशं भवतस्तथैनां कामः श्रमं न कथमृच्छतु नाम गच्छन्।
छायैव वामथ गतागतमाचरिष्णोस्तस्याध्वजश्रमहरा मकरध्यजस्य॥ 21.122 ॥
अन्वयः–अस्याः भवन्तं तथा भवतः एनाम् अनिसं गच्छन् कामः कथं नाम श्रमं न ऋछतु; अथ गतागतम्, आचरिष्णोः तस्य मकरध्वजस्य वां छाया एव अध्वजश्रमहरा।
जीवातु–अस्या इति। हे महाराज! कामः मीनकेतनः, अस्याः दमयन्त्याः सकाशात्, भवन्तं त्वाम् तथा भवतः त्वत्तः सकाशात्, एनां दमयन्तीम्, अनिशं निरन्तरम्, गच्छन् गततागतं कुर्वन्नित्यर्थः। कथं किमर्थम्, श्रमम् आयासम्, नाम सम्भावनायाम्, न ऋच्छतु? न प्राप्नोतु? अपि तु ऋच्छत्येनव इत्यर्थः। निरन्तरं यातायातकरणादिति भाव। अथ किंवा, गतागतं, गमनागमनम्, आचरिष्णोः कुर्वतः तस्य श्रान्तस्य, मकरध्वजस्य कामस्य, वां युवयोः छाया एव कान्तिरेव, सौन्दर्यमिति यावत्, अनातव एव च। `छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः’ इत्यमरः। अध्वजं पथपर्यटनजनितम्, श्रमं क्लान्तिम्, हरति नाशयति या सा तादृसी, भवतीति शेषः। छायाबहुले मार्गे गतागतिं कुर्वाणानां पान्थानां पर्यटनक्लेशाननुभवादिति बावः। दमयन्त्या कामस्त्वयि तव च दमयन्त्यामेव वर्त्तते, नान्यत्र कुत्रापीति तात्पर्यम्॥ 21.122 ॥
स्वेदप्लवप्रमयिनी तव रोमराजी रत्यै यदाचरति जागरितव्रतानि।
आभासि तेन नरनाथ! मधूत्थसान्द्रमग्नासमेषुशरकेशरदन्तुराङ्गः॥ 21.123 ॥
अन्वयः–नरनाथ, स्वेदप्लवप्रणयिनी तव रोमराजिः यत् रत्यै जागरितव्रतानि आचरति, तेन मधूत्थसान्द्रमग्नासमेषुशरकेशरदन्तुराङ्गः आभासि।
जीवातु–स्वेदेति। नरनाथ! हे मनुजाधिप! नल! स्वेदः धर्मजलम्, तत्र प्लवे स्नाने, प्रणयः प्रीतिः अस्या अस्तीति सा तादृशी, तव भवतः, रोमराजिः रोमसमूहः, रत्यै सुरताय, जागरितानि जागरणान्येव, उद्‌गमा एव च, व्रतानि नियमान्, यत् आचरति अनुतिष्ठति, पुष्पवती कामिनी यथा शुद्धस्नाता पतिसन्तोषार्थं जागरितानि आचरति तद्वदिति भावः। तेन व्रताचरणेन हेतुना, मधुनः क्षौद्रस्य, शरात्मककुमसारस्य इत्यर्थः। उत्थेन उद्‌गमेन। `सुपि स्तः’ इत्यत्र योगविभागात् भावे कप्रत्यये ततः समासः। सान्द्राः गाढाः, मिश्रणेन हेतुना घनीभूता इत्यर्थः। तथा मग्नाः भवदङ्गे अन्तः प्रविष्टाश्च, असमेषोः अयुग्मशरस्य कामस्य, शाराणां बाणानाम्, कुसुममयानामिति भावः। केशरैः किञ्जल्कैः, दन्तुराणि निम्नोन्तानि, अङ्गानि अवयवाः यस्य सः तादृशः इव, आभासि प्रतीयसे। भैमीसङ्गात् सात्त्विकभावोदयेन रोमाञ्चितशरीरः स्वेदयुक्तश्चासि इति निष्कर्षः॥ 21.123 ॥
प्राप्ता तवापि नृप! जीपितदेवतेयं घर्माम्बुशीकरकरम्बनमम्बुजाक्षी।
ते ते यथा रतिपतेः कुसुमानि बाणाः स्वदस्तथैव किमु तस्य शरक्षतास्रम्॥ 21.124 ॥
अन्वयः–नृप, तव जीवितदेवता अम्बुजाक्षी इयम् अपि धर्माम्बुशीकरकरम्बनं प्राप्ताः रतिपतेः त ते बाणाः यथा कुसुमानि, तथा एव स्वेदः तस्य किमु शरक्षतास्रम्?
जीवातु–प्राप्तेति। नृप! हे राजन्! नल! तव भवतः, जीवितस्य जीवनस्य, देवता अधिष्ठात्री, जीवनेश्वरीत्यर्थः। अम्बुजाक्षी कमलनयना, इयम्, दमयंती अपि, घर्माम्बुनः स्वेदजलस्य शीकरैः कणैः, करम्बनं मिश्रणम्, प्राप्ता अधिगता, सात्त्विकभावोदयात् स्वेदप्लुताङ्गी जाता इत्यर्थः। रतिपतेः कामस्य, ते ते प्रसिद्धाः, बाणाः शोषणस्म्मोहनादयः शराः, यथा यद्वत्, कसुसुमानि कमलादीनी पुष्पाणि, अभवन्निति शेषः। तथैव तद्वदेव, स्वेदः धर्मोदकम्, तस्य कामस्य, शराणां बाणानाम्, क्षतस्य व्रमस्य, अस्त्रं रक्तम्, किमु? तथा हि सुकुमाराणि कुसुमान्यपि यदि कामस्य शराः भवितुमर्हन्ति, तदा स्वेदोदकमलोहितमपि तस्य शराघातनिसृतं लोहित भवितुमर्हत्येव दैवप्रभावस्य उभयत्रापि लुल्यत्वादिति भावः॥ 21.124 ॥
रागं प्रतीत्य युवयोस्तमिमं प्रतीची भानुश्च किं द्वयमजायत रक्तमेतत्?
तद्वीक्ष्य वां किमिह केलिसरित्सरोजैः कामेषुतोचितमुखत्वमधीयमानम्?॥ 21.125 ॥
अन्वयः–किं युवयोः तम् इमं रागं प्रतीत्य प्रतीची भानुः च एतत् द्वयं रक्तम अजायत? किम् इह तत् वीक्ष्य वां केलिसरित्सरोजैः कामेषुतोचितमुखत्वम् अधीयमानम्?
जीवातु–रागमिति। हे राजन्! प्रतीची पश्चिमा दिक्, भानुः सूर्यश्च, एतत् द्वयम्, उभयम्, युवयोः भवतोः, तं पूर्वोक्तस्वेदादिसात्त्विकभावसूचितम्, इमं परिदृश्यमानम् रागम् अनुरागम्, प्रतीत्य ज्ञात्वा, प्रत्यक्षं दृष्ट्वेत्यर्थः। रक्तं रक्तवर्णम् अनुरक्तञ्च, `रक्तं स्यात् कुङ्कुमे ताम्रे प्राचीनामलकेऽसृजि। अनुरक्ते च नील्यादिरञ्जिते लोहितेऽन्यवत्॥’ इति विश्वः अजायत किम्? अभवत् किम्? कयोश्चित् स्त्रीपुंसयोः सम्भोगानुरागदर्शनेन अपरयोरपि स्त्रीपुंसयोः तथाविधानुरागोत्पत्तेः प्रायोदर्शनादिति भावः। दिवाविहारस्य शास्त्रनिषिद्धत्वात् अथच भैमीनलयोरत्युत्कटसम्भोगाभिलाषावलोकनात् कृपया अस्तगमनद्वारा रात्र्यानयनाभिप्रायेण सूर्यः किं रक्तवर्णोऽजायत इति तात्पर्यम्। तथा इह अस्मिन् समये, केलिसरितः तवैव क्रीडानद्याः, सरोजैः कमलैः, तत् प्रतीचीभानुद्वयम्, वां युवाञ्च, वीक्ष्य दष्ट्वा, अस्तगमनाय सुरतसम्भोगाय च अभिलाषिममवलोक्येत्यर्थः। कामेषुतायाः कन्दर्पबाणत्वस्य, उचितं योग्यम्, मुखम् अग्रभागः मुकुलितत्वेन सूक्ष्ममिति भावः। येषां तेषां भावः तत्त्वम्, अधीयमानम् अभ्यस्यमानम् किम्? वर्तते इति शेषः। मुखस्य सूक्ष्मताया अभावे बाणत्वासङ्गतेरिति भावः। सायंकालोपस्थितेः प्रतीचीभानू अरुणवर्णौ जातौ, कमलञ्च मुकुलितप्रायम्, अतः सत्वरं रात्रिरागमिष्यति, अलं वाम् उत्कण्ठयेति निष्कर्षः॥ 21.125 ॥
अन्योऽन्यरागवशयोर्युवयोर्विलासस्वच्छन्दताच्छिदपयातु तदालिवर्गः।
अत्याजयन् सिचयमाजिमकारयन् वा दन्तैर्नखैश्च मदनो मदनः कथं स्यात्॥ 21.126 ॥
अन्वयः–तत् अन्योन्यरागवशयोः युवयोः विलासस्वच्छन्दताच्छित् आलिवर्गः अपयातु, वा सिचयम् अत्याजयन् दन्तैः नखैः आजिम् अकारयन् च मदनः मदनः कथं स्यात्?
जीवातु–अन्योऽन्येति। हे दमयन्तीनलौ! तत् तस्मात्, युवयोरत्यन्तसुरताभिलाषाद्धेतोरित्यर्थः, अन्योऽन्यस्मिन् परस्परं प्रति, रागस्य अनुरागस्य, रमणाभिलाषस्येत्यर्थः, वशयोः अधीनयोः, युवयोः भवतोः, विलासस्य सुरतक्रीडायाः, स्वच्छन्दतां स्वाभिप्रायानुवर्त्तिताम्, छिनत्ति व्याहन्ति यः सः तादृशः, सुरतव्यापारस्य रहः सम्पाद्यत्वाददिति भावः। आलिवर्गः सखीसमूहः दमयन्त्या इति शेषः। अपयातु निर्गच्चतु, गृहादिति शेषः। तथा हि-मदनः कामः, सिचयं वस्त्रम्, दम्पत्योरिति भावः। अत्याजयन् अमोचयन्, दम्पतीभ्यामेव परस्परं वस्त्रोन्मोचनमकारयन् इत्यर्थः। वा अथवा, दन्तैः दशनैः, नखैश्च कररुहैश्च, आजिं युद्धम्, परस्पराघातरूपमित्यर्थः। अकारयन् अनाचरयन्, दम्पतीभ्यामेव परस्परमिति भावः। कथं केन प्रकारेण, मदनः मदयिता, सुरतव्यापारे मत्ततोत्पादक इत्यर्थः स्यात्? अपि तु न कथञ्चिदेवेत्यर्थः॥ 21.126 ॥
इति पठति शुके मृषा ययुस्ता बहुनुपकृत्यमवेत्य सान्धिवेलम्।
कुपितनिजसखीदृशाऽर्द्धदृष्टाः कमलतयेव तदा निकोचवत्यः॥ 21.127 ॥
अन्वयः–इति शुके पठति तदा कमलतया इव निकोचवत्यः मृषा कुपितनिजसखीदृशा अर्द्धदृष्टाः ताः सान्धिवेलं बहु नृपकृत्यम् अवेत्य ययुः।
जीवातु–इतीति। इति पूर्वोक्तप्रकारेण, शुके कीरक्षिणि पठति वाचयति सति, गन्धर्वराजतनयानां वीणागानानुवादक्रमेण स्फुटम्, उच्चारयति सतीत्यर्थः। तदा तस्मिन्, सन्ध्यासमये, कमलतयेव पद्मत्वेनेव हेतुना, निजनिजवदानानामिति भावः निकोचः सङ्कोचः विद्यते यासां ताः निकोचवत्यः सङ्कोचशालिन्यः, एकत्र-सन्ध्याकालागमनात्, अन्यत्र-सूरतप्रसङ्गोत्थानेन लज्जोदयादिति भावः, ताः आल्यः गन्धर्वराजतनयाश्च, मृषा मिथ्या, कुपितायाः क्रुद्धायाः सखीनिर्गमनेन क्रोधभाव प्रकाशमानाया इत्यर्थः। निजसख्याः दमयन्त्याः सम्बन्धिन्या, दृशा चक्षुषा, अर्द्धदृष्टाः किञ्चिदीक्षमाणाः क्रोधव्याजेन ईषदवलोकिताः सत्यः इत्यर्थः। सान्धिवेलं सन्धिवेलायां सनध्यासमये भवम्। `सन्धिवेलाद्यृतुनक्षत्रेभ्योऽण्’। बहु अनेकम्, नृपस्य नलस्य, कृत्यं कार्यम्, सन्ध्योपासनादिकम् अनुष्ठेयमित्यर्थः। अवेत्य ज्ञात्वा ययुः प्रतस्तिरे, तस्मात् गृहादिति शेषः॥ 21.127 ॥
अकृत परभृतः स्तुहि स्तुहीति श्रुतवचनस्रगनूक्तिचुञ्चुचञ्चुम्।
पठितनलनुतिं प्रतीव कीरं तमिव नृपं प्रति जातनेत्ररागः॥ 21.128 ॥
अन्वयः–तं नृपं प्रति जातनेत्ररागः, परभुतः श्रुतवचनस्रगनूक्तिचुञ्चुचञ्चुं पठितनलनुतिं कीरं प्रति इव स्तुहि स्तुहि इति अकृत।
जीवातु–अकृतेति। परभृतः कोकिलः, सख्या आनीत इति भावः नृपं राजानम्, तं नलम् प्रति उद्दिश्य, जातः उत्पन्नः, नेत्रयोः नयनयोः, रागः रक्तवर्णता अनुरागश्च यस्य सः तादृशः सन् इव तस्य परमसुन्दराकारत्वादिति भावः। `रागोऽनुरागे मात्सर्ये क्लेशादौ लौहितादिषु’ इति विश्वः। अत एव नृपस्तुतौ कीरस्य प्रवर्त्तनमिति बोद्धव्यम्। श्रुतानाम् आकर्णितानाम्, वचनस्रजां वाक्यमालिकानाम्, अनयमुखात् श्रुतवाक्यपरम्पराणामित्यर्थः। अनूक्त्या अनुवचनेन, वित्ते विख्याते इति तादृश्यौ `तेन वित्तश्चुञ्चुप्‌चणपौ’। चञ्चु त्रोटिद्वयं यस्य तं तादृशम्, एतेन नलस्तुतौ कीरस्य सामर्थ्यमस्तीति सूचितम्। तथा पठिता अधीता, उच्चरिता इत्यर्थः। नलस्य नैषधस्य, नुतिः स्तुतिः येन तं तादृशम्, कीरं शुकम्, प्रति लक्ष्यीकृत्य इव, स्तिहि स्तिहि स्तवं कुरु स्तवं कुरु, इति एवं ध्वनिम् अकृत कृतवान्, पिको हि राजनि अनुरागाधिक्यात् नलस्तुतिविषये विरतं शुक स्तिहि इति सहजरवम् उच्चार्थ प्रो।त्साहितवानिवेति भावः॥ 21.128 ॥
तुङ्गप्रासादवासादथ भृशकृशतामायती केलिकुल्याभद्राक्षीदर्सबिम्बप्रतिकृतिमणिना भीमजा राजमानाम्।
वक्रं वक्रं व्रजन्तीं फणियुवतिरिति त्रस्नुभिर्व्यक्तमुक्ता
न्योऽन्यं विद्रुत्य तीरे रथपथमिथुनैः सूचितामार्त्तिरुत्या॥ 21.129 ॥
अन्वयः–अथ भीमजा तुङ्गप्रासादवासात् भृशकृशताम् आयतीम् अर्क बिम्बप्रतिकृतिमणिना राजमानां वक्रं वक्रं व्रजन्ती फणियुवतिः इति त्रस्नुभिः रथपदमिथुनैः व्यक्तमुक्तान्योन्यं तीरे दिद्रुत्य आर्त्तिरुत्या सूचितां केलिकुल्याम् अद्राक्षीत्।
जीवातु–तुङ्गेति। अथ कोकिलवचनानन्तरम्, भीमजा दमयन्ती, तुङ्गे अत्युन्नते, प्रासादे सौधे, वासात् अवस्थितेः हेतोः, भृशम् अत्यर्थम्, कृशतां क्षीणताम्, आयतीं गच्छन्तीम्, विस्तृतत्वेऽपि प्रासादस्य अत्युन्नततया दमयन्तीदृशि अतिकृशत्वेन प्रतीयमानामित्यर्थः। दृश्यते हि सुदूरात् स्थूलमपि द्रव्यं कृशत्वेन लोके, अत्र प्रासादस्य तुङ्गतैव कुल्याया दूरत्वे हेतुर्बोद्धव्यः। तथा अर्कबिम्बस्य सूर्यमण्डलस्य, अस्तोन्मुखत्वात् आरक्तस्तेयित भावः। प्रतिकृतिरेव प्रतिबिम्बमेव, तज्जलपतितेति भावः। मणिः बृहदाकारपद्मरागरत्नमित्यर्थः, तेन राजमानां शोभमानाम्, वक्रं कुटिलं कुटुलं यथा तथा, व्रजन्ती गच्छन्तीम् प्रवहन्तीमित्यर्थः, अथ एव फणियुवतिः काचित्सर्पस्त्री इयम् इति एवं विविच्च, त्रस्नुभिः भीरिभिः, रथपदानां चक्रनाम्नाम्, मिथुनैः द्वन्द्वैः कर्त्तृभिः, व्यक्तं स्फुटमेव, मुक्तं त्यक्तम्, अन्योऽन्यं परस्परं यस्मिन् तत् यथा भवति तथा, तीरे कूलभागे, कुल्याया एव एकैकस्मिन् भावविरहचिन्तया कातरस्वरेणेति भावः। सूचितां ज्ञापिताम् ईषदन्धकारागमेन स्पष्टं न दृश्यमानामपि चक्रवाकशब्दैः विदितामित्यर्थः। केलिकुल्यां क्रीडार्थं कृत्रिमसरितम्। `कुल्याऽल्पा कृत्रिमा सरित्’ इत्यमरः। अद्राक्षीत् ऐक्षिष्ट॥ 21.129 ॥
अथ रथचरणौ विलोक्य रक्तावतिविरहासहताऽऽहताविवास्रैः।
अपि नमकृत पद्मसुप्तिकालं श्वसनविकीर्णसरोजसौरभं सा॥ 21.130 ॥
अन्वयः–अथ सा अति विरहासहताऽऽहतौ अस्रौ इव रथचरणौ विलोक्य तं पद्मसुप्तिकालम् अपि श्वसनविकीर्णसरोजसौरभम् अकृत।
जीवातु–अथेति। अथ क्रीडासरिद्‌दर्शनानन्तरम्, सा दमयन्ती, रथचरणौ चक्रवाकयुगलौ, अतिविरहस्य समस्तरजनीव्यापितया दीर्घवियोगस्य, असहतया अक्षमतया, आहतौ प्राप्ताघातौ, कामशरविद्धतया कातरौ इत्यर्थः। द्विधा भूतौ इत्यर्थश्च। अत एव अस्रैरिव रुधिरैरिव, रक्तौ रक्तवर्णौ, अनुरक्तौ च, विलोक्य दृष्ट्वा, तम् आसन्नम्, पद्मानां कमलानाम्, सुप्तिकालमपि सङ्कोचसमयमपि, सायंसमयमपीत्यर्थः। श्वसनेन चक्रवाकदुःखदर्शनेन स्वस्या अपि दुःखसूचकदीर्घनिःश्वासेन, विकीर्णं विक्षिप्तम्, सरोजसौरभं पद्मसौगन्ध्यं यस्मिन् तं तादृशम्, अकृत कृतवती, तदा सन्ध्यासमये पद्मसङ्कोचात् तत्सौरभासम्भवेऽपि स्वस्याः पद्मिनीजातीयत्वात्, पद्मिन्याश्च पद्मसुङ्कोचात् तत्सौरभासम्भवेऽपि स्वस्याः पद्मिनीजातीयत्वात् पद्मिन्याश्च पद्मसङ्कोचात् तत्सौरभासम्भवेऽपि स्वस्याः पद्मिनीजातीयत्वात्, पद्मिन्याश्च पद्मसुगन्धिश्वासवायुत्वात् निःश्वासमोचनेन पद्मसौगन्ध्यं विस्तारयति स्म इति भावः॥ 21.130 ॥
अभिलपति पतिं प्रति स्म भैमी सदय! विलोकय कोकयोरवस्थाम्।
मम हृदयमिमौ च भिन्दतीं हा! का इव विलोक्य नरो न रोदितीमाम्?॥ 21.131 ॥
अन्वयः–भैमी पतिं प्रति अभिलपतिस्म-सदय, कोकयोः अवस्थां विलोकय हा मम हृदयम् इमौ इमां निन्दतीं च विलोक्य कः नरः इव न रोदिति?
जीवातु–अभिलपतीति। भैमी दमयन्ती, पतिं नलम्, प्रति उद्दिश्य, अभिलपति स्म उवाच, किमित्याह-सदय! हे दयालो! कोकयोः चक्रवाकयोः, अवस्थां दुर्दशाम्, वियोगजनितकार्यमिति यावत्। विलोकय पश्य, मम मे, हृदयं वक्षःस्तलम्, इमौ वियोगिनौ कोकौ च, भिन्दतीं विदारयन्तीं वियोजयन्तीञ्च, अनयोःकातरतादर्शनजनितशोकात्, वियोगदुःखानाच्चेति भावः इमां वियोगावस्थाम्, विलोक्य दृष्ट्वा, हा! खेदे, कः इव नरः को वा जनः, न रोदिति? न क्रन्दति? अपि तु सर्व एव जनः रोदनं करोत्येवेत्यर्थः। सदयत्वात् तवापि रोदनसम्भव इति मन्ये इति भावः॥ 21.131 ॥
कुमुदमुदमुदेष्यतीमसोढा रविरविलम्बितुकामतामतानीत्।
प्रतितरु विरुवन्ति किं शकुन्ताः स्वहृदि निवेशितकोककाकुकुन्ताः?॥ 21.132 ॥
अन्वयः–उदेष्यती कुमुदमुदम् असोढा रविः अविलम्बितुकामताम् अतानीत्; किं स्वहृदि निवेशितकोककाकुकुन्ताः शकुन्ताः प्रतितरु विरुवन्ति?
जीवातु–कुमुदेति। रविः भानुः, उदेष्यतीम् आविर्भविष्यन्तीम्, कुमुदानां कैरवाणाम्, मुदं चन्द्रोदयात् विकाशरूपं हर्षम्, असोढा असिहिष्णुरिवसन्, तेषामुत्फुल्लभावं द्रष्टुमक्षमः सन्नित्यर्थः। सहेः तृति `हो ढः’ इति हस्य ढवेत `झषस्तथोर्धोऽघः’ इति तस्य धत्वे षटुः’ इति धस्य ढत्वे, ढो ढे लोपः’ इति प्रथमढलोपे `सहिवहोरोदवर्मस्य’ इति ओत्वम्। अविलम्बितुं त्वरां कर्त्तुम् शीघ्रमस्तं यातुमित्यर्थः। कामः अभिलाषः यस्य तस्य भावः तत्ता ताम्, अतानीत् विस्तारयामास, कृतवान् इत्यर्थः। दृश्यते च लोके, परोत्कर्षमसहमानाः स्वेतःषामानन्दर्शनात् तत्स्थानात् शीघ्रमेव प्रतिष्ठन्ते इति। तथा प्रतितरु तरुं तरुं प्रति, प्रत्येकवृक्षोपरि उपविष्टा इत्यर्थः। याथार्थ्येऽव्ययीभावः। शकुन्ताः पक्षिणः, स्वहृदि निजनिजवक्षसि, निवेशितः अर्पितः, दवेन निखात इत्यर्थः, कोकानां चक्रवाकाणाम्, काकुः वियोगजार्त्तस्वरः एषः, कुन्तः प्रासाख्यास्त्रविशेषः येषां तादृसाः सन्तः। `प्रासस्तु कुन्तः’ इत्यमरः। विरुवन्ति शब्दायन्ते, किम्? वितर्के किंशब्दः॥ 21.132 ॥
अपि विरहमनिष्टमाचरन्तावधिगमपूर्वकपूर्वसर्वचेष्टौ।
इदमहह!निदर्शनं विहङ्गौ विधिवशचेतनचेष्टितानुमाने॥ 21.133 ॥
अन्वयः–अधिगमपूर्वकपूर्वसर्वचेष्टौ अपि अनिष्टम् आचरन्तं विरहम् आचरन्तौ विहङ्गौ अहह, इदं विधिवशचेतनचेष्टितानुमाने निदर्शनम्।
जीवातु–अपीति। हे नाथ! अधिगमः ज्ञनम्, वियोगक्लेशानुमव इत्यर्थः। पूर्वम् आदौ यासां तास्तादृश्यः, पूर्वसर्वचेष्टाः स्वयमेवानुष्ठितसकल विरहव्यापाराः ययोस्तौ तादृशौ, अपि प्रागनुभूतविरहदुःखावपीत्यर्थः। अनिष्टम् अनभिमतम्, विरहं वियोगम् आचरन्तौ अनुतिष्ठन्तौ, विधातृनियमेव दीर्घकालं पालयन्तौ इत्यर्थः। विहङ्गौ चक्रवाकपक्षिणौ, विधिवशं दैवाधीनम्, चेतनानां प्राणिनाम्, चेष्टितम् आचरणम्, इत्येवंरूपे, अनुमाने कार्यात् कारणविशेषज्ञाने विषये, प्राक्तनकर्मवशादेव, निदर्शनं दृष्टान्तः, अहह इति खेदे अद्‌भुतेवा; तथा हि-सर्वे एव प्राणिनः दैवाधीनतयैव हितमहितं वा सर्वं कार्यम् इच्छया च अनिच्छया वा कर्त्तु प्रेरिता भवन्ति, ततश्च विरहस्य अनिष्टत्वं जानन्तावपि चक्रवाकयुगलौ स्वयमेव तमाचरत इति तावेवात्र निदर्शनमिति निष्कर्षः॥ 21.133 ॥
अङ्घ्रिस्थारुणिमेष्टकाविसरणैः शोणे कृपाणः स्फुटं
कालेऽयं विधिना रथाङ्गमिथुनं विच्छेत्तुमन्विच्छता।
रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ
दण्डभ्राजिनि भानुशाणनलये संसज्य किं तिज्यते?॥ 21.134 ॥
अन्वयः–रथाङ्गमिथुनं विच्छेत्तुम् अन्विच्छता विधिना किम् अयं कालः कृपाणाः अङ्घ्रिस्थारुणिमेष्टाकाविसरणैः शोणे रश्मिग्राहिगरुत्मदग्रजसमारब्धाविरामभ्रमौ दण्डभ्राजिनि भानुशाणनलये संसज्य तिज्यते?
जीवातु–अङ्घ्रीति। हे प्रियतम्! रथाङ्गयोः चक्रवाकयोः, मिथुनं द्वन्द्वम्, विच्छेत्तुं वियोक्तुम्, विशेषेण विदारयितुञ्च, अन्विच्छता अभिलषता, विधिनना ब्रह्मणा, अयम् एषः कालः सायंसमयः, तत्स्वरूप इत्यर्थः, कृष्णवर्मश्च, `कालो मृत्यौ महाकाले समये यमकृष्णयो-’ इति विश्वः। कृपाम खड्गः, अङ्घ्रिः किरणः पादश्च, तत्र तिष्ठन्तीति अङ्घ्रिस्थाः, ये अरुणिमानः रक्तिमानः, तान्येव इष्टकाविसरणानि इष्टकाटूर्णनिक्षेपाः तैः शोणो रक्तवर्णे, रश्मिग्राहिणा अश्वरज्जुधारिणा, शाणयन्त्ररज्जुधारिणा च, गरुत्मदग्रजेन गरुडज्येष्ठेन अरुणेन केनचित् शाणिकेन च, समारब्धा प्रक्रान्ता, अविरामा अविच्छिन्ना, भ्रमीः भ्रामणं यस्य तस्मिन्, तथा दण्डेन चण्डांशोः भानोः पारिपार्श्विकेन, शाणस्थेन वर्त्तुलेन काष्ठेन च। `दण्डो यमे मानभेदे लगुडे दमसैन्ययोः। व्यूहभेदे प्रकाण्डेऽश्व कोणमन्थानयोरपि॥ अभिमाने ग्रहे दण्डश्चण्डांशोः पारिपार्श्विके॥’ इति विश्वः। भ्राजिनि शोभमाने, भानौ सूर्ये एव, शामवलये शस्त्रोत्तेजनयन्त्रमण्डले, गोलाकारकारत्वसाधर्म्यादिति भावः। संसज्य आरोप्य, स्फुटं स्पष्ट यथा भवति तथा, तिज्यते तीक्ष्णीक्रियते, किम्? तिज निशाने भमायाञ्च इत्यस्मात् भौवादिकात् कर्मणि यकि रूपम्। `निज्यते’ इति पाठे-परिष्क्रियते, उज्ज्वलीक्रियते इत्यर्थः। `णिजिर्’ शौचे’ इत्यस्य रूपम्। शाणिका हि शामचक्रे इष्टकाचूर्म दत्त्वा दत्त्वा कृपाणादिकमुत्तेजयन्ति इति लोके दृश्यते॥ 21.134 ॥
इति स विधुमुखीमुखेन मुग्धालपितसुधासवमर्पितं निपीय।
स्मितशबलवलन्मुखोऽवदत् तां स्फुटमिदमीदृशमीदृशं यथाऽत्थ॥ 21.135 ॥
अन्वयः–विधुमुखीमुकेन अर्पितम्, इति मुग्धालपितसुधासवं निपीय स्मितशबलवलन्मुखः सः ताम् अवदत्-इदम् ईदृशम् ईदृशं यथा आत्थ, स्फुटम्।
जीवातु–इतीति। सः नलः, इति अनेन प्रकारेण, विधुमुख्याः चन्द्राननायाः दमयन्त्याः, मुखेन वदनेन, अर्पितं दत्तम्, मुग्धं सुन्दरम्, आलपितमेव भाषितमेव, सुधासवं पीयूषवत् स्वादु मद्यम्, निपीय आस्वाद्य, स्मितेन ईषद्धास्येन, शबलं चित्रम्, रञ्जितमित्यर्थः। वलत् चलच्च, भैमीं प्रतिवक्तुमुपक्रमादिति भावः। मुखं वदनं यस्य सः तादृशः सन्, तां दमयन्तीम्, अवक्ष्त अवोचत्। अन्येऽपि कामिनः यथा कामीनीमुकार्पितासवं सादरं पिबन्ति, ततः वलितमुखाः सहासं किञ्चित् वदन्ति च तद्वदिति भावः। किमित्याह-हे प्रिये! यथा यादृशम्, यदित्यर्थः। आत्थ ब्रूषे, त्वमिति शेषः, इदम् एतत् ईदृशम् ईदृशम् एवम्भूतमेवम्भूतम्, स्फुटं व्यक्तमेव, सत्यमेवेत्यर्थः॥ 21.135 ॥
स्त्रीपुंसौ प्रविभज्य जेतुमखिलावालोचितौचित्ययौर्नम्रां रतिप्रसूनशरयोश्चापद्वयीं त्वद्‌भ्रुवौ।
त्वन्नासाच्छलनिह्नुतां द्विनलिकीं नलीकमुक्त्येषिणोस्त्वन्निः श्वासलते मधुश्वसनजं वायव्यमस्त्रं तयोः॥ 21.136 ॥
अन्वय–त्वद्‌भ्रुवौ अखिलौ स्त्रीपुंसौ प्रविभज्य जेतुम् आलोचितौचित्ययोः रत्प्रसूनशरयोः नम्रां चापद्वयीं वेद्मि, नालीमुक्त्येषिणौः(तयोः) त्वन्नासाच्छलनिह्नुतां द्विनलिकीं त्वन्निःश्वासलते तयोः मधुश्वसनजं वायव्यम् अस्त्रम्।
जीवातु–स्त्रीपुंसाविति। हे प्रिये! स्वद्‌भ्रुवौ तव भ्रूयुगलम्, कुटिलाविति शेषः। अखिलौ समस्तौ, स्त्रीपुंसौ नारीनरौ, प्रविभज्य विभागीकृत्य रतेरंशे स्त्रियः कामांशे च पुमांस इत्येवं विभागं कृत्वेत्यर्थः। जेतुं वशीकर्त्तुम्, आलोचितं मनसा विवेचितम्, औचित्यं युक्तियुक्तता याभ्यां तादृशयोः, रतिप्रसूनशरयोः कामप्रियाकामयोः नम्रां लक्ष्यं लक्षीकृत्य आकर्षणेन वक्रीभूतामित्यर्थः। चापद्वयीं कार्मुकयुगलम्, उभयोरेव वक्रत्वेन साम्यादिति भावः, वेद्मि जानामि। नालीकमुक्त्येषिणोः नालीकानां (पिस्तौल’ इत्याख्या प्रसिद्धानाम्) अस्त्रविशेषाणाम्, नालीकानां गुलिकाविसेषाणामित्यर्थो वा, मुक्तिं मोक्षणम्, निक्षोपमित्यर्थः। इच्छतोः अभिलषतोः, तयोः रतिमदनयोः, त्वन्नासाच्छलेन तव नासिकाद्वयव्याजन, निह्नुतां गोपिताम्, द्वयोः नलिकयोः समाहारः इति तां द्विनलिकीं नलद्वयविशिष्टगुलिकाक्षेपकलौहमयास्त्रविशेषः मित्यर्थः। (दोनली पिस्तौल) वेद्मि इति पूर्वेणान्वयः। उभयोरेव तुल्यदर्शनत्वादिति भावः। तथा तव भवत्याः, निःश्वासौ एव लते निःश्वासवायुप्रवाहद्वयमित्यर्थः। तयोः रतिस्मरयोः, मधुश्वसनजं वसन्तकालिकामलयडजातम्, वायव्यं वायुदेवताकम्, अस्त्रम् आयुधम्, वायुत्वाविशेषादिति भावः, वेद्मि इति पूर्वोणान्वयः। अहमिति शेषः। स्मोद्दीपने त्वमतीव निपुणेति तात्पर्यम्॥ 21.136 ॥
पीतो वर्णगुणस्तवातिमधुरः कायेऽपि सोऽयं यथा
यं बिभ्रत् कनकं सुवर्णमिति कैरादृत्य नोत्कीर्त्त्यते?।
का वर्णान्तरवर्णना धवलिमा राजैव रूपेषु यस्तद्‌योगादपि यावदेति रजतं दुर्वर्णतादुर्यशः॥ 21.137 ॥
अन्वयः–वर्णगुणः पीतः सः च अतिमधुरः यथा अयं ते काये अपि वर्त्तते, यं बिभ्रत् कनकं सुवर्णम् इति कैः आदृत्य न उत्कीर्त्यते? वर्णान्तरवर्मना का यावत् यः धवलिमा रूपेषु राजा एव तद्योगात् अपि रजतं दुर्वर्णतादुर्यशः एति।
जीवातु–पीतो वर्णेति। हे प्रिये! सः प्रसिद्धः, अयम् एषः, पीतः गौरो नाम, वर्णगुणः वर्णस्वरूपः, अतिमधुरः अतिरमणीयः, यथा येन हेतुना, यं पीतवर्णम्, बिभ्रत् धारयत्, कनकं हिरण्यम् कैः जनैः, सुवर्म शोभनः वर्णः यस्य तत् तादृशम्, इति एवंरूपेम, आदृत्य आग्रहेणोल्लिख्य, न उत्कीर्त्त्यते? न उच्चैः प्रशस्यते? अपि तु सर्वैरेव उत्कीर्त्त्यते इत्यर्थः। तथा तव भवत्याः, काये शरीरे अपि, अस्ति इति शेषः, अत एव अतिमधुर इति मन्ये इति भावः। वर्णान्तराणां पीतशुक्लव्यतिरिक्तानां नीलादीनां वर्णानाम्, वर्णना प्रसङ्गः, का? कीदृशी? दूरे आस्तामिति भावः। यः धवलिमा शुक्लत्वम् शुभ्रवर्ण इत्यर्थः। रूपेषु वर्णेषु, राजा एव उत्कृष्ट एव, अमिश्रवर्णत्वात् वर्णेषु प्रथमोच्चरितत्वाच्चेति भावः। तस्य धवलिम्नः, योगात् सम्बन्धात् अपि, शुभ्रवर्णधारमादपीत्यर्थः। रजतं रौप्यम्, कर्त-। यावत् साकल्येनः दुर्वर्मतादुर्यशः दुष्टः निन्दितः, वर्णः रूपं यस्य तस्य भावः तत्ता, तस्याः दुर्यशः अकीर्त्तिम्, अपकृष्टवर्णतालक्षणनिन्दामित्य्रथः। दुर्वर्णम् इति नामधेयं च। कर्म। `दुर्वर्ण रजतं रूप्यम्’ इत्यमरः। एति प्राप्नोति। तथा हि, स्वर्णस्य पीतत्वादेव लोकाः तं सुवर्णमिति वदन्ति, यतः असौ हि पीतो वर्णः तव देहे विद्यते, ततश्च पीतो वर्ण वर्णेषु मुख्यः एव, नीलरक्तादयश्च हीनाः, यस्तु शुभ्रो वर्ण वर्णेषु प्रथमः कीर्त्त्यते तद्‌योगादपि रजतं दुर्वर्णमिति निन्दामाप्‌नोति, अतः शुभ्रवर्णोऽपि पीतात् हीन एव इति निष्कर्षः॥ 21.137 ॥
खण्डक्षोदमृदि स्थले मधुपयःकादम्बिनीतर्पणात्
कृष्टे रोहति दोहदेन पयसा पिण्डेन चेत् पुण्ड्रकः।
स द्राक्षाद्रवसेचनैर्यदि फलं धत्ते तदा त्वद्गिरामुद्‌देशाय ततोऽप्युदेति मधुराधारस्तमप्प्रत्ययः॥ 21.138 ॥
अन्वयः–मधुपयः कादम्बिनीतर्पणात् कृष्टे खण्डक्षोदमृदि स्थले पिण्डेन पयसा दोहदेन पुण्ड3कः चेत् रोहति, सः यदि द्राक्षाद्रवसेचनैः फलं धत्ते तदा ततः अपि त्वद्गिराम् उद्‌देशाय मधुराधारः तमप्.प्रत्ययः उदेति।
जीवातु–खण्डेति। हे प्रिये! मधूनि क्षौद्राणि एव, पयांसि जलानि यस्याः तादृश्याः, कादम्बिन्याः मेघमालिनकायाः, `कादम्बिनी मेघमाला’ इत्यमरः। तर्पणात् आप्यायनात्, तादृशवारिवर्षणेन अभिषिञ्चनादनन्तरमित्यर्थः। कृष्टे हलचालनेन पुनरपि कृतकर्षणे, वर्षणानन्तरं कृषीवलाः पुनरपि क्षेत्रं कर्षन्तीति लोकदर्शनादिति बावः। खण्डस्य शर्कराविशेषस्य, क्षोदः चूर्णमेव, मृत् मृत्तिका यत्र तादृशे, स्थले शस्यक्षेत्रे, पिण्डेन पाकविशेषात् पिण्डीभूतेन, धनीभूतेनेत्यर्थः, पयसा क्षीरेण वस्तुना साधनेन, पुण्ड्रकः इक्षुविशेषः। `रसाल इक्षुस्तद्भेदाः पुण्ड्रकान्तारकादयः’ इत्यमरः। रोहति प्रभवति, चेत् यदि, सः पुण्ड्रकः, द्राक्षाद्रवसेचनैः मृद्वीकारससेकैः यदि चेत्, फलं शस्यम् धत्ते धारयति, तदा तर्हि, ततोऽपि तादृशेक्षुफलादपि, त्वद्गिरां भवद्वचनानाम्, उद्‌देशाय उत्कर्षनिद्‌र्देशाय, मधुरः मधुर इति शब्दः, आधारः आश्रयः, प्रकृतिरित्यर्थः। यस्य स तादृशः तमप्‌प्रत्ययः मधुरतम इत्यर्थः। उदेति उत्पद्यते। सम्भाव्यमानतादृशेक्षुफलादपि मधुरतमा तव वाणी इति भावः॥ 21.138 ॥
उन्मीलद्‌गुडपाकतन्तुलतया रज्ज्वा भ्रमीरर्जयन्
दानान्तःश्रुतशर्कराचलमथः स्वेनामृतान्धाः स्मारः।
नव्यामिक्षुरसोदधेर्यदि सुजामुत्थापयेत् सा भवज्जिह्वायाः कृतिमाह्वयेत परमां मत्कर्मयोः पारणाम्॥ 21.139 ॥
अन्वयः–अमृतान्धाः स्मरः स्वेन उन्मीलद्‌गुडपाकतन्तुलतया रज्ज्वा दानान्तः श्रुतशर्कराचलमथः भ्रमीः अर्जयन् यदि इक्षुरसोदधेः नव्यां सुधाम् उत्थापयेत्, सा मत्कर्मयोः परमां पारणां भवज्जिह्वायाः कृतिम् आह्वयेत्।
जीवातु—उन्मीलदिति। हे प्रियतमे! अमृतं पीयूषमेव, अन्धः अन्नं यस्य सः तादृशः, अत एव अमृतभोजिनः देवस्य स्मरस्य तदुत्थापनायाः अतीवावश्यकता इति भावः। स्मरः कन्दर्पः, स्वेन आत्मनैव, स्वयमेवेत्यर्थः, न पुनरन्यसाहाय्येन, तथा सति सर्वथा हर्षोत्पादकता स्यादिति भावः। उन्मीलन्ती, प्रकाशयन्ती, जायमाना इत्यर्थः। गुडस्य स्वनामख्यातस्य इक्षुरसविकारस्य, पाकात्, अग्निसंयोगेन क्वथनात्, या तन्तुलता सूत्राकारता, सूत्रवदविच्छिन्नसंयोगः इत्यर्थः। यद्वा-तन्तुलता तन्तव इव तन्तवः गुडनिर्गतदोरकाः, त ेव लता तया तद्रूपया, रज्ज्वा रश्मिना साधनेन, दानान्तः तुलापुरुषदिमहादानानां मध्ये, श्रुतः शास्त्रे अकर्णितः, यः शर्कराचलः सितापर्वतः, दानार्थ पर्वताकारतया स्थापितशर्कराराशिरित्यर्थः। स एव मन्था मन्थनदण्डः तस्य, `भस्य टेर्लोपः’ इति टिलोपः। भ्रमीः भ्रामणानि, धूर्णनानीत्यर्थः। अर्जयन् सम्पादयन्, आकर्षणेन कुर्वन् सन्, इत्यर्थः। इक्षुरसस्य उदधेः इक्षुरससमुद्रात्, नव्याम्, अभिनवाम्, देवासुरोत्थापितसुदातोभिन्नरूपामित्यर्थः, सुधाम् अमृतम्, यदि चेत्, उत्थापयेत् उत्तोलयेत्, तदा सा सुधा। कर्त्री। मत्कर्णयोः मम श्रवणयोः, परमाम् उत्कृष्टाम्, पारणां पारणावत् अद्वितीयतृप्तिहेतुम्, भवज्जिह्वायाः तव रसनायाः। सर्वनाम्नो वृत्तिमात्रे पूर्वपदस्य पुंद्भावः। कृतिं कार्य्य, गिरम्, इत्यर्थः। आह्वयेत स्पर्द्धया आकारयेत्, प्रतिभटीकुर्य्यात् इत्यर्थः। `स्पर्द्धायामाडः’ इति ह्वेञः तङ्। मधुरद्रव्यसाधितं हि द्रव्यं परममधुरमेव भवति, एवञ्च प्रोक्तरूपेणैवोत्थापिता सुधा तव वाचः सादृश्यं लब्धुमर्हति, न पुनरन्यः कश्चित् पदार्थ इति भावः॥ 21.139 ॥
आस्ये या तव भारती वसति तल्लीलारविन्दोल्लसद्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते।
तत्केलिभ्रमणार्हगैरिकसुधानिर्माणहर्म्याधिरे
तन्मुक्तामणिहार एव किमयं दंतस्रजौ राजतः?॥ 21.140 ॥
अन्वयः–तल्लीलारविन्दोल्लसद्वासे तत्कलवैणनिक्वणमिलद्वाणीविलासामृते तत्केलिभ्रमणार्हगैरिकसुधानिर्माणहर्म्याधरे तव आस्ये या भारती वसति, अयं तन्मुक्तामणिहारः एव किं दन्तस्रजौ राजतः?
जीवातु–आस्य इति। हे प्रिये! तस्याः भारत्याः, लीलारविन्दस्य हस्ते स्तितस्य क्रीडाकमलस्य, उल्लसन् प्रसरन्, वासः गन्धः यस्मिन् तादृशे, पद्मिनीत्वात् पद्‌मतुल्यपरिमले इति भावः। तथा तस्याः भारत्या एव, कलः मधुरास्फुटः, यः वैण वीणासम्बन्धी, निक्वणः नादः, तद्रूपं मिलत् सम्बध्यमानम्, वाणीविलास एव वक्रोक्त्यादिनानाविधवाग्वैचित्र्यमेवेत्यर्थः। अमृतं पीयूषं यस्मिन् तादृशे, तव भवत्याः, आस्ये वदने, या भारती सरस्वती, वसति तिष्ठति, दन्तस्रजौ तव आस्ये पुरो दृश्यमाने ये द्वे दन्तमाले, राजतः शोभते, तद्रूपः अयं पुरः दृश्यमानः, तस्याः यारत्याः, मुक्तामणिहारः मुक्तामणिखचितः हारः मुक्तामणिखचितः हार एव, किम्? तद्वत्ते रेजाते इत्यर्थः। सरस्वतीवीणाक्वणिततुल्या तव वाणी इति भावः। अत्र वाणीवर्णनं प्रस्तुतम्, अन्यत् प्रासङ्गिकम्। पद्‌गन्धादिभिः मुखे भारतीवासः अनुमीयते॥ 21.140 ॥
वाणी मन्मथतीर्थमुज्ज्वलरसस्रोतस्वती काऽपि ते
खण्डः खण्ड इतीदमीयपुलिनस्यालप्यते बालुका।
एतत्तीरमृदैव किं विरचिताः पूताः सिताश्चक्रिकाः?
किं पीयूषमिदम्पयांसि? किमिदंतीरे तवैवाधरौ?॥ 21.141 ॥
अन्वयः–ते वाणी का अपि उज्ज्वलरसस्रोतस्वती मन्मथतीर्थं, खण्डः खण्डः इदमीयपुलिनस्य बालुका-इति आलप्यते, पूताः सिताः चक्रिकाः किम् एतन्तीरमृदा एव विरचिताः? पीयूषम् इदम्पयांसि किम्? तव अधरौ एव इदन्तीरे किम्?।
जीवातु–वाणीति। हे प्रिये! ते तव, वाणी वाक्, का अपि वर्णयितुम् अशक्यत्वात् लोकोत्तरा इत्यर्थः। अथ च अनिर्दिष्टनामा, उज्ज्वलरसस्रोतस्वती श्रृङ्गाररसम्बधिनी नदी, अथ च निर्मलजला नदी, अत एव मन्मथस्य कामस्य, तीर्थ योनिः, कारणमित्यर्थः। कामोद्दीपिका इति यावत्, अथ च, तीर्थ जलावतारः, नद्यामवतरणार्थ सोपानश्रेणीत्यर्थः। `तीर्थ योनौ जलावतारे च’ इति हैमः। तथा खण्डः खण्डः इक्षुविकारविशेषः, इदमीयस्य अस्याः नद्याः सम्बन्धिनः, पुलिनस्य तोयोत्थिततटभागस्य। `तोयोत्थितं तत् पुलिनम्’ इत्यमरः। बालुका सिकता, इति आलप्यते गीयते, तथा पूताः निर्मलाः, सिताः शुभ्राः, चक्रिकाः शर्कराकृतचक्राणि, एतस्याः नद्याः, तीरस्य तटस्य, मृदा एव धवलमृत्तिकया एव, विरचिताः कल्पिता किम्? तथा पीयूषम् अमृतम्, अस्याः सम्बन्धीनि पयांसि इदम्पयांसि अस्या नद्याः जलानि किम्? अस्याः जलानि एव अमृतत्वेन आलप्यन्ते किम्? तथा तव भवत्याः, अधरौ ओष्ठौ एष इदन्तीरे अस्याः नद्याः उभौ तटौ, किमि। श्रृङ्गाररसप्रधाना कामोद्दीपिका भवद्वाणी मधुरतमा इति भावः॥ 21.141 ॥
परभृतयुवतीनां सम्यगायाति गातुं
न तव तरुणि! वाणीयं सुधासिन्धुवेणी।
कति न रसिककण्ठे कर्त्तुमभ्यस्यतेऽसौ
भवदुपविपिनाम्रे ताभिराम्रेडितेन?॥ 21.142 ॥
अन्वयः–तरुणी, सुधासिन्धुवेणी तव इयं वाणी परभृतयुवतीनां सम्यक् गातुं न आयाति, ताभिः भवदुपविपिनाम्रे असौ रसिककण्ठे कर्त्तुम् आम्रेडितेन कति न अभ्यस्यते?
जीवातु–परेति। तरुणि! हे प्रदुर्भूतयौवने! सुधासिन्धोः अमृतसागरस्य वेणी प्रवाहरूपा, तव भवत्याः, इयम् उच्चार्यमाणा, वाणी वाक्, परभृतयुवतीनां कोकिलवधूनाम्, सम्यक् उत्तमं यथा तथा, गातुं भाषितुम्, न आयाति न आगच्छति, कोकिला।़पि ईदृशसुमधुरस्वराभावात् तवाग्रे गातुं लज्जते इति भावः। अतः ताभिः कोकिलाभिः, भवत्याः तव, उपविपिने, उपवने, यः आम्रः आम्रवृक्षः तस्मिन्, स्थित्वा इति शेषः। असौ त्वद्वाणी, रसिके अतिमधुरे,रसालाङ्करास्वादेन इति भावः। अथ च ममापि ईदृशी वाणी भवतु एवं साभिलाषे, कण्ठे गलदेशे, कण्ठध्वनौ इत्यर्थः। कर्तु विधातुम्, कण्ठस्थां कर्त्तुमित्यर्थः। आम्रेडितेन द्वित्रिवारमुक्तेन, पुनः पुनर्धोषणेन इत्यर्थः। `आम्रेडितं द्विस्रिरुक्तम्’ इत्यमरः। कति कियत्, वारान्, न अभ्यस्यते? न शिक्ष्यते? अपि तु बहुवारम् अभ्यस्यते एव, तथाऽपि अद्यापि तासां भवद्वाणी सम्यक् न आयाति इति ज्ञायते इति भावः। कोकिलालापात् अपि त्वद्वाणी मधुरतमा इति निष्कर्षः। गुरुगृहे ब्रह्मचर्यावलम्बनपूर्वकं विद्याभ्यासस्य शास्त्रीयत्वात् परभृतपदम्, तथा पुमपेक्षया स्त्रीणां विशेषतः तरुमीनां कण्ठस्वरं मधुरम् इति सूचनार्थ युवतीपदं प्रयुक्तमिति बोध्यम्॥ 21.142 ॥
ऊद्‌र्ध्वस्ते रदनच्छदः स्मरधनुर्बन्धूकमालामयं
मौर्वी तत्र तवाधराधरतटाधःसीमलेखालता।
एषा वागपि तावकी ननु धनुर्वेदः प्रिये! मान्मथः
सोऽयं कोणधनुष्मतीभिरुचित वीणाभिराभ्यते॥ 21.143 ॥
अन्वयः–प्रिये, ते ऊर्ध्वः रदनच्छदः बन्धूकमालामयं स्मरधनुः, तत्र तव अधराधरतटाधः सीमलेखालता मौर्वी, एषा तावकी वाक् अपि ननु मान्मथः धनुर्वेदः, सः अयं कोणधनुष्मतीभिः वीणाभिः उचितम् आरभ्यते।
जीवातु–उद्‌र्ध्व इति। हे प्रिये? ते तव, ऊद्‌र्ध्वः उपरिस्थितः रदनच्छदः ओष्ठः उत्तरोष्ठ एवेत्यर्थः। बन्धूकमालामयं बन्धुजीवपुष्पमालात्मकम्, स्मरधनुः कामकार्मुकम्, ईषद्वक्राकारत्वादिति भावः। तथा तत्र कामचापे, तव भवत्याः, अधराधरतटस्य निम्नोष्ठदेशस्य, अधःसीमायां निम्नस्थमर्यादायाम्, प्रान्तदेशे इत्यर्थः। या लेखालता वीरुदाकाररेखाविशेष इत्यर्थः। दैर्घ्यादिति भावः। सा एव मौर्वी ज्या, एषा श्रूयमाणा, तावकी तव सम्बन्धिनी, वाक्‌वाणी अपि, ननु निश्चये मान्मथः कामसम्बन्धी, कामाद्वैतप्रतिपादक इत्यर्थः, धनुर्वेदः, सः विशिष्ठः, अयं त्वद्वाणीरूपः मान्मथधनुर्वेदः कोणधनुष्मतीभिः वीणावादनसाधन धनुर्युक्ताभिः। `कोणो वीणादिवादनम्’ इत्यमरः। वीणाभिः वल्लकीभिः, आरभ्यते अभ्यस्यते, इति उचितं युक्तम्, परम् अद्यापि आयाति इति भावः। त्वद्वाणी वीणाक्वणितात् अपि मधुरतमा इति निष्कर्षः धनुर्वेदश्च धनुर्धरैः। एव अभ्यस्यते, इति एतत्, उचितं, परन्तु यत् स्वत एव न आयाति तदागमनार्थम् अभ्यासः उचित एव इति तात्पर्यम्॥ 21.143 ॥
स ग्राम्यः स विदग्धसंसदि सदा गच्छत्यापाङ्क्तेयतां
तञ्च स्प्रष्टुमपि स्मरस्य विसिखा मुग्धे! विगानोन्मुखाः।
यः किं मध्विति नाधरं तव कथं हेमेति न त्वद्वपुः
कीदृङ्नाम सुधेति पृच्छति न ते दत्ते गिरं चोत्तरम्॥ 21.144 ॥
अन्वयः–मुग्धे, यः मधु किम् इति पृच्छति तव अधरम् इति उत्तरं न दत्ते, हेम कथम् इति (पृच्छितिः त्वद्‌वपुः (इति उत्तरं न दत्ते) सुधा च कीदृङ्‌नाम इति (पृच्छति) ते गिरम् (इति उत्तरं न दत्ते), सः ग्राम्यः, सः विदग्धसंसदि सदा अपाङ्क्तेयतां गच्छति, स्मरस्य विशिखाः तं च स्प्रष्टुम् अपि विगानोन्मुखाः।
जीवातु–स इति। मुग्धे! हे सुन्दरि! यः पुरुषः, मधु क्षौद्रम्, मद्यं वा, किम्? कीदृशम्? इति एवम्, पृच्छति प्रश्नं कुर्वाणे जने विषये, तव ते, अधरम् निम्नोष्ठम् एव, उत्तरं मधु इति प्रतिवचनम्, न दत्ते न विदधाति, सः ग्राम्यः पामरः, अचतुरः, इत्यर्थः। न तु तव नगरनिवासयोग्यः इति भावः। `ग्रामात् यखञौ’ इति भवार्थे यः। तथा हेम कनकम्, कथम्? किं प्रकारकम्? इति पृच्छति जने यः त्वद्वपुः तव शरीरम्, इति उत्तरं न दत्ते, सः जनः, विदग्धानां चतुराणाम्, संसदि सभायाम्, सदा सर्वकालम्, अपाङक्तेयतां पङ्क्तिबहिर्भूतत्वम्, याति गच्छति, तेषां पङ्क्तौ न उपवेष्टुमर्हति अचतुरत्वात् इति भावः। पाङ्क्तेयः इति नद्यादित्वात् ढक्। तथा सुधा नाम पीयूषाख्यं द्रव्यम्, कीदृक्? कीदृशम्? इति पृच्छति जने, यश्च ते तव, गिरं वाचम्, इति उत्तरं न दत्ते, स्मरस्य कामस्य, विशिखाः बाणाः, तञ्च पुरुषम्, स्प्रष्टुम् अपि स्पर्श कर्त्तुमपि, विगानोन्मुखाः विरुद्धभाषाणप्रवणाः, `नीरसः अयम्’ इति धृणया तं स्प्रष्टुमपि न कृतोद्यमाः इत्यर्थः। त्वद्वाणी सुधायाः अपि मधुरतमा इति भावः। अधरादिवर्णनं तु प्रासङ्गिकम्॥ 21.144 ॥
मध्ये बद्धाणिमा यत् सगरिममहिमश्रोणिवक्षोजयुग्मा
जाग्रच्चेतोवशित्वा स्मितधृतलघिमा मां प्रतीशित्वमेषि।
सूक्तौ प्राकाम्यरम्या दिशि विदिशि यशोलब्धकामावसाया
भूतीरष्टावपीशस्तददित मुदितः स्वस्य शिल्पाय तुभ्यम्॥ 21.145 ॥
अन्वयः–यत् मध्ये बद्धाणिमा, सगरिममहिमश्रोणिवक्षोजयुग्मा, जाग्रच्चेतोवशित्वा, स्मितधृतलघिमा, मां प्रति ईशित्वम् एषि, सूक्तौ प्राकाम्यरम्या, दिशि विदिशि यशोलब्धकामावसाया तत् मुदितः ईशः अष्टौ अपि भूतीः स्वस्य शिल्पाय तुभ्यम् अदित।
जीवातु–मध्य इति। हे प्रिये! त्वं यत् यस्मात् हेतोः, मध्ये उदरप्रदेशे, बद्धः धृतः, अणिमा सौक्ष्म्यातिशयो यया सा तादृशी कृशोदरी। तथा गरिममहिमभ्यां गुरुत्वमहत्त्वाब्यां सह वर्त्तमानम्, श्रोणिः नितम्बः, वक्षोजयुग्मं स्तनयुगलञ्च यस्याः सा तादृशी गुरुस्थूलनितम्बा पीनोन्नतकुचा च। तथा जाग्रत्, स्फुरत्, उद्‌बुध्यमानमित्यर्थः। चेतसि मनसि, वशः इन्द्रियाणां स्वाधीनत्वम्, तदास्यास्तीति वशी तद्भावो वशित्वं जितेन्द्रियता यस्याः सा तादृशी पतिव्रता। तथा स्मिते ईषद्धास्येऽपि, धृतः आश्रितः, लधिमा अल्पत्वं यया सा तादृशी अल्पहासेत्यर्थः। अणिमादौ गुणवचनत्वादिमनिच्। तथा मां नलम्, प्रति उद्दिश्य, ईशनमीशः ऐश्वर्यम्, तदस्यास्तीति ऐशी तद्भावः ईशित्वं स्वामिताम्, एषि गच्छसि, मम प्राणानामीश्वरी भवसीत्यर्थः। तथा दिशि प्राच्यादौ, विदिशि आग्नेयादौ च, यशसः सौन्दर्यादिविषयककीर्त्तेः, यशसा वा कृत्वा, लब्धः प्राप्तः, कामं यथेष्टं यथा तथा, अवसायः अप्रतिहतप्रसरा गतिर्यया सा तादृशी त्रैलोक्यप्रसरकीर्तिः असीति शेषः। तत् तस्मात् कारणात्, मुदितो हृष्टः, त्वां निर्माय सौन्दर्यादिना परितुष्टः इत्यर्थः। ईशः, ईश्वरकः, अष्टावपि अष्टसङ्ख्यका अपि, भूतीः ऐश्वर्याणि, स्वकीयाः अणिमादीः महासिद्धीरित्यर्थः स्वस्य आत्मनः, शिल्पाय कारवे, तुभ्यं भवत्यै, त्वद्रूपाय निजनिर्माणाय इत्यर्थः। अदित प्रायच्छत्। यथा सन्तुष्टो हि पित्रादिः अपत्यादिभ्यः स्वकीयमैश्वर्यादिकं प्रददाति, तथेश्वरेण सन्तुष्टेन स्वकीयम् `अणिमा महिमा गरिमा लघिमा वशित्वमीशित्वं प्राकाम्यं कामावसायिता च’ इत्येमष्टविधमैश्वर्यं दत्तम्, अन्यथा एतत् सर्वं त्वयति कथं स्यातिति भावः। अत्र वाणीवर्णनम् एव प्रस्तुतं मध्यादिवर्णनं प्रासङ्गिकम्॥ 21.145 ॥
त्वद्वाचः स्तुतये वयं न पटवः पीयूषमेव स्तुम्स्तस्यार्थे गरुडामरेन्द्रसमरः त्थाने स जानेऽजनि।
द्राक्षापानकमानमर्दनसृजा क्षीरे दृठावज्ञया
यस्मिन्नाम धृतोऽनया निजपदप्रक्षालनानुग्रहः॥ 21.146 ॥
अन्वयः–वयं त्वद्वाचः स्तुतये पटवः न पीयूषम् एव स्तुमः; तस्य अर्थे सः गरुडामरेन्द्रसमरः स्थाने अजनि-जाने; नाम द्राक्षापानकमानमर्दनसृजा क्षीरे दृढावज्ञया अनया यस्मिन् निजपदप्रक्षालनानुग्रहः धृतः।
जीवातु–त्वदिति। हे प्रिये! वयं नलादयः त्वद्वाचः तव सुमधुरवाण्याः, स्तुतये प्रशंसायै, न पटवः न समर्थाः, तस्मात् पीयूषम् अमृतमेव, स्तुमः प्रशंसां कुर्मः, तस्य पीयूषस्य, अर्थे निमित्तम्, सः पुराणादिप्रसिद्धः, गरुडस्य वैनतेकुर्मः, तस्य पीयूषस्य, अर्थे निमित्तम्, सः पुराणादिप्रसिद्धः, गरुडस्य वैनतेयस्य, अमरेन्द्रस्य देवेन्द्रस्य च, समरः युद्धम्, अजनि जातः, तत् स्थाने युक्तम्, जाने इत्यहं मन्ये। द्राक्षापानकस्य पक्वद्राक्षासम्बन्धिनः संस्कृतपानीयविशेषस्य, मानोऽहङ्कारः, माधुर्यातिशयरूप इति भावः। तस्य मर्दनं खण्डनम्, सृजति विदधातीति तादृशया, तथा क्षीरे दुग्धे विषये, दृठा निश्चला, अन्येन त्याजयितुम् अशक्या इत्यर्थः। अवज्ञा अनादरः यस्याः तादृशया, अनया तव वाण्या, यस्मिन्नमृते, निजपदयोः स्वचरणोः, प्रक्षालनेनैव शोधनेनैव, अनुग्रहः प्रसादः, धतः कृतः नाम सम्भावनायाम्, इति सम्भावयामीत्यर्थः। अथ च यस्मिन् पीयूषे भवद्वाक्यभूतया वाण्या, स्वीयसुप्तिङन्तरूपाणां पदानां प्रक्षालनात् अनु पश्चात्, ग्रहणं ग्रहः कृतोऽस्त्येव, अमृतक्षालिततयैव निर्दोषं मधुरञ्च वदसीत्यर्थः। द्राक्षापानकक्षीरपीयूषादपि त्वद्वाणी मधुरतमा इति भावः। प्रभोर्यस्मिन्ननुग्रहातिशयः स एव प्रभोः चरणक्षालनादिकं यथा करोति तद्वत् इति बोध्यम्॥ 21.146 ॥
शोकश्चेत् कोकयोस्त्वां सुदति! तुदति तद्व्याहराज्ञाकरस्ते
गत्वा कुल्यामनस्तं व्रजितुमनुनये भानुमेतज्जलस्थम्।
बद्धे यद्यञ्जलावप्यनुनयविमुखः स्यान्मयैकग्रहोऽयं
दत्त्वैवाभ्यां तदम्भोऽञ्जलिमिह भवतीं पश्य मामेष्यमाणम्॥ 21.147 ॥
अन्वयः–सुदति, कोकयोः शोकः त्वां तुदति चेत् तत् व्याहर, ते आज्ञाकरः कुल्यां गत्वा एतज्जलस्थं भानुम् अनस्तं व्रजितुम् अनुनये; यदि मया अञ्जलौ बद्धौ अपि एकग्रहः अयम् अनुनयविमुखः स्यात्, तत् इह अम्भोञ्जलिम् आभ्याम् एव दत्त्वा भवतीम् एष्यमाणं मां पश्य।
जीवातु–शोक इति। सुदति! हे शोभनदन्ते दमयन्ति! कोकयोः चक्रवाकयोः, शोकः विरहजनितशुक् त्वां भवतीम्, तुदति पीडयति, चेत् यदि, तत् तदा, व्याहर ब्रूहि, ते तव, आज्ञाकारः आदेशपालकः, अहमिति शेषः। कुल्यां क्षुद्रकृत्रिमसरितम्, गत्वा प्राप्य, एतस्याः कुल्यायाः, जलस्थं जले प्रति बिम्बितम्, भानुं सूर्यम्, अनस्तम् अस्तगमनाभावम्, व्रजितुं प्राप्तम्, अस्ताचलगमनाभिप्रायं परित्यक्तुमित्यर्थः। अनुनये विनयेन अभ्यर्थते, त्वयि अस्तमिते कोकयोरन्योऽन्यं वियोगः अवश्यम्भावी, अतो नास्तं व्रज इति सविनयं प्रार्थये इत्यर्थः। यदि चेत्, मया नलेन, अञ्जलौ करद्वयसंयोगे, बद्धे कृतेऽपि, एकः एकमात्रः, ग्रहः अभिनिवेशः यस्य सः तादृशः एकग्रहः एकमात्रविषये दृढनिर्बन्धपरः, निजनिर्बन्धापरित्यागीत्यर्थः। चन्द्रादिषु मुख्यग्रहश्च। `निर्बन्धोपरागार्कादयो ग्रहाः’ इत्यमरः। अयं भानुः; अनुनयविमुखः विनीतप्रार्थनायामपि पराङ्मुखः, स्यात् भवेत्, एकग्रहत्वात् मम प्रार्थनामगणयित्वा यदि अस्तमेव व्रजेदित्यर्थः। तत् तर्हि, इह अस्मिन् सायंकाले, अम्भसः जलस्य, अञ्जलिं गण्डूषम्, आभ्यां कोकाभ्यामेव, दत्त्वा प्रदाय, अनुनायाग्राहिणे सूर्याय न दत्त्वा कोकाभ्यामेव क्षिप्ता इत्यर्थः। भवतीं त्वां प्रति, एष्यमाणं पुनः प्रत्यागमिष्यन्तम्॥ ईङ् गतावित्यस्य लृटः शानचि रूपम्। मां नलम्, पश्य अवलोकय। सायंसन्ध्योपासनानिमित्तं भङ्ग्यां बहिर्गमनाभ्यनुज्ञां याचितवान् इति भावः॥ 21.147 ॥
तदानन्दाय त्वत्परिहसितकन्दाय भवती
निजालीनां लीनां स्तितिमिह मुहूर्त्तं मॉगयताम्।
इति व्याजात् कृत्वाऽऽलिषु वलिताचित्तां सहचरीं
स्वयं सोऽयं सायन्तनविधिविधित्सुर्बहिरभूत्॥ 21.148 ॥
अन्वयः–तत् भवती त्वत्परिहसितकन्दाय इह निजालीनां लीनां स्थितिं मुहूर्त्तं मृगयताम्-इति व्याजात् सहचरीम् आलिषु वलितचित्तां कृत्वा सः अयं स्वयं सायन्तविधिविधित्सुः बहिः अभूत्।
जीवातु–तदिति। हे दमयन्ति! तत् तस्मात्, तथा सूर्यानुनयस्य प्रयोजनीयत्वादित्यर्थः। भवती त्वम्, त्वत्परिहसितं तव परिहास एव, कन्दः मूलं यस्य तादृशाय, आनन्दाय प्रीत्यै, परिहासानन्दं कर्त्तुमित्यर्थः। इह प्रासादे एव, निजानाम्, आत्मीयानाम्, आलीनां सखीनाम्, लीनां र्क्वाचत् गूढाम्, स्थितिम् अवस्थानम्, मुहूर्त्तं कञ्चित् कालम्, मृगयताम् अन्विष्यतु, इति एवम्, व्याजात् छलात्, सहचरीं दमयन्तीम्, आलिषु विषये, वलितचित्ताम् आसक्तमनस्काम्, कृत्वा विधाय, सः अयं नलः, स्वयम् आत्मना, सायन्तनं विधिं सायंसन्ध्याऽग्निहोत्रादिकृत्यम्, विधित्सुः विधातुमिच्छुः सन्, बहिः तस्मात् प्रासादात् निर्गतः अभूत्॥ 21.148 ॥
श्रीहर्षं कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
तस्यागादयमेकविंशगणनः काव्येऽतिनव्ये कृतौ।
भैमीभर्त्तृचरित्रवर्णनमये सर्गो निसर्गोज्ज्वलः॥ 21.149 ॥
अन्वयः–पूर्वार्द्धस्य पूर्ववत्। तस्य भैमीभर्त्तृचरित्रवर्णनमये अतिनव्ये कृतौ काव्ये एकविंशगणनः अयं निसर्गोज्ज्वलः सर्गः अगात्।
जीवातु–श्रीहर्षमिति। भैमीभर्त्तुः नलस्य, यत् चरित्रं शीलम्, तद्वर्मनमये तत्कथनात्मके, काव्ये नव्ये नूतने, अत्र असमिन्, श्रीहर्षस्य कृतौ, एकविंशतिः गणना यस्य सः तादृशः अयं अगात् समाप्तिं गतः। गतमन्यत्॥ 21.149 ॥
नैषधीयचरिते एकविंशः सर्गः समाप्तः

*****************************************************************************

.

द्वाविंशः सर्गः

इदानीं पूर्वसर्गान्तरप्रस्तावितं सायंकालं वर्मयिष्यन् कविर्द्वार्विशं सर्गमुपक्रमते-
उपास्य सांध्यं विधिमन्तिमाशारागेण कान्ताधरचुम्बिचेताः।
अवाप्तवान् सप्तमभूमिभागे भैमीधरं सौधमसौ धरेन्द्रः॥ 22.1 ॥
अन्वयः–अन्तिमाशारागेण कान्ताधरचुम्बिचेताः असौ धरेन्द्रः सान्ध्यं विधिम् उपास्य सप्तभूमिभागे भैमीधरं सौघम् अवाप्तवान्।
जीवातु–उपास्येति। असौ धरेन्द्रो नलः सायंसंध्याप्रान्तभवेनान्तिमासायाः प्रतीच्या आशाया दिशो रागेम रक्तवर्णेन हेतुना कान्ताया अधरचुम्बि अधरोष्ठस्मारि चेतो यस्य तादृशः संध्यारागसदृशभैम्यधरस्मारी सन् तद्विरहासहिष्णुतया बहिरवस्तातुमशक्तो यत्र सा विद्यते तं सप्तमे भूमिभागे कक्षायां स्थितं भैम्याः पर्वतरूपं सौधं हर्म्यं प्रासादस्य सप्तमीमुपकारिकामवाप्तवान्। किं कृत्वा? सांध्यं संध्यासंबन्धिनं संध्याजपादिविधिमुपास्य कृत्वा॥ 22.1 ॥
प्रत्युद्‌व्रजन्त्या प्रियया विमुक्तं पर्यङ्कमङ्कस्थितसज्जशय्यम्।
अध्यास्य तामप्यधिवास्यं सोऽयं संध्यामुपश्लोकयति स्म सायम्॥ 22.2 ॥
अन्वयः–सः अयं प्रत्युद्‌व्रजन्त्या प्रियया विमुक्तम् अङ्कस्थितसज्जशय्यं पर्यङ्कम् अध्यास्य ताम् अपि अधिवास्य सायं सन्ध्याम् उपश्लोकयति स्म।
जीवातु–प्रतीति। सोऽयं नलः सायंकालसंबन्धिनीं सन्ध्यां रात्रिदिनसम्बन्धिनं मुहूर्त्तं भैम्याः पुर उपश्लोकयति स्म श्लोकैः स्तौति स्म। किं कृत्वा? प्रत्युद्‌व्रजन्त्या सम्मुखमागच्छन्त्या प्रियया विमुक्तम्। अङ्के मध्ये स्थिता सज्जा आस्तृता शय्या तूलिका यत्र तं पर्यङ्कमध्यास्य स्वयमधिष्ठाय तां भैमीमप्यधिवास्य तत्रोपवेश्य। पर्यङ्कम्, `अधिशीङ्‌-’ इति कर्मत्वम्। अधिवास्य,ण्यन्ताद्वसतेर्ल्यप्। तस्य धात्वन्तरत्वात् `उपान्वध्याङ्वसः’ इति कर्मत्वाप्राप्तेस्तामधिवास्येत्यत्र सामर्थ्यात्तत्रैवेति ज्ञेयम्। उपश्लोकयति, `सत्यापपाश-’ इति णिच्। स्मयोगे भूते लट्॥ 22.2 ॥
विलोकनेनानुगृहाण तावद्दिशं जलानामधिपस्य दारान्।
अकालि लाक्षापयसेव येयमपूरि पङ्कैरिव कुङ्कुमस्य॥ 22.3 ॥
अन्वयः–दिशं विलोकनेन तावत् जलाधिपस्य दारान् अनुगृहाण, या इयं लाक्षापयता इव अकालि, कुङ्कुमस्य पङ्कैः इव अपूरि।
जीवातु–विलोकनेनेति। ह प्रिये! त्वं जलानामधिपस्य वरुमस्य दारान् भार्यां पश्चिमां दिशं विलोकनेनानुगृहाण कृतार्थीकुरु, तावदादौ विलोकनेनानुगृहाण, वर्णनया तु पश्चादित्यर्थः। यावच्चन्द्रोदयादिना प्राच्यां रामणीयकं भवति तावत्संध्यारागेण कृतरामणीयकां पश्चिमां दिशं विलोकयेति वा `तावत्’-शब्दार्थः। जडाधिपस्य च भार्या दुःखिता विलोकनादिनाऽनुग्रहीतुमर्हा भवतीत्युक्तिः। येयं पश्चिमा दिक् लाक्षापयसालक्तकरसेन कृत्वा केनाप्यक्षालीवक्षालितेव। तथा-कुङ्कुमस्य पङ्कैः कृत्वा केनाप्यपूरीव पूरितेव। एवंविधा रक्ता दृश्यते, यतस्तस्माद्रमणीयामेतां विलोकयेत्यर्थः॥ 22.3 ॥
उच्चैस्तरादम्बरशैलमौलेश्च्युतो रिविर्गैरिकगण्डशैलः।
तस्यैव पातेन विचूर्णितस्य संध्यारजोराजिरिहोज्जिहीते॥ 22.4 ॥
अन्वयः–गैरिकगण्डशैलः रविः उच्चैस्तरात् अम्बरशैलमौलेः च्युतः, पातेन विचूर्णितस्य तस्य एव सन्ध्यारजोराजिः इह उज्जिहीते।
जीवातु–उच्चैरिति। हे प्रिये! रविरेव गैरिकाख्यधातुविशेषसम्बन्धी गण्डशैलः उच्चतरादत्युन्नतादम्बरशैलस्य गगनगिरेमौंलेः शिखरात्सकाशाच्च्युतः पतितः स्थूलपाषाण एवाधः पतितः, अथ च,-संनिहितः, पातेनोच्चतरगिरिशिखरादधःपतनेन हेतुना विचूर्णितस्य विशेषेण सूक्ष्मचूर्णीकृतस्य तस्यैव गैरिकगण्डशैलस्य संबन्धिनी संध्यारजोराजिः, संध्यासंबन्धी रागा इत्यर्थः। इह सायंकाले पश्चिमदिशि वा उज्जिहीते उपरिष्टात्प्रसरति। अस्तसमये सूर्यस्य रक्तत्वाद्गगनगिरिशिखराच्च्युत्वाच्च गैरिकगण्डशैलत्वम्। उच्चतरात्प्रदेशात्पतितो गण्डशैलश्चूर्णीभवति, चूर्णीभूतस्य च रजोराजिरूर्ध्वं प्रसरति, तद्रजोराजिरेव संध्यारागः प्रायेणोर्ध्व प्रसरतीत्यर्थः॥ 22.4 ॥
अस्ताद्रिचूडालयपक्कणालिच्छेकस्य किं कुक्कुटपेटकस्य।
यामान्तकूजोल्लसितैः शिखौघौर्दिग्वारुणी द्रागरुणीकृतेयम्॥ 22.5 ॥
अन्वयः–अस्ताद्रिचूडालयपक्कणालिच्छेकस्य कुक्कुटपेटकस्य यामान्तकूजोल्लसितैः शिखौघैः किम् इयं वारुणी दिक् अरुणीकृता?
जीवातु–अस्तेति। हे प्रिये! कुक्कुटानां पेटकस्य समूहस्य यामान्ते प्रहरान्ते या कूजा शब्दितं तद्वशादुल्लसितैः प्रकाशमानैः किंचिदुच्चीभूतैरुत्फुल्लजपाकुसुमतुल्यैः शिखानां शिरसि रक्तचर्ममयकेशराणामोधैर्वृन्दैः किमियं वारुणी दिक्‌द्राक् अकस्मादरुणीकृता रक्तीकृता। उत्प्रेक्षा। किंभूतस्य? अस्ताद्रेश्चूडा शिखरं सैवालयः स्थानं यस्य स पक्कणः शबरगुहं तस्यालिः समूहस्तत्रच्छेकस्यासक्तस्य शबरैर्गृहैषु संगृहीतस्य। कुक्कुटानां कूजनेनोन्नमितशिखरत्वं जातिः। ते च यामान्ते कूजन्ति। सायंसमये कूजनादुत्फुल्लशिखावृन्दसंबन्धादरुणीभवनसंभवार्थं यामान्तेत्याद्युक्तम्। `पक्कणः शबरालयः’ `गुहासक्ताः परिमृगाश्छेकास्ते गृहकाश्च ते’ इत्यमरः। `पदेकं पुस्तकादीनां मञ्ूषायां कदम्बके’ इति विश्वः॥ 22.5 ॥
पश्य द्रुतास्तंगतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रयात्र।
निषिध्यमानाहनि संध्ययापि रात्रिप्रतीहारपदेऽधिकारम्॥ 22.6 ॥
अन्वयः–अत्र द्रुतास्तङ्गतसूर्यनिर्यत्करावलीहैङ्गुलवेत्रया सन्ध्यया निषिध्यमानाहनि रात्रिप्रतीहारपदे अधिकारम् अपि पश्य।
जीवातु–पश्येति। संध्यया अत्र सायंसमये चंद्रस्य नायिकाया रात्रेः संबन्धिनः प्रतीहारस्य दौवारिकस्य पदे अधिकारमास्पदमपि पश्य विलोकय। किं भूतया? द्रुतं शीघ्रमस्तंगतस्य सूर्यस्य निर्यती बहिर्निर्गच्छन्ती करावली किरणपरम्परैव हैङ्गुलं हिङ्गुलाख्येन रञ्जकरक्तद्रव्यविशेषेण रक्तं वेत्रं दण्डविशेषो यस्यास्तया। कूंभूते पदे? निषिध्यमानं निवार्यमाणप्रवेशमहो दिनं यस्मिन्। स्त्रिया हि दौवारिकी स्त्र्येव युक्तेति संध्यैव रात्रेदौंवारिकी जातेत्यर्थः। सूर्योऽस्तमितः, दिनं गतम्; रात्रिरागता, इति सायंसंध्यया ज्ञाप्यत इति भावः। दौवारिक्यपि हैङ्गुलवेत्रपाणिः सती प्रविशन्तं कमपि प्रतिषेधयति। `तिर्यक्करा-’ इति तियंञ्चस्तिरःप्रसारिणश्च ते कराश्चेति। अहनीत्यत्र तत्पुरुषत्वाभावाट्टजभावः॥ 22.6 ॥
इदानी संध्यानक्षत्रसंयोगं वर्णयति-
महानटः किं नु सभानुरागे संध्याय संध्यां कुनटीमपीशाम्।
तनोति तन्वा वियतापि तारश्रेणिस्रजा सांप्रतमङ्ग!हारम्॥ 22.7 ॥
अन्वयः–अङ्ग, सः महानटः भानुरागे कुनटीम् ईशाम् अपि सन्ध्यां सन्ध्याय किं नु साम्प्रतं तन्वा वियता अपि तारश्रेणिस्रजा हारं तनोति?
जीवातु–महानट इति। अङ्ग! हे भैमी! महान् संध्योपासनादिविषयेऽतिप्रशस्तः, तथा,-अटति गच्छतीत्येवंभूतः कालः स प्रकृतः सायंतनः, यद्वा,-महान्परमेश्वरौ नटो नर्तको यस्मिन्। संध्याकाले हीश्वरो नृत्यति। स प्रकृतः सायंसंध्यासमयो भानोः सूर्यस्य रागे लोहितिमनि सति अस्तमयानन्तरं सूर्यस्य रागमात्रेऽवशिष्टे सति संध्याकान्तिं किंचित्पीतरक्तवर्णत्वात्कुनटीं `नेपानी कुनटी गोला’ इत्याद्यभिधानात् मनःशिलारूपाम्, तथा,-ईशमपि स्वकालस्वामिनीं च; अथ च,-पितृप्रसूरूपत्वाद् ब्रह्मतनुत्वाद् देवतारूपाम्, अथ च,-समृद्धिमतीं सन्ध्याय सम्यग्विचिन्त्य सांप्रतमिदानीं तन्वा किंचिदुद्‌गततया संधअयारागतिरोहितकान्तितया वा कृशया किंचिद्‌दृश्यया। तथा,-वियतापि गगनरूपया लक्षणया यावद्‌गगनं विस्तीर्णया, यद्वा,-आ सामस्त्येन व्याप्तं वियद्यया गगनव्यापिन्या च, तारश्रेण्या नक्षत्रपरम्परारूपया स्रजा पुष्पादिमालया हारं तनोति विरचयति किं नु। यद्वा,-ताराणां शुद्धमौक्तिकानां श्रेणिर्यत्र तादृश्या ग्रथितमौक्तिकया मालया हारविरचनं युक्तमिति संध्याकालः संध्यामेवंविधां संचिन्त्य नक्षत्रपरम्परामेव हारं विरचयति किमित्यर्थः। संधअयारागः कियानवशिष्टोऽस्ति, मुक्तातुल्यानि नक्षत्राणि च किंचिद्‌दृश्यानि जातानीति भावः। तन्वा तारश्रेणिस्रजोपलक्षितेन तद्युक्तेन वियता गगने नवहारं तनोतीति वा। संध्यामेवंविधां विज्ञाय तूष्णींभूत इति न किंत्वौचित्याद्विशिष्टया तारश्रेणिस्रजा हारमपि विरचयतीत्यर्थ इति वा `अपि’ शब्दार्थः। अथ च,-स प्रसिद्धो महानटस्ताण्डवनृतकर्ता शिवो भानोः सूर्यस्य रागे सति, अस्तमितार्धे सूर्ये सतीति यावत्। तत्र संध्यासमये मनःशिलातुल्यवर्णामचिरस्थास्नुत्वात्कुत्सितनर्तकीरूपां वा ईशां देवीं संध्यां सम्यग्ध्यात्वा सायंसंधअयावन्दनं कृत्वाऽष्टासु मूर्तिषु मध्ये तारापरम्परैव माला यस्यां तया गगनरूपयापि अमूर्तयापि मूर्त्या कृत्वा इदानीं संध्यावन्दनानन्तरमङ्गहारं मुखकरपार्श्वाद्यङ्गानां समतालमानं विक्षेपं करोति किंन्विति वितर्कः। अमूर्तस्याङ्गहारकरणं चि6मिति विरोधार्थः `अपि’शब्दः। न केवलं चन्द्रसर्पभोगादिभूषितयैव तन्वाङ्गहारं करोति, किन्तु वियतापि तन्वेति समुच्चयार्थो वा। ईश्वरो हि सायंसमये नृत्यति। भानुरागे मनःशिलातुल्यवर्णा संधअयामपीशां स्वसहचरीं पार्वतीं विचिन्त्य विशिष्टया वियद्रूपयापि तन्वाङ्गहारं तनोति। पार्वतीसमीपेऽपीश्वरो नृत्यति॥ अथ च,-महानतिप्रवीणो नटः कुत्सितां नटीं नृत्तोऽनतिचतुरामपि संध्यां वयःसंधौ वर्तमानां तरुणीं रसभावसंधौ वर्तमानां वा रसभावज्ञाम्, अत एव-सभाया अनुरागे ईशां सभ्यानुरागजनेन समर्थां संचिन्त्य वियत्तुल्ययाऽतिविशालया शुद्धमौक्तिकपरम्परारूपया मालयोपलक्षितया तन्वाङ्गहारं तनोति तदसांप्रतं किम्? अपि तु-रसभावादिजनयन्त्या तया सभ्यानुरागे समुत्पादितेऽपि नृत्तकर्मकौशलेनापि सभ्यानुरागार्थ स्वयमङ्गहारं तनोतीति युक्तमेवेत्यर्थः॥ अथ च,-महान्नर्तको वयः संधौ रसादिसंधौ वा वर्तमानां तथा समृद्धिमतीमपि स्रियं कुत्सितां नटीं नृत्तानभिज्ञां ज्ञात्वा सभानुरागे निमित्ते विशिष्टया तन्वा स्वयमङ्गहारं तनोति तदसांप्रतं किं नु, अपि तु तस्या नृत्यकौशलाभावान्नृत्तेन सभानुरञ्जने सामर्थ्याबावात्सभानुरञ्जनार्थं स्वयमेव निपुणं नृत्यतीति युक्तमेवेत्यर्थः॥ अथ च,-अन्योऽपि महानतिसमृद्धोऽटति सर्वत्र गच्छति तादृशोऽतिचञ्चलोऽतिप्रसिद्धो विटः कुनटीमपि नृत्तविद्यायामचतुरामपि भया कायकान्त्या कृत्वा योऽनुरागस्तद्वषये ईशां सौन्दर्यातिशयेनैव रागमुत्पादयन्तीम्, तथा-शैशवतारुण्ययोः संधौ वर्तमानां प्रादुर्भूतयौवनां रसभावसंधिस्यत्वाद्रसभावज्ञां वा संचिन्त्य तदीयशरीरस्यातिविस्तृततया शुद्धमौक्तिकमालया हारं विरचयति, तत्रानुरक्तः संस्तस्यै मुक्ताहारं वितरतीत्यर्थः। एवमन्या अपि योजनाः सुधियोहनीयाः। `सभानुरागैः संध्या’ इति पाठो बहुषु पुस्तकेष्वदृष्टत्वादुपेक्ष्यः। अटः, पचाद्यच्। संध्याम्, दिगादित्वाद्यत्। `तार’शब्दस्य नक्षत्रकनीनिकाभिधायित्वं दशमसर्ग एवोक्तम्॥ 22.7 ॥
भूषास्थिदाम्नस्त्रिटितस्य नाट्‌यात्पश्योडुकोटीकपटं वहद्भिः।
दिङमण्डलं मण्डयतीह खण्डैः सायंनटस्तारकराट्‌किरीटः॥ 22.8 ॥
अन्वयः–पश्य-तारकराट्किरीटः सायंनटः नाट्यात् त्रुटितस्य भूषास्थिदाम्नः उडुकोटीकपटं वहद्भिः खण्डैः इह दिङ्मण्डलं मण्डयति।
जीवातु–भूषेति। हे भैमी! तारकराट् चन्द्रः किरीटो यस्य स शंभुः सायं नटतीति सायंनटो नर्तक उद्धतान्नाट्यानृत्ताद्धेतोस्त्रुटितस्य भूषास्थ्नां दाम्नो मालाया उच्छलितैः खण्डैः शकलैस्तैरेव उडुकोटीकपटं कोटिसख्यनक्षत्रव्याजं वहद्भिर्धारयद्भिः सद्भिरिह सायंसमये दिङ्मण्डलं मण्डयति पश्य। एतानि नक्षत्राणि न, किंतु ताण्डवत्रुटितास्थिमालोच्चलच्छकलान्येव दिक्षु शोभन्त इत्यर्थः। अन्योऽपि चन्द्रतुल्यकिरीटो नृत्यंस्त्रुटितहारखण्डैः स्त्रीवृन्दं मण्डयति। `मण्डयतीव’ इति पाठे-उत्प्रेक्षा॥ 22.8 ॥
कालः किरातः स्फुटपद्‌मकस्य वधं व्यधाद्यस्य दिनद्विपस्य।
तस्यैव संध्या रुचिरास्रधारा ताराश्च कुम्भस्थलमौक्तिकानि॥ 22.9 ॥
अन्वयः–कालः किरातः स्फुटपद्‌मकस्य यस्य दिनद्विपस्य वधं व्यधात् तस्य एव रुचिरास्रधारा संध्या ताराः च कुम्भस्थलमौक्तिकानि।
जीवातु–काल इति। हे प्रिये! कालः संध्यासमय एव किरातः, अथ च,-कृष्णवर्णो हिंसकत्वान्मृत्युरूपो वा कालो गिरिमहारण्यसंचारी शबरः स्फुटानि विकसितानि पद्‌मानि यस्मिन्। यद्वा,-विकसितकमलं कं जलं यस्मिन् अथ च,-प्रकटीभूतं शुण्डादण्डाग्रे प्रकाशमानं पद्‌मकं रक्तबिन्दुवृन्दं यस्मिंस्तादृशस्य दिनरूपस्य द्विपस्य वधं व्यधादकरोत्। तस्यैव हतस्य करिणो रुचिरा रम्या संध्यास्रधारा रुचिरधारा स्थूलमुक्ता इव शोभन्त इत्यर्थः। स्फुटपद्‌मकस्येति बहुव्रीहौ कप्॥ 22.9 ॥
संध्यासरागः ककुभो विभागः शिवाविवाहे विभुनायमेव।
दिग्वाससा पूर्वमवैमि पुष्पसिन्दूरिकापर्वणि पर्यधायि॥ 22.10 ॥
अन्वयः–दिग्वाससा विभुना पूर्वं शिवाविवाहे सन्ध्यासरागः अयम् एव ककुभः विभागः पुष्पसिन्दूरिकापर्वणि पर्यधायि-अवैमि।
जीवातु–संध्येति। विभुना प्रभुणा हरेण पूर्वं शिवायाः पार्वत्या विवाहाधसरे संध्यया सरागो रक्तवर्णोऽयमेव ककुभः पश्चिमाशाया विभागः प्रदेशः पुष्पवर्णयुक्ता सिन्दूरिका रक्तवस्त्रं तत्संबन्धिनि तद्योगात् पुष्पसिन्दूरिकाख्ये पर्वण्युत्सवे पर्यधायि परिहितः। यतो दिग्वलयमेव वासो यस्य तेन रक्तवस्त्रपरिधानावसरेऽपि दिग्वाससा औचित्याद्रक्तदिग्भाग एव परिहित इत्यवैमि शङ्के। विवाहस्य चतुर्थे दिने प्रथमादिनपरिहितानि वस्त्राणि प्रक्षालनार्थः परित्यज्य पुष्पसिन्दूरिकाक्यपर्वणि कौसुम्भादिरक्तवस्त्राणि वधूवरेम परिधीयन्त इति वृद्धाचारः। तत्रेशस्य दिग्वसनत्वाद्रक्तपश्चिमभाग एवानेन परिहित इत्यर्थः। वर्मकभूतपुष्पस्थाने ताराः, सिन्दूरिकास्थाने संधअयासरागः पश्चिमदिम्भाग इति भावः॥ 22.10 ॥
सतीमुमामुद्वहता च पुष्पसिन्दूरिकार्थ वसने सुनेत्रे!।
दिशौ द्विसंधीमभि रागशोभे दिग्वाससोभे किमलम्भिषाताम्॥ 22.11 ॥
अन्वयः–सुनेत्रे, सतीम् उमां च उद्‌वहता दिग्वाससा पुष्पसिन्दूरिकार्थ द्विसन्धीम् अभि किं रागशोभे दिशौ (रागशोभे) उभे वसने अलम्भिषाताम्?
जीवातु–सतीमिति। हे सुनेत्रे! सतीं दाक्षायणीमुमं पार्वतीं चोद्वहता परिणयता दिग्वाससा हरेण पूर्वोक्तपुष्पसिन्दूरिकार्थं द्विसंधीम् अभि द्वे अपि प्रातःसायंसंध्ये लक्षीकृत्य द्वे प्राचीप्रतीच्यौ दिशावेव रागेण रक्तवर्णेन शोभा ययोस्ते, रक्तवर्णेन शोभेत इति वा, तादृशे रक्ते उभे द्वे वसने अलम्भिषातां प्राप्ते किम्? `विवाहद्वये संधअयाद्वयरक्तदिग्द्वयमेव दिग्वसनत्वाद्रक्तवस्त्रद्वयं शिवेन लब्धम्’ इत्यहं मन्य इत्यर्थः। शिवेन द्वे दिशावेव वस्त्रे द्वे संध्ये लक्षीकृत्य रागेण रञ्जकद्रव्येण कृत्वा ये शोभे कर्मभूते ते प्रापिते किम्? विवाहे वस्त्रं रञ्जनाय कस्यचित्करे समर्प्यते तस्माच्छिवेन दिग्वलयरूपे मम द्वे वस्त्रे भवतीभ्यां रक्तशोभे प्रापणीये इति संध्याद्वयमाज्ञप्तं सद्दिग्द्वयं रक्तशोभं चकारेत्यर्थ इति वा। `सुनेत्रि’ इति पाठे-`असंयोगोपधात्’ इति निषेधान्ङीष् चिन्त्यः। द्विसंधीम् समाहारद्विगोरेकत्वे `अवान्तो वा’ इति स्त्रीत्वे च `द्विगोः’ इति ङीपि `संध्या’शब्दस्य तद्वतयदन्तत्वात् `हलस्तद्वितस्य’ इति यलोपः। `अभिरभागे’ इत्यभेः कर्मप्रवचनीयत्वात्तद्योगे द्वितीया। गत्यर्थत्वादणौ कर्तुणौं कर्मत्वं पक्षे॥ 22.11 ॥
आदाय दण्डं सकलासु दिक्षु योऽयं परिभ्राम्यति भानुभिक्षुः।
अब्धौ निमज्जन्निव तापसोऽयं संध्याभ्रकाषायमधत्त सायम्॥ 22.12 ॥
अन्वयः–यः अयं भानुभिक्षुः दण्डम् आदाय सकलासु दिक्षु परिभ्राम्यति, अयं तापसः सायम् अब्धौ निमज्जन् इव सन्ध्याभ्रकाषायम् अधत्त।
जीवातु–आदायेति। योऽयं भानुरेव भिक्षुः परिव्राट् दण्डं पारिपार्श्विकमेव वैणवयष्टिमादाय सकलासु दिक्षु परिभ्राम्यति सोऽयं तापसः परिव्राट् सायंकाले अब्धौ निमज्जन् पातालं प्रविशन्, अथ च-बहुजले जलाशये स्नानं कुर्वन् संध्यायामभ्रं गगनं तदेव कषायरक्तं वस्त्रमधत्तेव उपरि स्वस्योर्ध्वभागे, अथ च,-उच्चतटस्योपरि दण्डस्योपरि वा निजमस्तकोपरि वा धृतवानिव। एवं यतिरपि बहुकालावस्थानस्य निषिद्धत्वादुक्तलक्षणः सन् परिभ्रमणे कषायं वस्त्रं धारयति, काषायमिव संध्या शोभते इत्यर्थः। `माठरः पिङ्गलो दण्डश्चण्डांशोः पारिपार्श्विकाः’ `भिक्षुः परिव्राट् कर्मन्दी’ इत्यमरः। काषायम्, `तेन रक्तम्-’ इत्यण॥ 22.12 ॥
अस्ताचलेऽस्मिन्निकषोपलाभे संध्याकषोल्लेखपरीक्षितो यः।
विक्रीय तं हेलिहिरण्यपिण्डं तारावराटानियमादितः द्यौः॥ 22.13 ॥
अन्वयः–यः अस्मिन् निकषोपलाभे अस्ताचले संध्याकषोल्लेखपरीक्षितइयं द्यौः तं हेलिहिरण्यपिण्डं विक्रीय तारावराटान् आदित।
जीवातु–अस्तेति। यः सूर्यः अस्मिन्प्रतीच्यां वर्तमाने निकषोपलाभे सुवर्मपरीक्षापाषाणतुल्येऽस्ताचले संध्याराग एव कषोल्लेखः घर्षणेल्लेखस्तेन परीक्षितः। इयं द्यौस्तं हेलि सूर्यमेव हिरण्यपिण्डं विक्रीय विनिमयेन कस्मैचिद्दत्त्वा तारारूपान्वराटान् कपर्दकानादित जग्राह। उत्तमं सुवर्ण रक्तपीतं भवति। तथा च रक्तपीतसुवर्मगोलकस्य निकषपरीक्षितसुवर्णरेखेन संध्या दृश्यते, ताराश्च वराटा इव दृश्यन्त इत्यर्थः। `द्यौः’ इति लोकव्यवहारानभिज्ञत्वद्योतनार्थ स्त्रीलिङ्गनिर्देशः। स्त्री हि सुवर्ण दत्त्वा मूर्खतया वराटकान्गृह्णाति, धूर्तेन वञ्च्यते च। वराटकव्यवहारे देशे सुवर्णमपि दत्त्वा वराटका एव गृह्यन्ते॥ 22.13 ॥
पचेलिमं दाडिममर्कबिम्बमुत्तार्थ संध्या त्वगिवोज्झितास्य।
तारामयं बीजभुजादसीयं कालेन निष्ठ्यूतमिवास्थियूथम्॥ 22.14 ॥
अन्वयः–बीजभुजा कालेन अर्कबिम्बं पचेलिम दाडिमम् उत्तार्य अस्य त्वक् इव संध्या उज्झिता, तारामयम् अदसीयम् अस्थियूथम् इव निष्ठ्यूतम्।
जीवातु–पचेलिममिति। दाडिमबीजभुजा कालेन रक्तमर्कबिम्बमेव पचेलिमं तरोतुपर्येव स्वयं पक्वं दाडिमं फलमुत्तार्थ गगनतरोस्त्रोटयित्वा बीजग्रहणार्थ भित्त्वा वा संध्यारुचिस्त्वगिव अस्य दाडिमस्य पक्वत्वाद्रक्तकृतिरिवोज्झिता परित्यक्ता। तद्वीजभक्षणार्थमुपरितनबीजकोशवत्संध्या पृथक्कृता। तथा-बीजभक्षणानन्तरं तारामयं तारारूपमदसीयममुष्य दाडिमस्य अमीषां बीजानां वा, संबन्धि अस्थ्नां बीजमध्यस्थश्वेतकणानां यूथं वृन्दं पुनस्थूत्कृतद्‌गीर्णमिव बीजानि भक्षयित्वा गृहीतरसं तदन्तर्गतश्वेतकणवृन्दं पुनस्थूत्कृतद्‌गीर्णमिव बीजानि भक्षयित्वा गृहीतरसं तदन्तर्गतश्वेतकणवृन्दं पुनस्थूत्कृतमिव। न हि कालादन्यं सूर्यदाडिम भक्षितुं समर्थः। अन्योऽपि दाडिममुत्तार्य तत्त्वचं परित्यज्य बीजान्यास्वाद्य गृहीतरसान्बीजकणांस्थूत्कृत्य त्यजति॥ 22.14 ॥
(ताराततिर्बीजमिवादमादमियं निरष्ठेवि यदस्थियूथम्।
तन्निष्कुलाकृत्य रविं त्वगेषा संध्योज्झिता पाकिमदाडिमं वा॥ 22.14.1 ॥)
अन्वयः–वा तत् पाकिमदाडिमं रविं निष्कुलाकृत्य एषा संध्या त्वक् उज्झिता, बीजम् आदम् यदस्थियूथम् इव इयं ताराततिः निरष्ठेवि।
(जीवातु– तारेति। सामर्थ्यात्कालेन कर्त्रा रविमेव तत् पक्त्रिमं दाडिमं निष्कुलाकृत्य निर्गबीजकुलं कृत्वा बीजरूपं सारं गृहीत्वा तदीया त्वगेवैषा संध्या उज्झिता। `वा’शब्दः संभावनायाम्। उज्झिता किमित्याशङ्क्याहबीजानि आदमादं भक्षयित्वा भक्षयित्वा यस्य सूर्यरूपस्य पक्वदाडिमस्य संबन्धि अस्थियूथमिवेयं ताराततिर्निरष्ठेवि निष्ठ्यूता। जग्ध्वा इत्यादमादम्, अदेराभीक्ष्ण्ये णमुल् द्विर्वचनं च। निरष्ठेवि, कर्मणि चिण्। निष्कुलाकृत्य, `निष्कुलान्निष्कोषणे’ इति डाच्। क्षेपकोऽयं श्लोकः॥ 22.14.1 ॥)
संध्यावशेषे धृतताण्डवस्य चण्डीपतेः यत्पतनाभिघातात्।
कैलासशैलस्फटिकाश्मखण्डरमण्डि पस्योत्पतयालुभिर्द्यौः॥ 22.15 ॥
अन्वय—पश्य, सन्ध्यावशेषे धृतताण्डवस्य चण्डीपतेः यत्पतनाभिदातात् उत्पतयालुभिः कैलाससैलस्फटिकाश्मखण्डैः द्यौः अमण्डि।
जीवातु–संध्येति। हे प्रिये! संध्यावशेषे संध्यावन्दनान्ते धृतं ताम्डवनृत्यं येन तस्य चण्डीपतेः पदोश्चरणयोर्द्दढं यत्पतनं तेनाभिधाताद्वेतोरुत्पतयालुभिरुत्पतनशीलैरुच्छलितैः कैलासशैलसंबन्धिस्फटिकाश्मनं खण्डैः शकलैद्यौरमण्डि अलंकृता पश्य। कैलाशस्फटिकखण्डा एव गगने तारारूपेण शोभन्ते। उत्पतयालुभिः `स्पृहिगृहि-’ इत्यालुच्॥ 22.15 ॥
इत्थं ह्रिया वर्णनजन्मनेव संध्यामपक्रान्तवतीं प्रतीत्य।
तारातमोदन्तुरमन्तरिक्षं निरीक्षमाणः स पुनर्बभाषे॥ 22.16 ॥
अन्वयः–इत्थं वर्णनजन्मना ह्रिया इव अपक्रान्तवतीं सन्ध्यां प्रतीत्य तारातमोदन्तुरम् अन्तरिक्षं निरीक्षमाणः सः पुनः बभाषे।
जीवातु–इत्थमिति। स नलः पुनर्भैमीं बभाषे। किंभूतः? इत्थमुक्तप्रकारेण वर्णनजन्मना स्तुतिजातया ह्रियेवापक्रान्तवतीं निर्गतां संध्यां प्रतीत्य निश्चित्यान्तरिक्षं गगनं तारातमोभ्यां दन्तुरितं निश्चितं निरीक्षमाणः। अन्योऽप्युत्तमो निजवर्णनजातलज्जयापक्रामति॥ 22.16 ॥
रामेषुमर्मव्रणनार्तिवेगाद्रत्नाकरः प्रागयमुत्पपात।
ग्राहौघकिर्मीरितमीनकम्बु नभो न भोः कामशरासनुभ्रु!॥ 22.17 ॥
अन्वयः–भोः कामशरासनभ्रु, ग्राहोघकिर्मीरितमीनकम्बु नभः न, अयं रामेषुमर्मव्रणनार्त्तिवेगात् रत्नाकरः प्राक् उत्पपात।
जीवातु–रामेति। हे कामशरासनमेव भ्रुवौ यस्याः, भ्रूदर्शनमात्रेण कामोदयकारिणि भैमि! रामस्य जामदग्न्यस्य वा इषुणा मर्मणो व्रणनाद्भेदनाद्धेतोरुत्पन्ना आर्तिः पीडा तस्या वेगादाधिक्याद्धेतोर्निजस्थाने स्थातुमशक्तः सन् भीत्या रत्नाकर एवायं प्राक् तस्मिन्नवसरे उत्पपातोर्ध्वमगात्। नेदं नभः, यः पूर्वमुंत्पतितः सः श्यामजलः स्फुटरत्नगर्भो रत्नाकर एवायं न त्वेतन्नभ इत्यर्थः। कीदृशः? ग्राहाणां जलचारिणां जन्तूनां वा ओघस्तेन किर्मीरिता मिश्रिता मीनाः कम्बवः सङ्खाश्च यस्मिन्। नभस्तु ग्रहसम्बन्धी ओघः शुक्रबृहस्पत्याख्याताराग्रहसमूहः ध्रुवमण्डलग्रहसंबन्धी समूहो वा तेन मिश्रितो मीनाख्यो राशिः कम्बुः शङ्खाकारविशाखानक्षत्रं च यस्मिन्। रघुनाथेन किलसेतुबन्धसमये शरणे समुद्रो भेत्तमारब्ध इति तावन्मात्रेण पीडातिशयादुत्पतित इत्युच्यते। परशुरामेणापि निजवसत्यर्थ समुद्रो बाणेन परास्तः समुद्रस्याधोदेशे स्थितानि रत्नग्राहादीनि अधः स्थितेन जनेन सुखेन द्रष्टुं शक्यन्ते। मकरकर्कटादयः साक्षान्मीनादय एव, नतु राश्यादिभूताः; शिष्टाश्च ताराः उवङ्स्थानत्वान्नदीत्वाभावद्‌ध्रस्वत्वाभावः। ह्रस्वपाठस्तु `सहैकवंशप्रभवभ्रु’ इतिवत्समर्थनीयः। यद्वा, शिष्टकविप्रयोगदर्शनाज्ज्ञातव्यः॥ 22.17 ॥
मोहाय देवाप्सरसां विमुक्तास्ताराः शराः पुष्पशरेण शङ्के।
पञ्चास्यवत्पञ्चशरस्य नाम्नि प्रपञ्चवाची खलु पञ्चशब्दः॥ 22.18 ॥
अन्वयः–शङ्के-ताराः देवाप्सरसां मोहाय पुष्पशरेण विमुक्ताः शराः, खलु पञ्चशरस्य नाम्नि पञ्चशब्दः पञ्चास्यवत् प्रपञ्चवाची।
जीवातु–मोहायेति। हे भैमी! पुष्पशरेण कामेन देवानामप्सरसां च मोहायान्योन्यमनुरागसंजननार्थ देवादीनामुपरिवर्तमानत्वाद्विमुक्ता ऊद्‌वं क्षिप्ताः शुभ्रपुष्परूपाः शरा एव तारा इत्यहं शङ्के ननु कामस्य पुष्पशरत्वेऽपि पञ्चबाणत्वात्ताराणां बहुतरत्वात्कथं कामबाणत्वमित्याशङ्क्य समर्थयते-खलु यस्मात् पञ्चशरस्य नाम्नि पूर्वपदत्वेन वर्तमानः `पञ्च’शब्दः प्रपञ्चवाची, प्रकृष्टः पञ्चो विस्तारस्तद्वाचकः, नतु संख्यावाचकः। `पचि विस्तारवचने’ इति स्वार्थणिजन्ताद्धातोः। पचाद्यचि पञ्चाद्यचि पञ्चयन्ति विस्तृता भवन्ति पञ्चाः शरा यस्येति विग्रहः, नतु पञ्चसंख्याकाः शरा यस्येति। तस्मात्पुष्पबाणत्वं ताराणां युक्तमेवेत्यर्थः। कस्येव? पञ्चयन्ति विस्तृता भवन्ति पञ्चाः शरा यस्येति विग्रहः, नतु पञ्चसंख्याकाः शरा यस्येति। तस्मात्पुष्पबाणत्वं ताराणां युक्तमेवेत्यर्थः। कस्येव? पञ्चास्यवत् `सिंहो मृगेन्द्रः पञ्चास्यः’ इति सिंहाभिधायिनि `पञ्चास्य’शब्दे सिंहस्य पञ्चसंख्यमुखत्वाभावात् पञ्चयति विस्तृतं भवति प़ञ्चं विस्तृतमास्यं यस्यासौ पञ्चास्य इति व्युत्पत्त्या `पञ्च’ शब्दो यता विस्तारः’ इति हलायुधः॥ 22.18 ॥
नभोनदीकूलकुलायचक्रीकुलस्य नर्क्त विरहाकुलस्य।
दृशोरपां सन्ति पृषन्ति ताराः पतन्ति तत्संक्रमणानि धाराः॥ 22.19 ॥
अन्वयः–नक्तं विरहाकुलस्य नभोनदीकूलकुलायचक्रीकुलस्य दृशोः अपां पृषन्ति ताराः सन्ति, तत्सङ्क्रमणानि धाराः पतन्ति।
जीवातु–नभ इति। नक्तं विरहेणाकुलस्य पीडितस्य नभोनद्या मन्दाकिन्याः कूलमेव कुलायः स्थानं यस्य तस्य चक्रीकुलस्य चक्रकुलस्य चक्रवाकीसमूहस्य दृशोर्नेत्रयोरपामश्रुजलानां पृषन्ति ये बिन्दवः सन्ति त एव तारका अधःस्थितैर्जनैर्दृश्यन्ते। तथा-तासां ताराणां संक्रमणानि पुण्यक्षयवशाद्भूमिं प्रत्यागमनानि गलद्वाष्पजलानां धारा एव पतन्ति। दृशोः सन्ति चिरस्तितिमन्ति यानि बाष्पपृषन्ति तानि तारा इति वा। तत्संक्रमणानि स्थितताराप्रतिबिम्बभूतानि तत्तुल्यानि पतन्ति अधः पातीनि यानि पृषन्ति तानि धारा अश्रुप्रवाहाः। तासां ताराणां संक्रमणानि वीथयो मेषादिसंक्रान्तयो वा धारा अश्रूणां प्रवाहा इति वा। स्त्रियो हि विरहमसहमाना रुदिन्ति। सन्ति, पतन्तीत च तिडन्तम्, पृषद्विशेषणं वा॥ 22.19 ॥
अमूनि मन्येऽमरनिर्झरिण्या यादांसि गोधा मकरः कुलीरः।
तत्पूरखेलत्सुरभीतिद्‌रमग्नान्यधः स्पष्टमितः प्रतीमः॥ 22.20 ॥
अन्वयः–मन्ये-गोधाः, मकरः, कुलीनः, अमूनि अमरनिर्झरिण्याः यादांसि, तत्पूरखेलत्सुरबीतिदूरमग्नानि अधः इतः स्पष्टं प्रतीमः।
जीवातु–अमूनीति। हे प्रिये! गोधाख्यास्तारा गोधा, मकरराशिसंबन्धिन्यस्तारा मकरः, कुलीरः कर्कराशिस्तत्संबन्धिन्यस्ताराः कुलीरः, अमूनि प्रत्यक्षदृश्यान्यमरनिर्झरिण्या मन्दाकिन्या यादांसि जलजन्तव एव इत्यहं मन्ये। गोधा मत्स्याः कर्कटका अपि जले वर्तन्ते उपरि च दृश्यन्ते। तस्माद्देवनद्या यादांस्येवैतानीत्यर्थः। तर्ह्युपरिवर्तमानेन द्रष्टुं योग्याः, नत्वधःस्थितेनेत्यत आह-तस्या नाकनद्यः पूरे खेलन्तः क्रीडन्तः सुरास्तेभ्यः सकाशाद्भीत्या दूरं तलपर्यन्तं मग्नानि अत एव जलतलगामित्वादधोभागे इतो भूदेशादपि स्पष्टं सुखेन जानीमः। भूभागे स्थिता अपि जलतलगामित्वाद् गोधादियादांसि व्यक्तं पश्याय इत्यर्थः। गोधाकारं ध्रुवमण्डलं, गोधा ज्षेष्ठा वा॥ 22.20 ॥
स्मरस्य कम्बुः किमयं चकास्ति दिवि त्रिलोकीजयवादनीयः।
कस्यापरस्योडुमयैः प्रसूनैर्वादित्रशक्तिर्घटते भटस्य॥ 22.21 ॥
अन्वयः–किम् त्रिलोकीजयवादनीयः अयं स्मरस्य कम्बुः दिवि चकास्ति? अपरस्य कस्य भटस्य उडुमयैः प्रसूनैः वादित्रशक्तिः घटते?
जीवातु–स्मरस्येति। त्रिलोकीजये वादनीयो वादनार्हः स्मरस्य संबन्धी अयं प्रत्यक्षदृश्यो विशाखानक्षत्ररूपः कम्बुः शङ्खा दिवि चकास्ति किम्? उच्चतरप्रदेशे वदितं वाद्यं सर्वत्राकर्ण्यत इति गगने स्तापितो लोकत्रयविजयवादनार्हः कामस्यैव कम्बुः किमित्यर्थः। यस्मादपरस्य कस्य भटस्योडुमयैस्तारारूपैः प्रसूनैः कृत्वा वादित्रशक्तिर्वाद्यनिर्माणं घटतेऽपि स्मरस्यैव धनुर्बाणानां पुष्परूपत्वदर्शनात्तदीयस्यैव वाद्यस्य पुष्परूपत्वसंभावनाया युक्तत्वात् ताराकुसुमरूपः कामशङ्ख एवायं गगने शोभते, न त्वन्यदीय इत्यर्थः॥ 22.21 ॥
किं योगिनीयं रजनी रतीशं याऽजीजिवत्पद्मममूमुहच्च।
योगद्धिमस्या महतीमलग्नमिदं वदत्यम्बरचुम्बि कम्बु॥ 22.22 ॥
अन्वयः–किम् इयं रजनी योगिनी, या रतीशम् अजीजिवत् पद्मं च अमूमुहत्, अलग्नम् अम्बरचुम्बि इदं कम्बु अस्याः महतीं योगर्द्धि वदति?
जीवातु–किमिति। येयं रजनी योगिनी स्त्रीपुंसयोगवती, अय च-शाक्तमन्त्रसिद्धा मारणोच्चाटनाद्यभिज्ञा स्त्री किम्? या रतीशं दिवा निर्जीवमिव निजसंनिधोः अजीजिवत् सजीवं चक्रे। पद्मपमूमुहत् पद्मानि च समकोचयत्। रात्रौ हि स्त्रीपुंसयोगे काम उद्दीप्तो भवति, पद्मानि च संकुवन्ति। अलग्नं निराधारमम्बरचुम्बि आकाशवर्ति तारामात्रात्मकत्वादलग्नमराशिभूतं वा इदं प्रत्यक्षदृस्यं कम्बु तारारूपः शङ्खोऽस्या रात्रियोगिन्या महतीं योगर्द्धिं योगसमृद्धिं वदति। दिवादर्शनाभावादिदानीं दृश्यमानः शङ्खो रात्रिर्जातेति कथयति। योगशक्तिं विना निराधारं वस्तु कथं स्थापयेत्? योगिन्यपि हि मृतमपि कंविज्जीवयति। कंविञ्च मोहयति मूर्च्छा प्रापयति भ्रान्तं करोति वा। तस्माद्योगिनी। किमित्युत्प्रेक्षा। `कम्बु’शब्दास्य नपुंसकत्वमप्यस्तीति पूर्वमेवोक्तं स्मर्तव्यम्। अजीजिवत्, अमूमुहदिति, `णौ चङ-’ इत्युपधाह्रस्वः॥ 22.22 ॥
प्रबोधकालेऽहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती।
निशाह शून्याध्वनि योगिनीयं मृषा जगद्‌दृप्टमपि स्फुटाभम्॥ 22.23 ॥
अन्वयः–प्रबोधकाले अहनि बाधितानि ताराः खपुष्पाणि निदर्शयन्ती शून्याध्वनि योगिनी इयं निसा स्फुटाभं दृष्टम् अपि जगत् मृषा आह।
जीवातु–प्रबोधेति। हे प्रिये! प्रबोधकाले जागरणसमये अत च-सम्यग्ज्ञानोत्पत्तिसमये, अहनि दिने बाधितानि सूर्यदीप्तिध्वस्तकान्तीनि, अथच-भ्रान्तिकारणनाशान्निरुपपत्तीनि, तारा नक्षत्ररूपाणि खपुष्पाणि गगनसंबन्धीनि कुसुमानि नितरां दर्शयन्ती, अथ च-दृष्टान्तीकुर्वन्ती, शून्याध्वनि बौद्धादिशून्यवादिदर्शने विषये योगिनी तद्दर्शनरहस्य जानती काचित्प्रव्रजितैवेयं निशा स्फुटमाभाति तादृशं दृष्टमपि प्रत्यक्षेण प्रतीयमानमपि स्तावरजङ्गमात्मकं सकलं जगन्मृषाऽसत्यमाह ब्रूते। बौद्धादिदर्शने हि ज्ञानस्यैव बहिर्धटाद्याकारत्वाज्ज्ञानातिरिक्तं सर्वं मिथ्येति तज्ज्ञा योगिन्यपि प्रपञ्चो मिथ्येति दर्शयति, तथेयमपि रात्रिहन्यदृश्यान्यपि पुष्पतुल्यानि नक्षत्राणि निजयोगाद् गगने दर्शयतीति भावः। निदर्शनं करोतीवेति प्रतीयमानोत्प्रेक्षा॥ 22.23 ॥
एणः स्मरेणाङ्कमयः सपत्राकृतो भवद्‌भ्रूयुगधन्वना यः।
मुखे तवेन्दौ लसता स तारापुष्पालिबाणानुगतो गतोऽयम्॥ 22.24 ॥
अन्वयः–तव मुखे इन्दौ लसना भवद्‌भ्रूयुगधन्वना स्मरेण यः अङ्कमयः एणः सपत्राकृतः सः अयं तारापुष्पालिबाणानुगतः गतः।
जीवातु–एण इति। हे भैमि! तव मुख एवेन्दावाह्लादकत्वादिगुणयोगाच्चन्द्रे लसता प्रकाशमानेन, तथा-भवद्‌भ्रूयुगमेव धनुर्यस्य तेन स्मरेण तव मुकेन्दौ `विमतो मृगवान्, चन्द्रत्वात्, संप्रतिपन्नवत्’ इत्यनुमानप्रसिद्धो योऽङ्कमयः कलङ्करूप एणो मृगः सपत्राकृतः। मुखे तच्चापदर्शनाज्जठरावस्थितपत्रस्यैव बाणस्यापरपार्श्वे निर्गमनं यथा भवति तथा व्यथितः स एव मृगस्तारापुष्पालिर्नक्षत्ररूपपुष्पङ्क्तिस्तल्लक्षणो वाणस्तेनानुगतः सन् सहित एव पलाय्य गतोऽयं गगने दृश्यते किम्! चन्द्रे मृगेण भाव्यम्, स चात्र नास्ति, सचापः कामश्च मुखे लसति, गगने मृगशिरो नक्षत्रं मृगाख्यं बाणाकारपुष्पतुल्यतारानुगतं दृश्यते। तर्हि कामेन विद्धोऽन्तर्गतपत्रपार्श्वबहिर्निर्गतबाणसहितो व्यथितः पलाय्य गतः, स एवायं मृगो दृश्यते किमिति प्रतीयमानोत्प्रेक्षा। सपत्रनिष्पत्रादतिव्यथने’ इति डाच्॥ 22.24 ॥
लोकाश्रयो मण्डपमादिसृष्टि ब्रह्माण्डमाभात्यनुकाष्ठमस्य।
स्वकान्तिरेणूत्करवान्तिमन्ति गुमव्रमद्वरनिभानि भानि॥ 22.25 ॥
अन्वयः–लोकाश्रयः ब्रह्माण्डम् आदिसृष्टि मण्डपम् आभाति, अस्य अनुकाष्ठं भानि स्वकान्तिरेणूत्करवान्तिमन्ति गुणव्रणद्वारनिभानि।
जीवातु–लोकेति। हे भैमि! ब्रह्माण्डमादौ सर्वस्मादपि पूर्वं सृष्टिर्निमाण यस्य, अथ च-चिरकालनिमितं पुराणम्, मण्डपमिति आभाति तदिव शोभते इत्यर्थः। यतः-लोकानां त्रयाणामपि आश्रयः ब्रह्माण्डाधारत्वाज्जगताम्। मण्डपोऽपि लोकानामाश्रयः तच्छायानिवासित्वाल्लोकानाम्, आश्रयनामत्वाच्च। अत एव-अस्य ब्रह्माण्डमण्डपस्य अनुकाष्ठं दिशि दिशि एतत्संबन्धिनीषु सर्वासु दिक्षु; अथ च,-एतत्संबन्धीनि काष्ठानि दारूणि लक्षीकृत्य तेषु भानि नक्षत्राणि स्वकान्तिरूपस्योत्खातरेणूत्करस्य संबन्धिनी वान्तिरुद्‌गारस्तद्वन्ति घुणोत्कीर्णदारुरजोयुक्तानि दारुच्छिद्रमुखानीव दृश्यन्त इत्यर्थः। जनाश्रयनामा मण्डपोऽप्यतिजीर्णो यदा भवति तदा तदीयकाष्ठेषु घुणाः पतन्ति घुणोत्कीर्णगलद्रजोयुक्तानि घुमकृतच्छिद्रमुखानि वृत्तानि श्वेतानि च दृश्यन्ते, तानीव भानि भान्तीति भावः। `मण्डपोऽस्त्री जनाश्रयः’ इत्यमरः। अनुकाष्ठम्, वीप्सायामव्ययीभावः, पक्षान्तरे विभक्त्यर्थे॥ 22.25 ॥
इदानीं सर्वदिग्व्यापितमोवर्णनं प्राच्यादिक्रमेणोपक्रमते-
शचीसपत्न्यां दिशि पश्य भैमि! शक्रेभदानद्रवनिर्झरस्य।
पोप्लूयते वासरसेतुनाशादुच्छृङ्खलः पूर इवान्धकारः॥ 22.26 ॥
अन्वयः–भैमि, पश्य-अन्धकारः शचीसपत्न्यां दिशि वासरसेतुनाशात् शक्रेभदानद्रवनिर्झरस्य पूरः इव पोप्लूयते।
जीवातु–शचीति। हे भैमि! अन्धकारः शच्याः सपत्नी दिक् प्राची तस्या वासररूपस्य सेतोः सूर्यप्रभामर्यादाया नाशात् उच्छृङ्खलो निरर्गलः शक्रेभस्य दानद्रवो दानोदकं तस्य निर्झरः प्रवाहस्तस्य श्यामः पूर इव पोप्लूयते भृशं प्रसरति, प्राच्यां व्याप्नोतीत्यर्थः। त्वं पश्य। प्राच्यामेव चैरावतदानप्रवाहपूरसंभवः। जलपूरोऽपि बन्धापगमादप्रतिहतप्रसरः सन्नतितरां प्रसरति; प्लुङ् सर्पणे’ इत्यस्माद् भृशार्थे यङ्द्विर्वचनम्॥ 22.26 ॥
दक्षिमदिग्व्यापि तमो विर्णयति-
रामालिरोमावलिदिग्विगाहि ध्वान्तायते वाहनमन्तकस्य।
यद्वीक्ष्य दूरादिव बिभ्यतः स्वानश्वान्गृहीत्वापसृतो विवस्वान्॥ 22.27 ॥
अन्वयः–रामालिनरोमावलिदिग्विगाहि अन्तकस्य वाह्मं ध्वान्तायते, विवस्वान् यत् दूरात् वीक्ष्य बिभ्यतः स्वान् अश्वान् गृहीत्वा पलायितः इव।
जीवातु–रामेति। श्रीरामस्यालिः सेतुः सेतुबन्ध एव श्यामत्वाद्रोमावलिर्यस्यास्तस्या दक्षिणस्या दिशो विगाहि नितरां व्यापकम् अन्तकस्य दिक्कपतित्वाद्दक्षिणदिक्स्थं तद्वाहनं महिष एव ध्वान्तायते कज्जलनीलोऽन्धकार इवाचरति। विवस्वान् सूर्यः यद्यमवाहनं दूराद्वीक्ष्य सहजाश्वमहिषवैरस्मरणाद्विभ्यतः सभयान् स्वानश्वान् गृहीत्वाऽपसृतः पलायित इव दक्षिणदिशि तिमिरं यममहिषवच्छोभत इत्यर्थः. `अन्तक’पदेन तद्वाहनस्य दारुणत्वं सूचितम्, अत एव ततोऽप्यश्वानां भयं युक्तम्। ध्वान्तायते, `उपमानादाचारे’ `कर्तुः क्यङ्-’ इति क्यङन्तात्तङ्। `सेतुरालौ स्त्रियां पुमान्’ इत्यमरः॥ 22.27 ॥
प्रतीचीव्यापितमो वर्णयति-
पक्वं महाकालफलं किलासीत्प्रत्यग्गिरेः सानुनि भानुबिम्बम्।
भिन्नस्य तस्यैव दृषन्निपाताद्‌बीजानि जानामितमां तमांसि॥ 22.28 ॥
अन्वयः–भानुबिम्बं प्रत्यग्गिरेः सानुनि पक्वं महाकालफलम् आसीत् किल, दृषन्निपातात् भिन्नस्य तस्य बीजानि एव तमानि जानामितमाम्।
जीवातु–पक्वमिति। भानुबिम्बं प्रत्यग्गिरेः प्रतीच्यां वर्तमानस्यास्ताचलस्य सानुनि कालवशात्पक्वं महाकालस्यैन्द्रवारुण्याः फलमासीत् किल, अहं मन्य इत्यर्थः। तथा-अहमतिपक्वत्वाद् वृन्तश्लथत्वादुच्चतरप्रदेशादधस्ताद् दृषदि शिलायां निपातात्तदभिघाताद्धेतोर्भिन्नस्य विदीर्णस्य तस्य भानुबिम्बरूपस्य महाकालफलस्य कृष्णतमानि बीजान्येव तमांसीति जानामितमां नितरां मन्ये। पर्वतादिकठिनभूममुद्भवं जम्बीरवर्तुलं पक्वं सदतिरक्तं कृष्णबीजं महाकालफलं ग्रहोपसर्गनिवारणार्थं गृहद्वारे वृद्धैर्बध्यते। अस्तमयसमयसंबन्धात्परिणतकालं रक्तं महतः कालस्य फलभूतं च भानुबिम्बं महाकालफलमिव, तमांसि च विदीर्णस्य तस्य कृष्णतमानि बीजानीव प्रसरन्तीत्यर्थः। अन्यदिगपेक्षया प्रतीच्यां सायंसमये सूर्यसंध्यासंबन्धिनः प्रकाशस्यासन्नत्वादल्पान्धकारसूचनार्थ तमसां बीजत्वेन निरूपणम्॥ 22.28 ॥
उदीचीव्यापि तमो वर्णयति-
पत्युर्गिरीणामयशः सुमेरुप्रदक्षिणाद्भास्वदनादृतस्य।
दिशस्तमश्चैत्ररथान्यनामपत्रच्छटाया मृगनाभिशोभि॥ 22.29 ॥
अन्वयः–चैत्ररथान्यनामपत्रच्छटायाः दिशः मृगनाभिशोभि तमः सुमेरुप्रदक्षिणात् भास्वदनाद्दतस्य गिरीणां पत्युः अयशः।
जीवातु–पत्युरिति। चैत्ररथं कुवेरवनं तदेवान्यन्नाम यस्यास्तादृशी पत्रच्छटा पत्रवल्ली यस्याश्चैरथाख्यवनरूपपत्रवल्लीकाया उत्तरस्याः दिशो मृगनाभिः पत्रवल्लीरचनासाधनभूता कस्तूरी तद्वच्छोभते एवंशीलं कृष्णतमं तमो, गिरीणां पत्युर्हिमाचलस्यायश एव। यतुः–सुमेरोः प्रदक्षिणीकरणाद्भास्वता सूर्येणानादृतस्यावज्ञातस्य। हिमाद्रिर्यद्यपि गिरीणां पतिः, तथापि सूर्यानाद्दतत्वाद्धीन एव, मेरुरेव महान्। `अस्योद्यानां चैत्ररयम्’ इत्यमरः॥ 22.29 ॥
ऊर्ध्वं धृतं व्योम सहस्ररश्मेर्दिवा सहस्रेण करैरिवासीत्।
पतत्तदेवांशुमता विनेदं नेदिष्ठतामेति कुतस्तमिस्रम्॥ 22.30 ॥
अन्वयः–दिवा व्योम सहस्रेण करैः ऊर्ध्वं धृतम् इव आसीत्, तत् एव इदम्, अंशुमता विना पतत् नेदिष्ठताम् एति, तमिस्रं कुतः?
जीवातु–ऊर्ध्वमिति। तमालश्यामलं यद्व्योम दिवा हसस्ररश्मेः सहस्रसंख्यैः करैः किरणैः, अथ च,-हस्तैः ऊर्ध्वं दूरोच्चप्रदेशे धृतमिवासीत्, तन्नभ एवेदं तमालश्.यामलर्मशुमता विना सार्यसमये सूर्यविनाशाद् धारकेण तेन विनाधःपतत्सत् नेदिष्ठतामतितमां नैकठ्यमेति। तमिस्र कुतः कस्मादागतम्? अपि तु तिमिरं नाम किमपि नास्ति, किंतु निकटीभवद्‌गगनमेव तमिस्रमित्यर्थः। पतद्व्योमैव तमिस्रं कुतो भूमौ निकटतामेति? नतु तदतिरिक्तं तमोऽस्तीति वा, अन्यदपि प(त)त्कस्यचित्कराभ्यामूर्ध्वं धार्यते, तदभावेऽधः पतत्येव। नेदिष्ठताम्, अतिशायने इष्ठनि `अन्तिकबाठयोः-’ इति नेदादेशः। कुतः, पक्षे सार्वविभक्तिकस्तसिः॥ 22.30 ॥
ऊर्ध्वार्पितन्युब्जकटाहकल्पे यद्व्येम्नि दीपेन दिनाधिपेन।
न्यधायि तद्‌भूममिलद्‌गुरुत्वं भूमौ तमः कज्जलमस्खलत्किम्॥ 22.31 ॥
अन्वयः–दिनाधिपेन दीपेन ऊर्ध्वार्पितन्युब्जकटाहकल्पे व्योम्नि यत् कज्जर्ल न्यधायि, किं भूममिलद्‌गुरुत्वं तत् तमः भूमौ अस्खलत्?
जीवातु–ऊर्ध्वेति। सामर्थ्याद्विधिना ऊर्ध्वं सूर्यदीपस्यैवोपरि भागे अर्पितो न्युब्जः कज्जलधारणार्थमधोमुखो महान् कटाहः कर्परं तत्कल्पे तत्तुल्ये कृष्णतमे व्योम्नि अधिकरणे प्रकाषताकिणा कज्जलधारणार्थेन दिनाधिपेनैव दीपेन करणेन यत्कज्जलं न्यधायि न्यस्तम्, तत्कज्जलमेव तमो भूम्ना क्रमसंजातबाहुल्येन कृत्वा मिलद् युक्तं पतनाख्यकर्मकारणं गुरुत्वं यस्य तादृशं सद्‌भूमावस्खलत् किम्, अतिभारेण पतितं किम्? गुरुत्वाद्धि पतनं युक्तं,तत्कज्जलमेव भूमौ पतितं किम्? अपि तु तमो नाम न किंचिदित्यर्थ इति वा। कज्जलमपि कर्परे धृतं क्रमेण बहु भवद्‌गुरुत्वादधः पतति। `कटाहः कर्परे तथा’ इति निघण्दुः। ईषदसमाप्तौ कल्पप्॥ 22.31 ॥
ध्वान्तैणनाभ्या शितिनाम्बरेण दिशः शरैः सूनशरस्य तारैः।
मन्दाक्षलक्ष्या निशि मामनिन्दौ सेर्ष्या भवायान्त्यभिसारिकाभाः॥ 22.32 ॥
अन्वयः–सेर्ष्या भव, ध्वान्तैणानाभ्या शितिना अम्वरेण तारैः सूनशरस्य शरैः मन्दाक्षलक्ष्याः अभिसारिकाभाः दिशः अनिन्दौ निशि माम् आयान्ति।
जीवातु–ध्वान्तेति। ध्वान्तेनैवैणनाभ्या कस्तूर्या तथा,-शितिना नीलेनाम्बरेण गगनेन, अथ च,-वस्त्रेण; यद्वा,–ध्वान्तैणनाभ्या कृत्वा नीलेन गगनेनोपलक्षिताः। तथा,-निशितत्वात्पुष्पतुल्यरूपत्वाच्चोज्ज्वलैः तारैर्नक्षत्रैरेव सूनशरस्य कामस्य शरैरुपलक्षिताः, अथ च,-तारैरुज्ज्वलैः पुष्पैरुपलक्षिताः। तथा,-विषयभूताः सलज्जाः। अत एवाभिसारिकाभाः स्वैरिणीतुल्या दिशोऽनिन्दौ चन्द्ररहितायामनुदितचन्द्रत्वाच्च्यामायां निशि मामायान्ति प्रत्यागच्छन्ति। तस्मात्सपत्नीभ्रान्त्या त्वं सेर्ष्या भव। अभिसारिका अपि शुभ्रायां रात्रौ शुभ्रवस्त्राद्याभरणाः, कृष्णायां च रात्रौ कृष्णवस्त्राद्याभरणाः समायान्ति, ता अपि कन्तूरीकृताङ्गरागा नीलवसनाः प्रच्छन्नधृतपूष्पाः, कामबाणपीडिताः सलज्जाः सत्याः कामुकं प्रति समायान्ति, तदीयनायिका च सेर्ष्या भवति, तथा दिशोऽपीत्यर्थः। सर्वा अपि दिश एकत्र मिलिता इति प्रतीतिः। तिर्यग्व्यापि तमो वर्णितमनेन। `कान्तार्थिनी तु या याति संकेतं साभिसारिका’ इति। `मन्दाक्षमन्दाः’ इति पाठे मन्दनयनानामल्पद्दश्यास्तमोबाहुल्यात्। अथ च,-तमोबाहुल्यान्मन्दाक्ष्यः, अत एव मन्दगमना इत्यर्थः।`तार’शब्दः पूर्ववत्। मन्दाक्षेति पुवद्भावः॥ 22.32 ॥
भास्वन्मयीं मीलयतो दृशं द्राङ्मिथोमिलद्‌द्व्यञ्चलमादिपुंसः।
आचक्ष्महे तन्वि! तमांसि पक्ष्य श्यामत्वलक्ष्मीविजितेन्दुलक्ष्म॥ 22.33 ॥
अन्वयः–तन्वि, भास्वन्मयीं दृशं द्राक् मीलयतः आदिपुंसः मिथोमिलद्‌द्‌व्यञ्चलं श्यामत्वलक्ष्मीविजितेन्दुलक्ष्म पक्ष्म तमांसि आचक्ष्महे।
जीवातु–भास्वदिति। हे तन्वि कृशाङ्गि! भास्वन्मयीं रविरूपां दक्षिणां दृशमस्तमयव्याजेन द्राक् शीघ्रं मीलयतः संकोचयत आदिपंसः श्रीविष्णोर्मिथोऽन्योन्यं मिलन्तौ द्वावप्यञ्चलावूर्ध्वाधःपुठे यस्य निमीलनवशादन्योन्यसंलग्नपुटत्वान्निबिडरोमकम्, अत एव श्यामत्वलक्ष्म्या विजितं नितरां पराभूतमिन्दुलक्ष्म येन तादृशं पक्ष्म नेत्रसंबन्ध्यूर्ध्वाधः पुटपत्रीभूतरोमाण्येव तमांसि वयमाचक्ष्महे ब्रूमः, नतु ततोऽन्यानि तमांसीत्यर्थः। तिमिरव्याप्तत्वात्किमपि न दृश्यत इति भावः। `पक्ष्म’ इति जात्येकवचनम्॥ 22.33 ॥
विवस्वतानायिषतेव मिश्राः स्वगोसहस्रेण समं जनानाम्।
गावोऽपि नेत्रापरनामधेयास्तेनेदमान्ध्यं खलु नान्धकारैः॥ 22.34 ॥
अन्वयः–विवस्वता नेत्रापरनामधेयाः जनानां गावः अपि स्वगोसहस्रेण समं मिश्राः अनायिषत इव, तेन खलु इदम् आन्ध्यम्, अन्धकारैः न।
जीवातु–विवस्वतेति। विवस्वता नेत्रमित्यपरं नामधेयं यासां ताश्चक्षूरूपा जनानां गावोऽपि स्वस्य गावं किरणानां सहस्रेण समं सह मिश्रा दिने मिलिताः सत्योऽनायिषतेव नीता इव। यस्मात्तेन खलु तेनैवेदमान्ध्यं प्रकाशाभावन्नेत्रापगमाच्च रूपाग्रहणं, नत्वन्धकारैः कृत्वेदमान्ध्यम्। तमोवशात्किमपि न दृश्यत इति भावः। अन्येनापि गोपालेन स्वगोसहस्रेण मिश्रिताः मिश्रिताः परेषामपि गावो नीयन्त इति॥ 22.34 ॥
ध्वान्तस्य वामोरु! विचारणायां वैशेषिकं चारुमतं मतं मे।
औलूकमाहुः खलु दर्शनं तत्क्षमं तमस्तत्त्वनिरूपणाय॥ 22.35 ॥
अन्वयः–वामोरु, ध्वान्तस्य विचारणायां वैशेषिकं मतं मे चारु मतम्, खलु तमस्तत्त्वनिरूपणाय क्षमं तत् दर्शनम् औलूकम् आहुः।
जीवातु–ध्वान्तस्येति। हे वामोरु अतिसुन्दरोरु! ध्वान्तस्य विचारणायां तमःस्वरूपनिरूपणविषये वैशेषिकं मतं षट्पदार्थसाधर्म्यवैधर्म्यनिरूपणात्मकं काणादं दर्शनं चारु सदुपपत्तिकं, नत्वन्यदिति मे मतं संमतम्। खलु यस्मात्कारणात् (संप्रदायविदः) तद्दर्शनं वैशेषिकं शास्त्रं औलूकमाहुर्वदन्ति। अत एव तमसस्तत्त्वनिरूपणायानारोपितस्वरूपनिरूपणाय क्षमं समर्थम्। उलूकस्य धूकस्य संबन्धि दृश्यतेऽनेनेति दर्शनं नेत्रं हि तमस्यपि घटपटादिस्वरूपाणां याथात्मयदर्शने समर्थ भवति। वैशेषिकमप्युलूकापरनाम्ना कणादमुनिना प्रोक्तमित्यौलूकं दर्शनम्। ततश्चैतदपि तमस्तत्त्वनिरूपणाय समर्थमिति युक्तमित्यर्थ इति शब्दच्छलम्। वैशेषिकदर्शने च `किमिदं’ तमो भावरूपम् अभावरूपं वा? इति संदेहे `भासामभाव एव तमः’ इति सूत्राविरोधेन व्योमशिवाचार्यदयः षट्‌पदार्थवैधर्म्येणाभावरूपमेव तमो न्यरूपयन्। श्रीधराचार्यास्तु-`आरोपितं भूरूपमेव तमः’ इति निर्वर्ण्य `भासामभावे सत्येव तमःप्रतीतेर्भाभाव एव तमः’ इत्युक्तमिति सूत्रविरोधं पर्यहार्षुः। एतदसहमानाः श्रीमदुदयनाचार्यादयः पुनर्भासामभावमेव तमस्त्वेन निरणैषुः। यस्मात्तदौलूकं दर्शनं वैशेषइकादिशास्त्रं तमस्तत्त्वनिरूपणायां क्षमं समर्थमाहुरिति वान्ावयः। महत्यन्धकारे सत्यपि घटादिपदार्थजातं को वा पश्यतीति ध्वान्तनिरूपणायां क्रियमाणायां घूकनेत्रमेव चारु सर्वेभ्योऽप्यधिकमिति मम मतं मतं पुनः पुनः संमतमित्यर्थः। उलूकनेत्रमेव महान्धकारे घटादि विलोकयितुं समर्थम्। अन्यदीयनेत्राणां त्वान्ध्यमेव जातमिति भावः। यतो वैशेषिकं घटादीन्विशेषान्वेत्ति तादृशाम्। महान्धकारे घूकनेत्रमेव घटादीन्भेदेन जानाति, न त्वन्यदीयं नेत्रम्, तस्मात्तदेव चार्विति। तत्र वृद्धसंमत्यर्थमुत्तरार्धम्। उलूकवृत्त्या कणानत्तीतनि कणादः, तस्य कणादस्यैवोलूक इति नाम, तेन प्रोक्तत्वादौलूकम्। `वामं सख्ये प्रतीपे च द्रविणे चातिसुन्दरे’ इति विश्वः। वामोरु, `संहितशफ-’ इत्यादिनोङि नदीत्वाद्‌ध्रस्वः। औलूकम्, `तेन प्रोक्तम्’ इत्यण। ण्क्षे `तस्येदम्’ इति॥ 22.35 ॥
म्लानिस्पृशः स्पर्शनिषेधभूमेः सेयं त्रिशङ्कोरिव संपदस्य।
न किंचिदन्यत्प्रति कौशिकीये दृशौ विहाय प्रियमातनोति॥ 22.36 ॥
अन्वयः–म्लानिसुपृशः स्वर्शनिषेधभूमेः त्रिशङ्कोः इव अस्य सम्पत् कौशिकीये दृशौ विहाय किञ्चित् अन्यत् प्रति प्रियं न आतनोति।
जीवातु–म्लानीति। म्लानिस्पृशः कालिमस्पर्शिनः श्यामस्य, अथ च,-चण्डालत्वान्मालिन्ययुक्तस्य निःश्रीकस्य। तथा,-अभावरूपत्वात् स्पर्शगुणनिषेधस्य भूमेः स्थानस्य, अथ च,-चण्डालत्वादेवास्पृश्यस्यास्य तमसः राज्ञस्त्रिशङ्कोरिव सेयं प्रसिद्धा प्रत्यक्षेण गृह्यमाणा च संपत् बाहुल्येन स्वरूपलाभः, अथ च,-राज्यसमृद्धि कौशिकीये औलूके, अथ च,-वैश्वामित्रे दृशौ नेत्रे विहायान्यत्किंचित्प्रति अपरं किमपि वस्तु लक्ष्यीकृत्य प्रियं हितं नातनोति करोति, किंतु तदीये एव नेत्रे लक्ष्यीकृत्य हितं करोति। अन्यत्प्रति किंचिदल्पमपि प्रियं नातनोतीति वा, अन्धकारे ह्युलूकनेत्रे एव पदार्थान्पश्यत् इति तत्संपत्तयोः प्रिया। त्रिशङ्कोश्च संपद्विश्वामित्रस्यैव नेत्रयोः प्रिया, नान्यस्य। एतदुपाख्यानं रामायणादौ प्रसिद्धम्। कौशिकीये, `वृद्धाच्छः’॥ 22.36 ॥
मूर्धाभिषिक्तः खलु यो ग्रहाणां यद्भासमास्कन्दितऋक्षशोभम्।
दिवान्धकारं सफुटलब्धरूपमालोकतालोकमुलूकलोकः॥ 22.37 ॥
अन्वय–यः खलु ग्रहाणां मूर्धाभिषिक्तः, यद्‌भासमास्कन्दितऋक्षशोर्भ स्फुटलब्धरूपं दिवा उलूकलोकः अन्धकारम्, आलोकत, अन्धकारम् आलोकम्।
जीवातु–मूर्धेति। यो रविः नवानां ग्रहाणां मध्ये खलु निश्चितं मूर्धाभिषिक्तो राजा। उलूकानां लोकः सङ्घस्तस्य रवेर्भया दीप्त्या समास्कन्दिता नितरां पराभूता ऋक्षशोभा नक्षत्रकान्तिर्यस्मिस्तत्। तथा,-स्फुटमुपलब्धानि अन्येन जनेन दृष्टानि घटादिस्वरूपाणि यस्मिंस्तादृशमपि दिवा कर्मीभूतं दिनमन्धकारमेवालोकत। दिने तस्य दर्शनाशक्तेर्दिनमन्धकाररूपत्वेनैव मेने इत्यर्थः। तथा,-व्यक्तं लब्धानि घटादिरूपाणि यत्र तादृशमन्धकारमेवालोकमपश्यद्दर्शनसहकारिप्रकाशरूपत्वेनैव मेने। (अर्थाद्रात्रावित्यर्थः।)अन्धकारं स्फुटलब्धरूपमित्यावृत्त्या योज्यम्। तेन तमसा विपरीतदृश एव भवन्तीति व्यज्येत। एवं विधमन्धकारं च स्फुटमतिप्रसिद्धं शुक्लभास्वरात्मकं लब्धं रूपं येन तादृशमालोकमेवापश्यत। कृष्णरूपमपि तमः शुक्लभास्वरालोकत्वेनापश्यदिति विरुद्धमित्यर्थः। अथ च,-यो ग्रहराजः सूर्यः, आक्रान्तनक्षत्रलक्ष्मीकां तद्भासं सूर्यदीप्तिमेवायमुलूकलोको दिवा दिनेऽन्धकारमपश्यत्। रात्रौ चान्धकारमालोकमपश्यत्; दिने सूर्यालोक एव तमः, रात्रौ च तम एव सूर्यालोक इति ददर्शेत्यर्थः। कीदृशीं तद्भासम्? कीद्दशमन्धकारम्? स्फुटमुपलब्धानि घटादिरूपाणि यस्यामन्यजनेन तादृशीम्, स्फुटं संजातर्वरूपलाभं चेत्यन्धकारस्य नपुंसकत्वान्नपुंसकैकशेषैकवद्भावेन वा व्याख्येयम्। सूर्यदीप्त्याऽसमास्कन्दिताऽपराभूता नक्षत्रलक्ष्मीर्यत्र तम्, अन्धकारविशेषणं वा। रात्रौ सूर्यदीप्तेरभावादतिरस्कृतनक्षत्रशोभामित्यर्थः। सूर्यदीप्तेरेव समास्कन्दनसामर्थ्यात्तमसैव रात्रौ यत्तिरस्करणं तेन नक्षत्रशोभा यस्मिन्निति वा इत्यादिव्याख्यानानि ज्ञातव्यानि। `लक्ष्मोम्’ इति पाठे-नदीत्वेऽपि समासान्तविधेरनित्यत्वात्कबभावः। `मूर्धाभिषिक्तो राजन्यः’ `अन्धकारोऽस्त्रियाम्’ इत्यमरः॥ 22.37 ॥
दिने मम द्वेषिणि कीदृगेषां प्रचार इत्याकलनाय चारीः।
छाया विधाय प्रतिवस्तुलग्नाः प्रावेशयत्प्रष्टुमिवान्धकारः॥ 22.38 ॥
अन्वयः–मम द्वेषिणी दिने एषां कीदृक् प्रचारः-इति आकलनाय अन्धकारः प्रतिवस्तुलग्नाः छायाः चारिः विधाय प्रष्टुम् इव प्रावेशयत्।
जीवातु–दिन इति। अन्धकार इत्याकलनाय सामस्त्येन ज्ञानार्थ प्रतिवस्तुलग्नाः पदार्थमात्रसंबद्धाः प्रतिच्छया एव चारीर्गूढार्थवेदिकाश्चारनारीः विधाय चारपदं ताभ्यो दत्त्वा दिनं प्रति संप्रेष्य समागतास्तास्तत्रत्यवृत्तान्तं प्रष्टुमिव पुनः प्रावेशयत्। निजनैकठ्यमित्यर्थात्। इति किम्? ममान्धकारस्य द्वेषिणि मामसहमाने दिने विषये एषां वस्तूनां कीदृक् प्रचारो विहरणं स्नेहादिव्यवहराश्चेति। दिवा प्रतिपदार्थसंबद्धाच्छाया एव रात्रौ समागत्य मिलिता निजस्वामिनमन्धकारं प्राविशत्। रात्रौ हि प्रकाशाभावे छाया अन्धकारेण सहैकीभवतीति तत्संबन्धादेव महानन्धकारः प्रतीयत इति भावः। एतेन प्रतिच्छायापि तम एवेति वर्णितम्। अन्योऽपि रात्रौ लोकस्थितिं ज्ञातुकामः स्त्रीणां सर्वत्र प्रवेषअटुं शक्यत्वाच्चारनारीः संप्रेष्य तत्रत्यं वृत्तान्तं समागतास्ताः प्रष्टुमात्मसविधं प्रवेशयति। छाया एव चारीः प्रतिवस्तुलग्ना विधायेति वा। चारपदं दत्त्वा पदिनः प्रत्येकं प्रेषयामास। अत एव ता दिने प्रतिवस्तुलग्ना दृश्यन्त इति वा। चजारीः, पुंयोगान्ङीष्॥ 22.38 ॥
इदानीं चन्द्रोदयं वर्णयितुमुपक्रमते-
ध्वान्तस्य तेन क्रियमाणयेत्थं द्विषः शशी वर्णनयाऽथ रुष्टः।
उद्यन्नुपाश्लोकि जपारुणश्रीर्नराधिपेनानुनयेच्छयेव॥ 22.39 ॥
अन्वयः–अथ तेन नराधिपेन इत्थं क्रियमाणया द्विषः ध्वान्तस्य वर्णनया रुष्टः जपारुणश्रीः उद्यन्, शशी अनुनयेच्छया इव उपाश्लोकि।
जीवातु–ध्वान्तस्येति। तेन नराधिपेन नलेन इत्थं क्रियमाणया द्विषः शत्रुभूतस्य ध्वान्तस्य वर्णनया रुष्टः क्रुद्ध इव जपाकुसुमवदरुणा श्रीर्यस्य स उद्यन्नुदयं प्राप्नुवन् शशी तेनैव राज्ञाथानन्तरमनुनयेच्छयेव प्रसादनवाञ्छयेवौपाश्लोकि श्लोकैः स्तोतुमारम्भि। अन्योऽपि वैरिवर्णनया रुष्टः सन्नरुणो भवति, यत्परिहारार्थमुदितः सन् वर्णकेन प्रसादनार्थ स्तूयते। प्रतीयमानोत्प्रेक्षा। `इव’शब्दस्योभययोजना वा। उपाश्लोकि, `सत्या-’ इति णिजन्तात्कर्मणि चिण्॥ 22.39 ॥
पश्यावृतोऽप्येष निमेषमद्रेरधित्यकाभूमितिरस्करिण्या।
प्रवर्षति प्रेयसि! चन्द्रिकाभिश्चकोरचञ्चूचुलुकप्रमिन्दुः॥ 22.40 ॥
अन्वयः–प्रेयसि, पश्य-अद्रेः अधित्यकाभूमितिरस्करिण्या निमेषम् आवृतः अपि एषः इन्दुः चन्द्रिकाभिः चकोरचञ्चूचुलुकप्रं प्रवर्षति।
जीवातु–पश्येति। हे प्रेयसि प्राणप्रिये! एष इन्दुश्चन्द्रिकाभिश्चकोराणां चन्द्रिकास्रवदमृतपायिनां पक्षिणां चञ्च्व एव चुलुकास्तान्पूरयित्वा प्रकर्षेण वर्षति सुधामित्यर्थात्। यावता चकोरचञ्चूपूरणं भवति तावत्प्रमाणं वर्षतीत्यर्थः। त्वं पश्य। किंभूतः? अद्रेरुदयाचलस्याधित्यकाभूम्योर्ध्वशिखरेणैव तिरस्करिण्या जवनिकया निमेषलक्षणमत्यल्पकालमावृतोऽपि सन्। संपूर्णानुदितोऽपि प्रथमचन्द्रिकाभिरेव चकोराणामानन्दं करोति, किं पुनरुदितः सन्निति भावः। अन्योऽप्युकारी दूरस्थोऽप्युदयोन्मुखोऽन्येषामुपकरोति। चुलुकप्रम्,`वर्षप्रमाणे–’ इत्यादिना पूरेर्णमुल्, ऊकारलोपश्च॥ 22.40 ॥
ध्वान्ते द्रुमान्तानभिसारिकास्त्वं शङ्कस्व सङ्केतनिकेतमाप्ताः।
छायाच्छलादुज्झितनीलचेला ज्योत्स्नाऽनुकूलैश्चलिता दुकूलैः॥ 22.41 ॥
अन्वयः–त्वं ध्वान्ते द्रुमान्तान् सङ्केतनिकेतम् प्राप्ताः अभिसारिकाः छायाच्छलात् उज्झितनीलचैलाः ज्योत्स्नानुकूलैः दुकूलैः चलिताः शङ्कस्व।
जीवातु–ध्वान्त इति। हे प्रिये! त्वं चन्द्रोदयात्पूर्वं ध्वान्ते सति द्रुमान्तान् तरुनिकटदेशानेव वृक्षाधोभागानेव संभोगार्थं कामुकदत्तं संकेतनिकेतमाप्ताः प्राप्ता अभिसारिकाः स्वैरिणीः शङ्कस्व संभावय। तथा,-इदानीं चन्द्रोदये सति वृक्षाधोभागवर्तिछायाच्छलादुज्झितं पूर्वं धृतं तमोनुकूलं नीलं चेलं वस्त्रं याभिस्तादृशोः सतीः सवर्णत्वाज्ज्योत्स्नानुकूलैश्चन्द्रिकानुगुणैर्धवलतरैर्दुकूलैरुपलक्षिताः सतीश्चलिताः संभोगं कृत्वा स्वगृहं प्रति पुनः परावृत्तास्त्वं संभावय। तमसि सत्येव केनापि न ज्ञातव्यमिति बुद्ध्या नीलं वस्त्रं परिधाय संकेतस्थानमागताः, चन्द्रोदये पुननीलवस्त्रपरिधाने पूर्ववद्भीत्या तत्तत्रैव विहाय श्वेतं दुकूलं सवर्णत्वात्परिधाय परावृत्ताः केनापि न ज्ञाताः। `नीलचोलाः-’ इति पाठेचोलः कूर्पासः॥ 22.41 ॥
त्वदास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीमादयमानमिन्दुम्।
दृशा निशेन्दीवरचारुभासा पिबोरु रम्भातरुपीवरोरु!॥ 22.42 ॥
अन्वयः–रम्भातरुपीवरोरु, त्वदास्यलक्ष्मीमुकुरं चकोरैः स्वकौमुदीम् आदयमानम् इन्दुं निशेन्दीवरचारुभासा दृशा उरु पिब।
जीवातु–तदिति। हे रम्भातरुवदतिपीवरावूरु यस्यास्तत्संबुद्धिः, त्वं निशायामिन्दीवरं नीलोत्पलं तद्वच्चार्वी भा यस्यास्तया दृशा उरु सादरमिन्दुबिम्बं विलोकय। किंभूतम्? तवास्यलक्ष्म्या मुखशोभाया अवलोकनार्थं मुकुरं दर्पणमिव। तथा,-चकोरः प्रयोज्यैः कौमुदीमादयमानं निजकौमुदी चकोरान् पाययमानम्। उदिते चन्द्रे चकोराः सानन्दा जाताः, नीलोत्पलानि च विकसितानीति भावः। एतेनेन्दोः परोपकारित्वं सूचितम्। विकसितेन्दीवरतुल्यया दृशा पिबेत्यनेन चन्द्रोदये हीन्दीवरं विकसति, त्वं चैवभूतया दृशा यदा चन्द्रमवलोकयिष्यसि, (तदा) जनस्त्वद्‌दृशं चन्द्रावलोकनविकसितमिन्दीवरमेवैतदिति ज्ञास्यतोति सूचितम्। दिवा संकोचादसप्दृश्यमितीन्दीवरस्य विकसितत्वद्योतनार्थं `निशा’ पदम्‌। चकरोः, `गतिबुद्धि-’ इति कर्मत्वप्राप्तावप `आदिखाद्योर्न’ इति प्रतिषेधात्कर्तरि तृतीया। आदयमानं, निगरणार्थत्वात्परस्मैपदप्राप्तवपि `अदेः प्रतिषेधो वक्तव्यः’ इति निषेधात् `निषेधात् `णिचश्च’ इति तङ्॥ 22.42 ॥
असंशयं सागरभागुदस्तात् पृथ्वीधरादेव मथः पुराऽयम्।
अमुष्य यस्मादधुनाऽपि सिन्धौ स्थितस्य शैलादुदयं प्रतीमः॥ 22.43 ॥
अन्वयः–पुरा सागरभाक् अयं मथः पृथ्वीधरात् एव असंशयम् उदस्थात्, यस्मात् अधुना अपि सिन्धौ स्थितस्य अमुष्य शैलात् उदयं प्रतीमः।
जीवातु–असंशयमिति। पुरा पूर्वं सागरभाक् समुद्रगर्भस्थोऽयं चन्द्रः मथो दण्डभूतात्पृथ्वोधरात्पर्वतान्मन्गदराद्रेरेव हेतोरुदस्थादुत्पन्न इति असंशयं निश्रितम्। पुराणादौ यदेवं श्रूयते तत्सत्यमित्यर्थः। पुरा उदस्थात्प्रथमसंभवावसरे तस्मादेव समुत्थित इति वा। तव हेतुमाह-यस्माद्धेतोरधुनापि संभवान्तरावसरेऽपि सिन्धौ स्थितलस्य सागरगर्भस्थस्याप्यमुष्य चन्द्रस्य शैलादुदयाचलादेवोदयमुत्पत्ति प्रतीमो जानीमः। प्रत्यहं सागरस्थस्याप्यस्याचलोत्पत्तिशीलत्वरूपलिङ्गदर्शनात्समुद्रमथने प्रथमसंभवावसरेऽप्ययम चलादेवोत्पन्न इति निश्चिनुम इत्यर्थः। उदयाचलशिखरं चन्द्रोऽतिक्रामतीति भावः॥ 22.43 ॥
निजानुजेनातिथितामुपेतः प्राचीपतेर्वाहनवारणेन।
सिन्दूरसान्द्रे किमकारि मूर्ध्नि तेनारुणश्रीरयमुज्जिहीते॥ 22.44 ॥
अन्वयः–किं निजानुजेन प्राचीपतेः वाहनवारणेन अतिथिताम् उपेतः अर्य सिन्दूरसान्द्रे मूर्ध्नि अकारि तेन अरुणाश्रीः उज्जिहीते।
जीवातु–निजेति। निजानुजेन एकस्मात्सिन्धोरुत्पन्नतयाऽस्माच्छन्द्रात् पश्चाज्जातेन कनीयसा भ्रात्रा प्राचीपतेरिन्द्रस्य वाहनवारणेन प्राच्यां स्थितेनैरावतेनातिथितामुपेतः प्राप्तः। प्राच्यामुदितत्वात्तत्सविधं प्राप्तः सन्नयं चन्द्रोऽग्रजत्वात्सिन्दूरेण सान्द्रे मूर्ध्नि अकारि कृतः किम्? गौरवान्नमस्कारपूर्वं शिरस्यारोपितः किमित्यर्थः। तेन सान्द्रसिन्दूरशिरःस्थापनेन हेतुना लग्नसिन्दूरवशादयमरुणश्रीरारक्तशोभः उज्जिहीते उदति, उज्जिहीते किमिति वा। उदितश्चन्द्रः सिन्दूररक्तो दृश्यत इत्यर्थः॥ 22.44 ॥
यत्प्रीतिमद्भिर्वदनैः स्वसाम्यादचुम्बि नाकाधिपनायिकानाम्।
ततस्तदीयाधरयावयोगादुदेति बिम्बारुणबिम्ब एषः॥ 22.45 ॥
अन्वयः–स्वसाम्यात् नाकाधिपनायिकानां प्रीतिमद्भिः वदनैः यत् अचुम्बि ततः तदीयाधरयावयोगात् एषः, बिम्बारुणबिम्बः उदेति।
जीवातु–यदिति। वृत्तत्वादिगुणयोगेन स्वसाम्यात्प्रीतिमद्भिर्नाकाधिपस्येन्द्रस्य नायिकानां वदनैर्यद्यस्मात्स्वसविधमागत एष चन्द्रोऽचुम्बि चुम्बितः, तस्माद्वेतोस्तस्माच्चुम्बनाद्वा तदीयानां देवेन्द्रनायिकानामधरेषु न्यस्तो यावोऽलक्तकस्तस्य योगात्संबन्धाद्धेतोर्बिम्बवत्पक्वबिम्बीफलवदरुणं बिम्बं मण्डलं यस्य तादृश उदेति। अन्योऽपि समानः सखा सविधमागतः सन् सख्या प्रीत्या चुम्ब्यसे। `मुखैः’इति बहुवचनेन तत्र प्रदेशे युगपदेव चुम्बनाद्वहुलयावकयोगात्सकलस्यापि चन्द्रबिम्बस्य रक्तत्वं युक्तमिति सूचितम्॥ 22.45 ॥
विलोमिताङ्कोत्किरणाद् दुरूहदृगादिना दृश्यविलोचनादि।
विधिर्विधत्ते विधुना वधूनां किमाननं काञ्चनसञ्चकेन?॥ 22.46 ॥
अन्वयः–किं विधिः विलोमिताङ्कोत्किरणात् दुरुहदृगादिना विधुना काञ्चनसञ्चकेन दृश्यविलोचनादि वधूनाम् आननं विधत्ते?
जीवातु–विलोमितेति। विधिर्ब्रह्मा विधुना चन्द्रेणैव काञ्चनस्य सञ्चकेन बिम्बकेन कृत्वा बधूनामतिरमणीयमाननं विधत्ते किम्। यतः किंभूतेन? विलोमितः पराङ्मुखः कृतः स्वप्रभया जितः अङ्कः कलङ्को येन तादृशादुत्कृष्टादतितेजस्विनः किरणाद्धेतोर्दुरूहो दुस्तर्क्यो दृगादिर्नेत्राद्यवयवो यस्य, अथ च,-विपरीतीकृतानामङ्कानां नेत्रादिनिर्माणार्थं निम्मोन्नतांशचिह्नस्थानानामुत्किरणं संघटनं तस्माद्धेतोः साक्षादलक्ष्यनेत्रकर्णनासिकाद्यवयवेन। आननं तु साक्षाद्‌दृश्या विलोचननासाकर्णाद्यवयवा यस्य तादृशम्। तस्माद् ब्रह्मा स्त्रीमुखं चन्द्ररूपेण स्वर्णस्य सञ्चकेन निर्मम। सञ्चके हि निष्पाद्यस्य वस्तुनो निम्नोन्नतभागा विपरीता एवोत्कीर्यन्ते। तत्र च नेत्राद्यवयवा दुर्ज्ञेया भवन्ति, तन्निर्मिते मुखादौ च दृश्या भवन्ति, तस्मादेवं तर्क्यत इत्यर्थः। उदितमात्रश्चन्द्रोऽत्युत्तमसुवर्णसञ्चकवद्रक्तो दृश्यत इति भावः। उत्तमं सुवर्णं रक्तवर्णं भवति। `आननम्’ इति जात्येकवचनम्॥ 22.46 ॥
अनेन वेधा विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन।
त्वदाननं दृश्यदृगाद्यलक्ष्यदृगादिनैवाकृत सञ्चकेन॥ 22.46.क ॥
अन्वयः–वेधाः विपरीतरूपविनिर्मिताङ्कोत्किरणाङ्गकेन अलक्ष्यदृगादिना अनेन सञ्चकेन एव दृश्यदृगादि त्वदाननम् अकृत।
जीवातु–अनेनेति। वेधाः विपरीतरूपं यथा तथा विनिर्मितमुक्तविधमङ्कोत्किरणं यत्र तादृशमङ्गं यस्य। तेन। तथा,-अलक्ष्यदृगादिनानेन चन्द्रेणैव सञ्चकेन दृश्यं सुन्दरतरम्, अथ च,–प्रत्यक्षदर्शनयोग्यं दृगादि यस्य तादृशं त्वदाननमकृत। त्वदाननमेवाकृत न त्वन्याननमिति वा। अयमेवात्र श्लोके विशेषः। अयं श्लोकः क्षेपकः॥ 22.46.क ॥
अस्याः सुराधीशदिशः पुराऽसीत् यदम्बरं पीतमिदं रजन्या।
चन्द्रांशुचूर्णव्यतिचुम्बितेन तेनाधुना नूनमलोहितायि॥ 22.47 ॥
अन्वयः–अस्याः सुराधीशदिशः यत् इदम् अम्बरं पुरा पीतम् आसीत् चंद्रांशुचूर्णव्यतिचुम्बितेन तेन अधुना नूनम् अलोहितायि।
जीवातु–अस्या इति। हे भैमी! अस्याः सुराधीशस्येन्द्रस्य दिशः यदिदमम्बरं गगनं वस्त्रं च पुरा चन्द्रोदयात् पूर्वं रजन्या रात्र्या हरिद्रया च पीतं तमोव्याप्तत्वाददृश्यं पीतवर्मं चासीत्, तेनाम्बरेण गगनेन वस्त्रेण चाधुना चन्द्रोदये चन्द्रांशूनां चूर्णैः श्लक्ष्णसूक्ष्मतेजोलेशैः कर्तृभिर्व्यतिचुम्बितेनातितरां स्पृष्टेन सता चन्द्रांशुवच्छुभ्रतरेण चूर्णेन ताम्बूलसाधनचूर्णद्रव्येण स्पृष्टेन सता नूनमलोहितायि आरक्तीभूतम्। हरिद्रया पीतवर्ण वस्त्रं चूर्णेन युक्तं सद्रक्तं भवति। देवेन्द्रस्त्रियाश्च वस्त्राणि नानावर्णानि युक्तानि। चन्द्रांशव एव चूर्ममिति वा। अलोहितायि, लोहितादिक्यषन्ताद्भवे चिण्॥ 22.47 ॥
तानीव गत्वा पितृलोकमेनमरञ्जयन् यानि स जामदग्न्यः।
छित्त्वा शिरोऽस्राणि सहस्रबाहोर्विस्राणि विश्राणितवान् पितृभ्यः॥ 22.48 ॥
अन्वयः–सः जामदग्न्यः सहस्रबाहोः शिरः छित्त्वा विस्राणि यानि अस्राणि पितृभ्यः विश्राणितवान् तानि एव पितृलोकं गत्वा एनम् अरञ्जयन्।
जीवातु–तानीति। सोऽतिवीरो जामदग्न्यः सहस्रबाहोः शिरश्छित्त्वा विस्राण्यामगन्धीनि यान्यस्राणि रक्तानि पितृभ्यो जमदग्न्यादिभ्यो विश्राणितवान्दत्तवान्। यै रक्तैः प्रतिज्ञातं पितृतर्पणं कृतवान्। तान्येव रक्तनि मन्त्रबलात्पितृलोकं गत्वा प्राप्य पितृलोकाधीन(श)मेनं चन्द्रमरञ्जयन् रक्तं चक्रुरिव। `चन्द्रो वै पितृलोकः’ इति श्रुतेः। चन्द्रो रक्तवर्मो दृश्यत इति भावः॥ परशुरामः सहस्राजु नं हत्वा तदीयै पितृतर्पणं कृतवानितीतिहासः। `विस्रं स्याढामगन्धि यत्’ इत्यमरः॥ 22.48 ॥
अकर्णनासस्त्रपते मुखं ते पश्यन्न सीतास्यमिवाभिरामम्।
रक्तोस्रवर्षी बत लक्ष्मणाभिभूतः शशी शूर्पणखामुकाभः?॥ 22.49 ॥
अन्वयः–अकर्णनासः रक्तोस्रवर्षी लक्ष्मणाभिभूतः सूर्पणखामुखाभः शशी अभिरामं सीतास्यम् इव ते मुखं पश्यन् न त्रपते बत!
जीवातु–अकर्णेति। हे प्रिये! शशी सितास्यमिवाभिरामं कर्णादिकृतशोभं ते मुखं पश्यन्सन्न त्रपते न लज्जते बत चित्रम्। किंभूतः? न विद्यते कर्णनासं स्वभावादेव यस्य सः। तथा रक्ता आरक्ता उस्राः किरणास्तद्वर्षणशीलः, शोणश्चासौ किरमवर्षी च तादृशो वा। तथा,-लक्ष्मणा कलङ्केनाभिभूत आक्रान्तमध्यः अत एव शूर्पणखाया रावणभगिन्या मुखददाभा यस्य स तद्वदनतुल्यः एषु लज्जाकारणेषु सत्स्वपि न लज्जते तिच्छित्रमित्यर्थः। त्वन्मुखं पश्यन्नप्युदयत्येव, स्वं प्रकाशयति च, तस्मादेव न लज्जते, इति ज्ञायते। अन्यो ह्यकर्णनासो लज्जते, अयं तु तादृशोऽपि न लज्जत इत्यपि चित्रमेव। शूर्पणखामुखमपि लक्ष्मणेन पराभूतं छिन्नकर्णनासत्वाद्रुधिरवर्षि सद्राममभि लक्षीकृत्य वर्तमानम्, अत एवाभि भयरहितं च, सीतामुखं पश्यदपि न लज्जते, तदनन्तरमपि प्रौढिवादप्रकटनात् `अभि’ शब्दस्यावृत्तिः कार्या। `लक्ष्म’ शब्दो नान्तः, पक्षेऽकारान्तः॥ 22.49 ॥
आदत्त दीप्रं मणिमम्बरस्य दत्त्वा यदस्मै खलु सायधूर्त्तः।
रज्यत्तुषारद्यु तिकूटहेस तत्पाण्डु जातं रजतं क्षणेन॥ 22.50 ॥
अन्वयः–सायधूर्त्तः यत् रज्यत्तुषारद्युतितिकूटहेम अस्मै दत्त्वा दीप्रम् अम्बरस्य मणिम् आदत्त तत् खलु क्षणेन पांडु रजतं जातम्।
जीवातु–आदत्तेति। हे भैमि! सायंकालरूपो धूर्तो यद रज्यन्नुदयकाले रक्तीभवंस्तुषारद्युतिश्चन्द्र एव लेपवशाद्रज्यत् कूटहेम कृत्रिमं सुवर्णमस्मै गगनाय मूल्यरूपेण दत्त्वा दीप्रं प्रकाशमानमम्बरस्य मणिं सूर्यमादत्त जग्राह। तदलीकं हेम क्षणमात्रेण पाण्डु शुभ्रं रजतं खलु रूप्यमिव जातम्। धूर्तो हि रूप्यं लेपादिभिरुपलिप्तं सुवर्णीकृत्य ददाति, वस्त्रान्तरस्थमपि प्रसरद्दीप्तिकं रत्नं च गॉह्णाति। उदयानन्तरमतिक्रान्ताकियत्कालत्वाद्रक्तिमानं परित्यज्य चन्द्रो रूप्यवद्धवलो जात इति भावः घञन्तोऽत्र `साय’शब्दः `सायं’शब्दसमानार्थः॥ 22.50 ॥
बालेन नक्तंमयेन मुक्तं रौप्यं लसड्डिम्बमिवेन्दुबिम्बम्।
भ्रमिक्रमादुज्झितपट्टसूत्रनेत्रावृतिं मुञ्चति शोणिमानम्॥ 22.51 ॥
अन्वयः–बालेन नक्तंसमयेन मुक्तं रौप्यं लसत् डिम्बम् इव इन्दुबिम्बं भ्रमिक्रमात् उज्झितट्टसूत्रनेत्रावृतिं शोणिमानं मुञ्चति।
जीवातु–बालेनेति। हे प्रिये! रौप्यं राजतं रजतमयं लसद्विलसमानं डिम्बं बालक्रीडासाधनं भ्रमरकमिवेन्दुबिम्बं कर्तृ भ्रमिक्रमाद् भ्रमणपरिपाट्या, अथ च,-ऊर्ध्वदेशगमनक्रमेणोज्झिता त्यक्ता या पट्टसूत्रस्य नेत्रं दोरकस्तत्कृता आवृतिर्वेष्टनं तद्रूपम्, अथ च,-पट्टसूत्राजालिकावत् चन्द्रावरणं येन तं शोणिमानं रक्तिमानं मुञ्चति। किंभूतमुभयम्? नक्तंसमयरूपेण बालेन अथ च,-बालेन प्रदोषरूपेण, रात्रिसमयेन मुक्तं भ्रमणार्थं करात् कृतमोचनम्, अथ च-उद्‌गीर्ण जनितोदयम्। शिशुक्रीडासाधनं हि भ्रमरकं काष्ठमयं भवति। ईश्वराणां च डिम्बं समृद्ध्यतिशयाद्राजतं पट्टसूत्रवलितदोरकस्रसनात्तत्सम्बन्धजातं रक्तिमानं मुञ्चति। तथेदं चन्द्रबिम्बमपीत्यर्थः। इदानीं चन्द्रो धवलो जात इति भावः। `नेत्रावृतेः-’ इति पाठे-भ्रमिक्रमाद्धेतोरुज्झिता या पट्टसूत्रनेत्रावृतिस्तस्य हेतोः शोणिमानं मुञ्चति। उज्झिता डिम्बेनैव पट्टसूत्रनेत्रावृतिर्यत्र तादृशात् भ्रमिक्रमाद्धेतोरिति वा डिम्बं लट्टू इति वा राष्ट्रभाषायां भ्रमरकस्य संज्ञा। राष्ट्रभाषायां च `भैवरा’ इति संज्ञा। रौप्यं संबन्धे विकारे वाण्। `नेत्रं मन्थगुणे वस्त्रे’ इत्यभिधानात् `नेत्रशब्दो’ यद्यपि मन्थवेष्टनगुणे मुख्यः तथाप्यत्र गुणमात्रपर इति ज्ञेयम्॥ 22.51 ॥
ताराक्षरैर्यामसिते कठिन्या निशाऽलिखद्व्योम्नि तमःप्रशस्तिम्।
विलुप्य तामल्पयतोऽरुणेऽपि जातः करे पाण्डुरिमा हिमांशोः॥ 22.52 ॥
अन्वयः–निशा असिते व्योम्नि कठिन्याः ताराक्षरैः यां तमःप्रशस्थिम् अलिखत् तां विलुप्य अल्पयतः हिमांशोः अरुणो करे अपि पाण्डुरिमा जातः।
जीवातु–तारेति। निशाऽसिते श्यामे व्योम्नि गगन एव कज्जलादिलिप्तश्यामलपट्टिकायां कठिन्यां कठिन्याः शुभ्रधातुविशेषस्य सम्बन्धिभिस्ताराक्षरैः शुभ्रैरक्षरैरिव नक्षत्ररूपैरक्षरैः कृत्वा यां तमःप्रशस्तिं तमोवर्मनश्लोकादिलिपिमलिखत्। ताराक्षरैरुपलक्षितां यां तमःप्रशस्तिं रात्रिः कठिन्यालिखदिति वा। तां लिपिं विलुप्य प्रोच्छ्याल्पयतः परिमेयताराक्षरां कुर्वतो हिमांशोररुणेऽपि करे किरणे, अथ च-पाणौ, पाण्डुरिमा जातः। प्ररूढकिरणे हि चन्द्रे नक्षत्राणामल्पता भवतीति। तमसि नक्षत्राणि बहून्युज्ज्वलतराणि च दृष्टानि, चन्द्रे तूदितेऽल्पानि निष्प्रभाणि च जातानि, चन्द्रश्च धवलो जात इति भावः॥ 22.52 ॥
सितो यदाऽत्रैष तदाऽन्यदेशे चकास्ति रज्यच्छविरुज्जिहानः।
तदित्थमेतस्य निधेः कलानां को वेद वा रागविरागतत्त्वम्॥ 22.53 ॥
अन्वयः–एषः यदा अत्र सितः चकास्ति तदा अन्यदेशे उदयन् रज्यच्छविः, तत् इत्थं कलानां निधेः एतस्य रागविरागतत्त्वे को वा वेद?
जीवातु–सित इति। एष चन्द्रो यदा यस्मिन्काले अत्र देशे सितो धवलश्चकास्ति, तदा तस्मिन्नेव काले अन्यदेशे रज्यच्छवी रक्तकान्तिरुज्जिहान उदयन् शोभते। एवमत्रोदयद्रक्तः, अन्यत्र च श्वेत इत्यपि सामर्थ्याल्लभ्यम्। एतद्‌देशस्थं प्रदीदानीं सितो दृश्यते, द्वीपान्तरस्थं प्रति तूदयन्निदानीमेव दृश्यते यस्मात्, तस्मात्कलानां निधेः पूर्णस्य चन्द्रस्य रागविरागयोर्लोहितत्वालोहितत्वयोस्तत्त्वं याथात्म्यमित्थममुना प्रकारेण को वा वेद, अपि तु-कोऽपि निश्चेतुं न शक्नोतीत्यर्थः। उदयास्तमययोरतात्त्विकत्वाद्व्यवहितस्य यत्र यदा प्रथमदर्शनं तदा तत्रोदय इति दूरस्थस्य प्रथमं रक्तत्वं प्रत्ययः, क्रमसामीप्यात्तु धावल्यप्रत्यय इति तत्त्वम्। अन्यस्यापि चतुःषष्ठिकलाभिज्ञस्यानुरागाननुरागयोर्याथात्म्यं कुत्रानुरक्तः कुत्र वा नेति कोऽपि न जानाति॥ 22.53 ॥
कश्मीरजै रश्मिभिरौपसन्ध्यैर्मृष्टं धृतध्वानतकुरङ्गनाभि।
चन्द्रांशुना चन्दनचारुणाऽङ्गं क्रकात् समालम्भि दिगङ्गनाभिः॥ 22.54 ॥
अन्वय—दिगङ्गनाभिः औपसन्ध्यैः रश्मिभिः कश्मीरजैः मृष्टं धृतध्वान्तकुरङ्गनाभि अंगं क्रमात् चन्द्रांशुना चन्दनचारुणा समालम्भि।
जीवातु–कश्मीरजैरिति। दिग्भिरेवाङ्गनाभिः संध्यायाः समीपमुपसन्ध्यं तत्र जातररुणे रश्मिभिरिव कश्मीरेजैः कुङ्कुमैः कृत्वा मृष्टं पूर्वं कृतोद्वर्तनं ततः संध्यायामपगतायां धृता ध्वान्तरूपा मृगनाभिः कस्तूरी येन तादृशमङ्गंक्रमात्स्तूरीलेपानन्तरं चन्द्रांशुनैव चन्दनेषु मध्ये चारुमोत्तमेन चन्दनेन कृत्वा समालम्भि अलेपि। अन्या अपि ह्यङ्गनाः कुङ्कुमादिभिः क्रमेणाङ्गमनुलिम्पन्ति। चन्दनधवलैश्चन्द्रकरैः सर्वा अपि दिशो वितमस्काः कृता इति भावः। औषसंध्यैः सामीप्येऽव्ययीभावाद्भावार्थेऽण्॥ 22.54 ॥
विधिस्तुषारर्तुदिनानि कर्तं कर्तं विनिर्माति तदन्तभित्तैः।
ज्यौत्स्नीर्न चेत्तत्प्रतिमा इमा वा कथं कथं तानि च वामनानि॥ 22.55 ॥
अन्वयः–विधिः तुषारर्तुदिनानि कर्त्तं कर्त्तं तदन्तभित्तैः ज्यौत्स्नीः विनिर्माति, न चेत् इमाः तत्प्रतिमाः कथम् तानि च वामनानि वा कथम्?
जीवातु–विधिरिति। विधिस्तुषारर्तोः शिशिरतोर्दिनानि कर्तं कर्तं छित्त्वा छित्त्वा तेषां दिनानामन्तभित्तैर्मध्यसंबन्धिभिः सारभूतैः शकलैः शुभ्रैः खण्डैः कृत्वा ज्यौत्स्नीर्निसा विनिर्माति। न चेदवं यदि नांगीक्रियते, तदेमा रात्रयश्रन्द्रिकायुक्तास्तत्प्रतिमास्तैर्दिनैस्तुल्याः शीतलत्वप्रकाशवत्त्वाभ्यां तत्सदृश्यः कथम्? तानि च दिनानि वामनानि न्यूनपरिमाणानि न्यूनशीतत्वादिगुणानि कथं वा? अपि तु-दिनवामनता रात्रिदीर्घतान्यतानुपपत्तेः शिसिरर्तुदिनापेक्षया च ज्यौत्सीनामतितमां शीतत्वप्रकाशवत्त्वानुपपत्तेश्च शिशिरर्तुदिनानि छित्त्वा छित्त्वैव तत्सारभूतैश्च शकलैश्चन्द्रिकान्विता रात्रयो ब्रह्मणा वर्धिता इत्यर्थः। चन्द्रचन्द्रिकया रात्रिः शीतला धवलतरा च कृतेति भावः। कर्तं कर्तम् `कृति छेदने’ इत्यस्मादाभीक्ष्ण्ये णमुल् द्विर्वचनं च। ज्यौत्स्नीः, ज्योतिरस्यामस्तीत्यर्थे `ज्योत्स्नातमिस्रा-‘इति साधुकृतात् `ज्योत्स्ना’-शब्दाद् अण्प्रकरणे `ज्योत्स्नादिभ्य उपसंख्यानम्’ इत्यस्त्यर्थेऽणि ङीप्॥ 22.55 ॥
इत्युक्तिशेषे स वधूं बभाषे सूक्तिश्रुतासवितनिबद्‌धमौनाम्।
मुखाभ्यसूयानुशयादिवेन्दौ केयं तव प्रेयसि! मूकमुद्रा?॥ 22.56 ॥
अन्वय–इति उक्तिशेषे स- सूक्तिश्रुतासक्तिनिबद्धमौनां वधूं बभाषेप्रेयसि, मुखाभ्यसूयानुशयात् इव इन्दौ तव इयं का मूकमुद्रा?
जीवातु–इतीति। स नलः इत्युक्तिशेषे एवं चन्द्रवर्मनावसाने सूक्तीनां प्रसादादिगुणयुक्तानां शोभनवचनानां श्रुते श्रवणे विषये आसक्त्या रसातिशयातदेकतानतया बद्धं स्वीकृतं मौनं यया तां तूष्णींभावमास्थितां वधूं भैमीं प्रतीदं बभाषे। इति किम्? हे प्रेयसि! इन्दौ विषषे तवेयं मूकस्येव मुद्रा वाग्निरोधरीतिः किंकारणिका? त्वमपि किमिति न चन्द्रं वर्णयसीत्यर्थः। मौने स्वयमेव हेतुमुत्प्रेक्षते-मुखस्य चन्द्रकृतवदनसाम्यस्याभ्यसूया स्पर्धा तज्जन्यान्महतोऽनुशयान्मनोद्वेषादिव। स्वस्पर्धाकारिणो हि वर्णनेऽन्येन क्रियमाणेऽन्योऽपि कोपात्तूष्णीं तिष्ठति, नानुमोदते, स्वय च न तं वर्णयति। तथा-त्वन्मुखस्पर्धाकरणसंजातकोपादिवेन्दुम् न वर्णयसि नानुमोदसे च किमिति प्रश्नः। नलसूक्तिश्रवणादरकृतं मौनं कोपादिवेत्युत्प्रेक्षितम्॥ 22.56 ॥
श्रृङ्गारभृङ्गारसुधाकरेण वर्णस्रजाऽनूपय कर्णकूपौ।
त्वच्चारुवाणीरसवेणितीरतृणानुकारः खलु कोषकारः॥ 22.57 ॥
अन्वय–श्रृङ्गारभृङ्गारसुधाकरेण वर्णस्रजा कर्णकूपौ अनूपय, खलु कोषकारः त्वच्चारुवाणी रसवेणितीरतृणानुकारः।
जीवातु–श्रृङ्गारेति। हे प्रिये! त्वं श्रृङ्गाररससंबन्धी भृङ्गारः स्वर्मकलशस्तद्रूपेण सुधाकरेण चन्द्रेण हेतुना वर्णस्रजा कृत्वा मम कर्णकूपौ अनूपय जलपूणौ कुरु। वर्णस्रजः सरसत्वात्कर्मकूपयोर्जलपूर्मत्वकरणं युक्तम्। अथ चश्रृङ्गाररससंबन्धिस्वर्णकलशस्य भवन्मुखस्य संबन्धि यत्पीयूषं तस्याकरेण खनिभूतया सरसया वर्मस्रजा कर्णकूपावनूपय। खलु यस्मात् कोषकार इक्षुविशेषस्तव चारुवाण्या वक्रोक्त्यादिरूपाया वाचः संबंधिनः श्रृङ्गारादयो रसास्तेषां वेणिः प्रवाहस्तस्यास्तीरे समुद्यत्तृणं तस्यानुकारस्तत्सदृशः। अनिस्वादुरसोऽपीक्षुविशेषो यदीयसरसवाणीतीरतृममनुकरोति, न तु समो जातः। तां वाणीं श्रावय, चन्द्रं वर्णयेति भावः। `कोषकाराद्या इक्षुविशेषाः’ इति क्षीरस्वामी। अनूपय, `अनूप’-शब्दात्, `तत्करोति’-इति णिचि लोट्॥ 22.57 ॥
अत्रैव वाणीमधुना तवापि श्रोतुं समीहे मधुनः सनाभिम्।
इति प्रितप्रेरितया तयाऽथ प्रस्तातुमारम्भि शशिप्रशस्तिः॥ 22.58 ॥
अन्वयः–अत्र एव मधुनः सनाभिं तव अपि वाणीम् अधुना श्रोतुं समीहेइति प्रियप्रेरितया तया अन्य शशिप्रशस्तिः प्रस्तोतुम् आरम्भि।
जीवातु–अत्रैवेति। इति प्रियेण प्रेरितया तया भैम्याथानन्तरं शशिनः प्रशस्तिर्माहात्म्यं प्रस्तोतुमारम्भि प्रारब्धा। इति किम्? हे भैमि! अहमत्रैव चन्द्रवर्णन एव विषये मधुनोऽमृतस्य सनाभिं तुल्यां तवापि वाणीमधुना श्रोतुं समीहे इच्छमीति॥ 22.58 ॥
पूरं विधुर्वर्द्धयितुं पयोधेः शङ्केऽयमेणाङ्कमणिं कियन्ति।
पयांति दोग्धि प्रियविप्रयोगसशोककोकीनयने कियन्ति॥ 22.59 ॥
अन्वयः–शङ्के-अयं विधुः पयोधेः पूरं वर्द्धयितुम् एणाङ्कमणिं कियन्ति पयांसि दोग्धि, प्रियविप्रयोगसशोककोकीनयने कियन्ति?
जीवातु–पूरमिति। हे प्रिय! अयं विधुः पयोधेः पूरमागन्तुकजलप्रवाहं वर्द्धयितुमेणाङ्कमणिं चन्द्रकान्तं कियन्ति पयांसि दोग्धि तस्माद् गृह्णाति तथा,-प्रियस्य चक्रवाकस्य विप्रयोगेन सशोकायाः कोक्या नयने अपि कियन्ति जलानि दोग्धि, ताभ्यामपि सकाशाज्जलं कियद्‌गृह्णातीत्यहं शङ्के मन्ये-इति भैमी प्रियमवदत्। उदिते चन्द्रे सागरपूरो वृद्धिं प्राप्तः, चन्द्रकान्ताः स्रवन्ति, चक्रवाकी भृशं रोदितीति भावः। दुहिर्द्विकर्मा॥ 22.59 ॥
ज्योत्स्नामयं रात्रिकलिन्दकन्यापूरानुकारेऽपसृतेऽन्धकारे।
परिस्फुरन्निर्मलदीप्तिदीपं व्यक्तायते सैकतमन्तरीपम्॥ 22.60 ॥
अन्वयः–रात्रिकलिन्दकन्यापूरानुकारे अन्धकारे अपसृते पारस्फुरन्निर्मलदीप्तिदीपं ज्योत्स्नामयं सैकतम् अन्तरीपं व्यक्तायते।
जीवातु–ज्योत्स्नेति। हे प्राणेश! तमोऽऽवसरेऽतिश्यामा रात्रिरेव कलिन्दकन्या यमुना तस्याः पूर आगन्तुकातिनीलजलप्रवाहस्तदनुकारे तत्सदृशे तद्वदतिकृष्णोऽन्धकारेऽपसृते गते सति परिस्फुरन्ती निर्मला दीप्तिर्यस्य। प्रकाशमानश्चासौ धवलद्युतिश्च तादृशो वा यश्चन्द्रः स एव दीपो यत्र तादृशं चन्द्रिकारूपं सैकतं धवलतरवालुकामयं रात्रियमुनाया एव जलमध्यस्थितमन्तरीपं द्वीपं व्यक्तायते स्फुटमिव भवति प्रकटं दृश्यते। पूरावसरेऽस्फुटमपीदानीं स्फुटीभवतीति शङ्के। चन्द्रचन्द्रिकया सकलं धवलीकृतमिति भावः। व्यक्तायते व्यक्तमिव भवति, `कर्तुः क्यङ्-’ इति क्यङ्। अव्यक्तं व्यक्तं भवतीत्यर्थः। सैकतम्, `सिकताशर्कराभ्यां च’ इत्यस्त्यर्थेऽण्॥ 22.60 ॥
हासत्वषैवाशिलकैरवाणां विश्वं विशङ्केऽजनि दुग्धमुग्धम्।
यतो दिवा बद्‌धमुखेषु तेषु स्थितेऽपि चन्द्रे न तथा चकास्ति॥ 22.61 ॥
अन्वयः–विशङ्के-अखिलकैरवाणां हासत्विषा एव विश्वं दुग्धमुग्धम् अजनि, यतः दिवा तेषु बद्धमुखेषु चन्द्रे स्थिते अपि तथा न चकास्ति।
जीवातु–हासेति। अखिलकैरवाणां सकलकुमुदानां हासत्विषैव विकासदीप्त्यैव विश्वं सकलं जगत् दुग्धवात् मुग्धं धवलं शीतलं चाजनि जातम्, न तु चन्द्रेणेत्यहं विशङ्के विशेषेण मन्ये। यतो हेतोर्दिवा तेषु सकलकैरवेषु बद्धमुखेषु संकुचितेष्वविकस्वरेषु च सत्सु चन्द्रे स्थिते विद्यमानेऽपि सकलकुमुदविकासाभावात्सकलं जगत्तथा रात्राविव शीतलधवलतया न चकास्ति। तस्मादिदं जगत् कुमुदहासत्विषैव शीतलं धवलं च कृतम्, न तु चन्द्रेणेत्यर्थः। कुमुदवद् दुग्धवच्च शीतला धवला चन्द्रचन्द्रिकास्तीति भावः॥ 22.61 ॥
मृत्युञ्जयस्यैष वसञ्जटायां न क्षीयते तद्भयदूरमृत्युः।
न वद्‌र्धते च स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीरतीव॥ 22.62 ॥
अन्वयः–मृत्युञ्जयस्य जटायां वसन् तद्‌भयदूरमृत्युः एषः न क्षीयते, अतीव स्वसुधाप्तजीवस्रग्मुण्डराहूद्भवभीः वर्द्धते च न।
जीवातु–मृत्युमिति। मृत्युञ्जयस्य मृत्युं जितवतः शिवस्य जटायां वसन्नेष चन्द्रा षोडशांशभूतो न क्षीयते नाल्पपरिमाणा भवति, कलामात्रस्वरूपेणैव तत्र सदा वसंस्ततोऽपि न्यूनपरिमाणो न भवतीत्यर्थः। अथ च’-न क्षीयते न म्रियते यस्मात्, तस्मान्मृत्युञ्जयात्सकशाद्भयेन दूरो मृत्युर्मरणहेतुर्देवता यस्य सः मृत्युञ्जयजटाजूट-निवासान्मृत्युना स्प्रष्टुमपि न शक्यते तस्मान्न क्षीयतेऽयमित्यर्थः, तर्हि तत्र वसन्वर्द्धते किमिति नेत्याशङ्क्याह-वर्द्धते च न, उपचितोऽपि न भवतीत्यर्थः। यतः–स्वस्य सुधया आप्तो जीवश्चैतन्यं यैस्तानि स्रजो मुण्डानि शिरोमालायाः शिरःकपालानि तान्येव राहवस्तेभ्य उद्भवा समुत्पन्ना भीर्यस्य। कथम्? अतीव, नितरां भीत इत्यर्थः। सजीवमुण्डेषु बहुवो राहव एवैते इति धिया भिया न वर्द्धते। भीतो हि सौख्याभावात्कृशतर एव भवति। अथ च,-पूर्णस्य राहोः सकाशाद्भयम्। अथः कारणद्वयान्न क्षीयते, न च वर्द्धते इत्येककल एव शिवशिरश्चन्द्र इत्यर्थः। एतेन चन्द्रस्य षोडशी कला वर्णिता। शिवशिरसि वर्तमानत्वादस्य माहात्म्यमपि वर्मितम्। मृत्युञ्जयेति, संज्ञायां `भॄतॄवृजि-’ इति खश्, `अरुर्द्विषत्-’ इति मुम्॥ 22.62 ॥
त्विषं चकोराय सुधां सुराय कलामपि स्वावयवं हराय।
ददज्जयत्येष समस्तमस्य कल्पद्रुमभ्रातुरथाल्पमेतत्॥ 22.63 ॥
अन्वयः–चकोराय त्विषं सुराय सुधां स्वावयवं कलाम् अपि हराय ददत् एषः जयति, अथ कल्पद्रुमभ्रातुः अस्य एतत् सर्वम् अल्पम्।
जीवातु–त्विषमिति। एष चन्द्रो जयति सर्वोत्कर्षेण प्रकाशते। ततः किंभूतः? चकोराय स्वावयवं त्विषं निजांशभूतां चन्द्रिकां ददत्‌। तथा,-हराय निजांशभूतां कलां ददत्‌। अथापि अस्य चन्द्रस्यैतत्समस्तं परोपकारकरणकल्पमेव, अतिचमत्कारकारि न भवतीत्यर्थः। यतः-समुद्रोत्पन्नत्वाकल्पद्रुमस्य भ्रातुः। कल्पद्रुमस्तु कल्पितं सर्वं सर्वेभ्यो ददाति, अयं तु न तथेत्यल्पमेवेत्यर्थः। एवंविधः परोपकारी कोऽपि नास्तीति भावः। `चकोराय’ इति `सुराय’ इति च जात्येकवचनम्॥ 22.63 ॥
अङ्कैणनाभेर्विषकृष्णकण्ठः सुधाऽऽप्तशुद्‌धेः कटभस्मपाण्डुः।
अर्हन्नपीन्दोर्निजमौलिधानान्मृडः कलामर्हति षोडशीं न॥ 22.64 ॥
अन्वयः–विषकृष्णकण्ठः कटभस्मपाण्डुः मृडः अकैणनाभेः सुधाप्तशुद्‌धे; इन्दोः षोडशीं कलाम् अपि निजमौलिधानात् अर्हन् अपि न अर्हति।
जीवातु–अङ्केति। मृडः शिवो निजमौलौ धानात्स्थापनाद्धेतोरिन्दोः षोडशीं कलामर्हन्प्राप्नुवत्, अथ च-पूजयन् अपि षोडशीं कलां नार्हति न प्राप्नोति, न पूजयति च। निजशिरसि धारणादेव तस्याः प्राप्तिः पूजा च संभविनी। यो ह्यतितरां पूज्यते स शिरसि धार्यते। तथा चैतस्य षोडशीं कला मृडः प्राप्नुवन्पूजयन्नपि च तां प्राप्नोतीति विरोधपरिहारः। यतः किंभूतस्येन्दोः, किंभूतश्च मृडः? अङ्कभूतो य एणो हरिणस्तद्‌युक्ता नाभिर्मध्यभागो यस्य; अथ च-अङ्करूपा कलङ्करूपा एणनाभिः कस्तूरी यत्र। मृडस्तु-विषेण कृष्णकण्ठः। तथा-सुधयामृतेनाप्ता शुद्धिर्धावल्यं येन, मृडस्तु-कटभस्मना चिताभस्मना पाण्डुः। तस्माच्चन्द्रस्याल्पमपि साम्यं शिवो न प्राप्नोति। किंच चन्द्रादधिकः पिण्डुः। तस्माच्चन्द्रस्याल्पमपि साम्यं शिवो न प्राप्नोति। किंच चन्द्रादधिकः शिवश्चेदभविष्यत् तर्हि तदीयकलां मौलौ नाधारयिष्यत्, सा मैलौ धृता, तेन तस्माच्चन्द्र एव तदधिक इत्यर्थः। शुभस्याशुभस्य च महदन्तरमिति भावः। `षोडशीमपि कलां नार्हति’ इत्यनेन पूर्णचन्द्रं नार्हतीति किं वाच्यमित्यपि सूचितम्॥ हरस्यापकर्षे विषं, चिताभस्म च हेतुः, चन्द्रोत्कर्षे मृगमदोऽमृतं च॥ 22.64 ॥
पुष्पायुधस्यास्थिभिरर्धदग्धैः सितासितश्रीरघटि द्विजेन्द्रः।
स्मरारिणा मूर्धनि यद्‌धृतोऽपि तनोति तत्तौष्टिकपौष्टिकानि॥ 22.65 ॥
अन्वयः–सितासितश्रीः द्विजेन्द्रः पुष्पायुधस्य अर्द्धदग्धैः अस्थिभिः अघटि, यत् स्मरारिणा मूर्द्घ्नि धृतः अपि तत्तौष्टिकपौष्टिकानि तनोति।
जीवातु–पुष्पेति। ब्रह्मणा द्विजेन्द्रश्चन्द्र पुष्पायुधस्य कामस्यार्धदग्धैरस्थिभिः कृत्वाऽघटि निर्मितः। अत एव सितासितश्रीरुपान्तधवलमध्यामलकान्तिः। स्मरास्थिभिरेव निर्मित इत्यत्र हेतुमाह-स्मरारिणा मूर्धनि धृतोऽपि, अथ च-कृतसंमानोऽपि, तस्य स्मरस्यैव तौष्टिकानि हर्षकारीणि, पौष्टिकानि अभिवृद्धिकारीणि च यद्यस्मात्तनोति। कामारिणा पूज्यभानोऽपि कामहितमेव यस्मात्करोति, तस्मात्तदस्थिभिरेव घटित इत्यर्थः। एतादृक्कामोद्दीपकं किमपि नास्तीति भावः। अस्थिभिरिवेति प्रतीयमानोत्प्रेक्षा। अन्याश्रितोऽपि तदीयशत्रुहितं यः करोति स तदस्थिभिर्घटित इति लौकिकयुक्तिः। तौष्टिकपौष्टिकानि, `प्रयोजनम्’ इति ठक्॥ 22.65 ॥
मृगस्य लोभात्खलु सिंहिकायाः सूनुर्मृगाङ्‌कं कवलीकरोति।
स्वस्यापि दानादमुमह्कसुप्तं नोज्झप्तं नोज्झन्मुदा तेन च मुच्यतेऽयम्॥ 22.66 ॥
अन्वयः–सिंहिकायाः सूनुः मृगस्य लोभात् खलु मृगांकं कवलीकरोति, अङ्कसुप्तम् अमुम् स्वस्य अपि दानात् न उज्झन् अयं च तेन मुदा मुच्यते।
जीवातु–मृगस्येति। सिंहिकायाः सुतो राहुर्मृगाङ्कं चन्द्रं यत्कवलीकरोति तदङ्कमृगस्य लोभात् खलु ग्रासाभिलाषादिव। सिंहिकासुतः सिंहो मृगैरङ्कितं स्थलं मृगग्रासाबिलाषादेव स्वाधीनं करोति। तर्हि किमर्थं मुञ्चतीत्यत आहअङ्कसुप्तं मध्यवर्तिनम्, अथ च-उत्सङेगे विश्वासात्सुखेन निद्रितम्, अमुं मृगं स्वस्यापि दानद्राहुदन्तकृतखण्डनादपि नोज्झन्न त्यजन्, अथ च-स्वशरीरस्यापि वितरणादत्यजन्, अयं चन्द्रस्तेन राहुणा तेन पुण्येन च हेतुना मुदा शरणागतरक्षणनिमित्तहर्षेण कृत्वा मुच्यते त्यज्यते। अन्योऽपि शरणागतं मृगं जिघांसोः सिंहाद्रक्षितुमात्मानमपि ददानो हि तेन पुण्येन सिंहान्मुच्यत एव। `नौज्झत्’ इति पाठे-स्वस्यापि दानाङ्कसुप्तममुम् यतो नामुञ्चत्तेन हेतुनाऽयं विमुच्यते, अर्थाद्राहुणेत्यर्थः॥ 22.66 ॥
सुधाभुजो यत्परिपीय तुच्छमेतं वितन्वन्ति तदर्हमेव।
पुरा निपीयास्य पिताऽपि सिन्धुरकारि तुच्छः कलशोद्भवेन॥ 22.67 ॥
अन्वयः–सुधाभुजः एनं परिपीय यत् तुच्छं वितन्वन्ति, तत् अर्हम् एव; अस्य पिता सिन्धुः अपि पुरा कलशोद्भवेन निपीय तुच्छः अकारि।
जीवातु–सुधेति। सुधाभुजो देवा एनं चन्द्रं परिपीय साकल्येन पीत्वा तुच्छं रिक्तं यद्वितन्वन्ति कुर्वन्ति तदर्हमुचितमेव, यतोऽस्य पिता सिन्धुरपि कलशोद्भवेनागस्त्येन तुरा निपीय तुच्छो रिक्तः अकारि, तस्मात्कुलक्रमागतं तुच्छत्वमित्यर्थः। एतस्य पूर्वेऽपि परोपकारनिरतः, तस्मादयमपि तथैवेति भावः। कलशादुत्पन्नेनापि सागरस्य पानमित्याश्चर्यम्॥ 22.67 ॥
चतुर्दिगन्तीं परिपूरयन्ती ज्योत्स्नैव कृत्स्ना सुरसिन्धुबन्धुः।
क्षीरोदपूरोदरवासहानवैरस्यमेतस्य निरस्यतीयम्॥ 22.68 ॥
अन्वयः–चतुर्दिगन्तीं परिपूरयन्ती सुरसिन्धुबन्धुः इयं कृत्स्ना ज्योत्स्ना एव एतस्य क्षीरोदपूरोदरवासहानवैरस्यं निरस्यति।
जीवातु–चतुरिति। चतुर्णा दिगन्तानां समाहारस्ताम्। चतुर्दिक्प्रान्तानित्यर्थः। (तां) परिपूरयन्ती सामस्त्येन व्याप्नुवती, तथा-श्चैत्यात्सुरसिन्धोर्मन्दाकिन्या बन्धुः सदृसी। तथा कृत्स्ना पूर्णा इयं ज्योत्स्नैवैका क्षीरोदपूरोदरे वासः स्थितिस्तस्य हानाद्वहुकालपरित्यागाद्धेतोरेतस्य चन्द्रस्य वैरस्यं क्षीरसागरविरहजनितं दुखं निरस्यति नाशयति। असौ चन्द्रिकायामेव क्षीरसागरबुद्ध्या पितृवियोगदुःखं परित्यजतीत्यर्थः। सकलदिगन्तव्यापिधवलचन्द्रिकामध्यवतीं चन्द्रः क्षीरसागरमध्यस्थ इव शोभत इति भावः। गङ्गावद्‌दुग्धवच्चेयं कौमुदीति। चतुर्दिगन्तीम्, समाहारे द्विगौर्ङीप्॥ 22.68 ॥
पुत्री विधोस्ताण्डविकाऽस्तु सिन्धोरश्या चकोकस्य दृशोर्वयस्या।
तथाऽपि सेयं कुमुसय् काऽपि ब्रवीति नामैव हि कौमुदीति॥ 22.69 ॥
अन्वयः–इयं विधोः पुत्री सिन्धोः ताण्डविका, चकोरस्य अश्या, दृशोः वयस्या अस्तु; तथापि सा कुमुदस्य का अपि, हि इति कौमुदी नाम एव ब्रवीति।
जीवातु–पुत्रीति। इयं चन्द्रिका यद्यपि चन्द्रात्प्रसूतत्वाद्विधोः पुत्री अस्तु। सिन्धोः समुद्रस्य ताण्डविका नृत्तोपदेशिक नाटयित्री अस्तु। चन्द्रिकया हि सिन्धुरुल्लास्यते सा च तस्य नप्त्री भवति। यद्वा-इयं विधोः पुत्री सिन्धोस्ताण्डविका भवतु। तथा-चकोरस्य अश्या पेया सेयं चन्द्रिका कुमुदस्य कापि अनिर्वचनीया संबन्धिनी भवतु। पूर्वनिर्दिष्टसर्वापेक्षया कुमुदस्यैव निरतिशयानन्दकारित्वात्केनाप्यनिर्वचनीयेन सम्बन्धिनी भवत्वित्यर्थः. हि यस्मात्कौमुदीति नामैव कर्तृ ब्रवीति। सर्वेषां तत्तत्संबन्धसंभवेऽपि कुमुदानामियं कौमुदीति, `तस्येदम्’ इति संबन्धेण्। कुमुदानामेव प्रीत्यतिशयेन संबन्धं वदतीत्यर्थः। कौमुदीति नामैव हि स्पष्टं ब्रवीतीति वा। चन्द्रिकया सर्वेषामप्यानन्दः कृतः, कुमुदानां तु विशेषत इति भावः। कार्येण कारणानुमानम्। ताण्डविका, अर्श आद्यजन्तान्मतुबन्ताद्वा `ताण्डव’शब्दात् `तत्करोति-’ इति ण्यन्ताण्ण्वुल्। अशनमशिः, `इक्कृष्यादिभ्यः’ इतीकि अशिमर्हतीति दण्डादित्वाद्यत्। `आश्या’इति च पाठः॥ 22.69 ॥
ज्योत्स्नापयःक्ष्मातटवास्तुवस्तुच्छायाच्छलच्छिद्रधरा धरायाम्।
शुभ्रांशुशुभ्रांशकराः कलङ्कनीलप्रभामिश्रविभआ विभान्ति॥ 22.70 ॥
अन्वयः–ज्योत्स्नापयः क्ष्मातटवास्तुवस्तुच्छायाच्छलच्छिद्रधराः शुभ्रांशुशुभ्रांशकराः धारायां कलङ्कनीलप्रभामिश्रविभाः विभान्ति।
जीवातु–ज्योत्स्नेति। शुभ्रांशोश्चन्द्रस्य शुभ्रांशा धवलभागाश्च ते कराश्च किरॉणास्ते धरायां भूम्यां कलङ्कस्य नीलीभिः प्रभाभिर्मिश्रा विभा कान्तिर्येषां ते कलङ्कनीलकान्तिच्छुरिता इव विभान्ति। यतः कीदृशीः? ज्योत्स्नैव पयो जलं दुग्धं वा यस्मिस्तादृशं क्ष्मातटं दुग्धधवलचन्द्रिकाधवलीकृतं भूतलं तदेव वास्तु वसतिगृहं येषां तानि वस्तूनि वृक्षादिपदार्थास्तेषां छाया छलं येषां तादृशानि छिद्राणि प्रकाशेन रिक्तत्वाद्विलानि पदार्थप्रतिच्छायारूपाणि तानि धरन्तीति तादृशाः। चन्द्रिकाधवलिताः पदार्थाश्चन्द्ररश्मय एव, वृक्षादिप्रतिच्छायाश्चन्द्रकलङ्कनीलरश्मय एवेति धारायामपि निपतिताश्चन्द्रकिरणा नीलधवला एव शोभन्त इत्यर्थः। अन्यस्य करा हस्ता कलङ्कवन्नीलस्य नीलमणेः प्रभया मिश्रकान्तयो नीलमणियुक्ताङ्गुलीयकप्रभामिश्रा विभान्ति। `शुभ्रांशुशुभ्रांशु-’ इति पाठेऽपि `अंशुर्लेशे रवे रश्मौ’ इत्यभिधानात् `अंशु’शब्दस्य लेशवाचित्वात्स एवार्थः। ज्योत्स्नैव पयो जलं तस्य क्ष्मा भूमिस्तस्यास्तटं तदेव वास्तु निवासस्थानं येषां तेषां वस्तूनां छायाया व्याजेन छिद्राणि धरन्तीति वा॥ 22.70 ॥
कियान्यथाऽनेन वियद्विभागस्तमोनिरासाद्विशदीकृतोऽयम्।
अद्भिस्तथा लावणसैन्धवीभिरुल्लासिताभिः शितिरप्यकारि॥ 22.71 ॥
अन्वयः–अनेन तमोनिरासात् कियान् अयं वियद्विभागः यता विशदीकृतः तथा उल्लासिताभिः लावणसैन्धवीभिः अद्भिः शितिः अपि अकारि।
जीवातु–कियानिति। उदितमात्रेणानेन चन्द्रेण तमोनिरासाद्धेतोः कियान् किंचिन्मात्रोऽयं वियद्विभागः पूर्वाकाशदेशो यथा विशदीकृतः तथा चन्द्रकिरणैरुल्लासिताभिर्वृद्धिं प्रापिताभिर्लावणसैन्धवीभिरद्भिः कियानयं वियद्विभागः शितिः श्यामोऽप्यकारि। अप्रौढप्रभे चन्द्रे पूर्वाकाशदेशस्तिमिरनिरासाद्धवलो भवति, ततो निरतस्य च तमसः प्रतीच्यां घनीभूतत्वात्पश्चिमाकाशदेशः श्यामलो भवतीति तत्रेयमुत्प्रेक्षा। समुद्रजलं च नीलं, पूर्वाकाशदेश एव नीलैः समुद्रजलैः पुनर्नीलोऽप्यकारीति वा। लावणसैन्धवीभिः, लवणसिन्धोरिमाः `तस्येदम्’ इत्यणि `हृद्भगसिन्ध्वन्ते पूर्वंपदस्य च’ इत्युभयपदवृद्धिः॥ 22.71 ॥
गुणौ पयोधेर्निजकारणस्य न हानिवृद्धी कथमेतु चन्द्रः?।
चिरेण सोऽयं भजते तु यत् ते न नित्यमम्भोधिरिवात्र चित्रम्॥ 22.72 ॥
अन्वयः–चन्द्रः निजकारणस्य पयोधेः हानिवृद्धी गुणौ कथं न एतु? सा अयं ते यत् चिरेण भजते अम्भोधिः इव नित्यं न, अत्र चित्रम्!
जीवातु–गुणाविति। चन्द्रो निजकारणस्य पयोधेर्हानिवृद्धिरूपौ गुणौ कर्थ नैतु प्राप्नोतु? अपि तु कार्यगुणानां कारणगुणपूर्वकत्वनियमादवश्यमपचयोपचयौ चन्द्र चप्राप्नुत इति युक्तमेवेत्यत्र न किंचिञ्चित्रमित्यर्थः। तर्हि कुत्र चित्रमित्याशङ्क्याह–सोऽयं चन्द्रस्ते हानिवृद्धी यच्चिरेम पक्षान्तपरिमितेन बहुना कालेन भजते, न तु अम्भोधिरिव नित्यं प्रत्यहं भजते, अत्र विषये चित्रमित्याश्चर्यम्। समुद्रो यथा प्रत्यहं हानिवृद्धी भजते, तथा पुत्रोऽपि चन्द्रो नेत्याश्चर्यमित्यर्थः॥ 22.72 ॥
आदर्शदृश्यत्वमपि श्रितोऽयमादर्शदृश्यां न बिभर्ति मूर्तिम्।
त्रिनेत्रभूरप्ययमत्रिनेत्रादुत्पादमासादयति स्म चित्रम्॥ 22.73 ॥
अन्वयः–अयम् आदर्शदृश्यत्वं श्रितः अपि आदर्शदृश्यां मूर्तिं न बिभर्त्ति, त्रिनेत्रभूः अपि अयम् अत्रिनेत्रात् उत्पादम् आसादयतिस्म–चित्रम्!
जीवातु–आदर्शेति। अयं चन्द्र आदर्शवद् दृश्यत्ववृत्तत्वादिना रमणीयत्वं श्रितो भजमानोऽप्यादर्शवद्‌दृश्यां (रमणीयां) मूर्तिं न बिभर्ति चित्रम्। यो ह्यादर्शवद् दृश्यो भवति स एवादर्शवद् दृश्यां मूर्तिं न बिभर्ति तद्वद्‌ दृश्यो न भवतीति विरोधाश्चर्यमित्यर्थः। अथ च–दर्पणवद्‌दृश्यत्वं श्रितोऽप्यादर्श दर्शमभिव्याप्य दृश्याममावास्यायां दर्शनयोग्यां मूर्तिं न बिभर्ति। इदानीं पूर्णत्वेन दृश्यमानोऽपि दर्शे लेशेनापि न दृश्यते इत्यर्थ इति विरोधपरिहारः। दर्पणवद्‌दृश्यत्वं श्रितोऽपि आदर्शं दर्शं मर्यादीकृत्य कृष्मचतुर्दशीमभिव्याप्य दृश्यां मूर्तिं न बिभर्ति, अपि तु तावत्पर्यन्तं दृश्यो भवत्येवेति वा। तथा–अयं चन्द्रस्त्रिनेत्राद्भवति तादृशस्त्रिनेत्रादुत्पन्नोऽपि न त्रिनेत्रोऽत्रिनेत्रः। तस्मात्त्रिनेत्रव्यतिरिक्तात्सकासादुत्पादमुत्पत्तिमासादयति स्म प्रापेत्ये तदपि चित्रम्। त्रिनेत्रादुत्पन्नोऽपि त्रिनेत्रादुत्पन्नो न भवतीत्याश्चर्यमित्यर्थः। अथ च–त्रिनेत्रादुत्पन्नोऽप्यत्रेर्नेत्रादुत्पत्तिमापेत्येतदपि विरुद्धम्। अथ च–त्रिनेत्रो भूर्वसतिस्थानं यस्य तादृशः तथा-अत्रेर्मुनेर्नेत्राच्चिवामाश्चर्टयरूपमुत्पादं प्रापेति विरोधपरिहारः। सहजसौन्दर्यमाश्रयमाहात्म्यं कुलस्य माहात्म्यं चानेन चन्द्रस्य वर्णितम्। चन्द्रस्यात्रिनेत्रसमुद्‌भूतत्वं पुराणप्रसिद्धम्॥ 22.73 ॥
इज्येव देवव्रजभोज्यऋद्धिः शुद्धा सुधादीधितिमण्डलीयम्।
हिंसां यथा सैव तथाऽङ्गमेषा कलङ्कमेकं मलिनं बिभर्त्ति॥ 22.74 ॥
अन्वयः–देवव्रजभोज्यऋद्धिः शुद्धा इयं सुधादीधिति मण्डली इज्या इव यथा सा हिंसां, तथा एव एषा कलङ्कम् अङ्गं मलिनं बिभर्त्ति।
जीवातु–इज्येति। देवानां व्रजैः समूहैर्भोज्या पेया ऋद्धिः समृद्धिर्यस्याः सा शुद्धा धवला इयं सुधादीधितेरमृतकरस्य चन्द्रस्य मण्डली इज्येव याग इव, शेभत इति शेषः। इज्यापि देवव्रजभोज्यपुरोडाशादिसमृद्धिः शुद्धा पवित्रा च भवति। तथैषा चन्द्रमण्डली कलङ्काख्यमेकं मध्यवर्तितमङ्गमवयवं मलिनाकारं तथा बिभर्ति, यथा सैव इज्यैव पूर्वोक्तगुणविशिष्टा सत्यप्येकं पशुहिंसात्मकमङ्गंकर्मसाधनं मलिनं पापहेतुं बिभर्ति। परोपकारशीलायाः सर्वात्मना शुद्धाया अपि चन्द्रमण्डल्या दैवादेकमङ्गं मलिनं जातमित्यर्थः। यागे हि हिंसामात्रमेव मालिन्यम्। `मुधाङ्गम्-’ इति पाठे-कलङ्करूपमेकमङ्गं मलिनं वृथैव विभर्ति शुद्धाया मालिन्ययोगस्यानौचित्यादित्यर्थः। शुद्धस्यापि श्रौतधर्मस्य सांख्यैर्दोषारोपणान्मानिन्यं मुधैवेत्यर्थः। इज्या, `व्रजयजोः-’ इति क्यप्॥ 22.74 ॥
एकः पिपासुः प्रवहानिलस्य च्युतो रथाद्वाहनरङ्कुरेषः।
अस्त्यम्बरेऽन्मबुनि लेलिहास्यः पिबन्नमुष्यामृतबिन्दुवृन्दम्॥ 22.75 ॥
अन्वयः–एषः एकः पिपासुः प्रवहानिलस्य रथात् च्युतः वाहनरङ्कुः अनम्बुनि अम्बरे लेलिहास्यः अमृष्य अमृतबिन्दुवृन्दं पिबन् अस्ति।
जीवातु–एक इति। एष मृगाङ्के दृश्यमानः प्रसिद्धः एकः पिपासुस्तुषाक्रान्तः सप्तवायुस्कन्धमध्यवर्तिनः प्रवहाख्यस्यानिलस्य मृगवाहनस्य गगनचारिणो रथाच्च्युतो वाहकभूतो रङ्कुर्मृगोऽनम्बुनि निर्जलेऽम्बरे लेलिहास्यो नितरां पौनःपुन्येन वास्वादनकारि मुखं यस्य तादृशो भवन्नमुष्य चन्द्रस्यामृतबिन्दुवृन्दं पिबन्सन्नस्ति। तृषाक्रान्तो रथं परित्यज्य पतितो निर्जलेऽपि गगने चन्द्रामृतबिन्दुवृन्दमास्वादयन् वायुवाहनमृग एवायम्, न तु कश्चित्कलङ्कमृगो नामेत्यर्थः। अस्तीति वर्तमानप्रत्ययेनामृतास्वादनेन चन्द्रं परित्यज्य गन्तुमशक्तोऽद्यापि वर्तत इति सूचितम्। एवमन्योऽपि तृषाकान्तो निर्जले देशे प्रस्रवणादेः पतज्जलबिन्दुवृन्दं पिबन्ननुपशान्तपिपासो लेलिहास्यः सन् तत्रैव चिरं तिष्ठति। सप्तवायुस्कन्धाः पुरामसिद्धाः। लेलिहेति, नितरां पुनः पुनर्वा लेढीत्यर्थे यङि पचाद्यचि `यङोऽचि च’ इति यङो लुक्॥ 22.75 ॥
अस्मिञ्छिशौ न स्थित एव रङ्कुर्यूनि प्रियाभिर्विहितोपदाऽयम्।
आरण्यसन्देश एवौषधीभिरंके स शंके विधुना न्यधायि॥ 22.76 ॥
अन्वयः–शिशौ अस्मिन् रङ्कुः यूनि प्रियाभिः ओषधीभिः अयम् आरण्यसन्देशः उपदा इव विहिता; शङ्के–विधुना सः अङ्के न्यधायि।
जीवातु–अस्मिन्निति। शिशौ बाले एककलात्मकेऽस्मिंश्चन्द्रे रङ्कुर्मृगो न स्थितो नासीदेव तस्यां दशायामदर्शनात्। किंतु प्रियाभिरोषधीभिर्यूनि तरुणे पूर्णावयवेऽस्मिश्चन्द्रेऽयं रङ्कुरुपदेव विहिता प्रेषिता। कीदृशी? अरण्ये भवः संदिश्यते प्रस्थाप्यते संदेशस्तद्रूपा। अरण्यभवानां संदेशरूपा वा। `वयं भवत्प्रिया निर्जने वने मृगैः सह वसामः, त्वं तु स्वर्गे विजयी सुखेन वर्तसे’ इति गढार्थोप (पा) लम्भसूचिकेति यावत्। अनन्तरं विधुना प्रेयसीसंदेशरूपा स रङ्कुरङ्के मध्ये, अथ च–उत्सङ्गे, प्रियाप्रेमभरेण न्यधायि स्थापित इत्यहं शङ्के। अन्यापि प्रिया तरुमं प्रियं प्रति कंचित्संदेशमुपदारुपेण प्रेषयति, स च तं हृदयादौ धारयति। ओषध्यो हि वनवासिन्यस्तदनुरूपमेव संदेशं स्वप्रिये चन्द्रे प्रेषितवत्यः। आरण्यसंदेश इवायमुपदा प्रहितेति वा। `यदा-’ इति पाठेयदाप्रभृति प्रेषितः, तदाप्रभृति तारुम्यदशायां चन्द्रेणायमङ्के न्यधायि, न तु पूर्वमित्यर्थः। आरण्यः, भवार्थेऽण्॥ 22.76 ॥
अस्यैव सेवार्थमुपागतानामास्वादयन् पल्लवमोषधीनाम्।
धयन्नमुष्यैव सुधाजलानि सुखं वसत्येष कलङ्करंकुः॥ 22.77 ॥
अन्वयः–एषः कलङ्करङ्कुः अस्य एव सेवार्थम् उपागतानां ओषधीनां पल्लवम् आस्वादयन् अमुष्य एव सुधाजलानि धयन् सुखं वसति।
जीवातु–अस्येति एष कलङ्करङ्कुर्विरहपीडितत्वादस्यैव चन्द्रस्य सेवार्थमुपागतानामोषधीनां पल्लवमास्वादयन्। तथा-अमुष्यैव मुधारूपाणि जलानि धयन् पिबन् सुखमनायासलब्धावृत्तिरिव वसति, आहारलोभादत्रैव वसतीत्यर्थः। अन्योऽपि जलकिसलययुते देशे सुखेन वसति कदाचिदपि न त्यजति। सल्लवम्, जात्येकवचनम्॥ 22.77 ॥
रुद्रेषुविद्रावितमार्त्तमारात्तारामृगं व्योमनि वीक्ष्य बिभ्यत्।
मन्येऽयमन्यः शरणं विवेश मत्वेशचूडामणिमिन्दुमेणः॥ 22.78 ॥
अन्वयः-मन्ये रुद्रेषुविप्रावितम् आर्त्त तारामृगं व्योमनि आरात् वीक्ष्य बिभ्यत् अयम् अन्यः एणः इन्दुम् ईशचूडामणिं मत्वा शरणं विवेश।
जीवातु–रुद्रेति। दक्षयज्ञे वीरभद्रावतारस्य रुद्रस्येषुणा विद्रावितम् अतएव आर्त्तं तारारूपं मृगं व्योमनि आरात्समीपे दूरे वा वीक्ष्य बिभ्यत् त्रस्यन् अयमन्योऽपर एण इन्दुमीशस्य चूडामणिं ज्ञात्वा शरणं विवेश। शिवेन शिरसि स्थापितत्वादयं मान्य इत्येतदाश्रयेण रुद्रान्मामयं रक्षिष्यत्येवेत्याशयेनान्यो मृगश्चन्द्रं शरणं प्रविष्ट इत्यर्थ इत्यहं मन्ये। अन्योऽपि सजातीयं कस्माच्चिद्भीतं दृष्ट्वा स्वयमपि भीतः सन्कमपि शरणं याति। `गत्वा’-इत्यपि पाठः। तारामृगस्य रुद्रेषुविद्रावणं काशीखण्डादौ ज्ञातव्यम्॥ 22.78 ॥९
पृष्ठेऽपि किं तिष्ठति नाथ! नाथ रङ्कुर्विधोरङ्क इवेति शङ्का।
तत्त्वाय तिष्ठस्व मुखे स्व एवं यद्‌द्वैरथे पृष्ठमपश्यदस्य॥ 22.79 ॥
अन्वयः–नाथ, विधोः अङ्के इव किं रङ्कुः पृष्ठे अपि तिष्ठति अथ न-इति शङ्का (चेत्) तत्त्वाय स्वे मुखे एव तिष्ठस्व, यत् द्वैरथे अस्य पृष्ठम् अपश्यत्।
जीवातु–पृष्ठ इति। हे नाथ! विधोरङ्क इव यथा चन्द्रस्योत्सङ्गे कलङ्कमृगो वर्तते, तथा रङ्कुः पृष्ठेऽपि पश्चाद्भागे किं तिष्ठति? अथ न तिष्ठति इति तवाशङ्का चेद्वर्तते इति शेषः। तर्हि त्वं तत्त्वाय याथात्मयज्ञानार्थं स्वे निजेमुखे विषये तिष्ठस्व, निजमुखमेव निर्णयं पृच्छेत्यर्थः। यत्त्वन्मुखं द्वैरथे समानशोभाभिलाषाद्विरथसम्बन्धिनि द्वन्द्वयुद्धेऽस्य त्वन्मुखाद्भज्यमानत्वात्पलायमानस्य चन्द्रस्य पृष्ठं पश्चाद्भागमपश्यत्। तस्मात्तत्स्वमुखमेव निर्णेतृत्वेन पृच्छेत्यर्थः। त्वन्मुखं चन्द्रादधिकमिति भङ्ग्या नलमुखवर्णनं मे कृतम्। तत्त्वाय तत्त्वं ज्ञातुं `क्रियार्थोपपदस्य च कर्मणि स्थानिनः’ इति चतुर्थी, तादर्थ्यमात्रे वा। तिष्ठस्व, स्थेयाख्यायां तङ्। स्वे, वैकल्पिकत्वात्स्मिन्नभावः॥ 22.79 ॥
उत्तानमेवास्य वलक्षकुक्षिं देवस्य युक्तिः शशमङ्कमाह।
तेनाधिकं देवगवेष्वपि स्यां श्रद्‌धालुरुत्तानगतौ श्रुतायाम्॥ 22.80 ॥
्न्वयः–युक्तिः अस्य देवस्य अङ्कं वलक्षकुक्षिं शशम् उत्तानम् एव आह, तेन देवगदेषु अपि श्रुतयाम् उत्तानगतौ अधिकं श्रद्धालुः स्याम्।
जीवातु–उत्तानमिति। युक्तिरर्थापत्तिरनुमानं वास्य देवस्य चन्द्रस्य मध्यवर्तिनमङ्क कलङ्करूपं शशमुत्तानं स्वर्गसंमुखमस्मदादिदृश्यमानपृष्ठभागमाह ब्रूते। यतो वलक्षकुक्षिं धवलोदरम्। यद्ययं शशकोऽस्मत्संमुखोदरगोऽनुत्तानोऽभविष्यत् तर्हि मध्यवर्त्तिशशकोदरस्य धवलत्वाच्चन्द्रमध्यभागोऽपि ध्वलोऽभविष्यत्, न च तथा दृश्यते, किंतु मलिनः। तस्मादुत्तान एव शशकश्चद्रेऽस्तीति युक्तिराहेत्यर्थः। तेन श्रुतायमुत्तानगतौ सुरलोकसंमुखचरणतया गमने विषये पूर्वापेक्षयाधिकमतितरां श्रद्धालुरास्तिक्ययुक्ता स्याम्। `उत्ताना वै वेदगवाश्चरन्ति’ इति श्रुतिर्न्यायोपपन्नार्थतया सत्यैवेत्यहमिदानीमधिकं मन्य इत्यर्थः। देवगवेषु `गोरतद्धितलुकि’ इति टच्। `देवगवीषु’ इति पाठे टित्त्वान्ङीप्॥ 22.80 ॥
दूरस्थितैर्वस्तुनि रक्तनीले विलोक्यते केवलनीलिमा यत्।
शशस्य तिष्ठन्नपि पृष्ठलोम्नां तन्नः परोक्षः खलु रागभागः॥ 22.81 ॥
अन्वयः–रक्तनीले वस्तुनि दूरस्थितैः यत् केवलनीलिमा विलोक्यते तत् शशस्य तिष्ठन् अपि पृष्ठलोम्नां रागभागः नः खलु परोक्षः।
जीवातु–दूरेति। दूरस्थितैद्रष्टुभी रक्तनीले मिश्रितोभयवर्णे वस्तुनि केवलस्त्यक्तरागभागो नालिमैव यद्यस्माद् विलोक्यते तत्तस्मात्कारणाच्छशस्य पृष्ठवर्तिरोम्णां तिष्ठन्नपि रागभागो रक्तिमांशः नोऽस्मांशः नोऽस्माकमतिदूरस्थितानां खलु निश्चितं परोक्षे दृग्गोचरो न भवति, किन्तु नीलिमैव दृस्यत इत्यर्थः। तिष्ठन्वर्तमानोऽपि परोक्ष इति विरोधाभास दूरस्थत्वान्न दृस्यत इति तत्परिहारः। `खलु’ उत्प्रेक्षायां वा॥ 22.81 ॥
भङ्क्तुं प्रभुर्व्याकरणस्य दर्पं पदप्रयोगाध्वनि लोक एषः।
शशो यदस्यास्ति शशी ततोऽयमेवं मृगोऽस्यास्ति मृगीति नोक्तः॥ 22.82 ॥
अन्वयः–एषः लोकः पदप3योगाध्वनि व्याकरणस्य दर्पं भङ्तु प्रभुः, यत् अयं शशः, अस्य ्स्ति ततः शशी उक्तः एवं मृगः अस्य अस्ति इति मृगी न।
जीवातु–भङ्क्तुमिति। एष कविर्लोकः पदानां शब्दव्युत्पादनकारिणः प्रयोगाध्वनि विषये व्याकरणस्य प्रकृतिप्रत्ययविभागपूर्वं पदानां सुप्तिङ्तानां प्रयोगाध्वनि विषये व्याकरणस्य प3कृतिप्रत्ययविभागपूर्वं शब्दव्युत्पादनकारिणः शास्त्रस्य मदधीन एव सकलशब्दप्रयोग इति दर्पं गर्वं, यद्वा-लक्षणया वैयाकरणस्य व्याकरणधीन एव `सकल’-शब्दप्रयोग इति गर्वं भङ्क्तुम् त्याजयितुं प्रभुः समर्थः। यद्यस्माद्‌धेतोरयं चन्द्रः शशोऽस्यास्ति ततो हेतोः शशी यथोक्तः, लोकेनेति शेषः। एवममुनैव प्रकारेण मृगोऽस्यास्ति मृगीति नोक्तः। शशोऽस्यास्तीति मतुबर्थे `अत इनिठनौ’ इतीनौ यथायटं शशीत्युच्यते, तथा तेनैव सूत्रेण मृगोऽस्यास्तीत्यत्रेनेः प्राप्तौ सत्यामपि मृगीति नोक्तः। तस्मादतिव्याप्त्यादिदोषाद् व्याकरणमूल एव लोकप्रयोग इति नियमो न युक्तः। तस्मादतिव्याप्त्यादिदोषाद् व्याकरणमूल एव लोकप्रयोग इति नियमो न युक्तः, किंतु कृत्तद्धितसमासानामभिधानं नियामकम्। लक्ष्यमुद्दिश्य लक्षमप्रवृत्तिः ननु लक्षणमुद्दिश्य लक्ष्यप्रवृत्तिरिति तस्मात् `प्रयोगमूलं व्याकरणम्, इति व्याकरणाल्लोक एव बलीयानिति भावः। अप्रस्तुतप्रशंसा॥ 22.82 ॥
यावन्तमिन्दुं प्रतिपत्प्रसूते प्रासावि तावानयमब्धिनापि।
तत्कालमीशेन धृतस्य मुर्द्ध्नि विधोरणीयस्त्वमिहास्ति लिङ्गम्॥ 22.83 ॥
अन्वयः–प्रतिपत् यावन्तम् इन्दुं प्रसूते अब्धिना अपि तावान् अयं प्रासावि, तत्कालम् ईशेन मूर्ध्नि धृतस्य विधोः अणीयस्त्वम् इह लिङ्गम् अस्ति।
जीवातु–यावन्तमिति। शुक्लप्रतिपद्यावन्तं यत्प्रमाणमेककलमिन्दुं प्रसूते, अब्धिनापि तावांस्तत्प्रमाम एककल एवायं प्रसावि, न तु पूर्ण इत्यर्थः। एतत्कथं ज्ञातमित्यत आह-तत्कालं तस्मिन्काले समुद्रादुत्पत्तेरवसर इव ईशेन मूर्ध्नि धृतस्य विधोरणीयस्त्वं नितरां कार्श्यमेवेहैककलत्वे लिङ्गं ज्ञापकमनुमापको हेतुरस्ति। यदि समुद्रेण संपूर्णोऽयमजनिष्यत, तर्हि शिवेनापि तदानीमेव शिरसि तावानेवाधास्यत, नतु तथा, तस्मात्प्रतिपदैककलः प्रसूतः तावान्समुद्रेणापीति प्रतिपदुत्पन्नोऽप्ययमेककलत्वादेव न दृश्यत इति भावः॥ 22.83 ॥
आरोप्यते चेदिह केतकत्वमिन्दौ दलाकारकलाकलापे।
तत् संवदत्यङ्कमृगस्य दाभिकस्तूरिका सौरभवासनाभिः॥ 22.84 ॥
अन्वयः–दलाकारकलाकलापे इह इन्दौ केतकत्वम् आरोप्यते चेत् तत् अङ्कमृगस्य नाभिकस्तूरिका सौरभवासनाभिः संवदति।
जीवातु–आरोप्यत इति। केतकत्वमिहेन्दौ चेद्यदि आरोप्यते यतो दलाकारः केतकीपत्र सदृशः धवलः कलानां कलापः समूहो यस्य तस्मिन्। तत्तस्मात्केतकदलवच्छुभ्रकलाकलापत्वाच्चन्द्रः केतकमेवेति रूप्यत इत्यर्थः। तत्तर्हि अङ्कमृगस्य मृगत्वेन नाभिकस्तूरिका कत्रींआरोपितं तत्केकत्वं कर्मीभूतं सौरभवासनाभिः कृत्वा संवदति, चन्द्रे केतकत्वं युक्तमित्यनुमन्यत इत्यर्थः। `नाभिः’ इति पाठेअङ्कमृगस्य नाभिः कर्त्री कस्तूरिकासंबन्धिसौरभवासनाभिः कृत्वा संवदतीति वा। केतक्यां कस्तूरीपरिमलो वर्तते, चन्द्रे कलङ्कमृगनाभिरूपा कस्तूरी वर्तते। तस्माच्चन्द्रे केतकत्वमारोपयितुं युक्तमित्यर्थः। तत्केतकत्वमङ्कमृगस्य नाभिकस्तूरिकायाः परिमलस्य वासनाभिः संक्रमणैः कृत्त्वा संवदति युक्त्या संवादं प्राप्नोत्येवेति वा। `तःभिः’ इति पाठे-अतिप्रसिद्धाभिर्वासनाभिः॥ 22.84 ॥
असीद्यथाज्यौतिषमेष गोलः शशी समक्षं चिपिटस्ततोऽभूत्।
स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषिपिण्याकदशावशेषः॥ 22.85 ॥
अन्वयः–एषः शशी यथाज्यौतिषं गोलः आसीत् ततः स्वर्भानुदंष्ट्रायुगयन्त्रकृष्टपीयूषपिण्याकदाशावशेषः चिपिटः अभूत्–समक्षम्।
जीवातु–आसीदिति। एष शशी यथाज्यौतषं गर्गादिमुनिप्रणीतग्रहगणितशास्त्रानतिक्रमेण गोलः कपित्थफलवद्धर्तुलोपरितनभाग एव पूर्वमसीत्। तर्हीदानीं कथमन्यथा दृश्यत इत्याशङ्क्याह-ततोऽनन्तरं कालक्रमेण स्वर्भानो राहोरूर्ध्वाधोभागस्थितदंष्ट्रायुगमेव यन्त्रं निष्पीडनचक्रं तेन कृष्टं निष्कृष्य गृहीतं पीयूषममृतं यस्य, तस्माद्वा, स चासौ पिण्याकश्च तस्य दशा गृहोतरसनीरसतिलादिपिण्डीमात्ररूपतावशेष उद्‌धृतो भागो यस्यैवंभूतः सन् चिपिटः पर्पटप्रायोऽभूदिति समक्षमिदानीं प्रत्यक्षेणानुभूयत एवेत्यर्थः। ज्योतिरधिकृत्य कृतो ग्रन्थो ज्यौतिषम्, `अधिकृत्य कॉते ग्रन्थे’ षोडशाङ्गुलस्य सूर्यस्याधोभागस्थो जलपूर्णकाचकूपिकाप्रायो यथोदिनः, तथैव पूर्वमासीदित्युक्तम्॥ 22.85 ॥
असावसाम्याद्वितनोः सका नो कर्पूरमिन्दुः खलु तस्य मित्रम्।
दग्धौ हि तौ द्वावपि पूर्वरूपाद्यद्वीर्यवत्तामधिकां दधाते॥ 22.86 ॥
अन्वयः–असाम्यात् असौ वितनोः सखा नो, खलु कर्पूरम् इन्दुः तस्य मित्रम्; हि यत् तौ द्वौ अपि दग्धौ पूर्वरूपात् अधिकां वीर्यवन्तां दधाते।
जीवातु–असाविति। असौ चन्द्रो वितनोरनङ्गस्य सखा नो भवति। कुतः? असाम्यादसादृस्यात्। `विवाहमैत्रीवैराणि भवन्ति समशीलयोः’ इति शास्त्रादनयोः साङ्गानङ्गयोः सादृश्याभावान्मैत्री न संगच्छत इत्यर्थः। तर्ह्यनयोर्लोकप्रसिद्धा मैत्री कथमित्यत आह–खलु निश्चितं कर्पूरापरनामैवेन्दुस्तस्यानङ्गस्य मित्रम्, तावतैव लोकप्रसिद्धिरिति विरोधाभाव इत्यर्थः। तत्र हेतुमाह-यद्यस्मात्तौ द्वावपि कामकर्पूरौ दग्धौ सन्तौ पूर्वरूपाददग्धदशायाः सकाशादधिकां वीर्यवत्तां हि स्पष्टं दधाते। पक्वो हि कर्पूरो वीर्यवत्तरो भवति, कामोऽपि दाहानन्तरमधिकं वीर्यवाननुभूयते। तदुक्तम्–`कर्पूर इव दग्धोऽपि शक्तिमान् यो जने जने। नमोऽस्त्ववार्यवीर्याय तस्मै कुसुमधन्वते॥’ इति। तस्मात्कामकर्पूरयोर्मैत्री युक्ता। `अथ कर्पुरमस्त्रियाम्। घनसारश्चन्द्रसंज्ञः’ इत्यमरः। `अस्त्रियाम्’ इत्यमरवचनात् `कर्पूर’शब्दो नपुंसकोऽपि॥ 22.86 ॥ ९
स्थाने विधोर्वा मदनस्य सख्यं सः शम्भुनेत्रे ज्वलति प्रलीनः।
अयं लयं गच्छति दर्शभाजि भास्वमन्ये चक्षुषि चादिपुंसः॥ 22.87 ॥
अन्वयः–वा विधोः मदनस्य सख्यं स्थाने; सः ज्वलति शम्भुनेत्रे प्रलीनः अयं च दर्शभाजि भास्वन्मये आदिपुंसः चक्षुषि लयं गच्छति।
जीवातु–स्थान इति। वाऽथवा विधोर्मदनस्य सख्यं स्नाने, युक्तमेवेत्यर्थः। तत्र हेतुः-स काम; ज्वलति देदीप्यमाने शंभुनेत्रे प्रलीनः प्रकर्षेण लीन एकतां प्रलयं गतः, विनष्ट इत्यर्थः। अयं चन्द्रश्च दर्शभाजि दर्शनं दर्शस्तद्‌व्यापारयुक्ते, अत च-अमावास्यां गते, भास्वन्मये सूर्यरूपे आदिपुंसो विष्णोश्चक्षुषि लयमेकतां गच्छति। दर्शे हि चन्द्रः सूर्य गच्छति, अत एव दर्शस्य सूर्येन्दुसंगम इति नाम। सूर्यो विष्णोर्दक्षिणं चक्षुः। तथा च तुल्ययोर्हरिहरयोर्नेत्रयोर्द्वयोरपि चन्द्रकामयोः प्रलीनत्वाद्दर्शे चन्द्रस्याप्यनङ्गतया च समशीलत्वादुचितैव मैत्रीत्यर्थः। तथा च-कामस्य चन्द्रसखिताप्रसिद्धिर्मुख्यैव युक्तेति भावः॥ 22.87 ॥
नेत्रारविन्दत्वमगान्मृगाङ्कः पुरा पुराणस्य यदेष पुंसः।
अस्याङ्क एवायमगात्तदानीं कनीनिकेन्दिन्दिरसुन्दरत्वम्॥ 22.88 ॥
अन्वयः–पुरा यदा एषः मृगाङ्कः पुरामस्य पुरुषः नेत्रारविन्दत्वम् आगात् तदानीम् अस्य अयम् अङ्कः एव कनीनिकेन्दिरसुन्दरत्वम् अगात्।
जीवातु–नेत्रेति। पुरा पूर्वं यदा यस्मिन्काले एष मृगङ्कः पुराणस्य पुंसः श्रीविष्णोर्नेत्रारविन्दत्वं नयनकमलत्वमगात्। तदा तस्मिन्काले अस्य विष्णुनेत्रारविन्दभूतस्यास्य चन्द्रस्यायमङ्कः कलङ्क एव कनीनिकाया इन्दिन्दिरस्य भ्रमरस्य सुन्दरत्वमगात्प्रापत्। `अदात्’ इति पाठे-अयं श्रीविष्णुरस्य चन्द्रस्याङ्के विषयेकनीनिकेन्दिन्दिरसुन्दरत्वमदात्। नेत्रे हि कनीनिकया भाव्यम्, अरविन्दे च भ्रमरेण। तथा चास्य नेत्रारविन्दरूपत्वादङ्कमेवोभयं श्रीविष्मुः कृतवानित्यर्थः। अङ्क एव कनीनिका कर्त्री भ्रमरेम सुन्दरत्वमस्यादादिति वा `इन्दिन्दिरालिषट्चरणचञ्चरीकालिनो द्विरेफाः स्युः’ इति हलायुषः॥ 22.88 ॥
देवेन तेनैष च काश्यपिश्च साम्यं समीक्ष्योभयपक्षभाजौ।
द्विजाधिराजै हरिणाश्रितौ च युक्तं नियुक्तौ नयनक्रियायाम्॥ 22.89 ॥
अन्वयः–तेन देवेन उभयपक्षभाजौ द्विजाधिराजौ हरिणाश्रितौ च(इति) साम्यं समीक्ष्य एषः काश्यपिः च युक्तं नयनक्रियायां नियुक्तौ।
जीवातु–देवेनेति। तेन देवेन श्रीवष्णुना एष चन्द्रः काश्यपिर्गरुडस्चैतौ द्वावपि साम्यं समानधर्मतां समीक्ष्य तुल्यायां नयनक्रियायां क्रमेण नेत्रव्यापारे वाहनव्यापारें च यन्नियुक्तौ, तद्युक्तमुचितमित्यर्थः। `चो’ अन्योन्यसमुच्चये। साम्यमेवाह-उभयपक्षौ शुक्लपक्षकृष्णपक्षौ भजति चन्द्रः, गरुडस्तु द्वौ छदौ भजति, तादृशौ द्वावपि। तथा–द्विजानां ब्राह्मणानां राजा चन्द्रः। गरुडस्तु पक्षिणां राजा, तादृशौ। तथा–हरिणेन कलङ्कमृगेणाश्रितश्चन्द्रः, गरुडस्तु हरिणा विष्णुना वाहनार्थेनाश्रितः, तादृशौ। एवमुभयोः साम्यात्सम एव व्यापारे यन्नियुक्तौ तदुचितं कृतमिति भावः। काश्यपिः, वाह्वादित्वादिञ्॥ 22.89 ॥
यैरन्वमायि ज्वलनस्तुषारे सरोजिनीदाहविकारहेतोः।
तदीयधूमौघतया हिमाशौ शङ्के कलङ्कोऽपि समर्थितस्तैः॥ 22.90 ॥
अन्वयः–यैः सरोजिनीदाहविकारहेतोः तुषारे ज्वलनः अन्वमायि, शङ्केतैः हिमांशौ कलङ्कः अपि तदीय धूमौघतया समर्थितः।
जीवातु–यैरिति। यैः पण्डितैः सरोजिन्याः दाहरूपाद्विकाराद्धंतोस्तुषारे ज्वलनोऽग्निरन्वमायि। तुषारः साग्निर्भवितुमर्हति, सम्बन्धे सति दाहकारित्वात्, साग्निभूदेशवत्, तप्तोदकवद्वेति हिमे विषये वह्निरनुमित इत्यर्थः। तैः पण्डितैर्हिमांशौ तुषारमये चन्द्रे वर्तमानः कलङ्कोऽपि तदीयधूमौघतया हिमाग्निसंम्बन्धिधूमसमूहरूपत्वेन समर्थित इत्यहं शङ्के। वह्नौ हि दूमेन भाव्यम्, चन्द्रश्च तुषारमयत्वादुक्तरीत्या वह्निमान्, तथा च कलङ्को धूमसमूह एवेति तैः समर्थितमित्यहं संभावयामीत्यर्थः॥ 22.90 ॥
स्वेदस्य धाराभिरिवापगाभिर्वायप्ता जगद्‌भारपरिश्रमार्ता।
छायापदेशाद्वसुधा निमज्जय सुधाम्बुधावुज्झति खेदमत्र॥ 22.91 ॥
अन्वयः–जगद्‌भारपरिश्रमार्त्ता स्वेदस्य धाराभिः इव आपगाभिः व्याप्ता वसुधा छायापदेशात् अत्र सुधाम्बुदौ निमज्ज खेदम् उज्झति।
जीवातु–स्वेदस्येति। वसुधा छायापदेशात्स्वीयप्रतिबिम्बव्याजेन सुधाम्बुधावत्र चन्द्रे निमज्जयान्तः प्रविश्य खेदं जगद्भारपरिश्रमपीडामुज्झतीव। किंभूता? जगद्भारवहननिमित्तः परिश्रमस्तेनार्ता नितरां पोडिता। अत एव-स्वेदस्य धाराभिरिवापगाभिर्व्याप्ता समन्तात्पूरिता। अमृतसमुद्रनिमज्जने हि खेदो गच्छत्येव। यस्याश्च तत्तश्चदीरूपः स्वेदः, तस्याः श्रमहरणे सुधासमुद्र एवोचितः। एतेन कलङ्कस्य मृगशशभूच्छायाप्रभृति मदभेदा वर्णिताः॥ 22.91 ॥
ममानुमैवं बहुकालनीलीनिपातनीलः खलु हेमशेलः।
इन्दोर्जगच्छायमये प्रतीके पीतोऽपि भागः प्रतिबिम्बितः स्यात्॥ 22.92 ॥
अन्वयः–हेमशैलः खलु बहुकालनीलीनिपातनीलः–एवं मम अनुमा, इन्दोः जगच्छायमये प्रतीके पीतः भागः अपि प्रतिबिम्बितः स्यात्।
जीवातु–ममेति। हेमशैलो मेरुः खलु निश्चितं सर्गमारभ्याद्ययावदतिक्रान्तेन बहुना कालेन कृत्वा नीलीनिपातः स्यामिकालगनं तेन कृत्वा वा नीलः बहुकालीनत्वान्नीलमलसंबन्धान्नीलवर्णः संजातोऽस्तीति, एवंयकारा ममानुमाऽनुमानम्, एवमहं संभावयामीत्यर्थः। अन्यथा यदि स्वर्णाचलः कालभूयस्त्वेन न नीलीभूतः कुंतु हेममयत्वात्पीत एव स्यात्, तर्हि इन्दोर्जगच्छायमये जगत्प्रतिबिम्बभूते कलङ्करूपे प्रतीकेऽवयवे मेरोः पीतोऽपि बागः प्रतिबिन्बितः स्यात्पीतोंऽशोऽपिदृश्येत, तस्मात्स्वर्णालो नील एव जातः। तथा च सकलाया अपि भूमेर्नीलवर्णत्वात्तत्प्रतिबिम्बरूपः कलङ्कोऽपि नील एव युक्त इत्यर्थः जगच्छाये, `विभाषा सेना-’ इति षण्ढत्वम्॥ 22.92 ॥
माऽवापदुन्निद्रसरोजपूजाश्रियं शशी पद्‌मनिमीलितेजाः।
अक्षिद्वयेनैव निजाङ्करङ्कोरलङ्कृतस्तामयमेति मन्ये॥ 22.93 ॥
अन्वयः–पद्मनिमीलितेजाः शशी उन्निद्रसरोजपूजाश्रियं मा अवापत् निजाङ्करङ्को अक्षिद्वयेन एव अलह्कृतः अयं ताम् एति-इति मन्ये।
जीवातु–मेति। शशी उन्निदैर्विकसितैः सरोजैः कृत्वा या पूजा तज्जनितां श्रियं मा अवापत् मा स्म लभत। यतः-पद्मनिमीलि कमलसंकोचकं तेजो यस्य सः। विकसितानामपि कमलानां पूजार्थं चन्द्रसविधे क्रियमाणानां चन्द्रतेजसां संकोचस्यैव संभवादुन्नद्रसरोजपूजाश्रियं प्राप्नोति?। प्रकारान्तरेण प्राप्नोतीत्याह-निजाङ्कभूतस्य रङ्कोर्मृगस्याक्षिद्वयेनैवालंकृतोऽयं चन्द्रस्तामुन्निद्रसरोजपूजाश्रियमेति प्राप्नोति तन्नयनयोरुन्निद्रकमलरूपत्वादित्यर्थ इत्यहं मन्ये। अङ्क मृगनेत्राभ्यां कृत्वाऽयं चन्द्रो विकसितकमलाभ्यां पूजामिव शोभां प्राप्नोति भावः। एत्येवेति वा॥ 22.93 ॥
य एष जागर्त्ति शशः शशाङ्केबुधो विधत्ते क इवात्र चित्रम्?।
अन्तः किलेतत्पितुरम्बुराशेरासीत् तुरङ्गोऽपि मतङ्गजोऽपि॥ 22.94 ॥
अन्वयः–यः एषः शशः मृगाङ्के जागर्त्ति, अत्र कः इव बुधः चित्रं विधत्ते, किल एतत्पितुः अम्बुराशेः अन्तः तुरङ्गः अपि आसीत् मतङ्कजः अपि (आसीत्)।
जीवातु–य इति। य एष प्रत्यक्षदृश्यः शशः शशाङ्के जागर्ति स्फुरति, अत्र विषये क इव बुधश्चित्रमत्राश्चर्यं विधत्ते? अपि तु न कोऽपि। किल यस्मादेतत्पितुरम्बुरशेरन्तर्मध्ये उच्चैः श्रवः संज्ञकस्तुरङ्गोऽप्यासीत्। ऐरावताख्यो मतङ्गजोऽप्यासीत्। यदीयपितुर्मध्येऽश्वगजादिकं भवति, तदीय(पुत्र)मध्ये शशमात्रसंभवे किमाश्चर्यमित्यर्थः॥ 22.94 ॥
गौरे प्रिये भातितमां तमिस्रा ज्योत्स्नी च नीले दयिता यदस्मिन्।
शोभाप्तिलोभादुभयोस्तयोर्वा सितासितां मूर्तिमयं बिभर्त्ति॥ 22.95 ॥
अन्वयः–यत् स्मिन् गौरे प्रिये तमिस्रा दयिता नीले च ज्यौत्स्नी भातितमां, तयोः उभयोः शोभाप्तिलोभात् अयं सितासितां वा मूर्तिम् बिभर्त्ति।
जीवातु–गौर इति। तमिस्रा तमोबहुलास्य दयिता रात्रिर्गौरे प्रिये चन्द्रे विषये भातितमाम्। तथा–ज्यौत्स्नी च चन्द्रिकायुक्ता धवलाऽस्य दयिता रात्रिनीले प्राणेसेऽस्मिंश्चन्द्रे नितरां शोभते, भिन्नवर्णे हि शोभते इत्यर्थः। तस्माद्धेतोस्तयोस्तमिस्राज्यौत्स्न्योरुभयोरपि विषये स्वस्य शोभाप्राप्तेर्लोभादभिलाषात्तयोरेव वा पत्न्योर्या शोभाप्राप्तिस्तदभिलाषाद्धवलश्यामलवत्संबन्धात्तमिस्राज्यौत्स्न्योः शोभया भवितव्यमिति। अयं चन्द्रः सितासितां धवलां श्यामलां च मूर्तिं बिभर्ति। `वा’ इवार्थः। शोभाप्तिलोभादिवेत्यन्वयः। नीलभागे ज्यौत्स्नीं प्रियां धारयितुं धवले च तामसीमिति यथासंख्यम्॥ 22.95 ॥
वर्षातपानावरणं चिराय काष्ठौघमालम्ब्य समुत्थितेषु।
बालेषु ताराकवकेष्विहैकं विकस्वरीभूतमवैमि चन्द्रम्॥ 22.96 ॥
अन्वयः–चिराय वर्षातपानावरणं काष्ठौधम् अवलम्ब्य समुत्थितेषु बालेषु इह तारावकेषु विकस्वरीभूतम् एकं चन्द्रम् अवैमि।
जीवातु–वर्षेति। अहं बालेषु तनुषु सूक्ष्मरूपेष्वविकसितेषु चेह प्रत्यक्षदृश्येषु तारासु नक्षत्रेष्वेव कवकेषु छत्राकेषु मध्ये चिरकालोत्पन्नत्वाद्विकस्वरीभूतं विकसितमेकं छत्राकमेव चन्द्रमवैमि मन्ये। किंभूतेषु ताराकवकेषु? चिराय बहुकालं वर्षास्वृतौ तपे गृष्मर्तौ च वर्षेषु जलवृष्टिषु आतपेषूष्णेषु च सत्सु अनावरणमनाच्छादितं काष्ठौघं दिक्समूहमेव दारुसमूहमालम्ब्य समुत्थितेषूत्पन्नेषु। वर्षाकाले ह्यनावृतेषु जलस्तिमितेषु पश्चादुष्मतप्तेषु च काष्ठेषु सूक्ष्मस्थूलानि छत्राकाणि भवन्ति। तथा च तारा अल्पकवकानि, चन्द्रस्तु स्थूलकवकमिवेत्युत्प्रेक्षा॥ 22.96 ॥
दिनावसाने तरणेरकस्मात्रिमज्जनाद्विश्वविलोचनानि।
अस्य प्रसादादुडुपस्य नक्तं तमोविपद्द्वीपवतीं तरन्ति॥ 22.97 ॥
अन्वयः–दिनावसाने तरणेः अकस्मात् निमज्जनात् विश्वविलोचनानि नक्तम् अस्य ुडुपस्य प्रसादात् तमोविपद्‌द्वीपवतीं तरन्ति।
जीवातु–दिनेति। विश्वस्य जगतो विलोचनानि दिनावसाने तरणेः सूर्यस्याकस्मादसंभावितहेतोर्निमज्जनात्प्रतीचीसागरनीरप्रवेशाद्धेतोर्नक्तं रात्रौ तमोनिमित्तां स्खलनादिरूपां विपदमेव द्वीपवतीं महानदीमस्योडुपस्य चन्द्रस्य प्रकाशरूपात्प्रसादात्तरन्ति। चन्द्रेण तमो निरस्य सर्वं प्रकाशितमिति भावः। अन्येऽपि रात्रौ तरणेर्नौकाया अकस्मान्मज्जनाद्धेतोर्ब्रुडनरूपामापन्नदीमुडुपस्याकस्मादागतस्याल्पयानपात्रस्य प्रसादात्तरन्ति॥ 22.97 ॥
किं नाक्ष्णि नोऽपि क्षणिकोऽणुकोऽयं भानस्ति तेजोमयबिन्दुरिन्दुः।
अत्रेस्तु नेत्रे घटते यदासीन्मासेन नाशी महतो महीयान्॥ 22.98 ॥
अन्वयः–नः अपि अक्ष्णि किम् अणुकः क्षणिकः अयं तेजोमयबिन्दुः इन्दुः भान् न अस्ति? महतः अत्रेः नेत्रे तु महीयान् आसीत्, यत् मासेन नाशी घटते।
जीवातु–किमिति। नोऽस्माकममहतां पामराणामपि अक्ष्णि नेत्रविषये तेजोमयस्तेजोरूपो बिन्दुरेवायमिन्दुरंगुल्या नयनप्रान्तचिपिटीकरणे धवलवर्तुलाकारेण भान् शोभमानः किं नास्ति? अपि त्वस्मदादिनेत्रेऽपीन्दुर्वर्तत एव; परम्–अणुकोऽल्पीयान्, तथा क्षणिकः क्षणमात्रावस्थआयी, यावच्चिपिटीकरणमेव दृश्यत इत्यर्थः। तर्ह्यस्माच्चन्द्रात्तस्य वैलक्षण्यं कथमत आह–अत्रेर्मुनेर्नेत्रे तु पुनस्तेजोमयबिन्दुरयमिन्दुर्महीयानितरापेक्षया नितरां महापरिमाम आसीत्। तथा मासेन कृत्वा नाशी प्राप्तविनासश्चाभूदिति यत् तद्वटते, एतद्युज्यत इत्यर्थः। यतः-कीदृशस्यात्रेः? महतो महानुभावस्य। `सर्वै हि महतां महत्’ इति न्यायेन महतोऽत्रेस्तेजोमयबिन्दुरप्ययमिन्दुर्महापरिमाणश्चिकालस्थायी चेत्यस्मन्नेत्रवर्तितेजोमयबिन्दोरिन्दोर्वैलक्षण्यं युक्तमेवेति भावः। अणुकः, `अल्पे’ इति कन्। नाशीति, अस्त्यर्थे इनिः॥ 22.98 ॥
त्रातु पतिं नैषधयः स्वशक्त्या मन्त्रेण विप्राः क्षयिणं न शेकुः।
एनं पयोधिर्मणिभिर्न पुत्रं सुधा प्रभावैर्न निजाश्रयं वा॥ 22.99 ॥
अन्वयः–ओषधयः स्वशक्त्या क्षयिणं पतिं त्रातु न शेकुः, विप्राः मन्त्रेण; पयोधिः एनं पुत्रं मणिभिः न सुधा वा निजाश्रयं प्रभावैः न।
जीवातु–त्रातुमिति। मृतसंजीविन्यादय ओषधयः स्वशक्त्या स्वसामर्थ्येन निजरसवीर्यविपाकाभ्यां कृत्वा ओषधीशत्वात् पतिमेनं चन्द्रम् क्षयिणं प्रतिदिनं कलाक्षयवन्तम्, अथ च–क्षयरोगिणं सन्तं त्रातुं न शेकुः। तथा–विप्राद्विजराजत्वान्निजस्वामिनं क्षयिणं मन्त्रेण श्रुतिसामर्थ्येन कृत्वा रक्षितुं न शेकुः। तथा-पयोधिरपि पुत्रं क्षयिममेनं मणिभिरनेकप्रकारैरन्तःस्थै रत्नैः कृत्वा रक्षितुं न शशाकेति वचनविपरिणामः। तथा-सुधापि स्वाधारभूतं क्षयिणमेनमजरामरत्वजनकैः प्रभावैः कृत्वा त्रातु न शशाक। `वा’ समुच्चये। ओषध्यादयः स्वशक्त्यादिरक्षसाधने सत्यपि पतित्वात्पुत्रत्वान्निजाश्रयत्वाच्च क्षयाद्रक्षितुं समर्था न बभूवुरिति विशेषोक्त्या पूर्वकर्मजो रोगो महानुभावैरप्यपनेतु न शक्यत इति व्यज्यते। `अचिन्त्यो हि मणिमन्त्रौषधीनां प्रभाव’ इत्योषध्यादीनां सामर्थ्य प्रसिद्धम्॥ 22.99 ॥
मृषा निशानाथमहः सुधा वा हरेदसौ वा न जराविनाशौ।
पीत्वा कथं नापरथा चकोरा विधोर्मरीचीनजरामराः स्युः?॥ 22.100 ॥
अन्वयः–वा सुधा निशानाथमहः मृषा, वा असौ जराविनाशौ न हरेत्, अपरथा चकोराः विरोधोः मरीचीन् पीत्वा कथम् अजरामराः न स्युः।
जीवातु–मृषेति। निशानाथस्य चन्द्रस्य महस्तेजः सुधा वा पीयूषमेवेति लोकवादो मृषा असत्य एव वा भवेत्। वा अथवा, यदि चन्द्रतेजः सुधैवेति लौकिकप्रवादः सत्य एव, तर्ह्यसौ चन्द्रतेजोरूपा सुधा एव, तर्ह्यसौ चन्द्रतेजोरूपा सुधा जराविनाशौ जरामरणे न हरेद्विनाशयेदित्यङ्गौकार्यम्। चन्द्रतेजः सुधा नैवेति वाऽङ्गीकार्यम्, अथ चैतद्रूपा सुधापि जरामरणे न नाशयतीत्यङ्गीकार्यमित्यर्थः। अपरथान्यथायदि चन्द्रतेजः सुधेति प्रवादः सत्यः तद्रूपा सुधा जरामरणे विनाशयेत्, तर्हि चकोराख्याः पक्षिणो विधोर्मरीचीन्पीत्वापि कथं किमिति न अजरामराः स्युर्जरामरणरहिता भवेयुः?। चन्द्रतेजसः सुधात्वे, एतस्याश्च सुधाया जरामरणविनाशे सामर्थ्यसद्भावे, तत्पाते चकोरैरप्यजरामरैर्भाव्यम्, न च ते तथा, तस्मात्तत्तेजसः सुधार्त्व वा मृषा भवेत्, सुधाभूतस्यापि वा जरामरणापहारे सामर्थ्य नास्तीत्यन्यतरदङ्गीकार्यम्। तथा-`सुधा प्रभावैर्न निजाश्रयं वा’ इति पूर्वश्लोकांशसमाधानमित्याशयः। `अजरामरीस्तुः’-इति पाठे च्विः॥ 22.100 ॥
वाणीभिराभिः परिपक्त्रिमाबिर्नरेन्द्रमानन्दजडञ्चकार।
मुहूर्त्तमाश्चार्यरसेन भैमि हैमीव वृष्टिस्तिमितञ्च तं सा॥ 22.101 ॥
अन्वयः–सा बैमी परिपक्त्रिमाभिः आभिः वाणीभिः तं नरेन्द्रं मुहूर्त्तम् आनन्दडम् आश्चर्यरसेन च हैमी वृष्टिः इव स्तिमितं चकार।
जीवातु–वाणीभिरिति। सा भैमी आभिः पूर्वोक्ताभिः परिपाकेन निर्बृत्ताभिः परिमतकवित्वशक्तितया प्रसादादिगुणयुताभिर्वाणीभिः कृत्वा तं नरेन्द्रमानन्दजडं हर्षपरवशं चकार। तथा–मुहूतमद्‌भुतापरनाम्नाश्चर्येण रसेन, अथ च-तद्रूपेण जलेन हैमो तुषारसंबन्धिनी वृष्टिरिव भैमी स्तिमितमतिस्नेहात्प्रप्तस्तम्भं च, अथ च-आर्द्रं चकार। हिमवृष्टिर्यथाऽन्यं जडमार्द्रां च करोति, तथेयमप्यानन्दजडं सातिस्नेहं च चकारेत्यर्थः। परिपक्त्रिमाभिः, ड्वित्त्वान्निर्वृत्तेऽर्थे क्त्रिः, क्त्रेर्मप्॥ 22.101 ॥
इतो मुखाद्वागियमाविरासीत्पीयूषधारामधुरेति जल्पन्।
अचुम्बदस्याः स मुखेन्दुबिम्बं संवावदूकश्रियमम्बुजानाम्॥ 22.102 ॥
अन्वयः–`इयं पीयूषधारामधुरा वाक् इतः मुखात् आविरासीत्’–इति जल्पन् सः अम्बुजानां संवावदूकश्रियम् अस्याः मुखेन्दुबिम्बम् अचुम्बत्।
जीवातु–इत इति। इत्येवं जल्पन् वदन् स नलोऽम्बुजानां संवावदूका नितरां संवादिनी श्रीः शोभा यस्य तादृशं कमलतुल्यशोभमस्या मुखेन्दुबिम्बमचुम्बत्, चन्द्रकमलतुल्यं भैमीमुखं प्रीत्यतिशयादचुम्बदित्यर्थः। इति किम्? हे भैमि? इयमुक्तप्रकारा पीयूषधारावन्मधुरा वाक् इतः प्रत्यक्षदृश्याद्भवन्मुखादाविरासीत् निःसृतेति। इत इत्यनेन सामीप्याभिनयकारिणा करेण भैमीमुखं चिबुके धृतमिति ध्वन्यते। मुखस्येन्दुबिम्बत्वेन च पीयूषधारासंबन्धौचिती सूच्यते। तथा च पीयूषधारया मधुरेत्यपि व्याख्येयम्। `संवावदूक-’ इत्यादिना च भैम्याः पद्मिनीत्वं प्रसिद्धम्। चन्द्रबिम्बस्य कमलैः सह विसंवादो विरोधित्वात्, एतन्मुखचन्द्रबिम्बस्य तु कमलैः सह संवादः कमलसौभाग्यभाक्त्वादिति प्रसिद्धचन्द्रबिम्बादेतन्मुखबिम्बमधिकमिति सूच्यते। अत्यर्थं संवदति संवावदूका, संपूर्वोऽयं वदतिर्मैत्र्यां वर्तते॥ 22.102 ॥
प्रियेण साऽथ प्रियमेवमुक्ता विदर्भभूमीपतिवंशमुक्ता।
स्मितांशुजालं विततार तारा दिवः स्फुन्तीव कृतावतारा॥ 22.103 ॥
अन्वयः–अथ प्रियेण एवं प्रियम् उक्ता विदर्भभूमीपतिवंशमुक्ता सा दिवः कृतावतारा स्फुरन्ती तारा इव स्मितांशुजालं विततार।
जीवातु–प्रियेणेति। प्रियेम एवं `इतो मुखात्–‘इत्यादिरूपं प्रियं वचनमुक्ता भाषिता विदर्भभूमीपतेर्वशेन कुलेन मुक्ता जनिता। तथा-स्फुरन्ति दीप्यमानकान्तिः सोल्लासा सा भैमी अथ तनलवचनानन्तरं स्मितांशुजालं विततार, तदेव नलाय प्रीतिदानमिव ददावित्यर्थः। केव? दिवः सकाशात् क्षीणपुण्यतया स्वेच्छया वा कृतावतारा भूलोकमागता रोहिणी तारेव स्फुरन्ती किरणजालं विततारेवेति उत्प्रेक्षोपमा वा। वंशः कुलमेव वंशो वेणुस्तत्र जाता देवधार्या मुक्ता मौक्तिकरूपा। `कृतावतारा’ इत्यत्र तरणं तरः, `ऋदोरप्’ तदन्तात्प्रज्ञादित्वात्स्वार्थेऽणि पश्चात् `अत्र’ शब्देन सह `सह सुपा’ इति समासः॥ 22.103 ॥
स्ववर्णना न स्वयमर्हतीति नियुज्य मां त्वन्मुखमिन्दुरूपम्।
स्थानेऽत्युदास्ते शशिनः प्रसस्तौ धरातुरासाहमिति स्म साऽऽह॥ 22.104 ॥
अन्वयः–सा धरातुरासाहम् इति आह स्म-`स्ववर्णना स्वयं न अर्हति’-इति इन्दुरूपं त्वन्मुखं मां शशिनः प्रशस्तौ नियुज्य स्थाने उदास्ते।
जीवातु–स्वेति। सा धरातुरासाहे भूमीन्द्रमित्याह स्म। इति किम्? हे प्रिय! इन्दुरूपं त्वन्मुखमिति हेतोश्चन्द्ररूपात्मस्तुतौ मां नियुज्याज्ञाप्य शशिनः प्रशस्तौ वर्णनविषयेऽत्युदास्तेऽतितरामुदासीनं भवति। एतत्स्थाने युक्तम्। हेतुमेवाह-इति किम्? `सतामेतदकर्तव्यं परनिन्दाऽऽत्मनः स्तुतिः’ इत्यादिवचनात्स्वयमात्मनैव स्वस्य वर्णना स्तुतिर्नार्हति न युक्तेति। इयत्पर्यन्तं मया चन्द्रो वर्णितः, इदानीं त्वया वर्णनीयः, तूष्णींभावो वा युक्त इत्याशयेन भैमी चन्द्रस्तुतौ तं सोत्प्रासं प्रावर्तयदिति भावः। `तुरासाहम्’ इत्यत्र तृतीयसर्गे `धरातुरासाहि-’ इत्येतच्छलोकस्था शङ्का ज्ञातव्या, तत्रोत्तरम्-इन्दुरूपं त्वन्मुखं, चन्द्ररूपात्मस्तुतौ मां नियुज्य शशिनः प्रशस्तौ अत्युदास्ते। साहं धरावदतुराऽनुत्तालाऽवेगा वा, पृथ्वीवद्‌गम्भीरेत्यर्थः। अर्थआत्तमाह स्मेति ज्ञातव्यम्॥ 22.104 ॥
तयेरितः प्राणसमः सुमुख्या गिरं परिहासरसोत्किरां सः।
भूलोकसारः स्मितवाक् तुषारभानुं भणिष्यन् सुभगां बभाण॥ 22.105 ॥
अन्वयः–भूलोकसारः प्राणसमः तया सुमुख्या परिहासरसोत्किरां गिरम् ईरितः स्मितवाक् तुषारभानुं भणिष्यन् सः सुभगां (परिहासरसोत्किरां गिरं) बभाण।
जीवातु–तयेति। स भूलोके सारः श्रेष्ठतमो नलः स्मितवाक् तुषारभानुं चन्द्रं भणिष्यन् वर्णयिष्यन् सन् सुभगां सौभाग्यवतीं भैमीं बभाम। किंभूतः? तथा सुमुख्या भैम्या परिहासरस्योत्किरामुद्‌बावयित्रीं गिरमौरित उक्तः। तथा-प्राणसमोऽतिप्रेयान्। तया चन्द्रवर्णने ईरितः सन् परिहासरसोत्किरां गिरं सुभगां यथा तथा बभाणेति वा। उत्किराम्, `इगुपध-’ इति कः। पूर्वेण षष्ठीसमासः। भणिष्यन्, हेतौ लृटः शता॥ 22.105 ॥
तवानने जातचरीं निपीय गीति तदाकर्णनलोलुपोऽयम्।
हातुं न जातु स्पृहयत्यवैमि विधुं मृगस्त्वद्वदनभ्रमेण॥ 22.106 ॥
अन्वयः–अवैमि-तवानने जातचरीं गीतिं निपीय तदाकर्णनलोलुपः अयं मृगः त्वद्वदनभ्रमेण विधुं हातुं न स्पृहयति।
जीवातु–तवेति। हे प्रिये! अयं मृगः तवानने जातचरीं भूतपूर्वा गीर्ति स्वरमाधुरीं निपीय सादरमाकर्ण्येदानीमपि तस्या भवद्‌गीतेराकर्णनलोलुपोऽतितरां लुब्धोऽतिसादृश्यात्त्वद्वदनभ्रमेण विधुं हातुं जातु कदाचिदपि न स्पृहयतीत्यहमवैमि; `मृगा हि गानप्रिया भवन्ति’ इति चन्द्रं त्वन्मुखभ्रान्त्या त्यक्तुं नेच्छतीत्यहं शङ्क इत्यर्थः। जातचरीं, `भूतपूर्वे चरट्’। लोलुपः, यडन्तात्पचाद्यचि `यङोऽचि च’ इति यङो लुक्॥ 22.106 ॥
इन्दोर्भ्रमेणोपगमाय योग्ये जिह्वा तवास्ये विधुवास्तुमन्तम्।
गीत्वा मृगं कर्षति भन्त्स्यता किं पाशीबभूवे श्रवणद्वयेन?॥ 22.107 ॥
अन्वयः–इन्दोः भ्रमेण उपगमाय योग्ये तव आस्ये जिह्वा गीत्वा विधुवास्तुमन्तं मृगं कर्षतु भन्त्स्यता श्रवणद्वयेन किं पाशी बभूवे।
जीवातु–इन्दोरिति। अतिसादृश्यादिन्दुरेवेदमितीवेन्दोर्भ्रमेण मृगस्योपग माय योग्ये प्राप्तुमर्हे तवास्ये वर्तमाना जिह्वा कर्त्री गीत्वा वर्णस्वरमा धुर्य कृत्वा विधूरूपं वास्तु वसतिगृहं तद्विद्यते यस्य तं विधुवास्तुमन्तं चन्द्रमध्यस्तायिन मपि मृगं कर्षतु। कीतेर्मधुरतमत्वान्मृगस्य च प्रियगानत्वात्स्वसमीपमानयत्वित्यर्थः। तदाकर्षणसाधनमुत्प्रेक्षते-भन्त्स्यता आगमिष्यतो मृगस्यात्रैव निवासार्थं बन्धनं करिष्यता श्रवणद्वयेन पाशोबभूवे किम्? तद्रूपया बन्धनरज्ज्वा समाकर्षत्वित्यर्थः। अन्यापि शबरी गीत्या मृगमाकृष्य पाशेन बध्नाति। भवन्मुखं निष्कलङ्कमृताधिकगीतियुक्तं च; चन्द्रस्तु सकलङ्क इति भावः। चन्द्रवर्णनावसरेऽपि मध्ये मध्ये भैमीमुखवर्णनानुरागातिशयसूचनार्था। अयं श्लोकः क्षेपक इति केचित्॥ 22.107 ॥
आप्यायनाद्वा रुचिभिः सुधांशोः सैत्यात्तमःकाननजन्मनो वा।
यावन्निशायामथ घर्मदुःस्थस्तावद्‌व्रजत्यह्नि न शब्दपान्थः॥ 22.108 ॥
अन्वयः–सुधांशोः रुचिभिः आप्यायनात् वा तमः काननजन्मनः शैत्यात् वा निशयां शब्दपान्थः यावत् व्रजति अथ तावत् घर्मदुःस्थः अह्नि न।
जीवातु–आप्यायनादिति। शब्दरूपः पान्थो नित्यपथिको निशायां यावद्‌व्रजति तावदथ पश्चात्साकल्येन वा अह्नि न गच्छति, यस्माद्दिने घर्मेणातपेन दुःस्थः संतप्तः, तस्माद्दिनेऽल्पमेव गच्छतीत्यर्थः। रात्रौ दूरागमने हेतुमाह-सुधांशोरमृतरूपाभी रुचिभिराप्यनादुज्जीवितबलत्वाद्वा तम एव काननं वनं तस्माज्जन्म यस्य गाढान्धकारजाताच्छैत्याद्वा तेजसोऽभावे तमसः संभवादौष्ण्याभावाच्छैत्यम्। अत एव रात्रौ बहु गच्छति, दिने चोष्णेन श्रान्त इव बहु न गच्छति। शब्दो हि रात्रौ स्वभावादतिदूरेऽपि श्रूयते; दिवा तु न तथा। पथिकोऽपि रात्रौ शैत्याद्‌दूरं गच्छति, दिने चाल्पम्। दूरश्रवणप्रतिपादकोऽय श्लोकः॥ 22.108 ॥
दूरेऽपि तत्तावकगानपानाल्लब्धावधिः स्वादुरसोपभोगे।
अवज्ञयैव क्षिपति क्षपायाः पतिः खलु स्वान्यमृतानि भासः॥ 22.109 ॥
अन्वयः–हूरे अपि तत्तावकगात्रपानात् स्वादूरसोपभोगे लब्धावधिः खलु क्षपायाः पतिः अवज्ञया इव स्वानि अमृतानि भासः क्षिपति।
जीवातु–दूरेऽपीति। हे प्रिये! खलु निश्चितं क्षपायाः पतिश्चन्द्रो भासश्चन्द्रिका एव स्वान्यमृतानि क्षिपति अधो मुञ्चति। किंभूतः? दूरेऽप्यतितरां देशव्यवधानेऽपि तत्प्रसिद्धं मधुतरं तावकं गानं तस्य पानात्सादरश्रवणाद्धेतोः स्वादुरसोपभोगे माधुर्यातिशयानुभवे विषये लब्धावधिः प्राप्तमर्यादः। उत्प्रेक्षते-अवज्ञयेव अनुभूतभवद्‌गीतमाधुर्यापेक्षयाल्पमाधुर्यतयावमाननयेवेत्यर्थः। अयं श्लोको भिन्न एव, नतु युग्मम्॥ 22.109 ॥
अस्मिन्न विस्मापयतेऽप्यमस्मांश्चक्षुर्बभूवैष यदादिपुंसः।
तदत्रिनेत्रादुदितस्य तन्वि! कुलानुरूपं किल रूपमस्य॥ 22.110 ॥
अन्वयः–तन्वि, एषः यत् आदिपुंसः चक्षुः बभूव अस्मिन् अस्मान् न विस्मापयते; किल अत्रिनेत्रात् उदितस्य अस्य तत् कुलानुरूपं रूपम्।
जीवातु–अस्मिन्निति। हे तन्वि! एष चन्द्रः आदिपुंसः श्रीविष्णोर्वामं चक्षुर्बभूवेति यत्। अस्मिन्नेत्रभवनविषयेऽयं नेत्रभूतश्चन्द्रोऽस्मान्न विस्मापयते आश्चर्यं न प्रापयति, अत्रार्थेऽस्माकमाश्चर्यं न भवतीत्यर्थः। किल यस्माद्धेतोरत्रिनेत्रादुदितस्योत्पन्नस्यास्य तच्चक्षुर्भवनं कुलानुरूपं कुलोचितं स्वरूपम्। नेत्ररूपात्कारणाज्जातस्य नेत्रीभवनमुचितमेव। तस्मादस्य पुराणपुरुषनेत्रभवने न किंचिदस्माकं चित्रमित्यर्थः। विस्मापयते, `नित्यं स्मयतेः’ इत्यात्त्वम्, `भीस्म्योर्हेतुभये’ इति तङ्। अस्मान्, जनान्तरापेक्षया बहुत्वम्॥ 22.110 ॥
आभिर्मृगेन्द्रोदरि! कौमुदीभिः क्षीरस्य धाराभिरिव क्षणेन।
अक्षालि नीली रुचिरम्बरस्था तमोमयीयं रजनीरजक्या॥ 22.111 ॥
अन्वयः–मृगेन्द्रोदरि, रजनीरजक्या क्षीरस्य धाराभिः इव आभिः कौमुदीभिः अम्बरस्था तमोमयी इयं नीली रुचिः क्षणेन अक्षालि।
जीवातु–आभिरिति। हे मृगेन्द्रोदरवत्कृशमुदरं यस्यास्तादृशि! रजन्येव रजकी तया क्षीरस्य दुग्धस्य धाराभिरिव दृश्यमानाभिर्धवलतराभिराभिः कौमुदीभिः कृत्वाऽम्बरस्था गगनस्था तमोमयीयं नीली कज्जलवत्काली रुचिः क्षणमात्रेणक्षालि निरस्ता। यथा रजक्या वसनस्था काली कान्तिर्दुग्धधाराभिः क्षणेन क्षाल्यते। तदुक्तं कलाकोषे–`तैलं धृतेन, तच्चोष्णजलैर्दुग्धेन कज्जलम्। नाशयेदम्बरस्थं तु मलं क्षारेण सोष्मणा।’ इति ङीष्। ओषधिप्राणिवाचित्वाभावान्नीलीव नीलीति ङीष् समर्थनीयः। रजकी, ष्वुनः षित्वान्डीष्॥ 22.111 ॥
पयोमुचां मेचकिमानमुच्चैरुच्चाटयामास ऋतुः शरद्या।
अपारि वामोरु!तयाऽपि किञ्चिन्न प्रोञ्छितुं लाञ्छनकालिमाऽस्य॥ 22.112 ॥
अन्वयः–वामोरु, या शरदृतुः ऋतुः पयोमुचाम् उच्चैः मेचिकमानम् उच्चाटयामास तया अस्य लाञ्छनकालिमा किञ्चित्, अपि प्रोञ्छितुं न अपारि।
जीवातु-पय इति। हे वामेरु! या शरदृतुः पयोमुचां मेघानां वर्षाकालीनमुच्चकेरतिशयितमपि मेचकिमानं कालिमानमुच्चाटयामास। तया कालिमापनयने दृष्टसामर्थ्यया शरदाप्यस्य चन्द्रस्य लाञ्छनरूपः कालिमा किंचिदल्पमपि प्रोञ्छितुं स्फोटयितुं नापारि। शरदच्छे चन्द्रे मलिनः कलङ्कोऽतितरां शोभत इति भावः। मेचकिमान, वर्णवाचित्वादिमनिच्॥ 22.112 ॥
एकादशैकादशरुद्रमौलीनस्तं यतो यान्ति कलाः किमस्य?।
प्रविश्य शेषास्तु भवन्ति पञ्च पञ्चेषुतूणीमिषवेर्द्धचन्द्राः?॥ 22.113 ॥
अन्वयः–अस्तं यतः अस्य एकाश कलाः किम् एकादशरुद्रमौलीन् यान्ति, शेषः पञ्च तु पञ्चेषुतूणीं प्रविश्य अर्द्धचन्द्राः इषवः भवन्ति?
जीवातु–एकेति। अस्तं यतो गच्छतोऽस्य चन्द्रस्यैकादश कला एकादशानां रुद्राणां मौलीन् प्रति यान्ति किल गच्छन्तीव। शेषाः पञ्च कलास्तु पुनः पञ्चेषोः कामस्य तूणीमल्पमिषुधिं प्रविश्यार्द्धचन्द्राकारत्वादर्द्धचन्द्राख्या इषवो भवन्ति। विनाशसमयेऽप्ययं पराकारनिरत इति ध्वन्यते। तूणीम्, अलपत्वविवक्षया स्त्रीत्वे गौरादित्वान्ङीष्, `अर्धचन्द्र’शब्दो रूढः॥ 22.113 ॥
निरन्तरत्वेन विधाय तन्वि1 तारासहस्राणि यदि क्रियेत।
सुधांशुरन्यः स कलङ्कमुक्तस्तदा त्वदास्यश्रियमाश्रयेत॥ 22.114 ॥
अन्वयः–तन्वि, तारासहस्राणि निरन्तरत्वेन विधाय यदि अन्यः सुधांशुः क्रियेत तदा कलङ्कमुक्तः सः त्वदास्यश्रियम् आश्रयेत।
जीवातु–निरन्तरेति। हे तन्वि! तारामां नक्षत्राणां सहस्राणि निरन्तरत्वेनान्योन्यसंबन्धितया विधायैकीकृत्य यदि अन्यः सुधांशुः क्रियेन निर्मीयेत तदा तर्हि स चन्द्रस्ताराणामकलङ्कत्वात्तन्मयत्वात्कलङ्केन मुक्तः सन् त्वदास्यस्य श्रियं शोभामाश्रयेत। क्रियातिपत्तेरविविक्षितत्वाल्लृङभावः॥ 22.114 ॥
यत्पद्‌ममादित्सु तवाननीयां कुरङ्गलक्ष्मा च मृगाक्षि! लक्ष्मीम्।
एकार्थलिप्साकृत एष शङ्के शशाङ्कपङ्केरुहयोर्विरोधः॥ 22.115 ॥
अन्वयः–मृगाक्षि, यत्‌पद्मं तव आननीयां लक्ष्मीम् आदित्सु कुरङ्गलक्ष्मा च, शङ्के-एषः शशाङ्कपङ्केरुहयोः विरोधः एकार्थलिप्साकृतः।
जीवातु–यदिति। हे मृगाक्षि! यत्पद्मं तवाननीयां मुखसंबन्धिनीं लक्ष्मीमादित्सु ग्रहीतुकामम्, कुरङ्गलक्ष्मा चन्द्रश्च तव मुखशोभां ग्रहीतुकामः, तयोः शशाङ्कपङ्केरुहयोरेष विरोधस्तवन्मुखशोभालक्षण एकोऽर्थस्यस्य लिप्साकृतः प्राप्तिवाञ्छानिमित्त एवेत्यहं शङ्के। एकद्रव्याभिलाषित्वेन विरोधः सुप्रसिद्धः। चन्द्रपद्मयोरपि विरोधः प्रसिद्ध एव। चन्द्रपद्माभ्यां सकाशात्ते मुखमधिकमिति भावः। आदित्सु, चन्द्रपक्षे लिङ्गविपरिणामः। लक्ष्मीं, `न लोका-’ इति ष्ठीनिषेधः॥ 22.115 ॥
लब्धं न लेखप्रभुणाऽपि पातुं पीत्वा मुखेन्दोरधरामृतं ते।
निपीय देवैर्विघसीकृतायां घृणां विधोरस्य दधे सुधायाम्॥ 22.116 ॥
अन्वयः–लेखप्रभुणा अपि पातुं न लब्धं ते मुखेन्दोः अधरामृतं पीत्वा देवैः विवसीकृतायाम् अस्य विधोः सुधायां घृणां दधे।
जीवातु–लब्धमिति। हे प्रिये! अहं सर्वैरपि देवैर्विघसीकृतायां निःशेषं पीत्वा भुक्तशेषीकृतायाम्, अस्य विधोः सुधायां धृणां जुगुप्सां दधे धारयामि। किं कृत्वा? लेखानां देवानां प्रभुणेन्द्रेणापि पातुं न लब्धं, कृतप्रयत्नस्यापि तस्यावरणात्तेन दुष्प्रापं केनाप्यनुच्छिष्टं ते मुकेन्दोरधररुपममृतं तिपीय पीत्वा। चन्द्रसुधायाः सकाशात्त्वदधरामृतं स्वादुतरमिति भावः। अन्योऽप्युच्छिष्ट भोजने जुगुप्सां धारयति॥ 22.116 ॥
एनं स बिभ्रद्विधुमुत्तमाङ्गे गिरीन्द्रपुत्रीपतिरोषधीशम्।
अश्नाति घोरं विषमब्धिजन्म धत्ते भुजङ्गञ्च विमुक्तशङ्कः॥ 22.117 ॥
अन्वयः–सः गिरीन्द्रपुत्रीपतिः एनम् ओषधीशं विधुम् उत्तमाङ्गे बिभ्रत् अब्धिजन्म घोरं विषम् अश्नाति, विमुक्तशङ्कः भुजङ्गं च धत्ते।
जीवातु–एनमिति। स गिरीन्द्रपुत्रीपतिः शंभुरेनमोषधीशं विधुमुत्तमाङ्गे शिरसि बिभ्रद्धारयन् सन्नब्धिजन्म समुद्रोत्पन्नं घोरं दारुणमपि विषमश्नाति, विमुक्तशङ्को भुजङ्गं सर्पराजं वासुकिं च धत्ते। शंभोरप्युपकारकत्वेन पूज्यः श्रेष्ठोऽयमिति भावः। ओषधिस्वामिनोऽस्य शिरसि धारणादिव निःशङ्कं विषं भक्षयति, सर्पांश्च धारयतीत्युत्प्रेक्षा। भुजङ्गम्, जात्यभिप्रायेणैकवचनं वा॥ 22.117 ॥
नास्य द्विजेन्द्रस्य बभूव पश्य दारान् गुरोर्यातवतोऽपि पातः।
प्रवृत्तयोऽप्यात्ममयप्रकाशान् नह्यन्ति न ह्यन्तिमदेहमाप्तान्॥ 22.118 ॥
अन्वयः–पश्य, द्विजेन्द्रस्य अस्य गुरोः दारान् यातवतः अपि पातः न बभूव, हि प्रवृत्तयः अपि आत्ममयप्रकाशान् अन्तिमदेहम् आप्तान् न नह्यन्ति।
जीवातु–नेति। हे प्रिये! द्विजेन्द्रस्य अस्य चन्द्रस्यास्य गुरोर्बृहस्पतेर्दारान् भार्या यातवतो गच्छतोऽपि गुरुतल्पगामिनोऽपि पातः स्वर्गाद् भ्रंशः, अथ च–पातित्यम्, न बभूव पश्य, चित्रमेतद्विलोकयेत्यर्थः। अथवा युक्तमेतत्-प्रवृत्तयो धर्माधर्महेतुकर्मारम्भा अपि आत्ममय आत्मस्वरूपमेव प्रकाशो येषां तान्प्रकाशान्तरनिरपेक्षान्प्रकाशरूपान्, अथ च–परमात्मैव प्रकाशो येषआं तान् परमात्मस्वरूपातिरिक्तप्रकाशानभिज्ञान्स्वप्रकाशात्मवादिनो ब्रह्मज्ञानिनोऽन्तिमदेहं तेजोरूपशरीरं पूर्णतां वा प्राप्तान्, अथ च–अनन्तरभाविमोक्षत्वात्प्राचीनशरीरप्रवाहापेक्षया शेषं शरीरं प्राप्तान् जीवन्मुक्तान्पुरुषान्दिह यस्मान्न नह्यन्ति, शुभाशुभफलबन्धेन न सम्बध्नन्तीत्यर्थः। `तेषां तेजो विशेषेम प्रत्यवायो न विद्यते’ इति प्रामाणिकवचनात्तेजोरूपस्यास्य चन्द्रस्य पातो नाभूदिति युक्तमेव, नात्र चित्रमिति भावः। चन्द्रोऽप्यात्ममयप्रकाशः अन्तिमदेह संपूर्णतां प्राप्तश्च॥ 22.118 ॥
स्वधाकृतं तत्तनयैः पितृभ्यः श्रद्धापवत्रिं तिलचित्रमम्भः।
चन्द्रं पितृस्थानतयोपतस्थे तदङ्करोचिःखचिता सुधैव॥ 22.119 ॥
अन्वयः–तनयैः श्रद्धापवित्रं तिलचित्रं पितृभ्यः स्वधाकृतं यत् अम्भः पितृस्थानतया चन्द्रम् उपतस्थे तत् एव अङ्करोचिःखचिता सुधा।
जीवातु–स्वधेति। तनयैः पुत्रैः श्रद्धया परलोकास्तित्वबुद्‌ध्या वितीर्णत्वात्पवित्रं कृष्णतिलैश्चत्रं मिश्रितं पितृभ्यः स्वधाकृतं यदम्भः पितृस्थानतया `चन्द्रो वै पितृलोकः’ इति श्रुतेः, पितृलोकतया चन्द्रमुपतस्थे चन्द्रेण संगतमभूत्। तत्कृष्णतिलमिश्रं जलमेवाङ्कस्य कलङ्कस्य यद्रोचिः कान्तिस्तया खचिता मिश्रिता सुधा पीयूषम्। कृष्णतिला एव कलङ्कः, तत्संलग्नं जलमेव पीयूषम्, नत्वन्यः कलङ्को न नान्यत्पीयूषमित्यर्थः। श्रद्धेति, पितृलोकप्राप्तौ हेतुगर्भम्। उपतस्थे, संगतकरणे तङ्॥ 22.119 ॥पश्योच्चसौधस्थितिसौख्यलक्ष्ये त्वत्केलिकुल्याम्बुनि बिम्बमिन्दोः।
चिरं निमज्ज्येह सतः प्रियस्य भ्रमेण यच्चुम्बति राजहंसी॥ 22. 120 ॥
अन्वयः–उच्चस्थितिसौख्यलक्ष्ये त्वत्केलिकुल्याम्बुनि इन्द्रोः बिम्बं पश्य, राजहंसी यत् इह निमज्जय चिरं सतः प्रियस्य भ्रमेण चुम्बति।
जीवातु–पश्येति। हे प्रिये! त्वमुच्चसौधे स्थित्या कृत्वा सौख्येन निरन्तरायं लक्ष्ये दृश्ये त्वत्केलिकुल्याया अम्बुनि तदिन्दोर्बिम्बं पश्य। तत्किम्? राजहंसी इह कुल्याजले निमज्जय चिरं सतोऽन्तर्वर्तमानस्य प्रियस्य राजहंसस्य भ्रमेण यच्चन्द्रबिम्बं चुम्बति। सौख्यम्, स्वार्थे सुखिनो भाव इति भावे वा ष्यञ्। `सौक्ष्म्य-‘इति पाठे-सूक्ष्मत्वेन लक्ष्ये। उच्चतरप्रदेशस्थितं प्रति ह्यधोदेशस्थितं वस्तु सूक्ष्मं प्रतिभाति॥ 22.120 ॥
सौवर्गर्गैरमृतं निपीय कृतोऽह्नि तुच्छः शशलाञ्छनोऽयम्।
पूर्णोऽमृतानां निशितेऽत्र नद्यां मग्नः पुनः स्यात्प्रतिमाच्छलेन॥ 22.121 ॥
अन्वयः–सौवर्गवर्गैः अमृतं निपीय अह्नि तुच्छः कृतः अयं शशलांछनः निशि ते अत्र नद्यां प्रतिमाच्छलेन मग्नः पुनः अमृतानां पूर्णः स्यात्। अथवा पुनः अमृतानां पूर्णः निशि अत्र ते नद्यां प्रतिमाच्छलेन मग्नः स्यात्।
जीवातु–सौवर्गेति। स्वर्गे भवाः सौवर्गा देवास्तेषां वर्गैर्वृन्दैरमृतं निपीच्छलेन प्रतिबिम्बव्याजेन मग्नः सन्पुनरमृतानां जलैः, अथ च-पीयूषैः पूर्णः स्याद्‌भवेदित्यहं संभावयामीत्यर्थः। पूर्णः सन् रात्रौ तव क्रीडानद्यां प्रतिमाव्याजेन मग्नः स्यात् पुनः पानभयादिव पलाय्य निलीनः स्यादित्यहं शङ्के इत्यर्थ इति वा पूर्णोऽमृतानाम्, तृप्त्यर्थत्वात्करणे षष्ठी॥ 22.121 ॥
समं समेते शशिनः करेण प्रसूनपाणाविह कैरविण्याः।
बिवाहलीलामनयोरिवाह मधुच्छलत्यागजलभिषेकः॥ 22.122 ॥
अन्वयः–इह कैरविण्याः प्रसूनपाणौ शशिनः करेण समं समेते मधुच्छलत्यागजलाभिषेकः अनयोः विवाहलीलाम् इव आह।
जीवातु–सममिति। इह तव क्रीजानद्यां कैरविण्याः कुमुदिन्याः प्रसूनरूपे पाणौ शशिनः करेण रश्मिना, अथ च-पाणिना, समं सह समेते संगते सति मधु पुष्परस एवच्छलं यस्य स तद्‌व्याजस्त्यागजलस्य कन्यादानसंकल्पोदकस्याभिषेकः कर्ता, अनयोश्चन्द्रकुमुदिन्योर्विवाहलीलामाहेव सूचतीव। चन्द्रकरस्पर्श मात्रेण कुमुदानि विकसितानि, मकरन्दपूर्णानि च जातानीति भावः। विवाहे उभयोः पाणिमेलनं, पाणौ दानजलाभिषेकोऽपि भवति॥ 22.122 ॥
विकासिनीलायतपुष्पनेत्रा मृगीयमिन्दीवरिणी वनस्था।
विलोकते कान्तमिहोपरिष्टान्मृगं तवैषाऽऽननचन्द्रभाजम्॥ 22.123 ॥
अन्वयः–इह एषा वनस्था विकासिनीलायतुपुष्पनेत्रा इयम् इन्दीवरिणी मृगी तव आननचन्द्रभाजं कान्तं मृगम् उपरिष्ठात् विलोकते।
जीवातु–विकासीति। हे प्रिये! इह तव केलिनद्यां वनस्था जलनिवासिनी; अथ च-काननस्था, तथा-विकासि नलमायतं विस्तुतं पुष्पमेव नेत्रं यस्यास्तत्तुल्यनेनत्रा चेयं प्रत्यक्षदृश्या इन्दीवरिणी, यस्मान्मृगी वनस्थत्वाद्विंकासिनीलायतपुष्पनेत्रत्वाच्च हरिणी, तत्तस्मादिन्दीवरिणीरूपा मृगी, आननमिव यश्चन्द्रः सामर्थ्यात्त्वदाननतुल्यो यश्चन्द्रस्तद्भाजं तत्स्थं कान्तं सुन्दरम्, अथ च-तुल्यजातीयं स्वप्रियं, मृगमुपरिष्टाद्विलोकते। विकसितकुसुमनेत्राणि ऊर्ध्वं प्रसारितानि दृश्यन्ते तर्हि प्रायेण चन्द्रस्थमुपरि वर्तमानं निजभर्तारं मृगं (मृगी) पश्यतीत्यर्थः। त्वदाननमेव यश्चन्द्रस्तत्रस्थं चन्द्रत्वादनुमेयं मृगमुपरिष्टात्पश्यति। त्वं प्रासादोपरि वर्तसे, इयं चाधोदेशे वर्तते। `न न’ इति पदच्छेदं कृत्वा चन्द्रभाजं निजप्राणेशं मृगमुपरिष्टान्न पश्यतीति न, किन्तु पश्यत्येवेति वा व्याख्येयम्। वनस्था मृगी हि प्रसारितनीलायतनेत्रा सती स्वकान्तं मृगमितस्ततो विलोकयति। `शशम्’ इत्यपपाठः। मृगपर एव वा व्याख्येयः॥ 22.123 ॥
तपस्यतामम्बुनि कैरवाणां समाधिभङ्गे विबुधांगनायाः।
अवैमि रात्रेरमृताधरोष्ठं मुखं मयूखस्मितचारु चन्द्रम्॥ 22.124 ॥
अन्वयः–अम्बुनि तपस्यतां कैरवाणां समाधिभङ्गे विबुधाङ्गनायाः रात्रेः अमृताधरोष्ठं मयूखस्मितचारु मुखं चन्द्रम् अवैमि।
जीवातु–तपस्यतामिति। हे प्रिये! अम्बुनि सदा निवासात्त6 तपस्यतां कैरवाणां कुमुदानां समाधेर्दिवा संकोचस्यैव ध्यानस्य भङ्गेत्याजने विषये निमित्ते वा विबुधाङ्गनाया अप्सरोरूपाया रात्रेश्चन्द्रं मुखमेवाहमवैमि मन्ये। किंभूतं मुखम्? अमृतमेवाधरोऽनूर्ध्व ओष्ठो यस्यः अथ च–अमृततुल्योऽधरोष्ठो यस्य; यद्वा-अमृतमधरं यस्मात्पीयूषादिधिकरस ओष्ठो यस्य। तथा-मयूखाः किरणा एव स्मितम्, अथ च-तत्समाधिभङ्गादेव चन्द्रकरवदुज्ज्वलं यत्स्मितम्, तेन चारु। चन्द्रविशेषणे लिङ्गविपरिणामः देवाङ्गनानामप्येवंविधं मुखं रात्रौ जले तपस्यतां दुश्चरं तपश्चरतामपि मुनीनां समाधिभङ्गंकरोति। तपस्यतामिति, तपश्चरतीत्यर्थे `कर्मणो रोमन्थतपोभ्यां वर्तिचरोः’ इति क्यष्, `तपसः परस्मैपदं च’ इति शता॥ 22.124 ॥?
अल्पाङ्कपङ्का विधुमण्डलीयं पीयूषनीरा सरसी स्मरस्य।
पानात्सुधानामजलेऽप्यमृत्युं चिह्नं बिभर्त्यत्रभवं स मीनम्॥ 22.125 ॥
अन्वयः–अल्पाङ्कपङ्का पीयूषनीरा इयं विधुमण्डली स्मरस्य सरसी, सः अत्र भवं सुधानां पानात् अजले अपि अमृत्युं मीनं चिह्नं विभर्त्ति।
जीवातु–अल्पेति। अल्पोऽङ्क एव पङ्को यस्यां, तथा-पीयूषमेव नीरं यस्यां सेयं विधुमण्डली स्मरस्य विशालं सर एव। अत एव स स्मरः अत्रभवमस्यां चन्द्रसरस्यां समुत्पन्नं सुधानामेतदीयामृतानां पानादजले जलरहितेऽपि स्थले जलाभावेऽपि वाऽमुत्युं मरणरहितं मीनं चिह्नम्। अथ च-सुधासरोजातत्वानुमापकं लिङ्गंबिभर्ति। मीना हि जलाद्वहिर्भूता म्रियन्त एव, अयं तु न म्रियते, तस्माच्चन्द्रामृतसरसीभवत्वात्सदामृतपानाज्जलाभावेऽपि मृत्युरहित इति सर्वं युक्तमित्यर्थः॥ 22.125 ॥
तारास्थिभूषा शशीजह्नु जाभृच्चन्द्रांशुपांशुच्छुरितद्‌युतिर्द्यौः॥
छायापथच्छद्‌मफणीन्द्रहारा र्स्व मूर्तिमाह श्फुटमष्टमूर्त्तेः॥ 22.126 ॥
अन्वयः–तारास्थिभूषा शशिजह्नुजाभृत् चन्द्रांशुपांशुच्छुरितद्युतिः छायापथच्छद्मफणीन्द्रहारा द्यौः स्वम् अष्टमूर्तिः मूर्तिं स्फुटम् आह।
जीवातु–तारेति। द्यौः स्वमात्मानमष्टमूर्तेर्हरस्य मूर्तिं शरीरं स्फुटं व्यक्तमाह ब्रवीति। यतः-किंभूता? तारा एवास्थीनि भूषा यस्याः। तथा-शशिनमेव जह्नुजां, चन्द्रं गङ्गां च, बिभर्तीति भृत्। तथा-चन्द्रांशव एव पांसवो भस्मानि तैश्छुरिता कृताङ्गरागा द्युतिर्यस्याः। तथा–छायापथो गगने दण्डाकारा दक्षिणोत्तरस्था धवला रेखा छद्म यस्य छायापथच्छद्मरूपः फणीन्द्रो वासुकिः स एव मुक्ताहारो यस्याः सा। हरमूर्तिरप्युक्तविशेषणविशिष्टा। द्यौरप्येतादृशीति मूर्त्यन्तरापेक्षया व्यक्तमेव महेशस्य मूर्तिं गगनं कथयतीबेत्यर्थः॥ 22.126 ॥
एकैव तारा मुनिलोचनस्य जाता किलैतज्जनकस्य तस्य।
ताताधिका सम्पदभूदियं तु सप्तान्विता विंशतिरस्य यत्ताः॥ 22.127 ॥
अन्वयः–एतज्जनकस्य तस्य मुनिलोचनस्य तारा किल एका एव जाता, तु इयम् सम्पत् ताताधिका यत् ताः सप्तान्विता विंशतिः अभूत्।
जीवातु–एकेति। एतस्य चन्द्रस्य जनकस्य तस्य प्रसिद्धस्याक्षिमुनिलोचनस्य तारा कनीनिका किलैकैव जाताभूत् किल पुराणादौ। अस्य तत्पुत्रस्य तु पुननियं दृश्यमाना संपत् तातान्निजपितुरत्रिनेत्रात्काशादधिका। यद्यस्मादस्य चन्द्रस्य तास्ताः कनोनिकाः, अथ च–नक्षत्राणि, सप्तभिरन्विता विंशतिरभूदिति छलम्। पितुः सकाशादधिसंपत्तित्वात्सभाग्योऽयमिति भावः। `सप्तविंशतिमिन्दवे’ इति दक्षः सप्तविंशतिकन्याः अश्विन्यादिकाश्चन्द्राय ददाविति पुराणम्॥ 22.127 ॥
मृगाक्षि! यन्मण्डलमेतदिन्दोः स्मरस्य तत्पाण्डुरमातपत्रम्।
यः पूर्णिमानन्तरमस्य भङ्गः स च्छत्रभङ्गः खलु मन्मथस्य॥ 22.128 ॥
अन्वयः–मृगाक्षि, यत् एतत् इन्दोः मण्डलं, तत् स्मरस्य पाण्डुरम् आतपत्रम्, यः पूर्णिमानन्तरम् अस्य भङ्गः सः खलु मन्मथस्य छत्रभङ्गः।
जीवातु–मृगाक्षीति। हे मृगाक्षि हरिणीनेत्रे! यदेतत्प्रत्यक्षदृश्यमिन्दोर्मण्डलं तत्स्मरस्य पाण्डुरं श्वेतं साम्राज्यसूचकमातपत्रमेव। श्वेतच्छत्रदर्शने सति सम्राजो वश्या भवन्ति। पूर्मधवलचन्द्रमण्डलस्य चोद्दीपकत्वात्तद्‌दर्शने सर्वेऽपि कामस्य वश्या भवन्ति। तस्मादेतत्कामस्य श्वेतातपत्रमेवेति भावः। यश्च पूर्णिमानन्तरमस्य च्छत्रभूतस्येन्दुमण्डलस्य भङ्गो मोटनं कलाक्षयश्च स मन्मथस्य च्छत्रभङ्गः खलु। छत्रस्य मोटनं राजक्षयं सूचयति। कृष्णपक्षे चोद्दीपकमित्रचन्द्रक्षये कामः क्षीण एव भवति, तस्मात्कृष्णपक्षे योऽस्य भङ्गः स कामस्य छत्रभङ्ग स एव वेति भावः `खलु’ उत्प्रेक्षयां निश्चये वा॥ 22.128 ॥
दशाननेनापि जगन्ति जित्वा योऽयं पुराऽपारि न जातु जेतुम्।
म्लानिर्विधोर्मानिनि! सङ्गतेयं तस्य त्वदेकानननिर्जितस्य॥ 22.129 ॥
अन्वयः–जगन्ति जित्वा दशाननेन अपि यः अयं पुरा जातु जेतुं न अपारि, मानिनि त्वदेकानननिर्जितस्य तस्य विधोः इयं म्लानिः सङ्गता।
जीवातु–दशेति। दिग्विजयोद्यतेन दशाननेनापि जगन्ति जित्वापि योऽयं चन्द्रः पुरा पूर्वं जातु कदाचिदपि जेतुं नापारि। हे मानिनि जित्वापि योऽयं चन्द्रः पुरा पूर्वं जातु तस्य कदाचिदापि जेतुं नापारि। हे मानिनि स्वमुखस्वर्धिनं चन्द्रमसहमाने भैमि! तस्य विधोरियं प्रत्यक्षदृश्या नितरां जितस्य। यो हि दशाननेन दशभिर्मुखैर्जेतुं नाशकि, तस्य स्त्रियास्तवैकेन मुखेन विजितत्वेन लज्जया मालिन्यमुचितमेवेत्यर्थः। त्वन्मुखमेतस्यादधिकमिति भावः। प्रतीयमानोत्प्रेक्षा। लज्जयापि म्लानिर्भवति। रावणश्चन्द्रं जेतुं प्रवृत्तस्तत्तुषाराग्निना दह्यमानः कम्पमानतनुस्तमजित्वैव वरावृत्त इत्युत्तरकाण्डे कथा॥ 22.129 ॥
दृष्टो निजां तावदियनत्यहानि जयन्नयं पूर्वदशां शशाङ्कः।
पूर्णस्त्वदास्येन तुलां गतश्चेदनन्तरं द्रक्ष्यसि भङ्गमस्य॥ 22.130 ॥
अन्वयः–अयं शशाङ्गः इयन्ति अहानि तावत् निजां पूर्वदशां जयन् दृष्टः, पूर्णः त्वदास्येन तुलां गतः चेत् अनन्तरम् अस्य भङ्गं द्रक्ष्यसि।
जीवातु–इष्ट इति। अद्य शशाङ्क इयन्त्येतावन्ति अहानि शुक्लपक्षादिनानि तावदवधीकृत्य निजां पूर्वदशां पूर्वपूर्वदिनावस्थां जयन् निकाममुत्तरोत्तरदिनेषु कलावृद्ध्याधिकीभवंस्त्वया दृष्टः। इयन्ति दिनानि जयंस्तावत् जयन्नेव दृष्टइत्यवधारणार्थो वा `तावत्’शब्दः। अनयैव परिपाट्या पूर्णबिम्बोऽयं त्वदास्येन सह तुलां साम्यम्, अथ च-तोलकाष्ठं, प्राप्त आरूढश्चेत्। तर्ह्यनन्तरं निकटं त्वमेव श्वःप्रभृत्येवास्य भङ्गं पराजयं कलाक्षयं च द्रक्ष्यसि। उत्तमेन सह स्पर्धमानो हि भंगं प्राप्नोत्येव। तुलादिव्ये हि हीनस्य पराजयः सर्वैर्दृश्यते। अहानि अत्यन्तसंयोगे द्वितीया। त्वदास्येन, `-अतुलोपमाभ्याम्-’ इति निषेधेऽपि सहयोगे तृतीया। तथा च कालिदासः `तुलां यदारोहति दन्तवाससा’ इत्यादि॥ 22.130 ॥
क्षत्राणि रामः परिभूय रामात्क्षत्राद्यथाभज्यत स द्विजेन्द्रः।
अथैष पद्‌मानभिभूय सर्वांस्त्वद्वक्त्रपद्‌मात्परिभूतिमेति॥ 22.131 ॥
अन्वयः–सः द्विजेन्द्रः रामः क्षत्राणि परिभूय यथा क्षत्रात् रामात् अभज्यत, तथा एषः सर्वान् पद्मान् अभूभूय त्वद्‌वक्त्रपद्मात् परिभूति एति।
जीवातु–क्षत्राणीति। द्विजेन्द्रो जमदग्न्यपत्यत्वात्सोऽतिप्रसिद्धपराक्रमोरामः परशुरामः सर्वाणि क्षत्राणि परिभूयापि क्षत्त्रादेव रामाद्दाशरथेः सकाशाद्यथा भज्यत पराभवं प्राप, तथा तेनैव प्रकारेणायमपि द्विजराजः सर्वान्पद्मानभिभूय संकोचकरणात्पराभूयापि त्वद्वक्त्रपद्मात्सकाशात्परिभूतिं पराभवमेति। सकलक्षत्रियाधिक्यं यथा श्रीरामस्य तथा सर्वपद्माधिक्यं त्वन्मुखपद्मस्येति भावः। `वा पुंसि पद्म्’ इत्यमरः॥ 22.131 ॥
अन्तः सलक्ष्मीक्रियते सुधांशो रूपेण पश्ये! हिरणेन पश्य।
इत्येष भैमीमददर्शदस्य कदाचिदन्तं स कदाचिदन्तः॥ 22.132 ॥
अन्वयः–पश्ये, पश्य, हरिणेन रूपेण सुधांशोः अन्तः सलक्ष्मीक्रियते, इति एषः भैमीं कदाचित् अस्य अन्तं, कदाचित् अन्तः अददर्शत्।
जीवातु–अन्तरिति। हे पश्ये चन्द्रदर्शनप्रवृत्ते भैमि! हरिणेन पाण्डुरेण रूपेण वर्णेन कर्त्रा सुधांशोरन्तः प्रान्तभागः पूर्वमश्रीकोऽपीदानीं सलक्ष्मीक्रियते सश्रीः क्रियते त्वं पश्य। अथ च-चन्द्रस्य मध्यं हरिणेन मृगेण कर्त्रा रूपेण स्वीयनीलवर्णेन कृत्वा असलक्ष्म सलक्ष्म क्रियते सलक्ष्मीक्रियते। सकलङ्कं क्रियत इत्यर्थः। पश्य। एष स नल इत्यमुना प्रकारेणास्य चन्द्रस्यान्तं पर्यन्तभागं कदाचित्क्षणमात्रं भैमीमददर्शन् दर्शयामास, कदाचिच्चान्तर्मध्यभागं दर्शयामास। अङ्गुल्यादिना चन्द्रश्वेतनीलप्रान्तमध्यभागप्रदर्शनपूर्वं श्लिष्टपदैस्तया सह क्रीडां चकारेति भाव इति मध्ये कवेरुक्तिः। `हरिणः पाण्डुरः पाण्डुः’ इत्यमरः `अन्तः’ इत्यकारान्तमेकत्र, `अन्तः’ इत्यव्ययमपरत्र मध्यावाचि। `लक्ष्मी’शब्दाच्चिवः। पश्ये, `पाघ्रा-’ इत्यादिना कर्तर्येव शः। दृशोर्बुद्ध्यर्थत्वात् `गतिबुद्धि-’ इत्यणौ कर्तुणौं कर्मत्वाद्‌भैमीमिति द्वितीया॥ 22.132 ॥
सागरान्मुनिविलोचनोदराद्यद्‌द्वयादजनि तेन किं द्विजः?।
एवमेव च भवन्नयं द्विजः पर्यवस्यति विधुः किमत्रिजः?॥ 22.133 ॥
अन्वयः–अयं यत् सागरात् मुनिविलोचनात् द्वयात् अजनि, किं तेन द्विजः? एवम् एव च द्विजः भवन् अयं विधुः अत्रिजः किं पर्यवस्यति?
जीवातु–सागरादिति। अयं चन्द्रः सागरात् मुनिविलोचनोदराच्चैतद्रूपाद्‌द्वयात्सकाशाद्यस्मादजनि उत्पन्नः, तेन कारणेन द्वाभ्यां जातत्वाद् द्विजः किम्? एवमेव चानयैव रीत्या द्वाभ्यां जातत्वादेव द्विजो भवन्नप्ययं विधुरत्रेर्मुनेर्जातिः किं कथं पर्यवस्यति? द्वाभ्यां जातत्वे सत्यपि अत्रिमुनेरेव जात इति तार्त्पयवृत्त्या कथमुच्यत इत्यर्थः। अथ च-एवमेव यथानेन प्रकारेण द्विजत्वं, तथैवात्रिमुनिजो भवन्नयं द्विजः पर्यवस्यति किम्? द्वाभ्यां जातत्वाद्यथा द्विज उच्यते, तथा द्विजादत्रिमुनेर्जातत्वादपि द्विज उच्यते किम्? द्विजोत्पन्नो हि द्विज एव भवतीत्यर्थः। अथ च-द्वाभ्यां जातत्वाद् द्विजो भवन्नेव न त्रिभ्यो जायत इत्यत्रिज इत्येवं तात्पर्यवृत्त्या कथ्यते किम्? यो हि द्वाभ्यां जायते स त्रिजो न भवति, एवमेवायमत्रिजः कथ्यते किमित्यर्थः। अन्योऽपि द्विजस्त्रिजो न भवत्येव॥ 22.133 ॥
तारावाहारभुवि चन्द्रमयीं चकार यन्मण्डलीं हिमभुवं मृगनाभिवासम्।
तेनैव तन्वि! सुकृतेन मते जिनस्य स्वर्लोकलोकतिलकत्वमवाप धाता॥ 22.134 ॥
अन्वयः–तन्वि, धाता ताराविहारभुवि हिमभुवं मृगनाभिवासं चन्द्रमयीं मण्डलीं जिनस्य मते यत् चकार तेन एव सुकृतेन स्वर्लोकलोतिलकत्वम् अवाप॥
जीवातु–तारेति। हे तन्वि कृशाङ्गि! धाता ताराणां नक्षत्राणां विहारभुवि गगने चन्द्रमयीं मण्डलीं बिम्बं जिनस्य पुराणपुरुषस्य श्रीविष्णोर्मतेऽनुमतौ सत्यां तदादिष्टः सन् यच्चकार निर्ममे तेनैव सुकृतेन शोभनेन लोकोत्तरव्यापारेण कृत्वा स्वर्लोकः स्वर्गभुवनं तत्संबन्धिनां लोकानां सुराणां मध्ये तिलकत्वं श्रैष्ठ्यमवाप। किंभूतां मण्‍लीम्? हिमस्य तुषारस्य भुवं स्थानभूतामतिशीतलाम्। तथा-मृगस्य नाभौ मध्ये वासो यस्यास्तां, यस्या मध्ये मृगोऽस्तीति यावत्, तादृशीम्। अन्येषां सुराणामेतादृग्व्यापारकरणी समार्थ्याभावाद् ब्रह्मैव श्रेष्ठोऽभूदित्यर्थः। अथ च-ताराया बुद्धदेव्या विहारस्थाने पूजास्थाने हिमभुवं शीतलां, शुभ्रत्वाद्धिमाचलरूपां वा, तथा-मृगानाभेः कर्पूरमयीं मण्डलीं राशिं यच्चकार तेनैव पुण्येन जिनस्य मते बौद्धदर्शने ब्रह्मा सुरश्रेष्ठत्वमधत्त। बौद्धा हि बुद्धदेवप्रासादे यस्तात्पूजार्थं कर्पूरकस्तूरीराशिं करोति स सर्वलोकमध्ये श्रेष्ठो भवतीति स्वदर्शने प्रत्यपादयन्, ब्रह्मा चैवमकृत तस्मादेव सर्वश्रेष्ठो जात इत्यर्थः। `तेनेव’ इति पाठे-उत्प्रेक्षा। `बुद्धदेव्यां मता तारा’॥ 22.134 ॥
इन्दु मुखाद्‌बहुतृण तव यद्‌ गृणन्ति नैनं मृगस्त्यजति तन्मृगतृष्णयेव।
अत्येतिमोहमहिमा न हिमांशुबम्बलक्ष्मीविडम्बिमुखि वित्तिषु पाश्वीषु॥ 22.135 ॥
अन्वयः–हिमांशुबिम्बलक्ष्मीविडम्बिमुखि, इन्दु तव मुखात् बहुतृणं यत् गृणन्ति तत् मृगः मृगतृष्णया एव एनं न त्यजति; पाशवीषु वित्तिषु मोहमहिमा न अत्येति।
जीवातु–इन्दुमिति। हे हिमांशुबिम्बस्य लक्ष्म्याः शोभाया विडम्बि स्वस्मान्न्युनत्वात्परिहासकारि ततोऽप्यधिकशोभं वा बहुतृणमीषदसमाप्तं तृणं,तृणत्वमपि यस्य पूर्णं न संपन्नं, तृणादपि निःसारमिति यावत्, अथ च-बह्वधिकं तृणं यस्मात् तृणादपि निःसारं यद्यस्माद्‌ गृणन्ति, तत्तस्माद्धेतोर्मृग एनं चन्द्रं मृगसंबन्धिन्या तृष्णया कोमलतृणकवलाभिलाषेणैव, अथवा-चन्द्रे प्रयुक्तस्य `बहुतृण’शब्दस्य बहु च तत्तृणं च, बहूनि तृणानि यस्मिंस्तादृशमिति वेत्येवंरूपार्थग्रहणरूपया भ्रान्त्येव न त्यजति। मृगो हि बहु यत्तृणं बहुतृणं देशं वा न मुञ्चति। नन्वनुभवे सत्यप्यासंसारं कथं भ्रान्तिरित्याशङ्क्यार्थान्तरन्यासमाह-पाशवीषु पशुसंबन्धिनीषु वित्तिषु ज्ञानेषु विषये मोहमहिमा भ्रान्तिबाहुल्यं नात्येति बहुकालातिक्रमेऽपि नापयाति। पशवो हि सवंदा मूढा एवेत्यद्यांपि मृगस्य भ्रान्तिर्नापयाति, तस्मादेन न त्यजतीति युक्तमित्यर्थः। `वृत्तिषु’ इति पाठे-व्यापारेषु। मुखात्, ल्यब्लोपे पञ्चमी। `बहुतृणं’ पक्षे ईषदसमाप्तौ `विभाषा सुपो बहुच्-’ इति बहुच्॥ 22.135 ॥
स्वर्भानुना प्रसभपानविभीषिकाभिर्दुःखाकृतैनमवधूय सुधा सुधांशुम्।
स्वं निह्नुते सितिमचिह्नममुष्य रागैस्ताम्बूलताम्रमवलम्ब्य तवाधरोष्ठम्॥ 22.136 ॥
अन्वयः–स्वर्भानुना प्रसभपानविभीषिकाभिः दुःखाकृता सुधा एनं सुधांशुम् अवधूय तव ताम्बूलताम्रम् अधरोष्ठम् अवलम्ब्य अमुष्य रागैः सितिमचिह्नं स्वं निह्नुते।
जीवातु–स्वर्भानुनेति। हे प्रिये! सुधा एनं सुधांशुमवधूय त्यक्त्वा तवाधरोष्ठमवलम्ब्यामुष्य रक्तस्यौष्ठस्य रागै रक्तवर्णैः कृत्वा सितस्य भावः सितिमा धावल्यमेव चिह्नं यस्य तादृशं धवलरूपमपि स्वमात्मानं निह्नुते पुनः पुनः स्वर्भानुपानभिया तिरोदधाति। यतः–स्वर्भानुना वारंवारं प्रसभपानेन विभोषिकाभिर्भयोत्पादनैः कृत्वा दुःखाकृता प्रातिलोम्याचरणेनोत्पादितदुःखा। किंभूतमधरोष्ठम्? प्रसिद्धस्य ताम्बूलस्येव ताम्रो वर्णो यस्य, ताम्बूलेनैव वा ताम्रं रक्तवर्णम्। पुना राहुपानभिया त्वदधरमेव स्थानान्तरमाश्रित्य रूपान्तरेणात्मानं गोपायतीत्यर्थः। अन्योऽपि सभयं स्थानं हित्वा स्थानान्तरमाश्रित्य तत्रापि रूपान्तरं धृत्वा स्वं निह्नुते। सुयधा चन्द्रस्य परित्यागात्त्वन्मुखाश्रयणात्त्वन्मुखं चन्द्रादधिकमिति भावः। ताम्बूलताम्रमित्युक्तरीत्योपमोत्प्रेक्षा वा। दुःखाकृता, `दुःखात्प्रातिलोम्यो’ इति डाच्॥ 22.136 ॥
हर्यक्षीभवतः कुरङ्गमुदरे प्रक्षिप्य यद्वा शशं
जातस्फीततनोरमुष्य हरिता सूतस्य पत्न्या हरेः।
भङ्गस्त्वद्वदनाम्बुजादजनि यत्पद्‌मात्तदेकाकिनः
स्यादेकः पुनरस्य स प्रतिभटो यः सिंहिकायाः सुतः॥ 22.137 ॥
अन्वयः–कुरङ्गं यत् वा शशम् उदरे प्रक्षिप्य जातस्फीततनोः हरेः पत्न्या हरिता सूतस्य हर्यक्षीभवतः अमुष्य त्वद्वदनाम्बुजात् यत् भङ्गः अजनि, तत् एकाकिनः पद्‌मात् स्यात्; यः सिंहिकायाः सुतः राहुः सः पुनः अस्य एकः प्रतिभटः।
जीवातु–हर्यक्षीति। हे प्रिये! मतभेदेन कलङ्करूपं कुरङ्गं, यद्वा-शशमुदरे मध्ये प्रक्षिप्य जाता स्फीता पूर्णा तनुर्यस्य, हरेरिन्द्रस्य पत्न्या हरिता प्राच्या दिशा सूतस्य तत्रोदितस्य पूर्णस्य, अत एव हरेः श्रोविष्णोर्वामाक्षीभवतः, यद्वा-सञ्जातपूर्णशरीरस्य मृगं यद्वा-शशं, कलङ्कं मध्ये निक्षिप्य मध्यस्थितकलङ्कस्य कनीनिकातुल्यत्वाच्छ्रीविष्णोर्वामनेत्रीभवतोऽमुष्य चन्द्रस्य त्वद्वदनाम्बुजात्सकाशाद्यद्भङ्गः पराजयोऽजनि तदेकाकिनः सर्वदाऽसहायादेकस्मात्पद्‌मात्‌, न त्वन्यस्मात्कमलात्, न ह्यन्यैः पद्‌मैरयं पराजीयते, यत्पुनरयमेव पद्‌मान्पराभवतीत्यर्थः। अथवा-अम्बुजतुल्यत्वाद्वदनादेव पद्माद्‌, अथ च-पद्मसंख्याकात्त्वद्वदनरूपादम्बुजाद्यदस्य भङ्गो जातः, तदेकाकिनोऽसहायस्य स्याद्भवेत्; बहुभिरेकः पराजीयत इति युक्तमेवेत्यर्थः. यः सिंहिकायाः सुतो राहुः स पुनरेकोऽन्योऽस्य प्रतिभटः प्रतिमल्लः पराभावुको राहुरेव न त्वन्य इति। `संप्रति’ इति पाठे-अद्य पुनरस्यैकः प्रतिभटः यः सिंहिकायाः सुतः स्यात् एकाकिनोऽस्य त्वन्मुखपद्मः प्रतिद्वन्द्वी न भवति, अतुल्यत्वात्, किं त्वेकाकी राहुरेवास्य प्रतिभटो युक्त इत्यर्थः। किंच स्वशत्रुभूताद्राहोरप्यस्यान्यः पराजय इति महदस्य कष्टं प्राप्तमित्यर्थः। अथ च–हरिद्वर्णया हरेः सिंहस्य पत्न्या सिंहिकया प्रसूतस्य, तथा–मृगं शशं वा यं कञ्चन पशुं जठरे निक्षिप्य भक्षयित्वा स्थितस्य, अत एव संजातपुष्टशरीरस्य, अत एव हर्यक्षीभवतः सिंहतां प्राप्नुवतोऽस्य त्वन्मुखाद्यः पराजयोऽजनि स एकाकिनः केवलात्पद्माद्‌गजादेव पराजयः, सिंहस्य गजाद्भङ्गो यथा तद्वदेव दन्महच्चित्रमित्यर्थः। अथ च–पद्मसख्याकादेकस्य पराजयः सिंहोऽप्येको बहुसंख्यैः पराजीयत एवेत्यर्थः। अथ च–पद्माच्छरभादष्टापदादेव भङ्गः सिंहस्य केवलमष्टापदादेव भङ्गः। पद्मचन्द्राभ्यां सकाशात्तवन्मुखमधिकमिति भावः। `हर्यक्षः केसरी हरिः’ इत्यमरः। `गजाब्जशरभाः पद्मा’ इत्यनेकार्थे भोजः। प्रथमपक्षे `हर्यक्ष’शब्दाच्चिवः, द्वितीयपक्षे `हर्यक्ष’शब्दादेव॥ 22.137 ॥
यत्पूजां नयनद्वयोत्पलमयीं वेधा व्यधात्पद्‌मभूर्वाक्पारीणरुचिः स चेन्मुखमयं पद्‌मः प्रिये! तावकम्।
कः शीतांसुरसौ तदा? मखमृगव्याधोत्तमाह्गस्थलस्थास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः॥ 22.138 ॥
अन्वयः–प्रिये, पद्मभूः वेधा नयनद्वयोत्पलमयीं यत्पूजां व्यधात्, वाक्पारीणरुचिः सः अयं पद्‌मः तावकं मुखं चेत् तदा मखमृगव्याधोत्तमाङ्गस्थालस्तास्नुस्वस्तटिनीतटावनिवनीवानीरवासी बकः असौ शीतांशुः कः?
जीवातु–यदिति। हे प्रिये! वेधा नयनद्वयमेवोत्पलं तन्मयीं तद्रूपां तद्रचितां यस्य पद्मस्य पूजां व्यधाद्व्यरचयत्। यतः श्रीविष्णोर्नाभौ वर्तमानात्पद्माद्भवतीति पद्मभूः। स्वजनकस्य यस्य पद्मस्य पितृभक्त्या नेत्रद्वयेनैव नीलोत्पलयुगेन महतीं पूजामकृत। वाक्पारीणा वाचः परतीरे भवा वाचा वर्णयितुमशक्या रुचिर्यस्य सोऽयं पद्मश्चेत्तावकं मुखं स एव भवन्मुखरूपो जातः, अनन्तरं ब्रह्मणा स्वपितृबुद्ध्या नेत्रनीलोत्पलाभ्यां कृतपूजत्वादत्र तव मुखे नेत्रनीलोत्पले दृस्येते इत्यर्थ इति चेत्, तदा तर्हि असौ शीतांशुः को नाम, अपि तु न कश्चित्। त्वन्मुखस्य पुरस्तादयं, स्मरणार्होऽपि नेत्यर्थः। तर्ह्यसौ क इति चेत्तत्राह-अयं बकः। किंभूतः? दक्षमख एव मृगस्तस्य व्याधो हरस्तस्योत्तमाङ्गं शिरस्तल्लक्षणे स्थले स्थआस्नुः स्थितिशीला स्वस्ताटिनी गङ्गा तस्यास्तटावन्यां तीरभूम्यां या बनी महदल्पं वा यत्काननं यत्र ये वानीरा वेतसास्तन्मध्यवासी। चन्द्रश्च हरजटाजूटवासीति प्रसिद्धम्। `वाक्पारीणरुचिः’ इति ब्रह्मविशेषणं वा। अत्र यदपत्यस्य ब्रह्मणोऽपि सौन्दर्यं वागगोचरः, तत्पितुः पद्मस्य सौन्दर्यं मनसोऽपि गोचरो न भवतीत्यर्थः। त्वन्मुखस्य चन्द्रस्य च महदन्तरम्, साम्यसंभावनापि नास्तीति भावः। एतेन चन्द्रादिसुन्दरवृन्दं ब्रह्मणा सृष्टम्, भवदीयमुखपद्‌मं तु ब्रह्मणोऽपि स्रष्टुत्वात्सर्वाधिकामिति सूचितम्। `मखगृग-‘इत्यादिना चन्द्रस्यातिदैन्यं सूचितम्, त्वन्मुखसाम्यप्राप्त्यर्थ तपश्चरणं च सूचितम्। अन्योऽपि विशिष्टवस्तुप्राप्तये शिवस्थानयुक्तनदीतीरवानीरवासी तपस्यति। नदीतीरवानीरवासित्वं बकजातिः। वाक्पारीणा, भवार्थे `राष्ट्रावारपाराद्‌धखौ’ इत्यत्र `अवारपाराद्विपरीतादपि विगृहीतादपि’ इति वचनात्खः॥ 22.138 ॥
जातं शातक्रतव्यां हरिति विहरतः काकतालीयमस्यामश्यामत्वैकमत्यस्थितसकलकलानिर्मितेर्निर्मलस्य।
इन्दोरिन्दीवराभं बलविजयिगजग्रामणीगण्डपिण्डद्वन्द्वापादानदानद्रवलवलगनादङ्कमह्के विशङ्के॥ 22.139 ॥
अन्वयः–अस्यां शातक्रतव्यां हरिति विहरतः अश्यामत्वैकमत्यस्थितसकलकलानिर्मितेः निर्मलस्य इन्दोः अङ्के बलविजयिगजग्रामणीगण्डपिण्डद्वन्द्वापादानदानद्रवलवलगनात् काकतालीयं जातम् इन्दीवराभम् अङ्कं विशङ्के।
जीवातु–जातमिति। अहमिन्दोरङ्के बलविजयिन इन्द्रस्य गजग्रामणीहंस्तिषु मध्ये प्रधानं प्राच्यामेव वर्तमानो य ऐरावतस्तस्य गण्डयोः कपोलयोः पिण्डयोः शिरः स्यिकुम्भस्थलयोश्च ये द्वन्द्वे गण्डद्वन्द्व’च त एवापादानं निर्गमनस्थानं येषां ते च ते दानद्रवलवा मदजललेशास्तेषां लग्नात्संपर्कात् काकतालीयमाकस्मिकं दैवात्सिद्धमिन्दीवराभं नीलोत्पलतुल्यं जातमङ्कं कलङ्कं विशङ्के मन्ये। किंभूतस्येन्दोः? अस्यामङ्गुलीनिर्दिष्टायां पुरोदृश्यायां शतक्रतोरियं शातक्रतवी तस्यां हरिति दिशि विहरत उद्‌गच्छतः। तथा-अश्यामत्वे विषये ऐकमत्यं सर्वसंवादस्तेन तत्र वा स्थिताभिर्वर्त्मानाभिः सकलाभिः पञ्चदशभिरपि कलाभिः कृत्वा निमितिर्यस्य। अश्यामत्वैकमत्येन स्थिता सकलकलानिर्मितर्यस्य तादृशस्य। अत एव-निर्मलस्य प्रत्येकं कलानां धावल्यस्य दृष्टत्वाद्धवलसकलकलानिर्मितत्वात्कारणधावल्याद्धवलस्य, अश्यामत्वैकमत्येन स्थिता याः सकलाः कलास्ताभिर्या निर्मलस्य प्रत्येकं कलानां धावल्यस्य दृष्टत्वाद्धवलसकलकलानिर्मितत्वात्कारणधावल्याद्धवलस्य, अश्यामत्वैकमत्येन स्थिता याः सकलाः कलास्ताभिर्या निर्मितिस्तस्या वा हेतोर्धवलस्य। पूर्वं कारणधावल्यात्सकलोऽप्ययं धवल एवाभूत्, पश्चात्तु पूर्वदिग्भ्रमणवशात्तत्रैव भ्रमत ऐरावतस्य कपोलकुम्भस्थलगलन्मदजलं दैववशाल्लग्नं तेनायं मध्ये कालः प्रतिभातीत्यर्थः। तालतरुतले यदैव काकस्योपवेशनम्, तदैव दैवात्काकस्योपरि तालफलपात इति काकतालमिव, `समासाच्च तद्विषयात्’ इति छः। निर्मितेः, पक्षे हेतौ पञ्चमी॥ 22.139 ॥
अंशं षोडशमामनन्ति रजनीभर्त्तुः कलां वृत्तयन्त्येनं पञ्चदशैव ताः प्रतिपदाद्याराकवर्द्धिष्णवः।
या शेषा पुनरुद्धधृता तिथिमृते सा किं हरालंकृतिस्तस्याः स्थानबिलं कलङ्कमिह किं पस्यामि सश्यामिकम्?॥ 22.140 ॥
अन्वयः–रजनीभर्तुः षोडशम्, अंशं कलाम् आमनन्ति; प्रतिपद्माराकवर्द्धिष्णवः ताः पञ्चदश एव एनं वृत्तयन्ति; तिथिम् ऋते पुनः या शेषा सा किं हरालङ्कृतिः? तस्याः सश्यामिकं स्थानबिलं किं कलङ्कम् इह पश्यामि?
जीवातु–अंशमिति। हे प्रिये! लोका रजनीभर्तुः षोडसमंशं कलामामनन्ति सत्यं कथयन्ति, ताश्च षोडशांशरूपाः प्रतिपदादिर्यस्मिन्कर्मणि राकां पूर्णिमामभिव्याप्य वर्द्धिष्णवः प्रतितिथि एकैककलाभिवृद्ध्या वर्धमानाः पञ्चदशसंख्याका एव कला एनं चन्द्रं वृत्तयन्ति वर्तुलं कुर्वन्ति, तिथिसंख्यासाम्यात्पूर्णमण्डलं कुर्वन्तीत्यर्थः। या पुनः कला षोडशी तिथिमृते उद्‌धृता प्रयोजनाभावाच्चन्द्राद्विहिः कृता सा षोडशी कला शेषा पञ्चदशकलाभ्योऽवशिष्टा सती; यद्वा-षोडशीं तिर्ति विनना प्रयोजनाभावाद्यावशिष्टा सा निष्प्रयोजनत्वादुद्‌धृता चन्द्राद्‌बहिर्निष्कासिता सती हरालंकृतिः शिवशिरोभूषणं जाता किम्? चन्द्रे प्रयोजनाभावाद्धरालंकृतिरिवाभूत्किमित्यर्थः। अहं तस्याश्चोद्‌धृतायाः षोडश्याः कलायाः सश्यामिकं नभोनीलिम्ना सह वर्तमानं स्थानस्य पूर्वावस्थितेः संबंधि बिलं विवरं तत्कालानवस्थित्या कृत्वा शून्यं नोलं नभोभागमेवेह चन्द्रमण्डलमध्ये कलङ्कं पश्यामि किम्? मध्यवर्तिनीलं तत्स्थानं बिलमेवाहं कलङ्कत्वेन शङ्के इत्यर्थः। `शेष’शब्दस्याभिधेयलिङ्गत्वं पूर्वमेव दर्शितम्। `पूर्णे राका निशाकरे’ इत्यमरः। वृत्तयन्ति, `तत्करोति-’ इति णिच्। वर्द्धिष्णवः, `अलंकृञ-’ इतीष्णुच्। तिथिमृते, `ऋते नलाशाम्’ इतीवत्। श्यामिका, मनोज्ञादेराकृतिगणत्वाद्भावे वुञ्॥ 22.140 ॥
ज्योत्स्नामादयते चकोरशिशुना द्राधीयसी लोचने
लिप्सुर्मूलमिवोपजीवितुमितः सन्तर्पणात्मीकृतात्।
अङ्के रङ्कुमयं करोति च परिस्प्रष्टुः तदेवादृतस्त्वद्वक्त्रं नयनश्रियाऽप्यनधिकं मुग्धे! विधित्सुर्विधुः॥ 22.141 ॥
अन्वयः–मुग्धे, त्वद्वक्त्रं नयनश्रिया अपि अनधिकं विधित्सुः द्राघीयसे लोचने लिप्सुः विधुः सन्तर्पणात् आत्मोकृतात् इतः मूलम् उपजीवितुम् इव चकोरशिशुना ज्योत्स्नाम् आदयते आदृतः च अयं तत् एव परिस्प्रष्टुम् अङ्के रङ्कुं करोति।
जीवातु–ज्योत्स्नामिति। हे मुग्धे सुन्दरि! त्वद्वक्त्रं वृत्तत्वादिगुणैः समानमपि नयनश्रियापि कृत्वानधिकं समानमेव विधित्सुः, अत एव स्वस्य द्राधीयसी अतिदीर्घे लोचने लिप्सुर्लब्धुमिच्छुर्विधुश्चकोरशिशुना प्रयोज्येन स्वीयां ज्योत्स्नामादयते भक्षयति। तत्रोत्प्रेक्षते-चन्द्रिकामृतपायनकृतसम्यक्तर्पणेनात्मीकृतात्स्ववशी कृतादितश्चकोरबालकात्सकाशान्मूलं स्वचन्द्रिकापायनहेतुभूतमेतदी यातिदीर्घनेत्रद्वयमुपजीवितुमादातुमिव। यद्वा-यत्किंचित्स्वस्य चन्द्रिकां पाययित्वा ततो नेत्रद्वयलक्ष्मीप्राप्त्या मूलं चन्द्रिकारूपधनं वर्धयितुमिव। अन्योऽप्युत्तमर्णोऽधमर्णस्य किंचिद्दत्त्वा तं वशीकृत्योत्तममिष्टं वस्तु ततो गृह्णाति। तथा-अयं चन्द्र आदृत आदरयुक्तः सन्नङ्के मध्ये, अथ च-उत्सङ्गे, रङ्कुं च करोति। उत्सङ्गधारणेन लालयतीत्यर्थः। किमर्थमित्याशङ्क्याह-तन्मूलभूतमतिविशालं तदीयनयनयुगलं परिस्प्रष्टुमिव स्वलग्नं कर्तृमिव, त्वन्मुखसाम्यनिमित्तरमणीयनेत्रद्वयसंपादनायायं चन्द्रश्चकोरहिणौ वञ्चयतीत्यर्थः। चन्द्रादुत्कृष्टं त्वन्मुखमिति भावः। `परिप्रष्टुम्’ इति पाठे एतन्नेत्ररामणीयकप्राप्त्युपायं प्रष्टुमिवेत्यर्थः। शिशुः सुप्रतार्य इति सूवयितुं `शिशु’पदम्। आदयते, अदेर्निगरणार्थत्वेऽपि `अदेः प्रतिषेधो वक्तव्यः’ इति वक्तव्यात् `निगरण-’ आदि (सूत्रेण) परस्मैपदाभावे, `णिवश्च’ इति तङ्। शिशुना, `आदिखाद्योर्न’ इत्यणौ कर्तुणौ कर्मत्वाभावः। द्राधीयसो अतिशायने ईयसुनि `प्रियस्थिर-’ इति। द्राघादेशः)। लिप्पुः, विधित्सुरिति च, `न लोका-’ इति षष्ठीनिषेधः॥ 22.141 ॥
लावण्येन तवास्यमेव बहुना तत्पात्रमात्रस्पृशा
चन्द्रः प्रोञ्छनलब्धताऽर्द्धमलिनेनारम्भि शेषेण तु।
निर्माय दूयमेतदप्सु विधिना पाणी खलु क्षालितौ
तल्लेशैरधुनाऽपि नीरनिलयैरम्भोजमारभ्यते॥ 22.142 ॥
अन्वयः–बहुना लावण्येन तव आस्यम् एव आरम्भि, चन्द्रः तु तत्पात्र मात्रस्फृशा प्रोञ्छनलब्धताऽर्द्धमलिनेन शेषेम; विधिना एतत् द्वयं निर्माय अप्सु पाणी क्षालितौ खलु, अधुना अपि नीरनिलयैः तल्लेशैः अम्भोजम् आरभ्यते।
जीवातु–लावण्येनेति। हे प्रिये! बहुना क्वचित्पात्रे संचितेनाखिलेन लावण्येन कृत्वा तवास्यमेवारम्भि निर्मितम्। चन्द्रस्तु पुनस्तस्य लावण्यस्याधारपात्रं स्पृशतीति स्पृक् तेन लावण्यस्थापनपात्रमात्रलग्नेन, अथ एव प्रोञ्छनेन पात्रनिघर्षणेन कृत्वा यल्लब्धतोपार्जित्वं तेनार्धं कियतत्खण्डं मलिनं यस्य तेन किंचन्मलिनेन शेषेण भवन्मुखनिर्माणावशिष्टेनांशेन कृत्वारम्भि निर्मितःष अत एव शबलमण्डलोऽयं शोभत इत्यर्थः। शेषेण तु निर्मित इति वा। विधिना एतत्त्वन्मुखमृगाह्कलक्षणं द्वयं निर्माय सृष्ट्वाऽप्सु पाणी क्षालितौ खलु लावण्यलेपकृतजलक्षालनाविव। तस्मात्तस्य क्षालनरजोमिलतलावण्यलेपस्य लेशैरल्पैरंशैरेव कर्तृभिरधुनापि नीरनिलयैर्जलस्तायिभिः सद्भिरम्भोजमारब्यते निर्मीयते; कमलनिर्माणे ब्रह्मणः कोऽपि प्रयासो नेत्यर्थः। कमलाच्चन्द्रोऽदिकः, तस्मादपि त्वन्मुखं लावण्यसाकल्येन निर्मितत्वादधिकमिति भावः। अम्भोजम्, जात्येकत्वम्॥ 22.142 ॥
लावण्येन तवाखिलेन वदनं तत्पात्रमात्रस्पृशा
चन्द्रः प्रोञ्छनलब्धताद्‌र्धमलिनेनारम्भि शेषेण यः।
तल्लेखाऽपि शिखामणिः सुषमयाऽहङ्कृत्य शम्भोरभूदब्जं तस्य पदं यदस्पृशदतः पद्‌मञ्च सद्‌म श्रियः॥ 22.143 ॥
अन्वयः–अखिलेन लावण्येन तव वदनम् आरम्भि, तत्पात्रमाबस्पृशा प्रोञ्छनलब्धतार्द्धमलिनेन शेषेण यः चन्द्रः, तल्लेखा अपि सुषमया अहङ्कृत्य शम्भोः शिखामणिः अभूत्, तस्य च पदं यत् अब्जं पद्मम् अस्पृशत् अतः श्रियः सद्म।
जीवातु–लावण्येनेति। अखिलेन लावण्येन तव वदनमारम्भि। ततो भवद्वदनकामनीयकवर्णनातिचिन्तापि दूरे तिष्ठतु, अशक्यकरणत्वादित्यर्थः। उक्तरीत्या तत्पात्रमात्रस्पृशा प्रोञ्छनलब्धतार्धमलिनेन शेषेण तु यश्चन्द्रः विधिना निरमायि तस्य लेखापि लावण्यपात्रमात्रस्थलावण्यनिर्मितस्य चन्द्रस्य षोडशांशरूपा कलापि कलामात्रत्वादेव निष्कलङ्कत्वात् सुषमया परमया शोभया कृत्वा अहंकृत्य अस्यापेक्षयाऽहमेव रमणीयेति दर्पमवलम्ब्य शंभोः शिखामणिः शिरोभूषणभूच्छिवशिरोऽध्यरोहत्। अन्यदपि सदर्पमुत्तमशिरोऽधिरोहति। अब्जं कुमुदं कर्तृ यद्यस्मात्तस्य चन्द्रस्य पदं प्रतिबिम्बस्थानं जलमस्पृशत्। अतः श्रियः सद्माभूत्। चन्द्रकरस्पर्शादेव हि कुमुदं सश्रीकं भवति पद्मं च श्रियः सद्माभूत्। जलस्य चन्द्रकिरणसंस्पर्शात् पद्मस्य च तत्रोत्पन्नत्वाद्वर्तमानत्वात्कुमदसाहचर्याच्च पद्ममपि लक्ष्म्याः स्थानमभूत्। यद्वा-पद्‌मं चातः कुमुदाद्धेतोः श्रियः सद्‌माभूत्। अब्जत्वजातियोगात्कुमुदाधारजलयोगाच्च कुमुदादेव परम्परया पद्मानां लक्ष्मीगृहत्वमभूदित्यर्थः। यद्वा-या तल्लेखा शम्भोः शिखामणिरभूत्, तस्य शिखामणेश्चन्द्रस्य पदं स्थानं शिवमस्तकं पूजासमये यस्मात्कुमुदं पद्‌मं चास्पृशत्, अतस्तदुभयं श्रियः सद्‌माभूत्। चन्द्रसबद्धशिरः संबन्धादुभयं श्रीगृहमभूदित्यर्थः, यद्वा-तस्य शंभोः पदे चरणं पूजावशाद्यस्मात्कुमुदं पद्मं चास्पृशत् तस्मादुभयं श्रीसद्‌माभूत्, तस्य लावण्यस्य स्थानं विधिहस्तलेपक्षालनजलं यस्मात्दुभयं श्रीसद्‌माभूत्, तस्य लावण्यस्य स्थानं विधिहस्तलेपक्षालनजलं यस्मात्कुमुदं पद्मं च पद्‌ममेव वा श्रीसद्‌माभूदिति वा। त्वन्मुखलावण्यलेशपरंपरासंस्पर्शप्राप्तशोभानि चन्द्रादीनीति त्वन्मुखलावण्यं वाङ्मखलावण्यलेशपरंपरासंस्पर्शप्राप्तशोभानि चन्द्रादीनीति त्वन्मुखलावण्यं वाङ्‌मनसगोररो न भवतीति भावः। अर्थान्तरस्य स्पष्टत्वात्, पूर्वार्धस्य त्वर्थान्तरप्रतिपादनार्थमनुवादरूपत्वान्नायं श्लोकः पुनरुक्तः। `अहम्’ इति विभक्तप्रतिरूपकमव्ययं, तस्य क्तान्तेन `सह सुपा’ इति समासे क्त्वो ल्यप्॥ 22.143 ॥
सपीतेः सम्प्रतीतेरजति नरजीशः परिषदा
परीतस्ताराणां दिनमणिमणिग्रावमणिकः।
प्रिये! पश्योत्प्रेक्षाकविभिराभधानाय सुशकः
सुधामभ्युद्धर्त्तु धृतशशकनीलाश्मचषकः॥ 22.144 ॥
अन्वयः–प्रिये, पश्य-सम्प्रीतेः सपीतेः ताराणां परिषदः परीतः उत्प्रेक्षाकविभिः सुधाम् अभ्युद्धर्तु धृतशशकनीलाश्मचषकः अभिधानाय सुशकः रजनीशः दिनमणिमणिग्रावमणिकः अजनि।
जीवातु–सपीतेरिति। हे प्रिये संप्रीतेस्ताराणामेवान्योन्यं सम्यग्या प्रीतिः सौहार्दं तस्माद्धेतोर्या सपीतिः सह पानं, सुहृदो हि सह पानं कुर्वन्ति तस्माद्धेतीः यद्वा सहपानाद्धेतोर्या सम्यक् प्रीती रुच्यभिवृद्धिः, तस्माद्‌धेतोस्ताराणां परिषदा सङ्घेन परीतः समन्ताद्व्याप्तोऽयं रजनीशो दिनमणिमणिः मूर्यकान्तमणिस्तस्य ग्रावा शिला तया घटितोऽतिधवलः स्थूलः पेयद्रव्याधारभूतो मणिकोऽलिञ्जर एवाजनि संभूतः विधिना तारापरिषदा वा व्यरचीति पश्य। कीद्दशः? सादृश्येन वस्त्वन्तरसंभावनारूपायामुत्प्रेक्षायां विषये कविभिर्विशिष्टसंभावनाचतुरैः श्रीहर्षादिभिर्महाकविभिस्तारापरिषदैव सुधामब्युद्धर्तुं धृतो यो मध्यस्थितः शशखः कलङ्कः स एव नीलाश्मा नीलमणिस्तेन घटितं चषकं पानपात्रं यस्मिन्नेवंभूत इवायमिति अभिधानाय वर्णनाय वर्णयितुं सुशकः सुखेन शक्यः। चन्द्रो धावल्याद् वृत्तत्वाच्च पीयूषपूर्णः सूर्यकान्तमणिक इव, कलङ्कश्च नीलमणिघटितं चषकमिव दृश्यते पश्येत्यर्थः। यथा मणिकस्थोदकाद्युद्धरणाय मणिकमुखे चषकः स्थाप्यते, तथा ताराभिः परस्परं मिलित्वा सुधापानं कर्तुं परिवेष्टितस्य सुधापूरितस्यास्यापि चन्द्रमणिकस्य मुखे सुधोद्धरणाय शशनामा नीलमणिचषको निक्षिप्त इत्युत्प्रेक्षितु शक्यत इत्यर्थः। `चषकोऽस्त्री पानपात्रम्’ इत्यमरः। सपीतेः, वोपसर्जनस्य इति वा `सहस्य सः संज्ञायाम्’ इत्यत्र `सहस्य सः संज्ञायाम्’ इत्यत्र `सहस्य सः’ इति योगविभागाद्वा सहस्य सः। कविभिः खलर्थयोगान्न षष्ठी, सुशक इति खल्॥ 22.144 ॥
आस्यं शीतमयूखमण्डलगुणानाकृष्य ते निर्मितं
शङ्के सुन्दरि! शर्वरीपरिवृढस्तेनैष दोषाकरः।
आदायेन्दुमृगादपीह निहिते पश्यामि सारं दृशौः
त्वद्वक्त्रे सति वा विधौ धृतिमयं दघ्यादनन्धः कुतः?॥ 22.145 ॥
अन्वयः–सुन्दरि, शङ्के-शीतमयूखमण्डलगुणान् आकृष्य ते आस्यं निर्मितं, तेन एषः शर्वरीपरिवृढः दोषाकरः; पश्यामि-इन्दुमृगात् अपि सारं दृशौ आदाय इह निहिते वा त्वद्वक्त्रे अनन्धः अयं विधौ धृतिं कुतः दध्यात्।
जीवातु–आस्यमिति। हे सुन्दरि! विधिना शीतमयूखस्य मण्डलं बिम्बं तस्य वृत्तत्वाह्लादकत्वादिगुणानाकृष्य गृहीत्वा ते आस्यं यतो निर्मितं तेन गुणगणोत्कर्षेण हेतुना शर्वर्याः परिवृढः प्रभुश्चन्द्रो दोषाणामाकर उत्पत्तिस्थानं, न तु दोषा रात्रिस्तत्कारित्वाद्दोषाकर इत्यर्थ इत्यहं शङ्के। तथा-इन्दोर्मृगात्सकाशात्सारं दृसावादाय अतिश्रेष्ठे नेत्रे गृहीत्वा इह भवन्मुखे निहिते इत्यहं जाने। कुतो ज्ञातमित्यत आह–सुन्दरतरे त्वद्वक्त्रे जागरूके सति अनन्धश्चश्रुष्मानुभयतारतम्विचारचतुरोऽयं मृगो विधौ चन्द्रे धृतिं स्थितिम्, अथ च–समीचीनाधारपरितापं, कुतो वा दध्याद्धारयेत्, अपि तु न कथैचित्; तस्मान्नेत्रोद्धरणादन्धत्वेनेनव त्वन्मुखरामणीयाकदर्शनादन्यत्र गन्तुमशक्तेश्च त्वन्मुखं त्यक्त्वात्रैवायं स्थित इत्यर्थः। त्वन्मुखं चन्द्रादधिकम्, नेत्रे च मृगनेत्राब्यामधिके इति भावः। `सारे’ इति क्वचित्पाठः॥ 22.145 ॥
शुचिरुचिमुडुगणमगणनममुमतिकलयसि कृशतनु! न गगनतटमनु।
प्रतिनिशशशितलविगलदमृतभृतरविरथहयचयखुरबिलकुलमिव॥ 22.146 ॥
अन्वयः–कृशतनु, गगनतटम् अनु शुचिरुचिम् अगणनम् अमुम् उडुगणं प्रतिनिशशशितलविगलदमृतभृतरविरथहयचयखुरबिलकुलम् इव न अतिकलयसि?
जीवातु–शुचीति। हे कृशतनु! त्वं गगनतटं नभःस्थलमनु लक्षीकृत्य शुचिरुचिं श्वेतकान्तिं, तथा–बहुत्वादगणनं संख्यातुमशक्यममुमङ्गुल्या निर्देश्यं प्रत्यक्षगम्यमुडुगणं प्रतिनिसं रात्रौ रात्रौ शशितलाच्चन्द्राधोभागाद्विगलता स्रवताऽमृतेन भृतं पूर्णं रविरथस्य हयचयस्य खुराणां यानि बिलानि न्यासस्थानविवराणि तेषां कुलं वृन्दमिव नातिशयेन कलयसि, अपि तु तदिवातितरां जानीहित्यर्थः। प्रतिनिशं चन्द्राद्‌गलता धवलेनामृतेन पूर्णाः सूर्याश्वखुरगर्ता इव तारकाः शोभन्त इति भावः। गगनतटम्, कर्मप्रवचनीययोगाद् द्वितीया। प्रतिनिशम्, वीप्सायामव्ययीभावः। सर्वलघुः॥ 22.146 ॥
उपनतमुडुपुष्पजातमास्ते भवतु जनः परिचारकस्तवायम्।
तिलतिलकितपर्पटाभमिन्दुं वितर निवेद्यमुपास्स्व पञ्चबाणम्॥ 22.147 ॥
अन्वयः–उडुपुष्पजातम् उपनतम् आस्ते, अयं जनः तव परिचारकः भवतु तिलतिलकितपर्पटाभम् इन्दुं निवेद्यं वितर, पञ्चबाणम् उपास्स्व।
जीवातु–उपनतमिति। हे प्रिये! `रक्तो भौमः शनिः कृष्णः, गुरुः पीतः, सितः कविः’ इत्यादिज्योतिःशास्त्रादिप्रामाण्यान्नानावर्णाकृतीन्युडूनि नक्षत्राण्येव पुष्पजातमुपनतमुपसंपन्नमास्ते अयं मल्लक्षणो जनः प्रारब्धकामदेवपूजायास्तव परिचारकश्चन्दनाद्युपचारोपनायकः, अथ च-संभोगकारी भवतु। त्वं तिलैः संजाततिलकः, तिलैरेवः तिलकवान्कृतो वा यः पर्पटः शालितण्डुलपिष्टरचितश्चिपिटस्तिलसंकृलीसंज्ञ उपदंशविशेषस्तद्वदाभा यस्य तत्तुल्यं सकलङ्कमध्यत्वाद्विशिष्टपर्पटसदृशमिन्दुमेव निवेद्यं कामाय वितर, एवं पञ्चवाणं कामदेवमुपास्स्व पूजय। अन्योऽपि देवपूजकः पूष्पादिसामग्र्या देवं पूजयति, कश्चित्परिचारकोऽपि तस्य भवति, एवमत्रापि। सर्वाणि नक्ष्त्राण्युदितानि, कामोद्दीपकश्चन्द्रोऽप्युदितः, सुरतान्तरायकारी निषिद्धः संध्यासमयोऽतिक्रान्तः, तस्मात्काममुपास्स्व, सुरतेच्छुरस्मीति भावः। `पञ्चबाणम्’ इत्यनेन कामस्यातिपीडाकारित्वं सूच्यते। `जातिर्जातं च सामान्यम्’ इत्यभिधानात् `जात’शब्दः सामान्यवाची पुष्पमात्रे पर्यवस्यति। तिलकितेति तारकादिः मतुबन्तात् `तत्करोति-’(गo सूo 204) इति ण्यन्तान्निष्ठा॥ 22.147 ॥
स्वर्भानुप्रतिवारपारणमिलद्दन्तौघयन्त्रोद्भवश्वभ्रालीपतयालुदीधितिसुधासारस्तुषारद्युतिः।
पुष्पेष्पवासनतत्प्रियापरिणयानन्दाबिषेकोत्सवे
देवः प्राप्तसहस्रधारकलशश्रीरस्तु नस्तुष्टये॥ 22.148 ॥
अन्वयः–स्वर्भानुप्रतिवारपारणमिलद्‌दन्तौघयन्त्रोद्‌भवश्वभ्रालीपतयालुदीधितिसुधासारः पुष्पेष्वासनतत्प्रियापरिणयानन्दाभिषेकोत्सवे प्राप्तसहस्रधारकलशश्रीः देवः तुषारद्युतिः नः तुष्टये अस्तु।
जीवातु–स्वर्भानुरिति। हे प्रिये! देवः प्रकाशमानस्तुषारद्युनिर्हिमकरः, अथ च–हिमकर एव देवः, वर्णनां पूजां च कुर्वतां नोऽस्मदादीनाम् आवयोर्वा तुष्टये परमानन्दायास्तु। किंभूतः? स्वर्भानो राहोः प्रतिवारं पौनःपुन्येन यत्पारणं चन्द्रस्यैव गिलनं तेन तत्र वा मिलन् संलग्नो यो दन्तौधस्तद्रूपं यन्त्रं छिद्रकरणसाधनं तस्मादुद्भवो यस्याः सा श्वभ्रालीदन्तदशनकृतविवरपरम्परा तया तस्याः सकाशाद्वा पतयालुः पतनशीला दीधितिसुधा किरणामृतंतद्रूपः, दीधितिसुधाया वा सारः श्रेष्ठभागो यस्य, दीधितिसुधाया आसारो धारासपातो दीधितिसुधारूपो वा आसारो यस्य सः। अत एव-पुष्पमेवेष्वासनं धनुर्यस्य तस्य कामस्य तत्प्रियाया रत्याश्चानयोर्यः परिणयो विवाहो लक्षणया परस्परसंमेलनं तद्रूपो य आनन्दः संतोषस्तत्संबन्धिनि `समुद्रज्येष्ठा-’ इत्यादिश्रौतेऽबिषेकाख्ये उत्सवे महाभिषेकार्थं सहस्रसंख्या धारा लोहशलाकानिर्मितजलप्रवाहमार्गा यस्य स तादृशो यः कलशस्तस्य श्रीः, प्राप्ता सहस्रच्छिद्रगलज्जलधारकलशस्येव श्रीः शोभा येन सः। महोत्सवे हि सहस3धारेण सुवर्मकलशेन महाभिषेकः क्रियते। तथा च राहुदन्तकृतच्छिद्रपरम्परागलदमृतधारश्चन्द्रो गलज्जलधारसहस्रच्छिद्रसुवर्णकलश इव शोभमानः पूर्वोक्तवर्णनयोक्तविधत्वत्कृतपूजया च सुरतप्रवृत्तयोरावयोरुद्दीपकतया परमानन्दं कुर्यादिति भावः। एतेन तत्समयोचितरतिकामविवाहोत्सवाबिधानेन `चन्द्रोऽस्तु नस्तुष्टये’ इत्यनेन च विलासिना नलेन स्वनिर्वर्त्यतृतीयपुरुषार्थपयोधिपीयूषरसास्वादनलालसाभिव्यज्यते। `सुधाधार-’ इत्यपि पाठे-दीधितिसुधाया धारा यस्य सुधाया आधार इति वा। `आनन्द’पदेन `तुष्टयेऽस्तु’ इत्याशिषा च ग्रन्थसमाप्तिं द्योतयति। महाभारतादौ वर्णितस्याप्युत्तरनलचरित्रस्य नीरसत्वान्नायकानुदयवर्णनेन रसभङ्गसद्भावाच्च काव्यस्य च सहृदयाह्लादनफलत्वाच्चात्रोत्तरचरित्रं श्रीहर्षेण न वर्णितमित्यादि ज्ञातव्यम्। न इति पक्षे `अस्मदो द्वयोश्च’ इति द्वित्वेऽपि बहुवचनम्॥ 22.148 ॥
श्रीहर्ष कविराजराजिमुकुटालङ्कारहीरः सुतं
श्रीहीरः सुषुवे जितेन्द्रियचयं मामल्लदेवी च यम्।
द्वाविंशो नवसाहसाङ्कचरिते चम्पूकृतोऽयं महाकाव्ये तस्य कृतौ नलीयचरिते सर्गो निसर्गोज्ज्वलः॥ 22.149 ॥
अन्वयः–पूर्वार्द्धस्य पूर्ववत्। नवसाहसाङ्कचरिते चम्पूकृतः तस्य कृतौ महाकाव्ये नलीयचरिते अयं निसर्गोज्ज्वलः द्वाविंशः सर्गः।
जीवातु–श्रीहर्षमिति। द्वाविंशतेः पूरणः सर्गो गतः समाप्तिं प्राप। किंभूतस्य श्रीहर्षस्य? नवो यः साहसाङ्को नाम राजा तस्य चरिते विषये चम्पूगद्यपद्यमयीं कथां करोतीति कृत् तस्य निर्मितवतः सोऽपि ग्रन्थो येन कृत इति सूच्यते `नृपसाहसाङ्क-’ इति पाठे-नृपश्चासौ साहसाङ्कश्च तस्य गौहेन्द्रस्य चरिते विषये चम्पूकृतः भोजराजस्य विक्रमार्कस्य वेति केचित्। द्वाविंश इति पूरणे डटि `ति विंशतेर्डिति’ इति तिलोपः॥ 22.149 ॥

***************************************************************************

.

पञ्चमः सर्गः

अथ सा वदने नवेन्दुकान्ति- स्मितं अङ्के विनिवेश्य चामरं च ।

जगतीपतिं एवं आ बभाषे मसृणं मूर्तिमती विदग्धतेव । । ५.१ । ।

[V

आऱ्५.१अः {#

कान्ति#

।लें ।एम्; #

कान्ति#

।एद्}]

त्वयि पुण्यवशेन दृष्तिं आप्ते लभते शर्म गतश्रमो ममात्मा ।

उदिते हि विरोचने नलिन्या वितमस्तामरसं विकासं एति । । ५.२ । ।

अतिमात्रं उपोढसौकुमार्ये वचसि श्रोत्रं उपेयुषि त्वदीये ।

झटिति प्रतिभासते ममायं कठिनश्चन्दनपल्लवावतंसः । । ५.३ । ।

किं अयं मयि संभ्रमोऽयं आस्तां किं अयं न एव जनः परिच्छदस्ते ।

उपचारविशेषसंविधाने प्रतिपच्चन्द्र इव उदितस्त्वं एव । । ५.४ । ।

भवदिङ्गितवेदिनैव पृष्टा यदनेनाहं उपान्तवर्तिना ते ।

किं उ तत्कथयामि सम्मतं चेत्क्रियतां मे स्वयं आज्ञया प्रसादः । । ५.५ । ।

__________________________________________

नायकनिदेशः

अभिधेहि लवः कुतूहलस्य त्वदुदन्तश्रवणे ममापि जातः ।

इति सा वसुधापतेर्निदेशादथ पातालविलासिनी जगाद । । ५.६ । ।

__________________________________________

भुजङ्गलोकवर्णनम्

स तव श्रुतिं आप्त एव तावत्स्मरलीलाभवनं भुजङ्गलोकः ।

उपयाति यदेकदेशसाम्यं न मही नापि पुरी पुरन्दरस्य । । ५.७ । ।

अतिदुर्लभसूर्यभासि यस्मिंस्तमसां उल्लसतां तिरस्क्रियायै ।

फणिनोऽरुणकान्तिभिः शिरस्थैर्मणिभिर्बालं इवातपं वहन्ति । । ५.८ । ।

अनुलिम्पति रोदसी यथेन्दुः प्रभया मां न तथेत्यसूययेव ।

पटु यः प्रमादाविलासहास- स्तबकैरिन्दुपरम्पराः प्रसूते । । ५.९ । ।

सविलासं उदस्तहस्तमुक्तैर्निकरैर्दिग्द्विरदेन्द्रशीकराणां ।

परितो निचिताः सदैव यस्मिन्ककुभस्तारिका इवावभान्ति । । ५.१० । ।

प्रतिभाति दधन्फणाकलापे पृथिवीं यत्र सः शेषनागराजः ।

नभसो निपतञ्जवेन भित्त्वा जगतीं गाङ्ग इव च्युतः प्रवाहः । । ५.११ । ।

__________________________________________

भोगवतीवर्णनम्

विदिता खलु वासुकेस्त्रिलोक्यां हरकण्ठाभरणस्य भोगिभर्तुः ।

ललिताद्भुतभूमिरस्ति तस्मिन्नगरी भोगवतीति राजधानी । । ५.१२ । ।

मणिहर्म्यतलानि रत्नदीपाः फणिकान्तार्धविलोकितानि वीणाः ।

ऋतवोऽप्यखिलाः समेत्य यत्र स्मरसाम्राज्यमहाधुरं वहन्ति । । ५.१३ । ।

अनुपाधिरुपाहृतो विकासः कमलैर्यत्र विलासदीर्घिकासु ।

अपि यत्र कुमुद्वतीभिरस्तः सहजश्चन्द्रमरीचिपक्षपातः । । ५.१४ । ।

अभिकानभिसर्तुं उद्यतः सन्सपदि व्यालविलासिनीसमूहः ।

भवति स्वफणामणिप्रदीपे तिमिरोत्सारिणि यत्र साभ्यसूयः । । ५.१५ । ।

अधिरोहति यत्र वंशमुक्ता- पटलस्मेरतटा सुरस्रवन्ती ।

सरितः श्रियं ईर्ष्ययेव तस्याः सुवते मौक्तिकं एव यत्पयांसि । । ५.१६ । ।

अतिकान्तगुणाभिराममूर्तिर्मधुरेण ध्वनिना मनोहरन्ती ।

विदधाति सदैव यत्र यूनां पदं अङ्के वनिता च वल्लकी च । । ५.१७ । ।

शतशो विलसन्त्युदंशुरत्न- स्तबकाः कल्पलता यदङ्गणेषु ।

प्रतिमन्द्रिरं एवं एव यस्यां अपि चिन्तामणयः पदे लुठन्ति । । ५.१८ । ।

अपि दत्तकुतूहलाः सुराणां अपि वाञ्च्छापदं एकपिङ्गलस्य ।

अपि निर्विषया मनोरथानां उरगान्यत्र विभूतयः श्रयन्ते । । ५.१९ । ।

वसति स्वयं एव यत्र देवः सदा कल्पितहाटकेश्वराख्यः ।

स्मरं ऊर्ध्वविलोचनार्चिषीव त्रिपुरं यः शरपावके जुहाव । । ५.२० । ।

[V

आऱ्५.२०चः {

स्मरं ऊर्ध्व#

।लें ।क्;

स्मरमूर्ध#

।एद्}]

__________________________________________

शङ्खपालवर्णनम्

निजवंशविशेषकोऽस्ति तस्यां उरगाणां अधिपः सः शङ्खपालः ।

स्रगसाविति यत्फणासु धत्ते वसुधां वासुकिना समानसारः । । ५.२१ । ।

__________________________________________

शशिप्रभावर्णनम्

जगदेकललाम तस्य कन्या गुणवत्यस्ति शशिप्रभा नाम्ना ।

सहसैव फणभृतां प्रविष्टा भुवने राहुभयादिवेन्दुलेखा । । ५.२२ । ।

न कयाप्यतिशय्यतेऽतिशीघ्रं यदियं कन्दुककेलिषु भ्रमन्ती ।

अपरं कृतं अर्थवत्तदस्याः सुतरां नाम सखीभिराशुगेति । । ५.२३ । ।

स्फुरदद्भुतरूपसम्पदां तां अनुकर्तुं कलयापि धार्ष्ट्यं एति ।

न रतिर्न शची न चित्रलेखा न घृताची न तिलोत्तमा न रम्भा । । ५.२४ । ।

सुरकिन्नरसिद्धकन्यकाभिः स्वकलाभ्यासवतीभिराप्तसख्या ।

निखिलासु गता परं प्रकर्षं शितधीः शैशवसेव या कलासु । । ५.२५ । ।

अनिवारितकेलिकौतुका सा सुतनुः स्नेहवंशवदेन पित्रा ।

विहरत्यपचीयमानबाल्या हरशैले मलये हिमालये च । । ५.२६ । ।

अधुना पुनोऽत्र विन्ध्यपदे विहरन्त्याः कुसुमावचूडनाम्नि ।

क्वचिदप्यगमत्पलाय्य तस्याश्चपलः केलिमृगो मृगायताक्ष्याः । । ५.२७ । ।

अतिवत्सलया समं सखीभिर्विपिने तं परितस्तया विचित्य ।

पुलिने सरितः शशाङ्कसूतेः श्रमवत्येयं अनीयत त्रियामा । । ५.२८ । ।

कलहंसकलस्वनैर्विबुद्धा परिवारप्रमदानिदेशितं सा ।

निकषा निचुलप्रवालशय्यां तं अथ प्रेक्षितवत्याप्तनिद्रं । । ५.२९ । ।

तपनीयशिलीमुखस्तदङ्गे चकितं चित्ररुचौ तया च दृष्टः ।

जलदे ललितेन्द्रचापभक्तौ अहिमांशोरिव भासुरो मयूखः । । ५.३० । ।

अरविन्ददलत्विषा करेण स्वयं उत्पाट्य सकौतुकं गृहीते ।

अवलोकितं एतयाथ तस्मिन्विजयाङ्के नवसाहसाङ्कनाम । । ५.३१ । ।

अविशन्नरनाथ नाम पूर्वं हृदयेऽस्याः सहसाथ पुष्पकेतुः ।

अमृतांशुमरीचिलुप्तनिद्रे लभते यत्कुमुदेऽन्तरं द्विरेफः । । ५.३२ । ।

नवमेघमलीमसाद्युगान्ते वसुधां उद्धरतो रथाङ्गपाणेः ।

परितः श्रमवारिबिन्दवो ये निरपीयन्त पयोधशुक्तियूथैः । । ५.३३ । ।

प्रकृतिः किल यस्य ते परीता परिणामेन तदन्तरेऽत्र हंसः ।

शयनान्तगतं मृणालशङ्कि शृतवान्हारं अधीरलोचनायाः । । ५.३४ । ।

[S

य़्ण्ठाX

ः सन्दानितकम्]

उदडीयत खे मुखेन बिभ्रद्भुजगेन्द्रप्रतिमं तं अञ्जसा स ।

अपदार्पितवैतनेयशङ्कः फणिकन्यासु मुहूर्तविक्लवासु । । ५.३५ । ।

स च विन्ध्यवनान्तराजिं एतां अविशन्मारुतपीतपद्मगन्धां ।

अतिदूरविकृष्टनागकन्या- चकितोदञ्चितदीर्घनेत्रमालः । । ५.३६ । ।

अहिराजसुतानिदेशतोऽस्मिनसमाप्तेषुविलोकनोत्सवोऽपि ।

अथ हंसं इतस्ततो विचेतुं विजने नागवधूजनः प्रवृत्तः । । ५.३७ । ।

शबलास्विह कृष्णसारयूथैः समदक्रोडसनाथपल्वलासु ।

गहनास्वपि तद्गवेषणायै वनलेखासु मम त्वयं प्रयत्नः । । ५.३८ । ।

स मया न तटेषु निर्झराणां सरसां नाप्सु न पुण्डरीकषण्डे ।

सरसीष्वपि नायतोर्मिलेखा न्तरपारिप्लवसारसासु दृष्टः । । ५.३९ । ।

सितचामरधारणे नियुक्तां दुहितस्तेन भुजङ्गमाधिपेन ।

अवधारय पाटलेति नाम्ना तनयां मां उरगस्य हेमनाम्नः । । ५.४० । ।

अचले विचयः पतत्रिणोऽयं फलितः साधु ममाहितश्रमोऽपि ।

यदितः पुरुषोत्तमोऽसि दृष्टो वनमध्ये निबिडश्रियोपगूढः । । ५.४१ । ।

उपरोधं इमं न मन्यसे चेद्यदि वास्मासु तवास्ति पक्षपातः ।

वद तच्चरता क्वचिद्वनेऽस्मिन्सः सहारो विहगस्त्वया नु दृष्टः । । ५.४२ । ।

न स दृष्टिं इतस्तवापि मन्ये तदहं तद्विचयादितो निवर्ते ।

ननु ताम्यति कामं आत्तचिन्ता चिरयन्त्यां मयि साहिराजकन्या । । ५.४३ । ।

अथ वा मृगभङ्गिनोपनीते विधिना सा नवसाहसाङ्कबाणे ।

प्रणयार्पितलोचना सनामन्यधुनाप्यालिखितेव नूनं आस्ते । । ५.४४ । ।

__________________________________________

पुनोऽपि पाटलोक्तिः

इति सा समुदीर्य तत्पृषत्कानवलोक्यैव पुनश्चमत्कृता इव ।

स्फुटकेलिमृगोपनीतबाण- स्मरणस्मेरमुखी पुनो जगाद । । ५.४५ । ।

सो नृलोकशशी त्वं एव मन्ये मृगयाबद्धरुचिः स यत्पृषत्कः ।

भुवनाभयदायिनां अमीषां भवतः संवदतीव सायकानां । । ५.४६ । ।

स्थितं एतदय्ॐउखेष्वमीषु स्फुतवर्णं तव नामधेयलक्ष्म ।

अवनीतिलक त्वयि प्ररूढं मम सन्देहलवं बलात्प्रमार्ष्टि । । ५.४७ । ।

समुपैति सनाथतां किं अन्यत्त्रितयेन त्रितयं नरेन्द्रचन्द्र ।

त्रिदिवं नमुचिद्विषा त्वयेयं वसुधा वासुकिना रसातलं च । । ५.४८ । ।

सनये नृपतावखण्डिताज्ञे त्वयि शासत्यवनीं दिलीपकल्पे ।

विदधीत पदं सुदुर्नये कस्तं ऋते हारमलिम्लुचं विहङ्गं । । ५.४९ । ।

असतां असुहृन्न लज्जतेऽयं किं इति ज्याकिणलाञ्छितो भुजस्ते ।

अवनौ यदनेन रक्षितायां वयं अस्यां मूषिताः पतत्रिणापि । । ५.५० । ।

अपयातु खगः सस्तेन कृत्यं न हि मे हारं इह त्वं एव याच्यः ।

न दिशन्ति किं अत्र चोरलुप्तं बत षष्टांशभुजो वसुन्धरायाः । । ५.५१ । ।

पथि चेदवतिष्ठसे प्रणीते मनुना नाथ तदर्प्यतां स हारः ।

न नरेन्द्र भवादृशाः कदाचित्पदवीं न्यायविदां विलङ्घयन्ति । । ५.५२ । ।

निजं अर्थयसे शिलीमुखं चेद्भवता यत्नवतापि किं न लभ्यः?

त्वं अनागसि यच्छशिप्रभायाः प्रहरन्केलिमृगे कृतव्यालीकः । । ५.५३ । ।

अथ वा मृगयिष्यते न हारं विशिखं दास्यति चोरगेन्द्रकन्या ।

त्वयि नेत्रपथातिथित्वं आप्ते सुलभोऽस्या हि महाजनोपरोधः । । ५.५४ । ।

अतिदूरतो दृश्यतेऽयं त्वं इवाभ्युन्नतिमानिनो नगेन्द्रः ।

वहति प्रणयोपरुद्धकूला कलहंसैरमुं अन्तरेण रेवा । । ५.५५ । ।

अमृतेन्दुकलासहोदरास्याः सुतनुस्तीरतलेऽवतिष्ठते सा ।

उरसीव पयोधिराजकन्या वनमालाभरणे रथाङ्गपाणेः । । ५.५६ । ।

तदितः स्वयं एव देव गत्वा पुलिनं स्ॐअभुवस्तरङ्गवत्याः ।

खगलुप्तविभूषणं क्षितौ ते फणिराजेन्द्रसुतां विबोधयेहि । । ५.५७ । ।

च्

इति तद्वचसा स्मरैकदूत- प्रसवोल्लासवसन्तवासरेण ।

सो नृपः कं अपि प्रमोदं आपत्घनराजिध्वनिनेव नीलकण्ठः । । ५.५८ । ।

अवदच्च विहस्य पार्थिवेन्द्रः फणिराजेन्द्रसुताविलासिनीं तां ।

वचसोत्कयता मयूरशावान्नवजीमूतनिनादसोदरेण । । ५.५९ । ।

अपि नाम मृदूनि वेत्सि वक्तुं निपुनं न्यायं अनुज्झती वचांसि ।

प्रसभं विहितास्त्वया यदेते वयं आत्मस्खलितेऽपि सापराधाः । । ५.६० । ।

इदं ॐ इति गृह्यते वचस्ते सह मेधाविनि कस्त्वया विवादः ।

यदिमा विशदोद्गमा गिरस्ते पथि सिद्धान्तसमीक्षिते चरन्ति । । ५.६१ । ।

तदनेन विनोदयाशु तावन्मम हारेण मनः शशिप्रभायाः ।

इह पल्वलसैकतेषु यावत्तदलङ्कारं अवेक्षितुं यतिष्यते । । ५.६२ । ।

__________________________________________

हारप्रदानम्

अथ हारं अनादरेण कण्ठात्स्वयं आकृष्य सः कृष्टचन्द्रशोभं ।

विहसन्नरविन्दकोशताम्रे निददे पाणितले विलासवत्याः । । ५.६३ । ।

अपि कोशगृहोदरे दुरापं फणिनां भर्तुरुपोढविस्मया सा ।

तं उदञ्चितपक्ष्मणा मृगाक्षी लिखितेनैव ददर्श लोचनेन । । ५.६४ । ।

__________________________________________

शशिप्रभाहारप्रदानम्

अवकृष्य सलीलं उत्तरीयात्सितमेघादिव तारकावितानं ।

उरसा स बभार हारं ईशः स्तनपर्यङ्कशयं शशिप्रभायाः । । ५.६५ । ।

वदति स्म हसन्रमाङ्गदस्तां उरगस्त्रीं अतह्भर्तुरिङ्गितज्ञः ।

यदि कौतुकवत्यमत्सरस्ते तदितः किं चिदितोऽवलोकयेति । । ५.६६ । ।

अथ हारलताविकृष्टदृष्टिः सहसा वारिविहङ्गमावलुप्तं ।

उरगेन्द्रसुताविभूषणं तन्नृपतेर्वक्षसि पाटला ददर्शः । । ५.६७ । ।

__________________________________________

पुनः पाटलावाक्यम्

दशनच्छदं आत्तबिम्बशोभं स्नपयन्ती सुधयेव हासकान्त्या ।

अवदच्च वाचांसि पार्थिवं सा चतुरैवं परिहासपेशलानि । । ५.६८ । ।

अपहर्तुं अगास्त्वं एव हारं किं इतः कल्पितराजहंसरूपः ।

विदितोऽसि घना तवोरगाणां नगरेऽस्त्येव हि कामरूपवार्ता । । ५.६९ । ।

परवञ्चनपण्डिता मतिस्ते यदि नैवं कथं अन्यथा नरेन्द्र ।

इदं आभरणं हरस्यरण्ये हरहासैकसितं शशिप्रभायाः । । ५.७० । ।

अवनीवलये त्वं आत्तदण्डः सहसे नाविनयांशं इत्यवैमि ।

अथ च स्थितिं आत्मना विधत्से विषये दस्युनिषेविते किं एतथ् । । ५.७१ । ।

७२ क्षितिप स्मयसे किं एष केलिर्न भवत्यर्पय हारं अस्मदीयं ।

नयवर्त्मजुषो भवादृशाः किं न परस्वग्रहणादिह त्रपन्ते । । ५. । ।

अथवा परतोऽस्तु नर्म नास्यां भुवि देवेन समोऽस्ति पार्थिवोऽन्यः ।

अपविद्धनया न यस्य दृष्टेरपसर्पन्त्यथ खेचराः किं अन्ये । । ५.७३ । ।

अनयोः किं अपि त्वया विलासिन्परिवर्तोऽयं अकारि हारयोर्यः ।

वचसां अवकाशं ईश दत्ते स न कस्यानृजुचेतसो जनः?

| | ५.७४ | |

विहितो न हि वक्षसि त्वयायं नृप हारः फणिराजकन्यकायाः ।

किं अपीप्सितं आत्मनो विधातुर्विहितं सूत्रं इदं मनोभवेन । । ५.७५ । ।

ननु याम्यमुना शशिप्रभायास्तव हारेण मनो विनोदयामि ।

त्वयि साप्यलं एव सान्द्रचेतः सुतनुः स्नेहरसार्द्रतां उपैतु । । ५.७६ । ।

उचितं निजसायकानुरोधादहिराजेन्द्रसुतोपसर्पणं ते ।

परतोऽस्तु शरस्त्वदर्थिता सा किं उ न त्यागवशंवदा ददाति । । ५.७७ । ।

सरसोऽस्य विमुञ्च तीरलेखां अनुरेवा पुलिनं गृहाण यात्रां ।

उरगाधिपरूपपक्षपातं शमय व्यालवधूविलोचनानां । । ५.७८ । ।

__________________________________________

शशिप्रभादर्शनार्थं गमनम्

इति वल्गु वचो निशम्य तस्याः स नृपः पन्नगवामलोचनायाः ।

स्थितं अत्र वचस्यलङ्घनीये तव कल्याणि मयेति तां उवाच । । ५.७९ । ।

अथ सानृजुवादिनी विधाय क्षितिपालं पुरतश्चचाल बाला ।

हृदयेन पराममर्श चैवं विलसन्मांसलविस्मयो नरेन्द्रः । । ५.८० । ।

अरण्यानी क्वेयं धृतकनसूत्रः क्व स मृगः क्व मुक्ताहारोऽयं क्व च सः पतगः क्वेयं अबला ।

क्व तत्कन्यारत्नं ललितं अहिभर्तुः क्व च वयं स्वं आकूतं धाता किं अपि निभृतं पल्लवयति । । ५.८१ । ।

अथ मदगजलीलाखेलगामी सः कृत्वा कनकविशिखयाच्ञाव्याजं अव्याजकान्तः ।

अवनिहरिणलक्ष्मा साहसोपार्जितश्रीरहिपरिवृढकन्यालोकनाय प्रतस्थे । । ५.८२ । ।

इति श्रीमृगाङ्कगुप्तसूनोः परिमलापरनाम्नः पद्मगुप्तस्य कृतौ नवसाहसाङ्कचरिते महाकाव्ये शशिप्रभावलोकनार्थप्रस्थानं नाम पञ्चमः सर्गः

************************************************

.

]