[[भरतचरितम् Source: EB]]
[
[TABLE]
[TABLE]
PREFACE
** The kavyaBharatacharitadealwith the legend of Bratachakravartin, son of Dushmanta .It has a charming and beautiful style and will prove of great u cto students. The name of the author is mentioned as krishnáchárya in one of the manuscripts of this work while in two other manuscripts, as krishnaKavi, and nothing particular is known about him.**
** The edition is based on the following three palm leaf manuscripts in Malayalam characters, about a century old**
1 (क) Belonging to Mr Narayanan Bhattathiri,Idappalli
2 (ख) DoMr Narayanan Namburi,PadmjareMany ithattu Illin Vukam
3 (ग) Do MrRajaraja Varma Raj of Vadakkumkur
Trivandrum
22-2-1101
T GANAPATI SASTRI
—————————
निवेदना।
भरतचरित नामेदंदुष्यन्तसूनोर्भरतचक्रवर्तिन कथामाश्रित्य प्रवृत्त ललितोदारसरसपद्यात्मक किमप्यपूर्वं काव्यंव्युत्पित्सूनामत्यन्तमुपकारकम्। अस्य कवि कृष्णाचार्य इत्यादर्शेलिखितमस्ति। किन्त्वसौ कदा कस्मिन्देशे स्थित इति न ज्ञात।
एतत्सशोधनाधारभूता ग्रन्थास्तावदेते—
१ इडप्पल्लिनारायणन् भट्टतिरिसम्बधी कसज्ञ।
**२ बैक्क पटि़ञ्चारे मनयत्ताहुनारायणन् नम्बूरिसकाशादानीत स्वसज्ञ।
**
३ वटक्ककूर राजस्वामिको ग सज्ञ।
अनन्तन्यनम्, }
२२-२-११०१ }
त. गणपतिशास्त्री.
—————————
**ΤΟ
HER HIGHNESS
SRI PADMANABHA SEVINI
VANCHI DHARMA VARDHANI
RAJARAJESVARI
SETU LAKSHMI BHAI
MAHARANI REGENT
I**
**DEDICATED
BY GRACIOUS PERMISSION
THIS EDITION OF**
BHARATACHARITA
A CHARMING POEM
**OF
KRISHNACHARYA**
——————
॥श्री॥
श्रीकृष्णकविप्रणीतं
भरतचरितम्।
______
प्रथमः सर्गः।
स्वस्तिप्रसूरस्तु रसोत्तराणां
छायां मनोज्ञामुपसेदुषीणाम्।
सञ्चारिणीनां महिताङ्गभाजा
गवां नियन्त्री परदेवता नः॥१॥
आदेशिकौपद्यपथोद्यताना
रत्नाकरौ सूक्तिमहामणीनाम्।
सन्मार्गसन्दर्शनपुष्पवन्तौ
वन्दे कवीनां प्रथमौ मुनीन्द्रौ॥२॥
अस्पृष्टदोषा नलिनीव हृष्टा
हारापलीव ग्रथिता गुणौघैः।
प्रियाङ्कपालीवविमर्दहृद्या
न कालिदासादपरस्य वाणी॥३॥
———————————
॥ श्रीः ॥
श्रीकृष्णकविप्रणीतं
भरतचरितम्।
——————
प्रथमः सर्गः
स्वस्तिप्रसूरस्तु रसोत्तराणां
छायां मनोज्ञामुपसेदुषीणाम्।
सञ्चारिणीना महिताङ्गभाजा
गवा नियन्त्री परदेवता नः॥१॥
आदेशिकौ पद्यपथोद्यताना
रत्नाकरौ सूक्तिमहामणीनाम्।
सन्मार्गसन्दर्शनपुष्पवन्तौ
वन्दे कवीनां प्रथमौ मुनीन्द्रौ॥२॥
अस्पृष्टदोषा नलिनीव हृष्टा
हारावलीव ग्रथिता गुणौघैः।
प्रियाङ्कपालीव विमर्दहृद्या
न कालिदासादपरस्य वाणाी॥३॥
जलाशयस्यान्तरगाढमार्ग-
मलब्धबन्धं गिरि चौर्यवृत्त्या।
लोकेप्वलं कान्तमपूर्वसेतुं
बबन्ध कीर्त्त्यासह कुन्तलेशः॥४॥
प्रदेशबृत्त्यापि महान्तमर्थं
प्रदर्शयन्ती रसमाददाना।
सा भारवेःसत्पथदीपिकेव
रम्या कृतिःकैरिव नोपजीव्या॥५॥
बृहत्कथाकारसुबन्धुबाणाः
केषामिवाश्चर्यपदं न ते स्युः।
यतः प्रसिद्धैरपि गद्यबन्धैः
श्लोकाननेका1न् भुवने वितेनुः॥६॥
प्रसादहृद्याहृदये गभीरा
वक्रोक्तिशैलीशबला रसार्द्रा।
श्रुत्यापि पुंसा हृदयं हरन्ती
कस्यापि वाणी वनिता च वश्या॥७॥
का सा कृतिः कस्य रसं प्रसूते
नोचेदपूर्वार्थरसानुकूला।
नालड्कियामात्रपरा फलाय
भूयात् कवीनां च मृगीदृशां च॥८॥
निर्मथ्यमानः सुमनोभिरेव
निष्ठयुतपीयूषरसो गभीरः।
सुव्यञ्जितार्थः सुभगावगाहो
गवां निधिः केन निवेशनीयः॥९॥
यतो न गृह्णन्ति सतोऽपि दोषा-
नतो दुराराध्यतमा हि सन्तः।
कामं खलाश्चोदनुरञ्जनीया-
स्ते दोषलोलाः सुलभाश्च दोषाः॥१०॥
सचेतसः सन्ति विमत्सराश्चेद्
गुणाश्च काव्ये यदि नाम सन्ति।
मिथो मिलन्त्येव न याचनीया
नचेद्2 द्वये कः कथमर्थनीयः॥११॥
आसीदनल्पोपलहेमशिल्पा
षुरी प्रतिष्ठानमिति प्रसिद्धा।
स्वर्वाहिनीनीरगृहीतपार्श्वा
या रत्नभूपेव भुवो बभासे॥१२॥
चिरानुभूतं सुरलोकसख्यं
सम्भावयन्ती सुरनिम्नगायाः।
रराज या पार्श्वनिविष्टपार्श्वा
भुवं गतेवामरराजधानी॥१३॥
स्तम्भोपमानां मणिगोपुराणां
तुङ्गेषु शृङ्गेषु निवेशितस्य।
आकाशधाम्नो मणिभित्तिकेव
प्राकारमाला विरराज यत्र॥१४॥
आक्रष्टकामेव विभूतिमन्या
द्वीपान्तरस्थामपि सारभृताम्।
चक्रे स्वयं या भृशमुन्नताभि-
रुद्ग्रीविकां सौधपरम्पराभिः॥१५॥
यत्सालमालम्वितुमम्बुवाहा-
स्तुङ्गाग्रमारोढुमशक्नुवन्तः।
निम्ने पतित्वा परिखाम्बुपूरे
ममज्जुरम्बुग्रहणेच्छयेव॥१६॥
तुङ्गानि यस्यां3 मणिगोपुराणि
विष्वक्कृतद्वारपरम्पराणि।
महेन्द्रवज्रक्षतजातरन्ध्र-
शैलेन्द्रशङ्कामदिशञ्जनानाम्॥१७॥
नितम्बविम्बादिव रत्नसालाद्
गङ्गाम्बुवासोगलित पुरस्तात्।
दधार या रत्नकरप्रसारैः
श्लथत्तरङ्गाञ्चलनीविबन्धम्॥१८॥
विकस्वरा वज्रकरैरसङ्ख्यैः
सौधेषुसौधेषु सुधाभिरामा।
नोत्तुङ्गभावान्नपर श्रियापि
या लङ्घयामास पुरीं सुराणाम्॥१९॥
लक्ष्मीर्गृहीत्वा जलधेः स4रत्नाः
पौ5राङ्गनाव्याजवतीरसङ्ख्याः।
यस्यां हरेर्भीत इवाविवेश
मन्थाचलः सौधगणच्छलेन॥२०॥
प्रासादवातायन (सल्लि?जालि) काभि-
र्ज्योत्स्त्र6ागृहीत्वेव कृतानि धात्रा।
यस्य कलङ्केन विना विरेजु-
र्वक्रेन्दुबिम्वानि पुराङ्गनानाम्॥२१॥
वक्त्रश्रियं वीक्ष्य पुराङ्गनानां
निशासु मन्दाक्षभरादिवेन्दुः।
विवेश यस्यां प्रतिमाच्छलेन
तिरोबुभूषुर्मणिधामभित्तीः7॥२२॥
कर्णाञ्चलारित्रविधूतपार्श्वै
र्नागेन्द्रपीतैरतुलैरूपेता।
सवेगवाहोर्मिविमुक्तफेना
नदीव यस्यां विशिखा विरेजे॥२३॥
उषेबयान्तर्गतचित्रलेखा
वेश्येव सत्यानृतसञ्चितार्था।
शैलस्थलीवोद्धतवाहिनीका
नागास्तृता भोगवतीव रेजे॥२४॥
तूणीव पूर्णा विशिखावलीभि-
र्गङ्गेव विख्यातवसुप्रसूतिः।
लङ्केव सालाग्रविलम्बितर्क्षा
या रत्नमालेव महापणाढ्या8॥२५॥
पद्माननावर्जितराजहंसाः
पुष्पेषुलोलैर्भ्रमरैःपरीताः।
यस्यां विरेजुर्मणिहेमक्लृप्ताः
शुद्धान्तनार्यो गृहदीर्घिकाश्च॥२६॥
सौधस्थिताभिः पुरसुन्दरीभि-
र्नम्रीकृता निष्कुटचूतशाखा।
रराज यस्यां सशिलीमुखालिः
सज्जीकृतेव स्मरचापयष्टिः॥२७॥
यत्रेन्दुकान्तोपलभित्तिभाभि-
राविष्कृतानामभिसारिकाणाम्।
स्थूलेन्द्रनीलोपलतोरणानां
छाया बभूवावरणं रजन्याम्॥२८॥
हरिन्मणिश्यामतृणोलपाढ्यैः
सौवर्णभाण्डोज्ज्वलरश्मिकीर्णैः।
तुङ्गैर्गृहैर्विश्रमितुं ददौ वा
या मन्दुरामर्कतुरङ्गमाणाम्॥२९॥
सन्नायकोत्कृष्टगुणा महार्था
लोकोत्तमालडूकृतिरस्तदोषा।
विशुद्धवर्णाश्रमगुम्फिता या
हारावली काव्यक (था ? ला) भिरामा॥३०॥
तस्यां नगर्यांनिजपादपातैः
सम्भावयन् भूमिभृतां शिरासि।
आसीत् त्रिलोक्यामिव तिग्मधामा
दुष्पन्तनामा नरपालमौलिः॥३१॥
भुजङ्गभीमेन भुजेन यस्य
धनुर्गुणाकर्षणरञ्जितश्री-
र्महीसमुद्राभरणाङ्गुलीव॥३२॥
भूपारिजातं प्रथमं विजित्य
स्थानं तदीयं पुनराददानः।
आपूरयन्नर्थिजनस्य वाञ्छां
भूपारिजातत्वमयात् स्वयं यः॥३३॥
प्रारम्भणात् प्राक् प्रणतेर्गतेर्वा
धनुः शरो वा स्वयमेव यस्य।
आचार्यकं चक्रतुराजिरङ्गे
प्रणामभाजामपि वेगभाजाम्॥३४॥
यस्य श्रियं वीक्ष्य पुरन्दरोऽपि
लघीयसी मत्पदवीति तप्तः।
अक्ष्णां सहस्राद10पि कालवर्ष-
व्याजेन बाष्पाम्बु मुमोच भूमौ॥३५॥
धर्मोऽपि मोक्षप्रवणस्य साक्षा-
दर्थो यशःसञ्चयमुञ्चिचीषोः।
कामः प्रजोत्पत्तिपरस्य चेति
यस्यानुनिष्पत्तिरभूत् त्रिवर्गः11॥२६॥
अन्तर्हितं कारणमङ्गवृद्धे-
राप्तैः कृतं सुश्रुतशास्त्रशौण्डैः
स्फीताङ्गवर्गोऽपि विपाकरम्यं
दधार यो मन्त्रमयं कषायम्॥३७॥
अष्टापदैर्यो गिरिशृङ्गकल्पै-
र्दानाम्बुसिक्तैर्जयकुञ्जरैश्च।
आषुरयामास नितान्तमाशा-
श्चक्रेऽर्थिनां वाथ12वसुन्धरायाः॥३८॥
पातालमाप्तो भुविपूरिताशः
कल्पद्रुमाणां पदवीमतीतः।
निरन्तरं शौरिपदावलम्बी
यः स्वो यशोराशिरिवाबभासे॥३९॥
अस्पृष्टशस्त्रेण जिता बलौघा
न केवलं येन पुरन्दरोऽपि।
यदायुधानां शतकोटिमेकं
बलं विजेतुं स मुमोच भूयः॥४०॥
यस्मिन् महीं शासति सागरेषु
भङ्गो विषादः शिखिमण्डलेषु।
आर्तिप्रवेशो धनुषां गुणेषु
यात्रासु दूप्योद्धरणं बभूव॥११॥
ऋक्ष्वेव मन्त्रप्रसरो बभूव
वृत्तं यजुःष्वेव निवृत्तमासीत्।
उपद्रवः सामभुनापरत्र
यत्र क्षितित्राणपरे बभूव॥४२॥
यो वारिराशिमशमैकहेतु-
र्यो वा सहेतिः परतापहेतुः।
यो वाशु काष्ठाजित13भूरिभूति-
रकृष्णवर्त्मेतिमृषास्तुतोऽभूत्॥४३॥
रत्नाकरः सत्त्वविशेषशाली
सहस्रभोगो वसुधां दधानः।
वित्तेश्वरः पुण्यजनानुयायी
पद्मोद्भवो यश्र्चतुराननोऽभूत्॥४४॥
दुर्गानपेक्षोऽपि शिवानुयातः
कीर्त्तिदधानोऽप्यजलाधिवासः।
विशुद्धवृत्तोऽपि च कृष्णकर्मा
यः स्थूललक्षोऽपि च सूक्ष्मवेधी॥४५॥
निसर्गसारस्य निधानभूमिः
स्फुरद्गुणग्रामसुखोपसेव्यः।
अलङ्कृतश्लोकनिमग्नलोको
यः काव्यबन्धश्रियमन्वगच्छत्॥४६॥
सचापतूणिः स कदाचिदाज्ञा
जिज्ञासमानो नगरे नरेन्द्रः।
चचार14रात्रौ भुवनैकवीरः
श्रिया वपुष्मानिव15 पुष्पकेतुः॥४७॥
ततः स राजा सुरनिम्नगायां
शुश्राव कोलाहल (म?मा) म्बुपूरम्16।
न चक्षमे तं द्विग्देन्द्रशब्द-
मुदूदृप्तमुच्चैरिवकेसरीन्द्रः॥४८॥
अलोकयच्चित्ररथं ससार्थं
सहाप्सरोभिर्विहरन्तमप्सु।
नृपः सयूथं17द्विपयूथनाथं
करेणुभिः सार्धमिव प्रविष्टम्॥४९॥
शकप्रियोऽयं प्रमदासहायः
क्रीडापरश्चेति निवर्तमानम्।
अरुन्ध गन्धर्वपतिर्नरेन्द्रं
भोगी गरुत्मन्तमिव प्रयान्तम्॥५०॥
उक्तश्चरोषादिति गर्वितेन
गन्धर्वनाथेन नरेन्द्रनाथः।
अकालसञ्चारक ! दुर्विनीत !
प्राणेषु नूनं विगतस्पृहोऽसि॥५१॥
स्वच्छन्दमस्मासु रहो गतेषु
कीडाप्रवृत्तेषु धने निशीथे।
कथं मनुष्यो निविशेत मन्दः
स्वयं दिवा18भीत इवातपेषु॥५२॥
इत्याददानं सशरं धनुस्तं
प्रत्युत्तरं भूमिपतिर्बभाषे।
सोटोऽसि पूर्व वनिता19श्रयत्वा-
दवध्यभावाच्चकुशीलवानाम्॥५३॥
इतःपरं निस्त्रप! दृश्यसे चेद्
बाणाः परप्राणहराः प्रमाणम्।
संसर्गयोग्या यदि वो न मर्त्त्याः
शून्यं पुरं यात20 वनं वियद्वा॥५४॥
इतीरयित्वा स मुमोच पूर्वं
सन्धित्सवे चित्ररथाय बाणम्।
स तेन मुक्तो हृदयं विवेश
हितोपदेशो बलवानिवास्य॥५५॥
अविह्वलश्चित्ररथोऽपि तूर्ण-
माकर्णमाकृष्य शरं मुमोच।
विवेश सोऽपि क्षितिभर्तुरन्तः-
सत्त्वावधिज्ञानकुतूहलीव॥५६॥
एवं तयोस्तुल्यबले प्रहारे
चिरं प्रवृत्ते कलहान्तमिच्छन्।
बलिं त्रिधामेव भुजङ्गन्मास्त्रै
र्महारथश्चित्ररथं बबन्ध॥५७॥
ततो विहस्ते पतिते च तस्मिन्
विवृद्धमन्युः शतमन्युरेनम्।
धनुर्गुणाघट्टनधीरनादै-
र्भित्त्वानभश्चक्रमिवाससाद॥५८॥
ततो महेन्द्राचलशृङ्गसङ्गि-’
कोदण्डमेघच्युतबाणवृष्ट्या।
आपूरितः क्षोभविवृद्धसत्त्वः
**सद्यो जजृम्भे जगतीशसिन्धुः॥५९॥ **
अवोचदित्थं नरलोकपालः
सविस्मयोऽसौ सुरलोकपालम्।
अधीश्वरं त्वां सकलस्य जन्तोः
कथं प्रहर्तुं प्रयते बिडौजः!॥६०॥
द्वयंहि मां सांशयिकं21 तनोति
प्रतीक्ष्यता ते प्रतिपक्षता च।
हविःस्रुचौ वा किमुपाददीप्त
**धनुःशरौ22 वा किमयं भुजो मे॥६१॥ **
इति ब्रुवन्तं वलभिद् बभाषे
सान्त्वं समन्तोरुपहासवादः।
विपक्षभावं भजतामवेहि
महीभृतां मद्भिदुरं यथार्थम्॥६२॥
तथासि चेन्निर्विशयः समीकें
मच्चापमुक्तैर्विशिखैरुरस्तः।
आस्रावयिष्यामि सुधां निपीतां
ययासि जैवातृकतां प्रपन्नः॥६३॥
इतीरयित्वा नृपतिः पृषत्कै-
रापादचूडं निचखान शक्रम्।
आपुङ्खमग्नैःस च तैर्विरेजे
**वहन्निवाक्ष्णामपरं सहस्रम्॥६४॥ **
ततस्तुराषाडपि गाढविद्धः
शिलीमुखैस्तस्य विभेद वक्षः।
तैराहतः सोऽपि विघूर्णितोऽभूत्
कल्पान्तवातैरिव वारिराशिः॥६५॥
अस्त्राण्यमर्षादथ योजयन्तं
निवार्य वास्तोष्पतिरेनमूचे।
सर्वं मयैतत् त्वदनुग्रहार्थं
**प्रवर्तितं वृत्तमवेहि राजन् !॥६६॥ **
समुद्रनिक्षिप्तमथोद्गतांशु
बलाहकच्छन्नमिवार्कविम्बम्।
तस्मै जगद्दर्शननामधेय-
**मादर्शरत्नंमघवा दिदेश॥६७॥ **
आह स्म चेदं यदि चेच्छसि त्वं
दूरस्थितं वस्तु तिरोहितं वा।
दृश्यं तदस्मिन्नखिलं तवास्तु
**दृश्यो भव त्वं च तथाविधेन॥६८॥ **
अथ सकलमहीभृच्चक्रलक्ष्यप्रतापाः
श्रुतिसुखमनुभूय स्तोत्रबन्धं सुराणाम्।
दिवससुरनराणामीश्वराः स्फीतभासः
**प्रययुरुदयशैलं द्यां प्रतिष्ठानकं च॥६९॥ **
इति कृष्णविरचिते भरतचरिते॥
प्रथम सर्ग.॥
————
अथ द्वितीयः सर्गः
अथ प्रसादं वलहभ्तुरक्षतं
मणौ तनीयस्यपि तेजसां निधौ।
वटाग्रधाम्नीवहरौ नराधिपः
क्रमाद् विशश्वास विलोकयन् जगत्॥१॥
स जातु पश्यन् मणिना जगत्रयं
विरोधिसत्वप्रशमाैषधान्वलम्।
भवोन्नतानोकहतक्षणोद्वनं
घनान्तरध्वान्तनिरासवासरम्॥२॥
उपर्युपोढं पृथुलैः पयोधरै-
र्मुनीन्द्रतेजःशिखिधूमसप्रभैः।
तपःप्रतापैरिव दूरानर्जितै-
रसम्प्रविष्टं तपनातपोष्मभिः॥३॥
उपेतमृक्षैर्घनभावमेदुरं
समुल्लसच्चित्रशिखण्डिमण्डलम्।
विपश्क्रमश्रीफलभोगिभिःश्रितं
वियत्समाहारमिवार्पितं क्वचित्॥४॥
प्रफुल्लपुन्नागलवङ्कगर्भकं
विनम्रज्ञाखाञ्चलचूर्णकुन्तलम्।
स्थितं धरित्र्या इव केशसञ्चयं
ददर्श कण्वस्य ऋषेरथाश्रमम्॥५॥
अनेकशाखादृढमूलशालिनां
फलप्रदानामपि कार्यतः स्वतः।
प्रवर्तका यत्र महर्षयोऽभवन्
महीरुहाणामपि कर्मणामपि॥६॥
कपालचर्मानलभस्मलाञ्छनः
मरित्कुरङ्गाचलभूगुहाश्रयः।
अहीनवल्लीपरिणाहभूषणः
श्रिया स्वयं योऽनुचकार शूलिनम्॥७॥
शरीरिणीं कान्तिमिवामृतद्युतेः
सरोरुहाणामिव सारनिर्मितिम्।
स कामसाम्राज्यकृतामिव श्रिय
ददर्श तस्मिन् नवयौवनां वधूम्॥८॥
मुनीश्वरेणात्मसुतामिवादृता
समुद्वहन्ती कुसुमानि23 कर्मणे।
समुल्लसत्पल्लवकान्तिधारिणीं
तरु समालम्व्य लतामिव स्थिताम्॥९॥
उपेयुषीं यौवनमत्तकुञ्जर
निरङ्कुशं24 चेतसि कौतुकावहम्।
विविक्तरोमावलिदानविस्रव
समुन्नयन्तं कुचकुम्भमण्डलम्॥१०॥
स्ववासपद्माश्रय एव पद्मभू-
स्तदीयकिञ्जल्करजोमधुद्रवैः।
विनिर्ममे ता सुतनोस्तनु ध्रुव
मुहुर्मुहुर्वीक्ष्य वपुःश्रिय श्रियः॥११॥
विलोचनानन्दकरं शरीरिणा
निसर्गसौरभ्यविलोलषट्पदम्।
सुधामधुस्यन्दि तदीयमानन
शशाङ्कबि (म्बा) म्बुजयोः (कि ? श्रि ) यं ययौ॥१२॥
सदन्तमुक्ताधरविद्रुमोज्ज्वल
महाधन वैश्रवणाप्तवीक्षणम्।
न केवलं पद्ममभूत तदानन
निधानपद्म ह्यलकावलम्बनम्॥१३॥
शिखण्डिनस्ताण्डविनोऽपि चन्द्रका-
स्तदीयकेशश्रियमाप्तुमक्षमा।
यतेत तामाप्तुमथापि चामर
न कस्य बालत्वकृत हि चापलम्॥१४॥
विभज्य विम्व शशिनः सलाञ्छन
ललाटपट्ट ललितभ्रु कुर्वता।
परार्धनीलाङ्कसुधार्द्रलोहितै
कृत तदाक्षिद्वितय नु वेधसा॥१५॥
तदीयगण्डस्थलरत्नदर्पणौ
क्रमेण वैशद्यविशेषमापतु।
प्रकीर्णकर्णोत्पलरेणुराजिभि
प्रमृज्यमानाविवयावनश्रिया॥१६॥
द्विज्ञावलींसन्मुखचन्द्रगामिनॉ
विलोक्य गृढामिव जातमत्मग।
छलन यामिन्यपि रक्तमानन25ं
न्यधत्त तस्मिन् दशनच्छदात्मना॥१७॥
अनक्षरा कोकिलगीर्नबल्लकी
स्वतन्त्रचेष्टा परगीः शुकाङ्गना।
तदुक्तिभङ्गी गलितोक्ति26दूषणा
कथं नु ताभिः सदृशी समर्थ्यताम्॥१८॥
न नाकिनां सद्मनि नापि भूतले
रसातले वापि न रूपमीदृशम्।
इतीव तत्कालम्बुप्यले शलाकया
लिलेख लेखात्रितयं जगद्गुरुः॥१९॥
विधूयमाना शनकैर्मनोभुवा
पुनर्भवार्चिःप्रसरार्पितासना27।
विलासडोलेव ललास चञ्चला
भुजद्वयीसा नवयौवनश्रियः॥२०॥
तदीयपाणिद्वयकान्तिनिर्जितं
क्रमेण दूरोज्झितजीवनाशयम्।
विमुक्तकोशश्रिविरागमानतं
कुशेशयं नूनमभूत् कुशेशयम्॥२१॥
स्मरस्य साम्राज्यपदेऽभिषेचनं
विधातुमिच्छन्निव योवनोदयः।
न्यधत्त तस्याः स्तनकुम्भयोर्द्वयं
नवेन लावण्यजलेन पूरितम्॥२२॥
तदीयमध्यकशिमैकसाक्षिणी
रराज रोमावलिरा स्तनान्तरात्॥
अनल्पशिल्पप्रणिधानशालेना
स्वयम्भुवा सूत्रमपीव योजिता॥२३
तदीयलावण्यपयोधियायिभि-
र्गभीरनाभीह्रदविभ्रमालसैः।
अगाहिनूनं युवनेत्रनाविकै-
र्मुहुर्मुहुस्तत्रिवलीमहोर्मिषु॥२४॥
विधाय पीनस्तनभारमुन्नतं
विधातुकामश्च नितम्बमायतम्।
तदीयमध्यक्रियया नु डोल28या
ध्रुवं विशश्राम तदन्तरा विधिः॥२५॥
मनोज्ञवृत्तोरुयुगावलम्बनं29
नित30म्बचक्रंमहदक्षहारकम्।
सुदर्शनं सारमवाप्य मन्मथो
रथी नु चक्री नुजगद्31 वशेऽकरोत्॥२६॥
महत्परामर्शमनोहरं मुहुः
मुसन्धि वृत्तं सुकुमारमुज्ज्वलम्।
ध्रुवं तदूरुद्वयसर्गबन्धनं
विधाय वेधा यशसाममून्निधिः॥२७॥
विमर्दनीया रसिकेन रागिणा
कथ नु सा सप्तगुणैव नाभवत्
ततोऽधिकैरप्यवलम्बिता गुणैः॥२८॥
प्रशस्तमस्याः पदकर्म शंसितुं
पदं क्षमं हंसगतान्यपेक्ष्य यत्।
तदस्य सर्गादुपसर्गमग्रत-
श्चकारवेधाः प्रपदं किमाशयः॥२९॥
त्रपागुणाकुष्टिविनम्रमध्यया
स्मरेण गाढं गुरुणा प्रणुन्नया32।
तया च तस्मिन् घनपक्षपातिन-
स्ततः कटाक्षाः प्रथमे निपातिताः॥३०॥
स्पृहा नु मोहो नु मदो नु मान्मथ-
स्त्रपानु लीला नु वितर्किता नुवा।
अभूतपूर्व हृदि कापि विक्रिया
**विलोकयन्त्यास्तमनङ्गविभ्रमम्॥३१॥ **
तदक्षियुग्मं घनपक्षसम्पुटे
निरुद्धवाष्पंचिरमास्त निश्चलम्।
निशोदबिन्दुस्थगिताग्रकेसर
**निवातनिष्कम्पमिवोत्पलद्वयम्॥३२॥ **
विलोकयन्ती नियत पपौ गुणान्
प्रतापमिश्रान् मधुरान् महीभृतः।
अधन्त सा स्वेदजलार्द्रमानन
यतः सुधासिक्तमिवेन्दुमण्डलम्॥३३॥
प्रतिष्ठितेऽन्तः सदृशे नरेश्वरे
विनिर्गतास्तत्क्षण ऐव कण्टकाः।
द्विपेन्द्रहस्ताकृतिचौर्यकातरं
मुहुस्तदरुद्दितयं विकम्पितम्॥३४॥
न वासरैर्न प्रहरेण केवलं
त्रिभिः क्षणैः पञ्चभिरेव वापरैः।
विनिर्ममे तामयथापुरं वधूं
नृपो नु मारो नु नवं नु यौवनम्॥३५॥
विनिःसरन्तः स्पृहया मुहुर्मुहु-
र्वधुकटाक्षास्त्रपया विवर्तिताः।
अदृष्ठपूर्वोऽयमपि श्रुतो भवे-
**दितीव कर्णाघनुयोक्तुमभ्ययुः॥३६॥ **
समुत्सुकाः साहसिनो विनिर्गता
नरेन्द्रदृष्टिप्रतिघातकुण्ठिताः।
कटाक्षपाताः सुतनोस्तथापि ते
**न तस्य नासन् हृदयावभेदिनः॥३७॥ **
तथा हि मन्ये सहसा मुशिक्षिता
कटाक्षसंज्ञाभिरनेन भूभुजा।
यथाह्यनभ्यरतचरेऽपि दक्षिण33ा
**वभुव सा मन्मथविभ्रमकमे॥३८॥ **
अथ क्षितीशोऽपि धधूं विलोकयन्
**विनिर्जिताशेषधनुर्धरः स्वयम्। **
**स्मरेण धानुष्कतया व्यजीयत॥३९॥ **
अवेक्षमाणः स्फुटमायतेक्षणां
गतोऽपि सद्योऽनिमिषत्वमद्भभुतम्।
मुहुश्चकाङ्क्षे स सहस्रनेत्रतां
**क्व कामसामग्रयमगामि कामिभिः॥४०॥ **
अभूत् सकम्पं वपुरस्य भूभुजः
श्रमाम्बुसिक्तैः पुलकैरलङ्कृतम्।
प्रमोदबाष्पस्नपितैर्निपातितै-
**र्वधूकटाक्षोत्पलकेसरैरिव॥४१॥ **
महीक्षितस्तामवलोक्य तस्थुपः
स्मरेण भिन्नं36 कतिधा नु मानसम्।
न पञ्चधा पञ्चभिरेव सायकै-
**र्यतोविकल्पैः37 शतधावलम्बितम्॥४२॥ **
किमीदृशीयं परमार्थसंभवा
विभावना वा मनसो विमोहिनी।
अथेन्द्रजालं नुमहेन्द्रनिर्मितं
**मणेरयं वा महिभैव केवलम्॥४३॥ **
अनल्पशिल्पा यदि सृष्टिरीदृशी
भवेद् विधातुः स्वत एव नैपुणी।
ततः स्वदाराः खलु सा सरस्वती
**स्फुटं विधात्रे स्वयमभ्यसूयति॥४४॥ **
कथं तपश्शोषितकामविभ्रमे
तपोवने जन्म लभेत मानिनी।
दवानलोच्छोषितकुड्मले वने
**कथं हि कल्पेत शिरीषमञ्जरी॥४५॥ **
इयं च न क्षत्रपथातिवर्तिनी
क्षमा मनः स्यन्दयितुं हि मादृशाम्।
सरोजराजिप्रतिमल्लविभ्रमा
**शशाङ्करत्नं विमलेव चन्द्रिका॥४६॥ **
स्तनावनुत्पीडितपीनकर्कशौ
न भुक्तमुक्तं दशनच्छदामृतम्।
दृशौ च नोन्मृष्टपुटे मृगीदृशः
क्वयूनि पुण्यं महदय पच्यते॥४७॥
इतीदृशीं तां शतधा विजृम्भितां
विकल्पमालां महतीं महीपतिः।
अवाप मन्थाचलघातचञ्चलां
**पयोधिरुल्लोलपरम्परामिव॥४८॥ **
अथ क्षितीशे क्षणमीलितेक्षणे
मणिः क्षणेनान्तरधीयत स्वयम्।
मिथस्तयोस्तामनुरागसंपदं
**निरीक्षितुं रक्त इवाक्षमः स्फुटम्॥४९॥ **
तदा च सामृत् सहसातिरोहिता
नृपस्य तस्याश्चतथा बभूव सः।
यतो मिथश्चेतसि तौ ममज्जतु-
स्ततो बहिर्युक्तमदर्शनं तयोः॥५०॥
अथामुनानन्दसुधारसस्रुता
सुखोदयेन स्मरबन्धुकान्तिना।
वरेण राज्ञा विरहं गता सती
कुमुद्वतीवग्लपिता बभूव सा॥५१॥
तदीक्षणानन्दजमश्रुशीतलं
यदास्त तस्याः प्रथमं क्रमेण तत्।
प्रवासदुःखप्रभवेन वह्निना
प्रवर्तितक्वाथमिवोष्णतां ययौ॥५२॥
सुदीर्घनिःश्वासमरुद्विजृम्भितै-
श्चचालतस्याः पृथुलं कुचद्वयम्।
हृदि स्थितानां विरहानलोप्मणां
पुरःस्थितिं सोढुमिवाक्षमं मुहुः॥५३॥
विदह्यमानोऽपि वियोगवह्निना
विचित्रमस्याः स्मरसायकव्रणः।
हृदि स्थितः प्रेमरसायनोक्षितः
शशाम न प्रत्युत विस्तृतिं ययौ॥५४॥
तमोमयं विश्चमिवाथ तन्वता
वियोगदुःखेन नवेन सा वधूः।
विजृम्भमाणेन मुहुर्विपाण्डुरा
बभूव हंमीव घनेन मू38र्च्छिता॥५५॥
तथा विसंज्ञां पतितां महीतले
समेत्य माध्वीति किलामराङ्गना।
अबोधयत् तां विरहातुरां वधूं
प्रमेव बाला सवितुः सरोजिनीम्॥५६॥
निरुन्धता यातुमिवोद्यतानसून्
मुहुः स्पृशन्त्या शिशिरेण पाणिना।
तयानुपृष्टा परितापकारणं
शशंस सा बांष्पविकुण्ठितस्वरा॥५७॥
स कोऽपि चक्षुष्यतनुः प्रभानिधि-
र्गजेन्द्रगामी मृगराजविक्रमः।
सुसू39क्ष्मदृष्टिः पृथुलायतेक्षणो
विभुर्विनीतश्चयुवा मयेक्षितः॥५८॥
अहीनमूर्तिः स वसुन्धराधरः
स भूरिकीर्त्तिः कमलोदयाश्रयः।
स तुङ्गवंशः कृतकार्मुकस्थितिः
स ईश्वरः सम्भृतसर्वमङ्गलः॥५९॥
तदाप्रभृत्येव मनः क्व मे गतं
न वेद्मि मान्ये! मदनायुधक्षतम्।
मनोहरेणोष्मवता विहारिणा
हृतं नुदग्धं नु तिरस्कृतं नु वा॥६०॥
मनोभवश्चेदयमस्य विग्रहे
क्व भङ्गकारी भविता स ईश्वरः।
यदीन्दुमूर्त्तिः परिभूतिरस्य का
रविप्रतापैर्भुवनोत्तरैरपि॥६१॥
न सर्वथा तेन विनाहमुत्सहे
मनस्विना मत्तगजेन्द्रगामिना।
निरर्थकान् क्लेशफलानिमानसू-
नजेव वोढुं गलवर्तिनः स्तनान्॥६२॥
जगाद माध्वी च तथा व्यथावतीं
तवास्मि मात्रा प्रहिता हिता सखी।
अहं यतिप्ये युवयोः समागमे
प्रभातवेलेव रथाङ्गसंज्ञयोः॥६३॥
स चक्रवर्ती शिशिरांशुवंशज -
स्त्वमप्यपत्यं खलु गाधिजन्मनः।
तदस्तु वां शक्रशचीप्रकाशयोः
समागमः श्लाध्यतमो मनीषितः॥६४॥
इत्थं गाः शिशिरसुखाः प्रयुज्य माध्वी
त40प्तायां प्रियविरहोष्मणा कुमार्याम्।
विभ्राणा निबिडपयोधरश्रियं ता-
मभ्रान्तं सपदि यथागतं ययौ च॥६५॥
इति कृष्णविरचितं भरतचरिते द्वितीयः सर्गः॥
—————
**अथ तृतीयः सर्गः। **
इत्थं वियोगविधुरः म नरेश्वरोऽपि
सौधे सुधाशशिमणिप्रकराभिगमे।
श्रीमानहीनशयने शिशिरे निशायां
दुग्धोदधाविव हरिर्भगवानशेत॥१॥
योग्यार्थसंघटनकौतुकिनी रसार्द्रा
केनापि भाग्यविभवेन विभाव्यमाना।
चिन्तापरं तदनु भूपतिमाससाद
माध्वी निसर्गमधुरा कवितेव साध्वी॥२॥
सा देहभाभिरुपरि प्रविसारिणीभि-
रुल्लोचमम्बरतले न बबन्ध यावत्।
तावत् स्वतल्पसमतुङ्गमनल्पशिल्प-
मस्यै दिदेश मणिपीठमसौ नरेन्द्रः॥३॥
मन्दस्मितार्द्रसुधया स मुहुः क्षर41न्त्या
प्रक्षालयन्निव मुखं विरहानलोष्णम्।
एनामभाषत परिस्फुरता42धरेण
सन्दर्शयन्निव बहिर्दयितानुरागम्॥४॥
का त्वां विना सुतनु! मम्प्रति मुक्त43शोभा
वासस्थली कमलिनीव हृतारविन्दा।
किं तत् कुलं तिलकितं तवजन्मनेति
जिह्रेमि सौहृदवशा44दनुयोक्तुमिच्छन्॥५॥
देवीत्वमाह तब निश्चलनील45नेत्रं
निष्पन्दषट्पदसरोरुहकान्ति बक्रम्।
किं कृत्यमस्ति कृतकृत्यधियस्तवेह
वात्सत्यमाश्चितजने विवृणोषिवा त्वम्॥६॥
आह स्म सापि मृदुलस्मितमुद्गिरन्ती
वाग्देवतासरणिसंस्तरणाशुकाभम्।
माध्वीति वासवगृहे परिचारिकाह-
मामूलतः शृणु ममागमने निमित्तम्॥७॥
अभ्यर्थिता वलभिदा किल मेनका सा
मत्प्रेयसी कुशिकसूनुसकाशमेत्य।
रूपेण तेन भुवनत्रयसुन्दरेण
**घोरं जहार हृदयं च तपश्च तस्य॥८॥ **
तस्य प्रसङ्गकृतसङ्गमगर्भयोगात्
कन्यामसूत गुणसङ्घटनाभिरामाम्।
भूषामणेरपि विभूषणता दधाना
**मुक्ताश्रियं जलनिधेरिय ताम्रपर्णी॥९॥ **
निक्षिप्य वृष्टिरिव सम्पदमुर्वराया-
मुर्व्या प्रसूप्तिमथ सा दिवमारुरोह।
जात्यन्तरैः पिकवधूरिव सा शकुन्तै-
स्त्राता कुमार्यपि जगाम शकुन्तलाख्याम्॥१०॥
सा सान्द्रपल्लवमनोहरकान्तिभारा
भूयः स्वयं करविसृष्टपयप्रसादा\।
**संवर्धिता वनलतेव महर्षिणाभूत **
कण्वेन दैवघटिता करुणापणेन॥११॥
सा सम्प्रति प्रथमयौवनभारखिन्ना
त्वां वीक्ष्य मन्मथविधेयतनुः कुमारी।
धन्ते पयोधरतटे चिरमश्रुबिन्दून्
**मुक्तामणीनिव भवद्गुणलब्धगुम्फान्॥१२॥ **
स्त्रिग्धो जनः किमुत तां घिरहाभितप्तां
वीक्ष्य द्विपन्नपि न जीवितुमुत्सहेत।
सा तु स्वयं विशति कां तु दशां न जाने
**मां पश्य वेपथुमतीमतिचिन्तनेन॥१३॥ **
सा प्रत्यहं विरहतिग्मरुचा गृहीता
बालापि पाण्डुरतनुःक्रशिमानमेति।
प्रस्निग्धपुष्करपुटे परिवर्तमाना
पीयूषदीधितिकलेव विलासशेषा॥१४॥
निद्रां न याति यदि याति सरोमहर्षा
सानन्दबाष्पनयना मुखमानमय्य।
ब्रीलावशादभिमतान्यपि चुम्बनानि
**वाला रुणद्धि नभसि प्रविसार्य पाणिम्॥१५॥ **
प्रापय्य मामभिमतं जनमाशु दीनां
निद्रा सखीव निपुणा स्वयमेव याता।
एतावदेव हि सहायजनस्य कृत्यं
मद्भाग्यमन्यदिति शोचति सा विनिद्रा॥१६॥
दुग्धोदधौ विषविपादविमूर्छिनेषु
देवेषु कैतवमकारि शिवेन किञ्चित्।
पीतः सुधांशुरविषह्यरसस्तु मन्ये
नीतः- सुधांशुपदवीं स च कालकूटः॥१७॥
यद्वायमप्यपर एव विषावतारः
सन्दर्शयन्निजममुं हृदि कालिमानम्।
दिग्धो बहिः सततमब्धिकफेन पाण्डु-
राविर्भवञ्जलनिधेर्हिमधामनामा॥१८॥
आहो स्वयं परिणतः शनकैर्विषात्मा
राहोर्मुहुर्निगरणोद्गरणैर्मृगाङ्कः।
इत्थं निरीक्ष्य निजतापकरं निशायां
सास्राहिमद्युतिमुपालभते मृगाक्षी॥१९॥
वाताशनैर्विषधरैः पथि चन्दनस्थै-
र्भुक्तोज्झिता इव विपच्छुरिताः स्पृशन्तः।
मन्दानिलाः सरसचन्दनगन्धगर्भा-
स्तां मूर्छयन्ति हिमनिर्झरशीकरार्द्राः॥२०॥
दोषार्थिनी कुमुदिनी विमुखी च मित्रे
सन्तापयेत् कुमदपाण्डुमृदुस्मितां ताम्।
नो युज्यते तपति यत् प्रतिमुक्तदोषा
मित्रप्रिया कमलिनी कमलायताक्षीम्॥२१॥
चूताङ्कुराः स्मरशराः स्वयमेव नैव
तेषां रसाः परिणताश्चत एव मन्ये।
यत् कोकिलास्तदुपभोगविशुद्धशब्दैः
कण्उैस्तुदन्ति शतधा हृदयं तरुण्याः॥२२॥
सा स्वस्ति कीर्तयति चन्द्रकराभितप्ता
ज्योत्स्नाशिने निशि चकोरकुलाय बाला।
भूयस्तरामसितपक्षसमागमाय
यत्र स्वय विलयमेति शनैः शशाङ्कः॥२३॥
एषा कथा हिमरुचः कुमुदाकरस्य
पद्माकरस्य मलयद्रुममारुतस्य।
तत् केन तापहरणेन सखीजनोऽपि
तस्यास्तनोत्वनुगुणं शिशिरोपचारम्॥२४॥
आरोपितः स्मरकृशानुमये कृशाङ्गया
निष्यन्दमानपृषतो हृदि चन्द्रकान्तः।
सन्तापधूममलिनीकृतवर्णकान्तिः
सद्यः पुरन्दरमाणित्वमुपैति वानः॥२५॥
तल्पीकृतानि सरसोत्पलपल्लवानि
चूर्णीकृतानि परिशोषणमर्मराणि।
अङ्गेषु मन्मथशरव्रणविह्वलेषु
लेपीभवन्ति सुदृशश्रमजोक्षितानि॥२६॥
युक्तं तदेव विसिनीदलमारुतस्तु
साचिव्यमाचरति यद् विरहानलस्य।
पाथस्तु शीतलमभिज्वलनं यदस्य
तन्नोचितं भवति सर्पिरिवायताक्ष्याः॥२७॥
विश्वम्भरेश्वर! कृतं बहुभाषितेन
न त्या विना शरणमस्ति शकुन्तलायाः।
क्लिष्टा कथं निशि कठोरतुषारपातै-
रर्कंबिना कमलिनी लभते विकासम्॥२८॥
इत्थं निवेद्य विरहातुरतामसह्यां
माध्वी मुनीन्द्रदुहितुर्मनुजेश्वराय।
तस्मै गिरामवसरं दिशती निवृत्ता
वीणेव शङ्खनिनदाय46 विजृम्भिताय॥२९॥
राजा च47बाष्पचयकुण्ठितधीरनादः
सद्यः प्रमृष्टवदनो मृदुना क्रमेण।
आसारसिक्त इव दुन्दुभिरक्षमोऽपि
शब्दान् कथकथमपि प्रथमं चकार॥48 ३०॥
गाढं कयापि करुणालतयानुकृष्टा
मद्भाग्यमारुतपरम्परया च नुन्ना।
प्राप्तासि दुस्तरवियोगतरङ्गदुर्गे
शोकार्णवेमयि निमज्जति नौरिव त्वम्॥३१॥
अन्तर्घनोष्ण49भरदुर्वहजीवनस्य
सा मत्परेति मधुरोत्तरशन्दरम्या।
वृष्टिर्नवेव महती कमलाकरस्य
सञ्जीवनं मम भवत्यधुना करोति॥३२॥
यद्वाकरोति भवती परितापवृद्धि-
माशामिमां हृदि निबथ्यगुणैः प्रियायाः।
यां गीतिकामिव विधाय शरीरजन्मा
मत्प्राणकातरकुरङ्गकुलं रुणद्धि॥३३॥
नायं50 क्षमोऽहमपि साहसमस्य सोढुं
वाला कथं विपहते विषमायुधस्य।
ग्रीष्मेण शुष्यति महीरुहि सप्रकाण्डे
कां कां दशां व्रजति कोमलनागबल्ली॥३४॥
अस्पृष्टमन्मथकथासु तपस्विनीषु
क्षेमङ्करीप्वनुपजातविनोदलेशा।
बाला नवोत्पलमृणालशिरीषमृद्धी
गच्छेत् कथं न मदनव्यसनातिभूमिम्॥३५॥
कामः पुमानलसलोलविलोचनां तां
पश्यन् कथं रसनिधिः प्रसभं क्षिणोति।
यद्वापुरान्तकललाटविलोचनाग्नौ
निर्दग्धमार्दवगुणः कठिनोऽयमासीत्॥३६॥
इत्थं कथामनिगमय्य निमीलिताक्षे
राज्ञि स्थिते स्तिमितचेतसि भावनार्द्रे।
निद्रा दृशः पदमवाप शनैः प्रियेव
माध्वी गता परिणतेन्दुमुखी निशा च॥३७॥
उद्भुतकीर्त्तिमथ गौरगुणाभिरामं
सेवानुकूलसमयोत्सुकराजहंसम्।
पद्माकरं मधुकरा इव वन्दिनस्तं
प्राबोधयन्निति मनोहरगीतिभाजः॥३८॥
राजेन्द्र ! जागृहि विभातवती त्रियामा
विज्ञापनामनुगुणामवधारयैनाम्।
भास्वानिवाम्बुरुहकुड्मलगर्भसंस्थां
लक्ष्मीं विनोदय विलोचनयोर्निलीनाम्॥३९॥
प्राभातिकेन पवनेन विधूयमानैः
पद्मैर्मुखैरिव रसाकुलितैर्नलिन्यः।
आकर्णयन्ति मृदुषट्पदगीतमेतत्
स्तोकोन्नतैकदलकर्णकृतावधानाः॥४०॥
भूत्वा पुरा सकलभोग्यमनोहरश्रीः
सन्मार्गवृत्तिरपनीतजनोपतापः।
सम्प्रत्यसौ कुलगुरुस्त्वयि दन्तभारः
संन्यस्यतीव वसुजालमशेषमिन्दुः॥४१॥
कान्तारुणाग्रकरसूक्ष्मविपाटितानि
रेखाङ्कितोन्नतमुखानि सरोजिनीनाम्।
पद्मानि विभ्रति शनैः स्तनकुडमलानां
कान्तिं शशप्लुतकमुद्रितचूचुकानाम्॥४२॥
पीत्वा लतासु विविघासु मधूनि रात्रौ
सम्प्रत्यमी कमालिनीमुपलालयन्तः।
निद्रोन्मुखींकुमुदिनीमपरित्यजन्त-
स्तां भ्रामरी जहति वृत्तिमहो न51 भृङ्गाः॥४३॥
मुक्तं द्विजैर्बहुमतैर्वसुजालमस्य
दत्ता च कैरवकुलेषु परामुना श्रीः।
आर्द्रीभवत्यपि द्दषत् कठिनास्य योगे
सोऽपि स्वयं पतति कालवशान्मृगाङ्कः॥४४॥
रात्रेः प्रयाणशिथिलं शिथिलोडुचक-
मामोदलुब्धमधुपाकुलमन्धकारम्।
आक्रष्टुमिच्छति करैरतिरागलोलै-
र्विस्रस्तष्पमिव केशकलापमर्कः॥४५॥
स्तोकोद्गतोऽपि रविरेषसरोजिनीषु
पुष्णाति सम्पदमपास्यति कोकशोकम्।
तेजस्विनामनतिलङ्घयमहोदयाना-
मीषत्कराः खलु भवन्ति परोपकाराः॥४६॥
आमोदलोलुपशिलीमुखपातभीत्या
निद्रां मदर्द्रमभिवेष्टय कटं करेण।
आलानरोधपरिजिह्मितपार्श्वशय्याः
स्तम्बेरमाः स्तिमितकर्णममी वहन्ति॥४७॥
वाहानिह क्षणसुपुप्तविनीतनिद्रा-
नभ्यर्णवर्तिबडवेक्षणजातहेषान्।
आधूतशिञ्जितनिगालविलम्बिभाण्डान्
ह52ाहोर53वेण शमयन्ति तुरङ्गपालाः॥४८॥
म्लिष्टं यदीरितमुपश्रुति मुग्धवध्वा
साशङ्कया प्रियतमं प्रति निःशलाके।
तत् तारतारमधुना शतशः पठन्तः
कीराः किरन्ति पिशुना इव मन्त्रगुह्यम्॥४९॥
सद्यःसिद्धमनिष्टहारि हितकृत् कोष्णं हिमोद्भेदनं
मन्दोद्गालितमम्बरे दहनकृद् ग्राव्णां गणेऽप्याहि54तम्।
दोपोत्सादनमादधाति रुचिकृत तेजोमयं भेषजं
नेतुं लोकमनातुरत्वमधुना वैद्योऽयमाद्यो रविः॥५०॥
इति सुखमववोधितोऽथ सूतैः
सुविहितनित्यविधिकमोनरेन्द्रः।
अभजत कनकासनं सभायां
हरिति हरेरुदयाद्रिमर्यमा च॥५१॥
इति कृष्णविरचिते भरतचरिते
तृतीयः सर्गः
————
अथ चतुर्थः सर्गः।
अथ विश्वम्भरा बाहुरनायासेन भूपतेः।
दधार तस्य हृदयमायासेन शकुन्तलाम्॥१॥
स विशुद्धगुणोल्लासिहृदयलम्व्यपि स्वयम्।
दुष्प्रापमनुपायेन कन्यारत्नममन्यत॥२॥
दुष्टसत्त्वप्रशमनीं सैनिकानन्दकारिणीम्।
ऐच्छत् स मृगयां कर्त्तुमङ्गव्यायामदायिनीम्॥३॥
अथ विश्वास्यधिषणः शतकोटिबल वहन्।
उत्तस्थौ लोकपाले (श? शः) शैलव्यालजिघांसया॥४॥
ससम्भ्रमजनोत्थानविजम्भितघनध्वनि।
मेजे तदा तदास्थानं प्रावृडम्बरडम्बरम्॥५॥
सचिवालम्वितकरः पृथ्वीमारूढपादुकः।
रक्तामपि स रक्ताभ्यां पद्भ्यां क्षणमरञ्जयत्॥६॥
उत्सारिता वेत्रधरैर्जनता मण्डलीकृता।
जङ्गमा भित्तिकेवास्य रेजे पर्यन्तचारिणी॥७॥
स यात्रायामभूत् सद्यः प्रस्फुरद्दक्षिणेक्षणः।
हृदयं तु बभूवास्य स्फुरद्वामेक्षण सदा॥८॥
पृथ्वक्षं हेमरुचिरमहीनमणिमण्डनम्।
आरुरोह रथं सोऽथ गरुत्मन्तमिवाच्युतः॥९॥
हेषाःकल्याणशंसिन्यो रथ्यानां तस्य निर्गमे
जयेति वन्दिनां घोषं तथेति प्रतिशुश्रुवुः॥१०॥
शब्दसंत्रासितारातिः सदाकृतयुगस्थितिः।
चक्रवर्ती रथस्तस्य यातुः स्वयमिवाबभाै॥११॥
तस्य रेजे सितच्छत्रं हारताराशुकोज्ज्वलम्।
राजश्रीलब्धसौभ्रात्रामेन्दुविम्बमिवोद्गतम्॥१२॥
पार्श्वयोस्तस्य बभ्राम धवलं चामरद्वयम्।
मन्दहासविसोत्साहिहंसयुग्मभिवाकुलम्॥१३॥
मर्यादास्थापितामुर्वीमधिष्ठाय समुत्थितम्।
वाहिन्यस्तमसेवन्त रत्नानामाकरं पतिम्॥१४॥
रत्नचित्रितकोदण्डाः श्यामतूणीरकञ्चुकाः।
योधास्तमन्वसेवन्त सेन्द्रचापाम्वरश्रियः॥१५॥
तस्य चित्रपदन्यासाः सालङ्कारा गुणोत्तराः।
प्रयुक्ताः कुशलैरश्चाःप्रबन्धा इव रेजिरे॥१६॥
पञ्च55धाराविशेषज्ञैः सादिभिः परिचोदिताः।
सत्त्ववन्तोऽपि तुरगाश्चक्रुर्व्योम रजोमयम्॥१७॥
तच्चामरलसत्पार्श्वमश्वीयं नैव केवलम्।
दिवि तत्खुरघोषोऽपि चकारोच्चैश्श्रवोगतिम्॥१८॥
राजेन्दुं भूषयामासुः श्यामास्ताः करिणां घटाः।
मुक्तादामपरिस्तोमाः सतारा इव रात्रयः॥१९॥
रत्नहेमलसत्तुङ्गदन्तोल्लसितपुष्कराः।
रेजिरे वेणुकाक्रान्तास्ते शैला इव दन्तिनः॥२०॥
अपि तान् दानसुमुखान् मानोत्तुङ्गान् महाधनान्।
परिजह्रुस्तदुचितं मातङ्गान् मार्गवर्तिनः॥२१॥
कुम्भनिक्षिप्तरत्नौघास्तोत्रारित्रप्रधाविताः।
ते पोतभावभजन् नागाः परिणता अपि॥२२॥
मुक्ताः संयोजिताः साधु गुणवद्धीरनायकाः।
हारा इव रथास्तस्य तां सेनां समभूषयन्॥२३॥
सूत्रकारकृतारम्भाः पताकास्थापनान्विताः।
नाट्यबन्धा इव रथास्ते रेजुस्तुङ्गनायकाः॥२४॥
ततस्ततकरो दिक्षु प्रतापनिधिरुज्ज्वलः।
स भेजे विशिखां दीर्घा भास्वानिव नभः56स्थलीम्॥२५॥
लघवस्तस्य मलिनाः क्षुद्राः स्यन्दनपांसवः।
अग्रादग्रादनीयन्त दुर्जना इव वायुना॥२६॥
तस्येन्दोरिव नाथस्य लाजवर्षाणिपार्श्वयोः।
नक्षत्राणीव57 यामिन्यः कामिन्यस्तत58्रतेनिरे॥२७॥
प्रयाणषटहस्तस्य नर्तयन् गृ59हबार्हेणः।
दध्वान चक्षुःश्रवसः शेषस्योल्लासयन् दृशः॥२८॥
ततो नगर्याः श्रीमत्याः शतधा निःसरद् बलम्।
अपर्यन्तम60भूत् तस्य सुरभेरिव दोहनम्॥२९॥
अथ नौमिस्त्रिपथगामगाधा साधुसेविताम्।
स तताराङ्गविद्याभिस्त्रग्रीमिव जगद्धिताम्॥३०॥
अगजा सगजा तस्य सभङ्गां भङ्गवर्जिता।
वाहिनीं वाहिना चैना स्पर्धयेवात्यलङ्घयत्॥३१॥
तस्य सेना पुरो यान्ती दूरदू61रप्रसारिता।
उदितस्येव सवितुश्चकाशे दीधितिच्छटा॥३२॥
मद्यः शाङ्कुलिकोत्खातशङ्कुकण्टकशर्कराः।
आ हिमाद्रेः सुपन्थान. कल्पितास्तस्य शिल्पिभिः॥३३॥
रम्योरुकदलीकाण्डा कलकीरस्वरान्विताम्।
पयोधरतटास्तीर्णा कल्याणक्षेत्रलक्षणाम्॥३४॥
विशालवृत्त्यापक्षिप्तमृगपूगविलोकनाम्।
क्लमालीकृताश्वासस्वकर्पकयुवेक्षिताम्॥३५॥
कमलोत्पलसभिन्नकुल्याम्भोमालभारिणीम्।
स वर्त्मनि ययो प्रोटा पश्यन् नारीमिवोर्वराम्॥३६॥
अनतिक्रान्तमर्यादान् समृद्धबहुजीवनान्।
स विद्वद्धीरसंपूर्णानपश्यद ग्रामवारिधीन्॥३७॥
स तेष्वात्मयशःक्षौमवयनस्तम्भ62सन्ततिम्।
सप्ततन्तुशताकीर्णा मेने यूपपरम्पराम्॥३८॥
द्वयमेवाग्रहीत् तेभ्यो विद्वद्दत्तमुपायनम्।
फलमारामवल्लीनामाशिषाच विशा पति॥३९॥
स बलाकान्तकाष्ठान्तः शरीरीव विभावसुः।
आलोलहेतिसङ्घातस्ततो वनमगाहत॥४०॥
तद् वनं क्षुमितव्याल वागुरारुद्धदिङ्मुखम्।
कृतमेकपथं व्याधैः सेतुरुद्धमिवोदकम्॥४१॥
वाममुत्क्षिप्य दोर्दण्ड सकोदण्डमुदाननाः।
तस्मिन्नुच्चुक्रुशुर्व्याधाश्चालयन्तस्ततो मृगान्॥४२॥
सिहशार्दूलसारङ्गवराहशरभाम्भसि।
हरन्तः प्राणशफरान् विविशुस्तस्य पत्रिणः॥४३॥
नरेन्द्रवीतिहोत्रस्य हेतिव्रातेषु केवलम्।
वनावनिविनिर्यातैः शरभैः शलभायितम्॥४४॥
एकैकया बाणसूच्या क्षरत्क्षतजसूत्रया।
हारा इव मृगाः प्रोतास्तेन रेजुः शत शतम्॥४५॥
निर्भिद्य हत्वा हर्यक्षं निर्गतस्तस्य मार्गणः।
निर्यातानिव तत्प्राणानन्वैष्टुमविशन्महीम्ं॥४६॥
पुण्डरीककुलं तेन गाढलग्नशिलीमुखम्।
राजहंसेन सहसा लीलयैव निपातितम्॥४७॥
आक्रान्तवनमातङ्गकुम्भप्रोतनखाङ्कुश63म्।
स सिंहमिषुणा कञ्चिदाधोरणमिवावधीत्॥४८॥
अग्रेषुपरि पादानां पुरस्तिर्यक् च कीलिता।
शरभस्य तनुस्तेन शरैः खट्वेव शायिता॥४९॥
परिशेपयितुं स्वीयं भूदारत्वमसंशयम्।
आजघान स भूदारानारण्यानपि पार्थिवः॥५०॥
कम्पयामास मूर्धानं शार्दूलः शरकीलितः।
श्लाघयन्निव भूभर्तुश्चललक्षेषु दक्षताम्॥५१॥
तस्य गाढप्रहारेण केसरी कोऽपि64 मर्दितः।
त्यक्तप्रभञ्जनकौर्यो निद्रां द्राघीयसीं ययौ॥५२॥
पतत्सु65 मृगराजेषु तेषामिव परिच्छदम्।
जहार नृपतिर्गौरंचमरीग्यः प्रकीर्णकम्॥५३॥
तेन कोदण्डकुटिलं विषाणयुगमुच्छ्रितम्।
कृतं वन्यलुलायानां सज्याबन्धमिवेषुभिः66॥५४॥
गहनं हृदयं तस्य स विपक्षस्य भूभृतः।
इति निःसत्त्वतां नीत्वा धनुर्गुणमवाक्षिपत्67॥५५॥
ततः स वान्तफेनेषु वाहेषु तपनोष्मणा।
उदन्यातेषुसैन्येषु पाथःपथमगाहत॥५६॥
ददर्श च सरः स्वच्छभिन्द्रोत्साताहयंनृपः।
सप्तानामिव सिन्धूनां पाथःसारमिवोद्धृतम्॥५७॥
अच्छैर्वीचिपटच्छेदैरासक्ताम्बुजरेणुभिः।
उन्मृज्यमानं मरुता त्रिलोक्या इव दर्पणम्॥५८॥
चन्दनालेपसरसमुरस्स्थलमिवक्षितेः।
चर्मनिर्मोकधवलमधःक्षिप्तमिवाम्बरम्॥५९॥
प्रबुद्धकमलालोलमन68न्तभुवनास्पदम्।
हरिरूपमिव प्राप्तं मत्स्यकच्छपविग्रहम्॥६०॥
स्वर्णसारचितं रम्यं भोगिलोककृताश्रयम्।
उद्गतामरसेनाढ्यं मेरुशृङ्गमिवापरम्॥६१॥
अगस्त्यपानभीतानां निभृतानामुदन्वताम्।
पयश्चक्रमिवान्यत्र सरोभावमुपाश्रितम्॥६२॥
पतिप्रेमरसैः पूर्णमुर्व्येव हृदयं निजम्।
संदर्शितमिवामुप्यपत्युः सन्तापशान्तये॥६३॥
वारिहारमयं गौरं प्रतिविम्बाबरा69वृतम्।
रसातलसमुद्गस्थमुपायनमिवक्षितेः॥६४॥
शिलीमुखगणाकीर्णंकलहंसमदध्वनि।
व्यूहद्वारमिवोद्भ्रान्तवाहिनीशतनिर्गमम्॥६५॥
उद्दण्डपुण्डरीकौघमन्तर्व्याप्तमहापदम्।
महारण्यमिव स्वादुशीतामलकमुन्नतम्70॥६६॥
प्रतिसङ्क्रमणभ्रान्त्या सुमन्दरविराजितम्।
अन्तर्नवसुधापूर्णम *नुकुर्वाणमम्बुधिम्॥६७॥
______________________________________________________
*अनुकुर्वाणम् अनुकरणशीलम्। ताच्छील्ये चानश्।अतः ‘अनुपराभ्या कृञ.’(१.३.७९) इति परस्मैपदाकरणमिहादुष्टम्।
______________________________________________________
अदृष्टान्तमपि व्याप्तं दृश्यमप्यप्रमाणकम्।
विपरीतमपि प्रेयः ससत्त्वमपि चञ्चलम्॥६८॥
स्फीतजीवनमाशास्थमम्बरोद्भास्यपांवरम्।
लघुकं सारसहितं रम्यं बहुपयोन्वितम्॥६९॥
मन्ये यद्युदधिस्तावान्न शताशमपि क्षमाः।
पातुं बन्धुं लङ्घयितुं मुनिरामप्लवङ्गमाः॥७०॥
मन्ये तद्भुवनं मातुं प्रवृद्धोऽपि हरिः स्वयम्।
पौरुषेणापि मानेन (न) क्षमः किमुत क्रमैः॥७१॥
यस्यायन्तौ परिच्छेत्तुं हरिर्व्रह्माच न क्षमौ।
नूनं तस्यापि देवस्य पर्याप्तं यज्जनाय तत्॥७२॥
न मुनेः श्रवसा धार्य नोदरेणापि कस्यचित्।
अदरत्वमितमेवाम्भस्तदन्यन्मानसम्मितम्॥७३॥
अधोभुवनमप्येतत् पातालादतिरिच्यते।
हिमोदास्पदमेवेदमहिमोदारस्पदं हि तत्॥७४॥
अनिर्मुषितपीयूषमनुद्धृत71हिमाकरम्।
इदमप्रोषितश्रीकमपूर्वमुदधेः पयः॥७५॥
अक्षुण्णलघु तत्तोयमनुद्गालितनिर्मलम्।
अवीजितहिमस्पर्शमसस्कृतग्सावहम्॥७६॥
दृष्ट्वा च तत् सगे गौर यशः स्फीतमिवात्मनः।
अवरुहा रथात् सेना विश्रमायादिदेश सः॥७७॥
अथाधिष्टातृभिः सेनाः प्रष्टानाहुय सत्वरम्।
सरःपरिसरे तत्र यथास्थान निवेशिता॥७८॥
तन्निधानमपां प्राप्य जनता मुमुदे तदा।
चातकालीव तृषिता साम्बुवाहं नभस्तलम्72॥७९॥
अथ राजाप्युपस्पृश्य कृत्वा माध्याह्निकीं क्रियाम्।
पपौबिसरसो73न्मिश्रं पयो हंस इवामलम्॥८०॥
तदनु सरसस्तीरे तस्मिन् मनोज्ञलतागृहे
फणिपतिफणाभोगे तल्पे सुखासनमास्थितः।
वलभरपरिभ्रान्तं पाथो ददर्श विशां पति-
र्मधुरिपुरिव क्षीराम्भोधेगिरि क्षुभितं पयः॥८१॥
इति कृष्णविरचिते भरतचरिते चतुर्थः सर्गः॥
_____________
अथ पञ्चमः सर्गः।
अथ मदम्वुतिशीकरर्वृष्टिभिः
पृथुलपुष्करपूरितवारिभिः।
क्षणमपूरि सरोजलमुन्नतै.
रभिनवैर्जलदैरिव कुञ्जरेः॥१॥
निजकरोन्नमितैरमितैर्जलैः
परिगलद्भिरनुक्षणमुक्षिताः।
जलधरैः क्षरदम्बुभिरुक्षिताः
क्षितिधरा इव रेजुरनेकपाः॥२॥
निखिलतापनमुष्णरुचेर्महः
शिशिरतामिवनेतुमभीच्छवः।
उपरि चिक्षिपुरम्बु मुहुर्मुहु-
र्निजकरेण निपीय करेणवः॥३॥
अथ महीलुठितैः कलुषीकृता
स्थपुटभूपुपरिस्खलनाकुला।
उदधिकल्पमगाहत तत् सरः
सरिदिवोच्चरया तुरगावलिः॥४॥
पृथुलकेवलपृष्टनिपादिभिः
परिजनैः परिषेवितपांसवः।
मृदु विरम्य विरम्य पयः पपुः
श्रमविनिःश्वसितान्यनु वाजिनः॥५॥
अथ निदाघमहोष्मभरं वहन्
विकसदम्बुजकान्तिकरैः करैः।
अपिवदम्बु मुहुः स महाजनो
रसमयं सवितेव धराश्रयम्॥६॥
अथ वनं नवपुष्पगुणोज्ज्वलं
सपदि बद्धशिलीमुखमण्डलम्।
मधुरलक्ष्यत चापमिवोद्वहन्
बहुमतं सहकारिमनोभुवः॥७॥
मृदुलकोकिलनादमनोहरा-
श्चलितकोमलरक्तजपाधराः।
बकुलकुड्मलकोमलकण्टकाः
अपिहिताः सहकारनवाङ्कुराः
सपदि षट्पदनीलवरासिभिः॥९॥
मृदुपलाशनखान्74 विपिनश्रियः
समभिरज्य मधुर्नवयावकैः।
अकृत यावकशेषमिवक्षिपन्
कुसुमजालमशोकमहीरुहे॥१०॥
अभिमताश्चिरभोग्यरसोदयाः
सुमनसो बकुलस्य मधुव्रताः।
न विजहुः पतिता इति केवलं
रसविदां रस एव परं धनम्॥११॥
मधुसमागममङ्गलदीपिका
स्मरसुवर्णशिलीमुखसन्ततिः।
( नव ? वन ) भुवः पुलकावलिरावभौ
कुसुमिता नवचम्पकमण्डली॥१२॥
मृदुलधौतधुनीधवलाम्बराः
प्रकटिताचलनुङ्गकुचश्रियः।
मधुसमागमसंभ्रममीक्षितुं
हिमपटावरणानि जहुर्दिशः॥१३॥
हिमपटीमपनीय पुरःस्थितां
यवनिकामिव चारूवनश्रियः।
ननृतुरेव वसन्तमहोत्सवे
पवनलोलितपल्लवपाणिभिः॥१४॥
क्षणमपास्य हिमाश्रुकणावली-
र्नवसरोजमुखानि विकासयन्।
अपजहार मधुर्विरहक्लमं
कमलिनीर्द75यिता इव संश्रितः॥१५॥
अथ मधुश्रियमित्थमुदञ्चितां
वनमुपेत्य नराधिपयोपितः।
अनुबभूवुरभीष्टतमैः समं
मनसिजरय नवामिव सम्पदम्॥१६॥
विमथिताः कुसुमेषु शिलीमुखै-
र्विटपिनद्धशिरोजगुणोज्ज्वलाः।
तरुणपल्लवदुर्ललिताश्रयो
वनलता इव रेजुरमूः स्त्रियः॥१७॥
अभिनवप्रसवोपनतोत्सवाः
प्रियसखीरिव मानयितुं लताः।
मृदुलपल्लवपाणिषु पाणिभि-
र्जगृहिरे कृतसंभ्रममङ्गनाः॥१८॥
विनमिताः कुमुमापचये कृते
विटपिनस्तरुणीभिरथोज्झिताः।
हृतधना इव कामिजनाश्चिरं
विरहभीरुतयेव76 चकम्पिरे॥१९॥
धिनमिते तरुणेन तरौ रूषा
न वनिता कुसुमानि समाचिनोत्।
नखरुचः कुसुमस्य च भेदकं
गुणमसंशयमीक्षितुमक्षमा॥२०॥
असकृदुच्चलितोच्चकुचाग्रया
विवृतचारुभुजद्वयमृलया।
कुसुमजालमहारि महेलया
हृदयमेव न केवलमीशितुः॥२१॥
उदसितुं दृशि पुष्परजःकणान्
मृगदृशः स्तनभारविमर्दितः।
नयनयोर्मुखमारुतमर्पयन्
हृदि युवा मदनाग्निमदीपयत्॥२२॥
चरणघातविधृतिषु योषिता
व्यथितयेव77 मधुव्रतकूजितैः।
विधुतपल्लवलोलकराग्रया
लतिकयारमगवि समभ्रमम्॥२३॥
भ्रमरकान्तविलुप्तविशेषकं
सखि ! मुखं हृदि माणबकस्तव78।
इति सखी छलवादविचक्षणा
कुपितया दयितं समयूयुजत्॥२४॥
क्षणमिहा79स्स्वविविक्तमिदं वनं
शिथिलितं कलयामि तवांशुकम्।
इति विलोभ्य स मुग्धबधूंयुवा
किमपरं कथनीयमतः परम्॥२५॥
उरसि वामदृशां विनिवेशिताः
स्थगितहारमशोकतरुस्रजः।
उपरि षट्पदधूमविनिर्गताः
स्मरकृशानुशिखा इव रेजिरे॥२६॥
न वकुले चरसीति मृषा श्रुतं
वकुलदाम विगुम्फितवानसि।
इति कयापि गभीररुपाधृतं
वकुलदाम धवेन निवेदितम्॥२७॥
सुरभि पाटलमुत्सुकमानसै-
र्मधु80लिहां मिथुनैरवलम्बितम्।
न विधुतं रसभङ्गभियान्यया
परसुखानुगुणां हि रसज्ञता॥२८॥
इति विहृत्य चिराय नृपाङ्गनाः
श्रमजवारिकणोल्लसिताननाः।
कुसुमसङ्गमवासनया मुहुः
स्तवकिता इव रेजुरमूः स्वयम्॥२९॥
गुरुपयोधरंहेमघटद्वयं
पृथुलमौक्तिकशिक्यनिवेशनात्।
जघनमुरुकरीन्द्रकराश्रया-
म्रियतमुहुरमूःश्रमकर्शिताः॥३०॥
मृदुरयाः स्तनकोकधराः स्त्रिय-
क्षलितमौक्तिकफेनविपाण्डुराः।
मुखरनूपुरहंसरवाकुला
ययुरपः प्रति धर्मपयोवहाः॥३१॥
धवलपक्षतिचोलपरिष्कृतै-
र्नबलताङ्कुरवेत्रधरैः सह।
परिजनैरिव हंसगणैः स्त्रियः
सरमणाः सरस81स्तटमाययुः॥३२॥
तदनु कूलमवाप महीपतिः
पटगृहे सरसः सपरिग्रहः।
तदनुकूलमधत्त विभूषण
विहृतये सरसः स वधूगणः॥३३॥
सरसचन्दनकुङ्कुमपङ्किलाः
प्रियकरार्चितलोलकराः स्त्रियः।
सरसि गैरिकरागविरूपिता
वनकरिण्य इवाथ विजह्रेिरे॥३४॥
भरितयौवनवारि मृगीदृशा
मदनदन्तिवरक्षुभितं मुहुः।
तरुणलोचनमीनकुलाकुलं
सपदि नाभिसरः सरसामिलत्॥३५॥
विमथितं वनितास्तनमण्डलै-
र्गुरुसरोहृदयं परिचुक्षुभे।
न खलु जीवनसारमिदं जग-
न्मृगदृशा चरितैरवशीकृतम्॥३६॥
जल विहारसमुत्सुक्यैकया
न दयिता82नुनयेन विनोत्थितम्।
मृदुसुखादपि नीचजनादृतात्
प्रभुधियां गरिमैव रसावहः॥३७॥
रमणपृष्ठमधिष्ठितयान्यया
जलमगाहि भयाकुलया किल।
न पुनरात्मवपुर्गुरुतां जनः
प्रिय इवार्हति वेदितुमित्य (द ? तः)॥३८॥
उपसपत्नि समानमपि स्थितं
प्रियमभङ्गुरसौभगगर्वितम्।
समधिरुह्य विधाय83 विमानता
सुरवधूरिव कापि सरो ययौ॥२९॥
अवजितं वनितावदनेन्दुभिः
कमलपण्डमखण्डमपि ध्रुवम्।
सरसि दण्डवदेव ननाम यत्
सलिलवाद्यपरिक्षुभितेऽम्भसि॥४०॥
शफरजालविलोलविलोचनैः
सकुतुकं समवेक्ष्य विलासिनीः।
ध्रुवमसौ सरसः पयसा चय-
श्चपलवीचिभुजैः परिपस्वजे॥४१॥
वपुषि यौवनवारिमहाह्रदे
तरुणलोचनमीनकुलाकुले।
_________________
दि ख पाठः
बडिशसूत्रमिवाम्बु मृगीदृशां
मृदुलधारमपात्यत कामिभिः84॥४२॥
करपुटादपरेण निपातितं
सरलधारमभङ्गरयं पयः।
सुचिरमास्त वधूश्रवणान्तिके
रहसि वक्तुमिवास्य मनोरथम्॥४३॥
प्रियकराञ्जलियन्त्रसमुत्थितं
वलयितं यदवाप वधूमुखम्।
क्षणमलक्ष्यत तज्जलमुज्ज्वलं
दशनदीधितिचक्रमिवोज्ज्व85लम्॥४४॥
हृदयवल्लभ ! दुर्लभदर्शन-
स्त्वमसि तत् कठिनं हृदयं तव।
इति निगद्य कयापि समुत्थित
कमितुरार्द्रयितुं हृदयं ध्रुवम्॥४५॥
कमलमर्पय तर्पयता जलै-
रिति शठेन वधूः सहसोदिता।
प्रचुरमम्बु मुमोच विचक्षणा
वचसि सापि परे नतु पङ्क86जम्॥४६॥
मधु पिपासति मुख्यमयं जनः
सुतनु ! ते न कराम्बुरुहोद्भवम्।
इति दृशा रमणेन समीरिता
रविमुदैक्षत सस्मितमङ्गना॥४७॥
कुपितयेव कयापि मुहुः स्थितं
सपदि वञ्चयितुं प्रियमुक्षणैः।
स तु शठः प्रणिधानपरोऽभवद्
विहसिता च सखीभिरसौ मुहुः॥४८॥
सुतनु ! मुञ्चसि87 काञ्चनकङ्कणं
ससलिलं सुभगाय रसोत्सुका।
इति सखीभिरगद्यत कामिनी
अभिनवं मम गोत्रमिदं कृतं
दयित! ते दयितं तदिहास्तु मे।
यदि भवेयमभीष्टतमामुने-
त्यपरयाम्बु गृहीतमुपेक्षितम्॥५०॥
नववधूवदनाम्बुरुहे मुहु-
र्विनमिते जनसंसदि लज्जया।
तदवलोकनकामितयापरः
सलिलदण्डमुपघ्नमिवार्पयत्॥५१॥
लुठसि90 मे दयितास्तनमण्डले
तदिह हार ! न सोढुमहं क्षमः।
इति रुपेव युवा जलधारया
प्रियतमोरसि हारमघट्टयत्॥५२॥
अलमलङ्करणाय दृशोः श्रियः
श्रवसि किं निहितेन मुधामुना।
इति वदन् दयिताश्रवणोत्पलं
वरतनोरहरज्जलधारया॥५३॥
विलिखितं कुसुमायुधशासनं
कुचतटे नखले (प? ख) निभाक्षरैः।
चलदृशः सलिलोक्षितचन्दने
जनतया सकुतहलमीक्षितम्॥५४॥
चकितचञ्चलपाणिधृताञ्चलं
चलदृशः स्मरलोलदृशो युवा।
निबिडनीविक्रमम्बरमम्बुभिः
शिथिलतामिवनेतुमघट्टयत॥५५॥
गुरुतमां प्रमदासु शकुन्तलां
हृदि वहन् ध्रुवमेष महीपतिः।
पयसि न प्लवतामिति योषितः
कनकशृङ्गजलैः सिषिचुर्नृपम्॥५६॥
अथ तटानि समारुरुहुः स्त्रियः
प्रशमितेऽम्बुनिपातमहोत्सवे।
नवमृणालसरोजपरिग्रहाः
शरदि हंस्य इवानुसृताः प्रियैः॥५७॥
सलिलसक्ततया लघु योषिता-
मसदिवाभवदम्बरमूरुषु।
किमतापि सताप्युपयुज्यते
स्वकरणीयविधावपटीयसा॥५८॥
जलकणाङ्कितलम्बशिरोरुहं
मृगदृशामनति91प्रकटं मुखम्।
विगलदम्बुनवाम्बुदचुम्बितं
तुहिनदीधितिबिम्बमिवाबभौ॥५९॥
रशनया जलमूकतया स्थितं
वसनयोः परिवृत्तिषु योषिताम्।
प्रभुरहस्यविदामुचिता हि सा
परिचितेऽपि कदाचन मूकता॥६०॥
अथ सरोनिकटे पटवेश्मभि-
र्विहितराजगृहापणमन्दुरा।
विरचिता वसतिर्नृपशासनाद्
विवि92धपण्यकृतक्रयविक्रया॥६१॥
त दनु तत्र समचितदैवतः
समुचिताहृतिवीतपरिश्रमः।
परिवृतः परिवारजनैर्निजै-
र्दिवसशेषमुवास नरेश्वरः॥६२॥
सुखतरमबलामुखापदेशं
शशिशतमेतदनस्तशोभमास्ते।
इति रबिरबमानवानदीप्तिः
स्फुटमपराद्रिगुहागृहं विवेश॥६३॥
इति कृष्णविरचिते भरतचरिते पञ्चम सर्ग॥
___________________
अथ षष्ठः सर्गः
पश्चिमे तदनु पायसां निधौ
लम्बते स्म दिवसात्ययेरविः।
श्यामले वपुषि शार्ङ्गधन्वनः
कौस्तुभो मणिरिवारुणच्छविः॥१॥
प्राप्य रक्तमलिनाम्वरा दिशं
वारुणीं कुसुमितामिवाङ्गनाम्।
दो93षमेनमपनेतुसम्बुधौ
मड्क्तुमुद्यत इवास्त भानुमान्॥२॥
लोहिताभ्रदलमण्डलोज्ज्वलं
रश्मिकेसरपरागधूसरम्।
भासते स्म विपुलं पयोनिधौ
पुण्डरीकमिवभानुमण्डलम्॥३॥
बीचिजालचटुले पयोनिधौ
साचिमग्नवपुराबभौ रविः।
इन्द्रनीलमणिगुम्फमण्डने94
पद्मराग इव नायकीकृतः॥४॥
खण्ड्यमानमृदुरश्मिसञ्चये
हेमकुम्भ इवभानुमण्डले।
सन्ध्यया जलनिधौ निप95ातिते
रश्मिखण्डधर96या समुत्थितम्॥५॥
संगृहीतवसुजालमुज्ज्वल
भानुहेमकलशं दिनात्यय97ः।
न्यस्तवानिव पयोधिमन्दिरे
लो98कसाक्षिकमलक्ष्यत क्षणम्॥६॥
वारिवक्त्रविवरे विवर्तितं
वीचिलोलरसनाविलोलितम्।
नूनमूण्मध99रमर्कमण्डलं
वारिधिः सरभसं निगीर्णवान्॥७॥
तप्तमायसमिवार्कमण्डल
वासरेण शुचिना चिर धृतम्।
क्षिप्तमम्भसि पयोनिधेरभूत्
तस्य धूम इव मेदुर तमः॥८॥
पद्मिनी रविवियोगविह्वला
भृङ्गरावकृतगद्गदस्वरा।
श्लिप्यदम्बुजकराङ्गुलीदलैः
प्राप्तिकालगणनामिवाकरोत्॥९॥
इन्दिरामिवसरोजमन्दिरा
रक्षितुं रविसमागमावधि।
सन्ध्यया पिहितमम्बुजोदरं
यामिकैर्बहिरकृजि षट्पदैः॥१०॥
एकपङ्कजपलाशसश्रितं
प्राप चक्रमिथुनं वियोगिताम्।
हन्त मित्रविरहाकुलात्मनां
निष्फलाः पुरुषकारसंपदः॥११॥
संवृते दिनमणौविहङ्गमाः
शाखिनामुपरि मूकतां ययुः।
तेजसामधिपतेस्तिरस्क्रियाः
खेदयन्ति खलु पक्षपातिनः॥१२॥
रश्मिजालमिव कीर्णमर्णवे
पङ्कपातमलिनीकृतं रवेः।
उज्जहार तिमिरं दिनात्यय-
स्तारकानिकरमौक्तिकैः समम्॥१३॥
प्लुष्टमर्ककिरणैरिवाम्बरं
मेदुरेण तमसा मलीमसम्।
किञ्च घर्मजलविन्दुसन्निभै-
रुज्ज्वलैरुडुगणैरलं बभौ॥१४॥
श्यामला तिमिरपत्रपङ्किभि-
स्तारकाकुसुमजालशालिनी।
मत्तमन्मथशिलीमुखाकुला
मल्लिकेवविबभौ बिभावरी॥१५॥
तादृशः समय एव योषितां
रन्तुमुत्सुकयति स्म मानसम्।
यत् पुनर्मधु नवं च यौवनं
तद् बभूव विभवो मनोभुवः॥१६॥
सागरे सलिलकेलिलालसः
स्तोकमुद्धृतकरो नभस्तले।
दर्शितानन इवेन्द्रवारणः
प्राचि साचि ददृशेऽथ चन्द्रमाः॥१७॥
यामिनीरमणबिम्बमुल्बणं
चक्रमायुधमिवाङ्गजन्मनः।
आबभौ पयसि पाथसा निधे-
रूर्मिशणकपणादिवोज्ज्वलम्॥१८॥
लम्बयन् घनतभास्तमोजटाः
स्तारयन्100 दिवि शनैःशनैः करान् !
भस्मपाण्डुरतनुर्निशाकरो
नृत्यतः श्रियमवाप शूलिनः॥१९॥
इन्दुना कुमुदिनी विकासिता
कर्कशा दृषदपि द्रवीकृता।
तेन सा कमलिनी निमीलिता
कः समस्तहृदयङ्गमो जनः॥२०॥
गोकुल निजमुदन्वदम्भसः
क्षालितोत्थितमिवामलप्रभम्।
श्यामल तिमिरशष्पमण्डल
खादयन्निव पुपोष चन्द्रमाः॥२१॥
नीललाच्छनधर निशाकरं
योषितः सरसमाशशङ्करे।
श्यामया सरभसोपगूढया
प्रत्युपोढतिमिरागुरुद्रवम्॥२२॥
आततज्यमिव भृङ्गमालया
मृज्यमानमिव शीतरोचिषा।
कृप्यमाणमिव मातरिश्वना
कौमुदं धनुरभून्मनोभुवः॥२३॥
केवलं जलमयो न सागर-
स्तत्र शीतरुचिना विवर्धितः।
अप्यसौ विटजनादृतो मुहु-
र्योषितां मनसि रागसागरः॥२४॥
स्वां तनुं बहिरुपेत्य दर्शयन्
धामजालकपथेन चन्द्रमाः।
सेवते स्म करजालमर्पयन्
योषितामिव मुखश्रिया जितः॥२५॥
कौमुदीत्रिपथगा महीतलं
निर्मला हरिपदादुपेयुषी
कामिनामपि किमन्यदद्भुतं
मानसंभृतमपाहरत् तमः॥२६॥
कामिनः कलुषितान् प्रियागृहं
नेतुमाशु कुशला बभूव का।
विद्रवीकृतशिला नु कौमुदी
दूतिका नु कुशला तथाविधा॥२७॥
कान्तमानय कुशा101दशामिमा
पश्य दृत्यनुनयं न लङ्घये।102
प्रेम तत् प्रथितमावयोर्मिथः
कि मुधा खलजनैर्विलोड्यते॥२८॥
प्रेम तादृशमभङ्गुरं तयो -
रीदृशं तदधुना विलोक्यते।
उच्छ्रयो ह्यतिशयेन वस्तुनः
पातहेतुरिति सत्यमुच्यते॥२९॥
इत्यसावसुहृदा मिथः कथा
मा स्म भूदिति मयानुनीयसे।
अन्यदस्तु फलमानुषङ्गिकं
जीवितेशवशगामि जीवितम्॥३०॥
ईदृशो शशिनिशासमागमे
का वियोगमनुभूय जीवति।
रक्ष्यतां तदिदमाशु जीवितं
चित्रकर्म सति धाम्नियुज्यते॥३१॥
इत्थमित्थमनुधाम योषिता
भाषितान्यनु समाययुः प्रियाः।
के हि नाम कुसुमेषुशासनं
लङ्घयन्ति भुवि जीवितेच्छवः॥३२॥
कामकर्मपरिकर्म योषितां
नात्यवर्तत निजा वपुःश्रियम्।
पद्मरागरुचिरुज्ज्वलोज्ज्वला
नैव कुङ्कुमरसेन र103ज्यते॥३३॥
हारचन्दनधरौ पयो104धरौ
योषितामुरसि पुष्पधन्वनः।
रेजतुः स्फुटमुदस्तमस्तकौ
*105वारणाविव रणाय106 सज्जितौ107॥३४॥
जातिदाम कबरीषु लघ्वपि
प्राप्तमेव निदधुस्तदङ्गनाः।
जातितोऽथ गुणगौरवेण वा
यस्य न त्यजति वासनां जनः॥३५॥
हृद्यगन्108धकुसुमाधिवासितं
भेजिरे तुहिनपण्डपाण्डरम्।
तुङ्गमद्रिपतिशृङ्गसन्निभं
तल्पमुत्पलदृशः सकामुकाः॥३६॥
कामिभिः सह मनोनुगामिभिः
शीधुपानमबलाः प्रचक्रिरे।
प्रस्तुते सुरतघोरसङ्गरे
वीरपाणमिव मन्मथानुगाः॥३७॥
इन्दुरिन्द्रदिशि लोचनोत्पलैः
सेवितो रसनयाथवासवः।
अस्तु वो मदविशेष इत्यमुं
कः प्रसादमकरोन्मृगीदृशाम्॥३८॥
पीतमाशु मधु रागमुत्कटं
किं गुणान्तरमसूत योषिताम्।
घू109र्णितं तदिह भाज110ने111 चिरं
घूर्णय112देपि दृशौ निजैर्गुणैः॥३९॥
कामिनोऽथ परिरेभिरे वधू
र्वक्षसि प्रथितपीवरस्तनम्।
पीडितैरिव विमर्दनिर्भरै-
र्भूपणैररमरावि तत्क्षणम्॥४०॥
या पुरा हृदि बभूव कामिनो-
र्मानशत्यशक्लावलिः स्थिरा।
सा समागमरसायनोक्षिता
निर्ययौ पुलक113सहतिच्छलात्॥४१॥
योषिता प्रियतमोपगृहने
तुङ्गमप्यवनतं कुचद्वयम्।
उन्नतस्य महतो गरीयसः
सन्नतिः प्रियजन114ेषु युज्यते॥४२॥
वि115श्लथन्निबिडनीवि योषिता-
मम्बरं मृदु रहस्यरक्ष्यपि।
तां जगाद दयिताङ्गसङ्गमे
**मुद्रया हृदि परां रिरंसुताम्॥४३॥ **
प्रेषितः प्रणयिनोपमेखलं
पाणिराकुलमरोधि बालया।
वारितोऽपि मुहुरुत्सुकश्चिरं
**नाभिमानगणनां चकार सः॥४४॥ **
विस्तृतं जघनमेदिनीतलं
कामिनी हृतदुकुलमाकुला।
अक्षमा स्वयममुप्य गोपने
**प्रेयसे मदनसाक्षिकं ददौ॥४५॥ **
मुक्तमौक्तिकमनोज्ञमेखला
निर्गल116न्निबिडनीविबन्धना।
गाढमाशु परिरभ्य सत्रपा
**पर्यधत्त रमणाङ्गमङ्गना॥४६॥ **
गाढदष्टरदनच्छदं मुहुः
सीत्कृतार्धमुकलीकृतेक्षणम्।
वक्रमासवसुगन्धि योषितां
**चुम्ब्यमानमपि चुम्बितं प्रियैः॥४७॥ **
कृत्स्रमेव रद117नच्छदामृतं
पातुमुत्सुकधियापि योषितः।
बिन्दुमात्रमधरेऽपशेषित
कामिना दशनपातमुद्रया॥४८॥
पूगनागलतिकादल प्रियः
प्रेयसीललितदन्तखण्डितम्।
आचकर्ष पनसारसो118रम
रागसारमिव कामिनीमुखात्॥४९॥
पञ्चभिर्नखमुखैर्विलेखित
प्रेयसा स्तनयुग मृगीदृश।
व्यज्यमानदलभेदमाबभौ
जृम्भमाणमिव पङ्कजद्वयम्॥४०॥
सीत्कृतानि सरसानि योषितः119
श्रोतुमुत्सुकतमेन कामिना।
वर्तुल गलपुट प्रवर्तित
दशने120न मणिदाममण्डनम्॥५१॥
गद्गदेनशकलीकृताक्षर
भाषित तदनु योपितामभूत्।
सूक्ष्मलक्ष्मभिदुरैरभङ्गुरैः
खण्ड्यमानमिव कामसायके॥५२॥
ऊरतोरणयुगे मृगीदृशः
श्रोणिचक्रमधिकर्तुमिच्छता।
कामिना नम्रमुखेनिवेशिता
मन्मयस्य महिताः प्रशस्तयः॥५३॥
सोपचारमुपगृह्य निर्दय
वक्षसा स्तनतटे शयालुना।
लज्जितापि कुशलेन कामिना
मज्जितानववधूः स्मरार्णवे॥५४॥
योषितश्चपलमक्षि चुम्बत
श्चापलं हृदि बभूव कस्यचित्।
नूनमन्यगुणसंक्रमो नृणां
जायते परिचयेन भूयसा॥५५॥
कान्त! सीदसियदि प्रसीद मे
भारमेनमहमुद्बहामि ते।
इत्यकाण्डरतिभङ्गभीतया
कस्यचिद् दयितया नरायितम्॥५६॥
कान्तकण्ठकुहरे वि121वर्तितं
मञ्जुलं मणितमाप्तुमिच्छती।
अन्तरुत्सुकतमा122प्रियानने
नूतना सुतनुराननं ददौ॥५७॥
नोपगूढमचिरोढया वपुः
श्लिष्यतोऽपिदयितस्य लज्जया।
विक्रिया हृदि तया न संवृता
सा च तस्य रतये पदं ददौ॥५८॥
अन्यया रतिविधौ नरायिते
पीवरोरुजघनस्तनं वपुः।
शैलवद् गुरुतरीकृतं क्वचित्
तूलवल्लघुतरीकृतं क्वचित्॥५९॥
कुण्डलोल्लिखितगण्डरेखया
हारहीरलुठितस्तनाग्रया।
उत्सुकोऽपि दयितोऽनुरक्तया
नान्वगृह्यत रते महेलया॥६०॥ .
अन्ययोरभिनवानुरागयो-
र्मुग्धयोरनतिरू123ढदाक्ष्ययोः।
मन्मथेन गुरुणोपदर्शिता
नैपुणी रतिविधौ तयोरभूत्॥६१॥
स्रस्तकुन्तलविकीर्णमालया
घृष्टचन्दनपयोधरान्तया।
श्रान्तया श्रमजवारिसिक्तया
कान्तवक्षसि सुषुप्तमेकया॥६२॥
वक्षसि श्वसितकम्पितौ124 स्तनौ
रेजतुर्निधुवने मृगीदृशः।
मारुतक्षुभितवीचिचश्चलौ
चक्रवाकविहगाविवाम्भसि॥६३॥
योषितां प्रियतमोपगूहने
मौक्तिकैर्हृदि निवेशितैरिव।
स्वेदवारिपृषतैर्विनिस्सृतं
गण्डयोर्गलितपत्रलेखयोः॥६४॥
हेलया त्रुटितहारशृङ्खला
सोढगाढनखराङ्कुशक्षतिः।
योषितः स्तनकरेणुरुन्नता
वल्लभेन दमिता कथञ्चन॥६५॥
ह्रीभरादवनतानना पुरा
या कथञ्चन रतौ प्रयोजिता।
सा द्वितीयसुरतेसमुत्सुका
कापि कामपि जगाम विक्रियाम्॥६६॥
कामिनामिति समागमोत्सवं
वीक्ष्य कामविवशेव यामिनी।
अम्बरान्तमवलम्ब्य यास्यता
वल्लभेन सहिता विनिर्ययौ॥६७॥
दिशि दिशि करजालमेष भानु-
स्त्वमिव करोति महीभृतां गणेषु।
इति सुखमवबोधितोऽथ सूतै-
र्नूपतिरनन्तरकृत्यमन्वतिष्ठत्॥६८॥
इति कृष्णविरचितं भरतचरिते षष्ठ सर्ग॥
———
अथ सप्तमः सर्गः।
अथैनमास्थानगतं नरेन्द्र-
मभ्येत्य कश्चिन्महितो महर्षिः।
रत्नाकरं सत्तववतां पुरोगं
संवर्धयामास शशीव गोभिः॥१॥
स राजसिंहः सहसावरुह्य
सिंहासानाद्रेखनीं विनीतः।
पुरोधसा साकमुपाहृतार्घ्य-
स्तपोधनं तं विधिनोपतस्थे॥२॥
अथाश्रमस्थानजितारिवर्गौ
भूति दधानौ गुरुशासनस्थौ।
स125प्ताङ्गयुक्तौ मणिविष्टरस्थौ
विरेजतुस्तौ मुनिराजवर्यौ॥३॥
मुनेः श्रवः प्राप्तुमिवाथ शुद्धां
मन्दस्मिताम्भः126स्नपितामिवार्द्राम्।
नभोगुणत्वादिव मुक्तसङ्गा
प्रवर्तयामास गिर नरेन्द्रः॥४॥
तत्कालदुःखानि महाफलानि
प्रायेण कर्माणि भवन्ति लोके।
सद्यः प्रमोदं प्रथम प्रसूते
फलानुकूल च विलोकन वः॥५॥
विकासयन्त हृदयारविन्द
प्रसादवत्त्वात् प्रथयन्तमाशाः।
अन्तर्गत वान्तमपाहरन्तं
मन्ये भवन्त भुवि भानुमन्तम्॥६॥
व्यापारयन्त परया स्वशक्त्या
संयोज्य कृत्येषु क्यापि बुद्धया।
विज्ञातुमिच्छन् न कथं विजाने स्वान्तस्थितं जन्तुरिवेश्वरं त्वाम्॥७॥
एतत् समाकर्णयतो महर्षेर्मुखेन्दुबिम्बादमला सुधेव।
प्रियावियोगग्लपितं नरेन्द्रमाह्लादयन्ती प्रससार वाणी॥८॥
अवेहि कण्वस्य मुनेर्नियोगादभ्यागतं मां कपिशाभिधानम्।
अस्त्यन्न किञ्चिद् गुरुणानुशिष्टमाप्तैःसह श्रोष्यति मन्त्रिभिस्त्वम्॥९॥
आस्ते कुमारी कुलशीलयुक्ता शकुन्तलेत्याहितनामधेया।
सा मेनकाकौशिकयोरपत्यमस्माकमङ्के परिवर्धिता च॥१०॥
अर्कोशुजालेन सरोजिनीव शशाङ्कबिम्बेन विभावरीव।
प्रवालजालेन लतेव युक्ता विभाति सा सम्प्रति यौवनेन॥११॥
आधिश्च तेनान्वहमेधमानः शान्त्यम्भसारयाःप्रशमं न याति।
शरीरजन्मौपहितौऽथवासौ127क्व मन्त्रपूतेन जलेन हार्यः॥१२॥
अस्य त्वमेवासि निमित्तमस्याः साक्षात् प्रतीतःपरया दृशा नः।
अर्कादृते को हृदयं नलिन्याः स्नेहात् समुत्कण्ठयितुं समर्थः॥१३॥
एतच्च किञ्चित् प्रणिधेयमन्यत्तां दानवःकश्चन याचते नः।
श्लाघ्येऽनुरक्तामपि राजहंसेध्वाङ्क्षःकथं काङ्क्षति राजहंसीम्॥१४॥
शुभे मुहूर्ते भविता विवाहस्तवेति साकूतमुदीरितश्च।
प्राप्तेषु कृच्छ्रेषु महत्सु पुंसांन128सत्यभङ्गाय भवन्ति वाचः॥१५॥
तदाश्रमं प्राप्य शकुन्तलां त्वं गृहाण पाणौकरणेन साध्वीम्।
को नाम दैत्यःप्रतिवीक्षितुं त्वांदीप्तं129 दिवाभीत इवांशुमन्तम्॥१६॥
इत्थं नियुक्तोऽसि महर्षिणा त्वं प्रमाणबाचा विधिनेव साक्षात्।
स्बतःप्रमाणं द्वयमेव मन्ये वेदश्चविद्वान् स तपोनिधिश्च॥१७॥
गिरं गुरोस्तेन समाहृतां तांतथेति130 मूर्ध्ना जगृहै जनेशः।
विशुद्धवर्णोविमलां गुणाढ्यां मालां मनोज्ञामित्र कन्यकायाः॥१८॥
प्रस्थानमद्यैव कुरुष्व वीर! प्रष्ठो भवामि प्रहतो हि पन्थाः।
इति प्रतस्थे प्रथमं तपस्वो ततोऽपि चेतःप्रथमं नृपस्य॥१९॥
अथ प्रतापं प्रथयन् पृथिव्यां प्रसारयन् दिक्षु यशोमयूखान्।
घनान्तरालादिव धर्मरोचिः सेनानिवेशान्निरगान्नरेन्द्रः॥२०॥
तत्रैव सैन्यं सकलं निवेश्य सारं समाहृत्य ययौयथार्हम्131।
सत्त्वाधिकानां हि सुनीतिभाजा पुंसामतन्त्रं परिवारसम्पत्॥२१॥
आनन्दयन् नाकजुपःस राजा वित्रासयन् विद्बिषतां मनासि।
उत्कण्ठयन् वर्त्मनि नीलकण्ठान्ययौ धनध्वानभृता रथेन॥२२॥
अस्यानुकूलेन समीरणेन रथाङ्गनिष्पेपभवःपरागः।
दूरान्निरस्तःपथि दक्षिणेन नीचो ह्यचक्षुष्यतमःप्रभूणाम्॥२३॥
तथातिदुर्गं132बहुवाहिनीकं सुवर्णपूर्णंकटकं दधानम्।
उत्तुङ्गवंशं हिमवन्तमारान्महीभृतां नाथमसौ ददर्श॥२४॥
प्राच्यां प्रतीच्यां च निवेश्य पादौ संदश्य गाढं शफरीमिवोर्वीम्।
यःपक्षहीनोऽपि स्वमुत्पतिष्णुरब्धेरुदग्रैः133शिखरैर्विभाति॥२५॥
दिवापि नीलाश्मघनक्षपाणि तिग्मांशुमार्गादुपरिस्थितानि।
यस्योत्तमाङ्गानि सुराङ्गनाभिरङ्गीक्रियन्ते सुरतोत्सुकाभिः॥२६॥
आवर्तचक्राणि सरित्सु यस्य संक्रान्तमाणिक्यमणिच्छवीनि।
अलातचक्रप्रतिमानि शत्रोः प्रत्यस्त्रशङ्कां जनयन्ति जिष्णोः॥२७॥
अन्यत्र यस्माद्134द्वितयं न दृष्टमद्रौ न तादृग् गिरिराजशब्दः।
जगज्जनन्यास्तनयात्वमेकं जामातृभावश्चशशाङ्कमौलेः॥२८॥
गुञ्जाफलादानसमुत्सुकाभिगपातमाम्यादनुसम्वितानि135।
यत्रानुशृङ्गं शबराङ्गनाभिर्माणिक्यरत्नानि निराक्रियन्ते॥२९॥
आकृष्टचापानवलोक्य यस्य तुङ्गेषु शृङ्गेषु किरातसङ्घान्।
शुकाङ्गनाः स्वर्गविलासिनीनां गीर्वाणभाषाभिरुपालभन्ते॥३०
दीप्तांशुकान्ताश्मकृशानुदीप्तं विपष्यमानोपलकुम्भजालम्।
यस्याशुनिर्यद्वनधूमकाण्डं कुलालवेश्मेव विभाति शृङ्गम्॥३१॥
मुहुःपतन्तौ मुहुरापतन्तौ पर्यायवृत्त्या शशिभानुमन्तौ।
संक्रीडनार्थाविव कन्दुकौद्वौ यस्योपकण्ठं नभसो भजेते॥३२॥
यस्यायमेको महिमा136 महीयानास्तां विशालत्वमथोच्छ्रयो वा।
यदिन्दुमौलिःस्वयमम्बिका च वत्साविवाङ्कं सततं भजेते॥३३॥
उन्नम्रपादाग्रमुदग्रशृङ्गं यमन्यमुक्षाणभिवोत्पतिष्णुम्137।
शृङ्गान्तराले निजशृङ्गकोट्यास्थाणोर्महोक्षःप्रसभं पिनष्टि॥३४॥
सरित्पतिर्यस्य सरित्प्रसूतेरुत्पत्स्यमानाःसरितोऽधिगन्तुम्।
रत्नानि शुल्कार्थमिवोपनीय पादं समाश्लिष्यति नीचवृत्त्या॥३५॥
पश्चादिलायां प्रलय गतायां सर्गावधानं दधता विधात्रा।
यो भाति कर्तुंंवसुधामिवान्या संपादितःकोऽपि मृदा समूहः॥३६॥
दुर्वर्णचूर्णच्छविमुद्वहन्त सुवर्णभृरेणुविरूषिताङ्गाः।
यस्मिन्नरण्यद्विरदा महार्हाः138सुरद्विपं जेतुमिवोत्सहन्ते॥३७॥
अपावरं यस्य नितम्बचक्रमपाम्बरं नैव करोति गङ्गा।
अनुक्षणं यामधिगम्य दिव्यामनुक्षणं न क्रियते महद्भिः॥३८॥
यस्मिन् मुहुर्धातुभिरात्मकान्तमालिख्य विश्लेषविनोदनीभिः।
चित्रार्थता धातुषु निर्वियाद विद्याघरीभिःक्रियते यथार्था॥३९॥
पयोधिमुत्खाताना विधायानिग्वातशेषे वसुधातलेऽस्मिन्।
खातः कियान् जात इतीव मातुर्यो भाति तुङ्गःप्रतिमानकूटः॥४०॥
कुशेशयानां भवनेषु यत्र कुशेशयानां निकटे मुनीनाम्।
सरःस्वतीव प्रथते स्त्रवन्ती सरस्वतीवाशु कवीश्वरेषु॥४१॥
उद्धृत्य मूर्ध्ना सरिता सहस्रमादाय रत्नानि महाधनानि।
उत्थाय शीतालुरिवाम्बुराशेर्येस्तापनं धाम दधाति पार्श्वे॥४२॥
यत्र ध्वनिःश्रूयत एव नित्यं वषट्पदानां नवषट्पदानाम्।
सवे मुनीनां प्रसवेतरूणां न वा रणानां धनवारणानाम्139॥४३॥
यःस्थातुमीष्टे परितो विरूढान् सालानवष्टभ्य कथञ्चिदेव।
अभ्रङ्कषाणां शिरसि स्थितानां ग्राव्णां गरिम्णेव सुदुर्वहेण॥४४॥
समीरणाःसानुषु यस्य नित्यं कुविन्दकृत्यानि विडम्बयन्ति।
यतःपयोदावरणे विशीर्णेपटंहिमान्या निबिडं वयन्ति॥४५॥
धातुद्रवक्षोभितरक्तधारास्तिर्यग्दधानस्तटनिर्झराणाम्।
नित्यंहिमानीघनकच्छुराङ्गःसिरासु140 यो विद्ध इवावभाति॥४६॥
अम्बुच्छटामंशुकसन्निकाशां महानदीनां बहुधा तु भिन्नाम्।
घिभर्ति यःकाश्चनरत्नकान्तिं महानदीनां बहुधातुभिन्नाम्॥४७॥
गौरीशरीरेच्छुरितार्धभाग141मर्धेन्दुपीयूषनिषिक्तनेत्रम्।
पश्यन्ति यस्मिन् परमेश्वराख्यं तज्जङ्गमं ब्रह्म समाधिभाजः॥४८॥
नालीकरागेण समुज्ज्वलेन कृशानुभावं वहते य एकः।
नालीकरागेण वदामि किञ्चित्कृशानुभाव कुरुते च मेरुम्॥४९॥
तमित्यमाराध्यगुणं गिरीन्द्रमुद्वीक्षमाणःसुचिरं पुरस्तात्।
म जग्मुषां क्षोणिभृतामधीशस्तं तस्थुपा नाथमथानुमेने॥५०॥
अथास्य भृभर्तुरुपत्यकायामुपेत्य वाहाःस्थपुटोपलायाम्।
उद्भ्रान्तचक्रं रथमुद्वहन्तः साशङ्कपातानि शफानि चक्रुः॥५१॥
उञ्चाधिरोहेषु विमुच्य रश्मीन् निम्नवरोहेषुनिगृह्य किञ्चित्।
रथ्यान् कथञ्चिद् विनियम्य यन्ता राजानमश्रान्ततनुं निनाय॥५२॥
अथाश्रमोपान्तमुपेत्य राजा गव्यूतिमात्रे मति मार्गशेषे।
रथादवारुह्यययौ पदाभ्या संभावयिष्यन्निव भूतधात्रीम्॥५३॥
मा दुन्दुभिर्मा च सितातपत्रं मा चामरे चेति कटाक्षदृष्ट्या।
निवारयामास स राजचिह्नं विनीतसेव्यं हि वनं मुनीनाम्॥५४॥
नीवारशालिग्रहणोत्सुकेनविकीर्यमाणं वयसा गणेन।
आच्छिन्नमुक्तं कुशमत्तुकामैः कुरङ्गशाबैश्चटुलैरुपेतम्॥५५॥
आम्नायघोषप्रतिघोषपूर्णैः शिलागृहैर्बृहितधीरनादम्।
निर्दह्यमानाहुतिगन्धमिश्रैर्धूमैःपरिस्तीर्णवितानवन्धम्॥५६॥
आमृष्टशालाङ्कणकुट्टिमेषु नीवारपिष्टद्रवमुद्रितेषु।
मनस्विनां योगजुषां मुनीनामर्धासनारूढकुरङ्गशाबम्॥५७॥
आक्रीडमाम्नायसरस्वतीनामासारवतं रजसां घनानाम्।
आलोकमन्तस्तिमिरोत्कराणामथाश्रमं प्राप विशामधीशः॥५८॥
अथार्चयामासुरुदग्रदीप्तिं तपोधनाःसत्पथवर्तिनं तम्।
तन्वानमाशासु करप्रचारं सप्तर्षयःसूर्यमिवोपयान्तम्॥५९॥
आसनिमेते कुशलानि पृष्ट्वा पुनस्तमूचुर्मुनयो नरेन्द्रम्।
वल्लीव वृक्षं परिरब्धुकामा शकुन्तला सीदति वर्धमाना॥६०॥
तदद्य गान्धर्वविधेःकुमारीं मिथोऽनुमत्या कुरु वीर! पत्नीम्।
रूपेण शीलेन कुलेन तुल्या सेयं सपत्नी क्रियतां142 धरित्र्याः॥६१॥
यत् प्रार्थ्यते सा दनुजेन कन्या कस्तं निषेद्धुं क्षमते त्वदन्यः।
अतःसुनीत्या स ययौ गुरुर्नः स्वयं न दातु न निषेद्धुमीष्टे॥६२॥
आवेद्य श्रुतिसुखमस्य कण्ववाक्यं निर्याता निजनियमाय तापसास्ते।
राजासौ गुरुगिरि गौरवादिवाज्ञा बिभ्राणःसपदि विनम्र कन्धरोऽभूत्॥६३॥
इति कृष्णविरचिते भरतचरिते सप्तम सर्गः॥
<MISSING_FIG href=”#"/><MISSING_FIG href="../books_images/U-IMG-1721233217Screenshot2024-07-17214827.png"/>
अथाष्टमःसर्गः।
अथ नरपतिरन्तरुल्लसन्तीं नवरसभावमनोहरा कुमारीम्।
अनुपदमवमृष्टसद्गुणाढ्या कृतिमिव पत्रनिवेशितामपश्यत्॥१॥
निभृतमुटजकोटरे मुनीना स्मरशरपातभयादिव प्रपन्नाम्।
किसलयशयने सखीसनाथा श्रियमिव वारिजविष्टरे निषण्णाम्॥२॥
व्रणमिव कुसुमेषुमार्गणाना हृदि सरसीरुहमार्द्रमुद्वहन्तीम्।
असकृदनुनिषेव्यमाणमाध्वीवचनसुधाभिरुदूढजीविताशाम्॥३॥
जगति गुरुतरार्धरत्नसारा परिचितपुण्यजना श्रियं वहन्तीम्।
अनवरतमुपोढराजहंस143ं धनदपुरीमिव मानसं दधानाम्॥४॥
समजनि ममता नु तस्य काचिन्मनसि कृपा नु कृतार्थना नु जाता।
मनसिजचरितेषु विस्मयो वा विरहकुशानुकृशा निशाम्य बालाम्॥५॥
नयनयुगलमस्य पश्यतस्ताममृतनिपिक्तमिवार्द्रनामवाप।
अपिच विरहशोकशड्कजालं बहिरगलत् पुलकाड्करच्छलेन॥६॥
अवनतवदना शकुन्तलापि क्षितिपमवेक्ष्य विवर्तितैःकटाक्षैः।
न चलितुमशकन्न चापि वक्तु परिलिखितेव बभूव साध्वसेन॥७॥
तदपि कृतसखीकरावलम्बा करतलसंवृतपाण्डुगण्डरेखा।
किसलयशयनात् कथ कथञ्चिद् विरहमहादहनादिवोदतिष्ठत्॥८॥
अथ करिकरकान्तिचौर्यनिघ्नं नरपतिदण्डभयादिवायताक्ष्याः।
अपि गुरुतरसारमूरुयुग्म चलदलपल्लवचापल चकम्पे॥९॥
श्रमजलपृषतावलिःस्तनाग्रे तरलद्दशस्तरलं विनाभिरामा।
निशितपुलकसूचिरुद्धरन्ध्रा स्मरघटितेव रराज हारयष्टिः॥१०॥
स्नपितमिव हिमैःप्रमोदबाप्पैरविरलपक्ष्मपुढे चिरं निरुद्धैः।
नयनकुवलयद्वयं नितान्तं विरहमहोप्माणि तप्तमायताक्ष्याः॥११॥
अतिथिरयमतर्कितप्रभावः सखि! विभवोत्तरमर्हणीय एषः।
तदिह वितर विष्टरं विशिष्टं न हि बहुमानमृतेऽर्हणा महत्सु॥१२॥
निभृतमिति सखी तथा नियुक्ता मनसि निषण्णमपि स्थिरं कुमार्याः।
प्रतिकृतिमिव वीक्षितुं पुरस्तान्नरपतिमाशु निवेशयाञ्चकार॥१३॥
तदनु परिजने विनिर्गते तामकथयदात्मदशां विशामधीशः।
न खलु दयितयोर्मिथोऽनुरागो रसविमुखेषु सुधा निवेदनीयः॥१४॥
वरतनु! तव कातराःकटाक्षाः कचन कुतोऽपि यदृच्छया प्रवृत्ताः।
मम हृदि पतितास्तुदन्ति गाढं मनसिशयस्य शिलीमुखा इवान्ये॥१५॥
स्मरशरचकितं मनो मदीयं त्वयि शरणार्थमिवावगाढमेतत्।
पुनरपि परिद्वयते नितान्तं क्वखलु शाम्यति सर्पिषा कृशानुः॥१६॥
सुतनु! तव मुखारविन्दमेतत् कुचभरचत्रयुगं च मानसेऽस्मिन्।
विकसति मम केन तन्निषेव्यं न पुनरपुण्यजनेन चेतसापि॥१७॥
गुरुरपि मुनिरावयोर्हितार्थी कमपि नियोज्य वनान्तरं जगाम।
तदिह मम मुनीन्द्रवह्निशुद्धा कनकमयीव भवाद्य कण्ठभूषा॥१८॥
इति नरपतिना समीरिता सा न परमपत्रपया न किञ्चिदूचे।
अखिलमवनतानना तथापि स्तनतटपातिभिरश्रुभिःशशस॥१९॥
तदनु स विदितेङ्गितः144कुमार्याः स्फुटतरमात्मनि भावमाक्लय्य।
सहृदय इव सत्कृतेरनुक्तं145कमपि विशेषमसौ मुद् जगाम॥२०॥
इति कथितवती सखीमुखात् सा मदनशरैरिव खण्डितैर्वचोभिः।
यदि गुरुरनुमन्यते न दोषस्तदिदमुषर्वुधसाक्षिकं विधेयम्॥२१॥
अथ नियमपुरःसरं पुरोधाः क्षितिपतिना नियमार्थिना नियुक्तः।
कृतभुवि विधिना निधाय वह्निं परिकरितक्रममाहुतीर्जुहाव॥२२॥
तदनु परिणता नरेन्द्रनार्यः कनकनवाम्बरहारगन्धमाल्यैः।
अभिनवघनयौवनां कुमारीं किसलयितामिव चक्रुरङ्गकेषु॥२३॥
नखरुचिनवकेसराभिरामं परिगतकण्टकलोलबाहुनालम्146।
कमलमिव करेण पाणिमस्याः श्रमजलशीतलमग्रहीन्नरेन्द्रः॥२४॥
हुतभुजि विरराज लाजवृष्टिस्तरलवधूकरपल्लवोपकीर्णा147।
सपदि दिनमुखश्रिया विमुक्ता दिनकरतेजसि तारकावलीव॥२५॥
अथ विजयसमृद्धिशंसिनीभिर्नरपतिमृग्भिरवर्धयन् द्विजेन्द्राः148।
निजविभवविवृद्धमम्बुराशि सलिलधरा इव वृष्टिभिर्नवाभिः॥२६॥
तदनु दयितया तथा सहासौ पटभवनेषु विशुद्धसंस्तरेषु।
हर ईव विजहार हैमवत्या रजतमहीधरगह्वरोदरेषु॥२७॥
रविरिव नलिनीं निमर्गमुग्धां मृदुलतरेण करेण मानवेन्द्रः।
मुकुलितकमलेक्षणां नवोढामनुसरणक्रमकौशलेन भेजे॥२८॥
अलिकमलयजानुलेपधूलिः पतति तवाक्षणि किं न वारयिष्ये।
इति स मुखसरोजमुन्नमय्य क्षणविकचेक्षणमाचुचुम्ब तस्याः॥२९॥
मदनशरविभिन्नमेतदङ्गं सुमुखि! कुचोप्मणि तापयामि कि ते।
इति घनमुना विमर्दिताङ्गी पुलकचयेन तथेति सा शशंम॥३०॥
अयमलसद्दशपपौमनोशामधरसुधामिवयौवनाम्बुधाराम्।
द्रियमिव शिविलीचकार नीवीं हृदयमिवांशुकमाचकर्ष तस्याः॥३१॥
विरहविधुरयोर्यथा यथाभून्मनसि पुरा स मनोरथप्रवाहः।
अखिलमनुबभूवतुस्तथा तौ कृतसुकृतावित्र कामिनौ स्वकामान्॥३२॥
इति नृपतिरुवास मासमेकं हरिणदृशा ह्यनुरक्तयानुरक्तः149।
द्विप इव रसलोलया करिण्या स्मरविशिखाङ्कुशवश्यतामुपेतः॥३३॥
तदनु नरपतिर्जगाद जायां मम हि वधूरधुना त्वमेव150भासि।
तदिह निजपुरंनयाम्यहं त्वां न खलु विना गृहिणी गृहाःसुखाय॥३४॥
इति नरपतिना समीरिता सा विषमितकार्ययुगाकुला जगाद।
नहि मुनिरिह दृश्यते पिता मे तदनुमतिं कथमाप्नुयां न जाने॥३५॥
मम गुरुसदनान्निवर्तनं151 किं तदनुमतेन बिना नु युक्तमेतेत्152।
भवदनुगमनं ममार्हमिष्टं क्षममुचितं च ततो नियोक्ष्यसि त्वम्॥३६॥
स पुनरकथयत् प्रसादय त्वं मुनिमचिरेण नयाम्यहं पुरीं त्वाम्।
प्रभवति हि सतामयं प्रसादश्चिरमुदयाय153 तथान्यथान्यथा स्यात्॥३७॥
इति मुहुरनुनीय साश्रुकण्ठीं निजनगरीं प्रति निर्ययौ नरेन्द्रः।
कथमपि विवशां विनापि कान्तां दिवसहृतामिवचन्द्रिकां शशाङ्कः॥३८॥
सस्थ(र?ह)य (प?व) रःपुरीं प्रपेदे विवृतकवाटदृशेव वीक्षमाणाम्।
सकुतुकमिव पौरसुन्दरीणां ध्वजपटपाणिपुटेन दर्शयन्तीम्॥३९॥
अथ नरपतिसङ्गमानुरूपं त्रिभुवनसारमधत्त गर्भमेषा।
सलिलनिधिसमागमानुबिद्धं नवमिव मौक्तिकमम्बु ताम्रपर्णी॥४०॥
सपदि मृगदृशःपयोधरौ तौ जलधरमेचकचूचुकाबभूताम्।
असितपटपिधानगोपितार्थौ मणिकलशाविव राजभोगयोग्यौ॥४१॥
स्फुटतरमुदरे शकुन्तलायाः सुनिभृतमाशु विवेश दानवारिः।
यदयमनुपदं विवर्धमानः क्षणमपहृत्य वलिश्रियं जजृम्भे॥४२॥
नरपतिविरहव्यथावती सा न च किल दौहृदवेदनां दधार।
द्विरदवरवियोगदुःखिता किं वनकरिणी कलस्पृहां करोति॥४३॥
मुनिरपि पुनरेत्य तां तनूजा भरणकृतामपि वत्सलो नितान्तम्।
चटुलगतिमवेक्ष्य जातसत्त्वां निजतनयामिव जहुरभ्यनन्दत्॥४४॥
शिशुमखिलनरेश्वरं विधास्यन् मुनिरथ पुंसवनादि कर्म चक्रे।
विदधातिपरमाशिषोऽपि लक्ष्मीमतिमहतां किमुत स्वयंक्रियास्ताः॥४५॥
नरपतिवचनं प्रतीक्षमाणा प्रसवविलम्बमधत्त सा प्रसह्य।
कथमपि च चिरादसूत पुत्रं क्षितिवहनक्षममादिपोत्रिणीव॥४६॥
उदयति विमले कुमारचन्द्रे सपदि दिशःकुमुदोज्ज्वलाःप्रसेदुः।
उपरि सुरपयोधिरेधमानः कृतपटहध्वनिरुच्चकैर्ननर्त॥४७॥
नरपतिरमुना समो न भूतो न भवति नैव भविष्यतीति वाणी।
सुरपतिभवनात् प्रवर्तमाना प्रसवकृतां रुजमुज्जहार मातुः॥४८॥
मुनिरमुमतिलोकशक्तियुक्तं तदनु ततान स जातकर्मणीसौ।
कृतनियममुपाहितं कृशानुं भुवि पवमानमुखेन कर्मणेव॥४९॥
नरपतितनयस्य बाललीलाप्यभवदमुध्यकुलोचितैव नूनम्।
भुजबलमवलम्ब्य विक्रमैर्यत् क्षितिपरिवेष्टनमुल्बणं बभूव॥५०॥
मुनिवरनयनामृतप्रसूतेः सकलमनोहरसौकुमार्यधाम्नः।
अनुदिवसमवर्धतास्य तेजः मह वपुषा शरदीव शीतरश्मेः॥५१॥
मदकरिषु निसर्गवान्धवाद्वा मृगपतिशब्दविशेपमत्सराद्वा।
द्विपरिपुमवधीच्चपेटयासौ वनकरिणां कुलमारुरोह भृयः॥५२॥
परिमितवयसोऽपि तस्य शक्तिः मुरपरिपन्थिषु भीषणा बभूव।
अनतिपरिणतापि सप्तसप्तेर्भवति भयाय हि कौशिकेषु दीप्तिः॥५३॥
मुनिजनमखभङ्गदुर्विनीतान् दितितनयानवधीत्स मुष्टिघातैः।
विनयनमसतांसतां च गुप्तिः प्रकृतिरियं खलु पुरुवंशजानाम्154॥५४॥
दनुजबधकृताथ तस्य कीर्त्तिः सुरपतिसद्मनि किन्नरोपगीता।
नयनदशशतीं प्रमोदवाप्पैः शिशिरयति स्म चिराय गोत्रशत्रोः॥५५॥
मुनिरमुमुपनीय वेदविद्याः स्वयमदिशत् सकलाःसहार्थशास्त्रैः।
सकलमपि सशस्त्रमस्त्रजालं कलितमनेन निजान्निजादधीशात्॥५६॥
शकुन्तला कमितुरपत्यमर्पितं सुखावहं तदिदममंस्त मानिनी।
अकृत्रिमा धनमिव कालवर्धितं सनीविकं विबुधजनैकसाक्षिकम्॥५७॥
इति कृष्णविरचिते भरतचरिते अष्टम. सर्ग।
<MISSING_FIG href="../books_images/U-IMG-1721238787Screenshot2024-07-17214827.png"/>
अथ नवमसर्गः।
अथ अतां महिषीं महीभुजस्तनयान्दोलितपाणिपल्लवान्।
करिणीमिव पोतलोलितां मुनिरूचे नयशालिनीं गिरम्॥१॥
नगरीं ब्रज सम्पदाश्रयामचलोत्सङ्गविहारिणी सती।
त्वमवाप्तकुमारसंभबा भज गौरीव तमीश्वरं पतिम्॥२॥
विनयेन लभेत नीतिमान्नृपसूनुर्युवराजतामयम्।
विनिहन्त्यतिरागलोलुपः कुलमारण्य इवाग्निरुत्थितः॥३॥
मटरागपरो नृपात्मजः पितुराच्छेत्तुमपीच्छति श्रियम्।
कथमामिपमग्रतःस्थितं चपलस्त्यक्ष्यति सिंहशाबक॥४॥
अतिरक्तमनर्थकारिणं तनुजन्मानमुपेक्षितोन्नतिम्।
अचिरेण हिनस्ति शस्त्रवान् पिटकं दुष्टमित्र क्षितीश्वरः॥५॥
अवमानकृशानुतापित तनयाष्टापटमिष्टमात्मनः।
मुनि कश्चन रत्नभाजनं कुरुते साधु परीक्ष्य भूपतिः॥६॥
अपि दृप्तमनर्थकारिण वृषभं दुष्टमिनात्मज नृपः।
न विमुञ्चति योजयत्यमुं बहुशःक्लेशकरेषु कर्मसु॥७॥
यदि मुञ्चति किञ्चिदीदृशं स हि मन्त्रैरविचिन्त्यशक्तिभिः155।
नृपभोगविषेण156 मूर्च्छितं परमुत्थापयितुं समीहते॥८॥
अहिरेव हि रत्नगालिभिर्नृपसूनुर्नियमेन रक्ष्यते।
यदि विन्दति रन्धमेकदा सहसा हन्ति फणीव रक्षिणम्॥९॥
तदसौ पितुरेव शासनं वहतांमूर्ध्नि विनीतमानसः।
नृपमौलिनबाङ्कुरश्रियः कुशलं बीजमिवैकमर्पितम्॥१०॥
न पुनस्स्वयमर्थदसौ नृपनिर्वन्धमृते नृपश्रियम्।
नहि कालविपाकवर्जितं फलमास्त्राद्यतमं भविष्यति॥११॥
त्वमपि प्रियसंपदर्शिनी भव मा गाःसुतसंपदि त्वराम्।
पतनाय भवत्यपक्षतेः शुकपोतस्य समुत्पतिष्णुता॥१२॥
महिपीमपि नैव विश्वसेत् तनयैश्वर्यवशान्नरेश्वरः।
हृदयं परिशोध्य विश्वसेदथवा ग्राहवती नदीमिव॥१३॥
चिकुरे मुकुरे गृहोदरे शयने वा महिषीं महीपतिः।
भुजगीमिवगेहवर्तिनीं सुतनिघ्नांन विशङ्कते कथम्॥१४॥
भुवि सन्ति तथाविधाःस्त्रियस्तनयैश्वर्यविमूढचेतसः।
परिणेतरि पापवृत्तयः कृपणानां हि मलीमसाःश्रियः157॥१५॥
त्वमतःप्रणिधानशालिनी कुरु भर्त्तुर्हितमात्मनो हितम्।
स च वेत्ति तवेङ्गितैर्मनः मुरसिन्धोरिव वारि निर्मलम्॥१६॥
परिलालय राजवल्लभान् नृपविद्वेयिषु मा कृथाःप्रियम्।
शिवमाचर तस्य सन्ततंनहि कल्याणकृतां विपत्तयः॥१७॥
युवयोर्नयतत्त्ववेदिनोः समये स्मारयितुं मयोदितम्।
निपुणोऽपि जनः क्रियाकुलःप्रकृतेः158कर्मणि को न मुह्यति॥१८॥
हृदयेन वहन्नपि159 प्रियां भवतींरत्नमयीमिव स्रजम्।
नृपतिर्मम शासनेच्छया पुरुषान् प्रेषयितुं विलम्बते॥१९॥
इति वास्मदनुग्रहान्मुहुर्महिमानं लभतामयं सुतः।
हिमरश्मिकरादिवार्णवःपवमानादिव दावपावकः॥२०॥
अथवा जनवादशङ्कया त्वयि दैवीं गिरमर्थयत्यसौ।
अविवेकतिरस्कृता160त्मनां161पिशुनानां खलु दुःश्रवं वचः॥२९॥
तदिह स्मर नित्यवत्सलां त्वयि माध्वीमुचितानुवर्तिनीम्।
ससुतां भवतीं विहायसा स्वगमा सा शिविकेव नेप्यति॥२२॥
इति सा मुनिना समीरिता घनबाष्पाम्बुविकुण्ठितस्वरा।
प्रतिशब्दितुमुद्यताभवद्गुणदोषोपहतेववल्लकी॥२३॥
मम पथ्यमपि त्वयेरितं हृदि दुःखान्तरमातनोति तत्।
नहि किञ्चन पथ्यमेव यद् बहुदोषप्रकृतेरिवौषधम्॥२४॥
पितरि त्वयि जातमात्रया भरणस्नेहरसोऽयमार्जितः162।
कथमद्य निरस्यते मया हितकृद् देह इवायमात्मनः॥२५॥
महिषीच महीपतेरहं परवत्यस्मि स मे परा गतिः।
अनयोःपुनरेकवृत्तिता नहि बाल्यस्थविरत्वयोरिव॥२६॥
करणीयमसंशयं वचस्तव वेदस्य च तत्त्ववादिनः।
अपि वेदवचःक्वचित् भवेदयथार्थ न तथा भवद्वचः॥२७॥
अथ हारमनोज्ञतारका मुखशीतद्युतिकान्तिहारिणी।
रजनीव शरीरधारिणी भुवि माध्वी दहशे तयोःपुरः॥२८॥
प्रणिपत्य मुनिं जगाद मा कृतकृत्योऽमि क एप ते जनः।
अथवा निजकार्यनिःस्पृहः परकार्यैकपरो हि सज्जनः॥२९॥
सुरकार्यकृताभिसन्धिना भवतैषा परिरक्षिता वधूः।
विजयार्थमसूत सा सुतं कुशला शक्तिरिवाप्तमन्त्रजा॥३०॥
मुनिरप्यवदत सुराङ्गनामथ संभाव्य यथार्हमर्हणैः।
वशगामिव मन्त्रदेवतां निजनामस्मरणादुपस्थिताम्॥३१॥
शिशुरेव मयाभिरक्षिता भवतीनां तनया मयि स्थिता।
अधुना पुनरीद्दशींदशां प्रतिपन्ना किमियं विधास्यति॥३२॥
कमितारमसौ नराधिपं भजता सम्प्रति वीरसूःस्वयम्।
कुसुमावनतेव मालती सद्दशोच्छ्रायमुपघ्नपादपम्॥३३॥
सदृशप्रसवानुबन्धिनीं विलसत्पल्लवकान्तिधारिणीम्।
त्वमिमां क्षितिभर्तुरन्तिकं नय सन्तानलतामिवेप्सिताम्॥३४॥
स च मद्वचनादिदं त्वया विजने व्यक्तमुदीर्यतां वचः।
नहि संसदि नीतिशालिभिर्निजकार्ये विनियुज्यते प्रभुः॥३५॥
इयमस्मदुपाश्रयावधूस्तव दिष्ट्या महिपी किलाभवत्।
अधुना तव सद्म नीयते मुनिपु न्यास इवार्पिता त्वया॥३६॥
इदमेकमिहार्थ्यते भवानपहास्या न भवेदियं जनैः।
प्रभुचित्तमजानती स्वयं नृपमेनं वृतवत्यसाविति॥३७॥
अथवा सकलस्य रक्षितुस्तव दारेषु किमुच्यते मया।
पितुराकुलमेव सन्ततं दुहितृस्नेहमयं हि मानसम्॥३८॥
न च वेत्मिन वक्तुमीदृशं न तवान्या समुता शकुन्तला।
नदुदीरय पथ्यमेतयोरुचितं वा नृपसन्निधिं गता॥३९॥
इति तां कथयन्मुनिःस्वयं क्षणमास्राम्बुनिरुद्धवागभूत्।
अरुदत् सुतरां शकुन्तला रुदितप्राय इवाश्रमोऽप्यभूत्॥४०॥
अथ तन्मुनिशासनं दधौ गुरु भाध्वी च तथेति वादिनी।
कुसुमं सुरवल्लरीव सा फलजन्मानुगुणं दिवौकसाम्॥४१॥
परिगृह्य भुजे शकुन्तलामथ दुःपन्तसुतं भुजान्तरे।
द्रुतमुत्पतिता सुराङ्गना दिवि हंसीव गृहीतपोतका॥४२॥
मरुतानुगुणेन गच्छतां दिवि तेषां घनमण्डलं घनम्।
कृतमातपवारणं मह163न्मणिदण्डीकृतशक्रकार्मुकम्॥४३॥
मणिहर्म्यकरैरुदञ्चितैः श्रियमाक्रष्टुमिवोद्यतां दिवः।
अचिरादिव ते नभस्स्थलादवतेरुर्नगरीं नरेशितुः॥४४॥
अथ कञ्चुकिभिर्निवेदिताः कनकस्तम्भसहस्रकेमरम्।
नृपमन्दिरमिन्दिराश्रयं विविशुस्ते भ्रमरा इवाम्बुजम्॥४५॥
ददृशुर्मणिविष्टराश्रयं कमलोल्लासकरं नरेश्वरम्।
उदयाचलशृङ्गमङ्गिनंदिवसाधीशमिवोज्ज्वलद्युतिम्॥४६॥
शिरसैव दधार साञ्जलिं परिणेतुःप्रणता शकुन्तला।
वदनेन्दुरुचेव मीलितं भुजनालद्वयमेकमम्बुजम्॥४७॥
घनमाचरणभ्रु164लज्जया धवेलक्षौमपटावकुण्ठिता।
विरराज तदा शकुन्तला शरदभ्रावरणेव चन्द्रिका॥४८॥
धवलातपवारणाद्दते सितवालव्यजनद्वयं विना।
उदितःसुरयोपिता तया नृपमृनुःपितुरग्रहीत् पदम्॥४९॥
विजयस्व विशामधीश! मां ननु माध्वीमधुना165 स्मरिष्यसि166।
नहि जातुचिदाश्रितो जनः मुजनानां हृदयाभिवतते॥५०॥
परिणीय तपोवने त्वया नवगर्भा निहिता शकुन्तला।
अथ केसरिणीव वीरसूः सुतमेनं सुषुवे सुमध्यमा॥५१॥
तदसौ तव सूनुरिप्यतां तवचैषा167महिपीशकुन्तला।
इह कण्वनियुक्तया मया त्वदुपान्तं विपिनादवापितौ॥५२॥
इति साहितसारमेतयोर्मुनिसन्दिष्टमुदीर्य भूभुजे।
विरराम गिरामविस्तरः प्रभुतन्त्रे हि नितान्तमिप्यते॥५३॥
प्रियदारसुतावलोकनादलमन्तर्हृषितोऽपि पार्थिवः।
पिदधे जनवादशङ्कया विकृ(ति?तिं) छद्मकृतामिव श्रियम्॥५४॥
प्रतिकूलमिवोपचक्रमे प्रतिवक्तुं परिशोधयन् प्रियाम्।
कनकस्य हि168 शुद्धिरिप्यते दहनच्छेदनिकापलक्षणा॥५५॥
मुनयःखलु सत्यवादिनः त्वमपि प्रत्ययिता तथाप्यहम्।
न च वेद्मि मया कृत कुतःस्वकृत169 कःप्रतिबोध्यते परैः॥५६॥
बहुकैतवकोविदाःस्त्रियो नहि तासामवशःपुमान् मुवि।
इति मास्तु मदाश्रया कथा विकलङ्काःखलु पौरवेन्दवः॥५७॥
इह भव्यसुता समागता वनिता रूपवती कुतश्चन।
अधुना महिषी नृपस्य सेत्ययशो नूतनमातनोमि किम्॥५८॥
अथ तस्य गिरं सुराङ्गना द्विपरामन्यपरा च सवृतिम्170।
अवधार्य तथैव सावदन्मतिरेका हि मनीषिणा मिथः॥५९॥
स्वयमाचरित न वेत्सि चेत् परवृत्तान्तपरीक्षया कृतम्।
ननु चारदृशा महीतल सकल पश्यति य स पार्थिवः॥६०॥
इदमद्भुतमद्भुताद्भुत भवता यद् ध्रियते वसुन्धरा।
अधकीर्त्तिरततिभूभुजा171मिह गज्ञीपभुनक्ति भूतलम्॥६१॥
अवनेरवने हि लाघव भवता भव्याधिया विभावितम्।
अवधानमृतेऽपि यद् द्विषाशिरसि स्थापितमात्मना पदम्॥६२॥
न भवानिव पार्थिवोऽभवन्न भविष्यत्यधुना न वर्तते।
यदमौ तव सत्यवादिता यदिद बुद्ध्यवधानमीदृशम्॥६३॥
धनमर्थयते शकुन्तला यदि हैमाचलशृङ्गसम्मितम्।
धनदादपि हर्तुमीश्वरस्तनयोऽस्या सशर बहन् धनु॥६४॥
इति धीरमुदीरितस्तया नृपतिर्ध्याननिमीलितेक्षण।
सुखसुप्त इवाभवत क्षणदयितापत्यसमागमोत्मवे172॥६५॥
अशृणोदशरीरिणीं गिर जनसन्तापहराजनाधिप।
घनघोषमनोहरस्वरा नभसो वृष्टिमिवाथ ता नवाम्॥६६॥
प्रतिबिम्बमिवात्मसम्भव निजसादृश्यधर महीपते।
विभृहि त्वममुं कुलाङ्कुरं नव सत्यं महिषी शकुन्तला॥६७॥
इति नाकमद्मनि विजृम्भितां गिरं नृपतिर्निशम्य परिषस्वजे सुतम्।
मुमुदे च मूर्ध्नि मुखमर्पयन् मुहुः क्षितिभारविश्रमसुखादिवात्मजे॥६८॥
इति कृष्णविरचित भरतचरिते नवम सर्गः॥
________________
शतपत्रमिवामुष्य श्वेतमातपवारणम्।
उद्धृतं चामरद्वन्द्वहंसदोलायिताञ्चलम्॥८॥
रञ्जयामास भरतो रक्तामपि वसुन्धराम्।
दुःपन्तोऽपि तथाभूतां कृतकृत्यःशकुन्तलाम्॥९॥
एकःसत्राणि कर्माणि चकार भरतःस्वयम्।
तान्येव बहुभिःसार्धेेदुःपन्तस्तु चकार सः॥१०॥
शक्त्या युक्तोऽथ भरतःप्रतापैरजयन्महीम्।
स शकुन्तलया साकं दुःपन्तःक्रतुभिर्दिवम्173॥११॥
तातःशास्त्रेण शास्योऽभूत् तातेन तनयो वशी।
तेन पृथ्वीति तद्राज्यं मसोपानमिवाबभौ॥१२॥
परस्पराविरोधेन यथाकालानुरोधनम्।
म मन्त्रिवर्गःसंभूय तौ सिषेवे यथोचितम्॥१३॥
भरते स्थापिते राज्ये विद्विषस्तस्य तेजमा
यातास्ते दूरमाशासु तिग्मांशोरिवकौशिकाः॥१४॥
शासन युवराजस्य तस्य नूनं महीभुज।
अभ्यर्थ्य शिरसा श्लाघ्यं किरीटमिव लेभिरे॥१५॥
तस्य प्रतापदीप्ताशौदीप्यमाने दिवानिशम्।
नकञ्चरैरपि प्रायःस्खलित न पदात्पदम्॥१६॥
लब्धप्रशमनोऽप्येष नीतिं नैव मुमोच सः।
अङ्गवृद्धिकरीं सिद्धा स्वस्थःपथ्याशितामिव॥१७॥
स प्रायुद्ध नयं प्राज्ञःकालदेशावलङ्घयन्।
चललक्षानुसारीव शरमोक्षं विचक्षणः॥१८॥
प्रजावृत्त्याविरोधेन174 काले काले महीपतिं।
दुदोह गामिमां पुष्टां रत्नक्षीरामनामयाम्175॥१९॥
अरातिकामदहनमशेषालोकनक्षमम्।
तस्य चाराह्वयं चक्षुस्तृतीयमभवद् विभोः॥२०॥
कोदण्डपाणिना तेन नियम्योऽभून्न कश्चन।
तदाज्ञया निवृत्ता यत् प्रजास्ताः पापकर्मणः॥२१॥
भरते शासति महीं व्याधाना कूटविग्रहः।
प्रवाद उपमर्गाणा विपादो बर्हिणामभूत्॥२२॥
कृषीवलाः खलाधाराः कुलायमुखराः खगाः।
परस्वापहराः176 सूतास्तस्मिन् पालयति क्षितिम्॥२३॥
परागस्तारका वाताः सत्पथोल्लङ्घिनो घनाः \।
वशकण्टकिनः शैला बभूवुस्तस्य शामने॥२४॥
अथ तस्याभवन् भार्यास्तिस्रो वैदर्भसंभवाः।
समग्रगुणसम्पन्नाः कृतयः सुकवेरिव॥२५॥
स ताभिः शुशुभे राजा तिसृभिर्धर्म्यवृत्तिभिः।
श्रुतिभिर्मूर्तियुक्ताभिर्धर्मो विग्रहवानिव॥२६॥
अथ तम्य पिता पुण्यैरगण्यैश्विरसंभृतैः।
जरयेव भृशोद्विग्नोनित्या निर्जरतामगात॥२७॥
मन्त्रिवृद्धास्ततस्तस्य समिद्धशोकपावकम।
विवेकवारिधाराभिःशमयाचक्रिरेशनैः॥२८॥
पितुः पुरोधमा माक सविधायांत्तरा क्रियाम्।
अधिंनरतोपयामास न तु रन्ध्रार्थिनोरिपून्॥२९॥
प्रायेण स्वप्रतापोऽपि पित्रा तस्मिन्निचिक्षिपे।
अप्रधृष्यःप्रतापोऽभूत् तदनन्तरमस्य यत्॥३०॥
शनैर्मृदुकराक्रान्ता सानुरागा वसुन्धरा।
भोगयोग्या बभूत्रास्य नवोढेव भृशानता॥३१॥
आद्यन्तगुणवन्धेन नमितास्तस्य भू भुजः।
परप्रहरणार्थाय चापदण्डा इवाभवन्॥३२॥
साम सौम्येक्षणं तस्य दानं मौलौ पदार्पणम्।
भेदो वैरिपु सौजन्य दण्डःकोदण्डधारणम्॥३३॥
नीतौ निलोंठितास्तेन वीणायामिव षड्गुणाः।
प्रयोगकौशलादर्थान् रागानिव वितेनिरे॥३४॥
अचिन्त्यशक्तिराक्रामन् जगतीं जगतीपतिः।
वर्धयामास राज्याङ्गान्यात्माङ्गानीव वामनः॥३५॥
गूढमन्वोद्भवोऽप्यस्य प्रथितोऽभूत् पराक्रमः।
अलक्ष्यवीजविक्षेपो महानिव वटद्रुमः॥३६॥
अथ स्वच्छाम्बरच्छाया पद्मोपायनधारिणी।
शरदेनमनुप्राप्ता दुतीव177 विजयश्रियः॥३७॥
हंसमन्दपदन्यासा178 निवृत्तघनघट्टना।
पट्पदौघपटच्छन्ना निमृतेवाभिसारिका॥३८॥
प्रावृड्धनमपीपातकल्मापमुपितद्युतिम्।
आदर्शमिव कुर्वाणा धवलं179 धवलद्युतिम्॥३९॥
पद्मिनीनामभिमतं प्रावृषा क्वापि गोपितम्।
दर्शयन्ती पुनर्दक्षा दूतीव तपनद्युतिम्॥४०॥
सद्वर्त्मपिहितं मेधैःशरदा विशदीकृतम्।
अभूद् दोषाकरःशुद्धस्तपनस्तपनोऽप्यभूत्॥४१॥
स्वच्छमभ्रमरं रेजे रेजे सभ्रमरं सरः।
शालयःकणिकां भेजुर्जलदाःकणिकांजहुः॥४२॥
शिखण्डिभिस्त्यक्तमदैःकेकालीला विवर्जिता।
उत्फुल्लकमले हंसैःके का लीला विवर्जिता॥४३॥
पाण्डरैःपवनोद्धूतैः पयोदैर्द्यौरराजत।
निसर्गलघुभिस्तूलैःसमाकीर्णेव शल्मलिः॥४४॥
आश्यानघनजम्बालं तारामुक्तास्तृतं नभः।
अगस्त्यपीतनिस्तोयमनुचक्रे180 पयोनिधिम्॥४५॥
विद्युत्स्वर्णशलाकानां काषशाणान्नभस्तलात्।
रेखास्वर्णमिवान्मृष्टं शरदा शक्रकार्मुकम्॥४६॥
मलीमसघनाश्लेषैर्दूपितेव नभस्थली।
ज्योस्रासुरसरित्तोये गाहते स्म मुहुर्मुहुः॥४७॥
प्रणम्येव प्रियां रात्रिं प्रसारितकरःशशी।
प्रसादयामास मुहुः प्रवासकलुपीकृताम्॥४८॥
आशा विशालाःसञ्छन्नाःसवित्रा जीवनार्थिना।
प्रसारितकरेणाशु कृपणेनेव दर्शिताः॥४९॥
संभोक्तुं सरितां सारं प्रच्छन्नैःकरपातनैः।
वेगमम्बुधियात्रायां मन्दीचक्रे दिवाकरः॥५०॥
स्निग्धशुद्धात्मपक्षाणां वाहिनीमध्यवर्तिनाम्।
उत्थानं राजहंसानां बभूव विजये क्षमम्॥५१॥
सारसाकुलिताम्भोजपदनेन सरोजिनी।
भृङ्गस्वरेण गायन्ती राजहंसानतोपयत्॥ ५२॥
रक्ता इव करन्यासैरह्नमीशस्य रागिणः।
हृदयं दर्शयामासुर्गम्भीरमपि निम्नगाः॥५३॥
कदम्थशाखांसंत्यज्य जीर्णामकुसुमोद्गमाम्।
मधुव्रताःकिं नलिनीं व्रतभङ्गभयाद् ययुः॥५४॥
नलिनीपु बभूव श्रीर्जातालीना च सा श्रिये181।
आश्रितेषु हि दृश्यन्ते गुणभाजा हि सम्पदः॥५५॥
अनुकूलमुपरिलप्य कुर्वन् दन्तक्षतिं मुहुः।
ममर्द निम्नगा गाढं रममाणो मतङ्गज॥५६॥
तदाशुकवयःप्राप्य वध्नन्तो मधुरा गिरम्।
कणिकादानलुब्धेन निरस्ताःशालिशालिना॥५७॥
नाम्ना राजापि नक्षत्रैःशुशुभे दिवि चन्द्रमाः।
भरतस्तु महाराजःक्षत्रैरुर्व्यामराजत॥५८॥
इत्थंशरदमालक्ष्य दीप्ता शक्तित्रयीमिव।
यानमावेदयामासुर्भरतस्याथ मन्त्रिणः॥५९॥
वेत्ति वेद्यं भवान् सर्वेतथाप्यस्माभिरुच्यते।
विजानन्तोऽपि विज्ञाप्याःप्रभवो ह्यनुजीविभिः॥६०॥
यानकालममुं प्राहुःकाल शक्तोऽप्यपेक्षते।
अकाले निहितं बीजं न शक्तमपि रोहति॥६१॥
अत्युप्णेनिर्जले काले यातुःसीदन्ति दन्तिनः।
दन्तिभिर्दुस्तरा सेना भीमग्राहैरिनापगाः॥६२॥
ततःशरदि याहि त्वं विषयं प्रति विद्विषाम्।
तत्र नम्राननाःपश्य शालीःशत्रुवधूरिव॥६३॥
पक्वसस्यानि राष्ट्राणि द्विषतां प्राप्य तावकाः।
वृत्त्याक्षेपेण182 वर्तन्तां गर्जन्तःसैनिकर्षभाः॥६४॥
शक्तैयातव्यमित्येके परव्यापदि केचन।
तव नैसर्गिकी शक्तिर्वनेरिव परान् प्रति॥६५॥
अतन्त्रं हि परव्यापत् मानिनःशक्तिशालिनः।
केसरा किं मदाकान्तं नाक्रामति मतङ्गजम्॥६६॥
भिन्नमुख्यं बलं कुर्यातपृष्ठतः पार्प्णिशुद्धये।
कर्षन्त्यभिन्नसङ्घातं सूत्रप्रोतमिवारयः॥६७॥
पृष्ठकोपावरुग्णस्य पुरः183सिद्धिःसुदुर्लभा।
च्छिन्नमूलस्य वृक्षस्य नहि मूर्धा फलिप्यति॥६८॥
सुपर्ण इव सत्पत्रैर्भीषणःपरपक्षिणाम्।
आवेष्टितो महानागैः स्कन्धावारो निवेश्यताम्॥६९॥
परिशोध्य परच्छद्मगर्तशूलादिकं भुवि।
क्रियतां सैन्यविन्यासःपदन्यास इवाम्भसि॥७०॥
ना शत्रुरवमन्तव्यःस्वदेशवलगर्वितः।
अम्भःप्रविष्टमाक्रष्टुंग्राहःशक्नोति दन्तिनम्॥७१॥
आत्मानं गोपयन्नेव शक्तोऽप्याक्रामति द्विपम्।
कृशानुःसंहरत्यमसःकुम्भस्थं न सरिद्वतम्॥७२॥
रुदुध्वापरपुरद्वारं मिथो वद्धक्रमा चमूः।
अरातिमृगपूगस्यवागुरेव निवेश्यताम्॥७३॥
इत्थमुत्थानमावेद्य स्वयमुत्तस्थुपःप्रभोः।
प्रणम्य मन्त्रिणस्तस्थुःसिद्धा इव हरेःपुरः॥७४॥
सम्भाव्य भारतीं तेषां बभाषे भरतस्तदा।
विज्ञापनाभिमुख्यं हि स्वामिन.प्रेमलक्षणम्॥७५॥
हितं च मधुरं चेह यद् भवद्भिरुदीरितम्।
प्रीत्या मया गृहीतंतन्मधुमिश्रपौषवम्॥७६॥
प्रसिद्धमपि वक्तव्यं सचिवैःकालवेदिभिः।
धिषणस्यापि घिपणा तत्र व्यग्रस्य मुह्यति॥७७॥
नीतिमानपि न स्वामी विनामात्यैरुदेप्यति।
नह्यनाधोरणो हस्ती शिक्षितोऽपि रणक्षमः॥७८॥
हेतिमात्रेण मित्रेण काष्ठान्तेषु चराम्यहम्।
अनुयान्तु भवन्तो मां कृशानुमिव मारुताः॥७९॥
वीरःश्रवःसुखमुदारमुदीर्य वाक्यं प्रातःप्रयाणामिति घोषयति स्म भेरीम्।
सा घोषणा घनघटेव विजृम्भमाणा वृष्टिं शशंस शरजालमयीं भवित्रीम्॥८०॥
इति कृष्णविरचिते भरतचरिते दशम सर्ग॥
<MISSING_FIG href="../books_images/U-IMG-1721383676Screenshot2024-07-19153604.png"/>
अथैकादशःसर्गः।
अथ दिशां विजयाय विशांपतिः स नगरान्निरगादरिमर्दनः।
बलभरेण धनं परिमर्दयन्प्रणयिनीं प्रमदामिव मेदिनीम्॥१॥
वपुषितस्य निचिक्षिपुरुच्छ्रितं मणिसुधानलमेत्य पुराङ्गनाः।
विजयमङ्गललाजपरम्परां कुसुमवृष्टिमिवामरयोपितः॥२॥
अनुगुणःप्रसरन् पथि मारुतः क्षितिपतेरधिरूढवतो रथम्।
ध्वजपटाग्रकरेण विनिर्दिशन्दिशमिवोपदिदेश यियासतः॥३॥
कृतयुगस्थितिरेषधुरं वहन्दिशिदिशि184 प्रथितःप्रथयन् गतिम्।
हरिस्यादरिचक्रमनुदुतः185स्वयमिवाध्वनि तस्य रथो बभौ॥४॥
स्वयममुं परतापकरं प्रभुंन परितापयितुं प्रभुरंशुमान्।
तदपि तस्य धराधिपलक्षणं धवलमातपवारणमुद्धृतम्॥५॥
कनकदण्डपरिभ्रमितं विभोः शशिकरद्युति चामरयोर्द्वयम्।
प्रणतिविग्रहसंशयितं द्विपां हृदयमाशु विभक्तमिवाबभौ॥६॥
प्रथममाप स शातमखीं दिशं दिशि दिशि प्रसरन्नपि तेजसा।
समुदयःप्रथितोज्ज्वलतेजसो भवति तां दिशमेत्य रवेरिव॥७॥
रथतुरङ्गतरङ्गसुदुस्तरः पृथुमतङ्गजपोतशताकुलः।
सपदि राजनि मार्गमुपेयुपि क्षितितलं प्रससार वलार्णवः॥८॥
पथि मृदु प्रतिरोधकृतागसाद्विरदखण्डितवप्रमुखाक्रमम्।
क्षितिभृतां कटकं परिमर्दयन्धनमनर्घमवाप्य186पुनर्ययौ॥९॥
तदनु मानवलेन निरुन्धतीं प्रणयिनीमिव पूर्वादेगङ्गनाम्।
तनुविमर्दवशादनुकूलयन्विविधभोगकरीमकरोन्नृपः॥१०॥
चटुलतालदलाङ्गुलिविभ्रमैर्जलतरङ्गमृदङ्गरवानुगैः।
ललितनृत्तमिवास्य वितन्वतीमुदधिपारभुवंभरतो ययौ॥११॥
उपनतामनुरागवशात् स्वयं न कलहेन चिराय पराङ्मुखीम्।
अनुबभूव स सुह्मपतेःश्रियं नववधूमिव नातिसमुद्धताम्187॥१२॥
जगति विस्तृतकीर्त्तिलतावले188र्गुरुमुपघ्नमिवोपपयोनिधि।
उपलदण्डमुदारपदाक्षरं नरपतिर्निचखान जयाङ्कनम्॥१३॥
तदनु नौषु विशेषविचक्षणाः स्थलचरा इव वङ्गमहीक्षितः189।
जलधिमेत्य गतागतवेदिनो विदधिरे भरतं धृतकार्मुकम्॥१४॥
तदनु मारुतमस्त्रमुदीरयन्मणिगणानिवशङ्खवराश्रयान्190।
पवननिर्धुतपोतसमाश्रयानयममूनुदकर्षदुदन्वतः॥१५॥
जलमुचामिवमौक्तिकवर्पिणां क्षितिभृतां क्षितिपालमहोदधिः।
वितरति स्म स जीवनमक्षयंविनमतां191 समयादभिवर्षताम्॥१६॥
विजययष्टिमशेषजनार्चिता192विपथगोदधिसंगमरोधसि।
नरपतिर्निचरान शिलामयीमभयदां प्रतिमामिव193 शाम्भवीम्॥१७॥
दवकृशानुशिखाखचितारुणाः194क्षितिधरा इव रेजुरनेकपाः॥२३॥
अतिरयेण195 चचार महारथः196फलसमाकलितागमनिर्गमः।
दिशिदिशि भ्रमयन् करिणां घटा जलमुचां पटलीमिव मारुतः॥२४॥
स युधि कार्मुकदण्डमिवोद्धतं नरपतिं भरतःपरिलालयन्197।
करमरेण निपीड्य वशीकृतं नमयति स्म न खण्डितवानमुम्॥२५॥
अथ महेन्द्रमहाकटकोदरे नरपतेर्मणिवप्रशिलातले।
विलिखिता विजयस्तुतिपद्धतिर्भुवि नरैर्दिव कीर्त्तिधरैःसुरैः॥२६॥
नरपतिःप्रययावथ दक्षिणां दिशमनेकजनेशनिपेविताम्।
उदधिपानविमोक्षणकर्मणः स्वयमगस्त्यमुनेरिव दक्षिणाम्॥२७॥
मथितमालवकान्ध्रमहांदधिः म जितकाञ्चिरुदञ्चितविक्रमः।
अथ ददर्श कवेरसुतां नदीं जलनिधेरिव बन्धनश्रृट्खलाम्॥१५॥
सलिलकेलिपुचोलमृगीदृशां क्रूचविघट्टनयेव कृतश्रमा।
भरतकुञ्जरकुम्भतटहर्ति धनतमामसहिष्ट सरिद्वरा॥२९॥
नगरपञ्जरनिघ्नितविग्रहं तदनु चोलमृगेन्द्रमसौ नृपः।
अभयदाननिवर्तित198विक्रियं199नमयति स्म करग्रहणेन तम्॥३०॥
अथ जयाय स पाण्ड्यमहीपतेः कटकमाभरणं प्रथितं भुवः।
कनकसारविनिर्मितमभ्यगान्मणिमयं मणलूरपुराहयम्200॥३१॥
हृदि लुठन्नवमौक्तिकमण्डनां ग्राफरलोलद्दशं कुमुदस्मिताम्।
बलभरेण ममर्द महीपतिः प्रियतमामिवरत्नमुवंनदीम्॥३२॥
तदनु पाण्ड्यमखण्ड्यपराक्रमं तनुतरेण रणेन विजित्य सः।
कनकमौक्तिकरत्नचयाञ्चितं करमिवाषुकरं विजयश्रियः॥३३॥
जितवता भरतेन यशोर्थिना विलिखिता निजनामपदाक्षरैः।
विनिहिता विजयाङ्कशिलोदधेस्तटभुवि प्रतिमेव जयश्रियः॥३४॥
अयमपि क्षितिधारणकर्मणा क्षितिभृदेव बलेन विलङ्घयताम्।
इति स सह्यमलङ्घयदुच्छ्रितं कटकदुर्गधरं कनकाश्रयम्॥३५॥
तटभुवि स्फुटितोज्झितवीजया विततया सुरभीकृतमेलया।
पपुरमुप्यवलानि यथेप्सितं तदनु सह्यभुवा सरिता जलम्॥३६॥
अथ गिरेरिव पक्षपरम्परा जलनिधेरुपरि प्रविसारिताम्।
परशुराममहास्त्रविनिर्मितामवततार महीं स महारथः॥३७॥
कलितनीतिरसौ किल201 केरलक्षितिपतिः पुनरात्मसमर्पणात्।
अनुविवेश शशीव दिवाकर रुचिरया कलया202 भरतं विभुम्॥३८॥
तदनु पश्चिमसागरपारगं समधिगम्य स राजकमंण्डलम्।
वसुचयं हरति स्म यथोचितंन तु निसर्गकृता श्रियमक्षताम्॥३९॥
यवनसैन्यममन्यत दुर्जयं निजधनुर्नमनेन विना नृपः।
न खलु दग्धुमृते203 वडवानलं204प्रभवति प्रसभं पयसा निधिम्॥४०॥
न हि शराः किल केवलमाशुगाः प्रहरता भरतेन समर्थिताः।
युधि गताः प्रसभं हतशेषतामसुहृदोऽपि भयेन यदाशुगाः॥४१॥
करमवाप नृपो यवनाधिपादभयमात्मपद च ददौ स्वयम्।
उपकृतो(पि?हि) महानुपकारिणामुपकरोति पुनर्द्विगुणोदयम्॥४२॥
मधुरसावनभूपु निषेदिवानजिनकम्बलरत्नवतीपु सः।
अनुबभूव जयश्रियमूर्जितां205धनरसार्द्रहिमाम्बुहृतश्रमः206॥४३॥
अथ दिशं द्रविणेशवशीकृतामभिजगाम जयाय जनाधिपः।
क्षितिभृता कटकं पथि मर्दयन् वनकरीवबलं महदाश्रितः॥४४॥
मथितसिन्धुपतिर्जगृहे श्रियं मणितुरङ्गमरत्नपुरस्कृताम्।
भ्रमितभूमिभृदेप महीपतिः स भगवानिवचक्रधरः स्वयम्॥४५॥
तदनु हूणगणाधिकृतान्नृपः पुरवरादवलिप्तमहामटात्।
अहरदेव स सारमनुद्धृतादहिकुलाकुलितादिव चन्दनात्॥४६॥
रथतुरङ्गखुराग्रविभर्दितः सपदि कुडकुमरेणुरराजत।
नृपतितिग्मरुचेस्तपतः परान्गगनवर्त्मनि बाल इवातपः॥४७॥
तदनु जङ्गमभूमिभृता पतिर्गिरिमजङ्गमभूमिभृता पतिम्।
समतयेव समाचितमत्सरो बलभरेण रुरोध जिगीषया॥४८॥
द्विरदश्रृङ्खलया दलितत्वच प्रमथिताः किल भूर्जमहीरुहः।
विधुतपल्लवपाणिपुटेरल क्षतरुजेव चिराय चकम्पिरे॥४९॥
क्षितिभृतः क्षितिभृत्पतिमाश्रिताः शरमुचे भरताय करं ददुः।
न खलु तुङ्गसमाश्रयणं नृणा तदधिके परिपन्थिनि साधनम्॥५०॥
इत्थं दुग्ध्वा गामिमां चापवत्सां रत्नक्षीरां प्रस्नवार्हांसुपेन।
गीर्वाणानां पुष्पवृष्टिं दधानो राज्ञां नाथः स्वां पुरीमाविवेश॥५१॥
इति कृष्णविरचितेएकादश. सर्ग॥
<MISSING_FIG href="../books_images/U-IMG-1721567684Screenshot2024-07-17214827.png"/>
अथ द्वादशः सर्गः।
विजित्य पृथ्वीमिति निःसपत्नां लोकान्तरं जेतुमिव क्षितीशः।
आवर्त्तयामास तुरङ्गमेधमाहूय कण्वं मुनिमध्वरज्ञम्207॥१॥
दुःषन्तसूनुर्भरतो हि यष्टा कण्वः पुनर्याजयिता महर्षिः।
स्थानं प्रयागः क्रतुरश्वमेधश्चतुष्टयं तत् क्रियते फलाय॥२॥
फलाभिसन्धानमृते चकार वह्नौहविस्त्यागमसौनरेन्द्रः।
पदं हि लोकोत्तरमात्मनश्चेत्क्षुद्रं पदं प्रार्थयते न धीरः॥३॥
स भूपतिः कर्मसु दीक्षितोऽपि चकार भङ्गया चतुरोऽप्युपायान्।
साम स्तुतौ दानमथापदाने भेदं च मैत्रावरुणे च दण्डम्॥४॥
क्रियां प्रयोज्या प्रतिपादयत्सु प्राप्तेषु तत्रार्थपरेषु तेषु।
विप्रेषु मन्त्रेषु च तस्य राज्ञो यथार्हमर्थप्रतिपत्तिरासीत्॥५॥
नूनं नरेन्द्रः सवन गतोऽपिनैव स्वधर्म विनिहन्तुमैच्छत्।
स विग्रहे कृष्णविषाणयापिकण्डूमसौ येन निरास धीरः॥६॥
स सप्ततन्तुं विधिना विधाय सदक्षिणं ब्राह्मणतर्पणान्तम्।
रेजे स राजावभृथार्द्रमूर्त्तिः शुद्धाम्बरश्रीः शरदीव चन्द्रः॥७॥
समुद्वहद्भिः कनकश्रियं ता करप्रसारैः कृतमूरिवर्षैः।
आपूरयामास स दक्षिणाशामम्यर्थिनां सस्यवतामिवार्कः॥८॥
अथाहृतं मातलिना मघोनः सुवर्णरत्नोपचितं रथाग्र्यम्।
आलोकयामास स लोकपालः पुण्यार्जितं लोकमिवावतीर्णम्॥९॥
नूनं गुरुं भारमिमं न वोढु क्षमेयमुवींति विशङ्कमानः।
स मातलिस्तं रथमन्तरिक्षे निवेशयामास नियम्य वाहान्॥१०॥
विद्योतमानः स मणिप्रभाभिर्विद्युद्भिरम्भोद व स्थिराभिः।
अग्रे नरेन्द्रस्य सुरेन्द्रसूतः प्रतोदपाणिः प्रणतोऽवतस्थे॥११॥
पाद्यासनाद्यैः स्वयमेव राजा सम्भावयामास महेन्द्रसूतम्।
प्रायः प्रभूणामनुजीविनोऽपि श्लाघ्याधिकारेण भवन्ति मान्याः॥१२॥
आनन्दसिन्धुस्नपनेन शुद्धा मन्दस्मितक्षौमपटं वसाना।
दन्तच्छदश्रीनवकुङ्कुमार्द्रा वाणी मुखेन्दोर्नृपतेरुदस्थात्॥१३॥
प्रष्टुं न युक्तं कुशलं मघोनः सम्भाव्यमन्यत् किमिवेश्वराणाम्।
अथ प्रतापादिषु तस्य दैत्याः स्वोच्छेदमिच्छन्ति पतङ्गवृत्त्या॥१४॥
मन्ये तवाभ्यागमनं महार्थमनुग्रहायैव परं कृतं नः।
अथात्मदत्तांहरिरस्त्रशिक्षां दैत्योपमर्देषु दिद्दक्षते नः॥१५॥
तं मातलिः प्रत्यवदन्नरेन्द्रं सारं समाहृत्य सुरेन्द्रकार्यम्।
प्रभूतमर्थंप्रभवन्ति वक्तुमल्पाक्षरैरेव पदैर्महान्तः॥१६॥
नित्यावलिप्तैः समरेषु दैत्यैः पाताननाद्दत्य शिलीमुखानाम्।
आकृष्टपद्मा नलिनीव नागैरालोड्यते तैर्नगरी सुराणाम्॥१७॥
अतस्त्वया दैत्यजयाय जिष्णोः साह्यंविधेयं दनुजद्विषेव।
न नन्दको विद्विषतामसिस्ते नाम्नापि शैरेरियती भिदा ते॥१८॥
तथेति राज्ये सचिवान् निधाय निश्शब्दपातं रथमन्तरिक्षे।
आलम्ब्य चापं स गृहीतचक्रो हरिर्गरुत्मन्तमिवारुरोह॥१९॥
उत्कण्ठया यातुमनेन सार्धं यावत् कटाक्षाः पुरसुन्दरीणाम्।
उत्पेतुरार्द्राःक्षणमुत्पलाभास्तावद् रथं मातलिरुन्निनाय॥२०॥
अथ प्रतिष्ठानपुराङ्गनानामपाङ्गयष्टिं सविलङ्घय राजा।
आलम्बनायैव कटाक्षवल्लीमवाप वृन्दारकसुन्दरीणाम्॥२१॥
उद्घाटितैर्द्वारकवाटनेत्रैरूद्वीक्षमाणामिव कौतुकेन।
लोलैःप्रनृत्तामिव केतुपट्टैः पौरन्दरीमाषपुरीं नरेन्द्रः॥२२॥
सम्भावयिष्यन् नरलोकपालमभ्युद्गमेन त्रिदशाधिनाथः।
दैतेयरक्ताक्तचतुर्विषाणभेरावतं वारणमारुरोह॥२३॥
अन्योन्यसंघट्टितपवपार्श्वै विरेजतुस्तौ विशिखां विशन्तौ।
आकाशवीथीमवगाहमानौ भास्वन्मृगङ्काविव तुल्यकालौ॥२४॥
रत्नोपलादर्शसमुद्गहरताः कल्याणमाल्याभरणा नरेन्द्रम्।
प्रत्युद्ययुस्तं सुरवारकान्ताः सञ्चारकल्याइव कल्पवल्ल्यः॥२५॥
पत्रादवारुह्य नरामरेन्द्रौ सभां सुधर्मांसमवापतुस्तौ।
उत्तुङ्गचामकिरचारुवप्रां शुभां सुमेरोरिव केसरीन्द्रौ॥२६॥
तमर्घ्यपाद्यादिभिरर्चयित्वा निजासनार्धे विनिवेश्य शक्रः।
आश्लिष्टमालोक्य यथा ननन्द सद्यः प्रसूतं न तथा जयन्तम्॥२७॥
अगाधसत्त्वोऽपि हरिर्बभूव नरेन्द्रचन्द्रं प्रतिपद्य लोलः।
आनन्दविभ्रान्तसहस्रनेत्रः संभ्रान्तपाठीन इवाम्बुराशिः॥२८॥
अपीतशिष्टाममृतस्य धारामार्द्रस्मितव्याजवतीं विधाय।
सुखोपविष्टं निजविष्टरार्धे त्रिविष्टपेन्द्रः पृथिवीन्द्रमूचे॥२९॥
प्रेयस्तवाभ्यागमनं ममेति वक्तुं न साक्षात् स्वजनेषु युक्तम्।
आचारमात्रेण तु वाच्यमेव पुत्रेऽपि नूनं गृह्ममभ्युपेते॥३०॥
निहत्य दैत्यानमरैरवध्यान् दिवं भवान् भूमिगतो भुनक्ति।
स्वस्था वयं केवलमाज्ञयैव बिभर्षि लोकद्वितयं यतस्त्वम्॥३१॥
हतावशिष्टाः208 समरे त्वया ये स्वपक्षमुत्थाप्य समुत्पतन्तः।
दवाग्निभीता इव खेचरास्तेभूमेदिवं209 प्राप्य चरन्ति दैत्याः॥३२॥
लब्धाश्रयास्ते द्रुहिणप्रसादाद् देवानभिद्रोग्धुममी यतन्ते।
वन्यद्रुमोत्थाः खलु हव्यवाहाः स्वोत्पत्तिवृक्षान् प्रथमं दहन्ति॥३३॥
अंशावतारोऽसि हि दैत्यशत्रोदैत्यानतस्तान् निहनिष्यसि त्वम्।
को नाम दग्धुं क्षमते पयोधीनुपर्बुधं बाडवमन्तरेण॥३४॥
इत्युक्तवन्तं भरतो बभाषेतवानुभावादसुरान्210 निहन्मि।
न हन्ति शातोऽपि शरः सपत्नान् धनुर्भृतः प्रेरणमन्तरेण॥३५॥
गोप्ताथ लोकस्य स दीप्तहेतिः परान् प्रतापैः परितापयिष्यन्।
हरेर्नियन्त्रा हरिभिर्निबद्धं हरिः स्वयं वा रथमारुरोह211॥३६॥
नागेन्द्रमारुह्य नगेन्द्रकल्पं नरेन्द्रमिन्द्रः स्वयमन्वगच्छत्।
अन्वीयमानः सुमनः समूहैदीप्तिं नभस्वानिव दाववह्निम्॥३७॥
गर्जन्तमुञ्चैर्दिवि कालरूपं द्विधाकृताखण्डलचापदण्डम्212।
धनं घनानामिव दानवानां सङ्घं तमेतेदद्दशुः सुरौघाः॥३८॥
अथासुराणां मरुतां च तेषामभूदपूर्वो213 दिवि संप्रहारः।
अन्योन्यभङ्गप्रतिभङ्गभीमः कल्पान्तभाजामिव सागराणाम्॥३९॥
अङ्गानि चत्वारि मिथो यथास्वं द्वन्द्वीबभूवुः समरेपुतेषाम्।
बलानि तुङ्गान्यथवा कुलानिमिथः समानैःसततं घटन्ते॥४०॥
परस्परज्याघनघोषमिश्रा बभूव वृष्टिः शरपातरूपा।
प्रवर्तयामास च सा भटानामङ्गेषु तेषारुधिरस्रव214न्तीम्215॥४१॥
गुणानुविद्धापि धनुर्धराणा दोषानुविद्धा विशिखावली सा।
सपक्षपातापि विपक्षपाता तीक्ष्णापि तेषा हृदयङ्गमाभूत्॥४२॥
प्रयोगसंहारपरम्परासु निवर्तनावर्तनघट्टितानि।
अस्त्राणि तेषां प्रतिहन्यमानान्यासन् मिथो योद्धुमिवोद्यतानि॥४३॥
कर्मारवह्नौ बहुशोऽवगाहादन्तर्निगीर्णानिव विष्फुलिङ्गान्।
अन्योन्यसङ्घट्टनया भटानां कृशानुलेशान् मुमुचुः कृपाणाः॥४४॥
तेषां मदोद्भ्रान्तमधुव्रतेषु प्रबुद्धताम्रोदरपुष्करेषु।
करीन्द्रकासारकुलेषु पेतुः कुन्ताः शकुन्ता इव पक्षपाताः॥४५॥
तुरङ्गयाहाश्चतुरं तुरङ्गैश्चक्रुश्चरन्तो युधि पञ्च धाराः।
शस्त्रैश्च शातैः शतधारकल्पै र्धाराशतं शत्रुषु लोहितानाम्॥४६॥
मुहुर्मुहुर्दैत्यवरान् व्रजन्नी तथामरानप्यसकृद् भजन्ती।
गतागताभ्यां किल साम्पराये ययौ जयश्रीश्चिरमव्यवस्थाम्॥४७॥
मायाप्रयोगेषु कृताभियोगान् दैत्यान् परोदञ्चितवीर्यगर्वान्।
हन्तुं न शेकुस्त्रिदशाः सशकास्वानिन्द्रियार्थानिव देहभाजः॥४८॥
न दैत्यवक्षोभिदुरं बभूव रणे प्रहर्तुर्भिदुरं मघोनः।
स वारणस्तस्य न चारणोऽभूदैरावतः क्षीणविपाणकोटिः॥४९॥
विक्षोभयन्तीं सुरवाहिनीं तां मदेन शैलानपि कम्पयन्तीम्।
स राजसिंहः सहसा प्रसह्य दैत्येन्द्रमातङ्गघटां रुरोध॥५०॥
स मातलिं चोदय चोदयाश्वानिति स्फुटोञ्जृम्भितचापघोपः
अमोघमेकं समधत्त बाणं दैत्यान्तकं देव इवेन्दुमौलिः॥५१॥
स तेन मुक्तेन निकृत्तकण्ठैः सुरद्विपामाननपुण्डरीकैः।
अभ्यर्चयामास कुतान्तमग्रे दैत्योपहारैरिव तर्पयिष्यन्216॥५२॥
आच्छादयामासुरमुं पृपत्कैरच्छिन्नपातैररयः सुराणाम्।
गर्जन्त एवाद्विमुदस्तशृङ्गमासारावर्पैरिव वारिवाहाः॥५३॥
निर्भिन्नदेहावरणान्निजाङ्गान्निर्धूय नीडा(मि?दि)व पत्रिणस्तान्।
चिह्नेन संख्यातुमिवैप दैत्यान् प्रत्येकमेतान् विशिखैर्जघान्॥५४॥
छिन्नैः शिरोभिर्दितिनन्दनानां छन्ना रणक्षोणिरकारि राज्ञा।
मधुद्रवामोदितभीमवक्त्रैर्मृत्योः कपालैरिव कीर्यमाणा॥५५॥
संहत्य दैत्याः परिवेष्टय पत्रैरेनं निजध्नुर्निशितैः पृषत्कैः।
रराज सोऽपि क्षतजोक्षिताङ्ग सन्ध्याधनच्छन्न इवोष्णरश्मिः॥५६॥
अथ क्षणोदस्तशिलीमुखोऽसौ217निकृत्तपद्माननवतिशोभान्218।
कबन्धशेषान् दितिजानसंख्यान् पद्माकरान् वन्यकरीव चक्रे॥५७॥
अन्यानिपून्मुञ्चत एव दैत्यान् निकृत्तकण्ठानकरोन्नरेन्द्रः।
ते संपतन्तो मुमुचुः पुरस्तात्प्राणानिपून्219 वा किमु सिंहनादान्॥५८॥
एकेन मूर्धा नृपबाणलूनः पश्चान्निरस्तः सहसा कराभ्याम्220।
मानं दधानेन पुरः प्रपातादाशङ्कमानेन रिपौ प्रणामम्॥५९॥
अथानिलैरश्मरजोम्बुगर्भैर्मायामयैस्तं दितिजाः प्रजहुः।
अपाहरत् तान् निखिलान् नृपोऽस्त्रैरुस्रैःसहस्रांशुरिवान्धकारान्॥६०॥
निर्मुक्तपत्रिप्रकरानुदग्रान् वेगं शराणां प्रविधाय भूयः।
निष्पत्रतामेष निनाय शत्रूनारण्यवृक्षानिव दाववह्निः॥६१॥
छिन्नायुधाश्छिन्नपरिच्छदास्ते सन्ना वभूबुर्भरतेन दैत्याः।
निलीननिष्कम्पमधुव्रतानि निमेषहीनानि विलोचनानि॥६५॥
नखक्षतानीव शरक्षतानि वीर्यश्रियस्तं दधतं नरेन्द्रम्।
आलिङ्ग्य हर्षेण मुहुर्महेन्द्रस्तं सम्प्रहारश्रममुज्जहार॥६६॥
आपृच्छ्य वास्तोप्पतिमर्हणान्ते भोक्तुं भुवं भूमिपतिः प्रतस्थे।
नूनं जगद्रक्षणदीक्षितानां न जातु विश्राममुपैति चेतः॥६७॥
अथाम्बरे साधु रथं नियच्छन् नरेश्वरं मातलिरित्युवाच।
पश्यार्णवं वीचिभुजैर्धरित्रीमालिङ्ग्य सव्रीडमिवापयान्तम्॥६८॥
तप्तानि भूयस्तपनातपेन त्वद्यानयोग्यानि विधातुकामः।
मन्ये तरङ्गैः शिशिरैरुदस्तैः प्रक्षालयत्येष नभस्तलानि॥६९॥
उपायनीकृत्य महाधनानि रत्नानि वेलोपरि सञ्चितानि।
प्रसार्य तीरेषु तरङ्गबाहून् नमन्निवाभाति पयोनिधिम्त्वाम्॥७०॥
आयाति याति द्रुतमुञ्चिनोति तृणानि काष्ठानि जहाति भूयः।
अनर्थकानेष तनोति शब्दानुद्वेलमुन्मत्त इवाम्बुराशिः॥७१॥
और्वाग्निसन्तापमलीमसोऽपि निर्घातवातैः परुषीकृतोऽपि।
अगस्त्यपीतक्वथितोज्झितोऽपि न जातु लावण्यमसौ जहाति॥७२॥
आकृष्टशार्ङ्गः श्रितशङ्खचक्रः सारं मणीनां हृदये दधानः।
अमेयमन्तर्भुवनं दधानो नारायणस्यानुकरोति चिह्नम्॥७३॥
अस्यानुतीरं कलहंसमाला वेलातरङ्गेषु विगाहमाना।
मुक्ताङ्कुराग्रं दशति प्ररूढमच्छं बिसच्छेदविशङ्कयेव॥७४॥
न क्षीयते बाडबवह्निनासौ न वर्धते प्रावृषि निम्नगाभिः।
सत्त्वाधिकाः सत्स्वपि कारणेषु नूनं महान्तो नहि विक्रियन्ते॥७५॥
जलाशयोऽमौ न विचारशून्यः सुधाकरो न क्षयमेति भूयः।
भङ्गाकुलात्मा न विलङ्घ्यतेऽन्यैः प्रमाणहीनो न जनैरद्दश्यः221")॥७६॥
अमुष्य वीचीनिचयैरुदस्तं निपीय पाथो लवणं पयोधेः।
गुहामुखैः सोढुमशक्नुवन्तः सद्यो वमन्तीव तटान्तशैलाः॥७७॥
सरित्प्रवाहोल्बणशृङ्खला222भिर्वेलाचलालाननियन्त्रिताङ्गः।
नमत्यसावुन्नमति क्षणेन वारांनिधिर्मत्त इव द्विपेन्द्रः॥७८॥
अमानभूभिर्बहुमानभूमिं सदा शयालुः सततं प्रबुद्धम्।
अमुं प्रजानामविशेषबन्धुं विशेषबन्धुंपुरुषोऽधिशेते॥७९॥
अमुप्यकुक्षौ भुवनानि कृत्वा निक्षिप्य नाभीकमले निषण्णः।
पुनस्तदादित्सुरिवाब्जयोनिः साम्ना मुहुः स्तौति तमेव देवम्॥८०॥
अत्रार्णवे श्यामवर्णकान्तिः शेषेशयानः कमलासहायः।
कालाम्बुवाहः कलधौतशैले विद्युल्लताश्लिष्ट इवावभाति॥८१॥
श्रीमन्तमारोपितविश्वभारं पश्याम्बुराशौ हरिपोतमेनम्।
यन्नाभिपद्मोच्छ्रितकूपदण्डेबसन् विरिञ्चः खलु कर्णधारः॥८२॥
इति ब्रुवन्नेव नृपं निनाय पुरीं परार्थ्या पुरुहूतसूतः।
उद्घाटितद्वारकपाटनेत्रैरुद्वीक्ष्यमाणामिव तस्य मार्गम्॥८३॥
पुरस्क्रियान्ते पुरुहूतयन्तुर्दत्त्वा कथंचिद् गमनाभ्यनुज्ञाम्।
आलोकदानेन शशीव लोकमानन्दयामास विशामधीशः॥८४॥
विभ्राणः समकरभूषणां धरित्रीमासीना फणिपतिविष्टरे विशालाम्।
दैत्यारेस्तनुमिवयोगमात्रसिद्धां राजेन्द्रः स सुखमुवास वासवश्रीः॥८५॥
इति श्रीकृष्णाचार्यविरचिते भरतचरिते द्वादश सर्ग॥
भरतचरितं समाप्तम्।
<MISSING_FIG href="../books_images/U-IMG-1721975069Screenshot2024-07-26115353.png"/>
शुभंभूयात्।
]
-
“मन्यान्’ ग पाठ.” ↩︎
-
“‘नो’ ग.पाठः” ↩︎
-
“‘स्या’ स. पाठ.” ↩︎
-
“‘सु’” ↩︎
-
“‘व’ क. पाठ” ↩︎
-
“‘त्स्ना’” ↩︎
-
“‘त्तिम्’ क. पाठ. " ↩︎
-
“‘च’ क. ख. पाठ” ↩︎
-
“‘धुरन्धरेण’” ↩︎
-
" ‘स्रेण स का’” ↩︎
-
“‘र्ग ॥ अष्टा’ ग पाठ” ↩︎
-
" ‘म’ फ. स. पाठ ‘" ↩︎
-
" ‘पिं’ क. ख. पाठ" ↩︎
-
" ‘ल’ ख. पाठः" ↩︎
-
“‘शरीरीव’शरीजन्मा ।’ ग. पाठ.” ↩︎
-
“म्बुघोषम् ‘क ग, पाठ.” ↩︎
-
“‘थ’” ↩︎
-
“‘निशाभी’” ↩︎
-
“‘प्रमदाथ’ ग पाठ” ↩︎
-
“‘वायतनं’ ग-पाठ” ↩︎
-
" ‘सं" ↩︎
-
" ‘रान्क. ख. पाठः" ↩︎
-
" ‘सुमनोभिरामताम् " ↩︎
-
“न्तर चे’ क. ख. पाठ " ↩︎
-
“’‘सा’ ग.पाठ " ↩︎
-
" ‘क्त’ स्व पाठ” ↩︎
-
" ‘रासनार्पिता । वि. क. पाठः” ↩︎
-
" ’ नोमया’ फ. पाठ." ↩︎
-
“‘म्पि’ ग. पाठ .” ↩︎
-
" ‘मनोशव’ प ख. पाठ " ↩︎
-
" ‘जिगाय मेदिनीम् ॥’ ग. पाठः" ↩︎
-
" ‘प’ क पाठ." ↩︎
-
“‘णौ’ ग. पाठः” ↩︎
-
“‘तस्याः सुको’” ↩︎
-
" ‘सा’ क. ग. पाठ" ↩︎
-
“‘नु’ क. ख. पाठ” ↩︎
-
“‘ल्पाः’ ग. पाठ..” ↩︎
-
" ‘छे’ ग. पाठः" ↩︎
-
“‘स’ फ. ख. पाठः” ↩︎
-
" ‘दी’," ↩︎
-
“‘कि’ ख. पाठ” ↩︎
-
“‘रि’ क पाठ.” ↩︎
-
" ‘वीतशो’ ग. पाठः." ↩︎
-
“‘रसाद’ क. पाठ” ↩︎
-
“‘शी’ म. पाठ” ↩︎
-
" ‘वाद्यनि’ ख ग पाठ" ↩︎
-
" ‘वि’, " ↩︎
-
“‘प्रपेदे’” ↩︎
-
“‘ष्म’ ग. पाठ. " ↩︎
-
“यानं क्ष’ फ. पाठः.” ↩︎
-
" ‘नु’ ख. पाठः” ↩︎
-
“‘दोहोर’ ग. पाठः” ↩︎
-
“‘हा’ ख. पाठः” ↩︎
-
“ह” ↩︎
-
“सचारणावे ख पाठ” ↩︎
-
“वनस्थ फ .ग पाठ..” ↩︎
-
“यामिन्यखत्र भानीव फा” ↩︎
-
“‘ग्ता प्रते’ फ. पाठः” ↩︎
-
“‘गु’,” ↩︎
-
" ‘स्त’ स. पाठ" ↩︎
-
“र’’,” ↩︎
-
“‘स’ ख. पाठ.” ↩︎
-
“‘माशुकम्’ क.पाठः” ↩︎
-
“मृदित. कोऽपि केसरी’ ख. पाठः” ↩︎
-
“‘तपत्गु’” ↩︎
-
“णा’ ग. पाठः” ↩︎
-
“‘गि’ फ. पाठः” ↩︎
-
“’ मन्तर्गुभु’,” ↩︎
-
“‘धराहृतम्’ ग. पाठ.” ↩︎
-
“‘तम् । अन्त’ क. पाठ.” ↩︎
-
“वुउहि ख पाठः” ↩︎
-
" ‘स्थ’ स. पाठ" ↩︎
-
“रविर’ क. ख. पाठः” ↩︎
-
“‘खा’ ग. पाठः.” ↩︎
-
“‘नवन’ पाट” ↩︎
-
“’’ . पाठ.” ↩︎
-
“‘‘यै ख पाठ.” ↩︎
-
“‘वम्’ क पाठ.” ↩︎
-
“या’ ग. पाठ..” ↩︎
-
“‘सामिमश्या ॥ व पाद.” ↩︎
-
" ‘रितस्त’ ग पाठ." ↩︎
-
“‘तानयनेन वि’” ↩︎
-
“‘हा’ ग. पाठः” ↩︎
-
" ‘भि ॥ प्रि" ↩︎
-
" ‘वाबलम्’ ग. पाठ." ↩︎
-
" ‘वारिजम् ‘क पाठः." ↩︎
-
" ‘मु," ↩︎
-
“‘वो’ ख. पाठ” ↩︎
-
" ‘णम्" ↩︎
-
" ‘ति’ क. पाठः" ↩︎
-
“‘भि” ↩︎
-
“द्दितप’ क. पाठ..” ↩︎
-
“‘रागदोषम’ ख. पाठ” ↩︎
-
“‘ले’ स. पाठ” ↩︎
-
“‘पपाते’ क पाठ.” ↩︎
-
“‘प’ ग. पाठ” ↩︎
-
“‘ये’ रा पाठ” ↩︎
-
“‘सोपमा " ↩︎
-
“‘भ’ ग, पाठ” ↩︎
-
“‘मा’ क ग पाठ.” ↩︎
-
" ‘शामिमां दशा” ↩︎
-
“‘ये’ ख. पाठ.” ↩︎
-
" ‘यु’ ग. पाठः" ↩︎
-
“‘योनिधौ यो’ क पाठः” ↩︎
- ↩︎
-
“इह चारणशब्दस्य तत्सम्वन्धिनि लक्षणा कल्पनीया । मन्मथयुद्धसज्जीकृतगजसंवन्धिनौ उक्षिप्तौ मस्तकापिवेत्यर्थः समर्थनीयः ॥” ↩︎
-
“‘संयतौ’ ग. पाठः” ↩︎
-
“‘न्धि क. पाठ .” ↩︎
-
“‘चू’,” ↩︎
-
" ‘जिंरे चि’ स पाठ" ↩︎
-
“‘नैश्चिरं’ फ. पाठ.” ↩︎
-
“नू” ↩︎
-
" सुटतसन्तति’" ↩︎
-
" ‘तमपु’ ख पाठ" ↩︎
-
“‘म’ ग. पाठ” ↩︎
-
“‘म’,” ↩︎
-
“‘दान’ क. पा.” ↩︎
-
“दशनच्छ…………दाचित प..रेसा भूयसा य पाठ.” ↩︎
-
“’ तो,” ↩︎
-
“‘दर्शने ग. पाठ” ↩︎
-
“‘प्र’” ↩︎
-
“‘या’ ख. ग. पाठ.” ↩︎
-
“‘गु’ ग. पाठ.” ↩︎
-
“‘तु’ प. पाठः” ↩︎
-
“‘त क पाठ” ↩︎
-
“‘‘द्भि ग. पाठ” ↩︎
-
“‘स’ख. पाठः” ↩︎
-
“‘नात्यन्तभ’ फ. पाठः” ↩︎
-
“‘स्वयं’ दि ख. पाठः” ↩︎
-
" ‘था प ग’ क. पाठः" ↩︎
-
“‘र’ ग. पाठः” ↩︎
-
“‘अथाहिदु’ व. पाठः” ↩︎
-
“‘द्रे’ ग. पाठः” ↩︎
-
“‘त’ ख. पाठः” ↩︎
-
“‘निन्दिता’ क. पाठः” ↩︎
-
“‘गरिमा गरीया’” ↩︎
-
“‘पतीक्ष्णम्’ ख. पाठ.” ↩︎
-
“‘गगभी’ ग पाठः” ↩︎
-
“‘व’ स्व. ग. पाठः” ↩︎
-
“‘सीरायुषो वि’” ↩︎
-
“‘रेण धृतार्घ’ ख. पाठः” ↩︎
-
“‘ते’ क.पाठः” ↩︎
-
“‘सा’ स. पाठः” ↩︎
-
“‘हि’” ↩︎
-
“‘ते’ ग. पाठः” ↩︎
-
“‘बाहुलोलना’” ↩︎
-
“‘वावकी’” ↩︎
-
“‘मुनीन्द्रा’ ग. पाठः” ↩︎
-
“‘सहर’,” ↩︎
-
“‘वमामी’ ग. पाठः” ↩︎
-
“‘ना’ ख. पाठः” ↩︎
-
“‘व’ क. ग. पाठः” ↩︎
-
“‘चिताप’ ग. पाठः” ↩︎
-
“‘भाजाम्’ ग. पाठः” ↩︎
-
“‘शिक्षिभि’ क. पाठः” ↩︎
-
“‘गि’ क. ग. पाठ.” ↩︎
-
“ग्रि क. ख. पाठः.” ↩︎
-
“‘ते’” ↩︎
-
“‘व’ क. पाठः” ↩︎
-
“‘रता’,” ↩︎
-
“‘नां नृणां पि’ ख. पाठः” ↩︎
-
“‘मयाजि’ य. पाठः” ↩︎
-
“‘हाम’ व पाठः” ↩︎
-
“‘ब’ म. पाठः” ↩︎
-
“‘स्य’ व पाठः” ↩︎
-
“‘रगगि’ ग. पाठः” ↩︎
-
“‘चेय म’ ग. पाठः” ↩︎
-
“‘पि’ क. पाठः” ↩︎
-
“‘प्र’क.पाठः” ↩︎
-
“‘प्रति’क.पाठः” ↩︎
-
“‘व’ ग. पाठः” ↩︎
-
“‘द्भ’ क. ग. पाठः” ↩︎
-
“‘प्रकतिदयम’ ख. पाठः” ↩︎
-
“‘नु’ ग.पाठः” ↩︎
-
“‘यम्’ क. पाठः” ↩︎
-
“‘रता सू’ ख.पाठः” ↩︎
-
“‘सखीप’ क पाठः” ↩︎
-
“‘मत्तहंसप’” ↩︎
-
“‘ला’ ख. पाठः” ↩︎
-
“द्ददृ तद् स चिन्त्य.” ↩︎
-
“‘श्र’ग. पाठः” ↩︎
-
“‘ह’ स. ग. पाठः” ↩︎
-
“‘न’ द. स. पाठः” ↩︎
-
“‘तुक्ष दिद्य’” ↩︎
-
“‘नु’ ग. पाठः” ↩︎
-
“‘पास्य’” ↩︎
-
“‘तम्’ग, पाठः” ↩︎
-
“‘श्रियगु’” ↩︎
-
“‘भुज’” ↩︎
-
“‘रवाश्र’ ग. पाठः” ↩︎
-
“‘मित स’ क. पाठः” ↩︎
-
“‘यो जगनोऽर्चिताम्’” ↩︎
-
“‘भा’ ग. पाठः” ↩︎
-
“‘पविता’” ↩︎
-
“‘स्थर’” ↩︎
-
“‘नो’ग. पाठः” ↩︎
-
“‘रो’ क. ख. पाठः” ↩︎
-
“‘वि’ ग. पाठः” ↩︎
-
“‘अहं न’ क., ‘क्रयं न’ ख. पाठः” ↩︎
-
“‘समाद’ ग. पाठः” ↩︎
-
“‘क’ ष. पाठः” ↩︎
-
“‘कु’ स. ग. पाठः” ↩︎
-
“‘दुग्धमृ’ ग. पाठः” ↩︎
-
“‘ल’ क. पाठः” ↩︎
-
“‘मुप्तश्रि’ ग. पाठः” ↩︎
-
“‘सघनसारहि’क. ख. पाठः” ↩︎
-
“‘गुरुम’ ग. पाठः” ↩︎
-
“‘न’ ख. पाठः” ↩︎
-
“‘भ’ ख. पाठः” ↩︎
-
“‘दा’” ↩︎
-
“‘ण’ ग. पाठः” ↩︎
-
“‘ण्ट’” ↩︎
-
“‘तानर्गोघाव’ ख. पाठः” ↩︎
-
“‘र’,” ↩︎
-
“‘न्त’ग. पाठः” ↩︎
-
“‘तापयि’ ग. पाठः” ↩︎
-
“‘णा’” ↩︎
-
“‘पनीत’” ↩︎
-
“‘नमून् वा’” ↩︎
-
“‘रेण’ ग. पाठः” ↩︎
-
“(शृङ्गय शङ्कयः ↩︎
-
“‘जज्वलशृ’ ग. पाठः” ↩︎