[[किरातार्जुनीयम् Source: EB]]
[
[TABLE]
[TABLE]
मङ्गलाचरणम्।
———
अर्द्धाङ्गीकृतदाम्पत्यमपि गाढ़ानुरागि यत्।
पितृभ्यां जगतस्तस्मै कस्मैचित् महसे नमः॥१॥
आलम्बे जगदालम्बं हेरम्बचरणाम्बुजम्।
शुष्यन्ति यद्रजःस्पर्शात् सद्यः प्रत्यूहवार्द्धयः॥२॥
तद्दिव्यमव्ययं धाम सारस्वतमुपास्महे।
यत्प्रसादात् प्रलीयन्ते मोहान्धतमसश्छटाः॥३॥
वाणीं काणभुजीमजीगणदवाशासीच्च वैयासकी-
मन्तस्तन्त्रमरंस्त पन्नगगवीगुम्फेषु चाजागरीत्।
वाचामाकलयद्रहस्यमखिलं यश्चाक्षपादस्फुरां
लोकेऽभूद्यदुपज्ञमेव विदुषां सौजन्यजन्यं यशः॥४॥
मल्लिनाथकविः सोऽयं मन्दात्मानुजिघृक्षया।
तत्किरातार्जुनीयाख्यं काव्यं व्याख्यातुमिच्छति॥५॥
नारिकेलफलसम्मितं वचो भारवेः सपदि तद्विभज्यते।
स्वादयन्तु रसगर्भनिर्भरं सारमस्य रसिका यथेप्सितम्॥६॥
नानानिबन्धविषमैकपदैर्नितान्तं
साशङ्कचङ्क्रमणखिन्नधियामशङ्कम्।
कर्त्तुं प्रवेशमिह भारविकाव्यबन्धे
घण्टापथं कमपि नूतनमातनिष्ये॥७॥
इहान्वयमुखेनैव सर्वं व्याख्यायते मया।
नामूलं लिख्यते किञ्चिन्नानपेक्षितमुच्यते॥८॥
———
किरातार्जुनीयम्।
<MISSING_FIG href="../books_images/U-IMG-1729332855Capture4.JPG"/>
प्रथमः सर्गः।
श्रियः कुरूणामधिपस्य पालनीं
प्रजासु वृत्तिं यमयुङ्क्त वेदितुम्।
अथ तत्रभवान् भारविनामा कविः “काव्यं यशसेऽर्थकृते व्यवहारविदे शिवेतरक्षतये। सद्यःपरनिर्वृतये कान्तसम्मिततयोपदेशयुजे॥” इत्याद्यालङ्कारिकवचनप्रामाण्यात् काव्यस्य अनेकश्रेयःसाधनताम्, “काव्यालापांश्च वर्जयेत्” इति निषेधशास्त्रस्य असत्काव्यविषयताञ्च पश्यन् किरातार्जुनीयाख्यं महाकाव्यं चिकीर्षुः चिकीर्षितार्थाविघ्नपरिसमाप्ति-सम्प्रदायाविच्छेदलक्षणफलसाधनत्वात् “आशीर्नमस्क्रिया वस्तुनिर्देशो वापि तन्मुखम्” इत्याद्याशीर्वादाद्यन्यतमस्य प्रबन्धमुखलक्षणत्वाच्च वनेचरस्य युधिष्ठिरप्राप्तिरूपं वस्तु निर्दिशन् कथामुपक्षिपति। श्रिय इति। आदितः श्रीशब्दप्रयोगाद्वर्णगणादिशुद्धिः अत्र उपयुज्यते। तदुक्तम्। “देवतावाचकाः शब्दा ये च भद्रादिवाचकाः। ते सर्वे नैव निन्द्याः स्युर्लिपितो गणतोऽपि वा” इति। कुरूणां निवासाः कुरवो जनपदाः। “तस्य निवासः” इत्यण्प्रत्ययः। “जनपदे लुप्”। तेषामधिपस्य दुर्य्योधनस्य सम्बन्धिनीम्। शेषे षष्ठी। श्रियो राज्यलक्ष्म्याः। “कर्त्तृकर्मणोः कृति” इति कर्मणि षष्ठी। पाल्यतेऽनयेति पालनी तां प्रतिष्ठापिकामित्यर्थः। प्रजा-
स वर्णिलिङ्गी विदितः समाययौ
युधिष्ठिरं द्वैतवने वनेचरः॥१॥
रागमूलत्वात् सम्पद इति भावः। “करणाधिकरणयोश्च” इति सूत्रेन अत्र करणे ल्युट्। “टिड्ढाणञ्” इत्यादिना ङीप्। प्रजासु जनेषु विषये। “प्रजा स्यात् सन्ततौ जने” इत्यमरः। वृत्तिं व्यवहारं वेदितुं ज्ञातुं यं वनेचरम् अयुङ्क्त नियुक्तवान्। वर्णः प्रशस्तिरस्यास्तीति वर्णी ब्रह्मचारी। तदुक्तम्। “स्मरणं कीर्त्तनं केलिः प्रेक्षणं गुह्यभाषणम्। संकल्पोऽध्यवसायश्च क्रियानिर्वृतिरेव च॥ एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः। विपरीतं ब्रह्मचर्य्यमेतदेवाष्टलक्षणम्”॥ एतदष्टविधमैथुनाभावः प्रशस्तिः। “वर्णाद्ब्रह्मचारिणि” इतीनिप्रत्ययः। तस्य लिङ्गं चिह्नमस्यास्तीति वर्णिलिङ्गी ब्रह्मचारिवेशवानित्यर्थः। स नियुक्तः वने चरतीति वनेचरः किरातः। “भेदाः किरातशवरपुलिन्दाः म्लेच्छजातयः” इत्यमरः। “चरेष्टः” इति टप्रत्ययः। “तत्पुरुषे कृति बहुलम्” इत्यलुक्। विदितं वेदनमस्यास्तीति विदितः परवृत्तान्तज्ञानवान् इत्यर्थः। “अर्श आदिभ्योऽच्” इत्यच्प्रत्ययः। अथवा कर्त्तरि कर्मधर्मोपचारात् विदितवृत्तान्तो विदित इत्युच्यते। उभयत्रापि “पीता गावः” “भुक्ता ब्राह्मणाः” “विभक्ता भ्रातरः” इत्यादिवत् साधुत्वं न तु कर्त्तरि क्तः। सकर्मकेभ्यस्तस्य विधानाभावात्। अतएव भाष्यकारः। “अकारो मत्वर्थीयः। विभक्तमेषामस्तीति विभक्ताः, पीतमेषामस्तीति पीताः, भुक्तमेषामस्तीति भुक्ताः” इति सर्वत्र। अथवा उत्तरपदलोपोऽत्र द्रष्टव्यः। विभक्तधना विभक्ताः पीतोदकाः पीता भुक्तान्ना भुक्ता इति। अत्र लोपशव्दार्थमाह कैयटः। “गम्यार्थस्य
कृतप्रणामस्य महीं महीभुजे
जितां सपत्नेन निवेदयिष्यतः।
प्रयोग एव लोपोऽभिमतः। “विभक्ता भ्रातरः” इत्यत्र च धनस्य यद्विभक्तत्वं तद्भ्रातृषूपचर्य्यते। “पीता गावः” इत्यत्राप्युदकस्य पीतत्वं गोषु आरोप्यते। “भुक्ता ब्राह्मणाः” इत्यत्र अन्नस्य भुक्तत्वं ब्राह्मणेषु उपचर्य्यते” इति। तद्वदत्रापि वृत्तिगतं विदितत्वं वेदितरि वनेचरे उपचर्य्यते। एतेन “वनाय पीतप्रतिबद्धवत्साम्” इति “पातुं न प्रथमंव्यवस्यति जन युष्मास्वपीतेषु” या एवमादयो व्याख्याताः। अथवा विदितो विदितवान् सकर्मकादप्यविवक्षिते कर्मणि कर्त्तरि क्तः। “आशितः कर्त्ता” इत्यादौ यथाहुः। “धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात्। प्रसिद्धेरविवक्षातः कर्मणोऽकर्मिका क्रिया” इति। प्रतीहारादिना ज्ञापित इति वा। द्वैतवने द्वैताख्ये तपोवने यद्वा द्वे इते गते यस्मात्तद्द्वीते द्वीतमेव द्वैतम्। तच्च तद्वनञ्च तस्मिन्। शोकमोहादिरहिते इत्यर्थः। युधि रणे स्थिरं युधिष्ठिरं धर्मराजम्। “हलन्तात् सप्तम्याः संज्ञायाम्” इत्यलुक्। “गवियुधिभ्यां स्थिरः” इति षत्वम्। समाययौ सम्प्राप्तः। अत्र “वने वनेचरः” इति द्वयोः स्वरव्यञ्जनसमुदाययोरेकधैव आवृत्त्या वृत्त्यनुप्रासो नामालङ्कारः। अस्मिन् सर्गे वंशस्थं वृत्तम्। तस्य लक्षणम्। “जतौ तु वंशस्थमुदीरितं जरौ” इति॥१॥
सम्प्रति तत्कालोचितत्वमादेशयंस्तस्य तद्गुणसम्पन्नत्वमादर्शयन्नाह। कृतप्रणामस्येति। कृतप्रणामस्य तत्कालोचितत्वात् कृतनमस्कारस्य सपत्नेन रिपुणा दुर्योधनेन। “रिपौ वैरि-
न विव्यथे तस्य मनो न हि प्रियं
प्रवक्तुमिच्छन्ति मृषा हितैषिणः॥२॥
द्विषां विघाताय विधातुमिच्छतो-
रहस्यनुज्ञामधिगम्य भूभृतः।
स सौष्ठवौदार्य्यविशेषशालिनीं
विनिश्चितार्थामिति वाचमाददे॥३॥
सपत्नारिद्विषट्वेषणदुर्ह्वदः” इत्यमरः। जितां स्वायत्तीकृतां महीं महीभुजे युधिष्ठिराय क्रियाग्रहणात् सम्प्रदानत्वम्। निवेदयिष्यतः ज्ञापयिष्यतः। “लृटः सद्वा” इति शतृप्रत्ययः। तस्य वनेचरस्य मनो न विव्यथे। कथमीदृगप्रियं राज्ञेविज्ञापयामीति मनसि न चचालेत्यर्थः। “व्यथ भयचलनयोः इति धातोर्लिट्। उक्तमर्थमर्थान्तरोपन्यासेन समर्थयते। न हीति। हि यस्मात्, हितमिच्छन्तीति हितैषिणः स्वामिहितार्थिनः पुरुषा मृषा मिथ्याभूतं प्रियं प्रवक्तुं नेच्छन्ति। अन्यथा कार्य्यविघातकतया स्वामिद्रोहिणः स्युरिति भावः। “अमौढ्यममान्द्यममृषाभाषित्वमभ्यूहकत्वं चेति चारगुणाः” इति नीतिवाक्यामृते॥२॥
तथापि प्रियार्हे राज्ञि कटुनिष्ठुरोक्तिर्न युक्तेत्याशङ्क्य स्वाम्यनुज्ञायां न दुष्यतीत्याशयेनाह। द्विषामिति। रहसि एकान्ते स वनेचरो द्विषां शत्रूणाम्। कर्मणि षष्ठी। विघाताय द्विषो विहन्तुमित्यर्थः। “तुमर्थाच्च भाववचनात्” इति चतुर्थी। “भाववचनाच्च” इति तुमर्थे घङ्प्रत्ययः। अत्र तादर्थ्ये चतुर्थ्यामपि न दोषः। तथापि प्रयोगवैचित्र्यविशेषस्याप्यलङ्कारत्वादेवं व्याचक्षते। विधातुं व्यापारं कर्त्तुमिच्छतः।
क्रियासु युक्तैर्नृप ! चारचक्षुषः
न वञ्चनीयाः प्रभवोऽनुजीविभिः।
अतोऽर्हसि क्षन्तुमसाधु साधु वा
हितं मनोहारि च दुर्लभं वचः॥४॥
“समानकर्त्तृकेषु तुमुन्”। द्विषो विहन्तुमुद्युक्तज्ञानस्येत्यर्थः। अतएव भूभृतो युधिष्ठिरस्य अनुज्ञामधिगम्य प्राप्य। सुष्ठु भावः सौष्ठवं शब्दसामर्थ्यम्। सुष्ठुशब्दादव्ययादुद्गात्रादित्वादङ्प्रत्ययः। उदारस्य भाव औदार्य्यमर्थसम्पत्तिः तयोर्द्वन्द्वः सौष्ठवौदार्य्ये। अत्र औदार्य्यशब्दस्याजाद्यदन्तत्वेऽपि “लक्षणहेत्वोः क्रियायाः” इत्यत्राल्पस्वरस्यापि हेतुशब्दस्य पूर्वनिपातमकुर्वता सूत्रकृतैव पूर्वनिपातशास्त्रस्य अनित्यत्वज्ञापनान्न पूर्वनिपातः। उक्तञ्च काशिकायाम्। “अयमेव लक्षणहेत्वोरिति निर्देशः पूर्वनिपातव्यभिचारचिह्नम्” इति। ते एव विशेषः तयोर्वा विशेषः। तेन शालते शोभत इति सौष्ठवौदार्य्यविशेषशालिनी तां ताच्छील्ये णिनिः। विनिश्चितार्थां विशेषतः प्रमाणतो निर्णीतार्थामिति वक्ष्यमाणरूपां वाचमाददे स्वीकृतवान् उवाच इत्यर्थः॥३॥
प्रथमं तावदप्रियनिवेदकमात्मानं प्रति अक्षोभं याचते क्रियास्विति। हे नृप! क्रियासु कृत्यवस्तुषु युक्तैर्नियुक्तैः अनुजीविभिर्भृत्यैः चारादिभिरित्यर्थ चरन्तीति चराः पचाद्यच्। त एव चाराः, चरेः पचाद्यजन्तात् प्रज्ञादित्वादण्प्रत्ययः। त एव चक्षुर्येषां ते चारचक्षुषः। “स्वपरमण्डलकार्य्याकार्य्यविलोकने चाराश्चक्षूंषि क्षितिपतीनाम्” इति नीतिवाक्यामृते। तदुक्तम्। “गावः पश्यन्ति गन्धेन वेदैः पश्यन्ति पण्डिताः। चारैः
स किंसखा साधु न शास्ति योऽधिपं
हितान्न यः संशृणुते स किम्प्रभुः।
सदानुकूलेषु हि कुर्वते रतिं
नृपेष्वमात्येषु च सर्वसम्पदः॥५॥
पश्यन्ति राजानश्चक्षुर्भ्यामितरे जनाः” इति। प्रभवो निग्रहानुग्रहसमर्थाः स्वामिनो न वञ्चनीया न प्रतारणीयाः सत्यमेव वक्तव्या इत्यर्थः। चारापचारे चक्षुरपचारवद्राज्ञां पदे पदे निपात इति भावः। अतोऽप्रतार्य्यत्वाद्धेतोः असाधु अप्रियं साधु प्रियं वा, मदुक्तमिति शेषः वाशब्दोऽप्यर्थे। क्षन्तुं सोढुमर्हमि कुतः। हितं पथ्यं मनोहारि प्रियञ्च प्रचो दुर्लभम्। अतो मद्वचोऽपि हितत्वादप्रियमपि क्षन्तव्यमित्यर्थः॥४॥
तर्हि तूष्णीम्भाव एव वरमित्याशङ्क्याह स इति। यः सखा अमात्यादिः अधिपं स्वामिनं साधु हितं न शास्ति न उपदिशति। “ब्रुविशामि” इत्यादिना शासेर्दुहादिपाठाद्द्विकर्मकत्वम्। स हितानुपदेष्टा कुत्सितः सखा किंसखा दुर्मन्त्रीत्यर्थ। “किमः क्षेपे” इति समासान्तप्रतिषेधः। तथा यः प्रभुः निग्रहानुग्रहसमर्थः स्वामी हितात् आप्तजनात् हितोपदेष्टुः सकाशात्। “आख्यातोपयोगे” इत्यपादानत्वात् पञ्चमी। न संशृणुते न शृणोति हितमिति शेषः। “समो गम्यृच्छि” इत्यादिना सम्पूर्वाच्छृणोतेरकर्मकत्वादात्मनेपदमकर्मकत्वं वैवक्षिकम्। स हितमश्रोता प्रभुः किम्प्रभुः कुत्सितस्वामी। पूर्ववत् समासः। सर्वथा सचिवेन वक्तव्यं श्रोतव्यं च स्वामिना। एवञ्च राजमन्त्रिणो ऐकमत्यं स्यादित्यर्थः। ऐकमत्यस्य फलमाह सदेति। हि यस्मात् नृपेषु स्वामिषु अमा सह भवा अमात्यास्तेषु च।
निसर्गदुर्बोधमबोधविक्लवाः
क्व भूपतीनां चरितं? क्व जन्तवः?।
तवानुभावोऽयमवेदि यत् मया
निगूढ़तत्त्वं नयवर्त्म विद्विषाम्॥६॥
“अव्ययात्त्यप्”। अनुकूलेषु परस्परानुरक्तेषु सत्सु सर्वसम्पदः सदा रतिमनुरागं कुर्वते कुर्वन्ति न जातु जहतीत्यर्थः। अतो मया वक्तव्यं त्वया च श्रोतव्यमिति भावः। अत्रैवं राजमन्त्रिणोर्हितानुपदेश-तदश्रवणनिन्दासामर्थ्यसिद्धेरैकमत्यलक्षण-कारणस्य निर्दिष्टस्य सर्वसम्पत्सिद्धिरूपकार्य्येण समर्थनात् कार्य्येण कारणसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः। तदुक्तम्। “सामान्यविशेषकार्य्यकारणभावाभ्यां निर्दिष्टकतसमर्थनमर्थान्तरन्यासः” इति॥५॥
सम्प्रति स्वाहङ्कारं परिहरति। निसर्गेति। निसर्गदुर्बोधं स्वभावदुर्ग्रहम्। “ईषद्दुः” इत्यादिना खल्प्रत्ययः। भूपतीनां चरितं क्व? अबोधविक्लवा अज्ञानोपहता जन्तवः मादृशाः पामरजना इत्यर्थः क्वापि, नोभयं सङ्घटत इत्यर्थः। तथापि निगूढ़तत्त्वं संवृतयाथार्थ्यं विद्विषां नयवर्त्म षाड्गुण्यप्रयोगः “सन्धिविग्रहयानानि संस्थाप्यासनमेव च। द्वैधीभावश्च विज्ञेयाः षड्गुणा नीतिवेदिनाम्” इत्यादिरूपो यत् मया अवेदि ज्ञातमिति यावत्। विदेः कर्मणि लुङ्। अयम् इदं वेदनमित्यर्थः विधेयप्राधान्यात् पुंलिङ्गनिर्देशः। तव अनुभावः सामर्थ्यम्। अनुगतो भावोऽनुभावः राज्ञां प्रकृष्टो भाव इति घञन्तेन प्रादिसमासः। न तूपसृष्टात् घञ् प्रत्ययः। “श्रिनीभुवोऽनुपसर्गे” इत्यनुपसर्गाद्भवतेर्धातोर्घञ्, विधानात्। अतएव काशिका-
विशङ्कमानो भवतः पराभवं
नृपासनस्थोऽपि वनाधिवासिनः।
दुरोदरच्छद्मजितां समीहते
नयेन जेतुं जगतीं सुयोधनः॥७॥
तथापि जिह्मः स भवज्जिगीषया
तनोति शुभ्रं गुणसम्पदा यशः।
याम्। “कथं प्रभावो राज्ञां प्रकृष्टो भाव इति प्रादिसमासः” इति। दोषपरिहारौ सम्यग् ज्ञात्वैव विज्ञापयामि। न तु वृथा कर्णकठोरं प्रलपामि इत्याशयः॥६॥
सम्प्रति यद्वक्तव्यं तदाह विशङ्कमान इति। सुखेन युध्यते स सुयोधनः। “भाषायां शासियुधिदृशिधृषिमृषिभ्यो युज्वाच्यः”। नृपासनस्थः सिंहासनस्थोऽपि वनमधिवसतीति वनाधिवासिनो वनस्थात् राज्यभ्रष्टादपीत्यर्थः। भवतस्त्वत्तः पराभवं पराजयं विशङ्कमान उत्प्रेक्षमाणः सन् दुष्टमुदरमस्येति दुरोदरं द्यूतम्। पृषोदरादित्वात् साधु। “दुरोदरो द्यूतकारे पणे द्यूते दुरोदरम्” इत्यमरः। तस्य छद्मना मिषेण जितां लब्धां दुर्नयार्जितां जगतीं महीम्। “जगती विष्टपे मह्यां वास्तुच्छन्दोविशेषयोः” इति वैजयन्ती। नयेन नीत्या जेतुं वशीवर्त्तुं समीहते व्याप्रियते न तूदास्त इत्यर्थः। बलवत् स्वामिकमविशुद्धागमं च धनं भुञ्जानस्य कुतो मनःसमाधिरिति भावः। अत्र “दुरोदरछद्मजिताम्” इति विशेषणद्वारेण पदार्थं प्रति हेतुत्वेनोपन्यासाद्द्वितीयकाव्यलिङ्गमलङ्कारः। तदुक्तम्। “हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्” इति॥७॥
“नयेन जेतुं जगतीं समीहते” इत्युक्तम् ! तत्प्रकारमाह-
समुन्नयन् भूतिमनार्य्यसङ्गमाद्
वरं विरोधोऽपि समं महात्मभिः॥८॥
कृतारिषड्वर्गजयेन मानवीम्
तथापीति। तथापि साशङ्कोऽपि जिह्मो वक्रः वञ्चक इति यावत्। स दुर्य्योधनो भवज्जिगीषया गुणैर्भवन्तमाक्रमितुमिच्छयेत्यर्थः। “हेतौ इति तृतीया।गुणसम्पदा दानदाक्षिण्यादिगुणगरिम्णा करणेन शुभ्रं यशस्तनोति। स खलो गुणलोभनीयां त्वत्सम्पदमात्मसात् कर्त्तुं त्वत्तोऽपि गुणवत्तामात्मनः प्रकटयतीत्यर्थः। नन्वेवं गुणिनः सतोऽपि सज्जनविरोधो महान् दोष इत्याशङ्क्य सोऽपि सत्संसर्गलाभे नीचसङ्गमाद्वरमुत्कर्षावहत्वादित्याह समिति। तथाहि भूतिं समुन्नयन् उत्कर्षमापादयन्। “लटः शतृशानचौ” इत्यादिना शतृप्रत्ययः। पुनर्लच् ग्रहणसामर्थ्यात् प्रथमासामानाधिकरण्यम्। महात्मभिः समं सहेत्यर्थः। “साकं सत्रा समं सह” इत्यमरः। अनार्य्यसङ्गमात् दुर्जनसंसर्गात् “पञ्चमी विभक्तेः” इति पञ्चमी। विरोधोऽपि वरं मनाक् प्रियः। “देवाद्वृते वरः श्रेष्ठे त्रिषु क्लीबंमनाक् प्रिये” इत्यमरः। अत्र मैत्र्यपेक्षया मनाक् प्रियत्वं विरोधस्य “भूतिं समुन्नयन्” इत्यस्य पूर्ववाक्यान्वये समाप्तस्य वाक्यार्थस्य पुनरादानात् समाप्तपुनरात्ताख्यानदोषापत्तिः। तदुक्तं काव्यप्रकाशे। “समाप्तपुनरादानात् समाप्तपुनरात्तकम्” इति। न च वाक्यान्तरमेतत् येनोक्तदोषपरिहारः स्यात्। अर्थान्तरन्यासोऽलङ्कारः। स च भूतिसमुन्नयनस्य पदार्थविशेषणद्वारा विरोधवत्त्वं प्रति हेतुत्वाभिधानरूपकाव्यलिङ्गानुप्राणित इति॥८॥
अगम्यरूपां पदवीं प्रपित्सुना।
विभज्यनक्तन्दिवमस्ततन्द्रिणा
वितन्यते तेन नयेन पौरुषम्॥९॥
ननु “कातर्य्यं केवला नीतिः” इत्याशङ्क्य नीतियुक्तं पौरुषमस्येत्याह कृतेति। षण्णां वर्गः षड्वर्गः। अरीणामन्तः शत्रूणां कामक्रोधादीनां षड्वर्गोऽरिषड्वर्गः शिवभागवतवत् समासः। तस्य जयः कृतो येन तथोक्तेन विनीतेनेत्यर्थः। विनीताधिकारं प्रजापालनमिति भावः। अगम्यरूपां पुरुषमात्रदुभाभ्याम्। मनोरिमां मानवीं मनूपदिष्टसदाचारक्षुणामित्यर्थः। पदवीं प्रजापालनपद्धतिं प्रपित्सुना प्रतिपत्तुमिच्छुना प्रपद्यतेः सद्मन्तादुप्रत्ययः। “सनि सीमा” इत्यादिनेशादेशः। “अत्र लोपोऽभ्यासस्य” इत्यभ्यासलोपः। अस्ता तन्द्रिः आलस्यं यस्य तेन अस्ततन्द्रिणा अनलमेनेत्यर्थः। तदिः सौत्रो धातुः। तस्मात् “तङ्क्यादयश्च” इत्यौणादिकः किन्प्रत्ययः। “कृदिकारादक्तिनः” इति वा ङीष्। “वन्दीघटीतरीतन्द्रीति ङीषन्तोऽपि” इति क्षीरस्वामी। तथा रामायणप्रयोगः। “निस्तन्द्रिरप्रमत्तश्च स्वदोषे परदोषवत्” इति। तेन दुर्य्योधनेन पुरुषस्य कर्म पौरुषं पुरुषकारः, उद्योग इति। यावत्। युवादित्वादण् प्रत्ययः। “पौरुषं पुरुषस्योक्तं भावे कर्मणि तेजभि” इति विश्वः। नक्तं च दिवा च नक्तन्दिवम् अहोरात्रमित्यर्थः। “अचतुर” इत्यादिना सप्तम्यर्थवृत्त्योरव्यययोर्द्वन्द्वनिपातेऽच्समासान्तः। विभज्य अस्यां वेलायामिदं कार्य्यमकार्य्यमिति विभागं कृत्वा नयेन नीत्या वितन्यते विस्तार्य्यते॥९॥
सखीनिव प्रीतियुजोऽनुजीविनः
समानमानान् सुहृदश्च बन्धुभिः।
स सन्ततं दर्शयते गतस्मयः
कृताधिपत्यामिव साधु बन्धुताम्॥१०॥
सम्प्रति भृत्याद्यनुरागमाह। सखीनिवि। गतस्मयो निरहङ्कारोऽतएव स दुर्य्योधनः सन्ततम् अनारतं साधु सम्यक् अकपटम् इत्यर्थः। अनुजीविनो भृत्यान् प्रीतियुजः स्निग्धान् सखीनिव मित्राणि इव दर्शयते लोकस्येति शेषः। “हेतुमति च” इति णिच्। “णिचश्च” इति आत्मनेपदम्। शोभनं हृदयं येषां तान् सुहृदो मित्राणि च। “सुहृद्दर्हृदौ मित्रामित्रयोः” इति निपातः। बन्धुभिः भ्रात्रादिभिः समानमानान् तुल्यसत्कारान् दर्शयते बन्धूनां समूहो बन्धुता ताम्। ग्रामजनबन्धुसहायेभ्यस्तल्”। कृतम् आधिपत्यं स्वाम्यं यस्यास्तां कृताधिपत्यामिव दर्शयते बन्धून् अधिपतीनिव दर्शयते इत्यर्थः। यथा भृत्यादिषु सख्यादिबुद्धिर्जायते लोकस्य तथा तान् सम्भावयतीत्यर्थः। अनुजीव्यादीनाम् कर्त्तुरीप्सिततमं कर्म” इति कर्मत्वम्। पूर्वे तस्मिन्नेव पदान्वये वाक्यार्थमित्थं वर्णयन्ति। स राजा अनुजीव्यादीन् सख्यादीनिव दर्शयते। सख्यादय इव ते तु तं पश्यन्ति सख्यादिभावेन पश्यतस्तांस्तथा दर्शयते स्वयमेव छन्दानुवर्त्तितया स्वदर्शनं तेभ्यः प्रयच्छतीत्यर्थः। अत्रापि स्वस्येप्सितकर्मत्वम् “अणिचि कर्त्तुरनुजीव्यादेरभिवादिदृशोरात्मनेपदमुपसंख्यानम्” इति पाक्षिकं कर्मत्वम्। एवं चात्राण्वन्तकर्मणो राज्ञोऽण्यन्ते कर्त्तृत्वेऽपि “आरोहयते हस्ती स्वयमेव” इत्यादिवत् अश्रूयमाणकर्मान्तराभावात् नायं णेरणादि-
असक्तमाराधयतो यथायथं
विभज्य भक्त्या समपक्षपातया।
गुणानुरागादिव सख्यमीयिवान्
न बाधतेऽस्य त्रिगणः परस्परम्॥११॥
सूत्रस्य विषय इयि मत्वा “णिचश्च" इत्यात्मनेपदं प्रतिपेदिरे। भाष्ये तु णेरणादिसूत्रविषयत्वमपि अस्योक्तम्। यथाह। “पश्यन्ति भृत्या राजानम्” “दर्शयते भृत्यान् राजा” “दर्शयते भृत्यै राजा” “अत्र आत्मनेपदं सिद्धं भवति” इति। अत्राह कैयटः। “ननु कर्मान्तरसद्भावादत्रात्मनेपदेन सम्भाव्यम्। उच्यते। अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय ऊह्यते। अण्यन्तावस्थायां ये कर्त्तृकर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भावात् आत्मनेपदं न भवति। यथा “स्थलमारोहयति मनुष्यान्” इतीह तु अण्यन्तावस्थायां कर्त्तृणां भृत्यानां णौ कर्मत्वमिति “भवत्येवात्मनेपदम्” इति॥१०॥
न चायं त्रिवर्गात् प्रमाद्यतीत्याह असक्तमिति। यथायथं यथास्वं विभज्य सङ्कीर्णरूपं विविच्येत्यर्थः।“यथास्वे यथायथम्” इति निपातनाद्द्विर्भावो नपुंसकत्वञ्च। “ह्रस्वो नपुंसके प्रातिपदिकस्य” इति ह्रस्वत्वम्। पक्षे पातः पक्षपातः आसक्तिविशेषः समः तुल्यो यस्यां सा तथा तया समपक्षपातया भक्त्या अनुरागविशेषेण पूज्येषु अनुरागो भक्तिरित्युपदेशः पूज्यश्च अयं त्रिवर्गः इति भावः। असक्तमनासक्तम् अव्यसनितयेति यावत् आराधयतः सेवमानस्य अस्य दुर्य्योधनस्य त्रयाणां धर्मार्थकामानां गणस्त्रिगणस्त्रिवर्गः। “त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः” इत्यमरः। गुणानुरागात् तदीयगुणेषु अनुराग-
निरत्ययं साम न दानवर्जितं
न भूरि दानं विरहय्य सत्क्रियाम्।
प्रवर्त्तते तस्य विशेषशालिनी।
गुणानुरोधेन विना न सत्क्रिया॥१२॥
गुणवदाश्रयलोभादित्यर्थः सख्यं मैत्रीम्। “सख्युर्यः” इति यप्रत्ययः। ईयिवान् उपगतवानिव इति उत्प्रेक्षा। “उपेयिवाननाश्वाननूचानश्च” इति क्वसुप्रत्ययान्तो निपातः। “नात्रोपसर्गस्तन्त्रम्” इति काशिकार आह स्म। परस्परं न बाधते समवर्त्तित्वादस्य धर्मार्थकामाः परस्परानुपमर्देन वर्द्धन्ते इत्यर्थः। उक्तञ्च। “धर्मार्थकामाः सममेव सेव्या यो ह्येकसक्तः स जनो जघन्यः” इति॥११॥
अथ श्लोकत्रयेण उपायकौशलं दर्शयन् आदौ सामदाने दर्शयति। निरत्ययमिति। तस्य दुर्य्योधनस्य निरत्ययं निर्बाधम् अमायिकमित्यर्थः। अन्यथा जनानां दुर्ग्रहत्वादिति भावः। साम सान्त्वम्। “साम सान्त्वमुभे समे” इत्यमरः। दानवर्जितं न प्रवर्त्तते अन्यथा लुब्धप्रवर्त्तनस्य शुद्धाप्रियैर्वाक्यैर्दुष्करत्वादिति भावः। उक्तञ्च। “लुब्धमर्थेन गृह्णीयात् साधुमञ्जलिकर्मणा। मूर्खं छन्दानुरोधेन तत्त्वार्थेन च पण्डितम्” इति। तथा भूरि प्रभूतं न तु कदाचित् स्वल्पमित्यर्थः। दानं धनत्यागः सदित्यादरार्थेऽव्ययम्। “आदरानादरयोः सदसती” इति निपातसंज्ञास्मरणात्। तस्य क्रियां सत्क्रियां विरहय्य विहाय। “ल्यपि लघुपूर्वात्” इत्ययादेशः। न प्रवर्त्तते अनादरे दानवैफल्यादिति भावः। न चैवं सर्वत्र येनाविवेकित्वं कोशहानिश्च स्यादित्याह प्रवर्त्तते इति। विशेषशालिनी अति-
असक्तमाराधयतो यथायथं
विभज्य भक्त्या समपक्षपातया।
गुणानुरागादिव सख्यमीयिवान्
न बाधतेऽस्य त्रिगणः परस्परम्॥११॥
सूत्रस्य विषय इयि मत्वा “णिचश्च" इत्यात्मनेपदं प्रतिपेदिरे। भाष्ये तु णेरणादिसूत्रविषयत्वमपि अस्योक्तम्। यथाह। “पश्यन्ति भृत्या राजानम्” “दर्शयते भृत्यान् राजा” “दर्शयते भृत्यै राजा” “अत्र आत्मनेपदं सिद्धं भवति” इति। अत्राह कैयटः। “ननु कर्मान्तरसद्भावादत्रात्मनेपदेन सम्भाव्यम्। उच्यते। अस्मादेवोदाहरणाद्भाष्यकारस्यायमेवाभिप्राय ऊह्यते। अण्यन्तावस्थायां ये कर्त्तृकर्मणी तद्व्यतिरिक्तकर्मान्तरसद्भावात् आत्मनेपदं न भवति। यथा “स्थलमारोहयति मनुष्यान्” इतीह तु अण्यन्तावस्थायां कर्त्तृणां भृत्यानां णौ कर्मत्वमिति “भवत्येवात्मनेपदम्” इति॥१०॥
न चायं त्रिवर्गात् प्रमाद्यतीत्याह असक्तमिति। यथायथं यथास्वं विभज्य सङ्कीर्णरूपं विविच्येत्यर्थः।“यथास्वे यथायथम्” इति निपातनाद्द्विर्भावो नपुंसकत्वञ्च। “ह्रस्वो नपुंसके प्रातिपदिकस्य” इति ह्रस्वत्वम्। पक्षे पातः पक्षपातः आसक्तिविशेषः समः तुल्यो यस्यां सा तथा तया समपक्षपातया भक्त्या अनुरागविशेषेण पूज्येषु अनुरागो भक्तिरित्युपदेशः पूज्यश्च अयं त्रिवर्गः इति भावः। असक्तमनासक्तम् अव्यसनितयेति यावत् आराधयतः सेवमानस्य अस्य दुर्य्योधनस्य त्रयाणां धर्मार्थकामानां गणस्त्रिगणस्त्रिवर्गः। “त्रिवर्गो धर्मकामार्थैश्चतुर्वर्गः समोक्षकैः” इत्यमरः। गुणानुरागात् तदीयगुणेषु अनुराग-
निरत्ययं साम न दानवर्जितं
न भूरि दानं विरहय्य सत्क्रियाम्।
प्रवर्त्तते तस्य विशेषशालिनी।
गुणानुरोधेन विना न सत्क्रिया॥१२॥
गुणवदाश्रयलोभादित्यर्थः सख्यं मैत्रीम्। “सख्युर्यः” इति यप्रत्ययः। ईयिवान् उपगतवानिव इति उत्प्रेक्षा। “उपेयिवाननाश्वाननूचानश्च” इति क्वसुप्रत्ययान्तो निपातः। “नात्रोपसर्गस्तन्त्रम्” इति काशिकार आह स्म। परस्परं न बाधते समवर्त्तित्वादस्य धर्मार्थकामाः परस्परानुपमर्देन वर्द्धन्ते इत्यर्थः। उक्तञ्च। “धर्मार्थकामाः सममेव सेव्या यो ह्येकसक्तः स जनो जघन्यः” इति॥११॥
अथ श्लोकत्रयेण उपायकौशलं दर्शयन् आदौ सामदाने दर्शयति। निरत्ययमिति। तस्य दुर्य्योधनस्य निरत्ययं निर्बाधम् अमायिकमित्यर्थः। अन्यथा जनानां दुर्ग्रहत्वादिति भावः। साम सान्त्वम्। “साम सान्त्वमुभे समे” इत्यमरः। दानवर्जितं न प्रवर्त्तते अन्यथा लुब्धप्रवर्त्तनस्य शुद्धाप्रियैर्वाक्यैर्दुष्करत्वादिति भावः। उक्तञ्च। “लुब्धमर्थेन गृह्णीयात् साधुमञ्जलिकर्मणा। मूर्खं छन्दानुरोधेन तत्त्वार्थेन च पण्डितम्” इति। तथा भूरि प्रभूतं न तु कदाचित् स्वल्पमित्यर्थः। दानं धनत्यागः सदित्यादरार्थेऽव्ययम्। “आदरानादरयोः सदसती” इति निपातसंज्ञास्मरणात्। तस्य क्रियां सत्क्रियां विरहय्य विहाय। “ल्यपि लघुपूर्वात्” इत्ययादेशः। न प्रवर्त्तते अनादरे दानवैफल्यादिति भावः। न चैवं सर्वत्र येनाविवेकित्वं कोशहानिश्च स्यादित्याह प्रवर्त्तते इति। विशेषशालिनी अति-
वसूनि वाञ्छन्न वशी न मन्युना
स्वधर्म इत्येव निवृत्तकारणः।
गुरूपदिष्टेन रिपौ सुतेऽपि वा
निहन्ति दण्डेन स धर्मविप्लवम्॥१३॥
शययोगिनी सत्क्रिया आदरक्रिया गुणानुरोधेन गुणानुरागेण विना न प्रवर्त्तते। “पृथग्विना इत्यादिना तृतीया गुणेष्वेवादरो भूरिदानञ्च” इति न उक्तदोषावकाश इत्यर्थः। अत्र उत्तरोत्तरस्य पूर्वपूर्वविशेषणतया स्थापनात् एकावल्यलङ्कारः। तदुक्तं काव्यप्रकाशे। “स्थाप्यतेऽपोह्यते वापि यथापूर्वं परस्परम्। विशेषणतया वस्तु यत्र सैकावली द्विधा” इति॥१२॥
अथ दण्डप्रकारमाह वसूनीति। वशी स दुर्य्योधनो वसूनि धनानि वाञ्छन् न लोभात् न इत्यर्थः। “वसु तोये धने मणौ” इति वैजयन्ती निहन्तीति शेषः। तथा मन्युना कोपेन न च। “मन्युर्दैन्ये क्रतौ क्रुधि इत्यमरः। “धर्मशास्त्रानुसारेण क्रोधालोभविवर्जितः” इति स्मरणादित्यर्थः। किन्तु निवृत्तकारणः निवृत्तलोभादिनिमित्तः सन् स्वधर्म इत्येव स्वस्य राज्ञः सतो मम अयं धर्मो ममेदं कर्त्तव्यमित्यस्मादेव हेतोरित्यर्थः। “अदण्ड्यान् दण्डयन् राजा दण्ड्यांश्चैवाप्यदण्डयन्। अयशो महदाप्नोति नरकञ्चैव गच्छति” इति स्मरणादिति भावः। गुरूपदिष्टेन प्राड्विवाकोपदिष्टेन। “धर्माशास्त्रं पुरस्कृस्य प्राड्विवाकमते स्थितः। समाहितमतिः पश्येत् व्यवहाराननुक्रमात्” इति नारदस्मरणात्। दण्डेन दमेन शिक्षयेत्यर्थः रिपौ सुतेऽपि वा स्थितमिति शेषः। एतेन अस्य समदर्शित्वम् उक्तम्। धर्मविप्लवं धर्मव्यतिक्रमम् अधर्ममिति यावत्।
विधाय रक्षान् परितः परेतरान्
अशङ्किताकारमुपैति शङ्कितः।
क्रियावपर्गेष्वनुजीविसात्कृताः
कृतज्ञतामस्य वदन्ति सम्पदः॥१४॥
अनारतं तेन पदेषु लम्भिता
विभज्य सम्यग्विनियोगसत्क्रियाः।
निहन्ति निवारयति। दुष्ट एव अस्य शत्रुः शिष्ट एव बन्धुः न तु सम्बन्धनिबन्धनः पक्षपातोऽस्तीत्यर्थः॥१३॥
सम्प्रति भेदकौशलं दर्शयति विधायेति। शङ्का सञ्जाता अस्य शङ्कितोऽविश्वस्तः सन् परितः सर्वत्र स्वपरमण्डले परेतरान् आत्मीयान् अवञ्चकान् इति यावत्। यद्वा परान् इतरयन्ति भेदेन आत्मसात्कुर्वन्तीति परेतरान् तत्करोतीति ण्यन्तात् कर्मणि अण्प्रत्ययः। रक्षन्तीति रक्षान् रक्षकान् मन्त्रगुप्तिसमर्थान् इत्यर्थः। “नन्दिग्रहि” इत्यादिना पचाद्यच्। विधाय कृत्वा नियुज्य इत्यर्थः। अशङ्किताकारम् उपैति स्वयम् अविश्वस्तोऽपि। विश्वस्तवत् एव व्यवहरन् परमुखेनैव परान् भिनत्ति इत्यर्थः। न च तान् रक्षान् उपेक्षते येन तेऽपि विकुर्वीरन् इत्याह क्रियेति। क्रियापवर्गेषु कर्मसमाप्तिषु अनुजीविसात्कृता भृत्याधीनाः कृताः अपरावर्त्तितया दत्ता इत्यर्थः। “देये वा च” इति सातिप्रत्ययः। सम्पदोऽस्य राज्ञः कृतज्ञताम् उपकारित्वं वदन्ति प्रीतिदानैः एव अस्य कृतज्ञत्वं प्रकाश्यते न तु वाङ्मात्रेण इत्यर्थः। कृतज्ञे राजनि अनुजीविनोऽनुरज्यन्ते अनुरक्ताश्च तं रक्षन्तीति भावः॥१४॥
अथ उपायप्रयोगस्य फलवत्तां दर्शयति। अनारतमिति।
फलन्त्युपायाः परिवृंहितायतीः
उपेत्य सङ्घर्षमिवार्थसम्पदः॥१५॥
अनेकराजन्यरथाश्वसङ्कुलं
तदीयमास्थाननिकेतनाजिरम्।
नयत्ययुग्मच्छदगन्धिरार्द्रतां
भृषं नृपोपायनदन्तिनां मदः॥१६॥
तेन राज्ञा दुर्य्योधनेन पदेषु उपायवस्तुषु। “पदं व्यवसितत्राण स्थानलक्ष्माङ्घ्रिवस्तुषु” इत्यमरः। सम्यक् असङ्कीर्णम्अव्यस्तं च विभज्य विविच्य विनियोग एव सत्क्रिया अनुग्रहः सत्कार इति यावत्। यासांता लक्षिताः स्थानेषु सम्यक् प्रयुक्ताइत्यर्थः। उपायविशेषणं वा उपाया, सामादयः सङ्घर्षं परस्परवञ्चितेभ्य इति उत्प्रेक्षा। परिवृंहितायतीः प्रचितोत्तरकालाः,स्थिरा इत्यर्थः। अर्थसम्पदोऽनारतम् अजस्र फलन्ति प्रस्तुयते इत्यर्थः॥१५॥
अर्थसम्पदमेवाह अनेकेति। अयुग्मच्छदस्य सप्तवर्णपुष्पस्य गन्ध इव गन्धो यस्य अमी अयुग्मच्छदगन्धि। “सप्तय्युपमान” इत्यादिना बहुव्रीहिरुत्तरपदलोपश्च। “उपमानाच्च” इति समासान्त इकारः। नृपाणाम् उपायनानि उपहारभूता ये दन्तिनः तेषां मदः। “उपायनमुपग्राह्यमुपहारस्तथोपदा” इत्यमरः। राज्ञाम् अपत्यानि पुमांसो राजन्या क्षत्रियाः। “राजश्वशुराद्यत्” इति यत्प्रत्ययः। राज्ञोऽपत्ये जातिग्रहणात् अण्। रथाश्चाश्वाश्च रथाश्वं सेनाङ्गत्वादेकवद्भावः। अनेकेषां राजन्यानां रथाश्वेन सङ्कलं व्याप्तं तदीयमास्थाननिकेतनाजिरं सभामण्डपाङ्गणम्। “अङ्गणंचत्वराजिरे” इत्यमरः। भृशम् अत्यर्थम् आर्द्रतां पङ्किलत्वं
सुखेन लभ्या दधतः कृषीबलैः
अकृष्टपच्या इव शस्यसम्पदः।
वितन्वति क्षेममदेवमातृकाः
चिराय तस्मिन् कुरवश्चकासति॥१७॥
उदारकीर्त्तेरुदयं दयावतः
प्रशान्तबाधं दिशतोऽभिरक्षया।
नयति एतेन महासमृद्धिः अस्य उक्ता अतएव उदात्तालङ्कारः। तथा चालङ्कारसूत्रम्। “समृद्धिमद्वस्तुवर्णनमुदात्तः” इति॥१६॥
सम्प्रति जनपदक्षेमकरत्वमाह। सुखेनेति। चिराय तस्मिन् दुर्य्योधने क्षेमं वितन्वति क्षेमङ्करं सति देवः पर्जन्य एव माता येषां ते देवमातृका वृष्ट्युम्बुजीविनो देशाः ते न भवन्ति इति अदेवमातृकाः इत्यर्थः। “देशो नद्यम्बुसम्पन्नव्रीहिपालितः स्यात् नदीमातृका देवमातृकश्च यथाक्रमम्” इत्यमरः। एतेन अस्य कुल्लादिपूर्त्त प्रवर्त्तकत्वमुक्तम्। कुरूणां निवासाः कुरवो जनपदविशेषाः कृष्टेन पच्यन्त इति कृष्टपच्याः। “राजसूय” इत्यादिना कर्मकर्त्तरि क्यप् प्रत्ययान्तो निपातः। तद्विपरीता अकृष्टपच्या इव कृषिः एषाम् अस्तीति कृषीवलैः कर्षकैः इत्यर्थः। “रजःकृषि” इत्यादिना बलच्प्रत्ययः। “बले” इति दीर्घः। सुखेन अक्लेशेन लभ्या लब्धुं शक्याः शस्यसम्पदो दधतः धारयन्तः “नाभ्यस्ताच्छतुः” इति नुमागमप्रतिषेधः। चकासति सर्वोत्कर्षेण वर्त्तन्त इत्यर्थः। “अदभ्यस्तात्” इति झेरदादेशः। “जक्षित्यादयः षट्” इति अभ्यस्तसंज्ञा। सम्पन्नजनपदत्वात् असन्तापकरत्वाच्च दुःसाध्योऽयमिति भावः॥१७॥
ननु एवं जनपदानुवर्त्तिनः कथम् अर्थलाभ इत्यत आह
स्वयं प्रदुग्धेऽस्य गुणैरुपस्नुता
वसूपमानस्य वसूनि मेदिनी॥१८॥
महौजसो मानधना धनार्च्चिता
धनुर्भृतः संयति लब्धकीर्त्तयः।
नसंहतास्तस्य नभिन्नवृत्तयः
प्रियाणि वाञ्छन्त्यसुभिः समीहितुम्॥१९॥
उदारेति। उदारकीर्त्तेः महायशसः। “उदारो दातृमहतोः” इत्यमरः। दयावतः परदुःखप्रहरणेच्छोः अतएव प्रशान्तबाधं प्रशमितोपद्रवं यथा स्यात् तथेति क्रियाविशेषणम् उदयविशेषणां वा। “वा दान्तशान्त” इत्यादिना शमिधातोर्ण्यन्तान्निष्ठान्तो निपातः। अभिरक्षया सर्वतस्त्राणेन उदयं वृद्धिं दिशतः सम्पादयतः वसूपमानस्य कुवेरोपमस्य। “वसुर्मयुखाग्निधनाधिपेषु इति विश्वः। अस्य दुर्य्योधनस्य गुणैर्दयादाक्षिण्यादिभिः उपस्नुता द्राविता मेदिनी वसूनि धनानि। “वसु तोये धने मणौ” इति वैजयन्ती। स्वयं प्रदुग्धे अक्लेशेन दुह्यते इत्यर्थः। दुहेः कर्ममर्त्तरि लट्। “न दुहस्नुनमां यक्चिणौ” इति यक्प्रतिषेधः। यथा केनचिद् विदग्धेन नवप्रसूता च रक्षिता गौः स्वयं प्रदुग्धे इति भावः। “अलङ्कारस्तु विशेषणमात्रसाम्यात् अप्रस्तुतस्य गम्यत्वे समासोक्तिः” इति सर्वस्वकारः। अत्र प्रतीयमानया गवा सह प्रकृताङ्गया मेदिन्या भेदेऽभेदलक्षणा अतिशयोक्ति-वशादपोह्यत्वेन उक्तिरिति संक्षेपः॥१८॥
वीरानुकूल्यमाह महौजस इति। महौजसो महाबलाः अन्यथा दुर्बलानाम् अनुपकारित्वादितिभावः। मानः कुलशीलाद्यभिमान एव धनं येषां ते मानधनाः। अन्यथा कदाचिद् बल
महीभृतां सच्चरितैश्चरैः क्रियाः
स वेद निःशेषमशेषितक्रियः।
महोदयैस्तस्य हितानुबन्धिभिः
प्रतीयते धातुरिवेहितं फलैः॥२०॥
दर्पाद् विकुर्वीरन् इति भावः। धनार्चिताः सत्कृताः। अन्यथा दारिद्र्यात् एनं जह्युरिति भावः। संयति संग्रामे लब्धकीर्त्तयः बहुयशस इत्यर्थः। अन्यथा कदाचित् मुह्येयुरिति भावः। संहता मिथःसङ्गताः स्वार्थनिष्ठा न भवन्तीति न संहताः नञर्थस्य नशब्दस्य सुप्सुपेति समासः। भिन्नवृत्तयो मिथो विरोधात् स्वामिकार्य्यविघातकरा न भवन्तीति नभिन्नवृत्तयः पूर्ववत्समासः। अन्यथा स्वामिकार्य्यविघातकतया स्वामि द्रोहिणः स्युः इति उभयत्रापि तात्पर्य्यार्थः। धनर्भृतो धानुष्काः। आयुधीयमात्रोपलक्षणमेतत्। प्राधान्यात् धनुर्ग्रहणम्। तस्य दुर्य्योधनस्य असुभिः प्राणैः प्रियाणि समीहितुं कर्त्तुं वाञ्छन्ति आनृण्यार्थं प्राणान् दातुमिच्छन्ति अन्यथा दोषस्मरणादिति भावः। अत्र महौजसादिपदार्थानां प्राणदानकर्त्तव्यतां प्रति विशेषणगत्या हेतुत्वाभिधानात् काव्यलिङ्गम् अलङ्कारः। लक्षणन्तु उक्तम्। “तथा साभिप्रायविशेषणत्वात् परिकरालङ्कारः” इति। द्वयोः तिलतण्डुलवत् विभक्ततया स्फुरणात् संसृष्टिः॥१९॥
सम्प्रति स्वराष्ट्रवत् परराष्ट्रवृत्तान्तमपि वेत्तीत्याह। महीभृतामिति। अशेषितक्रियः समापितकृत्यः आफलोदयर्मेत्यर्थः। स दुर्य्योधनः सच्चरितैः शुद्धचरितैः अवञ्चकैः इत्यर्थः। चरन्तीति चराः तैः चरैः प्रणिधिभिः पचाद्यच्। महीभृतां क्रियाः प्रारम्भान् निःशेषं वेद वेत्ति। “विदो लटो वा" इति णलादेशः। स्वरहस्यं तु न कश्चिद् वेद इत्याह महोदयैरिति। धातुरिव तस्य
न तेन सज्यं क्वचिदुद्यतं धनुः
कृतं न वा कोपविजिह्ममाननम्।
गुणानुरागेण शिरोभिरुह्यते
नराधिपैर्माल्यमिवास्य शासनम्॥२१॥
स यौवराज्ये नवयौवनोद्धतं
निधाय दुःशासनमिद्धशासनः।
दुर्य्योधनस्येहितम् उद्योगो महोदयैः महावृद्धिभिः हितम् अनुबध्नन्ति अनुरुन्धन्ति इति हितानुबन्धिनः तैः इत्यर्थः। फलैः कार्य्यसिद्धिभिः प्रतीयते ज्ञायते। फलानुमेयाः तस्य प्रारम्भा इत्यर्थः॥२०॥
मित्रबलमाह नेति। तेन राज्ञा क्वचित् कुत्रापि सह ज्यया मौर्व्या सज्यम्। मौर्वो ज्या शिञ्जिनी गुणः” इत्यमरः। “तेन सहेति तुल्ययोगे” इति बहुव्रीहिः। धनुः न उद्यतं न ऊर्ध्वीकृतम् आननं वा कोपविजिह्मं कोपेन कुटिलं न कृतं, यस्य कोप एव न उदेति कुतस्तस्य युद्धप्रसक्तिः इति भावः। कथं तर्हि आज्ञां कारयति राज्ञ इत्यत्राह गुणेति। गुणेषु दयादाक्षिण्यादिषु अनुरागेण प्रेम्णा माल्यपक्षे सूत्रानुषङ्गण यद्वा सौरभ्यगुणलोभेन नराधिपैः अन्यभूपालैः अस्य शासनम् आज्ञा माला इव माल्यं तदिव। “चातुर्वर्ण्यादित्वात् स्वार्थे ष्यञ्” इति क्षीरस्वामी। शिरोभिः उह्यते धाय्यते। “वचिस्वपियजादीनां किति” इति यकि सम्प्रसारणम् अत्र उपमा स्फुटा इव॥२१॥
सम्प्रति अस्य धार्मिकत्वमाह स इति। इद्धशासनोऽप्रतिहताज्ञः स दुर्य्योधनो नवयौवनोद्धतं प्रगल्भं धुरन्धरम् इत्यर्थः। दुःखेन शिष्यते इति दुःशासनः तम्। “भाषायां शासियुधि”
मखेष्वखिन्नोऽनुमतः पुरोधसा
धिनोति हव्येन हिरण्यरेतसम्॥२२॥
प्रलीनभूपालमपि स्थिरायति
प्रशासदावारिधि मण्डलं भुवः।
स चिन्तयत्येव भियस्त्वदेष्यतीः
अहो ! दुरन्ता बलवद्विरोधिता॥२३॥
इत्यादिना खलर्थे युच्प्रत्ययः। यौवराज्ये युवराजकर्मणि। ब्राह्मणादित्वात् ष्यञ्। निधाय नियुज्य इत्यर्थः। पुरोधसा पुरोहितेन अनुमतोऽनुज्ञातः तस्मिन् याजके सति इत्यर्थः तदुल्लङ्घने दोषस्मरणादिति भावः। “निष्ठा” इति भूतार्थे क्तः। न तु “मतिबुद्धि” इत्यादिना वर्त्तमानार्थे। अन्यथा “पुरोधसा” इत्यत्र “क्तस्य च वर्त्तमाने” इति षष्ठी स्यात्। अखिन्नोऽनलसो मखेषु क्रतुषु हव्येन हविषा। हिरण्यं रेतो यस्य तं हिरण्यरेतसम् अनलं धिनाति प्रीणयति। धिवेः प्रीणनार्थात् “धिन्विकृण्व्योर च” इत्युप्रत्ययः। अकारश्चान्तादेशः॥२२॥
स चेत् तादृश उद्योगी तर्हि अस्माभिर्न निरुद्योगैर्भाव्यमित्याशङ्क्य उद्योगाशान दर्शयति प्रलीनेति। स दुर्य्योधनः प्रलीनभूपालं निपसत्नम् इत्यर्थः। स्थिरायति चिरस्थायि इत्यर्थः। भुवो मण्डलम् आवारिधिभ्यः आवारिधि। आङ्मर्य्यादाभिविध्योः” इति अव्ययीभावः। प्रशासत् आज्ञापयन्नपि। “जक्षित्यादयः षट्” इति अभ्यस्तसंज्ञा। “नाभ्यस्ताच्छतुः” इति नुमागमप्रतिषेधः। त्वत् त्वत्त एष्यतीः आगमिष्यतीः आगामिनीरिति यावत्। धातूनामनेकार्थत्वादुक्तार्थसिद्धिः। अथवा आङ्पूर्वः पाठः। “एत्येधत्युठ्सु” इति वृद्धि “लृटः सद्वा”
कथाप्रसङ्गेन जनैरुदाहृतात्
अनुस्मृताखण्डलसूनुविक्रमः।
तवाभिधानाद् व्यथते नताननः
स दुःसहात् मन्त्रपदादिवोरगः॥२४॥
इति शतृप्रत्ययः। “उगितश्च" इति ङीप्। “आच्छीनद्योर्नुम्” इति विकल्पान्नुमभावः। भियो भयहेतृन् विपद इत्यर्थः। चिन्तयति आलोचयति एव। अहो! बलवद्विरोधिता दुरन्ता दुष्टावमाना सार्वभौमस्यापि प्रबलैः सपत्नैः सह वैरम् अनर्थपर्य्यवसायि एवेति तात्पर्य्यम्। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः॥२३॥
ननु गूढ़ाकारेङ्गतस्य तस्य भयं त्वया कथं निरधारीत्यत्राह कथेति। कथाप्रसङ्गेन गोष्ठीवचनेन जनैः तत्रत्यैः इत्यर्थः। अन्यत्र कथाप्रसङ्गेन विषवैद्येन। कथाप्रसङ्गो वार्त्तायां विषवैद्येऽपि वाच्यवत्” इति विश्वः। एकवचनस्य अतन्त्रत्वात् जनविशेषणम्। यद्वा कथाप्रसङ्गे इनाश्च ते जनाश्च इत्येकं पदम् उदाहृतात् उच्चारितात् तवाभिधानात् नामधेयात् नामधेयस्मरणाद्धतोः। “हेतौ” इति पञ्चमी। “अख्याह्वे अभिधानञ्च नामधेयञ्च नाम च” इत्यमरः। अन्यत्र तवाभिधानात्। “नामैकदेशग्रहणम्” नाममात्रग्रहणम् इति न्यायात्। तश्च वश्च तवौ तार्क्ष्यवासुकी तयोः अभिधानं यस्मिन् पदे तस्मात् अनुस्मृताखण्डलसूनुविक्रमः स्मृतार्जुनपराक्रमः सन् दुःसहात् अतिदुःसहात् मन्त्रपदात् मन्त्रशब्दात् स्मारकाद्धेतोः। आखण्डलसूनुः इन्द्रानुजः उपेन्द्रोविष्णुरिति यावत्। “सूनुः पुत्रेऽनुजे रवौ” इति विश्वः। तस्य विः पक्षी गरुड इत्यर्थः। तस्य क्रमः
तदाशु कर्त्तुं त्वयि जिह्ममुद्यते
विधीयतां तत्र विधेयमुत्तरम्।
परप्रणीतानि वचांसि चिन्वतां
प्रवृत्तिसाराः खलु मादृशां गिरः॥२५॥
इतीरयित्वा गिरमात्तसत्क्रिये
गतेऽथ पत्यौ वनसन्निवासिनाम्।
पादविक्षेपः सोऽनुस्मृतो येन स तथोक्तः। स्मृतगरुड़महिमा उरग इव नताननः सन्। “उरगः पन्नगो भोगी” इत्यमरः। व्ययते दुःखायते। “पीड़ा बाधा व्यथा दुःखम्” इत्यमरः। अत्युत्कटभयदोषादिविकारा दुर्वारा इति भावः। “सर्वतो जयमन्विच्छेत् पुत्रादिच्छेत् पराजयम्” इति न्यायादर्जुनोत्कर्षकथनं युधिष्ठिरस्य भूषणमेवेति सर्वमवदातम्॥२४॥
निगमयति। तदिति। तत् तस्मात् कारणात् त्वयि जिह्मं कपटं कर्त्तुम् उद्यते त्वां जिघांसौ इत्यर्थः। तत्र तस्मिन् दुर्य्योधने विधेयं कर्त्तव्यम् उत्तरं प्रतिक्रिया आशु विधीयतां क्रियताम्। ननु कर्त्तव्यमपि त्वयैव उच्यतामिति चेत् तत्राह परेति। परप्रणीतानि परोक्तानि वचांसि चिन्वतां गवेषयतां मादृशां वार्त्ताहारिणामित्यर्थः। गिरः प्रवृत्तिसाराः वार्त्तामात्रसाराः। “वार्त्ता प्रवृत्तिर्वृत्तान्तः” इत्यमरः। वार्त्तामात्रवादिनो वयं न तु कर्त्तव्यार्थापदेशसमर्थाः अतस्त्वयैवनिर्धार्य्यं कार्य्यमिति भावः। सामान्येन विशेषसमर्थनादर्थान्तरन्यासोऽलङ्कारः॥२५॥
इतीति। वनसन्निवासिनां पत्यौ वनेचराधिपे इति गिरन् ईरयित्वा उक्ता आत्तसत्क्रिये गृहीतपारितोषिकेगते सति।
प्रविश्य कृष्णासदनं महीभुजा
तदाचचक्षेऽनुजसन्निधौ वचः॥२६॥
निशम्य सिद्धिं द्विषतामपाकृतीः
ततस्ततस्त्या विनियन्तुमक्षमा।
नृपस्य मन्युव्यवसायदीपिनीः
उदाजहार द्रुपदात्मजा गिरः॥२७॥
भवादृशेषु प्रमदाजनोदितं
भवत्यधिक्षेप इवानुशासनम्।
“तुष्टिदानमेव चाराणां हि वेतनं ते हि तल्लोभात् स्वाभि कार्य्येषु अतीव त्वरयन्त” इति नीतिवाक्यामृते। अथ महीभुजः राज्ञा कृष्णासदनं द्रोपदीभवनं प्रविश्य अनुजसन्निधौ तद् वनेचरोक्तं वचो वाक्यम् आचचक्षे आख्यातम्। अथवा कृष्णेतिपरिच्छेदः। सदनं प्रविश्य अनुजसन्निधौ तद्वचः कृष्णा आचचक्षे आख्याता। चक्षिङो दुहादेर्द्विकर्म्मकत्वादप्रधानकर्म्मणि लिट्।
निशम्येति। अथ द्रुपदात्मजा द्रौपदी द्विषतां सिद्धिं वृद्धिरूपां निशम्य ततस्तदनन्तरं ततो द्विषद्भ्य आगतास्ततस्त्याः। “अव्ययात् त्यप्” इति त्यप्। अपाकृतीर्विकारान् विनियन्तुं निरोद्धुम् अक्षमा सती नृपस्य युधिष्ठिरस्य मन्युव्यवसाययोः क्रोधोद्योगयोः दीपिनीः संवर्द्धिनीर्गिरो वाक्यानि उदाजहार जगाद इत्यर्थः॥२७॥
भवादृशेष्विति। भवादृशा भवद्विधाः पण्डिता इत्यर्थः।
तथापि वक्तुं व्यवसाययन्ति मां
निरस्तनारीसमया दुराधयः॥२८॥
अखण्डमाखण्डलतुल्यधामभिः
चिरं धृता भूपतिभिः स्ववंशजैः।
त्वयात्महस्तेन महो मदच्युता
मतङ्गजेन स्रगिवापवर्जिता॥२९॥
तेषु विषये। “त्यदादिषु” इत्यादिना कञ्। “आसर्वनाम्नः” इत्याकारादेशः। प्रमदाजनोदितं स्त्रीजनोक्तम्। वदेः क्तः। “वचिस्वपि” इत्यादिना सम्प्रसारणम् अनुशासनं नियोगवचनम् अधिक्षेपः तिरस्कार इव भवति। अतो न युक्तं वक्तुमित्यर्थः। तथापि वक्तुमनुचितत्वेऽपि निरस्तनारीसमयाः त्याजितशालीनतारूपस्त्रीसमाचाराः। “समयाः शपथाचारकालसिद्धान्तसंविद” इत्यमरः। दुराधयः समयोल्लङ्घनहेतुत्वात् दुष्टा मनोव्यथाः। “पुंस्याधिर्मानसी व्यथा” इत्यमरः। मां वक्तुं व्यवसाययन्ति प्रेरयन्ति। न किञ्चिदयुक्तं दुःखिनामिति भावः॥२८॥
अखण्डमिति। आखण्डलतुल्यधामभिः इन्द्रतुल्यप्रभावैः। “धाम रश्मौ गृहे देहे स्थाने जन्मप्रभावयोः” इति हेमः। स्ववंशजैः भूपतिभिः भरतादिभिः चिरम् अखण्डम् अविच्छिन्नं धृता महो त्वया मदं च्योततीति मदच्युत् क्विप् तेन मदस्राविणा मतङ्गजेन स्रगिव आत्महस्तेन स्वकरेण स्वचापल्येन इत्यर्थः। अपवर्जिता परिहृता त्यक्ता। स्वदोषादेव अयम् अनर्थागम इत्यर्थः॥२९॥
व्रजन्ति ते मूढ़धियः पराभवं
भवन्ति मायाविषु ये न मायिनः।
प्रविश्य हि घ्नन्ति शठास्तथाविधान्
असंवृताङ्गान्निशिता इवेषवः॥३०॥
गुणानुरक्तामनुरक्तसाधनः
कुलाभिमानी कुलजां नराधिपः।
परैस्त्वदन्यः क इवापहारयेत्
मनोरमामात्मबधूमिव श्रियम्॥३१॥
स्वदोषादेवायमनर्थागम इत्युक्तम्। स च दोषः कुटिलेषु अकौटिल्यमेव इत्याह ! व्रजन्तीति। मूढ़धियो निर्विवेक-बुद्धयस्ते पराभवं व्रजन्ति। ये मायाविषु मायावत्सु विषये। “अस्माया मेधा” इत्यादिना विनिप्रत्ययः। मायिनो मायावन्तः। ब्राह्यादित्वात् इनिप्रत्ययः। न भवन्ति। अत्रैव अर्थान्तरं न्यस्यति। प्रविश्येति। शठाः अपकारिणो धूर्त्ताः तथाविधान् अकुटिलान् असंवृताङ्गान् अवर्मितशरीरान् निशिता इषव इव प्रविश्य प्रवेशं कृत्वा आत्मीया भूत्वा घ्नन्ति हि। “आर्जवं हि कुटिलेषु न नीतिः” इति भावः॥३०॥
न च लक्ष्मीचाञ्चल्यादयमनर्थागमः किन्तु स्वोपेक्षादोषमूलत्वादित्याशयेनाह। गुणेति। अनुरक्तसाधनोऽनुकूलसहायवान् उक्तञ्च कामन्दकीये, “उद्योगादनिवृत्तस्य सुसहायस्य धीमतः। छायेवानुगता तस्य नित्यं श्रीः सहचारिणी॥” इति। कुलाभिमानी क्षत्रियत्वाभिमानी कुलीनत्वाभिमानी च त्वदन्यस्त्वत्तोऽन्यः। “अन्यारात्" इत्यादिना पञ्चमी। क इव
भवन्तमेतर्हि मनस्विगर्हिते
विवर्त्तमानं नरदेव ! वर्त्मनि।
कथं न मन्युर्ज्वलयत्युदीरितः
शमीतरुं शुष्कमिवाग्निरुच्छिखः॥३२॥
अवन्ध्यकोपस्य विहन्तुरापदां
नराधिपो गुणैः सन्ध्यादिभिः सौन्दर्य्यादिभिश्च अनुरक्ताम् अनुरागिणीं कुलजां कुलक्रमादागतां कुलीनाञ्च मनोरमां श्रियम् आत्मबधूमिव स्वभार्य्यामिव। “वधूर्जाया स्नुषा स्त्री च” इत्यमरः। परैः शत्रुभिः अन्यैश्च अपहारयेत् स्वयमेव अपहारं कारयेदित्यर्थः। कलत्रापहारवत् लक्ष्म्यपहारोऽपि राज्ञो मानहानिकरत्वात् अनुपेक्षणीय इति भावः॥३१॥
अथ दशभिः कोपाद्दीपनं करोति। भवन्तमिति। हे नरदेव ! नरेन्द्र ! एतर्हि इदानीम् अस्मिन् आपत्कालेऽपीत्यर्थः। “एतर्हि सम्प्रतीदानीमधुना साम्प्रतं तथा” इत्यमरः। इदमोर्हिल्” इति हिल्प्रत्ययः। “एतैतौ रथोः” इत्येतादेशः। आपदमेवाह। मनस्विगर्हिते शूरजुगुप्सिते वर्त्मनि मार्गे विवर्त्तमानं शत्रुकृतां दुर्दशामनुभवन्तमित्यर्थः। भवन्तं त्वाम् उदीरितः उद्दीपितो मन्युः क्रोधः शुष्कं नीरसम्। “शुषः कः” इति निष्ठा तकारस्य ककारः शमी चासौ तरुश्चेति विशेषणसमासः, तं शमीग्रहणं शीघ्रज्वलनस्वभावात् कृतम् उच्छिख उद्गतज्वालः। “घृणिज्वाले अपि शिखे” इत्यमरः! वह्निरिव कथं न ज्वलयति ज्वलयितुमुचितमित्यर्थः। “मितां ह्रस्वः” इति ह्रस्वः॥३२॥
ननु अन्तःशत्रुत्वादयं क्रोधः त्याज्य एव इत्याशङ्क्याह। अज
वनान्तशय्याकठिनीकृताकृती
कचाचितौ विष्वगिवागजौ गजौ।
कथं त्वमेतौ धृतिसंयमौ यमौ
विलोकयन्नुत्महसे न वाधितुम्?॥३६॥
इमामहं वेद न तावकीं धियं
विचित्ररूपाः खलु चित्तवृत्तयः।
इति निपातनात् साधुः। तव वल्कवासांसि आहरन् कथं तव मन्युं क्रोधं दुःखं वा न करोति?॥३५॥
वनान्तेति वनान्तो वनभूमिरेव शय्या तया कठिनीकृताकृती कठिनीकृतदेही। “आकारो देह आकृतिः” इति वैजयन्ती। विष्वक् समन्तात्। “समन्ततस्तु परितः सर्वतो विष्वगित्यपि” इत्यमरः। कचाचितौ कचव्याप्तौ विशीर्णकेशौ इत्यर्थः। अतएव अगजौ गिरिसम्भवौ गजौ इव स्थितौ एतौ यमौ युग्मजातौ माद्रीपुत्रौ इत्यर्थः। “यमो दण्डधरं ध्वार्ष्टसंयमे यमजेऽपि च” इति विश्वः। विलोकयन् त्वं कथं धृतिसंयमौ सन्तोषनियमौ। “धृतिर्योगान्तरे धैर्य्ये धारणाध्वरतुष्टिषु” इति विश्वः। बाधितुं न उत्सहसे? न प्रवर्त्तसे। “शकधृष” इत्यादिना तुमुन्। अहो ते महत् धैर्य्यमिति भावः॥३६॥
अथ राज्ञो दुर्दशां दर्शयितुमुपोद्घातमाह। प्रकृतार्थं वर्णयितुम् अर्थान्तरवर्णनम् उपोद्घातः। इमामिति। इमां वर्त्तमानाम् तव इमां तावकीं त्वदीयाम्। “तस्येदम्” इति अण्प्रत्ययः। “तवकममकावेकवचने” इति तवकादेशः। धियं त्वदापद्विषयां चित्तवृत्तिम् अहं न वेद न वेद्मि। परबुद्धेरप्रत्यक्षत्वादिति भावः।
विचिन्तयन्त्या भवदापदं परां
रुजन्ति चेतः प्रसभं ममाधयः॥३७॥
पुराधिरूढ़ः शयनं महाधनं
विबोध्यसे यः स्तुतिगीतिमङ्गलैः।
अदभ्रदर्भामधिशय्य स स्थलीं
जहासि निद्रामशिवैः शिवारुतैः॥३८॥
“विदो लटो वा” इति णलादेशः। न चात्मदृष्टान्तेनापन्नत्वाद् दुःखित्वमनुमातुं शक्यते धीरादिष्वनैकान्तिकत्वादित्याशयेनाह। चित्तवृत्तया विचित्ररूपा धीराधीरा हि अनेकप्रकाराः खलु, किन्तु पराम् उत्कष्टां भवदापदं विचिन्तयन्त्या भावयन्त्या मम चेतः चित्तम् आधयो मनव्यथाः। “उपसर्ग घोः किः” इति किप्रत्ययः। प्रसभं प्रसह्य रुजन्ति भञ्जन्ति। “रुजो भङ्गे” इति धातोर्लट्। पश्यतामपि दुःसहा दुःखजननी त्वद्विपत्तिः अनुभवितारं त्वां नाविष्करोतीति महच्चित्रमित्यर्थः। चेत इति “रुजार्थानां भाववचनानामज्ज्वरेः” इति षष्ठी न भवति। तत्र शेषाधिकाराच्छेषत्वस्य विवक्षितत्वादिति॥३७॥
तदापदमेव श्लोकत्रयेणाह। पुरेति। यस्त्वं महाधनं बहुमूल्यं श्रेष्ठम्। “महाधनं महामूल्ये” इति विश्वः। शयनं शय्यामधिरूढ़ः सन् स्तुतयो गीतयश्च ता एव मङ्गलानि तैः। करणभूतैः पुरा विबोध्यसे वैतालिकैरिति शेषः पूर्वं बोधित इत्यर्थः। “पुरि लुङ् चास्मै” इति भूतार्थे लट्। स त्वमदभ्रदर्भां बहुकुशाम्। “अस्त्री कुशं कुथो दर्भः” इति। “अदभ्रं बहुलं बहु” इति उभयत्राप्यमरः। स्थलीम् अकत्रिमभूमिम्।
पुरोपनीतं नृप ! रामणीयकं
द्विजातिशेषेण यदेतदन्धसा।
तदद्य ते वन्यफलाशिनः परं
परैति कार्श्यं यशसा समं वपुः॥३९॥
अनारतं यौ मणिपीठशायिनौ
अरञ्जयद्राजशिरःस्रजां रजः।
“जानपद” इत्यादिना कृत्रिमार्थे ङीष्। एतेन दुःसहस्पर्शत्वमुक्तम्। “अधिशीङ्स्थासां कर्म” इति कर्मत्वम्। अधिशय्य शयित्वा। “अयङियक्ङिति” इत्ययङादेशः। अशिवैः अमङ्गलैः शिवारुतैः क्रोष्ठुरमितैः। “शिवा हरीतकी क्रोष्टा शमी नद्यामलक्युभे” इति वैजयन्ती। निद्रां जहासि अद्येति शेषः॥३८॥
पुरेति ! हे नृप! तदतत् पुरावर्त्ति वपुः पुरा द्विजातिशेषेण द्विजभक्तावशिष्टन् अन्धता अन्नेन। “भिस्मास्त्री भक्तमन्धोऽन्नम्” इत्यमरः। द्वे जाती येषां ते द्विजातयः। तदुक्तम्। “जन्मना जायते शूद्रः संस्कारैर्द्विज उच्यते” इति। “दन्तविप्राण्डजा द्विजाः” इत्यमरः। रमणीयस्य भावो रामणीयकं मनोहरत्वम् उपनीतं प्रापितम्। नयतेर्द्विकर्मकत्वात् प्रधाने कर्मणि क्तः। “प्रधानकर्मण्यास्त्येये लादीनाहुर्द्विकर्मकान्” इति वचनात्। अद्य वन्यफलाशिनस्ते तव तत् वपुः यशसा समं परम् अतिमात्रं कार्श्यं परैति प्राप्नोति। उभयमपि क्षीयते इत्यर्थः। अत्र सहोक्तिरलङ्कारः। तदुक्तं काव्यप्रकाशे। “सा सहोक्तिः सहायस्य बलादेकं द्विवाचकम्” इति॥३९॥
अनारतमिति। अनारतम् अजस्रं मणिपीठशायिनौ मणिमयपीठस्थितौ यौ चरणौ राजशिरःस्रजां नमद्भ्रूपाल-मौलिस्रजां
निषीदतस्तौ चरणौ वनेषु ते
मृगद्विजालूनशिखेषु बर्हिषाम्॥४०॥
द्विषन्निमित्ता यदियं दशा ततः
समूलन्मूलयतीव मे मनः।
परैरपर्य्यासितवीर्य्यसम्पदां
पराभवोऽप्युत्सव एव मानिनाम्॥४१॥
विहाय शान्तिं नृप ! धाम तत्पुनः
प्रसीद सन्धेहि बधाय विद्विषाम्।
रजः परागोऽरञ्जयत् तौ ते चरणौ मृगैर्द्विजैश्च तपस्विभिः आलूनशिखेषु छिन्नाग्रेषु वर्हिषां कुशानाम्। “वर्हिः कुशहुताशयोः” इति विश्वः। वनेषु निषीदतः तिष्ठतः॥४०॥
ननु सर्वप्राणिसाधारण्यामापदि का परिवेदना इत्यत्राह। द्विषदिति। यत् यतः कारणात् इयं दशा अवस्था। “दशावर्त्ताववस्थायाम्” इति विश्वः। द्विषन्तो निमित्तं यस्याः सा। “द्विषोऽमित्रे” इति शतृप्रत्ययः। अतो मे मनः समूलं निःशेषम् उन्मूलयति इव उत्पाटयति इव। दैविकी तु आपत् न दुःखायेत्याह। परैरिति। परैः शत्रुभिः अपर्य्यासिता अपर्य्यावर्त्तिता वीर्य्यसम्पद् येषां तेषां मानिनां पराभवो विपदपि उत्सव एवेति। वैधर्म्येण अर्थान्तरन्यासः। मानहानिर्दुःसहा नतु आपत् इति भावः॥४१॥
विहायेति। हे नृप ! शान्तिं शमं विहाय तत् प्रसिद्धं धाम तेजो विद्विषां बधाय पुनः सन्धेहि अङ्गीकुरु प्रसीद प्रार्थनायां लोट्। ननु शमेन कार्य्यसिद्धौ किं क्रोधेन इत्यत्र
व्रजन्ति शत्रूनवधूय निष्पृहाः
शमेन सिद्धिं मुनयो न भूभृतः॥४२॥
पुरःसरा धामवतां यशोधनाः
सुदुःसहं प्राप्य निकारमीदृशम्।
भवादृशाश्चेदधिकुर्वते रतिं
निराश्रया हन्त हता मनस्विता॥४३॥
अथ क्षमामेव निरस्तविक्रमः
चिराय पर्य्येषि सुखस्य साधनम्।
आह। व्रजन्तीति। निष्पृहा मुनयः शत्रून् कामादीन् अवधूय निर्जित्य शमेन क्रोधवर्जनेन सिद्धिं मोक्षाख्यां व्रजन्ति भूभृतस्तु न। कैवल्यकार्य्यवद् राजकार्य्यं न शान्तिसाध्यमित्यर्थः॥४२॥
पुर इति। किं च धामवतां तेजस्विनाम्। परापकारासहिष्णूनामित्यर्थः। पुरः सरन्तीति पुरःसरा अग्रेसराः। “पुरोऽग्रतोऽग्रेषु सर्त्तेः” इति टप्रत्ययः। यशोधना भवादृशाः सुदुःसहम् अतिदुःसहम् ईदृशम् उक्तप्रकारं निकारं पराभवं प्राप्य रतिं सन्तोषं अधिकुर्वते स्वीकुर्वते चेत् तर्हि हन्त इति खेदे। मनस्विता अभिमानिता निराश्रया सती हता तेजस्विजनैकशरणत्वात् मनस्विताया इत्यर्थः। अतः पराक्रमितव्यमिति भावः। यद्यपि अत्र प्रसहनस्य असङ्गतेः अधिपूर्वात् करोतेः “अधेः प्रहसने” इत्यात्मनेपदं न भवति। “प्रसहनं परिभवः” इति काशिका। तथापि अस्याः कर्त्रभिप्रायविवक्षायामेव प्रयोजकत्वात् कर्त्रभिप्राये “स्वरितञितः” इति आत्मनेपदं प्रसिद्धम्॥४३॥
अथेति। अथ पक्षान्तरे निरस्तविक्रमः सन् चिराय चिर-
विहाय लक्ष्मीपतिलक्ष्म कार्मुकं
जटाधरः सन् जुहुधीह पावकम्॥४४॥
न समयपरिरक्षणं क्षमं ते
निकृतिपरेषु परेषु भूरिधाम्नः।
अरिषु हि विजयार्थिनः क्षितीशा
विदधति सोपधि सन्धिदूषणानि॥४५॥
कालेनापि क्षमां क्षान्तिमेव। “क्षितिक्षान्त्योः क्षमा” इत्यमरः। सुखस्य साधनं पर्य्येषि अवगच्छसि तर्हि लक्ष्मीपतिलक्ष्म राजचिह्नं कार्मुकं विहाय। धरतीति धरः। पचाद्यच्। जटानां धरो जटाधरः सन् इह वने पावकं जुहुधि पावके होमं कुरु इत्यर्थः। अधिकरणे कर्मत्वोपचारः। विरक्तस्य किं धनुषा इत्यर्थः। “हुझल्भ्यो हेर्धिः”॥४४॥
अथ समयोल्लङ्घनाद् बिभेषि तदपि न किञ्चित् इत्याह। नेति। परेषु शत्रुषु निकृतिः शाठ्यं परं प्रधानं येषु तेषु तथोक्तेषु अपकारतत्परेषु सत्सु भूरिधाम्नो महौजसः प्रतीकारक्षमस्य ते तव समयः त्रयोदशसंवत्सरान् वने वत्स्यामि इत्येवं रूपा संवित्। “समयाः शपथाचारकालसिद्धान्तसंविद” इत्यमरः। तस्य परिरक्षणं प्रतीक्षणं न क्षमं न युक्तम्। “युक्ते क्षमं शक्ते हिते त्रिषु” इत्यमरः। हि यस्माद् विजयार्थिनो विजिगीषवः क्षितीशा अरिषु विषये सोपधि सकपटं यथा तथा। “कपटोऽस्त्री व्याजदम्भोपधयः छद्मकेतवे” इत्यमरः। सन्धिदूषणानि विदधति। केनचित् व्याजेन
xxxxx सन्धि दूषयन्ति विघट्टयन्ति इत्यर्थः। शक्तस्य हि
xxxxxxx
विधिसमयनियोगाद् दीप्तिसंहारजिह्मं
शिथिलवसुमगाधे मग्नमापत्पयोधौ।
रिपुतिमिरमुदस्योदीयमानं दिनादौ
दिनकृतमिव लक्ष्मीस्त्वां समभ्येतु भूयः॥४६॥
कार्य्यसाधनं प्रधानम् अन्यत् समयरक्षणादिकम् अशक्तस्य इति भावः। अर्थान्तरन्यासोऽलङ्कारः। पुष्पिताग्रावृत्तम्॥४५॥
उक्तमर्थमाशीर्वादपूर्वकमुपसंहरति। विधीति। विधिर्दैवम्। “विधिर्विधाने दैवे च” इत्यमरः। समयः कालः तयोः नियोगात् नियमनाद्धेतोः तयोर्दुरतिक्रमत्वादिति भावः। अगाधे दुस्तरे आपत्पयोधिरिवेत्युपमितसमासः। दिनकृतमिवेति वक्ष्यमाणानुसारात् तस्मिन् आपत्पयोधौ मग्नम्। सूर्य्योऽपि सायं सागरे मज्जति परेद्युरुन्मज्जति इत्यागमः। दीप्ति प्रताप आतपश्च तस्याः संहारेण जिह्मम् अप्रसन्नं शिथिलवम् शिथिलधनम् अन्यत्र शिथिलरश्मिम्। “वसुर्देवेऽग्नौ रश्मौ च वसु तोये धने मणौ” इति वैजयन्ती। “शिथिलबलम्” इति पाठे तु उभयत्रापि शिथिलशक्तिकमित्यर्थः। रिपुस्तिमिरमिवेति रिपुतिमिरम् उदस्य निरस्य उदीयमानम् उद्यन्तम्। “इङ्गतौ” इतिधातोर्दैवादिकात् कर्त्तरि शानच्। त्वां दिनादौ दिनकृतमिव लक्ष्मीः भूयः समभ्येतु भजतु। “आशिषि लिङ् लोटौ” इति लोट्। चमत्कारकारितया मङ्गलाचरणरूपतया च सर्गान्त्यश्लोके लक्ष्मीशब्दप्रयोगः। यथाह भगवान् भाष्यकारः। “मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि च शास्त्राणि प्रथन्ते धीरपुरुषाणि आयुष्मत्पुरुषाणि च भवन्ति अध्येतारश्च प्रवक्तारो भवन्ति”, पूर्णोपमेयम्। मालिनीवृत्तम्। सर्गान्तत्वाद्
इति श्रीभारविकृतौ किरातार्जुनीये
महाकाव्ये प्रथमः सर्गः॥१॥
वृत्तभेदः। यथाह दण्डी। “सर्गैरनतिविस्तीर्णैः श्रव्यवृत्तैः सुसन्धिभिः। सर्वत्र भिन्नवृत्तान्तैः उपेतं लोकरञ्जकम्” इति॥४६॥
अथ कविः काव्यवर्णनामाख्यानपूर्वकं सर्गपरिसमाप्तिं कथयति। इतीति। इतिशब्दः सर्गसमाप्तौ भारविकृतौ इति कविनामकथनम्। महाकाव्य इति महच्छब्देन लक्षणसम्पत्तिः सूचिता। किरातार्जुनीय इति काव्यवर्णनीययोः कथनम्। प्रथमः सर्गः समाप्त इति शेषः। एवमुत्तरत्रापि द्रष्टव्यम्। किरातार्जुनौ अधिकृत्य कृतोऽयं ग्रन्थः किरातार्जुनीयम्। शिशुक्रन्द इति द्वन्द्वाच्छप्रत्ययः राघवपाण्डवीयशब्दवत्। तथाहि। अर्जुन एव अत्र नायकः किरातस्तु तदुत्कर्षाय प्रतिभटतया वर्णितः। यथाह दण्डी। “वंशवीर्य्यश्रुतादीनि वर्णयित्वा रिपोरपि। तज्जयान्नायकोत्कर्षवर्णनञ्च धिनोति नः॥” अथ अयं संग्रहश्लोकः।
नेता मध्यमपाण्डवो भगवतो नारायणस्यांशजः
तस्योत्कर्षकृतेऽनुवर्ण्यचरितो दिव्यः किरातः पुनः।
शृङ्गारादिरसोऽयमत्र विजयी वीरप्रधानो रसः
शैलाद्यानि च वर्णितानि बहुशो दिव्यास्त्रलाभः फलम्॥
इति।
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायां
प्रथमः सर्गः समाप्तः॥१॥
द्वितीयः सर्गः।
———
विहितां प्रियया मनःप्रियाम्
अथ निश्चित्य गिरं गरीयसीम्।
उपपत्तिमदूर्जिताश्रयं
नृपमूचे वचनं वृकोदरः॥१॥
यदवोचत वीक्ष्य मानिनी
परितः स्नेहमयेन चक्षुषा।
अपि वागधिपस्य दुर्वचं
वचनं तद् विदधीत विस्मयम्॥२॥
विहितामिति। अथ वृकोदरो भीमः प्रियया द्रौपद्या। प्रियाग्रहणम् अस्या हितोपदेशसूचनार्थम्। विहिताम् अभिहिताम् इत्यर्थः। विपूर्वस्य दधातेः क्रियासामान्यवाचिनो योग्यविशेषपर्य्यवसानात्। मनःप्रियाम् अभिमतार्थयोगात् मनोहरां विशेषणद्वयेन अपि गिरो ग्राह्यत्वम् उक्तम्। गिरं गरीयसीं सारवत्तरां निश्चित्य नृपं धर्मराजम् उपपत्तिमत् युक्तियुक्तम् ऊर्जिताश्रयम् उदारार्थं वचनम् ऊचे उक्तवान्। कर्त्तरि लिट्। ब्रुवो वचिरादेशः। “ब्रुविशासि” इत्यादिना द्विकर्मकत्वम्। “अकथितञ्च” इति नृपस्य कर्मत्वम्॥१॥
किं तद्वचनं तदाह। यदिति। मानिनी क्षत्रियकुलाभिमानवती द्रौपदी स्नेहमयेन स्नेहप्रचुरेण। “तत् प्रकृतवचने मयट्।” चक्षुषा ज्ञानचक्षुषा। एतेन आप्तत्वम् उक्तम्। परितो वीक्ष्य समन्ताद् विविच्य यत् वचनम् अवोचत। ब्रुवोर्वचेर्वा
विषमोऽपि विगाह्यते नयः
कृततीर्थः पयसामिवाशयः।
स तु तत्र विशेषदुर्लभः
सदुपन्यस्यति कृत्यवर्त्म यः॥३॥
लुङ्। “वच उम्” इति उमागमः। वागधिपस्य बृहस्पतेः अपि दुर्वचं वक्तुम् अशक्यम्। शेषे षष्ठी इयं न कुद्योगलक्षणा। अतो “न लोक” इत्यादिना षष्ठीनिषेधा नास्ति। तत् वचनं विस्मयं विदधीत सर्वस्य अपीति शेषः। अथवा वागधिपस्य अपि विस्मयं विदधीत इति सम्बन्धः। दुर्वचं न केन अपि वक्तुं शक्यम् इति शेषः। यत् स्त्रीणामपि शास्त्रम् अनुरुणद्धि हितं च अनुबध्नाति अतो विस्मयकर ग्राह्यं च एतद्वचनम् इति तात्पर्य्यार्थः॥२॥
विस्मयकरत्वे हेतुमाह। विषम इति। विषमोऽपि दुर्बोधोऽपि अन्यत्र दुष्प्रवेशोऽपि नयो नीतिशास्त्रं पयसाम् आशयो ह्रद इव कृततीर्थः कृताभ्यामाद्युपायः सन्। “तीर्थं शास्त्रेऽध्वरे क्षेत्रोपायोपाध्यायमन्त्रिषु। योनौ जलावतारेषु मन्त्राद्यष्टादशस्वपि” इति विश्वः। अन्यत्र कृतजलावतारः सन्। “तीर्थं योनौ जलावतारे च” इति हलायुधः। विगाह्यते विगृह्यते प्रविश्यते च। किन्तु तत्र नये स तादृशः पुरुषो विशेषदुर्लभः, यः कृत्यं सन्धिविग्रहादिकार्य्यं स्नानादिकं च तस्य वर्त्म सत् साधु देशकालाद्यविरुद्धं यथार्थम् इत्यर्थः, अन्यत्र च गर्त्तग्राहपाषाणादिरहितम् उपन्यस्यति उदाहरति। “उपन्यासस्तु वाङ्मुखम्। उपोद्घात उदाहारः” इत्यमरः। यथा केचित् कृततीर्थे पयसि गभीरेऽपि प्रवेष्टारः सन्ति तीर्थकरस्तु विरलः, तद्वत् नीतौ अपि निगूढ़मपि तत्त्वं सति वक्तरि
परिणामसुखे गरीयसि
व्यथकेऽस्मिन् वचसि क्षतौजसाम्।
अतिवीर्य्यवतीव भेषजे
बहुरल्पीयसि दृश्यते गुणः॥४॥
इयमिष्टगुणाय रोचतां
रुचिरार्था भवतेऽपि भारती
ननु वक्तृविशेषनिष्पृहा
गुणगृह्या वचने विपश्चितः॥५॥
बोद्धारः सन्ति वक्ता तु न सुलभः इयञ्च साधु वक्तीति युज्यतेविस्मय इति तात्पर्य्यार्थः॥३॥
अथ ग्राह्यत्वे हेतुमाह। परिणामेति। परिणामः फलकालः परिणामावस्था च तत्र सुखे हिते। “शस्तं चाथ त्रिषु द्रव्ये पापपुण्यं सुखादि च” इत्यमरः। सुखशब्दस्य विशेष्यलिङ्गत्वम्। गरीयसि गुर्वर्थप्रतिपादके अर्थभूयिष्ठे श्रेष्ठे च क्षतौजसाम् उभयत्र अपि क्षीणशकीनां व्ययके युद्धोद्बलकत्वाद् भयङ्करे अन्यत्र आदौ सन्तापादिदुःखजनके अल्पीयसि अल्पाक्षरे अल्पभावे च। उक्तञ्च “स्वल्पा च मात्रा बहुलो गुणश्च” इति। अस्मिन् वचसि द्रौपदीवाक्ये अतिवीर्य्यवति अत्यन्तसामर्थ्यवति भेषजे औषधे इव। विस्मय इति ययी॥३॥भेषजौषध भैषज्यम्” इत्यमरः। बहुरधिको गुणः मानत्राणराज्यलाभादिः आरोग्यबलपोषादिश्च दृश्यते। अतो ग्राह्यमस्या वचनमिति भावः॥४॥
सत्यमेवं तथापि न रोचते किं करोमि इति अत्राह। इयमिति। रुचिरार्था हितार्थसम्पन्ना इति रुचिहेतूक्तिः।
चतसृष्वपि ते विवेकिनी
नृप ! विद्यासु निरूढ़िमागता।
कथमेत्य मतिर्विपर्य्ययम्
करिणी पङ्कमिवावसीदति॥६॥
इयं भारती द्रौपदीवाक्यैन इष्टगुणाय अभिमतगुणाय गुणग्राहिणे इत्यर्थः भवते तुभ्यम्। “रुच्यर्थानां प्रीयमाणः” इति सम्प्रदानत्वात् चतुर्थी। रोचतां स्वदताम्। विध्यर्थे लोट्। हितवचने बलादपि इच्छां कुर्य्यात् ओषधवत् इति भावः। तथापि स्त्रैणे वचसि का श्रद्धा तत्राह। ननु इति। गुणानां गृह्या गुणगृह्याः गुणपक्षपातिन इत्यर्थः। “यदा स्वैरिवाह्यपक्षेषु च” इति ग्रहेः क्यप्। विपश्चितो विद्यांसः। “विद्वान् विपश्चिद् दोषज्ञः” इत्यमरः। वचने विषये वक्तृविशेषे स्त्रीपुंसादिलक्षणे निष्पृहाः ननु निरास्थाः खलु। “बालादपि सुभाषितं ग्राह्यम्” इति न्यायादिति भावः॥५॥
सम्प्रति स्वयम् उपालभते। चतसृष्विति। हे नृप ! चतसृषु अपि विद्यासु आन्वीक्षिक्यादिषु। आन्वीक्षिकी त्रयी वार्त्ता दण्डनीतिश्च शाश्वती। विद्या ह्येताश्चतस्रस्तु लोकसंस्थितिहेतवः” इति कामन्दकः। निरूढ़िमागता प्रसिद्धिं गता अतएव विवेकिनी सदसद्विवेकवती। यथाह मनुः। “आन्वीक्षिक्यां तु विज्ञानधर्माधर्मौ त्रयी स्थितौ। अथानर्थौ च वार्त्तायां दण्डनीत्यां नयानयौ” इति। ते मतिः कथं करिणी पङ्कमिव विपर्य्ययं वैपरीत्यम् अविवेकरूपम् एत्य अवसीदति नश्यति। तत् न युक्तमिति भावः॥६॥
विधुरं किमतः परं परैः
अवगीतां गमिते दशामिमाम्।
अवसीदति यत् सुरैरपि
त्वयि सम्भावितवृत्ति पौरुषम्॥७॥
द्विषतामुदयः सुमेधसा
गुरुरस्वन्ततरः सुमर्षणः।
किं नः छिन्नम् इदानीं येन इत्थम् उपालभ्यते तत्राह। विधुरमिति। त्वयि परैः शत्रुभिः इमाम् ईदृशीम् अवगीतां गर्हिताम्। “अवगीतञ्च निर्वादे मुहुर्दुष्टे च गर्हिते” इति विश्वः। दशां गमिते प्रापिते सति। सुरैरपि सम्भावितवृत्ति बहुकृतप्रसारम्। अथवा निश्चितसद्भावम् पौरुषं पुरुषकारः। युवादित्वादण्प्रत्ययः। अवसीदति नश्यति इति यत् अतःपरम् अतोऽन्यत् अधिकं किं विधुरं किं कष्टं न किञ्चिदित्यर्थः। “विधुरं प्रत्यवाये स्यात् कष्टविश्लेषयोरपि” इति वैजयन्ती। अस्तीति शेषः। “अस्तिर्भवति परः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्ति” इति भाष्यकारः। भवतीति लटः पूर्वाचार्य्याणां संज्ञा। यत् पुरुषाधिकारस्य दुर्दशा सा च शत्रुकृता तदुपरि महत्कष्टं तच्च त्वदुपेक्षया इति उपालभ्यते इत्यर्थः॥७॥
अथ उपेक्षाकालत्वात् इयम् उपेक्षा इत्याशङ्क्य न अयम् उपेक्षाकाल इति वक्तुं तदेव तावत् श्लोकद्वयेन विविनक्ति। द्विषतामिति। भूतिम् उदयम् इच्छता शोभना मेधा यस्य तेन सुमेधसा सुधिया। “नित्यसिच् प्रजामेधयोः” इति असिच्प्रत्ययः। गुरुः महान् अपि अस्वन्ततरः अत्यन्तदुरन्तः क्षयो-
न महानपि भूतिमिच्छता
फलसम्पत्प्रवणः परिक्षयः॥८॥
अचिरेण परस्य भूयसीं
विपरीतां विगणय्य चात्मनः।
क्षययुक्तिमुपेक्षते कृती
कुरुते तत् प्रतिकारमन्यथा॥९॥
न्मुख इत्यर्थः द्विषताम् उदयः सुखेन मृष्यत इति सुमर्षणः सुसहः उपेक्ष्य इत्यर्थः। स्वतश्च दुर्मर्षण इति भावः। “भाषायां शासि” इत्यादिना खलर्थे युच्। महानपि फलसम्पत्प्रवणः फलसिद्ध्युन्मुखः। “प्रनिरन्तर्” इत्यादिना णत्वम्। परिक्षयो न सुमर्षणः न उपेक्ष्य इत्यर्थः। अन्यथा तु उपेक्ष्य इति भावः। न हि उदय एव प्रतीकार्य्यः न च क्षय एव उपेक्ष्यः किन्तु स्वन्तत्वास्वन्तत्वाभ्याम् उभौ अपि प्रतीकार्य्यौ उपेक्ष्यौ च भवता इत्यर्थः॥८॥
अथ उभयोरपि मध्ये एकतरस्य उदयक्षययोः गतिमुक्ता इदानीं युगपत्परिक्षयागमे गतिमाह। अचिरेणेति। कृतम् अनेन इति कृतीकुशल इत्यर्थः। “इष्टादिभ्यश्च” इति इनिप्रत्ययः। परस्य शत्रोः क्षययुक्तिं क्षययोगम् अचिरेण आशुभाविनीं भूयसीं दुरन्तां च तथा आत्मनः क्षययुक्तिं विपरीतां चिरभाविनीम् अल्पीयसीं स्वल्पाञ्च विगणय्य विचार्य्य। “ल्यपि लघुपूर्वात्” इत्ययादेशः। उपेक्षते अन्यथा उक्तवैपरीत्ये परस्य क्षययुक्तौ अल्पीयस्यां स्वस्य च भूयस्याम् इत्यर्थः तत्प्रतिकारं तस्याः क्षययुक्तेः प्रतीकारम् अचिरेण आशु कुरुते। एवं सति यदा शत्रोः अभ्युदयः स्वस्य च अतिपरिक्षयो यथा अस्माकं
अनुपालयतामुदेष्यतीं
प्रभुशक्तिं द्विषतामनीहया।
अपयान्त्यचिरात् महीभुजां
जननिर्वादभयादिव श्रियः॥१०॥
क्षययुक्तमपि स्वभावजं
दधतं धाम शिवं समृद्धये।
प्रणमन्त्यनपायमुत्थितं
प्रतिपच्चन्द्रमिव प्रजा नृपम्॥११॥
तदा किं वक्तव्यमित्यर्थः। सद्यःप्रतिकारं कुरुते इत्यर्थात् सिद्धम् अनुसन्धेयम्॥९॥
तथा अपि उपेक्षायाम् अनिष्टम् आचष्टे। अनुपालयतामिति। उदेष्यतीं वर्द्धिष्यमाणाम्। “आच्छीनद्योर्नुम्” इति विकल्पान्नुमभावः। द्विषतां प्रभुशक्तिं कोषदण्डजं तेजः। “स प्रभावः प्रतापश्च यत् तेजः कोषदण्डजम्” इत्यमरः। अनीहया अनुत्साहेन अनुपालयताम् उपेक्षमाणानां महीभुजां श्रियः सम्पदो जननिर्वादभयात् निकृष्टपुरुषानुरागात् लोकापवादभयात् इवेति हेतूत्प्रेक्षा। अचिरात् अपयान्ति अपसरन्ति। यथाह कामन्दकः—“स्त्रीभिः षण्ढ इव श्रीभिरलसः परिभूयते” इति। अतः पराक्रमितव्यमिति भावः॥१०॥
ननु परिक्षीणः कथं प्रबलेन अभियुज्यते इत्यत्राह। क्षयेति। क्षययुक्तमपि तथा क्षीणमपि सन्तं स्वभावजं सहजं शिवं सर्वलोकाल्हादकं धाम क्षात्रं तेजः प्रकाशञ्च दधतं समृद्धये वृद्ध्यर्थम् उत्थितम् उद्युक्तम् उत्साहमानम् इति यावत्।
प्रभवः खलु कोषदण्डयोः
कृतपञ्चाङ्गविनिर्णयो नयः।
स विधेयपदेषु दक्षतां
नियतिं लोक इवानुरुध्यते॥१२॥
अन्यत्र उत्थितम् उदितम् अतएव अनपायम् अविनाशिनं वर्द्धिष्यमाणम् इत्यर्थः। नृपं प्रजाः प्रतिपच्चन्द्रं द्वितीयाचन्द्रम् इवेत्यर्थः। प्रतिपच्छब्देन द्वितीयाग्रहणम्। प्रतिपदि तस्य अदृश्यत्वादिति भावः। प्रणमन्ति प्रह्वीभावेन वर्त्तन्ते इति भावः। चन्द्रं तु नमस्कुर्वन्ति। क्षीणस्य अपि उत्साहः कार्य्यसिद्धेः निदानमित्यर्थः। “श्रियं हि सततोत्साही दुर्बलोऽपि समश्नुते” इति कामन्दकः॥११॥
ननु प्रभुशक्तिशून्यस्य उत्साहः कुत्र उपयुज्यते इत्यत्र आह प्रभव इति। कर्म्मणाम् आरम्भोपायः पुरुषद्रव्यसम्पत् देशकालविभागः विनिपातप्रतीकारः कार्य्यसिद्धिश्च इति पञ्चाङ्गानि। यथाह कामन्दक—“सहायाः साधनोपाया विभागो देशकालयोः। विनिपातप्रतीकारः सिद्धिः पञ्चाङ्ग इष्यते” इति पञ्चानाम् अङ्गानां विनिर्णयः। “तद्धितार्थ” इत्यादिना उत्तरपदसमासः। कृतः पञ्चाङ्गविनिर्णयो यस्य येन वा स तथोक्तः नयो नीतिशास्त्रम् इति यावत्। कोषोऽर्थराशिः। “कोषोऽस्त्री कुड्मले खङ्गपिधानेऽर्थौवदिव्ययोः इत्यमरः। दण्डश्चतुरङ्गसैन्यम्। “दण्डोऽस्त्री शासनं राज्ञां हिंसायां लगुड़े यमे। यात्राज्ञायां सैन्यभेदे” इति वैजयन्ती। तयोः कोषदण्डयोः प्रभुशक्तेरित्यर्थः। प्रभवति अस्मादिति प्रभवः कारणम्। “मृदोरप” स नयः नीतिशास्त्रं विधेयपदेषु कार्य्यवस्तुषु। “पदं
अभिमानवतो मनस्विनः
प्रियमुच्चैः पदमारुरुक्षतः।
विनिपातनिवर्त्तनक्षमं
तममालम्बनमात्मपौरुषम्॥१३॥
विपदोऽभिभवन्त्यविक्रमं
रहयत्यापदुपेतमायतिः।
व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु” इत्यमरः। दक्षतां क्षिप्रकारित्वम् उत्साहमित्यर्थः। लोकः कृष्यादिप्रवृत्तो जनः नियतिं दैवमिव। “नियतिः नियमे दैवे” इति विश्वः। अनुरुध्यते अनुसरति। रुधेर्दैवादिकात् कर्त्तरि लट्। मन्त्रस्य अपि मूलम् उत्साहः तन्मूलायाः प्रभुशक्तेः मूलमिति किमु वक्तव्यम्। अतः स एव आश्रयणीयः यतो नक्तन्दिवं मन्त्रयतः तस्यापि प्रभोः निरुत्साहस्य न किञ्चित् सिद्ध्यति इति॥१२॥
ननु सोत्साहस्य असहायस्य कथम् अर्थसिद्धिः इत्यत्राह। अभिमानवत इति। अभिमानवतः मानधनस्य प्रियमिष्टमुच्चैः उन्नतं पदं स्थानं राज्यादिकमारुरुक्षतः आरोढुमिच्छतः प्राप्तुकामस्य मनस्विनो धीरस्य आत्मपौरुषं स्वपुरुषकार एव विनिपातनिवर्त्तनक्षमम् अनर्थप्रतीकारसमर्थम् आलम्बनं सहकारितमम् इष्टतमम्। यथा कस्यचित् तुरङ्गमारोहतः किञ्चित्पतनप्रतिबन्धकानुचरहस्तादिकमालम्बनं तद्वदिति ध्वनिः। किं पौरुषादन्यैः सहायैः शूराणाम् इति भावः॥१३॥
पौरुषानङ्गीकारे दोषमाह। विपद इति। अविक्रमं पौरुषहीनं विपदोऽभिभवन्ति तिरस्कुर्वन्ति। आपदुपेतं विपन्नम् आयतिः उत्तरकालः। “उत्तरः कालः आयतिः” इत्यमरः।
नियता लघुता निरायतेः
अगरीयान् न पदं नृपश्रियः॥१४॥
तदलं प्रतिपक्षमुन्नतेः
अवलम्ब्य व्यवसायबन्ध्यताम्।
निवसन्ति पराक्रमाश्रया
न विषादेन समं समृद्धयः॥१५॥
अथ चेदवधिः प्रतीक्ष्यते
कथमाविष्कृतजिह्मवृत्तिना।
रहयति त्यजति। निरायतेः आसन्नक्षयस्य इत्यर्थः। लघुता अगोरवं नियता अवश्याम्भाविनी न कश्चिदेनमाद्रियते इत्यर्थः। अगरीयान् लघीयान् नृपश्रियः पदं राजलक्ष्म्याः आपदं न भवति। यद्वा नृपेति पदच्छेदः। तस्मात् पौरुषं कर्तव्यमेव इत्यर्थः। अत्र पूर्वपूर्वस्याविक्रमत्वादुत्तरोत्तरं विपदादिकं प्रति कारणत्वात् कारणमालाख्योऽलङ्कारः। तथा च सूत्रम्। “पूर्वं पूर्वस्य उत्तरोत्तरहेतुत्वे कारणमाला” इति॥१४॥
फलितमाह। तदिति। तत्तस्मात् उपेक्षायां दोषसम्भवात् इत्यर्थः। उन्नतेः अभ्युदयस्य प्रतिपक्षम् अन्तरायं व्यवसायबन्ध्यताम् उद्योगशून्यताम् अवलम्ब्य अलम् उद्योगशून्यतालम्बनेन अलम् इत्यर्थः। “अलं खल्वोः प्रतिषेधयोः प्राचां क्ता” इति क्ताप्रत्ययः। तस्य ल्यवादेशः। तथाहि। पराक्रमः आश्रयः कारणं यासां ताः तथोक्ताः समृद्धयः सम्पदो विषादेन समम् अनुत्साहेन सह न निवसन्ति। पौरुषसाध्या सम्पदो न अनुत्साहसाध्याः। उभयोः सहावस्थानविरोधादित्यर्थः। वैधर्म्येण कार्य्यकारणरूपोऽर्थान्तरन्यासोऽलङ्कारः॥१५॥
धृतराष्ट्रसुतेन सुत्यजाः
चिरमास्वाद्य नरेन्द्रसम्पदः॥१६॥
द्विषता विहितं त्वयाथवा
यदि लब्धा पुनरात्मनः पदम्।
जननाथ ! तवानुजन्मनां
कृतमाविष्कृतपौरुषैर्भुजैः॥१७॥
ननु समयः प्रतीक्ष्यते, किं वेगेन इति अत्र आह अथेति। अथ अवधिः कालः प्रतीक्ष्यते चेत्।“अवधिस्त्ववधाने स्यात् सीम्नि काले बिलेऽपि च” इति विश्वः। आविष्कृतजिह्मवृत्तिना प्रकटितकपटव्यवहारेण धृतराष्ट्रसुतेन दुर्य्योधनेन नरेन्द्रसम्पदो राज्यसम्पदः। नरेन्द्रेति वा पदच्छेदः। चिरं चतुर्दशवर्षाणि आस्वाद्य अनुभूय कथं सुत्यजाः। ज्ञातास्वादेन तेन पश्चादपि सुखेन युद्धक्लेशं विना न त्यक्ष्यते एव इति अवधिप्रतीक्षणं व्यर्थमित्यर्थः॥१६॥
अथ यदि दैवात् स्वयमेव दुर्य्योधनः सम्पदो दास्यति तथापि तत् कथं रोचयेमहि इत्याह। द्विषतेति। अथवा द्विषता दुर्य्योधनेन विहितं समर्पितमित्यर्थः। आत्मनः पदं राज्यं पुनरपि त्वया लब्धा लप्स्यते यदि। लभेः कर्मणि लुट्। हे जननाथ! तव अनुजन्मनाम् अनुजानाम् आविष्कृतपौरुषैः प्रकटितपराक्रमैः भुजैः कृतम् अलं व्यर्थमिति यावत्। अस्मद्भुजैर्न किञ्चित् साध्यमित्यर्थः। राज्यदानादानयोर्द्विषतामेव स्वातन्त्र्ये अस्मद्भुजनैष्फल्यात् “क्षत्रियस्य विजितव्यम्” इति शास्त्रात् क्षात्रेणैव राज्यं ग्राह्यमिति भावः। कृतमिति प्रतिषेधार्थमव्ययं चादिषु पठ्यते। “कृतमिति निवारणनिषेधयोः”
मदसिक्तमुखैर्मृगाधिपः
करिभिर्वर्त्तयते स्वयं हतैः।
लघयन् खलु तेजसा जगत्
न महानिच्छति भूतिमन्यतः॥१८॥
अभिमानधनस्य गत्वरैः
असुभिः स्थास्नु यशश्चिचीषतः।
इति गणव्याख्याने। भुजैरिति गम्यमानसाधनक्रियापेक्षया करणत्वात् तृतीया। उक्तञ्च न्यासोद्द्योतेन। “केवलं श्रूयमाणैव क्रियानिमित्तं कारकभावस्यापि तु गम्यमानस्यापि” इति॥१७॥
ननु साम्नैव कार्य्यसिद्धौ किं क्षात्रेण। यथाह मनुः। “साम्ना दानेन भेदेन समस्तैरथवा पृथक्। विजेतुं प्रयतेतारीन् न युद्धेन कदाचन” इति। तत् किम् आग्रहेण इति आशङ्क्याह। मदेति। मृगाधिपः सिंहो मदसिक्तमुखैः मदवर्षिभिरित्यर्थः। स्वयं स्वेनैव हतैः करिभिर्वर्त्तयते वृत्तिं करोति तैरेव जीवतीत्यर्थः। चौरादिकाद् वृत्तेर्लट्। भौवादिकस्य तु “अणावकर्मकाच्चित्तवत्कर्त्तृकात्” इति परस्मैपदनियमादिति। तथाहि तेजसा प्रभावेण। “तेजो बले प्रभावे च ज्योतिष्यर्चिषि रेतसि” इति वैजयन्ती। जगत् लघयन् लघूकुर्वन् महान् तेजस्वी अन्यतोऽन्यस्मात् पुरुषात् भूतिं वृद्धिं न इच्छति खलु। नहि तेजस्विनः परायत्तवृत्तित्वं युक्तम्। मनुवचनं तु “अशूरविषयम्” इति भावः। विशेषेण वक्ष्यमाणसामान्यसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः॥१८॥
ननु युद्धात् पाक्षिको लक्ष्मीलाभः उपायान्तरैस्तु न तथा
अचिरांशुविलासचञ्चला
ननु लक्ष्मीः फलमानुषङ्गिकम्॥१९॥
ज्वलितं न हिरण्यरेतसं
चयमास्कन्दति भस्मनां जनः।
अभिभूतिभयादसूनतः
सुखमुञ्झन्ति न धाम मानिनः॥२०॥
इत्यत्राह। अभिमानति। अभिमानधनस्य वैरिनिर्य्यातनमात्रनिष्ठस्यअतएव गत्वरैः गमनशीलैः अस्थिरैः। “गत्वरश्च” इति क्वरबन्तोनिपातः। असुभिः प्राणैः करणैः। पुंसि भूम्न्यसवः प्राणाःइत्यमरः। स्थास्नु स्थिरम्। “ग्लाजिस्थग्स्नुः” इति ग्स्नु प्रत्ययःयशश्चिक्षीषतः चेतुं संगृहीतुमिच्छतः चिनोतेःशत्रन्तात्शतृप्रत्ययः। अचिरम् अंशवो यस्याः सः अचिरांशुविद्युत् तस्या विलासः स्फुरणं तद्वत् चञ्चला क्षणिक इत्यर्थः। लक्ष्मीः सम्पत् अनुषङ्गादागतम् आनुषङ्गिकम् अन्वाचयशिष्टमल्पं फलं मानत्राणाय यश एव मुख्यं फलम् अभ्युच्चयस्तु लक्ष्मीरिति मानिनामिदमेव श्लाघ्यमित्यर्थः। अत्र अस्थिरप्राणत्यागेन स्थिरयशःस्वीकाराभिधानात् न्यूनाधिकविनिमयाख्यः परिवृत्त्यलङ्कारः। उक्तञ्च काव्यप्रकाशे। “परिवृत्तिर्विनिमयो योऽर्थानां स्यात् समासमैः” इति॥१९॥
ननु अल्पस्य मानस्य हेतोः कथं प्राणत्यागः शक्यते कर्त्तुं यतो “जीवन्नरो भद्रशतानि पश्येत्” इत्याशङ्क्याह। ज्वलितमिति। जनो भस्मनां चयं पुञ्जम् आस्कन्दति पादादिना आक्रमति अढाहकत्वादिति भावः। ज्वलितं ज्वलन्तम्। कर्त्तरि क्तः। “मतिबुद्धि” इत्यादिसूत्रे चकाराद्वर्त्तमानार्थत्वम्।
किमपेक्ष्य फलं पयोधरान्
ध्वनतः प्रार्थयते मृगाधिपः।
प्रकृतिः खलु सा महीयसः
सहते नान्यसमुन्नतिं यथा॥२१॥
कुरु तन्मतिमेव विक्रमे
नृप ! निर्धूय तमः प्रमादजम्।
हिरण्यं रेतो यस्य तं हिरण्यरेतसम् अग्निं न आस्कन्दति दाहकत्वादिति भावः। अतो हेतोर्मानिन अभिभूतिभयात् प्राणलोभेन तेजस्त्यागे परिभवो भविष्यतीति भयादसूनेव सुखम् अक्लिष्टम् उञ्झन्ति त्यजन्ति। धाम तेजस्तु न उञ्झन्ति मानहानिकरात् जीवनात् स्वतेजसा मरणमेव वरम् इत्यर्थः। पूर्वतरश्लोकवत् अर्थान्तरन्यासोऽलङ्कारः॥२०॥
अथवा किमत्र प्रयोजनं चिन्तया किन्तु तेजस्विनामेव अयं स्वभावो यज्जिगीषुत्वम् इत्याशयेनाह। किमिति। मृगाधिपः सिंहः किं फलं प्रयोजनम् अपेक्ष्य ध्वनतो गर्जतः। धरन्तीति धराः पचाद्यच्। पयसां धराः तान् पयोधरान् प्रार्थयतेऽभियाति। “याच्ञायामभिधाने च प्रार्थना कथ्यते बुधैः” इति केशवः। अथवा प्रार्थयते अवरुणद्धि इत्यर्थः। “अभियाच्ञावरोधयोः” इत्यभिधानात्। तथाहि महीयसो महत्तरस्य सा प्रकृतिः खलु स्वभावो यया प्रकृत्या अन्यसमुन्नतिं परवृद्धिं न सहते। महतः परभञ्जनमेव पुरुषार्थ इत्यर्थः। पूर्ववत् अलङ्कारः॥२१॥
उक्तं प्रयोजनं निगमयति। कुरु तदिति। हे नृप ! तत् तस्मात् उक्तरीत्या पराक्रमावसरत्वाद्धेतोः। “यत्तद्यतस्ततो
ध्रुवमेतदवेहि विद्विषां
त्वदनुत्साहहता विपत्तयः॥२२॥
द्विरदानिव दिग्विभावितान्
चतुरस्तोयनिधीनिवायतः।
प्रसहेत रणे तवानुजान्
द्विषतां कः शतमन्युतेजसः॥२३॥
ज्वलतस्तव जातवेदसः
सततं वैरिकृतस्य चेतसि।
हेतौ” इत्यमरः। प्रमादजं तमो मोहं निर्धूय निरस्य विक्रमे पौरुषे एव मतिं कुरु। विक्रममेव अङ्गीकुरु न तु उपायान्तरमित्यर्थः। न च विक्रमवैफल्यमित्याह। ध्रुवमिति। विद्विषां विपत्तयः त्वदनुत्साहहता तव अनुत्साहेन अव्यवसायेन हता प्रतिबद्धाः। अन्यथा प्रागेव विपद्यरन्निति भावः। इत्येतत् ध्रुवं निश्चितम् अवेहि विद्धि। “ध्रुवं नित्ये निश्चिते” च इति शाश्वतः॥२२॥
न च नः पराजयशङ्का कार्य्येत्वाह। द्विरदानिति। दिग्विभावितान् दिक्षु प्रांसद्धान् तान् आयत आगच्छतः। आङ्पूर्वादिण् धातोः शतृप्रत्ययः। चनुरो द्विरदान् दिग्गजानिव तथोक्तविशेषणान् चतुरः तोयनिधीन् इव रणे दिग्विभावितान् शतमन्युतेजस इन्द्रविक्रमात् चतुरः तत्र अनुजान् द्विषतां मध्ये कः प्रसहेत सोढुं शक्नुयादित्यर्थः। “शकि लिङ् च” इति शक्त्यर्थे लिङ्। अतो निःशङ्कं प्रवर्त्तस्वेति भावः॥२३॥
आशीर्वादव्याजेन फलितमाह। ज्वलत इति। तव चेतसि सततं ज्वलता वैरिकृतस्य जातवेदसः क्रोधाग्नेः शिवेतर
विदधातु शमं शिवेतरा
रिपुनारीनयनाम्बुसन्ततिः॥२४॥
इति दर्शितविक्रियं सुतं
मरुतः कोपपरीतमानसम्।
उपसान्त्वयितुं महीपतिः
द्विरदं दुष्टमिवोपचक्रमे॥२५॥
अशिवा अमङ्गला। वैधव्यदुःखजनकत्वादिति भावः। रिपुनारीनयनाम्बुसन्ततिः वैरिवनिताश्रुप्रवाहः शमं विदधातु। वैरि कृतस्य क्रोधस्य वैरिबधमन्तरेण शान्त्यसम्भवादवश्यं तद्बधस्त्वया कर्त्तव्य इत्यर्थः। क्रोधस्य विषयनिगरणेन विषयिणो जातवेदस एव उपनिबन्धनात् अतिशयोक्तिरलङ्कारः। तदुक्तम्—“विषयस्यानुपादानाद्विषय्युपनिबध्यते। यत्र सातिशयोक्तिः स्यात् कवेः प्रौढ़ोक्तिजीविता” इति। तत्रापि क्रोधस्य जातवेदसो भेदेऽपि अभेदाध्यवसायाद् भेदेऽभेदरूपा तत एव अम्बुनिर्वाप्यत्वोक्तिश्च घटते। तथा च यथा अम्बुसेकेन अग्निः सम्यक् शाम्यति तथा शत्रुवधेनक्रोध इति औपम्यं गम्यते॥२४॥
इतीति। इति उक्तरीत्या दर्शिता विक्रिया विकारो वागारम्भात्मको येन तं कोपपरीतमानसं कोपाक्रान्तचित्तम्। इदं विशेषणद्वयं द्विरदेऽपि योज्यम्। मरुतः सुतं भीमं महीपतिः युधिष्ठिरो दुष्टं द्विरदमिव। एतेन अस्य शौर्य्यमेव न बुद्धिः अस्तीति गम्यते। उपासान्त्वयितुम् अनुनेतुम् उपचक्रमे प्रवृत्तः “प्रोपाभ्यां समर्थानाम्” इति आत्मनेपदम्। राज्ञा भाव्युपकारविशेषापेक्षया कथञ्चित् अवश्यो जनः शनैः शनैः द्विरदवत् वशीकरणीयो न तु त्याज्य इति भावः॥२५॥
अपवर्जितविप्लवे शुचौ
हृदयग्राहिणि मङ्गलास्पदे।
विमला तव विस्तरे गिरां
मतिरादर्श इवाभिदृश्यते॥२६॥
स्फुटता न पदैरपाकृता
न च न स्वीकृतमर्थगौरवम्।
प्रथमं तावत् स्तुत्यादिभिः प्रसादयति अपवर्जितेति। विप्लवः प्रमाणबाधः अन्यत्र वाह्यमलसंक्रमः सोऽपवर्जितो यस्य तस्मिन् अपवर्जितविप्लवे। शुचौ शुचिः शब्दसौष्ठ्यं लौहशुद्धिश्च तद्वति। अतएव हृदयग्राहिणि मनोरमे मङ्गलास्पदे एकत्र हितार्थप्रतिपादकत्वात् अन्यत्र मङ्गलवस्तुत्वात् च श्रेयस्करे। “रोचनं चन्दनं हेम मृदङ्गं दर्पणं मणिम्। गुरून् अग्निं तथा सूर्य्यं प्रातः पश्येत् सदा बुधः” इति पुराणवचनात्। तव गिरां विस्तरे वाक्यप्रपञ्चे। “प्रथने वावशब्दे” इति घञ्प्रतिषेधात् “ऋदोरप्” इत्यप्। अतएव “विस्तारो विग्रहो व्यासः स तु शब्दस्य विस्तरः” इत्यमरः। मतिस्त्वद्बुद्धिरादर्शे दर्पणे इव। “दर्पणे मुकुरादर्शौ” इत्यमरः। विमला विशदा अभिदृश्यते वाग्वैशद्यादेव मतिवैशद्यमनुमीयते। तत्पूर्वकत्वात्तस्येत्यर्थः॥२६॥
अथ युग्मेनाह। स्फुटतेति। उपपत्तिरिति च। पदैः सुप्तिङन्तशब्दैः स्फुटता विशदार्थता न अपाकृता न त्यक्ता। अर्थगौरवम् अर्थभूयस्त्वं वा न च न स्वीकृतम्। स्वीकृतमेवेत्यर्थः। “वैशद्यप्रसक्तार्थगौरवाभावनिवर्त्तनार्थं नञ्द्वयं सम्भाव्यनिषेधनिवर्त्तने द्वौ प्रतिषेधौ” इति वामनः। गिरां पदानाम् अवान्तर-
रचिता पृथगर्थता गिरां
न च सामर्थ्यमपीहितं क्वचित्॥२७॥
उपपत्तिरुदाहृता बलात्
अनुमानेन न चागमः क्षतः।
इदमीदृगनीदृगाशयः
प्रसभं वक्तुमुपक्रमेत कः॥२८॥
वाक्यानां च पृथगर्थता भिन्नार्थता। अपुनरुक्तार्थतेति यावत्। रचिता कृता। तथा क्वचिदपि सामर्थ्यं गिराम् अन्योन्यसामर्थ्यं साकाङ्क्षत्वान्नापोहितं न वर्जितम्। अन्यथा दशदाडिमादिशब्दवत् एकवाक्यता न स्यात्। यथाहुः—“अर्थैकत्वादेकवाक्यं सापेक्षा चेद्विभागे स्यात्” इति। ननु अर्थगौरवमित्यत्र कथं षष्ठीसमासः? “पूरणगुण” इत्यादिना प्रतिषेधान्नैष दोषः। ये शुक्लादयशब्दा गुणे गुणिनि च वर्त्तन्ते। यथा पटस्य शुकं शुकः पट इति च। तेषाम् एव अत्र निषेधाद् ये च सदा गुणमात्रवचना। यथा गौरवं प्राधान्यं रसो गन्धः स्पर्श इत्येवमादयः। तेषामनिषेधात्। तथा “तत्स्थैश्च गुणैः षष्ठी समस्यते” इति वचनाद्बहुलमभियुक्तप्रयोगदर्शनाच्च बलाकाया शीक्त्यमित्यादौ तु भाष्यकारवचनादसमासः। अतएव आह वामनः—“अत्र पीतिमादिषु गुणवचनसमासो बली स्यात्” इति॥२७॥
उपपत्तिरिति। किञ्च बलात् स्वबलमाश्रित्य। कर्मणि ल्यब्लोपे पञ्चमी वक्तव्या। उपपत्तिर्युक्तिरुदाहृता। पराक्रमपक्ष एव श्रेयानिति युक्तिः उक्ता इत्यर्थः। उचितं चैतत् महावीरस्येति भावः। तथा अनुमानेन युक्त्या आगमः शास्त्रं न क्षतः
अवितृप्ततया तथापि मे
हृदयं निर्णयमेव धावति।
अवसाययितुं क्षमा सुखं
न विधेयेषु विशेषसम्पदः॥२९॥
न हतः। किन्तु आगमाविरुद्धमेव उक्तम्। अन्यथा तद्विरोधात् अनुमानस्यैव प्रामाण्यभङ्गप्रसङ्गादिति भावः। ईदृक् इत्थं क्षात्रयुक्तम् इदं वचनम् अविद्यमान ईदृगाशय इत्थं क्षात्रयुक्ताभिप्रायो यस्य सोऽनीदृगाशयः। “अभिप्रायश्छन्द आशयः” इत्यमरः। कः प्रसभं हठात् वक्तुमुपक्रमेत न कोऽपीत्यर्थः। इत्थं वक्तुमुपक्रमितैव नास्ति। वक्ता तु दूरापास्त एवेति भावः। केचिदेतत् श्लोकत्रयं निन्दापरत्वेनापि योजयन्ति। तदसत् हितोपदेशमात्रतत्परस्य अतिवत्सलस्य राज्ञो मत्सरिण इव महावीरे भ्रातरि विधेये सर्वानर्थमूलभूतनिन्दातात्पर्य्यकल्पनानौचित्यादिति॥२८॥
यदि साधूक्तं तर्हि तथैव क्रियतामित्याशङ्क्याह। अवितृप्ततयेति। तथापि त्वया सम्यङ् निर्णीतेऽपि मे हृदयम् अवितृप्ततया असन्तुष्टतया। अद्यापि संशयगतत्वेन इत्यर्थः। निर्णयमेव धावति अनुसरति अपेक्षते इति यावत्। अद्यापि निर्णयस्य अनुदयादिति भावः। निर्णयानुदये हेतुमाह—अवेति। विधेयेषु सन्धिविग्रहादिकर्त्तव्यार्थेषु या विशेषसम्पदोऽवान्तरभेदानां समृद्धयो बाहुल्यानि ताः सुखम् अक्लेशेन अवसाययितुं पुरुषान् प्रत्यानुकूल्येन स्वस्वरूपं स्वयमेव शीघ्रं प्रत्याययितुमित्यर्थः। स्यतेर्ण्यन्तादणि कर्मकर्त्तृकात्तुमुन्। णेरनादिसूत्रस्य अयं विषयः। क्षमन्ते इति क्षमाः। पचाद्यच्। शक्ता न भवन्ति।
सहसा विदधीत न क्रियाम्
अविवेकः परमापदां पदम्।
वृणते हि विमृष्यकारिणं
गुणलुब्धाः स्वयमेव सम्पदः॥३०॥
अभिवर्षति योऽनुपालयन्
विधिवीजानि विवेकवारिणा।
“क्षमं शक्ते हितं त्रिषु” इत्यमरः। विधेयमात्रस्य सुगमत्वेऽपि तद्विशेषाणां सौक्ष्माद् बाहुल्याच्च दुर्ज्ञेयत्वात् अद्यापि निर्णयाकाङ्क्षेति तात्पर्य्यार्थः। अत्र निर्णयधावनं प्रत्युत्तरवाक्यार्थस्य हेतुत्वाभिधानाद् वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः। तदुक्तम्। हेतोर्वाक्यपदार्थत्वे काव्यलिङ्गमुदाहृतम्” इति॥२९॥
वस्तुविशेषावधारणमन्तरेणैव प्रवृत्तिरित्याशङ्क्याह। सहसेति। क्रियते इति क्रिया कार्य्यं तां सहसा अविमृष्येत्यर्थः। “सहसेत्याकस्मिकाविमर्षयोः” इति गणव्याख्याने स्वरादिपाठादव्ययम्। न विदधीत न कुर्वीत। कुतः अविवेकोऽविमृष्यकारित्वं परमत्यन्तम् आपदां पदं स्थानम्। विपत्तिकारणमित्यर्थः। व्यतिरेकेण उक्तमर्थरान्वयेनाह। वृणते इति। गुणलुब्धा गुणगृह्याः। गुणगृध्नव इति स्वयंवरणहेतूक्तिः। सम्पदः श्रियः। विमृष्य करोतीति विमृष्यकारी। “उपपदमतिङ्” इति समासः। तं स्वयमेव वृणते भजन्ते हि। “वृङ् सम्भक्तौ” इति धातुः। तस्मात् विमृष्य एव प्रवर्त्तितव्यमित्यर्थः। अत्र सहसा विधाननिषेधलब्धविमृष्यकारित्वरूपकारणस्य आपद्रूपव्यतिरेककार्य्येण समर्थनात् वैधर्म्येण अर्थान्तरन्यासः। द्वितीयार्द्धेन च स एव साधर्म्येण इति ज्ञेयम्॥३०॥
स सदा फलशालिनीं क्रियां
शरदं लोक इवाधितिष्ठति॥३१॥
शुचि भूषयति श्रुतं वपुः
प्रशमस्तस्य भवत्यलङ्क्रिया।
ननु साहसिकस्यापि फलसिद्धिर्दृश्यत एव तत् किं विवेकेन इति अत्र आह। अभीति। यः पुमान् विधीयन्ते इति विधयः कृत्यवस्तूनि वीजानीवेति उपमितसमासः। शरदं लोक इवेति वाक्यगतोपमानुसारात्। तानि विधिवीजानि विवेको वारीव विवेकवारि तेन विवेकवारिणा पूर्ववत् समासः। अनुपालयन् प्रतीक्षमाणः संरक्षन् अभिवर्षति सिञ्चति। स पुमान् फलं साधननिष्पाद्योऽर्थः शस्यञ्च। “शस्ये हेतुकृते फलम्” इति उभयत्रापि अमरः। तच्छालिनीं क्रियां कर्म्म लोको जनः। “लोकस्तु भुवने जने” इत्यमरः। शरदमिव सदा नित्यन् अधितिष्ठति। सदा क्रियाफलं प्राप्नोत्येव न कदाचिद् व्यभिचरति इत्यर्थः। साहसिकस्य काकतालीयन्यायेन फलसिद्धिर्विवेकिनस्तु नियता इति भावः। अत्र फलशब्देन शस्यहेतुकृतयोः अर्थयोः अभेदाध्यवमायात् श्लेषमूलातिशयोक्तिः तदनु गृहीता च उपमा इत्यनुसन्धेयम्॥३१॥
नियता विवेकिनः फलसिद्धिरित्युक्तं सम्प्रति तामेव रुच्यर्थं स्तौति। शुचीति। शुचि सम्प्रदायशुद्धं श्रुतं शास्त्रश्रवणं कर्त्तृ वपुः भृषयति अन्यथा अविद्वान् पुरुषः शोच्य इति भावः। तस्य श्रुतस्य प्रथमः क्रोधोपशान्तिः अलङ्किया भूषणं भवति अन्यथा श्रुतवं फल्यात् इति भावः। पराक्रमः सति अवसरे कार्य्यं प्रशमस्य आभरणं भवति। अन्यथा सर्वैः परिभूयत इति भावः। स पराक्रमः नयापादिता नीतिसम्पादिता विवेक
प्रशमाभरणं पराक्रमः
स नयापादितसिद्धिभूषणः॥३२॥
मतिभेदतमस्तिरोहिते
गहने कृत्यविधौ विवेकिनाम्।
सुकृतः परिशुद्ध आगमः
कुरुते दीप इवार्थदर्शनम्॥३३॥
युर्विका इति यावत्। सा चासौ सिद्धिश्च सैव भूषणं यस्य स तथोक्तः। अन्यथा साहसिकस्य सिद्धेः काकतालीयत्वं न पक्षं पराक्रमवैयर्थ्यात् इति भावः। वपुषो भूष्यतैव अत्र सिद्धेः भूषणतैव तु। उभयं मध्यमानां तु तत् पूर्वोत्तरपक्षयोरिति विवेकः। एवं विशिष्टसिद्धे अनन्यभूषिताया एव भूषणत्वोक्त्या सर्वाभरणतया स्तुतिर्गम्यते। अत्र उत्तरोत्तरस्य पूर्वपूर्वविशेषणत्वात् एकावल्यलङ्कारः। तदुक्तम्। “यत्र विशेषणभावं पूर्वं पूर्वं प्रति क्रमेणैव भवति परस्परम् एव अलङ्कृतिः एकवली कथिता” इति॥३२॥
विमृष्य कुर्य्यादिति स्थितं तत्र विमर्षोपायः क इत्युक्ते शान्तमेवेत्याह। मतीति। मतिभेदः कार्य्यविप्रतिपत्तिः। मतिभेदः तम इवेति उपमितसमासः। दोष इवेति उपमानुसारात् तेन तिरोहिते आच्छन्ने अतएव गहने दुरवगाहे कृत्यविधौ कार्य्यानुष्ठाने विवेकिनां सुकृतः स्वभ्यस्तः अतएव परिशुद्धो निश्चितः अन्यत्र सुविहितः प्रवातादिदोषरहितः आगमः शास्त्रम्। “आगमः शास्त्र आयाते” इति विश्वः। दीप इव अर्थदर्शनं कार्य्यं ज्ञानं वस्तुप्रतिभासनञ्च कुरुते॥३३॥
स्पृहणीयगुणैर्महात्मभिः
चरिते वर्त्मनि यच्छतां मनः।
विधिहेतुरहेतुरागसां
विनिपातोऽपि समः समुन्नतेः॥३४॥
शिवमौपयिकं गरीयसीं
फलनिष्पत्तिमदूषितायतीम्।
विगणय्य नयन्ति पौरुषं
विजितक्रोधरया जिगीषवः॥३५॥
एवं विमृष्य कुर्वतो दैवात् अर्थनाशेऽपि न कश्चित् अपराध इत्याह। स्पृहणीयेति। स्पृहणीयगुणैर्लोकश्लाघ्यगुणैः महात्मभिः सज्जनैः चरिते अनुष्ठिते वर्त्मनि आचारे मनो यच्छता निदधतां सन्मार्गेण व्यवहरतामित्यर्थः। विधिहेतुर्दैवनिमित्तकः। “विधिर्विधाने दैवे च” इत्यमरः। अतएव आगमस्य अपराधानाम् अहेतुर्विनिपातोऽपि दैविकानर्थोऽपि। “विनिपातोऽवपाते स्यात् दैवादिव्यसनेऽपि च” इति विश्वः। समुन्नते अतिवृद्धे समः तुल्यः। दैविके पुरुषस्य अनुपालभ्यत्वादिति भावः। यथाह कामन्दकः। “यत् तु सम्यगुपक्रान्तं कार्य्यं प्रति विपर्य्ययम्। पुमांस्तत्रानुपलभ्यो दैवान्तरितपौरुषः” इति॥३४॥
सम्प्रति यत् विमृश्यं तदाह। शिवमिति। जिगीषवः जयच्छवः नृपा विजितक्रोधरया विजितक्रोधवेगाः सन्तो गरीयसी प्रभृताम् अदूषितायतीम् अक्षतोत्तरकालां स्वन्ताम् इत्यर्थः। फलनिष्पत्तिं फलसिद्धिं विगणय्य फलवत्त्वं निश्चित्य इत्यर्थः। वीरुपं पुरुषकारं शिवम् अनुकूलम् औपयिकम् उपायम् विन-
अपनेयमुदेतुमिच्छता
तिमिरं दोषमयं धिया पुरः।
अविभिद्य निशाकृतं तमः
प्रभया नांशुमताप्युदीयते॥३६॥
बलवानपि कोपजन्मनः
तमसो नाभिभवं रुणद्धि यः।
यादित्वात् स्वार्थे ठक् उपायात् ह्रस्वत्वञ्च। नयन्ति प्रापयन्ति पौरुषम् उपायेन योजयन्ति इत्यर्थः। नानिश्चितफलं कर्म कुर्वीतेति भावः। यथाह कामन्दकः। “निष्पलं क्लेशबहुलं सन्दिग्धफलमेव च। न कर्म कुर्य्यात् मतिमान् सदा वैरानुबन्धि च” इति। नयति प्रापणार्थे द्विकर्मकः। अत्र पौरुषस्य कर्त्तृस्थकर्मत्वेऽपि उपायस्य अतथात्वात् क्रोधं विनयत इत्यादिवत। “कर्त्तृस्थे चाशशरीरे कर्मणि” इति आत्मनेपदं न भवति॥३५॥
यदुक्तं विजितक्रोधरया इति तदावश्यकमाह। अपनेयमिति। उदेतुम् अभ्युदेतुम् इच्छता पुरुषेण पुरः प्रथमं रोषमय रोषात् आगतम्। “मयट् च” इति मयट्। तिमिरम् अज्ञानधिया विवेकबुद्ध्या करणेन अपनेयम् अपनोद्यम्। तथाहि अंशुमतापि कर्त्रा प्रभया तेजसा करणेन निशाकृतं तमो ध्वान्तम् अविभिद्य न उदीयते किन्तु विभिद्य एव इत्यर्थः। सूर्य्यस्य अपि एवं किमुत अन्येषाम्? इति अपिशब्दार्थः। इणो भावे लट्॥३६॥
ननु दुर्बलस्य एवम् अस्तु बलीयसस्तु क्रोधादेव कार्य्यसिद्धिरिति अत आह। बलवानिति। बलवान् शूरोऽपि यः कोपात् जन्म यस्य तस्य कोपजन्मनः। “अवर्ज्यो बहुब्रीहिर्व्यधिकरणो
क्षयपक्ष इवैन्दवीः कलाः
सकला हन्ति स शक्तिसम्पदः॥३७॥
समवृत्तिरुपैति मार्दवं
समये यश्च तनोति तिग्मताम्।
अधितिष्ठति लोकमोजसा
स विवस्वानिव मेदिनीपतिः॥३८॥
क्व चिराय परिग्रहः श्रियां
क्व च दुष्टेन्द्रियवाजिवश्यता।
जन्माद्युत्तरपदः” इति वामनः। तमसो मोहस्य। कृद्योगात् कर्त्तरि षष्ठी। अभिभवम् आक्रान्तिं न रुणद्धि न निवारयति स नृपः क्षयस्य पक्षः क्षयपक्षः कृष्णपक्षः ऐन्दवीः इन्दुसम्बन्धिनी कला इव। “कला तु षोड़शो भागः” इत्यमरः। सकलाः समग्रा शक्तिसम्पदः प्रभुमन्त्रोत्साहशक्तीः तिस्रोऽपि हन्ति नाशयति। अन्धस्य जङ्घावलमिव क्रोधान्धस्य लोकोत्तरमपि सामर्थ्यं व्यर्थम् एव इत्यर्थः। अत्र कालस्य सर्वकारणत्वात् क्षयपक्षस्य कला क्षयकारित्वम् अस्ति एव तमसस्तु तत्कालविजृम्भणात् तथा व्यपदेशः॥३७॥
विमृष्य कुर्वतः क्रियाप्रकारमाह। समेति। यः समा नातिमृदुः नातितिग्मा वृत्तिः यस्य स समवृत्तिः सन् समये सति अवसरे मार्दवं मृदुवृत्तित्वम् उपैति तिग्मतां तीक्ष्णवृत्तित्वं च तनोति स मेदिनीपतिः विवस्वान् इव सूर्य्य इव ओजसा तेजसा लोकम् अधितिष्ठति आक्रामति। सूर्य्योऽपि ऋतुभेदेन समवृत्तिः इत्यादि योज्यम्॥३८॥
शरदब्भ्रचलाश्चलेन्द्रियैः
असुरक्षाहि बहुच्छलाः श्रियः॥३९॥
किमसामयिकं वितन्वता
मनसः क्षोभमुपात्तरंहसः।
क्रियते पतिरुच्चकैरपां
भवता धीरतयाऽधरीकृतः?॥४०॥
उक्तान्यथाकरणेऽनिष्टमाह। क्वेति। श्रियां सम्पदां चिराय बहुकालं परिग्रहः स्वायत्तीकरणं क्व। इन्द्रियाणि वाजिन इव इति उपमितसमासः। दुष्टानाम् अमार्गधाविनाम् इन्द्रिय वाजिनां वश्यो वशङ्गतः तस्य भावः तत्ता क्व। न उभयम् एकत्र तिष्ठति इत्यर्थः। कुतः हि यस्मात् शरदब्भ्रवत् चला चञ्चलाः किञ्च बहुच्छला बहुव्याजा बहुरन्ध्रा इति यावत्। “छलं तु स्खलिते व्याजे” इति विश्वः। श्रियः सम्पदः। बलेन्द्रियैः असुरक्षा रक्षितुमशक्याः। कथञ्चित् प्राप्ता अधिश्रियो न अविनीतेषु तिष्ठन्ति इत्यर्थः। वाक्यार्थहेतुत्वात् काव्यलिङ्गमलङ्कारः॥३९॥
क्रोधस्य दुष्टताम् उक्त्वातस्य त्यागम् उपदिशति। किमिति। उपात्तरंहसः प्राप्तवरस्य मनसः। समयोऽस्य प्राप्तः सामयिकः “समयस्तदस्य प्राप्तम्” इति ठञ्। स न भवति इति अभ्युदायिकः तम् अप्राप्तकालं क्षोभं वितन्वता भवता धीरतया धैर्य्यबलेन। “मनसो निर्विकारत्वं धैर्य्यं सत्स्वपि हेतुषु” इति रसिकाः। अधरीकृतः तिरस्कृतः प्राक् इति शेषः। अपां पतिः समुद्रः किं किमर्थम् उच्चकैः अधिकः क्रियते तेन पराजितं पुनः उच्चकैः कुर्य्यादिति भावः। अत्र वितन्वता इति भीमविशेषण-
श्रुतमप्यधिगम्य ये रिपून्
विनयन्ते न शरीरजन्मनः।
जनयन्त्यचिराय सम्पदाम्
अयशस्ते खलु चापलाश्रयम्॥४१॥
अतिपातितकालसाधना
स्वशरीरेन्द्रियवर्गतापिनी।
जनवत् न भवन्तमक्षमा
नयसिद्धेरपनेतुमर्हति॥४२॥
त्वेन पदान्तैस्त उच्चैःकरणे हेतुत्वात् काव्यलिङ्गमलङ्कारः॥४०॥
श्रुतमिति। किञ्च ये श्रुतं शास्त्रमधिगम्यापि शरीरजन्मन, शरीरप्रभवान् रिपून् कामक्रोधलोभमोहमदमात्सर्य्यादीन् न विनयन्त न नियच्छन्ति। “कर्त्तृस्थे चाशरीरे कर्मणि” इति आत्मनेपदम्। ते खलु अचिराय झटिति सम्पदां श्रियां चापलाश्रयम् अस्थैर्य्यनिबन्धनम् अयशो दुष्कीर्त्तिं जनयन्ति। आश्रयदोषात् अस्थैर्य्यं सम्पदां न स्वदोषात् इत्यर्थः। अजितारिषड् अस्य कुतः सम्पद इति भावः॥४१॥
या क्रोधात् कार्य्यहानिः इत्याशयेन आह। अतिपातितेति। अतिपातितानि अति
कात्तानि कालः समयोऽनन्तरूप साधनानि सहायादीनि च यया सा तथोक्ता तापयतीति तापिनी। कर्त्तरि ल्युट् टित्वात् ङीप्। स्वस्य यच्छरीरम् इन्द्रियवर्गश्च तयोः तापिनी अक्षसा क्रोधो भवन्तं जनवत् पृथग् जनमिव। “तेन तुल्यम्” इति वतिप्रत्ययः। तेन एव अथ लक्ष्यते। “तद्धितश्चासर्वविभक्तिः” इति अव्ययम्। नयसिद्धेः
उपकारकमायतेर्भृशं
प्रसवः कर्मफलस्य भूरिणः।
अनपायि निवर्हणं द्विषां
न तितिक्षासमसस्ति साधनम्॥४३॥
प्रणतिप्रवणान् विहाय नः
सहजस्नेहनिबद्धचेतसः।
नयसाध्यफलात् अपनेतुं पृथक्कर्तुं नार्हति। असमयक्रोधस्य आत्मसन्तापातिरिक्तं फलं नास्ति इत्यर्थः॥४२॥
दुष्टः क्रोध इत्युक्तम् अथ क्षमाया गुणानाह। उपकारकमिति। आयतेः उत्तरकालस्य भृशम् अत्यन्तम् उपकारकं स्थिरफलहेतुरित्यर्थः। भूरिणः प्रभूतस्य कर्मफलस्य प्रसूयतेऽनेनेति प्रसवः कारणम्। अपायि न भवतीति अनपायि स्वयम् अविनश्यदेव द्विषां निवर्हणं विनाशकम् एवंगुणकं साधनं तितिक्षासमं क्षमातुल्यं नास्ति। “क्षान्तिः क्षमा तितिक्षा च” इत्यमरः। “तिजनिशाने” इति धातोः “गुप्तिज् किद्भ्यः सन्” इति क्षमार्थे सन् प्रत्ययः। तितिक्षासममित्यनुक्तोपमेया समासे आर्थीलुप्तोपमा भृशायत्यनपायिशब्दः साधनान्तरवैलक्षण्याद् व्यतिरेकश्च व्यज्यते। भेदप्राधान्ये उपमानादुपमेयस्याधिक्ये विपर्य्यये च व्यतिरेकः॥४३॥
ननु तितिक्षया कालक्षेपे दुर्य्योधनः सर्वान् राज्ञो वशीकुर्य्यादित्यत्राह। प्रणतीति। सहजस्नेहेन अकृत्रिमप्रेम्णा निबद्धचेतसोऽस्मासु गाढ़ं लग्नचित्ताः। सुयोधने तु न तथेति भावः। किञ्च मानभृताम् अहङ्कारिणां प्रथमे अग्रेसराः। सुयोधनस्यापीति भावः। कृष्णयो यादवाः प्रणतिप्रवणान् प्रणामपरान्।
प्रणमन्ति सदा सुयोधनं
प्रथमे मानभृतां न वृष्णयः॥४४॥
सुहृदः सहजास्तथेतरे
मतमेषां न विलङ्घयन्ति ये।
विनयादिव यापयन्ति ते
धृतराष्ट्रात्मजमात्मसिद्धये॥४५॥
अभियोग इमान् महीभुजो
भवता तस्य कृतः कृतावधेः।
सुयोधनस्तु न तथेति भावः। नोऽस्मान् विहाय सुयोधनः सदा न प्रणमन्ति न नमन्ति नानुसरन्ति किन्तु कार्य्यकाले त्यक्ष्यन्ति एव इत्यर्थः। सति यादवविग्रहे न किञ्चित् अस्माकमसाध्यं भवेदिति भावः। अनेकपदार्थहेतुकं काव्यलिङ्गमलङ्कारः॥४४॥
किञ्च कारणान्तरमाह। सुहृद इति। किञ्च एषां वृष्णीनांं ये सहजाः सहजाताः सहजा मातृपितृपक्षा इत्यर्थः। “अन्य अपि दृश्यते” इति डप्रत्ययः। सुहृदो मित्राणि तथा इतरे कृत्रिमसुहृदश्च एषां मतं वृष्णिपक्षं न विलङ्घयन्ति न अतिक्रामन्ति। ते द्वयेऽपि नृपाः दुर्य्योधनोपजीविनोऽपीति भावः। आत्मसिद्धये आत्मजीवनार्थं धृतराष्ट्रात्मजं दुर्य्योधनं विनयात् आनुकूल्यादिव यापयन्ति कालं गमयन्ति। कार्य्यकाले तु वृष्णिपक्षप्रवेशिन एव इत्यर्थः। यातेर्ण्यन्ताल्लट्"“अर्त्तिह्रि” इत्यादिना पुगागमः॥४५॥
किञ्च नायमभियोगकाल इत्याशयेनाह। अभियोग इति। कृतावधेः परिभावितकालस्य। “अवधिस्त्ववधानेस्यात्सीम्नि
प्रविघाटयिता समुत्पतन्
हरिदश्वः कमलाकरानिव॥४६॥
उपजापसहान् विलङ्घयन्
स विधाता नृपतीन् मदाद्धतः।
सहते न जनोऽप्यधःक्रियां
किमु लोकाधिकधाम राजकम्॥४७॥
असमापितकृत्यसम्पदां
काले बिलेऽपि च” इति विश्वः। तस्य सुयोधनस्य कर्मणि षष्ठी। भवता कृतः अवधिमनपेक्ष्येति शेषः। अभियोग आर्द्राभिभव इति यावत्। “अभियागस्तुशपथे स्यादाद्रे च पराभवे” इति विश्वः। इमान् पूर्वोक्तान् महीभुजो राज्ञो हरिदश्वः उष्णरश्मिः कमलाकरानिव समुत्पतन् उद्यन् एव प्रविघाटयिता भेत्स्यति। घाटयतैर्मौवादिकाल्लट्। चौरादिकस्य तु “सितां ह्रस्वः” इति ह्रस्वत्वं स्यात्॥४६॥
अथ न ये वृष्णिपक्षास्तान् प्रत्याह। उपजापेति। मदोद्धतः स दुर्य्योधनो नृपतीन् अन्यान् नृपान् विलङ्घयन् मदाद् अवमानयन् सहन्त इति सहाः पचाद्यच्। उपजापस्य सहात् भेदयोग्यान्। “समौ भेदोपजापौ” इत्यमरः। विधाता विधास्यति विपूर्वस्य दधातेर्लुट्। अवमानितो जनः सुभेद्य इति भावः। न च ते सहिष्णव इत्याह—जनः प्राकृतोऽपि अधःक्रियाम् अपमानं न सहते लोकाधिकधाम लोकोत्तरप्रतापं राजकं राजसमूहः। “गोत्रोक्षोष्ट्र” इत्यादिना वुञ्प्रत्ययः। किमु सहते इति किं वक्तव्यमित्यर्थः। तथा सति कृत्स्नमेव राजमण्डलम् अस्मानेव अवलम्बिष्यते इति भावः॥४७॥
हतवेगं विनयेन तावता।
प्रभवन्त्यभिमानशालिनां
मदमुत्तम्भयितुं विभूतयः॥४८॥
मदमानसमुद्धतं नृपं
न वियुङ्क्ते नियमेन मूढ़ता।
अतिमूढ़ उदस्यते नयात्
नयहीनादपरज्यते जनः॥४९॥
अपरागसमीरणेरितः
क्रमशीर्णाकुलमूलसन्ततिः।
ननु सखीनिवेत्यादिवनेचरोक्त्या तस्य मदसम्भावनापि कथमित्यत्राह। असमापितेति। असमापितकृत्यसम्पदाम् अकृतकृत्यानाम् अभिमानशालिनाम् अहङ्कारिणां विभूतयः सम्पद एव तावता स्वल्पेन विनयेन कार्य्यवशात् आरोपितेनेति शेषः। हतवेगं प्रतिबद्धवेगं न तु स्वरूपतो हतं मदम् उत्तम्भयितुं वर्द्धयितुं प्रभवन्ति। सर्वथा दुर्जनं सम्पदो विकारयन्ति इति भावः॥४८॥
अथ मदस्य अनर्थहेतुतां युग्मेनाह। मदेति। अपरागेति च। मदमानाभ्यां दर्पाहङ्काराभ्यां समुद्धतं नृपं मूढ़ता कार्य्यापरिज्ञानं नियमेन अवश्यं न वियुङ्क्ते न विमुञ्चति। अतिमूढ़ो नयात् नीतिमार्गात् उदस्यते उत्क्षिप्यते। कर्मकर्त्तरि लट्। नयहीनात् जनो लोकोऽपरज्यतेऽपरक्तो भवति। “स्वरितञितः” इत्यादिना आत्मनेपदम्॥४९॥
अपरागोऽपीतिः द्वेष इति यावत्। समीरण इव तेनेरितः
सुकरस्तरुवत् सहिष्णुना
रिपुरुन्मूलयितुम् महानपि॥५०॥
अणुरप्युपहन्ति विग्रहः
प्रभुमन्तःप्रकृतिप्रकोपजः।
अखिलं हि हिनस्ति भूधरं
तरुशाखान्तनिघर्षजोऽनलः॥५१॥
मतिमान् विनयप्रमाथिनः
समुपेक्षेत समुन्नतिं द्विषः।
चोदितः अतएव क्रमेण शीर्णा शीर्णीभूता आकुला चला च मूलसन्ततिः प्रकृत्यादिस्वजनवर्गः शिफासङ्घातश्च यस्य स तथोक्तः। “मूलं वशीकृते स्वीये शिफातारान्तिकादिषु” इति वैजयन्ती। रिपुर्महानपि तरुवत् वृक्ष इव सहिष्णुना क्षमावता उन्मूलयितुम् उद्धर्त्तुं सुकरः सुसाध्यः सुकरोन्मूल इत्यर्थः। अत्र मदादेः पूर्वपूर्वस्य उत्तरोत्तरं प्रति कारणत्वात् कारणमाला तरुवदित्युपमा चेति द्वयोः संसृष्टिः॥५०॥
ननु अन्तर्भेदमात्रेण कथं सुसाध्यः तत्राह। अणुरिति। अणुः अल्पोऽपि अन्तःप्रकृतिप्रकोपजोऽन्तरङ्गामात्याद्यपराग-समुत्थः। “प्रकृतिः पञ्चभूतेषु स्वभावे मूलकारणे। छन्दःकारणगुह्येषु जन्त्वमात्यादिकेष्वपि” इति वैजयन्ती। विग्रहो वैरं प्रभुम् उपहन्ति नाशयति। अत्र दृष्टान्तमाह। तरुशाखान्तानां निघर्षो घर्षणं तज्जोऽनलोऽग्निः। भूधरं गिरिम् अखिलं साकल्यन् हिनस्ति हि दहति इत्यर्थः। अत्र उपमानोपमेयसमानधर्माणां प्रतिबिम्बतया निर्देशेन दृष्टान्तालङ्कारः॥५१॥
सुजयः खलु तादृगन्तरे
विपदन्ता ह्यविनीतसम्पदः॥५२॥
लघुवृत्तितया भिदां गतं
बहिरन्तश्च नृपस्य मण्डलम्।
अभिभूय हरत्यनन्तरः
शिथिलं कूलमिवापगारयः॥५३॥
अनुशासतमित्यनाकुलं
नयवर्त्माकुलमर्जुनाग्रजम्।
स्वयमर्थ इवाभिवाञ्छितः
तमभीयाय पराशरात्मजः॥५४॥
तथापि कथं वर्द्धमानं शत्रुम् उपेक्षत इति आशङ्क्य दुर्विनीतत्वात् इति आह। मतिमानिति। मतिमान् प्राज्ञः विनम्रप्रमथ्नाति त्यजति इति विनयप्रमाथिनो दुर्विनीतस्य द्विषः समुन्नतिं वृद्धिं समुपेक्षेत। उपेक्षायाः फलमाह। तादृगविनातोऽन्तरे क्वचित् रन्ध्रं सुजयः सुखेन जेतुं शक्यः खलु हि यस्मात् अविनीतसम्पदो विपदन्ता अनर्थोदर्काः॥५२॥
कथं दुर्विनीतस्य शत्रोः सुजयत्वमित्याशङ्क्य भेदजर्जरितत्वात् इति आह। लघ्विति। लघुवृत्तितया स्वभ्युदुर्वृत्त-रूपतया बहिर्मित्रादिजनपदेषु अन्तरमात्यादिषु च भिदां भेदगतम्। “षिद्भिदादिभ्योऽङ्” इति अङ्प्रत्ययः। नृपस्य मण्डलः राष्ट्रम् अनन्तरः सन्निहितो जिगीषुः आपगारयो नदीवेगः शिथिलम् अन्तर्भेदजर्जरं कुलमिव अभिभूय आक्रम्य हरति॥५३॥
अन्विति। इति इत्थम् आकुलम् अरिनिकारस्मरणात् क्षुभि-
मधुरैरवशानि लम्भयन्
अपि तिर्य्यञ्चि शमं निरीक्षितैः।
परितः पटु बिभ्रदेनसां
दहनं धाम विलोकनक्षमम्॥५५॥
सहसोपगतः सविस्मयं
तपसां सूतिरसूतिरापदाम्।
ददृशे जगतीभुजा मुनिः
स वपुष्मानिव पुण्यसञ्चयः॥५६॥
तम् अर्जुनाग्रजं भीमसेनं नयवर्त्म नीतिमार्गम् अनाकुलम् असङ्कीर्णं यथा तथा अनुशासतम् उपदिशन्तम्। “जक्षित्यादयः षट्” इत्यभ्यस्तान्नुमभावः। तं युधिष्ठिरं पराशरस्य आत्मजः पुत्रः वेदव्यासः। स्वयमभिवाञ्छितोऽर्थ इव साक्षात् मनोरथ इव इति उत्प्रेक्षा। अभीयाय प्राप्तः॥५४॥
अथ युग्मेनाह। मधुरैरिति। मधुरैः शान्तैः निरीक्षितैः अवलोकनैः। नपुंसके भावे क्तः। न विद्यते वशम् आयत्तत्वं येषां तानि अवशानि प्रतिकूलानि। “वशमायत्ततायां च” इति विश्वः। तिर्य्यञ्चि मृगपक्ष्यादीनि शमं शान्तिं लम्भयन् प्रापयन्। “लभेश्च” इति नुमागमः। “गत्यर्थ” इत्यादिना द्विकर्मकत्वम्। परितः पटु उज्ज्वलम् एनसाम्। दह्यतेऽनेनेति दहनं निवर्त्तकं तथापि विलोकनक्षमं दर्शनीयम्। वह्न्यादितो विलक्षणमिति भावः। धाम तेजो बिभ्रत्॥५५॥
सहसेति। पुनः सहसा उपगतः अकस्मात् आगतः तपसां सूतिः प्रसवः आपदाम् असूतिः अप्रभव निवर्त्तक इति यावत्।
अथोच्चकेरासनतः पराद्ध्यात्
उद्यन् स धूतारुणवल्कलाग्रः।
रराज कीर्णाकपिशांशुजालः
अङ्गात् सुमेरोरिव तिग्मरश्मिः॥५७॥
अवहितहृदयो विधाय सोऽर्हाम्
ऋषिवदृषिप्रवरे गुरूपदिष्टाम्।
तदनुमतमलञ्चकार पश्चात्
प्रशम इव श्रुतमासन नरेन्द्रः॥५८॥
स मुनिर्व्यासःवपुष्मान्देहधारीपुण्यसञ्चयः, पुण्यराशिरिवइति उत्प्रेक्षा जगतीभुजा राज्ञा सविस्मयंददृशे दृष्टः॥५६॥
अथेति। अथ दर्शनानन्तरम्। उच्चके उन्नतात् पराद्ध्यात् श्रेष्ठात्। “अर्द्धाद्यत्परावराधमोत्तमपूर्वाच्च” इति यञ्प्रत्ययः। आमनत सिंहासनात् उद्यन् उत्तिष्ठन् अतएव धृतानि कम्पितानि अरुणानि वल्कलाायाणि यस्य स तथोक्तः। स नृप कोपविस्तृतम् आकपिशम् अंशुजालं यस्य स तथोक्तः। सुमेरो शृङ्गादुद्यन् तिग्मरश्मिरिव रराज॥५७॥
अवहितेति। स नरेन्द्रः अवहितहृदयः अप्रमत्तचित्तः सन् “चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मनः” इत्यमरः। ऋषिप्रवरः मुनिश्रेष्ठो। ऋषिवत् ऋष्यर्हाम्। अर्हत्यर्थे वतिप्रत्ययः। गुरूपदिष्टां शास्त्रीयामित्यर्थः। अर्हां पूजाम्। “गुरोश्च हल” इति णकारप्रत्ययः। विधाय पश्चात् अनन्तरं तदनुमतं तेन अनुज्ञातम् आसनम्। प्रशमः शान्तिः श्रुतं शास्त्रश्रवणमिव अलञ्चकार। उक्तञ्च पूर्वम्। “प्रशमस्तस्य भवत्यलङ्क्रिया” इति। मुन्याज्ञया उपविष्टवान् इत्यर्थः॥५८॥
व्यक्तोदितस्मितमयूखविभासितोष्ठः
तिष्ठन् मुनेरभिमुखं स विकीर्णधाम्नः।
तन्वन्तमिद्धमभितो गुरुमंशुजालं
लक्ष्मीमुवाह सकलस्य शशाङ्कमूर्त्तेः॥५९॥
इति श्रीभारविकृतौ किरातार्जुनीये
महाकाव्ये द्वितीयः सर्गः॥२॥
व्यक्तेति। व्यक्तोदितः स्फुटोद्गतैः स्मितमयूखैः विभासिता ओष्ठौ यस्य स तथोक्तः। विकीर्णधाम्नः विस्तृततेजसः मुखं अभिमुखं तिष्ठन् स नृपः इद्धं समृद्धं दीप्तमिति यावत्। अंशुजालं तन्वन्त गुरुं गोष्पतिम्। “गुरुर्गोष्पतिपित्रादौ” इत्यमरः। “अभितः परितः” इत्यादिना द्वितीया। अभितोऽभिमुखं तिष्ठत इति शेषः। सकलस्य सम्पूर्णस्य शशाङ्को मूर्त्तिः यस्य तस्य इन्दोर्लक्ष्मीमुवाह वहति स्म। अत्र उपमेयस्य राज्ञः उपमानेन इन्दुधर्मेण लक्ष्म्याः साक्षात्सम्बन्धासम्भवात् सदृशलक्ष्मीमिवेति प्रतिबिम्बकरणक्षेपात् असम्भवद्वस्तुसम्बन्धात् पदार्थवृत्तिर्निदर्शनालङ्कारः। तदुक्तम्—“प्रतिबिम्बस्य करणं सम्भवति यत्र वस्तुयोगेनागम्यमसम्भविता निदर्शना द्विधाभिर्मता” इति॥५९॥
इति श्रीमहामहोपाध्यायमल्लिनाथसूरिविरचितायां
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायां
व्यासागमनो नाम द्वितीयः सर्गः॥२॥
तृतीयः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1729775216Capture.JPG"/>
ततः शरच्चन्द्रकराभिरामैः
उत्सर्पिभिः प्रांशुमिवांशुजालैः।
बिभ्राणमानीलरुचं पिशङ्गीः
जटास्तड़ित्वन्तमिवाम्बुवाहम्॥१॥
प्रसादलक्ष्मीं दधतं समग्रां
वपुःप्रकर्षेण जनातिगेन।
प्रसह्य चेतःसु समासजन्तम्
असंस्तुतानामपि भावमार्द्रम्॥२॥
अथ त्रिभिर्मुनिं विशिनष्टिं चतुर्भिः कलापकमाह। तदुक्तम्—“द्वाभ्यां युग्ममिति प्रोक्तं त्रिभिः श्लोकैर्विशेषकैः कलापकचतुर्भिः स्यात्तदूर्द्धं कुलकं स्मृतम्” इति। तत इति। तत उपवेशनानन्तरं शरच्चन्द्रकराभिरामैः आह्लादकैः इत्यर्थः। उत्सर्पिभिः ऊर्द्धं प्रसारिभिः अंशुजालैः प्रभापटलैः प्रांशुम् उन्नतमिव स्थितम् इति उत्प्रेक्षा। पुनः आनीलरुचं कृष्णवर्णः पिशङ्गीः पिङ्गलवर्णाः गौरादित्वात् ङीष्। जटा बिभ्राणं धारयन्तम् अतएव तड़ित्वन्तं विद्युद्युक्तम् अम्बुवाहमिव स्थितम् इति उत्प्रेक्षा। धर्मात्मजो युधिष्ठिर एतादृशं मतिमाबभाषे इति चतुर्थश्लोकेन अन्वयः॥१॥
प्रसादेति। पुनः समग्रां सम्पूर्णां प्रसादः सौम्यता तस्य लक्ष्मीं सम्पदं दधतम्। अतएव जनमतिगच्छतीति जनातिगेन लोकातिशायिना। “अन्येष्वपि दृश्यते” इति डप्रत्ययः।
अनुद्धताकारतया विविक्तां
तन्वन्तमन्तःकरणस्य वृत्तिम्।
माधुर्य्यं विस्रम्भविशषभाजा
कृतोपसम्भाषमिवेक्षितेन॥३॥
धर्मात्मजो धर्मनिबन्धिनीनां
प्रसूतिमेनःप्रणुदां श्रुतीनाम्।
वपुःप्रकर्षेण आकारसम्पदा असंस्तुतानाम् अपरिचितानाम् अपि। व्यासोऽयम् इति अजानताम् इत्यर्थः। “संस्तवः स्यात् परिचयः” इत्यमरः। चेतःसु चित्तेषु आर्द्रं भाव स्नेहार्द्रभावम् अभिप्रायं प्रसह्य बलात् समासजन्तं लगयन्तम् इति यावत्। “दंशसञ्जस्वञ्जां शपि” इत्युपधालोपः। प्रसन्नाकारेषु सर्वोऽपि स्निह्यतीति भावः॥२॥
अनुद्धतेति। पुनः अनुद्धताकारतया शान्ताकारत्वेन लिङ्गेन अन्तःकरणस्य वृत्तिं विविक्तां पूतां शान्ताम् इति यावत्। “विविक्तौ पूतविजनो” इत्यमरः। तन्वन्तं प्रकटयन्तम् आकृतिः एव अस्य चित्तशुद्धिं कथयति इत्यर्थः। पुनः माधुर्य्यं निसर्गसौम्यता विस्रम्भो विश्वासः। “समो विस्रम्भविश्वासौ” इत्यमरः। तयोः विशेषम् अतिशयं भजतीति तथोक्तेन इक्षितेन दर्शनेन एव कृतोपसम्भाषा सम्भाषणं येन तम् इव इति उत्प्रेक्षा। दृष्टिविशेषेण एव उपसम्भाषणमिव कृत्वा स्थितम् इत्यर्थः। काशिकायां तु “उपसम्भाषणमुपसान्त्वनम्” इति भाषणादिसूत्रेण॥३॥
धर्मेति। पुनः धर्मं निबध्नन्ति इति धर्मनिबन्धिनीनाम् अग्निहोत्रादिधर्मप्रतिपादिकानाम् एनःप्रणुदाम् अधच्छिदा
हेतुं तदभ्यागमने परीप्सुः
सुखोपविष्टं मुनिमाबभाषे॥४॥
इति॥ चतुर्भिः कलापकम्॥
अनाप्तपुण्योपचयैर्दुरापा
फलस्य निर्धूतरजाः सवित्री।
तुल्या भवद्दर्शनसम्पदेषा
वृष्टेर्दिवो वीतबलाहकायाः॥५॥
अद्य क्रियाः कामदुघाः क्रतूनां
सत्याशिषः सम्प्रति भूमिदेवाः।
क्विप्। श्रुतीनां वेदानाम् “श्रुतिः स्त्री वेद आम्नायः” इत्यमरः। प्रसूतिं प्रभवं सुखेन उपविष्टं मुनिं तदभ्यागमने तस्य मुनेरागमने हेतुं कारणं परीप्सुः जिज्ञासुः। आप्नोतेः सन्नन्तात् उप्रत्ययः। “आप्ज्ञप्यृधासीत्” इतीकारः। “अत्र लोपोऽभ्यासस्य” इत्यभ्यासलोपः। आबभाषे उवाच॥४॥
अनाप्तेति। अनाप्तपुण्योपक्षयेः अकृतपुण्यसङ्ग्रहे दुरापा दुर्लभा फलस्य सवित्री श्रेयस्करात्यर्थः। निर्धृतरजा हतरजोगुणा। एकत्र रजो धूलिः अन्यत्र गुणः। “रजो रजोगुणे धूलो परागार्त्तवयोरपि” इति विश्वः। एषा भवद्दर्शनसम्पत् सम्पत्तिः लाभ इति यावत्। सम्पदादिभ्यः क्विपो भावार्थत्वात्।वीतबलाहकायाः गतमेघायाः दिव आकाशस्य सम्बन्धिन्या वृष्टे तुल्या इति उपमालङ्कारः। अनभ्रवृष्टित्वात्अतर्कितोपपन्नं भवद्दर्शनं सर्वथा कस्यचित् श्रेयसो निदानम् इत्यर्थः। वारि वहतीतिबलाहकः। पृषोदरोदित्वात् साधु॥५॥
आसंसृतेरस्मि जगत्सु जातः
त्वय्यागते यद्बहुमानपात्रम्॥६॥
श्रियं विकर्षत्यपहन्त्यघानि
श्रेयः परिस्तौति तनाति कीर्त्तिम्।
सन्दर्शनं लोकगुरोरमोघं
तवात्मयोनेरिव किं न धत्ते?॥७॥
अद्येति। अद्य क्रतूनां क्रिया अनुष्ठानानि कामान् दुहन्ति इति कामदुघाः फलदा इत्यर्थः। “दुहः कब्धश्च” इति कप्प्रत्ययो घादेशश्च। सम्प्रति अद्य भूमिदेवाः ब्राह्मणाः। “द्विजात्यग्रजन्मभूदेववाड़वाः। विप्रश्च ब्राह्मणः” इत्यमरः। सत्याशिषो जाताः। ब्राह्मणाशिषोऽद्य फलिता इत्यर्थः। यत् यतः कारणात् त्वयि आगते सति त्वदागमनेन निमित्तेन इत्यर्थः। अस्मि इत्यहमर्थेऽव्ययम्। “अस्मीत्यस्मदर्थानुवादेऽहमर्थेऽपि” इति गणव्याख्याने। “दासे कृतागसि भवत्युचितः प्रभूणां पादप्रहार इति सुन्दरि नास्मि दूये” इति प्रयोगात्। आसंसृतेः आसंसारात् यावत् संसारम् इत्यर्थः। अभिविधाआङ्विकल्पादसमासः। जगत्सु बहुमानपात्रं बहुयाग्यताभाजनं जातः। सकलसत्कर्म फलभूतं त्वदागमनं येन मे जगन्मान्यता इति भावः॥६॥
श्रियमिति। आत्मयोनेर्ब्रह्मण इव लोकगुरोः तव अमोघम् अविफलं सन्दर्शनं श्रियं विकर्षति आकृष्य ददाति। अघानि दुःखानि अपहन्ति। “अंहोदुःखव्यसनेष्वयम्” इत्यमरः। श्रेयः पुरुषार्थ परिस्तौति
स्रयत्वात्।“परिस्रौति” इति पाठेऽपि स एवार्थः।
कः किं करोति। किं बहुना किं न धत्ते? किं किं न करोति?
स करोतीत्यर्थः॥७॥
श्च्योतन्मयूखेऽपि हिमद्युतौ मे
न निर्वृतं निर्वृतिमेति चक्षुः।
समुञ्झितज्ञातिवियोगखेदं
त्वत्सन्निधावुच्छ्वसतीव चेतः॥८॥
निरास्पद प्रश्नकुतूहलित्वम्
अस्मास्वधीनं किमु निष्पृहाणाम्?।
तथापि कल्याणकरीं गिरं ते
मां श्रोतुमिच्छा मुखरीकरोति॥९॥
श्च्योतदिति। हे भगवन्! श्च्योतन्मयूखे सुधास्राविकरे हिमद्युतौ इन्दौ अपि विषये न निर्वृतम्। नञर्थस्य नञ्शब्दस्य सुप्सुपेति समासः। मे चक्षुः त्वत्सन्निधौ निर्वृतिं सुखमेति तथा चेतश्च समुञ्झितज्ञातिवियोगखेदं त्यक्तबन्धुविरहदुःखं समुच्छ्वसतीव अनुरोधेन प्राणिति इव इति उत्प्रेक्षा। पूर्वार्द्धे तु निर्वृतिकारणे सत्यपि इन्दौ अनिर्वृतिकथनाद् विशेषोक्तिः। तदुक्तम् “तत्सामग्र्यामनिर्वृत्तिः विशेषोक्तिर्निगद्यते” इति॥८॥
निरास्पदमिति। प्रश्नकुतूहलित्वं निरास्पदम् आगमनप्रयोजनप्रश्नो निरास्पद इत्यर्थः। “आस्पदं प्रतिष्ठायाम्” इनि निपातः। प्रश्नानवकाशे हेतुमाह। निष्पृहाणां युष्मत्सदृशानाम् इत्यर्थः। अस्मासु अधीनम् आयत्तं किमु? न किञ्चित् अस्मत्तो लभ्यमित्यर्थः। आधारत्वविवक्षायां सप्तमी। तथापि कल्याणकरीम् अस्मद्धिहैकहेतुम् इत्यर्थः। निष्पृहवृत्तेः परार्थ्यादिति भावः। “कृञो हेतु” इति टप्रत्यये ङीप्। अतस्ते गिरं श्रोतुमिच्छा मां मुखं वाक् अस्य अस्तीति मुखरो निरन्तरभाषी।
इत्युक्तवानुक्तिविशेषरम्यं
मनः समाधाय जयोपपत्तौ।
उदारचेता गिरमित्युदारां
द्वैपायनेनाभिदधे नरेन्द्रः॥१०॥
चिचीषतां जन्मवतामलघ्वीं
यशोऽवतंसामुभयत्र भूतिम्।
“मुखकुञ्जेभ्यो रो वक्तव्यः” इति रः। “दुर्मुखे मुखराबद्धमुखौ” इत्यमरः। ततः च्विप्रत्ययः। मुखरीकरोति व्यापारयति इत्यर्थः। निष्पृहस्य अपि ते वाक्यम् अस्मद्धितकरत्वात् श्रोतव्यमिति भावः॥९॥
इतीति। इति इत्थम् उक्तिविशेषरम्यम् उक्तिवैचित्र्यचारु यथा तथा उक्तवान्। उदारचेता महामना नरेन्द्रो द्वैपायनेन व्यासेन द्वीपमयनं स्थानं जन्मभूमिर्यस्य स द्वीपायनः स एव द्वैपायनः। “प्रज्ञादिभ्यश्च” इति स्वार्थेऽण्प्रत्ययः। न अपत्यार्थे “नडादिभ्यः फक्” तेषु एव पाठात् बाधितार्थत्वाच्च। जयोपपत्तौ मनः समाधाय जयसिद्धम् अपेक्ष्य इत्यर्थः। इति वक्ष्यमाणप्रकाराम् उदाराम् अर्थवतीं गिरम् अभिदधे उक्तः। दुहादित्वात् अप्रधाने कर्म्मणि लिट्। “प्रधानकर्म्मण्याख्येये लादीनाहुर्द्विकर्म्मणाम्। अप्रधाने दुहादीनां ण्यन्ते कर्त्तुश्च कर्म्मणः” इति वचनात्॥१०॥
आदौ तावत् तस्य माध्यस्थताभङ्गदोषं युग्मेन परिहरति। चिचीषतामिति। अलघ्वीं गुर्वीम्। “वोतो गुणवचनात्” इति ङीष्। यशोऽवतंसां कीर्त्तिभूषणाम् उभयत्र इह च अमुत्र च भूतिं श्रेयः चिचीषतां सञ्चेतुं संग्रहीतुमिच्छतां चिनोतेः
अभ्यर्हिता बन्धुषु तुल्यरूपा
वृत्तिर्विशेषेण तपोधनानाम्॥११॥
तथापि निघ्नं नृप ! तावकीनैः
प्रह्वीकृतं मे हृदयं गुणौघैः।
वीतस्पृहाणामपि मुक्तिभाजां
भवन्ति भव्येषु हि पक्षपाताः॥१२॥
इति युग्मम्॥
सुताः न यूयं किमु तस्य राज्ञः?
सुयोधनं वा न गुणैरतीताः?।
सन्नन्तात् शतृप्रत्ययः। जन्मवतां शरीरिणां बन्धुषु विषये तुल्यरुपा एकविधा वृत्तिः व्यवहारोऽभ्यर्हिता उचिता तपोधनानां तु अस्मत्सदृशानां विशेषेण नियमेन अभ्यर्हिता उचिता॥११॥
तथापीति। तथापि तुल्यवृत्तौ नित्तेऽपि हे नृप! तावकीनैः त्वदीयैः। “युष्मदस्मदोः अन्यतरस्या खञ् च” इति खञ् प्रत्ययः। “तवकममको एकवचने” इति तवकादेशः। गुणौघः प्रह्वीकृतम् आवर्जितं मे हृदयं निघ्नं त्वदायत्तम्। “अधीनो निघ्न आयत्तः” इत्यमरः। ननु निष्पृहस्य कोऽयं पक्षपात इत्यत्र आह। वीतेति। वीतस्पृहाणां विरक्तानां मुक्तिभाजां मुमुक्षूणाम् अपीत्यर्थः। भवन्तीति भव्याः साधवः। “भव्यगेय” इत्यादिना कर्त्तरि निपातः। तेषु पक्षपाताः स्नेहा भवन्ति। न तु साध्वनुग्रहो महतां माध्यस्थभञ्जक इति भावः॥१२॥
अथ नृपस्य गुणवत्तां प्रकटयितुं धृतराष्ट्रस्य दुश्चेष्टाम् उद्घाटयति। सुता इति। यूयं तस्य राज्ञो धृतराष्ट्रस्य सुताः पुत्राः
यस्त्यक्तवान् वः स वृथा बलाद् वा
मोहं विधत्ते विषयाभिलाषः॥१३॥
जहातु नैनं कथमर्थसिद्धिः?
संशय्यकर्णादिषु तिष्ठते यः।
असाधुयोगा हि जवान्तरायाः
प्रमाथिनीनां विपदां पदानि॥१४॥
न किम् ? अपि तु सुता एवेत्यर्थः। गुणैः शान्तिदानदाक्षिण्यादिभिः सुयोधनं न अतीताः न अतिक्रान्ताः वा? अतीता एव इत्यर्थः। कर्त्तरि क्तः। असुतत्वम् अगुणत्वं च त्यागे हेतु युष्मासु तन्नास्ति इत्यर्थः। उपालम्भे कारणमाह। य इति। यः धृतराष्ट्रो वो युष्मान् वृथा निष्कारणमेव त्यक्तवान् यदि वयं सुताः गुणाधिकाश्च तर्हि कथम् अत्याक्षीत् तत्राह। बलादिभिः स विषयाभिलाषो भोगतृष्णा बलाद् बलात्कारादिव। “वा स्याद् विकल्पोपमयोरेवार्थेऽपि समुच्चये” इति विश्वः। सोहम् अविवेक विधत्ते विषयाभिलाषातिरिक्तौ न कश्चिद् युष्मत्त्यागहेतु अस्ति इत्यर्थः। अत्र कार्य्यकारणसमर्थन-रूपोऽर्थान्तरन्यासः॥१३॥
अथ राज्ञ उत्साहबर्द्धनाय शत्रोर्हानिं सूचयति। जहात्विति। एनं धृतराष्ट्रम् अर्थसिद्धिः कथं न जहातु ? जहातु एव इत्यर्थः। “प्रैषातिसर्गप्राप्तकालेषु कृत्याश्च” इति प्राप्तकाले लोट्। तस्य हानिकालः प्राप्त इत्यर्थः। कुतः यो धृतराष्ट्रः संशय्य सन्दिग्धकर्णादिषु तिष्ठते। कर्णादीन् दुर्मन्त्रिणः सन्दिग्धाये निर्णेतृत्वेन अवलम्बते इत्यर्थः। “प्रकाशनस्थेयाख्ययोश्च” इति स्थेयाप्यवम् आत्मनेपदम्। “प्रकाशस्थेयाख्ययोश्च” इति
पथश्च्युतायां समितौ रिपूणां
धर्भ्यां दधानेन धुरं चिराय।
त्वया विपत्स्वप्यविपत्तिरम्यम्
आविष्कृतं प्रेम परं गुणेषु॥१५॥
विधाय विध्वंसमनात्मनीनं
शमैकवृत्तेर्भवतश्छलेन।
तङ्। तिष्ठतेऽस्मिन्निति स्थेयो विवादपदनिर्णेता। तथाहि असाधुयोगा दुर्जनसंसर्गा जयान्तरायाः जयविघातकाः। किञ्च प्रमाथिनीनाम् उन्मूलनशीलानां विपदां पदानि स्थानानि। “पदं व्यवसितत्राणस्थानलक्ष्माङ्घ्रिवस्तुषु” इत्यमरः। न केवलं जयघातिनः किं तु अनर्थकारिणश्च इत्यर्थः। धृतराष्ट्रोऽपि दुर्ज्जनविधेयत्वाद विनङ्क्ष्यतीति भावः॥१४॥
एवं शत्रोः अनर्थं सूचयित्वा राज्ञोऽर्थसिद्धिं सूचयति। पथ इति। रिपूणां समितौ सभायाम्। “सभासमितिसंसदः” इत्यमरः। पथश्च्युतायां मार्गाद् भ्रष्टायाम्। दुरात्मनो दुःशासनस्य स्त्रीग्रहणसाहसम् अङ्गीकृतवत्याम् इत्यर्थः चिराय धर्म्यां धर्मात् अनपेताम्। “धर्मपथ्यर्थन्यायादनपेते” इति यत्प्रत्ययः। धुरं भारं दधानेन कृच्छ्रेषु अपि धर्मात् अचलता इत्यर्थः। त्वया विपत्स्वपि अविपत्ति अविनाशि अतएव रम्यं गुणेषु शान्त्यादिषु विषये परम् उत्कृष्टं प्रेम आविष्कृतं प्रकटीकृतम। दुःसहमपि सोढ़वता त्वया साधु कृतमिति भावः॥१५॥
विधायेति। किञ्च शम एव एका मुख्यावृत्तिर्यस्य तस्य अपरोपतापिन इत्यर्थः। भवतः छलेन कपटेन आत्मने हितमात्मनीनः स न भवतीति अनात्मनीनः स्वस्य एव अनर्थहेतु-
प्रकाशितत्वन्मतिशीलसाराः
कृतोपकारा इव विद्विषस्ते॥१६॥
लभ्या धरित्री तव विक्रमेण
ज्यायांश्च वीर्य्यास्त्रबलैर्विपक्षः।
अतः प्रकर्षाय विधिर्विधेयः
प्रकर्षतन्त्रा हि रणे जयश्रीः॥१७॥
त्रिःसप्तकृत्वो जगतीपतीनां
रित्यर्थः तम्। “आत्मन्विश्वजनभोगोत्तरपदात् खः” इति खप्रत्ययः। विध्वंसम् अपकारं विधाय कृत्वा प्रकाशितः प्रख्यापितः त्वन्मतिशीलयोः तव प्रज्ञास्वभावयोः सारः प्रकर्षो यैः ते तथोक्ताः। ते तव विद्विषः कृतोपकारा इव उपकृतवन्त इव ज्ञाता इति शेषः। अपकार उपकाराय एव संवृत्तः यदेषदौर्जन्यं युष्मत्सौजन्यं च जगति सुव्यक्तम् आसीदित्यर्थः। विद्यमानस्य अपि सुजनस्य चन्दनदारुण इव गुणाः परिभवे एव प्रचुरा भवन्तीति भावः॥१६॥
अथ प्रयोजनान्तरमाह। लभ्येति। तव त्वया इत्यर्थः। “कृत्यानां कर्त्तरि वा” इति षष्ठी। धरित्री विक्रमेण लभ्या प्राप्या। न च सुलभ्या तं विना इत्यर्थः। विपक्षश्च शत्रुरपि वीर्य्यं शौर्यम् अस्त्राणि आग्नेयादीनि बलानि सैन्यानि तैः ज्यायान् प्रशस्यतरः अधिकतर इति यावत्। ज्येष्ठस्य“ज्यादादीयसः” इति ज्यादेशः। अतः प्रकर्षाय आधिक्याय विधिः उपायो विधेयः कर्त्तव्यः। हि यस्मात् रणे जयश्रीः प्रकर्षतन्त्रा प्रकर्षप्रधाना उत्कर्षायत्ता इत्यर्थः। “तन्त्रं प्रधाने सिद्धास्ते” इत्यमरः। बलिन एव जयो यस्य स जयश्रीः इति भावः॥१७॥
हन्ता गुरुर्यस्य स जामदग्न्यः।
वीर्य्यावधूतः स्म तदा विवेद
प्रकर्षमाधारवशं गुणानाम्॥१८॥
यस्मिन्ननैश्वर्य्यकृतव्यलीकः
पराभवं प्राप्त इवान्तकोऽपि।
धुन्वन् धनुः कस्य रणे न कुर्य्यात्
मनो भयैकप्रवणं स भीष्मः?॥१९॥
अथ “त्रिः” इत्यादिना श्लोकचतुष्टयेन विपक्षज्यायस्त्वं वर्णयति। त्रिःसप्तेति। त्रिरावृत्तान् सप्त वारान् त्रिःसप्तकृत्व एकविंशतिकृत्वः इत्यर्थः। त्रिःसप्तशब्दयोः सुप्सुपेति समासः “संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुत्त्” इति कृत्वसुत्तप्रत्ययः। जगतीपतीनां महीपतीनां हन्ता नाशको गुरुः अस्त्रवेदोपदेष्टा सः प्रसिद्ध इत्यर्थः। अतएव यच्छब्दानपेक्षत्वम् तदुक्तं काव्यप्रकाशे—“अप्रसिद्धानुभूतार्थविषयस्तच्छब्दोपादानतापेक्षते” इति। जमदग्नेरपत्यं पुमान् जामदग्न्यः। “गर्गादिभ्यो यञ्” इति यञ्प्रत्वयः। यस्य भीष्मस्य वीर्य्यावधृतो विक्रमाभिभूतः अम्बिकास्वयंवरे इत्यर्थः। तदा भङ्गप्राप्तिसमये गुणानां शौर्य्यादीनां प्रकर्षम् अतिशयं वीर्य्यातिशयम् आधारवशम् आश्रयाधीनं विवेद जज्ञे स्म। स्वविद्यायाः स्वशिष्ये भीष्मे स्वस्मात् अपि प्रकर्षाधानदर्शनादिति भावः। “स्म पादपूरणे भूतेऽर्थे च” इति विश्वः॥१८॥
यस्मिन्निति। यस्मिन् भीष्मे विषये अनीश्वरस्य भावोऽनैश्वर्य्यम् असामर्थ्यम्। “नञः शुचीश्वरक्षेत्रज्ञकुशलनिपुणानाम्” इति विकल्पान्नञः पूर्वपदवृद्ध्यभावः। तेन कृतव्यलीको
सृजन्तमाजाविषुसंहतीर्वः
सहेत कोपज्वलितं गुरुं कः?
परिस्फुरल्लोलशिखाग्रजिह्वं
जगज्जिघत्सन्तमिवान्तवह्निम्॥२०॥
निरीक्ष्य संरम्भनिरस्तधैर्य्यं
राधेयमाराधितजामदग्न्यम्।
असंस्तुतेषु प्रसभं भयेषु
जायेत मृत्योरपि पक्षपातः॥२१॥
जनितवैलक्ष्यः। “दुःखे वैलक्ष्यं व्यलीकम्” इति यादवः। अन्तकोऽपि यमोऽपि पराभवं प्राप्त इव भीष्मस्य इच्छामरणत्वात् अन्तकोऽपि पराजित इव आस्ते विमुत अन्य इति भावः। स भीष्मो रणे धनुर्धुन्वन् कस्य मनो भयैकप्रवणं भये एकप्रवणम् एकोन्मुखं शिवभागवतवत् समासः। न कुर्य्यात् ? सर्वस्य अपि मनसि भयं कुर्य्यादेवेत्यर्थः॥१९॥
सृजन्तमिति। आजौ रणे इषुसंहतीर्बाणसङ्घान् सृजन्तवर्षन्तं कोपज्वलितम् अतएव परिस्फुरन्त्यो लोलाश्च शिखाग्राणि एव जिह्वा यस्य तं तथोक्तं जगत् लोकं जिघत्सन्तम् अत्तुम् इच्छन्तम्। अदेः सन्नन्तात् शतृप्रत्ययः। “लुङ्सनोर्घृस्नृ” इति घस्नृ आदेशः। अन्तवह्निं कालाग्निम् इव स्थितं गुरुं द्रोणं वो युष्माकं मध्ये कः सहेत ? सोढुं शक्नुयात् न कोऽपीत्यर्थः। “शकि लिङ् च” इति शक्यर्थे लिङ्॥२०॥
निरीक्ष्येति। संरम्भेण कोपेन निरस्तं त्याजितं धैर्य्यं निर्विकारचित्तत्वं येन तं तथोक्तम्। आकारेण एव परधैर्य्या-
यया समासादितसाधनेन
सुदुश्चरामाचरता तपस्याम्।
एते दुरापं समवाप्य वीर्य्यम्
उन्मूलितारः कपिकेतनेन॥२२॥
पहारिणम् इत्यर्थः। आराधितजामदग्न्यं शुश्रूषितभार्गवः जामदग्न्यात् अधिगतास्त्ररहस्यमित्यर्थः। राधेयं राधासुतकर्णम्। “स्त्रीभ्यो ठक्”। निरीक्ष्य मृत्योरपि असंस्तुतेषु अपरिचितेषु। “संस्तवः स्यात्परिचयः” इत्यमरः। भयेषु प्रसभं पक्षपातः परिचयो जायते। मृत्युरपि अस्मात् बिभीयात् किमुत अन्य इति भावः। सम्भावनायां लिङ्। अत्र जनिक्रियापेक्षया समानकर्त्तृकत्वाभावेऽपि पक्षपातक्रियापेक्षया तत्सम्भवात् निरीक्ष्यति ल्यप्निर्देशः। “समर्थनीयप्रधानोपसर्जन-भावस्त्वप्रयोजकः” इति व्यक्तिविवेककारः। अत्र भयसम्बन्धरहितस्य मृत्योः भयसम्बन्धाभिधानात् असम्बन्धे सम्बन्धरूपा अतिशयोक्तिः अलङ्कारः॥२१॥
अथ अनन्तरं करणीयम् आगमनप्रयोजनञ्च युग्मेनाह ययेति। यया विद्यया करणेन सुदुश्चराम् अतिदुष्करां तपस्यां तपश्चर्य्याम् “कर्मणो रोमन्धतपोभ्यां वर्त्तिचरोः” इति क्यङ्। “अप्रत्ययात्” इति स्त्रियाम् अप्रत्ययः। आचरता। पशुपतिं प्रति तपः कुर्वता इत्यर्थः। अतएव समासादितं साधनं पाशुपतास्त्ररूपं येन तेन कपिः हनुमान् केतनं चिह्नं यस्य तेन अर्जुनेन इत्यर्थः। दुरापम् अन्यस्य दुर्लभं वीर्य्यं तेजः समवाप्य एते पूर्वोक्ता भीष्मादयः उन्मूलितारः उन्मूलयिष्यन्ते। उन्मूलयतेर्ण्यन्तात् कर्मणि लुट्। अत्र चिण्वदिडागमेऽपि तस्य
महत्त्वयोगाय महामहिम्नाम्
आराधनीं तां नृप! देवतानाम्।
दातुं प्रदानोचित! भूरिधाम्नीम्
उपागतः सिद्धिमिवास्मि विद्याम्॥२३॥
इत्युक्तवन्तं व्रजसाधयेति
प्रमाणयन् वाक्यमजातशत्रोः।
असिद्धवत् अत्र अभावात् इति असिद्धत्वात् “णेरनिटि” इति णिलोपः। तन्निमित्तस्य एष “अनिटि” इति निषेधात्। उक्तञ्च—“वृद्धिश्चिण्वद्युक्तहन्तेश्च घत्वं दीर्घश्चोक्तो यो मितां वाक्षिणोति। इट् चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं बलनिमित्तो विधाति” इति॥२२॥
महत्त्वेति। नृप! महत्त्वयोगाय प्रकर्षलाभाय महामहिम्नो महानुभावानां देवतानाम् इन्द्रादीनाम् आराध्यते अनयेति आराधनीं तां प्रसादयित्रीम् इत्यर्थः। करणे ल्युट् ङीप्। भूरिधाम्नीं महाप्रभानाम्। “धाम देशे गृहे रश्मौ स्थाने जन्मप्रभावयोः” इति विश्वः। “अत उपधालोपिनोऽन्यतरस्याम्” इति वा ङीप्। विद्याम् ऐन्द्रमन्त्ररूपां सिद्धिं साक्षात्कार्य्यसिद्धिम् इव इति विद्यायाः अमोघत्वोक्तिः हे प्रदानोचित! दानपात्र! प्रभूतफलभोक्तृत्वात् अस्य पात्रत्वोक्तिः। दातुम् उपागतोऽस्मि॥२३॥
इतीति। इति उक्तवन्तं प्रसेदिवांसं प्रसन्नम्। “भाषायां सदवमश्रुवः” इति क्वसुः। तं मुनिं जिष्णुः जयशीलोऽर्जुनः। “ग्लाजिस्थश्च” इति ग् स्रु प्रत्ययः। व्रज साधय अनुतिष्ठ इति एवं
प्रसेदिवांसं तमुपाससाद
वसन्निवान्ते विनयेन जिष्णुः॥२४॥
निर्याय विद्याऽथ दिनादिरम्याद्
विभ्वादिवार्कस्य मुखात् महर्षेः।
पार्याननं वह्निकणवदाता
दीप्तिस्फुरत्पद्ममिवाभिषेदे॥२५॥
योगश्च तं योग्यतमाय तस्मै
तपःप्रभावाद् विततार सद्यः।
येनाऽस्य तत्त्वेषु कृतेऽवभासे
समुन्मिमीलेव चिराय क्षतुः॥२६॥
अयम् अजातशत्रोः धर्मराजस्य स्वयम् अविद्वेषणशीलत्वात् इयं संज्ञा। वाक्यं प्रमाणयन् तदादिष्टः सन्नित्यर्थः। अन्ते वसन् छात्र इव। “छात्रान्ते वामिनी शिष्ये” इत्यमरः। विनयेन अनौद्धत्येन उपाससाद समीपं प्राप॥२४॥
निर्यायेति। अथ वह्निकणायदाता स्फुलिङ्गवत् उज्ज्वलो देवतासान्निध्यादिति भावः। विद्या ऐन्द्रमन्त्ररूपा दिनादिरम्यात् अर्कस्य प्रभातभास्करस्य विभ्वादिव महर्षेः व्यासस्य मुखात् निर्याय निर्गत्य समासेऽजञ्पूर्वोक्तो ल्यप्। दीप्तिः अर्कः दीधितिः स्फुरद् विकसत् पद्ममिव। पार्थाननम् अर्जुनस्य मुखम् अभिषेदे प्रविष्टा॥२५॥
योगं चेति। स योग्यतमाय अर्द्धतमाय तस्मै पार्थाय तं वक्ष्यमाणमहिमानं यागं द्विजं विधि च। “योगः सन्नहतोपायध्यानसङ्गतियुक्तिषु” इत्यमरः। तपःप्रभावात् सद्यो वित-
आकारमाशंसितभूरिलाभं
दधानमन्तःकरणानुरूपम्।
नियोजयिष्यन् विजयोदये तं
तपःसमाधौ मुनिरित्युवाच॥२७॥
अनेन योगेन विवृद्धतेजा
निजां परस्मै पदवीमयच्छन्।
तार ददौ चिरकालग्राह्यमपीति भावः। येन योगेन तत्त्वेषु प्रकृतिमहदादिषु। तथा च। “मूलप्रकृतिः महान् अहङ्कारे मनस पञ्च तन्मात्राणि पञ्च बुद्धीन्द्रियाणि पञ्च कर्मेन्द्रियाणि पञ्च महाभूतानि” इति चतुर्विंशतितत्त्वानि। अत्र अवभासे साक्षात्कारे कृते सति अस्य अर्जुनस्य चक्षुः अक्षि चिराय समुन्मिमीलेव इत्युत्प्रेक्षा। तदा तस्य कोऽपि महान् अखिलाज्ञानभञ्जनः तत्त्वावभासः चिरात् अन्धस्य दृष्टिहीनम् इव अभवदिति भावः॥२६॥
आकारमिति। आशंसित आख्यातो भूरिलाभो अनेकश्रेयःप्राप्तिः यथा तं तथोक्तम् महाभाग्यसूचकम्इत्यर्थः। अन्तःकरणशब्देन न तद्वृत्तिरुत्साहोलक्ष्यते। तदनुरूपं तदनुकूलम् उत्साहानुगुणव्यापारक्षमम् इत्यर्थः। आकारं मूर्त्तिं दधानं तम् अर्जुनं मुनिर्विजयोदये विजयफलके तप समाधौ तपोनियमे। “समाधिर्नियम ध्याने मौने चैव समर्थम्” इति विश्वः। नियोजयिष्यन् नियोजयितुम् इच्छन्नित्यर्थः। “लृट शेषे च” इति लृट्। “लृटः सद्वा” इति सत्प्रत्ययः। इति वक्ष्यमाणम् उवाच॥२७॥
अनेन इति। अनेन स्वोपदिष्टेन योगेन विवृद्धतेजाः
समाचराचारमुपात्तशस्त्रो
जपोपवासाभिषवैर्मुनीनाम्॥२८॥
करिष्यसे यत्र सुदुश्चराणि
प्रसत्तये गोत्रभिदस्तपांसि।
शिलोच्चयं चारु शिलोच्चयं तम्
एष क्षणात् नेष्यति गुह्यकस्त्वाम्॥२९॥
इति ब्रुवाणेन महेन्द्रसूनुं
महर्षिणा तेन तिरोबभूवे।
निजां पदवीं परस्मै अयच्छन् परस्य प्रवेशम् अयच्छन्नित्यर्थः। उपात्तशस्त्रो निगृहीतायुधः सन्। हे अर्जुन ! जपोपवासाभिषवैः स्वाध्यायानशनस्नानैः मुनीनाम् आचारं समाचर अनतिष्ठ॥२८॥
क्षेत्रविशेषे तपःसिद्धिः इति आशयेन तं निदर्शयन्नाह। करिष्यसे इति। यत्र शिलोच्चये गोत्रभिदः इन्द्रस्य प्रसत्तये प्रसादाय सुदुश्चराणि तपांसि करिष्यसे। चारुशिलोच्चयं रम्यशिखरं तं शिलोच्चयं गिरिम् इन्द्रकीलम्। “अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः” इत्यमरः। त्वाम् एष गुह्यको यक्षः। अनन्तरम् एव अस्य पुराप्रादुर्भावात् एष इति निर्देशः। क्षणात् नेष्यति प्रापयिष्यति॥२९॥
इतीति। इति इत्थं महेन्द्रसूनुम् अर्जुनं ब्रुवाणेन उक्तवता। “वर्त्तमानसामीप्ये” इति भूते वर्त्तमानवत् प्रत्ययतिरोधानस्य अविलम्बसूचनार्थः। तेन महर्षिणा व्यासेन तिरोबभूवे अन्तर्दधे भावे लिट्। राजराजो यक्षराजः। “राजा
तं राजराजानुचरोऽस्य साक्षात्
प्रदेशमादेशमिवाधितष्ठौ॥३०॥
कृतानतिर्व्याहृतसान्त्ववादे
जातस्पृहः पुण्यजनः स जिष्णौ।
इयाय सख्याविव सम्प्रसादं
विश्वासयत्याशु सतां हि योगः॥३१॥
अथोष्णभासेव सुमेरुकुञ्जान्
विहीयमानानुदयाय तेन।
प्रभौ नृपे चन्द्रे यक्षे क्षत्रियशक्रयोः” इति विश्वः। तस्य अनुचरः पूर्वोक्तयक्षः अस्य मुनेः आदशंसाक्षात् इव प्रदेशम् अर्जुनाधिष्ठितस्थानम् अधितष्ठौ प्राप्त इत्यर्थः। “स्वादिष्वभ्यासेन इति षत्वम्॥३०॥
कृतेति। स पुण्यजनो यक्षः कृतानतिः कृतप्रणामः। जातस्पृहो जाता स्पृहा आकाङ्क्षा यस्य तथा सन्। व्याहृत उक्तः सान्त्ववादः प्रियवचनं येन तस्मिन्। “व्याहार उक्तिर्लपितम्” इत्यमरः। जिष्णौ अर्जुने सख्यौ सुहृदि इव। “अथ मित्रं सखा सुहृत्” इत्यमरः। सम्प्रसादं विश्रम्भम् इयाय प्राप। तथाहि। सतां साधूनां योगः सङ्गतिः आशु विश्वामयति विश्वासं जनयति। सामान्येन विशेषसमर्थनरूपो अर्थान्तरन्यासः॥३१॥
अथेति। अथ उष्णभासा सूर्य्येण उदयाय पुनः उद्गमाय विहीयमानान् त्यज्यमानान् इति तमःप्राप्तिकारणोक्तिः। बृहद्द्युतीन् सौवर्णत्वात् दीप्यमानान् इत्यर्थः। इति तमसः
वृहद्द्यूतीन् दुःखकृतात्मलाभं
तमः शनैः पाण्डुसुतान् प्रपेदे॥३२॥
असंशयालोचितकार्य्यनुन्नः
प्रेम्णा समानीय विभज्यमानः।
तुल्याद् विभागादिव तन्मनोभिः
दुःखातिभारोऽपि लघुः स मेने॥३३॥
सङ्कोचकारणोक्तिः। सुमेरुकुञ्जान् इव अत्र सुमेरुग्रहणकुञ्जानां सौवर्णत्वद्योतनार्थं तेन अर्जुनेन उदयाय श्रेयसे विहायमानान् वृहद्द्यूतीन् अनेकविधप्रकाशान्। पूर्ववद्विशेषणद्वयस्य प्रयोजनम् अनुसन्धेयम्। पाण्डसुतान् चतुर इति शेषः। दुःखेन कृच्छ्रेण कृतः उत्पादितः आत्मलाभः उत्पत्तिः यस्य तत् तथोक्तम् तेषां विवेकित्वात् कथञ्चिद् विलम्बोदयम् इत्यर्थः। तमः शोको अन्धकारश्च। “तमोऽन्धकारे स्वर्भानौ तमः शोके गुणोत्तरे” इत्युभयत्रापि विश्वः। शनैः मन्दं प्रपेदे तेषां विवेकित्वाद् भीतमिवेति भावः अत्र तमःशब्दस्य श्लिष्टत्वात् श्लेषानुप्राणिता इयम् उपमा॥३२॥
असंशयेति। असंशयम् असन्दिग्धं यथा तथा आलोचितं विवेचितं यत् कार्य्यं तेन नुन्नो निरस्त इति लघुत्वहेतूक्तिः। “नुदविदीन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्” इति निष्ठानत्वम्। कार्य्यगौरवम् आलोच्य निरस्त इत्यर्थः। तथापि प्रेम्णा भ्रातृवात्सल्येन कर्त्रा। समानीय पुनः आकृष्य विभज्यमानः समशोकभागो क्रियमाणः तुल्येन प्रेम्णा तुल्यदुःखत्वं भवतीति भावः। स पूर्वोक्तो दुःखम् एव अतिभारोऽपि अतिभारभूतम् अपि दुःखमित्यर्थः। तन्मनोभिः तेषां चतुर्णां पार्थानां
धैर्य्येण विश्वास्यतया महर्षेः
तीव्रादरातिप्रभवाच्च मन्योः।
वीर्य्यञ्च विद्वत्सु सुते मघोनः
स तेषु न स्थानमवाप शोकः॥३४॥
तान् भूरिधाम्नश्चतुरोऽपि दूरं
विहाय यामानिव वासरस्य।
मनोभिः तुल्यात् विभागादिव पूर्वोक्तात् प्रेमकृतात् समविभागात् इवेत्यर्थः। वस्तुतस्तु विवेकात् एवेति भावः। पुनः विभागग्रहणं तस्य हेतुत्वोत्प्रेक्षार्थम् अनुवादाददोषः। लघुर्मेने अमानि। यथा एकोऽनेकधा विभज्य बहुभिः उह्यमानो महान् अपि भारो लघुर्मन्यते तद्वदित्यर्थः॥३३॥
अथैवं प्रेम्णा आकृष्यमाणम् अपि शोकं विवेको निर्जिणायेत्याह। धैर्य्येणेति। धैर्य्येण तेषां निसर्गतो निर्विकारचित्तत्वेन तथा महर्षेर्व्यासस्य प्रवर्त्तकस्य इति शेषः। विश्वास्यतया श्रद्धेयवचनत्वेन इत्यर्थः। अरातिप्रभवात् अरातिहेतुकात् तीव्राद् दुःसहात् मन्योः क्रोधाद्धेतोः तथा अर्जुनप्रभा च परिज्ञानाच्चेति। हेत्वन्तरं विशेषणमुखेनाह—मघोनः सुते अर्जुने वीर्य्यम्। “न लोक” इयादिना षष्ठीप्रतिषेधः। विद्वत्सु ज्ञातवत्सु इति यावत्। “विदेः शतुर्वसुः” इति वैकल्पिको वस्वादेशः। तेषु पार्थेषु स शोकः स्थानं स्थितिं न अवाप न प्राप॥३४॥
तानिति। तत् पार्थत्यागवत् शर्म सुखम्। “शर्मशात्सुखानि च” इत्यमरः। तद्विरुद्धम् अशर्म दुःखम्। “नञ्” इति नञ्समासः। भूरिधाम्नः तेजस्विन इति हानिहेतुत्वोक्तिः।
एकौघभूतं तदशर्म कृष्णां
विभावरीं ध्वान्तमिव प्रपेदे॥३५॥
तुषारलेखाकुलितोत्पलाभे
पर्य्यश्रुणी मङ्गलभङ्गभीरुः।
अगूढ़भावाऽपि विलोकने सा
न लोचने मीलयितुं विवेहे॥३६॥
अकृत्रिमप्रेमरसाभिरामं
रामार्पितं दृष्टिविलोभि दृष्टम्।
चतुरः तान् पार्थान् अपि वासरस्य भूरिधाम्नः चतुरोऽपि यामान् प्रहरान् इव। दूरं विहाय त्यक्त्वा एकौघभूतम् एकराशिभूतं सत्। “श्रेण्यादयः कृतादिभिः” इत्यर्थे कर्मधारयः। श्रेण्यादिराकृतिगणः” इति शाकटायनः। कृष्णां विभावरीं कृष्णपक्षराशिं ध्वान्तमिव। कृष्णां द्रौपदीं प्रपेदे प्राप॥३५॥
तुषारेति। सा द्रौपदी विलोकने अर्जुनावलोकने अगूढ़भावा अगूढ़ाभिप्राया अपि स्फुटाभिलाषिणी इति यावत्। “भावो लीलाक्रियाचेष्टाभूत्यभिप्रायजन्तुषु” इति वैजयन्ती। मङ्गलभङ्गभीरुः मङ्गलहानेः भीता सती पर्य्यश्रुणी परिगताश्रुके बाष्पावृते इत्यर्थः। अतएव तुषारलेखाकुलितोत्पलाभे हिमबिन्दुसहिते इन्दीवरसन्निधे इति उपमालङ्कारः। लोचने मीलयितुं न विषेहे न शशाक। अश्रुणोः दृष्ट्यावरकत्वेऽपि तन्निधातस्य अमङ्गलत्वात् तन्निवर्त्तकं निमीलनं सा न चकार इत्यर्थः॥३६॥
अकृत्रिमेति। इन्द्रसूतः अर्जुनः क्रियया निवृत्तः कृत्रिमः।
मनःप्रसादाञ्जलिना निकामं
जग्राह पाथेयमिवेन्द्रसूनुः॥३७॥
धैर्य्यावसादेन हृतप्रसादा
वन्यद्विपेनेव निदाघसिन्धुः।
निरुद्धबाष्पोदयसन्नकण्ठम्
उवाच कृच्छ्रादिति राजपुत्री॥३८॥
मग्नां द्विषच्छद्मनि पङ्कभृते
सम्भावनां भूतिमिवोद्धरिष्यन्।
“ड्वितः क्तिः” इति क्तिः। “त्रैर्मम्नित्यस्” इति मस्प्रत्ययः। तद्विरुद्धे प्रेमेव रसः। अकृत्रिमेण प्रेमरसेन अभिरामम्। दृष्टिं विलोभयतीति दृष्टिविलोभि दृष्टिप्रियम् इत्यर्थः दृष्टं दर्शनम्। “नपुंसके भावे क्तः”। मनःप्रसादः प्रसन्नमन इत्यर्थः। साऽञ्जलिरिव इति उपमितसमासः। तेन मनःप्रमादाञ्जलिना पथि साधु पाथेयं शम्वलमिव। “पथ्यतिथिवसतिस्वपतेर्ठञ्” निकामम् अतिशयेन जग्राह। रामार्पितं पाथेयं पथि क्षेमाय भवति इति आगमः॥३७॥
धैर्य्येति। वन्यद्विपेन वन्यग्रहणम् उच्छृङ्खलत्वद्योतनार्थं निदाघसिन्धुः ग्रीष्मनदी इव निदाघग्रहणं दौर्बल्यद्योतनाय धैर्य्यावसादेन धैर्य्यभ्रंशेन कर्त्रा। हृतप्रसादा क्षोभं गमिता इत्यर्थः। राजपुत्री क्षत्रियसुता द्रौपदी अतः क्षात्रयुक्तम् एव वक्ष्यति इति भावः। निरुद्धबाष्पोदय संरुद्धरोदनं सन्नकण्ठं हीनकण्ठस्वरम्। अथ तयोः उभयोः कृतबहुव्रीह्योः क्रियाविशेषणयोः विशेषणसमासः। कृच्छ्रात् कथञ्चिदिति वक्ष्यमाणम् उवाच॥३८॥
आधिद्विषामातपसां प्रसिद्धेः
अस्मद्विना मा भृशमुन्मनीभूः॥३९॥
यशोऽधिगन्तुं सुखलिप्सया वा
मनुष्यसङ्ख्यामतिवर्त्तितुं वा।
निरुत्सुकानामभियोगभाजां
समुत्सुकेवाङ्कमुपैति सिद्धिः॥४०॥
मग्नामिति। पङ्कभूते पङ्कोषमिते। “भूतं क्ष्मादौ पिशाचादौ न्याय्ये सत्योपमानयोः” इति विश्वः। द्विषच्छद्मनि शत्रुकपटे मग्नां दुरुद्धराम् इत्यर्थः। सम्भावनां योग्यतां गौरवम्इति यावत्। मतिं सम्पदमिव। “भूतिर्भस्मनि सम्पद्धिः” इत्यमरः। उद्धरिष्यन् उद्धारकः त्वम् एव इति शेषः। आधिद्विषां दुःखच्छिदां तपसाम् आप्रसिद्धेः सम्यक् सिद्धिपर्य्यन्तम् अस्मद्विना अस्माभिः विना इत्यर्थः। “पृथग्विना” इत्यादिना विकल्पात् पञ्चमी। भृशं मा उन्मनीभूः अस्मद्विरहाद् दुर्मनाभूः इत्यर्थः। दौर्मनस्यस्य तपःपरिपन्थित्वात् इति भाव “माङि” इति आशीरर्थे लुङ्। “न माङ्योगे” इत्यडागमप्रतिषेधः। अनुन्मना उन्मनाः सम्पद्यमानः उन्मनी अभूत्तद्भावे च्विः। “अरुर्मनश्चक्षुश्चेतोरहोरजसां लोपश्च” इति सकारलोपः “अस्य च्वी” इतीकारः॥३९॥
अथ अनौत्सुक्यदार्ढ्यार्थं तस्य सर्वार्थसिद्धिनिदानत्वमाह यश इति। यशः अधिगन्तुं कीत्तिं लब्धुम् इत्यर्थः। सुखस्य लिप्सया लब्धुमिच्छया वा। मनुष्यसख्यां मनुष्यगणनाम् अतिवर्त्तितुम् अतिक्रमितुम् अमानुषं कर्म कर्त्तुं वा इत्यर्थः। अभियोगभाजाम् अभिनिवेशवतां निरुत्सुकानाम् अदुर्मनाय
लोकं विधात्रा विहितस्य गोप्तुं
क्षत्रस्य मुष्णन् वसु जैत्रमोजः।
तेजस्विताया विजयैकवृत्तेः
निघ्नन् प्रियं प्राणमिवाभिमानम्॥४१॥
व्रीड़ानतैराप्तजनोपनीतः
संशय्य कृच्छ्रेण नृपैः प्रपन्नः।
जनानाम् इत्यर्थः। सिद्धिः पूर्वोक्तयशःसुखाद्यर्थसिद्धिः समुत्सुकान् इव अनुरक्तकान्ता इव अङ्गम् अन्तिकम् उपैति। तस्मात् अस्मद्विरहदुःखम् आतपःसिद्धेः सोढ़व्यम् इति भावः॥४०॥
अथ अस्य मन्यद्वीपनद्वारा तपःप्रवृत्तिं प्रथयितुम् अरिनिकारं तावच्चतुर्भिः उद्घाटयति। लोकमिति। विधात्रा ब्रह्मणा लोकं गोप्तुं विहितस्य सृष्टस्य क्षत्रस्य क्षत्रियजातो सम्बन्धिः। जयनशीलं जेतृ तदेव जैत्रम्। जेतृशब्दात् तृजन्तात् “प्रज्ञादिभ्यश्च” इति स्वार्थे अण्प्रत्ययः। ओजो बलदीप्तिः वा। “ओजो बले च दीप्तौ च” इति विश्वः। तदेव वसु धनमिति रूपकालङ्कारः। मुष्णन् अपहरन् अरिनिकृतस्य कुतः क्षात्रं तेजः इति भावः। किञ्च विजयैकवृत्तेः विजयैकजीवितायाः। “क्षत्रियस्य विवितम्” इति स्मरणात् इति भावः। “वृत्तिर्वर्त्तनजीवने” इत्यमरः। तेजस्वितायाः तेजस्विनाम् इत्यर्थः। तेजःप्राधान्यद्योतनार्थं भावप्रधानो निर्देशः। प्रियं प्राणम् इव प्राणसमम् इत्यर्थः। अभिमानम् अहङ्कारं निघ्नन् खण्डयन् तेजस्विनां प्राणहानिप्राया मानहानिः इति भावः॥४१॥
अधिक्षेपात् असहनं प्राणात्ययेषु अपि न त्याज्यम् इति आह। व्रीड़ेति। पुनश्च आप्तजनोपनीतः आप्त-
वितानभूतं विततं पृथिव्यां
यशः समूहन्निव दिग्विकीर्णम्॥४२॥
वीर्य्यावदानेषु कृतावमर्षः
तन्वन्नभूतामिव सम्प्रतीतिम्।
कुर्वन् प्रयामक्षयमायतीनाम्
अर्कत्विषामह्न इवावशेषः॥४३॥
जनेन विश्वस्तजनेन उपनीतः प्रापितः श्रावित इत्यर्थः। तथापि संशय्य सन्दिह्य असम्भावितबुद्ध्या इति भावः। व्रीड़ानतैः जुगुप्सितवृत्तान्तश्रवणात् इति भावः। नृपैः देशान्तरस्थैः कृच्छ्रेण प्रपन्नः प्राप्तः आप्तोक्तत्वात् कथञ्चित्विश्वस्त इत्यर्थः। यः शृण्वताम् अपि दुःसहः किमुत अनुभवताम् इति भावः। इत्येषा पूर्वेषां व्याख्या। अन्यथा अपि व्याख्यायते। आप्तजनोपनीतैः ज्ञातिकृतः संशय्य कथम् इदम् अन्याय्यम् उपेक्ष्यम् इति। आचार्य्यं व्रीड़ानतैः जुगुप्सितकर्मदर्शनात् इति भावः। नृपैः सभास्थैः कृच्छ्रेण प्रपन्नो अङ्गीकृतः। गोत्रकलहेषु मध्यस्थः उदासितव्यम् इति बुद्ध्या उपेक्षित इत्यर्थः। पक्षद्वये अपि प्रपन्न इत्यत्र आप्तजनोपनीतत्वस्य पदार्थभूतस्य विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गम् अलङ्कारः। पृथिव्यां वितानभूतम् उल्लोचतुल्यम्। “अस्त्री वितानमुल्लोचः” इत्यमरः। दिग्विकीर्णं दिगन्तलग्नं वितानमपि दिगन्तलग्नम् इति भावः। विततं प्रथितं यशः समूहन् इव सङ्कोचयन् इव इति उत्प्रेक्षा। अरातिपरिभूतस्य कुतः कीर्त्तिः इति भावः॥४२॥
वीर्य्येति। पुनश्च वीर्य्याणि एव अवदानानि तेषु कृतावमर्षः कृतास्कन्दनः। पुराकृतपराक्रमोद्भूतानि अपि प्रमृजन्
प्रसह्य योऽस्मासु परैः प्रयुक्तः
स्मर्त्तुं न शक्यः किमुताधिकर्त्तुम्?।
नवीकरिष्यत्युपशुष्यदार्द्रः
स त्वद् विना मे हृदयं निकारः॥४४॥
इति कलापकम्॥
इत्यर्थः। “अवदानं कर्म वृत्तम्” इत्यमरः। अतएव सम्प्रतीतिं ख्यातिम्। “प्रतीते प्रथितख्यातवित्तविज्ञातविश्रुताः” इत्यमरः। अभूताम् अविद्यमानाम् इव इति उत्प्रेक्षा। सतोऽपि असत्त्वम् उत्प्रेक्ष्यते। तन्वन् कुर्वन्। पुनश्च अह्नः अवशेषदिनान्तः अर्कत्विषाम् इव आयतीनाम् उत्तरकालानप्रयामक्षयं दैर्घ्यनाशं कुर्वन् इति श्रीती पूर्णा इयम् उपमा। अरिनिराकृतस्य कुतः चिरावस्थानम् इति भावः॥४३॥
प्रसह्येति। पुनश्च परैः शत्रुभिः अस्मासु प्रसह्य प्रयुक्तः आचरितः यः निकारः परिभवः केशाकर्षणरूपः स्मर्त्तुं न शक्यः, अधिकर्त्तुम् अनुभवितुं किमुत ?। यस्य स्मरणमतिदुःसहम् अनुभवस्तु सुतरां दुःसह इति किमुत वक्तव्यम् इत्यर्थः। स निकारः त्वद्विना त्वया विना। “पृथग्विना” इत्यादिना पञ्चमी। आर्द्रः सन् कुतश्चित् अभिभूतात् पुराणप्रहारः इव त्वद्विरहदुःखात् पुनः नवीकरिष्यति नवीभविष्यति इत्यर्थः। उपशुष्यत् त्वया विना शुष्कम् इति भावः। दुःखस्तम्भनं शोषपदार्थः मे हृदयं नवीकरिष्यति आर्द्रीकिरिष्यति व्रणम् इव इति भावः। दुःखितस्य पुनः दुःखोपचयः शोषप्रायमपि दुःखहेतुः पुनः उद्घाटयति इत्यर्थः। अत्र शोषादिविशेषणसाम्यात् व्रणाद्यप्रस्तुतार्थप्रतीतेः समासोक्तिरलङ्कारः॥४४॥
प्राप्तोऽभिमानव्यसनादसह्यं
दन्तीव दन्तव्यसनाद् विकारम्।
द्विषत्प्रतापान्तरितोरुतेजाः
शरद्वनाकीर्ण इवादिरह्नः॥४५॥
सव्रीड़मन्दैरिव निष्क्रियत्वात्
नात्यर्थमस्वैरवभासमानः।
यशः क्षयक्षीणजलार्णवाभः।
त्वमन्यमाकारमिवाभिपन्नः॥४६॥
पुनः प्रकारान्तरेण मन्युम् उद्दापयति “प्राप्तः” इत्यादिभि त्रिभिः। तत्र वक्ष्यमाणप्रत्यभिज्ञातहेतुभिः धनञ्जयं विशिनष्टि। अभिमानस्य व्यसनात्भ्रंशात्। “व्यसनं विपद्भिभ्रंशे दोषे कामजकोपजे” इत्यमरः। दन्तव्यसनात् दन्तभङ्गात् दन्ती इव असह्यं विकारं वैरूप्यंभावः। अतो न प्रत्ययभिज्ञायते इति भावः। एवम् उत्तरत्रापिअनुसन्धेयम्। पुनश्च द्विषत् प्रतापेन शत्रुतेजसा अन्तरितं तिरस्कुर्वन् उरु तेजः प्रतापो यस्य स तथोक्तः। अतएव शरद्वनाकीर्णः शरन्मेघाच्छन्नः अह्नः आदिः प्रत्यूषः इव स्थितः। तद्वत् एव अप्रत्यभिज्ञायमान इत्यर्थः। मध्याह्नस्तु मेघावरणेऽपि कथञ्चित् प्रत्यभिज्ञायते एव इति अतिशयेन उक्तम् आदिरिति॥४५॥
सव्रीड़ेति। पुनश्च निष्क्रियत्वात् अर्थक्रियाशून्यत्वात् सव्रीड़मन्दैः इव सव्रीड़ैः अतएव मन्दैः अपटुभिः इव स्थिते इति उत्प्रेक्षा। “मूढ़ाल्पापटुनिर्भाग्या मन्दाः स्युः” इत्यमरः। अस्त्रैः अत्यर्थं न अवभासमानः न प्रकाशमानः पूर्वं तु नैवम् इति
दुःशासनाकर्षरजोविकीर्णैः
एभिर्विनाथैरिव भाग्यनाथैः।
केशैः कदर्थीकृतवीर्य्यसारः
कच्चित् स एवासि धनञ्जयस्त्वम्?॥४७॥
॥विशेषकम्॥
स क्षत्रियस्त्राणसहः सतां यः
तत् कार्मुक कर्मसु यस्य शक्तिः।
भावः। किन्तु यशःक्षयात् हेतोः क्षीणजलः यः अर्णवः तदाभः तत्सदृशः त्वम् अन्यम् आकारम् अभिपन्न प्राप्त इव स्थितः इव इति उत्प्रेक्षा। तस्य क्षीणजलार्णवाभः इति उपमासंसृष्टिः॥४६॥
दुःशासनेति। पुनश्च दुःशासनस्य हर्त्तुः आकर्षः आकर्षणं सा एव रजः धूलिः मालिन्यहेतुत्वात् इति भावः। तेन विकीर्णैः विक्षिप्तैः अतएव विनाथैःइव स्थितवतां युष्माकम् असत्त्वप्रायत्वात् अनाथैः इव स्थितेः इति उत्प्रेक्षा। अन्यथा कथम् इयं दुर्दशा इति भावः। किन्तु भाग्यनाथैः देवमात्रशरणैः। अन्यथा स्वरूपम् अपि लुप्येत इति भावः। एभिः परिदृश्यमानैः असंयमितैः इति भावः। केशैः शिरोरुहैः कुत्सितः अर्थैः वस्तु कदर्थः। “अर्थोऽभिधेयरैवस्तुप्रयोजन-निवृत्तिषु” इत्यमरः। “कोः कत्तत्पुरुषेऽपि” इति कुशब्दस्य कदादेशः। कदर्थीकृतो गुह्यार्थो कृतो वीर्य्यसारा शौर्य्यबले यस्य सः तथोक्तः। इत्थं पूर्वविलक्षणः त्वं सः एव धनञ्जयः अभि कच्चित्? “कच्चित्कामप्रवेदने” इत्यमरः। सः एव चेत् त्वं नैवमस्मान् उपेक्षसे इति भावः॥४७॥
अथाप्युपेक्षणे दोषमाह। स इति। क्षतात् त्रायते इति क्षत्रं क्षत्रियकुलम्। “सुपि” इति योगविभागात् कप्रत्ययः।
वहन् द्वयीं यद्यफलेऽर्थजाते
करोत्यसंस्कारहतामिवोक्तिम्॥४८॥
वीतौजसः सन्निधिमात्रशेषा
भवत्कृतां भूतिमपेक्षमाणाः।
समानदुःखा इव नस्त्वदीयाः
सरूपतां पार्थ ! गुणा भजन्ते॥४९॥
पृषोदरादित्वात् पूर्वपदस्य आकारलोपः। अथवा क्षदिति क्विबन्तोपपदात् कप्रत्ययः। क्षत्रे जातः चत्रियः। “क्षत्राद्घः” इति घप्रत्ययः। कर्म्मणे प्रभवति इति कार्मुकम्। “कर्म्मण उकञ्” इति उकञ्प्रत्ययः। एवं स्थिते वाक्यार्थः कथ्यते यः सतां साधनां सहते इति सहः पचाद्यच्। यः त्राणस्य सह त्राणसहो रक्षणक्षमः सः एव क्षत्रियशब्दवाच्यः। तथा यस्य कार्मुकस्य कर्म्मसु रणक्रियासु शक्तिः अस्तीति शेषः। तदेव कार्मुकशब्दवाच्यम्। अत्रैव एतौ शब्दो मुख्यौ न अन्यत्र इत्यर्थः। एव स्थिते द्वयीं द्विविधाम् उक्तिं द्वौ इमौ क्षत्रियकार्मुकशब्दौ इत्यर्थः। अफले पूर्वोक्तौ अवयवार्थशून्यौ इत्यर्थः। अर्थजाते स्वाभिधेयसामान्यजातिमात्रे इत्यर्थः। “जातं जात्योघजन्मसु” इति विश्वः। वहन् वर्त्तयन् संस्कारहताम् अव्युत्पत्तिदूषिताम् इव करोति इति उत्प्रेक्षा। तस्मात् त्वम् अस्मद्रक्षणेन उक्तदोषात् आत्मानं मोचयस्व इत्यर्थः॥४८॥
अथ त्वद्गुणा अपि नोज्जीवयेयुरित्याह। वीतेति। हे पार्थ! वीतौजसः निष्प्रभाः सन्निधिमात्रशेषाः सत्तामात्रावशिष्टाः भवत्कृतां भवता करिष्यमाणाम् आशंसायां भूतवत्” इति भूतवत्प्रत्ययः। भूतिम् अभ्युदयम् अपेक्षमाणाः त्वदीयाः गुणा
आक्षिप्यमाणं रिपुभिः प्रमादात्
नागैरिवालूनसटं मृगेन्द्रम्।
त्वां धूरियं योग्यतयाऽधिरूढ़ा
दीप्त्या दिनश्रीरिव तिग्मरश्मिम्॥५०॥
करोति यः सर्वजनातिरिक्तां
सम्भावनामर्थवतीं क्रियाभिः।
संसत्सु जाते पुरुषाधिकारे
न पूरणो त समुपैति संख्या॥५१॥
समानदुःखाः समदुःखभाजः इव नः अस्माकं सरूपतां वीतौजस्त्वादिसाधर्म्यं भजन्त इति उपमा सा च समानदुःखा इव इति उत्प्रेक्षया वीतौजस्त्वादिसम्भावितया अनुप्राणिता इति अनुसन्धेयम्॥४९॥
तथापि ममैव कोऽयं भारः इत्यतः आह। आक्षिप्येति। प्रमादात् प्रज्ञाहीनत्वात् न तु दौर्बल्यात् इति भावः। रिपुभिः आक्षिप्यमाणम् अधिक्षिप्यमाणम् अतएव प्रमादात् नागैः गजैः। “ग्रहेभाहिगजा नागाः” इति वैजयन्ती। आलूनसटम् आक्षिप्तकेसरम्। “सटा जटाकेसरयोः” इति विश्वः। मृगेन्द्रं सिंहम् इव स्थितं त्वाम् इयं धूः कार्य्यभारः तिग्मरश्मिं सूर्य्यदीप्त्या दिनश्रीः इव योग्यतया निर्वाहकतया। अधिरूढ़ा आरूढ़वतो कर्त्तरि क्तः त्वदधीना इत्यर्थः॥५०॥
पूर्वं निर्व्यवसायस्य “स क्षत्रियः” इत्यादिना दोषः उक्तः सम्प्रति व्यवसायिनो गुणमाह। करोतीति। यः पुमान् अशेषजनात् इतरजनात् अतिरिक्ताम् अधिकां सर्वातिशायिनीम्
प्रियेषु यैः पार्थ ! विनोपपत्तेः
विचिन्त्यमानैः क्लममेति चेतः।
तव प्रयातस्य जयाय तेषां
क्रियादधानां मघवा विघातम्॥५२॥
मागाश्चिरायैकचरः प्रमादं
वसन्नसम्बाधशिवेऽपि देशे।
इत्यर्थः। सम्भावनां योग्यतां क्रियाभिः चरितैः अर्थवतीं सफलां करोति। तं पुमांसं संसत्सु सभासु। “सभासमितिसंसदः” इत्यमरः। पुरुषाधिकारे योग्यपुरुषगणनाप्रस्तावे जाते सति पूर्य्यते अनेन इति पूरणी संख्या द्वित्वादिसंख्या न समुपैति न गच्छति। अद्वितीयो भवति इत्यर्थः। तस्मात् असाधारणलाभाय त्वया अपि महानुत्साहः आस्थेयः इति भावः॥५१॥
अथ द्वाभ्यां सुलभविपक्षस्य प्रोषितस्य अर्जुनस्य कर्त्तव्यम् उपदिशति। प्रिये इति। हे पार्थ! प्रियेषु अस्मासु विषये उपपत्तेः कारणात् विना एव विचिन्त्यमानैः अकस्मात् एव आशङ्क्यमानैः यैः अघैः चेतः क्लमं खेदम् एति। जयाय प्रयातस्य तव सम्बन्धिनां तेषाम् अघानां व्यसनानाम्। “दुःखैनो व्यसनेष्वघम्” इत्यमरः। मघवा इन्द्रः यः अस्माभिः उपास्यते इति भावः। विघातं निवारणं क्रियात् करोतु। आशिषि लिङ्। तस्मात् अस्मच्चिन्तया न चेतः खेदयितव्यं जयार्थिना त्वया। अन्यथा तदसम्भवात् इति भावः॥५२॥
मागा इति। असम्बाधः असङ्कटः विजनः इत्यर्थः। “सङ्कटं ना तु सम्बाधः” इत्यमरः। शिवः निर्बाधः द्वयोः अन्यतरस्य विशेष्यत्वविवक्षायां विशेषणसमासः। अस्मिन् असम्बाधशिवे अपि
मात्सर्य्यरागोपहतात्मनां हि
स्खलन्ति साधुष्वपि मानसानि॥५३॥
तदाशु कुर्वन् वचनं महर्षेः
मनोरथान् नः सफलीकुरुष्व।
प्रत्यागतं त्वाऽस्मि कृतार्थमेव
स्तनोपपीड़ंपरिरब्धुकामा॥५४॥
देशे चिराय चिरम् एकचरः एकाकी वसन् प्रमादं दौर्बल्यभागाः।“इणो गा लुङि” इति गादेशः। ननु निष्पृहस्य मम अकिञ्चित्करः प्रमादः इति वाच्यम् इति आशङ्क्याह। मात्सर्य्येति। मत्सरः एव मात्सर्य्यं द्वेषः रागः स्नेहः ताभ्याम् उपहतात्मनां रागद्वेषदूषितस्वभावानां मानसानि मनांसि साधुषु सज्जनेषु अपि विषये स्खलन्ति विकुर्वन्ते हि। अत्र प्रमादनिषेधलब्धाप्रमादरूपकारणेन अर्थप्राप्तिरूपकार्य्यस्य व्यतिरेककारणसमर्थनात् वैधर्म्येण कार्य्यकारणसमर्थन-रूपः अर्थान्तरन्यासः॥५३॥
तदिति। तत् तस्मात् कारणात्, आशु शीघ्रं महर्षेः वचनं कुर्वन् तपस्यन् इत्यर्थः। नः अस्माकं मनोरथान् सफलीकुरुष्व अरिनिर्य्यातनेन अस्मान् प्रतिष्ठापय इत्यर्थः। प्रार्थनाय लोट्। किञ्च कृतार्थं कृतकृत्यं प्रत्यागतम् एव त्वा त्वाम्। “त्वामौ द्वितीयायाः” इति त्वादेशः स्तनयोः उपपीड्य इति स्तनोपपीडम्। “सप्तम्यां चोपपीडरुधकर्षः” इति णमुल्। परिरब्धुकामः यस्याः सा परिरब्धुकामा अस्मि। आलिङ्गितुम् इच्छामि इत्यर्थः। “तुङ्गाममनसोरपि” इतिमकारलोपः। प्राक् कार्य्यसिद्धेः प्रमदालिङ्गनम् अपि न प्रीतिप्रदमिति भावः॥५४॥
उदीरितां तामिति याज्ञसेन्या
नवीकृतोद्ग्राहितविप्रकाराम्।
आसाद्य वाचं स भृशं दिदीपे
काष्ठामुदीचीमिव तिग्मरश्मिः॥५५॥
अथाभिपश्यन्निव विद्विषः पुरः
पुरोधसारोपितहेतिसंहतिः।
बभार रम्योऽपि वपुः स भीषणं
गतः क्रियां मन्त्र इवाभिचारिकीम्॥५६॥
उदीरितामिति। सः अर्जुनः इति इत्थं यज्ञसेनस्य अपत्येन स्त्रिया द्रौपद्या उदीरिताम् उक्ताम्। नवीकृतः पुनः उद्घाटनेन तथा प्रत्यायितः अतएव उद्ग्राहितः मनसि निधापितश्च विप्रकारः परिभवः यया सा तां वाचम् आसाद्य आकर्ण्य इत्यर्थः। उदीचीं काष्ठां दिशम्। “दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः” इत्यमरः। निग्मरश्मिः इव भृशं दिदीपे जज्वाल चुक्रोध इत्यर्थः॥५५॥
अथेति। अथ विद्विषः शत्रून् पुरः अभिपश्यन् इव स्थितः तथा पुरोधसा धौम्येन आरोपिता समन्त्रं समाहिता हेतिसंहतिः आयुधकलापः यस्य सः तथोक्तः। “हेतिर्ज्वालाङ्कुरायुधे” इति वैजयन्ती। सोऽर्जुनः रम्यः सौम्यः सन् अपि। अभिचारः परहिंसा प्रयोजनं यस्याः सा आभिचारिकी। “तदस्य प्रयोजनम्” इति ठक्। तां क्रियां गतः अभिचारकर्मणि नियुक्तः इत्यर्थः। मन्त्रः इव रम्यः प्रकृत्या रमणीयः। भीषयते इति भीषणम्। नद्यादित्वात् ल्युप्रत्ययः। वपुः बभार। प्रशान्तो मन्त्रः प्रयोगभेदात् इव सोऽपि अवस्थाभेदात् भीषणः बभूव इत्यर्थः॥५६॥
अविलङ्घ्यविकर्षणं परैः
प्रथितज्यारवकर्म कार्मुकम्।
अगतावरिदृष्टिगोचरं
शितनिस्त्रिंशयुजौ महेषुधी॥५७॥
यशसेव तिरोदधत् मुहुः
सहसा गोत्रभिदायुधक्षतीः।
कवचं च सरत्नमुद्वहन्
ज्वलितज्योतिरिवान्तरं दिवः॥५८॥
उक्तम् आयुधारोपणं विवृण्वन् प्रस्थानम् आह त्रिभिः। अविलङ्घ्येति। शत्रुभिः अविलङ्घ्यम् अनतिक्रमणीयं विकर्षणं यस्य तत्। अमोघाकर्षणम् इत्यर्थः। किं च प्रथितः ज्यारवः गुण ध्वनिः कर्म बाणमोक्षणादिकं च यस्य तत् कार्मुकं च उद्वहन् इति अन्वयः। तथा अरीणां दृष्टिगोचरं दृष्टिपथम् अगतौ आहवेषु अनिवर्त्तित्वात् अस्य इति भावः। निर्गतः त्रिंशतः अङ्गुलिभ्यः निस्त्रिंशः खङ्गः। डप्रत्यये संख्यायाः तत्पुरुषस्य उपसंख्यानात् समासान्तः। तेन शितेन तीक्ष्णेन युक्तः इति शितनिस्त्रिंशयुजौ। “सत्सूद्विष” इत्यादिना क्विप्। महेषुधी महानिषङ्गौ इषवः धीयन्त अनयोःइति विग्रहः। “कर्मण्यधिकरणे च” इति क्विप्प्रत्ययः।“तूणोपासङ्गतूणीरनिषङ्गा इषुधिर्द्वयोः। तूण्यां खड्गे तु निस्त्रिंशचन्द्र-हासासिरिष्टयः” इत्यमरः॥५७॥
यशसेति। किं च। गोत्रभिदइन्द्रस्य आयुधक्षतीः वज्रप्रहाररन्ध्राणि खाण्डवदाहसम्भवादितिभावः। सहसा स्वकान्त्या यशसा इव मूर्त्तया कीर्त्त्या इवमुहुः तिरोदधत्
अलकाधिपभृत्यदर्शितं
शिवमुर्वीधरवर्त्म सम्प्रयान्।
हृदयानि समाविवेश स
क्षणमुद्बाष्पदृशां तपोभृताम्॥५९॥
॥विशेषकम्॥
अनुजगुरथ दिव्यं दुन्दुभिध्वानमाशा
सुरकुसुमनिपातैर्व्योम्नि लक्ष्मीर्वितेने।
आच्छादयन्। सरत्नं रत्नसहितम् अत एव ज्वलितज्योतिदीप्ततारकम्। “ज्योतिस्ताराग्निभा ज्वाला दृक्पुत्रार्थधरासु च” इति वैजयन्ती। दिवः अन्तरं नभोमध्यम् इव अवस्थितम् “अन्तरं परिधानीये बाह्ये स्वीयेऽन्तरात्मनि। क्लीबेमध्ये प्रकाशे च” इति वैजयन्ती। कवचं च उद्वहन्॥५८॥
अलकेति। सः अर्जुनः अलकाधिपभृत्येन यक्षेण दर्शितमतशिवं निर्बाधम् उर्वीधरवर्त्म हिमवन्मार्गं प्रति सम्प्रयान् प्रगच्छन्। क्षणम् उद्बाष्पदृशां वियोगदुःखात् साश्रुनेत्राणः तपोभृतां द्वैतवननिवासिनां तपस्विनां हृदयानि समाविवेश खेदयामास इत्यर्थः। संपूर्वस्य विशतेः खेदार्थत्वम् अवसेयम्॥५९॥
अनुजगुरिति। अथ आशाः दिशः दिवि भवं दिव्यम्। “दिवादिभ्यो यत्” दुन्दुभिध्वानम् अनुजगुः दध्वनुः। अनुगायतेर्लिट्। व्योम्नि सुरकुसुमनिपातैः लक्ष्मीः वितेने। पुष्पवृष्टिः च अजनिष्ट इत्यर्थः। किं च अनिभृताः चञ्चलाः वेलायां कुले याः वीचयः ताः एव बाहवः यस्य सः तथोक्तः। “वेला कूलविकारयोः” इति शाश्वतः। पयोधिः स्फुरन्तीम् उल्लसन्ती
प्रियमिव कथयिष्यन्नालिलिङ्ग स्फुरन्तीं
भुवमनिभृतवेलावीचिबाहुः पयोधिः॥६०॥
इति श्रीभारविकृतौ किरातार्जुनीये
महाकाव्ये तृतीयः सर्गः॥३॥
———
चतुर्थः सर्गः।
ततः स कूजत्कलहंसमेखलां
सपाकशस्याहितपाण्डुतागुणाम्।
हर्षात् स्यन्दमानां च भुवं प्रियम् इष्टं भारावतारणरूपं कथयिथन् इव कथयितुम् इव इत्यर्थः। “लृट् शेषे च” इति चकारात् क्रियार्थायां क्रियायां ऌट्। आलिलिङ्ग। सर्वं च इदं शिवं दैवकार्य्यप्रवृत्तत्वात् अस्य इति भावः। अत्र विशेषणमात्रसाम्यात् अप्रस्तुतस्य गम्यत्वात् समासोक्तिः अलङ्कारः। तत्र च अप्रकृतयोः भूमिसमुद्रयोः प्रतिपन्नाभ्यां नायकाभ्यां भेदे लक्षणातिशयोक्तिवशात् आलिङ्गनोक्तिः इति रहस्यम्। एवम् अतिशयोक्त्यनुप्राणिता समासोक्तिः। प्रियकथनात् स्नेहवत् जीवयति तदङ्गभावं भजते इति उभयोः अङ्गाङ्गिभावेन सङ्करः इति विवेचनीयम्॥६०॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायां
तृतीयः सर्गः।
———
तत इति। ततः प्रस्थानानन्तरं जनप्रियः सः अर्जुनः कलहंसाः मेखलाः इव इति उपमितसमासः। अन्यत्र कलहंसाः इव
उपाससादोपजनं जनप्रियः
प्रियामिवासादितयौवनां भुवम्॥१॥
विनम्रशालिप्रसवौघशालिनीः
अपेतपङ्काः ससरोरुहाम्भसः
ननन्द पश्यन्नुपसीम स स्थलीः
उपायनीभूतशरद्गुणश्रियः॥२॥
ताः इति विशेषणसमासः। कूजन्ती कलहंसमेखला यस्या ताम्। सह पाकेन वर्त्तन्ते इति सपाकानि शस्यानि तैः शस्यैः आहितः सम्पादितः पाण्डुता एव गुणः यस्याः तां भुवम् आसादितयौवनां प्राप्तयौवनां प्रियाम् इव उपजनं जनसमीपे अन्यत्र सखीसमक्षम्। समीपार्थे अव्ययीभावः। उपाससाद उपगतवान्। उपमालङ्कारः॥१॥
विनम्रेति। सः अर्जुनः विनम्रशालिप्रसवौघशालिनीः अवनतकलमफलशोभिनीः अपेतपङ्काः निष्पङ्काः ससरोरुहाणि अम्भांसि यासु ताः तथोक्ताः। उपायनीभूताः अर्जुनं प्रति उपहारीभूताः शरद्गुणश्रियः पूर्वोक्तशरद्धर्मसम्पदः यासु ताः उपसीम ग्रामसीमासु विभक्त्यर्थे अव्ययीभावः समासान्तविधे अनित्यत्वात् “अनश्च” इति समासान्तः न भवति। केचित् तु “अप्यन्येषां कठिनवपुषां दुर्गमे ग्रामसीम्नि” इत्यादौ नपुंसकप्रयोगदर्शनात् “नपुंसकादन्यतरस्याम्” इति विकल्पात् च साधुः इति आहुः। स्थलीः अकृत्रिमाः भुवः। “जानपद” इत्यादिना अकृत्रिमार्थे ङीष्। पश्यन् ननन्द जहर्ष। अत्र शरद्गुणेषु तादात्म्येन आरोप्यमाणस्य उपायनस्य प्रकृतेः नन्दनक्रियोपयोगित्वात् परिणामालङ्कारः॥२॥
निरीक्ष्यमाणा इव विस्मयाकुलैः
सरोभिरुन्मीलितपद्मलोचनैः।
हृतप्रियादृष्टिविलासविभ्रमाः
मनोऽस्य जह्रुः शफरीविवृत्तयः॥३॥
तुतोष पश्यन् कलभस्य सोऽधिकं
सवारिजे वारिणि रामणीयकम्।
सुदुर्लभं नार्हति कोऽभिनन्दितुं
प्रकर्षलक्ष्मीमनुरूपसङ्गमे ?॥४॥
नुनोद तस्य स्थलपद्मिनीगतं
निरीक्ष्यमाणा इति। विस्मयाकुलैः आश्चर्य्यरसाविष्टैः अत एव उन्मीलितानि पद्मानि एव लोचनानि येषां तैः सरोभिः निरीक्ष्यमाणाः इव स्थिताः हृतः प्रियादृष्टिविलासानां बिभ्रमः शोभा याभिः ताः तथोक्ताः इति मनोहरणत्वहेतूक्तिः। “बिभ्रमः संशये भ्रान्तौ शोभायां च” इति वैजयन्ती। शफरीविवृत्तयः प्रोष्ठोस्फुरितानि अस्य अर्जुनस्य मनः जह्रुः॥३॥
तुतोषेति। सः अर्जुनः सवारिजे साम्बुजे वारिणि कलभस्य शालिवशेषस्य “शालयः कलभाद्याश्च षष्टिकाद्याश्च पुंस्यमी” इत्यमरः। रमणीयस्य भावः रामणीयकम्। “योपधाद्गुरूपोत्तमाद् वुञ्” तत् पश्यन् अधिकं तुतोष। अनुरूपसङ्गमात् इति भावः। तथाहि सुदुर्लभे अनुरूपसङ्गमे योग्यसमागमे लब्धे सति इति शेषः प्रकर्षलक्ष्मीं योग्यसमागमननिमित्ताम् उत्कर्षसम्पदम् अभिनन्दितुं स्तोतुं कः न अर्हति ? सर्वः अपि अभिनन्दति एव इत्यर्थः। सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः॥४॥
वितर्कमाविष्कृतफेनसन्तति।
अवाप्तकिञ्जल्कविभेदमुच्चकैः
विवृत्तपाठी अपराहतं पयः॥५॥
कृतोर्मिलेखंशिथिलत्वमायता
शनैः शनैःशान्तरयेण वारिणा।
निरीक्ष्य रेमे स समुद्रयोषितां
तरङ्गितं क्षौमविपाण्डु सैकतम्॥६॥
नुनोदेति। आविष्कृता प्रकटीकृता फेनसन्ततिः हिण्डीरसमूहः यस्य तत् तथोक्तम्। “हिण्डीरोऽब्धिकफः फेनः” इत्यमरः। अवाप्तः किञ्जल्कविभेदः केसरापगमः येन तत् तथोक्तम्। उच्चकैः उच्चकं यथा तथा विवृत्तेन लुठितेन पाठीनेन मत्स्यविशेषेण पराहतं ताड़ितम्। “सहस्रदंष्ट्रः पाठीनः” इत्यमरः। पयः कर्तृ। तस्य अर्जुनस्य स्थलपद्मिनीगतं तद्गोचरम् इत्यर्थः। वितर्कं संशयं नुनोद विच्छेद। पाठीनपराहत्या किञ्जल्कापायेन जलदर्शनात् स्थलपद्मिनीशङ्का निवृत्ता इत्यर्थ। अत्र निश्चयोत्तरसन्देहालङ्कारः॥५॥
कृतेति। सः अर्जुनः शिथिलत्वम् आयता गच्छता दिने दिने क्षीयमाणेन इत्यर्थः। अत एव शनैः शनैः शान्तरयेण अन्यथा ऊर्मिरेखानुदयात् इति भावः। वारिणा कृताः ऊर्मयतरङ्गाः एव रेखाः राजयः यस्य तत् तथोक्तं तरङ्गा अस्य सञ्जाताः तरङ्गितं भङ्गिमत्। “तदस्य सञ्जातं” इति इतच्। यत् क्षौमं दुकूलं तद्वत् विपाण्डु शुभ्रम् इति उपमालङ्कारः। समुद्रयोषितां नदीनां सिकता अस्य अस्तीति सकतं पुलिनम्।
मनोरमं प्रापितमन्तरं भ्रुवोः
अलङ्कृतं केसररेणुनाऽणुना।
अलक्तताम्राधरपल्लवश्रियां
समानयन्तीमिव बन्धुजीवकम्॥७॥
नवातपालोहितमाहितं मुहुः
महानिवेशौ परितः पयोधरौ।
चकासयन्तीमरविन्दजं रजः
परिश्रमाम्भःपुलकेन सर्पता॥८॥
“सिकताशर्कराभ्यां च” इति अण्प्रत्ययः। “तोयोत्थितं तत्पुलिनसैकतं सिकतामयन्” इत्यमरः। निरीक्ष्य रेमे तुतोष॥६॥
ततः त्रिभिः शालिगोप्त्रींवर्णयति। मनोरममिति। अणुना सूक्ष्मेण केसरेषु किञ्जल्केषु। “किञ्जल्कः केसरोऽस्त्रियाम्” इत्यमरः। यः रेणुः परागः तेन अलङ्कृतम् अत एव मनः रमयति इति मनोरमम्। “कर्मण्यण्” इत्यण्। भ्रुवोः अन्तरं प्रापितं भ्रूमध्ये निवेशितं बन्धुजीवकं बन्धूकपुष्पम्। “बन्धूको बन्धुजीवकः” इत्यमरः। अलक्तताम्रस्य लाक्षारागरक्तस्य अधरपल्लवस्य श्रिया शोभया समानयन्तीं समीकुर्वतीम् इव साम्यपरीक्षां कुर्वतीम् इव इत्यर्थः। उत्प्रेक्षालङ्कारः॥७॥
नवेति। महान् निवेशः स्थानं ययोः तौ महानिवेशौ पीवरौ इत्यर्थः। पयोधरौ परितः स्तनयोः समन्तात् इत्यर्थः। “अभितः परितः समयानिकषाहाप्रतियोगेऽपि” इति द्वितीया। मुहुः आहितं निःक्षिप्तं नवातपालोहित बालातपताम्रम् अरविन्दजं रजः परागं सर्पता प्रसरता परिश्रमाम्भःपुलकेन स्वेदोद्भवेन
कपोलसंश्लेषि विलोचनत्विषा
विभूषयन्तीमवतंसकोत्पलम्।
सुतेन पाण्डोः कलमस्य गोपिकां
निरीक्ष्य मेने शरदः कृतार्थता॥९॥
॥विशेषकम्॥
उपारताः पश्चिमरात्रिगोचरात्
अपारयन्तः पतितुं जवेन गाम्।
तमुत्सुकाश्चक्रुरवेक्षणोत्सुकं
गवां गणाः प्रस्नुतपीवरौधसः॥१०॥
पुलकेन चकासयन्तीं शोभयन्तीं चकास्तेः ण्यन्तात् शतरि ङीप्। अलङ्करणं कुर्वतीम्। तत्र अपि विकृतता इति भावः॥८॥
कपोलेति। पुनः कपोलसंश्लेषि यदवतंसकोत्पलं कर्णोत्पलं तद्विलोचनत्विषा विभूषयन्तीम् आभरणस्य अपि आभरणम् इति भावः। कमलं गोपायति इति गोपिकां शालिगोप्त्रीं ण्वुल्प्रत्ययः। निरीक्ष्य पाण्डोः सुतेन अर्जुनेन शरदः कृतार्थायाः भावः कृतार्थता साफल्यम्। शरदः स्वगुणसम्पत्सिद्धिनियोगलाभात् इति भावः। “त्वतलोर्गुणवचनस्य पुंवद्भावो वक्तव्यः”। मेने अमानि। मन्यतेः कर्मणि लिट्॥९॥
उपारता इति। पश्चिमा च असौ रात्रिश्च इति विशेषणसमासः। अपररात्रः इत्यर्थः। “पूर्वा दिक् पश्चिमं नभः” इत्यादिवत् एकदेशिशब्दस्य एकदेशशब्दसामानाधिकरण्यात् एकदेशे पर्य्यवसानं न तु पश्चिमं रात्रेः इति एकदेशिसमासः। तद्विधायके पूर्वापरादिसूत्रे पश्चिमशब्दाग्रहणात् अत एव “अहःसर्वैकदेश”
परीतमुक्षापजये जयश्रिया
नदन्तमुच्चैः क्षतसिन्धुरोधसम्।
ददर्श पुष्टिं दधतं स शारदीं
सविग्रहं दर्पमिवाधिपं गवाम्॥११॥
विमुच्यमानैरपि तस्य मन्थरं
इत्यादिना न समासान्तोऽपि तस्य अपि पूर्वापरादिसूत्रोक्तसमासविषयत्वात् इति। प्रकाशवर्षः तु एकदेशिसमासम् एव आश्रित्य समासान्तम् आह—तत् मृग्यम्। गावः चरन्ति अत्र इति गोचरः गवां जग्धिस्थानं वनम्। पश्चिमरात्रौ यः गोचरः तस्मात् उपारताः संनिवृत्ताः जवेन गां भुवं पतितुं धावितुम् अपारयन्तः अशक्नुवन्तः प्रस्रुतपीवरौधसः वत्सस्मरणात् स्रवत् क्षीराः। “ऊधस्तु क्लीबमापीनम्” इत्यमरः। “ऊधसोऽनङ्” इति स्त्रीग्रहणं कर्त्तव्यम् इति नियमात् न अनङादेशः। उत्सुकाः वत्सेषु उत्कण्ठिताः गवां गणाः तम् अर्जुनम् अवेक्षणोत्सुकं दर्शनलालसं चक्रुः। “स्वर्गेषु पशुवाग्वज्र-दिङ्नेत्रघृणिभूजले। लक्ष्यदृष्ट्या स्त्रियां पुंसि गौः” इत्युभयत्र अपि अमरः। अत्र स्वभावोक्तिः अलङ्कारः। “स्वभावोक्तिरलङ्कारो यथावद्वस्तु वर्णनम्” इति लक्षणात्॥१०॥
परीतमिति। सः अर्जुनः उक्षापजये उक्षान्तरभङ्गे सति जयश्रिया परीतं वेष्टितम् उच्चैः नदन्तं क्षतसिन्धुरोधसं रुग्णसरित्तटं शरदि भवां शारदीं पुष्टिम् अवयवोपचयं दधतं गवाम् अधिपं महोक्षं सविग्रहं मूर्त्तिमन्तम्। “कायो देहः क्लीबपुंसौ शरीरं वर्त्म विग्रहः” इत्यमरः। दर्पम् इव इति उत्प्रेक्षा। ददर्श॥११॥
गवां हिमानीविशदैः कदम्बकैः।
शरन्नदीनां पुलिनैः कुतूहलं
गलद्दुकूलैर्जघनैरिवादधे॥१२॥
गतान् पशूनां सहजन्मबन्धुतां
गृहाश्रयं प्रेम वनेषु बिभ्रतः।
ददर्श गोपानुपधेनु पाण्डवः
कृतानुकारानिव गोभिरार्जवे॥१३॥
विमुच्यमानैरिति। हिमानीविशदैः हिमसङ्घातशुभ्रैः। “हिमानी हिमसंहतिः” इत्यमरः। “इन्द्रवरुण” इत्यादिना ङीष्। तत्सन्नियोगात् आनुगागमश्च। गवां कदम्बकैः कर्त्तृभिः। “कदम्बकं समूहे श्रीफले पुष्पविशेषके” इत्यमरः। मन्थरं मन्दं विमुच्यमानैः अपि किमुत अविमुच्यमानैः इति भावः। शरन्नदीनां सम्बन्धिभिः। शरद्ग्रहणं प्रावृट्निवृत्त्यर्थं तत्र पुलिनादर्शनात् इति भावः। पुलिनैः कर्त्तृभिः गलद्दुकूलैः जघनैः इव तस्य अर्जुनस्य कुतूहलं कौतुकम् आदधे आहितम्॥१२॥
गतानिति। पाण्डवः अर्जुनः पशूनां गवां सह जन्म येषां ते सहजन्मानः सोदराः ते एव बन्धवः तेषां भावः तत्ता तां गतान् पशुषु सोदराभिमानवतः इत्यर्थः। गृहाश्रयं गृहविषयं प्रेम वनेषु बिभ्रतः वनेषु गृहाभिमानिनः इत्यर्थः। आर्जवे ऋजुत्वे विधेयत्वे गोभिः पशुभिः कृतानुकारान् अनुकृतावस्थितान् इव इति उत्प्रेक्षा। ततः विधेयान् इत्यर्थः। गाः पाति इति गोपाः गोपालकाः। “आतोऽनुपसर्गे कः” इति कप्रत्ययः। तान् उपधेनु धेनुसमीपे सामीप्यार्थे अव्ययीभावः। ददर्श। अत्र उत्प्रेक्षानुप्राणिता स्वभावोक्तिः अलङ्कारः॥१३॥
परिभ्रमन्मूर्द्धजषट्पदाकुलैः
स्मितोदयादर्शितदन्तकेसरैः।
मुखैश्चलत्कुण्डलरश्मिरञ्जितैः
नवातपामृष्टसरोजचारुभिः॥१४॥
निबद्धनिःश्वासविकम्पिताधराः
लता इव प्रस्फुरितैकपल्लवाः।
व्यपोढ़पार्श्वैरपवर्त्तितत्रिका
विकर्षणैः पाणिविहारहारिभिः॥१५॥
अथ चतुभिः वल्लवाः नर्त्तकौसाम्येन वर्णयति। परिभ्रमदिति। मूर्धजाः षट्पदाः इव इति उपमितसमासः। सरोजचारुभिः इति उपमानुसारात्। परिभ्रमद्भिः चलद्भिः मूर्द्धजैः षट्पदैः आकुलानि तैः दन्ताः केसराः इव इति पूर्ववत् समासः। स्मितोदयेन आदर्शिताः ईषत् प्रकाशिताः। दन्तकेसराः येषां तैः तथोक्तैः चलत्कुण्डलरश्मिरञ्जितैः चञ्चलकनककर्णवेष्टनप्रभानुलिप्तैः अत एव नवातपामृष्टं बालातपस्पृष्टं यत् सरोजं तद्वत् चारुभिः मुखैः उपलक्षिताः॥१४॥
निबद्धेति। निबद्धेन अनुरुद्धेन निःश्वासेन विकम्पिताः अधराः यासां ताः तथोक्ताः अत एव प्रस्फुरितैकपल्लवाः प्रचलितैकपल्लवाः इत्यर्थः “क्वचित् सङ्ख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत्” इति कैयटः। लताः इव स्थिताः दैवात् एकपल्लवस्फुरणस्य अपि लोके सम्भवात्। उपमा एव इयं न उत्प्रेक्षा। किं च व्यपोढ़ानि विपरीतानि पार्श्वानि येषु तैः पाणिविहारहारिभिः पाणिविक्षेपमनोहरैः। “अङ्गहारोऽङ्गविक्षेप” इत्यमरः।
व्रजाजिरेष्वम्बुदनादशङ्किनीः
शिखण्डिनामुन्मदयत्सु योषितः।
मुहुः प्रणुन्नेषु मथां विवर्त्तनैः
नदत्सु कुम्भेषु मृदङ्गमन्थरम्॥१६॥
स मन्थरावल्गितपीवरस्तनीः
परिश्रमक्लान्तविलोचनोत्पलाः।
निरीक्षितुं नोपरराम वल्लवीः
अभिप्रनृत्ता इव वारयोषितः॥१७॥
कलापकम्॥
विकर्षणैः मन्थगुणकर्षणैः अपवर्त्तितत्रिकाः सञ्चलितनितम्बाः। यद्यपि “पृष्ठवंशाधरे त्रिकम्” इत्यमरः। तथापि अत्र नितम्ब लक्ष्यते तन्नैकट्यात् इति भावः॥१५॥
व्रजेति। व्रजाजिरेषु गोष्ठप्राङ्गणेषु। अधिकरणे सप्तमी। “व्रजो गोष्ठाध्ववृन्देषु” इति विश्वः। अम्बुदनादशङ्किनी-गर्जितभ्रमवतीः इति भ्रान्तिमदलङ्कारः। शिखण्डिनां योषितः मयूरीः। योषिद्ग्रहणं मौग्ध्यातिशयार्थम् उन्मदयन्सु उन्मदाः कर्वत्सु। “तत्करोति” इति ण्यन्तात् शतृप्रत्ययः। मथां मन्थनदण्डानाम्। “वैशाखमन्थमन्थानमन्थानो मन्थदण्डके” इत्यमरः। विवर्त्तनैः परिभ्रमणैः मुहुः प्रणुन्नेषु कम्पितेषु इति स्वभावोक्तिः। कुम्भेषु कलशेषु मृदङ्गम् मन्थरम् ईषन्नदत्सु स्वनवत्सु सत्सु इति नाट्यसाम्योक्ति
……… सप्तमी इयम्॥१६॥
स इति। मन्थरावल्गितपीवरस्तनीः चञ्चला पीवराः स्तनाः यासां ताः तथोक्ताः।
…….. नादसंयोगोपधात्” इति
पपात पूर्वां जहतो विजिह्मतां
वृषोपभुक्तान्तिकशस्यसम्पदः।
रथाङ्गसीमन्तितसान्द्रकर्दमान्
प्रसक्तसम्पातपृथक्कृतान् पथः॥१८॥
जनैरुपग्राममनिन्द्यकर्मभिः
ङीष्। परिश्रमेण क्लान्तानि ग्लानानि विलोचनोत्पलानि यासां ताः तथोक्ताः वल्लवीः गोपीः। “गोपे गोपालगोसंख्य-गोधुगाभीरबल्लवाः” इत्यमरः। अभिप्रनृत्ताः नृत्यन्तीः। “गत्यर्थादकर्म्मक” इत्यादिना कर्त्तरि क्तः। “गतिबुद्धिपूजार्थेभ्यश्च” इति चकाराद्वर्त्तमानार्थम्। वारयोषितः वेश्याः इव। “वारस्त्री गणिका वेश्या” इत्यमरः। सः अर्जुनः निरीक्षितुम्। ईक्षतेस्तुमुन्। न उपरराम न विरमति स्म। “उपाच्च”। “विभाषाकर्मकात्” इति परस्मैपदम्। अत्र चतुःश्लोक्याम् उपमास्वभावोक्तयोः संसृष्टिः॥१७॥
पपातेति। सः अर्जुनः पूर्वां प्रावृषेण्यां विजिह्मतां वक्रतां जहतः त्यजतः। शरदि निष्पङ्कत्वेन समरेखया एव सुगमत्वात् इति भावः। जहातेः शतृप्रत्ययः। वृषोपभुक्तान्तिकशस्यसम्पदः वृषभचर्वितप्रान्तशस्यसमृद्धीन्। “सुकृते वृषभे वृषः” इत्यमरः। सीमन्ताः इव सीमन्ताः चक्राङ्गपद्धतयः सीमन्तवन्तः कृताः सीमन्तिताः। मत्वन्तात् “तत्करोति” इति णिचि क्तः णाविष्टवद्भावान्मतुपः लुक्। रथाङ्गैः चक्रैः सीमन्तिताः सान्द्राः कर्दमाः घनीभूताः पङ्का येषु तान् प्रसक्तसम्पातेन सन्ततसञ्चारेण पृथक्कृतान् पथः मार्गान् पपात जगाम इति स्वभावोक्तिः॥१८॥
विविक्तभावेङ्गितभूषणैर्वृताः।
भृशं ददर्शाश्रममण्डपोपमाः
सपुष्पहासाः स निवेशवीरुधः॥१९॥
ततः स सम्प्रेक्ष्य शरद्गुणश्रियं
शरद्गुणालोकनलोलचक्षुषम्।
उवाच यक्षस्तमनोदितोऽपि गां
न हीङ्गितज्ञोऽवसरेऽवसीदति॥२०॥
जनैरिति। सः अर्जुनः उपग्रामं ग्रामेषु। विभक्त्यर्थे अव्ययीभावः। अनिन्द्यकर्म्मभिः अनिषिद्धवृत्तिभिः वृत्तिश्च एकत्र कृष्यादिः अन्यत्र शिलोञ्छादिः। विविक्तानि एकाग्राणि भावः अभिप्रायः इङ्गितं चेष्टा भूषणम् अलङ्कारश्च येषां तैः तथोक्तैः जनैः वृताः अधिष्ठिताः इत्यर्थः। अत एव आश्रमेषु मुनिस्थानेषु ये मण्डपाः तदुपमाः। “मण्डपोऽस्त्री जनाश्रयः” इत्यमरः। सपुष्पहासाः पुष्यविकाशसहिताः। “तेन सह” इत्यादिना बहुव्रीहिः। निवेशवीरुधः गूहगुल्मिनीः। “वीरुधो बल्लिगुल्मिन्यौ” इति वैजयन्ती। भृशं सादरं ददर्श। उपमालङ्कारः॥१९॥
तत इति। ततः स पूर्वोक्तः यक्षः शरद्गुणश्रियं सम्प्रेक्ष्य दर्शनीयां वर्णनीयां च विचार्य्य इत्यर्थः। शरद्गुणालोकने लोलचक्षुषं सतृष्णदृष्टिम्। “लोलश्चलमतृष्णयोः” इत्यमरः। तम् अर्जुनम् अनोदितः अपि अपृष्टः अपि गां वाचम् उवाच। तथाहि इङ्गितज्ञः भावज्ञः। “इङ्गितं हृद्गतो भावः” इति विश्वः। अवसरे उक्तियोग्ये काले न अवसीदति न वाच यच्छति। नापृष्टः कस्यचिद् ब्रूयात्” इति निषेधस्तु अना-
इयं शिवाया नियतेरिवायतिः
कृतार्थयन्ती जगतः फलैः क्रियाः।
जयश्रियं पार्थ ! पृथूकरोतु ते
शरत् प्रसन्नाम्बुरनम्बुवारिदा॥२१॥
उपैति शस्यं परिणामरम्यतां
नदीरनौद्धत्यमपङ्कतां मही।
नवैर्गुणैः सम्प्रति संस्तवस्थिरं
तिरोहितं प्रेम घनागमश्रियः॥२२॥
काङ्क्षितोक्तिविषयः इति भावः। सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः॥२०॥
इयमिति। हे पार्थ ! शिवायाः कल्याणकारिण्याः नियतेः। “दैवं दिष्टं भागधेयं भाग्यं स्त्री नियतिर्विधिः” इत्यमरः। शुभावहदैवस्य आयतिः फलदानकालः सा इव जगतः क्रिया कृष्यादिकर्माणि फलैः लाभैः। “लाभनिष्पत्तियोगेषु वीजभावे धने फलम्” इति वैजयन्ती। कृतार्थयन्ती सफलयन्ती प्रसन्नाम्बुः निर्मलोदका अनम्बुवारिदा निर्जलमेघा अनेन विशेषणद्वयेन द्यावापृथिव्योः आनुकूल्यं सूचयति। इयं शरत्ते जयश्रियं पृथूकरोतु। आशीरर्थ लोट्॥२१॥
उपैतीति। शस्यं व्रीह्यादिकं परिणामेन परिपाकेण रम्यताम् उपैति। नदीः अनौद्धत्यं गम्यरूपत्वम् उपैति। मही अपङ्कतां निष्पङ्कत्वम् उपैति। तथाहि सम्प्रति नवैः गुणैः पूर्वोक्तेः शरद्धर्मैः संस्तवेन परिचयेन स्थिरं दृढम् अपि घनागमश्रियः प्रावृड्लक्ष्म्याः सम्बन्धि तद्विषयम् इत्यर्थः प्रेम तिरोहितं
पतन्ति नास्मिन् विशदाः पतत्रिणो
धृतेन्द्रचापा न पयोदपङ्क्तयः।
तथापि पुष्णाति नभः श्रियं परां
न रम्यमाहार्य्यमपेक्षते गुणम्॥२३॥
विपाण्डुभिर्म्लानतया पयोधरैः
च्युताचिराभागुणहेमदामभिः।
इयं कदम्बानिलभर्त्तुरत्यये
न दिग्बधूनां कृशता न राजते॥२४॥
निरर्थकं कृतम् इत्यर्थः। गुणतन्त्राः प्रेमाणः न परिचयतन्त्रा इति भावः। वास्तवालङ्कारः॥२२॥
पतन्तीति। अस्मिन् नभसि विशदाः पतत्रिणः बलाकाः न पतन्ति न प्रसरन्ति धृतेन्द्रचापाः पयोदपङ्क्तयश्च न पतन्ति। तथापि श्रीकारणाभावे अपि नभः परां श्रियं शोभां पुष्णाति। तथाहि रम्यं स्वभावसुन्दरं वस्तु आहार्य्यम् आरोप्यमाणं गुणं न अपेक्षते। तत्र स्वभावस्य एव समर्थत्वात् इति भावः। अत्र अर्थान्तरन्यासः॥२३॥
विपाण्डुभिरिति। कदम्बानिलशब्देन वर्षर्तुः उपलक्ष्यते सः एव भर्त्ता तस्य अत्यये विरहे म्लानतया निर्जलतया दुर्बलतया च विपाण्डुभिः च्युतानि अचिराभा विद्युत् तस्याः गुणाः एव हेमदामानि सुवर्णसूत्राभरणानि यैभ्यः तैः पयोधरैः अम्भोदैः अन्यत्र स्तनैः उपलक्षितानाम्। “स्तनाम्भोदौ पयोधरौ” इति वैजयन्ती। दिशः एव बध्वः तासाम् इयं कृशता न राजते इति न किन्तु राजते एव भर्त्तृवियुक्तत्वात्। “आर्त्तार्त्ते मुदिते
विहाय वाञ्छामुदिते मदात्ययात्
अरक्तकण्ठस्य रुते शिखण्डिनः।
श्रुतिः श्रयत्युन्मदहंसनिःस्वनं
गुणाः प्रियत्वेऽधिकृता न संस्तवः॥२५॥
अमी पृथुस्तम्बभृतः पिशङ्गतां
गता विपाकेन फलस्य शालयः।
हृष्टा प्रोषिते मलिना कृशा” इति स्मरणात् इति भावः। सामान्यतः प्रसक्तम् अरञ्जनं सङ्कार्श्यस्य एकेन नञानृद्य द्वितो येन निषेधति। यथाह वामनः—सम्भाव्यनिषेधनिवर्त्तने द्वौ प्रतिषेधौ” इति। अत्र रूपकालङ्कारः स्फुटः एव॥२४॥
विहायेति। मदात्ययात् मदक्षयात् अरक्तकण्ठस्य अश्राव्यस्वरस्य कण्ठशब्देन अत्र तद्गतः स्वरः लक्ष्यते शिखण्डिनः मयूरस्य सम्बन्धिनि उदिते उच्चे स्तरे रुते कूजिते वाञ्छां विहाय श्रुतिः श्रोत्रम्। “कर्णशब्दग्रहौ श्रोत्रं श्रुतिः स्तौ श्रवणं श्रवः” इत्यमरः। उन्मदहंसनिःस्वनं मत्तमरालकूजितं श्रयति भजते। ननु अकाण्डे परिचितपरिहारेण अपरिचिते कथं प्रोत्युदयः इत्याशङ्क्य अर्थान्तरं न्यस्यति। गुणा इति। प्रीणाति इति प्रियः। “इगुपधज्ञाप्रौकिरः कः” इति कप्रत्ययः। प्रियत्वे प्रीतिकरणे गुणा अधिकृताः नियुक्ताः संस्तवः परिचयः न अधिकृतः न समर्थः प्रेमाधाने गुणवत्त्वं प्रयोजकं न परिचयः इत्यर्थः॥२५॥
अमीति। अमी पृथून् स्तम्बान् गुच्छान् बिभ्रति इति पृथुस्तम्बभृतः। “स्तम्वोः गुच्छस्तृणादिनः” इत्यमरः। फलस्य प्रसवस्य विपाकेन परिणामेन पिशङ्गतां गताः शालयः व्रीहि-
विकासि वप्राम्भसि गन्धसूचितं
नमन्ति निघ्रातुमिवासितोत्पलम्॥२६॥
मृणालिनीनामनुरञ्जितं त्विषा
विभिन्नमम्भोजपलाशशोभया।
पयः स्युरच्छालिशिखापिशङ्गितं
द्रुतं धनुःखण्डमिवाहिविद्विषः॥२७॥
विशेषाः। वप्राम्भसि केदारोदके। “पुंनपुंसकयोर्वप्रः केदारक्षेत्रम्” इत्यमरः। विकसति इति विकासि विकसितं गन्धेन सूचितं ज्ञापितम् असितोत्पलं निघ्रातुम् इव नमन्ति। “निध्यातुमिव” इति पाठे द्रष्टुम् इत्यर्थः। निर्वर्णयितुं वा “निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्” इत्यमरः। अत्र फलभारात् नमनस्य निघ्राणफलकत्वम् उत्प्रेक्ष्यते इति फलोत्प्रेक्षा॥२६॥
अथ चतुर्भिः कलापकम् आह। मृणालिनीनामिति। मृणालिनीनां पद्मलतानां त्विषा हरितवर्णेन अनुरञ्जितम् तद्वर्णताम् आपादितम् इत्यर्थः। तथा अम्भोजपलाशशोभया पद्मदलकान्त्या आरुण्येन इत्यर्थः। विभिन्नं मिश्रितम्। तथा स्फुरच्छालिशिखापिशङ्गितं स्फुरद्भिः कलमाग्रेः पिङ्गलीकृतम् इत्थं नानावर्णत्वात् द्रुतं विगलितम् अहिविद्विषः वृत्रशत्रोः इन्द्रस्य “सर्पे वृत्रासुरेऽप्यहिः” इति वैजयन्ती। धनुःखण्डम् इव स्थितम्। “नित्यं समासेऽनुत्तरपदस्थस्य” इति विसर्जनीयस्य षत्वम्। पयः वप्राम्भः अपदिश्य व्याजीकृत्य धावताम् इत्यागामिना सम्बन्धः। अत्र धनुःखण्डस्य द्रुतस्य लोके अप्रसिद्धत्वात् उत्प्रेक्षा इयं न उपमा॥२७॥
विपाण्डु संव्यानमिवानिलोद्धतं
निरुन्धतीः सप्तपलाशजं रजः।
अनाविलोन्मीलितबाणचक्षुषः
सपुष्पहासा वनराजियोषितः॥२८॥
अदीपितं वैद्युतजातवेदसा
सिताम्बुदच्छेदतिरोहितातपम्।
विपाण्डिति। विपाण्डु शुभ्रम् अनिलोद्धतम् अनिलोत्क्षिप्तम्। सप्त सप्त पलाशानि पत्राणि पर्वसु येषां ते वृक्षाः सप्तपलाशाः। क्वचित् संख्याशब्दस्य वृत्तिविषये वीप्सार्थत्वं सप्तपर्णादिवत् इति उक्तम्। तेषां पुष्पाणि सप्तपलाशानि। “द्विहीनं प्रसवे सर्वम्” इत्यमरः। “फले लुक्” इत्यणः लुक्। तेषु जातं सप्तपलाशजं रजः परागं संव्यानम् उत्तरीयम् इव। “संख्यानमुत्तरीयं च” इत्यमरः। निरुन्धतीः निवारयन्तीः प्रावृतवतीः इति यावत्। अनाविलानि अकलुषाणि उन्मीलितानि च बाणानि नीलसैरेयकाणि चक्षूंषि इव यासां ताः तथोक्ताः। “नीलः त्वर्थगलो दासी बाण ओदनपाक्यति” इति धन्वन्तरिः। पुष्पाणि हासाः इव तैः सह वर्त्तन्ते इति सपुष्पहासाः। वनराजयः योषितः इव वनराजियोषितः ताः अपदिश्य इति अन्वयः। अत्र संव्यानम् इव इति उपमा एव अन्यत्र उपमितसमासे लिङ्गम्। यथा काचित् केनचित् कामुकेन आक्षिप्तं स्तनांशुकं निरुन्धे तद्वत् इति भावः॥२८॥
अदीपितमिति। वैद्युतजातवेदसा वैद्युताग्निना अदीपितम् अप्रकाशितं विद्युत्प्रकाशस्य दृष्टिविधातकत्वात् तद्राहित्यं गुणः इति भावः। सिताम्बुदानां छेदैः खण्डैः तिरो-
ततान्तरं सान्तरवारिशीकरैः
शिवं नभोवर्त्म सरोजवायुभिः॥२९॥
सितच्छदानामपदिश्य धावतां
रुतैरमीषां ग्रथिताः पतत्रिणाम्।
प्रकुर्वते वारिदरोधनिर्गताः
परस्परालापमिवामला दिशः॥३०॥
॥कलापकम्॥
विहारभूमेरभिघोषमुत्सुकाः
शरीरजेभ्यश्च्युतयूथपङ्क्तयः।
हितातपम्। न दृष्टिबाधः नापि आतपबाधः इति भावः। सान्तरवारिशीकरैः विरलाम्बुकणैः ततान्तरं व्याप्तमध्यं सरोजवायुभिः शिवं रम्यं नभोवर्त्म च अपदिश्य इति। स्वभावोक्ति अलङ्कारः॥२९॥
सितेति। अपदिश्य धावताम् इति पूर्वश्लोकत्रयोक्तं पयःप्रभृतिकम् उद्दिश्य धावताम् अमीषां सितच्छदानां पतत्रिणां हंसानाम्। “हंसास्तु श्वेतगरुतः चक्राङ्गा मानसौकम” इत्यमरः। रुतैः शब्दैः ग्रथिताः दृब्धाः। “ग्रथितं गुम्फितं दृब्धम्” इत्यमरः। वारिदरोधनिर्गताः मेघोपरोधनिर्मुक्ताः अत एव अमलाः प्रसन्नाः दिशः परस्परालापं प्रकुर्वते इव दिष्ट्या मेघोपरोधनिर्मुक्ताः चिरात् उच्छसिताः इति हंसकूजितव्याजेन परस्परम् आलपन्ति इति उत्प्रेक्षा॥३०॥
विहारेति। विहारभूमेः अपररात्रगोचरात् इत्यर्थः। आगच्छन्त्यः इति शेषः। अभिघोषम् उत्सुकाः व्रजं प्रति उत्कण्ठिता
असक्तमूधांसि पयः क्षरन्त्यमूः
उपायनानीव नयन्ति धेनवः॥३१॥
जगत्प्रसूतिर्जगदेकपावनी
व्रजोपकण्ठं तनयैरुपेयुषी।
द्युतिं समग्रां समितिर्गवामसौ
उपैति मन्त्ररिव सहिताहुतिः॥३२॥
वत्सप्रेम्णा इति भावः। “घोष आभीरपल्ली स्यात्” इत्यमरः। च्युता त्रुटिता यूथानां कुलानां पङ्क्तिः श्रेणीबन्धः यासां ताः तथोक्ताः। “सजातीयैः कुलं यूथम्” इत्यमरः। अमू धेनवः असक्तम् अप्रतिबन्धं पयः क्षीरं क्षरन्ति स्रवन्ति। वत्सस्मरणात् प्रस्रवन्ति इत्यर्थः। क्षरतेः शतृप्रत्ययः। ऊधांसि शरीरजेभ्यः अपत्येभ्यः उपायनानि इव अतितोषकारीणि इव इति उत्प्रेक्षा। नयन्ति प्रापयन्ति। यथा लोके कुतश्चित् प्रवासात् एत्य मातरः किञ्चित् खाद्यम् आनयन्ति तद्वत् इति भावः॥३१॥
जगदिति। जगत्प्रसूतिः जगत्कारणम् आज्यादिहविर्द्वारेण इति भावः। जगताम् एकपावनी मुख्यशोधनी व्रजोपकण्ठं गोष्ठान्तिकम्। “दूरान्तिकार्थेभ्यो द्वितीया च” इति द्वितीया। “उपकण्ठान्तिकाभ्यर्णाभ्यग्राः” इत्यमरः। तनयैः वत्सैः उपेयुषो सङ्गता। “उपेयिवाननाश्वाननूचानश्च” इति क्वसुप्रत्ययान्तः निपातः। “उगितश्च” इति ङीप्। असौ गवां समितिः संहतिः। मन्त्रैः ऋग्यजुषादिभिः। “मन्त्रो ऋगादिगृह्योक्तिः” इति वैजयन्ती। संहिता योजिता आहुतिः इव समग्रां द्युतिम् उपैति। आहुतिः अपि जगत्प्रसूतिः जगदेकपावनी च। “अग्नौ
कृतावधानं जितबर्हिणध्वनौ
सुरक्तगोपीजनगीतनिःस्वने।
इदं जिघत्सामपहाय भूयसीं
न शस्यमभ्येति मृगीकदम्बकम्॥३३॥
असावनास्थापरयावधीरितः
सरोरुहिण्या शिरसा नमन्नपि।
उपैति शुष्यन् कलमः सहाम्भसा
मनोभुवा तप्त इवाभिपाण्डुताम्॥३४॥
प्रास्ताहुतिः सम्यगादित्यमुपतिष्ठते। आदित्याज्जायते वृष्टिः वृष्टेरन्नं ततः प्रजाः” इति स्मरणात् इति भावः॥३२॥
कृतेति। जितबर्हिणध्वनौ केकानुकारिणि इत्यर्थः। एतेन षड्जस्वरप्रायं गायति इति गम्यते। यथाह मातङ्गः—“षड्जं मयूरो वदति” इति। गाः पान्ति इति गोपाः तेषां भार्य्या गोप्यः “आतोऽनुपसर्गे कः” इति कप्रत्ययः। “पुंयोगादाख्यायाम्” इति ङीष्। ताः एव जनः सुरक्तः मधुरकण्ठः यः गोपीजनः वल्लवीजनः तस्य गीतनिःस्वने गाने कृतावधानम् एकाग्रचित्तम् इदं पुरोवर्त्ति मृगीकदम्बकं कर्त्तृभूयसीम् अतिमहतीं जिघत्साम् अत्तुम् इच्छाम्। अदः सन्नन्तात् अप्रत्ययः। “लुङ्सनोर्घस्लृ” इति घस्लादेशः। अपहाय हित्वा शस्यं न अभ्येति न उपैति। गीतासक्त्या क्षुधाम् अपि न गणयति इत्यर्थः॥३३॥
असाविति। शिरसा अग्रेण मूर्ध्ना अवनमन् प्रणमन् अपि अनास्थापरया अनादरपरया सरोरुहिण्या अवधीरितः अवज्ञातः अम्भसा सहचरभूतेन इति भावः। शुष्यन् असौ कलमः
अमी समुद्धूतसरोजरेणुना
हृताहृतासारकणेन वायुना।
उपागमे दुश्चरिता इवापदां
गतिं न निश्चेतुमलं शिलीमुखाः॥३५॥
मुखैरसौ विद्रुमभङ्गलोहितैः
शिखाः पिशङ्गीः कलमस्य बिभ्रती।
शालिविशेषः मनोभुवा तप्तः इव कामार्त्तः इव अभिपाण्डुताम् उपैति। अत्र अनास्थापरया इति प्रकृतसरोरुहिणी-विशेषणसामर्थ्यात् अप्रस्तुतनायिकाप्रतीतेः समासोक्तिः। उत्तिष्ठमानायाः सरोरुहिण्याः प्रतीयमानया नायिकया शुद्धभेदे अपि अभेदलक्षणाशयोक्तिमहिम्ना अवधीरणक्रियासम्बन्धात् निर्वहन्ती मनोभुवा तप्तः इव इति उत्प्रेक्षा निर्वाहिका इति अतिशयोक्त्यनुप्राणितसमासोक्त्युपमयोः अङ्गाङ्गिभावेन सङ्करः॥३४॥
अमी इति। समुद्धूतसरोजरेणुना इति सौरभ्योक्तिः। हृतामारकणेन उपात्ताम्बुकणेन इति शैत्योक्तिः। “धारासम्पात् आभारः” इत्यमरः। वायुना हृताः आकृष्टाः अमी शिलीमुखाः भृङ्गाः। आपदाम् उपागमे राजादिभयागमे दुश्चरिताः दुष्टकर्माणः चौरादयः इव। गम्यते इति गतिं गन्तव्यदेशम्। “देशोपायगमे गतिः” इति वैजयन्ती। निश्चेतुं न अलं न समर्थाः। एकत्र वायोः सार्वत्रिकत्वेन उपादानात् अनिश्चयात् अन्यत्र भयान्धत्वात् इति भावः॥३५॥
मुखैरिति। विद्रुमभङ्गलोहितैः मुखैः पिशङ्गीः पिशङ्गवर्णाः कलमस्य शिखाः शाल्यग्राणि बिभ्रती व्यक्तशिरीषकोमला
शुकावलिर्व्यक्तशिरीषकोमला
धनुःश्रियं गोत्रभिदोऽनुगच्छति॥३६॥
इति कथयति तत्र नातिदूरात्
अथ ददृशे पिहितोष्णरश्मिबिम्बः।
विगलितजलभारशुक्लभासां
निचय इवाम्बुमुचां नगाधिराजः॥३७॥
तमतनुवनराजिश्यामितोपत्यकान्तं
नगमुपरि हिमानीगौरमासाद्य जिष्णुः।
विकसितशिरीषसवर्णा असौ शुकावलिः गोत्रभिदः इन्द्रस्य धनुषः श्रियम् अनुगच्छति अनुकरोति नानावर्णत्वात् इन्द्रधनुः इव आभाति इति उपमालङ्कारः॥३६॥
इतीति। अथ तत्र तस्मिन् पूर्वोक्तयक्षे इति इत्थं कथयति सति न अतिदूरात् अनतिदूरात् ईषद्दूरे इत्यर्थः। नञर्थस्य नशब्दस्य सुप्सुपा इति समासः। पिहितोष्णरश्मिविम्बः तिरोहितार्कमण्डलः इति औन्नत्योक्तिः। नगाधिराजः हिमाद्रिः विगलितः जलभारः येषां ते तथोक्ताः। अत एव शुक्लभासः द्वयोः अन्यतरस्य विशेष्यत्वविवक्षया विशेषणसमासः। तेषां विगलितजलभारशुक्लभासां शुभ्राणाम् अम्बुमुचां निचयः इव मेघवृन्दम् इव ददृशे दृष्टः॥३७॥
तमिति। जिष्णुः अर्जुनः अतनुभिः महतीभिः वनराजिभिः श्यामिताः श्यामलाः उपत्यकान्ताः आसन्नभूमिप्रदेशाः यस्य तं तथोक्तम्। “उपत्यकाद्रेरासन्ना भूमिरूर्द्धमधित्यका” इत्यमरः। “उपाधिभ्यां त्यकन्नासन्नारूढ़योः” इति त्यकन्प्रत्ययः। उपरि हिमानीभिः हिमसङ्घातैः गौरं शुभ्रं नगं हिमाद्रिम् आसाद्य
व्यपगतमदरागस्यानुसस्मार लक्ष्मीम्
असितमधरवासो बिभ्रतः सीरपाणेः॥३८॥
इति श्रीभारविकृतौ किरातार्जुनीये महाकाव्ये
शरद्वर्णनो नाम चतुर्थः सर्गः॥४॥
पञ्चमः सर्गः।
———
अथ जयाय नु मेरुमहीभृतः
रभसया नु दिगन्तदिदृक्षया।
व्यपगतः निवृत्तः मदरागः यस्य तस्य। असितं नीलम् अधरवासः उत्तरीयं बिभ्रतः धृतवतः सीरं हलं पाणौ यस्य तस्य सौरपाणेः हलायुधस्य। “हलायुधो नीलाम्बरो रौहिणेयस्तालाङ्को मुसली हली। सङ्घर्षणः सीरपाणिः” इत्यमरः। “सप्तमी विशेषणे” इति ज्ञापकात् व्यधिकरणपदः बहुव्रीहिः। “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ स्तः” इति सप्तम्याः परनिपातः। लक्ष्मीं शोभाम् अनुसस्मार स्मृतवान्। अत्र सदृशदर्शनेन सदृशान्तरस्य स्मरणात् स्मरणालङ्कारः। “सदृशं सदृशानुभवाद्यत्र स्मर्य्यते तत् स्मरणम्” इति विद्याधरः॥३८॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां
किरातार्जुनीयव्याख्यायां घण्टपथसमाख्यायां
चतुर्थः सर्गः॥४॥
अथ हिमवद्वर्णनम् आरभते तत्र पञ्चदशभिः कुलकम्
अभिययौ स हिमाचलमुच्छ्रितं
समुदितं नु विलङ्घयितुं नभः॥१॥
तपनमण्डलदीपितमेकतः
सततनैशतमोवृतमन्यतः।
हसितभिन्नतमिस्रचयं
….
शिवमिवा
……..॥२॥
आह। अथेति। अथ अनन्तरं स अर्जुनः मेरुमहीभृतः हेमाद्रे जयाय नु जयार्थं वा। नुशब्द अत्र वितर्के। “नु पृच्छायां वितर्के च” इत्यमरः। रभसः वेगः। “रभसो वेगहर्षयोः” इति वैजयन्ती। तद्वत्या रभसया अतीव उत्कटतया इति यावत्। अर्श आदित्वात् अच्प्रत्ययः। दिगन्तानां दिदृक्षया नु द्रष्टुम् इच्छाया वा नभः अन्तरिक्षं विलङ्घयितुं नु अतिक्रमितुं वा समुदितं समुत्पतितम् इव स्थितम् इत्यर्थः। कुतः उच्छ्रितम् उन्नतं हिमस्य अचलं हिमाचलम् अभिययौ। अत्र अभिद्योतितानेकफलविशिष्टौन्नत्यगुणनिमित्तोदितादिक्रियोत्प्रेक्षा सा च व्यञ्जकाप्रयोगात्। प्रतीयमाना इति संक्षेपः। द्रुतविलम्बितं वृत्तम्—“द्रुतविलम्बितमाह नभौ भरौ” इति लक्षणात्॥१॥
तपनेति। एकतः एकस्मिन् भागे। सार्वविभक्तिकः तसिः। तपनमण्डलेन दीपितं प्रकाशितम्। अन्यतः अन्यस्मिन् भागे सततेन अनिषिद्धेन नैशेन निशिभवेन तमसा वृतम् एकत्र अह्ना राात्र्या च अन्यत्र सङ्गतम् इत्यर्थः। अत एव पुरः अग्रे हसितेन अट्टहासेन भिन्नतमिस्रचयं निरस्ततमस्तोमं तथा गजचर्म्मणा अनुगतं पश्चाद्व्याप्तम्। “पश्चात्सादृश्ययोरनु” इत्यमरः। शिवम्
क्षितिनभःसुरलोकनिवासिभिः
कृतनिकेतमदृष्टपरस्परैः।
प्रथयितुं विभुतामभिनिर्मितं
प्रतिनिधिं जगतामिव शम्भुना॥३॥
भुजगराजसितेन नभःश्रिता
कनकराजिविराजितसानुना।
समुदितं निचयेन तड़ित्वतीं
लघयता शरदम्बुदसंहतिम्॥४॥
इव स्थितम्। तपनतेजःप्रसारः अपि अस्य कारणम् इव कुत्रचित् परिसमाप्यते इति महत्त्वातिशयोक्तिः॥२॥
क्षितीति। परस्परे अन्योन्ये। “कर्मव्यतिहारे सर्वनाम्नो द्वे भवतः” इति वक्तव्यत्वात् परशब्दस्य द्विर्भावः। “समासवच्च बहुलं यदा समासवत् प्रथमैकवचनं तदा पूर्वपदस्य” इति वक्तव्यत्वात् प्रथमैकवचनम्। सुट् कत्कादित्वात् विसर्जनीयस्य सत्वं बहुवचनं च अन्योन्यशब्दवत्। यथा माघे—“अन्योन्येषां पुष्करैरामृशन्ते” इति। अदृष्टाः परस्परे यैः ते अदृष्टपरस्पराः तैः तथोक्तैः। क्षितौ नभसि सुरलोके च निवसन्ति इति तैः तथोक्तैः भूर्भुवःस्वर्लोकवासिभिः इत्यर्थः। कृतनिकेतं कृतास्पदम् अत एव शम्भुना विभुतां स्वसामर्थ्यं प्रथयितुम् अभिनिर्मितं जगतां प्रतिनिधिं प्रतिकृतिम् इव स्थितम् इति उत्प्रेक्षा। “प्रतिकृतिरर्चा पुंसि प्रतिनिधिरुपमोपमानं स्यात्” इत्यमरः। त्रैलोक्यश्लाघ्योपमम् अपरिच्छेद्यं च इति भावः॥३॥
भुजगेति। पुनश्च भुजगराजसितेन शेषाहिधवलेन नभःश्रिता गगनस्पृशा अतएव रात्रिभिः रेखाभिः विराजिताः
मणिमयूखचयांशुकभासुराः
सुरबधूपरिभुक्तलतागृहाः।
दधतमुच्चशिलान्तरगोपुराः।
पुर इवोदितपुष्पवना भुवः॥५॥
अविरतोज्झितवारिविपाण्डुभिः
विरहितैरचिरद्युतितेजसा।
उदितपक्षमिवारतनिःस्वनैः
पृथुनितम्बविलम्बिभिरम्बुदैः॥६॥
सानवः यस्य तेन तथोक्तेन अत एव तड़ित्वतीं शरदम्बुदसंहति लघतया लघूकुर्वता तत्तुल्येन इत्यर्थः। अत एव उपमालङ्कारः। निचयेन शिखरसमुच्चयेन समुदितं समुन्नतम्॥४॥
मणीति। पुनः मणिमयूखचयाः एव अंशुकानि पटकाण्डादीनि तैः भासुराः सुरबधूभिः परिभुक्ताः लताः गृहाणि इव यासु ताः तथोक्ताः। उच्चानि शिलान्तराणि शिलामध्यानि गोपुराणि इव यासु ताः उदितानि ऊर्जितानि पुष्पाणां वनानि यासु ताः अत एव पुरः इव नगराणि इव स्थिताः भुवः दधतम्॥५॥
अविरतेति। पुनश्च अविरतम् अविच्छिन्नम् उज्झितं वारि यैः ते अविरतोज्झितवारयः वृष्टिमन्तः इत्यर्थः। अत एव विपाण्डवश्च तैः अविरतोज्झितवारिविपाण्डुभिः। अतः हिमवत्पक्षत्वं सम्भवति इति भावः। अचिरद्युतितेजसा विरहितैः विद्युत्तेजोरहितैः। आरतनिःस्वनैः प्रशान्तगर्जितैश्च अन्यथा पक्षत्वहानिः स्यात् इति भावः। पृथुनितम्बविलम्बिभिः महाकटकसङ्गिभिः। “कटकोऽस्त्री नितम्बोऽद्रेः” इत्यमरः। अम्बुदैः
दधतमाकरिभिः करिभिः क्षतैः
समवतारसमैरसमैस्तटैः।
विविधकामहितामहिताम्भसः
स्फुटसरोजवना जवना नदीः॥७॥
नवविनिद्रजपाकुसुमत्विषां
द्युतिमतां निकरेण महाश्मनाम्।
उदितपक्षं सञ्जातपक्षम् इव स्थितम्। प्राक् छिन्नपक्षस्य अपि हिमाद्रेः धवलाम्बुदसम्बन्धात् पुनः पक्षोत्थानम् उत्प्रेक्ष्यते॥६॥
दधतमिति। पुनश्च आकरः खनिः एषाम् अस्ति योनित्वेन इति आकरिभिः आकरजैः। “खनिः स्त्रियामाकरः स्यात्” इत्यमरः। करिभिः गजैः कर्त्तृभिः क्षतैः व्रणैः समवतारेषु तीर्थेषु समैः अविषमैः असमैः असदृशैः अतादृशैः अनुपमैः इत्यर्थः तटैः उपलक्षिताः ताः महिताम्भसः श्लाघ्योदकाः अत एव विविधेभ्यः कामेभ्यः अवगाहनाद्युपभोगेभ्यः हिताः अनुकूलाः। “चतुर्थो तदर्थे” इत्यादिना समासः। स्फुटानि विकसितानि सरोजवनानि यासु ताः जवनाः वेगवतीः। “जुचङ्कस्य” इत्यादिना युच्। नदीः दधतम्। यमकवृत्त्यनुप्रासभेदत्वात् यमकालङ्कारः। अर्थालङ्कारः तु अभ्युच्चयः तस्य अतिदुष्करत्वात् रसपोषः अपि न आद्रियते। तदुक्तम् “प्रायशो यमके चित्रे रसवृद्धिर्न मृग्यते”॥७॥
नवेति। पुनश्च नवानि विनिद्राणि च यानि च जपाकुसुमानि ताम्रपुष्पिकाकुसुमानि तेषां त्विषः इव त्विषः येषां ते तेषाम् “ओड्रपुष्पं जपापुष्पं रूपिका ताम्रपुष्पिका” इति वाग्भटः। द्युतिमतां महाश्मनां मणीनां पद्मरागाणाम् इत्यर्थः
विहितसान्ध्यमयूखमिव क्वचित्
निचितकाञ्चनभित्तिषु सानुषु॥८॥
पृथुकदम्बकदम्बकराजितं
ग्रथितमालतमालवनाकुलम्।
लघुतुषारतुषारजलश्च्युतं
धृतसदानसदाननदन्तिनम्॥९॥
रहितरत्नचयान्न शिलोच्चयान्
अपलताभवना न दरीभुवः।
विशेषणसामर्थ्यात्। निकरेण समूहेन हेतुना क्वचित् निचिताः सङ्घट्टिताः काञ्चनभित्तयः येषु तेषु सानुषु विहिताः सान्ध्याः सन्ध्यायां भवाः मयूखाः यस्मिन् तम् इव स्थितम्। काञ्चनभित्तिषु पद्मरागप्रभाप्रसरात् उदितसन्ध्यारागः इव भाति इति उत्प्रेक्षा॥८॥
पृथ्विति। पुनश्च पृथुभिः कदम्बकदम्बकै नीपकुसुमसमूहैः स्तवकैः राजितम्। “कदम्बमाहुः सिद्धार्थे नीपे च निकुरम्बके” इति उभयत्र अपि विश्वः। ग्रथितमालैः बद्धपङ्क्तिभिः तमालवनैः तापिञ्छवनैः आकुलम् आकीर्णम्। “कालस्कन्धः तमालः स्यात्तापिञ्छोऽपि” इत्यमरः। लघुतुषारम् अल्पसीकरं यत् तुषारजलं हिमोदकं तत् श्च्योतति वर्षति तं तथोक्तम्। “तुषारौ हिमसीकरौ” इति शाश्वतः। “अन्येभ्योऽपि दृश्यते” इति क्विप्। सदानाः समदाः सदाननाः शोभनाननाश्च ये दन्तिनः ते धृताः येन तं तथोक्तम्॥९॥
रहितेति। पुनश्च रहितरत्नचयान् रहितः परित्यक्तः रत-
विपुलिनाम्बुरुहा न सरिद्वधूः
अकुसुमान् दधतं न महीरुहः॥१०॥
व्यथितसिन्धुमनौरशनैः शनैः
अमरलोकबधूजघनैर्घनैः।
फणभृतामभितो विततं ततं
दयितरम्यलतावकुलैः कुलैः॥११॥
समुरचापमनेकमणिप्रभैः
अपपयोविशदं हिमापाण्डुभिः।
वयः यैः तान् रत्नराशिरहितान् शिलोच्चयान् शिखराणि न दधतम् अपलताभवनाः लतागृहरहिताः दरीभुवः गुहाप्रदेशान् न दधतम्। “दरी तु कन्दरो वा स्त्री देवखातबिले गुहा” इत्यमरः। विगतानि पुलिनानि अम्बुरुहाणि च यासां ताः सरितः बध्वः इव ताः सरिद्बधूः न दधतम्। अत्र सरितां बध्वोपम्यात् पुलिनाम्बुरुहाणां वदनजघनौपम्यं गम्यते। अकुसुमान् महीरुहः वृक्षान् न दधतं किन्तु रत्नादिसम्पन्नान् एव शिलोच्चयादीन् दधतम् इत्यर्थः। महाविभाषया न अत्र नञ्समासः॥१०॥
व्यथितेति। पुनश्च अनीरसनैः अनिर्मेखलैः सरशनैः इत्यर्थः। घनैः निविड़ैः अमरलोकबधुजघनैः शनैः मन्दं मन्दं व्यथितसिन्धुं क्षोभितनदीकम् अयम् अपरः स्वर्गः इति भावः। दयिताः प्रियाः रम्याः लताः वीरुधः वकुलाः केसराश्च येषां तैः तथोक्तैः। “विशारदो मद्यगन्धो वकुलः सर्वकेसरः” इति वैद्यके। फणभृतां कुलैः अभितः ततं व्याप्त तथा विततं विस्तृतम्॥११॥
अविचलं शिखरैरुपबिभ्रतं
ध्वनितसूचितमम्बुमुचां चयम्॥१२॥
विकचवारिरुहं दधतं सरः
सकलहंसगणं शुचि मानसम्।
शिवमगात्मजया च कृतेर्ष्यया
सकलहं सगणं शुचिमानसम्॥१३॥
ग्रहविमानगणानभितो दिवं
ज्वलयतौषधिजेन कृशानुना।
समुरेति। अनेका विचित्रा मणिप्रभा येषां तैः तथोक्तैः हिमेन पाण्डुभिः शिखरैः समुरचापं सेन्द्रचापम् अपपयः निर्जलः अत एव विशदश्च तम् अपपयोविशदम् अविचलं दैवात् निश्चलं च अतः शिखरशङ्का अस्य अभूत् इत्यर्थः। किन्तु ध्वनितेन गर्जितेन सूचितं ज्ञापितम् अम्बुमुचां चयम् उपबिभ्रतम्। अत्र कविकल्पितसादृश्यात् शिखरैः मेघसन्देहे मेघनिश्चयात् सन्देहालङ्कारः॥१२॥
विकचेति। पुनश्च विकचवारिरुहं नित्यविकसितारविन्दम् इत्यर्थः वृत्तिसामर्थ्यात्। कलहंसगणैः सह वर्त्तते इति सकलहंसगणम्। “कादम्बः कलहंसः स्यात्” इत्यमरः। यद्वा सकलाः सर्वे हंसगणाः यस्मिन् तत् तथोक्तम्। शुचि नित्यनिर्मलं मानसं मानसाख्यं सरः दधतम्। किञ्च कृतेर्ष्यया कुतश्चित् निमित्तात् कुपितया इत्यर्थः अगात्मजया पार्वत्या सकलहं सविवादं सगणं सप्रमथम्। “गणाः प्रमथसङ्ख्यौघाः” इति वैजयन्ती। शुचिमानसम् अविद्याविनिर्मुक्तचित्तं शिवं च दधतम्। एतेन सकलशैलवैलक्षण्य अस्य उक्तम्॥१३॥
मुहुरनुस्मरयन्तमनुक्षपं
त्रिपुरदाहमुमापतिसेविनः॥१४॥
विततशीकरराशिभिरुच्छ्रितैः
उपलरोधविवर्त्तिभिरम्बुभिः।
दधतमुन्नतसानुसमुद्धतां
धृतसितव्यजनामिव जाह्नवीम्॥१५॥
॥कुलकम्॥
ग्रहेति। दिवम् अभितः दिवः अभिमुखम्। “अभितः परितः” इत्यादिना द्वितीया। ग्रहाः चन्द्रादयः विमानानि देवयानानि च। “व्योमयानं विमानोऽस्त्री” इत्यमरः। तेषां गणान् ज्वलयता प्रदीपयता। “मितां ह्रस्वः” इति ह्रस्वः। ओषधिजेन तृणविशेषजन्येन कृशानुना अनुक्षपं प्रतिक्षपम्। वीप्सायाम् अव्ययीभावः। उमापतिसेविनः प्रमथादीन्। “गतिबुद्धि” इत्यादिना द्विकर्म्मत्वम्। त्रयाणां पुराणां समाहारः त्रिपुरम्। “तद्धितार्थ” इत्यादिना समासः। “पात्रादिभ्यः प्रतिषेधो वक्तव्यः” इति स्त्रीलिङ्गप्रतिषेधः। तस्य दाहं त्रिपुरदाहं मुहुः अनुस्मरयन्तम्। ननु “अधीगर्थ” इत्यादिना दाहम् इत्यत्र षष्ठी किं न स्यात् तस्याः शेषार्थे विधानात् शेषस्य अविवक्षितत्वात्। अत्र कविसम्मतसादृश्यात् स्मृतिः इति स्मरणालङ्कारः॥१४॥
विततेति। विततशीकरराशिभिः विस्तृतशीकरपुञ्जैः उच्छ्रितैः उत्पतितैः कुतः उपलरोधेन विवर्त्तिभिः अम्बुभिः हेतुभिः धृतसितव्यजनाम् इव गृहीतामलचामराम् इव
अनुचरेण धनाधिपतेरथो
नगविलोकनविस्मितमानसः।
स जगदे वचनं प्रियमादरात्
मुखरतावसरे हि विराजते॥१६॥
अलमेष विलोकितः प्रजानां
सहसा सन्ततिमंहसां विहन्तुम्।
घनवर्त्म सहस्रधेव कुर्वन्
हिमगौरैरचलाधिपः शिरोभिः॥१७॥
स्थिताम् इति उत्प्रेक्षा। उन्नतमानुषु समुद्धतां वहन्तीं जाह्नवीं गङ्गां दधतम्॥१५॥
अनुचरेणेति। अथो अनन्तरम्। “मङ्गलानन्तरारम्भप्रश्नकार्य्येष्वथो अथ” इत्यमरः। धनाधिपतेः अनुचरेण यक्षेण नगविलोकनविस्मितमानसः सः अर्जुनः। आदरात् प्रियं वचनं जगदे गदितः। गदतेः ब्रुवर्थस्य दुहादित्वात् प्रधाने कर्म्मणि लिट्। अपृष्टपरिभाषणदोषं परिहरति। मुखरतेति। मुखरता वाचालत्वम् अपृष्टपरिभाषित्वम् इति यावत्। अवसरे श्रोतुः आकाङ्क्षासमये विराजते हि। आकाङ्क्षितम् अपृष्टः अपि ब्रूयात् इति भावः॥१६॥
अलमिति। हिमेन गौरैः शुभ्रैः शिरोभिः शिखरैः घनवर्त्म खं सहस्रधा कुर्वन् विपाटयन् इव इति उत्प्रेक्षा। एषः अचलाधिपः हिमवान् विलोकितः दृष्टमात्रः एव प्रजानाम् अंहसां सन्ततिं पापसङ्घातं सहसा विहन्तुम् अलं समर्थः। “पर्याप्तिवचनेष्वलमर्थेषु” इति तुमुन्। औपच्छन्दसिकं वृत्तम्।
इह दुरधिगमैः किञ्चिदेवागमैः
सततमसुतरं वर्णयन्त्यन्तरम्।
अमुमतिविपिनं वेद दिग्व्यापिनं
पुरुषमिव परं पद्मयोनिः परम्॥१८॥
रुचिरपल्लवपुष्पलतागृहैः
उपलसज्जलजैर्जलराशिभिः।
नयति सन्ततमुत्सुकतामयं
धृतिमतीरुपकान्तमपि स्त्रियः॥१९॥
“पर्य्यन्तेर्य्यौ तथैव शेषं चौपच्छन्दसिकं सुधीभिरुक्तम्” इति स्मरणात्॥१७॥
इहेति। इह अस्मिन् पर्वते सुतरं न भवति इति असुतरं दुस्तरम् इत्यर्थः। तरतेः खल्प्रत्ययः। अन्तरं मध्यभागं पुरुषे तु अन्तरं तत्त्वं दुरधिगमैः दुर्ग्रहैः दुःखेन अधिगन्तुम् अशक्यैः आगमैः पुराणादिभिः किञ्चित् एव सततं वर्णयन्ति। न तु कदाचित् प्रत्यक्षेण अपि निःशेषं ज्ञातुम् अशक्यत्वात् इति भावः। किन्तु अतिविपिनम् अतिगहनं दिग्व्यापिनम् अमुं गिरिं परं पुरुषं परमात्मानम् इव परं केवलम्। “परमव्ययमिच्छन्ति केवलः” इति विश्वः। पद्मयोनिः ब्रह्मा एव वेद न अन्यः इत्यर्थः। “विदो लटो वा” इति णलादेशः। अत्र उपमायमकयोः संसृष्टिः। क्षमावृत्तम्। “तुरगरसयतिर्नौ भरौ गः क्षमा”॥१८॥
रुचिरपल्लवेति। अयं गिरिः। रुचिराणि पल्लवानि पुष्पाणि च येषां ते तथाभूताः लतागृहाः येषु तैः तथोक्तैः उपलसज्जलजैः जलराशिभिः सरोभिः करणैः उपकान्तं कान्त-
सुलभैः सदा नयवताऽयवता
निधिगुह्यकाधिपरमैः परमैः।
अमुना धनैः क्षितिभृताऽतिभृता
समतीत्य भाति जगतौ जगती॥२०॥
अखिलमिदममुष्य गौरीगुरोः
त्रिभुवनमपि नैति मन्ये तुलाम्।
समीपे धृतिमतीः धैर्य्यवतीः अपि समीपस्थान् अपि प्रियान् न गणयन्तीः। मानिनीः इत्यर्थः। स्त्रियः सन्ततम् उत्सुकतां नयति तासां मानग्रन्थिं शिथिलयति इत्यर्थः। अथवा उपकान्तं धृतिमतीः तुष्टिमतीः अपि सुरततृप्ताः अपि पुनः उत्सुकतां नयति इत्यर्थः। उभयत्र अपि उद्दीपकत्वातिशयोक्तिः। वृत्तम् उक्तम्॥१९॥
सुलभैरिति। नयवता नीतिमता अयवता भाग्यवता च सदा सुलभैः न अन्यैः इत्यर्थः। “अयः शुभावहो विधिः” इत्यमरः। निधीनां महापद्मादीनाम्। “अस्त्री पद्मो महापद्मः शङ्खो मकरकच्छपौ। मुकुन्दनन्दनीलाश्च वर्चाः स्युर्निधयो नव” इत्यमरः। गुह्यकानां च अधिपं कुवेरं रमयन्ति इति तथोक्तैः। “कर्म्मण्यण्”। परमैः उत्कृष्टैः धनैः करणैः अमुना क्षितिभृता हेतुना अतिमृता पूर्णा सती जगती मही जगती स्वर्गपाताललोकौ समतीत्य अतीत्य भाति। अमानुषैः अपि दुर्लभाः सम्पदः अत्र सम्भवन्ति इति भावः। अत्र धनाधिपतेः इति पदार्थस्य विशेषणगत्या जगदतिक्रमणहेतुत्वोक्त्या काव्यलिङ्गं तस्य यमकेन संसृष्टिः। प्रमिताक्षरा वृत्तम्। “प्रमिताक्षरा सजससैरुदिता” इति लक्षणात्॥२०॥
अधिवसति सदा यदेनं जनैः
अविदितविभवो भवानीपतिः॥२१॥
वीतजन्मजरसं परं शुचि
ब्रह्मणः पदमुपैतुमिच्छताम्।
अखिलमिति। अमुष्य गौरीगुरोः हिमवतः इदम् अखिलं त्रयाणां भुवनानां समाहारः त्रिभुवनम् अपि। “तद्धितार्थ” इत्यादिना समासः। पाचादित्वात् स्त्रीत्वप्रतिषेधः। तुलां साम्यं न एति इति मन्ये। यत् यतः जनैः अविदितविभवः अज्ञातमहिमा भवनीपतिः सदा एनं गिरिम् अधिवसति अस्मिन् वसति इत्यर्थः। “उपान्वध्याङ् वस” इति कर्म्मत्वम्। अतः अयं धर्मक्षेत्रम् इति भावः। प्रभावृत्तम्। “स्वरशरविरतिर्नौ सरौ प्रभा” इति लक्षणात्॥२१॥
वीतेति। वीते निवृत्ते जन्मजरसी यस्य तत् वीतजन्मजरसम्। “जराया जरसन्यतरस्याम्” इति जरसादेशः। अत्र नदन्तविधेः इष्टत्वात् परत्वेन स्यादेशबाधकत्वात् च। तथाहि “टाङसिङसामिनात् स्याः” इति स्यादेशबाधनात्। “परत्वाज्जरसादेशं बभाषे भाष्यकृत् स्वयम्। सूत्रकारमते यत्तु ज्ञापकात् परबाधनम् भवेत् तदपि टाङस्योर्न पुनर्ङसि सम्भवेत्। मतद्वयेऽपि तत्तुल्यं ङसि यत्पूर्वबाधनम्। परत्वाज्जरसादेशस्तत् स्यात् स्यादेशबाधनात्। ज्ञापकञ्चात्र टाङस्योर्यावादेशा विनादिति। ईकारदीर्घयोस्तत्र वैयर्थ्यं तत्तु तौ विना। एत्वे सवर्णदीर्घं च रूपसिद्धिर्भवेद्यतः। व्यर्थसूत्राक्षरत्यागात् तेन तज्ज्ञापकं फणी। स्वातन्त्र्याज्जरसादेशे जगौ पूर्वस्य बाधनात्। समर्थनप्रपञ्चस्तु भाष्यकैयटयोः स्फुटः॥”
आगमादिव तमोपहादितः।
सम्भवन्ति मतयो भवच्छिदः॥२२॥
दिव्यस्त्रीणां सचरणलाक्षारागाः
रागायाते निपतितपुष्पापीड़ाः।
एवञ्च यदत्र जरस इति केषाञ्चित् पाठान्तरकल्पनं तत् अज्ञानविजृम्भितम् एव। ब्रह्मणः परमात्मनः सम्बन्धि परम् उत्कृष्ट शुचिनिष्कलङ्कं पद्यते इति पदं स्थानं तादात्म्यलक्षणम् मुक्तिम् इत्यर्थः। उपैतुं प्राप्तुम् इच्छतां मुमुक्षूणाम् आगमात् शास्त्रात् इव तमः अपहन्ति इति तमोऽपहात् अविद्यानिव त्तकत्वात्। “अपेः क्लेशतमसोः” इति डप्रत्ययः। इतः अस्मात् गिरेःभवं छिन्दन्ति इति भवच्छिदः संसारनिवर्त्तकाः। “सत्भूद्विष” इत्यादिना क्विप्। मतयः तत्त्वज्ञानानि सम्भवन्ति। क्षेत्रविशेषस्य अपि ज्ञानोपपादकत्वात् इत्याशयः। न चकेवलं भोगभूमिः किन्तु मुक्तिक्षेत्रम् अपि इति तात्पर्य्यार्थः। रथोद्धता वृत्तम्। तल्लक्षणम् “रान्नराविह रथोद्धतालगौइति॥२२॥
दिव्येति। अस्मिन् गिरौचरणलाक्षारागैः सह वर्त्तन्तेताः तथोक्ताः धेनुकपुरुषायितादिबन्धेषु स्त्रियः पादतलस्पर्शात् तदागाङ्किताः इत्यर्थः। निपतिताः व्यानतकरणे स्त्रीणाम् अधो मुखत्वात् भ्रष्टाः पुष्पापीड़ाः कुसुमशेखराः यासु ताः तथोक्ताः “शिखास्वापीडशेखरौ” इत्यमरः। पीड़ाभाजः विमर्दभाजः भङ्गिमत्यः इत्यर्थः। भ्रमरप्रेङ्खोलितादौ सर्वतः कटिपरिभ्रमण सम्भवात् इति भावः। कुसुमैः चिताः कुसुमचिताः। इभमार्जा रादिकरणेषु स्तनभुजाद्यवयवानां शय्यातलस्थायित्वात्मार्दवाय
पीड़ाभाजः कुसुमचिताः साशंसं
शंसन्त्यस्मिन् सुरतविशेषं शय्याः॥३३॥
गुणसम्पदा समधिगम्य परं
महिमानमत्र महिते जगताम्।
कुसुमचिताः कुसुमास्तृताः इत्यर्यः। दिव्यस्त्रीणां सम्बन्धिन्यः शेरते आसु इति शय्याः तल्पानि। “संज्ञायां समजनिपद” इत्यादिना क्यप्। रागायाते रागोद्रेके सति यः साशंसः सतृष्णाः सुरतविशेषः तं जाती एकत्रचनं सुरतविशेषान् इत्यर्थः। शंसन्ति सूचयन्ति विवृण्वन्ति इत्यर्थः। अत्र लाक्षारागादिपदार्थानां सुरतविशेषशंमनं प्रति विशेषणगत्या हेतुत्वोक्त्या काव्यलिङ्गम् अलङ्कारः यमकेन संसृज्यते। जलधरमालावृत्तम् “म्भौ स्मौ चेत् स्याज्जलधरमाला ख्याता” इति लक्षणात्। धेनुकादिबन्धलक्षणं तु रतिरहस्ये। “न्यस्तहस्तयुगला निजे पदे योषिदेति कटिरूढ़वल्लभा। अग्रतो यदि शनैरधोमुखी धेनुकं वृषवदुन्नते प्रिये॥१॥ स्वेच्छया भ्रमति वल्लभेऽपि यायोषिदाचरति वल्लभायितम्। व्यानतं रतमिदं यदि प्रिया स्यादधोमुखचतुष्पदाकृतिः॥२॥ तत्कटिं समधिरुह्य वल्लभः स्याद्वृषादिपशुसंस्थितिस्थितः। चक्रवद्भ्रमति कुञ्चितत्रिका भ्रामरं निगदितं समुद्धतम्॥३॥ सर्वतः कटिपरिभ्रमो यदि प्रेङ्खपूर्वमिदमुक्तमारतम्। भूगतस्तनभुजास्यमस्तकामुन्नतां स्वयमधोमुखी स्त्रियम्॥४॥ क्रामति स्वकरकष्टमेहने वल्लभे करिरतं तदुच्यते”। “प्रसारिते पाणिपादे शय्यास्पर्शिमुखोरसि। उन्नतायाः स्त्रियाः कट्यां मार्जारीकमणं विदुः” इति ग्रन्थान्तरे॥२३॥
गुणेति। जगतां महिते जगद्भिः पूजिते पूज्यमाने।” मति-
नयशालिनि श्रिय इवाधिपतौ
विरमन्ति न ज्वलितुमौषधयः॥२४॥
कुररीगणः कृतरवस्तरवः
कुसुमानता सकमलं कमलम्।
इह सिन्धवश्च वरणावरणाः
करिणां मुदे सनलदानलदाः॥२५॥
बुद्धि” इत्यादिना वर्त्तमाने क्तः “क्तस्य च वर्त्तमाने” इति षष्ठीअत्र हिमवति औषधयः तृणज्योतींषि नयशालिनि अधिपतौनीतिसम्पन्ने राज्ञि श्रियः सम्पदः इव गुणसम्पदा क्षेत्रगुण सम्पत्त्या अन्यत्र सन्ध्यादिगुणसम्पदा परं महिमानं उभयत्रअपि प्रकाशसामर्थ्यं समधिगम्य ज्वलितुं प्रकाशितुं न विरमन्ति अविरतं ज्वलन्ति इत्यर्थः। अन्यत्र रात्रादौइव इति भावः॥२४॥
कुररीति। इह अद्रौ कुररीगणः उत्क्रोशसङ्घः। “उत्क्रोशकुररौ समौ” इत्यमरः। कृतरवः कृतारवः तरवः कुसुमैआनताः कमलं जलं सकमलं सपद्मम्। “कमलं जलपद्मयोः” इति विश्वः। वरणाः द्रुमाः आवरणं यासां ताः वरणावरणाः “वरणो वरुणः सेतुस्तिक्तशाकः कुमारकः” इत्यमरः। सनलदाः सोशीराः। “मूलेऽस्योशीरमस्त्रियाम्। अभयं नलदं सेव्यम्” इत्यमरः। अनलं सन्तापं द्यन्ति खण्डयन्ति शमयन्ति इति अनलदाः। सनलदाश्च ताः अनलदाः सिन्धवः नद्यः करिणां मुदे भवन्ति इति शेषः। न कुत्र अपि उक्तवैपरीत्यम् इति भावः॥२५॥
सादृश्यं गतमनिद्रचूतगन्धैः
आमोदं मदजलसेकजं दधानः।
एतस्मिन् मदयति कोकिलानकाले
लीनालिः सुरकरिणां कपोलकाषः॥२६॥
सनाकवनितं नितम्बरुचिरं
चिरं सुनिनदैर्नदैर्वृतममुम्।
सादृश्यमिति। एतस्मिन् पर्वते अपनिद्रचूतगन्धैः सादृश्यं गतं फुल्लाम्रपुष्पसदृशं मदजलसेकजम् आमोदं परिमलं दधानः विभ्राणः। अत एव लोनालिः संसक्तभृङ्गः सुरकरिणां कष्यतेअनेन इति काषः। कपोलानां काषः कषणस्थानं द्रुम स्कन्धादि। अकाले वसन्तातिरिक्ते काले अपि कोकिलान् सदयति। “मितां ह्रस्वः” इति ह्रस्वः। अत्र वसन्तरूपकारणाभावेअपि मदाख्यकार्य्योत्पत्तिकथनात् विभावनालङ्कारः। तदुक्तम्। “कारणेन विना कार्य्योस्योत्पत्तिः स्याद्विभावना”इति। सा च चूतगन्धेःसादृश्यम् इति उपमया आमोदं दधानः इति पदार्थहेतुककाव्यलिङ्गेन च अङ्गाङ्गिभावेन सङ्कीर्य्यते। किं च कोकिलानां मदगन्धकृतनूतनगन्धःभ्रान्त्य
ाभ्रान्तिमदलङ्कारः व्यज्यते। प्रहर्षिणीवृत्तम्। “म्रौ ज्रौगस्त्रिदशयतिः प्रहर्षिणीयम्” इति लक्षणात्॥२६॥
मनाकेति। पुनश्च मनाकवनितं साप्सरस्कंनितम्बेःकटकैः रूचिरम्। सुनिनदैःसुघोषैः नदैः प्रवाहैः वृतम् अमुम् अमुष्मिन् गिरौ इत्यर्थः। “उपान्वध्याञ्वसः” इति कर्म्मत्वम्। अवतः अधोलोकरक्षकस्य फणवतः नागराजस्य मता इष्टा। “मतिबुद्धि” इत्यादिना वर्त्तमाने क्तः। तद्योगात्
मता फणवतोऽवतो रसपरा
परास्तवसुधा सुधाधिवसति॥२७॥
श्रीमल्लताभवनमोषधयः प्रदीपाः
शय्या नवानि हरिचन्दनपल्लवानि।
अस्मिन् रतिश्रमनुदश्च सरोजवाताः
स्मर्त्तुं दिशन्ति न दिवः सुरसुन्दरीभ्यः॥२८॥
ईशार्थमम्भसि चिराय तपश्चरन्त्याः
यादोविलङ्घनविलोलविलोचनायाः।
षष्ठी। रसेन परा उत्कृष्टा। परास्तवसुधा त्यक्तभूलोका सुधा अमृतं चिरम् अधिवसति। अतः अन्यत्र भूमण्डले कुत्रापि सुधा नास्ति इत्यर्थः। मेरुप्रभावः अयं गिरिः इति भावः। अत्र प्रस्तुतविशेषणसामर्थ्यात् अप्रस्तुतमेरुप्रतीतेःसमासोक्तिः अलङ्कारः स च यमकेन संसृज्यते। जलोद्धतगतिवृत्तम्। “रसेर्जसजसाजलोद्धतगतिः” इति लक्षणात्॥२७॥
श्रीमदिति। अस्मिन् अद्रौश्रीमत् समृद्धिमत् लता एव भवनम् ओषधयः तृणज्योतींषि एव प्रदीपाः नवानि हरिचन्दनपल्लवानि सुरतरुकिसलयानि एव शय्याः। “हरिचन्दनमाख्यातं गोशीर्षं सुरपादपे” इति विश्वः। रतिश्रमनुदः सुरतश्रमहारिणः सरोजवाताश्च सुरसुन्दरीभ्यः। क्रियाग्रहणात् चतुर्थी। दिवःदिवम्। “अधीगर्थ” इत्यादिना कर्म्मणि षष्ठी।स्मर्त्तुं न दिशन्ति। विस्मारयन्ति इत्यर्थः। स्वर्गात् अपि अतिरिच्यतेअसौ इति भावः। अत्र पूर्वार्द्धंरूपकत्रयं स्फुटम् एव॥२८॥
आलम्बताग्रकरमत्र भवो भवान्याः
श्च्योतन्निदाघसलिलाङ्गुलिना करेण॥२९॥
येनापविद्धसलिलः स्फुटनागसद्मा
देवासुरैरमृतमम्बुनिधिर्ममन्थे।
ईशार्थमिति। ईशाय इति ईशार्थं यथा तथा इति क्रियाविशेषणम्। “अर्थेन सह नित्यसमासः सर्वलिङ्गता च वक्तव्या”। चिराय चिरम् अम्भसि तपः चरन्त्याः अत एव यादोविलङ्घनविलोलविलोचनायाः जलजन्तुविघट्टितचलेक्षणायाः तपसःअपि अधिकदृष्ट्या एव विलोभयन्त्याः इति भावः। “यादांमि जलजन्तवः” इत्यमरः। भवान्याः भवपत्न्याःप्रयोगकालापेक्षः अयं निर्देशः। “इन्द्रवरुणभव” इत्यादिना ङीष् आनुगागमश्च। करैकदेशस्य अपि करत्वात् अग्रश्च अमौकरश्चइति समानाधिकरणे समासः। अत एव वामनः। “हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदाभेदौ” इति। तम् अग्रकरं भवः शिवः श्च्योतन्निदाघसलिलाङ्गुलिना स्रवत्स्वेदाङ्गुलिना इति सात्विकोक्तिः। करेण अत्र गिरौ आलम्बत गृहीतवान् अत्र अद्भुतातीतवृत्तान्तस्य प्रत्यक्षवत् अभिधानात् भाविकालङ्कारः। “अतीतानागते यत्र प्रत्यक्षवदलक्षिते। अत्यद्भुतार्थकार्य्यत्वाद्भाविकं तदुदाहृतम्” इति लक्षणात्। वसन्ततिलकावृत्तम्। “उक्ता वसन्ततिलका तभजाजगौ गः” इति लक्षगात्॥२९॥
येनेति। देवाश्च असुराश्चतैः देवासुरैः। “येषां च विरोधः शाश्वतिकः” इति नैकवद्भावः। एषां यतः कार्य्यतः एव विरोधः न गोव्याघ्रादिवत् शाश्वतिकः इति आहु गजमन्दराद्रिणा
व्यावर्त्तनैरहिपतेरयमाहिताङ्कः
खं व्यालिखन्निव विभाति स मन्दराद्रिः॥३०॥
नीतोच्छ्रायं मुहुरशिशिररश्मेरुस्रैः
आनीलाभैर्विरचितपरभागा रत्नैः।
ज्योत्स्नाशङ्कामिह वितरति हंसश्येनी
मध्येऽप्यह्नःस्फटिकरजतभित्तिच्छाया॥३१॥
मन्थदण्डकृतेन इति भावः। अपविद्धसलिलः क्षिप्तजलः अत एव स्फुटं नागसद्म पातालं यस्मिन् सः अम्बुनिधिः अमृतं ममन्थेमथितः। मन्थातेः द्विकर्मकत्वात् दुहादित्वात् अप्रधाने कर्म्मणि लिट्। अहिपतेःमन्थगुणीकृतस्य वासुकेः इत्यर्थः। “मन्थानं मन्दरं कृत्वा नेत्रं कृत्वा तु वासुकिम्” इति भारतवचनात्। व्यावर्त्तनैः वेष्टनैःआहिताङ्कःकृतचिह्नः सः अयं मन्दराद्रिः खम् आकाशं व्यालिखन् व्यापाटयन् इवविभाति। अत्र औन्नत्यानुपादानेन एवं खलेखनेन उत्प्रेक्षणात् अनुपात्तगुणनिमित्ता क्रियास्वरूपा उत्प्रेक्षा॥३०॥
नीतेति। इह अद्रौअशिशिररश्मेः उष्णांशोः उस्रैः मयूखैःसङ्क्रान्तैः इत्यर्थः। नीतोच्छ्रायम् उच्छ्रायं नीता विस्तारिता इत्यर्थः। तथा आनीलाभैःअसितप्रभैः रत्नैः इन्द्रनीलैःविरचितपरभागा तत्सन्निधानात् लब्धांत्कर्षा इत्यर्थः। हंसइव श्येनोश्वेतवर्णा “विशदश्येनपाण्डुराःइत्यमरः। “वर्णादनुदात्तात्तोपधात्तो नः” इति श्येतशब्दात् ङीप्। तकारस्य च नकारः। स्फटिकानां रजतानां च भित्तयः तासां छाया कान्तिः। अह्नः मध्ये मध्याह्ने अपि इत्यर्थः मुहुः ज्योत्स्ना शङ्कां वितरति। ज्योत्स्नाकृते भ्रान्तिं जनयति इतिभ्रान्तिमदलङ्कारः॥३१॥
दधत इव विलासशालि नृत्यं
मृदु पतता पवनेन कम्पितानि।
इह ललितविलासिनीजनभ्रू-
गतिकुटिलेषु पयःसु पङ्कजानि॥३२॥
अस्मिन्नगृह्यत पिनाकभृता सलीलं
आबद्धवेपथुरधीरविलोचनायाः।
विन्यस्तमङ्गलमहौषधिरीश्वरायाः
स्रस्तोरगप्रतिसरेण करेण पाणिः॥३३॥
दधति इति। इह अद्रौमृदु पतता मन्दं वहता पवनेन कम्पितानि पङ्कजानि ललितविलासिनीजनस्य भ्रूगतिवत् कुटिलेषु ईषत्तरङ्गितेषु इत्यर्थः पयःसु विलासशालि नृत्यं दधत इत्र सविलासं नृत्यन्ति इव इति उत्प्रेक्षा। पुष्पिताग्रा वृत्तम्॥३२॥
अस्मिन्निति। अस्मिन् अद्रौ पिनाकभृता शिवेन अधीरविलोचनायाः चकितदृष्टःउरगदर्शनात् इति भावः। ईश्वरायाः गौर्य्याः। “स्थेणभास” इत्यादिना वरच्। पुंयोगविवक्षाभावात् न ङीष्। आबद्धवेपथुः प्राप्तकल्पः इति सात्त्विकोक्तिः। “ट्वितोऽथुच्” इति अथुच्प्रत्ययः। विन्यस्ता मङ्गलमहौषधिः यवाङ्करादिः यस्मिन् सः पाणिः स्रस्तः गलितः उरगः एव प्रतिसरः कौतुकसूत्रं यस्य तेन। “आहुः प्रतिसरो हस्तसूत्रे माल्ये च मण्डने” इति विखः। करेण सलीलम् अगृह्यत इति देवस्य पार्वतीपरिणयनवर्णनम्। ईशाथम् इत्यत्र तु अनुग्रहमात्रोक्तिः इति अपौनरुक्त्यम्।भाविकम् एव अलङ्कारः॥३३॥
क्रामद्भिर्घनपदवीमनेकसङ्ख्यैः
तेजोभिः शुचिमणिजन्मभिर्विभिन्नः
उस्राणां व्यभिचरतीव सप्तसप्तेः
पर्य्यस्यन्निह निचयः सहस्रसङ्ख्याम्॥३४॥
व्यधत्त यस्मिन् पुरमुच्चगोपुरं
पुरां विजेतुर्धृतये धनाधिपः।
स एषकैलास उपान्तसर्पिणः
करोत्यकालात्समयं विवस्वतः॥३५॥
क्रामद्भिरिति। घनपदवीम् आकाशं क्रामद्भिः व्याप्नुवानैअनेकसंख्यैः। परः सहस्रैःइत्यर्थः। क्वचित् “अनेकवर्ण”इति पाठस्तु प्रामादिकः एव वैयर्य्यात् व्याघाताच्च इति। शुचिः मणिभ्यः स्फटिकेभ्यः जन्म येषां तैः। “जम्मादुत्तरपदोबहुब्रीहिर्व्यधिकरणेऽपीष्यते” इति वामनः। तेजोभिः विभिन्नः मिश्रः अत एव पर्य्यस्यन् प्रसर्पन् इह अद्रौ सप्तसप्तेःसवितुः उस्राणां किरणानां निचयः निकरः। सहस्रम् इति संख्या सहस्रसंख्या तां स्वनियताम् इति शेषः। व्यभिचरति अतिक्रामति इति उत्प्रेक्षा॥३४॥
व्यधत्तेति। यस्मिन् कैलासे धनाधिपः कुवेरः पुरां विजेतुः शिवस्य धृतये सन्तोषाय उच्चगोपुरम् उन्नतपुरद्वारम्। “पुरद्वारन्तु गोपुरम्” इत्यमरः। पुरम् अलकाख्यां पुरीं व्यधत्त निर्मितवान् तत्सखित्वात् इति भावः। सः एषः कैलासः उपान्तसर्पिणः प्रान्तचारिणः विवस्वतः अकाले प्रसिद्धेतरकाले अस्तमयं करोति इव इति उत्प्रेक्षा। वस्तुतस्तु तत्कारणा-
नानारत्नज्योतिषां सन्निपातैः
छन्नेष्वन्तःसानु वप्रान्तरेषु।
बद्धांबद्धां भित्तिशङ्काममुष्मिन्
आवानावान् मातरिश्वा निहन्ति॥३६॥
रम्या नवद्युतिरपैति न शाद्वलेभ्यः
श्यामीभवन्त्यनुदिनं नलिनीवनानि।
भावात् व्यञ्जकाप्रयोगात् गम्या उत्प्रेक्षा। सा च उपान्तवत्तितया असम्बन्धेसम्बन्धलक्षणातिशयोक्त्युत्थापिता इति विवेकः। अस्तम् इति मकारान्तम् अव्ययम्। तस्य पचाद्यजन्तेन अय शब्देन षष्ठीसमासः। वंशस्थं वृत्तम् उक्तम्॥३५॥
नानेति। अमुष्मिन् केलासे अन्तःसानु सानुषु इत्यर्थः विभक्त्यर्ये अव्ययीभावः। नानारत्नज्योतिषां सन्निपातैः व्यतिकरैःछन्नेषु छादितेषु। “वा दान्तशान्त” इत्यादिना निपातः वप्रान्तरेषु कटकान्तरेषुबद्धां बद्धाम् अभीक्ष्णंबद्धां दृढ़ोत्पादिताम् इत्यर्थः। “नित्यवीप्सयोः” इति नित्यार्थे द्विर्भावः। “नित्यमाभीक्ष्णम्” इति काशिका। एकपदं च एतत्। भित्तिशङ्कां भित्तिः इति सन्देहम् आवान् आवान् आभीक्ष्णम् आपतन्। आङ्पूर्वात् वाधातोः शतृप्रत्ययः। द्विर्भावादि पूर्ववत्। मातरि अन्तरिक्षे श्वयति गच्छति इति मातरिश्वा वायुः कनिन्प्रत्ययः। तत्पुरुषे कृतिबहुलम्” इति अलुक्। निहन्ति निवर्त्तयति वायुसञ्चारात् भित्त्यभावः अवधार्य्यते इत्यर्थः। अतनिश्चयान्तः सन्देहालङ्कारः। शालिनीवृत्तम्॥३६॥
रम्येति। अस्मिन् अद्रौ। शादाः शष्पाणि सन्ति एषु इति शाद्वलाः तेभ्यः। “शाद्वलः शादहरिते” इत्यमरः। नडशादा-
अस्मिन् विचित्रकुसुमस्तवकाचितानां
शाखाभृतां परिणमन्ति न पल्लवानि॥३७॥
परिसरविषयेषु लीढ़मुक्ता
हरिततृणोद्गमशङ्कया मृगीभिः।
इह नवशुककोमला मणीनां
रविकरसंवलिताः फलन्ति भासः॥३८॥
द्वलच्। रम्या नवा द्युतिः न अपैति किन्तु नित्या इत्यर्थः नलिनीवनानि अनुदिनं सर्वदा श्यामीभवन्ति न कदाचित्पाण्डरीभवन्तिइत्यर्थः विचित्रकुसुमस्तवकैः आचितानां व्याप्तानां शाखाभृतां तरुणां पल्लवानि न परिणमन्ति न जीर्णानि भवन्ति इत्यर्थः सर्वदा नूतनानि एव इत्यर्थः। अत्र प्रस्तुतस्य एव तद्वस्तुगतकान्तिस्थैर्य्यरूपकार्य्यवर्णनात् प्रस्तुतम् इव कारण कश्चित् असाधारणःकैलासस्य महिमा अवगम्यते इति पर्य्यायोक्तिः अलङ्कार। तदुक्तम्— “कारणं गम्यते यत्र प्रस्तुतात् कार्य्यवर्णनात्प्रस्तुतत्वेन सम्बन्धस्तत्पर्य्यायोक्तमुच्यते” इति॥३७॥
परिसरेति। इह अद्रौ परिसरविषयेषु पर्य्यन्तदेशेषु। “विषयो देशे” इति निपातः। मृगीभिः हरिततृणोद्गमशङ्कया नीलतृणाङ्कुरभ्रान्त्या इति भ्रान्तिमदलङ्कारः। लीढ़ाः पूर्वम आस्वादिताः पश्चात् मुक्ताः लीढ़मुक्ताः। दग्धप्ररूढ़ इत्यादिवत् “पूर्वकाल” इत्यादिना समानाधिकरणसमासः। नवशुककोमलाः शुकसवर्णाः इत्यर्थः मणीनां मरकतमणीनां भासः रविकरैः संवलिताः मिश्रिताः सत्यः फलन्ति संमूर्च्छन्ति। वर्द्धन्ते इति यावत्॥३८॥
उत्फुल्लस्थलनलिनीवनादमुष्मात्
उद्धृतः सरसिजसम्भवः परागः।
वात्याभिर्वियति विवर्त्तितः समन्तात्
आधत्ते कनकमयातपत्रलक्ष्मीम्॥३९॥
इह सनियमयोः सुरापगायाम्
उषसि सयावकसव्यपादरेखा।
कथयति शिवयोः शरीरयोगं
विषमपदा पदवी विवर्त्तनेषु॥४०॥
उत्फुल्लति। वात्याभिः वातसमूहैः “वातादिभ्यो यत्” इति यत्प्रत्ययः। अमुष्मात् उत्फुल्लस्थलनलिनीवनात् जलपतितस्य परागस्य उत्थानासम्भवात् स्थलग्रहणम् उत्फुल्लमफुल्लयोः उपसंख्यानात् निष्ठालत्वम्। उद्धृतः उत्थापितः वियति समन्तात् विवर्त्तितः परिमण्डलितः। अन्तराले तु दण्डायमानः एवेति भावः। सरसिजसम्भवः पद्मोद्भवः परागः। रूढ्यभिप्रायेण अत्र सरसिजशब्दप्रयोगः द्रष्टव्यः। कनकमयातपत्रलक्ष्मीम् आधत्ते। अत परागस्य आतपत्रलक्ष्मीसम्बन्धासम्भवात् तत्सदृशीं लक्ष्मीम् इति प्रतिविम्बेन आक्षेपात् असम्भविधर्मसम्बन्धा इयं निदर्शना। तदुक्तम्—“असम्भवद्धर्मयोगादुपमानोपमेययोः। प्रतिविम्बक्रियागम्या यत्र सा स्यान्निदर्शना॥” इति॥३९॥
इहेति। इह अद्रौ उषसि प्रभातेसुरापगायां लक्षणयातत्कच्छे मयावका सालक्तका सव्यपादस्य रेखा वामचरणमुद्रा यस्यां सा। “यावोऽलक्तो द्रुमामयः” इत्यमरः। तथा विषमाणि महदल्पानि पदानि यस्यां सा विवर्त्तनेषु प्रदक्षिण-
सम्मूर्च्छतां रजतभित्तिमयूखजालैः
आलोलपादपलतान्तरनिर्गतानाम्।
धर्मद्युतेरिह मुहुः पटलानि धाम्नाम्
आदर्शमण्डलनिभानि समुल्लसन्ति॥४१॥
शुक्लैर्मयूखनिचयैः परिवीतमूर्त्तिः
वप्राभिघातपरिमण्डलितोरुदेहः।
क्रियासु पदवी शिवयोः प्रदक्षिणपद्धतिः इत्यर्थः। सनियमयसन्ध्यायां प्रणमतोः इत्यर्थः। शिवा च शिवश्च तयोः शिवयोउमाशङ्करयो। “पुमान् स्त्रिया” इति एकशेषः। शरीरयोगम्अर्द्धाङ्गसङ्घटनारूपं कथयति। सनियमयोः इति नियमविषये अपि विरहामहौ इह विहरतः शिवौइति भावः। अत्र पदवीविशेषणपदार्थयोः कथनं प्रति हेतुत्वात् काव्यलिङ्गम् अलङ्कारः॥४०॥
सम्मूर्च्छतामिति इह अद्रौरजतभित्तिमयूखजालैःसम्मूर्च्छतां बहुलीभवताम् आलोलानां पादपलतानां तरुशाखांताम् अन्तरेषु रन्ध्रेषु निर्गतानां प्रसृतानां घर्म्मद्युतेउष्णाशो धाम्नांतेजसां आदर्शमण्डलनिभानि दर्पणबिम्बसदृशानि इति उपमालङ्कारः। पटलानि मण्डलानि मुहुःवारंवारं समुल्लसन्ति पुनः पुनः स्फुरन्ति न तु सातत्येन लतानाम् आलोलत्वाभावात्। तच्चनान्यमृत्पाषाणादिप्रायाणां सम्भवतिइति भावः॥४१॥
शुक्लैरिति। शुक्लैःमयूखनिचयैः शुभ्रकिरणसमूहैः परिवीतमूर्त्तिः व्याप्तदेहः। वप्राभिघातेन वप्रक्रीड़या परिमण्डलितःवर्त्तुलीकृत उरुदेहः बृहच्छरीरः यस्य तथोक्तः गणभर्त्तुः प्रमथनाथस्य उक्षा वृषभः। “उक्षानड्वान्बलीवर्दः ऋषभोः
शृङ्गाण्यमुष्य भजते गणभर्त्तुरूक्षा
कुर्वन् बधूजनमनःसु शशाङ्कशङ्काम्॥४२॥
सम्प्रति लब्धजन्म शनकैः कथमपि लघुनि
क्षीणपयस्युपेयुषि भिदां जलधरपटले।
खण्डितविग्रहं बलभिदो धनुरिह विविधाः
पुरयितुं भवन्ति विभवः शिखरमणिरुचः॥४३॥
स्नपितनवलतातरुप्रवालैः
अमृतलवस्रुतिशालिभिर्मयूखैः।
वृषभो वृषः” इत्यमरः। बधूजनमनःसु शशाङ्कशङ्कां चन्द्रभ्रान्तिं कुर्वन् तेषां मौग्ध्यात् इति भावः। अमुष्य अद्रेः शृङ्गाणि भजते सेवते। अत्र शङ्काशब्दस्य सन्देहार्थत्वे सन्देहालङ्कारः। भ्रान्तिपरत्वे भ्रान्तिमदलङ्कारः। यथा इच्छसि तथा अस्तु। स च उक्षाविशेषणोत्थेन काव्यलिङ्गेन अङ्गाङ्गिभावेन सङ्कीर्य्यते॥४२॥
सम्प्रतीति इह अद्रौविविधाः नानावर्णाः शिखरमणि रुचः सम्प्रति शरदि इत्यर्थः। लघुनि अगुरुणि कुतः क्षीणपयसि अत एव भिदां भेदम्। “षिद्भिदादिभ्योऽङ्” इति अङ् प्रत्ययः। उपेयुषि गते जलधरपटले मेघमण्डले कथम् अपि शनकैःलब्धजन्म उत्पन्नम् इत्यर्थः। अत एव खण्डितविग्रहं छिन्नस्वरूपं बलभिदः इन्द्रस्य धनुः पूरयितुं विभवः समर्थाः भवन्ति। अत्र इन्द्रधनुषः मणिरुचीनाम्असम्बन्धे सम्बन्धकथनात् अतिशयोक्तिः अलङ्कारः। वंशपत्रपतितं वृत्तम्। “दिङ्मनिवशपत्रपतितं भरनभनलगैः” इति लक्षणात्॥४३॥
सततमसितयामिनीषु शम्भोः
अमलयतीह वनान्तमिन्दुलेखा॥४४॥
क्षिपति योऽनुवनं विततां वृहद्-
वृहतिकामिव रौचनिकींरुचम्।
अयमनेकहिरण्मयकन्दरः
तव पितुर्दयितो जगतीधरः॥४५॥
सक्तिं जवादपनयत्यनिले लतानां
वैरोचनैर्द्विगुणिताः सहसा मयूखैः।
स्नपितेति। इह अद्रौशम्भोः इन्दुलेखा स्नपितानि नवानि लतानां तरूणां च प्रवालानि यैःतैः। अमृतलवस्रुत्या अमृत विन्दुनिःस्यन्देन शालन्तेये तैः मयूखैः सततं सर्वकालम् असितयामिनीषु कृष्णपक्षरात्रिषु अपि वनान्तम् अमलयति धवलयति। अन्यत्र न एतदस्ति इति व्यतिरेकः व्यज्यते॥४४॥
क्षिपतीति। अथ यः अद्रिः अनुवनं विततां रौचनिकींरूत्त मौवर्णीम् इत्यर्थः। रोचनया रक्तां रौचनिकीम। “लाक्षारोचन शकलकर्दमादृक्” इति ठक्। “टिड्ढाणञ्” इत्यादिना ङीप्। उत्प्रेक्षते। वृहद्वृहतिकां महोत्तरासङ्गम् इव। “द्वौ प्रावारोत्तरासङ्गौ समौ वृहतिका तथा” इत्यमरः। क्षिपति प्रसारयति। अनेकाः हिरण्मय्यः कन्दराः यस्य सः। हिरण्मयशब्द“दाण्डिनायन” इत्यादिना निपातनात् साधुः। अयं पुरोवत्ती गिरिःइत्यर्थः। तव पितुः इन्द्रस्य दयितः प्रियः जगत्याः धर जगतीधरः। यः तेगन्तव्यः इन्द्रकीलाख्यः इत्यर्थः॥४५॥
सक्तिमिति। अमुत्र अमुष्मिन् अद्रौअनिलेजवात् झटिति
रोधोभुवां मुहुरमुत्र हिरण्मयीनां
भासस्तड़िद्विलसितानि विडम्बयन्ति॥४६॥
कषणकम्पनिरस्तमहाहिभिः
क्षणविमत्तमतङ्गजवर्जितैः।
इह मदस्नपितैरनुमीयते
सुरगजस्य गतं हरिचन्दनैः॥४७॥
जलदजालघनैरसिताश्मनाम्
उपहतप्रचयेह मरीचिभिः।
लतानां सक्तिम् अन्योऽन्यसङ्गम् अपनयति सति सहसा हठात् वैरोचनैःसावित्रैःमयूखैःद्विगुणिताः द्विरावृत्ताः कृता इति द्विगुणिनाः। “गुणस्त्वावृत्तिशब्दादिष्विन्द्रिया मुख्यतन्तुषु” इति वैजयन्ती। हिरण्मयीनां हिरण्यविकाराणाम्। “दाण्डिनायन” इत्यादिना निपातनात् साधुः। रोधोभुवां तटभुवां भासः मुहुः तडिद्विलसितानि विडम्बयन्ति अनुकुर्वन्ति इत्यर्थःउपमालङ्कारः॥४६॥
कषणेति। इह अद्रौकषणेन कण्डूयनेन यः कम्यः तेन निरस्ताः महाहयः महासर्पाः येभ्यः तैः। क्षणं विमत्तमतङ्गज वर्जितैः मत्तमतङ्गजरहितैःकुतः मदस्नपितैः ऐरावतमदसिक्तै इत्यर्थः। “मितां ह्रस्वः” इति ह्रस्वः। हरिचन्दनैः चन्दनद्रुमैः सुरगजस्य ऐरावतस्य गतं प्राप्तिः अनुमीयते। हरिचन्दन विषेषणैः काव्यलिङ्गम् उन्नेयम्॥४७॥
जलदेति। इह अस्मिन् अद्रौजलदजालघनैः मेघसान्द्रैःअसिताश्मनाम् इन्द्रनीलानां मरीचिभिः दीधिनिभिः। “भानु
भवति दीप्तिरदीपितकन्दरा
तिमिरसंवलितेव विवस्वतः॥४८॥
भव्यो भवन्नपि मुनेरिह शासनेन
क्षात्रे स्थितः पथि तपस्य हतप्रमादः।
प्रायेण सत्यपि हितार्थकरे विधौ हि
श्रेयांसि लब्धुमसुखानि विनाऽन्तरायैः॥४९॥
सा भूवन्नपथहरास्तवेन्द्रियाश्वाः
“ भानुः करोमरीचिः स्त्रीपुंसयोर्दीधितिः स्त्रियाम्” इत्यमरः। उपहतप्रचया विघट्टितसङ्घाता अत एव अदीपितकन्दरा अप्रकाशितगह्वरा विवस्वतः दीप्तिःतिमिरैः संवलिता व्यामिश्रिता एव भवति इति उत्प्रेक्षा॥४८॥
भव्य इति। इह अद्रौभव्यः शान्तः भवन् अपि मुने व्यासस्यशासनेन इन्द्राराधनरूपेण क्षात्रे पथि क्षत्रियमार्गेस्थितः गृहीतशस्त्रः एव इत्यर्थः। हतप्रमादः अप्रमत्तः सन् तपस्यतपश्चर्य्यां कुरु। तपस्य इति “कर्मणो रोमन्थतपोभ्यां वर्त्तिचरो” इति क्यङ्। तदन्तात् धातोःलोट्। न च सर्वभूतहितकारिणः मेप्रमादः किं करिष्यति इति विश्वमितव्यम इति अर्थान्तरन्यासेन आह प्रायेणिति। हि यस्मात् प्रायेण बाहुल्येनः। “प्रायो वयस्यनशने मृतौबाहुल्यतुल्ययोः इति हेमचन्द्रः। हितम् अर्थं करोति इति तस्मिन् विधौव्यापारे सति अन्तरायैःविना श्रेयांसि लब्धुम् असुखानि अशक्यानि इत्यर्थः। अत एव “शकधृप” इत्यादिना समानकर्तृकेषु तुमुन्। अकारणवैरिणःसर्वत्र सर्वस्य अपि सन्तिइति भावः॥४९॥
सन्तापे दिशतु शिवः शिवां प्रसक्तिम्।
रक्षन्तस्तपसि बलञ्चलोकपालाः
कल्याणीमधिकफलां क्रियां क्रियासुः॥५०॥
इत्युक्त्वा सपदि हितं प्रियं प्रियार्हे
धाम स्वंगतवति राजराजभृत्ये।
सोत्कण्ठं किमपि पृथासुतः प्रदध्यौ
सन्धत्ते भृशमरतिं हि सद्वियोगः॥५१॥
तमनतिशयनीयंसर्वतः सारयोगात्
अविरहितमनेकेनाङ्कभाजा फलेन।
माभूवन्निति। तव इन्द्रियाणि एव अश्वाः ते अपथेन हरन्तिइतिअपथहराःमा भूवन् त्वाम् अपथं मा नैषुःइत्यर्थः “माङिलुङ्" इति आशीरर्थेलुङ्। सन्तापे तपःक्लेशे सति शिवःशिवां साधीयसीं प्रसक्तिं प्रवृत्तिम् उत्साहंदिशतु।किञ्चेतिचार्थः। लोकपालाः इन्द्रादयः तपसिविषये बलं शक्तिं रजन्तः वर्धयन्तः सन्तः कल्याणीं क्रियाम् अनुष्ठानम् अधिकफलांक्रियासुः कुर्वन्तु। करोतिआशिषि लोट्॥५०॥
इताति। प्रियार्हेराजराजभृत्ये इति पूर्वोक्तम्। हितं प्रियवचनम्इति शेषः। उक्त्वासपदि स्वस्वकीयं धाम स्थानं गतवति सतिपृथासूतःअर्जुनःसोत्कण्ठं सौत्सुक्यं किम् अपि प्रदध्यौचिन्तायामास।तथाहि। सद्वियोगः सुजनवियोगःभृशम् अरतिं व्यथां संधत्ते कराति इत्यर्थः। अर्थान्तरन्यासः॥ ५१॥
तमिति अकृशाः पूर्णाःलक्ष्म्यःशोभाः यस्य सः अकृश-
अकृतमकृशलक्ष्मीश्चेतसा शंसितं सः
स्वमिव पुरुषकारं शैलमभ्याससाद॥५२॥
इति श्रीमहामहोपाध्यायभारविकृतौ किराता-
र्जुनीये महाकाव्ये हिमवद्वर्णनं नाम
पञ्चमः सर्गः॥५॥
लक्ष्मीः इति बहुवचनाश्रितः बहुव्रीहिः। एवं च “उरःप्रभृतिभ्यश्च” इति कप्प्रत्ययानवकाशः तत्र लक्ष्मीशब्दस्य एकवचनान्तपाठात्। नापि “नद्यूतश्च” इत्यस्य अवकाशः उरःप्रभृति पाठसामर्थ्यात् एव। शैषिकः तु वैभाषिकः इति अविरोधः। सः अर्जुनः सर्वत्र सारयोगात् उत्कृष्टबलप्रयोगात्। “सारोबले स्थिरांशे च नाय्ये क्लीवे वरे त्रिषु” इति उभयत्र अपि अमरः। अनतिशयनीयम् अनतिक्रमणीयम् अनेकेन बहुना अङ्कभाजा समीपं गतेन शीघ्रभाविना इति यावत्। फलेन कार्य्यसिद्ध्याअविरहितम् अशून्यंकार्य्यसिद्धेअवश्यं साधकम् इत्यर्थः। अकृशम् अतनुं चेतसा आशंसितं प्राप्तुम् इष्टं शैलम् इन्द्रकीलं सः आत्मीयं पुरुषस्य कारः कर्म तं पुरुषकारम् उक्तविशेषणविशिष्टं पौरुषम् इव अभ्याससाद अधिष्ठितवान्। मालिनीवृत्तम्॥५२॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिताया
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायां
पञ्चमः सर्गः
षष्ठः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730052717Screenshot2024-10-27234132.png"/>
रुचिराकृतिः कनकसानुमथो
परमः पुमानिव पतिं पतताम्।
धृतसत्पथस्त्रिपथगामभितः
स तमारुरोह पुरुहूतसुतः॥१॥
तमनिन्द्यवन्दिन इवेन्द्रसुतं
विहितालिनिक्वणजयध्वनयः।
रुचिराकृतिरिति। अथो आसदनानन्तरं रुचिराकृतिः सौम्यविग्रहः। धृतसत्पथः अवलम्बितसन्मार्गः आकारानुरूपगुणवान् इत्यर्थः। “यत्राकृतिस्तत्र गुणा वसन्ति” इति सामुद्रिकाः। उपमाने अपि समानम् एतत्। सः पुरुहूतसुतः अर्जुनः कनकस्य विकाराः सानवः यस्य तं कनकसानुम्। गरुड़सावर्ण्याथं विशेषणम् एतत्। “समुदायविकारषष्ठ्याश्च इति बहुव्रीहिः उत्तरपदलोपश्च। तम् इन्द्रकीलं परमः पुमान् विष्णुः पतता पक्षिणां पतिं गरुड़म् इव। त्रिभिः पथिभिः गच्छति इति त्रिपथगा भागीरथी। “अन्येष्वपि दृश्यते” इति डप्रत्ययः उपपदसमासश्च। ताम् अभितः अभिमुखम् आरुरोह। “समीपोभयतः शीघ्रसाकल्याभिमुखेऽभितः” इत्यमरः। प्रमिताक्षरावृत्तम्। “प्रमिताक्षरा। सजससैरुदिता” इति। लक्षणात्॥१॥
अथ अस्य कार्य्यसिद्धिनिमित्तानि सूचयन् मार्गं वर्णयति तमिति। विहिताः अलिनिक्वणाः जयध्वनयः इव यैः तेतथोक्ताः। पवनेरिताः पवनेन वायुना नुन्नाः अत एव आकुलाः
पवनेरिताकुलविजिह्मशिखा
जगतीरुहोऽवचकरुः कुसुमैः॥२॥
अवधूतपङ्कजपरागकणाः
तनुजाह्नवीसलिलवीचिभिदः।
परिरेभिरेऽभिमुखमेत्य सुखाः
सुहृदः सखायमिव तं मरुतः॥३॥
लीलाः विजिह्माः वक्राश्च शिखाः अग्राणि येषां ते तथोक्ताः। “शिखा ज्वाला केकिमौल्योःशिखाशाखाग्रमौलिषु” इति वैजयन्ती। जगतीरुहः भूरुहः। क्विप्। अनिन्द्याः अनवद्याः ये वन्दिनः स्तुतिपाठकाः ते इव तम् इन्द्रसुतम् अर्जुनं कुसुमैः अवचकरुः अभिववृषुः इत्यर्थः। “ऋच्छत्यृताम्” इति गुणः। अत्र किरतेः वृष्ट्यर्थत्वात् कुसुमानां करणत्वं विक्षेपार्थत्वे तु कर्मत्वम् एव। यथा “कटाक्षान् वामा किरति” इति दृश्यते च धातूनाम् अर्थभेदात् कारकव्यत्ययः। यथा सिञ्चतेःक्षरणार्द्रीकरणयोः अर्थयोः द्रवद्रव्यस्य कर्मत्वकरणत्वे। यथा “मघोऽमृतं सिञ्चति” “गौः पयश्च सिञ्चति” “मेघा अमृतैर्ववृषुः” इति। अत्र वाक्ये समासगतयोः उपमयोः माध्यसाधनभावात् अङ्गाङ्गिभावेन सङ्करः॥२॥
अवधूतेति। अवधूताः प्रसारिताः पङ्कजपरागकणाः यैः ते तथोक्ताः इति सौरभ्योक्तिः। तनूः जाह्नव्याः सलिलवीचीःभिन्दन्ति इति तथोक्ताः इति शैत्योक्तिः। सुखयन्ति इति सुखाः मुखस्पर्शाः इति मान्द्योक्तिः। पचाद्यच्। मरुतः वाताः तम् अर्जुनं सुहृदः सखायम् इव अभिमुखम् एत्य आगत्य परिरेभिरे आलिङ्गितवन्तः॥३॥
उदितोपलस्खलनसंवलिताः
स्फुटहंससारसविरावयुजः।
मुदमस्य माङ्गलिकतूर्य्यकृतां
ध्वनयः प्रतेनुरनुवप्रमपाम्॥४॥
अवरुग्णतुङ्गसुरदारुतरौ
निचये पुरः सुरसरित्पयसाम्।
स ददर्श वेतसवनाचरितां
प्रणतिं बलीयसि समृद्धिकरीम्॥५॥
उदितेति। उदितोपलेषु उन्नतपाषाणेषु स्खलनेन प्रतिघातेन संवलिताः चूर्णिताः अतः तूर्य्यघोषः इव धुमधुमायमाना इत्यर्थः। स्फुटैः हंसाना सारसानां च विरावैः युज्यन्ते इति तथोक्ताः। क्विप्। अनुवप्रम् अपाम् अन्तः पतन्तीनाम् इति शेषः। ध्वनयः अस्य अर्जुनस्य मङ्गलं प्रयोजनम् एषां ते माङ्गलिकाः। “प्रयोजनम्” इति ठञ्। तैः तूर्य्यैः कृतां मुदं हर्षं प्रतेनुः। अत्र अन्यस्य अन्यकार्य्यकरणासम्भवात् तूर्य्यकृतमुत्सदृशींमुदम् इति प्रतिविम्बेन आक्षेपात् निदर्शनालङ्कारः॥४॥
अरुण्येति। सः अर्जुनः पुरः अग्रे अवरुग्णतुङ्गसुरदारुतरौभग्नोन्नतदेवदारुद्रुमे बलीयसि बलवत्तरे। मत्वन्तात् ईयसुनि “विन्मतोर्लुक्” इति मतोःलुक्। सुरसरित्पयसां निचये पूरे विषये वेतमवनेन वानीरवनेन आचरिताम्। “अथ वेतसे रथाभ्रपुष्पविदुलशीतवानीरवञ्जुला” इत्यमरः। समृद्धिकरी श्रेयस्करीं लोकेयथा दृष्टाम् इत्यर्थः। प्रणतिं ददर्श। या सर्वलोकदृष्टान्तभृता इति भावः॥५॥
प्रबभूव नालमवलोकयितुं
परितः सरोजरजसाऽरुणितम्।
सरिदुत्तरीयमिव संहतिमत्
स तरङ्गभङ्गि कलहंसकुलम्॥६॥
दधति क्षतीः परिणतद्विरदे
मुदितालियोषिति मदस्रुतिभिः।
अधिकां स रोधसि बबन्ध धृतिं
महते रुजन्नपि गुणाय महान्॥७॥
अनुहेमवप्रमरुणैः समतां
प्रबभूवेति। सः अर्जुनः परितः सरोजरजसा कमलरेणुनः अरुणितं पाटलितम् उत्तरीयं च कुसुमादिना अरुणितं संहतिमत् नीरन्ध्रंतरङ्गभङ्गि वारितरङ्गशोभि सरितः उत्तरीयं स्तनांशुकम् इव स्थितं कलहंसकुलं कादम्बकुलम् अवलोकयितुम् अलम् अत्यर्थं न प्रबभूव न शशाक तत्सौन्दर्य्याद्वेलत्वात् इति भावः॥६॥
दधतीति।सः अर्जुनः क्षतीः क्षतानि दधति धारयति। कुतः परिणताः तिर्य्यग्दन्तप्रहारिणः द्विरदाः यस्मिन् तस्मिन्। “तिर्य्यग्दन्तप्रहारस्तु गजः परिणतो मतः” इति हलायुधः। मदस्रुतिभिः मुदितालियोषिति रोधसि अधिकां धृतिं प्रीतिं बबन्ध निश्चलीकृतवान् इत्यर्थः। तथाहि। महान् जनः रुजन् पीडयन् अपि महते गुणाय उत्कर्षाय भवति महत्कृता पीड़ा अपिशुभावहा एव इत्यर्थः। तत् युक्तं गजरुग्णस्य अपि रोधसः प्रीतिकरत्वम् इति भावः॥७॥
गतमूर्मिभिः सहचरं पृथुभिः।
स रथाङ्गनामवनितां करुणैः
अनुबध्नतीमभिननन्द रुतैः॥८॥
सितवाजिने निजगदूरुचयः
चलवीचिरागरचनापटवः।
मणिजालमम्भसि निमग्नमपि
स्फुरितं मनोगतमिवाकृतयः॥९॥
अन्विति। सः अर्जुनः अनुहेमवप्रं कनकसानुसमीपे। समीपार्थे अव्ययीभावः। अरुणैः। कनककान्त्यु परञ्जनात् इति इति भावः। पृथुभिः ऊर्मिभिः समतां तुल्यरूपतां गतम्। सादृश्यात् दुर्लक्ष्यम् इति भावः। सहभूतं सहचरं प्रियं सहशब्दस्य पचाद्यजन्तेन चरशब्देन समासः। करुणैः दीनैः रुतैः कूजितैः अनुबध्नतीम् अन्विष्यन्तीं रथाङ्गनामवनितां चक्रवाकीम् अभिननन्द प्रकृष्टप्रेमदर्शनात् कस्य न आनन्दः इति भावः। अत्र तावत् ऊर्मीणां स्वधावल्यत्यागेन आरुण्यस्वीकारात् तद्गुणालङ्कारः। “तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणाश्रयात् इति लक्षणात्। तन्मूला च इयं चक्रवाक्याः स्वकान्तेतरङ्गभ्रान्तिः इति तद्गुणभ्रान्तिमतोः अङ्गाङ्गिभावेन सङ्करः॥८॥
सितवाजिन इति चलवीचीनां रागः रञ्जनं वर्णान्तरापादनं तस्य रचना क्रिया तत्रपटव समर्थाःरूचयः प्रभाः अम्भसि निमग्नम् अपि मणिजालं स्वाश्रयभूतम्इति भावः।मनोगतं स्फुरितं रोषादि विकारम्अकृतयोभ्रूभङ्गादिवाह्मविकाराः इव सितवाजिनेअर्जुनाय निजगदुः ज्ञापयामासुः
उपलाहतोद्धततरङ्गधृतं
जविना विधूतविततं मरुता।
स ददर्श केतकशिखाविशदं
सरितः प्रहासमिव फेनमपाम्॥१०॥
बहुवर्हिचन्द्रकनिभं विदधे
धृतिमस्य दानपयतां पटलम्।
अवगाढ़मीक्षितुमिवेभपतिं
विकसद्विलोचनशतं सरितः॥११॥
प्रतिबोधजृम्भणविभिन्नमुखी
पुलिने सरोरुहदृशा ददृशे।
इत्यर्थः। आकृत्या हि मनोगतं विचक्षणाः जानन्ति इतिभाव॥९॥
उपलेति। उपलैःआहताः अत एव उद्गताश्च ये तरङ्गा तैःधृतं निर्गमरोधात् इत्यर्थः। जविना वेगवता मरुता वातेन विधूतं विततं केतकस्य शिखा तद्वत् विशदम् अपां फेनं हिण्डीरम्। “हिण्डीरोऽब्धिकफः फेन” इत्यमरः। सरितपहासम् अट्टहासम् इव इति उत्प्रेक्षा। सःअर्जुनः ददर्श॥१०॥
बह्विति। वर्हिचन्द्रकनिभं मयूरमेचकसदृशम्। “समौचन्द्रकमेचकौ” इत्यमरः। बहु अनेकधा दानपयसां पटलम् जातौएकवचनम्। बहवः मदाम्बुविन्दवः इत्यर्थः। अवगाढ़म्अन्तःप्रविष्टम्। गाहेकर्त्तरि क्तः। इभपतिम् ईक्षितुं विकशत् उन्मिषत् सरितः विलोचनशतम् इव इति उत्प्रेक्षा। अस्य अर्जुनस्य धृतिं प्रीतिं विदधे॥११॥
पतदच्छमौक्तिकमणिप्रकरा
गलदश्रुविन्दुरिव शुक्तिबधूः॥१२॥
शुचिरप्सु विद्रुमलताविटपः
तनुसान्द्रफेनलवसंवलितः।
स्मरदायिनः स्मरयति स्म भृशं
दयिताधरस्य दशनांशुभृतः॥१३॥
उपलभ्य चञ्चलतरङ्गधृतं
प्रतिबोधेति। प्रतिबोधः स्फुटनं निद्रापगमश्च तत्र यत्जृम्भणम् उच्छूनता जृम्भाच तेन विभिन्नमुखी विश्लिष्टाग्रा विवृतास्या च अत एव पतन् प्रसरन् अच्छः मौक्तिकमणीनां प्रकरःस्तोमः यस्याः सा तथोक्ता अत एव गलदश्रुविन्दुः इव स्थिता इति उत्प्रेक्षा। शुक्तिः बन्धूःइव पुलिने शयनीये इव इति भावः। सरोरुहदृशाअर्जुनेन ददृशे दृष्टा। अत्र प्रतिबोधादि विशिष्टपदोपात्तानां प्रकृतानां शुक्तिबध्वोश्चउपमारूपकयोः साधकबाधकाभावात् सन्देहालङ्कारः तत्सापेक्षा च अश्रुगलः नोत्प्रेक्षा इति तयोः अङ्गाङ्गिभावः॥१२॥
शुचिरिति। अप्सु शुचिः स्वच्छः तनुना सान्द्रेण च फेनस्यलवेन शकलेन संवलितः सङ्गतः विद्रुमलतायाः विटपः पल्लवः। “विपटः पल्लवे षिङ्गे विस्तारे स्तम्बशाखयोः” इति विश्वः। स्मरदायिनः कामोद्दीपकस्य दशनांशुभृतः दन्तकान्तिकलितस्यइत्यर्थः। दयिताधरस्य। “अधीगर्थ” इत्यादिना षष्ठी। भृशं स्मरयति स्म। “लट्स्मे” इति भृतार्थे लट्। “मितां ह्रस्वः” इति ह्रस्वः। स्मरणालङ्कारः॥१३॥
मदगन्धमुत्थितवतां पयसः।
प्रतिदन्तिनामिव स सम्बुबुधे
करियादसामभिमुखान् करिणः॥१४॥
स जगाम विस्मयमुदीक्ष्य पुरः
सहसा समुत्पिपतिषोः फणिनः
प्रहितं दिवि प्रजविभिः श्वसितैः
शरदभ्रविभ्रममपां पटलम् ॥१५॥
स ततार सैकतवतीरभितः
शफरीपरिस्फुरितचारुदृशः।
उपलभ्येति। सःअर्जुनः चञ्चलतरङ्गैःधृतं तत्संक्रान्तम् इत्यर्थः। मदगन्धम् उपलभ्य आघ्राय पयसः उत्थितवतां रोषात् इति शेषः। करिणां यादसाम्। शाकपार्थिवादिषु द्रष्टव्यः। प्रतिदन्तिनाम् इव अभिमुखान् अभिवातान् इत्यर्थः। करिणसंबुबुधे ददर्श इत्यर्थः॥१४॥
स इति। सः अर्जुनः पुरः अग्रे सहसा समुत्पिपतिषोःसमुत्पतितुमिच्छोः। पतेः सन्नन्तात् उप्रत्ययः “तनिपतिदरिद्रादिभ्यः सन इड्वावक्तव्यः” इति विकल्पात् इडागमः। फणिनः प्रजविभिः अतिवेगवद्भिःश्वसितैःफूत्कारैः दिवि आकाशे प्रहितं प्रेरितं शरदभ्रस्य विभ्रमः इव विभ्रमः सौन्दर्य्ययस्य तत् शुभ्रम् अभ्रव्यापकं च इत्यर्थः। अपां पटलं पुरः उदीक्ष्य विस्मयं जगाम। अत्र उपमानुप्राणिता स्वभावोक्तिः अलङ्कारः॥१५॥
स इति। सः अर्जुनः सैकतवतीः पुलिनवतीः अभित
ललिताः सखीरिव बृहज्जघनाः
सुरनिम्नगामुपयतीःसरितः॥१६॥
अधिरुह्य पुष्पभरनम्रशिखैः
परितः परिष्कृततलां तरूभिः।
मनसः प्रसत्तिमिव मूर्ध्नि गिरेः
शुचिमाससाद स वनान्तभुवम्॥१७॥
अनुसानु पुष्पितलताविततिः
फलितोरूभूरुहविविक्तवनः।
शफरीणा प्रोष्ठीनां परिस्फुरितानि एव चारवः दृशः यासां ताः। सुरनिम्नगां गङ्गाम् उपयतीःभजन्तीः। इणः शतृःउगितत्वात् ङीप्। अत एव वृहज्जघनाः ललिताः सखा इव स्थिताः सरितः ततार अभिचक्रमे॥१६॥
अधिरुह्येति। सः अर्जुन अधिरुह्य अर्थात् गिरिम् इति शेषः। पुष्यभरेण नम्रशिखैः नताग्रैः तरूभिः परितः परिष्कृततलां भूषितस्वरूपाम्। “अधःस्वरूपयोरस्त्रीतलम्” इत्यमरः। “संपर्य्युपेभ्यः करोतीभूषणे” इति सुडागमः। शुचिं शुद्धाम् अत एव मनसः प्रसत्तिम् इव मूर्त्तं मनःप्रमादम् इव स्थितां तद्धेतौ तद्भावोत्प्रेक्षा। गिरेः मूर्ध्नि वनान्तभुवम् आससाद। अन्तःशब्द स्वरूपवचनः। “अन्तोऽध्यवसितेमृत्यौस्वरूपे निश्चयेऽन्तिके” इति वैजयन्ती॥१७॥
अनुसान्विति। अनुसानु प्रतिसानु। वीप्सार्थेअव्ययीभावः। पुष्पिताः सञ्जातपुष्पाः लताविततयः यस्मिन् सः फलिताः उरूभूरुहाः येषु तानि विविक्तानि विजनानि पूतानि
धृतिमाततान तनयस्य हरेः
तपसेऽधिवस्तुमचलामचलः॥१८॥
प्रणिधाय तत्रविधिनाथ धियं
दधतः पुरातनमुनेर्मुनिताम्।
श्रममादधावसुकरं न तपः
किमिवावसादकरमात्मवताम्॥१९॥
शमयन् धृतेन्द्रियशमैकसुखः
शुचिभिर्गुणैरघमयं स तमः।
वा वनानि यस्मिन् सः तथोक्तः। “विविक्तौ पूतविजनौ” इत्यमरः। अचलइन्द्रकोलः हरेः तनयस्य अर्जुनस्य तपसेतपश्चर्य्यार्थम् अधिवस्तुम् अधिष्ठातुम्। क्रियापेक्षया समानकर्त्तृकत्वात् तुमुन्। अचलां धृतिम् उत्साहम् आततान। अत्र अचलविशेषणपदार्थस्य धृतिकरणहेतुत्वात् काव्यलिङ्गम् अलङ्गारः॥१८॥
प्रणिधायेति। अथ तत्र अद्रौ विधिना योगशास्त्रानुसारेण धियं चित्तवृत्तिं प्रणिधाय ध्येयविषयेधियं नियम्य। “नेर्गद” इत्यादिना णत्वम्। मुनितां दधतः तपस्यतः इत्यर्थः। पुरातनमुनेः अर्जुनस्य इत्यर्थः। असुकरं दुष्करं तप श्रमं स्वेदं न आदधौ न चकार। तथाहि आत्मवतां मनस्विनाम् अवसादकरम् अशान्तिजनकं किम् इव। न किञ्चित् इत्यर्थः। इवशब्दो वाक्यालङ्कारे॥१९॥
शमयन्निति। धृतम् इन्द्रियशमः विषयव्यावृत्तिः एव एक मुख्यं सुखम् आह्लादः येन तथोक्तः आत्मारामः इत्यर्थः। अन्यत्र
प्रतिवासरं सुकृतिभिर्ववृधे
विमलः कलाभिरिव शीतरुचिः॥२०॥
अधरीचकार च विवेकगुणात्
अगुणेषु तस्य धियमस्तवतः।
प्रतिघातिनीं विषयसङ्गतिं
निरुपप्लवः शमसुखानुभवः॥२१॥
मनसा जपैः प्रणतिभिः प्रयतः
धृतं कृतम् इन्द्रियशमः सन्तापनिवर्त्तनम् एकम् अद्वितीय सुखम् आह्लादश्च येन सः तथोक्तः। शुचिभिः निर्मलैःगुणैः मैत्र्यादिभिः अन्यत्र कान्त्यादिभिः अघमयं पापरूपं तम अज्ञानम् अन्यत्र अन्धकारं च शमयन् निवर्त्तयन्। विमलःअमलिनः पापहरितः शुभ्र अन्यत्र सः अर्जुनः प्रतिवासर सुकृतिभिः सुकृतैः तपोभिः इत्यर्थः। स्त्रियां क्तिन्। कलाभिःशीतरूचिःचन्द्रः इव ववृधे॥२०॥
अधरीचकारेति।किं च इति चार्थः। विवेकः तत्त्वावधारणं सः एवगुणः तस्मात् तेन हेतुना इत्यर्थः। “विभाषागुणेऽस्त्रियाम्” इति पञ्चमी। अगुणेषु कामक्रोधादिदोषेषु विषय। तद्विरोधेन नञ्समासः। धियं चित्तवृत्तिम् अस्तवतःनिवारितवतः तस्य अर्जुनस्य निरुपप्लवः निर्बाधः समसुखानुभवः शान्त्यानन्दानुभवः प्रतिघातिनींसोपप्लवां विषयसङ्गतिं शब्दाद्युपभोगरुचिम् अधरीचकार विषयनिष्पृहं चकार इत्यर्थः। उत्कृष्टसुखलाभस्य अपकृष्टवैराग्यहेतुत्वात् इति भावः॥२१॥
समुपेयिवानधिपतिं स दिवः।
सहजेतरौ जयशमौ दधती
बिभराम्बभूव युगपत् महसी॥२२॥
शिरसा हरिन्मणिनिभः स वहन्
कृतजन्मनोऽभिषवणेन जटाः।
उपमां ययावरुणदीधितिभिः
परिमृष्टमूर्द्धनि तमालतरौ॥२३॥
धृतहेतिरप्यधृतजिह्ममतिः
मनसेति। प्रयतः अहिंसादिनिरतः मनसा ध्यानेन जपैः विशिष्टमन्त्राभ्यासैः प्रणतिभिः नमस्कारैःएवं मनोवाक्कायकर्मभिः दिवः अधिपतिम् इन्द्रं समुपेयिवान् उपसेदिवान् सः अर्जुनः सहजेतरौ नैसर्गिकागन्तुकौजीयते अनेन इति जयः वीररसः। “एरच्” इति अच्। शम्यते अनेन इति शमः जय शमौ वीरशान्तिरसौ दधतीपुष्णती महसी तेजसौ युगपत् विभराम्बभूव बभार। “भीह्नीभृहुवाम्” इति विकल्पात् आम्प्रत्ययः। अत्र युगपत् वीरशान्ताधिकरणत्वाभिधानात् अस्य लोकाद्भुतमहिमत्वं व्यज्यते॥२२॥
शिरसेति। हरिन्मणिनिभः मरकतमणिश्यामः अभिषवणेन स्नानेन कृतजन्मनः जनिताः अतः पिशङ्गीः इति भावः। जटा शिरसा वहन् सः अर्जुनः अरुणस्य अनरोः दाधितिभिः परिमृष्टमूर्धनि व्याप्तशिरसि तमालतरौ उपमां तमालतरोःसादृश्यं ययौ इति आर्थी इयम् उपमा। तरोः औपम्याधि करणत्वात् तदपेक्षया सप्तमी॥२३॥
चरितैर्मुनीनधरयन् शुचिभिः।
रजयाञ्चकार विरजाः समृगान्
कमिवेशतेरमयितुं न गुणाः?॥२४॥
अनुकूलपातिनमचण्डगतिं
किरता सुगन्धिमभितः पवनम्
अवधीरितार्त्तवगुणं सुखतां
नयता रुचां निचयमंशुमतः॥२५॥
धृतेति। धृतहेतिः धृतायुधः अपि अधृता जिह्ममतिः कुटिलमतिः येन सः शुचिभिः चरितैःमुनीन् अधरयन् तिरस्कुर्वन्। वेषण एव भीषणः न तु कर्मणा इति भावः। कुतः विरजाः रजोगुणरहितः सः अर्जुनः मृगान् रजयाञ्चकार रमया मास। “रञ्जर्णौमृगरमणे नलोपो वक्तव्यः” इति नलोपः। तथाहि। गुणाः दयादयः कम् इव रमयितुंन ईशते कं वा वशीकत्तुं न शक्नुवन्ति इति भावः। शुद्धिः एव हि परं विश्वासवीजं परस्य न वेषःन अपि संस्तवः इति भावः॥२४॥
अथ अस्य त्रिभिः तपःसिद्धिम् आह। अनुकूलेत्यादिना। अनुकूलपातिनं न तु प्रतिकूलपातिनम् अचण्डगतिं मन्दगामिनं सुगन्धिम्। गन्धस्येत्वे तदेकान्तग्रहण अपि कवीनां निरङ्कुशत्वात् समासान्तः। अथवा केचित् आगन्तुकत्वे अपि एकवचनेन समासान्तम् इच्छन्ति। पवनम् अभितः किरता प्रवर्त्तयता इत्यर्थः। ऋतुः अस्य प्राप्तः आर्त्तवः। “ऋतोरण” इत्यण्प्रत्ययः। सः च असौ गुणः तिग्मत्वरूपः सः अवधीरितः तिरस्कृतःयस्य तम् अंशुमतः रुचां निचयं सुखतां सुखस्पर्शतां नयता प्रापयता। नयतेः द्विकर्मकत्वम्॥२५॥
नवपल्लवाञ्जलिभृतः प्रचये
वृहतस्तरून् गमयतावनतिम्।
स्तृणता तृणैः प्रतिनिशं मृदुभिः
शयनीयतामुपयतीं वसुधाम्॥२६॥
पतितैरपेतजलदान् नभसः
पृषतैरपां शमयता च रजः।
स दयालुनेव परिगाढ़कृशः
परिचर्य्ययानुजगृहे तपसा॥२७॥
महते फलाय तदवेक्ष्य शिवं
विकसन्निमित्तकुमुमं स पुरः।
नवेति। प्रचये पुष्पावचयप्रसङ्गे नवपल्लवाः एव अञ्जलयं तान् बिभ्रति इति। तथोक्तान् वृहतः उच्चान् तरून् अवनतिं गमयता। “गतिबुद्धि” इत्यादिना तरुणां कर्मत्वम्। प्रति निशं निशि निशि शयनीयताम् उपयतींशयनस्थानीभृताम् इत्यर्थः। वसुधां मृदुभिः तृणैः स्तृणता आच्छादयता॥२६॥
पतितैरिति। अपेतजलदात् निरभ्रात् नभसः पतितैः अपां पृषतैः जलविन्दुभिः रजश्च शमयता तपसा कर्त्रादयालुना इव इति उत्प्रेक्षा। दयालुत्वं सूचयति। परिगाढ़कृशः अतिक्षीणः सः अर्जुनः परिचर्य्यया उक्तविधया शुश्रूषया अनुजगृहे अनुगृहीतः। अनुग्रहः अत्र सहकारित्वम् एव सर्वभूतानुकूल्यलिङ्गात् पचेलिमं तपः अस्य इति भावः। अत्र श्लोकत्रयस्य अपि एकवाक्यत्वात् उत्प्रेक्षा एव प्रधानालङ्कारः॥२७॥
महत इति। सः अर्जुनः महते फलाय श्रेयसे शस्याय च
न जगाम विस्मयवशं वशिनां
न निहन्ति धैर्य्यमनुभावगुणः॥२८॥
तदभूरिवासरकृतं सुकृतैः
उपलभ्य वैभवमनन्यभवम्।
उपतस्थुरास्थितविषादधियः
शतयज्वनो वनचरा वसतिम्॥२९॥
विदिताः प्रविश्य विहितानतयः
शिथिलीकृतेऽधिकृतकृत्यविधौ।
विकसत् पूर्वोक्तं शिवं निमित्तम् एव कुसुमं पुरः अग्रे अवेक्ष्य विस्मयवशं न जगाम। तथाहि। वशिनाम् अनुभावः एव गुणः सः च धैर्य्यंन निहन्ति विस्मयादिविकारं न जनयति इत्यर्थः। “तपः क्षरति विस्मयात्” इति स्मरणात् इति भावः॥२८॥
तदिति। सुकृतैः तपोभिः करणैःअभूरिभिः कतिपयैः एव वासरैः कृतं तत् पूर्वोक्तं वैभवम् अतः अन्यस्य न भवति इति अनन्यभवम् अन्यस्य असाध्यम्इत्यर्थः। पचाद्यजन्तोत्तरपदेन नञ्समासः। उपलभ्य निश्चित्य आस्थितविषादाः प्राप्तखेदाः धियः येषां ते वनचराः। “तत्पुरुषे कृति बहुलम्” इति बहुलग्रहणात् लुक्। शतेन शतस्य वा मखानां यज्वनः शतक्रतोः। अत्र संख्येयविशेषलाभः यजिसन्निधानात् अवगन्तव्यः। “यज्वा तु विधिनेष्टवान्” इत्यमरः। “सुयजोड्वनिप्” वसतिम् उपतस्थुः प्रापुः॥२९॥
विदिता इति। वनचराः इति अनुवर्त्तनीयम्। विदिता ज्ञाता अनुमतप्रवेशाः सन्त इत्यर्थः। प्रविश्य विहितानतयः
अनपेतकालमभिरामकथाः
कथयाम्बभूवुरिति गोत्रभिदे॥३०॥
शुचिवल्कवीतवपुरन्यतमः
तिमिरच्छिदामिव गिरौ भवतः।
महते जयाय मघवन्ननघः
पुरुशस्तपस्यति तपन् जगतीम्॥३१॥
स बिभर्त्ति भीषणभुजः
पृथु विद्विषां भयविधायि धनुः।
अमलेन तस्य धृतसच्चरिताः
चरितेन चातिशयिता मुनयः॥३२॥
कृतप्रणामाः अधिकृतकृत्यस्य नियुक्तकर्मणः शैलरक्षणात्मकस्य विधौ अनुष्ठाने शिथिलीकृतेसति अनपेतकालम् अनतिक्रान्तकालं यथा तथा गोत्रभिदे शक्राय इति वक्ष्यमाणप्रकारेण अभिरामकथाः श्राव्यवाचः। “चिन्तिपूजिकथिकुम्बिचर्चश्च” इति अङ्प्रत्ययः। कथयाम्बभृवुः॥३०॥
शुचीति। शुचिना वल्केन वल्कलेन वीतम् आच्छादितं वपुः यस्य सः। तिमिराच्छदां सूर्य्यादीनाम् अन्यतमः इव स्थितः इत्युत्प्रेक्षा। अनघःपुरुषः हे मगवन्! भवतः गिरौइन्द्रकीले जगतीं भुवं तपन् तापयन् महते जयाय तपस्यति तपश्चरति। “कर्मणो रोमन्थ”इत्यादिना क्यङिलट्॥३१॥
जयाय तपस्यति इत्युक्तं तत्र हेतुम् आह। स इति। भीषयेते इति भीषणौ। नन्द्यादित्वात् ल्युप्रत्ययः। तौच तौभुजङ्गौच तौ द्रव भुजौ यस्य सः तथोक्तः पुरुषः विद्विषां भय-
मरुतः शिवा नवतृणा जगती
विमलं नभो रजसि वृष्टिरपाम्।
गुणसम्पदाऽनुगुणतां गमितः
कुरुतेऽस्य भक्तिमिव भूतगणः॥३३॥
इतरेतरानभिभवेन मृगाः
तमुपासते गुरुमिवान्तसदः।
विनमन्ति चास्य तरवः प्रचये
परवान् स तेन भवतेव नगः॥३४॥
विधायि पृथु धनुः बिभर्त्तिअतः जयार्थी इत्यर्थः। अमलेन तस्य पुरुषस्य चरितेन धृतानि सच्चरितानि यैः ते मुनयः अतिशयिताः अतिक्रान्ताः॥३२॥
अथ अस्य तपःसिद्धिं वर्णयति। मरुत इत्यादिना। मरुतः वाताः शिवाः सुखाः जगतीपृथ्वी नवतृणा शयनास- नाद्यनुकूला इत्यर्थः। नभः विमलं नीहारादिरहितं रजसि सति अपां वृष्टिः भवति इति शेषः। किं बहुना अस्य पुरुषस्य गुणसम्पदा भूतहितादिगुणसम्पत्त्या अनुगुणताम् अनुकूलतां गमितः वशीकृतः इत्यर्थः। भूतगुणः पृथिव्यादिपञ्चकं भक्तिं सेवां कुरुते इव इति उत्प्रेक्षा॥३३॥
इतरेतरेति। किं च मृगाः पशवः तम् अन्ते अन्तिके सीदन्ति इति अन्तसदः अन्तेवासिनः। “सत्सू द्विष” इति क्विप्। गुरुम् इव इतरेतरेषाम् अनभिभवेन अद्रोहेण उपासन्ते सेवन्ते। प्रचये पुष्पावचये तरवः अस्य विनमन्ति करप्रचेयाः भवन्ति इत्यर्थः। अस्य इति सम्बन्धसामान्ये षष्ठी। किं बहुना।
उरु सत्त्वमाह विपरिश्रमता
परमं वपुः प्रथयतीव जयम्।
शमिनोऽपि तस्य नवसङ्गमने
विभुतानुषङ्गि भयमेति जनः॥३५॥
ऋषिवंशजः स यदि दैत्यकुले
यदि वान्वये महति भूमिभृताम्?।
चरतस्तपस्तव वनेषु सहा
न वयं निरूपयितुमस्य गतिम्॥३६॥
सःततःइन्द्रकीलः भवता इव तेन परवान् पराधीन सात्त्विकस्य अपि तव इव तस्य अतिशयः वर्त्तते इत्यर्थः॥३४॥
उर्विति। किं च विपरिश्रमता आयाति अपि श्रमराहित्यम् ऊरू महत् सत्त्वत्अन्तःसारम्आह दुर्वलस्य श्रमजया सम्भवात् इति भावः। परमं वपुः जयं प्रथयति च आकारेणएव जिष्णुत्वं गम्यते इत्यर्थः। शमिनः शान्तस्य अपि तस्य नवसङ्गमने अपूर्वप्राप्तौजनः विभुतायाः प्रभावस्य अनुषङ्गि व्यापकं न तु हिंस्रकत्वानुषङ्गि इति भावः। भयम्एति। शान्तोद्भवं पराभवं गमयति इति भावः॥३५॥
अथईदृशः असौ कः इति चेत् तत् न विद्मः इति आह। शृणोति।सः पुरुषः ऋषिवंशज वा इति शेषः काकुः वा। यदि वा देत्यकुले जातः इति शेषः। यदि वा महति भूमि भृताम् अन्वये जातः। तव वनेषु तपः चरतः अस्य गतिं स्वरूपं निरूपयितुं वयं सहन्ते इति सहाः। पचाद्यच्। न सहाः स्म इति शेषः॥३६॥
विगणय्य कारणमनेकगुणं
निजयाऽथवा कथितमल्पतया।
असदप्यदः सहितुमर्हसि नः
क्ववनेचराः? क्व निपुणा मतयः?॥३७॥
अधिगम्य गुह्यकगणादिति तत्
मनसः प्रियं प्रियसुतस्य तपः।
निजुगोप हर्षमुदितं मघवा
नयवर्त्मगाः प्रभवतां हि धियः॥३८॥
अपृष्टपरिभाषणापराधं परिहरति। विगणय्येति। अनेकगुणं बहुफलम् इन्द्रत्वाद्यनेकफलसाधकत्वेन योग्यम् इत्यर्थः। कारणं तपोरूपं विगणय्य विचार्य्य अथवा निजया नैसर्गिक्या अल्पतया वालिश्येन वा कथितं नः अस्माकम् अदः इदं वचनम् इत्यर्थः। असत् असाधु अपि सहितुं सोढुम्। “तीषमह” इत्यादिना विकल्पात् इड़ागमः। अर्हसि योग्यः असि। तर्हि सदेव किं न उक्तं तत्र आहुः। वनेचराः क्व? निपुणाः मतयःविवेकबुद्धयः क्व? न उभयं सङ्गच्छते इत्यर्थः। अज्ञानेन न अपराध्यन्ति इति भावः। अर्थान्तरन्यासः अलङ्कारः॥३७॥
अधिगम्येति। मघवा इन्द्रः इति पूर्वोक्तगुह्यकगणात् तत् मनसः प्रियं प्रियसुतस्य अर्जुनस्य तपः अधिगम्य ज्ञावा।गुप्त्यपेक्षया समानकत्तृकत्वात् क्त्वाल्यप्निनिर्देशः। उदितं तत् तपसः देवकार्य्यार्थत्वात् उत्पन्नं हर्षं निजुगोप गोपयामास। तथाहि। प्रभवतां प्रभूणां धियः नयवर्त्मगाः नीतिमार्गानुसारिण्यः हि। अन्यथा मन्त्रभेदे कार्य्यहानिः स्यात् इति भावः॥३८॥
प्रणिधाय चित्तमथ भक्ततया
विदितेऽप्यपूर्व इव तत्रहरिः।
उपलब्धुमस्य नियमस्थिरतां
सुरसुन्दरीरिति वचोऽभिदधे॥३९॥
सुकुमारमेकमणु मर्मभिदाम्
अतिदूरगंयुतममोघतया।
अविलक्ष्यमस्त्रमपरं कतमं
विजयाय यूयमिव चित्तभुवः?॥४०॥
प्रणिधायेति। अथ हरिः इन्द्रः चित्तं प्रणिधाय विषयान्तरपरिहारेण आत्मनि अवस्थाप्य तत्र तस्मिन् अर्जुने भक्ततया विदिते सति अपि। उपलक्षणे तृतीया। अपूर्वः इव अविदितः इव इत्यर्थः। “पूर्वादिभ्यो नवभ्यो वा” इति विकल्पात् न स्मिन्नादेशः। अस्य अर्जुनस्य नियमे स्थिरतां दार्ढ्यम् उपलब्धुम् परीक्षितुम् इत्यर्थः। लोकप्रतीत्यर्थम् इति भावः। सुरसुन्दरीः इति वक्ष्यमाणप्रकारं वचः अभिदधे॥३९॥
सुकुमारमिति। मर्मभिदां मर्मच्छेदिनाम् अस्त्राणां मध्ये इत्यर्थः। “यतश्च निर्द्धारणम्” इति पष्ठी। अपरम् अन्यत् कतमम्। “वा बहूनां जातिपरिप्रश्ने डतमच्”। यूयम् इव सुकुमारं न तु कठिनम्। अन्यत् तु कठिनं भवति। तथा एक न बहु तत् तु अनेकं भवति। तथा अणु सूक्ष्मं न स्थूलम् अलक्ष्यप्रवेशित्वात् इति भावः। तत् तु लक्ष्यप्रवेशि। तथा अतिदूरगं दूरलक्ष्यभेदि तत् तु समीपलक्ष्यभेदि। तथा अमोघतया अमोघत्वगुणेन युतं युक्तं न कदाचित् व्यभिचरति इति भावः। अन्यत् तु कदाचित् अपि लक्ष्यात् अपराध्यति। तथा अवि-
भववीतये हतवृहत्तमसाम्
अवबोधवारि रजसः शमनम्।
परिपीयमाणमिव वोऽसकलैः
अवसादमेति नयनाञ्जलिभिः ॥४१॥
बहुधा गतां जगति भूतसृजा
कमनीयतां समभिहृत्य पुरा।
उपपादिता विदधता भवतीः
सुरसद्मयानसुमुखी जनता॥४२॥
लक्ष्यम् असत्प्रतिकारम्। अन्यत् विद्यमानप्रतीकारम्अस्यचित्तभुवः कामस्य। कर्त्तरि षष्ठी। विजयाय अस्ति इति शेषः न किञ्चित् अस्ति इत्यर्थः। अत्र उपमालङ्कारः। साभिप्रायविशेषणत्वात् परिकरालङ्कारश्च। तयोः उभयोः अङ्गिभावेनसङ्करः॥४०॥
असामथ्य शङ्गांपरिहरति। भवेति। भववीतये संसारनिवृत्तये हतवृहत्तमसांनिरस्तमहासोहानां योगिनां सम्बन्धि रजोगुणः रजोधुलिः इति श्लिष्टरूपकं तस्य शमनं निवर्तकम्अववोधः तत्त्वज्ञानम एव वा तत् वः युष्माकम् असकलैःअसमग्रैःनयनानि एव अञ्जलयः तैः परिपीयमाणम् इव इति उत्प्रेक्षा। अवसादं तपःक्षयम् एति। मुक्तान् अपि बध्नतीनांकथम्असामर्थ्यम् इति भावः। अत्र उत्प्रेक्षारूपकयोः सङ्करः॥४१॥
बहुधेति। किं च पुरा जगति बहुधा गतां नानामुखेन विप्रकीर्णां कमनीयतां चन्द्राद्युपमानद्रव्यगतलावण्यंसमभि-
तदुपेत्य विघ्नयत तस्य तपः
कृतिभिः कलासु सहिताः सचिवैः।
हृतवीतरागमनसां ननु वः
सुखसङ्गिनं प्रति सुखावजितिः॥४३॥
अविमृष्यमेतदभिलाष्यति सः
द्विषतां बधेन विषयाभिरतिम्।
हृत्थंसंगृह्य भवतीः विदधता भृतसृजा ब्रह्मणा जनता जन समूहः। “ग्रामजन” इत्यादिना तल्। सुरसद्मयानसुमुखास्वर्लोकयात्राप्रवणा उपपादिता कृता। स्वर्गस्य अपि यतप्रसादात् सर्वलोकश्लाघ्यत्वं तासां वः कथम् असामर्थ्यम् इति भावः। अत्र अप्सरसां प्रकीर्णलावण्यसङ्ग्रहासम्बन्धेअपि तत सम्बन्धाभिधानात् अतिशयोक्तिः॥४२॥
अथ कार्य्यशक्तिम् आह। तदिति। तत् तस्मात् समयेत्वात्कलासुगीतवाद्यादिषु कृतिभिः कुशलैःसचिवैः गन्धर्वैः सहिताः उपेत्य तस्य पुरुषस्य तपः विघ्नयत् विघ्नवत् कुरुतविहत इत्यर्थः। विघ्नवच्छब्दात् मलन्तात् “तत्करोति” इति णिचि लोट्। णोइष्टवद्भावात् मतुपः लुक्। न च अत्र असामर्थ्य शङ्का कार्य्याइति अर्थान्तरन्यासेनआह। हृतेति। ननु सम्बोधने हे अप्सरसः। हृतानि वशीकृतानि वीतरागाणां निष्पृहाणां मुमुक्षूणां मनांसि चित्तानि याभिः तासां वः युष्माकम् अप्सरसां सुखसङ्गिनं पुरुषं प्रति सुखाभिलाषिणं प्रति अवजितिः विजयः सुखा न तु दुष्करा खलु। तेन अयं सुखार्थी न मुमुक्षुः इति उक्तम्॥४३॥
अथ सुखसङ्गित्वलिङ्गम् आह। अविमृष्येति। हे अप्सरसः
भववीतये न हि तथा स विधिः
क्व शरासनं? क्व च विमुक्तिपथाः?॥४४॥
पृथुधाम्नितत्रपरिबोधि च मा
भवतीभिरन्यमुनिवद् विकृतिः।
स्वयशांसि विक्रमवतामवतां
न बधूष्वघानि विमृषन्ति धियः॥४५॥
सः पुरुषः द्विषतां शत्रुणां बधेन शत्रुहननद्वारा विषयाभिरति विषयसुखम् अभिलष्यति वाञ्छति। “वा भ्राश” इत्यादिना श्यन्प्रत्ययः। एतद्विषयसक्तत्वम् अविमृष्यम् असन्दिग्धम्। “ऋदुपधाच्चाक्लृपित्वृतेः” इति क्यप्। हि यस्मात् सः विधिः “स बिभर्त्तिभीषणभुजङ्गभुजः” इत्यादिश्लोकोक्तः अनुष्ठान प्रकारःभववीतये संसारमुक्तयेन भवति। कुतः इति आह। शराशनं धनुः क्व? विमुक्ते पन्थाश्चक्व? परस्परं विरुद्धम् इत्यर्थः। न खलु हिंसामाध्या मुक्तिः इति भावः। अर्थान्तरन्यासः अलङ्कारः॥४४॥
न च शापभयम् अपि सम्भाव्यम् अस्मात् इति आह। पृथ्वीति। पृथुधाम्निमहातेजसितत्र तस्मिन् पुरुषविषये अन्यमुनिवत् अन्यस्मिन् मुनौइव। “तत्र तस्येव” इति वतिप्रत्ययः। विकृतिः कोपविकारश्च भवतीभिः मा परिबोधि मा विज्ञायिमा शङ्कि इति यावत्। बुध्यतेकर्माणि लुङ्माङ्योगात्आशीरर्थेअडागमाभावश्च। तथाहि। स्वयशांसि अवतांरक्षतांंयशोधनानाम् इत्यर्थः। विक्रमवतां धियः चित्तानि वधूषु स्त्रिविषयेषुअघानि व्यसनानि। “दुःखैनोव्यसनेष्वघम्”इति वैजयन्ती।न विमृषन्ति। अर्थान्तरन्यासः। स्त्रीहिंसायाः
आशंसितापचितिचारु पुरः सुराणाम्
आदेशमित्यभिमुखं समवाप्य भर्त्तुः।
लेभे परां द्युतिममर्त्त्य बधूसमूहः
सम्भावना ह्यधिकृतस्य तनोति तेजः॥४६॥
प्रणतिमथ विधाय प्रस्थिताः सद्मनस्ताः
स्तनभरनमिताङ्गीरङ्गनाः प्रीतिभाजः।
अचलनलिनलक्ष्मी हारि नालं बभूव
स्तिमितसमरभर्त्तुर्द्रष्टुमक्ष्णां सहस्रम्॥४७॥
इति श्रीमहामहोपाध्यायभारविकृतौ किरा-
तार्जुनीये महाकाव्ये युवतिप्रस्थानं
नाम षष्ठः सर्गः॥६॥
शूराणांयशोहानिकरत्वात् न सर्वथा वो हिनस्ति स इत्यर्थः॥४५॥
आशंसितेति। अमर्त्त्यबधूसमूहः अप्सरसां गणः सुराणांपुरः अग्रेअशंसितापचितिभिः अपेक्षितसम्भावनाभिः चारू यथा तथा। “क्षयार्चयोरपचितिः” इत्यमरः। अभिमुखं समक्षंभर्त्तुःस्वामिनः इति पूर्वोक्तम् आदेशं नियोगं समवाप्य परां द्युतिं लेभे। तथाहि। अधिकृतस्य क्वचित् अधिकारे नियुक्तस्य सम्भावना स्वामिकृता पूजा तेजः कान्तिं तनोति॥४६॥
प्रणतिमिति। अथ प्रणतिं विधाय सद्मनः इन्द्रभवनात्प्रस्थिताः प्रचलिताः स्तनभरैः नमितानि अङ्गानि यासां ताः। “अङ्गात्रकण्ठेभ्योवक्तव्यम्” इति ङीष्। प्रीतिभाजः स्वामि सम्भावनया सन्तुष्टाः ताः अङ्गनाः अचलनलिनानां स्थिरकम
सप्तमः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730056927Screenshot2024-10-28005144.png"/>
श्रीमद्भिः सरथगजैः सुराङ्गनानां
गुप्तानामथ सचिवैस्त्रिलोकभर्तुः।
सम्मूर्च्छन्नलघुविमानरन्ध्रभिन्नः
प्रस्थानं समभिदधे मृदङ्गनादः॥१॥
लानां लक्ष्मीः हरति इति तत् तथोक्तम् तद्वत् मनोहरम् इत्यर्थः कृतः स्तिमितं विस्मयनिश्चलम् अमरभर्त्तुःअक्ष्णां सहस्रं कर्तृ द्रष्टुम् अलं समर्थं न बभूव। तासां सौन्दर्य्यसागरस्य उद्वेलत्वात् इति भावः। अत्र उपमालङ्कारः॥४७॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायां
षष्ठः सर्गः॥६॥
<MISSING_FIG href="../books_images/U-IMG-1730057020Screenshot2024-10-28005311.png"/>
श्रीमद्भिरिति। अथ प्रस्थानानन्तरं श्रीमद्भिः शोभावद्भिः सह रथगजेन सरथगजाः तैः। “तेन सहेति तुल्ययोगे” इति बहुव्रीहिः। त्रयाणां लोकानां भर्तुः त्रिलोकभर्तुः इन्द्रस्य। “तद्धितार्थ” इत्यादिना उत्तरपदसमासः। सचिवैः गन्धर्वैः गुप्तानां सुराङ्गनानां प्रस्थानं गमनम् अलघुषु महत्सुविमानरन्ध्रेषु विमानानां कुक्षिषु कुहरेषु भिन्नः प्रतिध्वानैःअनेकीभूतः अत एव संमूर्च्छन् व्याप्नुवन् मृदङ्गनादः समभिदधे आचख्यौ। पौरेभ्यः इति शेषः। अस्मिन् सर्गे प्रहर्षिणीवृत्तम् “म्नौ ज्रौ गः त्रिदशयतिः प्रहर्षिणीयम्” इति लक्षणात्॥१॥
सोत्कण्ठैरमरगणैरनुप्रकीर्णात्
निर्याय ज्वलितरुचः पुरात् मघोनः।
रामाणामुपरि विवस्वतः स्थितानां
नासेदे चरितगुणत्वमातपत्रैः॥२॥
धूतानामभिमुखपातिभिः समीरैः
आयासादविशदलोचनोत्पलानाम्।
आनित्येमदजनितां श्रियं बधूनाम्
उष्णांशुद्युतिजनितः कपोलरागः॥३॥
तिष्ठद्भिःकथमपि देवतानुभावात्
सोत्कण्ठैरिति। सोत्कण्ठैः अवेक्षणात्सुकैःइत्यर्थः। अमरगणैः अनुप्रकीर्णात् आकीर्णात् ज्वलितरुचः दीप्तप्रभात् मघोनः इन्द्रस्य पुरात् अमरावत्याः निर्याय निर्गत्य। यातेः क्त्वोल्यप्।विवस्वतः उपरि स्थितानां रामाणाम् आतपात्त्रायन्ते इतिआतपत्रेः। “सुपि” इति योगविभागात् कप्रत्ययः। चरितः गुणत्वं सार्थकत्वं आसेदे न प्रापे। आतपत्राणाम् आतपनिवारणाकरणात् इति भावः॥२॥
धूतानामिति। अभिमुखपातिभिः समीरैः प्रतिकूलवायुभिः धूतानाम् इति दुर्निमित्तसचनम्। आयासात् गतिप्रयासात् अविशदलोचनोत्पलानां बधनाम् उष्णांशुद्युतिजनितः आतपकृतः कपालानां रागः पाटलत्वं मदेन जनितां श्रियं तत्सदृशीं श्रियम् इत्यर्थः। अत एव निदर्शनालङ्कारः। आनित्येआनीतवान् बधूःइति शेषः। आङपूर्वात् नयतेः कर्त्तरि लिट्। ङकारानुबन्धत्वात् आत्मनेपदम्॥३॥
आकृष्टैःप्रजविभिरायतं तुरङ्गैः।
नेमीनामसति विवर्त्तने रथौघैः
आसेदे नभसि विमानवत्प्रवृत्तिः॥४॥
कान्तानां कृतपुलकः स्तनाङ्गरागे
वक्त्रेषु च्युततिलकेषु मौक्तिकामः।
सम्पेदे श्रमसलिलोद्गमो विभूषा
रम्याणां विकृतिरपि श्रियं तनोति॥५॥
राजद्भिः पथि मरुतामभिन्नरूपैः
उल्कार्चिःस्फुटगतिभिर्ध्वजांशुकानाम्।
तिष्ठद्भिरिति। कथम् अपि वाढ़म्। “कथमादौतथाप्यन्ते यत्नेगौरववाढ़योः” इति वैजयन्ती। देवतानाम् अनुभावात्तिष्ठद्भि अपतद्भिः इत्यर्थः। रथविशेषणम् एतत्। प्रजविभिः वेगवद्भि तुरङ्गैःआयतं दूरम् आकृष्टैः रथौघैः वियति आकाशेनेमीनां चक्रधाराणाम्। “चक्रधारा प्रधिर्नेमिः” इति यादवः। विवर्जनेभ्रमणं असति विमानवत् विमानानाम् इव इति उपमा। “तत्र तस्येव” इति वतिप्रत्ययः। प्रवृत्तिः गतिः आसेदे प्राप्ता। सदेः कर्मणि लिट्॥४॥
कान्तानामिति। कान्तानां स्तनानाम् अङ्गरागे कृतपुलकः जनितोद्भेदः कृतरोमाञ्चः इत्यर्थः। च्युताः प्रमृष्टाः तिलकाः येषां तेषु वक्त्रेषु मौक्तिकामः श्रमसलिलोद्गमः स्वेदोद्भेदः विभूषा भूषणं सम्पदे सम्पन्नः। कर्त्तरि लिट्। तथाहि। रम्याणां स्वभावसुन्दराणां विकृतिः अपि श्रियं तनोति। अतः स्वेदस्य अपि विभूषणत्वम् उपपद्यते इति भावः॥५॥
तेजोभिः कनकनिकाषराजिगौरैः
आयामः क्रियत इव स्म सातिरेकः॥६॥
रामाणामवजितमाल्यसौकुमार्य्ये
सम्प्राप्ते वपुषि सहत्वमातपस्य।
गन्धर्वैरधिगतविस्मयैः प्रतीये
कल्याणी विधिषु विचित्रता विधातुः॥७॥
सिन्दूरैः कृतरुचयः सहेमकक्ष्याः
स्रोतोभिस्त्रिदशगजा मदं क्षरन्तः।
राजद्भिरिति। मरुतां पथि आकाशे राजद्भिः दीप्यमानैः अभिन्नरूपैः अविच्छिन्नाकारैः अत एव उल्कानाम् अर्चींषि इव स्फुटगतीनि दीप्तमार्गाणि तैः कनकस्य निकाषः कषण तस्य राजिः रेखा तद्वत् गौरैः अरुणैः। “गौरः पीतेऽरुणे श्वेते” इति विश्वः। ध्वजांशुकानां तेजोभिः पताकाकान्तिभि आयामः तेषाम् एव दैर्घ्यंसातिरेकः सातिशयः क्रियते स्म इव कृतः इव दीर्घाः ध्वजपटाः स्वतेजःप्रसारेण दीर्घतमाः इव लक्ष्यन्ते इति उत्प्रेक्षा। सा च उल्काद्युपमानुप्राणिता॥६॥
रामाणामिति। माला एव माल्यं तस्य सौकुमार्य्यम् अवजितं येन तस्मिन् कुसमात् अपि मनोहरे इत्यर्थः रामाणां वपुषि आतपस्य। कृद्योगे कर्मणि षष्ठी। सहते इति सहः क्षमः। पचाद्यच्। तस्य भावः सहत्वम्। तत् सम्प्राप्ते सति अधिगतविस्मयैः सम्प्राप्ताश्चर्य्यैः गन्धर्वैः विधातुः विधिषु सृष्टिषु कल्याणी साध्वी श्रेयसी उपकारकत्वात् इति भावः। विचित्रता नानाविधत्वं प्रतीये अवगता ज्ञाता। पतिपूर्वात् इणः कर्मणिलिट्॥७॥
सादृश्यं ययुररुणांशुरागभिन्नैः
वर्षद्भिः स्फुरितशतह्रदैः पयोदैः॥८॥
अत्यर्थं दुरुपसदादुपेत्य दूरं
पर्य्यन्तादहिममयूखमण्डलस्य।
आशानामुपरिचितामिवैकवेणीं
रम्योर्मित्रिदशनदीं ययुर्बलानि॥९॥
आमत्तभ्रमरकुलाकुलानि धुन्वन्
उद्धूतग्रथितरजांसि पङ्कजानि।
सिन्दूरैरिति। सिन्दूरैः नागसम्भवैः रागद्रव्यविशेषैः। “सिन्दूरं नागसम्भवम्” इत्यमरः। कृतरुचयः अलङ्कृताः इत्यर्थः। सह हेम्नः कक्ष्याभिः मध्येभबन्धनैः सहेमकक्ष्याः। “तेन सहेति तुल्ययोगे” इति बहुव्रीहिः। “कक्ष्या प्रकोष्ठे हर्म्यादेः काञ्च्यांमध्येभबन्धने” इत्यमरः। स्रोतोभिः सप्तभिः मदनाड़ीभिः। “करात्कटाभ्यां मेढ्राच्च नेत्राभ्याञ्च मदच्युतिः” इति पालकाव्ये। करात् नासारन्ध्राभ्याम् इत्यर्थः। मदं क्षरन्तः वर्षन्तः त्रिदशराजाः अरुणस्य अर्कस्य अंशूनां रागेणआरुण्येन भिन्नैःसंसृष्टै वर्षद्भिःस्फुरितशतह्रदैःस्फुरिततड़िक्तैः पयोदैःसादृश्यं ययु इति उपमालङ्कारः॥८॥
अत्यर्थमिति। बलानि सैन्यानि अत्यर्थं दुरुपसदात् दुःसहात् अहिममयूखमण्डलस्य सूर्य्यबिम्बस्य पर्य्यन्तात् समीपात् दूरम् उपेत्य आगत्य आशानाम् उपरिचितां गुम्फिताम् एकवेणीम् इव स्थिताम् इत्युत्प्रेक्षा। रम्याः ऊर्मयः तरङ्गाः भङ्ग्यश्च यस्याः तां त्रिदशनदीं मन्दाकिनींययु प्रापुः॥९॥
कान्तानां गगननदीतरङ्गशीतः
सन्तापं विरमयति स्म मातरिश्वा॥१०॥
सम्भिन्नैरिभतुरगावगाहनेन
प्राप्योर्वीरनु पदवीं विमानपङ्क्तीः।
तत्पूर्वं प्रतिविदधे सुरापगायाः
वप्रान्तस्खलितविवर्त्तनं पयोभिः॥११॥
क्रान्तानां ग्रहचरितात् पथो रथानां
अक्षाग्रक्षतसुरवेश्मवेदिकानाम्।
आमत्तेति। आमत्तैः भ्रमरकुलैः आकुलानि उद्धूतानि उत्थापितानि ग्रथितानि अन्योन्यसम्बद्धानि च रजांसि येषु तानि पङ्कजानि धुन्वन् कम्पयन् सुरभिः इत्यर्थः। गगननदीतरङ्गैः शीतः मातरिश्वावायुः कान्तानां सन्तापं विरमयति स्म शमयामास। मातरि अन्तरिक्षे श्वयति इति निरुक्तिः॥१०॥
सम्भिन्नैरिति। इभतुरगावगाहनेन हस्त्यश्वावलोडनेन सम्भिन्नैःसंक्षुभितैः सुरापगायाः पयोभिः कर्त्तृभिः पदवीम् अनुपदव्याम् इत्यर्थः। “लक्षणेत्थम्भूत” इत्यादिना कर्मप्रवचनीयत्वात् द्वितीया। उर्वीः विपुलाः विमानपङ्क्तीः प्राप्य तत् एव पूर्वं तत्पूर्वम् इदं प्रथमं यथा तथा आकाशगङ्गायाः तटाभावात् इति भावः। वप्रान्तेषु रोधोभूमिषु स्खलितानि तैः विवर्त्तनं प्रत्यावृत्तिः वप्रान्तस्खलितविवर्त्तनं तटान्तस्खलनरतिवर्त्तनम्। “वप्रः पितरि केदारे वप्रः प्राकाररोधसोः” इति वैजयन्ती। प्रतिविदधेचक्रेइति अतिशयोक्तिः॥११॥
क्रान्तानामिति। ग्रहैः सूर्य्यादिभिः चरितात् आश्रितात्
निःसङ्गं प्रधिभिरुपाददे विवृत्तिः
सम्पीड़क्षुभितजलेषु तोयदेषु॥१२॥
तप्तानामुपदधिरे विषाणभिन्नाः
प्रह्लादं सुरकरिणां घनाः क्षरन्तः।
युक्तानां खलु महतां परोपकारे
कल्याणी भवति रुजत्स्वपि प्रवृत्तिः॥१३॥
संवाता मुहुरनिलेन नीयमाने
दिव्यस्त्रीजघनवरांशुके विवृत्तिम्।
कर्मणि क्तः। पथः मार्गात्। क्रान्तानां निष्क्रान्तानां अक्षा चक्रधराः दारुविशेषाः तेषाम् अग्रैःक्षताः दारिताः सुरवेश्मवेदिकाः यैः तेषां रथानां प्रधिभिः नेमिभिः चक्रान्तैः। “चक्ररथाङ्गं तस्यान्तो नेमिः स्त्रीस्यात् प्रधिः पुमान्” इत्यमरः। सम्पीडेन नोदनेन क्षुभितानि जलानि येषां तेषु तोयदेषु निःसङ्गम् अप्रतिघातं यथा तथा विवृत्तिः परिभ्रमणम् उपाददे स्वीकृताइति अतिशयोक्तिः स्वभावोक्त्या संसृज्यते॥१२॥
तप्तानामिति। विषाणभिन्नाः गजदन्तक्षताः। “विषाणंदन्तशृङ्गयोः” इति हलायुधः। अत एव क्षरन्तः स्रवन्तः घनाः तप्तानां सुरकरिणां प्रह्लादम् उपदधिरे उपचक्रिरे। तथाहि। परोपकारे युक्तानाम् आसक्तानां रुजत्सु अपि पीड़यत्सु अपि विषये कल्याणी हितकारिणीखलु प्रवृत्तिः व्यापारः भवति इति अर्थान्तरन्यासः अलङ्कारः। ततः युक्तं मेघानां गजदन्तक्षतानाम् अपि तदाह्लादकत्वम् इति भावः॥१३॥
संवातेति। संवाता संवहता। वातेर्गत्यर्थत्वात् शतृ
पर्य्यस्यत्पृथुमणिमेखलांशुजालं
संजज्ञे युतकमिवान्तरीयमूर्वोः॥१४॥
प्रत्यार्द्रीकृततिलकास्तुषारपातैः
प्रह्लादं शमितपरिश्रमा दिशन्तः।
कान्तानां बहुमतिमाययुः पयोदाः
नाल्पीयान् बहु सुकृतं हिनस्ति दोषः॥१५॥
यातस्य ग्रथिततरङ्गसैकताभे
विच्छेदं विपयसि वारिवाहजाले।
प्रत्ययः। अनिलेन कामिना इति भावः। दिव्यस्त्रीणां जघनेषु वरं श्रेष्ठं यत् अंशुकं तस्मिन् विवृत्तिम् अपमारं मुहु नीयमाने सति पर्य्यस्यत् प्रसरत् पृथु विशालंमणिमेखलांशुजालम् ऊर्वोः युतकं चलनाख्यम् इव। “युतकं संश्रये युग्मेयौतके चलनेऽपि च” इति विश्वः। अन्तरे भवम् अन्तरीयम् अधोऽंशुकम्। “गहादिभ्यश्च” इति छप्रत्ययः। “अन्तरीयोपसंव्यानपरिधानान्यधोऽंशुके” इत्यमरः। संजज्ञे संजातम्।जनिधातोः कर्त्तरि लिट्। उत्प्रेक्षालङ्कारः॥१४॥
प्रतीति। तुषारपातैः शीकरवर्षैः। “तुषारौहिमशीकरौ” इति विश्वः। प्रत्यार्द्रीकृततिलकाः मार्जितविशेषकाः अपि शमितपरिश्रमाः प्रह्लादम् आनन्दं दिशन्तः पयोदाः कान्तानाम्। कर्त्तरि षष्ठी। बहुमतिं सम्मानम् आययुः। तथाहि। अल्पीयान् अल्पःदोषः बहु प्रभूतं सुकृतम् उपकारं न हिनस्ति न हन्ति। अर्थान्तरन्यासः अलङ्कारः॥१५॥
यातस्येति। ग्रथिततरङ्गंबद्धोर्मियत् सैकतं तस्य आभा
आतेनुस्त्रिदशबधूजनाङ्गभाजां
सन्धानं सुरधनुषः प्रभा मणीनाम्॥१६॥
संसिद्धाविति करणीयसन्निबद्धैः
आलापैः पिपतिषतां विलङ्घ्यवीथीम्।
आसेदे दशशतलोचनध्वजिन्या
जीमूतैरपिहितसानुरिन्द्रकीलः॥१७॥
इव आभा यस्य तस्मिन् विगतानि पयांसि यस्मात् तस्मिन् निर्जले। “शेषाद्विभाषा” इत्यादिना पाक्षिकत्वात् नञ्समासान्त। उरःप्रभृतिपाठस्तु पयःशब्दस्य एकवचनान्तस्य एव इति न कश्चित् विरोधः। वारिवाहजाले मेघवृन्दे विच्छेदं त्रुटिं यातस्य सुरधनुषः इन्द्रचापस्य त्रिदशबधूजनाङ्गभाजां मणीनां तदङ्गसङ्गिविभूषामणीनाम् इत्यर्थः। प्रभाः कान्तयः सन्धानम् आतेनुः चक्रुः। अत्र आभरणप्रभाणाम् इन्द्रधनुषः असम्बन्धे अपि सम्बन्धाभिधानात् अतिशयोक्तिः अलङ्कारः॥१६॥
संसिद्धाविति। संसिद्धौ कार्य्यसिद्धिविषये इति इत्थंभाविना प्रकारेण कर्त्तव्यम् इतिकरणीयं तेन सन्निबद्धैःसंयोजितैःइत्यर्थः। आलापैः आभाषणैःउपलक्षितया। “स्यादाभाषणमालापः” इत्यमरः। दशशतानि संख्या येषु तानि लोचनानि यस्य सः सहस्रलोचनः इत्यर्थः तस्य ध्वजिन्या सेनया पिपतिषतां पक्षिणां वीथीं मार्गम्। “पित्सन्तो नभसङ्गमा” इत्यमरः। “तनिपति”इत्यादिना विकल्पात् इड़ागमः। विलङ्घ्य जीमूतैः जीवस्य उदकस्य मूतः पटबन्धः येषां ते तैः। पृषोदरादित्वात् साधुः। अपिहितसानुः आच्छादिततटः
आकीर्णा मुखनलिनैर्विलासिनीनाम्
उद्धूतस्फुटविशदातपत्रफेना।
सा तूर्य्यध्वनितगभीरमापतन्ती
भूभर्त्तुः शिरसि नभोनदीव रेजे॥१८॥
सेतुत्वं दधति पयोमुचां विताने
संरम्भादभिपततो रथान् जवेन।
आनिन्युर्नियमितरश्मिभुग्नघोणाः
कृच्छ्रेण क्षितिमवनामिनस्तुरङ्गाः॥१९॥
उन्नतः इत्यर्थः। इन्द्रकीलः आसेदे प्राप्तः। सीदतेः कर्मणिलिट्॥१७॥
आकीर्णेति। विलासिनीनां मुखनलिनैः। उपमितसमासः। आकीर्णा व्याप्ता उद्धूतानि ऊर्द्धम् उत्क्षिप्तानि स्फुटानि असङ्कुचितानि विशदातपत्राणि श्वेतच्छत्राणि फेनाः इव यस्याः तथोक्ता तूर्य्य ध्वनितैः वाद्यघोषैः गभीरं यथा तथा भूभर्त्तुःइन्द्रकीलस्य शिरसि आपतन्ती सा सेना नभोनदी इव रेजे॥१८॥
सेतुत्वमिति। पयोमुचां विताने सेतुत्वं दधति सति संरम्भात् आटोपात् जवेन अभिपततः मेघवृन्दम् अधरीकृत्यधावतः इत्यर्थः। तथाभूतान् रथान् नियमितैः आकृष्टैःरश्मिभिः भुग्नाःआकुञ्चिताः घोणाः प्रोथाः येषां ते। “कुञ्चितं नतम्। आविद्धं कुटिलं भुग्नं वेल्लितं वक्रम्” इत्यमरः। “किरणप्रग्रहौरश्मी” इत्यमरः। “घोणा तु प्रोथमस्त्रियाम्” इत्यमरः। अवनमन्ति इति अवनामिनः अवनतपूर्वकायाः
माहेन्द्रं नगमभितः करेणुवर्य्याः
पर्य्यन्तस्थितजलदा दिवः पतन्तः।
सादृश्यं निलयननिष्प्रकम्पपक्षैः
आजग्मुर्जलनिधिशायिभिर्नगेन्द्रैः॥२०॥
उत्सङ्गे समविषमे समं महाद्रेः
क्रान्तानां वियदभिपातलाघवेन।
आमूलादुपनदि सैकतेषु लेभे
सामग्र्यंखुरपदवी तुरङ्गमाणाम्॥२१॥
तुरङ्गाः कृच्छ्रेण महता प्रयत्नेन क्षितिम् आनिन्युः इति स्वभावोक्तिः॥१९॥
माहेन्द्रमिति। माहेन्द्रं नगम् अभितः इन्द्रकीलाभिमुखम्। “अभितः परितः” इत्यादिना द्वितीया। दिवः अन्तरिक्षात् पतन्तः अवतरन्तः पर्य्यन्तस्थिताः पार्श्वस्थाः जलदाः येषां ते करेणुवर्य्याःकरेणुषु वर्य्याः श्रेष्ठाः इत्यर्थः। “न निर्द्धारणे” इति षष्ठीसमासनिषेधात् “सप्तमी” इति योगविभागात् सप्तमीसमासः। निलयने स्थाने निष्प्रकम्पपक्षैः निश्चलपत्रैःजलनिधिशायिभिः नगेन्द्रैः मैनाकादिभिः सादृश्यम् आजग्मुः इत्युपमा॥२०॥
उत्सङ्ग इति। महाद्रेःउत्सङ्गे मूर्ध्नि विषये यत् समविषमं समं च विषमं च निम्नोन्नतं तस्मिन्। द्वन्द्वैकवद्भावः। वियदभिपातलाघवेन गगनसञ्चारपाटवेन समम् एकरूपम् आरोहावरोहरहितम् इत्यर्थः क्रान्तानां गच्छतां तुरङ्गमाणां खुरपदवी खुरपङ्क्तिः उपनदि नदीसमीपे। “अव्ययीभावश्च”
सध्वानं निपतितनिर्ज्झरासु मन्द्रैः
सम्मूर्च्छन् प्रतिनिनदैरधित्यकासु।
उद्ग्रीवैर्धनरवशङ्कया मयूरैः
सोत्कण्ठं ध्वनिरुपशुश्रुवे रथानाम्॥२२॥
सम्भिन्नामविरलपातिभिर्मयूखैः
नीलानां भृशमुपमेखलं मणीनाम्।
इति नपुंसकत्वात् ह्रस्वत्वम्। सैकतेषु आमूलात् मूलम् आरभ्य आदितः आरभ्य इति यावत् समग्रस्य भावः सामग्र्यंलेभे। सैकतात् अन्यत्र निम्नेषु गगनचारेण समप्रदेशवत् विषमे खुरस्पर्शाभावात् विच्छिन्ना खुरसरणिः सैकतेषु तु सर्वत्र समत्वात् अविच्छिन्ना इत्यर्थः॥२१॥
सध्वानमिति। सध्वानं सशब्दं निपतिताः निर्झराः प्रवाहाः यासु तासु। “प्रवाहो निर्झरो झरः” इत्यमरः। अधित्यकासु नगोर्द्धभूमिषु। “भूमिरूर्द्धमधित्यका” इत्यमरः। “उपाधिभ्याम्” इत्यादिना त्यकन्प्रत्ययः। मन्द्रैःगम्भीरैः। “कलो मन्द्रस्तु गम्भीरे” इत्यमरः। प्रतिनिनदैः प्रतिध्वानैःसम्मूर्च्छन् वर्द्धमानः रथानां ध्वनिः घनरवशङ्कया मेघगर्जितभ्रमेण इति भ्रान्तिमदलङ्कारः। उद्ग्रीवैः मयूरैः सोत्कण्ठम् उपशुश्रुवे उपश्रुतः। शृणोतेः कर्मणि लिट्॥२२॥
सम्भिन्नामिति। अविरलपातिभिः निरन्तरप्रसारिभिः उपमेखलं मेखलातटेषु इत्यर्थः। “अथ मेखला श्रोणिंस्थाने- ऽद्रिकटके कटिबन्धेऽसिबन्धने” इति यादवः। नीलानां मणीनां मयूखैः भृशं सम्भिन्नाम् एकीभूताम् अत एव नभःअन्तरालेविच्छिन्नाम् इव स्थिताम् इति उत्प्रेक्षा। वप्राम्भःस्रुतिं वप्रो-
विच्छिन्नामिव वनितानभोऽन्तराले
वप्राम्भःस्रुतिमवलोकयाम्बभूवुः॥२३॥
आसन्नद्विपपदवीमदानिलाय
क्रुध्यन्तोधियमवमत्य धूर्गतानाम्।
सव्याजं निजकरिणीभिरात्तचित्ताः
प्रस्थानं सुरकरिणः कथञ्चिदीषुः॥२४॥
नीरन्ध्रंपथिषु रजो रथाङ्गनुन्नं
पर्य्यस्यत् नवसलिलारुणं वहन्ती।
आतेने वनगहनानि वाहिनी सा
घर्मान्तक्षुभितजलेव जह्नु कन्या॥२५॥
दकधारां वनिताः अवलोकयाम्बभूवुः। वप्राम्भःस्रुतेस्वधवलिमत्यागेन इन्द्रनीलानां नीलिमस्वीकाररूपतद्गुणोत्थापिता विच्छेदोत्प्रेक्षा इति तयोः अङ्गाङ्गिभावेन सङ्करः। तेन च नैस्थाविच्छेदभ्रमरूपः भ्रान्तिमान् व्यज्यते॥२३॥
आसन्नेति। धुरं गताः तेषां धूर्गतानां नियन्तॄणां धियम् अवमत्य अगणयित्वा अवज्ञाय इति यावत् आसन्नायां द्विपपदव्यां वनगजमार्गे यः मदानिलः तस्मैक्रुध्यन्तः तं प्रति कुप्यन्तः। “क्रुधद्रुह” इत्यादिना सम्प्रदानत्वात् चतुर्थी। सव्याजं सकपटं निजकरिणीभिः आत्तचित्ताः आकृष्टचित्ताः सुरकरिणः देवनागाः प्रस्थानं गमनं कथञ्चित् कष्टेन ईषुः अभिलेषुः॥२४॥
नीरन्ध्रमिति। नीरन्ध्रं सान्द्रं पथिषु रथाङ्गैःचक्रैःनुन्नप्रेरितम्। “नुत्तनून्नास्तनिष्ठ्यूतविद्धक्षिप्तेरिताः समाः” इत्यमरः। पर्य्यस्यत् प्रसरत् नवसलिलम् इव अरुणं रजः वहन्ती
सम्भोगक्षमगहनामथोपगङ्गं
बिभ्राणां ज्वलितमणीनि सैकतानि।
अध्यूषुश्च्युतकुसुमाचितां सहाया
वृत्रारेरविरलशाद्वलां धरित्रीम्॥२६॥
भूभर्त्तुःसमधिकमादधे तदोर्व्याः
श्रीमत्तां हरिसखवाहिनीनिवेशः।
संसक्तौ किमसुलभं महोदयानाम्?
उच्छ्रायं नयति यदृच्छयापि योगः॥२७॥
सा वाहिनी सेना घर्मान्ते प्रावृषि क्षुभितजला कलुषोदका इत्यर्थः जह्नुकन्या गङ्गा इव वनानि फलकुसुमप्रधानानि गहनानि जीर्णानि च तानि च तानि वनगहनानि आतेने व्यानशे। अत्र समासगतवाक्यगतोपमयोः सजातीययोः अङ्गाङ्गिभावेन सङ्करः॥२५॥
सम्भोगेति। अथ वृत्रारेः शक्रस्य सहायाः सचिवाः गन्धर्वाः उपगङ्गं गङ्गासमीपे। अव्ययीभावस्य नपुंसकत्वात् ह्रस्वत्वम्। सम्भोगक्षमगहनाम् उपभोगयोग्यवनां ज्वलिताः मणयः येषु तानि सैकतानि बिभ्राणाम्। भृञः कर्त्तरि लटः शाणच्। च्युतैः स्वयं पतितैः कुसुमैः आचितां व्याप्ताम् अविरलाः सान्द्राः शाद्वलाः शादप्रायदेशाः यस्यां सा तां धरित्रीम् अध्यूषुः अधितस्थुः। वसतेर्यजादित्वात् सम्प्रसारणम्। अत्र धरित्रीविशेषणार्थानाम् अधिवासहेतुत्वात् अनेकपदार्थहेतुकं काव्यलिङ्गम् अलङ्कारः॥२६॥
भूभर्त्तुरिति। तदा हरिसखवाहिनीनिवेशः गन्धर्वसेनाशिविरम्। “निवेशः शिविरोद्वाहविन्यासेषु प्रकीर्त्तितः” इति
सामोदाः कुसुमतरुश्रियो विविक्ताः
सम्पत्तिः किशलयशालिनीलतानाम्।
साफल्यं ययुरमराङ्गनोपभुक्ताः
सा लक्ष्मीरूपकुरुते यया परेषाम्॥२८॥
क्लान्तोऽपि त्रिदशबधूजनः पुरस्तात्
शाश्वतः। भूभर्त्तुः पर्वतस्य उर्व्याः समधिकं पूर्वस्मात् अभ्यधिकं यथा तथा श्रीमत्तां श्रियम् इत्यर्थः आदधे जनयामास। तथाहि, महोदयानां महात्मनां संसक्तौ सम्यक्सम्बन्धे “संभक्तौ” इति पाठे तु सम्यक्सेवायां किम् असुलभं? न किञ्चित् दुर्लभम् इत्यर्थः। यतः यदृच्छया दैवात् योगः अपि उच्छ्रायम उत्कर्षं नयति। अत्र प्रकृतयदृच्छया योगस्य उत्कर्षाभिधानात् अप्राकृतभक्तियोगस्य उत्कर्षाधायकत्वे कैमुतिकन्यायेन अर्थापत्तिः इति प्राकरणिकात् अप्राकरणिकरूपार्थापत्तिःअलङ्कारः। तदुक्तम्। “एकस्य वस्तुनो भावाद्यत्रवस्त्वन्यथा पतेत्। कैमुत्येन यतः सा स्यादर्थापत्तिरलङ्क्रिया॥” इति॥२७॥
सामोदाः इति। सामोदाः ससौरभाः कुसमप्रधानाः तरवः। शाकपार्थिवादिषु द्रष्टव्यः। तेषां श्रियः समृद्धयः विविक्ताः विजनप्रदेशाः। “विविक्तविजनच्छन्ननिःशलाकास्तथा रहः” इत्यमरः। किशलयशालिनीलतानां नबपल्लवयुतबल्लीनां सम्पत्तिः एताः अमराङ्गनोपभुक्ताः तस्यः साफल्यं ययुः। तथाहि, यया लक्ष्म्या करणेन परेषाम् उपकुरूते लक्ष्मीवान् इति शेषः। सा लक्ष्मीः न अन्या इति भावः। परेषाम् इत्यत्र “अनुकरोति भगवतो नारायणस्य” इत्यादिवत् क्रियायोगे हि सम्बन्धसामान्ये षष्ठी॥२८॥
लीनाहिश्वसितविलोलपल्लवानाम्।
सेव्यानां हतविनयैरिवावृतानां
सम्पर्कं परिहरति स्म चन्दनानाम्॥२९॥
उत्सृष्टध्वजकुथकङ्कटा धरित्रीम्
आनीता विदितनयैः श्रमं विनेतुम्।
आक्षिप्तद्रुमगहना युगान्तवातैः
पर्य्यस्ता गिरय इव द्विपा विरेजुः॥३०॥
प्रस्थानश्रमजनितां विहाय निद्राम्
आमुक्ते गजपतिना सदानपङ्के।
क्लान्त इति। क्रान्तः अपि त्रिदशबधूजनः पुरस्तात् अग्रे लीनानां संश्रितानाम् अहीनां श्वसितैः निःश्वासैः विलोला पल्लवाः येषां तेषां चन्दनानां सम्पर्कं हतविनयैः दुर्जनैः खलैआवृतानां संवृतानां सेव्यानां प्रभूणां सम्पर्कम् इव परिहरति स्म। दुष्टसंसृष्टाः गुणाढ्याअपि त्याज्याः इति भावः॥२९॥
उत्सृष्टेति। उत्सृष्टाः आक्षिप्ताः ध्वजाः कुथाः आस्तरणानि कङ्कटाः तनुत्राणानि च येभ्यः ते। “प्रवेण्यास्तरणं वर्णं परिस्तोमः कुथो द्वयोः” इत्यमरः। विदितनयैः शिक्षाभिज्ञै यन्तृभिः श्रमं विनेतुं क्लमम् अपनेतुं धरित्रीम् आनीताः निवेश्यमानाः इत्यर्थः द्विपाः युगान्तवातैः प्रक्षिप्तानि उद्धृतानि द्रुमाणां गहनानि वनानि येभ्यः ते पर्य्यस्ताः विपर्य्यासिताः गिरयः इव विरेजुः शुशुभिरे॥३०॥
प्रस्थानेति। गजपतिना प्रस्थानश्रमेण गमनक्लेशेन जनितां निद्रां विहाय आमुक्ते अत एव सदानपङ्के गजमदयुक्ते शय्यान्ते
शय्यान्ते कुलमलिनां क्षणं विलीनं
संरम्भच्युतमिव शृङ्खलं चकाशे॥३१॥
आयस्तः सुरसरिदोघरूद्धवर्त्मा
सम्प्राप्तुं वनगजदानगन्धि रोधः।
मूर्द्धानं निहितशिताङ्कुशं विधुन्वन्
यन्तारं न विगणयाञ्चकार नागः॥३२॥
आरोढुः समवनतस्य पीतशेषे
साशङ्कंपयसि समीरिते करेण।
शयनीयप्रदेशे क्षणं विलीनं लग्नम् अलिनां कुलं संरम्भेण उत्थानसम्भ्रमेण च्यूतं भ्रष्टं शृङ्खलं निगड़म् इव इत्युत्प्रेक्षा। “अथ शृङ्खले। अन्दुको निगड़ोऽस्त्री स्यात्” इत्यमरः। चकाशे शुशुभे॥३१॥
आयस्त इति। वनगजदानस्य गन्धः अस्य अस्ति इति तथोक्तं रोधः परकूलम् इत्यर्थः सम्प्राप्तुं गन्तुम् आयस्तः उत्सुकः प्रयत्नं कुर्वाणः इत्यर्थः। “यसु प्रयत्ने” इति धातोः कर्तरि क्तः। किन्तु सुरसरिदोघेन गङ्गाप्रवाहेण रूद्धं वर्त्म यस्य सः। नागः गजः निहितः दत्तः शितः तीक्ष्णः अङ्कुशः यस्मिन्। “अङ्कुशोऽस्त्रीसृणिः स्त्रियाम्” इत्यमरः। तं मूर्द्धानं विधुन्वन् रोषात् इति भावः। यन्तारं न विगणयाञ्चकार न विगणयामास॥३२॥
आरोढुरिति। समवनतस्यजलपानार्थम् आनतपूर्वकायस्यकरेणोः गजस्य। “करेणुरिभ्यां स्त्री नेभे” इत्यमरः। करेणपीतस्य शेषे पयसि आरोढुः हस्तिपकात्साशङ्कंसभयं समी
सम्मार्जन् अरुणमदस्रुतीकपोलौ
सस्यन्दे मद इव शीकरः करेणोः॥३३॥
आघ्राय क्षणमतितृष्यतापि रोषात्
उत्तीरं निहितविवृत्तलोचनेन।
सम्पृक्तंवनकरिणां मदाम्बुसेकैः
नाचेमे हिममपि वारि वारणेन॥३४॥
प्रश्च्योतन्मदसुरभीणि निम्नगायाः
क्रीड़न्तो गजपतयः पयांसि कृत्वा।
किञ्जल्कव्यवहितताम्रदानलेखैः
उत्तेरुः सरसिजगन्धिभिः कपोलैः॥३५॥
रिते क्षिप्ते सति इत्यर्थः। शीकरः अम्बुकणः अरुणे मदस्रुती मदधारे ययोः तौकपोलौ सम्मार्जन् प्रमृजन्। “मृजेरजादौ संक्रमे विभाषावृद्धिर्वक्तव्या” इति वृद्धिः। मदः इति सस्यन्दे स्रवन्मदसम्पृक्तस्य मदसादृश्यात् मदोपमा॥३३॥
आघ्रायेति। अतितृष्यता अपि अतिपिपासता अपि क्षणम् आघ्राय रोषात् उत्तीरं परतीरे। विभक्त्यर्थे अव्ययीभावःनिहिते विवृत्तेघूर्णिते लोचने यस्य तेन प्रतिगजदिदृक्षयाइति भावः। वारणेन हिमं शीतलम् अपि वनकरिणां मदाम्बुसेकैः दानधाराभिः सम्पृक्तंवारि न आचेमे न पीतम्। “चमूअटने” इति धातोः कर्मणि लिट्॥३४॥
प्रश्च्योतदिति। क्रीडन्तः विहरन्तः गजपतयः निम्नगायाःगङ्गायाः पयांसि प्रश्च्योतद्भिः क्षरद्भिःमदैः सुरभीणि कृत्वाकिञ्जल्कैः केसरैः व्यवहिताः तिरोहिताः ताम्रवर्णाः दानलेखा
आकीर्णं बलरजसा घनारुणेन
प्रक्षोभैः सपदि तरङ्गितं तटेषु।
मातङ्गोन्मथितसरोजरेणुपिङ्गं
माञ्जिष्ठं वसनमिवाम्बु निर्बभासे॥३६॥
श्रीमद्भिर्नियमितकन्धरापरान्तैः
संसक्तैरगुरुवनेषु, साङ्गहारम्।
सम्प्रापे निसृतमदाम्बुभिर्गजेन्द्रैः
प्रस्यन्दिप्रचलितगण्डशैलशोभा॥३७॥
मदराजयः येषु तैः अत एव सरसिजगन्धिभिः कपोलैः उपलक्षिताः सन्तः उत्तेरुः निर्जग्मुः। अत्र मदसरसिजगन्धयोः समयोः विनिमयोक्त्या समपरिवृत्तिः अलङ्कारः। तेन गजानां निम्नगायाश्च परिमलव्यत्ययान्तरसंरम्भः व्यज्यते॥३५॥
आकीर्णमिति। घनारूणेन सान्द्रलोहितेन। विशेषणसमासः। बलरजसा सेनापरागेणआकीर्णं सपदि प्रक्षोभैः आलोड़नैः तटेषु तीरेषु तरङ्गितं सञ्जाततरङ्गम्। तारकादित्वात् इतच्। यद्वातरङ्गवत् कृतं मत्वन्तात्“तत्करोति” इति णिचि कर्मणि क्तः णाविष्ठवद्भावात्। तथा मातङ्गैःउन्मथितानां लुलितानां सरोजानांरेणुभिः पिङ्गं पिशङ्गम् अम्बुमाञ्जिष्ठेन महारञ्जनेनआरक्तंमाञ्जिष्ठंवसनम् इव निर्बभासे। “तेन रक्तम्” इति अण्। माञ्जिष्ठम्इत्यत्र “कौशेयम्” इति वा पाठेकोशाड्ढ्ञ इतिकोशशब्दात् ठञ् “कौशेयं कृमिकोशोत्थम्” इत्यमर।
श्रीमद्भिरिति। श्रीमद्भिःशोभावद्भिः नियमिताः
निःशेषं प्रशमितरेणु वारणानां
स्रोतोभिर्मदजलमुज्झतामजस्रम्।
आमोदं व्यवहितभूरिपुष्पगन्धः
भिन्नैलासुरभिमुवाह गन्धवाहः॥३८॥
सादृश्यं दधति गभीरमेघघोषैः
उन्निद्रक्षुभितमृगाधिपश्रुतानि।
कन्धराः अपरान्ताः चरमपादाग्राणि च येषां तैः। “अपरः पश्चिमः पादः” इति वैजयन्ती। अगुरुवचनेषुसाङ्गहारं साङ्गविक्षेपं यथा तथा संसक्तैःनिःसृतानि प्रसृतानिमदाम्बुनि येषां तैः गजेन्द्रैःप्रस्यन्दिनः जलस्राविनःप्रचलिताः ये गण्डशैलाः च्चुतोपलाःतेषां शोभा सम्प्रापे प्राप्ता।कर्मणि लिट्। “गण्डशैलास्तु च्युताः स्थूलोपला गिरेःइत्यमरः। अत्र अन्यस्य अन्यशोभाप्राप्त्यसम्भवात् तत्सदृशी शोभाइतिप्रतिविम्बत्वाक्षेपात् निदर्शनालङ्कारः॥३७॥
निःशेषमिति। गन्धं वहति इतिगन्धवाहः वायुः। कर्मणि अण्। निःशेषं यथा तथाप्रशमितः रेणुःयेन तत् मदजलंस्रोतोभिःमदनाडीभिः अजस्रंम् उज्झतां वर्षतांवारणानां सम्बन्धित व्यवहितः तिरस्कृतः भूरिः बहुलःपुप्षगन्धः येन सः भिन्नाःफुल्लाः एलाः लताविशेषाः। “पृथ्वीका चन्द्रबालैला”इत्यमरः। तत्पुष्पाणि च एलाः पुष्पेजातीप्रभृतयः स्वलिङ्गा बीहययःफले” इत्यमरः। भिन्नैलावत्सुगन्धिं सुरभिं घ्राणेन्द्रियतर्पणनम्इत्युपमा।आमोदं परिमलम् उवाह वहति स्म॥३८॥
सादृश्यमितिगभीरैः मेघधोषैःसान्द्रगर्जितैः सादृश्यं
आतेनुश्चकितचकोरनीलकण्ठान्
कच्छान्तानमरमहेभवृंहितानि॥३९॥
शाखावसक्तकमनीयपरिच्छदानाम्
अध्वश्रमातुरबधूजनसेवितानाम्।
जज्ञे निवेशनविभागपरिष्कृतानां
लक्ष्मीः पुरोपवनजा वनपादपानाम्॥४०॥
इति श्रीमहामहोपाध्यायभारविकृतौ किराता-
र्जुनीये महाकाव्ये सप्तमः सर्गः॥७॥
दधति इत्युपमा। दधातेः शतृप्रत्ययः “वा नपुंसकस्य” इतिनुमभावः। उन्निद्रा वृंहितश्रवणात् एव प्रबुद्धाःक्षुभिताः संरब्धाश्चये मृगाधिपाः तैः श्रुतानि आकर्णितानि न तु प्रबुद्धान् इति भावः। अमरमहेभवृंहितानि महान्तश्च तेइभाः गजाश्चइति महेभाः अमराणां महेभाः तेषां वृंहितानि गर्जितानि कच्छान्तान् अनूपप्रदेशान्। “जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः” इत्यमरः। चकिताः गर्जितशङ्कया सम्भ्रान्ताः चकोराः पक्षिविशेषाः नीलकण्ठाः मयूराश्च येषु तान् तथाभृतान् आतेनुः। भ्रान्तिमदलङ्कारः॥३९॥
शाखेति। परिच्छाद्यते अनेन इति परिच्छदः परिकरः वसनाभरणादिः। “पुंसि संज्ञायां घःप्रायेण” इति घप्रत्यय “छादेर्घे पर्य्युपसर्गस्य” इति ह्रस्वत्वम्। शाखासु अवसक्ता कमनीयाः परिच्छदाः येषां तेषाम् अध्वनि श्रमःतेन आतुरैः पीड़ितैःबधूजनैःसेवितानां निवेशनविभागैःआवसतिकावच्छेदैःपरिष्कृतानाम् अलङ्कृतानाम्। “संपर्य्युपेभ्यः” इत्या
अष्टमः सर्गः
<MISSING_FIG href="../books_images/U-IMG-1730061123Screenshot2024-10-28020140.png"/>
अथ स्वमायाकृतमन्दिरोज्ज्चलं
ज्वलन्मणि व्योमसदां सनातनम्।
सुराङ्गना गोपतिचापगोपुरं
पुरं वनानां विजिहीर्षया जहुः॥१॥
दिना सुट्। वनपादपानाम् अरण्यवृक्षाणाम् पुरे यत् उपवनं कृत्रिमवनं तत्र जाता पुरोपवनजा लक्ष्मीः शोभा जज्ञेजाता। अत्र अन्योन्यलक्ष्मीसम्बन्धासम्भवात् तत्सदृशी इति सादृश्याक्षेपात् असम्भवे तद्वस्तुसम्बन्धा इयं निदर्शना। वसन्ततिलकावृत्तम्। “उक्ता वसन्ततिलका तभजा जगौ गः” इति लक्षणात्॥४०॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचिताया
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायां
सप्तमः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730061231Screenshot2024-10-28005311.png"/>
अथेति। अथ निवेशनानन्तरं सुराङ्गनाः अप्सरसः स्बभायया स्वेच्छाविशेषेण कृतैः निर्मितैः मन्दिरैः उज्ज्वलं दीप्तं ज्वलन्तः मणयः यस्मिन् तत् व्योमसदां गन्धर्वाणां सनातन सदातनम्। “सायं चिरम्” इत्यादिना भावार्थे ढ्युप्रत्ययः गौ
ःवज्रं तत्पतिःइन्द्रः तच्चापवर्णानि गोपुराणि यस्य तत् तथोक्तम्इत्युपमा। पुरं नगरं वनानां विजिहीर्षया वनानि। विहर्त्तुम् इच्छया।कर्मणि षष्ठी। जहुः तत्यजुः। जहातेर्लिट्
यथायथं ताः सहिता नभश्चरैः
प्रभाभिरुद्भासितशैलवीरुधः।
वनं विशन्त्यो वनजायतेक्षणाः
क्षणद्युतीनां दधुरेकरूपताम्॥२॥
निवृत्तवृत्तोरुपयोधरक्रमः
प्रवृत्तनिर्ह्रादिविभूषणारवः।
नितम्बिनीनां भृशमादधे धृतिं
नभःप्रयाणादवनौ परिक्लमः॥३॥
अत्र ज्ज्वलं ज्वलत् इति पुरं पुरम् इति च असकृद्व्यञ्जनद्वया वृत्त्या छेकानुप्रासः। अन्यत्र तद्वैपरीत्या वृत्त्यनुप्रासः इति तयोः उपमायाश्च संसृष्टिः। अस्मिन् सर्गे वंशस्थंवृत्तम्।“जतौ तु वंशस्थमुदीरितं जरौ” इति लक्षणात्॥१॥
यथायथमिति। यथायथं यथास्वं स्वकीयम् अनतिक्रम्य इत्यर्थः। “यथास्वंतु यथायथम्” इत्यमरः। नपुंसकत्वात् ह्रस्वत्वम्। नभश्चरैः गन्धर्वैः मेघैश्च सहिताः प्रभाभिः स्वदीप्तिभिः उद्भासिताः शैलवीरुधः याभिः ताः पूर्वोक्ताः वन जायतेक्षणाः पद्मलोचनाः स्त्रियः वनं विशन्त्यः क्षणं द्युतिः यासां तासां क्षणद्युतीनां विद्युताम् एकरूपतां समानरूपतां दधुः। मुहुः द्रुमान्तराले तासां स्फुरणस्य क्षणिकत्वात् इति भावः। श्लेषानुप्राणिता इयम् उपमा श्लेषत्वम् इति केचित्। उभयथा अपि अनुप्रासेन संसर्गः॥२॥
निवृत्तेति। निवृत्तः गतः वृत्तस्य वर्त्तुलस्य उरुपयोधरस्यक्लमः यस्मिन् सः पादप्रक्षेपेषु विश्रान्तिसम्भवात् इति भावः ।
घनानि कामं कुसुमानि बिभ्रतः
करप्रचेयान्यपहाय शाखिनः।
पुरोऽभिसस्रेसुरसुन्दरीजनैः
यथोत्तरेच्छा हि गुणेषु कामिनः॥४॥
तनूरलक्तारुणपाणिपल्लवाः
स्फुरन्नखांशूत्करमञ्जरीभृतः।
विलासिनीबाहुलता वनालयः
विलेपनामोदहृताः सिषेविरे॥५॥
किञ्च प्रवृत्तः जातः निर्ह्रादिविभूषणानां नूपुरादीनाम् आरवः यस्मिन् सः। अवनौ पृथिव्यां परिक्रमः सञ्चारः नितम्बिनीनां नभःप्रयाणात् भृशम् अधिकम्। “पञ्चमी विभक्ते” इनि पञ्चमी। धृतिं सन्तोषम् आदधे। अत्र विशिष्टपरिक्रमस्य धृत्या दानहेतुत्वात् काव्यलिङ्गम् अलङ्कारः॥३॥
घनानीति। घनानि सान्द्राणि न तु विरलानि करप्रचेयानि हस्तग्राह्याणि अनुच्चानि। “कृत्यैरधिकार्थवचने” इति तृतीयासमासः। कामं कुसुमानि बिभ्रतः नवकुसुमितान्। शाखिनः तरून् अपहाय सुरसुन्दरीजनैः पुरः अग्रे अभिसस्रे अभिगतम्। भावे लिट्। तथाहि। कामिनः गुणेषु अतिशयेषु विषये उत्तरम् उत्तरम्। वीप्सार्थे अव्ययीभावः। यथोत्तरम् इच्छा येषां तेयथोत्तरेच्छाः उत्तरोत्तराभिलाषुकाः हि। अत्र परिकरोत्थापितःअर्थान्तरन्यासः अलङ्कारः॥४॥
तनूरिति।विलेपनामोदैःहृताःआकृष्टाः वनालयः वनभृङ्गाः तनूः कृशाः अलक्तैः अरुणाः पाणय एव पल्लवाः यासां ताः स्फुरन्तः नखाशूणाम्उत्कराः पुञ्जाएव मञ्जर्य्यः ताः
निपीयमानस्तवका शिलीमुखैः
अशोकयष्टिश्चलबालपल्लवा।
विड़म्बयन्तीददृशे बधूजनैः
अमन्ददष्टौष्ठकरावधूननम्॥६॥
करौ धुनाना नवपल्लवाकृती
वृथा कृथा मानिनि! मा परिश्रमम्।
बिभ्रति इति तथोक्ताः। क्विप्। विलासिनीनां बाहवः एव लताः ताः सिषेविरे। अत्र समस्तवस्तुविषयरूपकालङ्कारः वाह्ववयवानां लतावयवानां पल्लवादीनाम् अपि निरूपणात् इति॥५॥
निपीयमानेति। शिलीमुखैःअलिभिः। “अलिबाणौ शिलीमुखौ” इत्यमरः। निपीयमानः स्तवकः गुच्छः यस्याः सा चलाः बालपल्लवाः यस्याः सा अत एव अमन्दं दृढ़ दष्टः ओष्ठः यस्मिन् तत् करावधूननं करकम्पनं तत् विडम्बयन्ती। स्तवकपानेन ओष्ठदंशनं पल्लवचलनेन करावधूननं च अनुकुर्वती इत्यर्थः। धूञः ण्यन्तात् स्युट्। णिचि धूञप्रीञो नूम् वक्तव्यः। अशोकयष्टिः अशोकशाखा इत्यर्थः बधूजनैः ददृशे दृष्टा। अत्रविडम्बयन्ती इति प्रस्तुताशोकशाखाविभूषणभूतोपमामहिम्ना अप्रस्तुतनायिकाप्रतीतेः समासोक्तिः उत्तिष्ठमानया एव उपमया अङ्गाङ्गिभावेन सङ्कीर्य्यते॥६॥
अथ कश्चित् मधुकराक्रान्तां काञ्चित् आह। कराविति। मानपरिहारेण मधुपाश्रयणे तु न कश्चित् बाधः इति आशयेन सम्बोधयति हे मानिनीति। नवपल्लवस्य आकृतिः इवआकृतिः ययोः इत्युपमा तौ करौ धुनाना। धूञः कर्त्तरि लटः
उपेयुषी कल्पलताभिशङ्कया
कथं न्वितस्त्रस्यति षट्पदावलिः॥७॥
जहीहि कोपं दयितोऽनुगम्यताम्
पुरोऽनुशेते तवचञ्चलं मनः।
इति प्रियं काञ्चिदुपैतुमिच्छतीं
पुरोऽनुनिन्ये निपुणः सखीजनः॥८॥
शानच्। वृथा व्यर्थं परिश्रमं मा कृथाः मा कुरुष्व। करोतेः आशीरर्थे माङि लुङ्। वृथात्वेहेतुम् आह। कल्पलताभिशङ्कयाकल्पवल्लीभ्रमेण इति भ्रान्तिमदलङ्कारः। उपेयुषीउपगता षट्पदावलिः कथं नु इत त्रस्यति बिभेति न त्रस्यति एव इत्यर्थः। “वा भ्राश” इत्यादि विकल्पेन श्यन्प्रत्ययः। अत्र कान्तापरिश्रमवैयर्थ्यरूपका- र्य्यस्यषटपदावलेः कल्पवल्लीभ्रमनिबन्धनवित्रासरूपकारणसमर्थनात् कारणेन कार्य्यसमर्थनरूपः अर्थान्तरन्यासः भ्रान्तिमताअङ्गाङ्गिभावेन सङ्कीर्णः सन् उपमया संस्सृज्यते॥७॥
अथ काचित् सखी काञ्चित् प्रणयतुल्यताम् आह। जहीहीति। प्रियम् उपैतुं स्वयम् एव अनुसर्त्तुम् इच्छतीम्। “आच्छीनद्योर्नुम्” इति विकल्पात् नुमभावः। काञ्चित् नायिकां निपुणः चित्तज्ञःसखीजनः कोपं जहीहि त्यज। “आ च ही” इति विकल्पात् इकारादेशः। दयितः अनुगम्यताम् अनुस्रियताम्। उभयथा अपि प्रार्थनायां लोट्। अन्यथा चञ्चलम् अस्थिरं तव मनः पुरः अनुशेते अग्रे अनुशयिष्यते अनुतप्स्यते इत्यर्थः। “यावत् पुरानिपातयोर्लट्” इति लट्। इति अनेन प्रकारेण पुरः पूर्वम् एव अनुनिन्ये प्रसादयामास॥८॥
समुन्नतैः काशदुकूलशालिभिः
परिक्वणत्सारसपङ्क्तिमेखलैः।
प्रतीरदेशैः स्वकलत्रचारुभिः
विभूषिताः कुञ्जसमुद्रयोषितः॥९॥
विदूरपातेन भिदामुपेयुषः
च्युताः प्रवाहादभितः प्रसारिणः।
प्रियाङ्कशीताः शुचिमौक्तिकत्विषः
वनप्रहासा इव वारिविन्दवः॥१०॥
सखीजनं प्रेम गुरूकृतादरं
अथ चतुर्भिः श्लोकैःकलापम् आह। समुन्नतैरिति। समुन्नतैः काशानि अश्वबालकुसुमानि तानि दुकूलानि इव तैःशालन्तेइति तथोक्तैः सारसपङ्क्तयः मेखलाः इव ताः परिकणन्त्यः येषु ते तैः स्वेषां कलत्राणि श्रोण्यः तद्वत् चारवः तैः। “कलत्रंश्रोणिभार्य्ययोः” इत्यमरः। प्रतीरदेशैः विभूषिताः तटप्रदेशैः भूषिताः कुञ्जसमुद्रयोषितः वननद्यः इत्यर्थः। अत्रतीरादीनां कलत्राद्यौपम्योपमेयत्वात् योषिच्छब्दसामर्थ्यात् चनदीनां योषिदौपम्यं गम्यते॥९॥
विदूरेति। विदूरपातेन भिदां भेदम्। “षिद्भिदादिभ्योऽङ्”। उपेयुषः उपनतात् प्रवाहात् च्युताः अत एव अभितः प्रसारिणः प्रसर्पन्तः इति प्रियायाः अङ्कः उत्सङ्गः इव शीताः शीतलाः शुचीनां मौक्तिकानां त्विषः इव त्विषः येषां ते। किंञ्च वनस्य प्रहासाः एव स्थिताः इत्युत्प्रेक्षा। वारिविन्दवश्च उपमयोः उभयोः उत्प्रेक्षायाश्च संसृष्टिः॥१०॥
निरीक्ष्यमाणा इव नम्रमूर्त्तयः।
स्थिरद्विरेफाञ्जनशारितोदरैः
विसारिभिः पुष्पविलोचनैर्लताः॥११॥
उपेयुषीणां वृहतीरधित्यका
मनांसि जह्नुःसुरराजयोषिताम्।
कपोलकाषैः करिणां मदारुणैः
उपाहितश्यामरुचश्च चन्दनाः॥१२॥
॥कलापकम्॥
सखीति। द्वौरेफौ वर्णविशेषौ येषां ते द्विरेकाः भ्रमरशब्देन तदर्थः लक्ष्यते। “द्व्यक्षरं मासमिति विदधाति” इति भाष्यकारः। स्थिराः निश्चलाः द्विरेफाः एव अञ्जनाति तैः शारितानि शवलीकृतानि उदराणि येषां तैः। “शारः शबलजातयोः” इति विश्वः। विसारिभिः विस्तृतै पुष्पाणि एवविलोचनानि तैः प्रेम्णा गुरुकृतः आदरो यस्मिन् कर्मणि तत्। तथा सखीजनं निरीक्षमाणाः प्रश्यन्तः इव स्थिताः कुतः नम्रमूर्त्तयः अवनताङग्यःलताश्च। अत्र रूपकोत्प्रेक्षयोसङ्करः॥११॥
उपेयुषीणामिति। मदेन अरुणैः अव्यक्तरागैः। अव्यक्तरागस्त्वरुणः” इत्यमरः। करिणां कपोलानां काषैःकषणैः उपाहितश्यामरुचः जनितकृष्णावर्णाः इति तद्गुणालङ्कारःचन्दनाः मलयजाः। “गन्धसारो मलयजोभदश्रीश्चवन्दनोऽस्त्रियाम्” इत्यमरः। वृहतीः अधित्यकाः ऊर्द्धभूमीः उपेपुषीणां सुरराजयोषितां मनांसि जह्नुः। अत्र चतुःश्लोकाःनद्यादीनां
स्वगोचरे सत्यपि चित्तहारिणा
विलोभ्यमानाः प्रसवेन शाखिनाम्।
नभश्चराणामुपकर्त्तुमिच्छतां
प्रियाणि चक्रुः प्रणयेन योषितः॥१३॥
प्रयच्छतोच्चैः कुसुमानि मानिनी
विपक्षगोत्रंदयितेन लम्भिता।
न किञ्चिदूचेचरणेन केवलं
लिलेख वाष्पाकुललोचना भुवम्॥१४॥
विशिष्टानाम् एव अप्सरोमनोहरणहेतुत्वोक्त्या काव्यलिङ्गम् उन्नेयम्॥१२॥
स्वगोचर इति। चित्तहारिणा मनोहरेण शाखिनां प्रसवेन पुष्पजातेन विलोभ्यमानाः आकृष्यमाणाः योषितः स्वगोचरेस्वविषये स्वकरप्रचये सति अपि इत्यर्थः। प्रसवे इति शेषः। उपकर्त्तुंपरिचरितुम् इच्छतां नभश्चरानां गन्धर्वाणां प्रणयेन महायहेतुना प्रियाणि चक्रुः। स्वकरग्राह्यम् अपि प्रसवंस्वकान्तप्रियार्थं तद्दीयमानम् एव अग्रहीषुः इत्यर्थः॥१३॥
प्रयच्छतेति। कुसुमानि प्रयच्छता ददता दयितेन उच्चैः उच्चैस्तरां विपक्षगोत्रंसपत्नीनामधेयं लम्भिता प्रापिता तन्नाम्ना आहूता इत्यर्थः। “नाम गोत्रंकुलं गोत्रम्” इति शाश्वतः। मानिनीअत एव न किञ्चित् ऊचे। कर्त्तरि लिट्। किन्तु केवलं वाष्पाकुललोचना सतीचरणेन भुवं लिलेख। गोत्रस्खलनजनितेर्ष्यानिमित्तानर्वेदात् इति भावः। मानिनी अत एव न किञ्चित् ऊचे इति उक्तम्। तदुक्तंदशरूपके—
प्रियेऽपरा यच्छति वाचमुन्मुखी
निबद्धदृष्टिः शिथिलाकुलोच्चया।
समादधे नांशुकमाहितं वृथा
विवेद पुष्पेषु न पाणिपल्लवम्॥१५॥
सलीलमासन्नलतान्तभूषणं
समासजन्त्या कुसुमावतंसकम्।
स्तनोपपीड़ं नुनुदे नितम्बिना
घनेन कश्चिज्जघनेन कान्तया॥१६॥
“तत्त्वज्ञानापदीर्ष्यादेर्निर्वेदः स्वावमानना। तत्र चिन्ताश्रुनिश्वासवैवर्ण्यांच्छ्वासदीनता” इति॥१४॥
प्रिय इति। वाचं यच्छति ददति समालपति इत्यर्थः दाणः शतृप्रत्ययः। “पाघ्रा” इत्यादिना यच्छादेशः। प्रिये निबद्धदृष्टिः अत एव उन्मुखीशिथिलःश्लथः आकुलः चलितश्च तादृशः उच्चयः नीविबन्धः यस्याः सा। “नारीकढ्यंशुकग्रन्थौनीविः स्यादुच्चयोऽप्यथ” इति मार्त्तण्डः। अपरा अन्या स्त्री अशुकं न समादधे न बबन्ध रागपारवश्यात् इति भावः। पुष्पेषु वृथा व्यर्थं आहितम् आरोपितम् अस्थाने प्रसारितम् इत्यर्थः। पाणिपल्लवं च न विवेद प्रियासक्तचित्तत्वात् इति भावः। एषा च प्रगल्भा नायिका। “पाणिपल्लवम्” इत्यत्रअन्यतरसाधकबाधकप्रमाणाभावात् उपमारूपकयोः सन्देहसङ्करः॥१५॥
सलीलमिति। आसक्ताः लतान्ताः पल्लवाः भूषणं यस्य तत् पल्लवैःसह ग्रथितम् इत्यर्थः। कुसुमावतंसकं पुष्पशेखरं कान्तदन्तम् इति भावः। सलीलंसमासजन्त्याशिरसि प्रतिदधत्या “दंशसञ्जस्वञ्जांशपि” इति नलोपः। कान्तया कश्चित्
कलत्रभारेण विलोलनीविना
गलद्दुकूलस्तनशालिनोरसा।
बलिव्यपायस्फुटरोमराजिना
निरायतत्वादुदरेण ताम्यता॥१७॥
विलम्बमानाकुलकेशपाशया
कयाचिदाविष्कृतबाहुमूलया।
तरुप्रसूनान्यपदिश्य सादरं
मनोऽधिनाथस्य मनः समाददे॥१८॥
॥युग्मम्॥
स्तनाभ्याम् उपपीड्यइति स्तनोपपीड़म्। “सप्तम्यां च”इत्यादिना णमुल्प्रत्ययः। नितम्बिना। प्रशंसायाम् इनिः। घनेन निविड़ेन जघनेन। “पश्चान्नितम्बः स्त्रीकट्याः क्लीवे तु जघनं पुर” इत्यमरः। नुनुदे नुन्नः अंशुकातिरेकात् इति भावः। एषा च प्रगल्भा एव॥१६॥
अथ युग्मेन आह। कलत्रेति। विलोलनीविना गात्रोन्नमनात् विश्लिष्टवस्त्रग्रन्थिना कलत्रभारेण श्रोणिभारेण। “कलत्रं श्रोणिभार्य्ययोः” इत्यमरः। तथा गलत् स्रंसमान दुकूलं याभ्यां स्तनाभ्यां शालते इति तथोक्तेन उरसा। तथा बलिव्यपायेन भङ्गिनिवृत्त्या स्फुटा रोमराजिः यस्मिन् तेन निरायतत्वात् अप्रसारितत्वात् ताम्यता तनूभवता उदरेण च उपलक्षितया। स्वभावोक्तिः अलङ्कार॥१७॥
विलम्बमानेति। विलम्बमानः विस्रंसमानः आकुलः बिलुलितश्च केशपाशः यस्याः तया आविष्कृतबाहुमूलया दर्शित-
व्यपोहितुं लोचनतो मुखानिलैः
अपरयन्तं किल पुष्पजं रजः।
पयोधरेणोरसि काचिदुन्मनाः
प्रियं जघानोन्नतपीवरस्तनो॥१९॥
इमान्यभूनीत्यपवर्जिते शनैः
यथाभिरामं कुसुमाग्रपल्लवे।
कक्षप्रदेशया कयाचित् कान्तयातरुप्रसूनानि अपदिश्य प्रसूनग्रहणं व्याजीकृत्य इत्यर्थः। “व्याजोपदेशोलक्ष्यश्च”इत्यमरः। सादरं साभिलाषं मनोऽधिनाथस्य प्रियस्य मनः समाददे आचकृषे। कर्मणि लिट्। सर्वाङ्गसौष्ठवदर्शनात्सद्योलग्नं प्रियमनः तत्र इति भावः। अत्र प्रियमनोहरणहेतुभिः कान्ताविशेषणपदार्थैःकाव्यलिङ्गम् उत्तिष्ठमानं स्वभावोक्त्या अङ्गाङ्गिभावेन सङ्कीर्य्यते॥१८॥
व्यपोहितुमिति। उन्नतौ च पीवरौच स्तनौ यस्याः सा उन्नतपीवरस्तनी। “स्वाङ्गाच्च” इत्यादिना ङीष्। काचित् लोचनतः स्वनेत्रात् पुष्पजं रजः परागं मुखानिलैःफूत्कारमारुतैः व्यपोहितुम् अपनेतुम् अपारयन्तं किल अशक्नुवन्तं किल इति अलीके। वस्तुतः तदास्यस्पर्शलोभात् अपारयन्तम इत्यर्थः। प्रियम् उन्मनाः उत्सुका सती अत एव पयोधरेण उरसि जघान। तत्कपटपरिज्ञानजन्यात् औत्सुक्यात् इति भावः। हननस्थानत्वात् उरसि इति सप्तमी। इयञ्च प्रगल्भा एव॥१९॥
इमानीति। यथाभिरामम्। वीप्सायाम् अव्ययीभावः। कुसुमानि अग्रपल्लवानि च कुसुमाग्रपल्लवं तस्मिन्। जातिः अप्राणिनाम् इत्येकवद्भाबात् नपुंसकत्वम्। इमानि अमूनि
विहाय निःसारतयेव भूरुहान्
पदं वनश्रीर्वनितासु सन्दधे॥२०॥
प्रवालभङ्गारुणपाणिपल्लवः
परागपाण्डूकृतपीवरस्तनः।
महीरुहः पुष्पसुगन्धिराददे
वपुर्गुणोच्छायमिवाङ्गनाजनः॥२१॥
इति इत्थंनिर्देशपूर्वकम् इत्यर्थः। इदमदसीसन्निकृष्टविप्रकृष्टार्थे। शनैःअपवर्जिते अपचिते सति वनश्रीः निःसारतया एव इति हेतूत्प्रेक्षा। भूरुहान् तरून् विहाय वनितासु पदंसन्दधे। अत्र वनितागतायाः पुष्पप्रसाधनसम्भाव्यमालायाः लक्ष्म्याः विषयभूतायाः निगरणेन विषयेण वनश्रियः वनितागतत्वोत्प्रेक्षया सम्बन्धेअसम्बन्धरूपा भेदे अभेदरूपा वा अतिशयोक्तिः अलङ्कारः। “विषयस्यानुपादानात् विषय्यप्युपबाध्यते। यत्र सातिशयोक्तिः स्यात् कविप्रौढोक्तिजीविता॥” इति लक्षणात्॥२०॥
प्रवालेति। प्रवालभङ्गेन पल्लवलवेन अरुणः पाणिपल्लवः यस्य तद्रसरञ्जनात् इत्यर्थः। परागेण पुष्परजसा पाण्डूकृतौपीवरो स्तनौ यस्य सः पुष्पैः सुगन्धिः सुरभिः अङ्गनाजनः महीरुहः वृक्षजातात् वपुर्गुणस्य स्वदेहगुणस्य उच्छ्रायः पाणिपल्लवारुण्यादेः यः उत्कर्षः तम् आददे लब्धवान् इव। इति उत्प्रेक्षा। वस्तुतस्तु स्वाभाविकः एव प्रवालभङ्गादिभिः अभिव्यज्यते इति भावः। उत्कृष्टः श्राय उच्छ्राये” इति घअन्तेन प्रादिसमासः। न तु उपसृष्टात् घञ्प्रत्ययः “श्रीणीभुवोऽनुपसर्ग” धात्इति प्रतिषेधे॥२१॥
वरोरुभिर्वारणहस्तपीवरैः
चिराय खिन्नान् नवपल्लवश्रियः।
समेऽपि यातुं चरणाननीश्वरान्
मदादिव प्रस्खलतः पदे पदे॥२२॥
विसारिकाञ्चीमणिरश्मिलब्धया
मनोहरोच्छ्रायनितम्बशोभया।
स्थितानि जित्वा नवसैकतद्युतिं
श्रमातिरिक्तैर्जघनानि गौरवैः॥२३॥
पञ्चभिःकुलकम् आह। वरोरुभिरित्यादिभिः। अनुमान् मानुषु यत् वर्त्मततः सकाशात् गुरुणा खेदेन मन्थरम् अलम् विनिर्यतीनां निर्गच्छन्तीनां सुराङ्गनानां सम्बन्धिभिः वारणहस्तपीवरैःकरिकरस्थूलैःवराश्चते ऊरवश्च इति तैःचिराय खिन्नान्। किं च नवपल्लवानां श्रीःइवश्रीः येषां तान् तद्वत् मृदून् इत्यर्थः। अत पत्र समे समस्थले अपि किं पुनः विषमे इति भावः। यातुं गन्तुम् अनीश्वरान् अशक्तान् अत एवमदात् इव पदे पदे। वीप्सायां द्विर्भावः। प्रस्खलतः चरणान्। मदात् इव इति उपमा॥२२॥
विसारीति। विसारिभिः काञ्चीमणिरश्मिभिः लब्धया तज्जनितया इत्यर्थः। मनोहरः उच्छ्रायः उत्सेधः येषां तेषां नितम्बानां शोभया करणेन नवसैकतानां द्युतिं शोभां जित्वा स्थितानि तत्तुल्यानि इत्यर्थः। अत एव उपमालङ्कारः। क्रमेणअतिरिक्तैःअतिशयितैःगौरवैःगुरुत्वैःउपलक्षितानि नितरां भारायमाणानि जघनानि च। उच्छ्रायः व्याख्यातः॥२३॥
समुच्छ्वसत्पङ्कजकोशकोमलैः
उपाहितश्रीण्युपनीवि नाभिभिः।
दधन्ति मध्येषु बलाविभङ्गिषु
स्तनातिभारादुदराणि नम्रताम्॥२४॥
समानकान्तीनि तुषारभूषणैः
सरोरूहैरस्फुटपत्रपङ्क्तिभिः।
चितानि घर्माम्बुकणैः समन्ततः
मुखान्यनुत्फुल्लविलोचनानि च॥२५॥
विनिर्य्यतीनां गुरुखेदमन्थरं।
समुच्छ्वसदिति। समुच्छ्वसत्पङ्कजकोशकोमलैःउल्लसत्कमलमुकुलैःइव मुग्धैःइति उपमा। नाभिभिः प्रतारिकाख्यैः। “अथ नाभिसंज्ञंवराङ्गं यस्य संज्ञा प्रतारिका” इति केशवः। पुंलिङ्गतायां तु कविः एव प्रमाणम्। उपनीवि नीविसमीपे उपाहित
श्रीणि जनितशोभानि तथा बलीबिभङ्गिषुऊर्मिमत्सु मध्यं षु जघनस्थलेषु स्तनातिभारात् नम्रतां दधन्ति बिभ्राणानि। “वा नपुंसकस्य” इति विकल्पे नुमागमः। उदराणि च॥२४॥
समानेति। किं च घर्माम्बुकणैःस्वेदोदकविन्दुभिः सम
न्वतः चितानि व्याप्तानि अनुत्फुल्लविलोचनानि अविकमदक्षीणि अत एव तुषारभूषणैः शीकरपरिवृत। “तुषारौहिमशीकरौ” इत्यमरः। अस्फुटपत्रपङ्क्तिभिःअविकचदलावलिभिः। “व्याकोशविकचस्फुटाः” इत्यमरः। सरोरुहैः समानकान्तीनि। इति उपमा।मुखानि च॥२५॥
सुराङ्गनानामनुसानु वर्त्मनः।
सविस्मयं रूपयतो नभश्चरान्
विवेश तत्पूर्वमिवेक्षणादरः॥२६॥
॥कुलकम्॥
अथ स्फुरन्मीनविधूतपङ्कजा
विपङ्कतीरस्खलितोर्मिसंहतिः।
पयोऽवगाढुंकलहंसनादिनी
समाजुहावेव बधूःसुरापगा॥२७॥
प्रशान्तघर्माभिभवः शनैर्विवान्
विनिर्य्यतीनामिति। सविस्मयं रूपयतः पूर्वोक्तचरणादीनि वर्णयतः नभश्चरान् गन्धर्वान् तत् पूर्वम् इव तत् इव प्रथम यथा इति उत्प्रेक्षा। ईक्षणादरः आलोकनकौतुकं विवेश। पूर्वार्द्धं व्याख्यातम्। अत्र कुलके स्वभावोक्तिः उत्प्रेक्षाङ्गम्॥२६॥
सम्प्रति सलिलकीड़ावर्णनम् आरभते। अथेति। अथ पुष्पांवचयानन्तरं स्फुरद्भिः चलद्भिः मीनैः विधृतपङ्कजा इति सदृशत्वात् मुखवीक्षणोक्तिः। विपङ्कं पङ्करहितं विहारयोग्यम् इति यावत्। तत्र तीरे स्खलिता विचलिता ऊर्मिसंहतिः यस्याः सा इति हस्तसंज्ञोक्तिः। कलहंसनादिनीकादम्बशब्दवती इति वाग्व्यापारोक्तिः। अत एव सुरापगा गङ्गा बधः अप्सरसः पयः अवगाढुम् अवगाहितुम्। गाहेः उदितत्वात् इड्विकल्पः। समाजुहाव इव आकारयामास इव इति उत्प्रेक्षा।“हूतिराकारणाह्वानम्” इत्यमरः। हूयतेः लिट्। “अभ्यस्तस्य च” इति सम्प्रसारणम्॥२७॥
विलासिनीभ्यः परिमृष्टपङ्कजः।
ददौ भुजालम्बमिवात्तशीकरः
तरङ्गमालान्तरगोचरोऽनिलः॥२८॥
गतैः सहावैः कलहंसविक्रमं
कलत्रभारैः पुलिनं नितम्बिभिः।
मुखैः सरोजानि च दीर्घलोचनैः
सुरस्त्रियः साम्यगुणात् निरासिरे॥२९॥
विभिन्नपर्य्यन्तगमीनपङ्क्तयः
पुरो विगाढ़ाः सखिभिर्मरुत्वतः।
प्रशान्तेति। प्रशान्तघर्माभिभवः प्रशान्तोष्णबाधः। “वा दान्तशान्त” इत्यादिना निपातनात् साधुः। शनैः विवान् मन्दं वहन्। वातेः शतृप्रत्ययः। परिमृष्टपङ्कजः पद्मगन्धो इत्यर्थः। आत्तशीकरः कुतः तरङ्गमालानाम् अन्तरे मध्ये गोचरः स्थानं यस्य सः अनिलः विलासिनीभ्यः भुजावलम्बनं ददौ इव इति उत्प्रेक्षा। विशिष्टवायुसम्पर्कात् तथा उच्छश्वसुः इत्यर्थः॥२८॥
गतैरिति। सुरस्त्रियः अप्सरसः सहावैःसविलासैः गतेःगतिभिः। नपुंसके भावे क्तः। कलहंसानां विक्रमं गतिं विलासविधुरम् इति शेषः। तथा नितम्बिभिः प्रशस्तनितम्बैः कलत्रभारैःजघनभारैःपुलिनं नितम्बभारशून्यम् इत्यर्थः। तथादीर्घलोचनैः मुखैः सरोजानि च लोचनानि इति शेषः। साम्यगुणात् समानगुणत्वात् निरासिरे निरस्तवत्यः। गुणवदगुणयोः कुतः साम्यम् इति भावः। अस्यतेः कर्त्तरि लिट्। “उपसर्गादस्यत्यह्योर्वा” इति विकल्पात् आत्मनेपदम्॥२९॥
कथञ्चिदापः सुरसुन्दरीजनैः
सभीतिभिस्तत्प्रथमं प्रपेदिरे॥३०॥
विगाढ़मात्रे रमणीभिरम्भसि
प्रयत्नसंवाहितपीवरोरुभिः।
विभिद्यमाना विससार सारसान्
उदस्य तीरेषु तरङ्गसंहतिः॥३१॥
शिलाघनैर्नाकसदामुरःस्थलैः
बिभिवेति। विभिन्नाः विच्युतसङ्घाताः पर्य्यन्तगाप्रान्तगताः मीनानां पङ्क्तयः यासां ताः। कुतः? मरुत्वतः सखिभिः इन्द्रस्य सचिवैः गन्धर्वैःपुरः पूर्वं विगाढ़ाः प्रविष्टाः तासां विश्वासार्थं गर्त्तग्राहादिपरीक्षार्थं च इति भावः। सभीतिभिः अप्रविष्टविषयत्वात् सभयैः। “विषादिभिः” इति पाठे अपि अयम् एव अर्थः लक्ष्यः। सुरसुन्दरीजनैः तत् एव अवगाहनं प्रथमं यथा तथा अत एव कथञ्चित् भयात् कृच्छ्रेण आपः प्रपेदिरे जगाहिरे॥३०॥
विगाढ़ेति। प्रयत्नेन संवाहिताः सञ्चारिताः पीवराः स्थूलाःकूरवः याभिः ताभिः रमणीभिः अम्भसि विगाढ़मात्रेप्रविष्टे एवसति। सुप्सुपाइति समासः। “मात्रं कार्त्स्य्रेऽवधारणे” इत्यमरः। विभिद्यमाना स्वयं विशीर्य्यमाणा। कर्मकत्तरि शानच्। तरङ्गसंहतिः तीरेषु सारसान् पक्षिविशेषान्। “सारसोमैथुनी कामीगोनर्दः पुष्कराह्वयः” इति यादवः। यद्वा सारसान् हंसान्। “चक्राङ्गः सारसो हंसः” इति शब्दार्णवे। उदम्य उत्सार्य्य विससार वितस्तार॥३१॥
बृहन्निवेशैश्च बधूपयोधरैः।
तटाभिनीतेन विभिन्नवीचिना
रुषेव भेजे कलुषत्वमम्भसा॥३२॥
विधूतकेशाः परिलोलितस्रजः
सुराङ्गनानां प्रविलुप्तचन्दनाः।
अतिप्रसङ्गाद् विहितागसो मुहुः
प्रकम्पमीयुः सभया इवोर्मयः॥३३॥
शिलेति। शिलावद्द्वनैःकठिनैःनाकसदां गन्धर्वाणाम् उरःस्थलैः बृहन्निवेशैः महासंस्थानैःअतिस्थूलैःइत्यर्थः बधूपयोधरैश्चतटम् अभितः नीतेन प्रापितेन अत एव विभिन्नवीचिना भग्नोर्मिणा अम्भसा कर्त्त्रारुषा इव। इति हेतूत्प्रेक्षा। कलुषत्वम् आविलत्वन् अन्तःक्षोभश्चध्वन्यते भेजे। कर्मणि लिट्। यथा कश्चित् मृदुस्वभावः केनचित् कठिनादिना भाङ्गभङ्गं ताडयित्वा निष्कासितः क्षुभ्यति तद्वत् इति भावः। कलुषत्वम् इत्यत्र वाच्यप्रतीयमानयोः अभेदाध्यवसायः। अन्यथा शुद्धेवाच्यस्य आविलत्वस्य रोषहेतुकत्वात् उत्प्रेक्षानुविघातनात् इति॥३२॥
विधूतेति। विधूताः विक्षिप्ताः केशाः यैः ते परिलोलिताः विलोलिताः स्रजः यैः ते प्रविलुप्तचन्दनाः प्रमृष्टाङ्गरागाः अतिप्रसङ्गात् अविच्छेदसङ्गात् सुराङ्गनानां विहितागसः कृतमण्डनखण्डनरूपापराधाः अत एव ऊर्मयः तरङ्गाः सभयाः इव स्त्रीभ्यः भीताः इव मुहुः प्रकम्पम् ईयुः। स्वाभाविकस्य कम्यस्य भयहेतुकत्वम् उत्प्रेक्ष्यते। यद्वा सुराङ्गनानां विधूत-
विपक्षचित्तोन्मथना नखव्रणाः
तिरोहिता विभ्रममण्डनेन ये।
हृतस्य शेषानिव कुङ्कुमस्य तान्
बिकत्थनीयान् दधुरन्यथा स्त्रियः॥३४॥
सरोजपत्रे नु विलीनषट्पदे
विलोलदृषेः स्विदमूविलोचने।
शिरोरुहाः स्वित् नतपक्ष्मसन्ततेः
द्विरेफवृन्दं नु निशब्दनिश्चलम्॥३५॥
केशा इत्यादियोजना। सापेक्षत्वेअपि गमकत्वात् समामः। स्त्रीसङ्ग्रहणसाहसम् अपराधः भयं तु राजादिभ्यः इति॥३३॥
विपक्षेति। विपक्षस्य सपत्नीजनस्य चित्तानाम् उन्मथनाः व्यथकाः इत्यर्थः। बहुलग्रहणात् कर्त्तरि ल्युट्। ये नखव्रणाः नखक्षतानि। “व्रणोऽस्त्रियाम्” इत्यमरः। विभ्रमस्य सौन्दर्य्यस्य मण्डनम्। तादर्थ्ये अपि अश्वघोसादिवत् षष्ठीसमासः। न तु चतुर्थीसमासः यूपदार्वादिवत् प्रकृतिविकाराभावात् इति तेन कुङ्कुमलेपादिना तिरोहिताः छन्नाः हृतस्य क्षालितस्य कुङ्कुमस्य व्यञ्जकत्वेन शेषान् इव अवशिष्टलेशान् इव स्थितान् इति उत्प्रेक्षा। विकत्थनीयान् भर्त्तृवाल्लभ्यस्य व्यञ्जकत्वेन श्लाघनीयान् तान् नखव्रणान् स्त्रियः अन्यथा दधुः प्रकाशं दधुः इत्यर्थः॥३४॥
अथ युग्मेन आह। सरोजेत्यादिना। अमू पुरोवर्त्तिनी विलीनषट्पदे संसक्तभृङ्गेसकनीनिकत्वम् अक्ष्णोः अर्थसिद्धम् इति उपमानं विशिष्यते। सरोजपत्रे नु। यद्वा विलोलदृष्टेः चञ्चलाक्ष्याःविलोचने स्वित्। नुस्विच्छब्दौ वितर्के। किं च
अगूढ़हासस्फुटदन्तकेसरं
मुखं स्विदेतद् विकसत् नु पङ्कजम्।
इति प्रलीनां नलिनीवने सखीं
विदाम्बभूवुः सुचिरेण योषितः॥३६॥
॥युग्मम्॥
प्रियेण संग्रथ्य विपक्षसन्निधौ
उपाहितां वक्षसि पीवरस्तने।
स्रजं न काचिद् विजहौजलाविलां
वसन्ति हि प्रेम्णि गुणा न वस्तुनि॥३७॥
नतपक्ष्मसन्ततेः चञ्चलाक्ष्याः शिरोरुहाः स्वित् निःशब्दं नीरवं च तत् निश्चलं च तत् द्विरेफवृन्दं नु॥३५॥
अगूढेति। किं च अगूढ़हासं व्यक्तस्मितं तेन स्फुटाः दन्ताः केसराः इव दन्तकेसराः यस्य तत् मुखं स्वित्? यद्वा विकसत्पङ्कजं न? इति इत्थंसंशयेन इति शेषः। नलिनीवने प्रलीनां निगूढां सखीं योषितः सुचिरेण अतिविलम्ब्यविदाम्बभूवुः विविदुः निश्चिक्युः इत्यर्थः। “उषविदजागृभ्योऽन्यतरस्याम्” इति विकल्पात् आम्प्रत्ययः। अत्र युग्मे निश्चयान्तसन्देहालङ्कारः॥३६॥
प्रियेणेति। काचित् प्रियेण सङ्ग्रथ्य स्वयम् एव रचयित्वा विपक्षसन्निधौ सपत्नीजनसमक्षं पौवरस्तने वक्षसि उपाहितां स्रजं मालां जलाविलां मृदिताम् अपि इत्यर्थः। तां न विजहौन तत्याज। न च निर्गुणायां तत्र का प्रीतिः? इति वाच्यम् इति अर्थान्तरन्यासेन आह। गुणाःप्रेम्णिवसन्ति वस्तुनि न वसन्ति हि। यत् प्रेमास्पदं तत् एव गुणवत् अन्यत् तु गुणवत्
असंशयं न्यस्तमुपान्तरक्ततां
यदेव रोद्धुं रमणीभिरञ्जनम्।
हृतेऽपि तस्मिन् सलिलेन शुक्लतां
निरास रागो नयनेषु न श्रियम्॥३८॥
अपि निर्गुणम् एव। प्रेम तु न वस्तुपरीक्षाम् अपेक्षते इति भावः॥३७॥
असंशयमिति। स्त्रीणां नेत्रशोभार्थम् अञ्जनधारणम् अम्बुविहारोपगमात् रक्तवर्णत्वं च अक्ष्णां ततः शुक्लत्वतिरोधानं च निश्चितम् इति उत्प्रेक्ष्यते। रमणीभिः यत् अञ्जनं न्यस्तं तत् इति शेषः। यत्तदोः नित्यसम्बन्धात्। तत् अञ्जनम् उपान्तयोः रक्ततां रोद्धुं प्रतिबद्धुम् एव न्यस्तं न तु शोभार्थम् इत्यर्थः। अन्यथा रागाभिव्याप्त्या शुक्लत्वतिरोधानं स्यात् इत्यर्थः। अमं शयम् इति उत्प्रेक्षाव्यञ्जकं संशयस्य अपि अभावः न अत्र संशयः अस्ति इत्यर्थः। अर्थाभावे अव्ययीभावः। कुतः एतत् इति चेत्? यतः तस्मिन् अञ्जने सलिलेन हृते क्षालिते सति अपि रागः पूर्वोक्तः एव उपान्तरक्तता किन्तु प्रतिबन्धाभावात् अभितः व्याप्य इति आशयः। नयनेषु शुक्लतां निरास निरस्तवान्। अस्यतेःलिट्। श्रियं शोभां तु न निरास अतः शुक्लत्वविरोधिरागनिरोधार्थम् एव इदम् अञ्जनं स्यात् न तु शोभार्थं तस्याः तदभावे अपि सद्भावात् इत्यर्थः। अञ्जनापगमे अपि तन्नयनानां रागः एव अलङ्कारः अभूत् इति भावः। अत्र अञ्जनन्यासम् अनूद्य तस्य शोभार्थत्वनिषेधेन रागरोधार्थत्वोत्प्रेक्षणम् उदितम्। उत्तरार्द्धे तस्य एव समर्थनात्। एवम् उपान्तरक्ततां रोद्धुंयत् अञ्जनं न्यस्तम् इति एकान्वये विध्यनुवादविरोधः स्यात्॥३८॥
द्युतिं वहन्तो वनितावतंसकाः
हृताः प्रलोभादिव वेगिभिर्जलैः।
उपप्लुतास्तत्क्षणशोचनीयतां
च्युताधिकाराः सचिवा इवाययुः॥३९॥
विपत्रलेखा निरलक्तकाधराः
निरञ्जनाक्षीरपि बिभ्रतीःश्रियम्।
निरीक्ष्य रामा बुबुधे नभश्चरैः
अलङ्कृतं तद्वपुषैव मण्डनम्॥४०॥
द्युतिमिति। द्युतिं शोभां तेजश्च वहन्तः वेगिभिः जविभिः जलैः जड़ैः अज्ञैश्च डलयोः अभेदात्। “जलं गोकवले नीरंह्रीवेरे च जड़ेऽन्यवत्” इति विश्वः। प्रलोभात् मोहात्। हृताः गृहीताः उपप्लुताः मृदिताः। यद्वाकर्त्तरि क्तः। प्लवमानाः इत्यर्थः। अन्यत्र धनग्रहणबन्धनादिना पीड़िताः वनितावतंसकाः च्युताधिकाराः भ्रष्टाधिकाराः सचिवाः इव तत्क्षणं शोचनीयताम् आययुः प्रापुः॥३९॥
विपत्रेति। विगताः पत्रलेखाः तिलकविशेषाः यासां ताः विपत्रलेखाः निरलक्तकाः क्षालितरागाः अधराः यासां ताः निरञ्जनानि अक्षीणि यासां ताः निरञ्जनाक्षीःअपि। बहुव्रीहौ सक्थ्यक्ष्णोः स्वाङ्गात् षच् “षिद्गौरादिभ्यश्च” इति ङीष्। तथापि श्रियं बिभ्रतीःशोभाकारणाभावे अपि शोभमानाः इति। विभावनालङ्कारः। रामाः निरीक्ष्यनभश्चरैः गन्धर्वैः तासां वपुषा एव मण्डनम् अलङ्कृतं न तु मण्डनेन तद्वपुः इति
तथा न पूर्वं कृतभूषणादरः
प्रियानुरागेण विलासिनीजनः।
यथा जलार्द्रोनखमण्डनश्रिया
ददाह दृष्टीश्च विपक्षयोषिताम्॥४१॥
शुभाननाः साम्बुरुहेषु भीरवः
विलोलहाराश्चलफेनपङ्क्तिषु।
अक्षरार्थः। इति बुबुधे ज्ञातम्। कर्मणि लिट्। स्वभावरमणीयानां किम् अलङ्करणैः? इति भावः॥४०॥
तथेति। विलासिनीजनः पूर्वं जलविहारात् प्राक् प्रियानुरागेण कृतः भूषणेषु आदरःआसक्तिः येन सः अनुरक्तप्रियत्वात सम्यक् प्रसाधितः सन् अपि इत्यर्थः। प्रियस्य अनुरागेण च विपक्षयोषितां सपत्नीनां दृष्टीःचक्षूंषि तथा न ददाह न दुःखीचकार यथा जलार्द्रः सन् नखशब्देन नखक्षतानि लक्ष्यन्ते तानि एव मण्डनंतस्य श्रिया सत्कृतशोभया इत्यर्थः विपक्षयोषितां सपत्नीनां दृष्टीःचक्षूंषि यथा ददाह तापयामासमण्डनान्तरात् अपि नखमण्डनानुरागात् अपि च तदनुभावः एव सपत्नीनां दुःखहेतुः इति भावः। जलार्द्रः ददाह इति विरुद्धकार्य्योत्पत्तिरूपः विषमालङ्कारः। विरुद्धकार्य्योत्पत्तिश्चयथार्थस्वभावः भवेत्। “विरूपघटना वा स्याद् विषमालङ्कृतिस्त्रिधा” इति लक्षणात्॥४१॥
शुभेति। शुभाननाः विलोलहाराः नितान्तगौर्य्यः अरुणाः “गौरोऽरुणे सिते पीते” इति वैजयन्ती। भीरवः ताः स्त्रियः साम्बुरुहेषु चलाः फेनपङ्क्तयः येषु तेषु हृतानि कुङ्कुमानि यैः तेषु कुङ्कुमसङ्गमारुणेषु इत्यर्थः। ऊर्मिषु विषये अलम्
नितान्तगौर्य्यो हृतकुङ्कुमेष्वलं
न लेभिरे ताः परभागमूर्मिषु॥४२॥
ह्रदाम्भसि व्यस्तबधूकराहते
रवं मृदङ्गध्वनिधीरमुज्झति।
मुहुः स्तनैस्तालसमं समाददे
मनोरमं नृत्यमिव प्रवेपितम्॥४३॥
श्रिया हसद्भिःकमलानि सस्मितैः
अलङ्कृताम्बुः प्रतिमागतैर्मुखैः।
अत्यर्थ परभागं गुणोत्कर्षं लेभिरे। “परभागो गुणोत्कर्षं” इति यादवः। तासाम् ऊर्मीणां च अरुणत्वादिगुणसाम्यात् न कश्चित् विशेषः लक्ष्यते इत्यर्थः। अत एव सामान्यालङ्कारः। “सामान्यं गुणसाम्यं न यत्र वस्त्वन्तरैकता” इति लक्षणात्। शुभाननत्वसाम्बुरुहत्वाद्युभयविशेषणानां क्रमेण उभयस्मिन् समन्वयात् यथासंख्यालङ्कारश्च। “यथासंख्यं क्रमेणैव क्रमिकाणां समन्वयात्” इति काव्यप्रकाशे लक्षणात्। अनयोः अङ्गाङ्गिभावेन सङ्करः॥४२॥
ह्रदेति। व्यस्ताभ्यां विपर्य्यासिताभ्यां बधूकराभ्याम् आहते एकेन करेण उत्सार्य्य अन्येन ताड़िते इत्यर्थः। ह्रदाम्भसि मृदङ्गध्वनिवत् धीरं गम्भीरं रवम् उज्झति सति तथा ध्वनति सति इत्यर्थः। मुहुः स्तनैः तालः गीतवाद्यनृत्यानां कालपरिच्छेदः। “तालः कालक्रियामानम्” इत्यमरः।तस्य समम् अनुरूपं मनोरमं नृत्यम् इव प्रवेपितं प्रकम्पितम्।भावे क्तः। समाददे स्वीकृतम्। उपमालङ्कारः॥४३॥
श्रियेति। श्रिया शोभया कमलानि हसद्भिः कमलसदृशैः
कृतानुकूल्या सुरराजयोषितां
प्रसादसाफल्यमवाप जाह्नवी॥४४॥
परिस्फुरन्मीनविघट्टितोरवः
सुराङ्गनास्त्रासविलोलदृष्टयः।
उपाययुः कम्पितपाणिपल्लवाः
सखीजनस्यापि विलोकनीयताम्॥४५॥
भयादिवाश्लिष्य झषाहतेऽम्भसि
इत्यर्थः। “हसतोर्प्यत्यसूयति” इति दण्डिना सदृशपर्य्यायपरा उक्ताः। सस्मितैःप्रतिमागतेः प्रतिविम्बगतैः इत्यर्थः। “प्रतिमानं प्रतिविम्बंप्रतिमा” इत्यमरः। मुखैःअलङ्कृतानि अम्बूनि यस्याः सा। किं च सुरराजयोषितां कृतम् आनुकूल्यं विहारा द्युपकारः यया सा इत्थं योषिद्भिःउपकृता स्वयं च तासाम् उपचिकीर्षुः जाह्नवी गङ्गा प्रसादस्य स्वच्छत्वस्य साफल्यम् अर्थगौरववत् षष्ठीसमासनिर्वाहः। अवाप अप्रसन्नाम्भसि विहारविम्बग्रहणयोः असम्भवात् इत्यर्थः। स्वच्छा एव हि परैः उपक्रियन्तेस्वयं च उपकुर्वते तेषाम् इति भावः। “कृतानकारा” इति पाठे अनुकारः अनुकूलकरणम् उपकारः इत्यत्र व्याख्येयम्। अत्र जाह्नवीविशेषणपदार्थस्य साफल्यं प्रति हेतुत्वात् काव्यलिङ्गम् अलङ्कारः॥४४॥
परीति। परितः स्फुरद्भिः विवर्त्तमानैःमीनैः विघट्टिताः ऊरवः यासां ताः अत एव त्रासविलोलदृष्टयः भयविकसन्नेत्राः कम्पितपाणिपल्लवाश्च सुराङ्गनाः सखीजनस्य अपि विलोकनीयताम् उपाययुः। किमुत प्रियजनस्य इति भावः। स्वभावोक्तिः अलङ्कारः॥४५॥
प्रियं मुदानन्दयति स्म मानिनी।
अकृत्रिमप्रेमरसाहितैर्मनः
हरन्ति रामाः कृतकैरपीहितैः॥४६॥
तिरोहितान्तानि नितान्तमाकुलैः
अपां विगाहादलकैः प्रसारिभिः।
ययुर्बधूनां वदनानि तुल्यतां
द्विरेफवृन्दान्तरितैः सरोरुहैः॥४७॥
करौधुनाना नवपल्लवाकृती
भयादिति। मानिनीदुर्लभस्वयंग्रहणा इति भावः। अम्भसि जले झषेण मत्स्येन आहते सति। “पृथुलोमा झषो मत्स्य,” इत्यमरः। भयात् इव वस्तुतस्तु न तथा इति भावः। किन्तु मुदा औत्सुक्येन एवआश्लिष्य प्रियम् आनन्दयति स्म। तथाहि। रामाः स्त्रियः अकृत्रिमः अनारोपितः यः प्रेम एवरसःतेन आहितैः जनितैः कृतकैः कृत्रिमैः अपि इत्यर्थः ईहितैःचेष्टितैःमनः हरन्ति। आरोपितम् अपि भयं प्रेममूलत्वात् मनोहरं बभूव इत्यर्थः। अत्र अल्पानुभावेन भयेन सहजरागनिगूहनात् मीलनालङ्कारः। “मीलनं वस्तुना यत्र वस्त्वन्तरनिगूहनम्” इति लक्षणान्तरसम्भवात् अर्थान्तरन्यासेन संसृज्यते॥४६॥
तिरोहितेति। अपां विगाहात् नितान्तम् आकुलैः विकीर्णैः प्रसारिभिः आयतैः अलकैःकेशेः तिरोहितान्तानि छन्नप्रान्तानि बधूनां वदनानि द्विरेफहन्दैः अन्तरितानि छन्नानि मरोरुहाणितैः सरोरुहैः तुल्यतां ययुः। इति उपमालङ्कारः॥४७॥
पयस्यगाधे किल जातसम्भ्रमा।
सखीषु निर्वाच्यमधार्ष्ट्यदूषितं
प्रियाङ्गसंश्लेषमवाप मानिनी॥४८॥
प्रियैः सलीलं करवारिवारितः
प्रवृद्धनिःश्वासविकम्पितस्तनः।
सविभ्रमाधूतकराग्रपल्लवः
यथार्थतामाप विलासिनीजनः॥४९॥
कराविति। मानिनी पयसि अगाधे सति किल इतिअलोके मज्जनभयात् इव इत्यर्थः। जातसम्भ्रमा उत्पन्नभयाअत एव नवपल्लवाकृती करौधुनाना कम्पयन्ती। धुनोतेक्र्यादिकात् कर्त्तरि लटः शानच्। सखीषु विषये निर्वाच्यम अवाच्यम् अनिन्द्यम् इत्यर्थः।धार्ष्ट्यदूषितश्च न भवति इति अधार्ष्ट्यदूषितःतं वस्तुतः रागमूलम् अपि भयमूलत्वारोपात् इति भावः प्रियाङ्गसंश्लेषम् अवाप। अत्र अपि तुल्याङ्गेन भयेन आगन्तुकेन सहजानुरागनिगूहनात् मीलनालङ्कारः। तदुक्तुं काव्यप्रकाशे—“समानलक्षणं वस्तु वस्तुना यन्निगूह्यते। निजे नागन्तुना वापि तन्मीलनमुदाहृतम्॥५८॥
प्रियैरिति। प्रियैः कामिभिः सलीलं करवारिभिः अञ्जलिजलैःवारितः अवरुद्धः सिक्तः इत्यर्थः। प्रवृद्धैः सन्ततैःनिःश्वासं विकम्पितौ कम्पितौ स्तनौ यस्य सः सबिभ्रमं सविलासम् आधतानि कराग्रपल्लवानि पानिपल्लवानियेन सः। विलमन शीला विलासिनी। “वौकषलसकत्थस्रम्भः” इति घिनुण् प्रत्ययः। सा एव जनः। जातौ एकवचनम्। यथार्थताम् आप उक्तरीत्या अनेकविलासवत्तया यथार्थनामकत्वम् अवाप
उदस्य धैर्य्यंदयितेन सादरं
प्रसादितायाः करवारिवारितम्।
मुखं निमीलन्नयनं नतभ्रुवः
श्रियं सपत्नीवदनादिवाददे॥५०॥
विहस्य पाणौ विधृते धृताम्भसि
प्रियेण बध्वा मदनार्द्रचेतसः।
सखीव काञ्ची पयसा घनीकृता
बभार वीतोच्चयबन्धमंशुकम्॥५१॥
इत्यर्थः। क्वचित् गम्यमानार्थस्य नाम्नः न प्रयोगः। यथा माघे—“चिराय याथार्थ्यमलम्भि दिग्गजैः” इति। क्वचित् प्रयुज्यते च। यथा रघुवंशे—“परन्तपो नाम यथार्थनामा” इति। नैषधेऽपि—“स जयत्यरिसार्थसार्थकीकृतनामा किल भीमभूपतिः” इति। स्वभावोक्तिः अलङ्कारः॥४९॥
उदस्येति। दयितेन धैर्य्यंकाठिन्यम् उदस्य अपनीय अनुनीय इत्यर्थः। सादरं यथा तथा प्रसादितायाः सौमनस्यं गमितायाः नतभ्रुवः स्त्रियः सम्बन्धि करवारिभिः वारितम् अवरुद्धम् अत एव निमीलतीनयने यस्य तन्मुखं सपत्नीवदनात् इव श्रियम् आददेजग्राह। तदानीं तद्वदनस्य निःश्रीकत्वात् तदीयश्रीग्रहणम् उत्प्रेक्ष्यते॥५०॥
विहस्येति। धृताम्भसि प्रियसेचनार्थंगृहीतजले पाणौअञ्जलौ इत्यर्थः। प्रियेण विहस्य विधृते अवलम्बिते सति अत एव मदनार्द्रचेतसः मदनपरवशायाः इत्यर्थः। बध्वाः सम्बन्धि वीतोच्चयबन्धं मुक्तनीविग्रन्थि स्रंसमानम् इत्यर्थः। अंशुकं पयसा
निरञ्जने साचिविलोकितं दृशौ
अयावकं वेपथुरोष्ठपल्लवम्।
नतभ्रुवो मण्डयति स्म विग्रहे
बलिक्रिया चातिलकं तदास्पदम् ॥५२॥
निमीलदाकेकरलोलचक्षुषां
प्रियोपकण्ठं कृतगात्रवेपथुः।
निमज्जतीनां श्वसितोद्धतस्तनः
श्रमो नु तासां मदनो नु पप्रथे॥५३॥
घनीकृता काञ्ची सखीइव बभार जग्राह। स्त्रीणां किल स्त्रीषु एव आयत्तं लज्जारक्षणम् इति भावः॥५१॥
निरञ्जने इति। नतभ्रुवः अङ्गनायाः विग्रहे वपुषि निरञ्जने निर्धौतकज्जले दृशौ विलोचने कर्म साचिविलोकितं तिर्य्यक् ईक्षणं कर्त्तृ मण्डयति स्म। “तिर्य्यगर्थे साचि तिरः” इत्यमरः। अयावकं क्षालितलाक्षारागम् ओष्ठपल्लवं वेपथुः कम्पः मण्डयति स्म। “ट्वितोऽथुच्” इति अथुच्प्रत्ययः। अतिलकं तिलकरहितं तदास्पदं तिलकस्थानं ललाटम्। “आस्पद प्रतिष्ठायाम्” इति निपातः। बलिक्रिया रेखाबन्धश्च मण्डयति स्म। तदा निरलङ्कारस्य अङ्गनाशरीरस्य तच्छरीरविकारैःएव अलङ्कारः समजनि इत्यर्थः॥५२॥
निमीलदिति। प्रियोपकण्ठं प्रियसमीपे। अत्यन्तसंयोगे द्वितीया। निमज्जतीनां विगाहमानानाम् अत एव निमीलन्ति निमिषन्ति आकेकराणि आकेकरवन्ति लोलानि चक्षूंषि यासां तासाम्। आकेकरलक्षणं तु नृत्यविलासे। “दृष्टिराकेकरा
प्रियेण सिक्ता चरमं विपक्षतः
चुकोप काचित् न तुतोष सान्त्वनैः।
जनस्य रूढ़प्रणयस्य चेतसः
किमप्यमर्षोऽनुनये भृशायते॥५४॥
इत्थं विहृत्य वनिताभिरुदस्यमानं
पीनस्तनोरुजघनस्थलशालिनीभिः।
उत्सर्पितोर्मिचयलङ्घिततीरदेशम्
औत्सुक्यनुन्नमिव वारि पुरः प्रतस्थे॥५५॥
किञ्चित् स्फुटापाङ्गे प्रसारिता। मीलितार्द्धपुटा लोके ताराव्यावर्त्तनोत्तरा” इति। तासां स्त्रीणां कृतः गात्राणां वेपथुः कम्पः येन सः श्वसितैः निःश्वासैः उद्धतौ उत्पतितौ स्तनौ येन सः श्रमः खेदः नु मदनः नु पप्रथे प्रादुर्बभूव? निमज्जनप्रियसन्निधानरूपोभयकारणसम्भवात् नेत्रनिमीलनगात्रकम्पनिःश्वासधारणाच्च सन्देहः सः एव अलङ्कारः॥५३॥
प्रियेणेति। काचित् प्रियेण विपक्षतः सपत्नीतः चरमं पश्चात् सिक्ता सतीचुकोप। “पृष्ठन्तु चरमं तनोः” इत्यमरः। सान्त्वनैःअनुनयैःन तुतोष। तथाहि। रूप्रणयस्य गाढ़प्रेम्णः जनस्य सम्बन्धी चेतसः मनसः अमर्षः प्रकोपः किम् अपि कुतः अपि हेतोः अनुनये सति भृशायतेगाढ़ः भवति। “भृशादिभ्यो भुव्यच्वेर्लोपश्च हलः” इति क्यङ्। अन्यत्र शान्तिहेतुः अनुनयः अत्र प्रकोपाय एव भवति तत्र कारणं तु न ज्ञायते इत्यर्थः॥५४॥
इत्थमिति। पीनैःस्तनैः ऊरुभिः जघनस्थलैश्चशालन्ते इति तथोक्ताभिः इति सलिलनोदनसामर्थ्योक्तिः। स्थलस्य
तीरान्तराणि मिथुनानि रथाङ्गनाम्नां
नीत्वा विलोलितसरोजवनश्रियस्ताः।
संरेजिरे सुरसरिज्जलधौतहाराः
तारावितानतरला इव यामवत्यः॥५६॥
संक्रान्तचन्दनरसाहितवर्णभेदं
विच्छिन्नभूषणमणिप्रकरांशुचित्रम्।
साक्षात् अप्रास्यङ्गत्वात् न द्वन्द्वैकवद्भावः। वनिताभिः इत्थंविहृत्य उदस्यमानं नुद्यमानम् उत्सर्पितैः उपरिभावं प्रापितैःऊर्मिचयैः लङ्घितः तीरदेशः येन तत् वारि औत्सुक्यं विहारासहिष्णुत्वं तेन नुन्नं प्रेरितम् इव इति उत्प्रेक्षा। “नुदविद” इत्यादिना निष्ठानत्वम्। पुरः अग्रे प्रतस्थे स्वजनवत् इति भावः॥५५॥
तीरान्तराणीति। रथाङ्गनाम्नां मिथुनानि चक्रवाक द्वन्द्वानि अन्यानि तीराणि तीरान्तराणि नियोज्य इत्यर्थः अविहितलक्षणः तत्पुरुषः मयूरव्यंसकादिषु द्रष्टव्यः। विलोलिताः विलुलिताः सरोजवनश्रियः याभिः ताः सुरसरिज्जलैःधौतहाराः क्षालितमुक्तावलयः ताः स्त्रियः तारावितानैः उडुगणैः तरलाः भासुराः। “तरलो भासुरे हीरेचञ्चलेऽपि” इति वैजयन्ती। यामवत्यः रात्रयः इव संरेजिरे शुशुभिरे॥५६॥
संक्रान्तेति। संक्रान्तैः चन्दनरसैःमलयजद्रवैः आहितः वर्णभेदः रूपान्तरं यस्य तत् विच्छिन्नानि त्रुटितानि यानि विभूषणानि तेषां ये मणिप्रकराः मणिगणाः तेषाम् अंशुभि चित्रं नानावर्णं बद्धोर्मितरलं तरङ्गितं नाकवनिताभिः परिभुक्तमुक्तं पूर्वं परिभुक्तं पश्चात् मुक्तम्। “पूर्वकाल” इत्यादिना
बद्धोर्मि नाकवनितापरिभुक्तमुक्तं
सिन्धोर्बभार सलिलं शयनीयलक्ष्मीम्॥५७॥
इति श्रीमहामहोपाध्यायभारविकृतौकिराता-
र्जुनीये महाकाव्ये सुराङ्गनाविहारः
नामाष्टमः सर्गः॥८॥
नवमः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730372676Screenshot2024-10-31163411.png"/>
वीक्ष्य रन्तुमनसः सुरनारीः
आत्तचित्रपरिधानविभूषाः।
तत्प्रियार्थमिव यातुमथास्तं
भानुमानुपपयोधि ललम्बे॥१॥
तत्पुरुषः। सिन्धोः गङ्गायाः सलिलं शेरते अत्रइति शयनीयं तल्पम्। बहुलग्रहणात् साधुः। तस्य लक्ष्मीं बभार। अत एव निदर्शनालङ्कारः। लक्षणं तु उक्तम्॥५७॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायाम्
अष्टमः सर्गः॥८॥
<MISSING_FIG href="../books_images/U-IMG-1730372123Screenshot2024-10-28005311.png"/>
वीक्ष्येति। अथ जलक्रीड़ानन्तरं भानुमान् अंशुमान् सूर्य्यः आत्तचित्रपरिधानविभूषाः स्वीकृतविविधवस्त्राभरणाः सुरतसन्नाहं वहन्तीः इत्यर्थः। अत एव रन्तुमनसः। “समानकर्तृ-
मध्यमोपलनिभे लसदंशौ
एकतश्च्युतिमुपेयुषि भानौ।
द्यौरुवाह परिवृत्तिविलोलां
हारयष्टिमिव वासरलक्ष्मीम्॥२॥
अंशुपाणिभिरतीव पिपासुः
पद्मजं मधु भृशं रसयित्वा।
केषु तुमुन्”। “लुम्पेदवश्यं मः कृत्ये तुं काममनसोरपि” इति मकारलोपः। सुरनारीः वीक्ष्यतासां प्रियार्थं तत्प्रियार्थम् इव अवसरदानरूपं प्रियं कर्त्तुम् इव इत्यर्थः। फलोत्प्रेक्षा इयम्। अस्तम् अदर्शनम् मकारान्तम् अव्ययम् एतत्। यातुं प्राप्तुम् उपपयोधि पयोधिसमीपे ललम्बे सस्रंसे। अस्मिन् सर्गे स्वागतावृत्तम् “स्वागतेति रनभाद् गुरुयुग्मम्” इति लक्षणत्॥१॥
मध्येति। मध्यमोपलनिभे नायकमणिसदृशे। “निभसङ्गाशनीकाशप्रतिरूपोपमादयः” इत्यमरः। “शर्करायां दृषत्पुत्रेपुंस्यश्मन्युपलोमणौ” इति वैजयन्ती। लसदंशौ प्रसरदश्मौ भानौएकतः एकस्मिन् भागे च्युतिं स्रस्तताम् उपेयुषि प्राप्ते सति द्यौः परिवृत्त्या मध्याह्नातिक्रमेण विलोलां गत्वरीम् अन्यत्र गात्रस्य तिर्य्यक् आवृत्त्या मुहुः चलन्तीं वासरलक्ष्मीं हारयष्टिं मुक्तावलीम् इव उवाहवहति स्म॥२॥
अंशुपाणिभिरिति। पतङ्गःसूर्य्यः। “पतङ्गौपक्षिसूर्य्यौच” इत्यमरः। अतीब निर्भरम्। “अत्यतीव च निर्भरे” इत्यमरः। पातुम् इच्छुः पिपासुः तृषितः सन्। पिबतेः सन्नन्तात् उप्रत्ययः। अंशवः एव पाणयः तैः पद्मेषु जातं पद्मजं मधु मध्येव।
क्षीवतामिव गतः क्षितिमेष्यन्
लोहितं वपुरुवाह पतङ्गः॥३॥
गम्यतामुपगते नयनानां
लोहितायति सहस्रमरीचौ।
आससाद विरहय्य धरित्रीं
चक्रवाकहृदयान्यभितापः॥४॥
मुक्तमूललघुरुज्झितपूर्वः
मध्विति श्लिष्टंरूपकम्। मकरन्दमयम् इत्यर्थः। “मधु मदः पुष्परसे” इत्यमरः। भृशम् अत्यन्तं रसयित्वा आस्वाद्य क्षीवतां मत्तत्वंगते इव इति उत्प्रेक्षा। “मत्ते शौण्डोत्कटक्षीवाः” इत्यमरः। क्षितिम् एष्यन् गमिष्यन् लोहितं रक्तं वपुः उवाह। यथा मत्तः क्षितौ लुण्ठति रज्यते च तद्वत् इति भावः। सूर्य्यस्य क्षितिविलयनम् अस्तमयः इति आगमः। अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वात् अङ्गाङ्गिभावेन सङ्करः॥३॥
गम्यतामिति। सहस्रमरीचौसूर्य्येलोहितः भवति इति लोहितायति। “लोहितादिडाज्भ्यः क्यष्” इति क्यष्। “वा क्यष्” इति परस्मैपदे शतृप्रत्ययः। अत एव नयनानां गम्यनाम् उपगते दर्शनीयतां प्राप्ते गति अभितापः धरित्रींविरहय्य विहाय। “ल्यपि लघुपूर्वात्” इति अयादेशः। चक्रवाकहृदयानि आससाद प्राप। अत्र धरित्र्याः यादृशः तीव्रार्ककरकृतसन्तापः तादृक्चक्रवाकहृदयेषु विरहसन्तापः सञ्जातः इति परमार्थः। परन्तु तदुपक्रमानन्तरम् एतस्य आविर्भावात् सः एव अत्र संक्रान्तः इति अभेदाध्यवसायेन उपदेशः। अतएव भेदे अभेदरूपातिशयोक्तिः अलङ्कारः॥४॥
मध्यमोपलनिभे लसदंशौ
एकतश्च्युतिमुपेयुषि भानौ।
द्यौरुवाह परिवृत्तिविलोलां
हारयष्टिमिव वासरलक्ष्मीम्॥२॥
अंशुपाणिभिरतीव पिपासुः
पद्मजं मधु भृशं रसयित्वा।
केषु तुमुन्”। “लुम्पेदवश्यं सः कृत्ये तुं काममनसोरपि” इति मकारलोपः। सुरनारीः वीक्ष्यतासां प्रियार्थं तत्प्रियार्थम् इव अवसरदानरूपं प्रियं कर्त्तुम् इव इत्यर्थः। फलोत्प्रेक्षा इयम्। अस्तम् अदर्शनम् मकारान्तम् अव्ययम् एतत्। यातुं प्राप्तुम् उपपयोधि पयोधिसमीपे ललम्बे सस्रंसे। अस्मिन् सर्गे स्वागतावृत्तम् “स्वागतेति रनभाद् गुरुयुग्मम्” इति लक्षणत्॥१॥
मध्येति। मध्यमोपलनिभे नायकमणिसदृशे। “निभसङ्गाशनीकाशप्रतिरूपोपमादयः” इत्यमरः। “शर्करायां दृषत्पुत्रेपुंस्यश्मन्युपलोमणौ” इति वैजयन्ती। लसदंशौ प्रसरदश्मौ भानौएकतः एकस्मिन् भागे च्युतिं स्रस्तताम् उपेयुषि प्राप्ते सति द्यौः परिवृत्त्या मध्याह्नातिक्रमेण विलोलां गत्वरीम् अन्यत्र गात्रस्य तिर्य्यक् आवृत्त्या मुहुः चलन्तीं वासरलक्ष्मीं हारयष्टिं मुक्तावलीम् इव उवाहवहति स्म॥२॥
अंशुपाणिभिरिति। पतङ्गःसूर्य्यः। “पतङ्गौपक्षिसूर्य्यौच” इत्यमरः। अतीब निर्भरम्। “अत्यतीव च निर्भरे” इत्यमरः। पातुम् इच्छुः पिपासुः तृषितः सन्। पिबतेः सन्नन्तात् उप्रत्ययः। अंशवः एव पाणयः तैः पद्मेषु जातं पद्मजं मधु मध्येव।
क्षीवतामिव गतः क्षितिमेष्यन्
लोहितं वपुरुवाह पतङ्गः॥३॥
गम्यतामुपगते नयनानां
लोहितायति सहस्रमरीचौ।
आससाद विरहय्य धरित्रीं
चक्रवाकहृदयान्यभितापः॥४॥
मुक्तमूललघुरुज्झितपूर्वः
मध्विति श्लिष्टंरूपकम्। मकरन्दमयम् इत्यर्थः। “मधु मद्येपुष्परसे” इत्यमरः। भृशम् अत्यन्तं रसयित्वा आस्वाद्य क्षीवतां मत्तत्वंगते इव इति उत्प्रेक्षा। “मत्ते शौण्डोत्कटक्षीवाः” इत्यमरः। क्षितिम् एष्यन् गमिष्यन् लोहितं रक्तं वपुः उवाह। यथा मत्तः क्षितौ लुण्ठति रज्यते च तद्वत् इति भावः। सूर्य्यस्य क्षितिविलयनम् अस्तमयः इति आगमः। अत्र रूपकोत्प्रेक्षयोः सापेक्षत्वात् अङ्गाङ्गिभावेन सङ्करः॥३॥
गम्यतामिति। सहस्रमरीचौसूर्य्येलोहितः भवति इति लोहितायति। “लोहितादिडाज्भ्यः क्यष्” इति क्यष्। “वा क्यष्” इति परस्मैपदे शतृप्रत्ययः। अत एव नयनानां गम्यनाम् उपगते दर्शनीयतां प्राप्ते सति अभितापः धरित्रीं विरहय्य विहाय। “स्यपि लघुपूर्वात्” इति अयादेशः। चक्रवाकहृदयानि आससाद प्राप। अत्र धरित्र्याः यादृशः तीव्रार्ककरकृतसन्तापः तादृक्चक्रवाकहृदयेषु विरहसन्तापः सञ्जातः इति परमार्थः। परन्तु तदुपक्रमानन्तरम् एतस्य आविर्भावात् सः एव अत्र संक्रान्तः इति अभेदाध्यवसायेन उपदेशः। अतएव भेदे अभेदरूपातिशयोक्तिः अलङ्कारः॥४॥
पश्चिमे नभसि सम्भृतसान्द्रः।
सामि मज्जति रवौ न विरेजे
खिन्नजिह्म इव रश्मिसमूहः॥५॥
कान्तदूत्य इव कुङ्कुमताम्राः
सायमण्डनमभि त्वरयन्त्यः।
सादरं ददृशिरे वनिताभिः
सौधजलपतिता रविभासः॥६॥
मुक्तेति। रवौ सामि मज्जति अर्द्धास्तमिते सति। “सामि त्वर्द्धेजुगुप्सायाम्” इत्यमरः। मुक्तं त्यक्तप्रायं मूलम् आश्रयभूतः रविः। अन्यत्र स्वामी। येन सः अत एव लघुः अल्पकश्च मुक्तमूललघुः उज्झितपूर्वः त्यक्तपूर्वदिक्कः। अन्यत्र त्यक्तपूर्वजनः। पश्चिमे नभसि पश्चिमनभोभागे। अन्यत्र क्वचित् नीचस्थले। सम्भृतः संहतः सन् अत एव सान्द्रश्च रश्मिसमूहःआश्रितजनश्च ध्वन्यते। दुःखेन खिन्नः सन् जिह्मः दीनः इव न विरेजे। अत्र मुक्तत्वादिप्रस्तुतविशेषणसाम्यात् अप्रस्तुतांश्रितजनप्रतीतेः समासोक्तिः। तत्र वाच्यस्य रश्मिसमूहस्य अचेतनस्य अपि प्रतीयमानेन चेतनेन अभेदाभिधानात् दुःखितत्वाद्युत्प्रेक्षा इति तयोः अङ्गाङ्गिभावेन सङ्करः॥५॥
कान्तेति। कुङ्कुमवत् कुङ्कुमेन वा ताम्राःसायस्य सायंकालस्य। “सायं साये प्रगे प्रातः” इत्यमरः। यत् मण्डनं तत् अभि तत् उद्दिश्य त्वरयन्त्यः त्वरां कारयन्त्यःसौधानां जालैःगवाक्षैःपतिताः प्रविष्टाः। “जालं गवाक्षमानायः” इति वैजयन्ती। रविभासः सूर्य्यरश्मयः कान्तानां प्रेयसां दूत्यः इव वनिताभिः सादरं यथा तथा ददृशिरे दृष्टाः। सायन्तनार्कभासां
अग्रसानुषु नितान्तपिशङ्गैः
भूरुहान् मृदुकरैरवलम्ब्य।
अस्तशैलगहनं नु विवस्वान्
आविवेश जलधिं नु महीं नु॥७॥
आकुलश्चलपतत्रिकुलानाम्
आरवैरनुदितौषसरागः।
आययावहरिदश्वविपाण्डुः
तुल्यतां दिनमुखेन दिनान्तः॥८॥
प्रियसमागमसूचकत्वात् एव दूत्यः इव तासु स्त्रीणाम् आदरो अभवत् इत्यर्थः॥६॥
अग्रैति। विवस्वान् सूर्य्यःअग्रे अस्तशैलशिखरे ये मानव तेषु ये भूरुहाः तान् नितान्तपिशङ्गैःअत्यन्तारुणैः मृदुभिः करैः इव करैः अंशुहस्तैःइति श्लिष्टरूपकम्। “बलिहस्तांशवकराः” इत्यमरः। यद्वा। करैः मृदुः श्लथम् अवलम्ब्यअस्तःइति शैलः अस्तशैलः। “अस्तस्तु चरमक्ष्माभृत्” इत्यमरः। तस्य गहनं काननं नु, जलधिं नु, महीं नु, आविवेश। तपनस्य पतनसन्देहः एव दृष्टः। पतनं तु क्व च अस्य तत् न ज्ञायते शीघ्रगमनात् इत्यर्थः। अत्र तपने पतनस्य आरोप्यमाणस्य गहनाद्यनेकविषयत्वेन सन्देहालङ्कारः। उत्प्रेक्षा इति केचित्॥७॥
आकुल इति। चलानां कुलायेभ्यः कुलायान् प्रति चलतां पतत्रिकुलानाम् आरवैः शब्दैःआकुलः व्याप्तः। अनुदित शब्देन अभावमात्रम् उषःशब्देन सन्ध्यामात्रं च विवक्ष्यते
आस्थितः स्थगितवारिदपङ्क्त्या
सन्ध्यया गगनपश्चिमभागः।
सोर्मिविद्रुमवितानविभासा-
रञ्जितस्य जलधेः श्रियमूहे॥९॥
प्राञ्जलावपि जने नतमूर्ध्नि
प्रेम तत्प्रवणचेतसि हित्वा।
उषसि भवः औषसः। “सन्धि वेला” इत्यादिना योगविभागात् अण्प्रत्ययः। अन्यथा कालात् ठञ् स्यात्। तथा च अनुदितौष सरागः इति अविद्यमानसन्ध्यारागः इत्यर्थः। एकत्र अपगमात् अन्यत्र अनुदयात् च इति भावः। अहरिदश्वःअविद्यमान सूर्य्यःएकत्र अनुदयात् अन्यत्र अस्तमयात् च इति भावःअत एव विपाण्डुःतिमिरानुदयात् इति शेषः। दिनान्तः सायंकालः दिनमुखेन प्रातःकालेन तुल्यताम् आययौ तद्वत् बभूव इत्यर्थः। अत एव उपमालङ्कारः॥८॥
आस्थित इति। स्थगितवारिदपङ्क्त्या पिहितमेघवृन्दया सन्ध्यया आस्थितः आक्रान्तः व्याप्तः गगनपश्चिमभागः सोर्मिः ऊर्मिसंक्रान्ता इत्यर्थः तथा विद्रुमवितानविभासा प्रवालप्रकरकान्त्या रञ्जितस्य स्वसावर्ण्यम् आपादितस्य जलधेःश्रियम् ऊहे सन्ध्यायाः रक्तवर्णत्वात् इति भावः। वहतेःकर्त्तरि लिट्। तत्सदृशीं श्रियम् उवाह इत्यर्थः। अत एव निदर्शनालङ्कारः ॥९॥
प्राञ्जलाविति। प्रबुद्धःअञ्चलिः येन तस्मिन् प्राञ्जलौबद्धाञ्जलौ। “तौ युतावञ्जलिः पुमान्” इत्यमरः। प्रादिभ्यः धातुजस्य वहुव्रीहिः वाच्यः वाचा उत्तरपदलोपश्च। नतमूर्ध्नि
सन्ध्ययानुविदधे विरमन्त्या
चापलेन सुजनेतरमैत्रौ॥१०॥
औषसातपभयादपलीनं
वासरच्छविविरामपटीयः।
सन्निपत्य शनकैरिव निम्नात्
अन्धकारमुदवाप समानि॥११॥
एकतामिव गतस्य विवेकः
नमस्कुर्वाणे तत्प्रवणं तत्रसन्ध्यायाम् एव आहितं चेतः यस्य तस्मिन् एवंविधे अपि जने विषये प्रेम हित्वा विहाय विरमन्त्या निवर्त्तमानया। “व्याङ्परिभ्यो रमः” इति परस्मैपदम्। सन्ध्यया चापलेन अस्थैर्य्येण। युवादित्वात् अण्प्रत्ययः। सुजनात् इतरःदुर्जनः तस्य मैत्री सख्यम् अनुविदधे अनुचक्रेकर्मणि लिट्। यथा दुर्जनमैत्री स्निह्यन्तम् अपि जहाति तद्वत् सन्ध्या अपि सेवकं जनम् अहासीत् इत्यर्थः। मित्रस्य कर्म मैत्रौ। अणन्तात् ङीप्। अत्र सन्ध्यादुर्जनमैत्र्योः चापल समानधर्मः अनुविधानम् अत एव अर्थरूपेण इयम् उपमा॥१०॥
औषसेति। औषसात् प्राभातिकात् आतपात् भयं तस्मात् इव इति उत्प्रेक्षा। अपलीनं क्वचित् गूढं वासरच्छवेःआतपस्य विरामात् हेतोः पटीयः प्रभविष्णुतरम् अन्धं करोति इति अन्धकारं ध्वान्तम्। “अन्धकारोऽस्त्रियां ध्यान्तम्” इत्यमरः। अथ सन्ध्यापगमनान्तरं शनकैः मन्दमन्दं निम्नात् सन्निपत्य आगत्य समानि समस्थलानि उदवाप व्यानशे। अत्र प्रस्ततान्धकारविशेषणसाम्यात् अप्रस्तुतार्थप्रतीतेः समासोक्तिःअलङ्कारः। उत्प्रेक्षात्वङ्गतः स्यात्॥११॥
कस्यचिन्न महतोऽप्युपलेभे।
भास्वता निदधिरे भुवनानाम्
आत्मनीव पतितेन विशेषाः॥१२॥
इच्छतां सह बधूभिरभेदं
यामिनीविरहिणां विहगानाम्।
आपुरेव मिथुनानि वियोगं
लङ्घ्यते न खलु कालनियोगः॥१३॥
एकतामिति। एकताम् अभेदं गतस्य इव तमोव्याप्त्या तथा प्रतीतेः इयम् उत्प्रेक्षा। महतः शैलादेः अपि कस्यचित् कस्य अपि पदार्थस्य विवेकः भेदः न उपलेभे न गृहीतः। अत एव उत्प्रेक्ष्यते पतितेन अस्तमितेन भास्वता सूर्य्येण। “भास्वद्विवस्वत्सप्ताश्व” इत्यमरः। भुवनानां भुवनस्थपदार्थानाम् इत्यर्थः। विशेषाःभूधरादिभेदाःआत्मनि स्वस्मिन् एव निदधिरे इव निहिताः इव। कथम् अन्यथा न उपलभ्येरन् इत्यर्थः। अत्र उत्प्रेक्षयोः सजातीययोः सापेक्षत्वात् अङ्गाङ्गिभावेन सङ्करः॥१२॥
इच्छतामिति। बधूभिः स्वकामिनीभिः सह अभेदम् अवियोगम् इच्छतां तथा सङ्कल्पवताम् अपि इत्यर्थः। यामिनीषु विरहिणां नियतवियोगानाम् इत्यर्थः। रहतेः आवश्यके अर्थे वियोगः यद्वानिन्दायाम् इनिः। तेषां विहगानां चक्रवाकाणाम् इत्यर्थः। मिथुनानि वियोगम् आपुः एव। न तु न आपः। इति अयोगव्यवच्छेदः। तथाहि कालनियोगः दैवाज्ञान लङ्घ्यते खलु। दुर्वारः इत्यर्थः॥१३॥
यच्छति प्रतिमुखं दयितायै
वाचमन्तिकगतेऽपि शकुन्तौ।
नीयते स्म नतिमुज्झितहर्षं
पङ्कजं मुखमिवाम्बुरुहिण्या॥१४॥
रञ्जिता नु विविधास्तरुशैलाः
नामितं न गगनं स्थगितं नु।
यच्छतीति। शकुन्तौ चक्रवाकपक्षिणि सामान्यस्य प्राकरणिकविशेषपर्य्यवसानात्। “शकुन्तिपक्षिशकुनिशकुन्तशकु- नद्विजाः” इत्यमरः। अन्तिकगते समीपस्थे अपि दयितायैचक्रवाक्यैप्रतिमुखम् अभिमुखं यथा तथा वाचं यच्छति वाचम् एव ददाने सति न तु सङ्गच्छमाने सति इत्यर्थः। “पाघ्राध्मा”इत्यादिना दाणः यच्छादेशः। अम्बुरुहिण्या नलिन्या उज्झितहर्षं चक्रवाकदुर्दशादर्शनात् इव त्यक्तविकासं पङ्कजं मुखम् इव नतिं नम्रत्वं नीयते सा नीतम्। “प्रधानकर्मण्याख्येयेलादीनाहुर्द्विकर्मणाम्”इति नयतेः द्विकर्मकत्वात् प्रधानेकर्मणि लिट्। प्रायेण दुःखदर्शनात् स्त्रियः खिद्यन्ते विशेषेण विरहदर्शनात् इति भावः। अत्र पङ्कजावनतेः चक्रवाकविक्रोशानन्तर्य्यात् तद्धेतुकत्वम् उत्प्रेक्ष्यते। तच्च मुखोपमा इयम् अम्बुरुहिण्याकामिनीसाम्यं गमयन्त्या निरुह्यते इति उपमोत्पेक्षयोः अङ्गाङ्गिभावेन सङ्करः। व्यञ्जकाद्यप्रयोगात् प्रतीयमाना उत्प्रेक्षा॥१४॥
रञ्जिता इति। तिमिरेण अन्धकारेण विविधाः तरवः शैलाश्चरञ्जिताः स्वसावर्ण्यम् आपादिताः नु ? अन्यथा कथमेषां नीलाढ्यत्वम् ? इति भावः। तथा गगनं नामितं नु ?
पूरिता नु विषमेषु धरित्री
संहृता नु ककुभस्तिमिरेण॥१५॥
रात्रिरागमलिनानि विकाशं
पङ्कजानि रहयन्ति विहाय।
स्पष्टतारकमियाय नभः श्रीः
वस्तुमिच्छति निरापदि सर्वः॥१६॥
आभूतलात् इति शेषः। “मितां ह्रस्वः” इत्यत्र वाशब्दान् वृत्त्या व्यवस्थितविभाषाश्रयणात् न ह्रस्वः। यद्वा गगनं स्थगितम् आच्छादितं नु ? उभयत्र अपि तमसावृतत्वात् न दृश्यते इति भावः। तथा धरित्री विषमेषु निम्नोन्नतेषु पूरिता समीकृता नु ? अन्यथा तद्विवेकः कथं न स्यात् ? इति भावः। ककुभः दिशश्च संहताः नु लुप्ताः किम् ?“दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः” इत्यमरः।कथम् अन्यथा न दृश्यन्ते इति भावः। अत्र तिमिरे तरुशैलाद्यनेकविषय रञ्जकत्वादिकम् आरोप्य सन्दिग्धः इति सन्देहालङ्कारः। अन्ये तु नुशब्दस्य सम्भावनाद्योतकत्वम् अत्र उत्प्रेक्षालङ्कारम् इति अलङ्कारसर्वस्वकारः॥१५॥
रात्रीति। श्रीः शोभा कर्त्री रात्रेःसन्ध्यायाः रागेण स्वच्छायोपरञ्जनेन मलिनानि अत एव विकाशं रहयन्ति त्यजन्ति। रहयतेः त्यागार्थात् शतृप्रत्ययः। पङ्कजानि विहाय त्यक्ता स्पष्टतारकं नभः खम् इयाय प्राप। तथाहि। सर्वः जनः निरापदि निर्बाधस्थले वस्तुंस्थातुम्। “एकाच उपदेशेऽनुदात्तात्” इति इट्प्रतिषेधः। घसिश्च सान्तेषु वसिःप्रसारिणीति वचनात्। इच्छति॥१६॥
व्यानशे शशधरेण विमुक्तः
केतकीकुसुमकेसरपाण्डुः।
चूर्णमुष्टिरिव लम्भितकान्तिः
वासवस्य दिशमंशुसमूहः॥१७॥
उज्झती शुचमिवाशु तमिस्राम्
अन्तिकं व्रजति तारकराजे।
दिक्प्रसादगुणमण्डनमूहे
रश्मिहासविशदं मुखमैन्द्री॥१८॥
अस्तादिसन्ध्यान्तं वर्णयित्वा चन्द्रोदयवर्णनम् आरभते। व्यानशे इति। शशधरेण चन्द्रेण विमुक्तः क्षिप्तःकेतकीकुसुमकेसरः इव पाण्डुःलम्भिता प्रापिता कान्तिः यस्य सः रश्मिः समूहःचूर्णस्य कर्पूरक्षोदस्य मुष्टिः इव। मुष्टिशब्दस्य द्विलिङ्गत्वे अपि अत्र पुंलिङ्गता एव ग्राह्या उपमेयानुसारात्। वासवस्य इन्द्रस्य दिशं प्राचीं व्यानशे व्याप। अनेन दिशानि शाकरयोः नायिकानायकौपम्यं गम्यते॥१७॥
उज्झतीति। इन्द्रस्य इयम् ऐन्द्री दिक् प्राची तारकराजे नक्षत्रनाथे। “कनीनिकायां नक्षत्रे तारकं तारकापि च” इति विश्वः। अन्तिकं समीपं व्रजति सति आशु तमिस्राम् अन्धतमसम। “तमिस्रा स्त्री ध्वान्तनिशि निश्यन्धतमसे न ना” इति वैजयन्ती। शुचम् इव विरहदुःखम् इव इत्यर्थः। उज्झती विजहती प्रसादः नैर्मल्यम् एव गुणः सः एव मण्डनं यस्य तत् रश्मयः हासः इव तेन विशदं मुखम् इव मुखम् अग्रभागम्।
नीलनीरजनिभे हिमगौरं
शैलरुद्धवपुषः सितरश्मेः।
खे रराज निपतत्करजालं
वारिधेःपयसि गाङ्गमिवाम्भः॥१९॥
द्यां निरुन्धदतिनीलघनाभं
ध्वान्तमुद्यतकरेण पुरस्तात्।
क्षिप्यमाणमसितेतरभासा
शम्भुनेव करिचर्म चकासे॥२०॥
अन्तिकान्तिकगतेन्दुविसृष्टे
जिह्मतां जहति दीधितिजाले।
श्लिष्टा उपमा इयम्। ऊहे वहति स्म।अत्र दिक्चन्द्रयोः नायिकानायकौपम्यं गम्यते॥१८॥
नीलेति। शैलरुद्धवपुषः उदयगिरितिरोहितमण्डलस्य सितरश्मेःइन्दोः सम्बन्धि नीलनीरजनिभे श्यामकमलतुस्थे खे आकाशे निपतत् प्रसरत्। हिमवत् गौरं शुभ्रं करजालं वारिधेः पयसि निपतत् गाङ्गम् अम्भः इव रराज। उपमाने अपि विशेषणं योज्यम्॥१९॥
द्यामिति। द्यां निरुन्धत् आकाशम् आवृण्वत् अतिनीलघनाभं मेचकम् उद्यताः कराःअंशवः हस्ताश्च यस्य तेन। असिताभ्यः इतराः शुभ्राः भासः यस्य तेन चन्द्रेण पुरस्तात् प्राच्याम् अग्रे च क्षिप्यमाणं नुद्यमानं ध्वान्तं शम्भुना क्षिप्यमाणं करिचर्मइव चकासे। उपमाने अपि विशेषणानि योज्यानि॥२०॥
अन्तिकेति। अन्तिकान्तिके अतिसमीपे। “प्रकारे गुण-
निःसृतस्तिमिरभारनिरोधात्
उच्छ्वसन्निव रराज दिगन्तः॥२१॥
लेखयाविमलविद्रुमभासा
सन्ततं तिमिरमिन्दुरुदासे।
दंष्ट्रया कनकटङ्कपिशङ्ग्या
मण्डलम्भुव इवादिवराहः॥२२॥
दीपयन्नथ नभः किरणौघैः
कुङ्कुमारुणपयोधरगौरः।
हेमकुम्भ इव पूर्वपयोधेः
उन्ममज्ज शनकैस्तुहिनांशुः॥२३॥
वचनस्य” इति द्विर्भावः। कर्मधारयवद्भावात् सुपः लुक्। अन्तिकान्तिकगतेन इन्दुना विसृष्टेमुक्ते दीधितिजाले किरणसमूहे जिह्मतां सङ्कोचं जहति त्यजति सति तिमिरभारैः। तमःस्तोमैः निरोधात् उपरोधात् निःसृतः निर्गतः दिगन्तः उच्छमन् प्राणन् इव रराज। इति उत्प्रेक्षालङ्कारः॥२१॥
लेखयेति। इन्दुः विमलविद्रुमभासा स्वच्छप्रवालसवर्णया लेखया कलया सन्ततं सान्तं तिमिरम् आदिवराहः कनकस्य टङ्कः शिलाभेदकं शस्त्रम्। “टङ्कः पाषाणदारणः” इत्यमरः। तद्वत् पिशङ्ग्या लोहितवर्णया। पिशङ्गादुपसंख्यानम्” इति ङीप्। दंष्ट्रया भुवः मण्डलम् इव उदासे उच्चिक्षिपे। अस्यतेः कर्त्तरि लिट्। सोपसर्गात् अस्यतेःआत्मनेपदं विकल्पात्॥२२॥
दीपयन्निति। अथ उदयानन्तरं किरणौघैः नभःदीपयन् प्रकाशयन् कुङ्कुमेन अरुणःयः पयोधरः कुचः तद्वत् गौरः
उद्गतेन्दुमविभिन्नतमिस्रां
पश्यति स्म रजनीमवितृप्तः।
व्यंशुकस्फुटमुखीमतिजिह्मां
व्रीड़या नवबधूमिव लोकः॥२४॥
न प्रसादमुचितं गमिता द्यौः
नोद्धृतं तिमिरमद्रिवनेभ्यः।
दिङ्मुखेषु न च धाम विकीर्णं
भूषितैव रजनी हिमभासा॥२५॥
अरुणः उदयरागात् इति भावः। तुहिनांशुःइन्दुः शनक पूर्वपयोधेः पूर्वसागरात् हेम्नः कुम्भः इव उन्ममज्ज उज्जगाम इति उत्प्रेक्षा॥२३॥
उद्गतेन्दुमिति। लोकः जनः। “लोकस्तु भुवने जने” इत्यमरः। उद्गतेन्दुम् उदितचन्द्राम् अविभिन्नतमिस्राम् अनिःशेयितध्वान्तां रजनीं व्यंशुकम् अपनीतावगुण्ठनम् अत एव स्फुटः दृश्यमानं मुखं यस्याः सा तां तथापि व्रीड़या अतिजिह्मां वक्रा नवबधूं नवोढ़ाम्। “बधूर्नवोढ़योषायां स्नुषाभार्य्याङ्गनासु च” इति धरणिः। स्त्रियम् इव अवितृप्तः सन् पश्यति स्म॥ २४॥
नेति। हिमभासा चन्द्रेण द्यौःआकाशम् उचितं योग्यं प्रसादं न गमिताः अद्रयः वनानि च तेभ्यः तिमिरं न उद्धृत न उत्सारितं दिशां मुखेषु धाम तेजश्च न विकीर्णं न पर्य्यस्तं तथापि रजनी भूषिता एव किमुत उक्तगुणसम्पत्तौइति भाव। अत्र प्रसाधनकारणाभावे अपि तत्कार्य्यभूषणोक्त्या विभावनालङ्कारः॥२५॥
मानिनीजनविलोचनपातान्
उष्णवाष्यकलुषान् प्रतिगृह्णन्।
मन्दमन्दमुदितः प्रययौ खं
भीत भीत इव शीतमयूखः॥२६॥
श्लिष्यतः प्रियबधूरूपकण्ठं
तारकास्ततकरस्य हिमांशोः।
उद्वमन्नभिरराज समन्तात्
अङ्गराग इव लोहितरागः॥२७॥
मानिनीति। उदितः शीतमयूखः उष्णेन विरहतप्तेन वाष्पेण कलुषान् आविलान् मानिनीजनस्य कलहान्तरित नायिकाजनस्य विलोचनपातान् मानभङ्गजनितरोषेण भीषणान् इति भावः।“कोपात् कान्तं पराणुद्य पश्चात्तापसमन्विता। कलहान्तरिता प्रोक्ता नायिका नयशालिभिः॥” इति दशरूपके। प्रतिगृह्णन् स्वीकुर्वन् अपराधस्य अपरिहार्य्यत्वात् इति भावः। अत एव भीतभीतः भीतप्रकारः इवइति उत्प्रेक्षा। मन्दमन्दं मन्दप्रकारम् उभयत्र अपि। “प्रकारं गुणवचनस्य” इति द्विर्भावे कर्मधारयवद्भावात् सुलोपः। खम्आकाशं प्रययौ॥२६॥
श्लिष्यत इति। तताः प्रसारिताः कराः एव कराःअंशुहस्ता येन तस्य ततकरस्य तारकाः एव प्रियबधूःउपकण्ठम् अन्तिकेकण्ठ वा। अत्यन्तसंयोगे द्वितीया। विभक्त्यर्थे अव्ययीभाव। श्लिष्यतः प्रत्यासीदतः आलिङ्गतश्च हिमांशोः सम्बन्धीसमन्तात् उत्वमन् उत्सर्पन्। अर्थान्तरत्वात् अकर्मकत्वम्। “धातोर्य्या-
प्रेरितः शशधरेण करौघः
संहतान्यपि नुनोद तमांसि।
क्षीरसिन्धुरिव मन्दरभिन्नः
काननान्यविरलोच्चतरुणि॥२८॥
शारतां गमितया शशिपादैः
छायया विटपिनां प्रतिपेदे।
न्यस्तशुक्लबलिचित्रतलाभिः
तुल्यता वसतिवेश्ममहीभिः॥२९॥
न्तरे वृत्तेः इति वचनात्। लोहितरागः अरुणप्रभाङ्गरागः इव अभिरराज आलिङ्गनात् रागः गलति इति प्रसिद्धिः।अत्र रूपकोपमयोः अङ्गाङ्गिभावेन सङ्करः॥२७॥
प्रेरित इति। शशधरेण चन्द्रेण प्रेरितः विसृष्टः करौघः संहतानि सान्द्राणि अपि तमांसि मन्दरेण मन्दराचलेन भिन्न नुन्नः क्षीरसिन्धुः अविरलाः सान्द्राः उच्चाः उन्नताश्च तरवः येषु तानि काननानि इव नुनोद विक्षेप दूरीचकार॥२८॥
शारतामिति। शशिपादैः चन्द्ररश्मिभिः। “पादा रश्म्यङ्घ्रितुर्य्यांशाः” इत्यमरः। शारतां शबलतां गमितया। “शारशबलपीतयोः” इति विश्वः। विटपिनां तरूणां छायया न्यस्तैः निक्षिप्तैः शुक्लबलिभिः श्वेतपुष्पाद्युपहारैः चित्राणि लतानि उपरिभागाः यासां ताभिः। “करोपहारयोः पुंसि बलिः प्राण्यङ्गजे स्त्रियाम्” इत्यमरः। वसतिवेश्ममहीभिः निवासगृह भूमिभिः तुल्यता साम्यं प्रतिपेदे। कर्मणि लिट्। आर्थी इयम उपमा॥२९॥
आतपे धृतिमता सह बध्वा
यामिनीविरहिणा विहगेन।
सेहिरे न किरणा हिमरश्मेः
दुःखिते मनसि सर्वमसह्यम्॥३०॥
गन्धमुद्धरतरजःकणावाही
विक्षिपन् विकसतां कुमुदानाम्।
आदुधाव परिलीनविहङ्गाः।
यामिनीमरुदपां वनराजीः॥३१॥
आतप इति। आतपे दुःखकरे अपि इति भावः। बध्वा चक्रवाक्या सह अत एव धृतिमता सन्तोषवता यामिनीषु विरहिणा नियतविरहेण अत एव विहगेन चक्रवाकेण हिमरश्मेः चन्द्रस्य किरणा न सेहिरे। तथाहि। दुःखिते सञ्जातदुःखे मनसि सर्वं मनोहरम् अपि इति भावः। असह्यंसोढ़ुम् अशक्यम्। “शकिसहोश्च” इति यत्प्रत्ययः। पूर्वेतु “आतपाः” इति पेठुः। तत्र बध्वा सह आतपाः अपि सेहिरे तद्विरहिणात् शशिकिरणाः अपि न सेहिरे इति योज्यम्। फलं तु समानम् ॥३०॥
गन्धमिति। अपां कणवाही। योग्यान्वये व्यवधानम् अपि सोढ़व्यम्। विकसतां कुमुदानां गन्धं सौरभम् उद्धतरजः परागः यस्मिन् कर्मणि तत् यथा तथा। “शेषाद्विभाषा” इति विकल्पात् न कप्। विक्षिपन् विकिरन् इत्थं शिशिरः सरभिः यामिनीमरुत् रात्रिवायुः परितः लीनाः शयिताः विहङ्गाः यासु ताः वनराजीः आदुधाव ईषत् कम्पयामास वनराजिः किञ्चित् कम्पिता इत्यर्थः। विहङ्गशयनाविरोधेन
संविधातुमभिषेकमुदासे
मन्मथस्य लसदंशुजलौघः।
यामिनीवनितया ततचिह्नः
सोत्पलो रजतकुम्भ इवेन्दुः॥३२॥
ओजसापि खलु नूनमनूनं
नासहायमुपयाति जयश्रीः।
यद्विभुः शशिमयूखसखः सन्
आददे विजयि चापमनङ्गः॥३३॥
इत्यर्थः “आङीषदर्थेऽभिव्याप्तौ” इत्यमरः। यथा कश्चित् कामिनीं गन्धोदकादिना सिञ्चन् आकर्षतितद्वत् इति भावः॥३१॥
संविधातुमिति। यामिनी वनिता इव तया रात्रिरूपया कान्तया मन्मथस्य अभिषेकं त्रिभुवनजैत्रयात्राभिषेक संविधात् सम्यक् कर्त्तुम् अंशवः जलानि इव तेषाम् ओघः पूर लसन् यस्मिन् सः ततचिह्नः स्फुटलाञ्छनःइन्दुः सोत्पलः रजतकुम्भ इव उदासे उत्क्षिप्तः। अस्यतेः कर्मणि लिट्। अत्र संविधातुम् इति तुमुना प्रतीयमानोत्प्रेक्षया अनुप्राणितः अयम् उपमोत्प्रेक्षयोः सङ्करः॥३२॥
ओजसेति। ओजसा अनूनं सम्पूर्णम् अपि असहाय सहाय रहितं पुरुषम् इति शेषः। जयश्रीः न उपयाति खलु नूनम्। कुतः यदि अस्मात् विभुः समर्थः अपि अनङ्गः शशिमयूखानां सखा सहचरः तथोक्तः समहायः सन् इत्यर्थः। विजयि विजय
सद्मनां विरचनाऽऽहितशोभैः
आगतप्रियकथैरपि दूत्यम्।
सन्निकृष्टरतिभिः सुरदारैः
भूषितैरपि विभूषणमीषे॥३४॥
न स्रजो रुरुचिरे रमणीभ्यः
चन्दनानि विरहे मदिरा वा।
साधनेषु हि रतेरुपधत्ते
रम्यतां प्रियसमागम एव॥३५॥
शीलम्। “जिदृक्षि” इत्यादिना इन्प्रत्ययः। चापम् आददे विशेषेण सामान्यसमर्थनरूपः अर्थान्तरन्यासः॥३३॥
इत्थम् उद्दीपनसामग्रीम् उपवर्ण्यसम्प्रति तत्कार्य्यभूतंरति वर्णनम् आरभते। सद्मनामित्यादि। सन्निकृष्टरतिभिः आमन्नसुरतोत्सवैःअत एव सुरदारैःसुरबधूभिः आहितशोभैः प्राक् एव विहितकेलिगृहमण्डनैःअपि पुनः सद्मनां केलिगृहाणां विरचना मण्डनम् ईषे अभिलेषे ईषेः कर्मणि लिट्। आगत प्रियकथैःप्राप्तप्रियजनवृत्तान्तैः अपि दूतस्य कर्म दूत्यं दूति व्यापारः ईषे। “वा दूतबणिग्भ्यां च” इति यप्रत्ययः। तथा भूषितेः अपि विभूषणं प्रसाधनम् ईषे। औत्सुक्यातिरेकात् इति भावः॥३४॥
नेति। विरहे वियोगावस्थायां स्रजः माल्यानि चन्दनानि गन्धाःमदिराः मद्यानि वा रमणीभ्यः। “रुच्यर्थानां प्रीयमाणः” इति सम्प्रदानत्वात् चतुर्थी। न रुरुचिरे न रोचन्तेस्म।हि यस्मात् प्रियसमागमः एव रतेःसाधनेषु स्रगादिषु रम्यता
प्रस्थिताभिरधिनाथनिवासं
ध्वंसितप्रियसखीवचनाभिः।
मानिनीभिरपहस्तितधैर्य्यः
सादयन्नपि मदोऽवललम्बे॥३६॥
कान्तवेश्म बहु सन्दिशतीभिः
यातमेव रतये रमणीभिः।
मन्मथेन परिलुप्तमतीनां
प्रायशः स्खलितमप्युपकारि॥३७॥
मनोहरत्वं रुचिकरत्वम् इति यावत् उपधत्तेआधत्ते। तदभावात् अरुचिः युक्ता एव इत्यर्थः। अत एव वैधर्म्यात् कारणेन कार्य्य समर्थनरूपः अर्थान्तरन्यासः। रम्यन्ते एषु इति रम्याणि। “पोरदुपधात्”। इति यत्प्रत्ययः। “कृत्यल्यूटोबहुलम्” इति बहुलग्रहणात् अधिकरणार्थः॥३५॥
प्रस्थिताभिरिति। अधिनाथनिवासं प्रियगृहं प्रति प्रस्थिताभिः प्रचलिताभिः ध्वंसितानि खण्डितानि प्रियसखीवचनानि स्वयं प्रस्थानं लाघवाय इति एवंरूपाणि याभिः ताभिःमानिनीभिः कोपनाभिः। “स्त्रीणामीर्ष्याकृतःकोपोमानोऽन्यासङ्गिनि प्रिये” इति लक्षणात्। अपहस्तितं निरस्तं धैर्य्यंयेन सः। तयासादयन् मानं शरीरं च कर्षयन् अपि सदोषःअपि इत्यर्थः मदः अवललम्ब स्वीकृतःअज्ञानव्याजेन लाघवापह्नवसौकर्य्यात् इति भावः॥३६॥
कान्तेति। रतये सुरताय बहु सन्दिशतीभिः अनेकं वाचिकं कथयन्तीभिः सन्देशव्यसनात् गन्तव्यम् अपि अज्ञान-
आशु कान्तमभिसारितवत्याः
योषितः पुलकरुद्धकपोलम्।
निर्जिगाय मुखमिन्दुमखण्डं
खण्डपत्रतिलकाकृति कान्त्या॥३८॥
उच्यतां स वचनीयमशेषं
नेश्वरे परुषता सखि! साध्वी।
आनयैनमनुनीय कथं वा
विप्रियाणि जनयन्ननुनेयः॥३९॥
तोभिः इत्यर्थः। रमणीभिः कान्तवेश्म यातं प्राप्तम् एव न तु मार्गात् मध्ये निवृत्तम् इत्यर्थः। तथाहि। मन्मथेन परिलुप्तमतीनां भ्रष्टमतीनां स्खलितं विरुद्धाचरणम् अपि प्रायश उपकारि भवति॥३७॥
आश्विति। आशु कान्तम् अभिसारितवत्याः अभिगतवत्याः। स्वार्थेणिच्। योषितः सम्बन्धि पुलकः रुद्धौ आवृतौकपोलौ यस्य तत् खण्डा प्रसृष्टा पत्राणां पत्रलेखानां तिलकस्य च आकृतिः सन्निवेशः यस्य तत् तथोक्तं मुखं कान्त्या अखण्डं पूर्णम् इन्दुं निर्जिगायजयति स्म। इति आर्थी इयम् उपमा। “जयति द्वेष्टि” इति दण्डिना सादृश्यार्थेषु गणनात्॥३८॥
अथ युग्मेन सखीनायिकासंवादम् आह। उच्यतामिति। तत्र नायिका आह। सः धूर्त्तः अशेषम् अखिलं वचनीयं वक्तव्यम् उच्यतां निःशङ्कम् उपलभ्यताम् इत्यर्थः। “ब्रूञो दुहादित्वात् अप्रधाने कर्मणि लोट्”। अथ सखी आह। हे सखि
किं गतेन न हि युक्तमुपैतुं
कः प्रिये सुभगमानिनि ! मानः।
योषितामिति कथासु समेतैः
कामिभिर्बहुरसा धृतिरूहै॥४०॥
॥युग्मम्॥
ईश्वरे भर्त्तरि नायके विषये परुषता पारुष्यंन साध्वी न हिता। अथ नाहिका आह। हे सखि ! तर्हि एनम् अनुनीय सान्त्वयित्वा आनय। पुनः सखा आह। विप्रियाणि जनयन् अप्रियाणि कुर्वन् सः कथं वा अनुनेयः अनुनयार्ह॥३९॥
किमिति। पुनः नायिका आह। तर्हि गतेन तं प्रति गमनेन किं कः अर्थः इत्यर्थः। कुतः ? उपतुं गन्तुं न युक्तं हि पुनः सखी आह। हे सुभगमानिनि ! सौन्दर्य्यमानिनि सुभगम् आत्मानं मन्यते इति। “आत्ममाने खश्च” इति चकारात् णिनिप्रत्ययः। तस्मिन् प्रिये विषये कः मानः मानः न कर्त्तव्यः इत्यर्थः। यद्वा न हि इत्यादि सखीवाक्यम्। तत्र न हि इत्येकं वाक्यं तद्युक्तंन हि इत्यर्थः। हे सखि ! किन्तु उपैतुं युक्तं कुतः? सुभगमानिनि ! प्रियः कः मानःतादृगजनस्य दुर्लभत्वात् इति भावः। इत्येवंरूपासु योषितां कथासु विषये समेतैःसमीपम् आगत्य आकर्णयद्भिः इत्यर्थः। कामिभिः बहुरसा अनेकस्वादा धृतिः सन्तोषः ऊहे ऊढ़ा। अत्र रौक्ष्यौत्सुक्यनिर्वेदाद्यनेकभावशाबल्यपरिपूर्णकान्ताकथाकर्णनात् उत्तरोत्तरम् अपूर्वहृदयानन्दनिष्यन्दम् आनन्दसन्दोहम् अविन्दन् इत्यर्थः। प्रायेण अत्र प्रौढाः कलहान्तरिताश्च नायिकाः॥४०॥
योषितः पुलकरोधि दधत्याः
घर्मवारि नवसङ्गमजन्म।
कान्तवक्षसि बभूव पतन्त्याः
मण्डनं लुलितमण्डनतैव॥४१॥
शीधुपानविधुरासु निगृह्णन्
मानमाशु शिथिलीकृतलज्जः।
सङ्गतासु दयितैरुपलेभे
कामिनीषु मदनो नु मदो नु॥४२॥
द्वारि चक्षुरधिपाणि कपोलौ
जीवितं त्वयि कुतः कलहोऽस्याः।
योषितः इति। पुलकरोधि रोमाञ्चव्यापि नवसङ्गमेन जन्म यस्य तत् घर्मवारि स्वेदोदकं दधत्याः इति सात्विकोक्तिः कान्तवक्षसि पतन्त्याः इति औत्सुक्योक्तिः। योषितः या ललितमण्डनता उत्कष्टप्रसाधनत्वम्। भावे तत्। सा एव मण्डनं वभूव। तादृशफलत्वात् तस्य इति भावः॥४१॥
शीध्विति। शिध्यते अनेन इति शीधु पक्वेक्षुरसविकार मद्यविशेषः तस्य पानेन विधुरासु विमूढ़ासु तथा दयितै सङ्गतासु स्वयं प्राप्तासु च कामिनीषु अतिमानवतीषु आशु मान कोपं निगृह्णन् निवर्त्तयन् शिथिलीकृता लज्जा येन सः मदनः नुमदः नु उपलेभे लक्ष्यते स्म इत्यर्थः। प्रियसमागमशीधुपानरुपोभयकारणाभङ्गात् उभयथा माननिग्रहाद्यनुभाव साधारण्यात् च सन्देहः सः एव अलङ्कारः॥४२॥
द्वारीति। द्वारि त्वदागमनमार्गे एव चक्षुः इति औत्सु-
कामिनामिति वचः पुनरुक्तं
प्रीतये नवनवत्वमियाय॥४३॥
साचि लोचनयुगं नमयन्ती
रुन्धतीदयितवक्षसि पातम्।
सुभ्रुवो जनयति स्म विभूषां
सङ्गतावुपरराम च लज्जा॥४४॥
सव्यलीकमवधीरितखिन्नं
प्रस्थितं सपदि कोपपदेन।
क्योक्तिः। अधिपाणि पाणौकरे कपोलौइति चिन्तोक्तिः किं बहुना जीवितं त्वयि त्वदधीनं त्वां विना न जीवति इत्यर्थः। इति गाढ़ानुरागोक्तिः।अतः अस्याः कलहः विग्रहः कृतः ? इत्येवं कामिनीनां प्रीतये पुनः उक्तं पुनः पुनः उच्चमान वचः दूतीवाक्यं नवनवतंनवप्रकारत्वम् अपूर्ववद्भावम् इयाय। प्रकारार्थे द्विर्भावः कर्मधारयवद्भावात् सुपः लुक्। कान्तान् रागप्रकटनात् कामिनः प्रहृष्यन्ति इति भावः। कलहान्तरिता इयम्॥४३॥
साचीति। लोचनयुगं साचितिर्य्यक् नमयन्ती प्रिये तिर्य्यक पातयन्तीन तु ह्रिया इत्यर्थः। दयितवक्षसि पातं रुन्धतीइष्टम् अपि प्रतिवध्नतीलज्जा सुभ्रुवः नायिकायाः विभूषां शोभां जनयति स्म। सङ्गती सुरतप्रसङ्गे सति उपरराम च। एवं यतः तदा न दूषणम् एव इति भावः। “विभाषाकर्मकात्” इति परस्मैपदम्॥४४॥
सव्यलीकमिति। सव्यलीकं सापराधम् अत एव अवधी-
योषितः सुहृदिव स्म रुणद्धि
प्राणनाथमभिवाष्पनिपातः॥४५॥
शङ्किताय कृतवाष्पनिपाताम्
ईर्ष्यया विमुखितां दयिताय।
मानिनीमभिमुखाहितचित्तां
शंसति स्म घनरोमविभेदः॥४६॥
लोलदृष्टि वदनं दयितायाः
चुम्बति प्रियतमे रभसेन।
रितःअवज्ञातः सन् खिन्नः तम्। “पूर्वकाल” इत्यादिना तत् पुरूषः। सपदि कोपस्य पदेन व्याजेन प्रस्थितं निर्गच्छन्तं प्राणनाथं प्रियं योषितः सम्बन्धि अभिवाष्पनिपातः आभिमुख्येन अश्रुमोक्षः सुहृत् इव रुणद्धिस्म रुरोध। वाष्पपातस्य मन्युमोक्षलिङ्गतया प्रस्थानप्रतिबन्धकत्वात् सुहृदौपग्यम्। इयम्अधीरा खण्डिता। ज्ञातेऽन्यासङ्गिनि पतौ खडितेर्ष्याकषायिता अधीराश्रु विमुञ्चन्ती विज्ञेया चात्र नायिका॥ इति दशरूपके॥४५॥
शङ्कितायेति। शङ्कितस्यनायकाय अविश्वस्ताय दयिताय इर्ष्यया विमुखितां विमुखीकृताम् अत एव कृतवाष्पनिपातां मानिनींघनरोमविभेदः सान्द्रपुलकोदयः अभिमुखम् आहितं चित्तं यया तां निष्कोषाम् इत्यर्थः। शंसति स्म व्यनक्ति स्म इत्यर्थः। अन्यथा सात्त्विकानुदयात् इति भावः अत्र अपि पूर्वोक्तैवनायिका॥४६॥
अथ सम्भोगशृङ्गारत् आह। स आन्तरः वाह्यश्च तत्र वाह्य-
व्रीडया सह विनीवि नितम्बात्
अंशुकं शिथिलतामुपपेदे॥४७॥
ह्रीतया गलितनीवि निरस्यन्
अन्तरीयमवलम्बितकाञ्चि।
मण्डलीकृतपृथुस्तनभारं
सस्वजे दयितया हृदयेशः॥४८॥
आदृता नखपदैः परिरम्भाः
रतम् आह। लोलेति। प्रियतमे लोलदृष्टि चञ्चलेक्षणं दयितायाः वदनं रभसेन बलात्कारेण चुम्बति सति विनीविनिर्गत बन्धनम् अंशुकं नितम्बाद् व्रीड़या सह शिथिलताम् उपपेदे उभयम् अपि शिथिलम् आसीत् इत्यर्थः। अत्र व्रीड़ांशकरूपसम्बन्धिभेदभिन्नवृत्तिस्रंसनरूपशैथिल्यस्य अभेदाध्यवसायनिबन्धनातिशयोक्तिमूलसहोक्ति- विशेषः अलङ्कारः। अत एव व्रीड़ांशुकौपम्यञ्च कल्प्यम्। अत्र वात्स्यायनः—“वाह्यमाभ्यन्तरं चेति द्विविधं रतमुच्यते। तत्राद्यं चुम्बनाश्लेषनखदन्तक्षतादिकम् द्वितीयं सुरतं साक्षान्नानाकारेण कल्पितम्॥४७॥
ह्रीतयेति। गलितनीवि गलितबन्धनं तथापि अवलम्बिता काञ्ची येन तत् काञ्चीलग्नम् इत्यर्थः। तदन्तरीयम् अधोऽंशुकम्। “अन्तरीयोपसंव्यानपरिधानान्यधोऽंशुके” इत्यमरः। निरस्यन् आक्षिपन् हृदयेशःप्रियःह्रीतया वस्त्रापगमात् लज्जितया। ह्रीधातोः कर्त्तरिक्तः। दयितया मण्डलीकृतः वर्त्तुलीकृतः पृथुः स्तनभारः यस्मिन् कर्मणि तत् यथा तथा गाढम् इत्यर्थः। सस्वेजे आश्लिष्टः प्रियदृष्टेःप्रतिबन्धार्थम् इत्यर्थः॥४८॥
चुम्बितानि घनदन्तनिपातैः।
सौकुमार्य्यगुणसम्भृतकीर्त्तिः
वाम एव सुरतेष्वपि कामः॥४९॥
पाणिपल्लवविधूननमन्तः
सीत्कतानि नयनार्द्धनिमेषाः।
योषितां रहसि गद्गदवाचाम्
अस्त्रतामुपययुर्मदनस्य॥५०॥
आदृता इति। परिरम्भाःआलिङ्गनानि नखपदैःहेतुभिः आदृताःअभिमताः। हेतौ इति तृतीया। तथा चुम्बनानि घनदन्तनिपातैःगाढ़दन्तक्षतैः हेतुभिः आदृतानि इति लिङ्गविपरिणामः। सुरतसुखोद्दीपकत्वात् नखदन्तक्षतपूर्वकेषुआलिङ्गनचुम्बनेषु आदरः संवृत्तः इत्यर्थः। ननु सुकुमारं कामतन्त्रेकथं पीड़ाकरेषु आदरः? इति न वाच्यम् इति आह। सौकुमार्य्यम् एव गुणः तेन सम्भृतकीर्त्तिः लब्धयशाः कामः सुरतेषु सम्भोगेषु अपि न केवलं विप्रलम्भेषु इति भावः। वामः क्रूरः एव सुकुमारः कामः इति वादमात्रम्। वस्तुतस्तु पीडयन् एवमुखम् आवहति इति भावः। सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः॥४९॥
अथ आभ्यन्तरं रतम् आह। पाणीति। रहसि एकान्त इति विश्रम्भातिशयोक्तिः गद्गदवाचां स्खलगिरां योषिता सम्बन्धीनि पाणिपल्लवयोः विधूननं कम्पनम् अन्तः सीत्कृतानि सीत्काराः। एतेन कुट्टमिताख्यः भावः उक्तः। “अधरपीड़नादौसुखेऽपि दुःखवदुपचारः कुट्टमितम्” इति लक्षणात्। नयनानाम् अर्द्धनिमेषाः अर्द्धनिमीलितानि। रहसि एकान्ते
पातुमाहितरतीन्यभिलेषुः
तर्षयन्त्यपुनरुक्तरसानि।
सस्मितानि वदनानि बधूनां
सोत्पलानि च मधूनि युवानः॥५१॥
कान्तसङ्गमपराजितमन्यौ
वारुणीरसनशान्तविवादे।
गद्गदवाचां योषिताम् इति विशेषणसामर्थ्यात् गद्गदवाक्त्र च इति एतानि मदनस्य अस्त्रताम् उपययुः अस्त्रवत् पुंसाम् उद्यीपनानि आसन् इत्यर्थः। अत्र सीत्कारार्द्धनिमेषादिना मुखं पारवश्यं व्यज्यते। तदुक्तं रतिरहस्ये। “स्रस्तता वपुषि मीलनं दृशोर्मूर्च्छना च रतिलाभलक्षणम्। श्लेषयेत् स्वजघनं मुह र्मुहुःसीत्करोति गतलज्जिताकुला”॥इति॥५०॥
अथ मधुपानवर्णनम् आरभते। पातुमित्यादिना। युवान आहितरतीनि वर्द्धितरागाणि अत एव अपुनरुक्तरसानि पुनःपुनः पानेन अपि अपूर्वस्वादानि अत एव तर्षयन्ति तृष्णोत्पादकानि अतृप्तिकराणि इत्यर्थः। सस्मितानि बधूनां वदनानि सोत्पलानि मधूनि च पातुम् अभिलेषुः इच्छन्ति। अत्रप्रस्तुतानाम् इव वदनानां मधूनां च पानक्रियौपम्यस्य गम्यत्वात् केवलं प्राकरणिकविषयतया तुल्ययोगितालङ्कारः। “प्रस्तुतानां तथान्येषां केवलं तुल्यधर्मतः। औपम्य गम्यतेयत्र मा मता तुल्ययोगिता॥” इति लक्षणात्॥५१
कान्तेति। कान्तसङ्गमेन पराजितमन्यौ त्यक्तरोषे तदवधिकत्वात् तस्य इति भावः। किञ्च वारुणीरसनेन मध्वा
मानिनीजन उपाहितसन्धौ
सन्दधे धनुषि नेषुमनङ्गः॥५२॥
कुप्यताशु भवतानतचित्ताः
कोपितांश्च वरिवस्यत यूनः
इत्यनेक उपदेश इव स्म
स्वाद्यते युवतिभिर्मधुवारः॥५३॥
भर्त्तृभिः प्रणयसम्भ्रमदत्तां
वारुणीमतिरसां रसयित्वा।
स्वादेन शान्तः विवादःवाक्कलहादिः यस्य तस्मिन् अतःउपाहितसन्धौ प्रियैः सह कृतसन्धाने मानिनीजने विषये अनङ्गः धनुषि इषुं न सन्दधे सिद्धसाध्ये साधनवैयर्थ्यात इति भावः॥५२॥
कुप्यतेति। यूनः प्रियान् कुप्यत यूनां कोपं जनयत् “नात्रकुधद्रुह” इत्यादिना यूनां सम्प्रदानत्वे चतुर्थी तस्य यंप्रति कोपः इति नियमात् अत्र कोपस्तावत् कृत्रिमः इति। आशु आनतचित्ताः अनुकूलचित्ताः भवत। किञ्च कोपितान् वरिवस्यत परिचरत। “नमो वरिवश्चित्रङः क्यच्” इति क्यच्। वरिवसः परिचर्य्ययाम् इत्यर्थे तस्य नियमश्च। इत्येवम् अनेकःअनेकप्रकारः यः उपदेशः प्रवर्त्तकवाक्यंसः इव मधुवार मधुपानावृत्तिः। “मधुवारा मधुक्रमा” इत्यमरः। युवतिभिःस्वाद्यते स्म। मधुवारस्य कोपादिकार्य्यप्रवर्त्तकत्वसाम्यात् उपदेशः इव इति उत्प्रेक्षा। अनियताः खलु मत्तचेष्टाः इति भावः॥५३॥
भर्तृभिरिति। भर्तृभिः प्रणयसंभ्रमाभ्यां प्रमादराभ्यां
ह्रीविमोहविरहादुपलेभे
पाटवं नु हृदयं नु बधूभिः॥५४॥
खादितः स्वयमथैधितमानं
लम्भितः प्रियतमैः सह पीतः।
आसवः प्रतिपदं प्रमदानां
नैकरूपरसतामिव भेजे॥५५॥
दत्ताम्। “संभ्रमः साध्वमेऽपि स्यात् संवेगादरयोरपि” इति विश्वः। अत एव अतिरसाम् अधिकस्वादां वारुणीं वरुणात्मजाम् “सुरा हलिप्रिया हाला परिस्रुद्वरुणात्मजा” इत्यमरः। रमयित्वा अखाद्य बधूभिः ह्रीविमोहविरहात् मदेन लज्जा जाड्यापगमात् हेतोः पाटवं नु हृदयं नु ज्ञानविशेषं नु उपलेभे ? अत एव हृदयस्य तत्कार्य्यज्ञानसामर्थ्यात् हृदयम् एव प्रागसत् पश्चात् लब्धम् इति सन्देहः। अन्यथा कथं प्रियं प्रति वक्रोक्त्याद्यर्थेषु प्रवृतिः ? इति भावः। सन्देहालङ्कारः॥५४॥
स्वादित इति। स्वयं स्वादितः आदौस्वयम् एव पीतःअथ अनन्तरं प्रियतमैःएधितमानं वर्द्धितबहुसम्मानं यथा तथा लम्भितः ग्राहितः स्वहस्तेन प्रापितः इत्यर्थः। ततः प्रियतमैःसह पीतः युगपदेकपात्रेण पीतः इत्यर्थः। आसवः प्रमदाना प्रतिपदं प्रतिक्षणं न एकरूपरमताम् अनेकविधस्वादुत्वम्। नञर्थस्य शब्दस्य सुप्सुपाइति समासः। नञ्समासे नलोपः स्यात्। भेजे इव प्राप इव। प्रायेण उपचारविशेषात् भोज्येषुरसविशेषः स्यात् इति भावः। आस्वादनादिपदार्थानाम् अनेकरसताप्राप्तिहेतुत्वात् काव्यलिङ्गं तावत् एकं स्वादनादीनाम् अनेकधर्माणाम् एकस्मिन् एव सर्वक्रमेण सम्बन्धात् पर्य्याय
भ्रूविलाससुभगाननुकर्त्तुं
विश्वमानिव वधूनयनानाम्।
आददे मृदुविलोलपलाशैः
उत्पलैश्चषकवीचिषु कम्पः॥५६॥
ओष्ठपल्लवविदंशरुचीनां
हृद्यतामुपययौरमणानाम्।
फुल्ललोचनविलोलसरोजैः
अङ्गनास्यचषकैर्मधवारः॥५७॥
भेदश्च तयोश्च संसृष्टयोः अनेकरसत्वोत्प्रेक्षाबीजत्वात् तथा सह अङ्गाङ्गिभावेन सङ्करः॥५५॥
भ्रूविलासेति।भ्रूविलासैः सुभगान् सुन्दरान् बधूनयनानां विभ्रमान् अनुकर्त्तुं तैः आत्मानं समीकर्त्तुम् इव इति फलोत्प्रेक्षा। मृदुविलोलपलाशैः ईषच्चञ्चलदलेःउत्पलैः चषकेषु याःवीचयः मधुर्मयः तासु यः कम्पः सः आददे स्वीकृतः न तु स्वकम्पः तस्य विलोलविशेषणेन एव उक्तत्वात् तत्स्वीकारश्च तद्योगः एव। पूर्वं नेत्रमात्रसाम्यभाजाम् उत्पलानां कम्पमानवीचियोगात् सभ्रूविलासनेत्रसाम्यं जातम् इत्यर्थः॥५६॥
ओष्ठेति।ओष्ठः एव पल्लवः तस्य विदंशे दंशने रुचिः अभिलाषः येषां तेषां मुखसुरापानमिषेण अधर पिपासतान् इत्यर्थः। रमणानां फुल्लानि लोचनानि एव विलोलसरोजानि येषु तैः अङ्गनास्यानि एव चषकाणि पानपात्राणि। “चषकोऽस्त्रीपानपात्रम्” इत्यमरः। तैः मधुधारःमधुपानावृत्तिः हृद्यतां हृदयप्रियताम् उपययौ। “हृदयस्य प्रियः” इति यत्-
प्राप्यते गुणवतापि गुणानां
व्यक्तमाश्रयवशेन विशेषः।
तत्तथा हि दयिताननदत्तं
व्यानशे मधु रसातिशयेन॥५८॥
वीक्ष्य रत्नचषकेष्वतिरिक्तां
कान्तदन्तपदमण्डनलक्ष्मीम्।
जज्ञिरे बहुमताः प्रमदानाम्
ओष्ठयावकनुदो मधुवाराः॥५९॥
लोचनाधरकृताहृतरागा
प्रत्ययः। “हृदयस्य हृल्लेखयदणलासेषु” इनि हृद्भावः। रमण विशेषणार्थहेतु ककाव्यलिङ्गसङ्गीर्णरूपकालङ्कारः॥५७॥
प्राप्यत इति। गुणवता अपि आश्रयवर्शन गुणानां विशेषः प्रकर्षः प्राप्यते व्यक्तं तत् तथा यदुक्तं तथा एव इत्यर्थः।यस्मात् दयितायाः आननेन करणेन दत्तं मधु रसातिशयेन स्वादुप्रकर्षेण कर्त्ता व्यानशे व्याप्तम्। विशेषेण सामान्यसमर्थनरूपः अर्थान्तरन्यासः॥५८॥
वीक्ष्येति। रत्नचषकेषु स्फटिकादिमणिपात्रेषु अतिरिक्तां यावकापगमात् पूर्वाभ्यधिकां कान्तस्य यत् दन्तपदम- ण्डनं तस्य लक्ष्मीं शोभां प्रतिविम्बिताम् इति शेषः। वीक्ष्य ओष्ठयावकनुदः अधरलाक्षारागहारिणः मधुवाराःमधुपानभ्यासाः प्रमदानां बहुमताः अभिमताः। वर्त्तमाने क्तः तद्योगात् षष्ठी। जज्ञिरे जाताः तेषां प्रियानुरागचिह्नप्रकाशकत्वात् इति भावः॥५९॥
वासिताननविशेषितगन्धा।
वारुणीपरगुणात्मगुणानां
व्यत्ययं विनिमयं नु वितेने॥६०॥
मधुपानात् त्रिलोचनेषु रागोत्पत्तिः अधरेभ्यश्च लाक्षाराग निवृत्तिः मध्वाननयोश्च अन्योन्यगन्धसंक्रान्तिः इति स्थिते सति उत्प्रेक्ष्यते। लोचनेति। लोचने च अधरश्चलोचनाधरम्। “समुद्राभ्राद्धः” इति व्यभिचारज्ञापकात् न अत्र अधरशब्दस्य पूर्वनिपातः। कृतश्चअसौ आहृतश्चइति विशेषणसमासः। लोचनाधरस्य कृताहृतः रागः यया मा तथोक्तालोचनयोः कृतरागा अधरात् आसमन्तात् हृतरागा च इत्यर्थः। षष्ठ्याश्च अर्थसम्बन्धात् सामान्यस्य योग्यविशेषणपर्य्यवसाननियमेन अधिकरणापादानार्थयोः आक्षेपात्। तथा च अधरलोचनपरगुणयोः रागतद्विरहयोः स्थानविपरीतवृत्तिं कृतवती इत्यर्थः। तथा वासितेन स्वगन्धसंक्रान्तिसुरभितेन आननेन विशेषितः। अतिशायितः गन्धः यस्याः सा। यद्वावासितानना च असौअर्थात् आननेन एव विशेषितगन्धा च इति कृतबहुव्रीहि विशेषणसमासः। उभयथापि आननसंक्रान्तस्वगन्धा स्वसंक्रान्ताननगन्धा च इत्यर्थः। एवंभूता वारुणी मदिरा परगुणात्म गुणानां परयोः लोचनाधरयोः गुणौच परस्य आननस्य गुणः आत्मनः वारुण्याः गुणश्च परगुणात्मगुणाः तेषां परगुणानाम् आत्मगुणानां व्यत्ययं नु विनिमयं नु वितेने विस्तारयामास। चित्तेन प्रामादिकीवस्तुपरिवृत्तिः व्यत्ययः। बुद्धिपूर्वा तु वस्तुपरिवृत्तिः विनिमयः। तन्त्रोच्चरितस्य परगुणशब्दस्य आवृत्त्या परगुणौच परगुणात्मगुणौ च इति विग्रहः कथञ्चित् अगत्या सोढ़व्यः उपमानपूर्वपदबहु- व्रीहिवत्। तथा च
तुल्यरूपमसितोत्पलमक्ष्णोः
कर्णगं निरुपकारि विदित्वा।
योषितः सुहृदिव प्रविभेजे
लम्भितेक्षणरुचिर्मदरागः॥६१॥
क्षीणयावकरसोऽप्यतिपानैः
कान्तदन्तपदलम्भितशोभः।
अयम् अर्थः परगुणयोः अधरलोचनगुणयोः रागतद्विरहयाव्यत्ययं नु विनिमयं नु वितेने? तथा परगुणात्मगुणयोआननगन्धात्मगन्धयोश्च व्यत्ययं नु विनिमयं नु वितेने अन्यथा कथम् अन्यस्मिन् अन्यधर्मोपलम्भः सम्भवति इति भावः। अत्रलोचनाधररागयोः तदभावयोः वा भेदेअपि अभेदाध्यवसायात् एकत्ववाचः युक्तिः तस्मात् तन्मूलातिशयाोक्त्यनुप्राणिता च इयं व्यत्ययविनिमययोः अन्यतरकरणोत्प्रेक्षा इति संक्षेपः। सा च प्रतीयमाना व्यञ्जकाप्रयोगात्। नुशब्दस्त संशये॥६०॥
तुल्येति। अक्ष्णोः तुल्यरूपम् अक्षितुल्याकृति योषितः कर्णगं कर्णावतंसीकृतम् असितोत्पलं निरुपकारि अनुपकारक विदित्वा ज्ञात्वा तत्कार्य्यशोभायाः कर्णान्तविश्रान्तेन अक्ष्णाएव कृतत्वात् इति भावः। मदरागः सुहृत् इव उत्पलस्य बन्धुः इव अनिष्टवारकत्वात् इति भावः। लम्भितेक्षणरुचिः आवृतनयनकान्तिः सन् प्रविभेजे वर्णान्तरापादानेन प्रविभक्तवान्। अवैलक्षण्यकरात् अक्ष्णः व्यावर्त्तयामाम ततः विच्छित्तिकरत्वात् इति भावः॥६१॥
क्षीणेति। अतिपानैः क्षीणयावकरसः क्षीणलाक्षारागः
आययावतितरामिव बध्वाः
सान्द्रतामधरपल्लवरागः॥६२॥
रागकान्तनयनेषु नितान्तं
विद्रुमारुणकपोलतलेषु।
सर्वगापि ददृशे वनितानां
दर्पणेष्विव सुखेषु मदश्रीः॥६३॥
बद्धकोपविकृतीरपि रामाः
अपि कान्तस्य दयितस्य दन्तपदेन दन्तक्षतेन सम्भृता शोभा यस्यसः बध्वा अधरपल्लवरागः अतितराम् अतिमात्रम्। अतिशब्दात् तरप्प्रत्यये “किमेत्तिङ्व्ययः” इत्यादिना आम्प्रत्ययः। “तद्धितश्चासर्वविभक्तिः” इति अव्ययसंज्ञा। मान्द्रतां घनत्वम्।आययौ इव प्रियोपभोगचिह्नमण्डितानां कामिन्यवयवानां किम अन्यैःमण्डनैः? इति भावः। तत्र क्षीणस्य अपि सान्द्रता इति विरोधात् कान्तदन्तेत्यादिविशेषणगत्या सान्द्रत्वे हेतूक्त्या काव्यलिङ्गं तत्सङ्कीर्णा उत्प्रेक्षा॥६२॥
रागेति। वनितानां सर्वगा अपि सर्वाङ्गगता अपि। “अन्तात्यन्त” इत्यादिना ङः। मतश्रीरागेण कान्तानि नयनानि येषु तेषु विद्रुमवत् अरुणानि कपोलतलानि येषु तेषु मुखेषु दर्पणषु इव नितान्तं ददृशे तेषां नयनादिनैर्मल्येनरागाभिव्यक्तिसम्भवात् इति भावः।अत्र मदश्रीःसर्वगता अपि मुखेषु एव ददृशे इति विरोधः तस्य मुखविशेषणैः समाधानात् काव्यलिङ्गानुप्राणितः विरोधवदाभासः अलङ्कारः। स च उपमया संसृज्यते॥६३॥
बद्धेति। बद्धाकोपेन विकृतिः याभिः ताः तथाभूताः
चारुताभिमततामुपनिन्ये।
वश्यतां मधुमदो दयितानाम्
आत्मवर्गहितमिच्छति सर्वः॥६४॥
वाससां शिथिलतामुपनाभि
ह्रीनिरासमपदे कुपितानि।
योषितां विदधती गुणपक्षे
निर्ममार्ज मदिरा वचनीयम्॥६५॥
भर्त्तृषूपसखि निक्षिपतीनाम्
अपि रामाः कर्म्मचारुता तासां सौन्दर्य्यं कर्त्त्रींअभिमततं प्रियवाल्लभ्यम् उपनिन्ये।सौन्दर्य्ये हि विकृतिम् अपि रोचयते इति भावः। मधुमदः दुहितानां वश्यतां विधेयत्वम् उपनिन्ये।तथाहि। सर्वः आत्मवर्गहितम् इच्छति अतः चारुता स्त्रीत्वात् स्त्रीणाम् उपचकार मधुमदस्तु पुंस्त्वात् पुंसाम् इति युक्तम् इत्यर्थः। अत्र विकृताः अपि अभिमताः कुपिताः अपि वश्या इति विरोधस्य चारुतामदाभ्यां समाधानात् उभयया अपि विरोधाभासःभवन् अर्थान्तरन्यासेन संसृज्यते॥६४॥
वाससामिति। उपनाभि नाभिसमीपे वाससां शिथिलता ह्रीनिरामं लज्जात्यागम् अपदेकुपितानि अस्थानकोपान् च गुणपक्षे गुणकोटौविदधती निवेशयन्ती दोषान् अपि एतान् गुणान् कुर्वती इत्यर्थः। मदिरा अपि योषितां वचनीयम्। “न नाभिं दर्शयेत्” इति शास्त्रनिषिद्धाचरणनिन्दां निर्ममार्ज। तथा दोषाणाम् अपि वस्त्रशैथिल्यादीनां तदानीं गुणत्वात् न कश्चित् वचनीयावकाशः इत्यर्थः॥६५॥
आत्मनो मधुमदोद्यमितानाम्।
व्रीड़या विफलता वनितानां
न स्थितं न विगतं हृदयेषु॥६६॥
रुन्धतौनयनवाक्यविकाशं
सादितोभयकरा परिरम्भे।
व्रीड़ितस्य ललितं युवतीनां
क्षीवता बहुगुणैरनुजह्रे॥६७॥
भर्त्तृष्विति। उपसखि सखीसमीपे। समीपार्थेअव्ययीभावः। आत्मनः खदेहान्। “आत्मा जीवे धृतौ देहे स्वभावे परमात्मनि” इति वैजयन्ती। भर्त्तषु निक्षिपतीनां निपातयन्तीनां भर्त्तृृणाम् उपरि पतन्तीनाम् इत्यर्थः। “आच्छीनद्योर्नुम्” इति विकल्पात् नुमभावः। कुतः ? मधुमदेन उद्यमितानां प्रेरितानां न तु स्वेच्छया इति भावः। वनितानाम् अनुरक्तस्त्रीणाम्। “वनिता जनितात्यर्थानुरागायां च योषिति” इति विश्वः। हृदयेषु विफलया। अनुचिताचरणात् इति भावः। व्रीड़या न स्थितं न विगतम्। वफल्यात् तस्याः मदीपाधिकत्वात् च इति भावः। अत एव न उभयनिषेधविरोधः॥६६॥
रुन्धतीति।नयनानां वाक्यानां च विकाशं प्रागल्भ्यं रुन्धती प्रतिबध्नती। तथा परिरम्भे आलिङ्गने सादितौस्तम्भितौ उभौ करौ यया सा युवतीनां सम्बन्धिनी क्षीवता मत्तता। कर्त्तरि क्तः। अनुपसर्गात् “फुल्लक्षीवकृशोल्लाघाः” इति निपातनात् साधुः। क्षीवा मत्ता तस्याः भावः क्षीवता। त्वनलोः गुणवचनस्य पुंवद्भावः वक्तव्यः। बहुगुणेःदृष्टिसङ्कोचा-
योषिदुद्धतमनोभवरागा
मानवत्यपि ययौ दयिताङ्कम्।
कारयत्यनिभृता गुणदोषे
वारुणी खलु रहस्यविभेदम्॥६८॥
आहिते नु मधुना मधुरत्वे
चेष्टितस्य गमिते नु विकाशम्।
आवभौ नव इवोद्धतरागः
कामिनीष्ववसरः कुमुमेषोः॥६९॥
दिभि व्रीड़ितस्य व्रीड़ायाः। भावे क्तः। ललितं विलासम् अनुजह्रे अनुचक्रे। कर्त्तरि लिट्। व्रीड़ाकार्य्य करत्वात् व्रीडानुकरणम् इति उपमालङ्कारः॥६७॥
योषिदिति। उद्धतः उत्कटः मनोभवेन यः रागः सः यस्याः सा योषित् मानवतीअपि दयितस्य अङ्कंययौ। यतः मानात् रागः बलीयान् इति भावः। लाघवदोषं परिहरति। कारयतीति। अनिभृता चपला न कार्य्यकारिणी इत्यर्थः। वारुणी मदिरा गुणेषु दोषेषु च विषये। सर्वः अपि द्वन्द्वःविभाषया एकवत् भवति।रहस्यविभेदं रहस्यभङ्गंकारयति खलु। बलात् निगूहितौ अपि गुणदोषी प्रकाशयति इत्यर्थः। यतः निगूढरागप्रकटनं प्रकटमानत्यागश्चप्रमत्तायाः न लाघवम् आवहति अबुद्धिपूर्वकत्वात् इति भावः॥६८॥
आहित इति। मधुना मद्येन चेष्टितस्य व्यापारस्य मधुरत्वेमाधुर्य्येआहितं नु ? प्रागसति एव मनोहरत्वे सम्प्रति उत्पादितेवा। विकाशं गमिते नु प्राक् सति एव माधुर्य्येप्रकर्ष
मा गमन्मदविमूढ़धियो नः
प्राज्झ्यरन्तुमिति शङ्कितनाथाः।
योषितो न मदिरां भृशमीषुः
प्रेम पश्यति भयान्यपदेऽपि॥७०॥
चित्तनिर्वृतिविधायि विविक्तं
मन्मथो मधुमदः शशिभासः।
प्रापिते वा उद्धतरागः उद्रिक्तरागः। अतएव कुसुमेषोःकामिनीषु अवसरः प्रवेशःनवः इव आबभौ नित्यसन्निहितः अदि मदन कामिनीषु मदकृततात्कालिकचेष्टामाधुर्य्यात् रागोद्रेके सति अपूर्ववत् उद्दीप्तः अभूत् इत्यर्थः। संशयानुप्राणिता इयम् उत्प्रेक्षा॥६९॥
मा गमन्निति। शङ्कितनाथाः अविश्वस्तपुरुषाः योषितः मदेन विमूढधियः स्तब्धबुद्धयः नः अस्मान् प्रोज्झ्यविसृज्य। प्रपूर्वात् उज्झतेः समासे अनञ्पूर्वे क्त्वोल्यप्। रन्तुंमा गमन् न गच्छन्तु इति मनीषया इति शेषः। गमेः माङि लुङ् “न माङ्योग” इति अड़ागमप्रतिषेधः। मदिरां भृशम् अतिमात्र न ईषुः न इच्छन्ति स्म किन्तु भर्त्तुवियोगभयात् ईषत् एव पपुःइत्यर्थः। तथाहि। प्रेम स्नेहःअपदे अस्थानेअपि भयानि अनिष्टानि पश्यति उत्प्रेक्षते शङ्कते इति यावत्। शङ्काहेतौप्रेम्णि कर्त्तृत्वोपचारः॥७०॥
चित्तेति। चित्तस्य निर्वृतिविधायि सुखकरं विविक्तं रहः “विविक्तं रहसि स्मृतम्” इति विश्वः। मन्मथः मधुमदः मद्यमदः शशिभासः चन्द्रिकाः दयितैःसह सङ्गमश्च। “वृद्धो यूना” इति निर्देशात् सहशब्दाप्रयोगे अपि सहार्थे तृतीया। एतानि
सङ्गमश्च दयितैः स्म नयन्ति
प्रेमकामपि भुवं प्रमदानाम्॥७१॥
धार्ष्ट्यलङ्घितयथोचितभूमौ
निर्दयं विलुलितालकमाल्ये।
मानिनीरतिविधौ कुसुमेषुः
मत्तमत्त इव विभ्रममाप॥७२॥
शोधुपानविधुरेषुबधूनां
प्रमदानां प्रेम वियोगासहत्वावस्थासम्भोगं काम् अपि भुव काञ्चित् दशां नयन्ति स्म। रत्यवस्थाम् अपि अतिक्रम्य शृङ्गारावस्थां क्रीडामयीं निन्युः इत्यर्थः। “प्रेमाभिलाषो रागश्चस्नेहः प्रेम रतिस्तथा। शृङ्गारश्चेति सम्भोगः सप्तावस्थः प्रकीर्त्तितः॥” इति उक्तं रसरत्नाकरे। “प्रेमा दिट्टक्षा रम्येषु तच्चिन्ताप्यभि लाषकः। रागस्तत्सङ्गबुद्धिःस्यात् स्नेहस्तत्प्रवणक्रिया॥ तद्वियोगासहं प्रेम रतिस्तत्सहवर्त्तनम्। शृङ्गारस्तसमं क्रीड़ा सम्भोगः सप्तधा क्रमः॥” इति॥७१॥
क्रीड़ावस्थाम् आह। धार्ष्ट्येति। धार्ष्ट्येन प्रागल्भ्येन लङ्घिता यथोचिता योग्या भूमिः मर्य्यादा यस्मिन् तथोक्ते। चुम्बनताड़नमणितसीत्कारपुरुषायितादौ स्वयम् उच्छृङ्खलवृत्तिः इति भावः। निर्दयं यथा तथा विलुलितानि आकर्षणाकुलितानि अलकमाल्यानि यस्मिन् तस्मिन् मानिनीःरतिविधौस्त्रीसुरतं कुसुमेषुः कामः मत्तमत्तः मत्तप्रकारःइव विभ्रमं विजृम्भणम् आप प्राप। मत्तः किं न करोति इति भावः। कारयितरि कर्त्तृत्वोपचारात् उत्प्रेक्षा॥७२॥
शीध्विति। शीधुपानेन मद्यपानेन विधुरेषु विह्वलेषु।
निघ्नतामुपगतेषु वपुःषु।
ईहितं रतिरसाहितभावं
वीतलक्ष्यमपि कामिषु रेजे॥७३॥
अन्योन्यरक्तमनसामथ बिभ्रतीनां
चेतोभुवो हरिसखाप्सरसां निदेशम्।
वैबोधिकध्वनिविभावितपश्चिमार्द्धा
सा संहृतेव परिवृत्तिमियाय रात्रिः॥७५॥
“मैरेयमासवः शीधुः” इत्यमरः। अत एव वपुःषु अङ्गेषु निवृता प्रियपराधीनताम् उपगतेषु सत्सु। “अधीनोनिघ्नआयत्ता”इत्यमरः। बधूनां सम्बन्धि रतिरमे सुरतरसाम्बादे आहितभावं दत्तचित्तं कामिषु विषये ईहितं चुम्बनताड़नादिचेष्टितबीतलक्ष्यंनिर्विषयम् अस्यानकृतम् अपि इत्यर्थः। रेजे रागिणा स्खलितम् अपि शोभतेइति भावः। विरोधालङ्कारः॥७३॥
अन्योन्येति। अथ हरिसखाः इन्द्रसचिवाःगन्धर्वाःतेषाम् अप्सरसां च अन्योन्यरक्तमनसां परस्परानुरक्तचित्ताना चेतोभुवःकामस्य निदेशम् आज्ञां बिभ्रतीनां स्मरविधेयानां तासु रसमाणासु एव इत्यर्थः। “षष्ठी चानादरे” इति षष्ठी। विबोधनशीलम् एषां ते वैबोधिकाः वैतालिकाः। “शीलम्” इति ठक्। तेषां ध्वनिभिः मङ्गलरवैः विभावितः अभ्यूहितः ज्ञातः पश्चिमार्द्धःचरमभागः यस्याः सा तथोक्ता सा रात्रिः संहृता संक्षिप्ता एव इति उत्प्रेक्षा। सुखिनां भूयान् अपि कालः लघीयान् इव भवति इति भावः। परिवृत्ति विवृत्तिम् इयाय प्रभातकल्पा अभूत् इत्यर्थः॥७४॥
निद्राविनोदितनितान्तरतिक्लमानाम्
आयामिमङ्गलनिनादविबोधितानाम्।
रामासु भाविविरहाकुलितासु यूनां
तत्पूर्वतामिव समादधिरे रतानि॥७५॥
कान्ताजनं सुरतखेदनिमीलिताक्षं
संवाहितुं समुपयानिव मन्दमन्दम्।
हर्म्येषु माल्यमदिरापरिभोगगन्धान्
आविश्चकार रजनीपरिवृत्तिवायुः॥७६॥
निद्रेति। निद्रया विनोदितः अपनीतः नितान्तम् अत्यर्थं यः रत्याः क्लमः सः येषां तेषाम् आयामिभिः आयामवद्भिः दीर्घैःमङ्गलनिनादैः वैबोधिकध्वनिभिः विबोधितानाम्। यूनां रामासु। “सुन्दरी रमणी रामा” इत्यमरः। भाविविरहेणआकुलितासु सतीषु रतानि तानि एव पूर्वाणि प्रथमानि तत् पूर्वाणि तेषां भावः तत्पूर्वता ताम्। भावे तल्प्रत्ययः। समादधिरेप्रापुः इव सति उत्प्रेक्षा। आद्यसुरतवत् आदरात् प्रवर्त्तन्तेइत्यर्थः। यदुत्तरकालं दुर्लभं तत् अतितृष्णया अनुभूयते इत्यर्थः॥७५॥
कान्तेति। सुरतखेदेन निमीलितानि अक्षीणि येन तं कान्ताजनं स्त्रीसमूहं संवाहितुं सेवितुम् इव खेदापनोदार्थम् अङ्गमर्दनं कर्त्तुम् इव इत्यर्थः। “संवाहनं वाहनेऽपि नरादेरङ्गमर्दने” इति विश्वः। “वाह प्रयत्ने” इति धातोः अण्यन्तात् तुमुन्। अन्यथा णिज्ग्रहणे संवाहयितुम् इति स्यात्। मन्दमन्दं मन्दप्रकारम् “प्रकारे गुणवचनस्य” इति द्विर्भावे कर्मधारयवद्भावात् सुपः लुक्। समुपयान् संवान् रजनीपरिवृत्ति-
आमोदवासितचलाधरपल्लवेषु,
निद्राकषायितविपाटललोचनेषु।
व्यामृष्टपत्रतिलकेषुविलासिनीनां
शोभां बबन्ध वदनेषु मदावशेषः॥७१॥
गतवति नखलेखालक्ष्यतामङ्गरागे
समददयितपीताताम्रविम्बाधराणाम्।
वायुः निशावसानमरुत्। हर्म्येषु माल्यानि च मदिरा च परिभोगः विमर्दश्च तेषां गन्धान् आविश्वकार वहिःप्रसर्पयामास इत्यर्थः। अत्र संवाहितुम् इव इति उत्प्रेक्षा। मान्द्यगुणमूलत्वात् गुणनिमित्तक्रियाफला उत्प्रेक्षा॥१६॥
आमोदेति। आमोदेन मद्यगन्धेन वामिताः सुरभिताः चलाः दष्टमुक्तत्वात् स्फुरन्तश्च अधरपल्लवाः येषु तेषु, निद्रयाकषायितानि अपटूकृतानि विपाटलानि लोचनानि येषु तेषु। “कषायस्तुवरे न स्त्री निर्य्यासे रञ्जकादिके। सुरभावपटौरक्ते सुन्दरे लवणेऽपि च॥” इति केशवः। व्यामृष्टानि प्रमृष्टानि पत्राणि तिलकाश्चयेषां तेषु विलासिनीनां वदनेषु मदावशेषःशोभां बबन्ध। मण्डनान्तरापाये मदशेषः एव मण्डनं बभूव इत्यर्थः। स्त्रीणां मदः एव विभूषणम् इति भावः॥७७॥
गतवतीति। अङ्गरागे अङ्गविलेपने नखरेखासु नखपदेषु लक्ष्यतां दृश्यतां गतवति सति विमर्दात् तन्मात्रावशेषे सति इत्यर्थः। किञ्च विम्बतुल्याः अधराः विम्बाधराः। “शाकपार्थिवादित्वात् मध्यमपदलोपीसमानाधिकरणसमासः” इति वामनः। समदैः दयितैः पीताः पीडिताः अत एव अतिपीड़नात् आताम्राःआसमन्तात् रक्ताः विम्बाधराः यासां तासाम्
विरहविधुरमिष्टा सत्मखीवाङ्गनानां
हृदयमवललम्बे रात्रिसम्भोगलक्ष्मीः॥७८॥
इति सुरसुन्दरीसम्भोगवर्णनं नाम
नवमः सर्गः॥९॥
<MISSING_FIG href="../books_images/U-IMG-1731394436Screenshot2024-10-10111156.png"/>
दशमः सर्गः
अथपरिमलजामवाप्य लक्ष्मीम्
अवयवदीपितमण्डनश्रियस्ताः।
वसतिमभिविहाय रस्यहावाः
सुरपतिसूनुविलोभनाय जग्मुः॥१॥
अङ्गनानां सम्बन्धि विरहेण आह्निकेन वियोगेन विधुरं विह्वलहृदयं रात्रिमभोगलक्ष्मीः नखपदादिशोभा इत्यर्थः। इष्टा आप्ता सत्सखी इव निपुणसहचरी इव अवललम्बे धारयामास। प्रियसम्भागचिह्नशोभा स्पष्टा बभूव इत्यर्थः। प्रियोपभोगचिह्न शोभावलोकनलालसाः कथं विरहं सहन्तं इत्यर्थः। श्रौती पूर्णा उपमा अलङ्कारः। मालिनीवृत्तम्। लक्षणं तु उक्तम्॥७८॥
इति किरातार्जुनीयकाव्यस्य नवमसर्गव्याख्या समाप्ता।
<MISSING_FIG href="../books_images/U-IMG-1731394436Screenshot2024-10-10111156.png"/>
अथ आगन्तुकसहजशोभासम्पन्नतया समग्र साधनाःस्त्रियः मनिमनःप्रलोभनार्थंप्रास्थन् इति आह। अथेति। प्रभाते परिमलजां सम्भोगसम्भूतां लक्ष्मीं शोभाम् अवाप्य। “सम्भोगः स्यात् परिमले” इति वैजयन्ती। सन्भोगात् स्त्रियः
द्रुतपदमभियातुमिच्छतीनां
गगनपरिक्रमलाघवेन तासाम्।
अवनिषुचरणैः पृथुस्तनीनाम्
अलघुनितम्बतया चिरं निषेदे॥२॥
निहितसरसयावकैर्बभासे
चरणतलैः कृतपद्धतिर्बधूनाम्।
शोभन्त इति भावः। एतेन आगन्तुकशोभासम्पत्तिः उक्ता।अत एव सुरतादिवर्णनस्य प्रस्तुतोपयोगित्वं च उक्तम्। अथ सहजशोभासम्पत्तिम् आह। अवयवेति। अवयवैः स्तनादिभि दीपिता मण्डिता मण्डनश्रीः प्रसाधनशोभा याभिः ताः। रम्य हावाःमनोहरविलासाः ताः स्त्रियः। “हावो विलासश्चेष्टायाम्” इति विश्वः। वसतिं शिविरम् अभिविहाय सर्वतः त्यक्त्वासुरपतिसूनोः अर्जुनस्य विलोभनाय जग्मुः। अत्रअवयवदीपकतया प्रसिद्धस्य मण्डनस्य तद्दोप्यत्वासम्बन्धे अपि सम्बन्धाभिधानात् अवयवसौन्दर्य्यातिशयद्योतनार्थत्वात् अतिशयोक्तिः अलङ्कारः अस्मिन् सर्गे पुष्पिताग्रावृत्तम्। “अयुजि न युगरेफतो यकारो युजि च नजौ जरगाश्चपुष्पिताग्रा” इति लक्षणात्॥१॥
द्रुतेति। गगनपरिक्रमलाघवेन गगनगमनवेगेन द्रुतपदयथा तथा अभियातुं गन्तुम् इच्छतीनां पृथुस्तनीनां तासाम् अप्सरसाम् अलघुनितम्बतया न लघवः नितम्बाः यासां तासां भावः तत्ता तया चरणैः अवनिषु चिरं निषेदे स्थितम्। अभ्यासपाटवेन मनसा त्वरमाणानाम् अपि तासां स्तनजघनभारात् चरणाः न उत्तस्थुः इत्यर्थः॥२॥
अविरल विततेव शक्रगोपैः
अरुणितनीलतृणोलमा धरित्री॥३॥
ध्वनिरगविवरेषुनूपुराणां
पृथुरशनागुणशिञ्जितानुयातः।
प्रतिरवविततो वनानि चक्रे
मुखरसमुत्सुकहंससारसानि॥४॥
निहितेति। निहिताः आरोपिताः सरसयावकाः सान्द्रलाक्षारागाः येषु तैः बधूनां चरणतलैःचरणन्यासैः कृतपद्धतिः कृतमार्गरेखा। अत एव अरुणिताः अरुणीकृताः नीलाः तृणोलपाः तृणानि दूर्वादीनि उलपाः वल्वजाख्याः तृणविशेषाश्चयस्याः सा। “उलपा वल्वजाः प्रोक्ताः” इति हलायुधः।उलपा उशीरतृणानि” इति क्षीरस्वामी। ब्राह्मणपरिव्राजकवत् उलपानां पृथक् निर्देशः। धरित्री शक्रगोपैः इन्द्रगोपाख्यैःकीटकैः। “इन्द्रगोपस्त्वग्निरजः” इति हैमः। अविरलं निरन्तरं यथा तथा वितता व्याप्ता इव इति उत्प्रेक्षा। बभासे॥३॥
ध्वनिरिति अगविवरेषु नगरन्ध्रेषु गुहासु इत्यर्थः। प्रतिरवैःप्रतिध्वनिभिः। विततः सम्मूर्च्छितः पृथुभिः रशना गुणानां शिञ्जितैःस्वनितैःअनुयातः अनुगतः मिलितः इति यावत्। अश्नीतेः युच् स्यात्। रसादेशश्च। रशना काञ्ची तालव्यशकारवान् अयं जिह्वावाचो तु दन्त्यसकारवान् इति सिद्धान्तः। “काञ्ची सप्तकी रशना तथा” इत्यमरः। “स्वनिते वस्त्रपर्णानां भूषणानां तु शिञ्जितम्” इत्यमरः। नूपुराणां ध्वनिः ध्वानः वनानि मुखराः शब्दायमानाः समुत्सुकाः उत्कण्ठिताः हंसाः सारसाश्च येषां तानि चक्रे। अत्र हंसादिमुखर-
अवचयपरिभोगवन्ति हिंस्रैः
सहचरितान्यमृगाणि काननानि।
अभिदधुरभितो मुनिं बधूभ्यः
समुदितसाध्वसविक्लवञ्च चेतः॥५॥
नृपतिमुनिपरिग्रहेण सा भूः
सुरसचिवाप्सरसां जहार तेजः।
उपहितपरमप्रभावधाम्नां
न हि जयिनां तपसामलङ्घ्यमस्ति॥६॥
समुत्सुकीकरणरूपेण वस्तुना तेषां नूपुरादिध्वनी सादृश्यात् हंससारसान्तरकूजितभ्रान्तिप्रतीतेः भ्रान्तिमदलङ्कारः व्यज्यते॥४॥
अवचयेति। अवचयः पुष्पफलादिच्छेदनं परिभोगः उपभोगः। तद्वन्ति हिंस्राः घातुकाः व्याघ्रादयः। “शरारुर्घातको हिंस्र” इत्यमरः। तैः सहचरिताः सहचरन्तः। कर्त्तरि क्तः। “गतिबुद्धि” इत्यादिसूत्रेण चकारात् शीलितादिवत् वर्त्तमानार्थता। अन्ये हिंस्रेतरे मृगाः हरिणादयः येषु तानि सहचरितानि अमृगाणि काननानि। तथा समुदितेन साध्वसेन विल्कवं विवशं चेतश्च बधूभ्यः। “क्रियाग्रहणमपि कर्त्तव्यम्” इति सम्प्रदानत्वात् चतुर्थी। अभितः मुनिम् अभिदधुः सूचयामासुः इत्यर्थः। अवचयादिलिङ्गचतुष्टयेन आसन्नः मुनिः इति अन्वमीयत इत्यर्थः॥५॥
नृपतिमुनिपरिग्रहेणेति। सा भूः नृपतिः एंव मुनिः तस्य परिग्रहेण अधिष्ठानेन हेतुना सुरसचिवानां गन्धर्वाणाम् अप्सरसां च तेजः जहार। तदाश्रमप्रवेशात् एव निस्तेजस्काः
सचकितमिव विस्मयाकुलाभिः
शुचिसिकतास्वतिमानुषाणि ताभिः।
क्षिुतिषु ददृशिरे पदानि जिष्णोः
उपहितकेतुरथाङ्गलाञ्छनानि॥७॥
अतिशयितवनान्तरद्युतीनां
फलकुसुमावचयेऽपि तद्विधानाम्।
ऋतुरिव तरुवीरुधां समृद्ध्या
युवतिजनैर्जगृहे मुनिप्रभावः॥८॥
अभूवन् इत्यर्थः। ननु कथं मानुषेणअमानुषतेजः निरस्तम्?इति आशङ्क्य आह। हि यस्मात् उपहिते आहिते परमे प्रभावधाम्नी सामर्थ्यतेजसो येषां तेषां जयिनां जयनशीलानाम्। “महताम्”इति पाठे महताम् उत्कटानां तपसाम् अलङ्घ्यंन अस्ति। किम् अपि असाध्यं न अस्ति इति भावः॥६॥
सचकितमिति। विस्मयाकुलाभिः नाभिः स्त्रीभिः कर्त्त्रोभि शुचयः सिकताः यासु तासु पादरेखाभिव्यक्तियोग्याम् इत्यर्थः। क्षितिषु उपहितानि विन्यस्तानि केतुरथाङ्गलाञ्छनानि रेखास्वरूपध्वजचक्राणि एव चिह्नानि येषु तानि अत एव अतिमान् षाणि जिष्णोः अर्जुनस्य पदानि सचकितम् इव सभयम् इव यथा तथा ददृशिरे दृष्टानि। अद्भूतवस्तुदर्शनात् भयविस्मयौभवतः इति भावः॥७॥
अतिशयितेति। अतिशयिता अतिक्रान्ता वनान्तवाणां द्युतिः याभिः तासाम्। कुतः ? फलानां कुमुमानाञ्च अवचये अपि लवने अपि सा एव विधा प्रकारःयासां तद्विधानां तथा
मृदितकिसलयः सुराङ्गनानां
ससलिलवल्कलभारभुग्नशाखः।
बहुमतिमधिकां ययावशोकः
परिजनतापि गुणाय सद्गुणानाम्॥९॥
यमनियमकृशीकृतस्थिराङ्गः
परिददृशे विधृतायुधः स ताभिः।
अनुपमशमदीप्ततागरीयान्
कृतपदपङ्क्तिरथर्वणेव वेदः॥१०॥
एव समग्राणाम् इत्यर्थः। तरुणां वीरुधाञ्च समृद्ध्या लिङ्गेन युवतिजनैःमुनिप्रभावः ऋतुः इव जगृहे निश्चितः कारणतया इति शेषः। उपमालङ्कारः॥८॥
मृदितेति। समलिलम् आर्द्रं यत् वल्कलं तत् एव भारः तेन भुग्नशाखः नम्रशाखः“वल्कं वल्कलमस्त्रियाम्” इत्यमरः। अत एव मृदितकिसलयः विलुलितपल्लवः। “क्वचिन्न” इति प्रतिषेधात् न मृदेः गुणः। अशोकः वृक्षविशेषः सुराङ्गनानाम् अप्सरसां सम्बन्धिनीम् अधिकां बहुमतिं तत्कर्त्तृकसम्मानं सज्जनसेवो धन्यः अयम् इति ययौ प्राप। ननु सेवकेषु का श्लाघा ? इति अत्र आह। परीति। सद्गुणानां महतां परिजनता अपि अनुचरत्वम् अपि। भावे तल्। गुणाय उत्कर्षाय भवति इति शेषः। एतेन तासां मुनेः प्रभावदर्शनात् एव पारवश्यं गम्यते॥९॥
यमेति। यमः देशकालाद्यनपेक्षया शुद्धिहेतुः अहिंसादिः, नियमः तदपेक्षया शुद्धिहेतुः तपःस्वाध्यायादिः ताभ्यां कृशी-
शशधर इव लोचनाभिरामैः
गगनविसारिभिरंशुभिः परीतः।
शिखरनिचयमेकसानुसद्मा
सकलमिवापि दधन्महीधरस्य॥११॥
सुरसरिति परन्तपोऽधिगच्छन्
विधृतपिशङ्गबृहज्जटाकलापः।
हविरिवविततः शिखासमूहैः
समभिलषन्नुपवेदि जातवेदाः॥१२॥
कृतानि अपि स्थिराणि दृढानिअङ्गानि सस्य सः। विधृतायुधः धृतशस्त्रःअत एव तपःक्षात्रतेजोयुक्तःसः अर्जुनः शमः शान्ति अभ्युदयकाण्डे दीप्तता उग्रता अभिचारकाण्डे ताभ्याम् अनुपमाभ्यां गरीयान् उदग्रः। अथर्वणा वशिष्ठेन कृता रचितापदानांपङ्क्तिः आनुपूर्वी यस्य सः वेदःचतुर्थवेदः इत्यर्थःअथर्वमस्तु मन्त्रोचारःवशिष्ठकृतः इति आगमः। सः इव नाभिः स्त्रीभिः परिददृशे दृष्टः॥१०॥
अथचतुर्भिः तम् एव विशिनष्टि। शशधरेत्यादिभिः। शशधरः चन्द्रः इव लोचनाभिरामैःआह्लादकरैःगगनविसारिभि अंशुभिः तेजोभिः परीतःव्याप्तः। अम्बरवत् एकं सानु सद्म यस्य सःएकदेशस्थःअपि इत्यर्थः। महीधरस्य इन्द्रकीलस्य सकलं शिखरनिचयम् अपि दधत् आवृण्वन् इव इति उत्प्रेक्षा॥११॥
सुरेति। पुनः सुरसरिति गङ्गाकूले परन्तपःअधिगच्छन् पूजयन् फलाभिलाषेण इति शेषः। हविः समभिलषन् इति
सदृशमतनुमाकृतेः प्रयत्नं
तदनुगुणामपरैः क्रियामलङ्घ्याम्।
दधदलघु तपःक्रियानुरूपं
विजयवतीञ्च तपःसमां समृद्धिम्॥१३॥
चिरनियमकृशोऽपि शैलसारः
शमनिरतोऽपि दुरासदः प्रकृत्या।
उपमानविशेषणसामर्थ्यात्। तथा विधृतः पिशङ्गबृहज्जटाकलापःयेन सः। अत एव उपवेदि वेद्याम्। विभक्त्यर्थे अव्ययीभावः। शिखासमूहैःज्वालाजालैःविततः विस्तृतः हविः आज्यादिकं समभिलषन्। जातं वेदःहिरण्यं भोज्यं कर्मफलमितियावत्। यस्मात् इति जातवेदाःवह्निः इव स्थितः॥१२॥
सदृशमिति। पुनः आकृतेःवपुषः। “आकृतिः कथिता रूपेसामान्यवपुषीरपि” इति विश्वः। सदृशं तुल्यम् अतनुं महान्तं प्रयत्नम् उद्योगं दधत्। तथा तदनुगुणां प्रयत्नान् गुणाम् अपरैः अन्यः अलङ्घ्यां कर्त्तुम् अशक्याम् इत्यर्थः। क्रियाव्यापारंदधत्। तथा क्रियानुरूपम् अलघु गुरु तपःदधत। तथा विजयवतीं सर्वोत्कर्षवतीं विजयविफलां वा तपःक्रियानुरुपां तपःसमां समृद्धिम् ऐश्वर्य्यं दधत्। अत्र पूर्वं प्रति उत्तरस्य विशेषणतया स्थापनात् प्रथमैकावली अलङ्कारः। “यथापूर्वपरस्य विशेषणतया स्थापन एकावली” इति सर्वस्वसूत्रात्॥१३॥
चिरनियमेति। पुनश्च चिरनियमेन दीर्घकालतपसा कृशः क्षीणाङ्गः अपि शैलसारः। उपमानपूर्वपदः बहुव्रीहिः। शमे निरतः अपि प्रकृत्या दुरासदः दुर्धर्षःनिर्जने विजने देशे तिष्ठन् अपि ससचिवः सपरिवारः इव। किञ्च मुनिः अपि ऐश्वर्य्यरहितः
ससचिव इव निर्जनेऽपि तिष्ठन्
मुनिरपि तुल्यरुचिस्त्रिलोकभर्त्तुः॥१४॥
तनुमवजितलोकसारधाम्नीं
त्रिभुवनगुप्तिसहां विलोकयन्त्यः।
अवययुरमरस्त्रियोऽस्य यत्नं
विजयफले विफलं तपोऽधिकारे॥१५॥
मुनिदनुतनयान् विलोभ्य सद्यः
अपि इत्यर्थः। त्रयाणां लोकानां भर्त्तुःइन्द्रस्य। “तद्धितार्थ”इत्यादिना उत्तरपदसमासः। तुल्यरुचिः समानतेजाः। अपिशब्दः सर्वत्र विरोधद्योतनार्थः। सच मुनेः अतर्क्यमहिमत्वेन निरस्तः इति विरोधालङ्कारः। “विरोधाभासत्वं विरोधः” इति सूत्रात्॥१४॥
तनुमिति। अवजिते तिरस्कृते लोकानां सारधाम्नी सत्त्व तेजसी यया ताम्। “अन उपधा” इत्यादिना ङीप्। त्रयाणां भुवनानां समाहारः त्रिभुवनम्। “तद्धितार्थ” इत्यादिना समाहारार्थे तत्पुरुषः। पात्रादित्वात् स्त्रीत्वप्रतिषेधः। तस्य गुप्तौरक्षणे सहां समर्थाम्। पचाद्यच्। तनुं मूर्त्तिंविलोकयन्त्य अमरस्त्रियः अप्सरसः विजयफले विजयार्थे तपोऽधिकारे तपोऽनुष्ठानं अस्य अर्जुनस्य यत्नं विफलम् अवययुः मेनिरे। त्रैलोक्याधिपत्यादिमहाफलसाधनसमर्थस्य तुच्छफलाभिलाषः मत्त मातङ्गमांसभोगोचितस्य कण्ठीरवस्य जीर्णतृणचर्वणोत्कण्ठा इव न शोभाम् आवहति इति भावः। अत्र विशिष्टतनुविलोकनस्य स्त्रीविशेषण वैफल्यज्ञानहेतुत्वोक्त्या पदार्थहेतुकः काव्यलिङ्गम् अलङ्कारः॥१५॥
प्रतनुबलान्यधितिष्ठतस्तपांसि।
अलघुनि बहु मेनिरे च ताः स्वं
कुलिशभृता विहितं पदे नियोगम्॥१६॥
अथकृतकविलोभनं विधित्सौ
युवतिजने हरिसूनुदर्शनेन।
प्रसभमवततार चित्तजन्मा
हरति मनो मधुरा हि यौवनश्रीः॥१७॥
सपदि हरिसखैर्वधूनिदेशात्
मुनीति। प्रतनुबलानि अनुत्कृष्टमाराणि तपांसि अधितिष्ठतः अनुष्ठितः मुनीन् दनुतनयान् दानवान् स सद्यः तत्क्षणम् एव विलोभ्य आकृष्य चिरात् कुलिशभृता शक्रेण अलघुनि महति पदे स्थाने विहितं दत्तं स्वं स्वकीयं नियोगम् अधिकारं ताःस्त्रियः बहु यथा तथा मेनिरे। निकृष्टपदवृत्तीनाम्उत्कृष्टपदलाभः महान्। बहुमानमूलन् इति भावः। विलोभ्यमेनिरे इति अन्वयः। यद्वा विलोभ्य लोभं कारयित्वा विहितं शक्रेण इति अन्वयात्समानकर्त्तृत्वनिर्वाहः॥१६॥
अथेति। अथ अनन्तरं कृतकविलोभनं कत्रिमं विलोभनं विधिस्त्रौविधातुम् इच्छी। त्रिपूर्वात् दधातेः सन्नन्तात् उप्रत्ययः। युवतिजने हरिसृनोःअर्जुनस्य दर्शनेन चित्तजन्मा कामःप्रसभं बलात् अवततार। दैवतत्परं वञ्चयितुम् आगतस्य मोहोभवति वतः स्वयं मुनिवञ्चनप्रवृत्ताः स्त्रियः तेन वञ्चिताः इत्यर्थः। युक्तञ्च एतत्। हि यस्मात् मधुरा मनोहरा यौवनश्रीः मनः हरति। बलात् इति शेषः॥१७॥
ध्वनितमनोरमवल्लकीमृदङ्गैः।
युगपदृतुगणस्य सन्निधानं
वियति वने च यथायथं वितेने॥१८॥
सजलजलधरं नभो विरेजे
विवृतिमियाय रुचिस्तड़िल्लतानाम्।
व्यवहितरतिविग्रहैर्वितेने
जलगुरुभिस्तनितैर्दिगन्तरेषु॥१९॥
परिसुरपतिसूनुधाम सद्यः
समुपदधन् मुकुलानि मालतीनाम्।
सपदीति। सपदि बधूनां निदेशात् नियोगात् ध्वनिताः नादिताः मनोरमाः वल्लक्यः वीणाः मृदङ्गाश्च यैः तैः हरिसखैः गन्धर्वैः वियति आकाशे वने च युगपत् ऋतुगणस्य ऋतुषट्कस्य सन्निधानम् आविर्भावः यथायथं यथास्वम् असङ्करेण इत्यर्थः। “यथास्वं तु यथायथम्” इति निपातः वितेने वितस्तरेउद्दीपनसामग्री सम्पादिता इत्यर्थः॥१८॥
अथ वर्षाक्रमेण ऋतून् वर्णयति। सजलेत्यादि। सजलाः जलधराः यस्मिन् तन्नभः विरेजे। तड़ितः लताः इव तासांरुचिः प्रभा विकृतिं विजृम्भणम् इयाय। तथा व्यवहितरतिविग्रहैः दूरीकृत रतिप्रकल्पितप्रणयकलहैः जलगुरुभिः जलभागत् गम्भीरैःइत्यर्थः। स्तनितैःगर्जितैः दिगन्तरेषुवितेने विततैः अभावि। भावे लिट्। अकर्मकत्व वैवक्षिकम्। अत एव दिगन्तरेषु इति अधिकरणत्वेन प्रयोगः। अन्यथा कर्मत्वम् एव स्यात्॥१९॥
विरलमपजहार बद्धविन्दुः
सरजसतामवनेरपां निपातः॥२०॥
प्रतिदिशमभिगच्छताभिमृष्टः
ककुभविकाससुगन्धिनानिलेन।
नव इव विवभौ सचित्तजन्मा
गतधृतिराकुलितश्च जीवलोकः॥२१॥
परीति। परिसुरपतिमनुधाम अर्जुनाश्रमं प्रति। परीति लक्षणार्थं कर्मप्रवचनीयस्य योगात् द्वितीया। यद्वावर्जनार्थस्यतस्य अत्र विरोधात् विभक्त्यर्थे अव्ययीभावः। तथा च सुरपतिसृनुधाम्नि इत्यर्थः। सद्यः मालतीनां जातीलतानाम्। “सुमना मालती जातिः” इत्यमरः। मुकुलानि समुपदयत् जनयन्। विरलं यथा तथा वद्धविन्दुः अपां निपातःवृष्टिः अवनेःसम्बन्धिनीं सरजसतां सरजस्कत्वम्। “अचतुर” इत्यादि सूत्रेण साकल्यार्थेअव्ययीभावः। “समासान्तनिपातश्च बहुव्रीह्यर्थः तु लक्ष्यते। अव्ययीभावदर्शनन्तु प्रायिकम्” इति केचित्। अपजहार धूलिं शमयामास इत्यर्थः॥२०॥
प्रतिदिशमिति। दिशि दिशि प्रतिदिशम्। यथार्येअव्ययीभावः शरत्प्रभृतित्वात् समासान्तनिपातः। अभिगच्छता संवाता ककुभानि अर्जुनकुसुमानि। “इन्द्रद्रुः ककुभोऽर्जुनः” इत्यमरः। तेषां विकासेन सुगन्धिना मनोज्ञगन्धेन।गन्धस्येत्त्वेतदेकान्तग्रहणं प्रायिकम्। अनिलेन अभिमृष्टःअत एवसचित्तजन्मा कामाक्रान्तः इत्यर्थः। अत एव गतधृतिः गतधैर्य्यःआकुलितः क्षोभितश्चरतिं प्रति इति भावः। एवम्भूतः जीव-
व्ययितमपि भृशं मनो हरन्ती
परिणतजम्बुफलोपभोगहृष्टा।
परभुतयुवतिः स्वनं वितेने
नवनवयोजितकण्ठरागरम्यम्॥२२॥
अभिभवति मनः कदम्बवायौ
मदमधुरे च शिखण्डिनां निनादे।
जन इव न धृतेश्चचालजिष्णुः
न हि महतां सुकरः समाधिभङ्गः॥२३॥
लोक नवः इव अवस्थान्तरप्राप्त्या अपूर्वःइव विबभौ भातिस्म। इतिउत्प्रेक्षा॥२१॥
व्ययितमिति। व्ययितं दुखितम् अपि मनः भृशं हरन्ती किमुत सुखितम् इति भावः। जम्ब्वाःफलं जम्बु। “वार्हतञ्च
फले जम्ब्वाजम्बुः स्त्रीजम्बुजाम्बवम्” इत्यमरः। “जम्ब्वावा” इति अणाभावपक्षे अत्रि “फले लुक्” इति लुक्। “लुक् तद्धितलुकि” इति स्त्रीप्रत्ययनिवृत्तिः। ज्म्वुच तत् फलम् इति सामान्यविशेषयोः सह निर्दशः। यद्वा जम्ब्वाफलम् इति विग्रहः। “इको ह्रस्वोऽङ्यो गालवस्य” इति ह्रस्वः। तस्य परिणतस्य उपभोगेन हृष्टा। अत एव परभृतयुवतिः काोकिलाङ्गना नवनवं नवप्रकारं यथा तथा योजितेन सम्पादितेन कण्ठरागेण कण्ठमाधुर्य्येण रम्यं सौम्यम् इत्यर्थः। स्वनं स्वरं वितेने वर्षासु अपि मधुराः स्वराः कोकिलायाः इति प्रसिद्धिः॥२२॥
अभिभवतीति। कदम्बवायौकदम्बसम्बन्धिनि मारुते
धृतबिमवलयावलिर्वहन्ती
कुमुदवनैकदुकूलमात्तबाणा।
शरदमलतले सरोजपाणौ
घनसमयेन बधूरिवाललम्बे॥२४॥
समदशिखिरुतानि हंसनादैः
कुमुदवनानि कदम्बपुष्पवृष्ट्या।
मदमधुरे शिखण्डिनां निनादे च मनःअभिभवति अभिहरति सति जिष्णुः जयनशीलःअर्जुनः जनः पृथग्जनः इव धूतेः धैर्य्यात् न चचाल। वर्षाः अपि तदुद्दीपनाय न शेकुः इत्यर्थः। हि यन्मात् महतां समाधिभङ्गः सुकरः न। न केन अपि कर्त्तुं शक्यते इत्यर्थः॥२३॥
धृतेति। बिमानि वलयानि इव तेषां आवलिः धृता यया सा। कुमुदवनम् एकं मुख्यं दुकूलम् इव तत् वहन्ती। आत्तानि गृहीतानि बाणानि नीलझिण्टोनि यया सा आत्तबाणा धृतशरा च। “गृह्णीयात्क्षत्रिया शरम्” इति स्मरणात्। “बाणोक्ता नीलझिण्टीच” इति वैजयन्ती। शरद्बधूः जाया इव घनसमयेन वर्षर्त्तुना वरेण इति शेषः। अमलतले निर्मलतले सरोजं पाणिः इव तस्मिन् आललम्बे जगृहे। कर्मणि लिट्। बधूवरसमागमवदृतुसन्धिः अशोभत इत्यर्थः। अत्र “आत्तबाणा” इति झिण्टीशरयोः बाण्योः अभेदाध्यवसायात् श्लेषमूला अतिशयोक्तिः उपमाङ्गम् इति अनयोः सङ्करः॥२४॥
अथ ऋतुसन्धिंवर्णयति। समदेति। समदशिखिरुतानि मत्तमयूरकूजितानि हंसनादैः समेत्य तथा कुमुदवनानि
श्रियमतिशयिनींसमेत्य जग्मुः
गुणमहतां महते गुणाय योगः॥२५॥
सरजममपहाय केतकीनां
प्रसवमुपान्तिकनीपरेणुकीर्णम्।
प्रियमधुरसनानि षट्पदाली
मलिनयति स्म विनीलवन्धनानि॥२६॥
कदम्बपुष्पवृष्ट्या समेत्य अतिशयिनीम् अतिशयवतीं श्रियजग्मुः। तथाहि। गुणमहतां गुणाधिकानां योगः परस्परसमागमःमहते गुणाय उत्कर्षायभवति इति शेषः। अत्र त्रिपाद्यां समालङ्कारः।“सा समालङ्कृतिर्योग्यवस्तुनोरुभयोरपि” इति लक्षणात्। सः अपि चतुर्येन अर्थान्तरन्यासेन स्वसमर्थकेन अङ्गाङ्गिभावेन सङ्कीर्य्यते॥२५॥
सरजसमिति। प्रियमधुः इष्टमकरन्दः। न अत्र कप्समासान्तः पुंलिङ्गोत्तरपदःबहुव्रीहिःनपुंसकलिङ्गस्य एव मधु शब्दस्य उरःप्रभृतिषु पाठात्। “मकरन्दस्य मद्यस्य माक्षिकस्य अपि वाचकः। “अर्द्धर्चादिगणे पाठात् पुंनपुंसकयोर्मधुः” इति अभिधानात्। षट्पदाली षट्पदावलिः उपान्तिके यानि नीपानि कदम्बकुसुमानि तेषां रेणुभिः परागैःकीर्णंव्याप्त, किञ्च स्वतः अपि सह रजसा सरजसं न तु अरजस्कम् इति भावः। साकल्ये अव्ययीभावः। “अचतुर“ इत्यादिना निपातः। केतकीनां प्रसवं पुष्पम् अपहाय विनीलबन्धनानि नलिन वृन्तानि असनानि प्रियकपुष्पाणि मकरन्दभरितानि इति शेषः। “सर्जकासनबन्धूकपुष्पप्रियकजीवकाः” इत्यमरः। मलिनयति स्म यथा वृन्तात् अन्यत्र अपि मालिन्यं स्यात् तथा मधु-
मुकुलितमतिशय्य बन्धुजीवं
धृतजलविन्दुषु शाद्वलस्थलीषु।
अविरलवपुषः सुरेन्द्रगोपाः
विकचपलाशचयश्रियं समीयुः॥२७॥
अविरलफलिनीवनप्रसूनः
कुमुमितकुन्दसुगन्धिगन्धवाहः।
गुणमसमयजं चिराय लेभे
विरलतुषारकणस्तुषारकालः॥२८॥
लोभात् छादयामासइत्यर्थः। न हि मध्यासक्तः मधुलाभे असति विभूतिषु आमज्जति इति भावः॥२६॥
मुकुलितमिति। धृताः जलविन्दवः यासु तासु शाद्वलस्थलीषु शादहरितप्रदेशेषु अविरलवपुषःस्थूलमूर्त्तयः सुरेन्द्रगोपाः कीटविशेषाः मुकुलितं बन्धुजीवकंबन्धुजीवकमुकुलम् इत्यर्थः। “बन्धुको बन्धुजीवकः” इत्यमरः। अतिशय्य अतिक्रम्य विकच पलाशचयः विकसितकिंशुकराशिः। “पलाशे किंशुकः पर्णः” इत्यमरः। तस्य श्रियं तत्सदृशीं श्रियम् इत्यर्थः। अत एव निदर्शनालङ्कारः। समीयुः प्रापुः॥२७॥
अथ हेमन्तवर्णनम् आह। अविरलेति। अविरलानि घनानि फलिनीवनानां प्रियङ्गुवनानां प्रसूनानि यस्मिन् सः। “प्रियङ्गुः फलिनी फली” इत्यमरः। कुसुमितैः कुन्दैःमाघ्यकुसुमैः, सुगन्धिः गन्धवाहः यस्मिन् सः। “माघ्यंकुन्दम्” इत्यमरः। शशिराणाम् अपि कुन्दानां हेमन्ते प्रादुर्भावात् अविराधः। विरलतुषारकणःइति प्रारम्भोक्तिः। तुषारकालः
निचयिनि लवलीलता विकाशे
जनयति लोध्रसमीरणे च हर्षम्।
विकृतिमुपययौ न पाण्डुसूनुः
चलति नयान्न जिगीषतां हि चेतः॥२९॥
कतिपयसहकारपुष्परम्यः
तनुतुहिनोऽल्पविनिद्रसिन्दुवारः।
सुरभिमुखहिमागमान्तशंसी
समुपययौं शिशिरः स्मरैकबन्धुः॥३०॥
हेमन्तः चिराय असमयजम् अकालसम्भवं गुणम् उत्कर्षंलेभे॥२८॥
निचयिनीति।निचयिनि उपचयवति लवलीलतानां विकाशे पुष्पविजृम्भणे तथा लोध्रसमीरणे च हर्षे प्रसादम् उत्कण्ठाम् इति यावत् जनयति सति पाण्डुसूनुः विकृति न उपययौ। कुतः ? हि यस्मात् जिगीषतां जेतुम् इच्छतां चेतनयात् नीतेः न चलति न हि क्रोधाक्रान्तेचेतसि शृङ्गाररसस्य विकाशः तद्विरुद्धत्वात् रोषस्य इति भावः॥२९॥
कतिपयेति। कतिपयैः एव सहकारपुष्पैःचुतकुसुमैः रम्येन तु वसन्तवत् समग्रैःन अपि हेमन्तवत् तद्रहितैः इति भावः। तनुतुहिनः अल्पहिमः न तु हेमन्तवत् बहुतुहिनः न अपि वसन्तवत् विरलतुहिनः इति भावः। अल्पानि कतिपयानि विनिद्राणि सिन्दुवाराणि विकसितनिर्गुण्डीकुसुमानि यस्मिन् सः।अत्र अपि सहकारवत् अभिप्रायः द्रष्टव्यः। “सिन्दुवारेन्द्रस्रुग्मौ निर्गुण्डीन्द्राणिकेत्यपि” इत्यमरः। इत्थं सुरभिमुखं
कुमुमनगवनान्युपैतुकामा
किसलयिनीमबलम्ब्यचूतयष्टिम्।
क्वणदलिकुलनूपुरा निरासे
नलिनवनेषु पदं वसन्तलक्ष्मीः॥३१॥
विकसितकुसुमाधरं हसन्तीं
कुरवकराजिवधूं विलोकयन्तम्।
वसन्तप्रारम्भंहिमागमान्तं हेमन्तावसानं च शंसति सूचयति इति सः तथोक्तः स्मरस्य एकबन्धुः सहकारी उभयर्त्तुधर्मसम्पत्तेः इति भावः। शिशिरं समुपययौ॥३०॥
अथ वसन्तप्रारम्भम् आह। कुसुमेति। कुसुमप्रधानानां नगानां वृक्षाणां कुसुमानां नगाः वृक्षाः वा तेषां वनानि उपैतुम् आरोढुं कामः यस्याः सा। “शैलवृक्षौ नगावगौ” इत्यमरः। “लुम्पेदवश्यं सःकृत्ये तुं काममनसोरपि” इति मकारलोपः। वसन्तलक्ष्मीः किसलयिनीं पल्लविनीं चूतयष्टिं चूतशाखाम् इव इति भावः। अवलम्व्यअवष्टभ्य अन्यथा आरोढुम् अशक्यत्वात्इति भावः। क्वणत् शिञ्जमानं शब्दायमानम् अलिकुलं नृपुरम् इव यस्याः सा तथोक्ता सती। “क्वणदलिकुलनूपुरम्” इत्यपि पाठः।अन्यत्र अलिकुलवत् नूपुरं नलिनवनेषु पदं निरासे निदधे। तेषु प्रथमं प्रादुरासीत् इत्यर्थः। “उपसर्गादस्यत्यूह्योर्वा” इति वचनात् आत्मनेपदम्। अत्र प्रक्रान्तवसन्तलक्ष्मीविशेषणसामर्थ्यात् अप्रस्तुतनायिकाव्यवहारसमारोपात् समासोक्तिः अलङ्कारः॥३१॥
विकसितेति। विकसितः विश्लिष्टः कुसुमम् एव अधरः यस्मिन् कर्मणि यत् यथा तथा हसन्तीं स्मयमानां कुरवक
ददृशुरिव सुराङ्गना निषण्णं
सशरमनङ्गमशोकपल्लवेषु॥३२॥
मुहरनुपतता विधूयमानं
विरचितसंहति दक्षिणानिलेन।
अलिकुलमलकाकृतिं प्रपेदे
नलिनमुखान्तविसर्पि पङ्कजिन्याः॥३३॥
श्वसनचलितपल्लवाधरोष्ठे
नवनिहितेर्ष्यमिवाबधू नयन्ती।
राजिः एव वधूः तां विलोकयन्तं कामुकतया इति भावःअत एव अशोकपल्लवेषु पल्लवसंस्तरेषु निषण्णं स्थितम् इत्यर्थः रिरंसया इति शेषः। सशरं नित्यविजयित्वात् इति भावः। इत्थंशृङ्गारवीरयोः एकाधिकरणभूतम् अनङ्गंसुराङ्गनाः ददृशुः इव इति उत्प्रेक्षा। अशोकाद्यवलोकनात् मदनसाक्षात्कारात् इव महान् मनःक्षोभःतासाम् आसीत् इत्यर्थः। अत्र रूपकोत्प्रेक्षयोः संसृष्टिः॥३२॥
मुहुरिति। अनुपतता अनुधावता दक्षिणानिलेन मलयमारुतेन मुहुः विधूयमानं कम्पितम् अत एव विरचिता संहतिः येन तत्सम्भूतम् इत्यर्थः। पङ्कजिन्याः यत् नलिनं मुखम् इव तस्य अन्तः विसर्पि प्रान्तचारि अलिकुलं कर्त्तृअलकाकृतिम् अन्तकसादृश्यं प्रपेदे॥३३॥
श्वसनेति। षट्पदेन शाललता सर्जतरुशाखा बधूः इव शाललताबधूः। “प्राकारग्रहयोः शालः शालःसर्जतरुः स्मृतः” इति शाश्वतः। श्वसनेन वायुना निःश्वासेन च चलितः पल्लवः
मधुसुरभिणि षट्पदेन पुष्पे
मुख इव शाललताबधूश्चुचुम्बे॥३४॥
प्रभवति न तदा परो विजेतुं
भवति जितेन्द्रियता यदात्मरक्षा
अवजितभुवनस्तथाहि लेभे
सिततुरगे विजयं न पुष्पमासः॥३५॥
कथमिव तव सम्मतिर्भवित्री
सममृतुभिर्मुनिनावधीरितस्य।
अधरोष्ठः इव यत्र तस्मिन्। “ओत्वोष्ठयोः समासे वा”इति पररूपं वक्तव्यम्। मधुना मकरन्देन मद्येन च सुरभिणि पुष्पेमुखे इव नवं यथा तथा निहितेर्ष्यंकृतकोपम् इव इति क्रियाविशेषणम्। तथा अवधूनयन्ती कम्पयन्ती। “धृञ्प्रीजोर्नुम् वक्तव्यः” इति णिचि नुमागमः। चुचुम्बे चुम्बिता। अत्र श्वसनशब्दार्थमधुशब्दार्थयोश्च स्वस्वभेदाध्यवसायात् श्लेषमूलातिशयोक्तिः। सा च उपमाङ्गम् इति अनयोः सङ्करः॥३४॥
प्रभवतीति। परः शत्रुः तदा तस्मिन् काले विजेतुः न प्रभवति न शक्नोति। यदा जितेन्द्रियता जितेन्द्रियजयित्वम् आत्मरक्षा भवति जायते। तथाहि। अवजितभुवनः त्रैलोक्यविजयी पुष्पमासःवसन्तः सिततुरगे अर्जुने विषये विजयं न लेभे। अतः जितेन्द्रियाः दुर्जयाः इत्यर्थः। विशेषेण सामान्यार्थसमर्थनरूपः अर्थान्तरन्यासः अलङ्कारः॥३५॥
अथ ग्रीष्मं वर्णयति। कथमिति। विरचितमल्लिकाविकाशनिदाघकालःग्रीष्मःऋतुभिः वर्षादिभिः समं मुनिना अवधी
इति विरचितमल्लिकाविकाशः
स्मयत इव स्म मधुं निदाघकालः॥३६॥
बलवदपि बलं मिथो विरोधि
प्रभवति नैव विपक्षनिर्जयाय।
भुवन परिभवो न यत्तदानीं
तमृतुगणः क्षणमुन्मनीचकार॥३१॥
रितस्य तिरस्कृतस्य तव सम्मतिः लोके योग्यत्वेन अनुमतिः, मान्यत्वं कथम् इव भवित्री? न सम्मानः कथञ्चित् भविष्यति इत्यर्थः। इति इत्थंमधुः वसन्तः “चैत्रे दैत्ये वसन्ते च जीवे कोके मधुः स्मृतः” इति विश्वः। स्मयते स्म इव जहाम किम् ? इति उत्प्रेक्षा। “लट् स्मे” इति भूतार्थे लट्। प्रहासस्य शुभ्रत्वेन प्रसिद्धेः मल्लिकाविकाशे हासत्वाध्यवयायः। अत्र ऋतुभिः समम् अवधीरितस्य इत्यत्र अभेदाध्यवसायमूला सहोक्तिः अलङ्कारः। सम्बन्धभेदभिन्नस्य अवधीरणस्य अभिन्नतया अध्यवसायात् तत् एव अवधीरणम् सम्मतिद्वारा स्मयोत्प्रेक्षा इति अनयोः अङ्गाङ्गिभावेन सङ्करः॥३६॥
बलवदिति। बलवत् प्रबलम् अपि प्रकृष्टगामि इति यावत्। मिथः विरोधि परस्परस्पर्द्धि बलं सैन्यम्। “वरूथिनी बलं सेन्यम्” इत्यमरः। विपक्षनिर्जयाय शत्रुविजयाय। “तुमर्थाच्च” इत्यादिना चतुर्थी। शत्रून् जेतुम् इत्यर्थः न प्रभवति न शक्नोति एव। कुतः ? यत् यस्मात् कारणात् भुवनानां परिभवी जेता अपि। “जिदृक्षि” इत्यादिना इन्प्रत्ययः। ऋतुगणः तदानीं तम् अर्जुनं क्षणम् अपि न उन्मनीचकार अनुन्मनसम् उन्मनसं न चकार। “अरुर्मनश्चक्षुः” इत्यादिना
श्रुतिसुखमुपवीणितं सहायैः
अविरललाञ्छ्नहारिणश्च कालाः।
अविहितहरिसूनुविक्रियाणि
त्रिदशबधूषु मनोभवं वितेनुः॥३८॥
न दलति निचये तथोत्पलानां
न च विषमच्छदगुच्छयूथिकासु।
अभूततद्भावेच्विप्रत्ययः सलोपश्च। विशेषेण सामान्यसमर्थनरूपः अर्थान्तरन्यासः॥३७॥
एवं तटस्थस्यउद्दीपनसामग्री विफला इत्युक्ता सम्प्रति विपरीता जाता इति आह। श्रुतीति। सहायैःतासां सहचरैःगन्धर्वैः कृतम् इति शेषः। “न लोक”इत्यादिना षष्ठीप्रतिषेधः कर्त्तरि तृतीया। श्रुतिसुखं श्रोत्रमधुरम् उपवीणितं वीणया उपगानम्। “सत्यापपाश” इत्यादिना वीणाशब्दात् णिजन्तात् भावे क्तः। अविरलैःभूयोभिः लाञ्छनैः पूर्वोक्तैः फलकुसुमादिभिः चिह्नैः हारिणःमनोहराः कालाः वसन्तादि ऋतवः अविहिता अकृता हरिसुनोः अर्जुनस्य क्रियाया मनोविकृतिःयैःतानि तथाभूतानि सन्ति। “नपुंसकमनपुंसक”इत्यादिनानपुंसकैकशेषः। त्रिदशबधूषु मनोभवं वितेनुः विस्तारयामासुः। सः अयम् परप्रहारार्थम् उद्यतम् आयुधं स्वात्मानम्एव प्रहरति इति न्यायवत् जातः इति भावः। अत्र मुनिविक्रियाथं स्त्रीणां विक्रियारूपानर्थोत्पत्तिकथनात् द्वितीयःविषमालङ्कारः। तथाच सूत्रम्। “विरूपकार्य्यानर्थयोरुत्पत्तिरुपसंघट्टनाद्विषमालङ्कारः”इति॥३८॥
तटस्थवत् आलम्बनगणः अपि विपरीतः अभूत् इति श्लोक
अभिरतिमुपलेभिरे यथासां
हरितनयावयवेषु लोचनानि॥३९॥
मुनिमभिमुखतां निनीषवो याः
समुपययुः कमनीयतागुणेन।
मदनमुपदधे स एव तासां
दुरधिगमा हि गतिः प्रयोजनानाम्॥४०॥
प्रकृतमनुससार नाभिनेयम्
प्रविकसदङ्गुलि पाणिपल्लवंवा।
द्वयेन आह। नेत्यादि। आसां लोचनानि हरितनयावयवेषु यथा तथा दलति विकसति उत्पलानां निचये अभिरतिं न उपलेभिरे न प्रापुः। विषमच्छदगुच्छाःप्तपर्णस्तवकाः यूथिकामल्लिकाश्च तासुअभिरतिं नउपलेभिरे। “सप्तपर्णोविशालत्वक् शारदो विषमच्छदः” इत्यमरः। तथा रमणीयत्वात् तदवयवानाम् इत्यर्थः। इति चक्षुः प्रीतिः उक्ता॥३९॥
अथ मनःसङ्गं सूचयति। मुनिमिति। याःस्त्रियः कमनीयता सौन्दर्य्यं सा एवं गुणः तेनमुनिम् अर्जुनम् अभिमुखतांनिनीषवः नेतुम् इच्छवः समुपययुः। तासां स्त्रीणां सः मुनिः एव मदनम् उपदधे जनयामास। तथाहि। प्रयोजनानाम् उद्देश्यानां गतिः परिणतिःदुरधिगमा हि दुर्ज्ञेया खल्। अतः क्वचित् भवति क्वचित् न भवति इति भावः॥४०॥
अथ आसाम् अनुरागम् एव कार्य्यत प्रपञ्चयति। प्रकृतमिति। विलासि सविलासं नर्त्तकीनां सम्बन्धि। “शिल्पिनि ष्वुन्” इति ष्वुन्प्रत्ययः। “नृत्तिस्रनिरञ्जिभ्य एव” इति नियमः। चक्षुः कर्त्तुप्रकृतं प्रक्रान्तम् अभिनेयम् अभिनेतव्यं
प्रथममुपहितं विलासि चक्षुः
सिततुरगे न चचाल नर्त्तकीनाम्॥११॥
अभिनयमनसः सुराङ्गनायाः
निहितमलक्तकवर्त्तनाभिताम्रम्।
चरणमभिपपात षट्पदाली
धृतनवलोहितपङ्कजाभिशङ्का॥४२॥
अविरलमलसेषु नर्त्तकीनां
रसभावादिव्यञ्जकं न अनुससार। तद्दूषणं तदानुगुण्येन एव दृष्टिप्रयोगनियमात् इति भावः। तथा प्रविकसदङ्गुलि पाणिपल्लवं वा न अनुससार। सः च दोषः “यतो हस्तस्ततो दृष्टिः” इति नियमात् इति भावः। “पल्लवोऽस्त्री किशलयम्” इत्यमरः। “वा स्याद्विकल्पोपमयोरेवार्थे च समुच्चये” इति विश्वः। किन्तु प्रथमं प्रवेशःएव सिततुरगे अर्जुने उपहितंसत् न चचाल तत्र एव लग्नं तस्थौ। रागार्त्तेन किञ्चित् करणीयम् अनुसन्धेयम् इति भावः॥४२॥
अभिनयेति। अभिनयः रसभावादिव्यञ्जकचेष्टाविशेषः। “व्यञ्जकाभिनयौ समौ”इत्यमरः। तत्र मनःयस्याः तस्याः व्यासङ्गात् भृङ्गापातम् अजानत्याः इत्यर्थःI सुराङ्गनायाः सम्बन्धि अलक्तकवर्त्तनेन लाक्षारसरञ्जनेन अभिताम्रंनिहितं न्यस्तं चरणंषट्पदाली कर्त्ती धृता नवलोहितपङ्कजानां अभिशङ्गा प्रत्यग्रकोकनदभ्रमः यया सा अभिपपात अभिधावति स्म। अत्र षट्पदाल्याः स्त्रीचरणे पङ्कजम्भ्रमाभिधानात् भ्रान्तिमदलङ्कारः। तेन च उपमा व्यज्यते इति अलङ्कारेण अलङ्कारध्वनिः॥४२॥
द्रुतपरिषिक्तमलक्तकं पदेषु।
सवपुषमिव चित्तरागमूहः
नमितशिखानि कदम्बकेसराणि॥४३॥
नृपसुतमभितः समन्मथायाः
परिजनगात्रतिरोहिताङ्गयष्टेः।
स्फुटमभिलषितं बभूव बध्वाः
बदति हि संवृतिरेव कामितानि॥४४॥
अभिमुनि सहसा हृतेपरस्याः
अविरलमिति। नमितशिखानि नर्त्तकीपादपीड़नात् नमिताग्राणि कदम्बकेसराणि रङ्गपूजादत्तानि इति शेषः। अविरलं सान्द्रं यथा तथा द्रुतं रागोष्मणा विगलितम् अत एव परिषिक्त नर्त्तकीनाम अलसेषु पदेषु पादन्यासेषु अलक्तकं लाक्षारागं सवपुषं सूर्त्तिमन्तं चित्तरागमं उत्कण्ठतया बहिः निःसृतं मुनिविषयकं रागम् इव इति उत्प्रेक्षा। ऊहुः वहन्ति स्म॥४३॥
अथआसां शृङ्गारचेष्टां कथयति। नृपेति। नृपसुतम् अर्जुनम् अभितः सम्मुखं परिजनस्य सखीजनस्य गात्रेण तिरोहिता तज्जया स्वाकारगोपनाय अन्तर्हिता अङ्गयष्टिः यस्याः सा तस्याः समन्मथायाः बध्वाः अभिलषितं मुनिं प्रति अनुरागः स्फुटं बभूव। न च संवृतस्य अभिव्यक्तिः विरुद्धा इति वाच्यम् इति आह। यतः संवृतिः सम्यक् गोपनम् एव कामितानि अनुरागान्। कामयतेः भावे क्तः। वदति हि प्रकटयति इत्यर्थः। अयम् अनुरागस्य स्वभावः उक्तः यया चेष्टया रागः संव्रियते स एव अस्य प्रकाशिका इति भावः॥४४॥
घनमरुता जघनांशुकैकदेशे।
चकितमवसनोरु सत्रपायाः
प्रतियुवतीरपि विस्मयं निनाय॥४५॥
धृतविसवलये निधाय पाणौ
मुखमधिरूषितपाण्डुगण्डलेखम्।
नृपसुतमपरा स्मराभितापात्
अमधुमदालसलोचनं निदध्यौ॥४६॥
सखि !दयितमिहानयेति सा मां
प्रहितवती कुसुमेषुणाभितप्ता।
अभिमुनीति। अभिमुनि मुनिसमक्षं घनेन मरुता जघनांशुकस्य एकदेशे सहसा हृते सति सत्रपायाःसल- ज्जायाःपरस्याः सम्बन्धि अवसनौ निरावरणौ ऊरू यस्मिन् तत् चकितं भयसंभ्रमः प्रतियुवतीः अपि सपत्नीःअपि विस्मयं निनाय। “किमुत अन्यजनम् ? इति अपिशब्दार्थः। न तु मुनिम् इति आशयः॥४५॥
धृतेति। अपरा स्त्री स्मराभिपातात् हेतोः धृतानि विसानि एव वलयानि येन तस्मिन् पाणौ अधिरूषिते चन्दनादिचर्चिते पाण्डू गण्डलेखे गण्डस्थले यस्य तत् मुखं निधाय आरोप्य अमधुमदे मधुमदरहिते तथापि अलसे लोचने यस्मिन् कर्मणि तत् यथा तथा तं नृपसुतं निदध्यौ पश्यति स्म। “निर्वर्णनं तु निध्यानं दर्शनालोकनेक्षणम्” इत्यमरः॥४६॥
अयं पञ्चभिःमुनिं प्रति दूतीवाक्यम् आह। सखीति। कुमुमेषुणा कामेन अभितप्ता पीड़िता सा नायिका हे सखि।
हृदयमहृदया न नाम पूर्वं
भवदुपकण्ठमुपागतं विवेद॥४७॥
चिरमपि कलितान्यपारयन्त्या
परिगदितु परिशुष्यता मुखेन।
गतघृण ! गमितानि मत्सखीनां
नयनयुगैः सममार्द्रतां मनांसि॥४८॥
दयितं मुनिम् इह आनय इति मां प्रहितवती भवदन्तिक प्रषितवती। किन्तु अविमृष्यकारिणीम् इति आह। हृदयमिति। अहृदया अमनम्का तस्याः त्वद्गतत्वात् इति भावः। अत एव सा पूर्वं प्राक् एव भवदुपकण्ठं त्वत्समीपम् उपागतं हृदयं मनः न विवेद नाम सम्भावनायाम्। अतः मत्प्रेषणं व्यर्थं तस्य अन्तरङ्गत्वात् वहिरङ्गस्य दुर्बलत्वात् इति भावः। एतेन मनःसङ्गः उक्तः। चक्षुः प्रीतिस्तु प्राक् एव सर्वासाम् उक्ता इति न पृथक् उच्यते॥४७॥
“दृङ्मनःसङ्गसङ्कल्पा जागरः कृशता रतिः ह्रीत्यागोन्मादमूर्च्छान्ता इति अनङ्गदशा दश” इति। तत्र आद्यम् अवस्थाद्वयम् अभ्यधायि। सम्प्रति काचित् क्रमनैरपेक्ष्येण सूच्यते। चिरमिति। चिरं कलितानि अपि सन्देशार्थबुद्ध्या योजितानि अपि वचनानि इति शेषः। परिशुष्यता मुखेन इति जागरोक्तिः। परिगदितुम् अपारयन्त्या अशक्नुवत्या तथा हे गतघृण।अद्यापि तां न अनुकम्पसेइति भावः। मत्सखीनां मनांसि नयनयुगैः समम् आर्द्रतां गमितानि उपचयं गमितानि इत्यर्थः। शोकवाष्पाभ्याम् इति भावः। अत्र सखीशोकोक्त्या मूर्च्छावस्था सूच्यते। अत्र शोकवाष्परूपकारणभेदात् प्रतियोगिभेदात् च
अचकमत सपल्लवां धरित्रीं
मृदुसुरभिं विरहय्य पुष्पशय्याम्।
भृशमरतिमवाप्य तत्र चास्याः
तव मुखशीतमुपैतुमङ्कमिच्छा॥४९॥
तदनघ ! तनुरस्तु सा सकामा
व्रजति पुरा हि परासुतां त्वदर्थे।
आर्द्रत्वभेदे अपि अभेदाध्यवसायः। तन्मूला च इयं नयनयुगैःसमम् इति सहोक्तिः अलङ्कारः॥४८॥
अचकमतेति। किं वाच्यं च ? इति आह। सा स्त्री मृद्वो सुरभिश्चया तां मृदुसुरभिं पुष्पशय्यां विरहय्य विहाय सपल्लवां धरित्रीम् अचकमत ऐच्छत्। तस्याः ततः अपि शीतलत्वात् इति भावः। कमेः णिङन्तात् लुङ् “णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ्” इति द्विर्भावः इति केचित्। तत् न अचोकमत इति प्रसङ्गात्। अतः णिङभावपक्षे “कमेश्च्लेश्चङ वक्तव्यः” इति वक्तव्यात् चङि रूपम् एतत्। अस्याः नायिकायाः तत्र धरित्र्याम् अपि भृशम् अरतिं दुःखम् अवाप्य सुखयति इति सुखः शीतः शीतलश्च तं सुखशीतलं तव अङ्कम् उत्सङ्गम् इच्छा वर्त्तते इति शेषः। अस्याश्च औत्सुक्यंकथितम् अत्र अरतिजागरौसुव्यक्तौ इति अस्याः नायिकायाः क्रमेण पुष्पशय्याद्यनेकाधारसम्बन्धकथनात् प्रथमः पर्य्यायालङ्कारः। तदुक्तम्। “क्रमेणै कमनेकस्मिन्नाधारे वर्त्तते यदि। एकस्मिन्नथवानेकं पर्य्यायालङ्कृतिर्द्विधा ॥” इति लक्षणात् ॥४९॥
तदिति। तत् तस्मात् कारणात् यस्याः दुःखस्थत्वात् हेतोः हे अनघ,निष्पाप ! तनुः कृशा इति कार्श्यावस्थाकथनं सा
पुनरपि सुलभं तपोऽनुरागी
युवतिजनः खलु नाप्यतेऽनुरूपः॥५०॥
जहिहि कठिनतां प्रयच्छ वाचं
ननु करुणामृदु मानसं मुनीनाम्।
उपगतमवधीरयन्त्यभव्याः
स निपुणमेत्य कयाचिदेवमूचे॥५१॥
नायिका सकामा सफलमनोरथा अस्तु। हि यस्मात् त्वम् एव अर्थः प्रयोजनं वस्तु वा तस्मिन् त्वदर्थे निमित्ते सति इति शेषः। त्वाम् उद्दिश्य इत्यर्थः। परासुतां निष्प्राणत्वं पुरा व्रजति व्रजिष्यति मरिष्यति इत्यर्थः। तथा च ते निमित्तहत्यया अनघत्वव्याघातः स्यात् इति भावः। “यावत्पुरानिपातयेलेट्” इति भविष्यदर्थेलट्। इदञ्च दशमावस्थाप्रदर्शनम्। न च तपोनिष्ठत्वात् भेतव्यम् इति आह। पुनरिति। पुनः अपिपश्चात् अपि। “पुनरप्रथमे भेदे” इति विश्वः। तपः सुलभं अनुरागी अनुरूपःयोग्यश्च युवतिजनस्तु न आप्यते न लभ्यते खलु॥५०॥
एवं प्रलोभितस्य अपि मुनेः मौनं न भग्नम् इति आह। जहिहीति। कठिनतां निःष्पृहतां जहिहि त्यज इत्यर्थः। जहातेः“आ च हौ” इति इकारः। वाचं प्रयच्छ सन्धत्स्व इत्यर्थः। मुनीनां मानसं मनः करुणामृदु ननु दयार्द्रं खलु। “स्वान्तं हृन्मानसं मनः” इत्यमरः। किञ्च। अभव्या निर्भाग्या उपगतं प्राप्तं विषयम् इति शेषः। अवधीरयन्ति अवमन्यन्ते एवम् उक्तप्रकारेण सः अर्जुनः कयाचित् एत्य समीपम् आगत्य निपुणं चतुरं यथा स्यात् तथा ऊचे उक्तः। नायिकया दूतीं
सललितचलितत्रिकाभिरामाः
शिरसिजसंयमनाकुलैकपाणिः।
सुरपतितनये परा निरासे
मनसिजजैत्रशरं विलोचनार्द्धम्॥५२॥
कुसुमितमवलम्ब्यचूतमुच्चैः
प्रति वचनम् उक्तं तया दूत्या च मुनिं प्रत्युक्तं कथितम् इत्यर्थः। अत्र पञ्चश्लोक्यां विप्रलम्भशृङ्गारस्य औत्सुक्यनाम्रःव्यरिचारिभावस्य च अपुनरुक्तिः। अनौचित्येन नायिकायाः प्रवृत्तेः आभासत्वम् अनुसन्धेयम्। तदुक्तम्। “एकत्रचेन्नानुरागस्तिर्य्यङ्म्लेच्छगतोऽपि वा। योषितां बहुसक्तिश्चेद्रसाभासस्त्रिधा मतः॥” इति तन्निबन्धनात् ऊर्जस्वलम् अलङ्कारः। तथाच सूत्रम्। “रसभेदतदाभासतत्प्रकाशानां निबन्धनेन रसवत्प्रायमूर्जस्वलम्” इति तत् प्रकाशमानबन्धने समाहितालङ्कारः इति सूत्रार्थः॥५१॥
सललितेति। सललितं सविलासं यथा तथा चलितेन विवर्त्तितन त्रिकेण कटिभागेन। “पृष्ठवंशाधरे त्रिकम्” इत्यमरः। अभिरामाः शिरसि जाताः शिरसिजाः। “सप्तम्यां जनेर्डः। “अमूर्द्धमस्तकात् स्वाङ्गादकामे” इति अलुक्। “उपपदमतिङ्” इति समासः। एतेन मनसिजः व्याख्यातः। तेषां संयमने बन्धने आकुलः व्यग्रः एकः पाणिः यस्याः सा परा स्त्री सुरपतितनये अर्जुने जेता इव जैत्रः। जेतृशब्दात् तृजन्तात् “प्रज्ञादिभ्यश्च” इतिअण्प्रत्ययः। मनसिजस्थ जैत्रःशरः त तथाभूतं विलोचनस्य अर्द्धमेकदेशं कटाक्षम् इत्यर्थः। निरासे विससर्ज॥५२॥
तनुरिभकुम्भपृथुस्तनानताङ्गी।
तदभिमुखमनङ्गचापयष्टिः
विसृतगुणेव समुन्ननाम काचित्॥५३॥
सरभसमवलम्ब्यनीलमन्या
विगलितनीवि विलोलमन्तरीयम्।
अभिपतितुमनाः ससाध्वसेव
च्युतरशनागुणसन्दितावतस्थे॥५४॥
कुसुमितमिति। इभकुम्भवत् पृथुभ्यां स्तनाभ्याम् आनतम् अङ्गेयस्याः सा। “अङ्गगात्रकण्ठेभ्यश्च” इति ङीष्। काचित् तनुः तन्वी। वोतो गुणवचनात्” इति विकल्पात् न ङीष्। कुसुमितम् उच्चैः उन्नतं चूतम् अवलम्ब्य। अत एव चूतलतायोगात् विसृतः विस्तृतः गुणः यस्याः सा। “विसृतं विस्तृतततम्”। “मौर्वी ज्या शिञ्जिनी गुणः” इति च अमरः। अनङ्गचापयष्टिः इव आकृष्टमुक्ता इति भावः। तदभिमुखं समुन्ननाम समुज्जजृम्भे अङ्गभङ्गंचकार इत्यर्थः॥५३॥
सरभसमिति। अन्या अपरा विगलितनीवि श्लथबन्धनम् अत एव विलोलं स्थानचलितं नील्या रक्तं नीलम्। “नील्याअन् वक्तव्यः” इति अन्प्रत्ययः। अन्तरीयं परिधानम् अवलम्ब्यहस्तेन गृहीत्वा सरभसं सत्वरम् अभिपतितुं मनः यस्याः सा। अपगन्तुम् उद्युक्ता इत्यर्थः। तथापि ससाध्वसा इव न तु वस्तुतः ससाध्वसा किन्तु च्युतेन गलितेन रसनागुणेन सन्दिता बद्धा सती अवतस्थे स्थिता। “बद्धे सन्दानितं सूतमुदितं सन्दितं सितम्” इत्यमरः। कर्म्मणि क्तः। द्यति स्यतिमास्थाम्” इति इकारः॥५४॥
यदि मनसि शमः किमङ्ग ! चापं
शठ ! विषयास्तव वल्लभा न मुक्तिः।
भवतु दिशति नान्यकामिनीभ्यः
तव हृदये हृदयेश्वरावकाशम्॥५५॥
इति विषमितचक्षुषाभिधाय
स्फुरदधरोष्ठ मसूयया कयाचित्।
अगणितगुरुमानलज्जयासौ
स्वयमुरसि श्रवणोत्पलेन जघ्ने॥५६॥
काचित् युग्मेन आह। यदीत्यादि। तव मनसि शमः शान्तिः यदि अस्ति इति शेषः। अङ्ग ! भो ! चापं किं किमर्थम् ? इत्यर्थः। किन्तु हे शठ ! हे वञ्चक ! तव विषयाः शब्दादयः बल्लभाः प्रियाः, न तु मुक्तिः। तत् एव द्रढ़यितुम् आह। भवतु कः दोषः? इति शेषः। यदि अहं रागी तर्हि किम् इति भवतीःन गणयामि ? इति शङ्कां निवारयति। तव हृदये मनसि हृदयेश्वरा काचित् तव प्रेयसी अन्यकामिनीभ्यः स्त्र्यन्तरेभ्यः अवकाशं न दिशति न प्रयच्छति। स्त्र्यन्तरासक्त्यान अम्मान् गणयसि न तु वैराग्यात् तदर्थम् एव अयं ते सकलःप्रयासःअपि इत्यर्थः॥५५॥
इतीति। इति इत्थम् असूययामत्सरेण स्फुरन् अधरोष्ठःयस्मिन् कर्म्मणि तथा अभिधाय उक्त्वाविषमितचक्षुषा कुटिलीकृतदृष्ट्या अगणिताः गुरवः आचार्य्यादयः मानःअभिमानः लज्जा च यया तया कयाचित् असौ मुनिः उरसि स्वयं स्वहस्तेन एव श्रवणोत्पलेन जघ्ने हतः॥५६॥
सविनयमपराभिसृत्य साचि
स्मितसुभगैकलसत्कपोललक्ष्मीः।
श्रवणनियमितेन तं निदध्यौ
सकलमिवासकलेन लोचनेन॥५७॥
करुणमभिहितं त्रपा निरस्ता
तदभिमुखञ्च विमुक्तमश्रु ताभिः।
प्रकुपितमभिसारणेऽनुनेतुं
प्रियमियती ह्यबलाजनस्य भूमिः॥५८॥
सविनयमिति। अपरा सविनयम् अनौद्धत्येन साचि तिर्य्यक् अभिसृत्य समीपं गत्वा स्मितेन मन्दहासेन सुभगैकस्य लसतः कपोलस्य लक्ष्म्यःयस्याः सा इति। बहुवचनपदोत्तरः बहुव्रीहिः। अन्यथा कप्रत्ययः स्यात् इति उक्तं प्राक्। श्रवण नियमितेन कर्णान्तप्रापितेन रुद्धप्रसारणं तावदायतेन इत्यर्थः असकलेन असम्पूर्णेन कटाक्षेण इति यावत् लोचनेन तं मुनिं धनञ्जयम्। सकलम् इव समग्रप्रायं यथा तथा निदध्यौ पश्यति स्म। कटाक्षेण एव गाढम् अद्राक्षीत् इत्यर्थः। एषु श्लोकेषु भावाभासनिबन्धनत्वात् ऊर्जस्वलालङ्कारः। औत्सुक्यम् अत्र भावः। आभासत्वं च अस्य विरक्तमुनौ अनौचित्यात् इति उक्तं प्राक् एव इति॥५७॥
अथ तासां मुनिविलोभनम् उपसंहरति। करुणमिति। ताभिः स्त्रीभिः तदभिमुखं मुनिसमक्षं करुणं दीनम् अभिहितम् उक्तं त्रपा निरस्ता लज्जा त्यक्ता किं बहुना अश्रु च विमुक्तं ततः परं न किञ्चित् विधेयम् आसीत् इति भावः। कुतः ? हि यस्मात् अबलाजनस्य अभिसारणे समागमविषये प्रकुपितम्
असकलनयनेक्षितानि लज्जा
गतमलसं परिपाण्डुता विषादः।
इति विविधमियाय तासु भूषां
प्रभवति मण्डयितुं वधूरनङ्गः॥५९॥
अलसपदमनोरमं प्रकृत्या
जितकलहंसबधूगति प्रयातम्।
स्थितमुरुजवनस्थलातिभारात्
उदितपरिश्रमजिह्मितेक्षणं वा॥६०॥
अननुकूलंप्रियम् अनुनेतुम् अनुकूलयितुम् इयती भूमिः इति एतावती सीमा साधनानां परमावधिः इति भावः। अर्थान्तरन्यासः अलङ्कारः॥५८॥
अथ आसाम् अनुरागदार्ढ्यं निगमयति। असकलेति। असकलनयनेक्षितानि नयनार्द्धविलोकितानि लज्जा अलसं गतं मन्दमगनं परिपाण्डुता पाण्डुरवर्णत्वं विषादःइष्टानवाप्तिनिमित्तःचेतोभङ्गः इत्येवंप्रकारं विविधं नानाविचेष्टितम्। “नपुंसकमनपुंसक” इत्यादिना नपुंसकैकशेषत्वम्। तासु भूषाम् इयाय इति भावप्राधान्येन योज्यम्। तथाहि। अनङ्गः मदनः बधूः मण्डयितुं प्रभवति सर्वावस्थासु इति भावः। अतः तासाम् अनङ्गभूषितानाम् अखिलं भूषणम् एव इति भावः॥५९॥
इदानीं तासां त्रिभिः मुनिविलोभने प्रयासवैफल्यम् आह अलसेति। बधूनां सम्बन्धि प्रकृत्या अलसैः पदैः मनोरमं मनोज्ञम् अत एव जिता कलहंसबधूनां गतिः येन तत् प्रयातं गमनम्। भावे क्तः। तथा उरुणः अतिविपुलस्य जघनस्थलस्य
भृशकुसुमशरेषु पातमोहात्
अनवसितार्थपदाकुलोऽभिलापः।
अधिकविततलोचनं बधूनाम्
अयुगपदुन्नमितभ्रु वीक्षितं च॥६१॥
रुचिकरमपि नार्थवद् बभूव
स्तिमितसमाधिशुचौ पृथातनूजे।
ज्वलयति महतां मनांस्यमर्षे
न हि लभतेऽवसरं सुखाभिलाषः॥६२॥
विशेषकम्।
अतिभारात् अतिगौरवात् उदितपरिश्रमेण उद्गतश्रमेण जिह्मितेघूर्णिते ईक्षणे यस्मिन् तत् स्थितं वा स्थितिश्च। सर्वत्र वाशब्दः समुच्चये। “वा समुच्चये एवार्थे उपमानविकल्पयोः” इति हेमचन्द्रः॥६०॥
भृशेति। तथा भृशेन गाढ़ेन कुसुमशरस्य कामस्य इषोःनिपातेन यः मोहःमूर्च्छा तस्मात् हेतोः अनवसितार्थैः अस्फुटोच्चारणात् अनवधारिताभिधेयैः पदैः सुप्तिङन्तादिभिः क्षुभितशब्दैःआकुलः सङ्कीर्णः अभिलाषः वाक्यप्रयोगश्च अधिकं वितते विस्तृते लोचने यस्मिन् तत् अयुगपत् पर्य्यायेण उन्नमिते भ्रुवौ यस्मिन् तत् तथोक्तम्। “ह्रस्वोनपुंसके प्रातिपदिकस्य” इति ह्रस्वः। वीक्षितं वीक्षणं च॥६१॥
रुचिकमिति। पूर्वोक्तं रुचिकरं स्पृहाजनकम् अपि। “रुचिः कान्तिरुचो भासि स्त्रियां शोभास्पृहार्थयोः” इति वजयन्ती। स्तिमितेन स्थिरेण समाधिना तपोयोगेन शुचौ
स्वयं संराध्यैवं शतमखमखण्डेन तपसा
परोच्छिक्त्या लभ्यामभिलषति लक्ष्मीं हरिसुते।
मनोभिः सोद्वेगैः प्रणयविहतिध्वस्तरुचयः
सगन्धर्वा धाम त्रिदशवनिताः स्वं प्रतिययुः॥६३॥
इति अर्जुनविलोभनप्रत्याख्यानः नाम
दशमः सर्गः॥१०॥
शुद्धे निर्विकारे चेतसि इत्यर्थः। पृथातनूजे अर्जुने विषये अर्थवत् सप्रयोजनं न बभूव। तथाहि। महतां धीराणां मनांसि अमर्षे क्रोधे ज्वलयति सति सुखाभिलाषः अवसरम् अवकाशं न लभते रौद्रस्य शृङ्गारविरोधित्वात् इति भावः। अत्र विशेषके अर्थान्तरन्यासः अलङ्कारः॥६२॥
स्वयमिति। एवं हरिसुते अर्जुने स्वयम् अखण्डं न अविलुप्तेन तपसा शतमखम् इन्द्रंसंराध्य प्रीणयित्वा परोच्छित्त्या शत्रुबधेन लभ्यां साध्यां लक्ष्मीं राजलक्ष्मीं अभिलषति सति सोद्वेगैः कार्य्यसिद्ध्यभावात् सनिर्वेदैःमनोभिः उपलक्षिताः। किञ्च। प्रणयविहत्या प्रार्थनाभङ्गेन ध्वस्तरुचयः नष्टकान्तयःसगन्धर्वाः गन्धर्वसहिताः त्रिदशवनिताः स्वं धाम स्वस्थानं प्रतिययुः। शिखरिणीवृत्तम् एतत्। “रसैरुद्रैश्छिन्ना यमनसभला गः शिखरिणी” इति लक्षणात्॥६३॥
इति किरातार्जुनीयकाव्यस्य दशमसर्गव्याख्या समाप्ता।
एकादशः सर्गः
<MISSING_FIG href="../books_images/U-IMG-1730792428pic1.png"/>
अथामर्षान्निसर्गाच्च जितेन्द्रियतया तया।
आजगामाश्रमं जिष्णोः प्रतीतः पाकशासनः॥१॥
मुनिरूपोऽनुरूपेण सूनुना ददृशे पुरः।
द्राघीयसा वयोऽतीतः परिक्लान्तः किलाध्वना॥२॥
अथेति। अथ अप्सरसां प्रतिप्रयाणानन्तरम्। पाकः नाम कश्चित् राक्षसः तस्य शासनः इन्द्रः। नद्यादित्वात् ल्युप्रत्ययः। तथा अप्सरोमुखात् श्रुतया अमर्षात् द्विषद्द्वेषात् निसर्गात् च या जितेन्द्रियता तया आगन्तुकानागन्तुकोभयविधहेतुकया प्रतीतः हृष्टः सन्। “ख्यातो हृष्टे प्रतीते” इत्यमरः। जिष्णो अर्जुनस्य। “जिष्णुः शक्रे धनञ्जये” इत्यमरः। आश्रमम् आजगाम। अत्र अमर्षनिसर्गयोः जितेन्द्रियताहेतुकं रुचिकरम् अपि इति काव्यलिङ्गंस्फुटम् अवगम्यते॥१॥
किम् इन्द्रः मुनिरूपेण एव अजगाम इति आह। मुनिरूप इति। मुनेःरूपम् इव रूपं यस्य सः मुनिरूपः मुनिवेशधारी इत्यर्थः। सः इन्द्रः अनुरूपेण दर्शनप्रदानयोग्येन इत्यर्थः। सूनुना पुत्रेण अर्जुनेन पुरः अग्रे ददृशे दृष्टः। कथम्भूतः ? वयः यौवनादिकम् अतीतः वृद्धः। “द्वितीयाश्रित” इत्यादिना द्वितीयासमासः। द्राघीयसा अतिदीर्घेण। “प्रियस्थिर” इत्यादिना दीर्घशब्दस्य द्राघादेशः। अध्वना अध्वगमनेन इत्यर्थः। परिक्लान्तः परिश्रान्तः। किल इति अलीके। “किल सम्भाव्यवार्त्तयोः। हेतुरुच्योरलीके च” इति हेमचन्द्रः। वृद्धः
जटानां कीर्णया केशैः संहत्या परितः सितैः।
पृक्तयेन्दुकरैरह्नः पर्य्यन्त इव सन्ध्यया॥३॥
विशदभ्रूयुगच्छन्नबलितापाङ्गलोचनः।
प्रालेयावततिम्लानपलाशाब्ज इव ह्रदः॥४॥
आसक्तभरनीकाशैरङ्गैः परिकृशैरपि।
आद्यूनः सद्गृहिण्येव प्रायो यष्ट्यावलम्बितः॥५॥
इव दूराध्वश्रान्तः इव स्थितः इत्यर्थः। “इव” इति पाठे स्पष्टार्थः॥२॥
अथ चतुर्भिः इन्द्रं विशिनष्टि। जटानामिति। परितःसितैःकेशैः कौर्णया व्याप्तया जटानां संहत्या उपलक्षितः। अत एव इन्दुकरैः इन्दुकिरणैःपृक्तया युक्तया सन्ध्यया उपलक्षितः अह्नः पर्य्यन्तःदिनान्तः इव स्थितः तस्य अपि परिणतरूपत्वात् वृद्धोपमानत्वं जटानां संहत्येत्युक्तत्वात् सन्ध्यासाम्यम्॥३॥
विशदेति। पुनश्च विशदेन पलितपाण्डुरेण भ्रूयुगेन छन्ने बलितापाङ्गे बलिमत्प्रान्ते लोचनं यस्य सः तथोक्तः। “अपाङ्गौ नेत्रयोरन्तौ” इत्यमरः। पामादित्वात् लोमादिसूत्रेण बलच्प्रत्ययः। प्रालेयावतत्या हिमसंहत्या म्लानपलाशानि क्लान्तदलानि अब्जानि यस्मिन् सः ह्रदः इव स्थितः॥४॥
आसक्तेति। पुनश्च परिकृशैःपरिक्षीणैःअपि आसक्तभरनीकाशैः भाराक्रान्तसदृशैः सभारवद्गुरूभवद्भिः इत्यर्थः। “इकः काशे” इति दीर्घः। अङ्गैः उपलक्षितः कार्श्यात् लघुनि अपि स्वाङ्गानि स्वयं वोढुम् असमर्थः इत्यर्थः। अत एव आद्यूनःऔदरिकः। “आद्यूनः स्यादौदरिको विजिगीषाविवर्जिते”
गूढ़ोऽपि वपुषा राजन् धाम्नालोकाभिभाविना।
अंशुमानिव तन्वब्भ्रपटलच्छन्नविग्रहः॥६॥
जरतीमपि बिभ्राणस्तनुमप्राकृताकृतिः।
चकाराक्रान्तलक्ष्मीकः ससाध्वसमिवाश्रमम्॥७॥
इत्यमरः। आङ्पूर्वात् दीव्यतेः क्तः। “च्छोः शूडनुनासिके च” इति ऊठादेशः। “दिवोऽविजिगीषायाम्” इति निष्ठानत्वम्। सद्गृहिण्या अनुकूलकलत्रेण एव प्रायः प्राचुर्य्येण यष्ट्या अवलम्बनदण्डेन अवलम्बितःधारितः न तु स्वशक्त्या इति भावः॥५॥
गूढ़ इति। वपुषा गूढ़ः अपि प्रच्छन्नरूपः अपि इत्यर्थः। प्रकृत्यादिभ्यः उपसंख्यानात् तृतीया।तन्वब्भ्रपटलच्छन्नविग्रहः स्तोकाब्भ्रवृन्दान्तरितमूर्त्तिःअंशुमान् इव लोकाभिभाविना लोकव्यापिना धाम्ना तेजसा “धाम रश्मौगृहे देहे स्थाने जन्मप्रभावयोः” इति हेमचन्द्रः। राजन् दीप्यमानः ददृशे इति पूर्वेण सम्बन्धः॥६॥
जरतीमिति। जरतीं जीर्णाम्। “जीनो जीर्णो जरन्नपि” इत्यमरः। जीर्य्यतेः अतीतार्थे शतृप्रत्ययः। “उगितश्च” इति ङीप्। तनुं शरीरं बिभ्राणः दधत् अपि अप्राकृता अलोकसामान्या आकृतिः मूर्त्तिः यस्य सः इन्द्रः आक्रान्ता अभिभूता लक्ष्मीः आश्रमशोभा येन सः आक्रान्तलक्ष्मीकः। एकवचनान्तलक्ष्मीशब्दोत्तरपदबहुव्रीहौ “उरःप्रभृतिभ्यः कप्” इति नित्यं कप्। आश्रमं ससाध्वसम् इव चकार। तेजस्विदर्शनात् भयं भवति तत् तु न दुःखजनकं तस्य अमानुषत्वात् इति सूचयितुम् इवशब्दः॥७॥
अभितस्तं पृथासूनुः स्नेहेन परितस्तरे।
अविज्ञातेऽपि बन्धौ हि बलात्प्रह्लादते मनः॥८॥
आतिथेयीमथासाद्य सुतादपचितिं हरिः।
विश्रम्य विष्टरे नाम व्याजहारेति भारतीम्॥९॥
त्वया साधु समारम्भि नवे वयसि यत्तपः।
ह्रियते विषयैः प्रायो वर्षीयानपि मादृशः॥१०॥
अभित इति। पृथासूनुः अर्जुनः तम् इन्द्रम् अभितः तं प्रति स्नेहेन परितस्तरे। तद्गोचरेण प्रेम्णा पर्य्यावृतः। स्तृणोतेः कर्म्मणि लिट्। “ऋतश्च संयोगादेर्गुणः” इति गुणः। ननु अज्ञातसम्बन्धविशेषस्य कथं स्नेहोदयः इत्यतः आह। अविज्ञात इति। बन्धौ सुहृदि अविज्ञातेअपि बन्धुः अयम् इति अज्ञातेअपि बलात् बान्धवसत्तावशात् एव मनः प्रह्लादते स्निह्यति इत्यर्थः॥८॥
आतिथेयीमिति। अथ हरिः इन्द्रः सुतात् अर्जुनात् आतिथेयीम् अतिथिषु साध्वीम्। “पथ्यतिथिवसतिस्वपतेर्ढञ्” अपचितिं पूजाम् आसाद्य प्राप्य। “पूजा नमस्यापचितिः” इत्यमरः। विष्टरेआसने। “ऋदोरप्” इति स्तृणातेः अप्प्रत्ययः। “वृक्षासनयोर्विष्टरः” इति षत्वम्। विश्रम्य नाम विश्रम्य किल श्रमम् अपनीय इत्यर्थः। इति वक्ष्यमाणप्रकारां भारतीं व्याजहार उक्तवान्। “व्याहार उक्तिर्लपितम्” इत्यमरः॥९॥
अथ प्रथमं तावत् मुनिवत् एनं मुमुक्षुं कृत्वा आह। त्वयेति। त्वया साधु समारम्भि सम्यक् उपक्रान्तम्। रभेः कर्म्मणि लुङ्। कुतः ? यत् यस्मात् नवे वयसि यौवने तपः
श्रेयसीं तव सम्प्राप्ता गुणसम्पदमाकृतिः।
सुलभा रम्यता लोके दुर्लभंहि गुणार्जनम्॥११॥
शरदम्बुधरच्छाया गत्वर्य्यो यौवनश्रियः।
आपातरम्या विषयाः पर्य्यन्तपरितापिनः॥१२॥
अन्तकः पर्य्यवस्थाता जन्मिनः सन्ततापदः।
चर्य्यते इति शेषः। तथाहि। अहम् इव दृश्यते असौ मादृशोवर्षीयान् अतिवृद्धः अपि। “प्रियस्थिर” इत्यादिना वृद्धशब्दस्य वर्षादेशः। प्रायो विषयैःह्रियते आकृष्यते किमुभवादृशः यवीयान् इति भावः॥१०॥
अथ एवम् अनारम्भे तव स्वाकारलाभः अपि विफलः स्यात् इति आशयेन आह। श्रेयसीमिति। तव आकृतिः मूर्त्तिः रम्या इति शेषः। श्रेयसीं श्रेष्ठां गुणसम्पदं तपःसमारम्भरूपां सम्प्राप्ता। अतः न निष्फला इति भावः। न च स्वाकाराः गुणाढ्यश्च कियन्तः न सन्ति इति वाच्यम् इति आह। लोक इति। लोके रम्यता रम्याकारता सुलभा हि गुणार्जनं गुणसम्पादनं दुर्लभं त्वयि तु उभयं सम्पद्यते इति अम्माकं परमामोदः इति भावः॥११॥
यदुक्तं“त्वया साधु समारम्भि” इति तत् एव साधुत्वं संसारनिःसारताख्यापनया युग्मेन उपपादयति। शरदिति। यौवनश्रियः तावत् शरदम्बुधरच्छायाः इव गत्वर्य्यः चञ्चलाः। “गत्वरश्च” इति क्वरवन्तः निपातः। ”टिड्ढाणम्” इत्यादिना ङीप्। विषयाः शब्दादयः तु आपातरम्याः तत्कालरमणीयाः। “तदात्वे पात आपातः” इति वैजयन्ती। पर्य्यन्तेअवसाने परितापयन्ति दुःखं कुर्वन्ति इति तथोक्ताः॥१२॥
अन्तक इति। किञ्च सन्तताः अनवच्छिन्ना आपदः
इति त्याज्ये भवे भव्यो मुक्तावुत्तिष्ठते जनः॥१३॥
चित्तवानसि कल्याणी यत्त्वां मतिरुपस्थिता।
विरुद्धः केवलं वेषः सन्देहयति मे मनः॥१४॥
युयुत्सुनेव कवचं किमामुक्तमिदं त्वया।
क्लेशाः यस्य तस्य जन्मिनः प्राणिनः। “प्राणी तु चेतनो जन्मी” इत्यमरः। तीह्यादित्वात् इनिः। अन्तकः मृत्युः। पर्य्यवस्थाता प्रतिरोद्धाप्रथमं तावत् जन्मिनः जन्मदुःखम् एव दुस्तरं ततः जातस्य जीवनम् अपि सततं दुःखसम्भिन्नतया विषयुक्तान्नप्रायं तत् अपि मृत्युग्रस्तम् इति सः अयं “काकमांसं शुनोच्छिष्टंस्वल्पं तदपि दुर्लभम्” इति न्यायात् इति भावः। इत्युक्तहेतोःत्याज्येभवे संसारे भवति इति भव्यः योग्यःजनः भवादृशःइति शेषः। “भव्यं सुखे शुभे चापि भेद्यवद्योग्यभाविनोः” इति विश्वः। “भव्यगेय” इत्यादिना कर्त्तरि निपातः। भुक्तौ मोक्षे उत्तिष्ठते उद्युक्तः भवति। “उदोऽनुर्ध्वकर्म्मणि” इति आत्मनेपदम्॥१३॥
सम्प्रति प्रशंसापूर्वकं स्वाभिसन्धिं दर्शयति। चित्तवानिति। चित्तवान् प्रशस्तचित्तः असि। प्रशंसायां मतुप्। कुतः ? यतः त्वां कल्याणीसाध्वी “बह्वादिभ्यश्च” इति ङीष्। मतिःउपस्थिता सङ्गता। किन्तु केवलम् एकं यथा तथा विरूद्धःवेषः मे मनः सन्देहयति संशययुक्तंकरोति। यद्वावेषः केवलं वेषः एव इत्यर्थः। “केवलः कृत्स्नएके च” ”केवलं चावधारिते” इति उभयत्र अपि शाश्वतः॥१४॥
वेषविरोधम् एव आह। युयुत्सुनेति। युयुत्सुना इव योद्धुम् इच्छुना इव त्वया। युधेः सन्नन्तात् उप्रत्ययः। किम् इदं कवचं वर्म आमुक्तम् अर्पितम् ? तत्र कः विरोधः इत्यत्र आह।
तपस्विनो हि वसतेकेवलाजिनवल्कले॥१५॥
प्रपित्सोः किञ्च ते मुक्तिं निष्पृहस्य कलेवरे।
महेषुधी धनुर्भीमं भूतानामनभिद्रुहः॥१६॥
भयङ्करः प्राणभृतां मृत्योर्भुज इवापरः।
असिस्तव तपस्थस्य न समर्थयते शमम्॥१७॥
युग्मम्।
हि यस्मात् तपस्विनः केवले एके कवचाद्यसहचरिते इति यावत् ते च ते अजिनवल्कले च। “निर्णीते केवलमिति त्रिलिङ्गं त्वेककृत्स्नयोः” इत्यमरः। वसतेआच्छादयन्ति। अतः तपस्विनः ते कवचधारणं विरुद्धम् इत्यर्थः॥१५॥
प्रपित्सोरिति। किञ्च मुक्तिं प्रपित्सोः प्राप्तुम् इच्छोः। “सनिसोमा” इत्यादिना इसादेशः। अत्र “लोपोऽभ्यासस्य” इति अभ्यासलोपः। अतः मुमुक्षुत्वात् एव कलेवरेशरीरेनिष्पृहस्य गतस्पृहस्य अतः न आत्मरक्षार्थं धनुर्धारणं युक्तम् इत्यर्थः। न अपि परहिंसार्थम् इति आह। भूतानां जन्तूनाम्। “क्ष्मादौजन्तौ च भूतानि” इति वैजयन्ती। “क्रुधद्रुहारुपसृष्टयोःधर्म” इति कर्मसंज्ञायाम्। “कर्त्तृकर्मणोः कृति” इति कर्त्तरि षष्ठी। अनभिद्रुहः अहिंसकस्य। “सत्सृद्विष” इत्यादिना क्विप्। ते तव महेषुधी महानिषङ्गौ भीमं त्रासजनकं धनुश्च न समर्थयते शमम् इत्युत्तरेण अन्वयः। समर्थयते इति वचनविपरिणामः कार्य्यः॥१६॥
भयङ्कर इति। तथा मृत्योः अपरः भुजः इव प्राणभृता प्राणिनां भयङ्करः। “मेघर्त्तिभयेषु कृषः” इति खच्प्रत्ययः। “अरुर्द्विष” इत्यादिना सुमागमः। असिःखङ्गः तपसि तिष्ठति
जयमत्रभवान्नूनमरातिष्वभिलाषुकः।
क्रोधलक्ष्म क्षमावन्तः क्वायुधं क्व तपोधनाः ?॥१८॥
यः करोति बधोदर्का निश्रेयसकरीःक्रियाः।
ग्लानिदोषच्छिदः स्वच्छाः स मूढ़ः पङ्कयत्यपः॥१९॥
इति तपस्थः तपः चरन् इत्यर्थः। “सुपि स्थ” इति कप्रत्ययः। तस्य तव शमं शान्तिं न समर्थयते न सम्भावयति। किं शान्तस्य शस्त्रेण ? इति भावः॥१७॥
ननु अशान्तस्य किं तपसा ? इति आशङ्क्य जयार्थम् इति आह। जयमिति। अत्रभवान् पूज्यः इत्यर्थः। “इतराभ्योऽपि दृश्यन्ते” इति प्रथमार्थे प्राग्देशीयःत्रल्प्रत्ययः। सुप्सुपा इति समासः। “त्रिषु तत्रभवान् पूज्यस्तथैवात्रभवानपि” इति यादवः। अरातिषु विषये जयम् अभिलाषुकः जयम् इच्छुः। “लषपत” इत्यादिना उकञ्प्रत्ययः। “न लोक” इत्यादिना षष्ठीप्रतिषेधः। नूनम् इति निश्चयः। “नूनं तर्केऽपि निश्चये” इत्यमरः। क्रोधस्य लक्ष्म कोपस्य लिङ्गम् आयुधं क्व ? क्षमावन्तः शान्ताः तपोधनाः क्व ? क्रोधशान्त्योः विरोधात् तत्कार्य्ययोः शस्त्रतपसोः अपि एकत्र असङ्गतेश्च शस्त्रिणः ते तपो जयार्थं न तु मोक्षार्थम् इति निश्चयः इत्यर्थः॥१८॥
तपसः जयार्थत्वे दोषम् आह। य इति। यः पुमान् निश्चितं श्रेयः निःश्रेयसं मुक्तिः। “अचतुर” इत्यादिना समासान्तः निपातः। “मुक्तिः केवल्यनिर्वाणश्रेयोनिःश्रेयसामृतम्” इत्यमरः। निःश्रेसं कुर्वन्ति इति निःश्रेयसकरीःनिःश्रेयसहेतून् इत्यर्थः। “कृञो हेतुताच्छील्यानुलोम्येषु इति हेत्वर्थे टप्रत्ययः। टित्वात् ङीप्। क्रियाः तपोदानादिकर्माणि बधोदर्काः हिंसाफलकाः करोति। “उदर्कः फलमुत्तरम्” इत्यमरः।
मूलं दोषस्य हिंसादेरर्थकामौ स्म मा पुषः।
तौ हि तत्त्वावबोधस्य दुरुच्छेदावुपप्लवौ॥२०॥
अभिद्रोहेण भूतानामर्जयन् गत्वरीःश्रियः।
उदन्वानिव सिन्धूनामापदामेति पात्रताम्॥२१॥
अत एव मूढ़ःसः पुमान् ग्लानिः एव दोषः तं छिन्दन्ति इति ग्लानिदोषच्छिदः पिपासाहारिणीः। क्विप्। स्वच्छाः निर्मलाः अपः पङ्कयति पङ्गवतीःकरोति। “णाविष्टवद्भावे विन्मतोर्लुक्” इति मतुपः लुक्। महाफलसाधनस्य तपसः तुच्छफलैः विनियोगः स्वच्छाम्बुनः पङ्कसङ्करवत् प्रेक्षावद्भिः गर्हितःइत्यर्थः। अत्र “यत्तपमो बधोदर्कीकरणं तन्निर्मलस्य पयसः पङ्कसङ्करीकरणम्” इति वाक्यार्थोत्तरम् आरोप्यप्रतिबिम्बकरणाक्षेपात् असम्भववस्तुसम्बन्धात् वाक्यार्घवृत्तिनिदर्शनालङ्कारः॥१९॥
ननु अर्थकामयोः अपि मोक्षवत् पुरुषार्थत्वात् तपसः तदर्थत्वेकः दोषः ? तत्र आह। मूलमिति। हिंसादेरिति। तद्गुणसंविज्ञानबहुव्रीहिः। आदिशब्दात् अनृतस्तेयादीनां संग्रहः। दोषस्य अवगुणस्य मूलं कारणभूतौ। “स्त्रीकामा धनकामाश्च किं न कुर्वन्ति पातकम् ?” इति भावः। अर्थकामौ मा स्म पुषः। “स्मोत्तरे लुङ् च” इति लुङ्। “पुषादि” इत्यादिना च्लेःअङादेशः। हि यस्मात् तौ अर्थकामौ तत्त्वावबोधस्य तत्त्वज्ञानस्य मोक्षसाधनस्य इति शेषः। दुरुच्छेदौ दुर्वारौउपप्लवौ हिंसादिप्रवर्त्तकत्वात् अन्तकौअतः पुरुषार्थपरिपन्थिनौ एतौ न पुरुषार्थौइत्यर्थः॥२०॥
मुक्तिप्रतिबन्धकत्वात् अपुरुषार्थौअर्थकामौ इति उक्तं तत्र अर्थस्य दुःखेकनिदानत्वात् अपि अपुरुषार्थत्वम् इति पञ्चभिः
या गम्याः सत्सहायानां यासु खेदो भयं यतः।
तासां किं यन्न दुःखाय विपदामिव सम्पदाम्॥२२॥
दुरासदानरीनुग्रान् धृतेर्विश्वासजन्मनः।
प्रपञ्चयति। अभिद्रोहेणेत्यादि। भूतानाम् अभिद्रोहेण हिंसया गत्वरीःअस्थिराः श्रियः सम्पदः अर्जयन् जनः। उदकम् अस्ति इति उदन्वान् उदधिः। “उदन्वानुदधौ च” इति निपातनात् साधुः। सिन्धूनां नदीनाम् इव आपदां पात्रतां मूलत्वम् एति॥२१॥
आपत्पात्रताम् एव व्यनक्ति। या इति। याःसम्पदः सत्सहायानां विद्यमानसाधनानाम् एव पुंसां गम्याः प्राप्याःविपदः अपि सत्सहायानाम् एव गम्याः निस्तीर्य्याः इत्यर्थः। “कृत्यानां कर्त्तरि वा” इति षष्ठी। यासु सतीषु खेदः रक्षणादिक्लेशः विपत्सु स्वतः एव इति विशेषः।यतः याभ्यः सम्पद्भ्यःभयम् अनेकार्थमूलत्वात् इति भावः।विपद्भ्यः तु स्वरूपतः एव इति भावः। किं बहुना। विपदाम् इव तासां सम्पदां सम्बन्धि न किम् अस्ति इति शेषः। यत् दुःखाय न भवति सर्वं दुःखावहम् एव इति भावः। यदाहुः—“अर्थानामर्जने दुःखमर्जितानां च रक्षणे। नाशे दुःखं व्यये दुःखं धिगर्थं दुःखभाजनम्।” इति। अतः हेयः इति भावः। अत्र यत् न दुःखाय इत्युत्तरवाक्यस्य यच्छब्दसामर्थ्यात् तासां किम् ? इति पूर्ववाक्ये तच्छब्दोपादानं न अपेक्षते तत् एतत् काव्यप्रकाशे स्पष्टम्॥२२॥
दुरासदानिति। किञ्च दुरासदान् दुःप्रापान् विश्वासात् जन्म यस्याः तस्याः। जन्मोत्तरपदत्वात् व्यधिकरणः बहुव्रीहिः। धृतेः सन्तोषस्य उग्रान् अरीन् धनिकस्य सर्वत्र अनाश्वात्तसम्भ-
भोगान् भोगानिवाहेयानध्यास्यापन्न दुर्लभा॥२३॥
नान्तरज्ञाः श्रियो जातु प्रियैरासां न भूयते।
आसक्तास्तास्वमी मूढ़ा वामशीला हि जन्तवः॥२४॥
कोऽपवादः स्तुतिपदे यदशीलेषु चञ्चलाः।
साधुवृत्तानपि क्षुद्रा विक्षिपन्त्येव सम्पदः॥२५॥
वात् विस्रम्भसुखभञ्जकान् इत्यर्थः। भुज्यन्ते इति भोगान् धनानि आहेयान् अहिषु भवान्। “दृतिकुक्षिकलशिवस्त्यस्त्यहेर्ढञ्”। भोगान् फणान्। “भोगः सुखे धने चाहेः शरीर फण्योरपि” इति उभयत्र अपि विश्वः। अध्यास्य अधिष्ठाय आपत् विपत् न दुर्लभा आशीविषमुखम् इव तम् एव भोगिनं पुमांसं बलात् आपदः अनुसन्दधति इत्यर्थः॥२३॥
इतः अपि श्रियः हेयाःइति आह। नेति। श्रियः सम्पदः जातु कदाचित् अन्तरज्ञाः नीचानीचविशेषाभिज्ञाः न भवन्ति। अत एव आसां श्रियां प्रियैः न भूयतेन ताः कुत्र अपि अनु रज्यन्ति इत्यर्थः। ननु किं श्रीदोषः पुरुषदोषः वा ? इति चेत् तत्र आह। मूढाः अमी जनाः तासु अननुरक्तासु अपिश्रीषु आसक्ताः स्त्रीषु इव श्रीषु अननुरक्तासु अनुरागः पुंसाम एव अयं दोषः इत्यर्थः। किमर्थं तर्हि तासु एव सर्वेषाम् आसक्तिः ? इति अर्थान्तरं न्यस्यति। वामेति। जन्तवः वामशीलाः वक्रस्वभावाः हि। स्वभावस्य दुर्वारत्वात् इति भावः॥२४॥
यत् उक्तम् “नान्तरज्ञाः श्रियः” इति तत् एव भङ्ग्यन्तरेण आह। क इति। यत् सम्पदः अशीलेषु दुःशीलेषु विषये चञ्चलाः अस्थिराः। न तद्विरुद्धम् उच्यते यतः चञ्चला इति। अतः स्तुतिपदे स्तुतिविषये तत्र कः अपवादःका निन्दा ? किन्तु
कृतवानन्यदेहेषु कर्त्ता च विंधुरं मनः।
अप्रियैरिव संयोगो विप्रयोगः प्रियैः सह॥२६॥
शून्यमाकीर्णतामेति तुल्यं व्यसनमुत्सवैः।
विप्रलम्भोऽपि लाभाय सति प्रियसमागमे॥२७॥
तदा रम्याण्यरम्याणि प्रियाः शल्य तदासवः।
क्षुद्राः सम्पदः साधुवृत्तान् अपि विक्षिपन्ति एव जहति एव तत् एव तासां निन्दास्पदम् इत्यर्थः। तस्मात् अर्थः न पुरुषार्थः इति सन्दर्भार्थः॥२५॥
ननु न अर्थम् अहम् अर्थये किन्तु वीरधर्मम् अनुपालयत् वैरनिर्य्यातनम् इच्छामि ? इति आशङ्क्य तत् अपि परपीड़ात्मकत्वात् अयुक्तम् इति श्लोकचतुष्टयेन आचष्टे। कृतवानिति। तत्र आत्मदृष्टान्तेन एव परपीड़ातः निवर्त्तितव्यम् इत्याशयेन आह। अप्रियैः अनिष्टवस्तुभिः संयोगः इव प्रियैः इष्टवस्तुभिः सह विप्रयोगः विरहः अन्यदेहेषु स्वस्य एव देहान्तरेषु अतोतांनागतेषु इति शेषः। मनः विधुरं दुःखितं कृतवान् कर्त्ता करिष्यति च। भविष्ये लुट्। तद्वर्त्तमाने च अनुभूयते इति शेषः। इष्टनाशः दुःखहेतुः इति सर्वत्र अपि त्रैकालिकसिद्धम् इति श्लोकार्थः॥२६॥
सम्प्रति इष्टसमागमस्य सुखहेतुत्वम् आह। शून्यमिति। प्रियसमागमे इष्टजनसंयोगे सति शून्यं रिक्तम् अपि आकीर्णतां सम्पूर्णताम् एति समृद्धम् इव प्रतीयते इत्यर्थः। व्यसनं विपत्अपि उत्सवैःतुल्यम्। “व्यसनं विपदि भ्रंशे” इत्यमरः। विप्रलम्भः वञ्चना प्रतारणम् इति यावत् सः अपि लाभाय। किं बहुना प्रियसङ्गस्य सर्वावस्थासु अपि सुखम् एव इत्यर्थः॥२७॥
तदैकाकीसबन्धुःसन्निष्टेन रहितो यदा॥२८॥
युक्तः प्रमाद्यसि हितादपेतः परितप्यसे।
यदि नेष्टात्मनः पीड़ा मासञ्जि भवता जने॥२९॥
जन्मिनोऽस्य स्थितिं विद्वान् लक्ष्मीमिव चलाचलाम्।
भवान्मा स्म बधीन्न्याय्यं न्यायाधारा हि साधवः॥३०॥
पुनः प्रकारान्तरेण प्रियवियोगस्य दुःखहेतुत्वम् आह। तदेति। तदा रम्याणि अपि अरम्याणि अमनोहराणि भवन्ति किं बहुना प्रियाःअसवः प्राणाः अपि शल्यंशल्यवत् असह्याः भवन्ति इत्यर्थः। किञ्च तदा सबन्धु सन् अपि एकाकी असहायःएव। “एकादाकिनिच्चासहाये” इति आकिनिच्प्रत्ययः कदा ? इति आकाङ्क्षायाम् आह। यदा इष्टेन रहितः भवति तदा सर्वम् असह्यम् इति॥२८॥
युक्त इति। किञ्च युक्तः हितेन इति शेषः। हितेन इष्टेन युक्तः सन् प्रमाद्यसि प्रकर्षेण माद्यसि हृष्यसि। हितात् अपेतः परितप्यसे परितप्तः भवसि। तपेः दैवादिकात् कर्त्तरि लट्। सत्यम् एवं ततः किम् ? अतः आह। यदीति। पीड़ा आत्मनः स्वस्य च न इष्टा यदि तर्हि भवता जने परस्मिन् अपि मा सञ्जि न सञ्ज्यताम्। सञ्जतेःण्यन्तात् कर्मणि लुङ्। आत्मदृष्टान्तेन परपीड़ातः निवर्त्तितव्यम् इत्यर्थः पीड़ायाः परात्मनोःसमत्वात्॥२९॥
अथ देहास्थैर्य्यश्रद्धया च परपीड़ा न कार्य्या इति आह। जन्मिन इति। अस्य जन्मिनःउत्पत्तिधर्मिकस्य शरीरिणः। ब्रीह्यादित्वात् इनिः। स्थितिं लक्ष्मीम् इव चलाचलां चञ्चलां जन्मिधर्मत्वात् एव चञ्चलाम् अनित्याम् इत्यर्थः। चलतेःपचाद्यच् “चरिचलिपतिवदीनां वा द्वित्वमच्याक्वाभ्यामस्येति वक्त-
विजहीहि रणोत्साहं मा तपः साधु नीनशः।
उच्छेदं जन्मनः कर्त्तुमेधि शान्तस्तपोधन ! ॥३१॥
जीयन्तां दुर्जया देहे रिपवश्चक्षुरादयः।
जितेषु ननु लोकोऽयं तेषु कृतस्नस्त्वया जितः॥३२॥
व्यम्” इति द्विर्भावः अभ्यासस्य अगागमश्च। विद्वान् जानन् इत्यर्थः। “विदेः शतुर्वसुः” इति वैकल्पिकः वसुरादेसः। भवान् न्यायात् अनपेतं न्याय्यम्। “धर्मपथ्यर्थन्यायादनपेत” इति यत्प्रत्ययः। मा स्म बधीत् मा नाशय इत्यर्थः। “स्मोत्तरेलुङ् च” इति लुङ्। “लुङि च” इति हनःबधादेशः। “शेषे प्रथमः” इति प्रथमपुरुषः। हि यस्मात् साधवः न्यायाधाराः न्यायावलम्ब्यः। बहुव्रीहिः तत्पुरुषः वा। न्यायत्यागे साधुत्वम् एव स्यात् इति भावः। “न्यायाचाराः” इति पाठे न्यायम् आचरन्ति इति तथोक्ताः। कर्मणि अण्॥३०॥
तर्हि किं मे कर्त्तव्यम् ? तत्र आह। विजहीहीति। हे तपोधन ! रणोत्साहं रणोद्योगम्। लोकोत्तरेषु कार्य्येषु स्थेयान् प्रयत्नः उत्साहः। विजहीहि त्यज। “आ च हौ” इतीकारः। साधु समीचीनं निःश्रेयकरत्वात् इति भावः। तपः मा नीनशःन नाशय। नश्यतेः ण्यन्तान्माङ्योगात् आशिषि लुङ् अडागमनिषेधश्च। किन्तु जन्मनः उच्छेदं कर्त्तुं मोक्षं साधयितुम् इत्यर्थःI शान्तः एधि विजिगीषानिवृत्तः भव इत्यर्थः।“हुझल्भ्यो हेर्धिः” इति धिः “ध्वसोरेद्धावभ्यासलोपश्च” इत्येकारः इति॥३१॥
अथ सर्वथा मे विजयकण्डूः अस्ति न निवर्त्तते इति आशङ्क्यतर्हि अन्तःशत्रु विजयेन विधीयतां तत् अपनोद इति
परवानर्थसंसिद्धौ नीचवृत्तिरपत्रपः।
अविधेयेन्द्रियः पुंसां गौरिवैति विधेयताम्॥३३॥
श्वस्त्वया सुखसंवित्तिः स्मरणीयाधुनातनी।
इति स्वप्नोपमान्मत्वा कामान्मागास्तदङ्गताम्॥३४॥
आह। जीयन्तामिति। दुर्जयाः अजय्याः चक्षुरादयः देहे वर्त्तमानाः रिपवःजीयन्तां यस्मात् तेषु शत्रुषु जितेषु सत्सु त्वया अयं कृत्स्नःलोकः जितः। ननु किमुत अन्ये शत्रवः तदन्तर्गताः ? इत्यर्थः। जितेन्द्रियस्य इन्द्रियार्थनिष्पृहस्य निर्भरवैरानुदयात् विजयव्यपदेशः॥३२॥
अजितेन्द्रियस्य अनिष्टम् आचष्टे। परवानिति।अर्थसंसिद्धौ अभ्यवहारादिस्वार्थसाधनेपरवान् पराधीनः। “परतन्त्रः पराधीनः परवान्” इत्यमरः। नीचवृत्तिः कर्पणवहनादिनिकृष्टकर्मा अपत्रपः निर्लज्जः अविधेयेन्द्रियः अजितेन्द्रियः पुमान् गौः बलीवदेःइव पुंसां विधेयतां यथोक्तकारितां प्रेष्यताम् इति यावत्। “विधेयो विनयग्राही वचने स्थित आश्रवः” इत्यमरः। एति प्राप्नोति। उपमालङ्कारः अयम्। “प्रकृताप्रकृतयोरर्थसाधर्म्यात् श्लेषे तु शब्दमात्रसाधर्म्यम्” इति॥३३॥
न केवलं हिंसादिदोषमूलत्वात् विषयाणां हेयत्वं किन्तु अपारमार्थिकत्वात् अपि इति आह। श्व इति। अधुना भवा अधुनातनीइदानीन्तनी। “सायं चिरम्” इत्यादिना ट्युप्रत्ययः। सुखसंवित्तिः सुखानुभवः श्वः परे अहनि त्वया स्मरणीया न तु अनुभवनीया इति हेतोः। काम्यन्ते इति कामाः विषयाः तान् स्वप्नोपमान् स्वप्नतुल्यान् मत्वा निश्चित्य तदङ्गतां
श्रद्धेया विप्रलब्धारः प्रिया विप्रियकारिणः।
सुदुस्त्यजास्त्यजन्तोऽपि कामाः कष्टा हि शत्रवः॥३५॥
विविक्तेऽस्मिन्नगे भूयः प्लाविते जह्नुकन्यया।
प्रत्यासीदति मुक्तिस्त्वां पुरा मा भूरुदायुधः॥३६॥
तच्छेषत्वं कामपरतन्त्रतां मा गाः न गच्छ। “इणो गा लुङि” इति गादेशः॥३४॥
अतःहेयाः कामाः इति आह। श्रद्धेया इति। श्रद्धातुम् अर्हाः श्रद्धेयाः विश्वसनीयाः तया विप्रलब्धारः प्रतारकाः विश्वासघातकाः इत्यर्थः। तथा प्रीणन्ति इति प्रियाः प्रीतिजनकाः। “इगुपध” इत्यादिना कप्रत्ययः। तथापि विप्रियकारिणः दुःखजननशीलाः। किञ्च त्यजन्तः अपि पुरुषं विहाय गच्छन्तः अपि सुदुस्त्यजाःसुयत्नेन त्यक्तुम् अशक्याः कामाः विषयाः कष्टाः कुत्सिताः शत्रवः हि प्रसिद्धशत्रवः वैधर्म्यात् इति भावः। अत्र श्रद्धेयत्वादीनां विप्रलम्भकत्वादीनां च एकत्र विरोधः विषयस्वाभाव्येन समाधीयते इति विरोधाभासः अलङ्कारः। तेन च कामानां प्रसिद्धशत्रुवैधर्म्यं व्यतिरेकेण व्यज्यते इति अलङ्कारेण अलङ्कारध्वनिः॥३५॥
तर्हि किं कर्त्तव्यम् ? इति आशङ्क्य उपसंहरन् आह। विविक्तइति। विविक्ते विजने। “विविक्तविजनच्छन्ननिःशलाकास्तथा रहः” इत्यमरः। जह्नुकन्यया गङ्गया भूयः भूयिष्ठं पुनःपुनः वा। “भूयः पुनः पुनः ख्यातं भूतार्थे पुनरव्ययम्” इति विश्वः। प्लाविते सिक्ते “पाविते” इति पाठे पवित्रीकृते इत्यर्थः। अस्मिन् नगे इन्द्रकीले त्वां मुक्तिः पुरा निकटे प्रत्यासीदति सन्निकृष्टा भविष्यति इत्यर्थः। “पुरा पुराणे निकटे
व्याहृत्य मरुतां पत्याविति वाचमवस्थिते।
वचः प्रश्रयगम्भीरमथोवाच कपिध्वजः॥३७॥
प्रसादरम्यमोजस्विगरीयो लाघवान्वितम्।
साकाङ्क्षमनुपस्कारं विष्वग्गति निराकुलम्॥३८॥
न्यायनिर्णीतसारत्वान्निरपेक्षमिवागमे।
अप्रकम्प्यतयान्येषामाम्नायवचनोपमम्॥३९॥
प्रबन्धातीतभाविषु” इति विश्वः। उदायुधः गृहीतशस्त्रःमा भूःशस्त्रं विमुञ्च इत्यर्थः॥३६॥
व्याहृत्येति। मरुतां पत्यौ देवेन्द्रे इति वाचं व्याहृत्य उक्ता अवस्थिते सति तूष्णीं स्थितेसति अथ कपिध्वजः अर्जुनः प्रश्रयगम्भीरं विनयमधुरम्। “विनयप्रश्रयौसमौ” इति यादवः। वचः उवाच॥३७॥
किम् उवाच ? इति अपेक्षायां चतुर्भिः इन्द्रवाक्यम् उप श्लोकयन् आह। प्रसादेति। प्रसादः अत्र प्रसिद्धार्थपदत्वं तेन रम्यम्। “प्रसिद्धार्थपदत्वं यत्स प्रसादो निगद्यते” इति लक्षणात्। ओजस्वि समासभूयिष्ठम्। “ओजः समासभूयस्त्वम्” इति शासनात्। गरीयः अर्थभूयस्त्वपरिगतं न तु शब्दाड़म्बरमात्रम् इत्यर्थः। लाघवान्वित विस्तरदोषरहितम्। साकाङ्क्षवत्पदकदम्बात्मकं न तु दशदाड़िमादिवाक्यवत् अनाकाङ्क्षितम् इत्यर्थः। अनुपस्कारम् अध्याहारदोषरहितम्। विष्वग्गति कृत्स्नार्थप्रतिपादकं न तु सावशेषार्थम् अत एव निराकुलम् असङ्कीर्णार्थम्॥३८॥
न्यायेति। पुनः न्यायेन युक्त्या निर्णीतसारत्वात् निश्चितार्थत्वात् हेतोःआगमे शास्त्रेविषये निरपेक्षं स्वतन्त्रम् इव
अलङ्घ्यत्वाज्जनैरन्यैःक्षुभितोदन्वदूर्जितम्।
औदार्य्यादर्थसम्पत्तेःशान्तं चित्तमृषेरिव॥४०॥
इदमीदृग्गुणोपेतं लब्धावसरसाधनम्।
व्याकुर्य्यात् कः प्रियं वाक्यं यो वक्ता नेदृगाशंयः॥४१॥
न ज्ञातं तात ! यत्नस्य पौर्वापर्य्यममुष्य ते।
युक्तिदार्ढ्यात् एवं प्रतीयते। वस्तुतस्तु शास्त्रसिद्धार्थम् इव इति इवशब्दार्थः। किञ्च अन्येषां प्रतिवादिनाम् अप्रकम्प्यतया अनुमानादिभिः अबाध्यत्वात् अप्रत्याख्याततया आम्नायवचनोपमं वेदवाक्यतुल्यम् इत्यर्थः॥३९॥
अलङ्घ्यत्वादिति। अन्यैःजनैः अलङ्घ्यत्वात् अनुल्लङ्घनीयत्वात् क्षुभितोदन्वदूर्जितम् उद्वेलाम्भोधिगम्भीरम् औदार्य्यात् उक्तिविशेषत्वात् श्लाघ्यविशेषणात् वा। तदुक्तं दण्डिना—“उत्कर्षवान् गुणः कश्चिदुक्ते यस्मिन् प्रतीयते। तदुदाराह्वयं तेन सनाथा काव्यपद्धतिः। श्लाघ्यैर्विशेषणैर्युक्तमुदारं कैश्चिदिष्यते॥” इति। “अग्राम्यार्थत्वात्” इति केचित् अन्यत्र त्यागित्वात् इत्यर्थः। अर्थसाम्पत्तेः प्रयोजनसम्पत्तेःअन्यत्र अणिमादिसमृद्धेःऋषेः मुनेःचित्तम् इव शान्तं सौम्यम्॥४०॥
इदमिति। इदम् ईदृग्गुणोपेतं यथोक्तगुणयुक्तम्। इदम् उपपदात् दृशेः क्विप्। “इदं। कमोरीशकी” इति ईशादेशः। लब्धं प्राप्ते अवसरसाधनेकालोपायौयेन तत् प्रियं प्रीतिकरं वाक्यं कः वक्ता व्याकुर्य्यात् व्याहरेत् यः वक्ता न ईदृगाशयः ईदृग्विवक्षावान् न भवति ईदृग्बुद्धिशाली न भवति इति शेषः। तस्य अर्थस्य वक्तुम् अशक्यत्वात् इति भावः॥४१॥
एवम् इन्द्रवाक्यम् उपश्लोक्य न अहम् अस्य उपदेशस्य
शासितुं येन मां धर्मंमुनिभिस्तुल्यमिच्छसि॥४२॥
अविज्ञातप्रबन्धस्य वचो वाचस्पतेरपि।
व्रजत्यफलतामेव नयद्रुह इवेहितम्॥४३॥
श्रेयसोऽप्यस्य ते तात ! वचसो नास्मि भाजनम्।
नभसः स्फुटतारस्य रात्रेरिव विपर्य्ययः॥४४॥
अधिकारी इति परिहरति। नेति। हे तात! अमुष्य यत्नस्य तपोरूपस्य अस्य मदीययोगस्य पूर्वं च अपरञ्च पूर्वापरे एव पौर्वापर्य्यं कारण फलञ्च। चातुर्वर्ण्यादित्वात् स्वार्थेष्यञ्प्रत्ययः। ते तव न ज्ञातं त्वया न ज्ञायते इत्यर्थः। “मतिबुद्धि” इत्यादिना वर्त्तमाने क्तः। तद्योगात् एव षष्ठी। कुतः ? येन कारणेन मां मुनिभिः तुल्यं सदृशं धर्मं मोहधर्मं शासितुम् उपदेष्टुम् इच्छसि। शासिः अयं दुहादित्वात् द्विकर्मकः ज्ञेयः॥४२॥
अथ पौर्वापर्यम् अज्ञात्वा अपि उपदेशे दोषम् आह। अविज्ञातेति। अविज्ञातः प्रबन्धःपूर्वापरसङ्गतिः येन तस्य वाचस्पतेः वृहस्पतेः अपि। कस्कादित्वात् सः अथवा “षष्ट्याः पतिपुत्रपृष्ठपारपदपयस्पोषेषु” इनि सकारः। एतस्मात् एव ज्ञापकात् “अलुक्” इति केचित्। वच उपदेशो नयद्रुहो नीतिविरुद्धकारिणः पुरुषस्य ईहितम् उद्योगःइव अफलतां निष्फलत्वं व्रजति एव गच्छति एव॥४३॥
ननु सदुपदेशस्य कुतः वैफल्यम् ? इति आशङ्क्य सः अपि अस्थानेप्रयुक्तः चेत् उषरक्षेत्रे शालिवीजवत् विफलः एव इति आशयेन आह।
श्रेयस इति। हे तात। “पुत्रेपितरि पूज्येच तातशब्दः
क्षत्रियस्तनयः पाण्डोरहंपार्थो धनञ्जयः।
स्थितः प्रास्तस्य दायादैर्भ्रातुर्ज्येष्ठस्य शासने॥४५॥
प्रयुज्यते” इति। श्रेयस अपि हितार्थयोगात् प्रशस्ततरस्य अपि अस्य तेतव वचसः हितोपदेशरूपस्य रात्रेःविवयर्ययः दिवसः स्फुटतारस्य व्यक्ततारकस्य नभसः इव भाजनं पात्रं न अस्मि अनधिकारित्वात् इति भावः। अत्र अह्नः नभोमात्रसम्बन्धसम्भवे अपि तारासम्बन्धासम्भवात् तद्विशिष्टनभःसम्बन्धविरोधात् युक्तं तारकितस्य नभसः न पात्रम् अहः इति॥ ४४॥
कुतः ते मोक्षोपदशानधिकारित्वम् ? किञ्च तेतपसःपौर्वापर्य्यं कथं न जाने ? इति आशङ्क्य तत् सर्वं स्वजात्यादिकथनपूर्वकंनिरूपयति। क्षत्रियइति। अहं क्षत्रियः क्षत्रियकुले जातः। तत्र अपि महाकुले प्रसूतः वीरसन्तानश्चइति आह। पाण्डोस्तनय इति। तत्र अपि कौन्तेयः अस्मिन माद्रेयः इति आह। पार्थ इति। पृथा कुन्ती तत्सुतः पार्थः। “तस्यापत्यम्” इति अण्। अर्जुनः अहं महावीरश्चइति आह। धनञ्जय इति। उत्तरकुरून् विजित्य धनाहरणात् धनञ्जयः अस्मि इत्यर्थः। धनञ्जय इति उक्ते शरीरस्थः वायुः सर्पाविशेषः वा स्यात् तदर्थं पार्थःगन्धर्वः अपि कश्चित् पृथासुतः अस्ति तदर्थेपाण्डोः सुतः नैमिषारण्ये पाण्डुः विप्रः तत्पत्नी पृथा नाम काचित् ब्राह्मणीतत्पुत्रः अपि स्यात् तदर्थं क्षत्रिय इति। अथ एवं चेत् किम् अर्थं तर्हि तपस्यसि मोक्षार्थं वा कि न तपस्यसि ? तत्र आह। स्थित इति। दायं पैतृकं धनम् आददते इति दायादाः ज्ञातयः। “दायादो ज्ञातिपुत्रयोः” इति। “विभक्तव्यं पितृद्रव्यं दायमाहुर्मनीषिणः” इति च विश्वः। स्वामीश्वरादिसूत्रेण सोपसर्गात् अपि दायादेति कप्रत्य-
कृष्णाद्वैपायनादेशाद् बिभर्मि व्रतमीदृशम्।
भृशमाराधने यत्तः स्वाराध्यस्य मरुत्वतः॥४६॥
दुरक्षान् दीव्यता राज्ञा राज्यमात्मा वयं बधूः।
नीतानि पणतां नूनमीदृशी भवितव्यता॥४७॥
यान्तः निपातनात् साधुः। तैः प्रास्तस्य राज्यात् निरस्तस्य वैरिनिर्यातनार्थिनः इत्यर्थः। ज्येष्ठस्य भ्रातुः युधिष्ठिरस्य। वृद्धशब्दात् इष्ठन्प्रत्ययः वृद्धस्य च ज्यादेशः। शासने निर्देशे स्थितः तदाज्ञया तपस्यामि इत्यर्थः। अन्यथा मानहानिः सौभ्रात्रभङ्गः पूज्यपूजाव्यतिक्रमदोषश्च स्यात् इति भावः। अत एव हिंसैकरमस्य रागद्वेषकषायितचेतसः कुतः मे मोक्षाधिकारः इति तात्पर्य्यार्थः। सार्थविशेषणत्वात परिकरालङ्कारः॥४५॥
यत् उक्तम् “विरुद्धः केवल वेषः” इति तत्र उत्तरम् आह। कृष्णेति। द्वीपः अयनं जन्मभूमिः यस्य सःद्वीपायनः सः एव द्वैपायनः व्यासः। प्रज्ञादित्वात् स्वार्थे अण्प्रत्ययः। सः एव कृष्णवर्णत्वात् कृष्णद्वैपायनः। तस्य आदेशात् उपदेशात् ईदृशं विरुद्धवेशम् इत्यर्थः। व्रतं तपोनियमं बिभर्मिधारयामि न तु स्वेच्छया इति भावः। अथ उपास्यां देवताम् आह। भृशमिति। स्वाराध्यस्य सुखम् आराध्यस्य। प्रादिसमासः। “स्वराधस्य” इति पाठे उपसृष्टात् खल्प्रत्ययः। मरुत्वतः इन्द्रस्य। भृशं सम्यक् आराधनेयत्तः प्रयत्नवान् इत्यर्थः। तस्य क्षत्त्रियदैवतत्वात् इति भावः॥४६॥
ननु भवादृशभ्रातृसहायस्य महावीरस्य युधिष्ठिरस्य कथम् अरिपरिभवप्राप्ति ? इत्यतः आह। दुरक्षानिति। दुरक्षान् कपटपाशकैः इत्यर्थः। “दिवः कर्म च” इति करणे कर्मसंज्ञा। दीव्यता कीड़ता। “आहतो न निवर्त्तेत द्यूतादपि रणादपि”
तेनानुजसहायेन द्रौपद्या च मया विना।
भृशमायामियामासु यामिनीष्वभितप्यते॥४८॥
हृतोत्तरीयान् प्रसभं सभायामागतह्रियः।
मर्मच्छिदा नो वचसा निरतक्षन्नरातयः॥४९॥
इति शास्त्रात्। न तु व्यसनितया इति भावः। राज्ञायुधिष्ठिरेण राज्यं राष्ट्रम् आत्मा स्वयं वयं चत्वारः अनुजाः बधूःजाया द्रौपदी च पणतां ग्लहत्वम्। “पणोऽक्षेषु ग्लहोऽक्षास्तु देवताः पाशकाश्चते”इत्यमरः। नीतानि सर्वं द्यूतेराज्ञा हारितम् इत्यर्थः। नीतानि इति नपुंसकैकशेषः। नयतेः द्विकर्मकत्वात् प्रधाने कर्मणि क्तः। ननु सर्वज्ञस्य राज्ञः कथम् इयम् अविमृष्यकारिता ? तत्र आह। भवितव्यता अनर्थानाम् अवश्यभाविता ईदृशी नूनंनिश्चितं न अत्र संशयः इत्यर्थः। बुद्धिः अपि भवितव्यतानुसारिणी एव न स्वतन्त्रा इत्यर्थः॥४७॥
ननु तथापि तव एव तेषु आसङ्गःन तेषां त्वयि तत्र आह। तनेति। अनुजाः सहजाताः सहायाः यस्य तेन अनुजयुक्तेन इत्यर्थः। तुल्ययोगः सहायार्थःतेन युधिष्ठिरेणद्रौपद्या च मया विना मद्विरहात् इत्यर्थः। आयामिनः दीर्घाःयामाः प्रहराः यासां ताः तासु। दुःखितस्य तथा भावात् इति भावः। यामिनीषु अभितप्यते। भावे लट्। तेषु मद्वत् तेषाम् मयि अपि आसङ्गात् न वैराग्यावकाशः इत्यर्थः॥४८॥
अथ वैरनिर्य्यातनस्य अवश्यम्भावद्योतनाय चतुर्भिः परापकृतिं दर्शयन् परनिकारान् वर्णयति। हृतत्यादि। अरातय शत्रवः सभायां प्रसभं बलात्कारेण हृतोत्तरीयान् अत एव आगतह्रियः सम्प्राप्तलज्जान्। नः अस्मान् मर्मच्छिदा मर्मच्छेदिना वचसा निरतक्षन् अशातयन्। वस्त्राद्यपहारवाक्-
उपाधत्त सपत्नेषुकृष्णाया गुरुसन्निधौ।
भावमानयने सत्याः सत्यङ्कारमिवान्तकः॥५०॥
तामैक्षन्त क्षणं सभ्याः दुःशासनपुरःसराम्।
अभिसायार्कमावृत्तां छायामिव महातरोः॥५१॥
पारुष्याभ्यां तथा व्यथयामासुः इत्यर्थः। तक्षणशब्दसामर्थ्यात् वचसां वा अस्य औपम्यं गम्यते इति वस्तुना अलङ्कारध्वनिः ॥४९॥
अथ अतिदुःसहनिकारान्तरम् आह। उपाधत्तेति। अन्तकः मृत्युःगुरुसन्निधो भीष्मद्रोणादिसमक्षम् एव सत्याःपतिव्रतायाः कृष्णायाः द्रौपद्याः आनयने केशाम्बरादिकर्षणेभावं चित्ताभिप्रायम् इतः परम् अनेन पाण्डवाभिभवेन एतान् स्वनगर नेष्यामि इति एवम्भूतं सत्यङ्कारम् इव। क्रियते अनेन इति कारः। करणेघञ्। सत्यस्य कारः सत्यङ्कारः सत्यापानं चिकीर्षितस्य कार्य्यस्य अवश्यं क्रियास्थापनार्थं परहस्ते यत दीयत सः सत्यङ्कारः। क्रियादौसत्यदार्ढ्याय प्राग्दीयमानः तमूल्यैकदेशश्च। “क्लीवे सत्यापनं सत्यङ्गारः सत्याकृतिःस्त्रियाम् इत्यमरः। “कारे सत्यागदस्य” इति सुमागमः। तम् इव सपत्नेषु उपाधत्त निहितवान्। तेषां विनाशकाले विपरीतबुद्धिम् उत्पादितवान् इत्यर्थः॥५०॥
केन इयम् आकृष्टा सभ्यैः वा किं कृतम् ? तत्र आह। तामिति। दुःशासनः पुरःसरः यस्याः तां तथोक्तां दुःशासनेन सभां प्रति आकृष्यमाणाम् इत्यर्थः। “अनुपसर्जनात्” इति न ङीप्। तां कृष्णाम्। सभायां साधवः सभ्याः। “सभाया यः” इति यप्रत्ययः। अभिसायार्कं दिनान्तसूर्य्याभिमुखं स्थितस्य इति शेषः। “सायोनाशदिनान्तयोः” इति विश्वः। लक्षणे-
अयथार्थक्रियारम्भैः पतिभिः किं तवेक्षितैः ?।
अरुध्येतामितीवास्या नयने वाष्पवारिणा॥५२॥
सोढ़वान् नो दशामन्त्यां ज्यायानेव गुणप्रियः।
सुलभोहि द्विषां भङ्गोदुर्लभा सत्स्ववाच्यता॥५३॥
नाभिप्रती आभिमुख्ये” इति अव्ययीभावः। महातरोः सम्बन्धिनीम् आवृत्तां छायाम् इव तां कृष्णां क्षणम् ऐक्षन्त न चिरं जुगुप्सितत्वात्। न अपि किञ्चित् व्याप्रियन्त माध्यस्थभङ्गभयात् ते तु अर्कवत् एव साक्षित्वमात्रम् आस्थिताः इत्यर्थः। अत्र आकृष्यमाणायाः कृष्णायाः आक्रष्टारं प्रति पराङ्मुखत्वात् आवृत्तच्छायौपम्यम्। तथापि तां न मुञ्चति इति दुःशासनस्य तरुसाम्यम्॥५१॥
अथ अस्याः तादात्मिकतां वर्णयति। अयथार्थेति। अयथार्थाः मिथ्याभूताः क्रियारम्भाः पतिशब्दप्रवृत्तिनिमित्त- भूतकर्मोद्योगाः येषां तैःताम् अरक्षद्भिः इत्यर्थः। तव सम्बन्धिभिः। पान्तिरक्षन्ति इति पतयः भर्त्तारः। “पातेर्डतिः” इति औणादिकः डतिप्रत्ययः। तैः ईक्षितैः अवेक्षितैः किम् ? न किञ्चित् फलम् अस्ति इत्यर्थः। इति इव इत्थं विचार्य्य इव इति उत्प्रेक्षा। वाष्पवारिणा अस्याः कृष्णायाः नयने अरुध्येताम् आवृत्ते। रुधेः कर्मणि लङ्। अशरणा रुरोद इत्यर्थः॥५२ ॥
ननु भवद्भिः किम् अर्थम् असमर्थैःइव उपेक्षितम् ? तत्र आह। सोढ़वानिति। गुणाः प्रियाः यस्य सः गुणप्रियः। “वा प्रियस्य” इति परनिपातः। ज्यायान् अग्रजः युधिष्ठिरः एव। वृद्धशब्दात् ईयसुनि “ज्यादादीयसः” इति आकारादेशः। नः अम्माकम् अन्ते भवाम् अन्त्यां निकृष्टां दशाम् अवस्थां सोढ़वान्
स्थित्यतिक्रान्तिभीरूणि स्वच्छान्याकुलितान्यपि।
तोयानि तोयराशीनां मनांसि च मनस्विनाम्॥५४॥
धार्त्तराष्ट्रैःसह प्रीतिर्वैरमम्मास्वसूयत।
असन्मैत्रीहि दोषाय कूलच्छायेव सेविता॥५५॥
न तु वयम्। किन्तु तदवरुद्धाः इति भावः। ननु शत्रूपेक्षा महतीअनर्थकारिणीइति आशङ्क्यआह। सुलभ इति। द्विषां विद्विषां भङ्गः सुलभः कालान्तरे अपि इति शेषः। सत्सु सज्जनेषु अवाच्यता निन्द्यता दुर्लभा न तु शत्रूपेक्षा। हि प्रसिद्धौ।शत्रूपेक्षातः लोकापवादः एव बलवान् तस्य उत्पन्नस्य पुनः प्रतिविधेयत्वात् स च समयोल्लङ्घने स्यात् एव इति भावः॥५३॥
ननु शत्रुबधे राज्ञां कः नाम अपवादः प्रत्युत कीर्त्तिः एव? इति आशङ्क्यसत्यं स एव समयोल्लङ्घन- कलङ्कितकीर्त्या महानिन्दानिदानम् इति अशयेन ह। स्थितीति। तोयराशीनां समुद्राणां तोयानि मनस्विनां मनांसि च समानि भवन्ति। उभयं विशिनष्टि। स्थित्यतिक्रान्तेमर्य्यादोल्लङ्घनात् हेतोः भीरुणि अत अब आकुलितानि सङ्क्षोभितानि अपि स्वच्छानि अकलुषाणि न त्वरन्ते इत्यर्थः। मनस्वी अयं युधिष्ठिरः इति भावः। अत्र तोयानां सामान्यतः मनस्विना च अप्रकृतानाम् एव गुणतौल्यात् औपम्यस्य गम्यतया तुल्ययोगितालङ्कारः। गुणश्च अत्र भीरुत्वं स्वच्छता च॥५४॥
ननु अजातशत्रोः स्वजने वैरे किं कारणम् ? इति आशङ्क्यअस्मत्सौहार्दम् एव इति आह। धार्त्तराष्ट्रैरिति। धार्त्तराष्ट्रैःधृतराष्ट्रपुत्रैः सह प्रीतिः सौहार्दम् एव अस्मासु विषये वैरम् असूयत सुतवती। सूयतेः दैवादिकात् कर्त्तरि लङ्। ननु सौहार्दं वैरजनकं चेत् विप्रतिषिद्धम् ? तत्र आह। असदिति हि
अपवादादभीतस्य समस्य गुणदोषयोः।
असद्वृत्तेरहो वृत्तं दुर्विभावं विधेरिव॥५६॥
ध्वंसेत हृदयं सद्यः परिभूतस्य मे परैः।
यद्यमर्षःप्रतीकारं भुजालम्बं न लम्भयेत्॥५७॥
अवधूयारिभिर्नीता हरिणैस्तुल्यवृत्तिताम्।
यम्मात् असन्मैत्री दुर्जनेन सङ्गतिः कूलस्य आसन्नपातस्य नदीतटस्य छाया इव सेविता श्रिता सती दोषाय अनर्थाय भवति। न खलु दुर्जनः सुजनवत् मित्रद्रोहपातकं पश्यति इति भावः। उपमाप्राणितः अयम् अर्थान्तरन्यासः अलङ्कारः॥ ५५॥
ननु आदौएवतेषां वृत्तम् अविज्ञाय कथं मैत्रीकृता इति आशङ्क्य किं कुर्मः दुर्जनवृत्तं दुर्विज्ञेयम् इति आह। अपवादादिति। अपवादात् जनाक्रोशात् अभीतस्य अजुगुप्सामानस्य इत्यर्थः। गुणदोषयोः समस्य तुल्यबुद्धेःनिग्रहानुग्रहौगुणदोषयोः अननुरुन्धतः इत्यर्थः। विधौ अपि एतत् विशेषणं योज्यम्। असद्वृत्तेःदुराचारस्य धूर्त्तस्य वृत्तम् ईहितं विधेः दैवस्य वृत्तम् इव दुर्विभावं विभावयितुम् अशक्यम्। किन्तु कार्य्यैकसमधिगम्यम् इत्यर्थः। भवतेःण्यन्तात् कृच्छ्रार्थे खल्प्रत्ययः॥५६॥
ननु एवं मानीकथं परिभूतः जीवसि तत्र आह। ध्वंसेतेति। परैः शत्रुभिः परिभूतस्य मे हृदयं सद्यः ध्वंसेत भ्रम्येत् इत्यर्थः। अमर्षः कर्त्ता प्रतीकारं प्रतिक्रियारूपं भुजालम्बं हस्तावलम्बनं न लम्भयेत् न ग्राहयेत् यदि हृदयेन इति शेषः। सत्यं जीवामि प्रतिविधित्सया न तु निर्लज्जतया इति भावः॥५७॥
ननु तव एव कः अयम् अभिमानः ? तत्र आह। अत्र-
अन्योन्यस्यापि जिह्नीमः किं पुनः सहवासिनाम्॥५८॥
शक्तिवैकल्यनम्रस्य निःसारत्वाल्लघीयसः।
जन्मिनो मानहीनस्य तृणस्य च समा गतिः॥५९॥
अलङ्घ्यंतत्तदुद्वीक्ष्य यत् यदुच्चैर्महीभृताम्।
प्रियतां ज्यायसीं मा गात् महतां केन तुङ्गता॥६०॥
धूयेति। अरिभिः अवधूय परिभूय हरिणैः मृगैः तुल्यवृत्तितां तुल्यवृत्तिजीवनत्वं वन्याहारताम् इत्यर्थः। नीताः प्रापिताः वयं पञ्च अपि इति शेषः। अन्योन्यस्य अपि जिह्रीमः लज्जामहे। सहवासिनां सहचारिणां किं पुनः ? प्राक् एव जिह्रीम इति किमुवक्तव्यम् ? इत्यर्थः। क्रियायोगे सम्बन्धसामान्येषष्ठी। अत्र वयं पञ्च अपि तुल्याभिमानाः इव इदं तु मदेकसाध्यं कर्म इति मुनिशासनात् मया अनुष्ठीयते इति भावः॥५८॥
ननु तर्हि दुःखैकनिदानम् अन्तःशत्रुः मानः एव त्यज्यताम् ? इति आशङ्क्य तत्त्यागे दोषम् आह। शक्तीति। शक्तिवैकल्येन उत्साहादिशक्तिवैधुर्य्येण अवष्टम्भसामर्थ्यंविरहेण हि नम्रस्य प्रह्वीभूतस्य विधेयभूतस्य च निःसारत्वात् दुर्बलत्वात् स्थिरांशरहितत्वात् च। “सारो बले स्थिरांशे च” इत्यमरः। लघीयसः गौरवहीनस्य नीरसस्य इत्यर्थः। मानहीनस्य जन्मिनः जन्तोः। व्रीह्यादित्वात् इनिः। तृणस्य च गतिः अवस्था समा इति। मानहीनस्य तृणात् अपि निकृष्टत्वात् न त्याज्यः मानःइति भावः। श्लेषालङ्कारः अयं तदनुप्राणिता इयम् उपमा इति अनेकार्थदीपिका इति व्यज्यते॥५९॥
मानत्यागे दोषम् उक्त्वा तत्सद्भावे षड्भिः गुणम् आह। अलङ्घ्यमिति। महीभृतां पर्वतानां सम्बन्धि यत् यत् शृङ्गादि-
तावदाश्रीयते लक्ष्म्या तावदस्य स्थिरं यशः।
पुरुषस्तावदेवासौ यावत् मानात् न हीयते॥६१॥
स पुमानर्थवज्जन्मा यस्य नाम्नि पुरःस्थिते।
नान्यामङ्गुलिमभ्येति सङ्ख्यायामुद्यताङ्गुलिः॥६२॥
कम् उच्चैः उन्नतं तत् तत् अलङ्घ्यम् उद्वीक्ष्य उत्प्रेक्ष्य तर्कयित्वा इति यावत्। महतां महात्मनां तुङ्गता मानौन्नत्यं ज्यायसी प्रियतां प्रियत्वं केन हेतुना मार्गात् ? न केन अपि प्रियत्वं गच्छति एव इत्यर्थः। किन्तु तुङ्गत्वेन इत्यर्थः। आशिषि माङि लुङ्। दैवम् अनिच्छन् अपि इच्छाम् उत्पादयति औषधवत् अस्मिन् अर्थ इति आशंमनार्थम् आशीःप्रयोगः। उद्वीक्ष्य इति असमानकर्त्तृकत्वनिर्देशः क्वचित् प्रयोगदर्शनात् सोढ़व्यः। केचित् उद्वीक्ष्यम् इति पठन्ति। तत्र यत् यत् उच्चैः तत् अलङ्घ्यम् उद्वीक्ष्यम् अवलोकनीयं न च उल्लङ्घनीयम् इति। अतः महताम् इत्यादि योजयन्ति॥६०॥
तावदिति। किञ्च तावत् एव असौलक्ष्म्या आश्रीयते। तावत् अस्य पुंसः यशः स्थिरम्। तावत् एव असौ पुरुषः। पुरुषत्वेन गण्यते इत्यर्थः। यावत् मानात् अभिमानात् न हीयते न भ्रंज्यति। मानहीनस्य न किञ्चित् शुभम् अस्ति इत्यर्थः॥६१॥
स इति। सः पुमान् अर्थ वज्जन्मा सार्थकजन्मा यस्य पुंसः नाम्नि पुरः अग्रे स्थितेसति संख्याया पुरुषगणनाप्रस्तावे उद्यता गुणम् अधिकृत्य उन्नमिता अङ्गुलिः अन्यां द्वितीयाम् अङ्गुलिम् उद्यताम् इति शेषः। न अभ्येति न प्राप्नोति। अद्वितीयत्वात् अस्य इत्यर्थः। एतत् मानरहितस्य न सम्भवतीति भावः॥६२॥
दुरासदवनज्यायान् गम्यस्तुङ्गोऽपि भूधरः।
न जहाति महौजस्कं मानप्रांशुमलङ्घ्यता॥६३॥
गुरून् कुर्वन्ति ते वंश्यान् अन्वर्था तैर्वसुन्धरा।
येषां यशांसि शुभ्राणि ह्रेपयन्तीन्दुमण्डलम्॥६४॥
उदाहरणमाशीःषु प्रथमे ते मनस्विनाम्।
शुष्केऽशनिरिवामर्षो यैररातिषु पात्यते॥६५॥
दुरासदेति। दुरासदैःवनैःज्यायान् प्रवृद्धः तथापि तुङ्गः अपि भूधरः गम्यः गन्तुं शक्यः एव प्रसिद्धं च एतत् इति भावः। महोजस्कं प्रतापसम्पन्नं मानप्रांशुंमानोन्नतं पुरुषम् इति शेषः। अलङ्घ्यता न जहाति न कदाचित् मानीलङ्घयितुं शक्यते इत्यर्थः। गिरः अपि गरीयान् मानाधिकः इति भावः। अब उपमानात् भूधरात् उपमेयस्य मानिनः धर्मान्तरसाम्यं अलङ्घ्यत्वेन अधिक्यकथनात् व्यतिरेकालङ्कारः॥६३॥
गुरूनिति। ते नराः वंश्यान् अन्वयभवान् गुरून् कुर्वन्ति प्रथयन्ति। स्वनाम्ना व्यपदेशयन्ति रघुदिलीपादिवत् इत्यर्थः।तैः नरैः वसूनि धनानि धरति इति वसुन्धरा। “संज्ञायां भृतृृवृजि” इत्यादिना खच्प्रत्यये “खचि ह्रस्वः” इति ह्रस्वात् नुमागमश्च। अन्वर्था अनुगतार्था तेषां वसुभूतानां धारणात् इति भावः। येषां शुभ्राणि यशांसि इन्दुमण्डलं हेययन्ति लज्जयन्ति यशसः निष्कलङ्कत्वात् इति भावः। ईदृशं हि यशःमानमहतः एव सम्भवति इति तात्पर्यार्थः। ह्रीधातोः ण्यन्तात् लट्। “अर्त्तिर्हि”इत्यादिना पुमागमः। अत्र हेपणस्य सादृश्यपर्य्यवसानात् उपमालङ्कारः॥६४॥
उदाहरणमिति। यैः अमर्षः क्रोधः शुष्के नीरसे अशनिः
न सुखं प्रार्थये नार्थमुदन्वद्वीचिचञ्चलम्।
नानित्यताशनेस्त्रस्यन् विविक्तं ब्रह्मणः पदम्॥६६॥
प्रमार्ष्टुमयशः पङ्कमिच्छेयं छद्मना कृतम्।
वैधव्यतापितारातिवनितालोचनाम्बुभिः॥६७॥
अपहस्येऽथवा सद्भिः प्रमादो वास्तु मे धियः।
इव अरातिषु विषये पात्यते प्रक्षिप्यते। मनस्विनां मानिनां प्रथमे अग्रेसराः ते आशीःषु पुरुषैःएवं भवितव्यम् एवं रूपासु उदाहरणं निदर्शनं भवति इति शेषः। रामादिवत् उपमानंभवति इत्यर्थः। अतः न त्याज्यः मानः इति सन्दर्भार्थः ॥६५॥
यत् उक्तम् “अभिद्रोहेण भूतानाम्” इत्यादि तत्र युग्मेन उत्तरम् आह। नेत्यादि। उदन्वद्वीचिः इव चञ्चलं समुद्रतरङ्गवत् अस्थिरं सुखं कामं न प्रार्थये न इच्छामि। तथा चञ्चलम् अर्थञ्च न प्रार्थये। किञ्च अनित्यता विनाशिता सा एव अशनिः तस्मात् त्रस्यन् बिभ्यत्। “वा भ्राश” इत्यादिना श्यन्-प्रत्ययः। विविक्तं निर्बाधं ब्रह्मणः वेधसः आत्मनःपद्यते इति पदं स्थानम् ऐक्यलक्षणंमुक्तिञ्च न प्रार्थये। एतेन यत् उक्तम् “उच्छेदं जन्मनः कर्त्तुम्” इत्यादिना तत् समाहितम्॥६६॥
प्रमार्ष्टुमिति। किन्तु छद्मना कपटेन कृतं शत्रुभिः इति शेषः। अयशः एव पङ्कम् इति रूपकालङ्कारः। वैधव्येन तापितानां दुःखीकृतानाम् अरातिवनितानां लोचनाम्बुभिः प्रमार्ष्टुं क्षालयितुम् इच्छेयम् अभिलषेयम्। इषिधातोः लिङि रूपम्। वैरिनिर्य्यातनातिरिक्तंन किञ्चित् इच्छामि इत्यर्थः॥६७॥
एवं तर्हि “यः करोति बधोदर्काः” इत्युक्तदोषः स्यात् ? इति आशङ्काम् अङ्गीकृत्य ग्लानिः न दोषाय इति न्यायम्
नाम यस्याभिनन्दन्ति द्विषोऽपि स पुमान् पुमान्॥७३॥
युग्मम्।
यथाप्रतिज्ञं द्विषतां युधि प्रतिचिकीर्षया।
मामैवाध्येति नृपतिस्तृष्यन्निव जलाञ्जलेः॥७४॥
स वंशस्यावदातस्य शशाङ्कस्येव लाञ्छनम्।
कृच्छ्रेषु व्यर्थया यत्र भूयते भर्त्तुराज्ञया॥७५॥
ग्रसमानमिति। किञ्च सदसा मभया गोरवेण इरितं कयाप्रसङ्गेषु गौरवपूर्वकम् उच्चारितं सत् औजांसि श्रृण्वतां तेजांसि ग्रसमानं गिलत् इव स्थितं यस्य पुंसः नाम द्विषोऽपि अभिनन्दन्ति अनुमोदन्तेकिमुत सुहृदः ? इति भावः। सः पुमान् पुमान् पुरुषत्वेन गण्यते इत्यर्थः। प्रथमः पुरुषशब्दः जातिवचनः द्वितीयःगुणवचनः सः एव श्लाघ्यः। अत्र पुमान् पुमान् इति तात्पर्यमात्रभेदभिन्नशब्दार्थपौनरुक्त्यलक्षणः लाटानुप्रासः अलङ्कारः। तथाच सूत्रम्—“तात्पर्य्यभेदयुक्तो लाटानुप्रासः” इति॥७३॥
ननु सत्सुभीमादिषु तव एव अयं कः अभिनिवेशः? इत्यत्र आह। यथेति। नृपतिः युधिष्ठिरः यथाप्रतिज्ञं युधि द्विषतां प्रतिचिकीर्षया द्विषतः प्रतिकर्तुम् इच्छया प्रतिज्ञानुसारेणैव जिघांसया इत्यर्थः। तृष्यन् पिपासुः जलाञ्जलेः इव ममैव अध्येति इच्छति कार्य्यसिद्धेः मदायत्तत्वात् माम् एव स्मरति अतः अयं मम अभिनिवेशः इत्यर्थः। “अधीगर्थ” इत्यादिना कर्मणि षष्ठी॥७४॥
ननु युधिष्ठिरः स्वार्थं साधयति त्वया च स्वार्थमात्रम् अनुसन्धीयताम् ? इत्यतः आह। स इति। स नरोऽवदातस्य स्वच्छस्य
कथं वा दीयतामर्वाङ्मुनिता धर्मरोधिनी।
आश्रमानुक्रमः पूर्वैः स्मर्य्यते न व्यतिक्रमः॥७६॥
आसक्ता धरियं रूढ़ा जननी दूरगा च मे।
तिरस्करोति स्वातन्त्र्यंज्यायांश्चाचारवान् नृपः॥७७॥
दंशस्य शशाङ्कस्य इव लाञ्छनं कलङ्कः। यत्र यम्मिन् पुरुषे कृच्छ्रेषु व्यमनेषु भर्त्तुःस्वामिनः आज्ञया व्यर्थया भूयते। भावे लट्। आपदि स्वार्थसाधकः कुलघातकः तत् कथं स्वार्थनिष्ठकार्य्यता युक्ता इत्यर्थः॥७५॥
यदुक्तम् “विजहीहि रणोत्साहम्” इत्यादि तत्रोत्तरमाह। कथमिति। धर्मरोधिनीधर्मविरोधिनीअर्वाक् गार्हस्थ्यात्प्राक् एव मुनिता वानप्रस्थत्वं चतुर्थाश्रमता वा वर्णक्रमेण तस्य विधानात् “त्रयाणां वर्णानां पदमधीत्य चत्वार आश्रमाः” इति सूत्रकारवचनात् च क्षत्रियस्य अपि कैश्चित् इष्टत्वात्तत् एतत् सम्यक् विवेचितम् अस्माभिः रघुवंशसञ्जीवन्यां “स किलाश्रममन्त्यमाश्रितः” इत्यत्र। कथं वा आदीयतां मया कथं वा अङ्गीक्रियताम् ? सम्प्रश्नेलोट्। तथाहि। पूर्वैःमन्वादिभिः आश्रमानुक्रमः स्मर्य्यते। न तु व्यतिक्रमः। “ब्रह्मचारी भूत्वा गृही भवेत् गृही भूत्वा वनीभवेत् वनीभूत्वा प्रव्रजेत्“ इति श्रुत्यनुसारात् इत्यर्थः। एतत् अपि “चत्वार आश्रमाः” इत्येतत् पक्षम् आश्रित्य उक्तम्। यदि चेत् वैराग्यं तदा ब्रह्मचर्य्यात् एव प्रव्रजेत् गृहात् वनात् वेति व्युत्क्रमपक्षस्य अपि श्रवणात्। सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः॥७६॥
ननु भवान् गृहस्थ एव तत्कथम् अर्वाङ् मुनित्वविरोधः? इति अशङ्क्य सत्यं गृहस्थः अस्मि तथापि कृतनिखिलगृहस्थ
स्वधर्ममनुरुन्धन्तेनातिक्रममरातिभिः।
पलायन्ते कृतध्वंसा नाहवान्मानशालिनः॥७८॥
विच्छिन्नाब्भ्रविलायं वा विलीये नगमूर्द्धनि।
आराध्य वा सहस्राक्षमयशःशल्यमुद्धरे॥७९॥
कर्त्तव्यस्य एव वानप्रस्थाधिकारः न गृहस्थमात्रस्य। न च अहम् अद्यापि कृतकृत्यः ? इति उत्तरमाह। आसक्तेति। आसक्ता लग्ना अवश्यं कर्त्तव्या इत्यर्थः। रूढ़ा प्रसिद्धा महतीइत्यर्थः। इयं पूर्वोक्ता धूः वैरिनिर्य्यातनरूपा। दूरगा दूरवर्त्तिजोजननी च माता अपि। तथा नृपः अपि आचारवान् तपोऽधिकः इत्यर्थःI तत्र अपि ज्यायान् ज्येष्ठः नृपः युधिष्ठिरश्च मे मम स्वातन्त्र्यंस्वाञ्च्छन्द्यं तिरस्करोति दूरीकरोति आश्रमं प्रतिबध्नाति इत्यर्थः। तिरस्करोति इति प्रत्यकम् अभिसम्बध्यते अन्यथा बहुवचनप्रसङ्गात्॥७७॥
उक्तम् अर्थम् उपसंहरति। स्वधर्ममिति। मानशालिनः। स्वधर्मं क्षात्रधर्मम्अनुरुन्धन्ते अनुवर्त्तन्तेअतिक्रमं स्वधर्मातिक्रमं न अनुरुन्धन्ते ततः किम् ? अतः आह। अरातिभिरिति। अरातिभिः कृतध्वंसाः कृतापकाराः सन्तः आहवात् न पलायन्ते अयम् एव स्वधर्मानुरोधः इत्यर्थः। “उपसर्गस्यायतौ” इति रेफस्य लत्वम्। अत्र मनुः। “न निवर्त्तेत संग्रामात् क्षात्रधर्ममनुस्मरन्” इति। अत्र उत्तरवाक्यार्थंप्रति पूर्ववाक्यार्थस्य हेतुत्वात् वाक्यार्थहेतुकं काव्यलिङ्गम् अलङ्कारः॥७८॥
किं बहुना मम अयं निश्चयःश्रूयताम् ? इत्याह। विच्छिन्नेति। विच्छिन्नं वाताहतं यत् अभ्रं तदिव विलीय इति विच्छिन्नाभ्रविलायं यथा तथा “उपमाने कर्मणि च” इति कर्त्तरि उपपदे णमुल्। नगमूर्द्धनि अस्मिन् गिरिशृङ्गे विलीये विशीर्य्ये
इत्युक्तवन्तं परिरभ्य दोर्भ्यां
तनूजमाविष्कृतदिव्यमूर्त्तिः।
अघोपघातं मघवा विभूत्यै
भवोद्भवाराधनमादिदेश॥८०॥
प्रीते पिनाकिनि मया सह लोकपालैः
लोकत्रयेऽपि विहिताप्रतिवार्य्यवीर्यः।
लक्ष्मीं समुत्सुकयितासि भृशं परेषाम्
उच्चार्य वाचमिति तेन तिरोबभूवे॥८१॥
इति इन्द्रसमागमो नामैकादशः सर्गः॥११॥
वा। कषादिषु यथाविध्यनुप्रयोगः। यत् वा सहस्राक्षस् इन्द्रम् आराध्य अयशः एव शल्यं तत् उद्धरे उद्धरिष्यामि। न तु गत्यन्तरशङ्का इत्यर्थः। वाशब्दः विकल्पे॥७९॥
इतीति। मघवा इन्द्रः इत्युक्तवन्तं तनूजं पुत्रम् अर्जुनम् आविष्कृता प्रकटिता दिव्यमूर्त्तिः निजरूपं येन सः तथोक्तः सन् दोर्भ्यां बाहुभ्यां परिरभ्य विभूत्यैश्रेयसे उपहन्यते अनेन इति उपघातम्। करणे घञ्प्रत्ययः। अघानां दुःखानाम् उपघातम् अघोपघातंभवः संसारः तस्य उद्भवः कारणम् इति भवोद्भवः शिवः तस्य आराधनम् उपासनम् आदिदेश शिवम् उद्दिश्य तपः चर इति आज्ञपयामास इत्यर्थः॥८०॥
प्रीतइति। पिनाकिनि शिवे प्रीते सति लोकपालैः सह मया लोकत्रये अपि विहितं दत्तम् अप्रतिवार्य्यम् अनिवार्यं वीर्य्यं यस्य सः तथोक्तः सन् परेषां शत्रूणां लक्ष्मीं भृशं समुत्सुकयिता असि समुत्सुकां त्वयि अनुरक्तां कर्त्ताअसि पुनः आहरि-
अथ वासवस्य वचनेन
रुचिरवदनस्त्रिलोचनम्।
क्लान्तिरहितमभिराधयितुं
विधिवत् तपांसि विदधे धनञ्जयः॥१॥
अभिरश्मिमालि विमलस्य
धृतजयधृतेरनाशुषः।
ष्यमि इत्यर्थः। वीरभोग्याः सम्पदः इति भावः। उत्सुकराब्दात् “तत्करोति” इति ण्यन्तात् कर्त्तरि लुट्। इति वाचम् उच्चार्य्य तेन इन्द्रेण या तिरोबभूवे अन्तर्दधे। भावे लिट्॥ ८१ ॥
इति किरातार्जुनीये एकादशसर्गव्याख्या समाप्ता।
अथेति। अत्रइन्द्रतिरोधानानन्तरं रुचिरवदनःइन्द्र साक्षात्कारसन्तोषात् प्रसन्नमुखः धनञ्जयः अर्जुनःवासवस्य वचनेन उपदेशेन त्रिलोचनं शिवं क्लान्तिरहितं यथा तथा अभिराधयितुं प्रसादयितुं तपांसि विधिवत् विध्यर्हं यथाशास्त्रम् इत्यर्थः। “तदर्थम्” इति वतिप्रत्ययः। विदधेचक्रे। अस्मिन् सर्गे उद्गतावृत्तम्। “सजसादिमे सलघुकेच नसजगुरुकैरथोद्गता। त्र्यङ्घ्रिगत भनजला गकृताः सजसाजगौचरण्सेकतः पठेत्” इति लक्षणात्॥१॥
अभिरश्मीति। अभिरश्मिमालि अभिसूर्य्यं सूर्य्याभिमुखं भुवि एकचरणं निषीदतः एकचरणेन तिष्ठतः विमलस्य वाह्या-
तस्य भुवि बहुतिथास्तिथयः
प्रतिजग्मुरेकचरणं निषीदतः॥२॥
वपुरिन्द्रियोपतपनेषु
सततमसुखेषु पाण्डवः।
व्याप नगपतिरिव स्थिरतां
महतां हि धेर्य्यमविभाव्यवैभवम्॥३॥
न पपात सन्निहितपक्ति-
सुरभिषु फलेषु मानसम्।
न्तरशुद्धिमतः। धृता जयधृतिः जयेच्छा येन तस्य अनाशुषः अनश्नतः “उपेयिवाननाश्वाननूचानश्च” इति निपातः। तस्य अर्जुनस्य बहूनां पूरणाः बहुतिथाः बहुसंख्यकाः इत्यर्थः। “तस्य पूरणे ठट्”। “बहुपूगगणसङ्घस्य तिथुक्” इति तिथुगागमः। तिथयः दिनानि प्रतिजग्मुः। अत्र तिथिशब्दः पुंलिङ्गः। “तदाद्यास्तिथयो द्वयो” इति अभिधानात्। अन्यथा बहुतिथाःइति अत्र टित्वात् ङीप् स्यात्॥२॥
वपुरिति। पाण्डवः अर्जुनः सततं वपुषः इन्द्रियाणां च उपतपनेषु सन्तापकरेषु। करणे ल्युट्। असुखेषु अनशनादिदुःखेषु अपि नगपतिः गिरीन्द्रः इव स्थिरतां दार्ढ्यं व्याप प्राप। तथाहि। महतां धैर्य्यम् अविभाव्यं दुर्बोधं वैभवं सामर्थ्यंयस्य तत् तथोक्तम्। धीराणाम् अकिञ्चित्कारं दुःखम् इति भावः॥३॥
नेति। तस्य अर्जुनस्य मानसं मनः सन्निहितानि समीपस्थानि यानि पक्तिसुरभीणि पाकसुगन्धीनि तेषु फलेषु। तथा शुचिनि स्वच्छे शिशिरे शीतले पयसि च न पपात। न
तस्य शुचिनि शिशिरे च पय-
स्यमृतायते हि सुतपः सुकर्मणाम्॥४॥
न विसिस्मिये न विषसाद
मुहरलसतां न चाददे।
सत्त्वमुरुधृति रजस्तमसी
न हतः स्म तस्य हतशक्तिपेलवे॥५॥
तपसा कृशं वपुरुवाह
स विजितजगत्त्रयोदयम्।
किञ्चित् आचकाङ्क्ष इति भावः। प्राणधारणं तु तस्य तपः एव इत्याह। तथाहि। सुकर्मणां सुकृतिनां शोभनं तपः सुतपः एव अमृतायतें अमृतवत् आचरति। किं तपस्तृप्तानां तर्पणान्तरैः ? इति भावः। “लोहितादिडाज्भ्यः कष्”। “वा क्यषः” इति आत्मनेपदम्। लोहितादिः आकृतिगणः॥४॥
नेति। सः अर्जुनोन विसिस्मये अहो महत् तपः तप्तम् इति न विस्मयं जगाम। “तपः क्षरति विस्मयात्” इति स्मृतेः इति भावः। न विषसाद फलविलम्बात् गतात्साहः न बभूव। “विषादश्चेतसो भङ्गः” इति लक्षणात्। “सदिरप्रतेः” इति षत्वम्। मुहुः अलसतां तपसि मन्दोद्यमत्वं च न अगमत्। किञ्च हतशक्तिनीहतसारे अत एव पेलवे भङ्गुरे ते हतशक्तिपेलवे रजस्तमसीगुणौ उरुधृति महासारं तस्य अर्जुनस्य सत्त्वं सत्त्वगुणं न हतः स्म न हतवती। हन्तेः“लट् स्मो” इति भूतार्थे लट्॥५॥
तपसेति। सः अर्जुनः तपसा कृशं तथापि विजितः जग
त्रासजननमपि तत्त्वविदां
किमिवास्ति यत् न सुकरं मनस्विभिः ? ॥६॥
ज्वलतोऽनलादनुनिशीथम्
अधिकरुचिरम्भसां निधेः।
धैर्य्यगुणमवजयन् विजयी
ददृशे समुन्नततरः स शैलतः॥७॥
जपतः सदा जपमुपांशु
वदनमभितो विसारिभिः।
त्रयस्य भुवनत्रयस्य उदयः उत्कर्षः येन तत् तथोक्तम्। किञ्च तत्त्वविदाम् अपि लोकहितार्थं तत्त्वं जानताम् अपि त्रासजननं भयङ्करं वपुः उवाह वहति स्म।न च एतत् चित्रम् इत्याह। किमिति। यत् मनस्विभिः न सुकरं तत् किम् इव अस्ति ? न किम् अपि इत्यर्थः। इवशब्दःवाक्यालङ्कारे। “मनस्विनाम्” इति पाठे अपि स्यात् एव कृद्योगलक्षणायाम् “न लोक” इत्यादिना निषेधात्॥६॥
ज्वलत इति। विजयीसः अर्जुनःअनुनिशीथम् अर्द्धरात्रे। विभक्त्यर्थे अव्ययीभावः। “अर्द्धरात्रनिशिथौ द्वौ” इत्यमरः। ज्वलतः दीप्यमानात् अनलात् अधिकरुचिः तथा अम्भसां निधेः धैर्य्यं गाम्भीर्य्यं तत् एव गुणः तम् अवजयन्। किञ्च शैलतः शैलात् अपि समुन्नततरः ददृशे। अत्र रुच्यादिभिः अनलाद्याधिक्यासम्बन्धे सम्बन्धाभिधानात् अतिशयोक्तिः अलङ्कारः॥७॥
जपत इति। सदा उपांशु रहो गूढ़म् इत्यर्थः। “रहश्चापाशु चालिङ्गे” इत्यमरः। “करणवदशब्दमनुप्रयोग उपांशु” इति कौमारेलक्षणम्। जप्यते इति जपः तं जपं मन्त्रम् इत्यर्थः।
तस्य दशनकिरणैः शुशुभे
परिवेषभीषणमिवार्कमण्डलम्॥८॥
कवचं स बिभ्रदुपवीत-
पदनिहितसज्यकार्मुकः।
शैलपतिरिव महेन्द्रधनुः-
परिवीतभीमगहनो विदिद्युते॥९॥
प्रविवेश गामिव कृशस्य
नियमसवनाय गच्छतः।
तस्य पदविनमितो हिमवान्
गुरुतां नयन्ति हि गुणा न संहतिः॥१०॥
जपतः पठतः तस्य अर्जुनस्य वदनं कर्त्तृअभितः विसारिभिः दशनकिरणैः हेतुभिः परिवेषभीषणम् अर्कमण्डलम् इव शुशुभे। “परिवेषस्तु परिधिरुपसूर्य्यकमण्डले” इत्यमरः॥८॥
कवचमिति। कवचं वर्म बिभ्रत् उपवीतपदे यज्ञोपवीतस्थाने निहितं सज्यं कार्मुकं येन सः तथोक्तः सः अर्जुनः महेन्द्रधनुषा परिवीतं परिवेष्टितं भीमं गहनं वनं यस्य सः शैलपतिः इव विदिद्युते शुशुभे॥९॥
प्रविवेशेति। नियमसवनाय नियमस्नानाय। “सवनं त्वध्वरे स्नाने सोमनिर्दलनेऽपि च” इति विश्वः। गच्छतः कृशस्य तस्य अर्जुनस्य पदेः पादन्यासैःविनमितः हिमवान् गां भुवं प्रविवेश इति उत्प्रेक्षा। ननु कृशस्य कथम् इयत् गौरवम् ? तत्र आह। गुणाः सारादयः गुरुतां नयन्ति प्रापयन्ति हि। संहतिः सङ्घातः मूर्त्तिः इति यावत् न नयति। अन्तःसारात्
परिकीर्णमुद्यतभुजस्य
भुवनविवरे दुरासदम्।
ज्योतिरुपरि शिरसो विततं
जगृहे निजान् मुनिदिवौकसां पथः॥११॥
रजनीषु राजतनयस्य
बहुलसमयेऽपि धामभिः।
भिन्नतिमिरनिकरं न जहे
शशिरश्मिसङ्गमयुजा नभःश्रिया॥१२॥
महता मयूखनिचयेन
शमितरुचि जिष्णुजन्मना।
हि गौरवं भवति न तु वाह्यात् स्थौल्यात्। तत्र च हेमपिण्डतुलपिण्डौ एव निदर्शनम् इति भावः॥१०॥
परिकीर्णमिति। उद्यतभुजस्य ऊर्द्धबाहोः तस्य शिरसः उपरि। “षष्ठ्यतमर्थप्रत्ययेन” इति षष्ठी। विततं विस्तृतं भुवनयोः विवरे द्यावापृथिव्योः अन्तराले परिकीर्णं व्याप्तम्। दुरासदं दुर्धर्षं ज्योतिः तेजः मुनीनां दिवौकसां च निजान् नियतान् पथः मार्गान् जगृहे प्रतिबबन्ध इत्यर्थः॥११॥
रजनीष्विति। बहुलसमये कृष्णपक्षे अपि रजनीषु राजतनयस्य अर्जुनस्य धामभिः तेजोभिः भिन्नः तिमिरनिकरः यस्य तत् नभः शशिरश्मीनां सङ्गमेन हेतुना युजा सङ्गतया श्रिया तच्छ्रीतुल्ययाश्रिया इत्यर्थः। अत एव निदर्शनालङ्कारः। न जहेन त्यक्तम्। जहातेः कर्मणि लिट्। ज्योत्स्नातुल्यज्योतिः इत्यर्थः॥१२॥
ह्रीतमिवनभसि वीतमले
न विराजते स्म वपुरंशुमालिनः॥१३॥
तमुदीरितारुणजटांशुम्
अधिगुणशरासनं जनाः।
रुद्रमनुदितललाटदृशं
ददृशुर्मिमन्थिषुमिवासुरीःपुरीः॥१४॥
मरुतां पतिः स्विदहिमांशुः
उत पृथुशिखः शिखी तपः।
महतेति। जिष्णोःअर्जुनात् जन्म यस्य तेन। जन्मोत्तरपद व्यधिकरणः बहुव्रीहिः। महता मयूखनिचयेन शमितरुचि हतप्रभम् अंशुमालिनः वपुः अर्कविम्बं ह्रीतं जितत्वात् लज्जितम् इव इति उत्प्रेक्षा। वीतमले मेघनीहाराद्यावरणरहिते अपि इत्यर्थः। नभसि न विराजते स्म॥१३॥
तमिति। उदीरिताः उद्गताः अरुणाः जटानाम् अंशवः यस्य तम् अधिगुणम् अधिज्यं शरासनं यस्य तम् अर्जुनं जनाः सिद्धगणाः। आसुरीः असुरसम्बन्धिनीःपुरीःमिमन्थिषुं मथितुम् इच्छुम्। मथेः सन्नन्तात् उप्रत्ययः। तथा अनुदिता ललाटे दृक् यस्य तं साक्षात् त्रिपुरविजयोद्यतम् अभालाक्षं रुद्रमिव ददृशुः। अत्र अभालाक्षस्य रुद्रस्य असम्भवात् स्वतःसिद्धोपमानासिद्धेः न इयम् उपमा किन्तु उत्प्रेक्षा। सा च अभालाक्षम् इति उपमानात् उपमेयस्य न्यूनत्वकथनार्थे अन्वयव्यतिरेकेण उज्जीविता इति अनयोः अङ्गाङ्गिभावेन सङ्करः।उपमा तु व्यज्यते इति अलङ्कारेण अलङ्कारध्वनिः॥ १४॥
मरुतामिति। मरुतां पतिः स्वित् देवेन्द्रः वा, अहिमांशुः
तप्तुमसुकरमुपक्रमते
न जनोऽयमित्यवयये स तापसैः॥१५॥
न ददाह भूरुहवनानि
हरितनयधाम दूरगम्।
न स्म नयति परिशोषमपः
सुसहं बभूव न च सिद्धतापसैः॥१६॥
विनयं गुणा इव विवेकम्
अपनयभिदं नया इव।
उत सूर्य्यःवा, पृथुशिखः महाज्वालः शिखी पावकः वाअसुकरं दुष्करं तपः तप्तुम् उपक्रमते ? अयं पुरुषः जनः कश्चित् प्राकृतः न इति सः अर्जुनः तापसैः तपस्विभिः। “अण् च” इति मत्वर्थीयः अण्प्रत्ययः। अवयये अवगतः। यातेः अवपूर्वात् कर्मणि लिट्। अत्र इन्द्रत्वादिकं धर्मम् आरोप्य जनत्वापवादात् साम्यम् आरोप्य अपह्नवालङ्कारः। सामान्यलक्षणं तु—“निषिद्धविषये साम्यारोपो ह्वपह्नवः” इति लक्षणात्॥१५॥
न ददाहेति। दूरगं व्यापकम् इत्यर्थः। हरितनयस्य इन्द्रसुतस्य अर्जुनस्य धाम तेजः भूरुहवनानि न ददाह अग्निवत् इति भावः। तथा अपः परिशोषं न नयति स्म अर्कवत् इति भावः। तथापि इति शेषः। सिद्धाश्च तापसाश्च तैः सुसहं न बभूव। अतः अस्य अलौकिकं तेजः इति भावः। अत एव दुःसहत्वदाहाद्यजनकत्वयोः विरोधात् विरोधाभासः अलङ्कारः। “आभासत्वे विरोधस्य विरोधालङ्कृतिर्मता” इति लक्षणात्॥१६॥
विनयमिति। अथ अनन्तरम् अशरणाः महर्षयः मुनयः विनयं शिक्षां गुणाः औदार्य्यादयः इव अशिक्षितस्य तदभावात्
न्यायमवधय इवाशरणाः
शरणं ययुः शिवमथो महर्षयः॥१७॥
परिवीतमंशुभिरुदस्त-
दिनकरमयूखमण्डलैः।
शम्भुमुपहतदृशः सहसा
न च ते निचायितुमभिप्रसेहिरे॥१८॥
अथ भूतभव्यभवदीशम्
अभिमुखयितुं कृतस्तवाः।
इति भावः। अपनयभिदं दुर्नीतिवारकं विवेकं सदसत् ज्ञान नयाः नीतयः इव। अविवेकिनः नीत्यभावात् इति भावः। नीतिः षाड्गुण्यप्रयोगः। नीयते अनेन इति न्यायः नियामकं प्रमाणं तम् अवधयः समयाः इव। अप्रामाणिकस्य समयोल्लङ्घितत्वात् इति भावः। शिवं त्रिनयनं शरणं रक्षितारम “शरणं गृहरक्षित्रोः” इत्यमरः। ययुः शरणत्वेन प्रापु इत्यर्थः। अशरणाः शरणम् इति च उपमासु अपि यथायोग्यंयोज्यम्। उपमालङ्कारः॥१७॥
परिवीतमिति। उदस्तं निरस्तं छादितं दिनकरमयूखमण्डलं यैः तैः सूर्य्यतेजोविजयिभिः इत्यर्थः। अंशुभिः तेजोभिः परिवीतं व्याप्तं शम्भुं शिवम् उपहतदृशः प्रतिहतदृष्टयः ते महर्षयः सहसा झटिति निचायितुं निशामयितुं द्रष्टुम् इत्यर्थः। “चायृपूजानिशानयोः” इति धातोः“शकधृष” इत्यादिना तुमुन्। न अभिप्रसेहिरे न शेकुः॥१८॥
अथेति। अथ दृगुपघातानन्तरं भूतभव्यभवतां भूत-
तत्र महसि ददृशः पुरुषं
कमनीयविग्रहमयुग्मलोचनम्॥१९॥
ककुदे वृषस्य कृतबाहुम्
अकृशपरिणाहशालिनि।
स्पर्शसुखमनुभवन्तमुमा-
कुचयुग्ममण्डल इवार्द्रचन्दने॥२०॥
स्थितमुन्नते तुहिनशैल-
शिरसि भुवनातिवर्त्तिना।
साद्रिजलधिजलवाहपथं
सदिगश्नुवानमिव विश्वमोजसा॥२१॥
भविष्यद्वर्त्तमानानाम् ईशं देवम् अभिमुखयितुम् अभिमुखी कर्त्तुकृतस्तवाः कृतस्तोत्राः सन्तः न तु अन्यया इति भावः। “स्तवः स्तोत्रं स्तुतिर्नुतिः” इत्यमरः। तत्र पुर्वोक्ते महसि तेजसि कमनीयविग्रहं रम्यमूर्त्तित् अयुग्मानि त्रीणि लोचनानि यस्य तं पुरुषं ददृशः॥१९॥
अथ पञ्चभिः पुरुषं विशिनष्टि। ककुद इत्यादिना। कीदृशंपुरुषम्। अकृशेन महता परिणाहेन विशालतया शालतेइति तथोक्ते। “परिणाहो विशालता” इत्यमरः। वृषस्य वृषभस्य ककुदे अंसकूटे आश्रयीकृते इति शेषः। आर्द्रचन्दनेउमायाः कुचयुग्ममण्डले इव कृतबाहुं न्यस्तहस्तम् अत एव स्पर्शसुखम् अनुभवन्तं ककुदस्य तथाविधस्पर्शसुखकरत्वात् इति भावः। उपमालङ्कारः॥२०॥
स्थितमिति। उन्नते तुहिनशैलशिरसि हिमवतः शिखरे
न्यायमवधय इवाशरणाः
शरणं ययुः शिवमथो महर्षयः॥१७॥
परिवीतमंशुभिरुदस्त-
दिनकरमयूखमण्डलैः।
शम्भुमुपहतदृशः सहसा
न च ते निचायितुमभिप्रसेहिरे॥१८॥
अथ भूतभव्यभवदीशम्
अभिमुखयितुं कृतस्तवाः।
इति भावः। अपनयभिदं दुर्नीतिवारकं विवेकं सदसत् ज्ञानं नयाः नीतयः इव। अविवेकिनः नीत्यभावात् इति भावः। नीतिः षाड्गुण्यप्रयोगः। नीयते अनेन इति न्यायः नियामकं प्रमाणं तम् अवधयः समयाः इव। अप्रामाणिकस्य समयोल्लङ्घितत्वात् इति भावः। शिवं त्रिनयनं शरणं रक्षितारम्।“शरणं गृहरक्षित्रोः” इत्यमरः। ययुः शरणत्वेन प्रापु इत्यर्थः। अशरणाः शरणम् इति च उपमासु अपि यथायोग्यं योज्यम्। उपमालङ्कारः॥१७॥
परिवीतमिति। उदस्तं निरस्तं छादितं दिनकरमयूखमण्डलं यैः तैः सूर्य्यतेजोविजयिभिः इत्यर्थः। अंशुभिः तेजोभिः परिवीतं व्याप्तं शम्भुं शिवम् उपहतदृशः प्रतिहतदृष्टयः तेमहर्षयः सहसा झटिति निचायितुं निशामयितुं द्रष्टम् इत्यर्थः। “चायृपूजानिशानयोः” इति धातोः “शकधृष” इत्यादिना तुमुन्। न अभिप्रसेहिरे न शेकुः॥१८॥
अथेति। अथ दृगुपघातानन्तरं भूतभव्यभवतां भूत-
तत्र महसि ददृशुः पुरुषं
कमनीयविग्रहमयुग्मलोचनम्॥१९॥
ककुदे वृषस्य कृतबाहुम्
अकृशपरिणाहशालिनि।
स्पर्शसुखमनुभवन्तमुमा-
कुचयुग्ममण्डल इवार्द्रचन्दने॥२०॥
स्थितमुन्नते तुहिनशैल-
शिरसि भुवनातिवर्त्तिना।
साद्रिजलधिजलवाहपथं
सदिगश्नुवानमिव विश्वमोजसा॥२१॥
भविष्यद्वर्त्तमानानाम् ईशं देवम् अभिमुखयितुम् अभिमुखीकर्त्तुं कृतस्तवाः कृतस्तोयाःसन्तः न तु अन्यया इति भावः। “स्तवः स्तोत्रं सुतिर्नुतिः” इत्यमरः। तत्र पूर्वोक्त महसि तेजसि कमनीयविग्रहं रम्यमूर्त्तिसु अयुग्मानि त्रीणि लोचनानि यस्य तं पुरुषं ददृशुः॥१९॥
अथ पञ्चभिः पुरुषं विशिनष्टि। ककुद इत्यादिना। कीदृशंपुरुषम्। अकृशेन महता परिणाहेन विशालतया शालते इति तथोक्ते। “परिणाहो विशालता” इत्यमरः। वृषस्य वृषभस्य ककुदे अंसकूटे आश्रयीकृते इति शेषः। आर्द्रचन्दने उमायाः कुचयुग्ममण्डले इव कृतबाहुं न्यस्तहस्तम् अत एव स्पर्शसुखम् अनुभवन्तं ककुदस्य तथाविधस्पर्शसुखकरत्वात् इति भावः। उपमालङ्कारः॥२०॥
स्थितमिति। उन्नते तुहिनशैलशिरसि हिमवतः शिखरे
अनुजानुमध्यमवसक्त-
विततवपुषा महाहिना।
लोकमखिलमिव भूमिभृता
रवितेजसामवधिनाधिवेष्टितम्॥२२॥
परिणाहिना तुहिनराशि-
विशदमुपवीतसूत्रताम्।
नीतमुरगमनुरञ्जयता
शितिना गलेन विलसन्मरीचिना॥२३॥
स्थितं क्वचित् कोणे स्थितम् इत्यर्थः। तथापि भुवनातिवर्त्तिना सर्वलोकातिशायिना ओजसा तेजसा अद्रिभिः पर्वतैः जलधिभि समुद्रैःजलवाहपयेन आकाशेन च सह वर्त्तते इति तथोक्तम्। दिग्भिः सह वर्त्तते इति सदिक्। उभयत्र अपि “तेन सहेति तुल्ययोगे” इति बहुव्रीहिः। विश्वम् अश्नुवानं व्याप्नुवन्तम् इव स्थितम् इति उत्प्रेक्षा। “अशूङ् व्याप्तौ” इति धातोः शानच्॥२१॥
अनुजान्विति। जानुनोः मध्ये अनुजानुमध्यम्। विभक्त्यर्थेअव्ययीभावः। अवसक्तं लग्नंविततम् आयतं च वपुः यस्य तेन महाहिना अवसक्तिकाबन्धभूतेन इत्यर्थः। अधिवेष्टितम् अत एव रवितेजसाम् अवधिना पर्य्यन्तभूतेन भूभिभृता लोकालोकाचलेन अधिवेष्टितम् अखिलम् लोकम् इव स्थितम् इति उपमा। “असूर्य्यम्पश्यापरभागो लोकालोकाचलः” इति आगमः ॥२२॥
परिणाहिनेति। पुनः च तुहिनराशिवत् विशदं शुभ्रम् उपवीतसूत्रतां यज्ञोपवीतत्वं नीतं प्रापितम् उरगं शेषाहिम्
प्लुतमालतीसितकपाल-
कुमुदमुपरुद्धमूर्द्धजम्।
शेषमिव सुरसरित्पयसांशिरसा
विसारि शशिधाम बिभ्रतम्॥२४॥
कुलकम्।
मुनयस्ततोऽभिमुखमेत्य
नयनविनिमेषमादिताः।
अनुरञ्जयता स्वगुणोपरक्तंकुर्वता श्यामीकुर्वता इत्यर्थः। परिणाहिना विशालेन विलसन्मरीचिना प्रसृतकिरणेन शितिना नालेन गलेन कण्ठे न उपलक्षितम्। “कण्ठो गलोऽथ ग्रीवायाम्” इत्यमरः। अत्र उरगस्य स्वधवलिमत्यागेन अन्यनीलिमग्रहणात् तद्गुणालङ्कारः। “तद्गुणः स्वगुणत्यागादन्योत्कृष्टगुणग्रहात्” इति लक्षणात्॥२३॥
प्लुतेति। पुनः च मालती जातीकुसुमम्। “सुमना मालती जातिः” इति। “पुष्पे जातीप्रभृतयः स्वलिङ्गाः व्रीहयः फले” इति च अमरः। तद्वत् सितं यत् कपालम् एव कुमुदं तत् प्लुतम् आप्लुतं येन तत् तथोक्तम्। अवरुद्धमूर्द्धजं व्याप्तशिरोरुहम्। अत एव सुरसरित्पयसां शेषम् इव निर्य्यातावशिष्टं गाङ्गम् अम्भः इव स्थितम् इत्यर्थः। उत्प्रेक्षालङ्कारः। विसारि विसृत्वरं शशिधाम शिरसा बिभ्रतं पुरुषं ददृशुः इति पूर्वेण अन्वयः॥२४॥
मुनय इति। ततः दर्शनानन्तरं मुनयः अभिमुखम् एत्यशिवस्य इति शेषः। नयनविनिमेषेण नेत्रसंज्ञया नोदिताः
पाण्डुतनयतपसा जनितं
जगतामशर्म भृशमाचचक्षिरे॥२५॥
तरसैव कोऽपि भुवनैक
पुरुष ! पुरुषस्तपस्यति।
ज्योतिरमलवपुषोऽपि रवेः
अभिभूय वृत्र इव भीमविग्रहः॥२६॥
स धनुर्महेषुधि विभर्त्ति
कवचमसिमुत्तमं जटाः।
वल्कमजिनमिति चित्रमिदं
प्रेरिताः सन्तः पाण्डुतनयस्य अर्जुनस्य तपसा जनित तत्पूर्वोक्तं जगताम् अशुभ असुखं दुःखम् इत्यर्थः। “शमेशात् सुखानि च” इत्यमरः। भृशं सम्यक् आचचक्षिरे॥२५॥
तरसेति। हे भुवनेकपुरुष ! पुरुषोत्तम ! वृत्रः वृषासुर इव भीमविग्रहः कः अपि अविज्ञातः इत्यर्थः। पुरुषः तरसा बलात्कारेण एव। “तरसा बलरंहसी” इति विश्वः। अमलं वपुषः उज्ज्वलमूर्तेः रवेःअपि ज्योतिःअभिभूय तपस्यति तपः चरति। “कर्मणो रोमन्थतपाभ्यां वर्त्ति चरोः” इति क्यङ्॥२६॥
स इति। किञ्च स पुरुषः महान्तौ इषुधौयस्य तत् महेषुधि धनुः कवचं वर्म उत्तमम् असिं खड्गं जटाः वल्कं चौरम् अजिनं चर्म बिभर्त्ति। इत्येवं रूपम् इदं विरुद्धवेशधारणमुनिताविरोधि मुनित्वप्रतिबन्धकं तथापि अस्य न राजतेइति न किन्तु राजते एव इत्यर्थः। चित्रम् आश्चर्य्यम्। “सम्भाव्यः निषेधनिवर्त्तने द्वौ प्रतिषेधौ” इति वामनः॥२७॥
मुनिताविरोधि न च नास्य राजते॥२७॥
चलनेऽवनिश्चलति तस्य
करणनियमे सदिङ्मुखम्।
स्तम्भमनुभवति शान्तमरुद्-
ग्रहतारकागणयुतं नभस्तलम्॥२८॥
स तदोजसा विजितसारम्
अमरदितिजोपसहितम्।
विश्वमिदमपिदधाति पुरा
किमिवास्ति यन्न सुकरं खलु तेन॥२९॥
चलन इति। किञ्च तस्य पुंसः चलने अवनिः पृथिवी चलति तथा करणनियमे समाधिना इन्द्रियनिरोधे सति। “करणं साधकतमं क्षेत्रगात्रेन्द्रियेष्वपि” इत्यमरः। शान्तैःस्तिमितैः मरुतां वायूनां ग्रहाणां सूर्य्यादीनां तारकाणां नक्षत्रादीनां च गणैः युतं नभस्तलं सदिङ्मुखं दिक्सहितं स्तम्भं निश्चलताम् अनुभवति इत्यर्थः। अतः विश्वातिशयिनीतस्य शक्तिः उपलभ्यते इति भावः॥२८॥
न च एतत् उपेक्ष्यम् इति आशयेन आह। स इति। सः पुमान् ओजसा विजितसारं निरस्तसत्त्वम्। अमरदितिजोपसहितं सुरासुरसहितं तत् इदं विश्वं पुरा अपिदधाति अपिधास्यति इत्यर्थः। शीघ्रम् इव हरिष्यति इति भावः। “निकटागामिके पुरा” इत्यमरः। “यावत्पुरानिपातयोर्लङ्” इति भविष्यदर्थे लट्। तथा यत् खलु तेन पुंसा न सुकरं कर्म तत्
विजिगीषते यदि जगन्ति
युगपदथ सञ्जिहीर्षति।
प्राप्तुमभवमभिवाञ्छति वा
वयमस्य नो विषहितुं क्षमा रुचः॥३०॥
किमुपेक्षसे ? कथय नाथ !
न तव विदितं न किञ्चन।
त्रातुमलमभयदार्हसि नः
त्वयि मा स्म शासति भवत् पराभवः॥३१॥
किम् इव अस्ति न किञ्चित् तेन दुष्करम् अस्ति इत्यर्थः। सामान्येन विशेषसमर्थनरूपः अर्थान्तरन्यासः॥२९॥
न च एतत् अन्यफलं तपः इति आह। विजिगीषते इति। स पुरुषः जगन्ति भुवनानि युगपत् विजिगीषते यदि विजेतुम् इच्छति वा। “पूर्ववत्सनः” इति आत्मनेपदम्। अथ युगपत् सञ्जिहीर्षति। संहर्त्तुम् इच्छति वा। अभवम् अपवर्गं प्राप्तुम् अभिवाच्छति वा। न विद्मः इति शेषः। किन्तु वयम् अपि अस्य रुचः तेजांसि विषहितुं सोढुम्। “तीषसहलुभरुषरिषः” इति विकल्पात् इड़ागमः। नो क्षमाः न शक्ताः। केचित् “रुचः कामितानि विषहितुमवधारयितुम्” इति व्याचक्षते तत्र सहेः अवधारणार्थत्वं विचार्य्यम्॥३०॥
किमिति। हे नाथ ! किं किमर्थम् उपेक्षसे ? कथय त्वम् इति शेषः। तव न विदितं त्वया अज्ञायमानम् इत्यर्थः।“क्तस्य च वर्त्तमाने” इति षष्ठी। न किञ्चन किमपि न। हे अभयद ! नः अस्मान् अलं त्रातुम् अर्हसि। त्वयि शासति सति पराभवः मा स्म भवत् माभूत्। “स्मोत्तरे लङ् च” इति लङ्॥३१॥
इति गां विधाय विरतेषु
मुनिषु वचनं समाददे।
भिन्नजलधिजलनादगुरु
ध्वनयन् दिशां विवरमन्धकान्तकः॥३२॥
वदरीतपोवननिवास-
निरतमवगात मान्यथा।
धातुरुदयनिधने जगतां
नरमंशमादिपुरुषस्य गां गतम्॥३३॥
द्विषतः परासिसिषुरेषः
सकलभुवनाभितापिनः।
इतीति। इति इत्थंगां वाचं विधाय अभिधाय इत्यर्थः। सामान्यस्य विशेषपर्य्यवसानात्। मुनिषु विरतेषु तूष्णीं भूतेषु मत्सु अन्धकान्तकः शिवः भिन्नस्य उद्वेलस्य जलधेः जलस्य नादम् इव गुरु गम्भीरं यथा तथा दिशां विवरम् अन्तरान्तं ध्वनयन् वचनं समाददे स्वीचकार उवाच इत्यर्थः॥३२॥
वदरीति। वदरीतपोवने वदरिकाश्रमे निवासनिरतं नित्यनिवासिनं गां गतं भुवम् अवतीर्णंजगताम् उदयनिधने सृष्टिसंहारौ धातुः तयोः कर्त्तुःइत्यर्थः। “तृन्” इति दधातेः तृन्प्रत्ययः। अत एव “न लोक” इत्यादिना कर्मणि षष्ठीप्रतिषेधः। आदिपुरुषस्य विष्णोः अंशम् अंशभूतं नरं नरसंज्ञकम् इत्यर्थः। यः नारायणसंज्ञकः इति भावः। अन्यथा उक्तवैपरीत्येन मा अवगात मनुष्यमात्रं मा जानीत इत्यर्थः। “इणो गा लुङि” इति गादेशः॥३३॥
क्रान्तकुलिशकरवीर्य्यबलान्
मदुपासनं विहितवान् महत्तपः॥३४॥
अयमच्युतश्च वचनेन
सरसिरुहजन्मनः प्रजाः।
पातुमसुरनिधनेन विभू
भुवमभ्युपेत्य मनुजेषु तिष्ठतः॥३५॥
सुरकृत्यमेतदवगम्य
निपुणमिति मूकदानवः।
हन्तुमभिपतति पाण्डुसुतं
त्वरया तदत्र सह गम्यतां मया॥३६॥
अथ नपसः निमित्तम् आह। द्विषत इति। एषः नरः सकलभुवनानि अभितापयन्ति अभीक्ष्णम् इति तथोक्तान्। “बहुलमाभीक्ष्ण्ये” इति णिनिः। क्रान्ते आक्रान्तेकुलिशकरस्य इन्द्रस्य वीर्य्यबले शक्तिसैन्ये यैः तान् द्विषतः शत्रून् परासिसिषुः परासितुम् इच्छुः। अस्यतेः सन्नन्तात् उप्रत्ययः। मदुपासनं मदाराधनम्। करणे ल्युट्। महत्तपः विहितवान्। अत्र निमित्तं शत्रुक्षयः एव इति॥३४॥
अथ अस्य मानुषावतारे कारणम् आह। अयमिति। विभू प्रभूअयं नरः अच्युतः कृष्णश्च सरसिरुहजन्मनः ब्रह्मणः वचनेन प्रार्थनया असुराणां निधनेन मारणेन करणेन प्रजाः पातुं रक्षितुं भुवम् अभ्युपेत्य मनुजेषु तिष्ठतः। वस्तुतस्तु साक्षात् नरनारायणौएतौ कृष्णार्जुनौ इत्यर्थः॥३५॥
अथ अस्य सत्त्वसम्पदं प्रकाशयितुम् आह। सुरेति। मूक-
विवरेऽपि नैनमनिगूढ़म्
अभिभवितुमेष पारयन्।
पापनिरतिरविशङ्कितया
विजयं व्यवस्यति वराहमायया॥३७॥
निहते विड़म्बितकिरात-
नृपतिवपुषा रिपौमया।
मुक्तनिशितविशिखः प्रसभं
मृगयाविवादमयमाचरिष्यति॥३८॥
दानवः मूकाख्यः कश्चित् असुरः एतत्पाण्डवकृत्यं सुरकृत्यम् इति निपुणम् अवगम्य साधु निश्चित्य पाण्डुसुतम् अर्जुनं हन्तुम् अभिपतति। तत् तस्मात् कारणात् अत्र अर्जुनाश्रमेविषये आश्रमं प्रति इत्यर्थः। मया सह त्वरया गम्यतां द्रष्टुम् इति शेषः॥३६॥
विवर इति। पापे निरतिः यस्य सः एषः दानवः विवेर रन्ध्रेअपि एकान्तेअपि इत्यर्थः। एनं पाण्डवम् अनिगूढ एकाशं स्पष्टं यथा तथा अभिभवितुं न पारयन् न शक्नुवन्। विभाषायां “नञ्” इति नञ्समासः। अविशङ्कितया स्वरूपगूहनात् निःशङ्कितया वराहमायया वराहभूमिकया विजयं व्यवस्यति। विजयं प्रति उद्युक्तः इत्यर्थः॥३७॥
ततः किं भविष्यति ? इत्यत्र आह। निहत इति। विड़म्बितम् अनुकृतं किरातनृपतिवपुः येन तेन तद्रूपधारिणा इत्यर्थः। मया निहते रिपौवराहे मुक्तनिशितविशिखः सन् अयं पाण्डवः प्रसभं प्रसह्य मृगयाविवादं मृगयाप्रहारकलहम् आचरिष्यति
तपसा निपीड़ितकृशस्य
विरहितसहायसम्पदः।
सत्त्वविहितमतुलं भुजयोः
बलमस्य पश्यत मृधेऽधिकुप्यतः॥३९॥
इति तानुदारमनुनीय
विषमहरिचन्दनालिना।
घर्मजनितपुलकेन लसद्-
गजमौक्तिकावलियुतेन वक्षसा॥४०॥
करिष्यति। मत्प्रहतम् एव मृगं प्रहृत्य स्वयम् अहम् एव प्रहर्त्ता इति कलहिष्यतेइत्यर्थः॥३८॥
ततः अपि किं भावि ? इत्यत्र आह। तपसेति। तपसा नितरां पीड़ितःअत एव कृशः तस्य तपसा निपीड़ितकृशस्य। “पूर्वकाल” इत्यादिना समासः। तथा विरहिता सहायसम्पत् यस्य तस्य एकाकिनः मृधे रणे। “मृधमास्कन्दनं संख्यम्” इत्यमरः। अधिकुप्यतः अधिकं कुप्यतः अस्य पाण्डवस्य सत्त्वविहितं स्वभावकृतं स्वाभाविकम् इत्यर्थः। “सत्त्वोऽस्त्री जन्तुषु क्लीवे व्यवसाये पराक्रमे। आत्मभावे पिशाचादौ द्रव्ये सत्तास्वभावयोः। प्राणे बलेऽन्तःकरणे” इति वैजयन्ती। अतुलं निरुपमं भुजयोः बाह्वोः बलं शक्तिंपश्यत। “बलं शक्तिर्बलं मैन्यम्” इति शाश्वतः॥३९॥
अथ त्रिभिः अस्य किरातभावं वर्णयति। इतीत्यादि। शिवः इति इत्थं तान् मुनीन् उदारं युक्तियुक्तंयथा तथा अनुनीय शिक्षयित्वा उक्ता इति यावत्। रुचिरः किरातपृतना-
वदनेन पुष्पितलतान्त-
नियमितविलम्बिमौलिना।
बिभ्रदरुणनयनेन रुचं
शिखिपिच्छलाञ्छितकपोलभित्तिना॥४१॥
वृहदुद्वहन् जलदनादि
धनुरुपहितैकमार्गणम्।
पतिः संववृते इति उत्तरेण अन्वयः। किरातसेनापतिवेषधारी बभूव इत्यर्थः। कथम्भूतः? विषमा विकृतविन्यासा हरिचन्दनस्य आलयः रेखाः यस्मिन् तेन घर्मेण स्वेदेन जनिताः पुलकाः रोमाञ्चाः यस्मिन् तेन। “पुलकः पुनः। रोमाञ्चः कण्टको रोमविकारो रोमहर्षणम्” इति हेमचन्द्रः। “घर्मः स्यादातपे ग्रीष्मे उष्णस्वेदाम्भसोरपि” इति विश्वः। लसन्तः शोभमानाः गजमौक्तिकानां करिकुम्भोद्भवमौक्तिकानाम् आवलयः एव गुणाः सूत्राणि यस्मिन् तेन वक्षसा वक्षःस्थलेन उपलक्षितः। करिणां मुक्तायोनित्वेप्रमाणम् आह अगस्त्यः—“जीमूतकरिमत्स्याहिवंशशङ्खवराहजाः। शुक्त्युद्भवाश्च विज्ञेया अष्टौमौक्तिकयोनयः॥” इति॥४०॥
वदनेनेति। पुष्पितैः लतान्तैः विकसितलताग्रैः“नियमिताः संयताः विलम्बिनश्च ते मौलयः केशाः यस्य तेन। “चूडा किरीटं केशाश्च संयता मौलयस्त्रयः” इत्यमरः। शिखिपिच्छ लाञ्छिते बर्हिबर्हाङ्गिते कपोलभित्तो यस्य तेन अरुणनयनेन आरक्तनेत्रेण वदनेन रुचं शोभां बिभ्रत्॥४१॥
वृहदिति। पुनश्च जलदः इव नदति इति जलदनादि। “कर्त्तर्य्युपमाने”इति णिनिः। उपहितैकमार्गणं संहितैकबाणं
मेघनिचय इव संववृते
रुचिरः किरातपृतनापतिः शिवः॥४२॥
विशेषकम्
अनुकूलमस्य च विचिन्त्य
गणपतिभिरात्तविग्रहैः।
शूलपरशुशरचापभृतैः
महतीवनेचरचमूर्विनिर्ममे॥४३॥
विरचय्य काननविभागम्
अनुगिरमथेश्वराज्ञया।
धनुः उद्वहन्। अत एव मेघनिचयः इव स्थितः इति उपमा। अत्र विशेषके स्वभावोक्तिः अलङ्कारः। “स्वभावोक्तिरसौचारु यथावद्वस्तुवर्णनम्” इति लक्षणात्॥४२॥
अनुकूलमिति। अस्य शिवस्य अनुकूलं विचिन्त्य प्रियम् इति निश्चित्य आत्तविग्रहैः गृहीतकिरातदेहैः। तथा शूलानि परशवः कुठाराः शराः चापानि च तानि भृतानि यैः तैः। “प्रहरणार्थेभ्यः परे निष्ठासप्तम्यौ” इति निष्ठायाः परनिपातः। गणपतिभिः प्रमथमुख्यैः महती वनेचरचमूः सेना विनिर्ममे निर्मिता। “माङ् माने” कर्मणि लिट्। “ह्रस्व” इति अभ्यासस्य ह्रस्वत्वम्॥४३॥
विरचय्येति। अथ ईश्वराज्ञया अनुगिरं गिरौ। विभक्त्यर्थेअव्ययीभावः। “गिरेश्च सेनकस्य” इति समासान्तः। काननविभागं विरचय्य अस्य अयम् इति देशविभागं कृत्वा इत्यर्थः।
भीमनिनदपिहितोरुभुवः
परितोऽपदिश्य मृगयां प्रतस्थिरे॥४४॥
क्षुभिताभिनिःसृतविभिन्न-
शकुनिमृगयूथनिःस्वनैः।
पूर्णपृथुवनगुहाविवरः
सहसा भयादिव ररास भूधरः॥४५॥
न विरोधिनी रुषमियाय
पथि मृगविहङ्गसंहतिः।
घ्नन्ति सहजमपि भूरिभियः
सममागताः सपदि वैरमापदः॥४६॥
भीमैःकलकलैःपिहिताः उरवः भुवः यैः ते तथोक्ताः सन्तः मृगयाम् अपदिश्य व्याजीकृत्य परितः प्रतस्थिरे प्रस्थिताः॥४४॥
क्षुभितेति। क्षुभिताः त्रस्ताः अभिनिःसृता स्वस्थानात् निर्गताः विभिन्नाः मुक्तसङ्घाश्च ये शकुनयः पक्षिणः मृगाश्च तेषां यूथानि तानि तेषां निःस्वनैःपूर्णानि पृथुनि वनानि गुहाविवराणि च यस्य सः भूधरः सहसा भयात् इव इति उत्प्रेक्षा।ररास चुक्रोश। “रस आक्रोशे” लिट्॥४५॥
नेति। पथि पलायनमार्गे विरोधिनो जातिवैरिणांमृगाणां सिंहव्याघ्रादीनां विहङ्गानां काकोलकानां च संहतिः सङ्घःरुषं परस्परक्रोधं न इयाय न प्राप, किन्तु सहैव चचार इत्यर्थः। तथाहि। भूरि प्रभूता भीःयासु ताः समं साधारण्येन आगताः आपदः विपत्तयः सहजम् अपि वैरं सपदि घ्नन्ति। न हि सङ्घातव्यसनेषु प्रजायते वैरानुबन्धः इति भावः॥४६॥
चमरीगणैः शिवबलस्य
बलवति भयेऽप्युपस्थिते।
वंशविततिषु विषक्तपृथु-
प्रियबालधिभिराददे धृतिः॥४७॥
हरसैनिकाः प्रतिभयेऽपि
गजमदसुगन्धिकेसरैः।
स्वस्थमभिददृशिरे सहसा
प्रतिबोधजृम्भितमुखैर्मृगाधिपैः॥४८॥
चमरीति। वंशविततिषु वेणुगुल्मेषु विषक्ताः लग्नाः पृथवः भृशं प्रियबालाः प्रियरोमाणः बालधयः पुच्छानि येषां तैः। “पुच्छोऽस्त्री लूमलाङ्गूले बालहस्तस्य बालधि” इत्यमरः। चमरीगणैः मृगविशेषैः शिवबलस्य सम्बन्धिनि तद्धेतुके इत्यर्थः। सम्बन्धमात्रविवक्षायां षष्ठी। अन्यथा “भीत्रार्थानां भयहेतुः” इति पञ्चमी स्यात्। बलवति प्रबले भये उपस्थिते प्राप्ते अपि धृतिः आददे स्वीकृता। बालच्छेदभयात् मानहानिम् अपि अवगणय्य स्थितम् इत्यर्थः॥४७॥
हरेति। प्रतिभये भयहेतौ। “भयङ्करं प्रतिभयम्” इत्यमरः। प्राप्ते अपि इति शेषः। गजमदैः सुगन्धयः सुरभयः केसराः सटाः येषां तैः हतानेकगजैःइत्यर्थः। सहसा सेना कलकलश्रवणानन्तरम् एव प्रतिबोधेन निद्रापगमेन जृम्भितानि व्यात्तानि मुखानि येषां तैः मृगाधिपैः सिंहैःस्वस्थं निःशङ्कम् एव हरसैनिकाः अभिददृशिरे ईक्षिताः। न तु किञ्चित् क्षुभि-
विभराम्बभूवुरपवृत्त-
जठरशफरीकुलाकुलाः।
पङ्कविषमिततटाः सरितः
करिरुग्णचन्दनरसारुणं पयः॥४९॥
महिषक्षतागुरुतमाल-
नलदसुरभिः सदागतिः।
व्यस्तशुकनिभशिलाकुसुमः
प्रणुदन् ववौ वनसदां परिश्रमम्॥५०॥
तम् इत्यर्थः। युक्तं च एतत् राजानामधारिणां केसरिणाम् इति भावः॥४८॥
बिभरामिति। अपवृत्तजठरैः तत्कालक्षुभितात् लुठितोदरे शफरीकुलैः आकुलाः व्याप्ताः पङ्कैः विषमितानि दुर्गमीकृतानि तटानि कूलानि यासां ताः सरितः करिभिः पलायमानैः इति शेषः। रुग्णानां मार्गरोधितया भग्नानाम्। “ओदितश्च” इति निष्ठानत्वम्। चन्दनानां रसैः अरुणं पयः बिभराम्बभूवुः। भूधातोः “भ्रीहीभृहुवां श्लुवच्च” इनि आम्प्रत्ययः। श्लुवद्भावश्च “कृञ्चानुप्रयुज्यते लिटि” इति भुवः अनुप्रयोगः॥४९॥
महिषेति। महिषेः क्षतानि विदलितानि तैः अगुरुभिः तमालैः नलदैः उशीरेः च सुरभिः व्यस्तानि विक्षिप्तानि शुकनिभानि शुकसवर्णानि शिलाकुसुमानि शैलेयाख्याः ओषधिविशेषाः येन सः। अतः शीतलः इति भावः। “कालानुसार्य्यवृद्धाश्मपुष्पशीतशिवानि तु। शैलेयम्” इत्यमरः। शुकनिभति स्वरूपकथनम्। सदागतिः वायुः वनसदां वनेचराणां परिश्रमः
मथिताम्भसो रयविकीर्ण-
मृदितकदलीगवेधुकाः।
क्लान्तजलरुहलताः सरसीः
विदधे निदाघ इव सत्त्वसंप्लवः॥५१॥
इति चालयन्नचलसानु-
वनगहनजानुमापतिः।
प्राप मुदितहरिणीदशन-
क्षतवीरुधं वसतिमैन्द्रसूनवीम्॥५२॥
प्रणुदन् अतः मन्दः इति भावः। “मातरिश्वा सदागति” इत्यमरः। ववौवाति स्म॥५०॥
मथिताम्भस इति। सत्त्वसप्लवः प्राणिसंक्षोभः निदाघः ग्रीष्मःइव सरसीः सरांसि। “कासारः सरसीसरः” इत्यमरः। मथिताम्भसः संक्षोभितोदकाःरयेण पलायनवेगेन विकीर्णं व्याकीर्णंयथा तथा मृदिताः निष्पीड़िताः कदल्यः गवेधुकाः तृणधान्यविषेशाश्च यासां ताः तथोक्ताः। “तृणधान्यानि नीवाराः स्त्रीगवेधुर्गवेधुका” इत्यमरः। मृदित इति। “क्ङिति च” इति गुणप्रतिषेधः। क्लान्ताः जलरुहलताः पद्मिन्यः यासु ताः एवम्भूताः विदधे चकार॥५१॥
इतीति। इति इत्थम् उमापतिः अचलसानुषु वनेषु उपभोग्यवृक्षेषु गहनेषु दावेषु च जातान् तथोक्तान् सत्त्वान् इति शेषः। चालयन्। मुदितानां हरिणीनां दशनैः क्षताः वीरुधः लताः यस्यां ताम् इन्द्रसूनोः इमाम् ऐन्द्रसूनवीं वसति अत्र इति वसतिम् आश्रमम्। “वहिवस्यर्तिभ्यश्च” इति औणादिकः वसतेःअतिप्रत्ययः। प्राप॥५२॥
स तमाससाद घननीलम्
अभिमुखमुपस्थितं मुनेः।
पोत्रनिकषणविभिन्नभुवं
दनुजं दधानमथ सौकरं वपुः॥५३॥
कच्छान्ते सुरसरितो निधाय सेनाम्
अन्वीतः स कतिपयैः किरातवर्य्येः।
प्रच्छन्नस्तरुगहनैः सगुल्मजालैः
लक्ष्मीवाननुपदमस्य सम्प्रतस्थे॥५४॥
इति ईश्वराभिगमनो नाम द्वादशः सर्गः॥१२॥
स इति। अथ अनन्तरं सः शिवः घननीलं मेघसेचकं मुनेःअर्जुनस्य अभिमुखम् उपस्थितम् आगतम्। पोत्रस्य मुखाग्रस्य। “मुखाग्रे कोड़हलयोः पोत्रम्” इत्यमरः। “हलसूकरयोः पुवः” इति ष्ट्रन्प्रत्ययः। निकषेन उल्लेखनेन विभिन्ना विदारिता भूः येन तम्। सूकरस्य इदं सौकरं वाराहं वपुः दधानं दनुजम् आससाद प्राप ददर्श इति यावत्॥५३॥
कच्छान्त इति। लक्ष्मीवान् “मादुपधायाश्च मतोर्वोऽयवादिभ्यः” इति मतुपः मकारस्य वकारादेशः। सः शिवः। सुरसरितः कच्छान्ते अनूपप्रान्ते। “जलप्रायमनूपं स्यात् पुंसि कच्छस्तथाविधः” इत्यमरः। सेनां निधाय स्थापयित्वा इत्यर्थः। कतिपयैः किरातवर्य्यैःअन्वीतः अनुगतः सन्। “ई गतौ” इति धातोः अनुपूर्वात् कर्मणि क्तः। सगुल्मजालैः लताप्रतानसहितः तरुगहनैः प्रच्छन्नः छादितः। “वा दान्तशान्त” इत्यादिना निपातः। अस्य वराहस्य पदम् अनु अनुपदं पदानुसारेण
त्रयोदशः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1731218115pic1.png"/>
वपुषा परमेण भूधराणाम्
अथ सम्भाव्यपराक्रमं विभेदे।
मृगमाशु विलोकयाञ्चकार
स्थिरदष्ट्रोग्रमुखं महेन्द्रसूनुः॥१॥
स्फुटबद्धसदोन्नतिः स दूरात्
अभिधावन्नवधीरितान्यकृत्यः।
जयमिच्छति तस्य जातशङ्के
मनसीमं मुहराददे वितर्कम्॥२॥
इत्यर्थः। “सम्प्रतस्थे प्रस्थितः। “समवप्रविभ्यः स्थः” इति आत्मनेपदम्। प्रहर्षिणीवृत्तम्॥५४॥
इति किरातार्जुनीये द्वादशसर्गव्याख्या समाप्ता।
<MISSING_FIG href="../books_images/U-IMG-1731418523Screenshot2024-10-10111156.png"/>
वपुषेति। अथ ईश्वरप्रस्थानानन्तरं महेन्द्रसूनुः अर्जुनः परमेण महता वपुषा हेतुना भूधराणां विभेदे विदारणे सम्भाव्यपराक्रमं क्षमः अयम् इति प्रतर्क्यपौरुषम्। स्थिराभ्यां दृढ़ाभ्यां दंष्ट्राभ्याम् उग्रं मुखं यस्य तं मृगं वराहम्। आशु तदागमनानन्तरम् अविलम्बेन इत्यर्थः। विलोकयाञ्चकार ददर्श। अस्मिन् सर्गेप्राक् पञ्चविंशत्श्लोकादौपच्छन्दसिकंवृत्तम्॥१॥
स्फुटेति। स्फुटा स्पष्टा बद्धाविरचिता सटानां केसराणाम् उन्नतिः उद्धतिः यस्य सः क्रोधात् हर्षितलोमा इत्यर्थः। “सटाजटाकेसरयोः” इत्यमरः। दूरात् अभिधावन्। तथा अवधीरि-
घनपोत्रविदीर्णशालमूलः
निविढ़स्कन्धनिकाषरुग्णवप्रः।
अयमेकचरोऽभिवर्त्तते मां
समरायेव समाजुहूषमाणः॥३॥
इह वीतभया तपोऽनुभावात्
जहति व्यालमृगाः परेषु वृत्तिम्।
तान्यकृत्यः अनन्यकर्मा सः वराहः जयम् इच्छति जयार्थिनि अत एव जातशङ्के स्वयं जिघांसोः द्विषाम् एकलक्ष्यत्वात् इति भावः। तस्य मुनेः मनसि मुहुः इमं वितर्कंवक्ष्यमाणम् ऊहम्। “अध्याहारस्तर्क ऊहः” इत्यमरः। आददे उत्पादयामास॥२॥
अथ एकादशभिः वितर्कम् एव निरूपयति। घनपोत्रेति। घनेन कठिनेन पोत्रेण मुखाग्रेण विदीर्णानि विदलितानि शालमूलानि वृक्षब्रध्ना येन सः। “मूलं ब्रध्नोऽङ्घ्रिनामकः”इत्यमरः। निविड़स्य स्कन्धस्य निकाषेण निकषणेन रुग्णवप्रः भग्नसानुः अतः महासत्त्वसम्पन्नः इति भावः। एकश्च असौ चरश्च इति एकचरः एकाकी यूथात् अपेत इत्यर्थः। अतः अयं वराहः समराय सभरं कर्त्तुम्। “क्रियार्थोपपदस्य च कर्मणि स्थानिनः” इति चतुर्थी। समाजुहूषमाणः इव समाह्वातुम् इच्छन् इव इवशब्दः सम्भावनायाम्। समाह्वयतेः सन्नन्तात् शानच्प्रत्ययः। “स्पर्द्धायामाङः” “पूर्ववत् सन” इति आत्मनेपदम्। “अभ्यस्तस्य च” इति सम्प्रसारणम्। माम् अभिवर्त्तते अभिधावति। उपसर्गवशात् सकर्मकत्वम्। अतः सर्वथा न अयम् उपेक्ष्य इति भावः॥३॥
इहेति। इह आश्रमे तपोऽनुभावात् वीतभयाः लक्षणया
मयि तां सुतरामयं विधत्ते
विकृतिः किं नु भवेदियं नु माया ? ॥४॥
अथवैष कृतज्ञयेव पूर्वं
भृशंमासेवितया रुषा न मुक्तः ?।
अवधूय विरोधिनीःकिमारात्
मृगजातीरभियाति मां जवेन ?॥५॥
न मृगः खलु कोऽप्ययं जिघांसुः
विगतवैराः इत्यर्थः अत एव व्यालमृगाःक्रूव्याघ्रादयः। “व्यालोभुजङ्गमे क्रूरेश्वापदे दुष्टदन्तिनि” इति विश्वः। परेषु प्राण्यन्तरेषु वृत्तिं जीविकां जहति हिंसया न जीवन्ति इत्यर्थः। अयं वराहः मयि महिषये तां वृत्तिं सुतरां विधत्ते जिघांसति इत्यर्थः। तत् इयं विकृतिः तपःसामर्थ्यभङ्गरूपा भवेत् किं नु? यद्वा माया कस्यचित् दैत्यस्य वराहभूमिका भवेत् नु ? किं नु शब्दौ वितर्के॥४॥
अथवेति। अथवा इति पक्षान्तरे। एषः मृगः पूर्वं जन्मान्तरेण भृशम् अत्यर्थम् आसेवितया अतिपरिचितया रुषा क्रुधा मद्गोचरया इति शेषः। कृतज्ञया इव पूर्वकृतं वैरानुबन्धं सम्प्रति जानाति इति उत्प्रेक्षा। न मुक्तः न त्यक्तः अद्यापि इति शेषः। नूनम् अयं प्राग्भवीयवैरानुबन्धी कश्चित् सम्प्रति वैरवीजासम्भवात् इति भावः। कुतः ? यत् यतः आरात् समीपतः। आराद्दरसमीपयोः” इत्यमरः। विरोधिनीः मृगजातीः अवधूय त्यक्त्वाजवेन माम् अभियाति अभिधावति अन्यथा न अभियायात् इति भावः॥५॥
स्खलति ह्यत्र तथा भृशं मनो मे।
विमलं कलुषीभवच्च चेतः
कथयत्येव हितैषिणं रिपुं वा॥६॥
मुनिरस्मि निरागसः कुतो मे
भयमित्येष न भूतयेऽभिमानः।
परवृद्धिषु बद्धमत्सराणां
किमिव ह्यस्ति दुरात्मनामलङ्घ्यम् ? ॥७॥
न केवलम् अभियानम् एव किञ्च मनोवृत्तिः अपि अत्र प्रमाणम् इति आह। न मृग इति। अयं मृगः न खलु किन्तु कः अपि कश्चित् अन्यः एव जिघांसुःहन्तुम् इच्छुः। हन्तेः सन्नन्तात् उप्रत्ययः। “अभ्यासाच्च” इति कुत्वम्। “अज्झनगमां सनि” इति दीर्घः। कुतः ? हि यस्मात् अत्र अस्मिन् मृगविषये मे मनः तथा भृशं स्खलति क्षुभ्यति यथा अयं जिघांसुः इति बुद्धिः उत्पद्यते इत्यर्थः। तथाहि। विमलं प्रसन्नं तथा कलुषीभवत् क्षुभ्यच्च चेतः एव हितैषिणं रिपुं वा मित्रम् अमित्रं च कथयति। यत्र यत्र मनः प्रसीदति तत् एव मित्रम् अन्यथा तु अन्यथा इति निश्चितम् इत्यर्थः। अतः अयं बध्यः इति भावः॥६॥
ननु मुनेः किम् अनया दुःशङ्कया? तत्र आह। मुनिरिति। मुनिः अस्मि अतः निरागसः निरपराधस्य मे कुतःभयम्? इति एषः अभिमानः अहङ्कारः। “गर्वोऽभिमानोऽहङ्कारः” इत्यमरः। अनपकारिणं मां कः अपि किं करिष्यति इति बुद्धिः भूतये श्रेयसे न भवति। तथाहि परवृद्धिषु विषये बद्धमत्सराणां
दनुजस्विदयं क्षपाचरो वा ?
वनजे नेति बलं वतास्ति सत्त्वे।
अभिभूय तथाहि मेघनीलः
सकलं कम्पयतीव शैलराजम्॥८॥
अयमेव मृगव्यसत्रकामः
प्रहरिष्यन्मयि मायया शमस्थे।
पृथुभिर्ध्वजिनीरवैरकार्षीत्
चकितोद्भ्रान्तमृगाणि काननानि॥९॥
दुरात्मनाम् अलङ्घ्यं किम् इव अस्ति ? न किञ्चित् अकार्य्यम् अस्ति इत्यर्थः। इवशब्दः वाक्यालङ्कारे॥७॥
अस्तु जिघांसुः अपि क्षुद्रः किं करिष्यति ? इत्यत्र आह। दनुज इति। अयं दनुजः स्वित् दानवः वा क्षपाचरः राक्षसः वा न तु मृगः इव इत्यर्थः। कुतः ? वनजे सत्वे वन्यप्राणिनि इति ईदृशं बलं न अस्ति वत इति आश्चर्य्ये। बलम् एव समर्थयते। तथाहि। मेघनीलः अयं वराहः सकलं शैलराजम् अभिभूय आक्रम्य कम्पयति इव पदविष्टम्भभरात् तथा प्रतीयते इत्यर्थः। अत्र कम्पयति इव इति उत्प्रेक्षागर्भः अयं शैलकम्पनरूपकार्य्येण तत्कारणबलातिरेकसमर्थनात् कार्य्येण कारणसमर्थनरूपः अर्थान्तरन्यासः॥८॥
किञ्च यः अयं शैले मृगयाकलकलः इव श्रूयते सः अपि एतन्मायापरिकल्पितः एव इति आह। अयमिति। अयम् एव शमस्थे शान्तनिविष्टे मयि। अधिकरणविवक्षायां सप्तमी। मायया प्रहरिष्यन् प्रहर्त्तुम् इच्छन् इत्यर्थः। “लट् शेषे च” इति चकारात् क्रियार्थायां क्रियायां लृट्। “लृटः सद्वा” इति
बहुशः कृतसत्कृतेर्विधातुं
प्रियमिच्छन्नथवा सुयोधनस्य।
क्षुभितं वनगोचराभियोगात्
गणमाशिश्रियदाकुलं तिरश्चाम् ? ॥१०॥
अवलीढ़सनाभिरश्मसेनः
प्रसभं खाण्डवजातवेदसा वा।
शत्रादेशः। मृगव्यं मृगया तस्य सत्रं वनं तदर्थं वनम् इत्यर्थः। तत्कामयते इति मृगव्यसत्रकामः मृगयाभूमिपरिग्रहार्थी सन् इत्यर्थः। “कर्मं ण्यण्”। “आच्छोदनं मृगव्यंस्यादाखेटो मृगया स्त्रियाम्” इति। “सत्रमाच्छादने यज्ञे सदा दाने वनेऽपि च” इति च अमरः। पृथुभिः वृहद्भिः ध्वजिनीरवैःसेनाकलकलैःस्वमायया कल्पितैः एव इत्यर्थः। काननानि चकितोद्भ्रान्ताः त्रस्तपलायिताः मृगाः येषु तानि अकार्षीत् चकार। अयं रन्ध्रान्वेषी मत्प्रहारार्थं स्वयम् एव मृगयुः भूत्वा वनावरोधाय सेनाघोषं कल्पयामास। सः मृगरूपेण आगच्छति इत्यर्थः॥९॥
वितर्कान्तरम् आह। बहुश इति। अथवा बहुशःकृता सत्कृतिः सत्कारः येन तस्य सुयोधनस्य प्रियं मद्बधरूपं विधातुं कर्त्तुम् इच्छन् यः कश्चित् इति शेषः। वनं गोचरं स्थानं येषां तेषां वनगोचराणाम् अभियोगात् अवरोधात् क्षुभितम् उद्विग्नम् आकुलं तिरश्चां गणम् आशिश्रियत् वराहरूपेण प्राविक्षत्। “णिश्रिद्रुस्रुभ्यः कर्त्तरि चङ्”। “चङि” इति द्विर्भावः॥१०॥
वितर्कान्तरम् आह। अवलीढेति। खाण्डवजातवेदसा खाण्डववनाग्निना प्रसभम् अवलीढ़सनाभिः दग्धबन्धुः। “सपिण्डस्तु सनाभयः। सगोत्रबान्धवज्ञातिबन्धुस्वस्वजनाः समाः”
प्रतिकर्त्तुमुपागतः समन्युः
कृतवैरो यदि वा वृकोदरेण ?॥११॥
बलशालितया यथा तथा वा
धियमुच्छेदपरामयं दधानः।
नियमेन मया निवर्हणीयः
परमं लाभमरातिभङ्गमाहुः॥१२॥
कुरु तात ! तपांस्यमार्गदापी
विजयायेत्यलमन्वशान्मुनिर्माम्
इत्यमरः। अत एव समन्युः बद्धवैरः तस्य अर्जुनस्य अपकारयितृत्वात् इति भावः। अश्वसेनः तक्षकपुत्रः कश्चित् महासर्पः प्रतिकर्त्तुं वैरनिर्य्यातनार्थम् उपागतः वराहमायया इति शेषः। पक्षान्तरम् आह। यदि वा वृकोदरेण भीमसेनेन कृतमन्युः जनितक्रोधः वा कश्चित् इति शेषः। पुरा किल पाण्डवःखाण्डवदाहे पावकभयात् पलायमानान् तक्षकपुत्रान् अश्वसेनस्य बन्धून् बाणैः अवरुध्य दाहयामास इति भारतकथानुसन्धेया इति॥११॥
अथ द्वाभ्यामनन्तरकरणीयम् अध्यवस्यति। बलेत्यादिना। किं बहुना। यथा तथा वा अस्तु अयं मायिकः पारमार्थिको वा अस्तु इत्यर्थः। बलशालितया बलदृप्ततया इत्यर्थः। उच्छेदपरां धियं दधानो मां जिघांसुरित्यर्थः। अयं मृगोनियमेन अवश्यं मया निवर्हणीयो बध्यः। “प्रमापणं निवर्हणम्” इत्यमरः। तथाहि अरातिभङ्गं शत्रुक्षयं परमं लाभम् आहुः॥१२॥
ननु तपोविरोधिनौ हिंसेत्याशङ्क्याह। कुर्विति। हे तात ! वत्स ! मार्गदायीन भवतीति अमार्गदायीरन्धान्वेषिणां प्रवे-
बलिनश्च बधादृतेऽस्य शक्यं
व्रतसंरक्षणमन्यथा न कर्त्तुम्॥१३॥
इति तेन विचिन्त्य चापनाम
प्रथमं पौरुषचिह्नमाललम्बे।
उपलब्धगुणः परस्य भेदे
सचिवः शुद्ध इवाददे च बाणः॥१४॥
अनुभाववता गुरु स्थिरत्वात्
अविसंवादि धनुर्धनञ्जयेन।
गम् अगच्छन् इत्यर्थः। कुतः जयायित्वात् इत्याह। विजयाय तपांसि कुर्वितिमुनिः स्वामी माम् अलं भृशम्अन्वतात् अनुशिष्टवान्। अनुशासेर्लङ। ननु मुनिः वा कथम् अवगम्य अन्वगात् ? तत्राह। वलिन इति। अस्य मृगस्य बलिनश्चप्रवलस्य चवधादृते वधं विना। “अन्यारादितरर्त्ते “इत्यादिना पञ्चमी अन्यथा उपायान्तरेण व्रतसंरक्षणं तपोरक्षणं कर्तुं न शक्यम्। हिंसापि दुष्टनिग्रहात्मिका न अधर्म इत्यर्थः॥१३॥
इतीति। तेन अर्जुनेन इतीत्यं विचिन्त्य वितर्क्यचापनाम चापाख्यं प्रथम पोरुषचिह्न तस्य मुख्यायुधत्वात् इति भावः आललम्बेगृहीतम्। कर्मणि लिट्। अत्र परस्य शत्रोः भेदे विदारणे उपलब्धगुणो ज्ञातशक्तिः वाणस्तु प्राप्तमौर्वीकश्चेतिशेषः। शुद्धो ऋजुः दिग्धत्वादिदोषरहितो वा। “त कर्णमर्दनांदिग्धैर्नाग्निज्वलिततेजसैः”इति निषेधात्। अन्यत्रशुद्धो निर्मलचित्त इति यावत्। बाणश्चसचिव इव आददे। अत्रबाणसचिवयोः शब्दमात्रसाधर्म्यात् श्लेषालङ्कारः प्रकृतविषय इति सर्वस्वकारः उपमैबेति केचित्॥१४ ॥
स्वबलव्यसनेऽपि पीड्यमानं
गुणवन्मित्रमिवानतिं प्रपेदे॥१५॥
प्रविकर्षनिनादभिन्नरन्ध्रः
पदविष्टम्भनिपीड़ितस्तदानीम्।
अधिरोहति गाण्डिवं महेषौ
सकलः संशयमारुरोह शैलः॥१६॥
ददृशेऽथ सविस्मयं शिवेन
अनुभावेति। गुरु महत् पूज्यं च स्थिरत्वात् सारवत्त्वात् अविसंवादि अभङ्गुरम् अन्यत्र प्रतिष्ठितत्वात् असत्यरहितं गुणवत् सज्यम् अन्यत्र औदार्य्यादिगुणवत् धनुः मित्रमिव अनुभाववता निश्चयबुद्धिमता। “अनुभावः प्रभावे च सतां च मतिनिश्चयः” इत्यमरः। धनञ्जयेन स्वबलव्यसनेऽपि तपसा क्षीणबलेऽपि। अन्यत्र स्वधनं तदेव बलं तस्य ह्रासेऽपि पीड्यमानम् आकृष्यमाणम् अवरुद्ध्यमानञ्च सन्मित्रम् इव आनतिं नम्रताम् आनुकूल्यञ्च प्रपेदे। अलङ्कारस्तु पूर्ववत्॥१५॥
प्रविकर्षेति। तदानीं तस्मिन् काले महेषौगाण्डिवम् अर्जुनधनुः अधिरोहति सति। “कपिध्वजस्य गाण्डीवगाण्डिवौपुंनपुंसकौ” इत्यमरः। “गाण्डाजगात् संज्ञायाम्” इति वप्रत्ययः। प्रविकर्षेण ज्याविकर्षेण यो निनादः तेन भिन्नरन्ध्रोविदलितगह्वर तथा पदविष्टम्भेन पादाक्रमणेन निपीड़ितः नुन्नः सकलः समूलः शैलः संशयं जीवितसन्देहञ्च आरुरोह प्राप इत्यर्थः। अत्र शैलस्य संशयासम्बन्धेऽपि सम्बन्धकथनात् अतिश्योक्तिरलङ्कारः॥१६॥
स्थिरपूर्णायतचापमण्डलस्थः।
रचितस्तिसृणां पुरां विधातुं
बधमात्मेव भयङ्करः परेषाम्॥१७॥
विचकर्ष च संहितेषुरुच्चैः
चरणास्कन्दननामिताचलेन्द्रः।
धनुरायतभोगवासुकिज्या
वदनग्रन्थिविमुक्तवह्नि शम्भुः॥१८॥
स भवस्य भवक्षयैकहेतोः
सितसप्तेश्च विधास्यतोः सहार्थम्।
ददृश इति। अथ बाणसन्धानानन्तरं शिवेन स्थिर निश्चलं पूर्णञ्च यथा तथा आयते आकृष्टे चापमण्डले तिष्ठतीति तथोक्तः चापमण्डलमन्तर्धाय स्थित इत्यर्थः। तिसृणाम्। “न तिसृचतसृ” इति दीर्घप्रतिषेधः। पुरां बधं संहारं विधातुं कर्त्तुं रचितः कल्पितः स्थानविशेषे स्थापित इति यावत्। आत्मा स्वयम् एव परेषां भयानको भयङ्करः। सः अर्जुनः सविस्मयं स्वयं ददृशे दृष्टः। उपमालङ्कारः॥१७॥
अथ पिनाकिवृत्तान्तमाह। विचकर्षेति। अथ शम्भुश्च संहितेषुः सन् उच्चैः भृशं चरणास्कन्दनेन पदविष्टम्भेन नामितः अधो नीतः अचलेन्द्रो येन स तथोक्तः। आयतभोगः आकृष्टकायः वासुकिः एव ज्या तस्य वदनमेव ग्रन्थिस्तेन विमुक्तः उत्सृष्टो वह्निः यस्य तत् धनः विचकर्ष इति स्वभावोक्तिः॥१८॥
स इति। सह सम्भूय अर्थम् अरिबधरूपप्रयोजनं विधास्यतोः करिष्यतोः अन्यत्र सहार्थम् अभिधेयम् अभिधास्यतोः
रिपुराप पराभवाय मध्यं
प्रकृतिप्रत्यययोरिवानुबन्धः॥१९॥
अथ दीपितवारिवाहवर्त्मा
रववित्रासितवारणादवार्य्यः।
निपपात जवादिषुः पिनाकात्
महतोऽव्भ्रादिव वैद्युतः कृशानुः॥२०॥
व्रजतोऽस्य वृहत्पतत्रजन्मा
कृततार्क्ष्योपनिपातवेगशङ्कः।
इत्यर्थः। “प्रकृतिप्रत्ययौ सहार्थं ब्रूतः” इति वचनात्। भव क्षयैकहेतोः संसारोच्छेदनिदानम्य शिवस्य सितसप्तेः अर्जुनस्य च मध्यं रिपुः वराहः। यस्मात् प्रत्ययो विधीयते मा प्रकृतिः धात्वादिः प्रत्ययः सनादिः तयोः मध्यम् अनबन्धः इत्संज्ञकोवर्णः यथा भूतं भूतिः इत्यादौककारः। स इव पराभवाय लोपार्थमेवाप न तु स्थित्वर्थमित्यर्थः॥१९॥
अथेति। अथ रिपोः मध्यप्रवेशानन्तरं दीपितं वारिवाहवर्त्म आकाशं येन स अवार्य्यः दुर्वारः इषुः शरः रववित्रासितवारणात् स्वघोषभीषितगजात् पिनाकात् शिवधनुषः। “पिनाकोऽजगवं धनुः”इत्यमरः। महतोऽभ्रात् मेघात् विद्युतोऽयं वैद्युतः कृशानुः अशनिः इव जवात् वेगात् निपपात् आदधाव॥२०॥
व्रजत इति। व्रजतो धावतोऽस्य बाणस्य बृहद्भ्यःपतत्रेभ्यः पक्षेभ्यो जन्म यस्य स तथोक्तः कृता तार्क्ष्योपनिपातवेगशङ्का गरुड़ागमभ्रमो येन सः। अत एव महोरगाणां हृदयानि
प्रतिनादमहान् महोरगाणां
हृदयश्रोत्रभिदुत्पपात नादः॥२१॥
नयनादिव शूलिनः प्रवृत्तैः
मनसोऽप्याशुतरं यतः पिशङ्गैः।
विदधे विलसत्तड़िल्लताभैः
किरणैर्व्योमनि मार्गणस्य मार्गः॥२२॥
अपयन् धनुषः शिवान्तिकस्थैः
विवरे सद्भिरभिख्यया जिहानः।
श्रोत्राणि च भिनत्तीति हृदयश्रोत्रभित्। “समुद्रा भ्राद्द्वः” इति सूत्रे पूर्वनिपातव्यभिचारात् श्रोत्रशब्दस्य पूर्वनिपातव्यभिचारः। प्रतिनादैः प्रतिध्वनिभिः महान् संमूर्च्छितो नादः उत्पपात उत्थितः। अत्र नादस्य उरगहृदयभेदकत्वासम्बन्धेऽपि सम्बन्धाभिधानात् अतिशयोक्तिः। सा च तार्क्ष्यवेगभ्रमोत्थापितेति तयोरङ्गाङ्गिभावेन सङ्करः॥२१॥
नयनादिति। शूलिनो नयनात् प्रवृत्तैःनिर्गतैःइवेति उत्प्रेक्षा। नेत्राग्निशिखाकल्पैःइत्यर्थः। पिशङ्गैः विलसत्तड़िल्लताभैःविद्युद्दामतुल्यैः इत्युपमा। मनसश्चित्तादपि आशुतरं शीघ्रतरम्। आशुशब्दादव्ययात्तरप्। अतः “किमेत्तिङव्यय”इत्यादिना आम्प्रत्ययो न। “क्लीवे शीघ्राद्यसत्त्वेस्यात्” इत्यमरः। यतः गच्छतः। इणः शतृप्रत्ययः। मार्गणस्यशरस्य। “कलम्बमार्गणशराः” इत्यमरः। किरणैः व्योमनि आकाशे मार्गः उल्कारेखाकारः पन्थाविदधे विरचित इति स्वभावोक्तिरलङ्कारः॥२२॥
युगपत् ददृशे विशन् वराहं
तटुपोढैश्च नभश्चरैः पृषत्कः॥२३॥
स तमालनिभे रिपौ सुराणां
घननीहार इवाविषक्तवेगः।
भयविप्लुतमोक्षितो नभस्थैः
जगतीं ग्राह इवापगां जगाहे॥२४॥
अपयन्निति। पृषत्को बाणः। “पृषत्कव्राणविशिखाः” इत्यमरः। धनुषः पिनाकात् अपयन् निर्गच्छन् इत्यर्थः। इणः शतृप्रत्ययः। शिवान्तिकस्थैः नभश्चरैः अभिख्यया शोभया जिहानः शोभां गच्छन् इत्यर्थः। “ओहाङ् गती” इति धातोः शानच्। “अभिख्या नामशोभयोः” इत्यमरः। विवरे सीदन्तीति विवरेसदस्तैः विवरेसद्भिः अन्तरालवर्त्तिभिः नभश्चरैः। “सत्सूद्विष” इत्यादिना क्विप्। “तत्पुरुषे कृतिबहुलम्” इत्यलुक्। अथ वराहं विशन् प्रविशन् तदुपीढ़ैःतं वराहम् उपोढ़ैःप्रत्यासन्नैः। वहेः कर्त्तरि क्तः। नभश्चरैः युगपत् ददृशे दृष्ट इति बाणवेगोक्तिः। अत्र पिनाकनिष्क्रमणादिक्रियाविशिष्टस्य वाणस्य शिवान्तिकादिभिन्नदेशस्थानभश्चरकर्त्तृकदर्शनयीगपद्या सम्बन्धेऽपि तत्सम्बन्धोक्तिमूलातिशयोक्त्या लोकोत्तरवेगप्रतीतेः अलङ्कारेण वस्तुध्वनिः॥२३॥
स इति। स बाणः तमालनिभे तमालप्रभे नीलाभे इति यावत्। सुराणां रिपौ वराहे घननीहारे सान्द्रतुहिने इव अविषक्तवेगोऽप्रतिबद्दवेगः सन्। तथा नभस्थैःखेचरैः भयेन विप्लुतं विह्वलं यथा तथा ईक्षितः सन्। अपां सम्बन्धिवेग आपः अपां समूहो वा आपम् आपेन गच्छतीति आपगा नदी
सपदि प्रियरूपपर्वरेखः
सितलोहाग्रनखः खमाससाद।
कुपितान्तकतर्जनाङ्गुलिश्रीः
व्यथयन् प्राणभृतः कपिध्वजेषुः॥२५॥
परमास्त्रपरिग्रहोरुतेजः
स्फुरदुल्काकृति विक्षिपन् वनेषु।
स जवेन पतन् परःशतानां
पततां व्रात इवारवं वितेने॥२६॥
तां गृह्णातीति ग्राहो जलग्रहः। “जलचर” इति वक्तव्यात् विभाषया ग्रह इति णप्रत्ययः। स इव जगतीं भूमिम्। “जगतीविष्टपे भूम्याम् इति वैजयन्ती। जगाहे विवेश अन्तर्हित इत्यर्थः॥२४॥
अथ अर्जुनबाणप्रयोगमाह। सपदीति। सपदि शिवबाणपातसमय एव प्रियाः रूपम् आकृतिः पर्वाणि ग्रन्थयो रेखारचनाश्च यस्य सः। अङ्गुलिपक्षे पर्वरेखाः प्रसिद्धाः। लोहाग्रमयः फलं तत् नखम् इव इति उपमितसमासः। सितं लोहाग्रनखं यस्य सः कुपितस्य अन्तकस्य मृत्योः या तर्जनीतस्या अङ्गुलिः तर्जनाङ्गुलिःतर्जनीतस्याः श्रीरिव श्रीः यस्य स कपिध्वजेषुः अर्जुनबाणः प्राणभृतो व्यथयन् भीषयमाणः स्वम् आकाशम् आससाद प्राप। उपमालङ्कारः॥२५॥
परमेति। परमास्त्रपरिग्रहेण दिव्यास्त्राधिष्ठानेन उरु महत् अत एव स्फुरत् उल्काकृति उल्कावत् दीर्घायमाणम् इत्यर्थः। तेजो वनेषु विक्षिपन् विकिरन् सन् जवेन पतन् धावन् स बाणः शतात्परे परःशताः तेषां शताधिकसंख्यकानाम्
अविभावितनिष्क्रमप्रयाणः
शमितायाम इवातिरंहसा सः।
सह पूर्वतरं नु चित्तवृत्तेः
अपतित्वा नु चकार लक्ष्यभेदम्॥२७॥
स वृषध्वजसायकावभिन्नं
जयहेतुः प्रतिकायमेषणीयम्।
इत्यर्थः। “परःशताद्यास्ते येषां परा संख्या शताधिकात्” इत्यमरः। “पञ्चमी” इति योगविभागात् समासः। “राजदन्तादिषु परम्” इति उपसर्जनस्य शतशब्दस्य परनिपातः पारस्करादित्वात् सुडागमः। पततां पतत्रिणाम्। पतत्पत्ररथाण्डजाः” इत्यमरः। व्रातः समूह इव आरवं वितेने॥२६॥
अविभावितेति। अतिरंहसा अतिवेगेन अविभाविते अलक्षिते निष्क्रामो गाण्डीवात् निःसरणं प्रयाणम् अन्तरागमनं च यस्य सः। तथा शमितायामः सङ्क्षिप्तदैर्घ्यइव स्थित इति उपमा। अत्र वेगगुणनिमित्ता देर्घ्यगुणाभावोत्प्रेक्षा। स शरः। सह नु सह वा चित्तवृत्त्या इति शेषः। चित्तवृत्तेः पूर्वतरं नु प्राक् एव वा उभयत्र आपे लक्ष्ये पतित्वा इति शेषः। अथवा अपतित्वा तु लक्ष्ये इति शेषः। लक्ष्यभेदं चकार। अत्र उपात्तवेगगुणनिमित्तात् बाणस्य चित्तवृत्त्या सहपातपूर्वपातपतनाभावोत्प्रेक्षाः तिस्रः। “उत्तरोत्तरोत्कर्षेण वेगातिशयव्यञ्जिकाः” इति अलङ्कारेण वस्तुध्वनिः॥२७॥
स इति। जयहेतुः स शरो वृषध्वजसायकावभिन्नं शिवशरविद्धम् एषणीयं वेद्धुम् इति शेषः। इषेरिच्छार्थादनीयर्प्रत्ययः। प्रतिकायं प्रतिशरीरं प्रतिपक्षम् इति यावत्। विधिना
लघु साधयितुं शरः प्रसेहे
विधिनेवार्थमुदीरितं प्रयत्नः॥२८॥
अविवेकवृथाश्रमाविवार्थं
क्षयलोभाविव संश्रितानुरागम्।
विजिगीषुमिवानयप्रमादौ
अवसादं विशिखौ विनिन्यतुस्तम्॥२९॥
अथ दीर्घतरं तमः प्रवेक्ष्यन्
सहसा रुग्णरयः स सम्भ्रमेण।
निपतन्तमिवोष्णरश्मिमुर्व्यां
वलयीभूततरुं धराञ्च मेने॥३०॥
दैवेन उदीरितं फलसाधनतया प्रतिपादितम् अर्थं योगादिकं प्रयत्नः पुरुषव्यापार इव। लघु अक्लेशेन यथा तथा साधयितुम्। स्वार्थणिजन्तात् तुमुन्। प्रसेहे शशाक। उपमालङ्कारः॥२८॥
अविवेकेति। अविवेकः अन्तरानभिज्ञत्वं वृथाश्रमः निष्फलप्रयासः तौ अर्थं धनम् इव। अस्थानविनियोगहेतुकत्वात् अनयोः धनहानिकरत्वम् इति भावः। क्षयः अनुपचयः लोभः पदातृत्वं तौ संश्रितानाम् अनुजीविनाम् अनुरागम् इव। अकिञ्चित्करं स्वामिनि अनुरागस्य अनवस्थानात् इति भावः। अनयोः दुर्नीतिः प्रमादः अनवधानता तौ विजिगीषुम् इव। रन्ध्रभूयिष्ठस्य जयासिद्धेः इति भावः। विशिखौ शिवार्जुनबाणौ तं वराहम् अवसादं करणशैथिल्यं विनिन्यतुः नीतवन्तौ। नयतिः द्विकर्मकः। मालोपमेयम्॥२९॥
अथेति। अथ स वराहः दीर्घतरं तमः दीर्घनिद्रां प्रवेक्ष्यन्
स गतः क्षितिमुष्णशोणितार्द्रः
खुरदंष्ट्राग्रनिपातदारिताश्मा।
असुभिः क्षणमीक्षितेन्द्रसूनुः
विहितामर्षगुरुध्वनिर्निरासे॥३१॥
स्फुटपौरुषमापपात पार्थः
तमथ प्राज्यशरः शरं जिघृक्षुः।
न तथा कृतवेदिनां करिष्यन्
प्रियतामेति यथा कृतावदानः॥३२॥
मरिष्यन् इत्यर्थः। सहमा झटिति रुग्णरयःभग्नवेगः सम्भ्रमेण भ्रान्त्या। “सम्भ्रमोभ्रान्तिहावयोः” इति विश्वः उष्णरश्मिम् उर्व्यांनिपतन्तम् द्रव मेनेधराञ्च वलयीभूता मण्डलीभूताः तरवः यस्याः तां तथा मेने तथा बभ्राम इत्यर्थः॥३०॥
स इति। क्षितिं गतः क्षितौ पतितः उष्णेन प्रत्यग्रत्वात् शोणितेन आर्द्रः प्लुतः खुराणां दंष्ट्रयोश्च अग्राणां निपातेन आघातेन दारिताश्मा पाटितपाषाणः येन सः। किञ्च क्षणम् ईक्षितः इन्द्रसूनुः येन सः। स्वार्थविघातरोषात् इति भावः।अत एव विहितः कृतः अमर्षगुरुः क्रोधोद्धतः ध्वनिः क्रन्दितं येन स तथोक्तः स वराहः असुभिः प्राणैः निरासे निरासितः त्यक्तः इत्यर्थः। अस्यतेः कर्मणि लिट्। इयं च स्वभावोक्तिः॥३१॥
स्फुटेति। अथ वराहपातानन्तरं पार्थः प्राज्यशरः प्रभूतशरः सन् अपीत्यर्थः। “प्रभूतं प्रचुरं प्राज्यम्” इत्यमरः। स्फुटपौरुषं व्यक्तविक्रमं वराहभेदिनं शरं जिघृक्षुः ग्रहीतुमिच्छुः। ग्रहेः मन्नन्तात् उप्रत्ययः। आपपात आधावति स्म कृतज्ञतया
उपकार इवासति प्रयुक्तः
स्थितिमप्राप्य मृगे गतः प्रणाशम्।
कृतशक्तिरधोमुखो गुरुत्वात्
जनितव्रीड इवात्मपौरुषेण॥३३॥
स समुद्धरता विचिन्त्य तेन
स्करुचं कीर्त्तिमिवोत्तमां दधानः।
अनुयुक्त इव स्ववार्त्तमुच्चैः
परिरेभे नु भृशं विलोचनाभ्याम्॥३४॥
शरग्रहणंं न तु लोभात् इत्यर्थः। ननु अन्येऽपि उपकर्त्तार एव किम् अत्र आदरः? तत्राह। कृतवेदिनां कृतज्ञानां कृतावदानः कृतकर्मा। “अवदानं कर्म वृत्तम्” इत्यमरः। यथा प्रियताम् एति तथा करिष्यन् उपकरिष्यन् जन इति शेषः। न प्रियताम् एति। कृतकरिष्यमाणयोःकृतं बलीय इति भावः॥३२॥
अथ युग्मेनाह। उपकार इति। असति नीचे प्रयुक्तः उपकार इव मृगे स्थितिम् अप्राप्य प्रणाशम् अदर्शनं गत इति उपमा। तथा कृतशक्तिः कृतपौरुषः गुरुत्वात् लोहभारात् महत्त्वात् अधोमुखः नम्रमुखः। अत एव आत्मपौरुषेण जनितव्रीड़ द्रव स्थित इति उत्प्रेक्षा॥३३॥
स इति। उत्तमां स्वरूपंकान्तिं कीर्त्तिम् इव दधान इति उत्प्रेक्षा। किं च विचिन्त्य सर्वथा ग्राह्योऽयम् इति विमृष्य समुद्धरता तेन अर्जुनेन उच्चैः स्ववार्त्तं स्वपाटवम्। “वार्त्तं पाटवमारोग्यं भव्यं स्वास्थ्यमनामयम्” इति यादवः। अनुयुक्तः पृष्टः इव स्थित इति उत्प्रेक्षा। आदरात् तथा प्रतीयते इत्यर्थः। “प्रश्नोऽनुयोगः पृच्छा च” इत्यमरः। स बाणः विलो -
तत्र कार्मुकभृतं महाभुजः
पश्यति स्म सहसा वनेचरम्।
सन्निकाशयितुमग्रतः स्थितं
शासनं कुसुमचापविद्विषः॥३५॥
स प्रयुज्य तनये महीपतेः
आत्मजातिसदृशीं किलानतिम्।
सान्त्वपूर्वमभिनीतिहेतुकं
वक्तुमित्थमुपचक्रमे वचः॥३६॥
शान्तता विनययोगि मानसं
भूरिधाम विमलं तपः श्रुतम्।
चनाभ्यां नयनाभ्यां भृशं परिरेभे नु अलिङ्गितः किम् ? इति उत्प्रेक्षा। तेन अत्यादरेण दृष्ट इत्यर्थः॥३४॥
तत्रेति। तत्र प्रदेशे महाभुजोऽर्जुनः। कुसुमचापविद्विषः स्मरारेःशिवस्य शासनं वक्ष्यमाणम् आदेशं सन्निकाशयितुं सन्निवेशयितुं निवेदयितुम् इति यावत्। अग्रतः स्थितं कार्मुकभृतं वनेचरं सहसा झटिति पश्यति स्म। इतः प्रभृति रथोद्धतावृत्तम्। “रो नराविह रथोद्धता लगौ” इति लक्षणात्॥३५॥
स इति। स वनेचरः महीपतेः तनये राजपुत्रेऽर्जुने आत्मजातिसदृशीं किरातनात्यनुरूपां किल। किलेति जातेः अलीकतां दर्शयति यतः परमार्थतः प्रमथ एव सः। आनतिं प्रणतिं प्रयुज्य सान्त्वपूर्वं सामपूर्वकम्। “साम सान्त्वमुभे समे” इत्यमरः। अभिनीतिहेतुकं प्रिययुक्तिहेतुकं वचः। इत्थंवक्ष्यमाणप्रकारेणं वक्तुम् उपचक्रमे उद्युक्तवान्॥३६॥
प्राह ते नु सदृशी दिवौकसाम्
अन्ववायमवदातमाकृतिः॥३७॥
दीपितस्त्वमनुभावसम्पदा
गौरवेण लघयन् महीभृतः।
राजसे मुनिरपीह कारयन्
आधिपत्यमिव शातमन्यवम्॥३८॥
तापसोऽपि विभुतामुपेयिवान्
तत्र तावत् चतुर्भिः सान्त्वमाह। शान्ततेति। शान्तता जहिरनौद्धत्यं ते तव विनययोगि अनौद्धत्ययुक्तं मानसं प्राह नु ब्रूते खलु। तथा भूरि बहु धाम तेजो वग्मिन् तत्तपः कर्त्तृ विमलं सम्प्रदायशुद्धं श्रुतं प्राह। किं च द्यौर्दिवं वा ओको येषां तेषां दिवोकसां देवानाम्। पूपोदरादित्वात् साधुः। “दिवं स्वर्गेऽन्तरिक्षे च” इति विश्वः। सदृशो तुल्या आकृतिः मूर्त्तिःअवदातं शुद्धम् अन्ववायं वंशं प्राह। “वंशोऽन्ववायः सन्तानः” इत्यमरः। शान्त्यादिभिः लिङ्गेःविनयादयो अनुमीयन्ते। अन्यथा तदसम्भवात् इति भावः॥३२॥
दीपित इति। मुनिरपि ऐश्वर्य्यरहितोऽपि इत्यर्थः। अनुभावसम्पदा प्रभावातिशयेन दीपितः प्रकाशितः गौरवेण महत्तया महीभृतो राज्ञः लघयत् लघूकुर्वन् त्वमिह अद्रौ शतमन्योः इदं शातमन्यवम् ऐन्द्रम्। “तस्येदम्” इति अण्प्रत्ययः। “शतमन्युर्दिवस्पतिः” इत्यमरः। अधिपतिः कर्म्म आधिपत्यं त्रैलोक्यरक्षाधिकारः। ब्राह्मणादित्वात् ष्यञ्प्रत्तयः। कारयन् इव इन्द्रेण इति शेषः। राजसे तस्य अपि उपजीव्य इति प्रतीयसे स्वमहिम्ना इत्यर्थः॥३८॥
आस्पदं त्वमसि सर्वसम्पदाम्।
दृश्यते हि भवतो विना जनैः
अन्वितस्य सचिवैरिव द्युतिः॥३९॥
विस्मयः क इव वा जयश्रिया
नैव मुक्तिरपि ते दवीयसी।
ईप्सितस्य न भवेदुपाश्रयः
कस्य निर्जितरजस्तमोगुणः॥४०॥
ह्रेपयन्नहिमतेजसं त्विषा
स त्वमित्थमुपपन्नपौरुषः।
तापस इति। विभोर्भावः विभुता तां विभुतां प्रभावम् उपेयिवान् उपगतः। अत एव तापसोऽपि त्वं सर्वसम्पदाम् आस्पदं स्थानम् असि। “आस्पदं प्रतिष्ठायाम्” इति निपातः। विभुताम् एव समर्थयते। हि यस्मात् भवतो जनैः विना अपि एकाकिनोऽपि इत्यर्थः। सचिवैः अन्वितस्य एव अमात्यादि युक्तस्य इव द्युतिः तेजो दृश्यते अतः सर्वसम्पदाम् आस्पदत्वं युक्तम् इत्यर्थः॥३९॥
विस्मय इति। किं च जयश्रिया हेतुना प्राप्तया अपि शेषः। क इव वा विस्मयः किमाश्चर्य्यम् ? न कश्चित् इत्यर्थः। “विस्मयोऽद्भुतमाश्चर्य्यं?चित्रम्” इत्यमरः। अतो मुक्तिरपि ते तव दवीयसी दूरतरा दुर्लभा न भवति एव। “स्थूलदूर”। इत्यादिना यणादिपरलोपः पूर्वगुणश्च। निर्जितौ रजस्तमसी एव गुणौ येन स भवत्सदृशः पुरुषः कस्य ईप्सितस्य उपाश्रयः आस्पदं न भवेत् ? इत्यर्थः॥४०॥
हर्त्तुमर्हसि वराहभेदिनं
नैनमस्मदधिपस्य सायकम्॥४१॥
स्मर्य्यते तनुभृतां सनातनं
न्याय्यमाचरणमुत्तमैर्नृभिः।
ध्वंसते यदि भवाद्दशस्ततः
कः प्रयातु वद तेन वर्त्मना?॥४२॥
आकुमारमुपदेष्टुमिच्छवः
सन्निवृत्तिमपथात् महापदः।
अथ आगमनप्रयोजनम् उपालम्भमुखेनाह। ह्रेपयन्निति। त्विषा तेजसा अहिमतेजसम् उष्णतेजसं ह्रेपयन् लज्जयन् उपपन्नपौरुषः सम्भावितपराक्रमः स प्रसिद्धः त्वं वराहभेदिनं कृतोपकारम् इत्यर्थः। एनं त्वत्करगतं अस्मदधिपस्य सायकं शरम् इत्थं साहसेन हर्त्तुंन अर्हसि॥४१॥
अनर्हत्वम् एवाह। स्मर्य्यत इति। उत्तमैर्नृभिः सत्पुरुषैः मन्वादिभिः तनुभृतां शरीरिणां सनातनं नित्यं न्याय्यं न्यायात् अनपेतम् आचरितम् आचारः स्मर्य्यते कर्त्तव्यतया इति शेषः। न तु अनाचार इत्यर्थः। अथ अपि अनाचारेण दोषमाह। ध्वंसत इति। भवानिव दृश्यते इति भवादृशः ततः सदाचारात् ध्वंसते भ्रश्यते यदि तदा तेन वर्त्मना न्यायमार्गेण कः प्रयातु गच्छतु वद कथय न कोऽपि इत्यर्थः। तथाच सन्मार्ग एव शीलं कुर्य्यात् इति भावः॥४२॥
आकुमारमिति। किं च योगशक्त्या आत्मज्ञानमहिम्ना जितौ जन्ममृत्यूयैः ते यतयः योगिनः। आकुमारेभ्यः आकु-
योगशक्तिजितजन्ममृत्यवः
शीलयन्ति मुनयः सुशीलताम्॥४३॥
तिष्ठतां तपसि पुण्यमासजन्
सम्पदोऽनुगुणयन् सुखैषिणाम्।
योगिनां परिणमन् विमुक्तये
केन नास्तु विनयः सतां प्रियः ?॥४४॥
नूनमत्रभवतः शराकृतिं
मारं कुमारात् आरभ्य इत्यर्थः। “आङ् मर्य्यादाभिविध्योः” इति अव्ययीभावः। महत्यः आपदः यस्मिन् तस्मात् महापदः महानर्थहेतोः इत्यर्थः। अपथात् अमार्गात्। “पथो विभाषा” इति निषेधविकल्पात् समासान्तः। “अपथं नपुंसकम्”। सन्निवृत्तिम् अपगमम् उपदेष्टुम् इच्छवः सन्तः सुशीलतां सद्वृत्तताम्। “शीलं स्वभावे सद्वृत्ते” इत्यमरः। शीलयन्ति अभ्यय्यन्ति। अतो न त्याज्यं शीलमित्यर्थः॥४३॥
न केवलं सौशील्यात् अनर्थनिवृत्तिमात्रं किं तु अर्थप्राप्तिरपि इत्याह। तिष्ठतामिति। तपसि तिष्ठतां तपोनिष्ठानां धर्मार्थिनाम इत्यर्थः। पुण्यं धर्मम आसजन् सम्पादयन्। “स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः” इत्यमरः। सुखैषिणां सुखार्थिनां सम्पदः सुखसाधनभूतान् अर्थान्। अनुगुणयन् अनुकूलयन्। अर्थकामयोः अपि हेतुभूत इत्यर्थः तथा योगिनां विमुक्तये अपवर्गाय परिणमन् सम्पद्यमानो विनयः सौशील्यं केन हेतुना सतां प्रियो न अस्तु ? सम्भावनायां लोट्। सर्वथा विनय एव चतुर्वर्गसाधनम् इत्यर्थः। अतः त्वया न अस्मत्स्वामिशरचौर्य्यंकार्य्यम् इति तात्पर्य्यम्॥४४॥
सर्वथायमनुयाति सायकः।
सोऽयमित्यनुपपन्नसंशयः
कारितस्त्वमपथे पदं यया॥४५॥
अन्यदीयविशिखे न केवलं
निष्पृहस्य भवितव्यमाहृते।
निघ्नतः परनिवर्हितं मृगं
व्रीड़ितव्यमपि ते सचेतसः॥४६॥
अथवा किं भवादृशेषु अन्य सम्भावनया भ्रान्तिरपि सम्भाव्यते इति मृदूक्तिमवलम्ब्याह। नूनमिति। अयम् अस्मदीयः” सायकोऽत्रभवतः पूज्यस्य इत्यर्थः। “पूज्यस्तत्रभवानत्रभवान्” इति सज्जनः। इतराभ्योऽपि दृश्यन्ते इति सार्वविभक्तिकःतसिल्प्रत्ययः, सुप्सुपेति समासः। शराकृतिं सर्वथा रूपेण रेखादिना च सर्वप्रकारेण अनुयाति अत्यन्तम् अनुकरोति इत्यर्थः। नूनम् इति वितर्के। यया आकृत्या कर्त्र्या त्वम् अनुपपन्नमंशयोऽत्यन्तसादृश्यात् अनुत्पन्नस्वान्यदीयत्वसन्देहः सन् सोऽयमिति यः स्वकीयः स एव अयम् इति भ्रान्त्युत्यत्त्या एव इति शेषः। अपथे अमार्गे शरापहरणरूपे पदं कारितः निधापितः इत्यर्थः। “हृक्रोरन्यतरस्याम्” इत्यणिकर्त्तुःकर्मता। “ण्यन्ते कर्त्तुश्च कर्मणः” इति तत्रैव अभिहिते कर्मणि क्तः॥४५॥
पुनरपि स्तेयमेव द्रढ़यन् दोषान्तरम् आपादयति। अन्यदीयेति। सह चेतसा वर्त्तत इति सचेतसो मनस्विनस्ते अन्यदीयविशिखे विषये यदाहृतम् आहरणम्। भावे क्तः। तस्मिन् अन्यदीयविशिखस्य आहरणे इत्यर्थः। निष्पृहस्य केवलं निष्पृहेणैव न भवितव्यं किन्तु परनिवर्हितं परेण प्रहृतं मृगं निघ्नतः
सन्ततं निशमयन्त उत्सुकाः
यैः प्रयान्ति मुदमस्य सूरयः।
कीर्त्तितानि हसितेऽपि तानि यं
व्रीड़यन्ति चरितानि मानिनम्॥४७॥
अन्यदोषमिव स स्वकं गुणं
ख्यापयेत् कथमधृष्टताजड़ः ?।
प्रहरतस्ते निघ्नता त्वया इत्यर्थः। “कृत्यानां कर्त्तरि वा” इति षष्ठीव्रीड़ितव्यं लज्जितव्यम् अपि। भावे तव्यप्रत्ययः। सम्प्रति तु त्वया परविद्धं मृगं विद्ध्वापि न व्रीड्यते प्रत्युत स्तेयञ्च क्रियत इत्याहो महत् साहसम् इत्यर्थः। मृगम् इत्यत्र शेषत्वाविवक्षणात् “जासिनिप्रहरणनाटक्राथपिषां हिंसायाम् इति षष्ठीन भवति शेषाधिकारात्। निप्रहणेत्यत्र निप्रयोः सङ्घा तव्यस्तविपर्य्य स्तानां ग्रहणात्॥४६॥
अथ अस्मिन् कृतघ्नताभियोगं स्वीयोपकारकत्वं वर्णयितुं विकत्थनदोषं तावत् युग्मेन परिहरन् आह। सन्ततमित्यादि। सूरयः विद्वांसः अस्य स्वामिनः सम्बन्धिभिः यैः चरितैः करणभूतैः सन्ततं सततम् उत्सुकाः सोत्कण्ठाः सन्तो निशमयन्तः चरितानि शृण्वन्तः मुदं प्रयान्ति। अत्र चरितानां मुत्प्राप्तौ शाब्दंकरणत्वम् अर्थात् निशमनकर्मत्वम् इति विवेकः। तानि चरितानि हसितेऽपि परिहासेऽपि कीर्त्तितानि परैः उच्चारितानि सन्ति यं मानिनं व्रीड़यन्ति मानित्वात् व्रीड़ा न तु चरितदोषात् तेषाम् अलङ्काररूपत्वात् इति भावः॥४७॥
अन्येति। अधृष्टतया विकत्थनेन शालीनतया जड़ः स्तब्धः
उच्यते स खलु कार्य्यवत्तया
धिग् विभिन्नबुधसेतुमर्थिताम्॥४८॥
युग्मकम्।
दुर्वचं तदथ मा स्म भून्मृगः
त्वय्यसौ यदकरिष्यदोजसा।
नैनमाशु यदि वाहिनीपतिः
प्रत्यपत्स्यत सितेन पत्रिणा॥४९॥
अविकत्थन इत्यर्थः। सोऽस्मत्स्वामी अन्यदोषं परावगुणम् इव स्वकीयं गुणं कथं ख्यापयेत् प्रकटयेत् ? “आत्मप्रशंसां परगर्हामिव वर्जयेत्” इति स्मरणात्। तथापि कार्य्यवत्तया कर्मार्थितया इत्यर्थः स स्वगुणः उच्यते खलु कार्य्यार्थिनः कुतो गर्वः ? इति भावः। निर्विन्न इव आह। धिगिति। विभिन्नबुधसेतुम् अतिक्रान्तसुजनमर्य्यादाम् अर्थितां याचनां धिक् निन्दामि इत्यर्थः। यत् अयमपि इत्थंविकत्थयितुं प्रवृत्त इति भावः। “धिक् निर्भर्त्सननिन्दयोः” इत्यमरः। “अभिसर्वतसोः कार्य्याधिगुपर्थ्यादिषु त्रिषु। द्वितीयाम्रेड़ितान्तेषु ततः अन्यत्रापि दृश्यते॥” इति द्वितीया॥४८॥
सम्प्रति स्वकृतोपकारं दर्शयति। दुर्वचमिति। वाहिनोपतिः सेनापतिः अस्मत्स्वामी शितेन पत्रिणा शरेण एनं मृगम् आशु न प्रत्यपत्स्यत यदि न अभियुञ्जीत चेत् असौ मृगः, ओजसा बलेन त्वयि विषये यत् अकरिष्यत् यत् अनिष्टं कुर्य्यात् तत् दुर्वचं दुर्वाच्यम् अमङ्गलतया वक्तुं न शक्यते। तदनिष्टम् अथ अनन्तरम् अपि मा स्म भूत् इति सौहार्दकथनं तदुपेक्षणे स
को ग्विमं हरितुरङ्गमायुध-
स्थेयसीं दधतमङ्गसंहतिम्।
वेगवत्तरमृते चमूपतेः
हन्तुमर्हति शरेण दंष्ट्रिणम् ?॥५०॥
मित्रमिष्टमुपकारि संशये
मेदिनीपतिरयं तथा च ते।
तं विरोध्य भवता निरासि मा
सज्जनैकवसतिः कृतज्ञता॥५१॥
मृगः त्वां हन्यात् इति भावः। “लिङ्निमित्ते लृङ् क्रियातिपत्तौ” इति करोतेः पद्यतेश्च लृङ्॥४९॥
ननु मयैव हतो मृगो न तु सेनापतिना तत्राह। क इति। हरितुरङ्गमायुधम् इन्द्रायुधं तद्वत् स्थेयसीं स्थिरतराम् अकुण्ठिताम् इत्यर्थः। स्थिरशब्दादियसुन्। “प्रियस्थिर” इत्यादिना स्थादेशः। अङ्गसंहतिम् अवयवसङ्घातं दधतं धारयन्तम्। वेगवत्तरं दुर्वारवेगम् इमं दंष्ट्रिणं वराहं चमूपतेः किरातवाहिनीपतेः ऋते विना। “अन्यारात्” इत्यादिना पञ्चमी। कः नु को वा शरेण एकेन इति भावः। हन्तुम् अर्हति ? न कः अपि इत्यर्थः॥५०॥
अस्तु स एव मृगस्य हन्ता ततः किम् ? अत आह। मित्रमिति। तथाच तस्य एव मृगहन्तृत्वे सति इत्यर्थः। अयं मेदिनीपतिः किरातभूपतिः ते तव संशये प्राणसङ्कटे उपकारि उपकारकारकम् इष्टं मित्रम्। ततोऽपि किम् ? तत्राह। तमिति। तं मित्रभूतं विरोध्य सज्जनैकवसतिः भवादृशसुजनमात्राधारा कृतज्ञता उपकारवेदित्वं मा निरासि न निराक्रियतां
लभ्यमेकमुकृतेन दुर्लभाः
रक्षितारमसुरक्ष्यभूतयः।
स्वन्तमन्तविरसा जिगीषतां
मित्रलाभमनु लाभसम्पदः॥५२॥
चञ्चलं वसु नितान्तमुन्नताः
मेदिनीमपि हरन्त्यरातयः।
भूधरस्थिरमुपेयमागतं
मावमंस्त सुहृदं महीपतिम्॥५३॥
भवता। अन्यथा जगति कृतज्ञत्वम् अस्तं यायात् कृतघ्नता च तेभवेत् इत्यर्थः। अस्यतेःकर्म्मण्याशिषि माङि लुङ्॥५१॥
ननु सर्वस्य अर्थमूलत्वात् स एवास्तु किं मित्रेण ? इत्याशङ्क्य मित्रस्य सर्वाधिक्यं युग्मेनाह। लभ्यमिति। जिगीषतां जेतुमिच्छताम्। जयतेःसन्नन्तात् शतृप्रत्ययः। दुर्लभाः कृच्छ्रेण अपि लब्धुम् अशक्याः तथापि असुरक्ष्यभूतयः रक्षितुम् अशक्यमहिमानः। नित्यं रक्षणादिक्लेशवहाश्च इति भावः। अन्तविरसा गत्वर्य्यइत्यर्थः। लभ्यन्ते इति लाभाः अर्थाः तेषां सम्पदः। एकसुकृतेन एकोपकारेण लभ्यं सुलभं न तु दुर्लभं रक्षितारं न तु रक्ष्यं स्वन्तं शुभावसानं न त्वन्तविरसं मित्रलाभम् अनुमित्रलाभात् हीनाः निकृष्टा इत्यर्थः। हीन इत्यनोः कर्मप्रवचनीयसंज्ञा तद्योगे द्वितीया। अत्र उपमेयस्य मित्रलाभस्य लाभान्तरं प्रति आधिक्याभिधानाद्व्यतिरेकालङ्कारः॥५२॥
चञ्चलमिति। किं च वसु धनं नितान्तं चञ्चलं मेदिनीमपि उन्नताः प्रबलाः अरातयो हरन्ति। मित्रं तु न तथा
जेतुमेव भवता तपस्यते
नायुधानि दधते मुमुक्षवः।
प्राप्स्यते च सकलं महीभृता
सङ्गतेन तपसः फलं त्वया॥५४॥
वाजिभूमिरिभराजकाननं
सन्ति रत्ननिचयाश्च भूरिशः।
काञ्चनेन किमिवास्य पत्रिणा
केवलं न सहते विलङ्घनम्॥५५॥
इत्याह। भृधर इति। भूधरवत् स्थिरमुपेयम् अन्विष्य गन्तव्यम् आगतं स्वतःप्राप्तम् अपि महीपात सर्वधुरीणम् इत्यर्थः। सुहृदं मित्रं मावमंस्वमावज्ञासीत्। भवानिति शेषः। अन्यशोकगतोभवच्छब्दो विभक्तिपरिणामेण अत्र द्रष्टव्यः। अन्यथा मध्यमपुरुषः स्यात्। मन्यतेः कर्त्तरि माङि लुङ्। अलङ्गारस्तु व्यतिरेक एव भूधरस्थिरम् इति उपमासङ्गतिसङ्करः॥५३॥
ननु मुमुक्षोः किं मित्रसंग्रहेण ? तत्राह। जेतुमिति। भवता जेतुंजयार्थम् एव तपस्यते तपश्चर्य्यते। “कर्मणो रोमन्थ” इत्यादिना चरणेक्यङ् ततो भावे लट्। कुतः ? मुमुक्षवः मोक्षार्थिनः आयुधानि न दधते न धारयन्ति। अतः मित्रसंग्रहः कार्य्य इति भावः। तथापि किं भवत्स्वामीसख्य न ? तत्राह। प्राप्स्यत इति। महीभृता सह सङ्गतेन त्वया सकलञ्च तपसः फल प्राप्स्यते अतः ते सखा अस्मत्स्वामी युक्त इत्यर्थः॥५४॥
ननुः अकिञ्चनः कुत्रोपयुज्यते? तत्राह। वाजीति। तस्य भूपतेः वाजिभूमिः अश्वाकरः इभराजानां काननं गजोत्पत्ति-
सावलेपमुपलिप्सिते परैः
अभ्युपैति विकृतिं रजस्यपि।
अर्थितस्तु न महान् समीहते
जीवितं किमु धनं धनायितुम्॥५६॥
तत्तदीयविशिखातिसर्जनात्
अस्तु वां गुरु यदृच्छयागतम्।
स्थानं भूरिशो रत्ननिचयाश्च सन्तीति शेषः। ननु ईदृगाढ्यःकिम् एकस्मै काञ्चनपत्रकाण्डाय कलहायते ? तत्राह। अस्य काञ्चनेन सौवर्णेन पत्रिणा शरण किम् इव ? न किञ्चित् प्रयोजनम् अस्तीत्यर्थः। परन्तु केवलं विलङ्घनं व्यतिक्रमं न महते। नायं शरलुब्धः किन्तु अधिक्षेपासहिष्णुः इत्यर्थः। अत्र प्रथमार्द्धे समृद्धिमद्वस्तुवर्णनात् उदात्तालङ्कारः॥५५॥
ननु ईदृग्लुब्धः किम् उपकर्त्ता? तत्राह। सावलेपमिति। महान् स रजसि अपि धूलौ अपि परैः सावलेपं सगर्वम् उपलिप्सिते उपलब्धुमिष्टे जिघृक्षिते सति विकृतिम् अभ्युपैति प्रकुप्यति इत्यर्थः। अर्थितो याचितस्तु जीवितं धनायितुं धनीकर्त्तुम्। क्यजन्तात्तुमुन्। न समीहते न उत्सहते जीवितमपि आत्मनो न इच्छति किन्तु अर्थितः प्रयच्छति इत्यर्थः। तर्हि धनं किम् ? धनम् आत्मन एषितुं धनायितुम् इति विग्रहः। अव इच्छामात्रमर्थः अन्यथा धनम् इत्यनेन पौनरुक्त्यं स्यात्। सुप आत्मनः क्यच्। अशनायोदन्यधनाया बुभुक्षापिपासागर्द्धेषु” इति निपातनादाकारः॥५६॥
उक्तं निगमयति। तदिति। तत् तस्मात् तदीयविशिखस्य अतिसर्जनात् प्रत्यर्पणात् वां युवयोः। “षष्ठीचतुर्थीद्वितीया-
राघवप्लवगराजयोरिव
प्रेम युक्तमितरेतराश्रयम्॥५७॥
नाभियोक्तुमनृतं त्वमिष्यसे
कस्तपखिविशिखेषु चादरः ?।
सन्ति भूभृति शरा हि नः परे
ये पराक्रमवसूनि वज्रिणः॥५८॥
मार्गणैरथ तव प्रयोजनं
नाधसे किमु पतिं न भूभृतः ?।
स्थयोर्वांनौ” इति वामादेशः। राघवप्लवगराजयोः रामसुग्रीवयोः इव यदृच्छया दैवात् आगतं गुरु महत् युक्तमनुरूपम् इतरेतराश्रयम् अन्योन्यविषयं प्रेम सख्यम् अस्तु॥५७॥
ननु शरलोभात् मिथ्याभियुज्यसे ? इत्याह। नेति। त्वमनृतं मिथ्या अभियोक्तुम् अभ्याख्यातुम्। ब्रूञोऽर्थग्रहणाद् द्विकर्मकता। “मिथ्याभियोगोऽभ्याख्यानम्” इत्यमरः। अस्माभिः इति शेषः। न इष्यसे न इष्टोऽसि कुतः तपस्वी मुनिः शोच्यश्च “मुनिशोच्यौ तपस्विनौ” इति शाश्वतः। तस्य विशिखेषु कः आदरः का आस्था न काचित् इत्यर्थः। हि यस्मात् नोऽस्माकं भूभृति शैले परेऽन्येऽपि शराः सन्ति ये शरा वज्रिणः शक्रस्य पराक्रमवसूनि पराक्रमधनानि शौर्य्यसर्वस्वभूता इत्यर्थः। वज्रिग्रहणात् वज्रादपि अतिरिक्ता इति सूच्यते। अत्र शरेषु पराक्रमसाधनेषु पराक्रमरूपेण वस्तु व्यज्यते॥५८॥
अथ ते शरापेक्षा चेत् तर्हि तथा उच्चतामित्याह। मार्गणैरिति। अथ उत तव मार्गणैः शरैः प्रयोजनं कृत्यं तर्हि भूभृतो गिरेः पतिं प्रभुं किमु न नाधसे ? किम् इति न
त्वद्विधं सुहृदमेत्य सोऽर्थिनं
किं न यच्छति विजित्य मेदिनीम् ?॥५९॥
तेन सूरिरुपकारिताधनः
कर्त्तुमिच्छति न याचितं वृथा।
सीदतामनुभवन्निवार्थिनां
वेद यत् प्रणयभङ्गवेदनाम्॥६०॥
शक्तिरर्थपतिषु स्वयङ्ग्रहं
प्रेम कारयति वा निरत्ययम्।
याचमे। “नाधृ नाथृ याच्ञोपतापैश्वर्य्याशीःषु” इति धातोर्लेट्। न च याच्ञाभङ्गशङ्का कार्य्येत्याह त्वदिति। सोऽस्मत्स्वामी तवेव विधा प्रकारो यस्य तं त्वद्विधं तादृशं महानुभावम् इत्यर्थः। तथापि सुहृदं मित्रभूतम् अर्थिनम् एत्यलब्ध्वा मेदिनीं विजित्य न यच्छति ? न ददाति कि ? किन्तु दास्यति एव किं पुनः शरानिति भावः॥५९॥
यदुक्तम् “त्वद्विधम्” इत्यादि तत्र उपपत्तिमाह। तेनेति। तेन कारणेन सूरिः विद्वान् अत एव उपकारिताधनः उपकारकत्वमात्रधनः। स किरातभूपतिः। याचित याच्ञां वृथा व्ययं कर्त्तुं न इच्छति। कुतः ? यत् येन कारणेन सीदतां क्लिश्यताम् अर्थिनां प्रणयभङ्गवेदनां याच्ञाभङ्गदुःखं स्वयम् अनुभवन् इव वेद वेत्ति अतो न वैफल्यशङ्का कार्य्या इत्यर्थः॥६०॥
ननु स्वयङ्ग्राहिणः किं याच्ञादैन्यं तत्राह। शक्तिरिति। अर्थपतिषु विषये शक्तिः सामर्थ्यं स्वयङ्ग्रहं स्वाम्यनुज्ञां विना ग्रहणं कारयति यद्वा निरत्ययम् अपराधेऽपि अविकारि प्रेमं कर्त्तुं स्वयङ्ग्रहं कारयति प्रबलः प्रियो वा परस्य धनं स्वयं
कारणद्वयमिदं निरस्यतः
प्रार्थनाधिकबले विपत्फला॥६१॥
अस्त्रवेदमधिगम्य तत्त्वतः
कस्य चेह भुजवीर्य्यशालिनः।
जामदग्न्यमपहाय गीयते
तापसेषु चरितार्थमायुधम् ?॥६२॥
अभ्यघानि मुनिचापलात् त्वया
यन्मृगः क्षितिपतेः परिग्रहः।
गृह्णातीत्यर्थः। अन्यथा दोषमाह। इदं पूर्वोक्त कारणद्वयं निरस्यतः त्यजतः पुंस इति शेषः। अधिकबले प्रबले विषये प्रार्थना तद्धनजिघृक्षा विपत्फला अनर्थफलिका अशक्तस्य अप्रियस्य सतः प्रबलधनग्रहणाशा फणिशिरोमणिग्रहणसाहसवत् अनर्थाय कल्पत इत्यर्थः॥६१॥
अथ शस्त्रार्थसम्पत्त्या शक्तत्वाभिमानः तत्राह। अस्तवेदमिति। इह जगति तापसेषु तपस्विनां मध्ये । “यतश्च निर्धारणम्” इति सप्तमी। जमदग्नेःअपत्यं पुमान् जामदग्न्यः। “गर्गादिभ्यो यञ्” तम् अपहाय परशुरामं विना इत्यर्थः। अस्त्रवेदं तत्त्वतोऽधिगम्य भुजवीर्य्येण शालते इति भुजवीर्य्यशालिनः। उभयसम्पन्नस्य इत्यर्थः। शालनक्रियापेक्षया समानकर्त्तृकत्वात् क्त्वानिर्देशः। कस्य वा आयुधं चरितः प्राप्तोऽर्थो येन तच्चरितार्थं सार्थकं गीयते ? न कस्यापि इत्यर्थः। अतः तव अपि तापसत्वात् अकिञ्चित्करस्य तेन सह सख्यमेव मुख्यमिति भावः॥६२॥
ननु युष्मन्मृगबधशरहणाभ्यां द्रोहिणो मम तेन कथं सख्यं
अक्षमिष्ट तदयं प्रमाद्यतां
संवृणोति खलु दोषमज्ञता॥६३॥
जन्मवेषतपसां विरोधिनीं
मा कृथाः पुनरमूमपक्रियाम्।
आपदेत्युभयलोकदूषणौ
वर्त्तमानमपथे हि दुर्मतिम्॥६४॥
स्यात् ? इत्याशङ्क्य सत्यं तथापि तावत् मृगबधापराधः क्षमिष्यत इत्याह। अभ्यघानोति। त्वया मुनिचापलात् ब्राह्मणचापल्यात् इत्यर्थः। क्षितिपतेः अस्मत्स्वामिनः परिगृह्यत इति परिग्रहः तेन स्वीकृत इत्यर्थः। “परिग्रहः परिजने पत्न्यां स्वीकारमूलयोः” इति विश्वः। यत् मृगो अभ्यघानि अभिहत इति। हन्तेः कर्मणि लुङ्। तद्धननम् अयं अस्मत्स्वामी अक्षमिष्ट सोढ़वान् एव। तथाहि प्रमाद्यताम् अविमृष्यकारिणाम् इत्यर्थः। दोषम् अपराधम् अज्ञता अज्ञानिता संवृणोति आच्छादयति। न अज्ञस्य अपराधो गण्यत इत्यर्थः॥६३॥
अथ सुहृद्भावेन हितम् उपदिशति। जन्मेति। जन्म सत्कुले प्रसूतिः वेषो जटावल्कलादिः तपो नियमः तेषां विरोधिनीं विरुद्धाम् अमूम् एवंविधाम् अपक्रियाम् अपकारं पुनः इतः परमित्यर्थः। मा कृथाः मा कुरु। करोतेः कर्त्तरि माङिलुङ्। “वयोवृद्ध्यर्थवाग्वेषश्रुताभिनयकर्मणाम्। आचरेत् सदृशीं वृत्तिमजिह्मामशठां तथा।” इति स्मरणात्। उक्तवैपरीत्ये दोषमाह। आपदिति। हि यस्मात् अपथे वर्त्तमानं दुर्मतिं पुरुषम् इति शेषः। उभौ लोकौदूषयति हन्तीति उभयलोकदूषणी। “तद्धितार्थ” इत्यादिना उत्तरपदसमासः। आपत्
यष्टुमिच्छसि पितृृन् न साम्प्रतं
संवृतोऽर्चिचयिषुर्दिवीकसः।
दातुमेव पदवीमपि क्षमः
किं मृगेऽङ्ग विशिखं न्यवीविशः॥६५॥
**सज्जनोऽसि विजहोहि चापलं
सर्वदा क इव वा सहिष्यते। **
एति प्राप्नोति। समासविषये उभशब्दस्थाने उभयशब्दप्रयोग एव साधुः। यदाह कैयटः—“उभादुदात्तो नित्यमिति नित्यग्रहणस्येदं प्रयोजनं वृत्तिविषये उभशब्दस्य प्रयोगो मा भूत्। उभशब्दस्यैव रूपं यथा स्यादित्युभयत्रेत्यादि भवति” इति॥६४॥
यदुक्तम् “अभ्यघानि” इति तदेव स्फुटयति। यष्टुमिति। साम्प्रतं सम्प्रति। “सम्प्रतीदानीमधुना साम्प्रतं तथा” इत्यमरः। पितॄन् कव्यादान् यष्टुम् अर्चयितुं न इच्छसि यतः संवृतः एकान्तेस्थितः। तथा दिवौकसः देवान् अर्चिचयिषुः अपि अर्चयितुम् इच्छुरपि नासि। अतो न पित्रर्थे इयं हिंसा न अपि देवतार्था तदाराधने तद्विहितत्वात् इति भावः। अथ “सर्वत आत्मानं गोपायीत” इति श्रुतेः आत्मरक्षार्थम् इति चेत् न इत्याह। दातुमिति। अङ्ग हे पदवीं मार्गंदातुमेव न तु हन्तुं मुनित्वात् इति भावः। क्षमोऽपि योग्यः सन् अपि। किं किमर्थं मृगे विशिखं न्यवीविशः निवेशितवान्। विशतेर्ण्यन्ताल्लुङ्। अभिधावतो मृगात् अपसरणेनैव आत्मरक्षणे कर्त्तव्ये यदबधीः तत् चापलमेव। “मा हिंस्यात् सर्वभूतानि” इति श्रुतिनिषेधात् इति भावः॥६५॥
किं बहुना परमार्थः श्रूयतामित्याह। सज्जन इति।
वारिधीनिव युगान्तवायवः
क्षोभयन्त्यनिभृता गुरूनपि॥६६॥
अस्त्रवेदविदयं महीपतिः
पर्वतीय इति मावजीगणः।
गोपितुं भुवमिमां मरुत्वता
शैलवासमनुनीय लम्भितः॥६७॥
सज्जनोऽसि अत एव चापलं चपलस्य कर्म विजहोहि त्यज। जहातेर्लोट्। “आ च हौ” इतीकारः। सर्वदा क इव वा को वा सहिष्यते। इवशब्दो वाक्यालङ्कारे। वाशब्दोऽवधारणे। असहने कारणमाह। वारिधीनिति। अनिभृताः चपलाः पुनः अकार्य्यकारिणो गुरून् धैर्य्ययुक्तान् अपि युगान्तवायवः प्रलयपवनाः गुरून् विशालान् अपि वारिधीनिव समुद्रानिव क्षोभयन्ति। उपमानुप्राणितोऽयमर्थान्तरन्यासः॥६६॥
नन्वयं किरातः क्षुभितः किं करिष्यति ? तत्राह। अस्त्रेति अयं महीपतिः अस्त्रवेदवित् निग्रहानुग्रहसमर्थ इति भावः। अतः पर्वते भवः पर्वतीयः। “पर्वताच्च” इति छप्रत्ययः। इति हेतोः मावजीगणः वनेचरबुद्ध्या मावज्ञासीरित्यर्थः। गणयतेर्माङि लुङ्। “ई च गणः” इतीकारः। ननु ईदृशश्चेत् किमिह वने वससि ? तत्राह। गोपितुमिति। मरुत्वता इन्द्रेण इमां भुवं गोपितुं रक्षितुम्। “आयादय आर्द्धधातुके वा” इति विकल्पात्” “गुपुधूप इत्यादिना न आयप्रत्ययः। अनुनीय प्रार्थ्यंशैलवासं लम्भितः प्रापितः। “ण्यन्ते कर्त्तुश्च कर्मणः” इति वचनादणिकर्त्तृकर्मणि क्तः। “गतिबुद्धि” इत्यादिना अणिकर्त्तुःकर्मत्वम्॥६७॥
तत्तितिक्षितमिदं मया मुनेः
इत्यवोचत वचश्चमूपतिः।
बाणमत्रभवते निजं दिशन्
आप्नुहि त्वमपि सर्वसम्पदः॥६८॥
आत्मनीनमुपतिष्ठते गुणाः
सम्भवन्ति विरमन्ति चापदः।
इत्यनेकफलभाजि मा स्म भूत्
अर्थिता कथमिवार्य्यसङ्गमे॥६९॥
दृश्यतामयमनोकहान्तरे
उपसंहरति। तदिति। तत् तस्मात् मुनिचापलात् मुनेःसम्बन्धि इदं मृगबधरूपं मया तितिक्षितं सोढम् इति वचः चमूपतिः अवोचत। शरद्रोहस्य प्रत्यर्पणमेव प्रतीकार इत्याह। अत्रभवते पूज्याय स्वामिने। अत्रभवान् व्याख्यातः निजं बाणं नदीयमेव शरं दिशन् प्रत्यर्पयन् त्वमपि सर्वसम्पदः आप्नुहि सख्येन इति भावः॥६८॥
ननु मह्यमेतम् सख्यमेव न रोचते किं पुनः तन्मूलाः सम्पदः ? तत्राह। आत्मनीनमिति। आत्मने हितम् आत्मनीनम्। “आत्मन् विश्वजनभोगोत्तरपदात् खः” उपतिष्ठते सङ्गच्छते। “उपाद्देवपूजा सङ्गतिकरणमित्रकरणपथिषु” इति वक्तव्यात् आत्मनेपदम्। गुणाः विनयादयः सम्भवन्ति आपदश्च विरमन्ति। “व्याङ्परिभ्यो रमः” इति परस्मैपदम्। इति अनेकफलभाजि आर्य्यसङ्गमे साधुसङ्गतौ अर्थिता अपेक्षा कथमिव मा स्म भूत् ? सर्वदा भवत्येव॥६९॥
तिग्महेतिपृतनाभिरन्वितः।
साहिवीचिरिव सिन्धुरुद्धतः
भूपतिः समयसेतुवारितः॥७०॥
सज्यं धनुर्वहति योऽहिपतिस्थवीयः
स्थेयान् जयन् हरितुरङ्गमकेतुलक्ष्मीम्।
अस्यानुकूलय मतिं मतिमन्ननेन।
सख्या मुखं समभियास्यसि चिन्तितानि॥७१॥
इति किरातार्जुनीयं दूतवाक्यं नाम
त्रयोदशः सर्गः॥१३॥
न च अयं दूरे वर्त्तते इत्याह। दृश्यतामिति। तिग्महेतिभिः तीक्ष्णायुधाभिः। “हेतिर्ज्वालास्त्रसूर्य्यााशुषु” इति हेमचन्द्रः। पृतनाभिः वाहिनीभिः “वाहिनी पृतना चमूः” इत्यमरः। अन्वितः भूपतिः। सहायः ससर्पाः वीचयो यस्य स सिन्धुः सुमुद्र इव उद्धतः किन्तु समयो मर्य्यादा सेतुरिव स समयसेतुः तेन वारितः सन्। हस्तेन निदिर्शन् आह। अयमनोकहान्तरे द्रुमान्तर्धानं वर्त्तत इति शेषः। दृश्यताम्। “अनोकहः कुटः शान्तःपलाशीद्रुद्रुमागमाः” इत्यमरः॥७०॥
अथ अस्य विज्ञापनमेव आह। सज्यमिति। स्थेयान् स्थिरतरः। “प्रियस्थिर” इत्यादिना स्थादेशः। यः चमूपतिः हरितुरङ्गमकेतोःइन्द्रध्वजस्य लक्ष्मीं शोभां जयन् अहिपतिः शेषः इव स्थवीयः स्थूलतरम् “स्थूलदूर” इत्यादिना पूर्वगुणयणादिपरलोपौ। सह ज्यया सज्यं धनुः वहति। हे मतिमन् ! अस्य चमूपतेः मतिम् अनुकूलय अनुकूलां कुरु सख्यं कुर्वित्यर्थः।
चतुर्दशः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730092704Screenshot2024-10-28104810.png"/>
ततः किरातस्य वचोभिरुद्धतैः
पराहतः शैल इवार्णवाम्बुभिः।
जहौ न धैर्य्यंकुपितोऽपि पाण्डवः
सुदुर्ग्रहान्तकरणा हि साधवः॥१॥
सलेशमुल्लिङ्गितशात्रवेङ्गितः
कृतीगिरां विस्तरतत्त्वसंग्रहे।
अयं प्रमाणीकृतकालसाधनः
प्रशान्तसंरम्भ इवाददे वचः॥२॥
मतिमत्तायाः फलम् एतदिति भावः। कुतः ? सख्या अनेन चमूपतिना हेतुना सुखम् अक्लेशेन चिन्तितानि मनोरथान् समभियास्यसि प्राप्स्यसि। वसन्ततिलकावृत्तम्॥७१॥
इति किरातार्जुनीये त्रयोदशसर्गव्याख्या समाप्ता।
<MISSING_FIG href="../books_images/U-IMG-1730092854Screenshot2024-07-18063849.png"/>
तत इति। ततः किरातवाक्यानन्तरम् उद्धतैः प्रगल्भैःकिरातस्य वचोभिः अर्णवाम्बुभिः शैल इव पराहतोऽभिहत अत एव कुपितोऽपि पाण्डवः धैर्य्यं निर्विकारचित्तत्वं न जहौन तत्याज।उत्पन्नमपि कोपं स्तम्भयामास इत्यर्थः। तथाहि माधवः सज्जनाः सदुर्ग्रहं सुष्ठु दुरासदम् अप्रतिकुप्यमन्तःकरणं येषां ते सुदुर्ग्रहान्तःकरणा हि। अर्थान्तरन्यासः॥१॥
सलेशमिति। सह लेशैः सलेशं सकलं यथा तथा उल्लिङ्गितम् उद्भूतलिङ्गं कृतं लिङ्गैः ; तद्वाक्यमङ्गिभिः एव सम्यगव-
विविक्तवर्णाभरणा सुखश्रुतिः
प्रसादयन्तीहृदयान्यपि द्विषाम्।
प्रवर्त्तते नाकृतपुण्यकर्मणां
प्रसन्नगम्भीरपदा सरस्वती॥३॥
गतम् इत्यर्थः। शत्रुरेव शात्रवः। स्वार्थे अण्प्रत्ययः। तस्य इङ्गितम् अभिप्रायः तदुल्लिङ्गितं येन सः। गिरां वाचां सम्बन्धिनि विस्तरे तत्त्वसंग्रहे अर्थसङ्क्षेपे। वैभाषिको द्वन्दैकवद्भावः। कृती कुशलः प्रमाणीकृतं प्रधानीकृतं काल एव साधनं येन सः अवसरोचितं विवक्षुः इत्यर्थः। अयं पाण्डवः प्रशान्तसंरम्भः सङ्क्षोभरहित इव वचः आददे उवाच इत्यर्थः॥२॥
मान्त्वपूर्वकमेवाह। विविक्तेति। विविक्ताः संयोगादिना आश्लिष्टाः स्फुटोच्चारिता वर्णाः अक्षराणि एव आभरणानि यस्याः सा अन्यत्र तु विविक्तानि शुद्धानि वर्णःरूपम् आभरणानि च यस्याः सा। “वर्णो द्विजादौशुक्लादौ स्तुतौवर्णं तु वाक्षरे” इत्युभयत्रापि अमरः। सुखा श्रुतिः श्रवणं यस्याः सा सुखश्रुतिः श्राव्या इत्यर्थः। अन्यत्र श्रूयते इति श्रुतिः वाक् सासुखा यस्याः सा मञ्जु भाषिणीत्यर्थः द्विषामपि हृदयानि प्रसादयन्तीकिं पुनः सुहृदामिति भावः। प्रसन्नानि वाचकानि गम्भीराणि अर्थगुरुणि च पदानि सुप्तिङन्तरूपाणि यस्याः सा। अन्यत्र तु प्रसन्ना विमला गम्भीरपदा अलसचरणसरस्वती वाक्। “गौर्वाग्वाणी सरस्वती” इत्यमरः। न कृतं पुण्यकर्मं यैः तेषःन प्रवर्त्तते न प्रसरति किन्तु सुकृतिनामेव इत्यर्थः। भवद्वाणीच एवंविधेति धन्यः भवान् इति भावः। अत्र काचित् नायिका वाग्देवता च प्रतीयते। तत्रादौ समासोक्तिरलङ्कारः विशेषणसाम्येन अप्रस्तुतप्रतीतेः अतएव न श्लेषः॥३॥
भवन्ति ते सभ्यतमा विपश्चितां
मनोगतं वाचि निवेशयन्ति ये।
नयन्ति तेष्वप्युपन्ननैपुणा
गभीरमर्थं कतिचित् प्रकाशताम्॥४॥
स्तुवन्ति गुर्वीमभिधेयसम्पदं
विशुद्धिमुक्तेरपरे विपश्चितः।
इति स्थितायां प्रतिपूरुषंरुचौ
सुदुर्लभाः सर्वमनोरमा गिरः॥५॥
भवन्तीति।ते पुरुषाः विपश्चितां विदुषाम्। “विद्वान् विपश्चिद्दोषज्ञ” इत्यमरः। मध्ये सभ्यतमाः सभायां साधुतमा निपुणतमाः।“साधुः समर्थों निपुणश्च” इति काशिकायाम्। भवन्ति ये मनोगतं मनसा गृहीतमर्थं वाचि निवेशयन्ति वाचा उद्गिरन्तीत्यर्थः। तेषु वक्तषु अपि उपपन्ननैपुणाः सम्भा वितकौशलाः कतिचित् एव गभीरं निगूढ़म् अर्थं प्रकाशतां स्फुटतां नयन्ति। लोके तावत् ज्ञातार एव दुर्लभा तत्रापि वक्तारः तत्रापि निगूढ़ार्थप्रकाशकाः त्वयि सर्वम् अस्ति इति स्तुतिः। वनेचरवाक्यरहस्य’ ज्ञातम् इति स्वयमपि तादृश एक इति हृदयम्॥४॥
स्तुवन्तीति। किञ्च केचित् गुर्वीम् अभिधेयसम्पदम् अर्थसम्पत्तिम् स्तुवन्ति। अपरे विपश्चितः उक्तेःशब्दस्य विशुद्धिं सामर्थ्यं स्तुवन्ति। इति प्रतिपूरुषं रुचौप्रीतौस्थितायां सर्वमनोरमाः सर्वेषां शब्दार्थरुचीनां पुंसां मनोरमा गिरः सुदुलभाः। त्वद्गिरस्तु सर्वमनोरमा उक्तसर्वगुणसम्पत्त्या इति भावः॥५॥
समस्यसम्पादयता गुणेरिमां
त्वया समारोपितभार ! भारतीम्।
प्रगल्ममात्मा धुरि धुर्य्य! वाग्मिनां
वनेचरेणापि सताधिरोपितः॥६॥
प्रयुज्य सामाचरितं विलोभनं
भयं विभेदाय धियः प्रदर्शितम्।
तथाभियुक्तञ्च शिलीमुखार्थिना
यथेतरन्न्याय्यमिवावभासते॥७॥
नमस्येति। धुरं वहतीति धुर्य्यःतत्सम्बोधने हे धुर्य्य! हे कार्य्यनिर्वाहक ! “धुरो यड्ढकौ” इति यत्प्रत्ययः। अत एव समारोपितभार ! स्वामिना निहितसन्ध्यादिकार्य्यभार है। तदाह मनुः—“दूते सन्धिविपर्य्ययौ” इति। इमां शान्तताविनययोगीत्यादिकां भारतीं वाचं गुणैः विविक्तवर्णत्वादिभिः समस्य संयोज्य प्रगल्भं निर्भीक यथा तथा सम्पादयता रचयता व्याहरता इत्यर्थः। त्वया वनेचरेण अपीत्यर्थः। सता अपिशब्दो विरोधद्योतनार्थम्। आत्मा स्वयं वाग्मिनां वाचोयुक्तिपटूनाम्। “वाचोयुक्तिपटुर्वाग्मी” इत्यमरः। “वाचो ग्मिनिः” इति मत्वर्थीयो ग्मिनिप्रत्ययः। धुर्य्यग्रेऽधिरोपितः आस्थापित इत्यर्थः। “रुहः पोऽन्यतरस्याम्” इति पकारः। अत्र मनुः—“वपुष्मान् वीतभीर्वाग्मी दूतो राज्ञः प्रशस्यते” इति॥६॥
वाग्मितामेवाह। प्रयुज्येति। शान्तता विनययोगीत्यादिना साम सान्त्वम्। “साम सान्त्वमुभे समे” इत्यमरः। प्रयुज्य नियुज्य विलोभनं प्रलोभनम् “मित्रमिष्टम्” इत्यादिना
विरोधि सिद्धेरिति कर्त्तुमुद्यतः
स वारितः किं भवता न भूपतिः ?।
हिते नियोज्यः खलु भूतिमिच्छता
सहार्थनाशेन नृपोऽनुजीविना॥८॥
ध्रुवं प्रणाशः प्रहितस्य पत्रिणः
शिलोच्चये तस्य विमार्गणं नयः।
आचरितं सम्पादितम्। तथा धियो बुद्धेर्विभेदाय व्यामोहनार्थम् “शक्तिरर्थपतिषु” इत्यादिना भयं प्रदर्शितम्। किं च शिलामुखार्थिना न तु न्यायार्थिना इति भावः। त्वया इति शेषः। “नाभियोक्तुम्” इत्यादिना तथा अभियुक्तं कथितं यथा इतरत् न्यायादन्यत् अन्याय्यम् ईत्यर्थः। न्याय्यं न्यायात् अनपेतमिव अवभासते इति उपमा। अनेन वाग्मिनाम् अग्रसरोऽसि इति भावः॥७॥
ततः किमत आह। विरोधीति। किन्तु सिद्धेःफलस्य विरोधि विघातकम् इति इदम् अस्मदास्कन्दनरूपं कर्म्म कर्त्तुम् उद्यतः स भूपतिः महीपतिः भवता धुर्य्येण इति भावः। किं न वारितो निवर्त्तितः। निवारणे हेतुमाह। भूतिमिच्छता इहामुत्र च श्रेयोऽर्थिना सह सहचरितौ अर्थनाशौ स्वार्थानर्थौयस्य तेन सह अर्थनाशेन समानसुखदुःखेन इत्यर्थः। अनुजीविना भृत्येन नृपः स्वामी हिते नियोज्यो नियम्यः खलु। अन्यथा स्वामिद्रोहपातकीश्रेयसो भ्रष्टः स्यात् इति भावः॥८॥
तर्हि नो बाणः क्व गतः किमत्र वा न्याय्यं तत्राह। ध्रुवमिति। प्रहितस्य प्रयुक्तस्य पत्रिणः शरस्य प्रणाशोऽदर्शनं ध्रुवं निश्चितम्। प्रहितश्चेत् इति भावः तस्य नष्टस्य पत्रिणः शिलो-
न युक्तमत्रार्य्यजनातिलङ्घनं
दिशत्यपायं हि सतामतिक्रमः॥९॥
अतीतसंख्या विहिता ममाग्निना
शिलोमुखाः खाण्डवमत्तुमिच्छता।
अनादृतस्यामरसायकेष्वपि
स्थिता कथं शैलजनाशुगे धृतिः ?॥१०॥
यदि प्रमाणीकृतमार्य्यचेष्टितं
किमित्यदोषेण तिरस्कृता वयम् ?।
च्चये शैले। “अद्रिगोत्रगिरिग्रावाचलशैलशिलोच्चयाः” इत्यमरः। विमार्गणम् अन्वीक्षणं नयो न्याय्यः। “अभीक्षणं विचयनं मार्गणं मृगणा नृगः” इत्यमरः। अत्र विषये आर्य्यजनातिलङ्घनं सज्जनव्यतिक्रमो न युक्तम् हि यस्मात् कारणात् मताम् अतिक्रमोऽपायम् अनर्थं दिशति ददाति॥९॥
यदुक्तम् “हर्त्तुमर्हसि” इति तत्र उत्तरमाह। अतीतेति खाण्डवम् इन्द्रवनम् अत्तुं भक्षयितुम् इच्छता अग्निना सम अतीतसङ्ख्या असङ्ख्याः शिलीमुखाः शराः विहिताः दत्ताः खाण्डवदाहे अक्षयतूणीरदानमुक्तं भारते। अतः अमरमायकेषु अपि अनादृतस्य आदररहितस्य। भावे क्तः ततः नञा बहुव्रीहिः। मम कथं शैलजनाशुगे किरातबाणे धृतिः आस्या स्थिता ? न कथञ्चित् इत्यर्थः। अतो न अपहारशङ्काकार्य्याइत्यर्थः ॥१०॥
यदुक्तम् “स्मर्य्यते तनुमृताम्” इत्यादिना सदाचारः प्रमाणम् इति तत्रोत्तरमाह। यदीति। आर्य्यचेष्टितं सच्चरितं प्रमाणीकृतं यदि साधुत्वेन अङ्गीकृतं यदि इत्यर्थः। तर्हि अदो
अयातपूर्वा परिवादगोचरं
सतां हि वाणी गुणमेव भाषते॥११॥
गुणापवादेन तदन्यरोपणात्
भृशाधिरूढ़स्य समञ्जसं जनम्।
द्विधेव कृत्वा हृदयं निगूहतः
स्फुरन्नसाधोर्विवृणोति वागसिः॥१२॥
वनाश्रयाः कस्य मृगाः परिग्रहाः ?
षेण दोषाभावेऽपि। “क्वचित्प्रसज्यप्रतिषेधेऽपि नञ्समासः” इति भाष्यकारः। उपलक्षणे तृतीया। वयं किम् इति तिरस्कृताः न युक्तम् इत्यर्थः। हि यस्मात् परिवादगोचरं परनिन्दास्पदम् अयातपूर्वा सतां वाणी गुणमेव भाषते न दोषं अतः तेमृषादोषभाषिणो न सदाचारप्रामाण्यबुद्धिः इति भावः। पूर्वं न याता इति अयातपूर्वा। सुप्सुपेति समासः। परत्वात् सर्वनाम्नो निष्ठायाः पूर्वनिपातः। “स्त्रियाः पुंवत्” इत्यादिना पुंवद्भावः पूर्वलिङ्गता च। अर्थान्तरन्यासः॥११॥
ननु अप्रत्यक्षा परबुद्धिः कथं दुष्टा इति निश्चीयते तत्राह। गुणेति। गुणापवादेन विद्यमानगुणापह्नवेन तदन्यरोपणात् तस्मात् गुणात् अन्यस्य दोषस्य अविद्यमानस्य एव आरोपणात् च समञ्जसं जनं सुजनं भृशादिरूढस्य अतिमात्रम् आक्रम्य स्थितस्य अभिक्षिप्तस्य इत्यर्थः। कर्त्तरि क्तः। निगूहतो हृदयं संवृण्वतोऽपि असाधोः अनार्य्यस्य हृदयं कर्म स्फुरन् विलसन् वागेवासिः कृत्वा भित्त्वेव विवृणोति। दुष्टया वाचैव तत्पूर्विकायाः बुद्धेः अपि दौष्ट्यम् अनुमीयते इति भावः। वागसिः इत्यत्र रूपकं द्विधाकरणरूपकसाधकम्॥१२॥
शृणाति यस्तान् प्रसभेन तस्य ते।
प्रहीयतामत्र नृपेण मानिता
न मानिता चास्ति भवन्ति च श्रियः॥१३॥
न वर्त्म कस्मैचिदपि प्रदीयताम्
इति व्रतं मे विहितं महर्षिणा।
जिघांसुरस्मान्निहतो मया मृगः
व्रताभिरक्षा हि सतामलङ्क्रिया॥१४॥
यदुक्तम् “अभ्यघानि” इति तत्र उत्तरमाह। वनेति। वनाश्रयाः अतएव मृगाः कस्य परिग्रहाः ? न कस्यापि इत्यर्थः। किन्तु यः तान् मृगान् प्रसभेन बलात्कारेण शृणाति हिनस्ति। “शृृहिंसायाम्” इति धातोः लट्। ते मृगाः तस्य हन्तुः परिग्रहाः परिग्राह्याः हन्ता च अहम् एवेति भावः। ननु ममायम् इति अभिमानात् नृपस्य स्वत्वम् इति आशङ्क्याह। अत्र मृगे नृपेण मानिता मम इति अभिमानिना प्रहीयतां त्यज्यतां कुत इति आशङ्क्याह नेति। मानिता च अस्ति श्रियः स्वानि च भवन्तीति न।किन्तु न भवन्ति एव। सत्याम् अभिमानितायाम् इत्यर्थः। अभिमानमात्रेण स्वत्वेऽतिप्रसङ्गात् इति भावः॥१३॥
“यष्टुमिच्छसि पितॄन्” इत्यादिना यत् निष्कारणम् अबधीरिति उपलब्धं तत्र उत्तरमाह नेति। कस्मैचिदपि वर्त्म न प्रदीयताम् इति एवं व्रतं महर्षिणा व्यासेन मे मह्यं विहितम् उपदिष्टमित्यर्थः। अस्मात् कारणात्। जिघांसुः हन्तुहिच्छुः आपतन् अभिधावन् अयं मृगो मया निहतः। हि यस्मात् व्रताभिरक्षा सताम् अलङ्क्रिया न तु दोषः अतः आत्मरक्षणार्थम् अस्य बधो न निष्कारणम् इत्यर्थः॥१४॥
मृगान् विनिघ्नन् मृगयुः स्वहेतुना
क्रतोपकारः कथमिच्छतां तपः?।
कृपेति चेदस्तु मृगः क्षतः क्षणात्
अनेन पूर्वं न मयेति का गतिः?॥१५॥
अनायुधे सत्त्वजिघांसते मुनौ
कृपेति वृत्तिर्महतामकृत्रिमा।
शरासनं बिभ्रति सज्यसायकं
कृतानुकम्पः स कथं प्रतीयते ?॥१६॥
“दुर्वचं तत्” इत्यादिना यत् सज्जातं बन्धुत्वमुक्तं तत्राचष्टे। मृगानिति। स्वमात्मा एव हेतुः तेन स्वहेतुना स्वार्थम् इत्यर्थः। “सर्वनाम्नस्तृतीया च” इति तृतीया। मृगान् विनिघ्नन् प्रहरन्। मृगान् यातीति मृगयुर्व्याधः। “मृगयुर्व्याधश्च” इति औणादिको युप्रत्ययान्तोनिपातः। “व्याधो मृगबधाजीवी मृगयुर्लुब्धकोऽपि सः” इत्यमरः। तपः इच्छतां तपस्विनां कथं कृतोपकारः ? न कथञ्चित् इत्यर्थः। अथ कृपेति चेत् व्याधस्यअपि इति शेषः। अस्तु किं शुष्ककलहेन इति भावः। परन्तु यदुक्तम् “निघ्नतः परनिवर्हितम्” इत्यादिना तस्य प्रथमप्रहर्त्तृत्वं तदयुक्तम् इत्याह। मृगः क्षणात् क्षतः आवाभ्यां युगपदेव विद्ध इत्यर्थः। एवं सति अनेन नृपेण एव पूर्वं हतो मया तु न इत्यत्र का गतिः किं प्रमाणं पौर्वापर्यस्य दुर्लक्ष्यत्वात् इति भावः। तथा च यदुक्तम् “व्रीडितव्यम्” इत्युपालम्भः तस्य एव किं न स्यात् इति भावः॥१५॥
पूर्वं “कृपेति चेदस्तु” इत्युक्तं सम्प्रति तदपि असहमान आह। अनायुध इति। अनायुधे निरायुधे सत्त्वेन केनचित्
अथो शरस्तेन मदर्थमुज्झितः
फलञ्च तस्य प्रतिकायसाधनम्।
अविक्षते तत्र मयात्मसात्कृते
कृतार्थता नन्वधिका चमूपतेः॥१७॥
यदात्थ कामं भवता स याच्यताम्
इति क्षमं नैतदनल्पचेतसाम्।
प्राणिना जिघांसिते हन्तुमिष्टे। हन्तेः सन्नन्तात् कर्मणि क्तः। मुनाविषये कृपेति वृत्तिः व्यवहारो महतां महात्मनाम् अकृत्रिमा अकपटा। सह ज्यया सज्यः सायको यस्मिन् तत् शरासनं धनुर्बिभ्रति दधति मयि म नृपः कथं कृतानुकम्पः मया प्रतीयते ज्ञायते। इणः कमणि लट्। अक्षमे कृत्याविहिता न तु क्षमे इत्यर्थः॥१६॥
अथ कृपामभ्य, पगम्याह। अथो इति। अथो प्रश्ने। मङ्गलानन्तरारम्भप्रश्नकार्य्येष्वथो अथ” इत्यमरः। तेन नृपेण मदर्थं यथा तथा। अर्थेन सह नित्यसमासः। शरः उज्झितः त्यक्तः तस्य फलञ्च प्रतिकायस्य प्रतिपक्षस्य साधनं बधः। “साधनं निर्वृतौ मेढ्रे सैन्ये सिद्धौ बधेगतौ” इति विश्वः। अविक्षते अखिण्डते तत्र तस्मिन् फले मया आत्मसात् कृतेस्वाधीनीकृते सति। “तदधोनवचने” इति सातिप्रत्ययः। चमूपतेः अधिका कृतार्थता साफल्यम्। ननु खलु, स्वायुधस्य परत्राणशत्रुबधपात्रप्रतिपादनाय एकहेलया सिद्धेरित्यर्थः। तथापि अयं शरलोभ इति कृपालुताया मूलान्यपि निकृन्ततीति भावः॥१७॥
“मार्गणैरथ तव प्रयोजनम्” इत्यादिना यदुक्तं तन्निराचष्टे। यदिति। स नृपः कामं भवता याच्यताम् इति यदात्थ मामिति
कथं प्रसह्याहरणैषिणां प्रियाः
परावनत्या मलिनीकृताः श्रियः ?॥१८॥
अभूतमासज्य विरुद्धमीहित
बलादलभ्यं तव लिप्सते नृपः।
विजानतोऽपि ह्यनयस्य रौद्रतां
भवत्यपाये परिमोहिनीमतिः॥१९॥
असिः शरा वर्म धनुश्च नोच्चकैः
विविच्य किं प्रार्थितमीश्वरेण ते ?।
शेषः। एतदनल्पचेतसां मनस्विनां न क्षमंन युक्तम्”। कुतः प्रसह्य बलात् आहरणैषिणाम् आहर्तुमिच्छूनाम्। “क्षत्रियस्य विजितम्” इति स्मरणादिति भावः। परावनत्या याच्ञा दैन्येन मलिनीकृताः श्रियः कयं प्रियाः न कथञ्चित् इत्यर्थः॥१८॥
अथ परेङ्गितमुद्घाट्य भयं दर्शयति। अभूतमिति। तव नृपोऽभूतमनृतमासज्य मिथ्याभियुज्येत्यर्थः। “युक्ते क्ष्मादावृते भूतम्” इत्यमरः। अलभ्यं लब्धुम् अशक्यं विरुद्धं विपरीतफलकम् ईहितं मनोरथं बनात् लिप्सते लब्धुमिच्छति। न च एतच्चित्रम् इत्याह। हि यस्मात् अनयस्य दुर्नयस्य रौद्रतां भयङ्करत्वं विजानतोऽपि पुरुषस्य मतिः बुद्धिरपाये विनाशकाले परिमोहिनी भवति। परिमुह्यति इति परिमोहिनीसंपृचादिसूत्रेण ताच्छील्ये घिनुण् प्रत्ययः। तथाचोक्तम्। “विनिर्मितः केन न दृष्टपूर्वा हेम्नः कुरङ्गो न च च कुत्र वार्त्ता। तथापि तृष्णा रघुनन्दनस्य विनाशकाले विपरीतबुद्धिः॥” इति। तस्मात् विनाशकाले बलात् विपरीतबुद्धिः भवतीति भावः॥१९॥
अथ सर्वथा लभ्यस्ते शरः तर्हिकिम् अनेन सुष्ठु विश्रब्धं
अथास्ति शक्तिः कृतमेव याच्ञया?
न दूषितः शक्तिमतां स्वयङ्ग्रहः॥२०॥
सखा स युक्तः कथितः कथं त्वया?
यदृच्छयाऽसूयति यस्तपस्यते।
गुणार्जनोच्छ्रायविरुद्धबुद्धयः
प्रकृत्यमित्रा हि सतामसाधवः॥२१॥
वाच्यतां शरोऽन्यद्वेत्याह। अमिरिति। असिः खड्गः शराः वर्म कवचम् उच्चकैःउत्कृष्टं धनुश्च तेतव ईश्वरेण स्वामिना विविच्य एकैकशः विभज्य किं न प्रार्थितं ? न याचितं, येन प्रयोजनं तदृस्यामीति भावः। नपुंसकैकशेषः। अथ अस्य वीराभिमानिनोनृपस्य शक्तिरस्ति चेत् इति शेषः। याच्ञा कृतमेव अलमेव साध्याभावात् याचितव्यमेव इत्यर्थः। गम्यमानक्रियापेक्षया करणत्वात् तृतीया इत्युक्तं प्राक्। कृतमिति निषेधार्थम् अत्र्ययम्। यतः शक्तिमतां स्वयङ्ग्रहः बलाद्ग्रहणं न दूषितः किन्तु भूषणम् एव वीराणाम् इति भावः। क्षत्रियाणां प्रसह्य वित्तापहरणं न दूषितमिति भारतोक्तम्॥२०॥
“राघवप्लवगराजयोरिव” इत्यादिना उपदिष्टं सख्यं प्रत्यानष्टे। सखेति। स नृपः कथं त्वया युक्तो योग्यः सखा कथितः? न कथञ्चित् कथनीय इत्यर्थः। कुतः ? यो नृपः तपस्यते तपश्चरते अनपराधिनेइत्यर्थः। “क्रुधद्रुह” इत्यादिना सम्प्रदानत्वात् चतुर्थी। यदृच्छया स्वैरवृत्त्या। “यदृच्छा स्वैरिता” इत्यमरः। असूयातअसूयां करोति। “असूया तु दोषारोपो गुणेष्वपि इत्यमरः। प्रत्युत शत्रुरेव अयमित्याह—हि यस्मात् गुणानामर्जने यः उच्छ्रायः उत्कर्षः तस्य विरुद्धा विमुखा बुद्धिः
वयं क्व वर्णाश्रमरक्षणोचिताः ?
क्व जातिहीना मृगजीवितच्छिदः ?।
सहापकृष्टैर्महतां न सङ्गतं
भवन्ति गोमायुसखा न दन्तिनः॥२२॥
परोऽवजानाति यदज्ञताजडः
तदुन्नतानां न विहन्ति धीरताम्।
समानवीर्य्यान्वयपौरुषेषु यः
करोत्यतिक्रान्तिमसौ तिरस्क्रिया॥२३॥
येषां ते तथा असाधवो दुष्टाः सतां सज्जनानां प्रकृत्यमित्राः प्रकृत्या शत्रवः। “द्विड्विपक्षाहितामित्रदस्युशात्रवशत्रवः” इत्यमरः॥२१॥
हीनजातिवृत्तित्वात् सख्यानर्हः स इत्याह। वयमिति। वर्णाश्रमरक्षणोचिताः विशुद्धवृत्तयो वयं राजानः क्व ? जातिहीना मृगजीवितच्छिदो हिंमाजीविनो व्याधाः क्व ? फलितमाह। सह अपकृष्टैःउक्तरीत्या जात्या वृत्त्या च निकृष्टैः सहमहतां जात्या वृत्त्या च उत्कृष्टानां सङ्गतं सख्यं न घटते इति शेषः। तथाहि। दन्तिनो गजाः गोमायूनां शृगालानां सखायो गोमायुसखाः न भवन्ति। “स्त्रियां शिवा भूरिमायोगोमायुर्मृगधूर्त्तकाः। शृगालवञ्चकक्रोष्टुफेरुफेरवजम्बुकाः” इत्यमरः। अत्रविशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥२२॥
नीचसख्यं कथमधिक्षिप्यत इति चेत् तत्राह। पर इति। अज्ञताजड़ो मोहान्धः परोऽवजानाति यत्तदवज्ञानम् उन्नतानां महतां धीरतां न विहन्ति न विकारं जनयति इत्यर्थः। क्रोष्टेव सिंहस्य इति भावः। किन्तु समानानि तुल्यानि वीर्य्या-
यदा विगृह्णाति हतं तदा यशः
करोति मैत्रीमथ दूषिता गुणाः।
स्थितिं समीक्ष्योभयथा परीक्षकः
करोत्यवज्ञोपहतं पृथग्जनम्॥२४॥
मया मृगान् हन्तुरनेन हेतुना
विरुद्धमाक्षेपवचस्तितिक्षितम्।
शरार्थमेष्यत्यथ लप्सते गतिं
शिरोमणिं दृष्टिविषाज्जिघृक्षतः॥२५॥
न्वयपौरुषाणि शक्तिकुलविक्रमाः येषां तेषु मध्ये। निर्धारणो सप्तमी। यः कश्चित् इत्यर्थः। अतिक्रान्तिम् अतिक्रमं करोति चेत् असौ सदृशजनातिक्रमः तिरस्क्रिया तिरस्कारः। यथा सिंहे सिंहस्य इति भावः॥२३॥
तर्हि नीचे कीदृशी वृत्तिः ? इत्याशङ्क्यसोपपत्तिकमाह। यदेति। यदा विगृह्णाति विरुणद्धि पृथग्जनेन इति शेषः। तदा यशो हतं भवेत्। अथ मैत्रीं करोति तदा गुणा दूषिता भवेयुरिति शेषः। इति उभयथा स्थितिं समीक्ष्यप्रतर्क्य विमृष्य परीक्षको विवेचकः पृथग्जनं नीचजनम् अवज्ञया अनादरेण उपहतं तिरस्कृतं करोति उपेक्षते इत्यर्थः॥२४॥
उपसंहरन्नाह। मयेति। अनेन हेतुना सन्धिविग्रहानर्थत्वेन कारणेन मया मृगान् हन्तुः व्याधस्य सम्बन्धि। हन्तेःतृन्प्रत्ययः अत एव “न लोक” इत्यादिना षष्ठीप्रतिषेधः। विरुद्धम् अतिपरुषम् आक्षेपवचः तिरस्कारवचनं तितिक्षितं सोढम्। ननु सख्यानङ्गीकारे बलात् शरं ग्रहीष्यति ? इत्या-
इतीरिताकूतमनीलवाजिनं
जयाय दूतः प्रतितर्ज्य तेजसा।
ययौ समीपं ध्वजिनीमुपेयुषः
प्रसन्नरूपस्य विरूपचक्षुषः॥२६॥
ततोऽपवादेन पताकिनीपतेः
चचाल निर्ह्रादवती महाचमूः।
युगान्तवाताभिहतेव कुर्वती
निनादमम्भोनिधिवीचिसंहतिः॥२७॥
रणाय जैत्रः प्रदिशन्निव त्वरां
तरङ्गितालम्बितकेतुसन्ततिः।
द्याह। शरेति। अथ शरार्थमेष्यति दृष्टौ विषं यस्य तस्मात् दृष्टिविषात् सर्पविशेषात् शिरोमणिं जिघृक्षतो ग्रहीतुमिच्छती गतिं दशां लप्स्यते प्राप्स्यति॥२५॥
इतीति। इतीत्थम् ईरिताकुतम् उक्ताभिप्रायम् अनीलवाजिनं श्वेताश्वम् अर्जुनं दूतो जयाय तेजसा प्रतापेन प्रतितर्ज्य अस्मान् जित्वा क्व गमिष्यसि इति भीषयित्वा इत्यर्थः।ध्वजिनीम् उपेयुषः सेनासङ्गतस्य प्रसन्नरूपस्य अर्जुनं प्रति इति शेषः। विरूपचक्षुषः त्र्यम्बकस्य समीपं ययौ॥२६॥
तत इति। ततः पताकिनीपतेः सेनापतेः अपवादेन आदेशेन। “अपवादोऽपि आदेशः” इति मज्जनः। निर्ह्रादवती शब्दवतीमहाचमूः सेना। युगान्तवातैः अभिहता अत एव निनादं कुर्वती अम्भोनिधिवीचिसंहतिः अर्णवोर्मिसमूह इव चचाल॥२७॥
पुरो बलानां सघनाम्बुशीकरः
शनैः प्रतस्थे सुरभिः समीरणः॥२८॥
जयारवक्ष्वेड़ितनादमूर्च्छितः
शरासनज्यातलवारणध्वनिः।
असम्भवन् भूधरराजकुक्षिषु
प्रकम्पयन् गामवतस्तरे दिशः॥२९॥
रणायेति। जेता एव जैत्रोजयनशीलः अनुकूल इत्यर्थः। जयतेः तृन्नन्तात् प्रज्ञादित्वात् स्वार्थं अण्प्रत्ययः। तरङ्गितं सञ्जाततरङ्गं यथा तथा आलम्बिता अवस्थिताः केतुसन्ततयो येन सः सह घनैः सान्द्रैःअम्बुशीकरैःवर्त्तमानः सघनाम्बुशीकरः सुरभिः समीरणः वायुः रणाय त्वरां प्रदिशन्निव त्वरयन्निव बलानां सैन्यानां पुरः अग्रे शनैः प्रतस्य प्रस्थितः ववौ इत्यर्थः॥२८॥
जयेति। जयारवैः वन्दिनां जयजयेति शब्दैः क्ष्वेड़ितनादैःसिंहनादैश्चमूर्च्छितो वर्द्धितः शरासनज्यानां धनुर्गुणाना तलवारणानां च ध्वनिः भूधरराजकुक्षिषु गिरिगुहासु असम्भवन् अमान् अवकाशम् अलभमान इत्यर्थः। अत एवं गां भुवं प्रकम्पयन्। एतेन बलानां बाहुल्यमुक्तम्। दिशोऽवतस्तरेव्यानशे। ऋतश्च संयोगादेर्गुणः। अत्र मूर्च्छापदार्थस्य विशेषणगत्या असम्भवनहेतुत्वात् काव्यलिङ्गं रूपकं तु गिरिकुक्षिरूपापेक्षया ध्वनेराधेयस्य आधिक्योक्तेः अधिकालङ्कारश्च तेभ्यश्च इयम् असम्भवन् इति व्यञ्जकं विना उत्थाप्यमानोपात्तमूर्च्छागुणनिमित्ता प्रतीयमाना क्रियोत्प्रेक्षा तैःअङ्गाङ्गिभावेन सङ्कीर्य्यते इति सङ्करः॥२९॥
निशातरौद्रेषु विकाशतां गतैः
प्रदीपयद्भिः ककुभामिवान्तरम्।
वनेसदां हेतिषु भिन्नविग्रहैः
विपुस्फुरे रश्मिमतो मरीचिभिः॥३०॥
उदूढ़वक्षःस्थगितैकदिङ्मुखो
विकृष्टविस्फारितचापमण्डलः।
वितत्य पक्षद्वयमायतं बभौ
विभुर्गणानामुपरीव मध्यगः॥३१॥
निशातेति। निशाताः तीक्ष्णाः अत एव रौद्राः भीषणाश्च ये तेषु निशातरौद्रेषु। विशेष्यविशेषणयोः अन्यतरविशेष्यत्वविवक्षायाम् इष्टत्वात् विशेषणसमासः। वने सीदन्ति इति वनेसदां वनेचराणाम्। “सत्सूद्विष” इत्यादिना क्विप्। “तत्पुरुषे कृति बहुलम्” इत्यलुक्। हेतिषु आयुधेषु। “हेतिः शस्त्रेऽपि पुंस्त्रियोः” इति केशवः। भिन्नविग्रहैः संक्रान्तमूर्त्तिभिः अतएव विकाशतां विसृत्वरतां गतैः अतएव ककुभां दिशाम् अन्तरं प्रदीपयद्भिः प्रज्वालयद्भिः इव स्थितैः इति उत्प्रेक्षा। रश्मिमतः सूर्य्यस्य। “मादुपधायाश्च मतोर्वोऽयवादिभ्यः” इति मतुपो मकारस्य न वकारः। मरीचिभिः करैः“भानुः करो मरीचिः स्त्रीपुंसयोः” इत्यमरः। विपुस्फुरे बभासे। स्फुरतेःभावे लिट्॥३०॥
उदूढ़ेति। उदूढ़ेन उन्नतेन वक्षसा स्थगितम् आच्छादितम् एकम् एकतरं दिङ्मुखं येन सः विकृष्टम् आकृष्टम् अत एव विस्फारितं निर्घोषितं चापमण्डलं येन स विभुः शिवः आयतं
सुगेषु दुर्गेषु च तुल्यविक्रमैः
जवादहं पूर्विकया यियासुभिः।
गणैरविच्छेदनिरुद्धमाबभौ
वनं निरुच्छ्वासमिवाकुलाकुलम्॥३२॥
तिरोहितश्वब्भ्रनिकुञ्जरोधसः
समश्नुवानाः सहसातिरिक्तताम्।
विस्तृतं पक्षद्वयं पार्श्वद्वयं वितत्य स्वमहिम्ना व्याप्य। “पक्षः साध्यगरुत्पार्श्वसहायबलभित्तिष्” इति वैजयन्ती। गणानां मध्यगो मध्यस्थोऽपि उपxxxस्थित इव बभौ।सर्वोन्नतत्वात् तथा लक्षित इत्यर्थः॥३१॥
सुगेष्विति। सुखेन दुःखेन च गच्छन्ति एषु इति सुगेषु सुगमेषु दुर्गेषु दुर्गमेषु च समविषमदेशेषु इत्यर्थः। सुदुरोः अधिकरणार्थे डो वक्तव्यः अतएव टिलोपः तुल्यविक्रमैः लाघवात् समसञ्चारैः। जवादहंपूर्विकया अहमहमिकया। “अहं पूर्वमहंपूर्वमित्यहंपूर्विका स्त्रियाम्” इत्यमरः। यियासुभिः यातुमिच्छुभिः। यातेः सन्नन्तात् उप्रत्ययः। गणैः प्रमथैः। मनोज्ञादित्वात् वुञ्प्रत्ययः पृषोदरादित्वात् वृद्ध्यभावः। “गणाः प्रमथसङ्घौघाः” इति वैजयन्ती। अविच्छेदेन निरुद्धंअत एव आकुलाकुलम् आकुलप्रकारम्। “प्रकारे गुणवचनस्य” इति द्विर्भावः। वनं निरुच्छासं निरुद्धप्राणम् इव आबभौ इति उत्प्रेक्षा॥३२॥
तिरोहितेति। किरातसेन्यैःतिरोहितानि छन्नानि श्वभ्रनिकुञ्जरोधांसि गर्त्तकुञ्जतटानि यासां ताः अत एव भुवः प्रदेशाः सहसा अतिरिक्तताम् उत्तानतां समश्नुवानाः आप्नुवत्यः।
किरातसैन्यैरपिधाय रेचिता
भुवः क्षणं निम्नतयेव भेजिरे॥३३॥
पृथूरुपर्य्यस्तवृहल्लताततिः
जवानिलाघूर्णितशालचन्दना।
गणाधिपानां परितः प्रसारिणी
वनान्यवाञ्चीव चकार संहतिः॥३४॥
ततः सदर्पं प्रतनुं तपस्यया
मदस्रुतिक्षाममिवैकवारणम्।
अपिधाय आच्छाद्य रेचिता रिक्तीकृताः मुक्ताः क्षणं निम्नतयागाम्भीर्य्येण भेजिरे इव प्राप्ता इवेत्युत्प्रेक्षा। सैन्यैः या भुवो व्याप्तास्ता उत्तानाः प्रतीयन्ते तैः मुक्तास्ता एव निम्नाः प्रतीयन्ते इत्यर्थः॥३३॥
पृथ्विति। पृथुभिः विशालैः ऊरुभिः पर्य्यस्ताः क्षिप्ताः वृहत्यो लताततयो यया सा जवानिलेन वेगमारुतेन आघूर्णिताः भ्रमिताः शालाः सर्जतरवः चन्दनानि च यया मा। “प्राकारवृक्षयोः शालः शालः सर्जतरुः स्मृतः” इति शाश्वतः। परितः सर्वत्र प्रसारिणी प्रसरणशीलाः गणाधिपानां संहति समूहोवनानि अवाञ्चिन्युञ्जानीव नीचानीव चकार इत्युत प्रेक्षा। अवाञ्चति अधोभवति अपूर्वादञ्चतेः क्विप्। “स्यादवा ङप्यधोमुखः” इत्यमरः॥३४॥
अथ अष्टभिः श्लोकैःअर्जुनं विशंसन् गणानां तदभियोगमाह। तत इत्यादि। ततः सदर्पं सगर्वंसान्तःसारं तपस्यया तपश्चर्य्यया। तपस्यतेः क्यजन्तात् स्त्रियामप्रत्यये टाप्। प्रतनुं
परिज्वलन्तं निधनाय भूभृतां
दहन्तमाशा इव जातवेदसम्॥३५॥
अनादरोपात्तधृतैकसायकं
जयेऽनुकुले सुहृदीव सस्पृहम्।
शनैरपूर्णप्रतिकारपेलवे
निवेशयन्तं नयने बलोदधौ॥३६॥
निषाणमापत्प्रतिकारकारणे
शरासने धैर्य्य इवानपायिनि।
कृशम् अतएव मदस्रुत्या मदक्षरणेन क्षामं कृशम्। “क्षायोम” इति निष्ठातकारस्य मकारः। एकवारणम् एकाकिनं गजम् इव स्थितम् इत्युपमा। पुनः भूभृतां राज्ञां निधनाय नाशाय परिज्वलन्तं तेजस्विनम् अतएव आशा दिशो दहन्तं जातवेदसम् अग्निम् इव स्थितम् इत्युपमालङ्कारः। “कृपीटयोनिज्वलनो जातवेदास्तनूनपात्” इत्यमरः॥३५॥
अनादरेति। पुनश्च अनादरेण अवगणनया उपात्तो निषङ्गात् उद्धृतो धृतश्च एकः सायको येन तं तथा अनुकूले सुहृदीव जये सस्पृहं जयमिच्छन्तम् इत्यर्थः। पुनः अपूर्णः न्यूनः प्रतिकारोबालाहरणप्रत्यर्पणरूपो यस्य सः अतएव पेलवो लघुः तस्मिन् अपूर्ण प्रतिकारपेलवे बलोदधौ सेनासमुद्रेशनैः असम्भ्रमेण नयने दृष्टीनिवेशयन्तम् इति वीरस्वभावोक्तिः। बलम् उदधिः इव इति उपमितसमासः। “पेषवासवाहनधिषु च” इत्युदकस्य उदादेशः॥३६॥
निषणमिति। पुनश्च आपदां प्रतीकारस्य कारणसाधने
अलङ्घनीयं प्रकृतावपि स्थितं
निवातनिष्कम्पमिवापगापतिम्॥३७॥
उपेयुषींबिभ्रतमन्तकद्युतिं
बधाददूरे पतितस्य दंष्ट्रिणः।
पुरः समावेशितसत्पशुं द्विजैः
पतिं पशूनामिव हृतमध्वरे॥३८॥
निजेन नीतं विजितान्यगौरवं
गभीरतां धैर्य्यगुणेन भूयसा।
वनोदयेनेव घनोरुवीरुधा
समन्धकारीकृतमुत्तमाचलम्॥३९॥
अनपायिनि स्थिरे शरासने एवम्भूते धैर्य्य इव निषस्संस्थितं प्रकृतौ स्वभावे स्थितमपि निर्विकारमपि इत्यर्थः। अतएव अलङ्घनीयम् अनतिक्रमणीयम् अतएव निवातनिष्कम्पं वाताभावान्निश्चलम्। “निवातावाश्रयावातौ” इत्यमरः। अपगापतिं समुद्रमिव स्थितम्॥३७॥
उपेयुषीमिति। पुनश्च अदूरे समीपे पतितस्य दंष्ट्रिणो वराहस्य। व्रीह्यादित्वादिनिप्रत्ययः। बधात् हेतोः उपेयुषीं प्राप्तम् अन्तकस्य इव यमस्य इव द्युतिस्तां बिभ्रतं धारयन्तम्। तथाच द्विजैः ब्राह्मणैःअध्वरेयज्ञे। “यज्ञः सवोऽध्वरो यागः” इत्यमरः। हतम् आहतं पुरः अग्रे समावेशितः स्थापितः सत्पशुः यज्ञीयपशुः यस्य तं पशूनां पतिं रुद्रमिव स्थितम्॥३८॥
निजेनेति। पुनञ्च निजेन नैसर्गिकेण भूयसा बहुलेन धैर्य्यमेव गुणस्तेन विजितम् अन्येषां गौरवं गाम्भीर्य्यं यस्मिन्
महर्षभस्कन्धमनूनकन्धरं
वृहच्छिलावप्रघनेन वक्षसा।
समुज्जिहीर्षुं जगतीं महाभरां
महावराहं महतोऽर्णवादिव॥४०॥
हरिन्मणिश्याममुदग्रविग्रहं
प्रकाशमानं परिभूय देहिनः।
कर्मणि तथा गभीरतां दुरवगाहत्वं नीतम्। अत एव घनाः सान्द्रा उरवश्च महत्यो वीरुधो लताश्च यस्मिन् तेन घनोरुवीरुधा वनोदयेन अरण्यप्रादुर्भावेण समन्धकारीकृत दुरवगाहीकृतम् उत्तमाचलम् इव स्थितं समन्ततोऽन्धकारो यस्य स इति विग्रहः॥३९॥
महर्षभेति। महर्षभस्य महावृषभस्य स्कन्ध इव स्कन्धौ अंसौ यस्य तम्। उपमानपूर्वपदत्वात् उत्तरस्कन्धलोपः। “ऋषभो वृषभो वृषः” इत्यमरः। “स्कन्धो भुजशिरोऽंशोऽस्त्री” इत्यमरः। अनूनकन्धरं स्थूलग्रीवम्। “अथ ग्रीवायां शिरोधिः कन्धरेत्यपि” इत्यमरः। वृहच्छिलावप्रं महाशिलातटं तद्वत् घनेन कठिनेन वक्षसा उपलक्षितम्। महाभरां दुष्टैः अतिभारवतीं जगतीं महीं समुज्जिहौर्षुं दुष्टराजकार्णवात् समुद्धर्त्तुमिच्छुम्। अत एव महतोऽर्णवात् जगतींसमुज्जिहीर्षुम् उक्तविशेषणविशिष्टञ्च वराहमिव स्थितम्। अर्थसाधर्म्यात् इयमुपमा न श्लेषः शब्दमात्रसाधर्म्येणतस्य विधानात् इति रहस्यम्॥४०॥
हरिदिति। पुनश्च हरिन्मणिश्यामं मरकतमणिश्यामलम् उदग्रविग्रहम् उदारमूर्त्तिं देहिनः सत्वान् परिभूय प्रकाशमानं
मनुष्यभावे पुरुषं पुरातनं
स्थितं जलादर्श इवांशुमालिनम्॥४१॥
गुरुक्रियारम्भफलैरलङ्कृतं
गतिं प्रतापस्य जगत्प्रमाथिनः।
गणाः समासेदुरनीलवाजिनं
तपात्यये तोयघना घना दूव॥४२॥
कुलकम्।
यथास्वमाशंसितविक्रमाः पुरा
मुनिप्रभावक्षततेजसः परे।
ययुः क्षणादप्रतिपत्तिमूढ़तां
महानुभावः प्रतिहन्ति पौरुषम्॥४३॥
जलम् एव आदर्शः मुकुरः तस्मिन् अंशुमालिनं सूर्य्यम् इव मनुष्यभावे मनुष्यरूपे स्थितं पुरातनं पुरुषं यो वदरीतपोवननिवासी नारायणसहचरो नरो नाम स एव अयमित्यर्थः॥४१॥
गुर्विति। गुरुभिः क्रियारम्भाणां फलैः अलङ्कृतं सफल कर्मारम्भम् इत्यर्थः। जगत्प्रमाथिनः जगद्विजयिनः प्रतापस्य तेजसो गतिं स्थानम् अतोऽस्य बहूनाम् एकलक्ष्यत्वञ्च युज्यते इति सन्दर्भाभिप्रायः। पूर्वोक्तविशेषणविशिष्टम् अनीलवाजिनं श्वेताश्वम् अर्जुनं गणाः प्रमथादयः तपात्यये तोयघनाः तोयभरिता वार्षिका इत्यर्थः घना मेघा इव महाचलम् इति शेषः। समासेदुः अवापुः इत्यर्थः॥४२॥
यथास्वमिति। पुरा पूर्वं स्वं स्वम् अनतिक्रम्य यथास्वम् अहम् एवैनं जेष्यामि इति आशंसिताः काङ्खिताः कथिता वा विक्रमा
ततः प्रजह्नसममेव तत्र तैः
अपेक्षितान्योन्यबलोपपत्तिभिः।
महोदयानामपि सङ्घवृत्तितां
सहायसाध्याः प्रदिशन्ति सिद्धयैः॥४४॥
किरातसैन्यादुरुचापनोदिताः
समं समुत्पेतुरुपात्तरंहसः।
महावनादुन्मनसः खगा इव
प्रवृत्तपत्रध्वनयः शिलीमुखाः॥४५॥
यः तेपरेशत्रवः मुनिप्रभावात् क्षततेजमो हतप्रभावाः सन्तः अप्रतिपत्तिमूढ़तां मोहान्धतां ययुः। तथाहि महानुभावोऽतिप्रतापः पौरुषं पुरुषस्य चेष्टितं प्रतिहन्ति नाशयति॥४३॥
तत इति। ततः एकैकस्य अशक्तौ अपेक्षिता वाञ्छिता अन्योन्यबलोपपत्तिः अन्योन्यशक्त्यवष्टम्भः यैः तैः प्रमथैः तत्र अर्जुने। क्रियाधारत्वात् सप्तमी। समं युगपदेव प्रजह्नेप्रहृतम्। भावे लिट्। तथाहि। सहायसाध्याः सिद्धयः कार्य्यसिद्धयो महोदयानां महानुभावानाम् अपि। सङ्घेन वृत्तिः व्यापारो येषां तेषां भावस्तत्ता तां सङ्घवृत्तितां सम्भूयकारितां प्रदिशन्ति। अतो गणानाम् अपि सम्भूयकारित्वं न दोष इति भावः॥४४॥
किरातेति। उरुभिः बृहद्भिः चापैः नोदिताः प्रक्षिप्ताः उपात्तरंहसः प्राप्तवेगाः प्रवृत्तपत्रध्वनयः सञ्जातपक्षस्वनाः शिलीसुखा बाणाः महावनात् उन्मनसः क्वापि गन्तुम् उत्सुकाः
गभीररन्धेषु भृशं महीभृतः
प्रतिस्वनैरुन्नमितेन सानुषु।
धनुर्निनादेन जवादुपेयुषा
विभिद्यमाना इव दध्वनुर्दिशः॥४६॥
विधूनयन्तीगहनानि भूरुहां
तिरोहितोपान्तनभो दिगन्तरा।
महीयसी वृष्टिरिवानिलेरिता
रवं वितेने गणमार्गणावलिः॥४७॥
त्रयोमृतूनामनिलाशिनः सतः
प्रयाति पोषं वपुषि प्रहृष्यतः
तथा उक्तविशेषणविशिष्टाश्च खगाः पक्षिण इव किरातसैन्यात् समं समन्ततः समुत्पेतुः॥४५॥
गभीरेति। गभीररन्ध्रेषु गम्भीरगह्वरेषु महीभृतः सानुषु ये प्रतिस्वनाः तैः भृशम् उन्नमितेन उत्थापितेन दीर्घीकृतेन जवात् उपेयुषा प्राप्तवता धनुषो निनादेन दिशो विभिद्यमाना विदीर्य्यमाणा इव दध्वनुः ध्वनिं चक्रुः॥४६॥
विधूनयन्तीति। भूरुहां गहनानि वनानि। “अटव्यरण्यं विपिनं गहनं काननं वनम्” इत्यमरः। विधूनयन्ती कम्पयन्ती तिरोहितानि छादितानि उपान्तानि प्रान्तानि नभोऽन्तरीक्षं दिगन्तराणि च यया सा गणमार्गणावलिः प्रमथशरसंहतिः अनिलेन वायुना ईरिता प्रेरिता महीयसी वृष्टिरिव रवं वितेने विस्तारयामास॥४७॥
त्रयीमिति। ऋतूनां त्रयीं षण्मासान्। कालाध्वनोरत्यन्त-
रणाय जिष्णोर्विदुषेव सत्वरं
घनत्वमीये शिथिलेन वर्मणा॥४८॥
पतत्सुशस्त्रेषु वितत्य रोदसी
समन्ततस्तस्य धनुर्दुधूषतः।
सरोषमुल्केव पपात भीषणा
बलेषु दृष्टिर्विनिपातशंसिनी॥४९॥
दिशः समूहन्निव विक्षियन्निव
प्रभां रवेराकुलयन्निवानिलम्।
सयोगे द्वितीया। अनिलाशिनो वायुभक्षकस्य कृशस्य इत्यर्थः। सतः तथापि रणाय रणं कर्त्तुं प्रहृष्यतः उत्सहमानस्य “क्रियार्था” इत्यादिना चतुर्थी। जिष्णोः अर्जुनस्य वपुषि पोषम् उपचयं प्रयाति गच्छति सति मिथिलेन प्रथमम् इति शेषः। वर्मणा कवचेन विदुषा इव अनन्तरकरणीयं जानता इवेति उत्प्रेक्षा। सत्वरं शीघ्रं घनत्वं दृढ़त्वमीये प्राप्तम् अन्यथानुपयोगादिति भावः। इणः कर्मणि लिट्॥४८॥
पतत्स्विति। शस्त्रेषु रोदसी द्यावापृथिव्यौ। “द्यावापृथिव्यौ रोदस्यौ” इत्यमरः समन्ततो वितत्य व्याप्य पतत्सुसत्सु, धनुः दुधूषतः कम्पितुम् इच्छतः आस्फालयत इत्यर्थः धूञः सन्नन्ताच्छतृप्रत्ययः। “स्वरतिसृतिसूर्यतिधूञूदितो वा” इति विकल्पादिड़भावः। तस्य अर्जुनस्य सम्बन्धिनी भीषयत इति भीषणा। नन्द्यादित्वाल्लुयः। विनिपातशंसिनीविनाशमचिका दृष्टिः उक्तविशेषणा उल्केव बलेषु सरोषं यथा तथा पपात॥४९॥
मुनिश्चचाल क्षयकालदारुणः
क्षितिं सशैलां चलयन्निवेषुभिः॥५०॥
विमुक्तमाशंसितशत्रुनिर्जयैः
अनेकमेकावसरं वनेचरैः।
स निर्जघानायुधमन्तरा शरैः
क्रियाफलं काल इवातिपातितः॥५१॥
गतैः परेषामविभावनीयतां
निवारयद्भिर्विपदं विदूरगैः।
दिश इति। क्षयकालः कल्पान्तकाल इव।“संवर्त्तः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि” इत्यमरः। दारुणो रौद्रः मुनिः अर्जुनः इषुभिः बाणैः दिशः समूहन्निव एकत्र समाहरन् इव अन्यथा तासां पारदर्शनं न स्यादिति भावः। रवेः प्रभां विक्षिपन् इव अधःप्रक्षिपन् दूव अन्यथा सा कथं न दृश्यत इति भावः। तथा अनिलं वायुम् आकुलयन् इषुभिः अन्तराले आघूर्णयन् इव तस्य तथा गतिविधातादिति भावः। सशैलां क्षितिं चलयन् इव कम्पयन् इव तथा सङ्घोभादिति भावः। चचाल गतिम् अकरोत्। सर्वत्र इवशब्दः उत्प्रेक्षायाम्॥५०॥
किमुक्तमिति। प्रशंसितः काङ्क्षितः शत्रुनिर्जयो यैः तैः। अहमहमिकयाशत्रुं विजिगीषद्भिः इत्यर्थः। वनेचरैःएकावसरं समकालम्। अत्यन्तसंयोगे द्वितीया। विमुक्तं प्रयुक्तम् अनेकम् आयुधम् जातावेकवचनम्। सोऽर्जुनः क्रियाफलम् अतिपातितोऽतिक्रान्तः काल इव अतिक्रान्तकालस्य कर्मणो निष्फलत्वात् इति भावः। अन्तरा मध्ये शरैः निजघान॥५१॥
गतैरिति। पाण्डुनन्दनोऽर्जुनः परेषाम् अविभावनीयतां
भृशं बभूवोपचितो वृहत्फलैः
शरैरुपायैरिव पाण्डुनन्दनः॥५२॥
दिवः पृथिव्याः ककुभां नु मण्डलात्
पतन्ति विम्बादुत तिग्मतेजसः ?।
सकृद्विकृष्टादथ कार्मुकात् मुनेः
शराः शरीरादिति तेऽभिमेनिरे॥५३॥
गणाधिपानामविधाय निर्गतैः
परासुतां मर्मविदारणैरपि।
लघुप्रयोगात् अन्यत्र गूढ़प्रयोगाच्च अदृश्यताम् अप्रकाश्यतां च गतैः विपदम् अनर्थं निवारयद्भिः विदूरगैः दूरलक्ष्यगैःपरमण्डलप्रविष्टैश्च बृहत्फलैः आयताग्रैः महालाभैश्च। “फलं बाणाग्रलाभयोः” इति शाश्वतः। शरैः उपायैः समादिभिः इव भृशम् उपचितः प्रवृद्धो बभूव। अत्र शब्दमात्रसाधर्म्यात् प्रकृताप्रकृतश्लेषः। उपमा इति केचित्॥५१॥
दिव इति। शराः दिवोऽन्तरिक्षात् पृथिव्या भूगोलाद्वाककुभां मण्डलात् नु दिशां मण्डलाद्वा ? उत तिग्मतेजसोऽर्कस्य विम्बात् मण्डलाद्वा? अथवा सकृद्विकृष्टात् कार्मुकाद्वामुनेः शरीरात् वा पतन्तीति ते गणा अभिमेनिरे ज्ञातवन्तः। अन्यथा कथम् अमीविश्वम् अन्तर्धाय शराः सम्भाव्यन्ते इति भावः। अत्र सर्वतः शरसम्पातदर्शनात् सम्भावनया पृथिव्यादीनाम् अन्यतमस्य अपादानत्वोत्प्रेक्षा। सा च प्रतीयमाना व्यञ्जकाप्रयोगात्। नुशब्दादयस्तु संशये॥५३॥
गणेति। मर्मविदारणैः अपि मर्मस्थानानि एव विदारयद्भिः
जवादतीये हिमवानधोमुखैः
कृतापराधैरिव तस्य पत्रिभिः॥५४॥
द्विषां क्षतीर्याःप्रथमे शिलीमुखाः
विभिद्यदेहावरणानि चक्रिरे।
न तासु पेते विशिखैः पुनर्मुनेः
अरुन्तुदत्वं महतां ह्यगोचरः॥५५॥
समुज्झिता यावदराति निर्य्यतौ
सहैव चापात् मुनिबाणसंहतिः।
अपीत्यर्थः। गणाधिपानां परासुतां मरणम् अविधाय अकृत्वा निर्गतैः तेषाम् अमर्त्त्यत्वात् इति भावः। तस्य मुनेः पत्रिभिः शरैः कृतापराधैः इव स्वामिकार्य्याकरणात् सापराधैः इवेत्युत्प्रेक्षा। अधोमुखैःसद्भिः जवात् हिमवान् अतीये प्रतिचक्रमे तत्र प्रविष्टम् इत्यर्थः लज्जितस्य क्वचिन्निलयनम् उचितम् इति भावः॥५४॥
द्विषामिति। प्रथमे प्रथममुक्ता इत्यर्थः। शिलीमुखाः मुनिशराः द्विषां देहावरणानि वर्माणि विभिद्य याः क्षतीःप्रहारान् चक्रिरे तासु क्षतिषु पुनः पश्चात् प्रयुक्तैः मुनेः विशिखैः न पेते न पतितम्। पिष्टपेषणदोषापातात् इति भावः। तथाहि अरुन्तुदत्वं पीड़ितपीड़नं सताम् अगोचरो हि। सन्तः पीड़ितपीड़ां न कुर्वन्ति इत्यर्थः।“न हन्याद् व्यसनप्राप्तं नार्त्तंनातिपरिक्षतम्” इति निषेधस्मरणादिति भावः अरुः। व्रणं तुदतीति अरुन्तुदः। “व्रणोऽस्त्रियामीर्ममरुः” इत्यमरः। ‘“विध्वरुषोस्तुदः” इति खश्प्रत्ययः। “अरुद्विर्षदजन्तस्य मुम् इति मुमागमः॥५५॥
प्रभा हिमांशोरिव पङ्कजावलिं
निनाय सङ्कोचमुमापतेश्चमूम्॥५६॥
अजिह्ममोजिष्ठममोघमक्लमं
क्रियासु बह्वीषु पृथङ्नियोजितम्।
प्रसेहिरे सादयितुं न सादिताः
शरौघमुत्साहमिवास्य विद्विषः॥५७॥
समुज्झितेति। यावन्तोऽरातयो यावदराति “यावदवधारणे” इति अव्ययीभावः। यावदराति यथा तथा समुज्झिता अरातिसमसंख्यया मुक्ता मुनिचापात् सह सम्भूय एव निर्यती निष्क्रामन्ती। तादृक् तस्य कौशलमिति भावः। यातेः शतरि ङीप्। मुनिबाणसंहतिः उमापतेः चमूं हिमांशोः प्रभा पङ्कजावलिम् इव सङ्कोचं निनाय प्रापयामास। दुहादिपाठान्नयतिर्द्विकर्मकः॥५६॥
अजिह्ममिति। अजिह्मं स्वरूपतो गत्या वा अवक्रम्। अन्यत्र तु जिह्मस्थानप्रवृत्तो न भवतीति अजिह्मः तम्। ओजिष्ठम् ओजस्विनं सारवत्तमं तेजिष्ठं च। उभयत्रापि ओजस्विशब्दाद्विन्यन्तादिष्ठन् “विन्मतोर्लुक्” इति लुक् टिलोपश्च। अमोघम् अबन्ध्यम् अक्लमं निरन्तरव्यापारेऽपि अक्लान्तं बह्णीषु क्रियासु छेदनभेदनपातनादिकर्मसु पृथग्भेदेन नियोजितं कर्मानुगुण्येन विनियुक्तमित्यर्थः। अस्य मुनेः शरौघम् उत्साहम् औत्सुक्यम् इव वीरस्थायिभावभूतं प्रयत्नविशेषम् इवेत्यर्थः। सादिताः कर्षिताः विद्विषः शत्रवः सादयितुं प्रतिकर्त्तुंन प्रसेहिरे न शेकुः। तस्य उत्साहवत् एव शरवर्षं दुर्धर्षम् अभूत् इति भावः॥५७॥
शिवध्वजिन्यः प्रतियोधमग्रतः
स्फुरन्तमुग्रेषुमयूखमालिनम्।
तमेकदेशस्थमनेकदेशगा
निदध्युरर्कं युगपत् प्रजा इव॥५८॥
मुनेः शरौघेण तदुग्ररंहसा
बलं प्रकोपादिव विष्वगायता।
विधूनितं भ्रान्तिमियाय सङ्गिनीं
महानिलेनेव निदाघजं रजः॥५९॥
शिवेति। अनेकदेशगा नानादेशस्थाः शिवध्वजिन्यो हरमेनाः। उग्रेषवो मयूखा इवेति उपमितसमासः। अन्यत्र तु उग्रेषव इव मयुखा इति। मयूरव्यंसकादित्वात् समामः। तेषां माला अस्यास्तीति तम् उग्रेषुमयूखमालिनम्। व्रीह्यादित्वादिनिः। एकदेशस्थम् एकत्रैव स्थितं मुनिम् अर्कं प्रजा इव युगपत् प्रतियोधं योधं योधं प्रति। “अव्ययं विभक्ति” इत्यादिना प्रत्यर्थे वीप्सायामव्ययीभावः। अग्रतः स्फुरन्तं निदध्युःददृशः। यथा एकोऽर्कः एकत्रैव स्थितोऽपि नानादेशस्थानाम् अपि प्रतिपुरुषं मम एवाग्रे वर्त्तत इति युगपत् प्रतीयते तद्वत् बाणवर्षी मुनिः अपि प्रतियोधं तथा एव प्रत्यभात् इत्यर्थः॥५८॥
मुनेरिति। प्रकोपात् अमर्षात् इव विष्वक् समन्तात् आयता आगच्छता उग्ररंहसा तीव्रवेगेन मुनेः शरौघेण उक्तविशेषणेन महानिलेन वात्यया निदाघजं ग्रीष्मोत्थं रज इव विधूनितं व्याहतं तद्बलं प्रमधानां सैन्यं सङ्गिनीम् अनुबन्धि-
तपोबलेनैष विधाय भूयसीः
तनूरदृश्याः स्विदिषुन्निरस्यति ?।
अमुष्य मायाविहतं निहन्ति नः
प्रतीपमागत्य किमु स्वमायुधम् ?॥६०॥
हृता गुणैरस्य भयेन वा मुनेः
तिरोहिताः स्वित् प्रहरन्ति देवताः ?।
कथं न्वमीसन्ततमस्य सायका
भवन्त्यनेके जलधेरिवोर्मयः ?॥६१॥
नीम् अविच्छिन्नाम् इति यावत् भ्रान्तिम् अनवस्थानम् इयाय प्राप॥५९॥
अय त्रिभिः विशेषकमाह। तप इत्यादिना। एष मुनिः तपोबलेन तपःसामर्थ्येन भूयसीःबह्वीःअदृश्याः तनूःआत्मनः शरीराणि विधाय सृष्ट्वा इषून्निरस्यति स्वित् ? क्षिपति किम ? अथवा अमुष्य अस्य मुनेः मायया विहतं प्रतिहतं स्वं स्वकीयम् इव आयुधं प्रतीपं प्रतिकूलम् आगत्य प्रत्यावृत्येत्यर्थः नोऽस्माकं निहन्ति किम् ? “जासिनिग्रहण” इत्यादिसूत्रेण कर्मणि षष्ठीशेषाविवक्षायान्तु द्वितीया॥६०॥
हृता इति। यद्वाअस्य मुनेः गुणैः शान्त्यादिभिः हृता आकृष्टा भयेन दरेण वा। भयात् बिभ्यत्य एवेत्यर्थः। देवताः तिरोहिताः सत्यः प्रहरन्ति स्वित् ?। तत् कुतः ? अन्यथा अस्य मुनेःअमी सायका जलधेः ऊर्मय इव कथं नु सन्ततमनेके असङ्ख्याः भवन्ति। अन्यत्र पक्षासम्भवेन न स भवतीत्यर्थः किमिति पृच्छन्त्यो देवता युध्यन्त इत्याह। गुणैः हृता भयेन
जयेन कच्चिद्विरमेदयं रणात्
भवेदपि स्वस्ति चराचराय वा ?।
तताप कीर्णानृपसूनुमार्गणैः
इति प्रतर्काकुलिता पताकिनी॥६२॥
अमर्षिणा कृत्यमिव क्षमाश्रयं
मदोद्धतेनेव हितं प्रियं वचः।
बलीयसा तद्विधिमेव पौरुषं
बलं निरस्तं न रराज जिष्णुना॥६३॥
वा। एतेन गुणैःआवर्त्तिताः प्रीत्या बिभ्यत्यः अस्माद् वर्तमाना इत्यर्थः। किमस्य वितर्कत्रयस्य मूलमित्याह। कथमिति। अस्मात् कथं जलधेः ऊर्मयो यथा एकस्यैव सायकाः सन्ततम अतिबहवो भवन्ति। एतच्चोद्यमन्यसपक्षसम्भवेन न सम्भवति इत्यर्थः। एकशब्दस्य एकशेषे कृत एक इति रूपम इति केचित्। नुशब्दस्त्वन्यार्थे॥६१॥
जयेनेति। कच्चिदयं रणाज्जयेन विरमेत्। अस्मान् जित्वा कच्चिदयं युद्धम्उपसंहरेत् इत्यर्थः। अपि चराचराय स्वस्ति स्वस्ति भवेत् ? क्वचित् स्थावरजङ्गमं जगत् न विनश्येत् इत्यर्थः कच्चिदपि इह सम्भावनायाम्। प्रार्थनायां लिङ्। इति प्रतर्काकुलिता पूर्वोक्ता ये प्रतर्कास्तेःआकुलिता विह्वला। अत्र सहेतुकं विशेषणमाह। नृपसूनुमार्गणैःअर्जुनबाणैःकीर्णा क्षिप्ता पताकिनीतताप तापं प्राप॥६२॥
अमर्षिणेति। जिष्णुना निरस्तं बलं न रराज। किमिव केन क्षिप्तं न शोभते क्षमाश्रयं कृत्यं कार्य्यम्अमर्षिणा निर-
प्रतिदिशं प्लवगाधिपलक्ष्मणा
विशिखसंहतितापितमूर्त्तिभिः।
रविकरग्लपितैरिव वारिभिः
शिवबलैः परिमण्डलता दधे॥६४॥
प्रविततशरजालच्छन्नविश्वान्तराले
स्तम्। यथा क्षमासाध्यं हि कृत्यम् इव सामर्षैःनिरस्यते तच्चानिरस्तं न शोभते। यथा च मदोद्धतेन पुंसा हितं प्रियवचनम् इव तिरस्कृतं न राजते। मदः पौरुषादिधर्मः तेनोद्धतोऽवलिप्तः तेन बलीयसा च विधिना दैवेन पौरुषम् इव। निरस्तं सत् न राजते। बलीयसा दैवेन प्रतिहतपुरुषव्यापारस्य नैष्फल्यादेः जिष्णुरपि बलीयान् इति भावः॥६३॥
प्रतिदिशमिति। प्लवगानाम् अधिपोऽधीशो लक्ष्म यस्य तेन वानरचिह्नेन। “कापप्लवङ्गप्लवग” इति। “चिह्नं लक्ष्म च लक्षणम्” इति च अमरः। प्लुतिरूप इत्यर्थः। विशिखसंहतितापितमूर्त्तिभिः इति विशिखा वाणाः तेषां संहृतयः समूहाः। “स्त्रियां तु संहतिर्वृन्दम्” इत्यमरः। ताभिः तापिताः पीड़िता मूर्त्तयोदेहाः येषां तैःतथाभूतैः शरनिकरकर्त्तितकलेवरैः इत्यर्थः। शिवबलैःप्रमथसैन्येःकर्त्तृभिः रविकरेण ग्लपितैः तप्तैःवारिभिः। उदकैःइव प्रतिदिशं दिक्षु परिमण्डलता परितः चक्राकारमण्डलता इति यावत्। दधे अधारि प्रतिदिशं मण्डलाकारेण स्थितम् इत्यर्थः। धाञः कर्मणि लिट्। आतपतप्तं हि नीरं परिभ्रमति तद्वन्मुनिपीड़ित सैन्यं बभ्राम इत्यर्थः द्रुतविलम्बितं छन्दः—“द्रुतविलम्बितमाह नभौ भरौ” इति लक्षणात्॥६४॥
विधुवति धनुराविर्मण्डलं पाण्डुसूनो।
कथमपि जयलक्ष्मीर्भीतभीता विहातुं
विषमनयनसेनापक्षपातं विषेहे॥६५॥
इति अर्जुनाभिगमनो नाम चतुर्दशः सर्गः॥१४॥
<MISSING_FIG href=”../books_images/U-IMG-1730193906Screenshot2024-08-04235410.png"/>
पञ्चदशः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730193927Screenshot2024-10-10111156.png"/>
अथ भूतानि वार्त्रघ्नशरेभ्यस्तत्र तत्रसुः।
भेजे दिशः परित्यक्तमहेष्वासा च सा चमूः॥१॥
प्रविततेति। प्रविततानि विस्तृतानि शरजालानि तैः छन्नम आच्छादितं विश्वान्तरालं येन तस्मिन् शरपूरितब्रह्माण्डोदरेपाण्डुसूनौ आविर्मण्डलम् आविर्भूतमण्डलं धनुः आविर्भूतं मण्डल यस्य धनुष इति वृत्तो भूतार्थस्य अनुप्रवेशात् भूतशब्दस्याप्रयोगः। विधुवति कम्पयति आस्फालयति मति भीतभीतेव भीतप्रकारेव जयलक्ष्मीः विजयश्रीः कथमपि केनचित् प्रकारेण विषमनयनसेनापक्षपातं विहातु त्यक्तुं विषेहे शशाक इत्यर्थः॥६५॥
इति किरातार्जुनीये चतुर्दश सर्गव्याख्या समाप्ता।
अथेति। अथ अनन्तरं तत्र रणे भूतानि सर्वप्राणिनः वृत्रं हतवान् इति वृत्रहा इन्द्रः। “ब्रह्मभ्रूणवृत्रेषु क्विप्”। तस्य अपत्यं पुमान् वार्त्रघ्नोऽर्जुनः। “तस्यापत्यम्” इति अण्प्रत्ययः। तस्य शरेभ्यः तत्रसुः बिभ्युः। “वा जृृभ्रमुत्रसाम्” इति विक-
अपश्यद्भिरिवेशानं रणान्निववृते गणैः।
मुह्यत्येव हि कृच्छ्रेषु, संभ्रमज्वलितं मनः॥२॥
खण्डिताशंसया तेषां पराङ्मुखतया तया।
आविवेश कृपा केतौ कृतोच्चैर्वानरं नरम्॥३॥
ल्पादेत्वाभ्यासलोपाभावः। सा चमूश्च इषवोऽस्यन्ते एभिः इति इष्वामाः धनूंषि। “धनुश्चापोऽस्त्रमिष्वामः” इति हेमचन्द्रः। “अकर्त्तरि च कारके संज्ञायाम्” इति करणे घञ्। परित्यक्ता महान्त इष्वासा यया सा परित्यक्तायुधा इत्यर्थः। दिशो भेजेपलायाञ्चकेइत्यर्थः। अत्र भूतत्राससेनापलायनयोः समुच्चयकथनात् भिन्नविषयः क्रियासमुच्चयोऽलङ्कारः। “गुणक्रिया यौगपद्यं समुच्चयः” इति सामान्यलक्षणं तस्य यमकेन संसृष्टिः॥१॥उपान्तयमकम्।
अपश्यद्भिरिति। गणैःप्रमथैःईशानं स्वामिनं शिवं पुरोबर्त्तिनम् इति भावः। अपश्यद्भिः इव रणान्निववृते निवृत्तम्। भावे लिट्। तथाहि कृच्छ्रेषु आपत्सु सम्भ्रमेण साध्वसेन ज्वलितं तप्तम्। “सम्भ्रमः साध्वसेऽपि स्यात्” इति विश्वः। मनो मुह्यति एव। अतः पुरोवर्त्तिनोऽपि अदर्शनम् उपपद्यत इति भावः॥२॥
खण्डितेति। खण्डिता ध्वस्ता आशंसा जयाशा यस्याः तया तेषां गणानां सम्बन्धिन्या तया अतिसन्निकृष्टया इत्यर्थः। पराङ्मुखतथा रणवैमुख्येन पलायनेन इत्यर्थः। केतौ ध्वजे कृतः आरोपितः उच्चैः उन्नतो वानरो हनूमान् येन तं नरं पुरुषं कपिध्वजम् इत्यर्थः कृपा करुणा आविवेश। तदीयदुर्दशां दृष्ट्वा स कृपाविष्टोऽभूत् इत्यर्थः यमकालङ्कारः॥३॥
आस्थामालम्ब्यनीतेषु वशं क्षुद्रेष्वरातिषु।
व्यक्तिमायाति महतां माहात्म्यमनुकम्पया ॥४॥
स सासिः सासुसूःसासो येयायेयाययाययः।
ललौ लीलां ललोऽलोलः शशीशशिशुशोः शशन्॥५॥
एकाक्षरपादः।
ननु शत्रुषु कथं करुणा ? तत्राह। आस्थामिति। आस्थां यत्नम् आलम्ब्य। “आस्था त्वालम्बनास्थानयत्नापेक्षासु कथ्यते” इति विश्वः। वशं नीतेषु क्षुद्रेषु दुष्टेषु अरातिषु शत्रुषु विषये अनुकम्पया कृपया महतां वीराणां माहात्म्यंमहानुभावत्वं व्यक्तिं स्फूटताम् आयाति प्राप्नोति। स्वपौरुषनिर्जितेषु अरातिषु अपि करुणा भूषणम् एव महताम् इति भावः ॥४॥
स सासिरिति। सहासिना वर्त्तमानः सासिः सखड्गःप्रसून् सुवन्ति प्रेरयन्तीति असुसुवो बाणाः। “षु प्रेरणे” इति धातोः “सत्सूद्विष” इत्यादिना क्विप्। असुसूभिः सह वर्त्तत इति सासुसूःसबाणः। अस्यन्ते क्षिप्यन्ते शरा अनेनेति आसः धनुः “अकर्त्तरि च कारके संज्ञायाम् इति घञ्। आसेन सह वर्त्तत इति सासः सचापः। सर्वत्र“तेन सहेति तुल्ययोगे” इति बहुव्रीहिः। येया यातत्र्या यानसाध्याः। अयेया अयातव्याः यानं विनैव साध्याः। “अचो यत्” इति यत्प्रत्ययः। येयाश्च अयेयाश्च येयावेयाः तेषां द्वयानाम् आये स्वर्णगजादिलाभे याति प्राप्नोतीति येयायेयाययः। अयः शुभावहदैवं यातीत्यययः। येयायेयाययश्च असौ अययश्च इति येयाययाययाययः। याधातोरुभयत्रापि “आतोऽनुपसर्गे कः” इति कप्रत्ययः। अतो ललति विलसतीति ललः। “ललविलासे” पचा-
त्रासजिह्मं यतश्चैतान् मन्दमेवान्वियाय सः।
नातिपीड़यितुं भग्नानिच्छन्ति हि महौजसः॥६॥
अथाग्रे हसता साचिस्थितेन स्थिरकीर्त्तिना।
सेनान्या ते जगदिरे किञ्चिदायस्तचेंतसा॥७॥
निरौष्ठ्यम्।
मा विहासिष्ट समरं समरन्तव्यसंयतः।
द्यच्। अलोलोऽद्यपलः शशिनः ईशः शिवः तस्य शिशुः स्कन्दः तं शृणाति हिनस्तीति शशीशशिशुशीःक्विप्। शशन् प्लुतगतिं कुर्वन् “शश प्लुतगतौ” इति धातोः शतृप्रत्ययः।सोऽर्जुनो लीलां शोभां ललौ प्राप। “ला आदाने” कर्त्तरि लिट्। एकाक्षरपादः॥५॥
त्रासेति। सोऽर्जुनः त्रासजिह्मं भयक्लिष्टं यथा तथा यतो गच्छतः पलायमानान् इत्यर्थः। एतान् गणान् मन्दमेव अन्वियाय अनुजगाम। तथाहि महौजसो महानुभावाः भग्नान् अतिपीड़यितुं न इच्छन्ति॥६॥
अथेति। अथ अग्रे बलानाम् इत्यर्थः। हसता तद्भङ्गदर्शनात् स्मयमानेन साचिस्थितेन तन्निवारणाय तिर्य्यगर्थावस्थितेन। “तिर्य्यगर्थे साचि तिर” इत्यमरः। स्थिरकीर्तिना स्वयम् अभङ्गत्वात् इति भावः किञ्चिदौषदायस्तं खिन्नत्तेतो यस्य तेन स्वकीयगणभङ्गात् ईषत्खिन्नचित्तेन सेनान्या स्कन्देन। “पार्वतीनन्दनः स्कन्दः सेनानिरग्निभूर्गुहः” इत्यमरः। ते गणाः प्रमथादयो जगदिरे उक्ताः। औष्ठ्यवर्णाभावात् निरौष्ठ्यप्रमेतत्॥७॥
अथ एकविंशतिश्लोकैः स्कन्दवाक्यमेवाह। मा विहासि-
क्षतं क्षुस्सासुरगणैरगणैरिव किं यशः॥८॥
पादान्तादियमकम्।
विवस्वदंशुसंश्लेषद्विगुणीकृततेजसः।
अमी वा मोघमुद्गूर्णाहसन्तीव महासयः॥९॥
वनेऽवने वनसदां मार्गं मार्गमुपेयुषाम्।
बाणैर्बाणैः समासक्तं शङ्केऽशं केन शाम्यति॥१०॥
पादादियमकम्।
ष्टंत्यादिना। रन्तव्यं रमणं क्रीड़ा। बहुलग्रहणात् भावे तव्यत्प्रत्ययः। संयत् शुद्धम्। “समुदायः स्त्रियः मयत्समित्याजिभमिद्युधः” इत्यमरः। समे रन्तव्यसंयती येषां तं समरन्तव्यमयतः तुल्यकीड़ासङ्गरा इति तेषां सम्बोधनम्। यूयं समरं संग्रामं मा विहासिष्ट न त्यजत। जहातिर्माङि लुङ् मध्यमबहुवचनम्। क्षुण्णाः पराजिता असुरगणाः यैः तैः भवद्भिः इति xपः। अगणैः इव गणेभ्योऽन्यैःइव किं किमर्थं यशः क्षतं नाशितं न एतद्युक्तं महाशूराणां भवादृशानाम् इत्यर्थः॥८॥
विवस्वदिति। विवस्वदंशसंश्लेषेण सूर्य्यकिरणसम्पर्केण द्विगुणीकृतानि तेजांसि येषां ते तथोक्ताः मोघं व्यर्थं उद्गूर्णाः उद्यताः। “गुरौ उद्यमने” इति धातोः कर्मणि क्तः। वो युष्माकममी महासयः खड्गाः हसन्तीव इत्युत्प्रेक्षा। किं पलायमानानां खड्गैरिति हासः॥९॥
वन इति। वनमदां वनेचराणाम् अवने रक्षके वने मार्गं मृगसम्बन्धिनं मार्गं पन्थानम् उपेयुषां पलायमानानाम् इयर्थः। युष्माकम् इति शेषः। वाणो ध्वनिः एषाम् अस्तीति तं बाणैः ध्वनियुक्तैः। “बण संशब्दने” इति धातोर्घञ् ततो
पातितोत्तुङ्गमाहात्म्यैः संहृतायतकीर्त्तिभिः।
गुर्वीं कामापदं हन्तुं कृतमावृत्तिसाहसम्॥११॥
गोमूत्रिकाबन्धः।
ना सु रो ऽयं न वा नागो धरसंस्थो न राक्षसः।
ना सु खो ऽयं न वा भोगो धरणिस्थो हि राजसः॥१२॥
“अर्श आदिभ्यः” इत्यच्प्रत्ययः। यमकत्वात् बवयोरभेदः। उक्तञ्च—“रलयोर्डलयोस्तद्वज्जययोर्बवयोरपि। शमयोर्मनयोश्चान्तेमविसर्गाविसर्गयोः। सविन्दुकाविन्दुकयोः स्यादभेदेन कल्पनम्” इति। बाणैः शरैः समासक्तं समासञ्जितम् अशं दुःखं तत् केन शाम्यतीति शङ्के केन उपायेन शाम्येदिति विचारयामि इत्यर्थः॥१०॥
पातितेति। पातितम् उत्तुङ्गमाहात्म्यम् उन्नतभावो यैः तैः संहृताः आहृता आयताः विस्तृताः कीर्त्तयो यैः तैः युष्माभिः इति शेषः। कां गुर्वीम् आपदं हन्तुं न काञ्चिदपि इत्यर्थः। आवृत्तिः युद्धान्निवृत्तिः सेव साहसं कृतम् अतः पापात् अन्यन्न किञ्चित् फलम् अस्तीति भावः। तदुक्तं मनुना—“यस्तु भीतः परावृत्तः संग्रामे हन्यते परैः। भर्त्तुर्यद्दुष्कृतं किञ्चित् तत्सर्वं प्रतिपद्यते। यच्चास्य सुकृतं किञ्चिदमुत्रार्थमुपार्जितम्। भर्त्ता तत्सर्वमादत्ते परावृत्तहतस्य तु” इति॥११॥
नेति। किञ्च अयम् असुरो दैत्योन। नागो गजो वा पन्नगश्च न। धरसंस्थः पर्वताकारः। “अहार्य्यधरपर्वताः” इत्यमरः। “संस्था व्यवस्था प्रणिधिस्थितिसाकारमृत्युषु” इति वैजयन्ती। राक्षसो न। किन्त्वयं सुखयतीति सुखः। सुखसाध्य इत्यर्थः। नवाभोगोऽभिनवप्रयत्नो महोत्साह इत्यर्थः। “आभोगो
मन्दमस्यन्निषुलतां घृणया मुनिरेष वः।
प्रणुदत्यागतावज्ञं जघनेषु पशूनिव॥१३॥
न नो न नु न्नोनु न्नो नो नाना नानानना !ननु।
नुन्नोऽनुन्नो ननुन्नेनो नानेना नुन्ननुन्ननुत्॥१४॥
एकाक्षरः।
वरुणच्छत्रे पूर्णतायत्नयोरपि” इति विश्वः। धरणिस्थोभूतलचारी राजसो रजोगुणप्रधानो ना पुरुषो हि कश्चित् मानुष इत्यर्थः। “पुरुषाः पूरुषा नरः। मनुष्या मानुषा मर्त्त्या मनुजा मानवा नराः” इत्यमरः। अतो न पलायनमुचितमिति भावः। गोमूत्रिकाबन्धः। “वर्णानामेकरूपत्वं यद्येकान्तरमर्द्धयोः। गोमूत्रिकेति तत्प्राह दुष्करं तद्विदो विदुः” इति लक्षणात्। षोड़शकोष्ठद्वये अर्द्धद्वयं क्रमेण विलिख्य एकान्तरविनिमयेन वाचने श्लोकनिष्पत्तिः इति उद्धारः॥१२॥
मन्दमिति। एष मुनिः घृणया कृपया इषुं लतां शाखाम् इव मन्दमस्यन् क्षिपन् वो युष्मान् पशून् इव आगतावज्ञंयथा तथा जघनेषु प्रणुदति चोदयति किमतः परं कष्टम् इति भावः॥१३॥
नेति। पदच्छेदस्तावत्। न ना ऊननुन्न नुन्नोनः ना अना नानाननाः ननु। नुन्नः अनुन्नः ननुन्नेनः ना अनेनाः नुन्ननुन्ननुत्। अथ योजना। हे नानाननाः ! नानाप्रकाराणि आननानि येषां ते नानाविधास्या इत्यर्थः। जनेन निकृष्टेन नुन्नो विद्धऊननुन्नो यः स ना न पुरुषो न। तथानुन्न ऊनो येन स नुन्नोनो ना पुरुषोऽना ननु अपुरुषः खलु। ऊनाद्भीतः पलायमानस्तु किं वक्तव्यम् इति भावः। किञ्च नुन्नः इनः
वरं कृतध्वस्तगुणादत्यन्तमगुणः पुमान्।
प्रकृत्या ह्यमणिः श्रेयान् नालङ्कारश्च्युतोपलः॥१५॥
स्यन्दना नो चतुरगाः सुरेभा वाविपत्तयः।
स्यन्दना नो च तुरगाः सुरेभावा विपत्तयः॥१६॥
समुद्गकः।
स्वामी यस्य स नुन्नेनः स न भवतीति ननुन्नेनः। नञर्थस्य नशब्दस्य सुप्सुपेति समासः स नुन्नो विद्वोऽप्यनुन्नोऽविद्धएवयूयमनुन्नस्वामिकत्वादनुन्ना एवेति भावः। तथा नुन्ननुन्ननुदतिशयेन नुन्नान्नुन्ननुन्नान् नुदतीति नुन्ननुन्ननुत् अतिपीड़ितपीड़त पीडकःना पुरुषः अनेनाः निर्दोषो न भवतीति किन्तु सदोष एवेति “नात्तेनातिपरिक्षतम्” इति निषेधादित्यर्थः। अयन्तु नैतादृश इति न पलायितव्यमिति भावः। अयमेकव्यञ्जनः अन्त्यस्तकारस्तु न दोषावहः। “नान्त्यवर्णस्तु भेदकः” इति अभ्यनुज्ञानात्॥१४॥
वरमिति। कृताः पूर्वम् उत्पादिताः पश्चात् ध्वस्ता नष्टाः ते कृतध्वस्ताः। “पूर्वकाल” इत्यादिना समासः। कृतध्वस्ताः गुणाः यस्य तस्मात् पुंसोऽत्यन्तम् अतिशयेन अगुणो निर्गुणः पुमान् वर मनाक्प्रियः किञ्चित्प्रिय इत्यर्थः। “वरं क्लीवे मनाक्प्रिये” इत्यमरः। तथापि प्रकृत्या स्वभावेन अमणिः मणिरहितोऽलङ्कारः श्रेयान्। च्युतोपलो भ्रष्टरत्नो न श्रेयान्। “उपलः प्रस्तरेरत्ने”इति विश्वः। पलायितुः समरात् असमर एव वरमिति भावः। अत्र समानविषयारोपयोः प्रतिविम्बकरणात् दृष्टान्तालङ्कारः॥१५॥
स्यन्दना इति। स्यन्दन्तेप्रद्रवन्तीति स्यन्दना; जवनाः
भवद्भिरधुनारातिपरिहापितपौरुषैः।
ह्रदैरिवार्कनिष्पीतैः प्राप्तः पङ्को दुरुत्तरः॥१७॥
वेत्रशाककुजे शैलेऽलेशैजेऽकुकशात्रवे।
यात किं विदिशो जेतुं तुञ्जेशोदिवि किं तया॥१८॥
प्रतिलोमानुलोमपादः।
स्यन्दनाः रथा नो सन्ति। नन्द्यादित्वात ल्युः। चतुरं गच्छन्तीति चतुरगाः तुरगाश्चअश्वा नो सन्ति। सुरभाः शोभनवृंहणाः सुरेभा वा सुरगजाश्च नो सन्ति। अविपत्तयो विपत्तिरहिताः विपत्तयो वा विशिष्टाः पदातयो नो सन्ति। अतो न भेतव्यम् इति भावः। अत्र पूर्वोत्तरार्द्धगतानां विशेषणानां च उद्देशोद्देश्यीभूतानां यथासंख्यसम्बन्धानुक्रमाद्यथासंख्यालङ्कारो यमकेन संसृष्टः॥१६॥
भवद्भिरिति। अधुना अरातिभिः परिहापितानि त्याजितानि पौरुषाणि यैः तैः भवद्भिःअर्कनिष्पीतैः अर्केण संशोषितैः ह्रदैइव दुरुत्तरो दुस्तरः पङ्क इव दुष्कीर्त्तिः प्राप्तः॥१७॥
वेत्रेति। वेत्राणि वंशाः फलिन्यो वा शाकाः वर्वराश्च कुजा वृक्षा यस्मिन् तस्मिन् वेत्रशाककुजं शत्रुणा दुःप्रवेश्ये इत्यर्थः। “वेत्रंवंशफलिन्योश्च” इति विश्वः। “शाकवर्वरवर्धकाः” इत्यमरः। लेशेन स्तोकेन अपि एजते कम्पते इति लेशैजः म न भवतीति अलेशैजः तस्मिन्। अत्यन्ताकम्पने इत्यर्थः। “एजृ कम्पने” पचाद्यच्। न कोकते नादत्ते इति अकुको ग्रहणासमर्थः शात्रवो यस्मिन् तस्मिन् अकुकशात्रवे। “कुक आदाने” पचाद्यच्। शैले पर्वते। केषां भावः किन्ता कुत्सितता तया उपलक्षिताः सन्तः। “कुत्सानिन्दावितर्केषु क्षेपे किं शब्द
अयं वः क्लैव्यमापन्नान् दृष्टपृष्ठानरातिना।
इच्छतीशश्च्युताचारान् दारानिव निगोपितुम्॥१९॥
ननु हो मथना राघो घोरा नाथमहो नु न।
तयदातवदा भीमा माभीदा वत दायत॥२०॥
प्रतिलोमानुलोमार्द्धः।
इप्यते” इति शश्वतः। विदिशो जेतुं यात गच्छत किम्? यातेः सम्प्रश्नेलोट्। मध्यमपुरुषबहुवचनम्। दिवि स्वर्गेऽपि तुञ्जेश इति तेषां सम्बाधनम्। तुञ्जन्त इति तुञ्जाः दैत्याः “तुजि हिसायाम्” पचाद्यच्। तेभ्यो दैत्येभ्य ईशत इति तुञ्जेशः ईशे क्विप्। तेभ्योऽपि शक्ता इत्यर्थः। स्वर्गेऽपि असुरविजयिनां युष्माकम् अत्र क्षुद्रस्थले क्षुद्रशत्रौ पलायनम् अनुचितम् इति भावः॥१८॥
अथेशे तिष्ठति पलायनमेतद् वो न युक्तम् इत्याह। अयमिति। अयम् ईशः स्वामी शिवः क्लैव्यं निष्पौरुषत्वम् आपन्नान् प्राप्तान् तथा अरातिना दृष्टपृष्ठान् पलायमानान् इत्यथः वो युष्मान् च्युताचारान् स्खलितव्रतान् दारान् कलत्राणि इव। “अथ पुंभूम्निदाराः” इत्यमरः। निगोपितुं गोप्तुम्। ऊदित्त्वादिड् विकल्पः। दारदोषं भर्त्तेव स्वमहिम्ना युष्मद्दोषं संवरितुम् इच्छति। अतः कुतो युष्माकम् अनर्थः ? इत्यर्थः॥१९॥
नन्विति। ननु इति आमन्त्रणे। हो इति आह्वाने। “हे है व्यस्तौ समस्तौ च हूतिसम्बोधनार्थयोः। हो हौ चैवंविधौद्मेयीसम्बुद्ध्याह्वानयोरपि” इति विश्वः। मथ्नन्तीति मथनाः “मन्थविलोड़ने” कर्त्तरि ल्युट्। राघन्ति समर्था भवन्तीति राघः। “राघृ सामर्थ्ये” क्विप्। घोराः क्रूराः शत्रूणाम् इति
किं त्यक्तापास्तदेवत्वमानुष्यकपरिग्रहैः।
ज्वलितान्यगुणैर्गुर्वीस्थिता तेजसि मानिता॥२१॥
निशितासिरतोऽभीको न्येजतेऽमरणा रुचा।
सारतो न विरोधी नः स्वाभासो भरवानुत॥२२॥
भावः। नाथं महयन्ति पूजयन्तीति नाथमहः। दृशिग्रहणात् कर्म्मणि उपपदे क्विप्। तयन्ति रक्षन्तीति तयाः रक्षकाः। पचाद्यच्। दायन्तीति दाताः शुद्धाः।“दैप् शोधने” कर्त्तरि क्तः। वदन्तीति वदाः वक्तारः। पचाद्यच्। तेषां द्वन्द्वःतयदातवदाः भीमा भयङ्कराः माभीः। नञर्थमाशब्दस्य सुप्सुपेति समासः। तान् ददतीति माभीदाः अभयप्रदाः एवंविधा यूयमिति शेषः। वत इति खेदे बवयोरभेदः। न दायत नु ? न शुद्धाः किम् ? नु पृच्छायाम्। किन्तु शुद्धा एव न काकुः अत्त्रानुसन्धेयः। “दैप् शोधने” लोट् मध्यमपुरुषबहुवचनम्॥२०॥
किमिति। अपास्तोऽवधीरितो देवत्वमानुष्यकयोः परिग्रहः स्वीकारो येः तैः अतिदेवमानुषैः इत्यर्थः। मनुष्याणां भावो मानुष्यकम्। योपधात् गुरुपोत्तमाद्वुञ्। ज्वलितानि अगुणैः ज्वलिताः प्रकाशिता इति यावत् अन्यगुणा असदृशगुणा यैः तैः “अन्यौविभिन्नासदृशौ” इति वैजयन्ती। ईदृशैः भवद्भिरिति शेषः। तेजसि प्रतापे स्थिता प्रतापैकशरणा मानिता शूरत्वाभिमानिता किमिति त्यक्ता। किमिति निर्लज्जैःपलायते इति भावः॥२१॥
निशितेति। हे अमरणा मरणरहिता निशितासिरतोऽतितीक्ष्णखङ्गरतोऽभीको निर्भीको रुचा तेजसा उपलक्षितः सुष्टुः आभासत इति स्वाभासो रमणीयः। पचाद्यच्। उत अत्यर्थम् अतिशयेन भरवान्। रणभरसहिष्णुः इत्यर्थः। उता-
तनुवारभसो भास्वानधीरो विनतोरसा।
चारुणा रमते जन्ये कोऽभीतो रसिताशिनि॥२३॥
प्रतिलोमानुलोमेन श्लोकद्वयम्।
त्यर्थविकल्पयोः” इति विश्वः। ईदृशो नोऽस्माकं विरोधी शत्रुः सारतो बलतो न न्येजते न कम्पते न प्रचलतोत्यर्थः। एजृकम्पने” लट्। अतो भवद्भिः अपि व्यातत्र्यम् एव न चलितव्यम् इति भावः। एतन्मते “विरोधी नः” इत्यत्र सविसर्गपाठः। प्रतिलोभेनिर्विसर्गपाठे “पदान्ते सविसर्गाविमर्गयोः” इत्येतादृशकाव्ये एक्यस्वीकारात्। अन्येतु इनः सूर्य्यइव स्वाभाम इनस्वाभाम इत्येकं पदम् आहुः। केचित्त विरोधौशत्रुः पूर्वविशेषणविशिष्टो न, अपि तु पूर्वविशेषणविशिष्ट एवेति काक्वर्थेन नकारमाहुः। परे तु सारता न विरोधी न ।न रतम् अरतम् अरतेन सह वर्त्तमानाः सारता मुनयः तान् ऊनयन्ति मारणनन्यूनान् कुर्वन्तीति सारतोना देत्यास्तेषां विरोधो विष्णुः स नावं नायम्। अतः कथं पलायन्ते। न स्वाभासः। स्वेन धनेन भामत इति स्वाभासः कुवेरः सोऽपि नायम्। न भरवान् भं नक्षत्रं राति। आतोऽनुपसर्गे कः। भरश्चन्द्रस्तद्वान् शिवोऽपि न अतः पलायनं न उचितमित्याहुः इत्युपरिष्टात्॥२२॥
ननु अयं न चलतीति कथं ज्ञायते ? तत्राह। तन्विति। तनुमावृणोति आच्छादयति इति तनुवारं वर्म। कर्मण्यण्। तेन वभस्ति भासते इति अनुवारभसः। “भस दीप्तौ” पचाद्यच्। भास्वान् तेजस्वी चारुणा भास्वता विनतेन उन्नतेन उरसा वक्षःस्थलेन उपलक्षितः। एवंविधोऽपि अधीरो धैर्य्यरहितः रसितेन शब्दितेनैव अश्नाति ग्रसति इति रसिताशी
विभिन्नपातिताश्वीयनिरुद्धरथवर्त्मनि।
हतद्विपनगष्ठ्यूतरुधिराम्बुनदाकुले ॥२४॥
दे वा का नि नि का वा दे
वा हिं का स्व स्व का हि वा।
का का रे भ भ रे का का
नि स्व भ व्य व्य भ स्व नि ॥२५॥
इति सर्वतोभद्रः।
तस्मिन्। रवेण एव विश्वप्राणहारिणीत्यर्थः। आभीक्ष्ण्येणिनिः। जन्ये युद्धे “युद्धमायोधनं जन्यम्” इत्यमरः। अभीतः निर्भीकः सन् को रमते कः क्रीड़ति निर्भयसञ्चारात् एव अस्य निश्चलत्वं निश्चीयत इत्यर्थः। पूर्वश्लोकस्य अयं प्रतिलोमः ॥२३॥
अथ पञ्चभिः कुलकमाह। विभिन्नेत्यादिभिः। आहवं विशिनष्टि। विभिन्नानि विदारितानि अत एव पातितानि आश्वीया अश्वसमूहाश्च तेतथा। “पूर्वकाल” इति समासः। तैः अश्वसमूहैः निरुद्धानि रथानां वर्त्मानि यस्मिन् तथोक्ते। “वृन्देत्वाश्वीयमाश्ववत्” इत्यमरः। “केशाश्वाभ्यां यञ्छावन्यतरस्याम्” इति छप्रत्ययः। हतास्ताड़िता द्विपा गजा एव नगाः शलाः। “शैलवृक्षौ नगावगौ” इत्यमरः। तः ष्टठ्यूतानि उज्झितानि। ष्ठिवतेः कर्मणि क्तः। “छ्वोः शूड़नुनासिके च” इति ऊठादेशः। तानि रुधिराण्येव अम्बूनि तेषां नदैःप्रवाहैःआकुले व्याप्ते ॥२४॥
देवेति। पुनश्च देवान् आकनयति उद्दीपयति उत्साहयति इति देवाकानी तस्मिन् देवाकानिनि। “कन दीप्तौ” इति धातोर्ण्यन्तात् णिनिः। यद्वा “के शब्दे” इति धातोराङ्पूर्वस्य
प्रनृत्तशववित्रस्ततुरगाक्षिप्तसारथौ।
मारुतापूर्णतूणीरविकृष्टहतसादिनि॥२६॥
भावे ल्युटि आकानम् आशब्दवम् ईषद्वदनम् इति यावत् देवानां तद्वतीत्यर्थः। कावादः ईषद्वादो वाक्कलहः। “ईषदर्थे” इति कुशब्दस्य कादेशः। तद्वति कावादे। “अर्श आदिभ्योऽच्” वाहिकापर्य्यायेण रणभारोद्वहनम्। वहेः पर्य्याये धात्वर्थनिर्देशेण्युल्वक्तव्यः। वाहिकया क्रमप्राप्तरणक्रियया सुष्ठुशोभनं यथा तथा अस्वकान् परानाजिहौते अभियुङ्क्ते योजयतीति यावत् वाहिकास्वस्वकाहाः तस्मिन्। योद्धृधर्मांयुद्धे उपचर्य्यते। “ओहाङ् गतौ” इति धातोः विच्प्रत्ययः। सोमपाशब्दवत् प्रक्रिया। वाशब्दश्चार्थे। कं मदोदकमाकिरन्ति इति काकाराः मदस्राविणः। किरतेराङ्पूर्वात् कर्मण्वण्। एवंविधा इभभरा गजघटा यत्र यस्मिन् काकारेभभरे। काका इव काकाः गर्ह्या इति लक्षणया तेषाम् आमन्त्रणम्। निस्वाःनिरुत्साहाः भव्याः सोत्साहाः तानुभयान् व्युयन्ति संवृण्वन्ति इति निस्वभव्यव्याः। “व्येञ् संवरणे।” “आतोऽनुपसर्गे कः”। ते बभस्ति भासते इति निस्वभव्यव्यभस्वान् तस्मिन्। “अन्येभ्योऽपि दृश्यते” इति क्वनिप्। सर्वतोभद्रम्। सर्वतो भ्रमगात् सर्वतो भद्राख्यश्चित्रबन्धः। यथाह दण्डी। “तदिदं सर्वतोमद्रं भ्रमणं यदि सर्वतः” इति। उद्धारस्तु \। “अष्टकोष्ठचतुष्टयं लिखित्वा तत्र श्लोकं क्रमेण लिखित्वा सर्वतोवाचनात् सर्वतोभद्रः” इति॥२५॥
प्रनृत्तात। प्रनृत्तशवेभ्यो नृत्यत्कबन्धेभ्यो वित्रस्तैः क्षुभितैः तुरगैः आक्षिप्ता अवधूताः सारथयोयत्र तस्मिन्। तथा मारुतेन आपूर्णैः व्याप्तैः तूणीरैःनिषङ्गैः विकृष्टाः शब्दायमानाः
स स त्व र ति दे नि त्यं
स द रा म र्ष ना शि नि।
त्व रा धि क र्कसं ना दे
र म क त्व म क र्ष ति॥२७॥
इति अर्द्धभ्रमकः।
आमुरे लोकवित्रासविधायिनि महाहवे।
युष्माभिरुन्नतिं नीतं निरस्तमिह पौरुषम्॥२८॥
कुलकम्।
इति शासति सेनान्यां गच्छतस्ताननेकधा।
हताः ताड़िताः सादिनस्तीरङ्गिका यत्र तस्मिन् यद्वा मारुतापूर्णतूणीरैःविकृष्टा आकर्षिता अत एव हता मारिताः सादिनोऽश्ववारा यत्र तस्मिन्॥२६॥
ससत्वेति। ससत्त्वानां सत्त्ववतां रतिदे रागप्रदे नित्यमदराणां सभयानाम् अमर्षनाशिनि क्रोधहारिणि त्वरया उत्साहेन अधिकं कसन्तो विकसन्तो नादाः यत्र तस्मिन् रमयति इति रमकः। रमधातोः वुञ्। तस्याकादेशः तद्भावो रमकत्वम्। रणकर्मणा पररञ्जकत्वं अकर्षति अपनुदति वीराणां परस्परम् उत्साहं रणकर्मणा स्फोरयति इत्यर्थः॥२७॥
आसुर इति। एवंविधे आसुरे असुरसम्बन्धिनि लोकवित्रासविधायिनि लोकभयङ्करे महाहवे महायुद्धे युष्माभिः उन्नतिं वृद्धिं नीतं प्रापितं पौरुषं पुरुषकर्म निरस्तं नाशितम् इह संग्रामे॥२८॥
इतीति। इतीत्थं सेनान्यां स्कन्दे शासति आज्ञापयति
निषिध्य हसता किञ्चित् तस्थे तत्रान्धकारिणा॥२९॥
निरौष्ठ्यम्।
मुनीषुदहनातप्तान् लज्जया निविवृत्सतः।
शिवः प्रह्लादयामास तान्निषेधहिमाम्बुना॥३०॥
दूनास्तेऽरिबलादूना निरेभा बहु मेनिरे।
भीताः शितशराभीताः शङ्करं तत्रशङ्करम्॥३१॥
पादाद्यन्तयमकम्।
महेषुजलधौ शत्रोर्वर्त्तमाना दुरुत्तरे।
अनेकधा गच्छतः पलायमानान् तान् गणान् निषिध्य निवार्य्य अन्धकारिणा हरेण किञ्चित् हसता तस्थे स्थितम्। भावे लिट्॥२९॥
मुनोति। मुनेरिषव एव दहनस्तेन आतप्तान् पीड़ितान् तथा लज्जया रणभङ्गात् शालीनत्वेन निविवृत्सतो निवर्त्तितुकामान्। “वृद्ध्यःस्यसनोः” इति विकल्पात् परस्मैपदम्। तान् गणान् शिवः निषेधः मा भैष्ट मा पलायतेति निवारणवचनं स एव हिमाम्बु शीतोदकं तेन प्रह्लादयामास। रूपकालङ्कारः॥३०॥
दूना इति। दूनाः शरतप्ताः। “ल्वादिभ्यः” इति निष्ठानत्वम्। अरिबलात् शत्रुबलात् ऊनाः ऊनबलाः। “पञ्चमीविभक्ते” इति पञ्चमौ। निरेभाः निःशब्दाः। कुतः भीताः त्रस्ताः कुतः यतः शितैः तीक्ष्णैः शरैः अभीताः अभिव्याप्ताः। इणः कर्मणि क्तः। ते गणाः तत्र रणे शङ्करम् अभयवचनेन सुखकरं शङ्करं शिवं बहु यथा तथा मेनिरे अमन्यन्त॥३१॥
महेष्विति। दुरुत्तरे दुस्तरे शत्रोः सम्बन्धिनि महेषुजलधौ
प्राप्य पारमिवेशानमाशश्वास पताकिनी॥३२॥
सबभार रणापेतां चमूं पश्चादवस्थिताम्।
पुरः सूर्य्यादपावृत्तां छायामिव महातरुः॥३३॥
मुञ्चतीशे शरान् जिष्णौ पिनाकस्वनपूरितः।
दध्वान ध्वनयन्नाशाः स्फुटन्निव धराधरः॥३४॥
तद्गणा ददृशुर्भीमं चित्रसंस्था इवाचलाः।
विस्मयेन तयोर्युद्धं चित्रसंस्था इवाचुलाः॥३५॥
द्विचतुर्थयमकम्।
महति बाणसागरे वर्त्तमाना पताकिनी सेना ईशानं शिवं पारं परतीरम् इव। “पारावारे परार्वाचो” इत्यमरः। प्राप्य आशश्वास प्राणिति स्म॥३२॥
स इति। स xxरणापेतां रणादपवृत्तां पराङ्मुखीभूताम् अत एव पश्चात् पृष्ठभागे अवस्थितां चमूं पुरोऽग्रे स्थितः सूर्य्यःसूर्यकिरणः तस्मात् अपावृत्तां परावृत्तां छायां महातरुः इव बभार। छायां तरुरिव आत्मैकशरणां तां चमूं न मुमोच इत्यर्थः॥३३॥
मुञ्चतीति। ईशे हरे कर्त्तरि जिष्णौ अर्जुने विषये शरात् मुञ्चति सति पिनाकस्य शिवकार्मुकस्य स्वनेन ध्वनिना पूरित धराधरः इन्द्रकीलः स्फुटन्निव विदीर्य्यमाण इव इत्युत्प्रेक्षा। आशा दिशः ध्वनयन् शब्दयुक्ताः कुर्वन् दध्वान शब्दमकरोत्। “दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः” इत्यमरः॥३४॥
तदिति। भीमं तयोः हरपाण्डवयोः तत् प्रसिद्धं युद्धं गणाः प्रमथाः चित्रसंस्थाः चित्राकाराः अचलाः शैला इव। तथा
परिमोहयमाणेन शिक्षालाघवलीलया।
जैष्णवी विशिखश्रेणीपरिजह्ने पिनाकिना॥३६॥
अवद्यन् पत्रिणः शम्भोः सायकैरवसायकैः।
पाण्डवः परिचक्राम शिक्षया रणशिक्षया॥३७॥
आद्यन्तयमकम्।
चारचुञ्चुश्चिरारेचो चञ्चच्चीररुचा रुचः।
चित्रे अलेख्ये संस्था स्थितिः येषां ते चित्रसंस्थाः चित्रलिखिता डव अचला आश्चर्य्यवशात् निश्चलाः सन्तो विस्मयेन ददृशुः॥३५॥द्विचतुर्थयमकम्।
परीति। शिक्षालाघवलीलया अभ्यासपाटवातिशयेन हेतुना परिमोहयमाणेन व्यामोहयता। “अणावकर्मकाच्चित्तवत्कर्त्तृकात्” इति परस्मैपदेप्राप्ते “न पादमि” इत्यादिना तत् प्रतिषेधात् आत्मनेपदं शानच्। “णेर्विभाषा” इति कृत्स्थस्य नस्य वा णत्वम्। पिनाकिना हरेण जिष्णोः अर्जुनस्य इयं जैष्णवी विशिखश्रेणी बाणसङ्घातः परिजह्रे निरस्ता॥३६॥
अवद्यन्निति। पाण्डवोऽर्जुनः अवसायकैः अवसानकरैःस्यतेर्ण्यन्तात् ण्वुल्प्रत्ययः। सायकैःबाणैः शम्भोः पत्रिणः शरान् अवद्यन् खण्डयन्। द्यतेः शतृप्रत्ययः। “ओतः श्यनि” इति ओकारलोपः। शिक्षया शक्तुं प्रभवितुमिच्छया उत्साहेन इत्यर्थः रणे शिक्षया अभ्यासेन च परिचक्राम। उत्साहनैपुण्याभ्यां चचार इत्यर्थः॥३७॥
चारेति। चारैः गतिविशेषैः वित्त इति चारचुञ्चुः।“तेनवित्तश्चुञ्चुप्चणपौ” इति चुञ्चुप्प्रत्ययः। चिरमारेचयति रिक्तीकरोति शत्रून् इति चिरारेची। चञ्चतः चलतश्चीरस्य वल्कलस्य
चचार रुचिरश्चारु चारैराचारचञ्चुरः॥३८॥
द्व्यक्षरः।
स्फुरत्पिशङ्गमौर्वीकं धुनानः स वृहद्धनुः।
धृतोल्कानलयोगेन तुल्यमंशुमता बभौ॥३९॥
पार्थबाणाः पशुपतेरावब्रुर्विशिखावलीम्।
पयोमुचा इवारन्ध्राः सावित्रीमंशुसंहतिम्॥४०॥
शरवृष्टिं विधूयोर्वीमुदस्तां सव्यसाचिना।
रुरोध मार्गणैर्मार्गं तपनस्य त्रिलोचनः॥४१॥
रुचा प्रभया रोचते इति रुचः शोभमानः। “इगुपध” इति कः। रुचिरः सुन्दरः। चञ्चुर्य्यते भृशं चरतीति चञ्चुरः। चरतेर्यङन्तात् पचाद्यच्। “चरफलोश्च” इति नुमागमः। “यङोऽचि च” इति यङो लुक्। आचारस्य युद्धव्यवहारस्य चञ्चुरो भृशम् आचरितः स मुनिः चारु यथा तथा चारैः चक्रादिबन्धैःगतिः विशेषैः चचार। “चारः पियालवृक्षे स्याद्गतौ बन्धापसर्पयोः” इति विश्वः॥३८॥द्व्यक्षरः।
स्फुरदिति। स मुनिः अर्जुनः स्फुरन्तीपिशङ्गी पिशङ्गवर्णा मौर्वी ज्या यस्य तत् तथोक्तम्। “नघृतश्च” इति कप् प्रत्ययः। बृहद्धनुः गाण्डीवं धुनानः कम्पयन्। उल्कैव अनलः तेन धृतो योगो येन तेन अंशुमता अर्केण सूर्य्येण तुल्यं बभौ। उपमा॥३९॥
पार्थेति। पार्थबाणाः अर्जुनशराः पशुपतेः विशिखावलीं शरसङ्घातं सवितुरियं सावित्री ताम् अंशुसंहतिं किरणसमूहम् अरन्ध्राःनिविड़ाः पयोमुचः मेघा इव आवबुः तिरोदधुः॥४०॥
शरेति। त्रिलोचनः शिवः। सव्येन सचते समवैतीति तेन
तेन व्यातेनिरे भीमा भीमार्जनफलाननाः।
न नानुकस्प्याविशिखाः शिखाधरजवासंसः॥४२॥
शृङ्खलायमकम्।
द्युवियद्गामिनी तारसंरावविहतश्रुतिः।
हैमीषुमाला शुशुभे विद्युतामिव संहतिः॥४३॥
इति गढ़चतुर्थपादः।
सव्यसाचिना अर्जुनेन उदस्तां क्षिप्ताम् उर्वीं महतीं शरवृष्टिं गार्गणैः शरैः विधूय निरस्य तपनस्य मार्गं रुरोध आवव्रे॥४१॥
तेनेति। तेन शिवेन भीमाः भयङ्कराः भियो भयस्य मार्जनं निरासः तदेव फलं प्रयोजनं येषां तानि आननानि अग्राणि येषां ते भीमार्जनफलाननाः। तथा शिखाधराः मयूराः तेषु जातानि शिखाधरजानि वर्हाणि तानि वासांसि पक्षा येषां ते शिखाधरजवाससः मयूरपक्षिण इत्यर्थः। विशिखाः बाणा अनुकम्प्यकृपां कृत्वा न व्यातेनिरे इति न किन्तु अनुकम्प्यैव इत्यर्थः। अनुजिघृक्षुत्वात् इति भावः। समान्यनिषेधने द्वौ प्रतिषेधौ इत्युक्तम्॥४२॥शृङ्खलायमकम्।
द्युवियदिति। द्यां स्वर्गं वियदन्तरिक्षं च गच्छति इति द्युवियद्गामिनीते इव व्यापिनी। द्वितीयाप्रकरणे श्रितादिषु गम्यादीनाम् उपसङ्ख्यानात्समासः। तारेण उच्चैस्तरेण संरविण विहताः ताड़िता विद्धाः श्रुतयः कर्णा यया सा तथोक्ता। हेमा हेममयीइषुमाला शिवशरावलिः विद्युतां संहतिरिव उक्तविशेषणा विद्युन्माला इव शुशुभे। चतुर्थपादवर्णानां त्रिपाद्यां सम्भवात् गूढ़चतुर्थपादमाहुः॥४३॥
विलङ्घ्य पत्रिणां पङ्क्तिं भिन्नः शिवशिलीमुखैः।
ज्यायो वीर्य्यमुपाश्रित्य न चकम्पे कपिध्वजः॥४४॥
जगतीशरणे युक्तो हरिकान्तः सुधासितः।
दानवर्षी कृताशंसो नागराज इवाबभौ॥४५॥
अर्थत्रयवाची।
विलङ्घ्येति। शिवशिलीमुखैःपत्रिणां पङ्क्तिं निजशराबलिं विलङ्घ्य अतिक्रम्य भिन्नोविद्धः कपिध्वजः ज्यायः प्रशस्तम्। “वृद्धप्रशस्तयोर्ज्यायान्” इत्यमरः। वीर्य्यं सत्त्वम् उपाश्रित्य अवस्थाय न चकम्पे न चचाल किन्तु तान् सहन् अवतस्थौ इत्यर्थः॥४४॥
जगतीति। अर्थत्रयवाची श्लोकोऽयम्। तत्र आदौ अगराज इति पदच्छेदमाश्रित्य एकाऽर्थोऽभिधीयते। ईशस्य रणे युक्तः शक्तः अन्यत्र जगतीशरणे भूरक्षणे युक्तः स्थितः विधिना इति शेषः। हरिः सिंहः इव कान्तः मनोहरः अन्यत्र हरीणां सिंहानां कान्तः आवासदानात् प्रियः सुष्ठु दधाति पालयति प्रजा इति सुधा। विजन्तः। असितः कृष्णवर्णः ततो विशेषणसमासः। अन्यत्र सुधा लेपद्रव्यविशेषः तद्वत् सितो धवलः दानवर्षी बहुप्रदः कृताशंसः कृतजयाभिलाषः अन्यत्र दानवैः दैत्यैः ऋषिभिश्च कृता आशंमा नानाफलाभिलाषो यस्मिन् स ना नरोऽर्जुनः। अगराजः हिमवान् इव जगति आबभौ इति एकार्थः॥<MISSING_FIG href="../books_images/U-IMG-1732285841४४.png"/>॥(१) अथ ऐरावतसाम्यमुच्यते। जगतीं भुवं श्यन्ति तनृकुर्वन्तीति ते जगतीशाः राक्षसाः तेषां रणः तत्र युक्तः विहितः समर्थः। हरिकान्तः इन्द्रप्रियः उभयत्रापि समानमेतत्। सुधासितः अमृतस्वच्छः एकत्र शीतलः अन्यत्र वर्णत
विफलीकृतयत्नस्य क्षतवाणस्य शम्भुना !
गाण्डीवधन्वनः खेभ्यो निश्चक्राम हुताशनः॥४६॥
स पिशङ्गजटावलिः किरन्
उरु तेजः परमेण मन्युना।
ज्वलितौषधिजातवेदसा
हिमशैलेन समं विदिद्युते॥४७॥
इति विवेकः। दानवर्षी धनप्रदो मदस्रावी च कृताशंमः उभयत्र कृतजिगीषः पार्थः नागराज इव ऐरावत इव आबभौ इति द्वितीयोऽर्थः॥<MISSING_FIG href="../books_images/U-IMG-1732286050२२.png"/>॥(२) अथ शेषौपम्यमुच्यते। जगतीशरणे भूरक्षणे युक्तो नियुक्तः दैवेनेति शेषः। “शरणं गृहरक्षित्रोः” इत्यमरः। हरिकान्तः कृष्णप्रियः उभयत्रापि तुल्यम्। सुष्ठुदधातीति सुधा वसुधा इति केचित् एकदेशग्रहणात् समुदायग्रहणम्। तत्र सितो बद्धः। “षिञ बन्धने” क्तः। अन्यत्र सुधया अमृतेन सितो बद्धः अमृतप्रिय इत्यर्थः। दानवाः ऋषयश्च तैः कृताशंसो विहितप्रशंसः उभयत्रापि तुल्यमेतत्। सोऽर्जुनः नागराजः शेष द्रव आवभौइति तृतीयोऽर्थः (३)॥४५॥
विफलीति। शम्भुना क्षतबाणस्य अत एव विफलीकृतयत्नस्य निष्फलप्रयत्नस्य गण्डीवं धनुः यस्य तस्य गाण्डीवधन्वनोऽर्जुनस्य। “वा संज्ञायाम्” इत्यनङादेशः। स्वेभ्यः इन्द्रियरन्ध्रेभ्यः। “खमिन्द्रिये सुखे स्वर्गे” इति विश्वः। हुताशनोऽग्निः निश्चक्राम निष्क्रान्तः क्रोधादिति भावः॥४६॥
स इति। पिशङ्गजटावलिः पिशङ्गजटाजूटः परमेण उत्कृष्टेन मन्युना क्रोधेन उरु महत्तेजः किरन् विक्षिपन् सोऽर्जुनः ज्वलिताः औषधयः तृणज्योतींषि जातवेदाः दवाग्निश्च यस्मिन्
शतशो विशिखानवद्यते
भृशमस्मै रणवेगशालिने।
प्रथयन्ननिवार्य्यवीर्य्यताम्
प्रजिघायेषु मघातुकं शिवः॥४८॥
शम्भोर्धनुर्मण्डलतः प्रवृत्तं
तं मण्डलादंशुमिवांशुभर्त्तुः।
निवारयिष्यन् विदधे सिताश्वः
शिलीमुखच्छायवृतां धरित्रीम्॥४९॥
तेन हिमशैलेन समं तुल्यं हिमाद्रिरिव विदिद्युते हिमाद्रिवत् शुशुभे इति विम्बप्रतिविम्बभावोपमा॥४७॥
शतश इति। शिवः शतशो विशिखानवद्यते खण्डयते रणवेगशालिने अस्मै पार्थाय भृशम् अनिवार्य्यवीर्य्यतां निजाम् इति शेषः। तस्मै प्रथयन् दर्शयन्। किन्तु अघातुकम् अमारकम्। “लषपत” इत्यादिना हन्तेरुकञ्। इषुं जातौएक वचनम् प्रजिघाय प्रयुयुजे। “हि गतौ” इति धातोर्लिट्। “हेरचङि” इति कुत्वम्॥४८॥
शम्भोरिति। सिताश्वोऽर्जुनः शम्भोः धनुर्मण्डलतः धनुर्मण्डलात् प्रवृत्तं निष्क्रान्तं तम् इषुम् अंशुभर्त्तुःअर्कस्य मण्डलात् प्रवृत्तम् अंशुम् इव अत्रापि इषुवज्जातौ एकवचनम्। निवारयिष्यन् निवारयितुकामः। क्रियार्थक्रियायां लृटि तस्य शत्रादेशः। धरित्रीं भुवं शिलीमुखानां छाया शिलीमुखच्छायम्। “छाया बाहुल्येइति नपुंसकत्वम्। तेन वृतां व्याप्तां विदधे कृतवान्। शरजालच्छायावृतां धरित्रीम् अकरोत् इत्यर्थः॥४९॥
घनं विदार्य्यार्जुनबाणपूगं
ससारवाणोऽयुगलोचनस्य।
घनं विदार्य्यार्जुनबाणपूगं
ससार बाणोऽयुगलोचनस्य॥५०॥अर्द्धावलिः।
रुजन्महेषून् बहुधाशुपातिनो
मुहः शरौघैरपवारयन् दिशः।
चलाचलोऽनेक इव क्रियावशात्
महर्षिसङ्घैर्बुबुधे धनञ्जयः॥५१॥
घनमिति। अयुगलोचनस्य विषमनेत्रस्य ईशस्य अलोचनस्य। लोच्यतेऽसौ लोचनः। कर्मणि ल्युट्। न लोचनः अलोचनः तस्य अलोचनस्य अचाक्षुषज्ञानविषयस्य सम्बन्धी सारो बलं बाणः शब्दः ताभ्यां सारवाणाभ्यां स्थिरशब्दाभ्यां सह वर्त्तते इति ससारवाणः बवयोरभेद इत्युक्तम्। न युज्यते कुत्रापीति अयुक् सङ्गरहितः। क्विप्। बाणः शरः जातौ एकवचनम्। घनं सान्द्रम् अर्जुनस्य बाणपूगं शरव्रातं विदार्य्यविभिद्य घनं निविड़म् विदार्य्या भूमिकूष्माण्ड्यो लताविशेषाः अर्जुनाः ककुभवृक्षा बाणा नीलसैरेयकाः पूगाः क्रमुकाः तेषाम्। “विभाषा वृक्ष” इत्यादिना द्वन्द्वैकवद्भावः। विदार्य्य अर्जुनबाणपूगं ससार निविवेश इत्यर्थः। यद्वातदानीमेव युगलोचनस्य अर्जुनस्य बाणः ससार इत्यर्थः॥५०॥
रुजन्नित्यादि। बहुधा आशुपातिनः शीघ्रम् आपततो महेषून् मुहुः शरौघैः रुजन् भञ्जयन्। तथा दिशश्चापवारयन् आच्छादयन् क्रियावशात् युद्धकर्मायत्ततया चलाचलोऽति-
विकाशमीयुर्जगतीशमार्गणा
विकाशमीयुर्जगतीशमार्गणाः।
विकाशमीयुर्जगतीशमार्गणा
विकाशंमीयुर्जगतीशमार्गणा॥५२॥
महायमकम्।
सम्पश्यतामिति शिवेन वितायमानं
लक्ष्मीवतः क्षितिपतेस्तनयस्य वीर्य्यम्।
चञ्चलो धनञ्जयो महर्षिसङ्घैःअनेका बहुविध इव बुबुधे ददृशे॥५१॥
विकाशमिति। जगतीशस्य अर्जुनस्य मार्गणा बाणाः विकाशं प्रसारमीयुः तथा जगति लोके ईशमार्गणाः शम्भुशराः विकाशं विषमगतिमीयुः प्रापुः इत्यर्थः। तथा जगतीं पृथ्वींश्यन्ति तनूकुर्वन्तीति जगतीशाः दानवाः। “आतोऽनुपसर्गं कः” तान् मारयन्तीति जगतीशमारः। क्विप्। ते च ते गणाश्चजगतीशमार्गणाः प्रमथा विकाशम् उल्लासं हर्षमीयुः प्रापुः इत्यर्थः। अहो देवेऽपि अस्य पराक्रमप्रसर इति विस्मयात् इति भावः। तदानीं मार्गयन्तीति मार्गणाः अन्वेषणाः। कर्त्तरि ल्युट्। जगतीशस्य मार्गणाः अन्वेषकाः शिवद्रष्टारो देवर्ष्यादयो वीनां पक्षिणां काशो गतिः अत्र इति विकाशम् आकाशमीयः दिदृक्षया इति भावः॥५२॥महायमकम्।
सम्पश्यतामिति। इतीत्थंशिवेन वितायमानं विस्तार्य्यमाणम्। “वनोतेर्यकि” वैकल्पिक आकारादेशः। लक्ष्मीवतो जयश्रीमतः। “मादुपधायाः” इत्यादिना मतुपो मस्य वकारः। क्षितिपतेः तनयस्य अर्जुनस्य वीर्य्यंशौर्य्यं सम्पश्यतां तत्त्वविदाम्
अङ्गान्यभिन्नमपि तत्त्वविदां सुनीनां
रोमाञ्चमञ्चिततरं विभराम्बभूवुः॥५३॥
इति युद्धवर्णनं नाम पञ्चदशः सर्गः॥१५॥
<MISSING_FIG href="../books_images/U-IMG-1730337804Screenshot2024-10-10111156.png"/>
षोड़शः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730337823Screenshot2024-07-18063849.png"/>
ततः किराताधिपतेरलघ्वीम्
आजिक्रियां वीक्ष्य विवृद्धमन्युः
स तर्कयामास विविक्ततर्कः
चिरं विचिन्वन्निति कारणानि॥१॥
अपि हरेः अंशावतारोऽयमिति विदुषाम् अपि किमुत अन्येषाम् ? इति भावः। मुनीनाम् अङ्गानि गात्राणि अभिन्नम् अविरलम् अञ्चिततरम् अतिरुचिरतर रोमाञ्चं रोमहर्षं बिभराम्बभूवुः बभ्रुः। “भीह्री” इत्यादिना विकल्पादाम्प्रत्ययः॥५३॥
इति किरातार्जुनीये पञ्चदशसर्गव्याख्या समाप्ता।
<MISSING_FIG href="../books_images/U-IMG-1730338070Screenshot2024-10-28200701.png"/>
तत इति। ततोऽनन्तरं किराताधिपतेः सम्बन्धिनीम् अलघ्वीं गुर्वीम् आजिक्रियां रणकर्मवीक्ष्य विवृद्धमन्युः,विवृद्धकोपः विविक्तः निष्कलङ्गः तर्कः ऊहो ज्ञानं वा यस्य सोऽर्जुनः कारणानि रणभराशक्तिकारणानि विचिन्वन् विमृष्यन्। इतीत्थंवक्ष्यमाणम् एव तर्कयामास अभ्यूहितवान्॥१॥
मदस्रुतिश्यामितगण्डलेखाः
क्रामन्ति विक्रान्तनराधिरूढाः।
सहिष्णवो नेह युधामभिज्ञा
नागा नेगोच्छ्रायमिवाक्षिपन्तः॥२॥
विचित्रया चित्रयतेव भिन्नां
रुचं रवेः केतनरत्नभासा।
महारथौघेन न सन्निरुद्धा
पयोदमन्द्रध्वनिना धरित्री॥३॥
अथ त्रयोविंशतिश्लोकैः वितर्कमेवाह। मदेत्यादि। इह युद्धे मदस्रुतिभिः मदप्रवाहैः श्यामाः कृता इति श्यामिताः गण्डलेखाः कपोलभागा येषां ते विक्रान्ताः पराक्रमं कुर्वन्तः। कर्त्तरि क्तः। “शूरो वीरश्च विक्रान्तः” इत्यमरः। तैः नरैः अधिरूढाः सहिष्णवो रणभरक्षमाः युधां युद्धानामभिज्ञाः शिक्षिता इत्यर्थः। कृद्योगात् कर्मणि षष्ठी। किञ्च नगानाम् उच्छ्रायं पर्वतानामौन्नत्यम्। घञन्तेन उपसर्गस्य समासो नोपसृष्टात् घञ्प्रत्ययः। “श्रिणीभुवोऽनुपसर्गे” इत्यत्रानुपसर्ग इति निषेधात्। आक्षिपन्तः प्रतिषेधयन्तः दूव स्थिताः तथा उन्नताइत्यर्थः। नागाः गजाः इह संग्रामे न क्रामन्तिचरन्ति। यथा युद्धान्तरेषु इति शेषः। एवम् उत्तरत्रापि सर्वत्र द्रष्टव्यं तथापि कथं मे शक्तिह्रासोऽयमिति सर्वत्र तात्पर्य्यार्थः॥२॥
विचित्रेति। विचित्रया नानावर्णया केतनानां रत्नानि तेषां भासा प्रभया भिन्नां संवलितां रवेः रुचं कान्तिं विचित्र-
समुल्लसत्प्रासमहोर्मिमालं
परिस्फुरच्चामरफेनपङ्क्ति।
विभिन्नमर्य्यादमिहातनोति
नाश्वीयमाशा जलधेरिवाम्भः॥४॥
हताहतेत्युद्धतभीमघोषैः
समुञ्झिता योद्धृभिरभ्यमित्रम्।
न हेतयः प्राप्ततड़ित्त्विषः खे
विवस्वदेशुज्वलिताः पतन्ति॥५॥
यता विचित्रवर्णां कुर्वतेव स्थितेन इति केतनौन्नत्यनिमित्तेयम् उत्प्रेक्षा। पयोदमन्द्रध्वनिना मेघगम्भीरघोषेण महतां रथानामोघेन समूहेन धरित्री न सन्निरुद्धा न आवृता॥३॥
समुल्लसदिति। इह युद्धे प्रासाः कुन्ताः। “प्रासस्तु कुन्तः” इत्यमरः। ते महोर्मय इव तेषां मालाः समुल्लसन्त्यो यत्र तत्समुल्लसत्प्रासमहोर्मिमालम्। चामराणि फेना इव परिस्फुरन्त्यः चामरफेनानां पङ्क्तयो यत्र तत्तथोक्तम्। अश्वीयम् अश्वममूहः। “वृन्दे त्वश्वीयमाश्ववत्” इत्यमरः। जलधेः अम्भ इव भिन्नमर्य्यादम् उन्मर्य्यादम् उच्छृङ्खलं यथा तथा आशा दिशो न आतनोति न आवृणोति॥४॥
हतेति। हत प्रहरत आहत विध्यत। हन्तेर्लोट् मध्यमपुरुषबहुवचनम्। “अनुदात्तोपदेश” इत्यादिना अनुनासिकलोपः। आहतेत्यत्र कर्मणः प्रयोगासम्भवेऽपि हन्तेःस्वाभाविकसकर्मत्वस्य अनपायात् अकर्मकत्वस्य च अत्र विविक्षितत्वेन कर्मनिवृत्त्या एव तन्निवृत्तेः “आङोयमहनः” इति आत्मनेपदम्। इत्येवमुद्धताः प्रगल्माः भीमाश्च घोषा येषां तैः योद्धृभिः
अभ्यायतः सन्ततधूमधूम्रं
व्यापि प्रभाजालमिवान्तकस्य।
रजः प्रतूर्णाश्वरथाङ्गनुन्नं
तनोति न व्योमनि मातरिश्वा॥६॥
भूरेणुना रासभधूसरेण
तिरोहिते वर्त्मनि लोचनानाम्।
नास्त्यत्र तेजस्विभिरुत्सुकानाम्
अह्नि प्रदोषः सुरसुन्दरीणाम्॥७॥
योधैःअभ्यमित्रम् अमित्रानभि समुज्झिता मुक्ता विवस्वत अंशुभिः प्रतिफलितैः इति भावः। ज्वलिता दीपिता अत एवप्राप्ताःतड़ितां त्विषो याभिः ता हेतयः शस्त्राणि स्वे न पतन्ति। “हेतिः स्यादायुधे” इति विश्वः॥५॥
अभीति। अभ्यायतो वीरान् हन्तुम् आगच्छतः। इणःशतृप्रत्ययः। अन्तकस्य कालस्य सम्बन्धि सन्ततं सततं धूमवत् धूम्रं व्यापि व्यापकं प्रभाजालमिव स्थितं प्रतूर्णैः अश्वैः रथाङ्गैःरथचक्रैश्च नुन्नं प्रेरितं रजो मातरिश्वा मरुत् व्योमनि अन्त रिक्षेन तनोति न विस्तारयति॥६॥
भूरेणुनेति। अत्र आहवे रासभो गर्दभः तद्वत् धूमरेण ईषत्पाण्डुना। “ईषत्पाण्डुस्तु धूसरः” इत्यमरः। “रासभो गर्दभः खरः” इत्यमरः। भूरेणुना रजसा लोचनानां वर्त्मनि चक्षुर्मार्गे तिरोहिते सति तेजस्विभिः तेजस्विषु वीरेषु उत्सुकानां वीरवरणार्थम् आगतानाम् इत्यर्थः। “प्रसितोत्सुकाभ्यां तृतीया च” इति विकल्पात् तृतीया। सुरसुन्दरीणाम् अह्नि
रथाङ्गसंक्रीडितमश्वहेषा
वृहन्ति मत्तद्विपवृंहितानि।
सङ्घर्षयोगादिव मूर्च्छितानि
ह्रादं निगृह्णन्ति न दुन्दुभीनाम्॥८॥
अस्मिन् यशःपौरुषलोलुपानाम्
अरातिभिः प्रत्युरसं क्षतानाम्।
मूर्च्छान्तरायं मुहरुच्छिनत्ति
नासारशीतं करिशौकराम्भः॥९॥
दिवसे एव प्रदोषो रात्रिर्नास्ति अन्धकारवत्त्वात् दृष्टेःतिरोधानात् रात्रिभ्रमः स्यात् इति भावः॥७॥
रथाङ्गेति। रथाङ्गसंक्रीड़ितं रथचक्रकूजितम् अश्वानाञ्च हेषा ह्रेषितानि शब्दितानि। “अश्वानां ह्रेषा हेषा च निःस्वनः” इत्यमरः। वृहन्ति महान्ति मत्तद्विपानां वृंहितानि।“वृंहितं करिगर्जितम्” इत्यमरः। सङ्घर्षयोगात् इव परस्परसम्बन्धात् इवमूर्च्छितानि वृद्धिं गतानि सन्ति। “नपुंसकमनपुंसक” इत्यादिना नपुंसकैकशेषः। दुन्दुभीनां ह्रादं निर्घोषम्। “स्वाननिस्वाननिर्ह्राद” इत्यमरः। न निगृह्णन्ति न तिरस्कुर्वन्ति॥८॥
अस्मिन्निति। अस्मिन् रणे यशःपौरुषयोः लोलुपानां गृध्रूनाम् अत एव अरातिभिः प्रत्युरसम् उरसि। “प्रतेरुरसः सप्तमी स्यात्” इति समासान्तः। क्षतानां विद्धानां सम्बन्धिनं मूर्च्छैव अन्तरायो रणविघ्नस्तम् आसारशीतं वर्षधाराशीतलम्। “धारासम्पात आसारः” इत्यमरः। करीणां शीकर एवाम्भः कत्तमुहुर्नोच्छिनत्ति न नाशयति॥९॥
असृङ्नदीनामुपचीयमानैः
विदारयद्भिः पदवीं ध्वजिन्याः।
उच्छ्रायमायान्ति न शोणितौघैः
पङ्कैरिवाश्यानघनैस्तटानि॥१०॥
परिक्षते वक्षसि दन्तिदन्तैः
प्रियाङ्कशीता नभसः पतन्ती।
नेह प्रमोहं प्रियसाहसानाम्
मन्दारमाला विरलीकरोति॥११॥
निषादिसन्नाहमणिप्रभौघे
परीयमाणे करिशीकरेण।
असृगिति। असृङ्नदीनां तटानि उपचीयमानैःउपचयनीयमानैः तथा ध्वजिन्याः पदवीं विदारयद्भिः। “विदूरयद्भिः” इति पाठे विदूरां दूरसञ्चारां कुर्वद्भिः आश्याना ईषच्छुष्काः। “संयोगादेरातोधातोर्यण्वतः” इति श्यायतेर्निष्ठानत्वम्। घनाः सान्द्राः तैः आश्यानघनैः शोणितौघैः पङ्कैरिव उच्छ्रायं वृद्धिं न आयान्ति न प्राप्नुवन्ति॥१०॥
परीति। इह रणे दन्तिदन्तैःगजदन्तैःपरिक्षते ताड़िते वक्षसि नभसः पतन्ती प्रियायाः अङ्कइव शीता शीतला सुखकरीमन्दारमाला सुरैर्मुक्तेति शेषः। प्रियं साहसं येषां तेषां प्रियसाहसानां यतो गजाभियायिनाम् इति भावः। प्रमोहं प्रहारमूर्च्छां न विरलीकरोति न मन्दीकरोति॥११॥
निषादीति। करिणां शीकरेण पुष्करतुषारेण परीयमाणे व्याप्यमाने निषादिनो हस्त्यारोहाः। “हस्त्यारोहा निषादिनः”
अर्कत्विषोन्मीलितमभ्युदेति
न खण्डमाखण्डलकार्मुकस्य॥१२॥
महीभृता पक्षवतेव भिन्ना
विगाह्य मध्यं परवारणेन।
नावर्त्तमाना निनदन्ति भीमम्
अपान्निधेराप इव ध्वजिन्यः॥१३॥
महारथानां प्रतिदन्त्यनौकम्
अधिस्यदस्यन्दनमुत्थितानाम्।
आमूललूनैरतिमन्युनेव
मातङ्गहस्तैर्व्रियते न पन्थाः॥१४॥
इत्यमरः। तेषां सन्नाहाः कवचानि तेषां मणिप्रभौघे रत्नांशुजाले अर्कस्य त्विषा तेजसा उन्मीलितम् उत्पादितम् आखग्डलकार्मुकस्य इन्द्रधनुषः। “आखण्डलः सहस्राक्षः” इत्यमरः। खण्डं न अभ्युदेति॥१२॥
महीति। पक्षवता महीभृता मैनाकेन इव परवारणेन शत्रुगजेन मध्यं विगाह्य प्रविश्य भिन्नाः क्षोभिताः ध्वजिन्यः मेनाः “ध्वजिनी वाहिनी सेना” इत्यमरः। अपां निधेः सागरस्य आप इव। आवर्त्तमानाः भ्रमन्त्यः सत्यः। “स्यादावर्त्ताऽम्भसां भ्रमः” इत्यमरः। भीमं न निनदन्ति॥१३॥
महारथानामिति। प्रतिदन्त्यनीकं दन्तिसैन्यंप्रति “अनीकं तु रणे सैन्ये” इति विश्वः। अधिस्यदाः महारयाः स्यन्दना रथा यत्र तत् तथा। “रंहस्तरसी तु रयः स्यदः” इत्यमरः। उत्थितानां प्रस्थितानां महारथानां रथिकविशेषाणाम्।
धृतोत्पलापीड़ इव प्रियायाः
शिरोरुहाणां शिथिलः कलापः।
न बर्हभारः पतितस्य शङ्कोः
निषादिवक्षःस्थलमातनोति॥१५॥
उज्झत्सु संहार इवास्तसङ्ख्यम्
अह्नाय तेजस्विषु जीवितानि।
लोकत्रयास्वादनलोलजिह्वं
न व्याददात्याननमत्र मृत्युः॥१६॥
तदुक्तम्— “आत्मानं सारथिं चाश्वान् रक्षन् युध्येत यो नरः। स महारथसंज्ञः स्यादित्याहुर्नीतिकोविदाः॥” इतिलक्षणात्। पन्थामार्ग आमूलात् लूनैः छिनैः मातङ्गहस्तैः नागकरैः अतिमन्युना अतिक्रोधेनेव न व्रियते न निरुध्यते॥१४॥
धृतेति। पतितस्य वक्षसि मग्नस्य शङ्कोः तोमरस्य सम्बन्धी “वा पुंसि शङ्कुर्ना सर्वला तोमरोऽस्त्रियाम्” इत्यमरः। बह्नेः भारः तन्मूलबद्धोलाञ्छनपिच्छकलापो धृतं उत्पलापीडः कुवलयशेखरो यस्मिन् सः। प्रियायाः सम्बन्धी शिथिलः स्रस्तः शिरोरुहाणां कलापः केशपाश इव निषादिनो हस्त्यारोहस्य वक्षःस्थलं न आतनीति न व्याप्नोति॥१५॥
उज्झत्स्विति। अत्र आहवे संहारे कल्पान्ते इव तेजस्विषु वीरेषु अस्तसंख्यम् असंख्यं यथा तथा अह्नाय झटिति। “द्राक झटित्यञ्जमाह्नाय” इत्यमरः। जीवितानि उज्झत्सु त्यजत्सुमत्सु मृत्युः लोकत्रयस्य आस्वादने भक्षणे लीला गृध्नुःजिह्वायस्मिन् तदाननं न व्याददाति न विवृणोति। “आङो
इयञ्च दुर्वारमहारथानाम्
आक्षिप्य कीर्तिं महतां बलानाम्।
शक्तिर्ममावस्यति हीनयुद्धे
सौरीव ताराधिपधाम्नि दीप्तिः॥१७॥
माया स्विदेषा? मतिविभ्रमो वा?
ध्वस्तं नु मे वीर्य्यमुताहमन्यः?।
गाण्डीवमुक्ता हि यथा पुरा मे
पराक्रमन्ते न शराः किराते॥१८॥
दोनास्य विहरणे” इत्यत्रानास्यविहरण इति निषेधात् आत्मनेपदम्॥१६॥
सत्यमेव तथापि किं ते कुत्सितं तत्राह। इयमिति। इयं मम शक्तिश्च दुर्वाराः पराक्रमिणो महारथा येषु तेषां महतां बलानां वीर्य्यम् आक्षिप्य निरस्य ताराधिपधाम्नि चन्द्रतेजसि सूर्य्यस्य इयं सौरी। “सूर्य्यतिष्यागस्त्यमत्स्यानां य उपधायाः” इति स्त्रियां ङीष् यकारस्य लोपः। दीप्तिः इव हीनयुद्धे किरातरणे अवस्यति अवसीदति। एतच्च विरुद्धम् अत्यद्भुतं च इति भावः। “षोऽन्तकर्मणि” इति धातोर्लट्॥१७॥
मायेति। एषा शक्तिह्रासरूपा माया स्वित् देवताक्षोभणं नाम? मतिविभ्रमो बुद्धिविपर्य्ययो वा? अथवा मे वीर्य्यं ध्वस्तं नष्टं नु? उत अहमन्यः अर्जुनो न वा? कुतः हि यस्मात्गाण्डीवमुक्ताः मे शराः पुरा यथा पूर्वं परिपन्थिषु इवेत्यर्थः किराते न पराक्रमन्ते अप्रतिबन्धेन न प्रवर्त्तन्ते। “उपपराभ्याम्” इति आत्मनेपदं वृत्तिः अप्रतिबन्धः॥१८॥
पुंसः पदं मध्यममुत्तमस्य
द्विधेव कुर्वन् धनुषः प्रणादैः।
नूनं तथा नैष यथास्य वेषः
प्रच्छन्नमप्यूहयते हि चेष्टा॥१९॥
धनुः प्रबन्धध्वनितं रुषेव
सकृद्विकृष्टा विततेव मौर्वी।
सन्धानमुत्कर्षमिव व्युदस्य
मुष्टेरसम्भेद इवापवर्गे॥२०॥
पुंस इति। किञ्च उत्तमस्य पुंसः पुरुषोत्तमस्य मध्यम पदम् आकाशं धनुषः प्रणादैः। “उपसर्गादसमासेऽपि णोपदेशस्य” इति णत्वम्। द्विधा कुर्वन्निव विदारयन्निव स्थितः स एषः किरातो नूनं तथा तथाभूतो न। कीदृशः? तत्राह। अस्य पुरुषस्य यथा यथाभूतो वेषो वर्त्तत इति शेषः। अतो नअयं किरातस्वरूप इत्यर्थः। कुतो हि यस्मात् चेष्टाव्यापारं प्रच्छन्नमपि निगूढ़मपि स्वरूपम् ऊहयते तर्कयते तस्य स्वभावादव्यभिचारादिति भावः॥१९॥
अथ चतुर्भिश्चेष्टामेवाचष्टे। धनुरिति। धनुः रुषेव प्रबन्धेन अविच्छेदेन ध्वनितम्। ध्वनतेः कर्त्तरि क्तः। मौर्वी च सकृत् विकृष्टा वितता इव एकवाराकर्षणात् एव वितता इव स्थिता सन्धानं बाणसन्धानम् उत्कर्षम् उद्धरणं व्यदस्य इव वर्जयित्वा किमुकृतमिति शेषः। अपवर्गे बाणमोक्षेऽपि मुष्टेः असम्भेदः असम्भेदनमिव मुष्टिबन्धं विना एव बाणमोक्षः कृत इव इति हस्तलाघवोक्तिः॥२०॥
अंसाववष्टब्धनतौसमाधिः
शिरोधराया रहितप्रयासः।
धृता विकारांस्त्यजतामुखेन
प्रसादलक्ष्मीः शशलाञ्छनस्य॥२१॥
प्रहीयते कार्य्यवशागतेषु
स्थानेषुविष्टब्धतया न देहः।
स्थितप्रयातेष ससौष्ठवश्च
लक्ष्येषु पातः सदृशः शराणाम्॥२२॥
परस्य भूयान् विवरेऽभियोगः
प्रसह्य संरक्षणमात्मरन्ध्रे।
अंसाविति किञ्च अंसौ अवष्टब्धौ स्थिरौअवस्थापितौच नतौअवष्टब्धनतौ शिरोधरायाः कन्धरायाः समाधिः सस्थान विशेषश्च रहितः प्रयासो यस्य स तथोक्तः निःप्रयास इत्यर्थः। तथा विकारान् त्यजता अमृतत्वात् निर्विकारेण इत्यर्थः। मुखेन शशलाञ्छनस्य इन्दोः प्रसादलक्ष्मीः धृता। असम्भवत्सम्बन्धो निदर्शनालङ्कारः॥२१॥
प्रहीयत इति। तस्य देहः कार्य्यवशेन प्रयोजनवशेन आगतेषु स्थानेषु आलीढ़ादिस्थानकेषु विष्टब्धतया स्थिरतया कर्त्र्या न प्रहीयते न त्यज्यते किन्तु स्थिर इव तिष्ठतीत्यर्थः सुष्ठु भावः सौष्ठवं लाघवम्। उद्गत्रादित्वादञ्प्रत्ययः। तेन सह वर्त्तमानः ससौष्ठवः शराणां पातश्च स्थितानि अचलानि प्रयातानि चलानि तेषु स्थितप्रयातेषु विषये चलाचलेषु लक्ष्यषु सदृशः एकरूपः॥२२॥
भीष्मेऽप्यसम्भाव्यमिदं गुरौ वा
न सम्भवत्येव वनेचरेषु॥२३॥
अप्राकृतस्याहवदुर्मदस्य
निवार्य्यमस्यास्त्रबलेन वीर्य्यम्।
अल्पीयसोऽप्यामयतुल्यवृत्तेः
महापकाराय रिपोर्विवृद्धिः॥२४॥
इति कुलकम्।
स सम्प्रधार्य्यैवमहार्य्यसारः
सारं विनेष्यन् सगणस्य शत्रोः।
परस्येति। किञ्च परस्य विवरे रन्ध्रे। अल्पेऽपीति शेषः। भूयान् भूयिष्ठः प्रसह्य झटिति अभियोगः ज्ञातृत्वं परस्य रन्ध्रज्ञातृत्वात् प्रहारोद्योग इत्यर्थः। आत्मरन्ध्रेविवरे अनल्पेऽपि इति शेषः। प्रसह्य झटिति संरक्षणं गोपनम् इद द्वयं भीष्मेऽपि गुरौ वा द्रोणे वापि असम्भाव्यं दुर्वितर्कं वनेचरेषु न सम्भवति एव अतो न अयं किरातः किन्तु एष तिरोहितवेषः कोऽपि अमानुष अपुरुष इति भावः॥२३॥
अप्राकृतस्येति। अप्राकृतस्य उक्तरीत्या असाधारणस्य आहवदुर्मदस्य रणमत्तस्य अस्य किरातस्य वीर्य्यं तेजः अस्त्रबलेन दिव्यशस्त्रमहिम्ना निवार्य्यं निवारणीयम्। अन्यथा अनिवार्य्यत्वम् अस्य इति भावः। तथाहि अल्पीयसोऽपि अल्पस्य अपि आमयतुल्यवृत्तेः रोगसमानविक्रियस्य। “रोगव्याधिगदामयाः” इत्यमरः। रिपोः विवृद्धिः महापकाराय। किन्तु अयं महानुभाव इति भावः॥२४॥
प्रखापनास्त्रं द्रुतमाजहार
ध्वान्तं घनारब्ध इवार्द्धरात्रः॥२५॥
प्रसक्तदावानलधूमधूम्रा
निरुन्धती धाम सहस्ररश्मेः।
महावनानीव महातमिस्रा
छाया ततानेशबलानि काली॥२६॥
युग्मम्।
आसादिता तत्प्रथमं प्रसह्य
प्रगल्भतायाः पदवीं हरन्ती।
स इति। अहार्य्यसारः अनिवार्य्यवीर्य्यःसोऽर्जुनः एव सम्प्रधार्य्य निर्धार्य्य सगणस्य सानुगस्य शत्रोः सारं सत्त्वं विनेष्यन् अपनेष्यन् प्रखाप्यते शाय्यते अनेनेति प्रखापनं तदेवास्त्रं घनारब्धः मेघावरुद्धः अर्द्धरात्रः निशीथः। “अर्द्धरात्रनिशीथौ द्वौ” इत्यमरः। “अर्द्धं नपुंसकम्” इति समासः। “अहः सर्वैकदेश” इत्यादिना समासान्तः “रात्राह्नाहाः पुंसि” इति पुंलिङ्गता। ध्वान्तमिव द्रुतम् आजहार आचकर्ष॥२५॥
प्रसक्तेति। प्रसक्तः सन्ततो यो दावानलधूमः तद्वत् धूम्रा धूसरा सहस्ररश्मेःधाम तेजो निरुन्धती आवृण्वतीकालीकृष्णवर्णा। “जानपद” इत्यादिना ङीष्। छाया कान्तिः। ईशबलानि महातमिस्रा महती तमःसन्ततिः। “तमिस्रा तु तमस्ततिः” इति विश्वः। महावनानीत ततान व्यानशे॥२६॥
आसादितेति। तदेव प्रासादनं प्रथमं तत् प्रथमयथा तथा प्रसह्य आसादिता कल्पिता प्रगल्भतायाः व्यवहारधार्ष्ट्यस्य
सभेव भीमा विदधे गणानां
निद्रानिरासं प्रतिभागुणस्य॥२७॥
गुरुस्थिराण्युत्तमवंशजत्वात्
विज्ञातसाराण्यनुशीलनेन।
केचित् समाश्रित्य गुणान्वितानि
सुहृत्कुलानीव धनूंषि तस्थुः॥२८॥
कृतान्तदुर्वृत्त इवापरेषां
पुरः प्रतिद्वन्द्विनि पाण्डवास्त्रे।
अतर्कितं पाणितलान्निपेतुः
क्रियाफलानीव तदायुधानि॥२९॥
पदवीं हरन्ती भीमा भयङ्करीनिद्रा उक्तविशेषणा सभा संसदिव गणानां प्रतिभा प्रज्ञा शक्तिः सैव गुणः तस्य निरासं प्रतिभाक्षयं विदधे चक्रे॥२७॥
गुर्वीति। केचित् उत्तमवंशजत्वात् वंशो वेणुः कुलं च। “वंशो वेणौ कुले च” इति विश्वः। गुरुणि महान्ति स्थिराणि दृढ़ानि च गुरुस्थिराणि अनुशीलनेन परिचयबलेन विज्ञातः सारो बलं येषां तानि गणैः मौर्वीभिः शौर्य्यादिभिः च अन्वितानि धनूंषि सुहृत्कुलानि मित्रकुलानि इव समाश्रित्य तस्थुः धनूंषि अवष्टभ्य निदध्युःइत्यर्थः॥२८॥
कृतान्तेति। कृतान्तदुर्वृत्ते दैवदुश्चेष्टिते इव। “कृतान्तो यमसिद्धान्तदैवाकुशलकर्मसु” इति विश्वः। पाण्डवास्त्रे पुरः प्रतिद्वन्द्विनि सति प्रतिकूलवर्त्तिनि सति तदा तस्मिन् काले
अंसस्थलैः केचिदभिन्नधैर्य्याः
स्कन्धेषु संश्लेषवतां तरुणाम्।
मदेन मीलन्नयनाः सलीलं
नागा इव स्रस्तकरा निषेदुः॥३०॥
तिरोहितेन्दोरथ शम्भुमूर्ध्नः
प्रणम्यमानं तपसान्निवासैः।
सुमेरुशृङ्गादिव विम्बमार्कं
पिशङ्गमुच्चैरुदियाय तेजः॥३१॥
छायां विनिर्धूय तमोमयींतां
तत्त्वस्य संवित्तिरिवापविद्याम्।
अपरेषाम् अयुधानि क्रियाफलानि इव कृष्यादिफलानि इव अतर्कितम् अविचारितम् एव पाणितलात् निपेतुः॥२९॥
अंसेति। अभिन्नधैर्य्याःतदानीमपि अक्षतधैर्य्याः केचित् अंसस्थलैः अंसभागैः सह संश्लेषवतां तरूणां स्कन्धेषु प्रकाण्डेषु मदेन मीलन्ति नयनानि येषां ते नागाः गजा इव स्रस्तकराः स्रस्तहस्ताः सन्तः सलीलं निषेदुः निषण्णाः॥३०॥
तिरोहितेति। अथ तिरोहितेन्दोः किरातमायया छन्नचन्द्रात् शम्भुमूर्ध्नः सकाशात् सुमेरुशृङ्गात् अर्कसम्बन्धि विम्बम् इव तपसां निवासैः तापसैः प्रणम्यमानम् अभिवन्द्यमानम् पिशङ्गं तेजः उच्चैः ऊर्ध्वम् उदियाय प्रकटोबभूव तत्र तत्र अटन् इति भावः॥३१॥
छायामिति। इन्दुमौलेः द्युतिः कान्तिः तत्त्वस्य संवित्तिः ज्ञानं तत्त्वज्ञानम् अपविद्याम् अविद्याम् इव तां तमोमयीं
ययौ विकाशं द्युतिरिन्दुमौलेः
आलोकमत्यादिशती गणेभ्यः॥३२॥
त्विषां ततिः पाटलिताम्बुवाहा
सा सर्वतः पूर्वसरीव सन्ध्या।
निनाय तेषां द्रुतमुल्लसन्ती
विनिद्रतां लोचनपङ्कजानि॥३३॥
पृथग्विधान्यस्त्रविरामबुद्धाः
शस्त्राणि भूयः प्रतिपेदिरे ते।
मुक्ता वितानेन बलाहकानां
ज्योतींषि रम्या इव दिग्विभागाः॥३४॥
छाया निद्रां विनिर्धूय निरस्य गणेभ्यः आलोकं वस्तुप्रकाशं चिरम् अत्यादिशतीवितरन्तीविकाशं विस्तारं ययौ॥३२॥
त्विषामिति। सर्वतः पाटलिताः पाटलीकृताः अम्बुवाहाः, यया सा तथोक्ता त्विषां तेजसां ततिः पूर्वा सरतीति पूर्वसरी। “पूर्वेकर्त्तरि” इति टप्रत्यये ङीप्। “सर्वनाम्नोवृत्तिमात्रे पुंवद्भावः” इति पूर्वाशब्दस्य पुंवद्भावः। सन्ध्या प्रातःसन्ध्या इव उल्लसन्तीप्रसरन्ती तेषां गणानां लोचनपङ्कजानि द्रुतं विनिद्रतां विकासं निनाय॥३३॥
पृथगिति। अस्त्रविरामेण प्रखापनास्त्रोपरमेण बुद्धा विनिद्रास्ते गणा बलाहकानां वितानेन मेघपटलेन मुक्ता अत एव रम्या दिग्विभागा दिगन्ताः ज्योतींषि नक्षत्राणि इव। ज्योतिस्ताराग्निभाज्वालादृक्प्रकाशरमात्मसु” इति वैजयन्ती। पृथग्-
द्योरुन्ननामेव दिशः प्रसेदुः
स्फुटं विसस्रे सवितुर्मयूखैः।
क्षयं गतायामिव यामवत्यां
पुनः समीयाय दिनं दिनश्रीः॥३५॥
महास्त्रदुर्गे शिथिलप्रयत्ने
दिग्वारणेनेव परेण रुग्णे।
भुजङ्गपाशान् भुजवीर्य्यशाली
प्रबन्धनाय प्रजिघाय जिष्णुः॥३६॥
विधानि नानाविधानि शस्त्राणि भूयः प्रतिपेदिरे जगृहःइत्यर्थः॥३४॥
द्यौरिति। तदा यामवत्यां रात्रौ क्षयं गतायां विभातायाम् इव द्यौः अन्तरिक्षम् उन्ननामेव ऊर्ध्वम् उत्पपात इव इत्युत्प्रेक्षा। दिशः प्रसेदुः सवितुः मयूखैः स्फुटं स्पष्टं विसस्रे विस्तृतम्। भावे लिट्। दिनश्रीः पुनः घस्रकान्तिः दिनं समीयाय संजगाम। अत्र वैयधिकरण्येन गुणक्रिययोः समुच्चयेन समुच्चयोऽलङ्गारः तस्य च समुन्नमनोत्प्रेक्षया इव शब्दवाच्ययानुप्रवेशलक्षणसङ्करः। दिक्प्रसादो गुणः शेषाः क्रियाः॥३५॥
महास्त्रेति। भुजवीर्य्यशाली जिष्णुः अर्जुनो महास्त्रं प्रखापनास्त्रं तत् दुर्गम् इव तस्मिन् महास्त्रदुर्गे दिग्वारणेन दिग्गजेन इव परेण शत्रुणा शिथिलप्रयत्नम् अल्पप्रयासं यथा तथा रुग्णे भग्ने सति। रुजोभङ्गे कर्मणि क्तः “ओदितश्च” इति निष्ठातकारस्य नत्वम्। प्रबन्धनाय प्रकर्षेण बन्धनाय भुजङ्गा एव पाशाः तान् प्रजिघाय प्रहितवान्॥३६॥
जिह्वाशतान्युल्लसयन्त्यजस्रं
लसत्तड़िल्लोलविषानलानि।
त्रासात् निरस्ता भुजगेन्द्रसेना
नभश्चरैस्तत्पदवीं विवव्रे॥३७॥
दिङ्नागहस्ताकृतिमुद्वहद्भिः
भोगैः प्रशस्तासितरत्ननीलैः।
रराज सर्पावलिरुल्लसन्ती
तरङ्गमालेव नभोऽर्णवस्य॥३८॥
निःश्वासधूमैः स्थगितांशुजालः
फणावतामुत्फणमण्डलानाम्।
गच्छन्निवास्तं वपुरभ्युवाह
विलोचनानां सुखमुष्णरश्मिः॥३९॥
जिह्वेति। लसन्तः तड़िल्लोला विद्युच्चञ्चला विषानला विषाग्नयो येषु तानि जिह्वाशतानि अजस्रम् उल्लसयन्ती चलयन्ती। भुजगेन्द्रसेना त्रासात् भयात्। नभश्चरैःनिरस्ता त्यक्ता तेषां नभश्चराणां पदवीं मार्गंविवव्रे विशेषेण रुरोध॥३७॥
दिङ्नागेति। दिङ्नागहस्ताकृतिम् उद्वहद्भिः दिक्करिकराकारैः तथा प्रशस्तानि समीचीनानि असितरत्नानि इन्द्रनीलमणयः तद्वत् नीलैःभोगैःकायैः उपलक्षिता सर्पावलिः उल्लसन्ती प्रक्षुभ्यन्तीनभ एव अर्णवः तस्य तरङ्गमाला इव रराज। रूपकोत्थापिता इयमुत्प्रेक्षा॥३८॥
निःश्वासेति। उष्णरश्मिः अस्तं गच्छन् इव उन्नमितानि फणामण्डलानि येषां तेषां फणावतां सर्पाणां निःश्वासेषु ये
प्रतप्तचामीकरभासुरेण
दिशः प्रकाशेन पिशङ्गयन्त्यः।
निश्चक्रमुः प्राणहरेक्षणानां
ज्वालामहोल्का इव लोचनेभ्यः॥४०॥
आक्षिप्तसम्पातमपेतशोभम्
उद्वह्निधूमाकुलदिग्विभागम्।
वृतं नभो भोगिकुलैरवस्थां
परोपरुद्धस्य पुरस्य भेजे॥४१॥
तमाशु चक्षुःश्रवसां समूहं
धूमास्तैःस्थगितम् आच्छादितमंशुजालं यस्य स तथोक्तः अत एव विलोचनानां सुखं सुखकरं वपुरभ्युवाह॥३९॥
प्रतप्तेति। प्राणहराणि ईक्षणानि येषां तेषां प्राणहरेक्षणानां दृष्टिविषाणां लोचनभ्यो नेत्रेभ्यः। “लोचनं नयनं नेत्रम्” इत्यमरः। प्रतप्तं यच्चामीकरं सुवर्णं तद्वत् भासुरेण। “भञ्जभासमिदो घुरच्” इति घुरच्प्रत्ययः। प्रकाशेन तेजसा दिशः पिशङ्गयन्त्यः ज्वालामहोल्काइव निश्चक्रमुः निर्जग्मुः॥४०॥
आक्षिप्तेति। आक्षिप्तः प्रतिषिद्धः सम्पातः सञ्चारो यस्मिन् तत् सिद्धानां पक्षिणां च इति शेषः अपेता शोभा यस्मात् तत् अपेतशोभं गतश्रीकम् उद्गतवह्निधूमाभ्याम् आकुलाः दिग्विभागा दिगन्ताः यस्मिन् तत् भोगिकुलैः सर्पकुलेः वृतमावृतं परोपरुद्धस्य शत्रुवेष्टितस्य पुरस्यावस्थामिव अवस्थां दशां भेजे उक्तरीत्या तत्साधर्म्यं प्राप्तम् इत्यर्थः। निदर्शनालङ्कारः॥४१॥
मन्त्रेण तार्क्ष्योदयकारणेन।
नेता नयेनेव परोपजापं
निवारयामास पतिः पशूनाम्॥४२॥
प्रतिघ्नतीभिः कृतमीलितानि
द्युलोकभाजामपि लोचनानि।
गरुत्मतां सन्ततिभिर्विहायः
क्षणप्रकाशाभिरिवावतेने॥४३॥
ततः सुपर्णव्रजपक्षजन्मा
नानागतिर्मण्डलयन् जवेन।
जरत्तृणानीव वियन्निनाय
वनस्पतीनां गहनानि वायुः॥४४॥
तमिति। पशूनां पतिः शिवः तं चक्षुःश्रवसां सर्पाणां समूहं तार्क्ष्योदयकारणेन गरुड़ाविर्भावहेतुना मन्त्रेण नेता नायको नयेन नीत्या परेषाम् उपजापं परोपजापं परकृतं स्वमण्डलभेदम् इव। “भेदोपजापावुपधा” इत्यमरः। आशु निवारयामास॥४२॥
प्रतीति। द्युलोकभाजामपि अनिमेषाणामपि कृतं मीलनं निमेषो येषां तानि लोचनानि दृष्टीःप्रतिघ्नतीभिः प्रतिबध्नतीभिः। हन्तेः शतरि ङीप्। गरुत्मतां तार्क्ष्याणां संहतिभिः समूहैः क्षणप्रकाशाभिः विद्युद्भिः इव तासां सौवर्णत्वात् इति भावः विहायः अन्तरिक्षम् अवतेने व्यानशे॥४३॥
तत इति। ततः सुपर्णव्रजानां तार्क्ष्यकुलानां पक्षेभ्यो जन्म यस्य स नानागतिः विचित्रगतिः वायुः वनस्पतीनां वृक्षाणं
मनःशिलाभङ्गनिभेन पश्चात्
निरुध्यमानं निकरेण भासाम्।
व्यूढ़ैरुरोभिश्च विनुद्यमानम्
नभः ससर्पेव पुरः खगानाम्॥४५॥
दरीमुखैरासवरागताम्रं
विकासि रुक्मच्छदधाम पीत्वा।
जवानिलाघूर्णितसानुजालो
हिमाचलः क्षीव इवाचकम्पे॥४६॥
गहनानि जरत्तृणानि जीर्णतृणानि इव जवेन मण्डलयन् भ्रमयन् वियत् अन्तरिक्षं निनाय॥४४॥
मनःशिलेति। मनःशिला धातुविशेषः तस्याः भङ्गः छेदः तन्निभेन तत्सदृशेन भासां निकरेण कान्तिपुञ्जेन पश्चाद्भागे निरुध्यमानम् आव्रियमाणं व्यूढ़ैःविशालैः उरोभिः वक्षोभिश्च। “उरो वत्सश्च वक्षश्च” इत्यमरः। विनुद्यमानं प्रेर्य्यमाणं नभः खगानां गरुड़ानां पुरः ससर्पेव ससारेव। उत्तरोत्तरदेशतिरोधानेन गच्छतां खगानां अपूर्वोऽपि पुरोभागः सादृश्यात् पूर्ववदुपलभ्यमानतया नभस एव छेदनात् पुरः ससर्प इव इति उत्प्रेक्षालङ्कारः॥४५॥
दरीति। जवानिलेन आघूर्णितानि भ्रमितानि सानुजालानि यस्य स हिमाचलः आसवस्य रागो रक्तता तद्वत् ताम्रंगुणयोः एव उपमानोपमेयभावः। विकासि विकस्वरं रुक्मच्छदाः सुपर्णपक्षाः तार्क्ष्याःतेषां धाम तेजो दरीभिर्मुखैः
प्रवृत्तनक्तन्दिवसन्धिदीप्तैः
नभस्तलं गाञ्च पिशङ्गयद्भिः।
अन्तर्हितार्कैः परितः पतद्भिः
छायाः समाचिक्षिपिरे वनानाम्॥४७॥
स भोगिसङ्घः शममुग्रधाम्नां
सैन्येन निन्ये विनतासुतानाम्।
महाध्वरे विध्यपचारदोषः
कर्मान्तरेणेव महोदयेन॥४८॥
इव दरीमुखैः पीत्वा क्षीवो मत्त इव आचकम्पे आचचाल उपमाव्यापितेयम् उत्प्रेक्षा॥४६॥
प्रवृत्तेति। नक्तञ्च दिवा च नक्तन्दिवम्। “अचतुर” इत्यादिना सप्तम्यर्थे द्वयोरपि अव्यययोः द्वन्द्वैकवद्भावनिपाते समासान्तः। लक्षणयातु अहोरात्रमात्रवाची। प्रवृत्तः प्रादुर्भूतो यो नक्तन्दिवस्य सन्धिः सन्ध्या तद्वत् दीप्तैःशोभितैः नभस्तलंगां भुवञ्च पिशङ्गयद्भिः पिशङ्गीकुर्वद्भिः अन्तर्हितः अच्छादितोऽर्को यैः तैः पतद्भिः पक्षिभिः परितः सर्वतो वनानां छायाः समाचिक्षिपिरे समाक्षिप्ता अन्तर्वहिश्च तेजःप्रकाशात् क्वापि अन्तर्हिता इत्यर्थः॥४७॥
स इति। स भोगिसङ्घः सर्पसमूहः उग्रधाम्नां तेजस्विनां विनतासुतानां तार्क्ष्यपक्षिणां सैन्येन महाध्वरे महाक्रतौविध्यपचारदोषः कर्मस्खलनदोषः महोदयेन महासामर्थ्येन अथवा महता फलेन तन्मूलेन प्रकृतक्रियासिद्धेःइति कर्मान्तरेण प्रायश्चित्तेन इव शमं शान्तिं निन्ये प्रापितः॥४८॥
साफल्यमस्त्रे रिपुपौरुषस्य
कृत्वा गते भाग्य इवापवर्गम्।
अनिन्धनस्य प्रसभं समन्युः
समाददेऽस्त्रंज्वलनस्य जिष्णुः॥४९॥
ऊर्द्ध्वन्तिरश्चीनमधश्च कीर्णैः
ज्वालासटैर्लङ्घितमेघपङ्क्तिः।
आयस्तसिंहाकृतिरुत्पपात
प्राण्यन्तमिच्छन्निव जातवेदाः॥५०॥
भित्त्वेव भाभिः सवितुर्मयूखान्
जज्वाल विष्वग् विसृतस्फुलिङ्गः।
साफल्यमिति। अस्त्रे सर्पास्त्रे भाग्येप्राग्भवीये शुभे कर्मणि इव रिपुपौरुषस्य रिपुपराक्रमस्य साफल्यं कृत्वा अपवर्गम् अवसानं समाप्तिं गते सति स्वनिवृत्त्या परसाफल्यात् सफलीकरणोपचारः। समन्युःसक्रोधो जिष्णुः अर्जुनः अनिन्धनस्य इन्धनं विनैव उत्पादितस्य ज्वलनस्य ज्वलनप्रदीपकम् अस्त्रम् आग्नेयास्त्रं प्रसभं शीघ्रं समाददेजग्राह॥४९॥
ऊर्द्ध्वमिति। ऊर्द्ध्वं तिरश्चीनं तिर्य्यक्। “विभाषाञ्चेरदिक् स्त्रियाम्” इति खप्रत्ययः। अधश्च कीर्णैःविसृतैः ज्वाला एव सटाः केसराः। “सटा जटाकेशरयोः” इति विश्वः। तैः लङ्घितमेघपङ्क्तिः अतिक्रान्तजलदावलिः आयस्तस्य लङ्घनोद्यतस्य सिंहस्य इव आकृतिः यस्य स जातवेदा अग्निः प्राण्यन्तं प्राणिनां संहारम् इच्छन् इव उत्पपात॥५०॥
भित्त्वेति। भाभिः तेजोभिः सवितुः मयूखान् किरणान्।
विशीर्य्यमाणाश्मनिनादधीरं
ध्वनिं वितन्वन्नकृशः कृशानुः॥५१॥
चयानिवाद्रीनिव तुङ्गशृङ्गान्
क्वचित्पुराणीव हिरण्मयानि।
महावनानीव च किंशुकानां
ततान वह्निः पवनानुवृत्त्या॥५२॥
मुहुश्चलत्पल्लवलोहिनीभिः
उच्चैः शिखाभिः शिखिनाऽवलीढ़ाः।
“किरणोऽस्रमयूखांशु” इत्यमरः। भित्त्वेव अभिहत्येव विष्वक् समन्तात् विसृताः स्फुलिङ्गा यस्य सः स्फुलिङ्गोदयस्य मयूखाभिघातहेतुकत्वम् उत्प्रेक्षते। “स्फुलिङ्गोऽग्निकणः” इत्यमरः। अकृतोऽतनुः कृशानुः वह्निः विशीर्य्यमाणस्य विदलतोऽश्मनो निनादमिव धीरम् उद्धतं ध्वनिं वितन्वन् जज्वाल॥५१॥
चयानिति। वह्निः पवनानुवृत्त्या वायुवशेन चयानिव हिरण्मयान् प्राकारान् इव। “चयः समूहे प्राकारे” इति विश्वः। तुङ्गशृङ्गान् अद्रीन् इव क्वचित् हिरण्मयानि इति “दाण्डिनायन” इत्यादिना निपातनात् साधुः। पुराणि नगराणि इव तथा किंशुकानाम् पलाशतरूणाम्। “पलाशे किंशुकः पर्णः” इत्यमरः। महावनानि इव पुष्पितानि इति भावः। ततान वितस्तार तदाकारेण जज्वाल इत्यर्थः॥५२॥
मुहुरिति। सान्द्राञ्जनश्यामरुचः घनकज्जलश्यामरुचः पयोदाः मुहुःचलन्त्यश्च ताः पल्लवलोहिन्यो लोहितवर्णाश्च ताः ताभिः चलत्पल्लवलोहिनीभिः। “वर्णादनुदात्तात्तोपधात्तो नः”
तलेषु मुक्ताविशदा बभूवुः
सान्द्राञ्जनश्यामरुचः पयोदाः॥५३॥
लिलिक्षतीव क्षयकालरौद्रे
लोकं विलोलार्चिषि लोहिताश्वे।
पिनाकिना हूतमहाम्बुवाहम्
अस्त्रंपुनः पाशभृतः प्रणिन्ये॥५४॥
ततो धरित्रीधरतुल्यरोधसः
तड़िल्लतालिङ्गितनीलमूर्त्तयः।
अधोमुखाकाशसरिन्निपातिनीः
अपः प्रसक्तं मुमुचुः पयोमुचः॥५५॥
इति ङीप्। तकारस्य नकारः। शिखिनः अग्नेःउच्चैः उन्नताभिः शिखाभिः ज्वालाभिः अवलीढ़ाः दग्धा इत्यर्थः। अत एव तलेषु अधोभागेषु मुक्ताविशदा मौक्तिकधवला बभूवुः जलसंशोषणात् इति भावः। “अधःस्वरूपयोरस्त्री तलम्” इत्यमरः॥५३॥
लिलिक्षतीति। क्षयकालरौद्रे कल्पान्तकालभयावहे विलोलार्चिषि चलज्ज्वाले लोहिताश्वे ज्वलने। “लोहिताश्वो वायुसखः” इत्यमरः। लोकं लिलिक्षति लेढ़ुम् इच्छति सति जिघत्सति सतीव। लिहेः सन्नन्तात् शतृप्रत्ययः। पिनाकिना पुनः हूताः आहूताः आकारिता महाम्बुवाहाः येन तत् पाशभृतो वरुणस्य अस्त्रं प्रणिन्येप्रयुक्तम्॥५४॥
तत इति। ततो वरुणास्त्रप्रयोगानन्तरं धरित्रीधरतुल्यरोधसः पर्वतसमप्रान्ताः। “रोधः स्यात् प्रान्तकूलयोः” इति विश्वः। तड़िल्लताभिः आलिङ्गिता नीलमूर्त्तयः नीलाङ्गानि
पराहतध्वस्तशिखे शिखावतो
वपुष्यधिक्षिप्तसमिद्धतेजसि।
कृतास्पदास्तप्त इवायसि ध्वनिं
पयोनिपाताः प्रथमे वितेनिरे॥५६॥
महानले भिन्नसिताभ्रपातिभिः
समेत्य सद्यः क्वथनेन फेनताम्।
व्रजद्भिरार्द्रेन्धनवत्परिक्षयं
जलैर्वितेने दिवि धूमसन्ततिः॥५७॥
येषां ते पयोमुचो मेघाः अधोमुखा आकाशसरिदिव निपतन्तीति अधोमुखाकाशसरिन्निपातिनीः। “कर्त्तर्य्युपमाने” इति णिनिः। अपो जलानि प्रसक्तम् अनुबन्धम् अविच्छिन्नं यथा तथा मुमुचुः। इतः प्रभृति वंशस्थवृत्तम्॥५५॥
पराहतेति। पराहताः अभिहताः अतो ध्वस्ता निर्वापिताः शिखा ज्वाला यस्य तस्मिन् पराहतध्वस्तशिखे। अधिक्षिप्तं प्रहारितम् अतः समिद्धं झटिति प्रदीप्तं तेजो यस्य तस्मिन् शिखावतोऽग्नेः वपुषि तप्ते अयसि लौह इव कृतास्पदाः कृतस्थितयः। “आस्पदं प्रतिष्ठायाम्” इति निपातः। प्रथमे पयोनिपाताः जलपाता ध्वनिं वितेनिरे विस्तारयामासुः॥५६॥
महानल इति। महानले अग्नौ भिन्नानि खण्डितानि सिताभ्राणीव पतन्तीति भिन्नसिताभ्रपातिभिः। “कर्त्तर्य्युपमाने” इति णिनिप्रत्ययः। अत एव सद्यः क्वथनेन पाकेन फेनतां प्राप्य समेत्य परिक्षयं नाशं व्रजद्भिः जलैः आर्द्रेन्धनवत्आर्द्रकाष्ठैःतुल्यम्। “तेन तुल्यं क्रिया चेद्वतिः” इति वति-
स्वकेतुभिः पाण्डुरनीलपाटलैः
समागताः शक्रधनुःप्रभाभिदः।
असंस्थितामादधिरे विभावसोः
विचित्रचीनांशुकचारुतां त्विषः॥५८॥
जलौघसम्मूर्च्छनमूर्च्छितस्वनः
प्रसक्तविद्युल्लसितैधितद्युतिः।
प्रशान्तिमेष्यन् धृतधूममण्डलो
बभूव भूयानिव तत्र पावकः॥५९॥
प्रवृद्धसिन्धूर्मिचयस्थवीयसां
प्रत्ययः। दिवि गगने धूमसन्ततिः वितेने विस्तारिता फेनादिकम् आर्द्रेन्धनेऽपि तुल्यम्॥५७॥
स्वकेतुभिरिति। पाण्डुरैःनीलैःपाटलैश्च पाण्डुरनीलपाटलैः विचित्रैःस्वकेतुभिः धूमैः समागताः सङ्गताः अत एव शक्रधनुषः प्रभाभिदो द्युतिभाजः विभावसोः अग्नेःत्विषः असंस्थिताम् अस्थिरां विचित्रस्य चीनांशुकस्य पट्टदुकूलस्य चारुताम् आदधिरेदधुः॥५८॥
जलौघेति। जलौघानाम् उदकप्रवाहाणां सम्मूर्च्छनेन मेलनेन मूर्च्छितस्वनः प्रवृद्धघोषः। “मूर्च्छनं मेलने प्रोक्तं वृद्धौमूच्छितमेव वा” इति सज्जनः। प्रसक्तैःसङ्गतैः विद्युतां तड़िल्लतानां लसितैः स्फुरणैः एधिता वर्द्धिता द्युतिः यस्य सः धृतधूममण्डलः जलाघातात् सम्भूतधूमपटलः पावकः प्रशान्तिमेष्यन् तत्र देशे भूयान् इव बभूव भूयस्तया स्थापित इवेति उत्प्रेक्षा॥५९॥
चयैर्विभिन्ना पयसां प्रपेदिरे।
उपात्तसन्ध्यारुचिभिः सरूपतां
पयोदविच्छेदलवैः कृशानवः॥६०॥
उपैत्यनन्तद्युतिरप्यसंशयं
विभिन्नमूलोऽनुदयाय संक्षयम्।
तथाहि तोयौघविभिन्नसंहतिः
स हव्यवाहः प्रययौ पराभवम्॥६१॥
अथ विहितविधेयैराशु मुक्ता वितानैः
असितनगनितम्बश्यामभासां घनानाम्।
विकसदमलधाम्नां प्राप नीलोत्पलानां
श्रियमधिकविशुद्धां वह्निदाहादिव द्यौः॥६२॥
प्रवृद्धेति। प्रवृद्धानां सिन्धोः उर्मीणां चया राशय इव। स्थवीयसां स्थूलतराणां पयसां चयैःपूरैःविभिन्ना विश्लेषिताः, कृशानवोऽग्नय उपात्तसन्ध्यारुचिभिः प्राप्तसन्ध्यारागैः पयोदानां विच्छिद्यन्ते इति विच्छेदा विच्छिना विक्षिप्ता लवाः शकलाः तै सरूपतां समानरूपतां प्रपेदिरे इत्युपमा॥६०॥
उपैतीति। अनन्तद्युतिः महातेजाः अपि विभिन्नमूलः असंशयं यथा तथा अनुदयाय पुनः अनुत्थानाय संक्षयं नाशम् उपैति। तथाहि। तोयौधैःविभिन्ना संहतिः सङ्घातो यस्य स तथोक्तः स हव्यवाहोऽग्निः पराभवं नाथं प्रययौ। विशेषेण सामान्यसमर्थनरूपोऽर्थान्तरन्यासः॥६१॥
अथेति। अथ अग्निनिर्वाणानन्तरं विहितविधेयैः कृतकृत्यैःअसितनगस्य अञ्जनाद्रेःनितम्बः कटकः तद्वत् श्यामभासा
इति विविधमुदासे सव्यसाची यदस्त्रं
बहुसमरनयज्ञः सादयिष्यन्नरातिम्।
विधिरिव विपरीतः पौरुषं न्यायवृत्तेः
सपदि तदुपनिन्ये रिक्ततां नीलकण्ठः॥६३॥
वीतप्रभावतनुरप्यतनुप्रभावः
प्रत्याचकाङ्क्ष जयिनीं भुजवीर्य्यलक्ष्मीम्।
घनानां वितानैः पटलैःमुक्ता द्यौः आकाशो वह्निदाहात् इवेति उत्प्रेक्षा। विकसन्ति च तानि अमलधामानि स्वच्छकान्तीनि च तेषां नीलोत्पलानाम् अधिकविशुद्धाम् अत्युज्ज्वलां श्रियं प्राप इति निदर्शनालङ्कारः॥६२॥
इतीति। बहुसमरनयान् अनेकरणोपायान् जानाति इति बहुसमरनयज्ञः। “अतोऽनुपसर्गे कः” इति कप्रत्ययः। न तु “इगुपध” इत्यादिना आकारान्तादनुपपदात् कर्मोपपदोभवति “विप्रतिषेधेन” इति वार्त्तिकव्याख्याने भाष्यकारेण अर्थज्ञशब्दम् उदाहृत्य अस्य अर्थज्ञशब्दस्य कर्मोपपदत्वं दर्शितम्। सव्यसाचीअर्जुनः अरातिं सादयिष्यन् अवसादयितुकामः सन् इत्यर्थः। क्रियार्थक्रियायां लृटिं तस्य शत्रादेशः। इति पूर्वोक्तप्रकारेण विविधं यदस्त्रम् उदासे प्रयुक्तवान् इत्यर्थः। “उपसर्गादस्त्यत्यूह्योर्वेति वाच्यम्” इति आत्मनेपदम्। विपरीतो विधिः प्रतिकूलं दैवम्। “विधिर्विधाने दैवेऽपि” इत्यमरः। न्यायेन नीत्या वृत्तिः वर्त्तनं यस्य तस्य नीतिनिष्ठस्य पौरुषम् इव नीलकण्ठः शिवः सपदि तदस्त्रं रिक्ततां व्यर्थताम् उपनिन्ये संहृतवान्। मालिनीवृत्तम्॥६३॥
वीतेति। भूतपतिना शम्भुना अनुग्रहीष्यता इति शेषः।
अस्त्रेषु भूतपतिनापहृतेषु जिष्णुः
वर्षिष्यता दिनकृतेव जलेषु लोकः॥६४॥
इति श्रीमहामहोपाध्यायभारविकृतौ किराता-
र्जुनीये महाकाव्ये किरातार्जुनयुद्धं
नाम षोड़शः सर्गः॥१६॥
<MISSING_FIG href="../books_images/U-IMG-1730427051Screenshot2024-08-04235410.png"/>
अस्त्रेषु अपहृतेषु सत्सु वर्षिष्यता उत्तरत्र सहस्रगुणं वितरिष्यता दिनकृता सूर्य्येण जलेषु अपहृतेषु सत्सु लोक इव वीतप्रभावो गतास्त्रमहिमा अन्यत्र गतशक्तिः अत एव तनुः क्षीणो वीतप्रभावतनुः तथापि अतनुप्रभावो निसर्गतः सामर्थ्यात् अधिक अन्यत्र उद्योगवान् ततो जिष्णुः अर्जुनः जयिनीं जयनशीलाम्। “जिदृक्षि” इत्यादिना इनिप्रत्ययः। भुजवीर्य्यलक्ष्मीं भुजपराक्रमसम्पदम्। उभयत्रापि पुरुषकारमिति यावत्। तत्कालकुण्ठिताम् इति शेषः। प्रत्याचकाङ्क्ष प्रत्याहर्त्तुम् इयेष इत्यर्थः। यथा लोको नद्यादिजलापहारेऽपि उपायान्तरेण कूपादिना जीवितुम् इच्छति तद्वत् अस्त्रबलापहारेऽपि भुजबलेन एवजेतुम् इयेष इति भावः। वसन्ततिलकावृत्तम्॥६४॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविर-
चितायां किरातार्जुनीयव्याख्यायां घण्टापथ-
समाख्यायां षोड़शः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730427382Screenshot2024-10-09210709.png"/>
सप्तदशः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730437510Screenshot2024-10-10111156.png"/>
अथापदामुद्धरणक्षमेषु
मित्रेष्विवास्त्रेषु तिरोहितेषु।
धृतिं गुरुश्रीर्गुरुणाभिपुष्यन्
स्वपौरुषेणेव शरासनेन॥१॥
भूरिप्रभावेण रणाभियोगात्
प्रीतो विजिह्मश्च तदीयवृद्ध्या।
स्पष्टोऽप्यविस्फष्टवपुःप्रकाशः
सर्पन्महाधूम इवाद्रिवह्निः॥२॥
अथ पञ्चभिः पार्थं विशेषयन् षड्भिः कुलकमाह। अथेत्यादिभिः। अथ जयलक्ष्मीप्रत्याकाङ्क्षानन्तरम् आपदाम् उद्धरणक्षमेषुं आपन्निवारणसमर्थेषु अस्त्रेषु प्रखापनादिषु तादृशेषु मित्रेषु इव तिरोहितेषु अन्तर्हितेषु सत्सु गुरुणा महता स्वपौरुषेणेव तादृशेन शरासनेन धृतिं धैर्य्यम् अभिपुष्यन् वर्द्धयन् अद्यापि धनुषि पौरुषे च सति कियानयं किरात इति धैर्य्यम् अवलम्बमान इत्यर्थः। अत एव गुरुश्रीःप्रवृद्धशोभासम्पत्तिः। “पद्मा सा लक्ष्मीःश्रीर्निगद्यते” इति शाश्वतः॥१॥
भूरीति। पुनश्च भूरिप्रभावेण महानुभावेन सह रणाभियोगात् युद्धलाभात् प्रीतः। तदीयवृद्ध्याशत्रुवृद्ध्या विजिह्मोविश्लथश्चतथा स्पष्टः दीप्त्याप्रज्वलन् अपि अविस्पष्टो वपुःप्रकाशो यस्य सः। कुतः? सर्पन् प्रसरन् महान् धूमोयस्य स सर्पन्महाधूमोऽद्रिवह्निरिव स्थितः॥२॥
तेजः समाश्रित्य परैरहार्य्यं
निजं महन्मित्रमिवोरुधैर्य्यम्।
आसादयन्नस्खलितप्रभावं
भीमे भुजालम्बमिवारिदुर्गे॥३॥
वंशोचितत्वादभिमानवत्या
सम्प्राप्तया सम्प्रियतामसुभ्यः।
समक्षमादित्सितया परेण
बध्वेव कीर्त्त्यापरितप्यमानः॥४॥
तेज इति। पुनश्च परैः अरिभिः अहार्य्यम् अभेद्यं निजं स्वकीयं महत्तेजो वीर्य्यं मित्रमिवसमाश्रित्य। अत एव भीमे भयानके अरिः एव दुर्गं तस्मिन् अरिदुर्गे शत्रुसङ्कटे अस्खलितप्रभावम् अचलशीलम् उरु महद्धैर्य्यं भुजालम्बम् इव हस्तावष्टम्भम् इव आसादयन् प्राप्नुवन् ईदृशे सङ्कटेऽपि महावीर्य्यत्वात् धैर्य्यम् अत्यजन् इत्यर्थः॥३॥
वंशेति। पुनश्च अभिमानो ममताबुद्धिः तद्वत्या विषयतया कर्मणि कर्तृत्वोपचारः। अभिमानास्पटेन इत्यर्थः। अन्यत्र कुलशीलाद्यभिमानवत्या वंशोचितत्वात् स्वकुलानुरूपत्वात् असुभ्यः प्राणेभ्योऽपि सम्प्रियतां सम्प्राप्तया परेण शत्रुणा अक्ष्णोः समीपे समक्षम् अग्रतः। “अव्ययीभावे शरत्प्रभृतिभ्यः” इति समासान्तः टच्प्रत्ययः। आदातुं ग्रहीतुम् इष्टयाआदित्सितया आजिहीर्षतया इत्यर्थः। आङ्पूर्वाद्ददातेः सन्नन्तात् कर्मणि क्तः। बध्वा इव कीर्त्त्याहेतुना परितप्यमानः। कर्त्तरि शानच् “हेतौ” इति तृतीया। कन्यया शोक इतिवत्॥४॥
पतिं नगानामिव बद्धमूलम्
उन्मूलयिष्यन् तरसा विपक्षम्।
लघुप्रयत्नं निगृहीतवीर्य्यः
त्रिमार्गगावेग इवेश्वरेण॥५॥
संस्कारवत्त्वाद्रमयत्सु चेतः
प्रयोगशिक्षागुणभूषणेषु।
जयं यथार्थेषु, शरेषु पार्थः
शब्देषुभावार्थमिवाशशंसे॥६॥
पतिमिति। पुनश्च नगानां पतिं हिमवन्तम इव बद्धमूलं विपक्षं शत्रुं तरसा बलेन उन्मूलयिष्यन्। किञ्च त्रिभिः मार्गैःगच्छति इति त्रिमार्गगा गङ्गा। उत्तरपदसमासः। तस्याः वेग इव ईश्वरेण लघुप्रयत्नम् अल्पप्रयासं यथा तथा निगृहीतवीर्य्यःप्रतिबद्धशक्तिः हतास्त्रशक्तिरिति यावत्। पुरा किल हिमाद्रिविदलनाय गगनात् पतन्तं गङ्गाप्रवाहं गङ्गाधरो निजजटाजटेन निजग्राह इति पौराणिको कथा। तद्वत् इत्यर्थः॥५॥
संस्कारेति। एवम्भूतः पार्थः संस्कारवत्त्वात् संस्कारश्चित्तवामना अन्यत्र साधुत्वम् असाधूनां प्रयोगनिषेधादिति भावः। अथवा संस्कारो व्युत्पत्तिः तद्वत्त्वात् चेतो रमयत्सुप्रयोगः सन्धानमोक्षादिः शिक्षा अभ्यासो गुणः तदाहितोऽतिशयः मौर्वी वा। अन्यत्र तु प्रयोगोऽभियुक्तव्यवहारः शिक्षा अभ्यासः गुणाः स्वस्वस्थानकरणादयः श्लेषप्रसादादयो वा ते भूषणं येषां तेषु यथा यथाभूता अर्था येषां तेषु यथार्थेषु। अन्यत्र नियतार्थेषु शृणन्ति हिंसन्ति इति शराः तेषु जयं तं निर्वाहकत्वात्
भूयः समाधानविवृद्धतेजा
नैवं पुरा युद्धमिति व्यथावान्।
स निर्ववामास्रगुमर्षनुन्नं
विषं महानाग इवेक्षणाभ्याम्॥७॥
तस्याहवायासविलोलमौलेः
संरम्भताम्रायतलोचनस्य।
निर्वापयिष्यन्निव रोषतप्तं
प्रस्नापयामास मुखं निदाघः॥८॥
तदाधारत्वविवक्षायां सप्तमी। शब्देषु उपपदेषु भावः प्रवृत्तिनिमित्तं सामान्यादिः स एवार्थः तमिव अशशंसे आचकाङ्क्षे। शास्तिशंसत्योराङ्पूर्वयोरिच्छायाम् आत्मनेपदमुपसंख्यानात्। यथा शाब्दिकाः शब्दैःअर्थं साधयन्ति तदद्वयं शरेः जयं साधयितुम् इयेत्र इत्यर्थः॥६॥
भूय इति। भूयः पुनरपि समाधानेन युद्धाय मनोव्यवस्थापनेन विवृद्धतेजाः प्रवृद्धप्रतापः पुरा पुरातनं युद्धम् ण्वम् इत्थं शक्तिसादकरं न भवतीति हेतोः व्यथावान् परितापवान् सोऽर्जुनः ईक्षणाभ्यां दृष्टिभ्यां महानागोमहासर्पो विषमिव अमर्षनुन्नं क्रोधोत्थापितम् अस्रम् अश्रु निर्ववाम निर्जगार।सात्विकानां वीररससाधारण्यात् रौद्रे रसेऽश्रुदयोक्तिः।“स्तम्भः स्वेदेऽथ” रोमाञ्चः स्वरभेदोऽथ वेपथुः। वैवर्ण्यमश्रुप्रलय इत्यष्टौ सात्विका मताः”॥७॥
तस्येति। आहवायासेन युद्धायासेन विलोलमौलेः स्रस्तकेशबन्धस्य।“चूड़ा किरीटं केशाश्च संयता मौलयस्त्रयः” इत्य-
क्रोधान्धकारान्तरितो रणाय
भ्रूभेदरेखाः स बभार तिस्रः।
घनोपरुद्धः प्रभवाय वृष्टेः
ऊर्द्ध्वांशुराजीरिव तिग्मरश्मिः॥९॥
स प्रध्वनय्याम्बुदनादि चापं
हस्तेन दिङ्नाग इवाद्रिशृङ्गम्।
बलानि शम्भोरिषु भिस्तताप
चेतांसि चिन्ताभिरिवाशरीरः॥१०॥
मरः। संरम्भताम्रे कोपारुणे आयते लोचने यस्य तस्य। “संरम्भः सम्भ्रमे कोपे” इति विश्वः। तस्य अर्जुनस्य रोषतप्तं मुखं निदाघो घर्मः निर्वापयिष्यन् शिथिलीकरिष्यन् इवेत्युत्प्रेक्षा। प्रस्नापयामास सिषेच स्वेदं जनयामास इत्यर्थः।स्नातेः मित्वविकल्पितत्वात् ह्रस्वविकल्पः॥८॥
क्रोधेति। क्रोधोऽन्धकारः इव तेनान्तरित आवृतः सोऽर्जुनः घनोपरुद्धो मेघावृतः तिग्मरश्मिः रविः वृष्टेः प्रभवाय वर्षणाय तिस्रः ऊर्द्ध्वांशूनां राजीरिवअर्कस्य ऊर्द्ध्वांशोः एव उदयो वृष्टिलिङ्गमित्यागमः। रणाय रणप्रवृत्तये तिस्रः त्रिसङ्ख्याः भ्रूभेदो भ्रूभङ्गः तस्य रेखा बभार॥९॥
स इति। सोऽर्जुनः अम्बुदवत् नदतीति अम्बुदनादि “कर्त्तर्य्युपमाने” इति णिनिः। चापं दिङ्नागःदिग्गजः अद्रिशृङ्गम् इव हस्तेन करेण प्रध्वनय्य प्रध्वनयन् शम्भोः बलानि अशरीरोऽनङ्गः कामः चेतांसि युवमनांसि चिन्ताभिः प्रेयोजनध्यानैः इव इषुभिः तताप तापयामास। तपतिः सकर्मकः।
सद्वादितेवाभिनिविष्टबुद्धौ
गुणाभ्यसूयेव विपक्षपाते।
अगोचरे वागिव चोपरेमे
शक्तिः शराणां शितिकण्ठकाये॥११॥
उमापतिं पाण्डुसुतप्रणुन्नाः
शिलीमुखा न व्यथयाम्बभूवुः।
अत्रेषुशब्दः स्त्रीलिङ्गः अन्यथा उपमानोपमेययोः भिन्नलिङ्गतादोषात्। “पत्नीरोपइषुर्द्वयोः”इत्यमरः॥१०॥
सद्वादितेति। अभिनिविष्टा शास्त्रनिश्चिता बुद्धिः यस्य स तस्मिन् अभिनिविष्टवुद्धौ शास्त्रनिष्ठितमतौ विषये सद्वादिता प्रामाणिकार्थसमर्थकता इव न हि सम्यक् अभ्यस्तशास्त्रं प्रति सद्वाद्यपि शक्नोतीति व्याचक्षते केचित्। अन्ये तु अभिनिविष्टबुद्धौ आग्रहाविष्टचित्ते विषये सद्वादिता हितोपदेष्टृत्वमिव न हि आग्रही हितं गृह्णातीति भावः। विपक्षपाते वीतरागेविषये गुणाभ्यसूया गुणासहिष्णुता इव समदर्शी द्विषन्तमपि न द्वेष्टि यत इति भावः। अगोचरे अवाङ्मनसगोचरे ब्रह्मणि वागिव। “यतो वाचो निवर्त्तन्ते अप्राप्य मनसा सह” इति श्रुतेः इति भावः। शराणां शक्तिः शितिकण्ठकाये शिवशरीरे उपरेमे उपरता तस्य अक्षोभ्यमहिमत्वात् इति भावः। “विभाषा कर्मकात्” इत्यस्य वैकल्पिकत्वात् पक्षेआत्मनेपदम्। अत्र मालोपमा॥११॥
उमेति। पाण्डुसुतेन प्रणुन्ना प्रक्षिप्ताः शिलीमुखा बाणाः उमापतिं शिवम् अभ्युत्थितस्य अभ्यन्नतस्य अद्रिपतेः नितम्बं कटकं हेमन्ते भवस्य हैमनस्य। “सर्वत्राण् च तलोपश्च” इति
अभ्युत्थितस्याद्रिपतेर्नितम्बम्
अर्कस्य पादा इव हैमनस्य॥१२॥
सम्प्रीयमाणोऽनुबभूव तीव्रं
पराक्रमं तस्य पतिर्गणानाम्।
विषाणभेदं हिमवानसह्यं
वप्रानतस्येव सुरद्विपस्य॥१३॥
तस्मैहि भारोद्धरणे समर्थं
प्रदास्यता बाहुमित्र प्रतापम्।
चिरं विषेहेऽभिभवस्तदानीं
स कारणानामपि कारणेन॥१४॥
अण्प्रत्ययः तकारलोपश्च। अर्कस्य पादा रश्मय इव। “पादा रश्म्यङ्घ्रितुर्य्यांशाः” इत्यमरः। न व्यथयाम्बभूवुः। मध्ये स्थितस्यासुमतां समूहमर्कस्य इति पाठान्तरं मध्ये स्थितस्य हैमनस्य अर्कस्य पादाः किरणाः असुमतां प्राणिनां समूहम् इवेति न दुःखमुत्पादयामासुः इति॥१२॥
समिति। गणानां पतिः शिवः तीव्रं तस्य अर्जुनस्य पराक्रमं वप्रे रोधसिआनतस्य परिणतस्य वप्रप्रहारिण इत्यर्थः। सुरद्विपस्य असह्यं विषाणभेदं दन्तप्रहारं हिमवान् इव सम्प्रीयमाणः संहृष्यन् अनुबभूव अनुभवति स्म। तस्याक्षोभ्यत्वादनुजिघृक्षुत्वाच्च इति भावः॥१३॥
तस्मैहीति। तस्मै पार्थाय भारस्य भूभारस्य उद्धरणे उद्वहने समर्थं प्रतापं बाहुम् इव अवष्टम्भतया इति शेषः। अन्यथा भारोद्वहनस्य दुष्करत्वात् इति भावः। “स प्रतापः प्रभावश्च
प्रत्याहतौजाः कृतसत्त्ववेगः
पराक्रमं ज्यायसि यस्तनोति।
तेजांसि भानोरिव निष्पतन्ति
यशांसि वीर्य्यज्वलितानि तस्य॥१५॥
दृष्टावदानाद् व्यथतेऽरिलोकः
प्रध्वंसमेति व्यथिताच्च तेजः।
तेजोविहीनं विजहाति दर्पः
शान्तार्चिषं दीपमिव प्रकाशः॥१६॥
यत्तेजः कोषदण्डजम्” इत्यमरः। प्रदास्यता वितरिष्यता कारणानां ब्रह्मादीनामपि कारणेन जनकेन देवेन सोऽर्जुनोऽभिभवः तदानीं चिरं विषेहे सोढ़ः वात्सल्यात् इति भावः॥१४॥
अथ त्रिभिः भगवदभिप्रायम् आविष्कुर्वन् चतुर्भिः कलापकमाह। प्रत्याहतेति। प्रत्याहतौजाः परेण प्रतिहतबलः सन्नपि कृतसत्त्ववेगः कृतोत्साहातिशयः सन् यः पुमान् ज्यायसि स्वस्मादपि अधिके पराक्रमं तनोति तस्य पुंसः भानोः अर्कस्य तेजांसीववीर्य्येण शौर्य्येण ज्वलितानि प्रकाशितानि यशांसि निष्पतन्ति उद्भवन्तीत्यर्थः। हीनस्य अधिकाभियोगो यशस्कर इति भावः॥१५॥
ततः किमित्यत आह। दृष्टेति। दृष्टम् अवदानं महत् कर्म यस्य तस्मात् दृष्टावदानात् दृष्टपौरुषात् अरिलोकः शत्रुजनः व्यथते बिभेति। व्यथितात् भीतात् तेजः प्रध्वंसं नाशमेति।
ततः प्रयात्यस्तमदावलेपः
स जय्यतायाः पदवीं जिगीषोः।
गन्धेन जेतुः प्रमुखागतस्य
गन्धद्विपस्येव मतङ्गजौघः॥१७॥
एवं प्रतिद्वन्दिषु तस्यकीर्त्तिं
मौलीन्दुलेखाविशदां विधास्यन्।
इयेष पर्य्यायजयावसादां
रणक्रियां शम्भुरनुक्रमेण॥१८॥
तेजोविहीनं दर्पः उत्साहः शान्तार्चिषं निर्वाणज्वालं दीपं प्रकाश इव विजहाति त्यजति॥१६॥
तत इति। ततो दर्पहान्यनन्तरम् अस्तौक्षयं गतौमदावलेपौ मदगर्वौ यस्य सः। सोऽरिलोको गन्धेन मदगन्धेनैव जेतुः जयनशीलस्य। तृच्प्रत्ययः। प्रमुखागतस्य अभिमुखागतस्य गन्धद्विपस्यान्यो मतङ्गजौघः मत्तगजसमूह इव जिगीषोः नायकस्य जय्यतायाः। पदवींप्रयाति प्राप्नोति विजिगीषुणा जेतुं शक्यो भवतीत्यर्थः। “क्षय्यजय्यौ शक्यार्थे” इति निपातः। अत्र श्लोकद्वयेन ज्यायसि पराक्रमकरणादीणां पूर्वपूर्वस्य उत्तरोत्तरं प्रति कारणत्वकथनात् कारणमालाख्योऽलङ्कारः। लक्षणन्तु उक्तम्॥१७॥
एवमिति। एवम् उक्तरीत्या प्रतिद्वन्दिषु प्रत्यरिमध्ये तस्य अर्जुनस्य मौलीन्दुलेखाविशदां कीर्त्तिं विधास्यन् करिष्यन् अनुक्रमेण अविपर्य्यासेन पर्य्यायेण जयोऽवसादो भङ्गश्च तौ जयावसादौयस्यां तां पर्य्यायजयावसादां रणक्रियाम् इयेषइच्छति स्म जयानन्तरं भङ्गो भङ्गानन्तरं जय इति पर्य्यायार्थः।
मुनैर्विचित्रैरिषुभिः स भूयात्
निन्ये वशं भूतपतेर्बलौघः।
सहात्मलाभेन समुत्पतद्भिः
जातिस्वभावैरिव जीवलोकः॥१९॥
कलापकम्।
वितन्वतस्तस्य शरान्धकारं
त्रस्तानि सैन्यानि रवं निशेमुः।
प्रवर्षतः सन्ततवेपथूनि
क्षपाघनस्येव गवां कुलानि॥२०॥
तस्य विपर्य्यासोऽन्यतरनैरन्तर्य्यंतदभावोऽनुक्रम इति अपौनरुक्त्यम्॥१८॥
मुनेरिति। मुनेः विचित्रैः इषुभिः स भूयान्, असङ्ख्यौभूतपतेःबलौघः आत्मलाभेन जन्मना सह समुत्पतद्भिः आविर्भवद्भिः आजन्मसिद्ध्यै इत्यर्थः। जातयः गोत्वमनुष्यत्वादयः स्वभावा जातिनियता धर्माः तैः जातिस्वभावैः जीवलोकः प्राणिजातमिव वशं निन्ये नीतः। कर्मणि लिट्। प्राणिनो जातिधर्मान् इव गणान् मुनिशरान् न अतिक्रमितुं शेकुः इत्यर्थः॥१९॥
वितन्वत इति। त्रस्तानि सैन्यानि सन्ततवेपथूनि निरन्तरकम्पानि गवां कुलानि वृन्दानि प्रवर्षतो दृष्टिं कुर्वतः क्षपाघनस्य रात्रिमेघस्य इव शरैः योऽन्धकारस्तं वितन्वतः विस्तारयतः तस्य मुनेः सम्बन्धिनं रवं शरवर्षघोषं निशेमुः शुश्रुवुः न तु किञ्चित् ददृशुः चेष्टा तु दूरे आस्ताम् इति भावः॥२०॥
स सायकान् साध्वसविप्लुतानां
क्षिपन् परेषामतिसौष्ठवेन।
शशीव दोषावृतलोचनानां
त्रिभिद्यमानः पृथगाबभासे॥२१॥
क्षोभेण तेनाथ गणाधिपानां
भेदं ययावाकृतिरीश्वरस्य।
तरङ्गकम्पेन महाह्रादानां
छायामयस्येव दिनस्य भर्त्तुः॥२२॥
प्रसेदिवांसं न तमाप कोपः
कुतः परस्मिन् पुरुषे विकारः।
स इति। अतिसौष्ठवेन अतिलाघवेन सायकान् शरान् क्षिपन् सोऽर्जुनः साध्वसेन विप्लुतानां भ्रान्तानां साध्वसविप्लुतानां परेषां द्विषां दोषेण रागादिना आवृतलोचनानां दुष्टचक्षुषां शशीव पृथग्विभिद्यमानः आबभासे। यथा सदोषचक्षुषा एकश्चन्द्रो नानेव लक्ष्यते तद्वत् एकोऽपि अनेक इव दृष्ट इति भावः॥२१॥
क्षोभेणेति अथ गणाधिपानां सम्बन्धिना तेन क्षोभेनकम्पेन ईश्वरस्य आकृतिः आकारो मूर्त्तिःमहाह्रदानां तरङ्गकम्पेन छायामयस्य प्रतिविम्बरूपस्य दिनस्य भर्त्तुः दिवाकरस्य आकृतिरिव भेदं विकारं ययौ पाप स्वयं निर्विकारोऽपि प्रतिसूर्य्यवत्परसंसर्गात्तथा प्रतीयत इत्यर्थः॥२२॥
यदि देवोऽपि विकृतस्तर्हि कोपः किं न कृतस्तत्राह।
आकारवैषम्यमिदं च भेजे
दुर्लक्ष्यचिह्ना महतां हि वृत्तिः॥२३॥
विस्फार्य्यमाणस्य ततो भुजाभ्यां
भूतानि भर्त्राधनुरन्तकस्य।
भिन्नाकृतिं ज्यां ददृशुः स्फुरन्तीं
क्रुद्धस्य जिह्वामिव तक्षकस्य॥२४॥
प्रसेदिवांसमिति। प्रसेदिवांसम् अर्जुनं प्रति प्रसन्नचित्तं तदेवं कोपो न आप न प्राप तत्रापि अनुग्रहं ययौ इति भावः। तत्र हेतुः परस्मिन् पुरुषे परात्मनि देवे स्वतो निर्विकारे इत्यर्थः। विकारः कोपरूपः कुतः न कुतश्चित् इत्यर्थः। ननु तस्य निर्विकारस्य कथं वहिः आकारभेदः कारणाभावादिति चेत् तन्नविद्म इत्याह। इदं पूर्वोक्तम् आकारवैषम्यं च भेजे किन्तु केनापि कारणेन न कुप्यति इत्यर्थः। ननु निर्विकारे कुत आकारभेदस्तत्राह। महतां वृत्तिश्चेष्टा दुर्लक्ष्यचिह्ना दुर्ग्रहहेतुका हि॥२३॥
विकारमेवाह। विस्फार्य्यमाणस्येति। ततोऽनन्तरं भूतानि भर्त्रा भूतपतिना भृञस्तृच्प्रत्ययः। अतएव “न लोक” इत्यादिना षष्ठीप्रतिषेधः। भुजाभ्याम्। कर्त्तृकरणयोः तृतीया। विस्फार्य्यमाणस्य आकृष्यमाणस्य धनुरन्तक इव तस्य धनुरन्तकस्य सम्बन्धिनींस्फुरन्तीं चलन्तीम् अतएव भिन्ना द्विधा द्रव दृश्यमाना आकृतिः यस्याः तां ज्यां धनुर्गुणं क्रुद्धस्य तक्षकस्य नागविशेषस्य जिह्वामिव ददृशुःद्विधाभावात् भयङ्करत्वाच्च इति भावः॥२४॥
सव्यापसव्यध्वनितोग्रचापं
पार्थः किराताधिपमाशशङ्के।
पर्य्यायसम्पादितकर्णतालं
यन्ता गजं व्यालमिवापराद्धः॥२५॥
निजघ्निरे तस्य हरेषुजालैः
पतन्ति वृन्दानि शिलीमुखानाम्।
तेजस्विभिः सिन्धुमुखागतानि
यादांसि यादोभिरिवाम्बुराशेः॥२६॥
विभेदमन्तःपदवीनिरोधं
विध्वंसनं चाविदितप्रयोगः।
सव्येति। पार्थः सव्यापसव्याभ्यां ध्वनितं नादितम् उग्रचापं येन तं किराताधिपम् अपराद्धःप्रमत्तो यन्ता पर्य्यायेण अयौगपद्येन सम्पादितं कर्णयोस्तालम् आस्फालनं येन तं व्यालं दुष्टम् “भेद्यलिङ्गः शठे व्यालः” इत्यमरः। गजमिवाशशङ्केतच्चापचातुर्य्यदशनात् दुर्जयः कोऽपि अयमनर्थकरश्च इति शङ्कितवान् इत्यर्थः॥२५॥
निजघ्निर इति। हरषुजालैः तस्य अर्जुनस्य पतन्ति आगच्छन्ति शिलीशल्यं मुखं येषां तेषां शिलीमुखानां शराणां वृन्दानि। तेजस्विभिः प्रबलैःअम्बुराशेः यादोभिः जलग्राहैः सिन्धुमुखेन नदीमुखेन आगतानि यादांसीव जलजन्तूनिव। “यादांसि जलजन्तवः” इति वैजयन्ती। निजघ्निरे हतानि॥२६॥
विभेदमिति। अन्तर्विभेदं व्यूहविश्लेषणम् उपजापञ्च
नेत्रारिलोकेषु करोति यद्यत्
तत्तच्चकारास्य शरेषु शम्भुः॥२७॥
सोढ़ावगीतप्रथमायुधस्य
क्रोधोञ्झितेर्वेगितया पतद्भिः।
छिन्नैरपि त्रासितवाहिनीकः
पेते कृतार्थैरिव तस्य बाणैः॥२८॥
अलङ्कृतानामृजुतागुणेन
गुरूपदिष्टां गतिमास्थितानाम्।
पदवीनिरोधं मार्ग एव प्रतिबन्धनम् अन्यत्र तु आसारप्रसारप्रतिबन्धं विध्वंसनं खण्डनं दुर्घटनदाहादिकञ्च इत्यादि यत यत् नेता नायको जिगीषुः अविदितप्रयागः संवृतमन्त्रत्वात् अविज्ञातोपायप्रयोगः सन् अरिलोकेिषु शत्रुलोकेषु करोति। तत्तत् शम्भुः अविदितप्रयोगः अज्ञातसन्धानमोक्षादिकः सन् अस्य अर्जुनस्य शरेषु चकार कृतवान्। कर्त्तरि लिट् श्लेषालङ्कारः॥२६॥
सोढ़ेति। सोढ़ानि परैःअवगीतानि गर्हितानि प्रथमायूधानि पूर्वोत्सृष्टबाणाः यस्य तस्य अर्जुनस्य सम्बन्धिभिः क्रोधो ज्झितैः क्रोधाभिषिक्तैः पूर्वबाणवैफल्यात् कोपेन त्यक्तैः। अत एव वेगितया वेगेन पतद्भिः। गतिं कुर्वद्भिः। अत एव छिन्नैः अपि त्रासिता वाहिन्यो यैः तैः अत एव कृतार्थैः इव बाणैःपेते। भावे लिट्। वस्तुतस्तु अक्वतार्था एवेत्यर्थः॥२८॥
अलमिति। ऋजुता अवक्राकारत्वम् अवक्रशीलत्वं च सैव गुणः तेन अलङ्कृतानां गुरुभिः धनुर्विद्यागुरुभिः धर्म-
सतामिवापर्वणि मार्गणानां
भङ्गः स जिष्णोर्धृतिमुन्ममाथ॥२९॥
बाणच्छिदस्ते विशिखाः स्मरारेः
अवाङ्मुखीभूतफलाः पतन्तः।
अखण्डितं पाण्डवसायकेभ्यः
कृतस्य सद्यः प्रतिकारमापुः॥३०॥
चित्रीयमाणानतिलाघवेन
प्रमाथिनस्तान् भवमार्गणानाम्।
शास्त्रगुरुभिश्च उपदिष्टां दर्शितां गतिं गमनम् आचारञ्च आस्थितानां प्राप्तानां मार्गणानां शराणां सतां साधूनाम् इव अपर्वणि अग्रन्थौअन्यत्र अप्रस्तावे अकाण्ड इत्यर्थः। “पर्वः स्यादुत्सवे ग्रन्थौप्रस्तावे लक्षणान्तरे” इति विश्वः। स ईश्वरकृतो भङ्गः छेदोव्यसनञ्च जिष्णोः अर्जुनस्य कस्यचित् जित्वरस्य। “जिष्णुः शक्रेधनञ्जये जित्वरे” इति विश्व। धृतिं धैर्य्यम् उन्ममाथ जहार इत्यर्थः। अकाण्डे साधुविपत्तिदर्शनात् इव शरभङ्गदर्शनात् धैर्य्यभङ्गोऽभूत् इत्यर्थः॥२९॥
बाणेति। बाणच्छिदः पार्थxच्छेदिनस्ते स्मरारेःविशिखाः अवाङ्मुखीभृतफलाः विमुखाग्राः विफलाश्च सन्तः पतन्तः पाण्डवसायकेभ्यः। क्रियाग्रहणात् चतुर्थी। पाण्डवसायकानां कृतस्य फलभङ्गरूपस्य स्वकर्मणः सद्योऽखण्डितं प्रतिकारम् आपुः अत्युत्कटं कर्म सद्यः फलं दर्शयतीति भावः॥३०॥
पुनः अर्जुनस्य जयमाह। चित्रीयमाणानिति। अरातिः अर्जुनः अतिलाघवेन अतिशीघ्रत्वात् चित्रीयमाणान् चित्र-
शङ्काकुलाया निचखान दूरं
बाणान् ध्वजिन्या हृदयेष्वरातिः ॥३१॥
तस्यातियत्नादतिरिच्यमाने
पराक्रमेऽन्योन्यविशेषणेन।
हन्ता पुरां भूरि पृषत्कवर्षं
निरास नैदाघ इवाम्बु मेघः॥३२॥
अनामृशन्तः क्वचिदेव मम
प्रियैषिणानुप्रहिताः शिवेन।
सुहृत्प्रयुक्ता इव नर्मवादाः
शरा मुनेः प्रीतिकरा बभूवुः॥३३॥
माश्चर्य्यं कुर्वाणान् “नमो वरिवश्चित्रङः क्यच्” भवमार्गणानां प्रमाथिनः खण्डयतः तान् बाणान्। शङ्काकुलायाः शङ्कलितायाः संक्षुभितायाः ध्वजिन्याः सेनायाः हृदयेषु दूरं गाढ़ं निचखान निखातवान्॥३१॥
तस्येति। तस्य अर्जुनस्य पराक्रमेऽतियत्नात् हेतोः अन्योन्यस्य विशेषणेन अतिशयकरणेन अतिरिच्यमाने अतिक्रम्यमाणे सति पुरां हन्ता त्रिपुरविजयौ हरो भूरि प्रभूतं पृषत्कवर्षं बाणवर्षम्। “पृषत्कबाणविशिखाः” इत्यमरः। निदाघे भवो न्नैदाघो मेघोऽम्बुवाहोऽम्बु जलम् इव निरास मुमोच। अस्यतेर्लिट्। निदाघग्रहणं वर्षणस्य अतितीव्रत्वद्योतनार्थम्॥३२॥
अनामृशन्त इति। प्रियैषिणा प्रियचिकीर्षणा शिवेन
अस्त्रैःसमानामतिरेकिणींवा
पश्यन् रिपूणामपि तस्य शक्तिम्।
विषादवक्तव्यबलः, प्रमाथी
स्वमाललम्बे बलमिन्दुमौलिः॥३४॥
ततस्तपोवीर्य्यसमुद्धतस्य
पारं यियासोः समरार्णवस्य।
महेषुजालान्यखिलानि जिष्णोः
अर्कः पयांसीव समाचचाम॥३५॥
अनुप्रहिताः प्रयुक्ताः अत एव क्वचित् एव मर्म अनामृशन्तोऽस्पृशन्तः ते शराः सुहृन्मित्रं सोऽपि प्रियैषो तेन प्रयुक्ताः उच्चारिताः नर्मवादाः प्रियवादा इव मुनेः अर्जुनस्य प्रीतिकराः प्रीतिजनका बभूवुः॥३३॥
अस्त्रैरिति। अस्त्रैः स्वायुधैःसमानां तुल्यामतिरेकिणींततोऽधिकां वा तस्य मुनेः रिपूणाम् अपि शक्तिं पश्यन् विषादेन उत्साहभङ्गेन वक्तव्यानि निर्वाच्यानि बलानि यस्य सः प्रमाथा शत्रुमर्दनः इन्दुमौलिः महादेवः स्वंबलमात्मीयंबलमाललम्बे स्वसामर्थ्यम् अवलम्बितवान्॥३४॥
तत इति। ततो महिमप्रादुर्भावानन्तरं देवः तपोवीर्य्याभ्यां समुद्धतस्य प्रगल्भस्य समर एव अर्णवस्तस्य पारंमन्तं यियासोः जिगमिषोः जिष्णोः अर्जुनस्य अखिलानि महेषुजालानि समग्रबाणसमूहान् अर्कःसूर्य्यःपयांसीव जलानीव समाचचाम संजहारेत्यर्थः॥३५॥
रिक्तेसविश्रम्भमथार्जुनस्य
निषङ्गवक्त्रे निपपात पाणिः।
अन्यद्विपापीतजले सतर्षं
मतङ्गजस्येव नगाश्मरन्ध्रे॥३६॥
च्युते स तस्मिन्निषुधौ शरार्थात्
ध्वस्तार्थसारे सहसैव बन्धौ।
तत्कालमोघप्रणयः प्रपेदे
निर्वाच्यताकाम इवाभिमुख्यम्॥३७॥
रिक्त इति। अथ बाणान्तर्धानानन्तरम् अर्जुनस्य पाणिः करः रिक्ते बाणशून्येऽपि निषङ्गवक्त्रे तूणीरमुखे अन्यद्विपेन गजान्तरेण आपीतजले पीततोये नगस्य अचलस्य अश्मरन्ध्रेशिलागत्तं कन्दरे इत्यर्थः। सतर्षं सतृष्णां यथा स्यात्तथा इति क्रियाविशेषणम्। मतङ्गजस्य पाणिः लक्षणयाकर इव सविश्रम्भं सन्ति एव बाणा इति सविश्वासं निपपात॥३६॥
च्युत इति। शरा एव अर्थः धनं यस्य तस्मात् च्युते भ्रष्टे तस्मिन् इषुधौ निषङ्गेसहसा झटिति ध्वस्तार्थसारे अकाण्ड नष्टधनसारे बन्धौ इव तत्काले मोघः वितथः प्रणयः प्रीतिः यस्य सः प्रणयेन अर्थप्रार्थनात् पूर्वं कृतार्थ एव इति भावः। स पाणिः निर्वाच्यतां कृतज्ञत्वात् अपवादराहित्यं कामयत इति निर्वाच्यताकामः। शालिकामिभक्ष्याचरिभ्योणः। स इव इत्युत्प्रेक्षा। अभिमुख्यं प्रपेदे। यथा कश्चित् कृतज्ञः ततकालानुपकृतम् अपि बन्धुं पूर्वोपकारस्मरणात् पुनः अनुबध्नाति तद्वत् इत्यर्थः॥३७॥
आघट्टयामास गतागताभ्यां
सावेगमग्राङ्गुलिरस्य तूणौ।
विधेयमार्गे मतिरुत्सुकस्य
नयप्रयोगाविव गां जिगीषोः॥३८॥
बभार शून्याकृतिरर्जुनस्तौ
महेषुधीवीतमहेषुजालौ।
युगान्तसंशुष्कजलौविजिह्मः
पूर्वापरौ लोक इवाम्बुराशी॥३९॥
आघट्टयामासेति। अस्य मुनेः अग्रा चासौ अङ्गुलिश्च इतिअग्राङ्गुलिः। “हस्ताग्राग्रहस्तयोर्गुणगुणिनोर्भेदात्” इति वामनः। बिधेयमार्गे कर्त्तव्यान्वेषणे उत्सुकस्य प्रवृत्तस्य गां भुवं जिगीषोः नायकस्य मतिर्बुद्धिः नयः षाड्गुण्यः प्रयोगः उपायः तौ नयप्रयोगौइव तूणौनिषङ्गौ सावेगं ससम्भ्रमम्। “इष्टानिष्टागमाज्ञानमावेगश्चित्तमम्भ्रम” इति शाश्वतः। गतागताभ्यां यातायाताभ्याम् आवापोद्वापाभ्यां च आघट्टयामास। अन्यत्र तु वितर्कयामास शरग्रहणाय पुनः पुनः तूणयोः पाणिं व्यापारयामासेत्यर्थः॥३८॥
बभारेति। शून्वाकृतिः दृष्टनाशात् निस्तेजस्करूपोऽर्जुनः तौ वीतमहेषुजालौवीतानि रिक्तानि महेषुजालानि ययोः तौ महेषुधीमहानिषङ्गौ विजिह्मः शून्यो लोको युगान्ते संशुष्कजलौ। “शुषः कः” इति निष्ठातकारस्य ककारः। पूर्वापरौअम्बुराशी समुद्रौ इव बभार॥३९॥
तेनानिमित्तेन तथा न पार्थः
तयोर्यथा रिक्ततयानुतेपे।
स्वामापदं प्रोज्झ्य विपत्तिमग्नं
शोचन्ति सन्तो ह्युपकारिपक्षम्॥४०॥
प्रतिक्रियायै विधुरः स तस्मात्
कृच्छ्रेण विश्लेषमियाय हस्तः।
पराङ्मुखत्वेऽपि कृतोपकारात्।
तूणीमुखान्मित्रकुलादिवार्य्यः॥४१॥
पश्चात्क्रिया तूणयगस्य भर्त्तुः
जज्ञे तदानीमुपकारिणीव।
तेनेति। पार्थः तयोः तूणयोः रिक्ततया हेतुना यथा अनुतेपे शुशोच तथा तेन अनिमित्तेन बाणक्षयरूपेण दुर्निमित्तेन न शुशोच। तथाहि सन्तः स्वामापदं प्रोज्झ्य विसृज्य विपत्तिमग्नम् उपकारिणां पक्षं वर्गं शोचन्ति। स्वव्यसनापेक्षया परकीयव्यसनमेव सतामनुतापकम् इत्यर्थः॥४०॥
प्रतीति। प्रतिक्रियायैविधुरः प्रतिकर्त्तुम् असमर्थः। “तुमर्थाच्च भाववचनात्” इति चतुर्थी। अर्जुनस्य सः हस्तः पाणिः पराङ्मुखत्वेऽपि तत्कालवैमुख्येऽपि कृतोपकारात् तस्मात् तूणीमुखात् मित्रकुलादार्य्यः साधुः कृतज्ञ इव। “आर्य्यः साधुकुलीनयोः” इति विश्वः। कृच्छ्रेण महाकष्टेन विश्लेषमियाय। गौरादित्वात् तूणशब्दात् ङीष्॥४१॥
पश्चादिति। तदानीं भर्त्तुःस्वामिनः। कर्त्तरि षष्ठी।
सम्भावनायामधरीकृतायां
पत्युः पुरः साहसमासितव्यम्॥४२॥
तं शम्भुराक्षिप्तमहेषुजालं
लौहैः शरैर्मर्मसु निस्तुतोद।
हृतोत्तरं तत्त्वविचारमध्ये
वक्तेवदोषैर्गुरुभिर्विपक्षम्॥४३॥
जहार चास्मादचिरेण वर्म
ज्वलन्मणिद्योतितहैम्यलेखम्।
चण्डःपतङ्गान्मरुदेकनीलं
तडित्वतः खण्डमिवाम्बुदस्य॥४४॥
पश्चात् क्रिया पृष्ठतः करणंतृणयुगस्य उपकारिणीव उपकारिकेव जज्ञे जाता। तथाहि। सम्भावनायां स्वयोग्यतायाम् अधरीकृतायाम् असफलीकृतायां पत्युः स्वामिनः पुरोऽग्रे आशितव्यमासस्थितम्। बहुलग्रहणाद्भावे तव्यप्रत्ययः। साहसं न याग्यम्। भर्त्रा सम्भावितस्य अवसरे अनुपकर्त्तुःअनुजीविनः तत्साम्मुख्यम् अनुचितमित्यर्थः॥४२॥
तमिति। शम्भुःआक्षिप्तानि अपहृतानि महेषुजालानि यस्य तं मुनिं तत्त्वविचारमध्ये वादमध्ये हृतोत्तरं निरुत्तरीकृतं विपक्षं प्रतिवादिनं वक्ता बादीगुरुभिः दोषैः निग्रहस्थानैः इव लोहैःलौहमयैः शरैः मर्मसु निस्तुतोद व्यथयामास॥४३॥
जहारेति। किञ्च अस्मात् मुनेः अचिरेण शीघ्रं ज्वलद्भिः मणिभिः द्योतितः हैम्यः सौवर्ण्यः लेखाः यस्य तत् तथोक्तम्।
विकोशनिर्धूततनोर्महासेः
फणावतश्च त्वचि विच्युतायाम्।
प्रतिद्विपाबद्धरुषः समक्षं
नागस्य चाक्षिप्तमुखच्छदस्य॥४५॥
विबोधितस्य ध्वनिना वनानां
हरेरपेतस्य च शैलरन्ध्रात्।
निरस्तधूमस्य च रात्रिवह्नेः
विना तनुत्रेणरुचिं स भेजे॥४६॥
युग्मकम्।
वर्म कवचं चण्डो मरुत् पवनः पतङ्गात् सूर्य्यात् एकनीलं केवलं कृष्णवर्णम्। “एके मुख्यान्यकेवलाः” इत्यमरः। तड़ित्वतः तड़िद्युक्तस्य अम्बुदस्य खण्डमिव जहार। तदा भगवन्मायया मुक्तकञ्चुको मुनिः मेघनिर्मुक्तः सूर्य्य इव दिदीपे इति भावः॥४४॥
अथ युग्मेनाह। विकोशेति। सोऽर्जुनः तनुं त्रायत इति तनुत्रं वर्म । “अतोऽनुपसर्गे कः” इति कप्रत्ययः। तेन विना विकोशः कोशादुद्धृतः निर्धूततनुः बाणोल्लीढ़मूर्त्तिः। ततो विशेषणसमासः। तस्य विकोशनिर्धूततनोः महासेः महाखड्गस्य तथा त्वचि विच्युतायां सत्यां फणावतश्च मुक्तकञ्चुकस्य अहेश्चप्रतिद्विये प्रतिगजे आबद्धरुषो बद्धकोपस्य समक्षं प्रतिगजस्य अग्रे आक्षिप्तमुखच्छदस्य निरस्तमुखावरणस्य नागस्य गजस्य च॥४५॥
विबोधितस्येति। घनानां ध्वनिना गर्जितेन विबोधितस्य
अचित्तायामपि नाम युक्ताम्
अनूध्वतां प्राप्य तदीयकृच्छ्रे।
महीं गतौ ताविषुधीतदानीं
विवव्रतुश्चेतनयेव योगम्॥४७॥
स्थितं विशुद्धे नभसीव सत्त्वे।
धाम्ना तपोवीर्य्यमयेन युक्तम्।
शस्त्राभिघातैस्तमजस्रमीशः
त्वष्टा विवस्वन्तमिवोल्लिलेख॥४८॥
शैलरन्ध्रात् कन्दरात् अपेतस्य निष्क्रान्तस्य हरेः सिंहस्य च तथा निरस्तधूमस्य रात्रिवह्नेश्च रुचिं शोभां भेजे। एतेन अस्य तीक्ष्णता वैरनिर्यातनत्वरणदुर्मदत्वमनस्वित्वतेजस्वित्वानि उक्तानि। अत्र रुचिमिव रुचिमिति सादृश्याक्षेपात् असम्भद्वस्तुसम्बन्धोनिदर्शनालङ्कारो मालया संसृष्टः॥४६॥
अचित्ततायामिति। तदानीं कवचपतनसमये महीं गतौ इषुधी निषङ्गौअचित्ततायामपि अचेतनत्वेऽपि तदीयकृच्छ्रे स्वामिव्यसने युक्तां योग्याम् नाम किल अकिञ्चित्करत्वादिति भावः। अनूर्ध्वताम् अवाङ्मुखत्वं प्राप्य चेतनया प्राणिसाधारणज्ञानेनेव योगं चैतन्यसम्बन्धं विवव्रतुः इवेत्युत्प्रेक्षा। अचेतनत्वे अवाङ्मुखत्वादिचेतनधर्मयोगात् इति भावः॥४७॥
स्थितमिति। विशुद्धे निर्मले नभसि इव सत्त्वे सत्त्वगुणे स्थितं तपोवीर्य्यमयेन तपोवीर्य्याभ्यां गतेन धाम्ना तेजसा युक्तं तम् अर्जुनम् ईशः त्वष्टा विश्वकर्मा विवस्वन्तमिव अजस्रं शस्त्राभिघातैः शस्त्रकर्षणैः उल्लिलेख ततक्ष॥४८॥
संरम्भवेगोज्झितवेदनेषु
गात्रेषु चाधैर्य्यमुपागतेषु।
मुनेर्बभूवागणितेषुराशेः
लौहस्तिरस्कार इवात्ममन्युः॥४९॥
ततोऽनुपूर्वायतवृत्तबाहुः
श्रीमान् क्षरल्लोहितदिग्धदेहः।
आस्कन्द्यवेगेन विमुक्तनादः
क्षितिं विधुन्वन्निव पार्ष्णिघातैः॥५०॥
संरम्भेति संरम्भवेगेन सम्भ्रमातिशयेन उज्झितवेदनषु त्यक्तदुःखेषु गात्रेषु च अधैर्य्यंस्तैमित्यम् उपागतेषु सत्सु न गणिताः इषुराशया येन तस्य अगणितेपुराशेः मुनेः अर्जुनस्य आत्ममन्युः स्वकोपो लोहस्य विकारो लौहः कार्ष्णायमः तिरस्क्रियते आच्छाद्यतेऽनेनेति तिरस्कारः कञ्चुक इव बभूव रोषवशात् न किञ्चित् प्रहारदुःखमज्ञासीदित्यर्थः। क्रोधैकवर्मणां वीराणां किमन्यैः लौहभारैः? इत्यर्थः॥४९॥
अथ युग्मेन आह। तत इति। ततोऽनन्तरम् अनुपूर्वौपूर्वमनुगतौ गोपुच्छाकारौआयतौदीर्घौ वृत्तौ वर्त्तुलौ बाहू यस्य सः श्रीमान् शोभावान् क्षरल्लोहितदिग्धदेहः स्रवद्रुधिरलिप्तगात्रः पार्ष्णिघातैः चरणतलाघातैः। “तद्ग्रन्थीघुटिके गुल्फौ स्त्रियां पार्ष्णिरधस्तयोः” इत्यमरः। क्षितिं विधुन्वन् प्रकम्पयन् इव वेगेन आस्वन्द्य अभिद्रुत्य विमुक्तनादः सोऽर्जुनः॥५०॥
साम्यं गतेनाशनिना मघोनः
शशाङ्कखण्डाकृतिपाण्डुरेण।
शम्भुं बिभित्सुधनुषा जघान
स्तम्बं विषाणेन महानिवेभः॥५१॥
युग्मम्।
रयेण सा सन्निदधे पतन्ती
भवोद्भवेनात्मनि चापयष्टिः।
समुद्धता सिन्धुरनेकमार्गा
परे स्थितेनौजसि जह्नुनेव॥५२॥
विकार्मुकः कर्मसु शोचनीयः
परिच्युतौदार्य्य इवोपचारः।
साम्यमिति। मघोनः इन्द्रस्य अशनिना वज्रेणसह साम्यं गतेन वज्रकल्पेन शशाङ्कस्य खण्डं शकलं तस्य इव आकृतिः यस्य तद्वद्वक्रमित्यर्थः। पाण्डुरञ्च तद्वदेवेति भावः। तेन शशाङ्कखण्डाकृतिपाण्डुरेण धनुषा शम्भूं बिभित्सुः भेत्तुमिच्छुः सन् महानिभो गजः विषाणेन दन्तेन स्तम्बमिव जघान॥५१॥
रयेणेति। रयेण वेगेन पतन्तीसा चापयष्टिः भवस्य संसारस्य उद्भवः उत्पत्तिः यस्मात् तेन भवोद्भवेन ईश्वरेण परे आजसि परमेज्यातिषि स्थितेन जह्नुना राजर्षिणा समुद्धता अत्युत्कटा अनेकमार्गा त्रिस्राताः सिन्धुः गङ्गा इव आत्मनि सन्निदधे सम्यक् निहिता अन्तर्निक्षिप्तेत्यर्थः॥५२॥
विकार्मुक इति। विकार्मुको भग्नचापः अत एव परि-
विचिक्षिपे शूलभृता सलीलं
स पत्रिभिर्दूरमदूरपातेः॥५३॥
उपोढ़कल्याणफलोऽभिरक्षन्
वीरव्रतं पुण्यरणाश्रमस्थः।
जपोपवासैरिव संयतात्मा
तेपे मुनिस्तैरिपुभिः शिवस्य॥५४॥
ततोऽग्रभूमिं व्यवसायसिद्धेः
सीमानमन्येरतिदुस्तरं सः।
तेजःश्रियामाश्रयमुत्तमासिं
साक्षादहङ्कारमिवाललम्बे॥५५॥
च्युतौदार्य्योदानवर्जित उपचारः सत्कार इव कर्मसु रणक्रियासु कृत्येषु च शोचनीयः शोच्चोऽपूज्यश्च मत्त्वावष्टम्भनात् भग्नचित्तत्वाच्च सोऽर्जुनः शूलभृता शिवेन सलीलं यथा तथा अदूरपातैः अतिगाढ़प्रहारैः पत्रिभिः शरैः दूरम् अत्यन्तं विचिक्षिपे नुन्नः॥५३॥
उपोढ़ेति। उपोढ़मासन्नं कल्याणफलम् अस्त्रलाभरूपं स्वर्गादिकञ्च यस्य सः वीरव्रतमाहवादनिवृत्तिरूपं तीव्रं तपश्च अभिरक्षन् पलायमानः पुण्या यो रण एव आश्रमः तत्र तिष्ठति इति पुण्यरणाश्रमस्थः संयतात्मा नियमितचित्तः मुनिः अर्जुनः क्वश्चित्तपस्वी च तैः शिवस्य महादेवस्य इषुभिः शरैः जपोपवासैः इवतेपे तप्तः। तपतेः कर्मणि लिट्॥५४॥
तत इति। ततः चापान्तर्धानानन्तरं सोऽजुनः अग्रभूमिं
शरानवद्यन्ननवद्यकर्मा
चचार चित्रं प्रविचारमार्गैः।
हस्तेन निस्त्रिंशभृता स दीप्तः
साकांशुना वारिधिरूर्मिणेव॥५६॥
यथा निजे वर्त्मनि भाति भाभिः
छायामयश्चाप्सुसहस्ररश्मिः।
तथा भ्रमन्नाशु रणस्थलीषु
स्पष्टद्विमूर्त्तिर्ददृशे स भूतैः॥५७॥
विपदि गन्तव्यस्थानं शरणम् इत्यर्थः। कुतः व्यवसायसिद्धेः युद्धाद्यागसिद्धेः सीमानम् अवधिं साधकतमम् इत्यर्थः। अन्यैः परैःअतिदुस्तरं दुरतिक्रमं तेजःश्रियां प्रतापसम्पदाम् आश्रयं हेतुम् इत्यर्थः। उत्तमासिं महाखड्गम्। “सन्महत्”इत्यादिना समासः। साक्षादहङ्कारं सविग्रहम् अभिमानं इव आललम्बे जग्राह॥५५॥
शरानिवि। अनवद्यकर्मा अगर्ह्यकर्मा। “अवद्यपण्य” इत्यादिना निपातः। शरान् अवद्यन् खण्डयन् वीरो निस्त्रिशंभृता खड्गयुक्तेन हस्तेन साकांशुना अर्कांशुसहितेन ऊर्मिणा तरङ्गेण वारिधिरिव दीप्ता दापितः सोऽर्जुनः प्रविचारमार्गैःखड्गिनां गतिभेदैश्चित्रंयथा तथा चचार॥५६॥
यथेति। भाभिः दीप्तिभिः उपलक्षितः। “स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविद्युतिदीप्तयः”इत्यमरः। सहस्ररश्मिः अर्कः यथा निजे वर्त्मनि नभसि छायामयः प्रतिविम्बरूपः सन् अप्सु भात्रि रणस्थलीषु च स्पष्टे द्वेमूर्ती यस्य स स्पष्टद्विमूर्त्तिः सन्
शिवप्रणुन्नेन शिलीमुखेन
त्सरूप्रदेशादपवर्जिताङ्गः।
ज्वलन्नसिस्तस्य पपात पाणेः
घनस्य वप्रादिव वैद्युतोऽग्निः॥५८॥
आक्षिप्तचापावरणेषु जालः
छिन्नोत्तमासिः स मुधेऽवधूतः।
रिक्तः प्रकाशश्च बभूव भूमेः
उत्सादितोद्यान दूव प्रदेशः॥५९॥
सोऽर्जुनः भ्रमन् तथा भूतैः गणैःददृशे दृष्टा। यथैकोऽर्का नभसि अप्सु च अनेक इव दृश्यते। तथा सोऽत्र दिवि भवि च अप्सु सञ्चाराद् योगपद्यभ्रमात् एवएकोऽपिअनेक इव गणैःदृष्ट इत्युत्प्रेक्षा॥५७॥
शिवेति। शिवेन प्रणुन्नः क्षिप्तः तेन शिलीमुखेन त्सरुप्रदेशात् मुष्टिप्रदेशम् प्रवधिं कृत्वा “त्सरुः खड्गादिमुष्टौस्यात्” इत्यमरः। अपवर्जिताङ्गोलूनविग्रहः असिः खड्गः तस्य अर्जुनस्य पाणः करात् वनस्यसेवस्ववप्रात् तटात् वौद्युतोविद्युत्सम्बन्धीअग्निः इव ज्वलन् पपात॥५८॥
अक्षिप्तेति। आक्षिप्तानि अपहृतानि चापावरणेषु जालानि धनुर्वर्मबाणसमूहा यस्य सः छिन्नोत्तमासिः लूनमहाखङ्गः सृधे रणे। “सृधमात्कन्दनं सङ्ख्यम्” इत्यमरः। अवधूता निरस्तः सोऽर्जुनः उत्सादितम् उत्पादिनम् उद्यानं यस्य सः भूमेः प्रदेशोभूमिभाग इव रिक्तः शून्यः प्रकाशोनिःसम्बन्धश्च बभूव॥५९॥
स खण्डनां प्राप्य परादमर्षवान्
भुजद्वितीयोऽपि विजेतुमिच्छया।
संसर्ज वृष्टिं परिरुग्णपादपां
द्रवेतरेषां पयसामिवाश्मनाम्॥६०॥
नीरन्धं परिगमिते क्षतं पृषत्कैः
भूतानामधिपतिना शिलाविताने।
उच्छ्रायस्थगितनभो दिगन्तरालं
चिक्षेप क्षितिरुहजालमिन्द्रसूनुः॥६१॥
निःशेषं शकलितवल्कलाङ्गसारैः
स इति। परात् परस्मात् शत्रोः। “पूर्वादिभ्यो नवभ्यो वा” इति विकल्पात् न स्मादादेशः। खण्डनां भङ्गं प्राप्य अमर्षवान् सोऽर्जुनः भुजद्वितीयो भुजमात्रसहायः सन् अपि विजेतुम् इच्छया द्रवेभ्यः इतराणि तेषां द्रवेतरेषां कठिनानां पयसाम् डव करकाणाम् इवेत्यर्थः।अश्मनां सम्वन्धिनींपरिरुग्णाभग्नाः पादपाः यस्याः सा तां वृष्टिं ससर्ज अश्मभिः जघान इत्यर्थः॥६०॥
नीरन्ध्रमिति। शिलाविताने शिलाजाले भूतानाम् अधिपतिना शिवेन पृषत्कैः वाणैः क्षयं परिगमितेनीतं सति इन्द्रसूनुः अर्जुनः उच्छ्रायेण उत्सधेन स्थगितम् आच्छादितं नभोदिशाम् अन्तरालञ्च येन तत् नीरन्ध्रंसान्द्रं रोहन्तीति रुहाः। इगुपवलक्षणाः कप्रत्ययः। क्षितौरुहा वृक्षास्तेषां जालं चिक्षेप प्रेरयामास “उच्छ्रायं गमितवती” इति प्रामादिकः पाठः॥६१॥
निःशेषमिति। ईशानः शिवः। शानच्प्रत्ययः। निःशेषं
कुर्वद्भिर्भुवमभितः कषायचित्राम्।
ईशानः सकुसुमपल्लवैर्नगैस्तैः
आतेने बलिमिव रङ्गदेवताभ्यः॥६२॥
उन्मज्जन् मकर इवामरापगाया
वेगेन प्रतिमुखमेत्य बाणनद्याः।
गाण्डीवीकनकशिलानिभंभुजाभ्याम्
आजघ्ने विषमविलोचनस्य वक्षः॥६३॥
यथा तथा शकलितानि वल्कलानि त्वचः अङ्गानि शाखाः सारो मज्जा च येषां तैः भुवम् अभितः कषायो यो रागः स्वरागेण रञ्जनम् इति यावत्। “रागे क्वाथेकषायोऽस्त्री” इति वैजयन्ती। तेन चित्रां विचित्रवर्णां कुर्वद्भिःसकुसुमपल्लवैः तैः नगैः वृक्षैः रङ्गे रणरङ्गेया देवताः ताभ्यो बलिं पूजाम् इव आतेने॥६२॥
उन्मज्जन्निति। गाण्डीवीअर्जुनः उन्मज्जन् उत्तरन् मकरोजलग्राहविशेषः अमरापगाया इव बाणनद्याः बाणप्रवाहात् वेगेन अभिमुखम् अभिमुखम् एत्य आगत्य कनकशिलानिभं कनकग्रहणं काठिन्यातिशयद्योतनाथम्। विषमविलोचनस्य त्र्यम्बकस्य वक्षा हृदयं भुजाभ्याम् आजघ्ने ताडितवान्। अत्र आत्मनेपदं विचार्य्यम् “आङो यमहनः”इत्यत्र अकर्मकाधिकारात् “स्वाङ्गकर्मकाच्च”इति वक्तव्यत्वात् न च शिवस्य प्रतिमुखम् इत्यन्वयात कनकशिलानिभं कनकनिकषशल्यं श्यामं स्ववक्ष आजघ्ने इत्यर्थः इति वाच्यम्। अनौचित्याचरणात न हि युद्धाय सन्नद्धा निपुणा अपि मल्लाः स्ववक्षस्ताड़नम् आच-
अभिलषत उपायं विक्रमं कीर्त्तिलक्ष्म्योः
असुगममरिसैन्यैरङ्कमभ्यागतस्य।
जनक इव शिशुत्वे सुप्रियस्यैकसूनोः
अविनयमपि सेहे पाण्डवस्य स्मरारिः॥६४॥
इति किरातार्जुनीये महाकाव्ये
सप्तदशः सर्गः॥१७॥
रन्ति किन्तु स्वभुजास्फालनन्। किञ्च अनन्तरं वक्ष्ययमाणभवकर्त्तृकाविनयसहनविरोधात् वक्ष एवइत्यन्वयस्य अव्यवधानाच्च पूर्वैः एव दूषितत्वात् अतो व्याकरणान्तरात् द्रष्टव्यम्। केचित्तु “त्र्यम्वकस्य वक्षः प्राप्य” इत्यध्याहारं स्वीकृत्य अकर्मकत्वात् आत्मनेपदमाहुः॥६३॥
अभिलषत इति। कीर्त्तिलक्ष्म्योरुपायं साधनभूतम् अरिसैन्यैः असुगमं दुरासदं विक्रमम् अभिलषतः। सूनुपक्षे यत्किञ्चिन्महत् फलं प्रार्थयमानस्य इत्यर्थः। अत एव अङ्कम् अन्तिकम् अभ्यागतस्य उत्सङ्गसमारूढ़स्य च पाण्डवस्य अविनय स्मरारिः अनेन भक्तवात्सल्यम् एव सहनकारणम् इति मुञ्चते। शिशुत्वे शैशवे सुप्रियस्य परमप्रेमास्पदस्य कुतः एक एव सूनुः तस्य एकसूनोःअविनयं जनक इव सेहे सोढ़वान्॥६४॥
इति श्रीमहामहोपाध्यायकोलाचलमल्लिनाथसूरिविरचितायां
किरातार्जुनीयव्याख्यायां घण्टापथसमाख्यायां
सप्तदशः सर्गः।
अष्टादशः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730511446Screenshot2024-10-10111156.png"/>
तत उदग्र इव द्विरदे मुनौ
रणमुपेयुषि भीमभुजायुधे।
धनुरपास्य सबाणधि शङ्करः
प्रतिजघान घनैरिव मुष्टिभिः॥१॥
हरपृथासुतयोर्ध्वनिरुत्पतन्
अमृदुसंवलिताङ्गुलिपाणिजः।
स्फुटदनल्पशिलारवदारुणः
प्रतिननाद दरीषु दरीभृतः॥२॥
तत इति। ततो मुनिमुष्टियुद्धानन्तरम् उदग्रे महति द्विरदे गजे इव भीमे भुजौ एव आयुधे यस्य तथाभूते रणमुपेयुषि मुनौ शङ्करः स्वयमपि सबाणधि सतूणं धनुः अपास्य त्यक्त्वा। मुष्टिभिः घनैः लौहमुद्गरैः इव प्रतिजघान। प्राङ्मुनिकृता घातस्य प्रतिघातं कृतवान् इत्यर्थः। “घनाः कठिनसङ्घातमेघकाठिन्यमुङ्गराः” इति वैजयन्ती।“घनस्तुलोहमुद्गरेइति विश्वः। यद्यपि मुष्टिशब्दः “मुष्ट्या तु बद्धयासरत्निः स्यादरत्निस्तु निष्कनिष्टेन मुष्टिना” इत्यमरः उभयथा प्रयोगाद द्विलिङ्गः तथापि अत्र उपमानसारूप्यात् पुंलिङ्गो ग्राह्यः। द्रुतविलम्बितं वृत्तम्॥१॥
हरेति। हरपृथासुतयोः अमृदु निविड़ं यथा तथा संवलिताः सङ्घट्टिताः अङ्गुलयो येषां ते मुष्टीकृता इत्यर्थः। तेषु
शिवभुजाहतिभिन्नपृथुक्षतीः
सुखमिवानुबभूव कपिध्वजः।
क इव नाम वृहन्मनसाम्भवेत्
अनुकृतेरपि सत्त्ववतां क्षमः॥३॥
व्रणमुखच्युतशोणितशीकर-
स्थगितशैलतटाभभुजान्तरः।
अभिनवौषसरागभृता बभौ
जलधरेण समानमुमापतिः॥४॥
पाणिषु जातः तथोक्तः। स्फुटन्तीनां विदलन्तीनाम् अनल्पशिलानाम् आरव इव दारुणोभीषणो ध्वनिः उत्पतन् उद्गच्छन्। दरीभृतो गिरेः दरीषु गुहासु प्रतिननाद प्रतिदध्वान॥२॥
शिवेति। कपिध्वजः शिवस्य भुजाहतिभिः मुष्टिघातैः भिन्ना विदीर्णाः याः पृथवीमहत्यः क्षतयः प्रहाराः व्रणास्ताः सुखमिव अनुबभूव। दुःखकरौरपि इति भावः। क्षतीर्दुःखं नाजीगणदित्यर्थः। ननु दुःसहदुःखवेगेषु कथम् अगणना? इत्यत्राह। क इति। क इव नाम को नु खलु सत्त्ववतां सत्त्वाधिकानां वृहन्मनसां तेजस्विनाम् अनुकृतेःअनुकरणास्य अपि क्षमो भवेत्। मनस्विनां चरितं नटवदनुकर्त्तुमपि न कश्चिदीष्टे तस्य आचरणं तु दूरापास्तम्। रौद्ररसाविष्टमनस्विनां कुतः सुखगणना? इति भावः॥३॥
व्रणेति। व्रणमुखेभ्यः च्युतस्य क्षरितस्य शोणितस्य शीकरैः स्थगितमावृतं शैलतटाभं शिलाभं भुजान्तरं वक्षो यस्य स तथोक्तः उमापतिः अभिनवम् औषसरागं सन्ध्यारागं बिभर्त्तीति
अष्टादशः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730511446Screenshot2024-10-10111156.png"/>
तत उदग्र इव द्विरदे मुनौ
रणमुपेयुषि भीमभुजायुधे।
धनुरपास्य सबाणधि शङ्करः
प्रतिजघान घनैरिव मुष्टिभिः॥१॥
हरपृथासुतयोर्ध्वनिरुत्पतन्
अमृदुसंवलिताङ्गुलिपाणिजः।
स्फुटदनल्पशिलारवदारुणः
प्रतिननाद दरीषु दरीभृतः॥२॥
तत इति। ततो मुनिमुष्टियुद्धानन्तरम् उदग्रे महति द्विरदे गजे इव भीमे भुजौ एव आयुधे यस्य तथाभूते रणमुपेयुषि मुनौ शङ्करः स्वयमपि सबाणधि सतूणं धनुः अपास्य त्यक्त्वा। मुष्टिभिः घनैः लौहमुद्गरैः इव प्रतिजघान। प्राङ्मुनिकृता घातस्य प्रतिघातं कृतवान् इत्यर्थः। “घनाः कठिनसङ्घातमेघकाठिन्यमुङ्गराः” इति वैजयन्ती।“घनस्तुलोहमुद्गरेइति विश्वः। यद्यपि मुष्टिशब्दः “मुष्ट्या तु बद्धयासरत्निः स्यादरत्निस्तु निष्कनिष्टेन मुष्टिना” इत्यमरः उभयथा प्रयोगाद द्विलिङ्गः तथापि अत्र उपमानसारूप्यात् पुंलिङ्गो ग्राह्यः। द्रुतविलम्बितं वृत्तम्॥१॥
हरेति। हरपृथासुतयोः अमृदु निविड़ं यथा तथा संवलिताः सङ्घट्टिताः अङ्गुलयो येषां ते मुष्टीकृता इत्यर्थः। तेषु
शिवभुजाहतिभिन्नपृथुक्षतीः
सुखमिवानुबभूव कपिध्वजः।
क इव नाम वृहन्मनसाम्भवेत्
अनुकृतेरपि सत्त्ववतां क्षमः॥३॥
व्रणमुखच्युतशोणितशीकर-
स्थगितशैलतटाभभुजान्तरः।
अभिनवौषसरागभृता बभौ
जलधरेण समानमुमापतिः॥४॥
पाणिषु जातः तथोक्तः। स्फुटन्तीनां विदलन्तीनाम् अनल्पशिलानाम् आरव इव दारुणोभीषणो ध्वनिः उत्पतन् उद्गच्छन्। दरीभृतो गिरेः दरीषु गुहासु प्रतिननाद प्रतिदध्वान॥२॥
शिवेति। कपिध्वजः शिवस्य भुजाहतिभिः मुष्टिघातैः भिन्ना विदीर्णाः याः पृथवीमहत्यः क्षतयः प्रहाराः व्रणास्ताः सुखमिव अनुबभूव। दुःखकरौरपि इति भावः। क्षतीर्दुःखं नाजीगणदित्यर्थः। ननु दुःसहदुःखवेगेषु कथम् अगणना? इत्यत्राह। क इति। क इव नाम को नु खलु सत्त्ववतां सत्त्वाधिकानां वृहन्मनसां तेजस्विनाम् अनुकृतेःअनुकरणास्य अपि क्षमो भवेत्। मनस्विनां चरितं नटवदनुकर्त्तुमपि न कश्चिदीष्टे तस्य आचरणं तु दूरापास्तम्। रौद्ररसाविष्टमनस्विनां कुतः सुखगणना? इति भावः॥३॥
व्रणेति। व्रणमुखेभ्यः च्युतस्य क्षरितस्य शोणितस्य शीकरैः स्थगितमावृतं शैलतटाभं शिलाभं भुजान्तरं वक्षो यस्य स तथोक्तः उमापतिः अभिनवम् औषसरागं सन्ध्यारागं बिभर्त्तीति
उरसि शूलभृतः प्रहिता मुहुः
प्रतिहतिं ययुरर्जुनमुष्टयः।
भृशरया इव सह्यमहीभृतः
पृथुनि रोधसि सिन्धुमहोर्मयः॥५॥
निपतितेऽधिशिरोधरमायते
सममरत्नियुगेऽयुगचक्षुषः।
त्रिचतुरेषु पदेषु किरीटिना,
लुलितदृष्टि मदादिव चम्खले॥६॥
तथोक्तेन जलधरेण समानं तुल्यं यथा तथा बभौ इत्युपमा॥४॥
उरसीति। शूलभृतः शिवस्य उरसि प्रहिताः प्रयुक्ताः अर्जुनस्य मुष्टयः पृथुनि विशाले सह्यमहीभृतः सह्याद्रेः रोधसि तटे भृशरयाः तीव्रवेगाः सिन्धोः समुद्रस्य महोर्मय इव मुहुः प्रति हतिं ययुः॥५॥
निपतित इति। अयुगानि चक्षूंषि यस्य तस्य अयुगचक्षुषः त्रिलोचनस्य आयतेदीर्घेअरत्नियुगे अरत्न्योः बद्धमुष्ट्योर्हस्तयोः युगे युग्मे। “मुष्ट्या तु बद्धया सरत्निः स्यादरत्निस्तु निष्कनिष्ठेन मुष्टिना” इत्यमरः। प्रकृते तु मुष्टिमात्रविवक्षया प्रयोगः। शिरोधरायामधीति अधिशिरोधरम् अधिकन्धरं समं युगपत् निपतिते सति। किरीटिना अर्जुनेन मदादिव त्रीणि चत्वारि वा त्रिचतुराणि। “यङ्ख्यायाव्ययासन्न” इत्यादिना बहुव्रीहिः। “चतुरोऽच्प्रकरणे त्न्युपाभ्यामुपसंख्यानम्” इति समासान्तः अच्प्रत्ययः। त्रिचतुरेषु पदेषु लुलितदृष्टि घूर्णितनेत्रं यथा तथा चस्खले स्खलितम्। भावे लिट्॥६॥
अभिभवोदितमन्युविदीपितः
समभिसृत्य भृशं जवमोजसा।
भुजयुगेन विभज्य समाददे
शशिकलाभरणस्य भुजद्वयम्॥७॥
प्रववृतेऽथ महाहवमल्लयोः
अचलसञ्चलनाहरणो रणः।
करणशृङ्खलसङ्कलनागुरुः
गुरुभुजायुधगर्वितयास्तयाः॥८॥
अयमसौ भगवानुत पाण्डवः
स्थितमवाङ्मुनिना शशिमीलिना।
अभिभवेति। अभिभवेन उक्तरूपेण उदितः उत्पन्नोयोमन्युःक्रोधः तेन विदीपितः प्रज्वलितः सः अर्जुनः भृशं जवसमभिसृत्व समभिद्रुत्य ओजसा बलेन शशिकलाभरणस्य इन्दुमौलेः शिवस्य भुजद्वयं भुजयुगेन विभज्य वियोज्य समाददे जग्राह॥७॥
प्रववृत इति। अथ महाहवे महारणे मल्लयोः बलीयसोः। “मल्लः पात्रे कपोले च मत्स्यभेदे बलीयसि” इति विश्वः। गुरुभुजौ एव आयुधं तेन गर्वितयोः तयोः शिवार्जुनयोः करणानि करचरणबन्धनानि एव शृङ्खलानि येषां तेषां मङ्गलना सङ्घट्टना तथा गुरुः दुस्तरः तथा अचलस्य हिमाद्रेः सञ्चलनंकम्पः तस्य आहरणः आरोपकः। कर्त्तरि ल्युट्। रणः प्रववृते प्रावर्त्तत॥८॥
समधिरूढमजेन नु जिष्णुना
स्विदिति वेगवशान्मुमुहे गणैः॥९॥
प्रचलिते चलितं स्थितमास्थिते
विनमिते नतमुन्नतमुन्नतौ।
वृषकपिध्वजयोरसहिष्णुना
मुहुरभावभयादिव भूभृता॥१०॥
करणशृङ्खलनिःसृतयोस्तयोः
कृतभुजध्वनि वल्गुविवल्गतोः।
अयमिति। अयं पुरोवर्त्ती पुमान् असौ भगवान् प्रसिद्धोदेवः। तदुक्तम् “इदमः प्रत्यक्षरूपं समीपतरवर्त्ति चैतदी रूपम्। अदसस्तु विप्रकृष्ट तदिति परोक्षे विजानीयात्” इति उत पाण्डवः अयं हि तिष्ठदवस्थायां भ्रम इति वेदितव्यम्। अथ पतनावस्थायामाह— मुनिना अवाक् अधःस्थितम् उत शशिमौलिना अजेन देवेन तु समधिरूढम् उपरिस्थितम् अथ जिष्णुना स्वित् अर्जुनेन वा समधिरूढमित्येवं मणैःवेगवशात् मुमुहे भ्रान्तम्। “मुहवैचित्त्ये” भावे लिट्॥९॥
प्रचलिते इति। असहिष्णुना तयोः भारमसहमानेन भूभृता शैलेन अभावभयात् विनाशभयात् इव मुहुः वृषश्च कपिश्च ध्वजे ययोस्तयोः वृषकपिध्वजयोः प्रचलिते चलने सति चलितंप्रचेले आस्थिते तूष्णीम् अवस्थाने स्थितं तथैव तस्थे। विनमिते सति सम्यगाक्रमणे सति नतं नम्रीभूतम् अनामीति यावत्। उन्नतौ उन्नमते सति उन्नतम् उदनामि। सर्वत्र भावे क्तः॥१०॥
करणेति। करणानि करचरणबन्धविशेषाः तान्येव शृङ्ख-
चरणपातनिपातितरोधसः
प्रससृपुः सरितः परितः स्थलीः॥११॥
वियति वेगपरिप्लुतमन्तरा
समभिसृत्य रयेण कपिध्वजः।
चरणयोश्चरणानमितक्षितिः
निजगृहे तिसृणां जयिनं पुराम्॥१२॥
विस्मितः सपदि तेन कर्मणा
कर्मणां क्षयकरः परः पुमान्।
लानि तेभ्यो निःसृतयोः मुहुःत्यक्तबन्धयोः इत्यर्थः। कृतोभुजध्वनिः भुजास्फोटनशब्दो यस्मिन् कर्मणि तत्तथा वल्गुसुन्दरञ्च यथा तथा विवल्गतोः उत्प्लवमानयोः तयोः हरपार्थयोः चरणपातैः पादक्षेपैः निपातितानि रोधांसि यासां ताः सरितो नद्यः परितःस्थलीःपरितःस्थलीषु प्रससृपुः प्रसृताः। “अभित परितः” इत्यादिना द्वितीया। “जानपद” इत्यादिना अष्टात्रिमार्थे ङीष्। कूलपातक्षोभात् उद्वेलसलिलाः सरितःस्थलानि प्रामर्ज्जयन् इत्यर्थः। एतेन तयोर्भार उक्तः॥११॥
वियतीति। वियति अन्तरिक्षे वेगेन परिप्लुतम् उत्पतित तिसृणां पुरां जयिनं त्रिपुरान्तकम्। “जिदृक्षि” इत्यादिना इनिप्रत्ययः। कपिध्वजोऽर्जुनश्चरणाभ्यां पादाभ्याम् आनमितः क्षितिः सन् रयेण वेगेन समभिसृत्य अतिद्रुत्य अन्तरा मध्यमार्गंचरणयोः पदयोः निजगृहे निगृहातवानित्यर्थः। उत्पतितस्य भगवतश्चरणौ स्वकराभ्यां जग्राह इत्यर्थः॥१२॥
विस्मित इति। तेन कर्मणा चरणग्रहणकर्मणा सपदि
क्षेप्तुकाममवनौ तमक्लमं
निष्पिपेष परिरभ्य वक्षसा॥१३॥
तपसा तथा न मुदमस्य ययौ
भगवान् यथा विपुलसत्त्वतया।
गुणसंहतेः समतिरिक्तमहो
निजमेव सत्त्वमुपकारि सताम्॥१४॥
अथ हिमशुचिभस्मभूषितं
शिरसि विराजितमिन्दुलेखया।
स्ववपुरतिमनोहरं हरं
दधतमुदीक्ष्य ननाम पाण्डवः॥१५॥
विस्मितः सविस्मयः कर्मणां क्षयकरः मोक्षप्रद इत्यर्थः। परः पुमान् हरः अवनौ क्षितौ क्षेप्तुं कामो यस्य तम्। “तुङ्गाम मनसोरपि” इति मकारलोपः। अक्लमम् अक्लान्तं तं पार्थंवक्षसा परिरभ्य निष्पिपेष गाढ़मालिलिङ्ग इत्यर्थः। रथोद्धता वृत्तम्॥१३॥
तपसेति। भगवान् देवः अस्य अर्जुनस्य विपुलसत्त्वतया बहुसत्त्वसम्पदेत्यर्थः। धैर्य्यसम्पत्त्येति यावत् यथा मुदं ययौ तथा तपसा मुदं न ययौ। तथाहि सतां गुणसंहतेःतपःसेवादिगुणसङ्घातात् समतिरिक्तम् अतिशयितं निजं सत्त्वमेव उपकारि उपकारकमहो। प्रमिताक्षरात्तम्॥१४॥
अथेति। अथ हिमशुचिना हिमशुभ्रेण भस्मना भूषितं शिरसि इन्दुलेखया विराजितं शोभितम् अतिमनोहरं सुन्दरं
सहशरधि निजं तथा कार्मुकं।
वपुरतनु तथैव संवर्मितम्।
निहितमपि तथैव पश्यन्नसिं
वृषभगतिरूपाययौविस्मयम्॥१६॥
सिषिचुरवनिमम्बुवाहाः शनैः
सुरकुसुममियाय चित्रं दिवः।
विमलरुचि भृशं नभो दुन्दुभेः
ध्वनिरखिलमनाहतस्यानशे॥१७॥
स्ववपुः दधतम्। किरातरूपं विहाय निजविग्रहं दधानं हरम् उदीक्ष्य पाण्डवो ननाम प्रणतवान्। अपरवक्त्रं वृत्तम्। “अयुजि ननरला गुरुः समे तदपरवक्त्रमिदं नजौ जरौ” इति लक्षणात्॥१५॥
सहेति। वृषस्य दूव गतिः यस्य सोऽजुनः तस्मिन् समये सह शरधिभ्यां वर्त्तत इति सहशरधि मनिषङ्गम्। “वापसजेनस्य” इति विकल्पात् सहशब्दस्य न सभावः। निजं कार्मुक गाण्डीवं तथैव पूर्ववत् एव संवर्मितं सम्यक् कवचितम् अतनु महत् निजं वपुः तथैव निहितं यथापूर्वं स्थापितम्। असिमपि खड्गञ्च तथैव पश्यन् विस्मयम् उपाययौ। क्वचित्तु “वृषभगतिम्” इति पाठः। तत्रवृषभगतिं शिवञ्च पश्यन् विस्मयम्उपाययौ इत्यर्थः। प्रमुदितवदना वृत्तम्। “प्रमुदितवदना भवेत् नौ रसौ” इति लक्षणात्॥१६॥
सिषिचुरिति। अम्बुवाहाः शनैः अवनिं सिषिचुः उक्षाञ्चक्रुःदिवोऽन्तरिक्षात् चित्रं विचित्रं सुरकुसुमं मन्दारकुसु-
आसेदुषां गोत्रभिदोऽनुवृत्त्या
गोपायकानां भुवनत्रयस्य।
रोचिष्णुरत्नावलिभिर्विमानैः
द्यौराचिदा तारकितेव रेजे॥१८॥
हंसा वृहन्तः सुरसद्मवाहाः
संह्रादिकण्ठाभरणाः पतन्तः।
चक्रुः प्रयत्नेन विकीर्य्यमाणैः
व्योम्नः परिष्वङ्गमिवाग्रपक्षैः॥१९॥
सानि। जातौएकवचनम्। इयाय जगाम अनाहतस्य अताड़ितस्य दुन्दुभेः। जातौ एकवचनम्। ध्वनिः शब्दो विमलरुक्षिप्रसन्नम् अखिलं नभो भृशम् आनशे व्याप। अताड़िता एव दुन्दुभयोः नेदुः इत्यर्थः। सर्वमिदम् अस्य सर्वलोकहितार्थत्वात् इति वेदितव्यम्॥१७॥
आसेदुषामिति। गोत्रभिदः इन्द्रस्य अनुवृत्त्या अनुस्मरणेन आसेदुषाम् आसन्नानां भुवनत्रयस्य गोपायकानां रक्षकाणां लोकपालादीनाम्। “गुपूधूप” इत्यादिना आयप्रत्ययः तदन्तात् ण्वुल्। रोचिष्णवः प्रकाशनशीलाः रत्नावलयो येषां तैः। “अलङ्कृञ्” इत्यादिना इष्णुच्प्रत्ययः। विमानैः पुष्पकैः आचितां व्याप्ता द्यौः तारकिता सञ्जाततारकेव रेजे। उत प्रेक्षालङ्कारः॥१८॥
हंसा इति। वृद्वन्तः महान्तः सुरसद्मानि विमानानि बहन्तीति सुरसद्मवाहाः। कर्मण्यण्। संह्रादीनि निर्ह्रादीनि मुखराणि कण्ठाभरणानि किङ्किण्यो येषां ते पतन्तोधावन्तो
मुदितमधुलिहो वितानीकृताः
स्रज उपरि वितत्य सान्तानिकीः।
जलद इव निषेदिवांसं वृषे
मरुदुपसुखयाम्बभूवेश्वरम्॥२०॥
कृतधृति परिवन्दितेनोच्चकैः
गणपतिभिरभिन्नरोमोद्गमैः।
तपसि कृतफले फलज्यायसो
स्तुतिरिति जगदे हरेः सूनुना॥२१॥
हंसाः प्रयत्नेन विकीर्य्यमाणैःविक्षिप्यमाणैःअग्रपक्षैःपक्षाग्रैःव्योम्नः परिष्वङ्गम् आलिङ्गनं चक्रुः इवेत्युत्प्रेक्षा॥१९॥
मुदितेति। अथ मरुत् वायुः जलदे मेघे इव वृषे निषेदिवांसम् उपविष्टम् ईश्वरं मुदिता मधुलिहो भृङ्गा याभिः ताः वितानीकृताः उल्लोचाकाराः कृताः। “अस्ती वितानमुल्लोच” इत्यमरः। सान्तानिकीःसन्तानकुसुमविकाराः स्रजो मन्दारमाला इत्यर्थः। सन्तानशब्दाद्विकारार्थे ठक्। “सन्तानः कल्पवृक्षश्च” इत्यमरः। उपरि वितत्य विस्तार्य्यउपसुखयाम्बभूव प्रह्लादयामास॥२०॥
कृतेति। अभिन्नरोमोद्गमैः अविरलरोमाञ्चैः गणपतिभिः प्रमथमुख्यैः उच्चकैः परिवन्दितेन साधु साधु इति संस्तुतेन। “वदि अभिवादनस्तुत्योः” कर्मणिक्तः। हरेः सूनुना अर्जुनेन तपसि कृतं फलं भगवत्साक्षात्कारलक्षणं येन तस्मिन् कृतफलेसति इत्यर्थः। कृतधृति कृतसन्तोषं यथा तथा फलज्यायसी फलाधिका इति वक्ष्यमाणा स्तुतिः जगदे कथिता॥२१॥
शरणं भवन्तमतिकारुणिकं
भवं भक्तिगम्यमधिगम्यः जनाः।
जितमृत्यवोऽजित! भवन्ति भये
ससुरासुरस्य जगतः शरणम्॥२२॥
विपदेति तावदवसादकरी
न च कामसम्पदभिकामयते।
न नमन्ति चैकपुरुषं पुरुषाः
तव यावदीश! न नतिः क्रियते॥२३॥
संसेवन्ते दानशीला विमुक्त्यै
शरणमिति। हे अजित! हे अपराजित! हे भव! अतिकारुणिकम् अतिदयालुम्। “तदस्य प्रयोजनम्” इति ठक्। भक्तिगम्यं भक्तिमात्रसुलभं भवन्तं शरणं रक्षकम् अधिगम्य जितमृत्यवो जनाः, न च तत् चित्रं किन्तु ससुरासुरस्य जगतः भये आपदि शरणं स्वयं रक्षितारो भवन्ति। “शरणं गृहरक्षित्रोः” इति विश्वः। प्रमिताक्षरावृत्तम्॥२२॥
विपदिति। हे ईश! यावत् तव नतिः प्रणामो न क्रियते पुरुषेणेति शेषः। तावदेव एकं पुरुषम् एकाकिनं सन्तम् अवसादकरी क्षयकरो विपत् एति प्राप्नोति। कामसम्पत् मनोरथसम्पच्च न अभिकामयते न इच्छति। पुरुषाश्च अन्ये लोकाः तम् एकं पुरुषं तव स्तुतिम् अकुर्वाणं न नमन्ति न वशे वर्त्तन्त न अनिष्टनिवृत्तिः न अपि दृष्टप्राप्तिः इत्यर्थः। यदा तु त्वां प्रणमन्ति तदा एव सर्वं लभ्यते इति भावः॥२३॥
संसेवन्त इति। दानं शीलं स्वभावो निजधर्मो येषां ते
सम्पश्यन्तो जन्मदुःखं पुमांसः।
यन्निःसङ्गस्त्वं फलस्यानतेभ्यः
तत्कारुण्यं केवलं न स्वकार्य्यम्॥२४॥
प्राप्यते यदिह दूरमगत्वा
यत्फलत्यमरलोकगताय।
तीर्थमस्ति न भवार्णववाह्यं
सार्वकामिकमृते भवतस्तत्॥२५॥
दानशीलाः त्वाम् एव उद्दिश्य दानं कुर्वन्त इत्यर्थः। तस्माद्दानं परमं वदन्तीति श्रुतेः इति भावः। कुतः? यतो जन्मदुःखं सम्पश्यन्तः अनुभवन्तः पुमांसो विमुक्त्यै मोक्षाय संसेवन्तेभवन्तम् इति शेषः। आनतेभ्यः प्रणम्रेभ्यः निःसङ्गो निष्पृहः त्व यत् फलसि फलं ददासि तेषां फलार्थित्वात् इति भावः। तत केवलं निरुपाधिकं कारुण्यं करुणा। स्वार्थे ष्यञ्। “कारुण्यं करुणा घृणा” इत्यमरः। न स्वकार्य्यम् एतदेव चित्रं केवलंपरार्थत्वात् इति भावः। शालिनीवृत्तम्॥२४॥
प्राप्यत इति। यत् तीर्थम् इह अस्मिन् लोके दूरम् अगत्वा प्राप्यतेस्मृतिमात्रसुलभम् इत्यर्थः। गङ्गादिकन्तु न तथा इति भावः। यत् तीर्थम् अमरलोकगताय फलति फलं प्रयच्छति। अत्रापि स्मरणमात्रात् एव इति भावः। भवः संसारः स एव अर्णवः ततो वाह्यं वहिर्भवं संसारातीतं मोक्षप्रदम् इत्यर्थः। “बहिर्देवपञ्चजनेभ्यश्चेति वक्तव्यम्” इति ञ्यप्रत्ययः। सर्वे कामाः प्रयोजनम् अस्य इति सार्वकामिकम्। “तदस्य प्रयोजनम्” इति ठक्। तत् तादृक् तरन्ति अनेन इति तीर्थं तारकं
व्रजति शुचि पदं त्वयि प्रीतिमान्
प्रतिहतमतिरेति घोरां गतिम्।
इयमनघ! निमित्तशक्तिः परा
तववरद! न चित्तभेदः क्वचित्॥२६॥
दक्षिणां प्रणतदक्षिण! मूर्त्तिं
तत्त्वतः शिरकरीमविदित्वा।
रागिणाऽपि विहिता तव भक्त्या
संम्मृतिर्भव! भवत्यभवाय॥२७॥
भवतः त्वदृते। “अन्यारात्” इत्यादिना पञ्चमी।अन्यत् अस्ति। औपच्छन्दसिकं वृत्तम्॥२५॥
व्रजतीति। हे वरद! त्वयि प्रीतिमान् नरः शुचि निर्मलं पदं कैवल्यं मुक्तिं व्रजति। “मुक्तिः कैवल्यनिर्वाण” इत्यमरः। प्रतिहतमतिः उपहतबुद्धिः त्वद्द्वेषीत्यर्थः। घोरां गतिं तीव्रं नरकम् एति प्राप्नोति। न च एतावता तव रागद्वेषकलङ्कपङ्कम् इत्याह। इयमिति। हे अनघ! निष्कलङ्क! इयं भक्ताभक्तयोः इति शेषः। विधेयप्राधान्यात् स्त्रीलिङ्गता। परा दुस्तरा निमित्तशक्तिः निमित्तभूता शक्तिः स्वचेष्टितमहिमा तव क्वचिद् भक्ते द्वेषिणि वा कुत्रापि चित्तभेदो बुद्धिवैषम्यं नास्ति स्वकर्मणैव जन्तुस्तरति पतति वा त्वं साक्षितया सर्वत्र सम इत्यर्थः॥२६॥
दक्षिणामिति। हे भव! हे प्रणतदक्षिण! प्रणतेषु दाक्षिण्यसम्पन्न! दाक्षिण्यं परच्छन्दानुवर्त्तित्वम्। “दक्षिणः सरलावामपरच्छन्दानुवर्त्तिषु” इति विश्वः। शिवकरीं श्रेयस्करीम्। “कृञो हेतु” इत्यादिना टप्रत्यये ङीप्। तव दक्षिण
दृष्ट्वादृश्यान्याचरणीयानि विधाय
प्रेक्षाकारी याति पदं मुक्तमपायैः।
सम्यग् दृष्टिस्तस्य परं पश्यति यस्त्वां
योश्चोपास्ते साधु विधेयं स विधत्ते॥२८॥
युक्ताः स्वशक्त्या मुनयः प्रजानां
हितोपदेशैरुपकारवन्तः।
समुच्छिनत्सि त्वमचिन्त्यधामा
कर्माण्युपेतस्य दुरुत्तराणि॥२९॥
मूर्त्तिंतत्त्वतो याथार्थ्येन अविदित्वापि रागिणा रागद्वेषवतापिभक्त्या
विहिता तव संस्मृतिः संस्मरणम् अभवाय संसारनिवरर्त्तये। प्रसज्यप्रतिषेधेऽपि नञ्समास इष्यते। भवति अज्ञानं विनापि भक्तिपूर्विका तव संस्मृति एवमुक्तिदानम् इत्यर्थः। स्वागतावृत्तम्॥२७॥
दृष्ट्वेति। प्रेक्षया बुद्ध्या करोतीति प्रेक्षाकारी विमृष्यकारी दृश्यानि
द्रष्टव्यानि दृष्ट्वा ज्ञात्वा आचरणीयानि विधाय कर्त्तव्यानि च कृत्वा अपायैः मुक्तं पदं याति। “अविद्यया मृत्युं तीर्त्वा विद्यया मृतमश्नुते” इति श्रुतेः। ज्ञानकर्मभ्यां मुक्तिः इत्यर्थः। किन्तु ते अपि ज्ञानकर्मणीत्वद्विषये एव मुक्तिसाधनं अन्यविषयेइत्याशयेन आह। सम्यगिति। यः परं त्वां पश्यति तस्य सम्यग्दृष्टिः सम्यक् ज्ञानम्। यश्च त्वाम् उपास्ते सेवते स एव साधु विधेयं विधत्ते साधुकारीत्यर्थः। मत्तमयूरंतम् त्तम्। लक्षणन्तु उक्तम्॥२८॥
युक्ता इति। मुनयो व्यासादयः स्वशक्त्या निजयोगमहिम्ना
सन्निबद्धमपहर्त्तुमहार्य्यं
भूरि दुर्गतिभयं भुवनानाम्।
अद्भुताकृतिमिमामतिमायः
त्वं बिभर्षि करुणामय!मायाम्॥३०॥
न रागि चेतः परमा विलासिता
वधूः शरीरेऽस्ति न चास्ति मन्मथः।
युक्ताः तथा हितोपदेशैःविधिनिषेधवाक्यैः स्मृतीतिहासपुराणमुखेन प्रजानाम् उपकारवन्तः कृतोपकाराश्च। मोक्षप्रदस्तु तेषाम् अन्येषां च त्वमेव इत्याह। समिति। अचिन्त्यधामा अचिन्त्यमहिमा त्वमेव उपेतस्य शरणं प्राप्तस्य प्रपन्नस्य सम्बन्धीनि दुरुत्तराणि सुदुस्तराणि कर्माणि बन्धकानि पुण्य पापानि समुच्छिनत्सि नाशयसि ते तु अत्र असमर्था एव इति भावः॥२९॥
सन्निबद्धमिति। अतिक्रान्तो मायां बन्धरूपाम् अतिमायः। “अत्यादयः क्रान्ताद्यर्थेद्वितीयया” इति समासः। हे करुणामय! हे कृपालो! सन्निबद्धं स्वकर्मणा दृढ़बद्धम् अत एव अहार्य्यम् अन्यैःअनुच्छेद्यं भूरि प्रभूतं भुवनानां दुर्गतिभयं नरकभयम्। “स्यान्नारकस्तु नरको निरयो दुर्गतिः स्त्रियाम्” इत्यमरः। अपहर्त्तुम् अद्भुताकृतिं विचित्ररूपाम् इमां मायां दृश्यमानां लीलाविग्रहरूपां बिभर्षि। अन्येषां कर्मानुबन्धी विग्रहपरिग्रहः। भवतस्तु परोपकारार्थ इत्यर्थः॥३०॥
न रागीति। हे देव! चेतस्तव चित्तं रागि रागयुक्तं न परमयोगित्वादिति भावः। तथापि परमा निरतिशया विला-
नमस्क्रिया चोषसि धातुरित्यहो
निसर्गदुर्बोधमिदं तवेहितम्॥३१॥
तवोत्तरीयं करिचर्म साङ्गजं
ज्वलन्मणिः सारशनं महानहिः।
स्रगास्यपङ्क्तिःशवभस्म चन्दनं
कला हिमांशोश्च समं चकासति॥३२॥
मिता शृङ्गारादिचेष्टाशीलता भिक्षाटनादिषु विहरणेन तौर्य्यत्रिकव्यसनितया च इति भावः। किञ्च शरीरे अर्द्धाङ्गे बधूप्रसिद्धञ्च एतदिति भावः। तथापि मन्मथः कामश्च नास्ति तस्य भस्मीकरणादिति भावः। किञ्च प्रातः उषसि सन्ध्याया धातुः ब्रह्मणो नमस्क्रिया वन्दनं स्वयं जगद्वन्द्यस्य अपीत्यर्थः। इतीत्थं विरुद्धम् इदम् उक्तम् ईहितं चेष्टितं निसर्गतो दुर्बोधदुराकलनीयं दुर्ग्रहम् इत्यर्थः। अदृष्टपूर्वत्वात् इति भावः। वंशस्थं वृत्तम्॥३१॥
तवेति। हे देव! तव साङ्गजं सलोमकं करिचर्म उत्तरीयं संव्यानम्। “संव्यानमुत्तरीयञ्च” इत्यमरः। दुःस्पर्शम् इति भावः। ज्वलन्मणिः ज्वलद्रत्रोमहान् अहिः सारशनं कटिभूषाविशेषः। योऽन्येषां प्राणहर इत्यर्थः। “क्लीवे सारशनं चाथ पुंस्कट्यां शृङ्खलं त्रिषु” इत्यमरः। आस्यपङ्क्तिः कपालमाला। स्रक् माल्यं शवभस्म चन्दनम् उभयत्र अपि अस्पृश्यम् अमङ्गलं च इति भावः। किञ्च एतानि वस्तूनि हिमांशोःकला च समं तुल्यतया चकासति दीप्यन्ते त्वदाश्रयवशात् अरम्यस्य अपि रम्यतेति किमशक्यं तवेति भावः॥३२॥
अविग्रहस्याप्यतुलेन हेतुना
समेत्य भिन्नद्वयमूर्त्ति तिष्ठतः।
तवैव नान्यस्य जगत्सु दृश्यते
विरुद्धवेशाभरणस्य कान्तता॥३३॥
आत्मलाभपरिणामनिरोधैः
भूतसङ्घ इव न त्वमुपेतः।
तेन सर्वभुवनातिग! लोके
नोपमानमसि नाप्युपमेयः॥३४॥
अविग्रहस्येति। अविग्रहस्य वस्तुतोऽशरीरस्य अपि सतः अतुलेन दुर्बोधत्वात् असदृशेन हेतुना केनापि कारणेन इत्यर्थः। भिन्ना सङ्गता विलक्षणा च द्वयीद्विविधा स्त्रीपुंसात्मिका मूर्त्तिः यस्मिन् कर्मणि तत् समेत्य भिन्नद्वयमूर्त्ति यथा तथा तिष्ठतोऽशरीरस्य शरीरमेव विरुद्धं तदपि नारीनरात्मकमिति किमतश्चित्रम् अस्तीति भावः। एवंविधस्य तवैव जगत्सुविरुद्धे वेषाभरणे पूर्वोक्ते यस्य तस्य विरुद्धवेषाभरणस्य अपि सतः कान्तता रमणीयता दृश्यते अन्यस्य न दृश्यते तस्मात् अचिन्त्योऽसौ तव महिमा इति भावः॥३३॥
आत्मेति। हे देव! त्वं भूतसङ्घ इव शरीरादिसङ्घात आत्मलाभपरिणामनिरोधैः जन्मजरामरणैःउपेतो युक्तो न असि। तेन कारणेन हे सुर्वभुवनातिग! सर्व लोकोत्तर! उपमीयतेऽनेनेति उपमानं नासि। उपमीयते यत् तत् उपमेयमपि नासि न कश्चित् त्वादृशोऽस्ति त्वमपि न अन्यसदृशः अनन्यसाधारणत्वात् इत्यर्थः। वृत्तमुक्तम्॥३४॥
त्वमन्तकः स्थावरजङ्गमानां
त्वया जगत्प्राणिति देव! विश्वम्।
त्वं योगिनां हेतुफले रुणत्सि
त्वं कारणं कारणकारणानाम्॥३५॥
रक्षोभिः सुरमनुजैर्दितेः सुतेर्वा
यल्लोकेष्वविकलमाप्तमाधिपत्यम्।
पाविन्याः शरणगतार्त्तिहारिणे ते
माहात्म्यंभव! भवते नमस्क्रियायाः॥३६॥
त्वमिति। हे देव! त्वं स्थावरजङ्गमानाम् अन्तकसंहर्त्ता। त्वया हेतुना विश्वं सर्वं जगत् प्राणिति जीवति त्वं योगिनां हेतुः प्रवर्त्तकं कर्म फलं भोगश्चते हेतुफले रुणत्सि निवर्त्तयसि। तेषां त्वमेव बन्धविमोक्षक इत्यर्थः। किञ्च त्वं कारणानि भूतानि तेषां कारणानि भूतसूक्ष्माणि परमाणवो वातेषां कारणकारणानां कारणं प्रकृत्यादिद्वारा उत्पत्तिस्थानम्। अत्र सर्वत्र “यतो वा इमानि भूतानि जायन्ते तेन जातानि जीवन्ति यत्प्रयन्त्यभिसंविशन्ति” इति श्रुतिः प्रमाणमिति भावः॥३५॥
रक्षोभिरिति। रक्षोभिः राक्षसैःसुराश्च मनुजाश्चतैः दितैः सुतैः दैत्यैःवा लोकेषु यत् अविकलं सम्पूर्णम् आधिपत्यम् आप्तं प्राप्तं तत् हे भव! शरणागतानाम् आर्त्तिहारिणे ते भवते तुभ्यं नमस्क्रियायाः। “नमः स्वस्ति” इत्यादिना चतुर्थी। पाविन्याः पापहारिण्याः माहात्म्यंसामर्थ्यं न कस्य उन्नत्यै भवति शिरसीत्वयि अवनतिरिति भावः। प्रहर्षिणीवृत्तम्॥३६॥
तरसा भुवनानि यो बिभर्त्ति
ध्वनति ब्रह्म यतः परं पवित्रम्।
परितो दुरितानि यः पुनीते
शिव! तस्मै पवनात्मने नमस्ते॥३७॥
भवतः स्मरतां सदासने
जयिनि ब्रह्ममये निषेदुषाम्।
दहते भववीजसन्ततिं
शिखिनेऽनेकशिखाय ते नमः॥३८॥
अथ अष्टमूर्त्तिषु काश्चित् स्तुवन् वायुमूर्त्तिं तावदाह तरमेति। यः पवनः तरसा बलेन। “तरसी बलरंहसी” इति विश्वः। भुवनानि बिभर्त्ति प्राणात्मना धारयति। यतोवत् प्रेरणात् पवित्रं पर परमं ब्रह्म वर्णात्मकं ध्वनति नदतिः “सोदार्णी मूर्ध्न्यमभिहतो वक्त्रमापद्य मारुतः। वर्णान् संजनयति” इति वचनात्। यः पवनः परितो दुरितानि पातकानि पुनीते शोधयति नाशयतीति यावत्। हे शिव! तस्मै पावयनीति पवनो वायुः स एव आत्मा यस्य तस्मै पवनात्मने ते तुभ्यं नमः। वृत्तमुक्तम्॥३७॥
अथअग्निमूर्त्तिं स्तौति। भवत इति। जयिनि विजय शीले सर्वोत्कृष्टेब्रह्ममये ब्रह्मप्रधाने सदासनेसम्यगा- सनेयोगासनेइत्यर्थः। निषेदुषाम् उपविष्टानाम् भवतः स्मरता भवन्तं व्यायताम्। “अधीगर्थ”इत्यादिना शेषं कर्मणि षष्ठीभववीत्तसन्ततिंसंसारनिदानसमूहं भवनिदानकर्मसङ्घात
आबाधामरणभयार्चिषा चिराय
प्लुष्टेभ्यो भव! महता भवानलेन।
निर्वाणं समुपगमेनयच्छते ते
वीजानां प्रभव! नमोऽस्तु जीवनाय॥३९॥
यः सर्वेषामावरीता वरीयान्
सर्वैर्भावैर्नावृतोऽनादिनिष्ठः।
मार्गातीतायेन्द्रियाणां नमस्ते-
ऽविज्ञेयाय व्योमरूपाय तस्मै॥४०॥
दहते भस्मीकुर्वते अनेकशिखाय बहुज्वालाय शिखिने वह्नि मूर्त्तये ते तुभ्यं नमः॥३८॥
अथ जलमूर्त्तिं स्तौति। आबाधेति। हे भव! बीजानां प्रभव! कारणभूत! “जीवानाम्” इति पाठे तेषां तत्प्रतिविम्बत्वादिति भावः। आबाधा आध्यात्मिकादिदुःखं मरण पञ्चत्वं ताभ्यां भयं तदेव अर्चिः तस्य तेन महता भवानलेन संसाराग्निना चिराय चिरं प्लुष्टेभ्यो दग्धेभ्यः समुपगमेन संसेवया निर्वाणं सन्तापशान्तिं यच्छते ददते जीवयतीति जीवन तस्मैजीवनाय जलात्मने ते तुभ्यं नमः॥३९॥
इदानीं नभोमूर्त्तिंस्तौति। य इति। भवेत्यनुवर्त्तते। भवति अस्मादयं प्रपञ्च इति भवः तत्सम्बुद्धौ। सकलजगज्जनकेतियावत्। वरीयान् उरुतरो विभुः इत्यर्थः। “प्रियस्थिर” इत्यादिना उरुशब्दस्य वरादेशः। यः त्वं सर्वेषां वस्तूनाम् आवरीता आच्छादयिता। वृणोतेस्तृच्प्रत्ययः। सर्वैः भावैः पदार्थैःन आवृतः केनापि कदाचिदपि अनावृतः स्वयं व्यापकत्वादिति
अणीयसे विश्वविधारिणे नमो
नमोऽन्तिकस्थाय नमो दवीयसे।
अतीत्य वाचां मनसां च गोचरं
स्थिताय ते तत्पतये नमो नमः॥४१॥
असंविदानस्य ममेश संविदां
तितिक्षितुं दुश्चरितं त्वमर्हसि।
विरोध्य मोहात् पुनरभ्युपेयुषां
गतिर्भवानेव दुरात्मनामपि॥४२॥
भावः। अविद्यमाने आदिनिष्ठे उत्पत्तिनाशौ यस्य असौ अनादिनिष्ठः नित्यः। “निष्ठा निप्पत्तिनाशान्ताः” इत्यमरः। इन्द्रियाणां चक्षुरादीनां मार्गातीताय अतोन्द्रियाय। अत एव अविज्ञेयाय अपरिच्छेद्याय तस्मै व्योमरूपाय ते तुभ्यं नमः॥४०॥
अणीयस इति। भवत्यनुवर्त्ततेहे भव! अणीयसेसूक्ष्मतराय तथापि विश्वविधारिणे जगद्धारकाय ते तुभ्यं नमः। अन्तिकस्थाय अन्तर्यामितया सन्निकृष्टाय सते। तथापि दवीयसे दूरतराय दुर्ग्रहाय ते तुभ्यं नमः। वाचां मनसाञ्च गोचरं विषमम् अतीत्य स्थिताय अवाङ्मनसगोचराय। तत्पतये तेषां वाङ्मनसानाम् अध्यक्षाय। तदध्यक्षः तैःएव न दृश्यते इति विरोधः। ते तुभ्यं नमो नमः। “चापले द्वे भवत इति वक्तव्यम्” इति द्विरुक्तिः। “सम्भ्रमेण प्रवृत्तिश्चापलम्” इति काशिका। भक्त्युद्रेकाच्च सम्भ्रमः। विरोधाभासोऽलङ्कारः॥४१॥
असंविदानस्येति। संविदां ज्ञानानाम् ईश “ईशानं सर्वविद्यानाम्” इति श्रुतेरिति भावः। “प्रेक्षोपलब्धिश्चित्
आस्तिक्यशुद्धमवतः प्रियधर्म!धर्मः
धर्मात्मजस्य विहितागसि शत्रुवर्गे।
सम्प्राप्नुयां विजयमीशः यया समृद्ध्या
तां भूतनाथ! विभुतां वितराहवेषु॥४३॥
इति निगदितवन्तं सूनुमुच्चैर्मघोनः
प्रणतशिरसमीशः सादरं सान्त्वयित्वा।
संवित्”इत्यमरः। असंविदानस्य अज्ञानस्य। “समो गमृच्छि.x.x इत्यादिना विदेः सम्पूर्वादकर्मकात् शानच्प्रत्ययः। मम दुश्चरितं शास्त्रप्रयोगरूपं दुश्चेष्टितं तितिक्षितुं सोढ़ुम्। तिजेः सन्नन्तात् तुमुन्प्रत्ययः। त्वमर्हसि योग्योऽसि। ननु तव महानपराधः कथं सोढव्यः? तत्राह। विरोध्येति। मोहात् अज्ञानात् विरोध्य वैरमुत्पाद्य पुनरभ्युपेयुषां पश्चात् शरणागतानां दुरात्मनामपि भवानेव गरिः त्वं हि शरणागतानाम् अपराधं न गणयसि इत्यर्थः॥४२॥
सम्प्रति वरं याचते। आस्तिक्येति। हे प्रियः धर्मः यस्य इति प्रियधर्म! “समासान्तो विधिरनित्यः” इति न समासान्तः अच्प्रत्ययः। परलोके मतिः अस्तीति आस्तिकः पारलौकिकः। “अस्तिनास्ति दिष्टम्” इति ठक्। तस्य भावः आस्तिक्यं विश्वासः तेन शुद्धं विमलं धर्मं वैदिकाचारमवतः पालयतो धर्मात्मजस्य युधिष्ठिरस्य विहितागसि कतापकारे शत्रुवर्गविषये हे ईश! यया समृद्ध्याआत्मास्त्रवैभवेन विजयं सम्प्राप्नुयां भजेयं हे भूतनाथ! आहवेषु तां विभुतां विभूतिं शस्त्रविद्यां वितर देहि॥४३॥
ज्वलदनलपरीतं रौद्रमस्त्रं दधानं
धनुरुपपदमस्मै वेदमभ्यादिदेश॥४४॥
स पिङ्गाक्षः श्रीमान् भुवनमहनीयेन महसा
तनुं भीमां बिभ्रत् त्रिगुणपरिवारप्रहरणः।
परीत्येशानं त्रिः स्तुतिभिरुपगीतः सुरगणैः
सुतं पाण्डोर्वीरं जलदमिव भास्वानभिययौ॥४५॥
इतीति। इति उच्चैः निगदितवन्तं प्रणतशिरसं मघोनः इन्द्रस्य सूनुम् अर्जुनम् ईशो महादेवः सादरं यथा तथा सान्त्वयित्वा उपसान्त्व्यअस्मै अर्जुनाय ज्वलता अनलेन तेजसा दीत्प्यापरीतं व्याप्तं रौद्रं रुद्रदेवताकं पाशुपतमस्त्रं दधानं धनुरुपपदं धनुःशब्दोपपदं वेदं धनुर्वेदम् इत्यर्थः। अभ्यादिदेश अध्यापया मासेत्यर्थः। “धनुरुपपदं वेदम्” इत्यत्र धनुरुपपदत्वं वेदशब्दस्य न तु संज्ञिनः तदर्थस्य इति संज्ञायाः संज्ञिगतत्वाभावात् अवाच्यवचनदोषमाहुरालङ्कारिकाः। तदुक्तम् “यदेवावाच्यवचनमवाच्यवचनं हि तत्” इति। समाधाने तु धनुःशब्दविशेषितेन वेदशब्देन शब्दपरेण इत्यर्थः परोपदेशयोग्यो धनुर्वेदो लक्ष्यः॥४४॥
स इति। पिङ्गाक्षः पिङ्गलाक्षः श्रीमान् शोभावान् भुवनमहनीयेन लोकपूज्येन महसा तेजसा भीमां तनुं बिभ्रत्। त्रिगुणः त्रिशिखः परिवारः आकारो यस्य तत् त्रिगुणपरिवारं त्रिशूलं तदेव प्रहरणम् आयुधं यस्य सतथोक्तः। सूर्य्यपक्षे तु गुणत्रयपरिवारः त्रय्यात्मक इति योज्यम्। स धनुर्वेदः सुरगणैः स्तुतिभिः उपगीतः सन् ईशानं देवं त्रिः त्रिवारम्। “द्वित्रि
अथ शशधरमौलेरभ्यनुज्ञामवाप्य
त्रिदशपतिपुरोगाः पूर्णकामाय तस्मै
अवितथफलमाशीर्वादमारोपयन्ती
विजयि विविधमस्त्रं लोकपालावितेरुः॥४६॥
असंहार्य्योत्साहं जयिनमुदयं प्राप्य तरसा
धुरं गुर्वीं वोढुं स्थितमनवसादाय जगतः।
स्वधाम्ना लोकानां तमुपरि कृतस्थानममराः
तपोलक्ष्म्यादीप्तं दिनकृतमिवोच्चैरुपजगुः॥४७॥
चतुर्भ्यः सुच्” इति सुच्प्रत्ययः। परीत्य प्रदक्षिणीकृत्य वीरं पाण्डोः सुतम् अर्जुनं भास्वान् सूर्य्यो जलदमिव अभिययौ। शिखरिणीवृत्तम्॥४५॥
अर्थात।अथ शशधरमौलिवरप्रदानानन्तरं त्रिदशपतिपुरोगाः इन्द्रादयो लोकपालाः शशधरमौलेः शम्भोः अभ्यनुज्ञाम् अवाप्य पूर्णकामाय तस्मै पाण्डवाय अवितथफलम् अमोघफलम् आशीर्वादम् आरोपयन्तः प्रयुञ्जानाः विजयि जयशीलं विविधं नानाविधम् अस्त्रम् ऐन्द्रादिकं वितेरुः ददुः मालिनीवृत्तम्॥४६॥
असंहार्य्योत्साहमिति। तरसा बलेन वेगेन च जयिनं जयशीलम् उदयमस्त्रलाभरूपम् अभ्युदयम् अन्यत्र उदायार्द्रिंच प्राप्य असंहार्य्योत्साहं संहर्त्तुम् अशक्योत्साहं जगतोऽनवसादाय क्षेमाय गुर्वीं धुरं दुष्टनिग्रहं तमोपसंहाररूपं च भारं बोढ़ुं स्थितम्। स्वधाम्ना स्वतेजसा लोकानाम् उपरि कृतस्थानं कृतस्थितिं कृतपदम् अन्यत्रोपरि वर्त्तमानं तपोलक्ष्म्या
व्रज जलरिपुलोकं पादपद्मानतः सन्
गदित इति शिवेन श्लाघितो देवसङ्गैः।
निजगृहमथ गत्वा सादरं पाण्डुपुत्रो
धृतगुरुजयलक्ष्मीर्धर्मसूनुंननाम॥४८॥
इति श्रीमहामहोपाध्यायभारविकृतौ किरातार्जुनौये महाकाव्ये
धनञ्जयास्त्रलाभोनाम अष्टादशः सर्गः।
दीप्तं तं पाण्डवम् अमराः इन्द्रादयः। दिनकृतं सूर्य्यमिव उच्चः उपजगुः साधु महाभाग्योऽसीति तुष्टवुः। शिखरिणीवृत्तम्॥४७॥
व्रजेति। शिवेन व्रज स्वपुरं गच्छ अरिलोकं जयेति गदितः उक्तः यतः पादपद्मानतः शिवपादपङ्कजानतः सन्। तथा देवसङ्घैःश्लाघितः स्तुतः अत एव धृता गुर्वीं जयलक्ष्मी येन स पाण्डुपुत्रः अर्जुनः निजगृहं स्वाश्रमं गत्वा प्राप्य अथ सादरं यथा तथा धर्मसूनुं राजानं ननाम नमनं चकार॥४८॥
इति श्रीपदवाक्यप्रमाणपारावारीणमहामहोपाध्यायकोलाचल
मल्लिनाथसूरिविरचितायां किरातार्जुनीयव्याख्याया
घण्टापथसमाख्यायामर्जुनवरप्रदानो नाम
अष्टादशः सर्गः।
<MISSING_FIG href="../books_images/U-IMG-1730553051Screenshot2024-07-11161259.png"/>
॥समाप्तम्॥
]