चम्पूभारत-प्रकाशः

[[चम्पूभारत-प्रकाशः Source: EB]]

[

** ॥ द्वितीयः स्तबकः ॥**

एकदा तु ते {1}सर्वे सुपर्वसरितः सलिलेषु {2}विहृत्य समुत्तीर्णा वीचीभिरनीचीरुत्कूलितफेनकूटेत्विव {3}पटगृहवाटेषु परिगृहीतमनोहराम्बरपटीरहाराभ्यवहाराः कुमाराः {4}कुशलकुशीलवकुलीशीलितविचित्रवादित्रकलशीरवविवशीकृतमनसः{5} सुखमासामासुः ।

एकदेति। एकदा एकस्मिन् कस्मिंश्चित् समये ते सर्वे कुमाराः राजपुत्राः कौरवाश्च सुपर्वणां देवानां सरितो गङ्गायाः सलिलेषु जलेषु विहृत्य जलक्रीडापूर्वकं स्नानं कृत्वा समुत्तीर्णाः तटभुवमायाताः सन्तः अनोचीभिः उन्नताभिः वीचिभिः तरङ्गैः उत्कूलितेषु तटदेशं प्रापितेषु फेनपटलेषु गाङ्गपयःफेनराशिष्विव स्थितेषु पटगृहवाटेषु वस्त्रनिर्मितगृहकक्ष्यान्तरेषु परिगृहीताः आसादिताः-मनोहरम् अम्बरं वस्त्रम्, पटीरः चन्दनलेपः, हारो मणिमाला, अभ्यवहारः भोजनम्-मनोहराम्बरपटीरहाराभ्यवहारा यैस्ते तथोक्ताः सन्तः कुशलानां गानविद्यानिपुणानां कुशीलवानां गायकानां कुलेन समुदायेन शीलितानां वाद्यमानानां विचित्रवादित्राणाम् नानाविधवाद्यानाम् कलशीनां घटवाद्यानां च रवैः शब्दैः वशीकृतानि आकृष्टानि मनांसि येषां ते तथोक्ताः सुखम् अक्लेशम् आसामासुः अवर्त्तन्त। `गायकास्तु कुशीलाः’ इत्यमरः ॥

रहसि नलिनतल्पे रत्नपर्यङ्कल्पे दिनविरतिसमीरैः सेव्यमानः स मीमः।
तटभुवि कुसुमानां तादृशैर्गन्धपूरैरधिकमलसताया हानिदद्रौ निददौ ॥ 1 ॥

रहसीति। कुसुमानां पुष्पाणां तादृशैः वचसाऽप्रकाश्यैः गन्धपूरैः सुगन्धैः अलसताया निद्रायाः अनुष्ठाने आलस्यस्य हानिदाः ह्रासकराः द्रवः वृक्षा यस्यां तादृश्यां तथोक्तायाम् तटभुवि गङ्गातटभूमौ दिनविरतिसमीरैः सायङ्कालिक वायुभिः सेव्यमानः आराध्यमानः सः प्रसिद्धपराक्रमो भीमः द्वितीयपाण्डुः रहसि एकान्ते रत्नपर्यङ्ककल्पे रत्ननिर्मितखट्‌वोपमेये नलिनतल्पे कमलदलशयनीये अधिकं गाढं निदद्रौ सुष्वाप। यत्र वृक्षाः स्वसुमैः प्रसारितैः सुगन्धैर्निद्रामाह्वयन्तीव तादृशी या जाह्नवीतटभूमिस्तस्यां क्वचनैकान्तभागे भीमो नलिनदलतल्लपमास्तीर्य सुखमस्वाप्सीदित्यर्थः ॥ 1 ॥

अथ निशीथे तथाभूतस्य तस्य जिघांसया कुरुनरेन्द्रनन्दनेन चोदितैर्नरेन्द्रैरुपेत्य युगपदेव झटिति {6}निभृतं समुद्धाटितेषु नयन्त्रणपेटकेषु ॥

अथेति। अथ भीमे निद्रामग्ने सति निशीथे अर्धरात्रे तथाभूतस्य गाढसुप्तस्य भीमस्य जिघांसया हन्तुमिच्छया, कुरूनरेन्द्रस्य धृतराष्ट्रस्य नन्दनेन पुत्रेण दुर्योधनेन चोतिदैः भीमवधार्थमादिष्टैः नरेन्द्रैः मान्त्रिकैर्विषवैद्यैः (ये मन्त्रदावरा वशगान् सर्पान्पालयन्ति, यथोपयोगं तान् व्यापारयन्ति च तैः) उपेत्य भीमसकाशमागत्य युगवत् सहैव झटिति शीघ्रं निभृतं प्रच्छन्नभावेन नियन्त्रणपेटकेषु सर्पधारणमञ्जूषासु समुद्धाटितेषु विवृतमुखेषु कृतेषु, (सर्पा बहिरेत्य जिह्वाप्रसारान् वितेनुरिति वक्ष्यमाणेन वाक्यपूर्त्तिः। दुर्योधनादिष्टा विषवैद्याः भीमस्य दंशनाय बहून्सर्पान् युगपदेव व्यापारयामासुरित्यर्थः। `नरेन्द्रो विषवैद्येऽपि’ इति विश्वः ॥

सुते पितृस्वादिमसंप्रदायशुशुत्सयेव श्वसनाशनेन्द्राः।
समीरसूनुं समुपेत्य जिह्वाबहिःप्रसारान्बहुशो वितेनुः ॥ 2 ॥

सुत इति। श्वसनो व्युरशनं भक्ष्यं येषां ते श्वसनाशनाः सर्पास्तषामिन्द्राः प्रधानसर्पाः सुते (वायोरित शेषः) भीमे पितरि वायौ यः स्वादिमा स्वादः (सर्पैर्भक्ष्यमाणे वायौ यः स्वादः) तस्य यः सम्प्रदायः परम्परानुवृत्तिः पितुः पुत्रे सङ्क्रमः तस्य शुशुत्सा शोधनेच्छा परीक्षाकामना तया इव समीरसूनुं भीमम् समुपेत्य बहुशः अधिकम् बहिःजिह्वाप्रसारान् रसनाबहिष्करणव्यापारान् वितेनुः चक्रुः। सर्पमुख्या भीमस्य समीपमागत्य स्वीया रसना बहिः प्रसारयामासुः, मन्ये ते परीक्षितुमिच्छन्ति यदस्माभिर्भक्षितपूर्वे वायौः यः स्वाद आसीत् सः स्वादो वायुसुते भीमे विद्यते न वेति। उपजातिर्वृत्तम्, हेतूत्प्रेक्षाऽलङ्कारश्च ॥ 2 ॥

सुप्तस्य तस्य तु सुयोधनभृत्यमुक्ता वाताशनाश्च सकला वनदेवताश्च।
आसीर्द्वयं वपुषि चायुषि च प्रतेनुः पूर्वा न तत्र चरमैव पुपोष वीर्यम् ॥ 3 ॥

सुप्तस्येति। दुर्योधनभृत्यमुक्ताः दुर्योधनविषवैद्यप्रेरिताः वाताशनाः सर्पाः च सकलाः वनदेवताश्च तस्य सुप्तस्य भीमस्य वपुषि काये आयुषि जीवनादृष्टे च आशीद्वर्यम् द्विविधाः आशिषः दंष्ट्राव्यापारान् शुभकामनाश्च `आशीः शुभाशंसाऽहिदंष्ट्रयोः’ इत्यमरः। चक्रुः। तत्र द्वयोराशिषोर्मध्ये पूर्वा प्रथमा सर्पदंष्ट्राव्यापृतिरूपाऽऽशीः वीर्यं भीमप्राणसामर्थ्यम् न पुपोष न चरितार्थवती, चरमा वनदेवताकृता भीमशुभाशंसैव वीर्यं भीमरक्षणरूपं सामर्थ्यं पुपोष कृतवतीत्यर्थः। सर्पैः कृतेऽपि शतशो दंष्ट्राव्यापारे वनदेवताप्रसादाद् भीमो नाम्रियतेति तात्पर्यम्। वसन्ततिलकं वृत्तम् ॥ 3 ॥

मर्मदत्तदशना{7} भुजङ्गमा मारुतेर्वपुषि सुप्तिभूरुहः।
मुष्टिमेयतनवो विरेजिरे मूलिका इव बहिर्विनिर्गताः ॥ 4 ॥

मर्मेति। भुजङ्गमाः सर्पाः मारुतेः वायुसुतस्य भीमस्य वपुषि शरैरे मर्मसु हृदयादिमर्मस्थानेषु दत्तदशनाः प्रयोजितदंष्ट्राः सन्तः बहिर्विनिर्गताः भूमेः बहिर्निःसृताः मुष्टिमेयतनवः समाहृताङ्गुलिः करो मुष्टिस्तेन मेया परिच्छेद्या तनुः तादृशाः सर्पा मूलिकाश्च ते ततोक्ताः सर्पाः सुप्तिभूरुहः शयनतरोः मूलिकाः मूलानीव विरेजिरे। भीमे कृतदशनप्रहाराः सर्वात्मनोत्थितवपुषश्च ते सर्पाः शयनतरोर्मूलानीव प्रतिबभासिरे इत्याशयः। उत्प्रेक्षाऽलङ्कारः रथोद्धतावृत्तम् ॥ 4 ॥

{8}अन्येद्युरपि पुनराजीवन्तं निद्रारुणनयनराजीवं तं स मुग्धधीः स्निग्ध इव {9}सजग्धिकेलिकायामारा{10}लिकदापितकवलनिचोलितकरालगरलविह्वलं {11}प्रलम्बितशिरसं रज्जुभिः परिणाह्य परिणाहिनीभिरसुहृदां {12}हृदयशूलमपि शूलकीलिते निर्जरसरिदन्तर्जले विसर्जयामास ।

अन्येद्युरिति। मुग्धा अज्ञानोपहता धीर्यस्य सः मुग्धधीः सः दुर्योधनः स्निग्धः प्रेमयुतः सुहृत् मित्रमिव (कपटमित्रम्) अन्येद्युः परस्मिन् वासरे (सर्पदंशतोऽप्यमृते भीमे) आजीवन्तं प्राणान् धारयन्तं निद्रया अरुणे रक्ताभे नयने एव राजीवेरक्तकमले यस्य तं तथोक्तम् भीमम् पुनः भूयः सजग्निकेलिकायाम् सहभोजनक्रीडाप्रसङ्गे आरालिकैः यस्य तं तथोक्तम् भीमम् पुनः भूयः सजग्धिकेलिकायाम् सहभोजनक्रीडाप्रसङ्गे आरालिकैः पाचकैः (कर्त्तृंभिः प्रयोज्यभूतैः) दापितैः कवलैर्ग्रासैः निचोलितेन अन्तर्हितन करालेन गरलेन भीषणविषेण विह्वलम् मूर्च्छितम् अतएव प्रलम्बितशिरसम् अस्तचैतन्यतया स्थिरोर्ध्वमस्तकम् विषवेगवशेनोत्थितकचकलापं वा परिणाहिनीभिः पिशालाभिः रज्जुबिः परिणाह्य बन्धयित्वा(भीममिव)असुहृदाम् अमित्राणाम् दुर्योधनादीनाम् हृदयशूलम् मनोदुःखम् अपि शूलकीलिते स्थूणाभिर्व्याप्ते निर्जरसरितः गङ्गाया अन्तर्जले पयसि विसर्जयामास पातितवान्। पुनरपरस्मिन्नहनि यदा दुर्योधनो भीमं सर्पदंशितमपि यदा जीवन्तं निद्रारक्तनयनं चापश्यत्तदा स तं सहभोजनाय न्यमन्त्रयत्तत्र च तस्मै सूदद्वारा प्रच्छाद्य विषमदापयत्तद्वेगविह्वलं घूर्णमानशिरसं च तं गङ्गाजले पातयामास, यत्र जले प्रागेव तद्वपुषोऽबहिर्भावाय स्थूणा निखाता आसन्, तद्विसर्जनेन च दुर्योधनः स्वं हृदयशूलमपि विसर्जितममंस्तेत्याशयः। `आरालिका आन्धसिकाः’ इति पाचक पर्यायेष्वमरः।

तेषां तदानीं धृतराष्ट्रजानां तीरे च नीरे दिवषत्तटिन्याः।
मरुत्सुतं मारयितुं प्रवीरं सारा गुणाः साधनतामवापुः ॥ 5 ॥

तेषामिति। तदानीं तस्मिन्काले तेषां धृतराष्ट्रजानां दुर्योधनादीनां दिविषदो देवाः तेषां तटिनी नदी गङ्गा तस्याः तीरे तटप्रदेशे नीरे जले च प्रवीरम् महाशूरं भीमं मारयितुं हन्तुं साराः सूदाः गुणाः रज्जवश्च साधनताम् प्रयोजकत्वम् अवापुः प्राप्ताः। सूदास्तटे विषं दत्त्वा रज्जवश्च नीरे तं बद्‌ध्वा दुर्योधनस्य साहाय्यं कृतवन्त इत्यर्थः। यद्वा सारा गुणाः भीमगताः श्रेष्ठा बलादयः साधनतां प्रापुस्तैरेव सद्भिर्भीमस्य द्वेष्यतया वध्यत्वेनावधारणात्। `गुणोऽप्रधाने रूपादौ मौर्व्यासूदे वृकोदरे’ इति विश्वः। अत्र भीमगतगुणानामेव तन्मरणसाधनतया वर्णनाल्लेशो नामालङ्कारः, `लेशः स्याद्दोषगुणयोर्गणदोषत्वकल्पनम्’ इति तल्लक्षणात् ॥ 5 ॥

ततः पातालभुवि तदागमनकौतुकिना वासुकिना संमानितः स धृतिमानितस्ततोऽष्टासु दिशासु तदनुगुणपरिगणनं {13}दिनगणमत्ययशङ्किभिरितरैरपत्यैः सह विचित्य `{14}हा वत्स, रिपुभर्त्सन भीम! क्व वा निषीदसि?’ इति विषीदन्त्याः कुन्त्या नवममपि वासरमनवममेव संजनयन्प्रभञ्जनभूरमृताञ्जनैरिव दृशौ रञ्जयामास।

तत इति। ततः भीमस्य जले निपातनात् परतः पातालभुवि नागलोके तदागमनकौतुकिना भीमागमनजन्याश्चर्ययुतेन कुतोऽयमागत इति संभ्रान्ते वासुकिना नागलोकाधिपेन संमानितः कृतातिथ्यः सः धृतिमान् गंभीरः भीमः इतस्ततः समन्ततः अष्टौ दिशासु पूर्वादिषु तदनुगुणपरिगणनं दिनगणं दिक्संख्यासमानष्ठिरादिभिः स्वपुत्रैः सह साकं विचित्य अन्विष्य `हा वत्स पुत्र, रिपुभर्त्सन शत्रुमर्दन, भीम, क्व वा कुत्र निषीदसि तिष्ठसि? इति एवं प्रकारेण विषीदन्त्याः खेदमनुभवन्त्याः कुन्त्याः नवमम् अपि वासरम् दिनम् अनवमम् (नवमभिन्नमिति विरोधप्रतिभासः, न अवमम् शून्यमनवमम् अशून्यम् इति परिहारः) अशून्यम् एव सञ्जनयन् कुर्वन् प्रभञ्जनसूनुः वायुसुतः भीमः अमृताञ्जनैरिव सुधानिर्मितचक्षुःप्रसाधनद्रव्यैरिव कुन्त्याः दृशौ रञ्जयामास स्वागमनेन प्रसादं गमयामास। भीमः पाताले तदागमनमाश्चर्यकरमिति चकितेन वासुकिनागेन सत्कृतः, तत्राष्टौ दिवसाननैषीत्तावदमी तद्‌भ्रातरो युधिष्ठिरादयोऽष्टासु दिशासु तमन्विष्टवन्तः, अमिलिते च तस्मिन् कुन्ती भृशं विलपितवती, नवमे चाहनि भीमोमातुः पुर उपस्थाय तस्या दृशौ प्रसन्ने चकारेत्यर्थः।

आगतस्य तस्य मदावलायुतबलावहानां {15}पृदाकुपरिषदुपदापितदशकलशपीयूषाणां {16}निषेवणेव विशेषितपरिपोषगात्रं{17} सवित्री भुजान्तर {18}इव सोदरकौरवहृदयेऽपि मोदविषादसंपदौ न ममतु।

आगतस्येति। आगतस्य पाताललोकात् समायातस्य तस्य भीमस्य-मदाबलाः हस्तिनः अयुतम् दशसहस्राणि तेषां बलमावहन्ति प्रापयन्ति ये तेषाम् दशसहस्रकरबलसमबलप्रदायिनाम् पृदाकुपरिषदा सर्पसमाजेन उपदापितानाम् उपहृतानाम् दशकलशपीयूषाणां कलशीभिर्घटैः परिमितानाम् अमृतानां निषेवणेन पानेन विशेषितं परिपोषं समधिकपुष्टं गात्रं वपुर्यस्य तादृशम्, (गात्रमिति विशेष्यं पृथक्कल्पनीयम्) सवित्र्याः जनन्याः मातुः कुन्त्याः भुजान्तरे बाहुयुगलमध्यभागे न ममौ इति क्रियाध्याहारः कर्त्तव्यः। मोदविषादयोः हर्षशोकयोः सम्पदौ संवृद्धी च क्रमशः सोदरकौरवयोः हृदये अपि न ममतुः। कुन्ती तमालिङ्ग्य क्रोडे उपवेशयितुं कामयमाना अपि स्थूलीभूततया तस्य तथा कर्त्तुं नापारयदिति स तद्‌भुजान्तराले न ममौ, युधिष्ठिरादिसोदरा हृदयेऽभिमानमानन्दं कौरवाश्चापरिमितं शोकमासादयामासुरिति भावः ॥

तदनन्तरम्।

काष्ठां परां कार्मुककौशलस्य काष्ठाः परास्तानपि तद्यशोऽपि।
प्रज्ञादृगारोपयितुं प्रवृत्तो व्यज्ञापयद्विष्णुपदीतनूजम् ॥ 6 ॥

तदनन्तरमिति। तदनन्तरम्-ततः पदश्चात्- एतदुत्तरवाक्यान्वयि।

काष्ठामिति। तदनन्तरं प्रज्ञादृग् अन्धः धृतराष्ट्रः तान् युधिष्ठिरान्पञ्चपाण्डवान् दुर्योधनान् शतं स्वपुत्रांश्च कार्मुककौशलस्य धनुर्विद्यायाः परां काष्ठां चरमं शिखरम् आरोपयितुम्, तेषां पाण्डवानां कौरवाणाञ्च यशः कार्मुककौशलजनितां कीर्त्तिम् अपि पराः काष्ठाः अन्याः दिशः सर्वाः प्राचीप्रभृतीः दिशः आरोपयितुम् अपि प्रवृत्तः कृतमतिः सन् विष्णुपद्याः गङ्गायाः तनूजं पुत्रं भीष्मम् व्यज्ञापयत् स्वाभिप्रायमसूचयत् इत्यर्थः। समुच्चयोऽलङ्कारः, अनेकक्रियायौगपद्यात्। इन्द्रवज्रा वृतम् ॥ 6 ॥

सोऽपि कृत्यविदामग्रणीरपरेणेव शरजन्मना कृपेण बहुकृपेण निरवद्यवीरयशोनिषद्यां{19} चापविद्यामापाद्यापि तां पुनरुक्तयितुं दिशिदिशि जैत्रगुणं पौत्रगणं महता धननिवहेन सह विविधधनुरागमप्राणस्य द्रोणस्य {20}चरणयोरुपदीचकार।

सोऽपि कृत्येति। कृत्यविदाम् कर्त्तव्यार्थज्ञानशालिनाम् अग्रणीः श्रेष्टः सः भीष्मः अपि अपरेण द्वितीयेन शरजन्मना स्कन्देनेव तत्तुल्येनेत्यर्थः, बहुकृपेण सातिशयदयालुना कृपेण कृपाचार्येम निरवद्यानां निर्दोषाणाम् वीरयशसं शौर्यप्रभवकीर्त्तिसमुदयानां निषद्याम् आपणरूपाम् (एकत्रोपलब्धिभूमितया निषद्या-पदोपयोगः, आपणे हि सर्वमेकत्रोपलभ्यते) चापविद्याम् धनुर्वेदम् आपाद्य शिक्षयित्वाऽपि ताम् आवर्त्तयितुं पुनरुक्तयितुम् विभावयितुम् दिशि दिशि सर्वासु दिक्षु जैत्रगुणम् जयशीलगुणेन ख्यातम् पौत्रगणं कौरवान् पाण्डवाँश्च महता पूर्णेन धननिवहेन सम्पत्तिभारेण सह विविधधनुरागमप्राणस्य नानाविधधनुर्वेदरहस्यज्ञस्य द्रोणस्य तदाख्यस्य चरणयोः उपदीचकार उपहृतवान्। कर्त्तव्यविद् भीमोऽपि स्कन्दोपमेन कृपाचार्येण तान् शिक्षयित्वाऽपि तेषां विद्यायाः प्रकर्षमापादयितुं दिशि दिशि ख्यातविद्यागुणं पौत्रगणं महताऽर्थराशिना सह द्रोणाय समर्पितवानित्याशयः `आपणस्तु निपद्यायाम्’ इति-`उपायनोपहारोपदापदानि समानार्थानीति च कोषरसिकाः ॥

सिन्धुजातकलशीभुवोस्तयोः {21}स्निग्धभावमवलोक्य तादृशम्।
तत्र पौरनिकरः समाचरच्चित्रपूरजठरे निमज्जनम् ॥ 7 ॥

सिन्धुजातेति। तयोः सिन्धुजातः गाङ्गेयो भीष्मः, कलशीभूः द्रोणः, तयोः तादृशं स्निग्धभावम् अन्योन्यानुरागम् अवलोक्य दृष्ट्वा तत्र हस्तिनापुरे पौरनिकरः नगरवर्त्ती लोकः चित्रपूरस्य आश्चर्यरसस्य जठरे मध्ये निमज्जनं समाचरत्। समाचरत्। समानविद्यानां परस्परयशःपुरोभागितानियमेऽपि भीष्णेण सह द्रोणस्य तादृशं प्रेमाणमालोक्य हस्तिनापुरवासिनो महति विस्मये निपेतुरित्याशयः। सिन्धुजातं समुद्रचयः कलशीभूशअचागस्त्यस्तयोः प्रेम विस्मयावहं भवेदेवेति चमत्कारः अनन्तकविरयं द्रोणं कलशभुवमनेकदोक्तवानिति ध्येयम् ॥ 7 ॥

कुमारास्तूर्णमारुक्षन्कुम्भयोनेरनुग्रात्।
{22}कोटिं कोदण्डसारस्य गुणिनस्ते गुणा इव ॥ 8 ॥

कुमारा इति। गुणिनः शौर्यादिगुणसम्पन्नाः कुमाराः युधिष्ठिरादयो दुर्योधनादयश्च कुम्भयोनेर्द्रोणस्य अनुग्रहात् कृपावशात् कोदण्डसारस्य धनुर्विद्यानैपुण्यस्य कोटिम् उत्कर्षं परां काष्ठां कोदण्डसारस्य धनुःश्रेष्ठस्य गुणाः मौर्वीसूत्राणि कोटिम् तदग्रदेशमिव तूर्णम् आरुक्षन् आरूढाः, यथोत्तमस्य धनुषो गुणो नम्यमानः सन् शीघ्रमेव कोटिमाटीकते, तथैव द्रोणानुग्रहवशाद्युधिष्ठिरादयस्त्वरितमेव धनुर्विद्यायां नैपुण्यमलभन्तेत्याशयः ॥ 8 ॥

कूलस्थस्यानुकुर्वन्कुरुसुतसदसः कुम्भयोनेः कदाचित्स्नातुं मध्ये जलानां चिरकृतवसतेः सिनधुभूवर्धमानः।
आदौ पादौ निपीड्य स्फुटकमलरुचौ बिभ्रदन्तेवसत्वं ग्राहो जग्राह कश्चित्स्वयमपि विजयास्त्रागमान्तं महान्तम् ॥ 9 ॥

कूलस्थस्येति। कदाचित् कूलस्थस्य गङ्गातटस्थितस्य कुरुसुतसदसः धर्मराजादिशिष्यमण्डलस्य अनुकुर्वन् अनुकरणपरः सिन्धुभूवर्धमानः गङ्गानदीरूपभूमौ प्रवृद्धः कश्चिद् ग्राहः नक्रः जलान्तं मध्येऽन्तः पयसि स्नातुं स्नानाय चिरकृतवसतेः अधिककालपर्यन्तं स्थितवतः तस्य कुम्भयोनेः द्रोणस्य स्फुटकमलरुचौ पादौ चरणौ निपीड्य नितरां पीडयित्वा अन्तवसत्त्वं समीपस्थत्वं च बिभ्रत् सन् स्वयमपि विजयास्त्रागमेन अर्जुनास्त्रप्रहारेण महान्तम् भीषणमन्तमवसानं जग्राह प्राप। अत्र-गङ्गातटवर्त्ति-युधिष्ठिरादयो यथा द्रोणशिष्यास्तथैव तच्छिष्यतां कामयमानः ताननुकुर्वन् कश्चिद् ग्राहः चिराय जले स्नानं कुर्वतो द्रोणस्य समीपमेत्य तत्पादौ निपीड्य वन्दित्वा च जयप्रदास्त्रवेदस्यान्तं प्रापेत्यर्थो ध्वन्यते। अत्रार्थे सिन्धुभुवा गाङ्गेयेन वर्धमानस्य पोषितस्येत्येवं विभक्तिं विपरिणमय्य कुरुसुतसदोपि विशेषणीयम्। कदाचित्स्नातुं गङ्गामवतीर्णस्य द्रोणस्य चरणग्राही कश्चिन्मकरोऽर्जुनेन बाणद्वारा हत इति पौराणिकी कथाऽत्र द्यातव्या। स्रग्धरावृत्तम्-`म्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्त्तितेयम्’ ॥ 9 ॥

ततस्ते सर्वोत्तरा अपि {23}शरासनेषु दक्षिणाः `गुरुदक्षिणां कुरुत मह्यं द्रुह्यतो द्रुपदस्य यिधि बलाद्गृहीतस्य समर्पणम्’ इति गुरुणा चोदिताः {24}सर्वेऽप्यहंपूर्विकया कयापि विमतेषु कृतावज्ञसेनं याज्ञसेनं पुरं निरुद्ध्य चिरमयुध्यन्त।

ततस्त इति। ततः तदनन्तरम् ते युधिष्ठिरादयः सर्वोत्तराः सर्वविधधनुर्वेदपारगाः अपि शरासनेषु बाणनिक्षेपेषु दक्षिणाः कुशलाः (उत्तराः दक्षिणाः इति विरोधः, परिहारस्तूक्त एव) द्रुह्यतः प्रतिज्ञाभङ्गद्वारा द्रोहं कुर्वतः द्रुपदस्य तदाख्यस्य राज्ञो युधि युद्धे बलाद् गृहीतस्य द्रुपदस्य समर्पणम् मह्यम् अर्पणम् गुरुदक्षिणां कुरुत, (अधुना यावत् यद् भवन्तो मयाऽस्त्रवेदमध्यापितास्तद्दक्षिणायां द्रुपदं गृहीत्वा मह्यमर्पयत, यतोऽसौ प्रतिज्ञाभङ्गेन मम द्रोही वर्ततते) इति एवं गुरुणा द्रोणेन चोदिताः आदिष्टाः सर्वे युधिष्ठिरादि-दुर्योधनादयः कयाऽपि अहं पूर्विकया अहं पूर्वमहं पूर्वमिति प्रतिस्पर्द्धया विमतेषु शत्रुषु कृतावज्ञसेनम् तिरस्कारपरायणसेनासहितम् याज्ञसेनं पुरम् द्रुपदनगरं निरुध्य समन्ततः परिवार्य चिरं बहुकालपर्यन्तम् अयुध्यन्त युद्धं कृतवन्तः।

कृत्ते भल्लैर्धनुषि स गुरुद्रोहिणस्तस्य जीवग्राहे बाहाञ्चलपरिचलत्खड्गवल्लीसहायः।
पुत्रावल्यां सुबलदुहितुः पूर्वपक्षीभवत्यां सिद्धान्तोऽभूद्दिवि भुवि बुधैः श्लाघितः सव्यसाची ॥ 10 ॥

कृत्त इति। गुरवे द्रोणाय द्रुह्यति प्रतिज्ञाभङ्गकरणेन अपराध्यति स गुरुद्रोही द्रुपदस्तस्य भल्लैः बाणभेदैः धनुषि शरासने कृत्ते सति (द्रुपदेन बाणप्रहारेण च्छिन्ने धनुषि) सुबलदुहितुः गान्धार्याः पुत्रसमुदाये पूर्वपक्षीबवन्त्याम् पूर्वपक्षरूपतामाश्रयन्त्याम् सत्याम् तस्य जीवग्राहे द्रुपदस्य जीवतो ग्रहणे बाहायाः भुजस्य अञ्चलेऽग्रभागे परिचलन्ती भ्राम्यन्ती खड्गलता एव सहायो यस्य तथोक्तः केवलखड्गसाधन इत्यर्थः, दिवि स्वर्गे बुधैः देवैः भुवि पृथिव्यां बुधैः पण्डितैश्च श्लाघितः प्रशंसितः सव्यसाची अर्जुनः सिद्धान्तः सिद्धान्तोत्तरसमानः अभूत् अजायत। यथा क्वचित्पण्डितसभायां शास्त्रार्थे कतिचन पूर्वपक्षमातिष्ठन्ते, तत्रैकोऽपरः सिद्धान्तं व्यवस्थापयति, तथैवात्र युद्धे दुर्योधनादिषु गान्धारीतनयेषु द्रुपदस्य जीवग्राहे किञ्चिद् व्यापृत्य कृतप्रारम्भेषु सत्सु खड्गसहायोऽर्जुनस्तं तथा गृहीत्वा उत्तरपक्षरूपं युद्धसमाप्तिं कृतवानित्यर्थः। `ज्ञानिचान्द्रिसुरा बुधाः’ इत्यमरः। मन्दाक्रान्ता वृत्तम- तल्लक्षणं यथा `मन्द्राकान्ता जलधिषडगैर्म्भौ नतौ ताद्‌गुरूचेत्’ इति। अयं श्लोको नैषधीयचरिततृतीयसर्गस्थस्य श्लोकस्यास्यच्छायामनुहरति-`अनुरूपमिमं निरूपयन्नथ सर्वेष्वपि पूर्वपक्षताम्। युवसु व्यपनेतुमक्षमस्त्वयि सिद्धान्तधियं न्यवेशयम्’ इति ॥ 10 ॥
पार्थमेव पुरतो निधाय तै कौरवास्तदनु संनिधौ गुरोः।
भक्तिभिर्व्यनमयन्निजं शिरः {25}पार्षस्तु परिभूतिलज्जया ॥ 11 ॥

पार्थमेवेति। तदनु ते युधिष्ठिरादयो दुर्योधनादयः कौरवाः कुरुवंश्याः अस्मिन्युद्धे विजेतृतया पार्थम् अर्जुनम् एव पुरो निधाय अग्रेकृत्वा गुरोः सविधे द्रोणान्तिके भक्तिभिः श्रद्धाभावैः निजं शिरः स्वमस्तकम् अनमयन्। नतं कृतवन्तः, पार्षतः द्रुपदस्तु परिभूतिलज्जया पराजयजनितया त्रपया निजं शिरः अनमयदिति वचनविपरिणामेनान्वयः। द्रुपदे गृहीते सति सर्वे कुमाराः अर्जुनं प्रधानमग्रेकृत्वा भक्त्या गुरुं प्राणमन्, द्रुपदोऽपि तैरानीतो लज्जाऽधोमुखस्तस्थावित्यर्थः। अत्र प्रस्तुतानां सिष्याणां प्रस्तुतस्य द्रुपदस्य चैकत्र शिरोनमनक्रियायामन्वयात् तुल्ययोगिताऽलङ्कारः, `प्रस्तुतानां पदार्थानामन्येषां वा यदा भवेत्। एकधर्माभिसम्बन्धः स्यात्तदा तुल्ययोगिता’ इति ॥ 11 ॥

अथो गुरुर्नीतमधिज्यधन्वता पुरःप्रदेशं पुरुहूतसूनुना।
तरङ्गिताक्षं तमवेक्ष्य विद्विषं वचो गभीरं वदति स्म {26}सस्मितम् ॥ 12 ॥

अथो गुरुरिति। अथो एतदनन्तरं द्रुपदे जीवग्राहं गृहीते सति अधिज्यधन्वना आरोपितमौर्वीकधनुर्धारिणा पुरुहूतसूनुना इन्द्रात्मजेनार्जुनेन पुरः प्रदेशं नीतम् अग्रे समानीय स्थापि द्रुपदं तरङ्गिताक्षम् भयचकितलोचनं लज्जया साश्रुनयनं वा अवेक्ष्य सस्मितं द्रुपदं तरङ्गिताक्षम् भयचकितलोचनं लज्जया साश्रुनयनं वा अवेक्ष्य सस्मितं किञ्चिद् हासपूर्वकं गभीरम् सार्थगौरवं मर्मभेदि वचनं वदतिस्म उवाच ॥ 12 ॥

`अरे {27}क्षत्रियसत्तम, पुरा महत्तरमग्निदेश्यमग्निवेश्यं {28}नाम मुनिमस्त्रपरिश्रमाय प्रश्रयेण सह शुश्रूषमाणस्त्वं मत्कृते पितुरनन्तरं ममाधिराज्यपदस्य प्रथममर्धं भवते वितीर्य ततः परमर्धमहमनुभविष्यामीति यद्यथा प्रत्यश्रृणुथास्तत्तथा निर्वर्तितं खलु धिग्विप्रमिति {29}क्षुरप्रायेण विप्रियरचनेन प्रथीयसीं {30}मनसि व्यथां मम वितीर्णवता महार्णवपरिधानबतीं वसुमतीं स्वयमेवा{31} भवता ननु भवता।

अरे क्षत्रियसत्तमेति। अरे क्षत्रियसत्तम रे क्षत्रियाश्रेष्ट, रे अरे इति नीचताव्यञ्जकं सम्बोधनमाहुतः क्षत्रियसत्तमेति क्षत्रियाधमतापर्यवसायि, अस्य सन्दर्भस्य व्याजस्तुतिरूपत्वात्। पुरा पूर्वकाले अग्निदेश्यम् प्रभावेणाग्नितुल्यम् अग्निवेश्यं नाम तदाक्याप्रसिद्धम् अस्त्रपरिश्रमाय अस्त्रविद्यामधिगन्तुम् प्रश्रयेण नम्रभावेन सह शुश्रूषमाणः परिचरन् त्वं द्रुपदः मत्कृते मम द्रोणस्यार्थे पितुः (द्रुपद) जनकस्य अनन्तरं वानप्रस्थग्रहणात् परतः मम द्रुपदस्य अधिराज्यपदस्य राज्यस्य अर्धम् समांशम् आदौ प्रथमम् भवते द्रोणाय बितीर्य दत्त्वा ततः परम् तुभ्यं दीयमानादर्धादवशिष्टमर्धम् अहम् द्रुपदोऽनुभविष्यामि भोक्ष्ये इति यत् यथा येन प्रकारेण प्रत्यशृणुथाः प्रतिज्ञातवानासीः तत्तथा निर्वर्त्तितम् पूरितम्, खलु पदमिहोपहासे, (प्रतिज्ञातदानस्य राज्यार्धस्य ग्रहणायोपस्थितं मां द्रोणं प्रति) `धिग् विप्रं ब्राह्मणम्’ इति क्षुरप्रायेण क्षुरवत्तीक्ष्णेन विप्रियवचनेन कटूक्त्यामम द्रोणस्य मनसि व्यथां मानहानिभवं कष्टं वितीर्णवता दत्तवता महार्णवरशनावतीं समुद्रकाञ्चीं (समग्राम्) वसुमतीं पृथ्वीम् स्वयम् आत्मना एव अनुभवता भुञ्जानेन भवता द्रुपदेन। अयमर्थः-पुराऽग्निवेश्याश्रमेऽदीयानेन त्वयाऽहमुक्तो यद्यदा पितुरनन्तरं मम राज्यकाल उपस्थास्यते तदा पूर्वं तुभ्यमहं राज्यार्धं प्रदाय शेषमर्धमहं भोक्ष्ये, तत्तु भवता तद्‌ग्रहणायोपस्थितं मां धिग्विप्रमिति धिक्कृत्य समस्तां महीं भुञ्जानेन साधु निरूढमित्यर्थः। अत्र व्याजस्तुत्या मिथ्याभाषित्वेनाधिक्षेपप्रत्ययः ॥

आबालवृद्धं {32}जलसक्तमेव जनाः समस्ता द्रपदं यदाहुः।
तस्मात्त्वयि स्वीकृततादृशाख्ये कथं नु भज्येत न मित्रतेजः ॥ 13 ॥

आबालवृद्धमिति। यद् यस्मात् आबालवृद्धम् बालान् वृद्धाँश्चाभिव्याप्य सर्वेबाला वृद्धाश्चेत्यर्थः, जनाः लोकाः द्रुपदं द्रोर्वृक्षस्य पदं मूलम् जलसक्तम् पृथ्वीगर्भवर्त्तिरसमग्नम् (डलयोरभेदात्) द्रुपदं तन्नामानं त्वाम् जडसक्तम् मूर्खसहचरम् आहुः। तस्मात् स्वीकृततादृशाख्ये गृहीततन्नामके त्वयि द्रुपदे मित्रतेजः सूर्यरश्मिः सुहृत्प्रभावश्च कथं न भज्येत विनश्येत् नु यथा जलसक्तमूले वृक्षे सूर्यतेजोऽकिञ्चित्करं भवति, तथैव मूर्खवेष्टिते त्वयि ममप्रभावस्तत्र राज्यप्रार्थनाकाले नापप्तदिति भावः। अत्र `द्रुपद’ परनिरुक्त्याऽर्थस्य समर्थनात् निरुक्तिर्नामालङ्कार, तदुक्तम्-`निरुक्तिर्योगतो नाम्नामन्यार्थत्वप्रकल्पनम्’ इति ॥ 13 ॥

इति व्याजस्तुतिवचनेन {33}पौरवान्ते भार्गवान्तेवसता प्रधर्षितः {34}पार्षतस्तेन सार्धमर्धराज्यपरिवर्तनमात्रमङ्गीकृत्य{35} कृत्यविदां ककुदस्तौ जम्भरिपुकुम्भसंभवावुभावप्युपयमं{36} प्रवर्तयितुं {37}कृतनिवर्तनः सोमकान्तिकोपास्तौ पुत्रौ {38}भागीरथीवनावसथस्य याजस्य मुनिराजस्य याजनानुग्रहेण {39}परिजग्राह।

इति व्याजेति। इति उक्तप्रकारकेण व्याजस्तुतिवचनेन निन्दापर्यवसायिन्या स्तुतिवाचा पौरवान्ते पौरवकुमारगणसमक्षम् भार्गवान्तेवसता परशुरामशिष्येण प्रधर्षितः कृतभर्त्सनः निन्दितः पार्षतः द्रुपदः कृत्यविदाम् कर्त्तव्यार्थज्ञानशालिनां ककुदः श्रेष्ठः सन् तेन परशुरामशिष्येण द्रोणेन समम् सह अर्धराज्यपरिवर्त्तनम् `गृहाणार्धं राज्यस्ये’ति दानरूपम्, अङ्गीकृत्य स्वीकृत्यज म्भरिपुरिन्द्रस्तत्सम्भवमर्जुनम् कुम्भसम्भवं द्रोणं तावुभावपि उपयमम् विवाहम् (अर्जुनसम्बन्धे) उपयमम् यमान्तिकम् (द्रोणपक्षे) प्रवर्त्तयितुम् प्रापयितुम् कृतक्रतुनिर्वर्त्तनः कृतयज्ञः सोमश्चन्द्रस्तस्य कान्तिरिव कान्तिर्यस्य तत् सोमकान्तिकम् आस्यम् मुखम्, उमया सहितः सोमः सिवः तस्येव कोपो यत्र तादृशम्, सोमकान्तिकास्यां पुत्रीम् चन्द्रमुखीं तनयां महादेववत्कोपनं च पुत्रम् पुत्रौ पुत्री च पुत्रश्चेति पुत्रौ (द्रौपदीधृष्टद्युम्नौ; (द्रौपद्योपयमोऽर्जुनस्य, धृष्टद्युम्नद्वारको वधश्च द्रोणस्येति कामनया कृचयज्ञो द्रुपदः) भागीरथीवनावसथस्य भागीरथीतटस्थवनवासिनः याजस्य याजनामकस्य मुनिराजस्य ऋषिप्रवरस्य याजनानुग्रहेण यज्ञसम्पादनकृपया परिजग्राह वृतवान्। द्रोणेन निन्दितो द्रुपदोऽर्धराज्यं तस्मै प्रदायापि मनसा दुःखितो याजनामकस्य मुनेः प्राधान्ये यज्ञं कृतवान् यत्र अर्जुनपरिणेयां द्रौपदीं नाम चन्द्रमुखीं तनयां शिववत्कोपनं द्रोणघातिनं धृष्टद्युम्ननामकं च पुत्रं वव्रे इत्याशयः॥ पुत्री च पुत्रश्चेति पुत्रौ, `पुमान् स्त्रिया’ (पाo 1-1-67) इत्येकशेषः ॥

तातोऽपि धर्मतनयं तपनीयपीठमारोप्य चक्षुरिव लब्धममुं तपोभिः।
आवर्जितैः कलशवारिभिर{40}भ्यषिञ्चदानन्दबाष्पसलिलैरवनीं{41} च पौराः ॥ 14 ॥

तातोऽपीति। तातः धृतराष्ट्रः अपि तपोभिः तपस्याभिः स्वाचरितैर्व्रतोपवासादिभिरित्यर्थः, लब्धं पुनरासादितं चक्षुः नेत्रमिव (अन्धस्य पुनर्नेत्रलाभो यथाऽऽनन्दजनकस्तथाऽऽनन्दजनकमित्याशयः) धर्नतनयम् युधिष्ठिरं तपनीयपीठम् कनकासनम् आरोप्य उपवेश्य आवर्जितैः नानातीर्तोपहृतैः कलशवारिभिः घटस्तितजलैः अभ्यषिञ्चत् अभिषिक्तवान्, यौवराज्यं प्रदत्तवानित्यर्थः, पौराश्च आनन्दबाष्पसलिलैः हर्षाश्रुप्रवाहैः अनीम् पृथ्वीम् अभ्यषिञ्चन्, `राज्ञोऽभिषेके तद्वधूरभ्यभिषिच्यत’ इति सम्प्रदायानुसारेणेयमुक्तिः। अयं श्लोकः चम्पूरामायणीयस्यास्य श्लोकस्य च्छायामनुहरति-`अभिषिक्ते तु सुग्रीवे रामश्यामपयोमुचा। अभिषेक्तुं स्थिता मेघास्तन्महीं महिषीमिव’॥ उत्प्रेक्षा व्यज्यते ॥ 14 ॥

आबिभ्रतो धरणिमङ्गदनिर्विशेषं नानाधनायतिभिरस्त नयोदिताभिः।
{42}पस्त्यं समस्तमपि {43}वासवसंनिभस्य कोशीबभूव कुतुकैः सह कौरवाणाम् ॥ 15 ॥

आविभ्रत इति। धरणिम् अखिलां महीम् अङ्गदनिर्विशेषम् केयूरवत् (अनायासम्) आबिभ्रतः धारयतः वासवसन्निभस्य इन्द्रतुल्यस्य अस्य युधिष्ठिरस्य जयेन षष्ठांशभागग्रहणात्मकेन उदिताभिः सञ्जाताभिः नानाधनायतिभिः नानाप्रकारकसमृद्धीनामागमैः समस्तम् अपि पस्त्यम् भवनम् कौरवाणां दुर्योधनादीनाम् कुतुकैः कुतूहलैः सह कोशीबभूव कोशागारत्वमाप मुकुलीबभूव च। अयमाशयः-विनैवायासं भुवं पालयतो महेन्द्रपराक्रमस्य युधिष्ठिरस्य करग्रहणेन सम्पदतितरां ववृधे येन तदीयं सर्वमपि भवनं कोशागारभावमापन्नं, दुर्योधनादीनां च कुतुकं-राज्यमासाद्य कान्दशामयमनुभवतीर्येवंरूपं कुतूहलं शाम्यतिस्मेति, महतामभ्युदयेन खलानां तादृशाचरणस्य स्वाभाविकत्वादिति `निशातपस्त्यसदनभवनागारमन्दिरम्’ इति-`कोशोऽस्त्री कुड्मले खड्गपिधाने धनवेश्मनि’ इति चामरविश्वौ। सहोक्तिरलङ्कारः ॥ 15 ॥

पारेसिन्धु प्रथित{44} ममितं प्रत्यहं वर्धमानं सोढुं पार्थाभ्युदयमपटोः स्वात्मजस्यानुरोधात्।
प्रीतो राजाप्यनुजतनयप्रेममार्गे प्रयातुं मातुर्दोषादिष बहिरगादन्तरप्यन्धभावम् ॥ 16 ॥

पारेसिन्धुवति। राजा धृताराष्ट्रः प्रीतः युधिष्ठिरप्राप्तप्रजापालनजन्यकीर्त्तिधनागमादिभिः प्रसन्नः अपि पारेसिन्धु समुद्रस्य पारे प्रथितम् विस्तृतं ख्यातञ्च, अमितम् अनल्पम्, प्रत्यहम् प्रतिदिनम् वर्धमानम् पार्थाभ्युदयम् युधिष्ठिरस्य प्रतापम् सोढुम् मर्षयितुम् अपटोः असमर्थस्य स्वात्मजस्य दुर्योधनस्य अनुरोधात् आग्रहानुसरणात् अनुजतनयस्य भ्रातृपुत्रस्य युधिष्ठिरस्य प्रेममार्गे स्नेहवर्त्मनि प्रयातुं चलितुम् मातुः अम्बिकायाः दोषात् अक्षिनिमीलनरूपात् बहिः बाह्यनेत्रविषये इव अन्तरपि हृदयनेत्रविषयेऽपि अन्धभावम् अन्धत्वम् अगात् प्राप्तः। युधिष्ठिरे धृतप्रेमापि धृतराष्ट्रो दुर्योधनानुरोधाद्युधिष्ठिरप्रेममार्गानुसरणे चेतसाऽन्धो जातो यथाऽसौ मातुर्दोषाद्वाह्यनेत्ररहित आसीत्तथेति बोध्यम्। पुरा सत्यवत्याज्ञया व्यासेन सह सङ्गताऽम्बिका, तद्रूपं दृष्ट्वा सा भयं जुगुप्सां च भजमाना नयने प्यधत्त, अतएव च तद्गर्भतो धृतराष्ट्रोऽन्धो जात इति कथा भारते। मातुर्दोषाद्वहिर्नेत्रशून्यः पुत्रानुरोधाच्चान्तर्नेत्रशून्यो जातो राजा युधिष्ठिरं न्यूनप्रेमा जात इत्याशयः। मन्दाक्रान्ता वृत्तम् ॥ 16 ॥

तदनु सौबलीजनिरसौ बलीयसामर्षेण धर्षितः सहजविनयं धर्मतनयमाहूय कृतावहित्थो गिरमित्थमुत्थापयामास।

तदन्विति। तदनु युधिष्ठिरादिविषये प्रेमत्यागात्परः सौबली गान्धारी जाया यस्यासौ सौबलीजानिः धृताराष्ट्रः बलीयसा महता अमर्षेण द्वेषेण धर्षितः पीडितः सन् सहजविनयं स्वाभाविकनम्रतोपेतं धर्मतनयं युधिष्ठिरं नाम पाण्डुतनयप्रथमम् आहूय आकार्य कृतावहित्थः विहिताकारगोपनः (द्वेषं प्रच्छादयन्नित्यर्थः) इत्थं वक्ष्यमाणप्रकारेण गिरं वाचुमुत्थापयामास प्रारेभे ॥
`वत्स! संप्रति वारणावतं पुरमुपेत्य वारणाननगुरोरुत्सवं वारणाय विपदां निषेव्य सहानुजैस्तत्र वास्तव्यपौरजनभव्यया गिरा स्तव्यो निरवधिसु{46}खामनुशाधि वसुधाम्’ इति।

वत्सेति। वत्सेति प्रीतिसम्बोधनं बालेषु, सम्प्रति अधुना वारणावतं नाम पुरं नगरमुपेत्य गत्वा विपदां सम्भाव्यमानानामापदां वारणाय दूरीकरणाय वारणाननः गणेशः तद्‌गुरोः पितुः शिवस्य उत्सवं नैमित्तिकं पाक्षिकादिकं पूजासम्भारम् निषेव्य अनुष्ठाय तत्र वारणावतपुरे वास्तव्याः वासिनो ये पौरजना स्तेषआं भव्यया कुशलयुतया गिरा वाचा सह अनुजैः भ्रातृगणसहितः स्तव्यः प्रशंसनीयः सन् निरवधि मर्यादारहितं कालं यावत् सुखम् आनन्दो यस्यां तादृशीम्, अनन्तसुखसम्पन्नाम् इति वाऽर्थः, वसुधां पृथ्वीम् अनुशाधि पालय। अत्रापि गद्यभागे नैषधीयकाव्यस्याधस्तनश्लोकस्य च्छाया दृश्यते `द्यां प्रशाधिगलितावधिकालं साधु साधु विजयस्व विडौजः’ ॥

तस्याशयं हृदि विदन्नपा धर्मसूनुस्तातस्य वाचमविलम्ब्य तथेत्यगृह्णात्।
तत्तादृशेषु गुरुशासनपालनेषु कूलंकषं गुणगणेन कुलिं हि पूरोः ॥ 17 ॥

तस्याशयमिति। तस्य धृताराष्ट्रस्य आशयम् `केनापि प्रकारेण पाण्‍डवाः पुरान्तरे स्तापनीया’ इति गूढमभिप्रायं हृदि स्वचित्ते विदन् जानन् अपि धर्मसूनुः युधिष्ठिरः तातस्य पितृव्यस्य वाचम् वारणावतपुरप्रस्थानाज्ञां तथा भवदुक्तं तथास्तु इति एवम् अविलम्ब्य सीघ्रम् अगृह्णात् स्वीचकार। तत्रार्थानन्तरन्यासमाह-तत्तादृशेर्षविति। तादृशेषु गुरुशासनपालनेषु श्रेष्ठजनाज्ञास्वीकरणेषु तत् प्रसिद्धं गुर्वादेशपालने प्रसिद्धाः, पूरूर्नाम पुत्रः पित्रे ययातये यौवनं ददाविति कताऽत्रभित्तिबूमिः। अत्र सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः। तल्लक्षणं यथा-`उक्तिरर्थान्तरन्यासः स्यात्सामान्यविशेषयोः’ इति ॥ 17 ॥

धर्मभूरनुजैः साकं तद्गिरा तत्पुरं यथौ।
कर्मचोदनया जीवः कायमन्यमिवेन्द्रियैः ॥ 18 ॥

धर्मभूरिति। जीवः पञ्चज्ञानेन्द्रियाणि, पञ्चप्राणाः , मनः एतत्सप्तदशपदार्थसमष्टिरूपलिङ्गदेहो जीवः, स यथा इन्द्रियैः सह कर्मणः पापपुण्यरूपस्याचरितस्य (धर्मस्य पापस्य वा) चोदनया प्रेरणया अन्यं कायं शरीरं याति तथैव चरितस्य (धर्मस्य पापस्य वा) चोदनया प्रेरणया अन्यं कायं शरीरं याति तथैव धर्मभूः युधिष्ठिरः अनुजैः भ्रातृभिः सह तद्गिरा धृताराष्ट्रवाचा (चोदितः) तत् वारणावतं नाम पुरं ययौ ॥ 18 ॥

सविनयमथ दर्शितं महीयः सचिववरेण पुरोचनेन शत्रोः।
जतुगृहमभजन्त तत्र पार्था जगदिव नूत्नमशेषवस्तुपूर्णम् ॥ 19 ॥

सविनयमिति। अथ पार्थाः पृथापुत्रा युधिष्ठिरादयः शत्रोः दुर्योधनस्य सचिववरेण प्रधानामात्येन पुरोचनेन तन्नामकेन दर्शितम् नयनगोचरतां नीयमानम् महीयः अतिदीर्घपरिणाहम् अशेषवस्तुभिः सकलैः पदार्थैः अशनवसनशयनासनादिभिः पूर्णम् जतुगृहम् लाक्षनिर्मितं भवनम् नूत्नं नवीनं जगत् भुवनम् इव अभजन्त प्राप्तवन्तः। यथा जगति सर्वं वस्तु विततं तथा तत्र लाक्षाभवनेऽपि सर्वं वस्तु विततमासीदिति सारांशः ॥ 19 ॥

तत्र ते विदुरभृत्यभाषितैः सौबलेयशतमन्युहेतुना।
पञ्चतामपि परां धनंजयप्रापणेन जतुधाम्नि मेनिरे ॥ 20 ॥

तत्र त इति। ते पार्थाः तत्र जतुधाम्नि लाक्षागृहे विदुरभृत्यभाषितैः विदुरप्रेषितसुरङ्गाखनकदूतोक्तिभिः सौबलेयशतस्य गान्धारीपुत्राणां शतसङ्ख्यानां दुर्योधनादीनां मन्युः पाण्डवानां विषये क्रोधः हेतुर्यस्य तेन सौबलेयशतमन्युहेतुना धनञ्जयप्रापणेन वह्निसंयोगेन (सुबलायाः देवमातुः अपत्यं पुमान् सौ बलेयः स चासौ शतमन्युः इन्द्रः स हेतुर्जनको यस्य तादृशेन धनञ्जयप्रापणेन अर्जुनसंगमेन) पराम् अपरां पञ्चताम् पञ्चत्वम् मरणाम् (एका पञ्चता पञ्चसंख्यावत्ता यथाऽर्जुनसङ्गमेन जाता तथाऽपरा पञ्ता मरणम् अग्निसंयोगेन भाविनीति) मेनिरे तर्कितवन्तः। पाण्डवा यथा वयमर्जुनासादितेन पञ्चसङ्ख्याकाजातास्तथैवात्र लाक्षागृहे वह्निसंयोगेन पञ्चत्वं प्राप्स्याम इति दुर्योधनदुश्चिकीर्षितं विदुरभृत्यवाचा प्रतीयवन्त इत्यर्थः। अत्र श्लोके `सौबलेयशतमन्युहेतुना’ `धनञ्जयप्रापणेन’ इति पदद्वयं श्लिष्टं, तत्रार्थभेद उक्त एव पूर्वमिति बोध्यम्। `शतमन्युर्दिवस्पतिः’-`धनञ्जयोऽर्जुने वह्नौ’-`स्यात्पञ्चता कालधर्मः’ इत्यमरविश्वौ ॥ 20 ॥

शिशमयिषुरपि द्विषां स मन्त्री निभृतशरारुरिमान्निगूढभावान्।
अवसरमनलावृते निकेते प्रतिदिनमेधयितुं प्रतीक्षते स्म ॥ 21 ॥

शिशमयिषुरिति। निभृतः प्रच्छन्नः शरारुः घातको द्विषां पाण्डवद्रुहां मन्त्री स पुरोचनः निगूढः प्रच्छन्नो भावो येषां तान् निगूढभावान् विदुरभृत्योक्तं रहस्यं गोपयतः इमान् पार्थान् युधिष्ठिरादीन् अग्न्यावृते अग्निदग्धे निकेते जतुगृहे शिशमयिषुः शमं विनाशं प्रापयितुरपि प्रतिदिनम् अहन्यहनि एधयितुं वर्धयितुं पोषयितुम्, (इति विरोधः) एधयितुम् एधभावं नेतुं ज्वलनेन्धनभावं गमयितुम् अवसरं योग्यं समयं प्रतीक्षतेस्म प्रतिपालयतिस्म। पुरोचनो नाम दुर्योधनमन्त्री प्रकटं पाण्डवानाराधयन्नपि तान्दाहयितुमवसरं प्रतीक्षमाणस्तस्थावित्याशयः। पुष्पिताग्रा वृत्तम् ॥ 21 ॥

जातुचिदपत्यैः सह पञ्चभिर्भृत्यभावमिषादमीषामामिषफलेषु{47} विषं निनीषन्त्या निषादयोषित इव तस्य पुरोजनस्य निद्रायामपि द्राघिमाणं दातुकामेन तत्र सद्मनि क्षणदायामाशुशुक्षणिं क्षणान्निक्षिप्य जननीसोदरजननीचेतरसंवेशसुखमणिमञ्चायमानभुजशिखरसीमेन {48}भीमेन तस्माद्गृहाद्विदुरकिंकरकृतलिङ्गया सुरङ्गया निर्जग्मे।

जातुचिदिति। जातुचित् कदाचित् अपत्यैः पुत्रैः (पञ्चभिः) सह-पञ्चपुत्रा, भृत्यभावमिषात् सेवकत्वव्याजात् अमीषां युधिष्ठिरादीनाम् आमिषफलेषु मांसेषु फलेषु भक्ष्यफलेषु वा विषं गरलं निनीषन्ती प्रापयितुकामा या (मांसे फले वाविषं प्रदाय गुप्तरूपेण पाण्डवान्मारयितुं दुर्योधनेनादिष्टा धृतसेवकरूपा) निषादयोषित् किराती तस्याः इव पुरोचनस्य शत्रुमन्त्रिणः )अपि) निद्रायां द्राघिमाणं चिरस्थायित्वं दातुकामेन आनेतुमिच्छता (विषप्रदानाय चेष्टमानां सपञ्चपुत्रां किरातीं पुरोचनं च दीर्घनिद्रां मृत्युं प्रापयितुमिच्छता) तत्र सद्मनि लाक्षागृहे क्षणदायां निशि क्षणात् ढटिति आशुशुक्षणिं वह्निं निक्षिप्य प्रज्वाल्य जनन्याः मातुःकुन्त्याः सोदरजनस्य भ्रातृवर्गस्य च नीचेतरत् विपुलवत् संवेशसुखम् निर्भरनिद्राऽऽनन्दस्तत्र मणिमञ्चायमाना मणिनिर्मितमञ्चसमाना भुजशिखरसीमा स्कन्धाग्रदेशो यस्य तादृशेन तथोक्तेन भीमेन विदुरकिङ्करकृतलिङ्गया विदुरप्रेषितभृत्यविहितचिह्नया सुरङ्गया अन्तर्भूमिपथेन निर्जग्मे बहिरायातम्। पञ्चभिः पुत्रैः सह सेवकतामिषेण पाण्डवेभ्यो मांसे भक्ष्ये फले वा गोपयित्वा विषं दातुमिच्छन्त्या किरात्या सहैव पुरोचनमपि मारयितुमेकस्यां निशि तत्र जतुगृहे वह्निं निक्षिप्य स्वस्कन्धयोर्मातरं भ्रातॄँश्च निर्भरं शाययन् भीमो विदुरभृत्यबोधितसुरङ्गावर्त्मना तस्मात्स्थानान्तरमयासीदित्यर्थः। `आमिषं पलले क्लीबे त्रिषु स्याद् भोग्यवस्तुनि’ इति-`शिखावानाशुसुक्षणिः’ इति च विश्वामरौ।

पार्थद्विषां विग्रहमेकमेकं विभज्य सप्तापि शिखाः कृशानोः।
स्वीकृत्य तृप्ताः स्वशिरःप्रकम्पैः शश्लाघिरे तत्र समीरपुत्रम् ॥ 22 ॥

पार्थद्विषामिति। तत्र भीमकृताग्निक्षेपेण ज्वलति लाक्षागृहे कृशानोः अग्ने सप्तापि शिखाः पार्थद्विषाम् पाण्डवशुभमनिच्छतां किराती-तत्पुत्रपञ्चक-पुरोचना नाम् एकम् एकम् एकैकम् (सप्तानां शिखानां भागेष्वेकमेकं वपुः स्यात्तेषामपि सप्तत्वात्) विग्रहम् शरीरम् विभज्य विभागं कृत्वा स्वीकृत्य आस्वाद्य च तृप्ताः तुष्टाः सत्यः स्वशिरःप्रकम्पैः शिखाग्रभागधूननैः समीरपुत्रं भीमं शश्लाघिरे प्रशशंसुः। अग्नेः सप्तापि शिखाः सप्तापि तेषां शरीराणि विभज्यास्वाद्य तादृशशरीरास्वादनावसरप्रदायिनः (स्वसुहृदो वायोः पुत्रस्य च) भीमस्य प्रशंसामिव शिखाग्रभागरूपशिरःकम्पेन सम्पादयामासुरित्याशयः। गम्योत्प्रेक्षाऽलङ्कारः ॥ 22 ॥

प्रपस्यतां पौरनृणां प्रभाते सांक्रामिकं रोगमिवाधितापम्।
आबिभ्रातामश्रुभिरेव शान्तिरापादि तत्राग्निहठात्क्रियायाः ॥ 23 ॥

प्रपश्यतामिति। प्रभाते प्रातःकाले (ज्वलत्तल्लाक्षागृहम्) प्रपश्यताम् वीक्षमाणानाम् (अतएव) सांक्रामिकम् एकस्य शरीरादन्यस्य शरीरे सङ्क्रमणसीलम् खर्जनप्रभृतिरोगमिव अधितापम् वह्निदाहम् आबिभ्रताम् धारयताम् (गृहे स्थितोऽग्नितापो मन्ये सङ्क्रम्येव दर्शकेषु गतः) पौरनृणां पुरवासिमनुष्याणाम् अश्रुभिः नेत्राम्बुभिः एव तत्र लाक्षाभवने अग्निहठात्‌क्रियायाः वह्निकृतस्य बलाद्दाहनस्य शान्तिः समाप्तिरापादि। पौरजनैः प्रज्वलल्लाक्षागृहमवेक्ष्य रुदद्भिः स्वाश्रुभिरेव (उपायान्तराभावात्) स वह्निरूपशमित इत्यर्थः ॥ 23 ॥

तत्रालये दग्धतनूनथैतान्निश्चित्य पार्थान्निजचारवाच।
दुःखापदेशेन सुयोधनाद्याः संमोदबाष्पं ससृजुः सभायाम् ॥ 24 ॥

तत्रालय इति। अथ लाक्षागृहदाहात्परतः निजचारवाचा स्वीयगुप्तचरभाषितेन तत्रालये तस्मिन् लाक्षागृहे एतान् पार्थान् दग्धतनून् भस्मीबूतशरीरान् निश्चित्य दुर्योधनाद्याः सर्वे भ्रातरः दुःखापदेशेन पाण्डुपुत्राणां मरणमुद्दिश्य रोदनं क्रियत इत्यपदिश्य सभायां निजपरिषदि संमोदबाष्पम् हर्षाश्रु ससृजुः विसृष्टवन्तः। चारमुखेनषां पाण्डवानां भस्मीभावमाकर्ण्य मुदिताः कौरवाः पाण्डवमरणाजन्यं दुःखं नाटयन्तो वस्तुतो जहृषुरित्याशयः ॥ 24 ॥

तावत्सोऽपि गन्धवहसूनुरन्धतमसबन्धुरं{51} सक्तिजवसमुत्थितमरुदुत्पाटिततरुविटप{52}वसतिविघ{53}टनसमुद्भान्तश{54}कुन्तकुलनिबद्धनिध्वानमध्वानं विलङ्घ्य कस्यचित्काननकासारतीरतरोरधिपरिसरमेतानवतार्य तदीयपरिरक्षणविचक्षणः{55} क्षणमवतस्थे।

तावदिति। तावत् सुरङ्गाद्वारा निर्गमसमये सः प्रसिद्धपराक्रमो (भीमः) गन्धवहसूनुः वायुसुतः अन्धतमसेन गाढान्धकारेण बन्धुरं निविडं व्याप्तम्, सक्थ्नोः ऊर्वोः जवेन वेगेन समुत्थितः उद्‌गतो यो मरुत् वायुः तेन मरुता उत्पाटितानामुन्मूलितानां तरूणां वृक्षाणां विटपेषु शाखासु याः वसतयः पक्षिणां कुलायास्तेषां विघटनेन विद्वंसेन समुद्‌भ्रान्तानां भयचकितानां शकुन्तानां पक्षिणां कुलेन निबद्धः कृतो निध्वानः शब्दो यत्र तादृशम्, अध्वानं मार्गं विलङ्ख्य अतिक्रम्य कस्यचित् काननकासारतीरतरोः वनवर्त्तिसरोवरतटविटपिनः अधिपरिसरं समीपे एतान् भ्रातॄन् मातरं च अवतार्य स्कन्धदेशादवरोप्य तदीयपरिरक्षणविचक्षणः समातृकाणां भ्रातॄणां रक्षायां निपुणः (भीमः) क्षणम् किञ्चित् कालम् अवतस्थे विश्रामाय स्थित इति। सुरङ्गया प्रस्थितोऽसौ निविडतमसा व्याप्तं भीमस्य वेगेन वृक्षाणां पतनेन भ्रष्टनीडानां पतगानां कोलाहलेन मुखरितं कञ्चन पन्थानमतिक्रम्य कस्यचित् वनसरस्तटस्थितस्य तरोः समीपे तान्स्कन्धादवतार्य विश्राम्यतिस्म भीम इत्यर्थः ॥

तत्र कापि तरुणी तडिदाभा तं ययौ जतुगृहे {56}सुहितेन।
चूषणाय तमसां वनमार्गे चोदिता हुतवहेन शिखेव ॥ 25 ॥

तत्र कापीति। तत्र वनतडागतरुतले तडिदाभा विद्युदिव तरला प्रकाशशालिनी च जतुगृहे लाक्षागृहे सुहितेन (किरातीतत्पुत्रपञ्चकपुरोचनानां स्वादुपदार्थानां भक्षणेन) तृप्तेन हुतवहेन अग्निना प्रेरिता वनमार्गे भीमगन्तव्यकाननवर्त्मनि तमसां चूषणाय अन्धकारदूरीकरणाय चोदिता आदिष्टा (वह्नि) शिखा ज्वाला इव स्थिता कापि तरुणी तं भीमं ययौ प्राप। तत्र तरुमूले काचिदतिपकाशा तरुणी तं प्राप, सा भीमेन जतुगृहे वहन्ये यो नरचलिः प्रदत्तस्तत्तृप्तेन अह्निना तन्मार्गतमोदूरीकरणाय प्रेरिता वह्निशिखेन प्रतीयतेस्म, इत्याशः। तुगृहसुखपदार्थतृप्तत्वं वह्नेः स्वशिखाप्रेषणे कारणत्वेनोपनिबद्धमिति काव्यलिङ्गम्, शिखारूपतोत्प्रेक्षा, तडिदाभा इत्युपमा चेत्यमीषां सङ्करः। स्वागता वृत्तम् ॥ 25 ॥

अधरोष्ठविभागरेखिका सुदृशोऽस्या वदनेऽस्ति वा न वा।
इति सा हृदि तस्य संशयं परिमार्ष्टुं किल मौनमत्यजत् ॥ 26 ॥

अधरोष्ठेति। अस्याः भीमसमीपमायातायाः सुदृशः सुन्दर्याः वदने मुखे अधरस्य ओष्ठस्य च विभागरेखिका स्वल्पा भेदकरी कापि रेखा अस्ति वा नास्ति वा? इति एवं लक्षणं तस्य भीमस्य हृदि चित्ते सन्तं संशयं संदेहं परिमार्ष्टुं दूरिकर्त्तुं सा सुन्दरी मौनमत्यजत् जहौ। तडिदाभा सा सुन्दरी-अस्याः सुन्दरतनोर्मुखे निम्नोष्ठोर्ध्वोष्ठयोर्मध्ये विभेदरेखा विद्योन वेति सन्देहमिव भीमस्य दूरीकर्त्तुं तं व्याजहार, येन रेखासत्त्वासत्त्वविषयः संशयः स्वयमेव दूरीभूत इति भावः। उत्प्रेक्षा स्फुटा ॥ 26 ॥

{57}एतां प्रशास्ति भुजाय वनराज्यसीमामेकः स्वयं नरभुजामृषभो हिडिम्बः।
अर्धांशभाग्जनवधे सममन्तकेन तुल्याभिदानपदया स्वसृमान्मया यः ॥ 27 ॥

एताभिति। नरभुजाम् मनुष्यभक्षकाणाम् ऋषभः प्रधानभूतः अतएव च जनवधे लोकानां मारणे अन्तकेन यमेन समम् अर्धाशभाक् समांशभागी (यावन्तो जना यमेन हन्यन्ते तावतां हन्तेत्यर्थः) हिडिम्बः नाम राक्षसः स्वयमेकः सहायकान्तरनिरपक्षः भुजया बाहुबलेन एतां वनराज्यसीमाम् वनराज्यपर्यन्तभुवं शास्ति नियन्त्रयति, यो हिडिम्बः तुल्याभिधानपदा समाननामधारिण्या मया हिडिम्बया स्वसृमान् भगिनीयुक्तः, अस्तीति शेषः। इमाम् वनभुवं मम भ्राता राक्षसराजो मानववधे यमेन सदृशश्च हिडिम्बः स्वयं शास्ति, तस्य हिडिम्बानामिकाऽनुजाऽहमस्मीति तात्पर्यम् ॥ 27 ॥

वीतशङ्कमिह तेऽद्य तिष्ठतः कीदृशं ककुदमित्ययं मम।
चित्तरङ्गभुवि नृत्तकौशलीमुत्तरङ्गयति चित्रलासकः ॥ 28 ॥

वीतशङ्कमिति। इह यमतुल्यहिडिम्बादीनेऽपि कानने अद्य सम्प्रति वीतशङ्कं निर्भयभावेन तिष्ठतः वर्त्तमानस्य ककुदं धैर्यं कीदृशम्? इति एवंविधम् यत् चित्रं विस्मयः स एव लासको नृत्यकुशलो नटो मम चित्तरङ्गभुवि हृदयरूपरङ्गशालायाम् नृत्तं कौशलीम् स्वीयनर्त्तनक्रियावैदग्धीम् उत्तरङ्गयति प्रकटीकरोति। अत्र हिडिम्बशासितेऽतितरां भयङ्करेऽपि वने निर्भयतयाऽवस्थितस्य तव हृदये कीदृशं विलक्षणं धैर्यमिति विस्मयरूपो नर्त्तको मम हृदयरूपे मञ्चे स्वं कौशलं प्रकाशयति, त्वामत्रैवं दृष्ट्वा तव हृदयस्थितेन धैर्येणाहमति विस्मताऽस्मीत्याशयः। साङ्गं रूपकम्॥ 28 ॥

रुधिरं पातुकामेन तेन वो हन्तुमीरिता।
अधरं पातुकामाहमस्मि ते रूपसंपदा ॥ 29 ॥

रुधिरमिति। रुधिरम् युष्माकं रक्तं पातुकामेन आस्वादयितुमिच्छता तेन यमकल्पेनैतद्वनस्वामिना हिडिम्बेन वः युष्मान् हन्तुं व्यापादयितुम् ईरिता उक्ता अहम् हिडिम्ब ते तव भीमस्य रूपसम्पदा सौन्दर्येण तव अधरं पातुकामाऽस्मि, त्वदीयरूपसम्पदाकृष्टा त्वया सह रन्तुमिच्छामीत्यर्थः ॥ 29 ॥

अद्य ते सविधमापतेदसौ हृद्यमेतदुचितं वचः शृणु।
मारणं रिपुषु तन्वताऽमुना मा रणं कुरु महान्बलेन सः ॥ 30 ॥

अद्य त इति। अद्य सम्प्रति असौ हिडम्बिः तव सविधं समीपम् आपतेत् आगच्छेत्, संभाव्यते तस्यात्रागमनम् इत्यर्थः। अतः हृद्यम् मनोहरमथ च उचितम् योग्यम् एतत् वक्ष्यमाणप्रकारं वचनम् मम कथनं शृणु आकर्णय, रिपुषु शत्रुषि विषये हिडम्बः बलेन महान् अतिशयितसामर्थ्यशाली, अतस्तेन युद्धं मरणनिमन्त्रणमित्यशः ॥ 30 ॥

उपयामविधौ त्वरस्व मे कृपया मारशराः शरारवः।
दिवि वा भुवि वाऽथ दिक्षु वा रमये त्वामुपनीय रंहसा ॥ 31 ॥

उपयामेति। (हे धीर,) मे मम हिडिम्बाया रतिं प्रार्थयमानाया उपयामविधौ प्रणिग्रहणकर्मणि कृपया त्वरस्व शीघ्रतां कुरु, तत्र कारणमाह-मारशरा इति। यतो मारशराः (मम विषये) कामबाणाः शरारवः घातकाः, कामो मामत्यर्थं पीडयति, विवाहेन न मम केवलं त्राणम्परं वः प्राणरक्षापि, यतः मारस्य शत्रोर्हिडिम्बस्य शराः शरारवः घातकाः, अतो तव पाणिग्रहणं कथन्नो रक्षायै जायेतेत्यत्वाम् उपनीय नीत्वा रमये क्रीडयामि। एवं मम पाणिग्रहणं तव कृते प्राणरक्षया समं सुन्दरीविहारप्रदमपीति तत्र शीघ्रताया ओचित्यं व्यक्तीकृतम् ॥ 31 ॥

इत्येनां भाषमाणां रजनिचरपतिः क्रोधलिङ्गैः स्फुलिङ्गैर्दग्ध्वे{58} वाक्ष्णोरभीक्ष्णं स्फुटघटितभुजास्फोटवाचाटिताशः।
बिभ्राणो बभ्रुकैश्यं त्वमिह वससि को मृत्युवक्त्रार्धजग्धो दुर्बुद्धे! तिष्ठ यासि क्व पुनरिति गिरा मेदुरः प्रादुरासीत् ॥ 32 ॥

इत्येनां भाषमाणामिति। अभीक्ष्णम् वारं स्फुटम् प्रकटम् घटिताः कृताः ये भुजास्फोटाः भुजताडनानि तैः वचाटिताः मुखरीकृताः आशाः दिशो येन स तथोक्तः, एवम् बभ्रु पिङ्गलवर्णं कैश्यम् असंयतकेशराशिम् बिभ्राणः धारयन् रजनिचरपतिः राक्षसमुख्यो हिडिम्बः, इति उक्तप्रकारं वचनं (भीमं प्रति) भाषमाणाम् एनाम् हिडिम्बां नाम स्वसारं क्रोधलिङ्गैः किमर्थमियमेभिः सह स्नोहं संलपति? किमर्थं वा नैनामाशु व्यापादयति? इतिमूलकं कोपं प्रकाशयद्भिः अक्षणोः स्फुलिङ्गैः क्रोधाग्निकणैः दग्ध्वा इव स्थितः (हिडिम्बां प्रति रक्ताक्ताभ्यामिव नयनाभ्यां पश्यन् स्थित इत्यर्थः) हे दुर्बुद्धे मूढमते, मृत्युवक्त्रे मृत्युमुखे इह वने मिव नयनाभ्यां पश्यन् स्थित इत्यर्थः) हे दुर्बुद्धे मूढमते, मृत्युवक्त्रे मृत्युमुखे इह वने अर्धजग्धः अर्धभक्षितः मृत्युमुखपतितः त्वं को वससि वासं करोषि? तिष्ठ पुनः, क्व यासि गच्छसि? इति गिरा वाचा मेदुरः युक्तः प्रादुरासीत् प्रकटीभूतः। अयमाशयः-रुधिरं पातुमाज्ञप्तायां हिडिम्बायां भीमस्य रूपसम्पदाऽऽकृष्टायां तदधारपानं कामयमानायां सत्यां स्वाज्ञापालने विलम्बमसहमानो हिडिम्बः कुपितो भुजास्फोटेन दिशो मुखरयन् प्रादुर्भूतः सन् भीमं प्रति-अरे दुर्बुद्धे कोऽसि त्वं योऽत्र मृत्योर्मुख इव वने वससि? क्व यासि? तिष्ठ, सद्योऽहमधुना त्वां यमपुरं नयामीति भाषमाणो भीमं तर्जयितुमायात इति ॥ 32 ॥

तस्मिन्रक्षसि नेदिष्ठे तादृक्षपरुषाक्षरे।
अपमृत्युरिवोदस्थादनिलस्यात्मसंभवः ॥ 33 ॥

तस्मिन् रक्षसि इति। तादृक्षाणि श्रुतिमात्रानुमेयकठोरभावानि परुषाणि कठोराणि वचनानि यस्य तस्मिन् तादृक्षपरुषाक्षरे तस्मिन् रक्षसि हिडिम्बे नेदिष्ठे समीपवर्त्तिनि सित अनिलस्यात्मसंभवो वायुपुत्रो अपमृत्युः असामयिकमरणम् इव उदस्थात् आसनं विहाय उदस्थान् उत्थितः। अत्रोपमया हिडिम्वधो व्यज्यते ॥ 33 ॥

वृक्षेण वृक्षं गिरिणा गिरीन्द्रं हस्तेन हस्तं वचसा वचश्च।
परस्परेण प्रतिरुध्य घोरं समीकमेतौ सममादधाते ॥ 34 ॥

वृक्षेणेति। एतौ भीमहिडिम्बौ वृक्षेण तरुणा वृक्षम्, गिरिणा पर्वतेन गिरीन्द्रम् पर्वतश्रेष्ठं, हस्तेन भुजेन हस्तं भुजं, वचसा वचश्च प्रतिरोध्य वारयित्वा समम् एकसमानम् घोरं दारुणाञ्च समीकम् युद्धम् आदधाते चक्राते। भीमहिडिम्बौ वृक्षप्रहारे एकेन कृते वृक्षेणैव तं वारयत एवमेव गिरिणा प्रहारे कृते तं गिरिणैव वारयतः, तदेवं तयोः समबलं भीषणं युद्धं चक्रतुरित्यर्थः ॥ 34 ॥

स्वसुः समक्षं स्वयमेव मुष्ट्या बलं बिडौजा इव वज्रसख्या।
हिडिम्बमेन यमराजधानीकुटुम्बिमुख्यं कुरुते स्म भीमः ॥ 35 ॥

स्वसुरिति। सः भीमः स्वयम् आत्मना वज्रसख्या अशनिवत् कठोरया मुष्ट्या मुष्टिप्रहारेण स्वसुः भगिन्याः हिडिम्बायाः समक्षम् पुरत एवैनं हिडिम्बं नाम राक्षसं विडौजाः इन्द्रः बलं बलासुरम् इव यमराजधान्यां ये कुटुम्बिनः वासिनस्तेषां मुख्यं प्रधानम् कुरुतेस्म। पश्यन्त्यामेव हिडिम्बायां भीमो हिडिम्बं न्यवधीदित्यर्थः ॥ 35 ॥

तदनु तिमिरकदम्बेन हिडिम्बेन निर्मुक्तात्तस्मादहर्मुखादिव {59}वनात्सं ध्ययेव सरागया तया कमलपालिकया सह तपनभानव इव राजसूनवस्ते निष्क्रम्य शालिहोत्रमुनेः {60}सरसि वीतिहोत्रभासं व्यासं भगवन्तमासेव्य तत्र तन्निदेशादहानि {61}कतिचिदतिवाहयांचक्रुः।

तदन्विति। तदनु हिडिम्बवधानन्तरम् तिमिरकदम्बेन तमःसमूहेन इव हिडिम्बेन तन्नामकरक्षसा निर्मुक्तात् रहितात् तस्मात् अहर्मुखात् प्रातःकालात् प्रत्यूषात् इव वनात् काननात् सरागया लौहित्ययुक्तया प्रेमपूर्णया च कमलपालिकया कमलमालया हिडिम्बया सह सनध्यया सह तपनभानवः सूर्यकरा इव ते राजसूनवः राजपुत्राः पाण्डवा निष्क्रम्य बहिर्भूय शालिहोत्रमुनेः सरसि सरसस्तीरे वीतिहोत्रो वह्निस्तस्य भा इव भाः कान्तिर्यस्य तं तथोक्तम् वह्निप्रभं भगवन्तं सर्वसामर्थ्यशालिनं व्यासं नाम मुनिम् आसेव्य अभ्यर्थनादिना सत्कृत्य तत्र सरस्तीरे तन्निदेशात् भगवतो व्यासस्य वचनात् कति चिदहानि कानि चन दिनानि अतिवाहयांबभूवुः गमयामासुः। यथा तमःमूहात् निर्गताः सन्ध्यया सरागया युक्ताः सूर्यकरा भवेयुस्तथा पूर्णानुरागया हिडिम्बया सह तस्माद्वनान्निर्गताः पाण्डवाः शालिहोत्राख्यमुनिस्वामिकस्य सरसस्तीरे स्थितं वह्निसमानभासं व्यासं समभ्यर्च्य च तदादेशादरेण तत्र कतिचनाहानि न्यवात्सुरिति भावः। `वीतिहोत्रो धनञ्जयः’, `कृपीटयोनिर्ज्वलनः’ इत्यग्निपर्यायेष्वमरः। तिमिरसमूहेन हिडिम्बस्य सन्ध्यया हिडिम्बायाः, अहर्मुखेन वनस्य, तपनभानुभिश्च पाण्डवाना मुपमेयोपमानभावः कल्पितः ॥

पुत्रं तत्र घटोत्कचं पवनभूसङ्गादनङ्गातुरा प्राप्तं सर्वगुणैर्मनोजवसतां प्रासूत नक्तंचरी।
कुर्यां वः स्मृत एव कर्मसु हरेः शक्तेरपि स्रंसनामित्युक्त्वा स पितॄन्यथाभिलषितं युक्तस्तया निर्ययौ ॥ 36 ॥

पुत्रं तत्रेति॥ तत्र शालिन्नमुनिसरस्तटे अनङ्गातुरा कामपीडिता नक्तञ्चरं राक्षसी हिडिम्बा पवनभुवः भीमस्य सङ्गात् संभोगात् सर्वगुणैः सर्वैः शौर्यादिगुण गणैः मनोजवसतां प्राप्तम् पितृसादृश्यमाप्तवन्तम् घटोत्कचं नाम पुत्रं प्रासूत जनयामास, सः जातो भीमपुत्रो घटोत्कचः-वः युष्माकम् पितॄणां कर्मसु उपयुक्तकार्यावसरेषु स्मृतः एव स्मृतिमात्रेण सन्निहितः सन् हरेः इन्द्रस्य शक्ते सामर्थ्यस्य अपि स्रंसनाम् निष्फलनं कुर्याम् विदध्याम् इति उक्तप्रकारेण वितॄन् युधिष्ठिरादिन् उक्त्वा तया हिडिम्बया युक्तः सहितः यताभिलषितं स्वेच्छया ययं गतः। तत्र सरस्तटे भीमेन मिथुनीभूय हिडिम्बा बीमसमं घटोत्कचं नामतनय मजनयद्यस्य च पुत्रो-यदा क्वचन कर्मणि भवन्तो मांस्मरेयुस्तदा स्मरणमात्रेण सन्निहितोऽहमिन्द्रस्यापि शक्तिं विफलीकुर्यामिति युधिष्ठिरादीनभिधाय मात्रा हिडिम्बया सह यथाभिमतदेशं ययावित्यर्थः। `अथ मनोजवसः पितृसन्निभः’ इत्यमरः शार्दूलविक्रीडितं वृत्तम् ॥ 36 ॥

ततस्ते वन्याशनैर्धन्या धारितवसुधासुधाशनाकॉतयः प्रावृषमिव बक बलाक्रान्तां पातालभुवमिव{62} प्रत्यहं वर्धमानबलिशोकामङ्गराज्यसीमामिव सूर्यतनयानुकूलप्रतिष्ठां रविरथाक्षधुरमिवैकचक्रां पुरीं क्रमादाक्रम्य कस्यचिद्गृहमेधिनो {63}गृहमध्यमेत्य{64} सुखमद्यवात्सुः।

तत इति। घटोत्कचे मात्रा सह प्रयाते सति, वन्याशनैः वनभवकन्दमूलाद्याहारैः धन्यास्तुष्टाः श्लाघ्याश्च, धारिताः-वसुधा-पृथ्वी सुधाशनाः-अमृतभुजो देवाः भूदेवाः ब्राह्मणास्तेषामाकृतयो रूपाणि यैस्ते ब्राह्मणरूपधारिणः ते पाण्डुतनयाः, प्रावृषम् वर्षाकालमिव वकबलेन वकाव्यदानवसैन्येन वकपक्षिसमूहेन च आक्रान्ताम् परिवृताम्, पातालभुवम् पाताललोकम् इव प्रत्यहं वर्धमानः दिनानुदिनमेधमानो बलिना प्रबलेन वकाख्यदानवेन हेतुभूतेन शोकः कष्टं यस्यास्ताम्, वर्धमानः वलेर्वैरोचनस्य शोको (पाताले बलिर्विष्णुना नागपाशैर्बद्ध इति तत्प्रभवः) यस्यां तां च अङ्गराज्यसीमाम् अङ्गाख्यदेशपर्यन्तभुवमिव सूर्यतनयायाः यमुनायाः अनुकूलं तटे प्रतिष्ठा स्थितिर्यस्यास्तां, सूर्यतनयेन कर्णेन पालकेन अनुकूला उचिता प्रतिष्ठा प्रशस्तिर्यस्यास्तां च, रविरथस्य सूर्यस्यन्दनस्य अक्षधुरं चक्रावलम्बितिर्यग्‌दारुभेदमिव एकचक्रां केवलैकचक्रयुताम् तदाख्यां च एकचक्रां नाम पुरीम् क्रमात् क्रमेण आक्रम्य अधिश्रित्य कस्यचित् गृहमेधिनो गृहस्थस्य गृहमध्यम् गृहम् एत्य प्राप्य सुखम् अक्लेशम् अध्यवात्सुः अवसन् ॥

भिक्षामटद्भिरथ तत्र {65}पृथाकुमारैरर्धं विभज्य {66}पृथगर्पितमन्नराशिम्।
आकण्ठमभ्यवहरन्निखिलैः प्रतीकैः पुत्रो बभूव मरुतः पुनरुक्तपोषः ॥ 37 ॥

भिक्षामिति। अथ एकचक्रानामपुरे भिक्षाम् अटद्भिः आहरद्भिः पृथाकुमारैः युधिष्ठिरादिभिः पृथक् प्रत्येकम् अर्धं विभज्य समांशविभागं कृत्वा अर्पितं अन्नराशिम् अन्नपूरम् आकण्ठं यावत्तृप्ति अभ्यवहरन् भुञ्जानः मरुतः पुत्रो वायुसूनुर्भीमः निखिलैः सर्वैः प्रतीकैः अवयवैः पुनरुक्तपोषः द्विगुणितपुष्टिः बभूव जातः ॥ 37 ॥

तत्र तत्र द्विजैरेते पृष्टा नाशं पृथाभुवाम्।
इत्यूचुर्वयमत्रैव विदम्स्तेषां तु संस्थितिम् ॥ 38 ॥

तत्र तत्रेति। एतेपाण्डुसुताः युधिष्ठिरादयः तत्र तत्र यत्र तत्र गोष्ठीषु द्विजैः पृथाभुवां युधिष्ठरादीनां नाशं दाहजन्यं मरणं पृष्टाः सन्तो `वयम् अत्र `एकचक्रा’ पुर्याम् एव तेषां पाण्डवानां संस्थितम् मरणं विद्मः जानीमः’ इति ऊचुः। अर्थात् `ते मृताः’ इत्यत्रैवास्माभिः श्रूयतेऽतो नास्ति तत्सत्यताविषयेऽस्माकं किमपि वक्तव्यमित्यर्थः। `वयमत्रैव तेषां संस्थितिमवस्थानं जानीमः’ इत्यपि सत्यमत्र प्रच्छाद्योच्यमानं बोध्यम् ॥ 38 ॥

यज्ञेण केनापि हतो हिडिम्ब इति ब्रुवाणेषु मिथो द्विजेषु।
आकूतगर्भं हसितं सगर्भ्याश्चक्रुर्मुखं वीक्ष्य समीरसूनोः ॥ 39 ॥

यक्षेणेति। केनापि अज्ञातविशेषपरिचयेन यक्षेण हिडिम्बो हतः मारितः इति मिथः परस्परं ब्रुवाणेषु द्विजेषु ब्राह्मणेषु सत्सु सगर्भ्याः सोदराः युधिष्ठिरादयः समीरसूनोः वायुसुतस्य भीमस्य मुखम् वीक्ष्य दृष्ट्वा आकूतगर्भं साभिप्रायम् (अयमेव हिडिम्बहन्ता, यमत्रत्या अज्ञातपरिचयं यक्षमाचक्षते) हसितं स्मितं चक्रुः। अत्रत्यद्विजानां हिडिम्बहन्तुर्विषयेऽज्ञानं लक्ष्यीकृत्य जहसुरित्याशयः ॥ 39 ॥

एकदा सायमन्तर्गृहे निरवग्रहं निष्पतद्भिर्बाष्पैस्तरङ्गितोत्तमाङ्गम{67}पत्यमुत्सङ्गभुवि पुरोधाय यातुधानापराधभयानुरोधेन मन्दितं क्रन्दितमुत्सृजन्तीं कुन्ती समुपसृत्य विषादनिदानं विप्रायताक्षीमप्राक्षीत्।

एकदेति। एकदा एकस्मिन्समये सायंकाले अन्तगृहे गृहाभ्यन्तरे निरवग्रहम् अनिवारितरूपेण निष्पतद्भिः स्रवद्भिः बाष्पैः अश्रुभिः तरङ्गितोत्तमाङ्गं सिक्तमुखम् अपत्यं बालकमुत्सङ्गभुवि क्रोडदेशे पुरोधाय निधाय स्थापयित्वा यातुधानस्य रक्षसोऽपराधः आज्ञाभङ्गरूपस्ततो भयं तदनुरोधेन (स्फुटरुदितेन वको नाम राक्षसो नाप्रसन्नो भवेदिति भयेनेत्यर्थः) मन्दितं मन्दीकृतं क्रन्दितं रोदनमुत्सृजन्तीं कुर्वतीं विप्रायताक्षीम् ब्राह्मणरमणीम् समुपसृत्य उपेत्य कुन्ती विषादनिदानं दुःखहेतुम् अप्राक्षीम् अप्राक्षीत् तद्रुदितकारणं जिज्ञासितवती। रुदन्तं बालकमङ्के कृत्वा रुदतीं ब्राह्मणीमुपेत्य कुन्ती तद्रुदितकारणं पृष्टवतीत्यर्थः।

साऽपि तां कृपालुतया हृदि लगद्गदां गद्गदाक्षरमाचचक्षे।

साऽपीति। सा विप्रस्त्री अपि कृपालुतया दयालुमानसतया हृदि हृदये लगन् गदः परितापो यस्यास्ताम् मनसि खेदमावहन्तीम् तां कुन्तीम् गद्‌गदाक्षरम् दुःखास्फुटशब्दम् आचचक्षे ऊचे। ब्राह्मणी कुन्त्याः सहानुभूतिं दृष्ट्वा दुःखेन गद्गदस्वरेणोवाचेति॥

साधयेयमिति धर्मसंग्रहं संदधाति मिथुनं परस्परम्।
आधये परमनेकजन्मनोरावयोरजनि पापसंग्रहः ॥ 40 ॥

साधयेयमिति। धर्मः पितॄणापाकरणरूपः संगृह्यते साध्यते अनेनेति धर्मसंग्रहपुत्रस्तं साधयेयम् उत्पादयेयम् इति हेतोः मिथुनम् दग्पती परस्परं सन्दधाति संयुज्यते, पितॄणामृणं येन शुद्ध्यति तादृशं धर्म्यं पुत्रमुत्पादयितुमेव स्त्रीपुरुषौ परस्परं संयुज्यते इत्यर्थः, `जायमानो ह वै त्रिभिर्ऋणैर्ऋणवान् भवति स्वाध्यायेनर्षिभ्यः प्रजया पितृभ्यो यज्ञेन देवेभ्यः, प्रजाभ्यः पितृभ्य एष वा अनृणो यः पुत्री’ इति श्रुत्या पुंत्रोत्पादनं धर्मं ज्ञात्वा दम्पती परस्परं मिलित्वा संभोगेन पुत्रमुत्पादयत इति प्रथमपादद्वयस्यार्थः। परं किन्तु अनेकानि ब हूनि जन्मानि ययोस्तयोरनेकजन्मनोः बहूनि जन्मानि प्राप्तवतोरावयोः आधये मानस्यै व्यथायै पापसङ्ग्रहः दुःखसञ्चयः अजनि जातः, अनेनाल्पायुषा पुत्रेण विद्यमानयोरावयोः पापसञ्चय एवाधये परिणतः, अयं पुत्रो धर्मसञ्चयस्थाने दुःखप्रदत्वेन पापसञ्चयरूपो जात इत्यर्थः। अस्य पुत्रस्य निधनेन खेदमात्रफलको दम्पत्योरावयोः सङ्गमो जात इति भावः ॥ 40 ॥

अयि! किं ब्रवीमि परिपाकमंहसामतिभीषणो बक इति क्षपाचरः।
स्वसुरादरात्स्वयमिवागतो{68} यमो यमुनावनान्तमवलम्ब्य वर्तते ॥ 41 ॥

अयि किमिति। अयीति सस्नेहं सम्बोधनम् अयि, अहंसाम् स्वपापानां परिपाकं दु-खात्मना परिणतिं किं ब्रवीमि केन प्रकारेण प्रकाशयामि? अकथनीयो मम दुःखपरिपाक इत्यर्थः, अतिदारुणः अतिभयङ्करः वक इति वकसंज्ञः क्षपाचरो राक्षसः स्वसुः यमुनायाः आदरात् स्नेहप्रकर्षात् स्वयम् अनाहूत एवागतो यम इव यमुनावनान्तम् तत्तीरवर्त्तिकाननप्रान्तम् अवलम्ब्य आश्रित्य वर्त्तते अस्ति। यमुनातीरकानने वको नाम राक्षस एको वसति यः स्वसुर्यमुनायाः स्नेहादागतो यम इव प्रतीयत इत्यर्थः। मञ्जुभाषिणी वृत्तम् ॥ 41 ॥

मा भून्नाशो युगपदिति नो भीरुभिर्जातु पौरैः पूर्वैर्लब्ध्वाऽवसरमसकृत्प्रार्थनाबिः प्रक्लृप्तम्।
एकैकस्मिन्नहनि वितरत्येकमेकं पुमांसं नि{69}त्यं तस्मै बलिमिह जनस्तुङ्गमन्नस्य राशिम् ॥ 42 ॥

मा भूदिति। नः अस्माकं सर्वेषां पुरवासिनाम् युगपत् सहैव नाशः वधः मा भूत् न जायताम् इति हेतोः भीरुभिः स्वस्वप्राणात्ययशङ्किभिः पूर्वैः प्राक्तनैः पौरैः पुरवासिबिः जातु कदाचित् अवसरं वकाय प्रार्थनायाः समयं लब्ध्वा प्रार्थनाभिः अनेकधाऽनुनयैः प्रक्लृप्तम् निश्चितम् एकैकस्मिन्नहनि प्रतिवासरम् एकमेकम् पुमांसं पुरुषं तुङ्गम् महोन्नतम् अन्नस्य राशिं च जनः एतत्पुरवासिलोकः इह नित्यं सदा तस्मै वकाय बलिम् वितरति ददाति। सर्वेषां जनानां युगपदेव विनाशो मा भूदिति पौरास्तत्समीपं गत्वा प्रार्थनाभिस्तमनुनीय च निश्चितं चक्रुर्यदेकः पुमान् महाँश्चान्नराशिः प्रत्यहं तव वलिरूपेणागमिष्यति मा वृथा पुरजनकदनं कृथास्तदनुसारेण प्रत्यहं महताऽन्नराशिना सममेकं पुमांसमुपहरन्त्यत्रत्या जना वकाय बलिरूपेणेत्याशयः ॥ मन्दाक्रान्ता वृत्तम्, लक्षणमन्वत्रोक्तम् ॥ 42 ॥

तादृशः प्रलयकालकठोरो वासरः स तु ममालयभूमेः।
द्वारि तिष्ठति बकात्परितुष्टात्पारितोषिकमिवाद्य जिघृक्षुः ॥ 43 ॥

तादृश इति। तादृशः वक्तुमशक्यः क्रमप्राप्तश्च प्रलयकालकठोरः प्रलयसमयसमरौद्रः सः वासरः तु ममालयभूमेः मद्‌गृहस्थलस्य द्वारि अनतिदूरे तिष्ठति, यस्मिन्नहनि मद्‌गृहात् बलिर्देयः स वासरोऽतिसन्निहितः इत्यर्थः। अद्य परितुष्टात् मया दत्तेन बलिना परितुष्टात् वकात् पारितोषिकं सन्तोषसूचकमुपहारं जिघृक्षुरिव, मन्ये स वासरो मद्‌गृहमुपेत्य मया दीयमानं बलिं वकाय समर्प्य च ततः किमपि लिप्समान इवास्ति, अत एवासौ स्वार्थवशेन मद्‌गृहसमीपमागत इत्याशयः ॥ 43 ॥

बालानिव प्रवयसोऽपि नराशनोऽयं भुञ्जीत चेन्मम स एव हि पुण्यपाकः।
बालेन भाव्यमिति तद्बलिषु व्यवस्था कण्ठे पुनः {70}कलयति क्रकचस्य धाटीम् ॥ 44 ॥

बालानिवेति। अयं नराशनः नरभोजी वकः बालान् इव प्रवयसः वृद्धानपि चेत् भुञ्जीत भक्षयेत्, तर्हि स एव (वककृतं वृद्धभक्षणम्) मम पुण्यपाकः पुण्यफलोदयः सुखावहः स्यात्। यदि स बालानिव वृद्धानपि भक्षयेत्तदात्मानमेवोपहृत्यास्मात्कष्टात् मुक्तिं लभेय तदेव नोपपद्यते इत्याह-गलेनेति। वकस्य बलिना बालेन भाव्यमिति तद्‌बलिषु तद्‌भक्ष्येषु व्यवस्थानिर्णयः तदियं विषमा व्यवस्था पुनः मम कण्ठे क्रकचस्य करपत्रस्य धाटीं शैलीं तुलनां करोति। तदीया बालभक्षणव्यवस्था मामतिशयेन खेदयतीति भावः ॥ 44 ॥

संतानमूलमिदमेकमपत्यमास्ते संवर्तकालसहजश्च स राक्षसेन्द्रः।
संभूयते च समयः क्षपया महत्या संतीर्यतां कथमियं सखि! मे विपत्तिः ॥ 45 ॥

सन्तानमूलमिति। सन्तातस्य वंशपरम्परायाः मूलं कारणभूतम् इदं क्रोड रुदत् एकं सजातीयरहितम् अपत्यम् पुत्ररूपम् आस्ते, तद्दानं वंशोच्छेदे परिणमेदित्यर्थः, ननु दयया कदाचिद्वको मुञ्चेदिदं तवापत्यमिति चेत्तत्राह-संवर्त्तेति। सः प्रसिद्धक्रूरभावः राक्षसेन्द्रः राक्षसराजः वकः संवर्त्तकालसहजः प्रलयकालतुल्यः, ननु कालान्तरे भावि दुःखमिति चिन्ता न कार्या, बलिप्रदानकालः संभूयते प्राप्यते (भूप्राप्तावात्मनेपदी), एकस्यां दुःक्षयायां क्षपायां वीतायामेव मम बलिप्रदानस्यावसरः प्राप्तो भवतीति दुःखमतिसन्निहितमित्यर्थः। इयम् उक्तप्रकारा मे मम विपत्तिः हे सखि, कथं केन प्रकारेण सन्तीर्यताम् अतिक्रम्यताम्। एतादृशीं विपदमह कथङ्कारमुत्तराणीत्यर्थः ॥ 45 ॥

इत्युदीर्य सरभसावगाहनहृदयसमुत्कूलितं शोकसरःपूरमिव नयनसलिलं विशृङ्खलं खेलयन्त्यै तस्यै `तनयेषु द्वितीयः समरेष्वद्वितीयः सुतः सखि! ते {71} दीयते। स एव {72}तत्प्राणनाशने बली भविष्यति। मा भैषीः’ इति सा नरदेवमहिषी प्रत्यश्रौषीत्।

इत्युदीर्येति। इति उक्तप्रकारेण उदीर्य कथयित्वा सरभसं सवेरां यथा तथा अवगाहनं शोकसरसि मज्जनं तेन हृदयात् समुत्कूलितं तटं प्रापितम् उपरि क्षिप्तमिति वा शोकसरसः खेदसरोवरस्य पूरं प्रवाहमिव नयनसलिलम् अश्रु विशृङ्खलं निष्प्रतिबन्धं खेलयन्त्यै पातयन्त्यै तस्यै ब्राह्मणभार्यायै-हे सखि, तनयेषु मम पञ्चसु पुत्रेषु द्वितीयः समरेषु युद्धेषु अद्वितीयः अप्रतिद्वन्द्वी सुतः स्वपुत्रो भीमः ते तुभ्यं दीयते, (स एव त्वया स्वसुतस्य परिवर्त्ते वकाय बलिरूपेण प्रेष्यताम्) सः मम द्वितीयः पुत्र एव तत्प्राणनाशने तस्य वकस्य प्राणनं जीवनरक्षाकरं यदशनं तत्र बलीभविष्यति अबलिभूतोऽपि बलिरूपेणोपस्थास्यत इत्यप्यर्थः। मा भैषीः वंशलोपमुत्प्रेक्ष्य भयं मा कृथाः, इति एवं सा नरदेवमहिषी राजपत्नी कुन्ती प्रत्यश्रौषीत्-ब्राह्मणीपुत्रस्य स्थाने भीमस्य बलिरूपेण प्रेषणं प्रतिज्ञातवतीत्यर्थः।

अनयोरथ दम्पत्योरश्रुहेतोः शुचः पदे।
आनन्दस्यातिरेकोऽभूदादेश इव तत्क्षणम् ॥ 46 ॥

अनयोरिति। अथ कुन्ती प्रतिज्ञाघोषणानन्तरम् अनयोः दम्पत्योः ब्राह्मण्याः ब्राह्मणस्य च अश्रुहेतोः रोदनप्रवर्त्तकस्य शुचः खेदस्य पदे स्थाने तत्क्षणम् प्रतिज्ञाकर्णनकाल एव आनन्दस्य अतिरेकः समृद्धिः आदेशः इव अभूत् अजायत। व्याकरणाशास्त्रे यथा-शपि सति `पा’ धातोः स्थाने `पिब’ आदेशो भवति, तथैव शुचः स्थानमानन्दातिशयो गृहीतवान्, शोकाश्रूणि हर्षाश्रुभावेन परिणतानि जातानीत्यर्थः ॥ 46 ॥

तमिमं प्रसुवा रहस्युदन्तं गदितो वायुसुतो बलावलेपात्।
मनसा न बकं लिलेह रात्र्यामनसा धारितमन्नराशिमेव ॥ 47 ॥

तमिममिति। वायुसुतो भीमस्तमुक्तप्रकारकप्रतिज्ञाघोषणारूपम् उदन्तं वृत्तान्तं प्रसूः माता तया प्रसुवा कुन्त्या रहसि एकान्ते गदितः उक्तः सन् बलावलेपात् शौर्यगर्वतः रात्र्यां तस्यां निशि वकं नाम तमसुरं मनसा न लिलेह न स्पृष्टवान् सकृदपि तद्विषये न ध्यातवान्, शौर्येण स्वविजये विश्वासशालितया वकस्य विषये किमपि न चिन्तितवान्, अनसा शकटेन धारितम् वकायोपहर्त्तुं शकटोपरिस्थापितम् अन्नराशिम् एव लिलेह ध्यानेनास्वादयामास, श्वोऽप्रमाणेनान्नराशिना प्रभूत आहारो भवेदित्येतन्मात्रमचिन्तयदित्यर्थः। अनः शकटं तया च नलोदये प्रयोगः-`यदरिषु सन्नामानस्थितयो यन्नुन्नमुदलसन्नामानः’ ॥ औपच्छन्दसिकं वृत्तम् ॥ 47 ॥

अपरेद्युर्निकिल{73}जनानन्दकरे भगवति दिनकरेऽपि{74} मन्देहकुलमवस्कन्दितुमुदयगिरिशिखरमधिरूढे,-

अपरेद्युरिति। अपरेद्युः परस्मिन्नहति निखिलजनानन्दकरे सकललोकहर्षकारिणि दृष्टिदूषकतिमिरापाकरणद्वारा समस्तजनहर्षकरे भगवति सर्वसामर्थ्यशालिनि दिनकरे सूर्ये अपि मन्देहकुलम् मन्देहानां नाम रक्षसां समूहम् अवस्कन्दितुं नाशयितुम् उदयगिरिशिखरम् अधिरूढे उदयाचलमागते सति, सूर्योदये सतीत्यर्थः, `मन्देहा नाम राक्षसाः सूर्योदयं प्रतिबन्धन्ते ब्राह्मणदीयमानजलाञ्जलिबलेन सूर्येण निहन्यन्ते’ इति कथात्र ध्यातव्या ॥

स शकटमधिरुह्य भीमसेनो दधिकलसीकुलशीभरान्नराशिम्{75}।
बकभवनवनं विवेश शाखानगरमिवान्तकवीरराजदान्याः ॥ 48 ॥

स शकटमिति। सः मात्रा विज्ञापितोऽधिकान्नलाभसंभवेनानन्दंश्च भीमः दधिकलसीनां दधिकुम्भानां कुलम् समूहः तमश्नुते व्याप्नोतीति कुलशी (शकन्ध्वादित्वात्पररूपेण दीर्घविरहः पिप्पल्यादित्वान्ङीप् च) पङ्क्तिः, तां भरतीति दधिकलशीकुलशीभरः अन्नराशिर्यत्र तादृशं दधिकलशीकुलशीभरान्नाराशिम् दधिकुम्भसंभृतम् शकटम् वृषभयानम् अधिरुह्य अधिष्ठाय अन्तकवीरस्य यमस्य या राजधानी संयमनीपुरी तस्याः शाखानगरम् उपपट्टनम् इव वकभवनवनं विवेश प्रविष्टवान्। दधिकलसीकुलेषु अन्नानि स्थापयित्वा पूरितं शकटमधिरुह्य यमराजराजदान्याः शाखानगरमिव वकाधिष्ठितं वनं भीमः प्राविशदित्यर्थः। `यन्मूल नगरात्परं तच्छाखानगरम्’ इत्यमरः। पुष्पिताग्रा वृत्तम् ॥ 48 ॥

कङ्कालोच्चयकल्पितान्तकचमूशाटीकुटीविभ्रमे तत्र क्रुद्धतदौपवाह्यमहिषश्वासोग्रचक्रानिले।
गृध्रध्वाङ्क्षशृगालघोषविकसद्रक्षोपदानस्तवे भुञ्जानः शकटस्थ एव स तदा चक्रे महत्क्ष्वेलितम्{76} ॥ 49 ॥

कङ्कालेति। कङ्कालानां शरीरशल्यानाम् उच्चयेन समूहेन कल्पितः रचितः अन्तकचम्वाः यमसेनायाः शाटीकुटीविभ्रमः पटमण्डपसादृस्यं यत्र तादृशे (यत्र नराणां प्रत्यहं भक्ष्यमाणानां सक्थीनि यमसेनापटमण्डपवत्प्रतिभान्ति तत्र) क्रुद्धस्य कुपितस्य तदौपवाह्यस्य यमवाहनस्य महिषस्य श्वासवदुग्रः भयङ्करश्चक्रानिलः आवर्त्तवायुर्यत्र तादृशे, (यत्रावर्त्तवायुः कुपितयममिहषश्वाससादृस्यमावहति तत्र,) गृध्राः कंकाः, ध्वांक्षाः काकाः, शृगालाश्च तेषां घोषैः शब्दैः विकसन् प्रकटन् राक्षसः वकस्य अपदानस्तवः यशःस्तुतिः यत्र तादृशे, (यत्र वकभक्षितशेषं प्राणिमांसमश्नन्तो गृध्राः काकाः शृगालाश्च तदीयं विरुदमिव स्तु वन्ति, तत्र) वकभवनवने शकटस्थः यानारूढः एव बुञ्जानः शकटस्तितं बलिक्लृप्तमन्नं भक्षयन् स भीमो महत् घोरं क्ष्वेलितम् सिंहनादं चक्रे। अत्र तद्वने बलिरूपान्नभक्षणसिंहनादाभ्यां भीमस्य निर्भयत्वरूपं वस्तु ध्वनितम्। शार्दूलविक्रीडितं वृत्तम् ॥ 49 ॥

सोऽपि तदिदं निशम्य {77}बलिपुरुषविशेषमन्दितशकटागमनेन प्रथममेव कृतोन्मेषं रोषं द्विगुण्यन् गिरिकंदरमन्दिरमुखात्सरभसं विनिर्गत्य,-

सोऽपीति। सः बकासुरोऽपि तत् इदं भीमस्य गर्जितं निशम्य श्रुत्वा बलिना बलिरूपेण अन्नेन पुरुषेण च (बलवता पुरुषेण भीमेन चेत्यप्यर्थः) विशेषेण अतितरां मन्दितं स्वल्पवेगीकृतं यच्छकटागमनं यानोपस्थानं तेन प्रथमम् भीमसिंहनादश्रवणात् पूर्वत एव कृतोन्मेषम् जातोदयं रोषं क्रोधं द्विगुणयन् समेधयन् गिरिकन्दरम् मन्दिरं वासगृहं तस्य मुखात् द्वारदेशात् सरभसं वेगेन विनिर्गत्य-(प्राद्रवदिति वक्ष्यमाणक्रियया वाक्यपूर्त्तिर्बोध्या) अयमेतदाशयः-भीमस्य गर्जितं निशम्यबकासुरो द्विगुणं कुप्यतिस्म, यतोऽसौ बलिपुरुषभारेण मन्दमागच्छतः शकटस्य विलम्बोपस्थित्या पूर्वत एव कुपित आसीत्तदेवमतिकुपितोऽसौकन्दराद्वाराद्‌बहिरेत्य वेगेनाधावदिति ॥

एवं को वाऽपराध्नोत्यमुमविगव्यन्बाहुमत्रेति घुष्यन् व्यक्तोरोरक्तरेखाकृतबिरुदजगद्धातुकत्वप्रशस्तिः।
क्रोशन्मर्त्याङ्गखादत्वरणपरिचलत्सृक्कलग्नास्तिदण्डस्थूले दंष्ट्रे दधानः पवनभुवमभि प्राद्रवद्यातुधानः ॥ 50 ॥

एवमिति। व्यक्ताभिः स्फुटदृश्याभिः उरसि वक्षोदेशे रक्तरेखाभिः रुधिरलेपधाराभिः कृतानि रचितानि विरुदानि विजयचिह्नानि यस्यास्तादृशी जगतो भूलोकस्य घातुकत्वेन वधेन प्रशस्तिः श्लाघा यस्य तादृशस्ततोक्तः, (उरसि कृतेन रुधिरलेपेन विजयचिह्नधारिणीं बुवनसंहारकत्वप्रशस्तिं बिभ्राणः) क्रोशतां कष्टवशेन रुदतां मर्त्यानां बलित्वेनागतानां मानवानामङ्गानां शरीरावयवकरपादादीनां खादने भक्षणे त्वरणेन शीघ्रतया परिचलतोः सृक्कणोरोष्ठप्रान्तयोः लग्नौ अस्थिदण्डाविव स्थूले विशालस्थूले दंष्ट्रे दन्तौ दधानः दारयन्, (भक्षणकाले रुदतां मानावानां शरीरावयवानाशु निगलन्, तदस्थिखण्डतुल्ये विशाले दंष्ट्रे कलयन्) अत्र मदीये वने अमुं सकलसंहारकतया प्रसिद्धं मदीयं बाहुम् अविगणयन् अनाद्रियमाणः (अस्मादप्यबिभ्यत्) एवम् उक्तप्रकारेण सिंहगर्जनादिना को वाऽपराध्नोति स्वापराधं प्रकाशयतीति घुष्यन् सचीत्कारं ब्रुवन् यातुधानः, राक्षसो बकः पवनभुवं भीममभिलक्ष्यीकृत्य प्राद्रवत् धावतिस्म ॥ 50 ॥

निजभुजयुगलीनियन्त्रणाभिर्नियमितयत्नपरस्परावुभौ तौ।
निगडितनयनं निलिम्पपङ्क्तेर्निरवहतां निपुणं नियुद्धशिल्पम् ॥ 51 ॥

निजेति। तौ उभौ द्वौ भीमबकासुरौ निजाभ्यां स्वीयाभ्यां भुजयोर्हस्तयोर्युगलाभ्यां द्वयाभ्यां नियमितः निरुद्धप्रसरः यत्नः परप्रहारप्रयासः यस्य तादृशं परस्परम् इतरेतरं ययोस्तौ ततोक्तौ सन्तौ (परस्परं भुजबन्धेन व्यर्थीकृतपरस्परप्रहारचेष्टौ इत्यर्थः) निलिम्पपङ्क्तेः देवसङ्घस्य निगडितनयनम् आश्चर्यरसस्तिमितनेत्रम् (आश्चर्याधानेन देवानां नयनानि स्थिराणि कुर्वन्तावित्येवं तयोर्विशेषणं फलति) निपुणं प्रबलतरं नियुद्धशिल्पं युद्धकौशलं निरवहताम् कृतवन्तौ तयोर्भीषणं युद्धं साश्चर्या देवा अप्यपश्यन्नित्याशयः ॥ 51 ॥

ततः,-

पुत्रस्य वायोर्भुजदौर्ललित्यं बकं वने तत्र चिरं चरन्तम्।
निन्ये दशां कामपि {79}राक्षसस्त्रीनेत्राभ्रवर्षर्तुविलासयोग्याम् ॥ 52 ॥

ततः पुत्रस्येति। ततो युद्धकौशलप्रदर्शनानन्तरम् वायोः पुत्रस्य भीमस्य भुजयोदौर्ललित्यं दर्पः तत्र वने चरन्तं चिरात्तत्र स्वेच्छया भ्रमन्तं (चर-गतिभक्षणयोः) सत्त्वानि भुञ्जानंच राक्षसस्त्रियाम् निशाचरीणाम् नेत्राण्येवाभ्राणि मेघास्तेषां वर्षर्त्तोः वर्षाकालस्य यो विलासः धाराप्रवाहवृष्टिरूपः तद्योग्यां तदुचितां कामपि दशां निन्ये अवर्णनीयां स्थितिं प्रापयामासेत्याशयः। भीमभुजदर्पो राक्षसस्त्रीनेत्रमेघेषु वर्षर्त्तुमध्यवासयत्, ता अरुदन्, एतेन वकस्य मरणं पर्यायोक्तालङ्कारविषयः। अत्रोपजातिश्छन्दः ॥ 52 ॥

तं विकृष्य पुरसीम्नि निशीथे तत्क्षणात्कुणपमर्शनदोषम्।
मार्ष्टुकाम इव मारुतसूनुर्मातुरङ्घ्रिमुपसेवितुमागात् ॥ 53 ॥

तं विकृष्येति। मारुतसूनुः भीमः तं वकासुरम् (शवरूपम्) निशीथे रात्रौ पुरसीम्नि ग्रामस्य सीमायां समीपे विकृष्य आकृष्य नीत्वा तत्क्षणात् तत्काल एव कुणपमर्शनदोषम् राक्षसस्पर्शजनितं पापम् मार्ष्टुकामः प्रक्षालयितुमिच्छुरिव मातुः कुन्त्याः अङ्घ्रिम् चरणम् उपसेवितुम् वन्दितुमागात् आयातः, `न मातुर्दैवतं परम इति स्मरणान्मातृपादवन्दनायाः सकलपापापनोदकतया स्वकृतराक्षसशवस्पर्श जनितपापापनुनुत्सयेव भीमो मातरं नमस्कर्त्तुं तदैवायात इत्यर्थः। हेतूत्प्रेक्षाऽलङ्कारः। `राक्षसः कौणपः क्रव्यात् क्रव्यादोऽस्रप आसरः’ इति `पदङ्घ्रिश्चरणेऽस्त्रियाम्’ इति चामरः ॥ 53 ॥

आलोक्य यातुशवमेतदशेषपौरैरह्नोमुख परवशीक्रियते स्म चेतः।
आश्चर्यपूरपरिमेलनफेनिलाबिरानन्दसागरतरङ्गपरम्पराभिः ॥ 54 ॥

आलोक्येति। अहनोमुके प्रातःकाले अशेषपौरैः सर्वैर्नगरवासिभिः एतत् यातु शवम् राक्षसस्य बकस्य मृतशरीरम् आलोक्य दृष्ट्वा चेतः स्वहृदयम् आश्चर्यपूरस्य तरङ्गपरम्पराभिः हर्षाम्बुधिवीचिमालाभिः परवशीक्रियतेस्म अधीनतां नीयतेस्म तादृशस्य दुर्धर्षस्य बकाख्यराक्षसस्य मृतं शरीरं दृष्टवतां पौराणां चेतांसि साश्चर्या नन्दसागरे निमग्नानि जातानीति भावः ॥ 54 ॥

भवनमेत्य तदा गृहमेधिनः पवनजे प्रवणीकृतमूर्धनि।
प्रयुयुजे सममाशिषमक्षतैः प्रमुदितः पुरि तत्र महाजनः ॥ 55 ॥

भवनमेत्येति। तत्र पुरि तदा प्रातःकाले गृहमेधिनः पाण्डवातिथेयस्य गृहस्थस्य भवनम् तदा पाण्डवाधासभूतं गृहम् उपेत्य आगत्य प्रमुदितः दुरन्तदैत्यवधेन हृष्टः महाजनः तन्नगरवासि मुख्यजनः प्रवणीकृतमूर्धनि नम्रतया नतशिरसि पवनजे भीमे (विषये) अक्षतैः मङ्गलसूचकश्वेततण्डुलैः समम् सह आशिषः शुभेच्छाप्राकाशकवचांसि प्रयुयुजे प्रयुक्तवान्। दैत्यवधानन्तरं पुरमुख्या भीमस्य गृहमागत्य तमाशीर्भिरभ्यर्चयन्निति भावः ॥ 55 ॥

निशि जातु निकेतवेदिकाया{80} निकटे सुप्तिसुखं निषेव्य पार्थान्।
पथिकोऽपररात्रजागरूकः प्रबभाषे गिरमीदृशीं प्रसङ्गात् ॥ 56 ॥

निशीति। जातु कदाचित् पथिकः कश्चनाध्वनीनः निशि रात्रौ निकेतवेदिकायाः पाण्डवाध्युषितभवनप्राङ्गणवेदिकायाः निकटे समीपे सुप्तिसुखं निद्राजन्यमानन्दं निषेव्य उपभुज्य अपरराजागरूकः अरुणोदयबेलायां प्रबुद्धः सन् प्रसङ्गात् कथाप्रस्तावात् पार्थान् युधिष्ठिरान् पञ्चापि कुन्तीसुतान् ईदृशीम् वक्ष्यमाणलक्षणां गिरं बभाषे उपाच। कश्चित पान्थो निशि पाण्डवगृहवेदिकासमये सुखं सुप्त्वा प्रातरुत्थाय पाण्डवैः सह वार्त्तालापस्य प्रसङ्गेन तान् वक्ष्यमाणप्रकारेणोवाचेत्यर्थः। औपच्छन्दसिकं वृत्तम् ॥ 56 ॥

`पाञ्चालिकां {81}युवमनोरथसौधरत्नपाञ्चालिकां हृदि ममेति ममेति कृत्वा।
अद्य स्वयंवरमहाय नृपाः प्रयान्ति दूतैः समं द्रुपदभूपतिराजदानीम् ॥ 57 ॥

पाञ्चालिकामिति। युवमनोरथाः युवकानामभिलाषाः एव सौधानि भवनानि तेषां रत्नपाञ्चालिकाम् रत्ननिर्मितां पुत्तलिकाम् सर्वैर्युवभिरभिलाषविषयत्वेन मनसि नीताम् (सर्वेषां यूनां हृदयेषु भवनेषु रत्नप्रतिमाभावेन वसन्तीम्) पाञ्चालिकाम् द्रुपदात्मजाम् ममेति ममेयं स्यादिति ममेति ममेयं स्यादिति कृत्वा अद्य सम्प्रति नृपाः सर्वे भूपालाः दूतैः समं राज्ञामाह्वानाय द्रुपदप्रेषितैः दूतैः सहैव स्वयंवरमहाय स्वयंवररूपायोत्सवाय द्रुपदभूपतिराजधानीम् द्रुपदाख्यनृपतिपुरीम् प्रयान्ति। अद्य सर्वे राजानो द्रौपद्यास्तस्याः स्वयंवरे सङ्गन्तुं त्वरमाणाः सर्वाभ्यो दिशाभ्यः समायान्ति, या द्रौपदी सर्वेषां यूनां हृदि वसतीवेत्यर्थः। `पाञ्चलिका पुत्रिका स्याद् वस्त्रदन्तादिभिः कृता’ इत्यमरः। `सौधरत्नपाञ्चालिका’ इति केवलपरम्परितरूपकमलङ्कारः। वसन्ततिलकं वृत्तम्, तदन्यत्र लक्षितपूर्वम् ॥ 57 ॥

भोक्तुमन्नमपि सूपसमग्रं दोग्धुमप्यभिनवप्रसवा गाः।
{82}लप्स्यते द्विजगणोऽपि च तस्माद्वत्सलाद्‌दुहितुरुत्सवकाले ॥ 58 ॥

भोक्तुमिति। द्विजानां ब्राह्मणानां गणः समुदयः अपि भोक्तुम् सूपेन द्विदलेन समग्रं युतम् अन्नम् तण्डुलादि, दोग्धुम् अपि अभिनवप्रसवाः अचिरप्रसूताः गाः धेनूः, तस्मात् दानितया प्रथितात् द्रुपदात् नाम राज्ञः द्रुहितृवत्सलात् कन्यायां स्निह्यतो दुहितुः सुतायाः द्रौपद्याः उत्सवकाले स्वयंवरमहावसरे लप्स्यते प्राप्स्यति, स हि राजा कन्यावत्सलः,अतस्तत्स्वयंवरावसरे तन्निर्विघ्नतासम्पत्तयेऽवश्यं ब्राह्मणेभ्यो भोक्तुं समूपमन्नं गाश्च दोग्धुं प्रदास्यति, एतेनास्माकं ब्राह्मणानामपि तत्र गमनं न निष्फलमित्युक्तम् ॥ 58 ॥

न हि तत्र भवेदपार्थता विजयः सिद्धिमुपैष्यति स्पुटम्।
युगपत्सुखमस्तु वो महद्रुतमागच्छत तन्महौजसः!’ ॥ 59 ॥

न हि तत्रेति। तत्र द्रौपदीस्वयंवरे अपार्थता गमनवैयर्थ्यं न हि भवेत्, विजयः अस्माकं प्रस्थानम् साफल्यम् सूपोपहितान्तलाभात्, इति स्पुटं स्पष्टम्, अतः हे महौजसः प्रकृष्टतेजःशालिनः, वः युष्माकं पञ्चानामपि युगपद् एकदैव महत्सुखं प्रभूतान्नागवादिलाभतः अस्तु जायताम्, (तस्मात् यूयं) द्रुतम् शीघ्रम् आगच्छतेति अभिधार्थः। तत्र द्रौपदीस्वयंवरे अपार्थता-पार्थस्य विरहः न हि भवेत्, विजयः-अर्जुनः, सिद्धिम्-सफलतां मत्स्ययन्त्रभेदनेन द्रौपदीवरणरूपाम्, वः युष्माकं युगपन्महत्सुखम्-पञ्चानामपि द्रौपद्या परिनयरूपम् इत्यप्यर्थोऽनुरणाभोऽवभासते इति बोध्यम् ॥ 59 ॥

इति वाचमुपश्रुतिं द्विजातेर्हृदि कृत्वा सुधयेव निर्मितां ताम्।
पथि {83}भूसुरसंघमद्यभाजः प्रति पाञ्चालपुरं प्रतस्थिरे ते ॥ 60 ॥

इति वाचमिति। इति उक्तरूपाम् उपश्रुतिम् भविष्यतोऽर्थस्य सूचयित्रीम् सुधयेव अमृतेनेव निर्मिताम् ताम् अनुभवैकवेद्यस्वादाम् द्विजातेः ब्राह्मणस्य वाचं वाणीम् हृदि कृत्वा अभ्युपेत्य (मत्वा) ते पाण्डवाः पथि मार्गे भूसुरसङ्घमध्यभाजः ब्राह्मणसमूहमध्यगताः सन्तः पाञ्चालपुरं द्रुपदनगरं प्रति प्रतिस्थिरे चलिताः। रात्रिचरमयामोक्ततया सत्यमिदं ब्राह्मणवचनं भवेदिति मनसि कृत्वा ब्राह्मणैः सह पाण्डवा द्रुपदनगरं प्रति चेलुरित्याशयः। उपश्रुतिपरिभाषा यथा हारावल्याम्-नक्तं निर्गत्य यत्किञ्चित् शुभासुभकरं वचः। श्रूयते तद्विदुर्धीरा दैवप्रश्नमुपश्रुतिम्’ इति ॥ 60 ॥

ते {84}पुनरप्यनेकदिननीतजनपदवनसीमानः पथि कृतोदयेन भगवता पराशरदायादेन `{85}जतुभवनपरिच्यवनेन वो नवो हर्षः पार्षतस्य समुन्मिसति’ इति गिरानुगृहीताः साक्षात्प्ररोहता भुजप्रतापानलेनेव {86}फल्गुनकरवेल्लेतेन महताऽलाततेजसा{87} निशि नितान्तसीमन्तितसंतमसया पदव्या त्रिविष्टपतटिनीं समया प्राविक्षन्{89}।

ते पुनरपीति। ते पाण्डवाः अनेकैः दिनैः बहुभिर्वासरैः नीताः अतिक्रान्ता जानपदस्य वनस्य च सीमानोऽवधयो यैस्ते तथोक्ताः सन्तः पुनरपि भूयोऽपि पथि कृतोदयेन मार्गे प्रकाशितस्वस्वरूपेण (पूर्वं शालिहोत्रमुनिसरस्तटे व्यासस्य मिलितत्वेनेह पुनरुदयः प्रोक्तः) पराशरदायादेन पराशरात्मजेन व्यासेन-वः युष्माकं पाण्डवानां जतुभवनात् लाक्षागृहात् पावकदह्यमानात् परिच्यवनेन निर्विघ्नं निर्गमनेन पार्षतस्य द्रुपदस्य नवो नूतनो विलक्षणो हर्षः आनन्दः समुन्मिषति जायते, द्रुपदो भवतां जतुगृहे दह्यमानेऽपि जीवितत्वं निशम्य विलक्षणमानन्दमनुभवतीत्यर्थः, इति एवंभूतया गिरा वाचा अनुगृहीताः अनुकम्पिताः सन्तः साक्षात् तुल्यकालं प्ररोहता संजायमानेन भुजप्रतापानलेन बाहुपराक्रमतेजसा इव फल्गुन-करवेल्लितेन अर्जुनबाहुद्वये भ्रमता महता दूरगामिना अलाततेजसा उल्मुकतेजसा निशि रात्रौ नितान्तं साधु सीमन्तितं द्विधा विभज्य पार्श्वयोरवस्थापितं सन्तमसं गाढान्धकारो यत्र तादृश्या पदव्या मार्गेण त्रिविष्टपतटिनीं गङ्गां समया समीपे प्राविक्षन् प्रविष्टाः। चलितेषु तेषु बहुभिर्दिवसैर्जनपदवनसीमानमतिक्रान्तवत्सु च पुनरपि व्यासः समुपस्थाय तेषां जतुगृहाद्रक्षया द्रुपदस्य महान्तं हर्षमावेदितवाननन्तरं च तेऽर्जुनकरधृतालाततेजसा दूरीकृताध्ववर्त्तितमसो गङ्गातटमवापुरित्यर्थः। `दायादौ सुतबान्धवौ’ `अलातमुल्मुकं च’ इति विश्वः। `त्रिविष्टपतिटिनीं समया’ इत्यत्र `अभितः परितः समया निकषा हाप्रतियोगेऽपी’ति द्वितीया ॥

तत्र खलु,-

इन्दीवरात्प्रतितरंगमनुप्रविष्टैर्बिम्बैरिवाब्धिदुहुतुस्तरुणीरदम्बैः।
क्रीडन्समं पयसि चित्ररथो विलोक्य पार्थान्रुरोध कुपितः प्रधनं चिकीर्षुः ॥ 61 ॥

तत्र खलु=तस्मिन् गङ्गातटे।

इन्दीवरादिति। इन्दीवरात् लक्ष्म्या आवासभूतात् नीलकमलात् प्रतितरङ्गम् प्रतिवीचि अनुप्रविष्टैः आयातैः अब्धिदुहितुः समुद्रतनयायाः बिम्बैः प्रतिबिम्बैरिव तरुणीकदम्बैः युवतिभिः समं सह पयसि क्रीडन् जलविहारमनुभवन् चित्ररथः पार्थान् (तत्र रहः केलिस्थाने आगतान्) पाण्डवान् विलोक्य प्रधनं चिकीर्षुः चित्ररथो नाम यक्षः तान् जिघांसुः (पार्थान्) रुरोध निवारितवान् कथमत्रायासीति निवार्य स्थित इत्यर्थः। गङ्गायाः पयसि स्थितानां कमलानां मध्ये वसन्त्याः लक्ष्म्याः प्रतिबिम्बानीव, स्त्रियो बहिर्भूताः चित्ररथस्य रमण्य आसन्, ताभिश्च सह जलकेलिप्रवृत्तश्चित्ररथः पार्थानागच्छतस्तत्र वीक्ष्य स्वरहस्यविघ्नमुत्प्रेक्षमाणस्तान् हन्तुमिच्छया रुरोधेति भावः। पूर्वार्धे स्वरूपोत्प्रेक्षा, उत्तरार्धे काव्यलिङ्गञ्चालङ्कारः ॥

अस्त्रमात्मसमनामदैवतं संप्रयुज्य समरे धनंजयः।
तत्र तस्य रथमग्रवर्तिनं जातुषालयसहायमातनोत् ॥ 62 ॥

अस्त्रमिति। धनञ्जयः अर्जुनः आत्मसमनामदैवतम् स्वसमाननामकम् स्वनामसमदैवतञ्च धनञ्जयनामकम् धनञ्जयदैवतं च, आग्नेयास्त्रमित्यर्थः समरे चित्ररथेन सह युद्धे सम्प्रयुज्य व्यवहृत्य तत्र युद्धे तस्य चित्ररथस्य रथं स्यन्दनम् जातुषालयस्य दग्धपूर्वस्य लाक्षागृहस्य सहायं सखायम् सदृशम् आतनोत् कृतवान्। अर्जुनस्तत्र युद्धे चित्ररथस्य यानं धनञ्जयास्त्रेण लाक्षागृहमिव दातितवानिति भावः। (`झनञ्जयोऽर्जुने वह्नौ’ इति विश्वः) ॥ 62 ॥

गन्धर्वाणां पत्युर्गर्वजुषः सौरसैन्धवे तस्मिन्।
पाथसि भङ्गः शिशिरो रोधसि भङ्गस्तु तापहेतुरभूत्॥ 63 ॥

गन्धर्वाणामिति। गर्वजुषः अहङ्कारशालिनः गन्धर्वाणां पत्युर्गन्धर्वराजस्य चित्ररथस्य तस्मिन् सुरसिन्धोः सङ्गाया इदम् सौरसैन्धवं तत्र सौरसैन्धवे गाङ्गे पाथसि जले भङ्गः तरङ्गः शिशिरः शीतलः सुखावहः अभूत्, परन्तु रोधसि तस्या एव गङ्गायास्तटे भङ्गः अर्जुनकृतपराजयः तापहेतुः सन्तापकरः अभूत् अजायत। अत्रैकस्यैव भङ्गशब्दस्य तरङ्गपराभवो भयार्थकतया चमत्कारः, जले भङ्गः शीतलतया सुखावहस्तटे भङ्गस्तापहेतुरिति भावः। गीतिरार्याभेदो वृत्तम-`आर्या प्रथमदलोक्तं यदि कथमपि लक्षणं भवेदुभयोः। दलयोः कृतर्यात शोभां तां गीतिं गीतवान् भुजङ्गेशः’ इति ॥ 63 ॥

सख्यस्य लाभात्सपदि प्रहृष्यन्कुशीलवेन्द्रः कुरुनन्दनानाम्।
प्रादर्शयत्स्वां प्रथमं विनीति पश्चादमीषां पदवीं च रम्याम् ॥ 64 ॥

सख्यस्येति। सपदि समये तस्मिन् कुशीलवानां गानदक्षाणां गन्धर्वाणामिन्द्रो राजा गन्धर्वराजः चित्ररथः सख्यस्य पाण्डवैः सह मैत्र्याः लाभात् प्रहृष्यन् आनन्दमनुभवन्सन् प्रथमम् आदौ कुरुनन्दनानां युधिष्ठिरादीनां पञ्चानां पाण्डवानाम् (पुरत इति शेषः) रम्याम् रमणीयां स्वां निनीतिं विनयं नम्रताम् विशिष्टां नीतिं पुरोहितेन सह राज्ञा गन्तव्यमित्युपदेशरूपम्, पश्चात् विनीतिप्रदर्शनानन्तरम् अमीषां पाण्डवानां रम्यां स्वल्पकष्टां पदवीं पन्थानं च प्रादर्शयत् दर्शितवान्। उपजातिर्वृत्तम् ॥ 64 ॥

धर्मभूरथ सहोदरैः समं धौम्यमध्वनि समीक्ष्य विश्रुतम्।
प्राणिनामयमहिंसकोऽपि सन्पादपीडनममुष्य क्लृप्तवान् ॥ 65 ॥

धर्मभूरिति। अथ मार्गद्वये चित्ररथेन प्रदर्शिते सति धर्मभूः धर्मसुतो युधिष्ठिरः विश्रुतं ज्ञानविज्ञानसम्पन्नतया प्रख्यातं धौम्यं नाम ब्राह्मणम् अध्वनि मार्गे समीक्ष्य विलोक्य प्राणिनां सकलसत्त्वानाम् अहिंसकः अमारकः अनुपद्रावकः अपि अयम् युधिष्ठिरः सोदरैः समम् भ्रातृभिः भीमादिभिः सह अस्य धौम्यस्य पादपीडनं (चरणपीडाम्) पादवन्दनं च क्लृप्तवान् विहितवान्। अत्र यः प्राणिमात्रस्यानुपद्रावकः स कथं मुनेः पादौ पीडयेदिति विरोध आपातप्रत्येयः, पादपीडनशब्दस्य प्रणामपरत्वेन तत्‌परिहारः। विरोधाभासोऽलङ्कारः। रथोद्धतावृत्तम् ॥ 65 ॥

यथाऽऽतिथ्यविधौ प्रीतः स पुरस्कुरुते स्म तान्।
तथाऽध्वगमने तेऽपि तं प्रश्रयवसंवदाः ॥ 66 ॥

यथाऽऽतिथ्येति। सः धौम्यः प्रीतः पुरोहितपदप्रापणेन सन्तुष्टः आतिथ्यविधौ अतिथिसत्कारकर्मणि यथा तान् पाण्डवान् पुरस्कुरुतेस्म सममानयत्, प्रश्रयवशंवदाः नम्रतावशीभूतास्ते पाण्डवा अपि तथा तं धौम्यं नाममुनिम् अध्वगमने मार्गचलने पुरस्कुर्वतेस्मेति वचनविपरिणामेनान्वयः। धौम्यं पुरोहितपदे प्रतिष्ठाप्य तत्कृतातिथ्यसत्कृता इमे पाण्डवास्तं धौम्यमग्रे कृत्वा पथि चेलुरित्यर्थः ॥ 66 ॥

धौम्यस्य सुधामधुरिघौरेयीभिः स्वयंवरकथाभिः।
द्रुपदपुरसरणिरेषां द्वित्राण्यभवत्पदानीव ॥ 67 ॥

धौम्यस्येति। सुधायाः अमृतस्य मधुरिमा माधुर्यं तस्य धौरेयीभिः धुरन्धराभिः धौम्यस्य मुनेः स्वयंवरकथाभिः स्वयंवरविषयकवार्त्ताभिः एषां पाण्डवानां द्रुपदपुरसरणिः द्रुपदराजधानीमार्गः द्वित्राणि पदानि इव अभवत्। धौम्येन प्रस्तुताभिरतिमधुरसरसाभिः स्वयंवरकथाभिराकृष्टचित्ता इमे पाण्डवाः पथि श्रमं नान्वभूवन्नित्याशयः। आर्यावृत्तम् `लक्ष्मैतत्सप्तगणाः गोपेता भवति नेह विषमेजः। षष्टोऽयं सलघू वा प्रथमेऽर्धे नियतमार्यायाः। षष्ठे द्वितीयलान्ले परके मुखलाच्च सयतिपदनियमः। चरमेऽर्धे पञ्चमके तस्मादिह भवति षष्ठो लः।’ इति तल्ल्क्षणम् ॥ 67 ॥

भूदेवेष्वतिनिबिडेषु मध्यभाजां पञ्चानामपि युगपत्पृथासुतानाम्।
पुस्फोर द्रुपदपुरं पुरःप्रदेशे वक्त्राब्जे सरभसमक्षि दक्षिणं च ॥ 68 ॥

भूदेवेष्विति। अतिनिबिडेषु घनेषु बहुतयाऽत्यनतव्याप्तेषु भूदेवेषु ब्राह्मणेषु मध्यभाजां मध्यगतानाम् पञ्चानामपि पृथासुतानां कुन्तीतनयानां युधिष्ठिरादीनाम् पुरःप्रदेशे अग्रे युगपत् सहैव तुल्यकालम् द्रुपदपुरम् द्रुपदनृपराजधानी पुस्फोर प्रकटीबभूव, पञ्चानामपि तेषां वक्त्राब्जेषु मुखकमलेषु दक्षिणं वामेतरत् नयनं च सरभसं पुस्फोर चचाल, ते सहैव द्रुपदराजधानीं ददृशुः, `तेषां दक्षिणनेत्राण्यपि सुभव्यञ्जकानि सहैवास्फुरन्निति भावः, अत्र द्रुपदपुरदृगविषयीभावाक्षिचलनयोः समानपदोपात्तयोर्यौगपद्यात्समुच्चयो नामालङ्कारः। प्रहर्षिणीवृत्तं, तल्लक्षणं यथा-`त्र्याशाभिर्मनजरगाः प्रहर्षिणीयम्’ इति ॥ 68 ॥

कुमारिकाया द्रुपदस्य भूपतेः कुचोपमाद्रव्यमिवाभिवीक्षितुम्।
कुरूद्वहास्तत्र पुरे कुतूहलात्कुलालगेहं प्रथमं समाविशन् ॥ 69 ॥

कुमारिकाया इति। द्रुपदस्य भूपतेः राज्ञः कुमारिकायाः स्वयंवराया द्रौपद्याः कुचोपमाद्रव्यम् स्तनोपमानपदार्थं घटम् अभिवीक्षितुमिव द्रष्टुम् इव ते कुरूद्वहाः कुरुवंशश्रेष्ठाः पाण्डवाः तत्र पुरे द्रुपदनगरे कुतूहलात् घटदर्शनोत्कण्ठापारतन्त्र्यात् प्रथमम् प्राक् कुलालगेहं समाविशन् प्रविष्टवन्तः, तत्रैव द्रुपदपुत्रीस्तनोपमानभूतघटदर्शनस्यायत्नसम्पाद्यतया प्राक्तत्रैव जग्मुरिति भावः। कौतूहलवशेन द्रौपदीदर्शनादपि प्राक् तत्कुचोपमानभूतं घटमेव द्रष्टुमचेष्टन्तेति बोध्यम्। अभिवीक्षितुमिवेति हेतूत्प्रेक्षाऽलङ्कारः ॥ 69 ॥

तामागमन्नथ पुरीं शतशः ससैन्याः स्मारं युगोदयमिवाद्भुतमावहन्तः।
भूपाः स्तुता भुजमुदस्य पठद्भिरग्रे पद्यं निबद्धबिरुदं पटुबन्दिवृन्दैः ॥ 70 ॥

तामागमन्निति। अथ एतदनन्तरम् अद्‌भुतम् आश्चर्यकरम् स्मारं कामसम्बन्धिनम् युगोदयम् कालप्रवृत्तिम् (यत्र धर्मयुगोदयस्तत्र सर्वे धर्मपरा एवं यत्र कामयुगोदयस्तत्र सर्वे कामप्रवृत्ताः सकामाः, तथा च) (आश्चर्यकरं कामयुगम्) आवहन्तः दधानाः प्रवर्त्तयन्तो वा कामातुरा इति भावाः ससैन्याः सेनासहिताः दक्षिणं सव्येतरं भुजं बाहुम् उदस्य उत्थाप्य निबद्धविरुदं यशोराशिमदिकृत्य प्रबद्धं राज्ञां दानस्य शौर्यस्य च वर्णनाय ग्रथितं पद्यम् अग्रे तेषां पुरः पठद्भिः गायद्भिः पटुवन्दिवृन्दैः चतुरवैतालिकसमुदयैः स्तुताः शतशः शतम् भूपाः राजानः तां पुरोम् द्रुपदनगरीम् आगमन् आयाताः। अथ बहवो भूताः सेनाभिः सह तां पुरमुपेता यैः सैन्यानि बभूवुः, ये वन्दिभिः स्तूयमाना आसन्, ये चाश्चर्यजनकरूपेण कामयुताश्चासन् इत्यर्थः। वसन्ततिलकं वृत्तम् ॥ 70 ॥

द्यावाभूमी निरुन्धन् यदुबलरजसां श्रेणिभिः सीरपाणिर्वेगादागात्स वीरः स्वविनयगुरुणा शौरिणाऽन्वीयमानः।
आहारश्चायुधं च द्विषदवमतये येन संसेव्यमाने ते द्वे हालाहलत्वं रणभूवि वहतो नामतः कृत्यश्च ॥ 71 ॥

द्यावाभूमी इति। यदुबलरजसां यादवसैन्योद्धतधूलीनां श्रेणिभिः समुदयैः द्यावाभूमि आकाशमवनीं च निरुन्धन् व्याप्नुवन् वीरः शूरः सीरपाणिः बलरामः स्वविनयगुरुणा स्वीयनम्रताख्यगुणेन श्रेष्ठत्वं धारयता अतिविनीतेन शौरिणा श्रीकृष्णेन अन्वीयमानः युक्तः सन् वेगात् द्रुतम् द्रुपदपुरमायातः। येन सीरपाणिना द्विषदवमतये शत्रुपराभवाय संसेव्यमाने भक्षणद्वारा धारणविधया च स्वीक्रियमाणे आहारः भक्ष्यं हाला, आयुधमस्त्रं हलं च द्वे अपि रणभुवि युद्धस्थले नामतः कृत्यतश्च हालाहलत्वं विषरूपत्वं वहतः धारयतः। कृष्णानुतो बलरामो यो हालां पिबति हलं च धारयति, ये द्वे अपि मिलती सती युद्धे शत्रूणां कृते नाम्ना हालाहलभावं कर्मणापि विषरूपत्वं धारयत इत्यर्थः। `सुरा हलिप्रिया हाला’ `कृषको लाङ्गलं हलम्’ `हालाहलः कालकूटो गरलं विषमित्यपि’ इति सर्वत्राभिदानरत्नमाला। स्रग्धरावृत्तम्, म्रभ्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्त्तितेयम्’ इति च तल्लक्षणम् ॥ 71 ॥

बिभ्राणो {90}मणिदीप्रकुण्डलभरं कर्णत्रयं पार्श्वयोरग्रे चातिमनोज्ञरूपमखिलेष्वङ्गेषु दुर्योधन।
सेनादुन्दुभिनादतुन्दिलनभाः स्वस्यानुबिम्बायितैरासीदत्स नवाधिकैः परिवृतप्रान्तो नवत्यानुजैः ॥ 72 ॥

बिभ्राण इति। मणिभिर्दीप्रामि खचितैः रत्नैः प्रकाशशालीनि यानि कुण्डलानि तेषां भरः समुदयो यत्र तादृशम् (कर्णयोः कुण्डलानां रत्नखचितत्वं, राधेयस्य कर्मस्य तु रविप्रदत्ते कुण्डले स्वत एव भास्वरवर्णे, उभयत्रापि मणिभिर्द्रीप्रत्वं मणिवद्दीप्रत्वं चेति समासभेदेनान्वयः) कर्णत्रयं श्रुती द्वे एकं च राधेयम् पार्श्वयो अग्रे च (पार्श्वयोः श्रुती अग्रे चातिप्रीतिपात्रं कर्णः) अखिलेषु च अङ्गेषु शरीरावयवेषु अतिमनोज्ञम् अत्यन्तसुन्दरं रूपं सौन्दर्यं बिभ्राणः झारयन्, सेनानां दुन्दुभिनादेन तुन्दिलं पूरितं नभो व्योम येन तादृशः, स्वस्य अनुबिम्बायितैः प्रतिबिम्बवत् प्रतीयमानैः नवाधिकैः नवत्या नवनवत्या अनुजैः कनिष्ठभ्रातृभिः परिवृतप्रान्तः वेष्टितः सः प्रसिद्धः दुर्योधनः प्रत्यासीदत् समायातः। द्रुपदपुरमायात इत्यर्थः ॥ 72 ॥

तदनु परितः कीर्णैः पुष्पैस्तरंगितसौरभं मणिमयमहामञ्चारूढावनीन्द्रपरम्परम्।
अगरुजनितैर्धूपैरालिह्यमानवितानकं स्वनितपटहं प्रापुः पार्थाः स्वयंवरमण्डपम् ॥ 73 ॥

तदन्विति। तदनु वर्णितराजागमनात्परतः पार्थाः युधिष्ठिरादयः कुन्तीन्दनाः परितः कीर्णैः समन्ततोऽलङ्कारादिषूपयुक्ततया व्याप्तैः पुष्पैस्तरङ्गितसौरभं समेदितसुगन्धं, मणिमयमहामञ्चेषु रत्ननिर्मितविशालसिंहासनेषु आरूढाः स्थिताः अवनीन्द्रपरम्पराः राजगणा यत्र तादृशम्, अगुरुजनितैः अगुरूत्थैः धूपैः सुगन्धद्रव्यधूमैः आलिह्यमानवितानकम् व्याप्तपटवितानम् स्वनितपटहं वाद्यमानवाद्यम् स्वयंवरमण्डपम् स्वयंवरार्थं कल्पितं सभास्थानं प्रापुः आगताः। सर्वेषु राजसु समायातेषु व्याकीर्णसुमनःसुगन्धियुक्तं मणिमयासनोपविष्टराजकं धूपव्याप्तवितानञ्च स्वयवरमण्डपं पार्थाः समायाता इत्यर्थः। हरिणीवृत्तं, तल्लक्षणं यथा-`रसयुगं ह्यैर्न्सौ म्रौस्लो गोपदा हरिणी तदा’ ॥ 73 ॥

जाग्रत्सोमककीर्तिसोमनिमिषत्पद्मावकाशा{91}त्ययप्राप्तेन्दीवरनित्यवासघटितश्यामप्रभा श्रीरिव।
पाञ्चालस्य सुता ततः परिजनैः सार्धं पुरः पश्यतां राज्ञां बुद्धिमिवाधिरुह्य शिबिकां रङ्गस्थलीं प्राविशत् ॥ 74 ॥

जाग्रत्सोमकेति। जाग्रत् सदा दीप्यमानः यः सोमकानां पाञ्चालानां कीर्त्तिसोमो यशश्चन्द्रः तेन निमिषद्भिः सङ्कुचद्भिः पद्मैः कमलैः अवकाशस्य ससुखनिवासस्य अत्ययेन नाशेन प्राप्तः अगत्याऽङ्गीकृतः इन्दीवरेषु नीलकमलेषु नित्यवासः सदास्तितिः तेन घटिता जनिता श्यामा प्रभा कान्तिर्यस्यास्तादृशी श्रीः लक्ष्मीरिव पाञ्चालस्य द्रुपदराजस्य सुता कन्या द्रौपदी परिजनैः सखीभिः सार्धम् पुरः अग्रे पश्यतां दत्तदृष्टीनां राज्ञां बुद्धिमिव शिबिकां नरवाह्यं यानमारुह्य रङ्गस्थलीं सभामण्डपं प्राविशत् आगता। पाञ्चालानां निस्तन्द्रेण यशश्चन्द्रेण सर्वाणि कमलानि सङ्कुचितानि, तेन लक्ष्म्या वासस्थानानि नष्टानि, अतः सा केवले नीलकमले सततवासेन श्यामतां प्राप्ता, (सर्वेषु कमलेषु सत्सु तु सर्वत्रवासेन तद्रूपं स्वच्छं तिष्टतिस्म) तादृशी श्रीरिवेयं राजसुता राज्ञां बुद्धीरिवारुह्य शिबिकां स्वयंवरमण्डपमापदित्यर्थः, शार्दूलविक्रीडितं वृत्तम् ॥ 74 ॥

द्रौपदीमुखशशिद्युतिसंपत्कौमुदीमहति रङ्गतटाके।
पक्ष्मचक्रयुगलं नृपतीनां तत्क्षणं विजघटे बहुदूरम् ॥ 75 ॥

द्रौपदीति। तत्क्षणं द्रौपद्याः स्वयंवरमण्डपे प्रवेशकाले रङ्गः सभामण्डप एव तटाकः जलाशयस्तत्र द्रौपद्या मुखमेव शशी चन्द्रस्तस्य या द्युतिसम्पत् कान्तिसमूहः सैव कौमुदी चन्द्रिका तया महति सुन्दरे मनोज्ञे सति (द्रौपद्याः मुखशशिनः प्रभया कौमुद्या सभामण्डपे प्रकाशिते सति) नृपतीनां राज्ञां पक्ष्मचक्रयुगलं पक्ष्मरूपं चक्रवाकयुगं बहुदूरं विजघटे वियुक्तमभूत्, सर्वेऽपि राजानो निर्निमेषदृष्ट्या तामपस्यन्नित्यर्थः। चन्द्रिकायां चक्रवाका विघटन्ते, द्रौपदीरूपकान्तिचन्द्रिकायां राज्ञमक्षिपक्ष्मरूपं चक्रवाकयुगलं विघटितं, सर्वे निर्निमेषा अभूवन्नित्यर्थः। सावयवं रूपकमलङ्कारः ॥ 75 ॥

तां पश्यतः सदति तस्य महीसुराणां वामेतरे महनि वासवनन्दनस्य।
अन्तर्बलस्य सपदि प्रकटीबुभूषोरुद्वल्गनं किल भुजे स्फुरणं बभूव ॥ 76 ॥

तां पश्यत इति। महीसुराणां ब्राह्मणानां सदसि मण्डले (स्थित्वा) तां द्रुपदपुत्रीं पश्यतः साक्षात्कुर्वतः तस्य वासवनन्दनस्य अर्जुनस्य महती श्लाघनीये वामतरे दक्षिणे भुजे बाहौ सपदि तत्काले प्रकटीबुभूषोः प्रकाशमासादयितुमिच्छतः अन्तर्बलस्य सारवत्तायाः उद्वल्गनम् सञ्चरणं नाम स्फुरणं सञ्चलनं बभूव। ब्राह्मणगोष्ठ्यां स्थितोऽर्जुनो यदा द्रौपदीमौक्षत तदा तस्य दक्षिणोः बाहुः स्फुरतिस्म, मन्ये तदीयमन्तर्बलं प्रकाशमासादयितुमन्तर्व्यापारमिव व्यधत्तेति। उत्प्रेक्षा स्फुटाः। `दक्षिणाक्ष्णिपरिस्पन्दः दक्षिणस्य भुजस्य च। हृदयस्य प्रसादश्च सद्यः संसिद्धिसूचकाः’ इति शाकुनाः ॥ 76 ॥

तावत्सरभसमुपेत्य{92} साक्षादादेष्टुमनाः प्रद्युम्न इव धृष्टद्युम्नः सायकैः साकं सकशमुपनीतं स्वयंवरदिदृक्षया सपरिवारं प्रत्यासन्नमिव पननगपति{93} चापं पुरस्कृत्य कन्यावलोकनधन्यान् राजन्यानेवमवादीत्-

तावदिति। तावत् तस्मिन्नवसरे सरभसम् झटिति उपेत्य समाभवनमध्यमाप्य साक्षात् सद्यः उपदेष्टुमनाः स्वाभिप्रायप्रकाशनेच्छुः प्रद्युम्नः कामदेव इव धृष्टद्युम्नः द्रुपदसुतः सायकैः साकम् बाणैः सह सकाशमुपनीतं समीपे स्थापितं स्वयंवरदिदृक्षया आगतं सपरिवारं सपरिजनं पन्नगपतिं शेषनागमिव चापं धनुः पुरस्कृत्य अग्रे स्थापयित्वा कन्यावलोकधन्यान् द्रौपदीदर्शनकृतार्थान् राजन्यान् क्षत्रियान् एवं वक्ष्यमाणप्रकारम् अवादीत् उक्तवान्। धृष्टद्युम्नः साक्षात्काम इव, (सायकाः सर्पा इव चापः सर्पराज इव,) सपरिवारं पन्नगराजमिव चापमग्रे निधाय राज्ञो वक्ष्यमाणं वचनमूचे इत्यर्थः ॥

`बाणेन संप्रति नृपा! दिवि लक्ष्यमेतत्तच्छायवद्भुवि निपातयितुं पटुर्यः।
मौर्वीमिमामिव स दक्षिण एव पाणौ कुर्यात्स्वसारमभिदर्श्य मम स्वसारम्’ ॥ 77 ॥

वाणेनेति। हे नृपाः, सम्प्रति अधुना यः कोऽपि दिवि आकाशे स्थितम् एतत् लक्ष्यं यन्त्ररूपम् तच्छायवत् (यन्त्रच्छायातुल्यम्) बाणेन भुवि निपातयितुं भ्रंशयितुं पटुः दक्षः स्यात्, सः दक्षिणे पाणौ हस्ते इमां मौर्वीम् इव स्वसारम् निजपराक्रमम् अभिदर्श्य प्रदर्श्य मम धृष्टद्युम्नस्य स्वसारं भगिनीम् द्रौपदीम् अपि दक्षिणे पाणौ कुर्यात् परिणयेतेत्यर्थः। अये राजानः, यथाऽऽकाशे दृश्यमानस्यास्य यन्त्रस्यच्छाया भुवि पतति, तथा यो वीरो बाणेन यन्त्रमिदं विद्‌ध्वा भुवि पातयितुं पटुर्भविष्यति, स दक्षिणे पाणौ यथा मौर्वीं धारयन् भविष्यति तथैव तेन हस्तेन द्रौपदीमपि पत्नीत्वेन ग्रहीष्यतीति वीर्यशुल्केयं राजपुत्री न कुलधनादिशुल्का, तत्प्रदर्शयत पराक्रममित्यर्थः। अत्र द्रौपदीमौर्व्योः पाणिग्रहणरूपैकधर्मसम्बन्धात् तुल्ययोगिताऽलङ्कारः ॥ 77 ॥

इत्थं प्रगल्भमुदिता रभसेन पीठादुत्थाय चापमुपसृत्य करेऽपि कृत्वा।
आत्मानमेव कृतयत्नमनैपुरार्तिं मौर्वीलतां न तु महीपतिपङ्क्तयस्ताः ॥ 78 ॥

इत्थमिति। इत्थं उक्तप्रकारेण प्रगल्भम् प्रौढभावेन उदिताः धृष्टद्युम्नेनोक्ताः ताः तत्र स्थिताः महीपतिपङ्क्तयः राजसङ्घाः रभसेन वेगेन पीठात् स्वासनात् उत्थाय चापमुपसृत्य आत्मानम् स्वम् एव आर्त्तिं पीडाम् अनैषुः प्रापयामासुः मौर्वीलतां धनुःप्रत्यञ्चां तु आर्त्तिं धनुष्कोटिं नानैषुः धनुस्तु नारोपितवत्य इत्यर्थः। राजान उत्थाय धनुःसमीपं गत्वा धनुरुत्थाप्यापि च तावता श्रमेणात्मानमेव पीडामलम्भयन्, मौर्वी तु तैः धनुष्कोटावारोपयितुं नाशक्यतेति भावः। `आर्त्तिः पीडा धनुष्कोठ्योः’ इति विश्वः। परिसंख्याऽलङ्कारः ॥ 78 ॥

दृष्ट्वाथ राजकमिदं {94}द्विजसंघमध्यान्निर्गत्य संसदि निलिम्पपतेः कुमारः।
चापे शरं करधृते समधत्त लज्जां भूपेषु भूरि कुतुकं {95}वसुधेन्द्रपुत्र्याम् ॥ 79 ॥

दृष्टाथेति। अथ निलिम्पपतेः देवेन्द्रस्य कुमारः पुत्रोऽर्जुनः इद धनुरारोपयितु मप्यशक्तं राजकं राजसमूहं दृष्ट्वा द्विजलङ्घमध्यात् ब्राह्मणमण्डलात् सदसि स्वयंवरमण्डपे निर्गत्य निःसृत्य करधृते हस्तेकृते चापे धनुषि शरं बाणं समधत्त योजितवान्, भूपेषुं तथाकर्त्तुमशक्तेषु राजसु भूरि प्रचुरमात्रया लज्जां समधत्त ताल्ँलज्जयामास, वसुधेन्द्रपुत्र्यां राजकुमार्यां द्रौपद्यां च कुतुकं कौतूहलं (किमयमेव मां वरीता? इत्येवं रूपम्) समधत्त प्रकटी कृतवान्। अत्रैकेन शरसन्धान व्यापारेण राजसुलज्जासन्धानस्य द्रौपद्यां कौतुकाधानस्य च व्यापारद्वयस्य वर्णनाद्विशेषालङ्कारः ॥ 79 ॥

वीरेण तेन विशिखेन विलूनमूलं चक्रभ्रमेण पतयालु तदा शरव्यम्।
अस्मिन्समाजवलये त्वयमेव दोष्मानित्याहिताभिनयलीलमिवाबभासे ॥ 80 ॥

वीरेणेति। तदा तेन वीरेण अर्जुनेन विशिखेन बाणद्वारा विलूनमूलम् छिन्नाधारं चक्रभ्रमेण चक्राकारभ्रमणेन चक्रवद् भ्रान्त्वा पतयालु पतत् शरव्यम् लक्ष्यत्वेन कल्पितं शरव्यं यन्त्रम्, अस्मिन् समाजवलये क्षत्रियब्राह्मणमण्डले तु अयम् अर्जुन एव दोष्मान् प्रशंसनीय बाहुशाली इति आहिताभिनयलीलम् धृतचेष्टा विशेषम् इव आबभासे रराज। यदार्जुनः स्वबाणेन लक्ष्यतया कल्पितस्य यन्त्रस्य मूलाधारमच्छैत्सीत् तदा चक्रवद्‌भ्रान्त्वा तद्यन्त्रमयतन्मन्ये तद्यन्त्रं नृत्याभिनयेनात्रसमाजेऽर्जुन एव प्रशंसनीय भुजशालीत्यूच इवेति भावः। `पातयालुस्तु पातुके’ इत्यमरः ॥ 80 ॥

तदानीम्-

निष्पतत्सुरकराञ्जलिपुञ्जात्पुष्पवर्षमभितः कुरुवीरम्।
मन्दहास इति विक्रमलक्ष्म्याः संदधे सकलचेतसि बुद्धिम् ॥ 81 ॥

निष्पतदिति। तदानीम् तस्मिन् यन्त्रे छिद्यमाने सुरकराञ्जलिपुञ्जात् देवकरपुरसमुदयात् कुरुवीरम् अर्जुनम् अभितः सर्वतः पतत् स्रसमानं पुष्पवर्षं सुमनोवृष्टिः विक्रमलक्ष्म्याः पराक्रमश्रियः मन्दहासः स्मितम् इति बुद्धिं ज्ञानं सकलचेतसि सर्वेषां हृदये संदधे जनयामास। अर्जुनेन छिन्ने मत्स्ययन्त्रे देवैः कीर्णं पुष्पन्तदभितः पपात, पतञ्च तत्पुष्पं पराक्रमश्रियोमन्दहासत्वेन लोकोऽबुध्यत सकल इत्यर्थः॥ स्वागता वृत्तम् ॥ 81 ॥

पाञ्चालपुत्रीप्रहिताः कटाक्षाः पाण्डोस्तनूजं परितो ववल्गुः।
माङ्गल्यमालाऽवतरेदिहेति माध्वीलिहः पूर्वमिवोपयाताः ॥ 82 ॥

पाञ्चालेति। पाण्डोस्तनूजं पुत्रमर्जुनं परितः समन्तात् पाञ्चाल पुत्री प्रहिताः द्रौपदी क्षिप्ताः कटाक्षत्रिभागदृक्पाताः-इह अत्रार्जुने माङ्गल्यमाला शुभाशंसिनी स्वयंवरस्रक अवतरेत् आगच्छेत् (इति संभाव्य) पूर्वं माङ्गल्यमालावतरणात् प्राक् उपयाताः आगताः माध्वीलिहो भ्रमराः इव ववल्गुः परिवारितवन्तः। अत्रार्जुने स्वयंवरग्रागागच्छेदिति संभाव्य पूर्वमेव पतिता भ्रमरावलीव द्रौपदीक्षिप्त कटाक्षवली सर्वतोऽर्जुनं पर्यवेष्टयन्नित्यर्थः। उत्प्रेक्षाषऽलङ्कारः ॥ 82 ॥

जननान्तरनेत्रवारिसृष्टत्रिपथाहेमपयोजगुम्फितेव।
बलवैरिभुवस्तयाधिकण्ठं वरणे चम्पकमालिका वितेने॥ 83 ॥

जननान्तरेति। तया द्रौपद्या जननान्तरे पूर्वस्मिन् जन्मनि नेत्रवारिभिः अश्रुभिः सृष्टानि रचितानि यानि त्रिपथाहेमपयोजानि गङ्गासुवर्णकमलानि तैः गुम्फिता ग्रथिता इव चम्पकमालिका चम्पकपुष्पस्रक् वरणे पतित्वेन वरणार्थम् बलवैरिणः शक्राद्‌भूरुत्पत्तिर्यस्य तस्यार्जुनस्य अधिकण्ठं कण्ठे वितेने न्यस्ता। तदा द्रौपदी पार्थं पतित्वे वरीतुमात्मनोहस्ते स्थितां चम्पकमालां तस्य कण्ठे निहितवती, पीतवर्णा सा चम्पकमाला द्रौपद्याः पूर्वजन्मनि तयाऽश्रुभिर्गङ्गापयसि सृष्टैः कनक कमलैर्ग्रथितेव प्रतीयतेस्मेत्यर्थः। पुरा जन्मनि नालायनी (यात्रजन्मनि द्रौपदी) पर्यर्थं तपस्यन्ती तुष्टेन शिवेन महेन्द्राह्वानाय प्रेरिता सतीन्द्रागमने विलम्बेन गङ्गापयसि निजाश्रूणि विसृज्य तैरश्रुभिः कनककमलानि जनयामासेति महाभारतीया कथात्र ध्यातव्या ॥ 83 ॥

तदनु स महापीराग्रेसरः समग्रगुणशेखरितां नरपतिसुतामिव शरासनलतामुद्वहन्राज्ञां बलमवज्ञाय सभाङ्गणात्क्षणान्निश्चक्राम{96}।

तदन्विति। तदनु द्रौपद्या कण्ठे मालायामासंञ्जितायाम् महावीराणाम् शूराणामग्रेसरः प्रथमः सोऽर्जुनः समग्रगुणैः सौन्दर्य चारित्रादिभिः शेखरिताम् भूषिताम् (समग्रेण अखण्डेन गुणेन मौर्व्या च शेखरिताम् सनाथांचेति धनुर्लता पक्षे) नरपति सुताम् राजपुत्रीम् द्रौपदीम् इव शरासन लतां चापवल्लीम् उद्वहन् धारयन् राज्ञां क्षत्रियाणां बलं समार्थ्यं सैन्यञ्च अवज्ञाय तिरस्कृत्य किममी करिष्यन्तीति तानविगणयन् इव सभाङ्गणात् स्वयंवरमण्डपात् क्षणात् तत्काल एव निश्चक्राम निरयासीत्।

तदात्व {97}एव कलु खलोऽयमखिलानस्मानतिस्मयेन विस्मरन्कस्मैचिद्‌दुहितरं विप्राय प्रायञ्छदिति द्रुतं द्रुपदाय द्रोहमुन्निद्रयतः कतिचन राजन्याञ्जान्याभिमुखान्प्रति सुलबोन्मेषेण{98} रोषेण, सरभसं भुजोन्नीतैरुपवीतैः कण्ठमावेष्ट्य ममायं यष्टेर्ममायं विष्टरस्य लक्ष्यमिति {99}वचनेन चातिचापलं कुर्वाणान्धरणिगीर्वाणान् भवतां पुनराशीरेव जयराशीकरणायालमिति सस्मितं, निवर्तयन्नमर्त्यपतिकुमारो{100} युधि समारोपिधनुर्गुणनिरर्गलनिर्गलितेन शरनिकरेण तेषां परेषामधिकां दिशि दिशि कान्दिशीकतां दिदेश।

तदात्व इति। तदात्वे तत्काले एव अर्जुने निष्क्रामति सतीत्यर्थः, अयम् पुरोदृश्यमानः खलः दुष्टो द्रुपदः अतिस्मयेन महता गर्वेण अस्मान् राजन्यान् विस्मरन् उपेक्षमाणः कस्मैचित् अज्ञातनामगोत्राय विप्राय ब्राह्णाय दुहितरं स्वां कुमारीं द्रौपदीं प्रायच्छत दत्तवान् इति एवम् द्रुतं शीघ्रं द्रुपदाय तदाख्याय राज्ञे द्रोहमुन्निद्रयतः द्वेषं जागरयतः द्विषतः कतिचन कतिपयान् राजन्यान् क्षत्रियान् जन्याभिमुखान् युद्धार्थमुद्यतान् प्रति सुलबोन्मेषेण आशुभाविना रोषेण कोपेन सरभसं वेगेन भुजोन्नीतैः करधृतैः उपवीतैः यज्ञसूत्रैः कण्ठमावेष्ट्य आवृत्य मम अयं यष्टेर्लक्ष्यम् अहममुं लगुडेन हन्मि, ममायं विष्टरस्य महमिमं स्वासनेन ताडयामीति वचनेन च अतिचापलं कुर्वाणान् अतिचाञ्चल्यं नाभ्यतः धरणीगीर्वाणान् भूदेवान्, भवतां ब्राह्मणानाम्, पुनः आशीः सुभाशंसा जयराशी करणाय विजयानां समाहाराय अलम् पूर्याप्ता, इति एवं सस्मितं सेषद्धासं निवर्त्तयन् निषेधयन् अमर्त्यपतिकुमार इन्द्रात्मजोर्जुनो युधि समारोपितः धनुषि स्थापितो यो गुणः प्रत्यञ्चा ततो निरर्गलमप्रतिहतभावेन निर्गलितन निष्क्रान्तेन शरनिकरेण बाण राशिना तेषाम् परेषाम् शत्रुभूतानां राज्ञाम् दिशिदिशि कान्दिशीकताम् भयेन पलायमानताम् दिदेश विहितवातन्। अयमेतदभिप्रायः-यदा द्रौपदी अर्जुनस्य गले स्वयंवर माल्यमर्पितवती तदा राजानो द्रुपदाया द्रुह्यन्यदयमस्माननादृत्य कस्मैचिद्‌ब्राह्मणाय कन्यामदादिति, तेषां द्रोहमिममनुचितं मन्यमाना विप्रास्तान् राज्ञो दण्डेन विष्टरेण च मारयितुं प्रायतन्त, तथा चेष्टमानाँश्च विप्रान् भवदाशीरेव ममजयं साधयिष्यति मा वृथा एतान्भवन्तो वधिषुरिति सस्मितं निवर्त्त्य धनुष्या रोप्यमौर्वी ततोऽबाधभावेन बाणान् वर्षन्नर्जुनः सर्वान् राज्ञो भयद्रुता नकरोदिति। `कान्दिशीको भयद्रुतः’ इत्यमरः।

तावदस्य राजसंघस्य जङ्घालतामनुकुर्वद्भिरिव रथार्वद्भिरपरार्णवाभ्यर्णमवतीर्णवति तूर्णमर्णोजबन्धौ तेन निहितां {101}दीप्तिमपरामिव तां दयितामनुरञ्जयन्नयमपि धनंजयस्तामेव वासुभुवमाससाद।

तावदिति। तावत् तदा अस्य भयेन पलायमानस्य राजसंघस्य राजगणस्य जङ्घालताम् अतिद्रुतगमित्वम् अनुकुर्वद्भिः इव रथार्वद्भिः रथर्या जितै रश्वैः अपरार्णवार्भ्यणम् पश्चिमपयोधिसमीपम् तूर्णम् शीघ्रम् अवीर्णवति आयाते अर्णः जलं तत्र जातम् अणोजं कमलं तद्वन्धौ सूर्ये तेन निहिताम् स्थापिताम् अपरां द्वितीयां दीप्तिं प्रभामिव तां दयितां प्रेयसीम् द्रौपदीम् आवासस्थलं कुलालगृहमाससाद प्राप्तः। राज्ञः पलायमानान् दृष्ट्वा ताननुकुर्वन्तः सूर्याश्व अपि पलायितु मारभन्त, तेन ते शीघ्रमेव कमलबन्धुमपरसागरसमीपं प्रापयन्, सूर्येण निशिस्वप्रभैकावह्नौ क्षिप्यते, तदियं द्रौपदी द्वितीया प्रभेव तस्य धनञ्जये क्षिप्ता, वह्निः सूर्यस्य प्रभां रागं प्रापयति, द्रौपदीमपि धनञ्जयोऽनुरञ्जयति, धनञ्जयपदस्य वह्निरर्जुनश्चार्थ इति बोध्यम् ॥

स्वेदाम्बुभिर्निटिलजैः पदयोः सवित्रीमार्द्रीचकार स तया सह चापपाणिः।
मोदाम्बुभिर्नयनजैस्तमियं च मौलौ विस्मरेरचेतसि कुलालवधूसमाजे ॥ 84 ॥

स्वेदाम्बुभिरिति। चापपाणिः धनुर्धरः सोऽर्जुनः निटिलजैः ललाटदेशोद्‌भूतैः स्वेदाम्बुभिः घर्मजलैः सवित्रीं मातरं कुन्तीं तया द्रौपद्या सह सहितः पदयोः चरणावच्छेदेन आर्द्री चकार द्रौपद्यपेतोऽर्जुनः कुन्त्याश्चरणौ ववन्दे, तद्वन्दनेन चच्छिरः सम्भूतस्वेदजलेन कुन्तीचरणौ क्लिन्नौ बभूवतुरित्यर्थः। इयं कुन्ती च विस्मरेचेतसि राजपुत्रीसहितार्जुनदर्शनेन चकितचित्ते कुलालवधूसमाजे तम् अर्जुनम् मौलौ शिरोदेशे मोदाम्बुभिः हर्षाश्रुविन्दुभिः आर्द्री चकार, प्रणमतोऽर्जुनस्य मस्तकमाजिघ्रन्तीकुन्ती स्वहर्षाश्रुप्रवाहेण तन्मौलिमार्द्रीकृतवतीति च तात्पर्यम् ॥ 84 ॥

कुवलयदृशः कुम्भं जिग्युः कुचैरिति भाषिते{102} करिवरशिरः कर्मेत्येव{103} प्रहृष्टमनाश्चिरम्।
द्रुपदुहितुर्दृष्ट्वा तुङ्गौ कुलालपतिः कुचौ निजमपि घटं निश्चित्यैवं नितान्तमलज्जत ॥ 85 ॥

कवलयदृश इति। कुवलये नीलकमले इव दृशो यासां ताः कुवलयदृशोवनिताः कुचैः स्वीयैः कुम्भं जिग्युर्जितवत्य इति भाषिते उक्ते सति (अत्रत्यस्य जयतेः) करिवरशिरः करिमस्तकम् एव कर्म (प्रोक्तवाक्ये कुम्भशब्दस्य गजशिरः परत्वम्) इति हेतोः चिरंबहुकालपर्यन्तं प्रहृष्टमनाः प्रसन्नहृदयः कुलालपतिः कुलालमुख्यः द्रुपददुहितुः द्रौपद्याः तुङ्गौ विशालौ कुचौ दृष्ट्वा निजमपि घटम् एवं विजितं निश्चित्य अवधार्य नितान्तम् अत्यर्थम् अलज्जत लज्जामनुबभूव। अयमाशयः-स्त्रीणां कुचैः कुम्भोजित इति श्रुत्वा तत्रत्यकुम्भशब्दस्य गजशिरः परत्वमेव न घटपरत्वमिति संभावयन् कुलालपतिः पूर्वं स्वीयं घटमपराजितं मत्वा महान्तमानन्दमन्वभूत्परं द्रौपद्याःस्तनौ पश्यतस्तस्य मनसि स्वघटस्यापि पराजयं मत्त्वा ल्जोजदिता, स्वस्येव स्वीयपराजयस्यापि त्रपाकरत्वादिति। काव्यलिङ्गमलङ्कारः ॥ 85 ॥

अन्येद्युर्गृहमुपनीय पूजितांस्तान् व्यासोक्त्या विदितवरः पुरामरातेः।
पञ्चापि क्षितिपतिनन्दनान्सुतायाः पाञ्चलो निशि परिणितयेऽनुमेने ॥ 86 ॥

अन्येद्युरिति। अन्येद्युः ततः परस्मिन्नहनि पाञ्चालो राजा द्रुपदः व्यासोक्त्या व्यासस्य कथनेन पुरामरातेः शिवस्य विदितवरः ज्ञातवरदानः द्रौपद्या नालायनीजन्मनि पतिपञ्चकलाभात्मकवरदानविषयकज्ञानवान् सन्नित्यर्थः, तान् पञ्चापि क्षिति पतिनन्दनात् पाण्डवान्युधिष्ठिरादीन् पूजितान् सत्कृतान् निशि रात्रौ गृहमुपनीय स्वभवनं प्रापय्य सुतायाः द्रौपद्याख्यस्वकन्यायाः परिणीतये विवाहाय अनुमेने पञ्चभिरपि समं स्वपुत्र्याः पाणिग्रहणं स्वीकृतवानित्यर्थः। इयं तव कन्या पूर्वस्मिन् जन्मनि नालायनी नाम, भर्त्रर्थं तपस्यया शिवं प्रसादितवती, तेन च वरं वरी तुमादिष्टा `पतिं मे देहि’ इति पञ्चकृत्वो व्याहृतवती, शिवोऽपि पञ्चपतींल्लभस्वेति स्वीकृतवान्। तदवरप्रभावेणात्र जन्मनि पञ्चपतिलाभोऽस्या जायते इति व्यासस्य कथनं तर्क्यम् ॥ 86 ॥

ततः परमीदृसोत्सवश्रवणात्परमानन्दमनुबवन्तीभिरन्तःपुरिकाभिः{104} परिवृतां तां सखीजना मण्डनमण्डपिकामुपनीय प्रसाधयितुमारभन्त।

ततः परमिति। ततः परं राज्ञा कन्यादानं स्वीकृत्य प्रारब्धे तत्संभारे सति ईदृशोत्सवश्रवणात् द्रौपदी धर्म्यं पतिपञ्चकं प्राप्नोतीति हर्षविषयं निशम्य परमानन्दनम् उत्कटकोटिगं हर्षम् अनुभवन्तीभि अन्तःपुरिकाभिः अवरोधजनैः परिवृतां वेष्टितां तां द्रौपदीम् सखीजनाः वयस्या मण्डनमण्डपिकाम् मण्डनार्थं कल्पितां शालाम् उपनीय प्रापय्य प्रसाधयितुम् उद्वर्त्तनसिरोजसंयमानालङ्कारपरिधापनादिना सज्जयितुम् आरभन्त प्रारब्धवत्यः ॥

द्रौपद्याः पञ्चपत्नीत्वे द्रष्टुं लिपिमिवोत्सुका।
सीमन्तशिल्पव्याजेन शिरोजान्व्यभजत्सखी ॥ 87 ॥

द्रौपद्य इति। सखी काचन वयस्या द्रौपद्याः पञ्चपत्नीत्वे पञ्चभिः परिणेयत्वे विषये लिपिं ब्रह्मणो लिखित द्रष्टुं साक्षाद्बिलोकयितुम् उत्सुका उत्कण्ठमाना इव सीमन्तशिल्पव्याजेन केशप्रसाधनकलाप्रदर्शनच्छलेन शिरोजान् व्यभजत् केशान् द्विधा विभक्तवती। इयं द्रौपदी पञ्चभिः परिणेष्यते, अयं विषयोऽस्याः कपाले ब्रह्मणा कुत्र लिखित इति मार्गमाणेव काचन सखी द्रौपद्याः शिरोजानां प्रसाधनं व्याजीकृत्य तान्विभज्य स्थापितवती, (येन ब्रह्मलिपिर्द्रष्टुं शक्येत इत्याशयः। उत्प्रेक्षाऽलङ्कारः ॥ 87 ॥

मृगमदतिलकं रराज तन्व्या मुखशशिना{105} महसा बलाहृतायाः।
चिकुरमिषजुषोऽपराधशान्त्यै नमितमपत्यमिवान्धकारवन्द्याः ॥ 88 ॥

मृगमदेति। तन्व्याः कृशाङ्ग्याः द्रौपद्याः मृगमदतिलकं कस्तूरीकृतो ललाटस्थविन्दुः मुखशशिना मुखरूपेण चन्द्रमसा महसा स्वतेजो द्वारा बलात् हठात् आहृतायाः आनीतायाः चिकुरमिषजुषः केशपाशव्याजमाश्रितायाः अन्धकारवन्द्याः अन्धतमसरूपायाः वन्दीभूतायाः कस्याश्चित् स्त्रियाः अपराधशान्त्यैः मातृकृतापराधक्षमापणाय नमितं प्रणतीकृतम् अपत्यम् सन्तनिरिव रराज शुशुभे, अयमर्थः-मुखरूपः शशी राजा, स स्वप्रतापेनान्धरूपां काञ्चन स्त्रियं वन्दी चकार, या चिकुरव्याजमुपेत्य मुखशशिनः समीपे तिष्टति, सा स्वापत्यमिव मृगमदतिलकं नमितं कृत्वा चन्द्रेण स्वापराध क्षम्यमाणपेक्षते, काचन स्त्री वन्दीभूता स्वापत्यं प्रणमय्य स्वापराधं क्षमापयतीति व्यवहारानुरोधिनीयमुत्प्रेक्षा बोध्या ॥ 88 ॥

अधिनासिकाशिखरमाकलितं नवमौक्तिकं नरपतेर्दुहितः।
शुशुभे मुखाम्बुरुहमध्यचरस्मितहंसिकाजनितमण्डमिव ॥ 89 ॥

अधिनासिकेति। नरपतेः राज्ञो द्रुपदरय दुहितुः पुत्र्याः द्रौपद्याः अधिनासाशिखरं नासाग्रे आकलितं योजितं नवमौक्तिकम्-मुखाम्बुरुहस्य मुखकमलस्य मध्यचरी अभ्यन्तरचारिणी या स्मितहंसिका ईषद्धासरूपा हंसी तया जनितम् उत्पादितम् अण्डम् कोशमिव शुशुभे रराज। द्रौपद्या नासाग्रे समासज्यमानं मौक्तिकं मुखाम्बुरुहमध्यचारिस्मितहंसीप्रसूतमण्डमिव प्रतीयतेस्मेत्यर्थः। अत्र मौक्तिके धावल्यवर्त्तुलत्वादिकृताऽण्डत्वोठोक्षारूपकं चालङ्कारौ ॥ 89 ॥

सुतरां जनमोदमादधाते {2}सुतनोर्मौक्तिकरत्नकर्णपत्रे।
परिचेतुमिवाननेन्दुसेवां परिवेषस्य शिशू समीपभाजौ ॥ 90 ॥

सुतरामिति। सुतनोः सुन्दर्या अस्या द्रौपद्याः कर्णपत्रे कर्णिकानामके कर्णभूषणे द्वे आननस्य द्रौपदीमुखस्येव इन्दोः चन्द्रस्य सेवां परिचर्याम् परिचेतुम् अभ्यसितुम् समीपभागौ मुखेन्दुसकाशमुपेतौ परिवेषस्य परिधेः शिशू बालकाविव सुतराम् अत्यन्तं जनमोदम् लोकानामानन्दमादधाते सम्पादयतः। लोका द्रौपद्या वर्त्तुलधवले ते कर्णभूषणे दृष्ट्वाः प्रमोदमायान्ति ये चन्द्रसेवामभ्यसितुं तत्समीपागतौ परिवेषस्य शिशू इव प्रतीयेते इत्यर्थः। उत्प्रेक्षाऽलङ्कारः। `परिवेषस्तु परिधिरुपसूर्येन्दुमण्डलम्’ इत्यमरः ॥ 90 ॥

ताटङ्के तरलमणिप्रभातरंगे तन्वङ्ग्या मुखमभितस्तदा व्यभाताम्।
मूर्तत्वं प्रकटमुपेत्य जागरूके वर्णे द्वे नयनविपाठयोरिवान्ते ॥ 91 ॥

ताटङ्के इति। तदा तरलाः चलाः मणीनां खचितरत्नानां प्रभातरङ्गाः कान्तिप्रवाहाः ययोस्तादृशे ताटङ्के कर्णभूषणे तन्वङ्ग्याः द्रौपद्याः मुखमभितः मुखस्य पार्श्वदेशयोः नयनविपाठयोः नेत्ररूपबाणयोरन्ते अवसानभागे मूर्त्तत्वम् शरीरधारित्वमुपेत्य प्राप्य जागरूके विद्यमाने तयोर्विपाठयोरन्ते चरमेवर्णे ठकारौ इव व्यभाताम् प्रतीयेतेस्म। द्रौपद्याः कर्णयोः स्थितौ वर्त्तुलौ मध्यखचितश्यामलरत्नौ च ताटङ्कौ (नयनशरयो) नेत्रविपाठयोः अन्तिमौवर्णाविवमूर्त्तिमन्तौ प्रतीयेतेस्म, तौ हि वर्त्तुलाकारौ मध्यविन्दुघटितौ च लिख्येते देशविशेषे, तदाधारेणैवेयमुत्प्रेक्षा। `ताटङ्क कर्णभूषणम्’ `स्थलक्ष्वेडो विपाठश्च चित्रपुङ्ख शरःसरः’ इति त्रिकाण्ड शेषः॥ प्रहर्षिणी वृत्तम् ॥ 91 ॥

सख्याः करोऽञ्जनविधौ सकृदेव गन्तुमापाङ्गभागमपटुः श्रममानशे यः।
रेखावदेरनवगामितया {107}दृगङ्गं पूर्वाक्तमेव स पुनः पुनराललम्बे ॥ 92 ॥

सख्या इति। सख्याः द्रौपदीप्रसाधनपरायाः कस्याश्चिद्वयस्याया यः करो हस्तः अञ्जनविधौ द्रौपद्या नेत्रयोरञ्जनकर्मणि अपाङ्गभागम् नेत्रान्तपर्यन्तम् सकॉत् एकवारम् एव गन्तुम् प्राप्तुम् अपटुः असमर्थः सन् श्रमम् व्यापारबाहुल्यकृतं खेदम् आनशे प्राप, सः करो रेखावधेः नेत्रविभाजकरेखारूपस्यावधेः अनवगामितया अज्ञातृतया पूर्वाक्तम् पूर्वं न्यस्ताञ्जनम् एव दृगङ्गम् नयनं पुनः आललम्बे आशिश्रिये, पुनरञ्जयितुमिति शेषः। नेत्रे अञ्जयन्ती सखी विशालस्य नेत्रस्यापाङ्गमेव गत्वा श्रान्ता सती रेखाया अपरिचयेन पारं प्राप्तमसंभावयन्ती पुनस्तदक्तमेवाक्षि-पुनराश्रितवत्यञ्जयितुमित्यर्थः। अत्र नयनयोस्तादृग्दैर्घ्यासम्बन्धेऽपि तत्सम्बन्धाभिधानरूपातिशयोक्तिरलङ्कारः ॥ 92 ॥

सकलमपि वपुविभूष्य तन्व्याः सपदि सखी विपुलेक्षणाम्बुजापि।
चिरतरमनवेक्ष्य {108} मध्यदेशं करधृतकाञ्चनकाञ्चिरेव तस्थौ ॥ 93 ॥

सकलमपीति। तन्व्याः कृशाङ्ग्याः द्रौपद्याः सकलम् समग्रम् वपुः शरीरं विभूष्य यथोचितालङ्करणादिना प्रसाध्यापि विपुलेक्षणाम्बुजा विशालाक्षी अपि सखी द्रौपदीवयस्या सपदि तत्काले मध्यदेशं कटिभागम् अनवेक्ष्य अनवलोक्य चिरतरं बहुकालपर्यन्तं करधृतकाञ्चनकाञ्चिः हस्तन्यस्तसुवर्णरशना एव तस्थौ स्थिता, क्व काञ्चीमिमां न्यस्येयमिति विभावयन्त्येवातिष्ठत् इत्यर्थः। अत्र द्रौपदीमध्यभागस्यावलोकनसम्बन्धेऽपि तदसंबन्धाभिधानादतिशयोक्तिः, एवं सख्या नेत्रयोर्विशालतारूपदर्शनसामग्रीसत्त्वेऽपि दर्शनरूपकार्यानुत्पत्तेर्विशेषोक्तिश्चेत्यनयोः सङ्करः। पुष्पिताग्रावृत्तम् ॥ 93 ॥

काञ्चीकलापमणिबिम्बितपार्श्वयोषित्कौशेयपङ्क्तिरवनीन्द्रसुता बभासे।
अविर्भविष्यदधिगोष्ठि कटीनिमग्नं वासः शतं जनदृशामिव सूचयन्ती ॥ 94 ॥

काञ्चोकलापेति। काञ्चीकलापे काञ्चीदामनि ये मणयो रत्नानि तेषु प्रतिबिम्बिताः प्रतिफलिताकृतयः पार्श्वयोषितां समीपस्थरमणीनां कौशेयपङ्क्तिः पट्टवस्त्रमाला यस्याः सा तथोक्ता काञ्चीमणिप्रतिफलितसमीपस्थवनिताधृतकौशेयपरिधानसन्ततिः साऽवनीन्द्रसुता अधिगोष्ठि द्यृतसभायां (दुःशासनकृतवस्त्रापहरणवेलायाम्) आविर्भविष्यत् प्रकाशमासादयिष्यत् वासःशतम् अनन्तवासांसि कटीनिमग्नम् श्रोणीदेशेऽवस्थितं सूचयन्ती ज्ञापयन्ती बभासे दिदीपे। अयमाशयः-द्रौपद्याः काञ्चीमणिषु प्रतिबिम्बतानि समीपस्त्रीणां वासांसि दुःशासनकृतवस्त्रापहारसमये प्रकटीभविष्यन्ति वाससां शतानीव प्रच्छन्नानि स्थितानि प्रतीयन्तेस्मेति। उत्प्रेक्षाऽलङ्कारः ॥ 94 ॥

आतङ्कपीडामददां पुराऽहमस्यास्तदा{109} भाविषु वल्लभेषु।
एवं विचिन्त्येव भयेन पादे लाक्षाकृतं धाम पपात तन्व्याः ॥ 95 ॥

आतङ्केति। अहं लाक्षागृहं कर्त्तृपुरावारणावतपुरनिवासावसेर अस्याः द्रुपदसुतायाः भाविषु भविष्यत्सु वल्लभेषु स्वामिषु आतङ्कपीडाम् शङ्काकृतं दुःखम् `कदाटिद्वयमत्र दह्येमहि’ इति संभावनया मनःकष्टम् अददां दत्तवत्, एवम् अनेन प्रकारेण विचिन्त्य स्मृत्वा स्वापराध विभाव्य भयेनेव तदा सखीकृतद्रुपदतनया प्रसाधनकाले लाक्षाकृतं धाम अलक्तकोपपादितं तेजः (लाक्षारचितं गृहम् च) तन्व्याः कृशाङ्ग्याः द्रौपद्याः पादे चरणप्रान्ते पपात निपतितम्। लाक्षाधाम्ना (नामसाम्याल्लाक्षागृहेण) चिन्तितं यदहमस्याः द्रौपद्या भाविनः पतीम् पाण्डवान् वारणावतपुराधिकरणाकवाससमये दाहशङ्कया व्यथामदामिति तद्भयाकुलम् भूत्वा लाक्षधाम-अलक्तकृतं रक्ताभं तेजोऽस्याश्चरणमशिश्रियत्स्वापराधक्षमापणप्रतीकारभूतत्वात् पादपतनस्येत्याशयः। लाक्षाधाम्नो लाक्षाधामत्वेन रूपणमुत्प्रेक्षा च ॥

तस्याः सखीषु सकलास्वपि तत्तदङ्गं वेगाद्विभूषितवतीषु विवाहवेषैः।
{110}कालक्षयासहनवृद्धपुरोहितानां कोपस्य पात्रमभवत्कुचशिल्पकर्त्री ॥ 96 ॥
तस्याः सखीष्विति। सकलासु सर्वासु कलावित्सु च सखीषु तद्वयस्यासु तस्याः द्रौपद्याः तत्तदङ्गं करपादादि वेगात् शीघ्रतया विभूषितवतीषु वैवाहिकोपयुक्तालङ्कारादिना सज्जीकृतवतीषु अपि कुचशिल्पकर्त्री स्तनयोश्चित्रादिनिर्माणपरा सखी कालक्षयं शुभमुहूर्त्तापग्मं न सहन्ते ते कालक्षयासहनास्तादृशानां वृद्धपुरोहितानां कोपस्य पात्रं क्रोधगोचरः अभूत्। सर्वास्सख्यस्तत्तदङ्गं प्रसाध्य निवृत्तकार्याः परं विशालयोः कुचयोश्चिरप्रसाध्यतया तत्र विलम्बमादधत्यै सख्यै शुभमुहूर्त्तव्यतिगममसहमाना वृद्धाः पुरोधसः कोपं प्रकाशयामासुः इत्यर्थः। काव्यलिङ्गमलङ्कारः। वसन्ततिलकं वृत्तम् ॥ 96 ॥

एवमलंकृतमेनामालोक्य{111} स्वयमपि संध्यारुणिमसंपादितलाक्षाकृत्यामञ्जनतिलकरञ्जितमुकभागां परिणेतुमिव प्रतीचीं दिशमुपगतवति भगवति भासांनिधौ,-

एवमिति। एवमुक्तप्रकारेण अलङ्कृतां सखीभिः भूषिताम् एनाम् द्रौपदीमालोक्य दृष्ट्वा स्वयम् आत्मना अपि-सन्ध्यारुणिम्ना सायन्तनरागेण सम्पादितं विहितं लाक्षाकृत्यं यावककार्यं यस्यास्तां तथोक्तम्, अञ्जनतिलकेन कज्जलविन्दुना (अञ्जनतिलकाख्याभ्यां वृक्षाभ्याञ्च) रञ्जितो भूषितो मुखभागो मुखदेशो यस्यास्तां तथोक्ताम्, प्रतीचीम् पश्चिमामाशाम् परिणेतुं वोढुमिव उपगतवति भवति भासांनिधौ सूर्ये, सूर्येऽपि प्रतीच्या दिशया कर्त्तमिव तत्समीपमुपार्च्छति सति, सूर्येऽस्तोन्मुखे सतीत्यर्थः।

तस्यामेव क्षपायां सपदि निजकुलोत्तंसपार्थोत्सवानामालोकायेव साक्षाद्विशति हिमरुचौ द्यां शुभंयौ मुहूर्ते।
{113}सोपानैरध्यरुक्षन्मरकतखचितैर्वेदिमेते कुमाराः सालंकाराः पुरोधःसरभसनिहितैः संविधानैः समग्राम् ॥ 97 ॥

तस्यामेवेति। तस्यामेव क्षपायां रात्रौ सपदि सद्यः निजकुलोत्तंसाः चन्द्रवंशालङ्काराः ये पार्थाः कुन्तीपुत्राः युधिष्ठिरादयस्तेषाम् ये उत्सवाः विवाहमङ्गलानि तेषाम् आलोकाय प्रत्यक्षीकरणाय इव हिमरुचौ चन्द्रे साक्षात् स्वयं द्याम् आकाशं विशति आगच्छति सति, शुभंयौ शुभान्विते मुहूर्त्ते समये सालङ्काराः गृहीतवैवाहिकवस्त्राभरणाः एते युधिष्ठिरादयः कुमाराः राजपुत्राः पुरोधोभिः पुरोहितैः सरभसंवेगेन निहितैः स्थापितैः संविधानैः उपकरणैः कुशपल्लवपुष्पादिभिः समग्राम् युक्ताम् वेदिम् वैवाहिकं मण्डपं मरकतखचितैः हरिन्मणिबद्धैः सोपानैः अध्यरुक्षन् आरूढवन्तः। जाते चन्द्रोदये युधिष्ठिरादयो वेदीमायाता इत्यर्थः॥ स्त्रग्धरावृत्तम् ॥

तत्र मुहूर्तगुणेष्विव समन्तादो जायमानेषु दीपेषु मन्त्रविदां वदनेष्विव शब्दायमानेषु वाद्येषु कुलपालिकाः कमनीयमणिकोरकितै{114} कनकभूषणैरविकृतसहजरामणीयकां कन्यकाममीषां सकाशे निवेशयामासुः।

तत्रेति। तत्र विवाहमण्डपवेद्याम् मुहूर्त्तगणेषु वैवाहिकलग्नेषु इव समन्तात् सर्वतः ओजायमानेषु ओजोवद्भासमानेषु प्रकाशशालिष्वित्यर्थः। मन्त्रविदाम् मन्त्रोच्चारमाचरतां वैदिकानां वदनेषु मुखेषु इव वाद्येषु मङ्गलसूचकपटहादिषु शब्दायमानेषु शब्दं कुर्वाणेषु, कुलपालिकाः प्रसिद्धाः पतिव्रताः स्त्रियः कमनीयमणिकोरकितैः सुन्दररत्नराशिखचितैः कनकभूषणैः स्वर्णालङ्कारैः अविकृतसहजरामणीयकाम् अक्षुण्णस्वाभाविकसौन्दर्यां कन्यकां कुमारीं द्रौपदीम् अमीषां पाण्डवानां सकाशे पार्श्वे निवेशयामासुः स्थापितवत्यः। शुभमुहूर्त्ते वाद्येषु सशब्देषु वैदिकेषु मन्त्रानुच्चारयत्सु च कुलस्त्रियः कन्यां वेदीस्थितानां पाण्डवानां समीपे समानिन्युरित्याशयः। ओजःशब्दाक्यङि कर्त्तुः क्यङ् सलोपश्चेति सलोपे `अकृत्सार्वधातुकयोः’ इति दीर्घः, ततः `शानचि’ `ओजायमानेषु’ इति रूपम्। अत्र मुहूर्त्तगणानां दीपैः मन्त्रविदां वाद्यैश्च साम्यप्रतीतिस्तुल्ययोगितालङ्कारं सृजति ॥

पूतपार्श्वे कुशाङ्कूरैः पुरस्तामन्मणिकुट्टिमे।
प्राज्वलत्तस्य धौम्यस्य प्रतिबिम्ब{115} इवानलः ॥ 98 ॥

पूतपार्श्व इति। कुशाङ्कूरैः अभिनवकुशैः पूतपार्श्वे पवित्रसर्वभागे मणिकुट्टिमे मणिमयवेदिकायां पुरस्तात् अग्रभागे तस्य पुरोहितत्वेन वृतस्य प्रख्यातस्य च धौम्यस्य तदाभ्यस्य मुनेः प्रतिबिम्बः प्रतिकृतिरिव अनलः वह्निः प्राज्वलत्। कुशैरास्तीर्यमाणैः पवित्रितसर्वभागे तत्र मणिमयकुट्टिमे वह्निः प्रादुरासीत्, मन्ये स धौम्यस्य तेजस्विनः प्रतिबिम्बः स्यादित्यर्थः। पुरोहितो वेद्यमाग्निस्थापनाङ्गभूतं कुशास्तरणं कृत्वाऽग्निं स्थापितवान् इति कथाभागः। उत्प्रेक्षाऽलङ्कारः ॥ 98 ॥

धर्मान्प्रजाश्च बहु{116} संचिनुतानयेति साम्यत्समिच्चटचटात्कृतिभिर्ब्रुवाणः।
तामात्मजां द्रुपदराज इवानलोऽपि प्रादादिवोन्नतशिखाग्रकरेण तेभ्यः ॥ 99 ॥

धर्मानिति। यूयम् पाण्डवाः अनया द्रौपद्या सह धर्मान् श्रौतान्स्मार्त्तश्च विधीन् प्रजाः सन्ततीश्च प्रभूतं यथास्यात्तथा संचिनुत सम्पादयत, इति शाम्यन्तीनाम् वह्नौ दह्यमानानां समिधां काष्ठानां चटचटात्कृतिभिः चटचटाशब्दैः इति प्रोक्तप्रकारकं वचनं ब्रुवाणः पार्थानुद्दिश्याभिदधानः अनलः वह्निः अपि द्रुपदराज इव ताम् आत्मजां पुत्रीम् (द्रौपद्या याजकृत यज्ञसम्भूतत्वेनाग्निपुत्रीत्वमपि सूपपन्नम्) उन्नतानां समेधिना शिखानामग्रेण ऊर्ध्वभागेन करेण तेभ्यः पाण्डवेभ्यः प्रादात् सम्प्रदत्तवान् इव। अग्निर्द्रौपद्या जनकः स हि तां पाण्डवेभ्यः सम्प्रददाति, तस्य शिखाग्र एव करः, समिद्भिर्वह्यमानाभिः कृतश्चटचटा शब्द एव दानवाक्यावलिः, इति चमत्कारकरोभिप्रायः, द्रुपदो यथा स्वहस्तेन तां पाण्डवेभ्यो धर्मभार्याभावेन ददौ तथा वह्निपि ददाविवेत्युत्प्रेक्षा। वसन्ततिलकं वृत्तम् ॥ 99 ॥

अथ जातुषालयसमर्पणात्कृतं परिपोषमस्य वपुषोऽभिवीक्षितुम्।
स्पृहयालवः किल पृथासुताः क्रमात्परिचक्रमुर्हुतभुजं वधूसखाः ॥ 100 ॥

अथ जातुषेति। अथ पाणिग्रहणानन्तरम् पृथासुता युधिष्ठिरादयः पञ्च भ्रातरः वधूसखाः वध्वा द्रौपद्या सहिताः जातुषालयसमर्पणात् लाक्षागृहरूपस्वादुभक्ष्यप्रदानात् कृत जनितम् अस्य वह्नेः वपुषः कायस्य परिपोषम् पुष्टिम् अभिवीक्षितुम् समन्ततो विलोकयितुम् स्पृहयालवः काङ्क्षन्तः क्रमशः पूर्वदिक्क्रमेण हुतभुजं वह्निम् परिचक्रमुः प्रदक्षिणीकृतवन्तः। अस्माभिरस्मै वह्नये जातुषालयो भक्ष्यतया दत्तः, सोऽयं वपुषा कियतीं पुष्टिधिगतवानिति समन्ततो द्रष्टुं कामयमाना इव पाण्डवा द्रौपद्या सहाग्निं परितो बभ्रमुरित्यर्थः, वैवाहिकविध्यङ्गभूताग्निपरिक्रमणस्य पुष्टिदर्शनत्वेनोत्प्रेक्षाऽलङ्कारः। `जतुत्रपुविकारे तु जातुषं त्रापुषं त्रिषु’ इत्यमरः ॥ 100 ॥

कठिनत्वसंपदवलेपभरात्कुचकुड्मलस्य कुरुवीरवधूः।
कृतनिर्जयेव पतिपाणिधृतं पदमश्मनः शिरसि सा निदधे ॥ 101 ॥

कठिनत्वेति। सा कुरुवीरवधूः द्रौपदी कुचः स्तनः कुडुमलः मुकुल इव तस्य कठिनत्वसम्पत् कठोरतारूपा समृद्धिस्ततोऽवलेपभरः गर्वातिशयस्तस्मात् कारणभूतात् कृतो विहितो निर्जयः पराजयो यया सा तथोक्ता इव अश्मनः शिलाखण्डस्य शिरसि उपरि पतिपाणिधृतम् पतिभिः स्वहस्तैर्धार्यमाणं पदम् स्वचरणं निदधे दत्तवती। अश्मोपरि चरणधारणं वैवाहिको विधिः, तत्र वधूः पतिधृतं स्वपादमश्मनि दधाति, तत्रोत्प्रेक्षते-मन्ये स्वकुचकाठिन्यद्वारा द्रौपदी अश्मनः काठिन्यं जितवती, जितकाठिन्यमश्मानं पराजयसूचकेन शिरसि चरणन्यासेनाभिभवति चेति। `कुचकुड्मल’शब्देनोपमा। प्रमिताक्षरवृतम् ॥ 101 ॥

कन्ययाभ्युपहृता{118} विधिलाजाः कन्दलत्यनलरोचिषि पेतुः।
पञ्चवल्लभकराग्रविमर्दाद्बाहुवंशगलिता इव मुक्ताः ॥ 102 ॥

कन्ययेति। कन्यया द्रौपद्या अभ्युपहृताः त्यक्ताः विधिलाजाः लाजहोमाख्यविवाहविध्यङ्गभूता लाजाः पञ्चानां युधिष्टिरादीनां वल्लभानां पतीनां कराग्रैः हस्ताग्रभागैः विमर्दात् पीडनात् हेतो बाहुवंशात् द्रौपदीकररूपवंशात् गलिताः पतिताः मुक्ता इव कन्दलति ज्वलति अमलरोचिषि वह्नितेजसि पेतुः पतन्तिस्म। अयमाशयः-द्रौपदी लाजहोमकर्मणि पतिभिर्धृतबाहुः वह्नौ लाजान् विसृजति, तत्काले तस्मात् पतन्तो लाजाः पतिपञ्चकपीडिततद्धस्तवंशपतितानि मौक्तिकानीव प्रतिभान्तिस्मेति। वंशतो मौक्तिकमुत्पद्यत इति प्रसिद्धिमनुरुध्य हस्तपतितलाजानां वंशपतितमुक्ताभावेनोत्प्रेक्षणं कृतम्। लाजानां धावल्यान्मुक्तात्वं हस्तयोश्च वर्त्तुलत्वलम्बत्वाभ्यां वंशता संभाव्यते। स्वागतावृत्तम् ॥ 102 ॥

विधिचोदनासु मणिदीपयष्टिकाप{119}रितःस्कुरत्प्रतिकृतेश्च सुभ्रुवः।
उभयोर्विवेचनविधौ पुरोधसःस्खलनं बभूव न तु मन्त्रतन्त्रयोः ॥ 103 ॥

विधिचोदनास्विति। विधिचोदनासु वैवाहिककर्मरूपहोमादिविधौ प्रेरणासु इदं कुरु इदं कुरु इत्येवंरूपासु प्रकान्तासु-मणिदीपयष्टिका परितः स्फुरत्प्रतिकृतेः मणिमयदीपाधारप्रतिबिम्बितद्रौपदीप्रतिकृतेः सुभ्रुवः यथार्थद्रौपद्याश्च (मध्ये) उभयोः प्रतिकृतिसत्यद्रौपद्योः विवेचनविधौ यथार्थ ज्ञानकर्मणि पुरोधसो धौम्यस्य पुरोहितस्य स्खलनं भ्रमः बभूव, मन्त्रतन्त्रयोः मन्त्रपठनतदनुष्ठानयोस्तु स्खलनं भ्रमोनाभूत्। अयमाशयः-द्रौपदी वेद्यां स्वयं स्थिता, मणिमयदीपाधारे प्रतिबिम्बिता तत्तनुश्च, अनयोः सादृश्यातिशयेन धौम्यो यदा कदाचित् कर्मोपदेशकाले द्रौपदीं विहाय तत्प्रतिकृतिमेवादिशति, सोऽयमेव भ्रमस्तस्य जातो न मन्त्रतन्त्रयोर्भ्रमो विस्मरणादिरूपो जात इति। परिसङ्ख्यालङ्कारः, भ्रमस्य मन्त्रतन्त्रविषयकत्वपरिहारेण द्रौपदी तत्प्रतिकृतिविवेचनविषयकतया व्यवस्थापनात् ॥ 103 ॥

बाहुप्रताप इत साक्षिणि हव्यवाहे सामन्तराजधरणेरिव याज्ञसेन्याः।
काङ्क्षासमं क्रमश एव करं कृहीत्वा हर्षेण वृद्धिमभजन्नवनीन्द्रपुत्राः ॥ 104 ॥

बाहुप्रताप इति। अवनीन्द्रपुत्राः पाण्डुराजपुत्राः युधिष्ठिरादयः बाहुप्रतापे भुजवीर्ये इव हव्यवाहे वन्हौ साक्षिणि सति सामन्तराजधरणेः शत्रुनृपराज्यस्य इव याज्ञसेन्याः द्रौपद्याः काङ्क्षासमम् इच्छासमकालम् एव क्रमशः ज्येष्ठानुपूर्व्येण क्रमेण च करं राजप्राप्यं भागं हस्तं च गृहीत्वा हर्षेण वृद्धिम् अभजन् समृद्धा जाताः। यथाऽमी राजकुमाराः स्वबुजवीर्यं साक्षीकृत्य करदराजभूरेर्यथेच्छं करं क्रमशो गृहीत्वा प्रसन्नतां यातास्तथैव वह्निं साक्षीकृत्य करदराजभूरेर्यथेच्छं करं क्रमशो गृहीत्वा प्रसन्नतां यातास्तथैव वह्निं साक्षीकृत्येच्छासमकालम् ज्येष्ठानुक्रमेण द्रौपद्याः पाणिं गृहीत्वा हर्षेण पूर्णा जाता इत्यर्थः। तुल्ययोगिताकाव्यलिङ्गालङ्कारयोः सङ्करः ॥ 104 ॥

पाञ्चालराजश्च स पाण्डवश्च पुष्यत्तमौ पूजकपूज्यभावम्।
आढ्यंभविष्णुत्वमकिंचनत्वं {120}व्यत्यस्यतां ताविव यौतकैस्तैः{121} ॥ 105 ॥

पाञ्चाल राजश्चेति। पूजकः सत्कारकर्त्ता पूज्यः पूजायोग्यश्च, तयोर्भावम् स्वरूपम् पुष्यत्तमौ अतिशयेनधारयन्तौ सः पाञ्चालराजः द्रुपदः, पाण्डवो युधिष्ठिरश्च तौ तैः रत्नहस्त्यश्वादिभिर्नानाविधैः यौतुकैः विवाहवसरप्रदेयैः आढ्यंभविष्णुत्वं धनिकत्वम् अकिञ्चनत्वं दारिद्र्यं च व्यत्यास्यताम् परिवर्त्तितवन्तौ इव। अयमाशयः-विवाहादस्नात्पूर्वं द्रुपदः आढ्यतमो युधिष्ठिरश्च दरिद्र आस्तां परं विवाहे द्रुपदस्तावन्ति यौतुकानि दत्तवान् यैर्दीयमानै सः दरिद्रः कृतः, युधिष्ठिरश्च तैर्लभ्यमानैराढ्यः सञ्जातो मन्ये तदा तौ स्वं स्वं धनिकत्वं दारिद्रयं च परिवर्त्तित वन्तौ इति। `आढ्यं भविष्णुः’ इत्यत्र `कर्त्तरिभुवः’ इतीष्णुच्, अनाढ्यः आढ्यो भवतीत्याढ्यं भविष्णुः, नास्ति किञ्चन यस्य सः अकिञ्चनः ॥ 105 ॥

एवमन्तरिक्षनिक्षिप्तलक्ष्यवेधनलक्षणेन{122} शुल्कनिष्केण निजकण्ठनिष्कायितकन्याभुजलतानेतान्पथि कौन्तेयानवगन्तारो दुरहंतारोपितनवर्तनमतयो विकर्तनतनयोपायविधेयैः सहायैः सह संमन्त्र्य समारब्धपूर्वस्य युद्धपलायनाध्ययनस्य द्वितीयावृत्तिविच्छित्तिं परिजिहीर्षमाणा इव{123} शुकनिभागिनेयाः सेनापुराःसरनिःसाणनिःसारितनिःस्वानलालिनतैः{124} क्ष्वेलितैः{125} क्षालितगवाक्षमौनरौक्ष्यं द्रुपदपुरं{126} पुनरपि निरुद्ध्य{126} द्रुपदपुरं{127} पुनरपि निरुद्ध्य{128} निरुच्छ्वासयांचक्रुः।
एवमिति। एवम् अनेन विवाहप्रकारेण अन्तरिक्षे आकाशे निक्षिप्तं यत् लक्ष्यं मत्स्यरूपं तस्य वेधनम् वाणेन भेदनं तल्लक्षणेन तत्स्वरूपेण शुल्कनिष्केण कन्यामूल्यतया देयधनेन हेतुना निजकण्ठनिष्कायितकन्याभुजलतान् स्वकण्ठावस्थापितद्रौपदीबाहून् (आकाशस्थापितमत्स्य यन्त्रभेदनरूपं कन्यामूल्यं प्रदाय तां परिणीय च तद्‌बाहुपाशालिङ्गित कण्ठान्) एतान् पञ्चवरान् पथि मार्गे पार्थान् युधिष्टिरादीन् पाण्डवान् अवगन्तारः जानन्तः (एते पार्था एव कन्यां लब्धवन्त इति ज्ञात्वा) दुरहन्तया दुरहङ्करेण आरोपिता जनिता (पार्थानां) निवर्त्तने द्रुपदान्तःपुरप्रवेक्शाद्वारणेमति र्येषां ते तथोक्ताः शकुविभागिनेयाः (गान्धार्याभ्राताशकुनिरतिदुर्मतिस्तद्वद्दौरात्म्यं सूचयितुमिदं नाम) दुर्योधनादयः विकर्त्तनतनयः सूर्यसुतः कर्णस्तस्योपायाः सामादयस्तद्विधेयैः वश्यैः सहायैः दुःशासनादिभिः सह संमन्त्र्य विचार्य-समारब्धपूर्वस्य पूर्वमारब्धस्य युद्धात्पलायनरूपस्याध्यनस्य पाठस्य द्वितीयावृत्तिविच्छित्तिम् पुनरावृत्तिराहित्यम् परिजिहीर्षमाणाः परिहर्त्तुमिच्छन्त इव (यदधीयते तद्विरावर्त्त्यते, तेन तदधीतं स्थिरं भवति, एभिरपि दुर्योधनादिभिः पाण्डवैस्सह युद्धे पलायनमधीतं तन्मा विस्मारीति बुध्येव पुनर्युद्धमारभ्य पलायनं कृत्वा तददृढीकर्त्तुं कामयमाना इवेत्यर्थः) सेनायाः पुरस्सरः अग्रदेशे स्थितो यो निस्साणो दुन्दुभिस्ततो निस्सारितः प्रकटी कृतोयो निःस्वानः शब्दस्तेन लालितैः पुष्टतां लम्भितैः (दीर्घतां गमितैः)क्ष्वेलितैः स्वसिंहगर्जितैः क्षलितं दूरी कृतं गवाक्षाणां भवनवातायनानां मौनं निःशब्दत्वमवे रौक्ष्यं यत्र तादृशम् (शब्दपूरितेषु गवाक्षेषु तेषां मौनं क्षालितं भवेत्) द्रुपदनगरम् पुनः अपि (एकदा द्रोणाज्ञया सपाण्डवाः कौरवाः पूर्वमपि द्रुपदपुरं निरुद्धवन्तोऽतोऽधुनातनं निरोधनं पुनरपीति विशेषितम्) निरुच्छ्वासयाञ्चक्रुः (तत्र त्यप्राणिनां बहिर्निर्गमनादि प्रतिबन्धं कृत्वा) निरुच्छासं चक्रुः परितोऽवरुद्धवन्त इत्यर्थः। `समारब्धपूर्वस्य युद्धपलायनाध्ययनस्य द्वितीयावृत्ति परिच्छित्तिं परिजिहीर्षमाणा इव’ इत्युत्प्रेक्षा। `विकर्त्तनार्क मार्त्तण्ड’ इति `विधेयोविनयग्राही वचनेस्थित आश्रवः’ इति चामरः ॥

तत्क्षणमेव सत्वरं निर्गते{129}षु विविधैरायुधैरशून्येषु द्रुपदसैन्येषु।

तत्क्षणमेवेति। तत्क्षणम् पुरनिरोध समकालम् एव विविधैः खड्गगादादिभिर्नानाप्रकारकैः आयुधैः प्रहरणैः उपेतेषु युक्तेषु द्रुपदसैन्येषु द्रुपदसैनिकेषु (युद्धार्थं) सत्वरं निर्गतेषु शीघ्रं पुराद्‌बहिरायातेषु सत्सु `ते पृथासुता अपि पुरान्निरीयुः’ इति वक्ष्यमाणेन वाक्यपूर्त्तिः ॥

पृथासुतास्तेऽपि रथाधिरूढा द्विधा विचार्येव{130} पुरान्निरीयुः।
शरैर्विधातुं द्विषतोऽपि चूर्णांस्तत्सुभ्रुवामप्यलकानचूर्णान् ॥ 106 ॥

पृथासुता इति। ते युधिष्ठिरादयः पृथासुताः पार्था अपि रथाधिरूढाः रतेषूपविष्टाः सन्तः शरैर्बाणैः द्विषतः शत्रून् दुर्योधनादीन् चूर्णान् खण्डशः कृतान्, तेषां द्विषतां सुभ्रुवां स्त्रीणाम् अलकान् केशान् अपि अचूर्णान् कुङ्कुमादि प्रसाधन चूर्णरहितांशअच विधातुं कर्त्तुम् द्विधा उभयथा विचार्य इव पुरात् द्रुपदनगरात् निरूयुः निर्याताः। युधिष्ठिरादयः पाण्डवा अपि रथानधिष्ठाय शत्रून्मारयितुं तेषाम वधूनां वैधव्यकृतं केशेष्वसंस्कारं च सम्पादयितुं विचार्येव नगरान्निर्याताः इत्यर्थः ॥

{131}शङ्खान्दध्मुस्ताडयन्ति स्म भेरीश्चक्रुः {132}क्ष्वेलाश्चापनादान्विवव्रुः।
सिद्धादीनां द्योसदां लालनीये युद्धारम्भे ते द्वयेऽपि प्रवीराः ॥ 107 ॥

शङ्खानेति। ते द्वये प्रकारद्वैविध्येन प्रख्याताः पाञ्चालाः कौरवाश्च प्रवीराः योद्धारः। दिवि स्वर्गे सीदन्ति तिष्ठन्ति ये ते द्योसदः आकाशचारिणः स्वर्गस्थाश्च तेषां द्योसदां सिद्धादीनाम् नारदादि मुनीनां सिद्धचारणादीनां च लालनीये प्रशंसनीये युद्धारम्भे युद्धाद्यक्षणे शङ्खान् दध्मुः अवादयन्, भेरीः ताडयन्तिस्म, क्ष्वेलाः सिंहनादान् चक्रुः विहितवन्तः, चापनादान् धनुष्टङ्कारान् विवव्रुः प्रकटी कृतवन्तः। द्वयोरपि पक्षयोर्वीरार्युद्धोपक्रमकरणीय शङ्खचादनभेरीताडनसिहनादधनुष्टङ्कारान् प्रारब्धवन्त इति भावः। सालिनी वृत्तम्, तल्लक्षणं यथा-`तल्लक्षणं यथा-`सालिन्युक्ता म्तौतगौ गोऽब्धिलोकैः’ इति ॥ 107 ॥

अनयोर्बलयोर्महारथानामवलोकाय नभोजुषां सुरीणाम्।
सुदृशां च पुरस्य सौधभाजां वरणस्रग्विधृतैव भेदिकाभूत् ॥ 108 ॥

अनयोरिति। अनयोःबलयोः कौरवपाञ्चालसैन्ययोः महारतानाम् प्रसिद्ध्योद्‌धॄणाम् अवलोकायदर्शनाय नभोजुषाम् आकाससमवस्थितानां सुरीणाम् देवाङ्गनानां सौधभाजां प्रासादसिखरमारूढानाम् पुरस्य द्रुपदनगरस्य वनितानां च भेदिका पार्थक्येन ज्ञापनकरी विधृता करस्थिता वरणस्रक् युद्धे मृतानां वीराणां पतित्वेन वरणार्थं रक्षिता माला एव अभूत्, अयमर्थः-प्रवर्त्तमाने युद्धे महारथानवलोकयितुं द्रुपदपुरललनाः प्रासादमारुक्षन् देवाङ्गना अपि नभसि समायाताः तत्र तयोरतिशयितसाम्येन का देव्यः काश्चैतत् पुरवनिता इति ज्ञानं नाबविष्यत्परं देवबाला युधि मृतान् वरीतुं स्रजोहस्ते धृतवत्य आसन्निति सत्यपि भेदकान्तराभावे माला एव भेदं बोधयितुमलमभवन्निति। पौराङ्गनानां सौन्दर्यातिशयो व्यङ्ग्यः ॥ 108 ॥

आसीदतामाशु धनुर्धराणामासीदताम्यत्करकौशलानाम्।
क्षणं मिथो {134}बाणगणोपरोधाद्‌व्रणं न कस्यापि रणं नवं यत् ॥ 109 ॥

आसीदतामिति। आशु त्वरया आसीदताम् अन्योन्यसमीपमागच्छताम् अताम्यत् करकौशलानाम् अत्रुटितहस्तलाघवानाम् (धनुर्ग्रहणशरसनधानादिषु अविच्छिन्नयत्नकरजुषाम्) धनुर्धराणाम् मिथः परस्परम् बाणगणोपरोधात् शर निकरवारणात् (ईतोः) कस्यापि धनुर्धरस्य व्रणं क्षतं नाभूत्, यत् यस्मात् रणं युद्धं नवम् नूतनम्, अथ च वकार शून्यम्, व्रणशब्दे वकारच्युतौ रणशब्दः फलति, तदेवात्र चमत्कारकतया निबद्धम्। परस्परं सम्मिलितानां शरसन्धानादि व्यापृतकराणामपि तेषां धनुर्धराणां परस्परशरोवरोधव्याप्ततत्वेन क्षतस्यावसरो नूतने तत्र रणे नायासीदिति भावः ॥ 109 ॥

द्विरदं{135} द्विरदस्तुरगं तुरगो रथिकं रथिकः पदगं पदगः।
इतरेतरमेत्य रणं विदधे{136} दिवि नारदविस्मयनाकतरुम् ॥ 110 ॥

द्विरदमिति। द्विरदः हस्त्यारूढोयोद्धा द्विरदं स्वसमानं हस्त्यारूढं योद्धारम्, तुरगः अश्वारोही तुरगम् अश्वारोहिणम्, रथिकः रथी रथिकं रथस्थम्, पदगः पदातिः पदगम् पादचारिणम् पादचारिणम्, (इत्येवं प्रकारेण) इतरेतरम् अन्योन्यम् एत्यसंयुज्य दिवि स्वर्गे नारदस्य यो विस्मयः आश्चर्यरसस्तस्य नाकतरुम् कल्पवृश्रम् (बह्वाश्चर्यप्रदमित्यर्थः) रणं युद्धं विदधे ॥ 110 ॥

रजोन्धकारेषु दृशोऽन्धयत्सु करैः करान्कौतुकसूत्रचिह्नान्।
परामृशन्तो युधि पाण्डुपुत्राः परस्परं पर्यहरन्प्रहारान् ॥ 111 ॥

रजोऽन्धकारेष्विति। रजसा सेनोद्‌धृतधूलिभरेण जनितेषु अन्धकारेषु तमस्तु दृशः नेत्राणि अन्धयत्सु सत्सु कौतुकसूत्रचिह्नान् प्रतिसरयुक्तान् करान् हस्तान् करैः परामृशन्तः स्पृशन्तः पाण्डुपुत्राः युधिष्ठिराद्याः परस्परम् अन्योन्यम् प्रहारान् आघातान् पर्यहरन् अवारयन्। अयमर्थः-सेनाभिरुद्ध तेन रजसाऽन्धकारे दृग्भिरन्योन्यमीक्षितुमशक्ताः पाण्डवाः परस्परं प्रहारोमाकारीति प्राक् कौतुकसूत्रयुतान् करान् परामृश्य सद्योजातविवाहतया कौतुकसूत्रयुक्तकरावयमेवेति प्रतीत्य च तादृशेतरकरानेव प्राहार्षुरिति ॥ 111 ॥

सोमकेष्वपसर्पत्सु सूर्यसूनोः शितैः शरैः।
कूजयामास कोदण्डं {137}कुलिशायुधनन्दनः ॥ 112 ॥

सोमकेष्विति। सूर्यसूनोः कर्णस्य शितैः तीक्ष्णैः शरैः बाणैः सोमकेषु पाञ्चालेषु अपसर्पत्सु पलायमानेषु सत्सु कुलिशं वज्रमायुधं प्रहरणं यस्यासौ कुलिशायुध इन्द्रस्तस्य नन्दनः पुत्रः अर्जुनः कोदण्डं स्वशरासनं कूजयामास गुणाकर्षणेन ध्वनयतिस्म। कर्णप्रेरितबाणैर्भिन्नधैर्येषु पाञ्चलेषु पलायमानेष्वर्जुनः कर्णेन सह प्रतियोद्‌धुं स्वं धनुष्टङ्कृतवानित्यर्थः ॥ 112 ॥

तेन जनन इव प्रधनेऽपि वृकोदरद्वितीयेन करोदरपरिकर्मीकृतस्य{138} कार्मुकस्य वर्मनिर्माथिभिः शरोर्मिभिर्निकृत्तमर्माणो{139} भयविसारिभिः स्वेदवारिभिः {140}स्वपदान्येव यानपदेऽभिषिञ्चन्तः समराजिरकन्दलितपार्थयशश्चतुर्थीचन्द्रकलावलोकन{141} परिहर्तुमिव मुखं निवर्त्य सौबलेयाः केवलैरेव बाहुभिः कुरुपुटभेदनं प्रति पलायांबभूवुः।

तेन जनन इवेति। जनने जन्मनि इव प्रधने युद्धे अपि वृकोदरद्वितीयेन (जन्मनि वृकोदरपश्चाज्जाततया पार्थस्य वृकोदर द्वितीयत्वं प्रधने तु वृकोदरो द्वितीयोऽनुगन्तासहायो यस्य तत्त्वेन) तेन पार्थेन करोदरे बाहुमध्ये परिकर्मीकृतस्यालङ्कारभावं प्रापितस्य (हस्त धृतस्य) कार्मुकस्य धनुष वर्मनिर्माथिभिः कवचभेदिभिः शरोर्मिभिः बाणगणैः निकृत्तमर्माणः भिन्नान्तराः सौबलेयाः दुर्योधनादयः भयविसारिभिः भयेन समुत्पादितैः स्वेदवारिभिः घर्मतोयैः स्वपदानि निजपादान् एव यानपदे वाहनस्थानेऽभिषिञ्चन्तः समारोपयन्तः (भयेन हेतुना जनितैः स्वेदवारिभिः स्वीयपादानेव यानपदं लम्भयन्तः, पादचारिणः) समराजिरे रणाङ्गणे कन्दलितस्य प्ररोहतः पार्थयशश्चतुर्थीचन्द्रस्य अर्जुनकीर्त्तिरूपचतुर्थचन्द्रमसः कलायाः अवलोकनम् दर्शनम् परिहर्त्तुम् वर्जयितुमिव (यथा चतुर्थीचन्द्रदर्शनं लोकाः कलङ्कभीत्यावर्जयितुं मुखं परावर्त्तयन्ति तथैव दुर्योधनादयोऽपि पार्थस्य यशसो दर्शनं वारयितुम् इव) मुखं निवर्त्त्य परावर्त्त्य केवलैः निरायुधैरेव बाहुभिः कुरुपुटभेदनम् कुरुराजधानीं हस्तिनापुरीं प्रति पलायां बभूवुः पलायन्त।

बीभत्सुचापविवृतेषु महत्सु कर्मस्वेकं दृढं जगॉहिरे युधि धार्तराष्ट्राः।
वीक्ष्य स्थितेषु विमतेषु विलोलजीवं पृष्ठं प्रकाश्य गमनं पृथुना जवेन ॥ 113 ॥

बीभत्सुचापेति। युधि धार्त्तराष्ट्राः दुर्योधनादयः बीभत्सोरर्जुनस्य चापेन धनुषा विवृतेषु प्रकटीकृतेषु महत्सु श्लाघ्येषु कर्मसु व्यापारेषु एकम् कर्म दृढं जगृहिरे शिक्षितवन्तः, यद्यपि युद्धेऽर्जुनचापेन तानि तानि बहूनिकर्माणि प्रकटीकृतानि परन्तेषु मध्ये दुर्योधनादयः केवलमेकं कर्मैव सिक्षितुमशक्नुवन्, यथा गुरुणा बहुषुविषयेषु पाठितेषु मन्दश्छात्रः कमप्येकं ज्ञातुं प्रभुर्भवति तद्वदित्यर्थः। दुर्योधनादिभिः किङ्कर्मगृहीतमित्याह-दीक्ष्येति। विमतेषु शत्रुषु स्थितेषु विलोलजीवं चलं जीवनं वीक्ष्य मरणमुत्प्रेक्ष्य पृष्ठं प्रकाश्य दर्शयित्वा पृथुनाजवेन महतावेगेन गमनं पलायनम्। धनुरपि शत्रुषु स्थितेषु वीक्ष्य मान् विलोलजीवं चलत्प्रत्यव्चं पृष्ठं स्वपश्चाद् भागं प्रकाश्य महतावेगेन गमनं चलनं करोति, ततोगृहीत् शिक्षा इवामी गमनं चक्रुरिति भावः। गम्योत्प्रेक्षा। वसन्ततिलका वृत्तम् ॥ 113 ॥

विजयात्परमेतेषामृजवोऽप्यतिभीषणाः{143}।
सद्यो गुणाः समुन्नेमुरवनेमुस्तु{144}धन्विनाम्{145} ॥ 114 ॥

विजयादिति। एतेषां पाण्डवानां गुणाः शौर्यधैर्यादयः विजयात् परम्-तत्रत्य विजयात्परतः ऋजवः विनयान्विततया मृदवः सन्तोऽपि अतिभीषणाः शत्रुभयदाः सद्यः तत्कालएव समुन्नेमुः परमप्रकर्षमभजन्, धन्विनां परेषां धनुर्धराणाम् दुर्योधनादीनाम् गुणाः चापगताः प्रत्यञ्चाः शौर्यादयो वा अवनेमुः अनमन् पराभवकृतां ग्लानिं नामावनतिमवाप्ता इत्यर्थः ॥ 114 ॥

ते निवृत्य नगरं {146}समावसंस्तोषिता द्रुपदराजपूजया।
{147}अप्यशेषजनकेन शौरिणा जन्यभावमुपजग्मुषा समम् ॥ 115 ॥

ते निवृत्येति। ते पाण्डवाः नगरं नृपतेर्द्रुपदस्य राजधानीं निर्वृत्य युद्धस्थलात् पुनरागत्य अशेषजनकेन सकलसृष्टिकर्त्रा अपि जन्यभावम् वराणां सख्यम् उपजग्मुषा प्राप्तेन शौरिणा कृष्णेन समं द्रुपदराजपूजया द्रुपदकृतसत्कारविशेषेण तोषिताः प्रसन्नाः समावसन् अधिश्रिताः। युद्धात्परावृत्तास्ते द्रुपदपुरे कृष्णेन सह द्रुपदकृतां सपर्यामुपभुञ्जानाः सुखमासामासुरिति भावः। जनकस्य जन्यत्वं विरोधं प्रतिभासयति, जन्यशब्दस्य वरसहचरत्वरूपार्थत्वेन तत्परिहारश्च। `जन्याः स्निग्धावरस्य ये’ इत्यमरः ॥ 115 ॥

पार्थ एव सहजेष्वखिलेषु प्रायशो युधि बलं श्रुतवत्याः।
अन्वभूदधिकमीक्षणवृष्टीरर्जकांशमिव{148} राजसुतायाः ॥ 116 ॥

पार्थएवेति। अखिलेषु सहजेषु भ्रातॄणां मध्ये पार्थ एव अर्जुन एव युद्धे समरे वलम् अर्जुनस्य पराक्रमप्रकर्षं श्रुतवत्याः आकर्णितवत्याः राजसुतायाः द्रौपद्यः अर्जकः अर्जनकर्त्ता अधिकं वाक्षितानि अन्वभूत्, यथा सम्पत्तेरर्जकोऽधिकं भागमाप्नोति, तथैव पराक्रमाकृष्टा द्रौपद्यर्जुनायाधिकं स्निह्यन्ती तत्प्रीतयोऽधिकं तमैक्षतेत्यर्थः ॥ 116 ॥

वृत्तान्तमेवमवकर्ण्य स राजवृद्धः क्षत्त्रा सक शमुपनाय्य सहानुजातैः।
धर्मात्मजाय धुरी कंसभिदोऽर्धभावादन्वर्थतामथ विभज्य ददौ स्वनाम्नः ॥ 117 ॥

वृत्तान्तमिति। अथ स राजवृद्धो धृतराष्ट्रं एवम् उपरिवर्णितप्रकारम् लाक्षागृहान्निर्गमादारभ्य द्रुपदपुरे दुर्योधनादि पराजयान्तं वृत्तान्तम् समाचारम् अवकर्ण्य श्रुत्वा क्षत्त्रा विदुरेण (द्वारा) अनुजातैः अनुजैर्भीमादिभिः सह (धर्मराजं) सकाशम् स्वसमीपम् उपनाप्य आकार्य कंसभिदः कृष्णस्य धुरि अग्रे (तं साक्षिणं कृत्वा) धर्मात्मजाय युधिष्ठिराय स्वस्य नाम्नो `धृतराष्ट्र’ इति संज्ञायाः अन्वर्थताम् राज्यधारणम् समांशेन विभज्य द्विधा विधाय इव ददौ। पाण्डवा नामीदृशं पराक्रमं श्रुत्वा विदुरद्वारा तानाह्नय च कृष्णस्याग्रे धृतराष्ट्रो युधिष्ठिराय स्वराज्यस्यार्धं भागं दत्तवान् मन्ये स स्वांसंज्ञामेवान्वर्थां राज्यधारित्वार्थिकां तस्मै विभज्यददावित्यर्थः ॥ 117 ॥

तस्मिन्नाहितलक्षणे {151}नृपसुते राज्याभिषिक्ते सति स्वान्यक्षीणि दधुर्यदम्बु शिशिरं लिप्ताङ्गके कुङ्कुमैः।
रागं यद्बिभरांबभूवुरवहन्यद्वर्णिते बन्दिभिर्निष्पन्दत्वमतः स्वदृष्ठिरिति तं पौरा विवव्रुः स्फुटम् ॥ 118 ॥

इत्यनन्तभट्टकविकृतौ चम्पूभारते द्वतीयः स्तबकः।

तस्मिन्निति। आहितानि स्थितानि लक्षणानि राजत्व प्रापक विशालबाहुत्वकरकमलोपलक्ष्यमाणशङ्खचक्रचिह्नत्वादीनि यस्मिंस्तस्मिन् नृपसुते पाण्डुपुत्रे युधिष्ठिरे राज्याभिषिक्ते कृतराज्याभिषेके सति-यत् यतः स्वानि लोकानाम् संबन्धीनि अक्षीणि नेत्राणि शिशिरम् आनन्दजन्यं शीतलम् अम्बु हर्षाश्रु दधुः धारितवन्ति, (नृपसुते च) कुङ्कुमैः काश्मीरजैः लिप्ताङ्गके चर्चितवपुषि सति रागं प्रेमरक्तत्वं च यत् बिभरां बभूवुः, वन्दिभिः स्तुतिपाठकैः वर्णिते स्तुते सति निःस्पन्दत्वम् स्तब्धत्वम् अवहन् प्रापुः, अतः पौराः पुरवासिनः तं नृपसुतं स्वदृष्टिः निजं नयनमिति विवव्रुः प्रकाशयामासुः। युधिष्ठिरं पौराः स्वनेत्रं मन्यन्तेस्म, यतस्तस्मिन्नभिषिच्यमाने तद्वदेव पौराणां नेत्राण्यपि हर्षाश्रुसीतलमधारयन्, तस्मिंश्च कुङ्कुमलिप्त शिरसि यथा स रक्ताङ्गः समजनि तथैव पौरनेत्राण्यपि सरागाणि प्रेमपूर्णान्यजायन्त, वन्दिभिः स्तुते च तस्मिन् यथा राज्ञा स्तब्धः समजायत तथा तेषां नयनान्यपि स्तब्धान्यभूवन्नतः सर्वगुणसाम्याद्राजानमपि तेस्वनेत्रमिति प्रकारेण प्रकाशयामासुः। अति लोकानुरञ्जकोऽभूद्युधिष्ठर इति भावः। उत्प्रेक्षा काव्यलिङ्गं चालङ्कारौ। वृत्तं शार्दूलविक्रीडितम् ॥ 118 ॥

॥ इति मैथिलपण्डित श्रीरामचन्द्र मिश्र प्रणीते चम्पूभारत `प्रकाश’ द्वितीयस्तबक `प्रकाशः’ ॥
॥ Foot Notes ॥

1.`सर्वेऽपि। 2.`चिरं विहृत्य’। 3.`वाटीषु’। 4.`कुशलकुशीलवबालककुलपरिशीलित’। 5.`मानसाः। 6.`निभृतसमुद्‌घाटितेषु’। इति पाo। 7.`रसना’। इति पाo। 8.`अपरेद्युः। 9.`सग्धि’, `जग्धि’,। 10.`आरालिककरदापित’। 11.`लम्बिशिरसम्’। 12.`हृदि शूलम्’। इति पाo। 13.`परिगणनदिनगणात्यशङक्तितैः’। 14.`विचित्य-वत्स’। इति पाo। 15.`पृदाकुपरिवृढदापित’। 16.`पानाद्विशेष’। 17.`परिपोषपात्रं गात्रं’। 18.`इव कौरवहृदयेऽपि’। इति पाo। 19.`यशसो’। 20.`उपहारीचकार’। इति पाo। 21.`स्नेहभाव’। 22.`कोटीम्’। इति पाo। 23.`शरासेषु’। 24.`पूर्विकया विमतेषु’। इति पाo। 25.`पार्षदः’। 26.`सस्मितः’। 27.`रे रे’। 28.`मग्निवेश्यं मुनि’। इति पाo। 29.`श्रुरप्रवरप्रायेण’। 30.`मम मनसि व्यथां वितार्णवताऽर्णवरशनावतीम्’। 31.`स्वयमेवानुभवता भवता’। 32.`जड’। 33.`पौरवान्ते वसता’। 34.`पार्षदः’। 35.`परिवर्तनेन परमङ्गीकृत्य’। 36.`उपयममेव’। 37.`कृतक्रतुनिर्वर्तनः’। 38.`तटवन’। 39. `परिजग्राह। तातोऽपि। इति पाo। 40.`अभ्यषिञ्चन्’। 41.`अवनिम्’। इति पाo। 42.`पस्त्यम्’। 43.`नन्दनस्य’। 44.`अमितं’; `अथ तम्’ इति पाo। 45.`वास्तव्यो पौरजनसुवास्तव्यो’। इति पाo। 46.`सुखेन’; `सुखम्’। इति। पाo। 47.`आमिषेषु’। इति पाo। 48.`भीमेन गृहात्’। 49.`संश्लघिरे’। 50.`सूनुम्’। 51.`धुरंधरं’। 52.`विटपविघटन’। 53.`विघट्टन’। 54.`कुलबद्ध’। 55.`जागरविचक्षणः’; `विचक्षणजागरः’; `विचक्षणजागरूकः’। 56.`सुखितेन’। इति पाo। 57.`एनां’ इति पाo। 58.`दग्ध्वैव’। इति पाo। 59.`वनमध्यात्’ 60.`सदसि’। 61.`कानिचित्’। इति पाo। 62.`जगतीमिव’ `नगरीमिव’। 63.`गृह्यम्’ 64.`उपेत्य’। 65.`तनूजैः’। 66.`अन्नराशेः’। 67.`उत्सङ्गभुवि पत्युरपत्यं’। इति पाo। 68.`उपागतो’। 69.`कृत्वा’। इति पाo। 70.`कलयते’। इति पाo। 71.`मया ते’। 72.`तत्प्रीणनप्रणाशनयोः’। इति पाo। 73.`रखिल’। 74.`दिनकरे मन्देह’। 75.`शेखरान्न’; पीवरान्न’; `शीफरान्न’। 76.`क्ष्वेडितम्’। 77.`भारमन्दित’। इति पाo। 78.`सृक्कि’। इति पाo। 79.`नेत्राम्बु’। इति पाo। 80.`वेदिकायाम्’। 81.`रत्नसौध’। इति पाo। 82.`लभ्यते’। इति पाo। 83.`यूथ’। 84.`ते पुनरनेक’। 85.`सदन’। 86.`फाल्गुनकरवल्गितेन’। 87.`तेजसो नितान्त’। 88.`तटिनीं प्राविक्षत्’। 89.`प्राविक्षन्’। इन्दीवरात्-’ इति पाo। 90.`दीप्तकुण्डलधरं’। इति पाo। 91.`अन्ययात्’। इति पाo। 92.`समुपेत्य’। 93.`पतितमिव’। इति पाo। 94.`द्विजमध्यसंघात्’। इति पाo। 95.`पुरुषेन्द्र’। इति पाo. 96.`सभाङ्गणान्निश्चक्राम्’। 97.`एव खलोऽयं’। 98.`सुलभोन्मेषेण सरभस-’। 99.`मिति जातिचापलं’। 100.`कुमारोऽपि समा’। इति पाo। 101.`अपर इव’। इति पाo। 102.`भाषितैः। इति पाo। 103.`एवम्’। इति पाo। 104.`रन्तःपुरकाभिः’। इति पाo। 105.`शशिनो’। 106.`सुदृशः’। इति पाo। 107.`दृगन्तम्’ इति पाo। 108.`मध्ययष्टिम्’ इति पाo। 109.`द्रुतम्’। इति पाo। 110.`कालक्षिपा’। 111.`अवलोक्य’। 112.`मञ्जुलमुखभागाम्’। इति पाo। 113.`मणिगण’। 114.`मणिनिकायकोरकितैः’। इति पाo। 115.`बिम्बम्’। 116.`सह’। इति पाo। 117.`हुतवहम्’ इति पाo। 118.`कन्यकाभ्युपहृताः’ 119.`स्पुरदिन्दिराप्रतिकृतेश्च’। इति पाo। 120.`व्यत्यास्यताम्’; `व्यत्यास्थाम्’। 121.`स्वैः’। इति पाo। 122.`वेध’। 123.`इव ते’। 124.`ललितैः’। 125.`क्ष्वेडितैः’। 126.`रौक्ष्यम्’। 127.`नगरम्’। 128.`निर्वार्य’; `निर्वाय’। इति पाo। 129.`निर्गत्वरेषु’। 130.`एव’। इति पाo। 131.`शङ्खम्’। 132.`क्ष्वेडाम्’ 133.`नादम्’। इति पाo। 134.`बाणगणं निरुद्ध्य व्रणं वना तत्र रणं महीयः। 135.`रथिकं रथिकां द्विरदं द्विरदस्तुरगं तुरगः’। 136.`विदधौ’। इति पाo। 137.`कुकुशायुध’। 138.`कृत’। 139.`निर्मितेर्ममर्माणो भयप्रसारिभिः’ इति पाo। 140.`पदान्येन’। 141.`चन्द्रावलोकनं’। 142.`पट’। इति पाo। 143.`अरिभीषणाः’ 144.`च’। 145.`धन्वनाम्’ 146.`समाविशन्भूषिता’. 147.`वन्यशेष’। इति पाo। 148.`वृष्टेरार्जकोंऽशम्’ 149.`उपनीय’। 150.`भागात्’। इति पाo। 151.`नरपतौ’। इति पाo।

*************************************************

.

** ॥ तृतीयः स्तबकः ॥**

पितृव्यवाचाथ पृथातनूजो हरिं पुरोधाय समं बलौघैः।
परस्परस्नेहमिवैष मातुं प्रस्थं ययौ खाण्डवसब्दपूर्वम् ॥ 1 ।

पितृव्येति। अथ राज्याभिषेकात्परतः एषः पृथातनूजः कुन्तीपुत्रो युधिष्ठिरः पितृव्यस्य स्वपितृभ्रातुर्धृतराष्ट्रस्य वाचा वचनेनाज्ञया परस्परस्य अन्योन्यस्य (क्वपक्षस्य-दुर्योधनादेश्च) स्नेहं सौहार्दं मातुं प्रमापयितुम् इव खाण्डवशब्दपूर्वम् इन्द्रशब्दोपपदम् प्रस्थं तन्नामकमिन्द्रप्रस्थं हरिं श्रीकृष्णं पुरोधाय अग्रे कृत्वा बलौघैः सह ययौ। यता कोऽपि किमपि मातुमिच्छुः सन् प्रस्थं नाम मानसाधनं समासादयति तथैवायमपि धर्मराजो धृतराष्ट्रस्याज्ञामुररीकृत्य दुर्योधनादिभिः सह स्वपक्षस्य सौहार्दं मातुमिवेन्द्रप्रस्थाभिधे नगरे भगवता सह गतवानित्यर्थः। अत्र स्वपक्षस्य सौहार्दं मातुमिवेन्द्रप्रस्थाभिधे नगरे भगवता सह गतवानित्यर्थः। अत्र प्रस्थ शब्दशक्तिमूलको वस्तु ध्वनिः। `खाण्डवो बलसूदनः’ `कुडवः प्रस्थ इत्याद्याः परिमाणार्थकाः पृथक्’ इत्युभयत्रामरः। उपजातिर्वृत्तम्, तल्लक्षणमुक्तमन्यत्रेति ॥ 1 ॥

तत्र {1}वनीभवति वनीपकजनमनीषितपूरकपुरुकुलावनीपसुरसुरभिगोष्ठीगौष्ठीने देशे{2} स्मरणमात्रकृतसंनिधानेन{3} सकलशिल्पपारदृश्वना{4} विश्वकर्मणा{5} स्वकर्मणा निर्मापितं {6}रामणीयकावलोकनसुलभविस्मयभारगुरुतरानमरान्वोढुमक्षमतया {7}क्ष्मातलमवलम्बमानैविमानैरिवाभ्रंलिहं(8) कुरुविन्दमणिमन्दिरैर्जम्भरिपुनिदेशेन (9)लम्भिततन्नामोपपदमिन्द्र{10} प्रस्थ{11} मधिष्ठिताय युधिष्ठिराय निवेद्य{12} स्वपुरेऽपि सुषमामीदृशीं परीक्षितुमिव स्यन्दनेन यदुनन्दनेन प्रयये।

तत्र वनीभवतीति। वनीयकजनानां याचकानां मनीषितानि अभीष्टानि तेषां पूरकाः सामग्र्येण दातारः ये पुरुकुलावनीयाः पुरुवंश्याः पृथ्वीभुजः ते एव सुरसुरभयः कामधेनवः तासां गोष्ठ्याः समूहस्य गौष्ठीने प्राक्तने स्थाने (यत्र याचकाभिलाषपूरकाः पौरवा राजानः पूर्वं न्यवसन् तत्रेत्यर्थः) तत्र देशे इन्द्रप्रस्थतया पश्चात्ख्यातिंगते तस्मिन् स्थाने वनी भवति लोकानध्युषिततयाऽसंस्कारवशात् काननभावं प्राप्ते स्मरणमात्रकृतसन्निधानेन स्मरणमात्रोपस्थितेन सकलशिल्प पारदृश्वना समस्तगृहनिर्माणादिकलानिपुणेन विश्वकर्मणा देवशिल्पिना स्वकर्मणा स्वीयेन यत्नेन निर्मापितं विरचितं, रामणीयकस्य सौन्दर्यस्य अवलोकनेन वीक्षणेन सुलभः यः विस्मयभारः आश्चर्यगौरवम् (तत्पुरवीक्षणजनितं देवानां हृदये जायमानं यदाश्चर्यं तेन तेषां गुरूभूत्वमत्रोत्प्रेक्षितं बोध्यम्) तेन गुरुतरान् वृद्धभारान् अमरान् देवान् बोढुम् अक्षमतया अशक्ततया क्ष्मातलम् भूतलम् अवलम्बमानैः आश्रयद्भिः विमानैः सुरयानैरिव कुरुविन्दमणि मन्दिरैः पद्मरागमणिनिर्मितैः गृहैः अभ्रंलिहम् आकाशचुमिबि, (तत्रपुरे पद्मरागमणिनिर्मितानि गृहाणि विमानानी क्रियोत्प्रेक्ष्यते) जम्भरिपुनिदेशेन इन्द्रस्याज्ञया लम्भिततन्नामोपपदम् इन्द्रशब्देन चिह्नितपूर्वभागं संज्ञायामिन्द्रशब्दसङ्घटितम् इत्यर्थः। इन्द्रप्रस्थम् नाम नगरम् अधिष्ठिताय आश्रितवते युधिष्ठिराय निवेद्य स्वपुरं गन्तुमिच्छामीति निवेद्य स्वपुरे द्वारकायाम् अपि ईदृशीम् इन्द्रप्रस्थवर्त्तिसुषमासा दृशीम् सुषमां परां शोभां परीक्षितुं ज्ञातुम् इव यदुननन्दनेन श्रीकृष्णेन स्यन्दनेन रथेन प्रयये प्रतस्थे चलितम्। श्रीकृष्णो मम पुरे शोभैतादृशी विद्यते न वेति ज्ञातुमिवेन्द्रप्रस्थात् द्वारकां गत इत्यर्थः। `वनीयको याचनकः’ `गोष्ठं गोस्थानकं तत्तु गौष्ठीनं भूतपूर्वकम्’ `कुरुविन्दः पद्मरागः’ इति सर्वत्रामरः ॥

प्राणायमानमहिलानथ पाण्डुपुत्रान्क्षोणविमाननुजिघृक्षुरुदारभूमा{13}।
एणाजिनेन घटितोद्गमनीयकृत्यो वीणाविनोदरसिको{14} मुनिराविरासीत् ॥ 2 ॥

प्राणायमानेति। अथ कृष्णे द्वारकां प्रयाते सति उदारभूमा महाप्रभावोपपन्नः एणाजिनेन मृगचर्मणा घटितम् सम्पादितम् उद्‌गमनीयकृत्यम् उत्तरीयान्तरीयरूपवस्त्रद्वयकार्यं येन तथोक्तः वीणाविनोदरसिकः वीणावादनव्यसनी मुनिः नारदः प्राणायमाना अतिप्रियतया प्राणवदाचरन्ती महिला भार्या द्रौपदी येषां तान् प्राणायमानमहिलान् इमान् युधिष्ठिरादीन् पाण्डुपुत्रान् अनुजिघृक्षुः दर्शनदानेनानुकम्पयितुकामः क्षोणौ भुवि आविरासीत् प्रकटीबभूव। इमान् पाण्डुपुत्रान्दर्शनप्रदानेनानुग्रहीतुकामो नारदो मृगचर्मणी वसानः पृथ्व्यामायात इत्यर्थः। वसन्ततिलकं वृत्तम् ॥ 2 ॥

तपोनिधेरागमनेन सद्यः सभा विभोः स्तब्धजनारवापि।
वीणारवानुद्रुतभृङ्गमालाकोलाहलैर्घोषितदिड्मुखाभूत् ॥ 3 ॥

तपोनिधेरिति। विभोः प्रभोर्धर्मराजस्य सभा तपोनिधेः तपस्विनो नारदस्य आगमनेन उपस्थित्या सद्यः प्रभोर्धर्मराजस्य सभा शान्तलोकसञ्चारभाषणादिशब्दाऽपि वीणायाः नारदसम्बन्धिन्या सहत्यानाम् वीणायाः रवान् तन्त्रीनादान् अनुद्रुतायाः अनुगच्छन्त्याः भृङ्गमालायाः भ्रमरतते कोलाहलैः झङ्कारैः घोषितानि मुखराणि दिङ्मुखानि दिगवकाशाः यस्यां तादृशी अभूत्। यद्यपि तपस्विनो नारदस्यागमनेन तत्रत्याः लोकाः स्तब्धा मूकाश्चाजायन्त तथापि नारदकरस्थवीणानुगतभ्रमरझङ्कारैर्दिशो मुखरीबभूवुरित्यर्थः। उपजातिर्वृत्तम् ॥ 3 ॥

दृष्ट्वा नृपो देवमुनिं विनीतो मौलिस्रजां धूलिमधूलिवृन्दैः।
सपङ्कमाधाय {15}तदङ्घ्रियुग्मं विपङ्कमात्मानमयं व्यतानीत् ॥ 4 ॥

दृष्ट्वेति। अयं नृपो युधिष्ठिरः देवमुनिं नारदं दृष्ट्वा साक्षात्कृत्य विनीतो नम्रः सन् मौलौ स्वशिरसि (स्थितानां) स्रजां पुष्पमालानां धूलयः परागाः मधूलयः मकरन्दाश्च तेषां वृन्दैः समुदयैः तस्य देवमुनेर्नारदस्य अङ्घ्रियुग्मं पादयुगलं सपङ्कं कर्दमयुतम् आधाय कृत्वा आत्मानं स्वं विपङ्कं निप्पापम् व्यतानीत् कृतवान्, आगतस्य नारदस्य चरणौ नत्वा युधिष्ठिरः स्वं पापं प्राणुददित्यर्थः। अत्र नारदचरणयोस्सपङ्कत्वसम्पादनमुद्रया स्वीयपङ्कापनोदनं चमत्कारप्रदं वर्णितम्। उपजातिरेव वृत्तम् ॥ 4 ॥

मेध्यां बृसीमधिगतस्य {16}विरिञ्चिसूनोरास्थाय संविधिमुदारमुदां कुरूणाम्।
तस्याद्भूतागमनहेतुपरिच्छिदायां चित्तानि दूरपथवर्तनतामवापुः ॥ 5 ॥

मेध्यामिति। मेध्याम् पवित्राम् वृसीम् व्रतिजनोचितमासनम् अधिगतस्य प्राप्तवतः तत्रोपविष्टस्येत्यर्थः, विरञ्चिसूनोः ब्रह्मात्मजस्य नारदस्य सन्निधिं सामीप्यावस्थानं प्राप्य लब्ध्वा उदारमुदाम् प्रवृद्धहर्षाणां कुरूणाम् युधिष्ठिरादीनां चित्तानि हृदयानि तस्य नारदस्य अद्‌बूतम् आश्चर्यकरं यदागमनम् अकस्मादुपस्थानं तस्य हेतोः कारणस्य परिच्छिदायां विभावने किमर्थमयमायात इति विचारे दूरपधवर्त्तनताम् सुदीर्घाध्वस्थितम् दीर्घालोचनपरायणत्वम् अवापुः प्राप्तानि, नारदस्य समीपे स्थित्वा तत्सङ्गसुखमनुभवन्तो युधिष्ठिरादयः किमर्थमयमायात इति विषये दूरविभावनासक्तचित्ता अभूवन्नित्यर्थः। वसन्तितिलकं वृत्तम् ॥ 5 ॥

निकुञ्चिते तेन धृता निजाङ्के विपञ्चिका मौनमवाप्य तस्थौ।
पाञ्चालिकावन्दनवादशैलीमाधुर्यमाकर्ण्य विलज्जितेव ॥ 6 ॥

निकुञ्चित इति। निकुञ्चिते संकोचिते (अप्रसारिते) निजाङ्के स्वीये क्रोडे तेन नारदेन धृता विपञ्चिका वीणा पाञ्चालिकायाः द्रौपद्याः या वन्दनवादशैली प्रणामावेदनप्रकारस्तस्याः माधुर्यम् आकर्ण्य श्रुत्वा विलज्जिता ह्रिणा इव मौनमवाप्य मूकीभूय इव तस्थौ। अयमाशयः-उपविष्टो नारदो वीणां स्वाङ्के निधाय युधिष्ठिरादिभिः सह संलिलपिषया तद्वादनान्न्यवर्त्तत, तेन मूका वीणा द्रौपद्या नारदोद्देश्यकप्रणामावेदेने यत्स्वरमाधुर्यं तदाकर्णनेनैव मूकीभूय स्थितेत्युत्प्रेक्ष्यते। हेतूत्प्रेक्षास्फुटोऽलङ्कारः॥ उपजातिर्वत्तम् ॥ 6 ॥

राज्ञामुना समुचितेषु सभाजनेषु पात्रैश्च पाणिविधृतैः {17}।
निर्वर्तितेषु रभसेन निवर्तितेषु स्मित्वा मिथो गिरमभाषत धातृसूनुः ॥ 7 ॥

राज्ञामुनेति। धातृसूनुः ब्रह्मणाः पुत्रो नारदः अमुना राज्ञा युधिष्ठिरेण पाणिविधृतः परिजनकरगृहीतैः पात्रैः पूजोपकरणधारकस्थाल्यादिभिः सभाजनेषु सत्कारपूजनेषु निर्वर्त्तितेषु सत्सु प्रचलैः पूजोपकरणधारकस्थाल्यादिभिः चलद्भिः वेत्रैः वेत्रदण्डैश्च सभाजनेषु सभास्थितलोकेषु रभसेन हठेन निवर्त्तितेषु दूरीकृतेषु सत्सु च मिथो रहसि एकान्ते स्मित्वा हासपूर्वकां गिरं वक्ष्यमाणलक्ष्णां वाचमभाषत्, यदा युधिष्ठिरो भृत्यपात्रस्थितैः पात्रैर्नारदस्य पूजां समपादयद्यदा च वेत्रदण्डैस्ततः स्थानात् जनतां दूरीकृतवाँस्तदा एकान्ते जाते नारदः स्मयमानः सन् वक्ष्यमाणप्रकारेणोक्तवानित्यर्थः ॥ 7 ॥

लाक्षागृहाद्यदच्यावि साक्षादिव रतिः प्रिया।
यद्‌व्यवाहि च युष्माभिस्तद्‌द्वयं हि सतां मुदे ॥ 8 ॥

लाक्षागृहादिति। (हे कुरवः, युष्माभिः) लाक्षागृहात् लाक्षागृहदाहजन्य संभावितदाहात् यद् अच्यावि च्युतम् निस्सृतम् (आत्मानो गोपायिताः) यत् (च) साक्षात् रतिः रतितुल्या सुन्दरी प्रिया द्रौपदी व्यवाहि परिणयविधिना प्राप्ता तत् द्वयम् हि सताम् सज्जनानां मुदे हर्षाय जातमिति शेषः परापन्निवृत्तेः परकीयशुभसम्पदश्च सज्जानानन्दहेतुतया भवत्सु लाक्षागृहसम्भाविताग्निदाहविपदो निवृत्तेषु सत्सु द्रौपदीस्वरूपस्त्रीरत्नलाभेन समृद्ध्यत्सु च सत्सु सतामानन्दः समधिकमपुष्यदित्यर्थः ॥ 8 ॥

स्वतोभातमतीनां वः कुतो वाऽन्यानुशासनम्।
मौनं तु सुहृदाख्येये दूनं वक्तारमादिशेत्{18} ॥ 9 ॥

स्वतोभातेति। स्वतः आत्मना भाताः प्रकाशिताः मतयः कर्त्तव्याकर्त्तव्यबुद्धयो येषां तादृशानाम् भवतां पाण्डवानाम् अन्यानुशासनम् परकृतं हिताहितोपदेशनम् कुतः? नोपपद्यत इत्यर्थः। किन्तु सुहृदाख्येये मित्रवाच्ये विषये मौनम् मूकीभूयावस्थानम् वक्तारम् वचनसमर्थम् जनम् दूनम् सन्तप्तम् आदिशेत्, यदि वक्तुमीशः स्वतोभातमतीनामपि हिताहितं न ब्रूयात्तादासौ कदाचित्तापमनुभवेदिति बुद्‌ध्या स्वतो विवेकिनोऽपि भवतः किञ्चिदुपदिशामीत्याशयः ॥ 9 ॥

अष्टमी किल शिखा वधूरियं भाति याजमखवेदिबर्हिषः।
यूयमभ्रसरिता वृतान्वयाः पावनः खलु भवत्समागमः ॥ 10 ॥

अष्टमीति। इयम् प्रत्यक्षदृश्या वधूः द्रौपदी याजमखवेदिबर्हिषः याजनामकमुनेः मखे पुत्रेष्टियागे याः वेदयस्तासु स्थितस्य बर्हिषः अग्नेः अष्टमी सप्ताधिका शिखा ज्वाला (इव अतिप्रकृष्टप्रकाशा पूता च) अस्तीति शेषः, यूयम् पाण्डवाश्च अभ्रसरिता गङ्गया वृतः स्वपरिणेयत्वेन स्वीकृतोऽन्वयः वंशो येषां तादृशाः, भवतां द्रौपद्या युष्माकं च समागमः दाण्पत्यलक्षणः सम्बन्धः पावनः अतितरां पवित्रः पुरा द्रुपदो याजं पुरोधतसं कृत्वा पुत्रीयामिष्टिमकृतेति तत एव च द्रौपदी जातेति तस्यास्तन्मखवेदिवह्निशिखात्वमुक्तं तेन तस्याः कुलशुद्धिरभिधीयते, भवतां च वंशो गङ्गया वृतस्तद्युष्माकं समागमोऽतितरां पवित्र इत्यर्थः ॥ 10 ॥

जायया च पतिभिश्च कदाचिज्जायते स्म नहि दम्पतिशब्दः।
अद्भुतस्य खलु तस्य जगत्यामर्थतामनुभवन्ति भवन्तः ॥ 11 ॥

जायते। जायया भार्यया (एकस्या भार्याया व्यञ्जनायैकवचनम्) पतिभिः स्वामिभिः बहुभिः (बहुवचनमत्रापि साभिप्रायम्) दम्पतिशब्दः कदाचिदपि नहि जायतेस्म भवतिस्म एका भार्या परिश्चैक एतद्‌बोधयितुमेव दम्पतिशब्दः प्रयुज्यते, न तु बहवः पतयः पत्नी चैकेति बोधयितुम्। जाया च पतिश्चेति विग्रहे जायाशब्दस्य दम्भावो निपात्यते, तदा दम्पतिशब्दसिद्धिः स च दम्पतिशब्दः स्वभावतो जायामेकां तत्पतिञ्चैकमभिधत्ते, नत्वेकाधिकपतिसहचरितामेकां भार्यामाहेत्यर्थः। यूयम् पाण्डवाः द्रौपदी च अद्‌भुतस्य आश्चर्यकरस्य तस्य दम्पती शब्दस्य अर्थताम् वाच्यत्वम् अनुभवन्ति। एका द्रौपदी भार्या भवन्तश्च पञ्चपाण्डवाः पतयः इति न श्रुतं पूर्वमित्याश्चर्यं जनयति लोकानामित्याशयः। स्वागतावृत्तम् ॥ 11 ॥

एकस्मै स्पृहयालूनामिष्टाय सुधियामपि।
करस्थमेव व्रुवते कलहं निधनावधिम् ॥ 12 ॥

एकरमै इति। एकस्मै इष्टाय अभिलषितवस्तुने स्पृहयालूनाम् कामनाशालिनां सुधियां कर्त्तव्यज्ञानवताम् अपि निधनावधिम् मरणान्तम् कलहं विरोधम् करस्थम् हस्तगतम् अनायासलभ्यम् एव ब्रुवते वदन्ति नीतिविद इति शेषः। एकमेव वस्तु कामयमानाः सुधियोऽपि विरुध्य मरणान्तं तत्फलमाप्नुवन्तीति नीतिकुशला वदन्तीति भावः। तथोक्तं प्रसन्नराघवे-`एकामिषाभिलाषो हि मूलं वैरमहातरोः’ इति ॥ 12 ॥

सुन्दोपसुन्दौ सहजावभीकौ सुरेप्विव क्वापि सुराङ्गनायाम्।
अन्योन्यमाहत्य पुरा यमस्य मनोभवेषोरिव लक्ष्यमास्ताम् ॥ 13 ॥

सुन्दोपसुन्दाविति। पुरा पूर्वसमये सुन्दोपसुन्दौ नाम सहजौ सोदरौ भ्रातरौ सुरेषु देवेषु (अभीकौ-निर्भयौ) इव क्वापि सुराङ्गनायाम् तिलोत्तमाख्यायां देवललनायां विषये अभीकौ कामुकौ सन्तौ अन्योन्यम् परस्परम् आहत्य प्रहारं कृत्वा मनोभवेषां कामबाणस्य इव यमस्य लक्ष्यम् चक्षुर्विषयः वेध्यश्च आस्ताम्। सुन्दोपसुन्दौ नाम सोदरौ राक्षसौ तिलोत्तमां कामयामानौ परस्परप्रहारेण मृताविति पौराणिकी कथा। तौ हि देवेष्वभीकौ निर्भयौ तिलोत्तमायाञ्चाभीकौ कामुकौ-`अभीकः कामुके क्रूरे शंभौ च भयवर्जिते’ इत्यमरः। यथा च तौ कामबाणाना लक्ष्यौ वेध्यौ जातौ तथैव यमस्यापि लक्ष्यौ दर्शनविषयौ जाताविति भावः। उपजातिर्वृत्तम् ॥ 13 ॥

तत्सौभ्रात्रशख्यस्य द्वैधीकरणकेलये।
भवतां मारचापेषु भवतां मा वधूते ॥ 14 ॥

तदिति। तत् एकपत्नीविषये बहूनामनुरागस्य विपदाधायकत्वस्य दृष्टत्वाद्धेतोः भवतां पाण्डवानां सौभ्रात्रं भ्रातृस्नेह एव शारव्यं लक्ष्यं तस्य द्वैधीकरणं भेदनम् एव केलिः तस्मै मारचापेषु कामस्य धनुर्बाणौ वधू कृते द्रौपदीं निमित्ती कृत्य मा भवताम् न जायेताम्। अयमाशयः-एकस्याः कामिन्या विषये एकाधिकासक्तेर्भयावहत्वस्य दृष्टान्तैः प्रमितत्वेन सम्भवति भवतामपि सौभ्रात्रं कामस्य चापबाणौ छिन्द्यातां तन्माऽस्तु, अतः पूर्वत एव तद्विषये भवद्भिर्भवितव्यं दत्तावधानैरित्याशयः ॥ 14 ॥

इति रहस्यं तपस्विनिदेशं शुभोदर्कं तर्कयन्तस्ते कौन्तेयास्तस्यैव समक्षमसिदारासगन्धां संधामिमामाबबन्धुः।

इतीति। इति प्रोक्तप्रकारकं रहस्यं गोप्यं तपस्विनिदेशं मरहर्षेर्नारदस्याज्ञां शुभोदर्कं कल्याणोपपादकं तर्कयन्तः भावयन्तः, तपस्विनोऽमुनानिदेशेन कल्याणमस्माकं जायेतेति परामृशन्तस्ते युधिष्ठिरादयः कौन्तेयाः कुन्तीपुत्राः तस्य नारदस्य समक्षम् पुरत एव असिधारासगन्धाम् खङ्गधारासदृशीं दुर्लङ्घ्याम् इमाम् वक्ष्यमाणप्रकाराम् सन्धाम् प्रतिज्ञां नियमम् आबबन्धुः कृतवन्तः। `सन्धा प्रतिज्ञा मर्यादा’ इत्यमरः।

एते वयं चातका इवजीवनमयं वर्षमेकैकमवलम्ब्य प्रियया सममनया सुखेन वत्स्यामः।

एते इति। एते वयं पाण्डवाः (पञ्चापि भार्यया एकया कृतविवाहाः) चातकाः पक्षिभेदाः इव जीवनमयम् विरोधनिरोधद्वारा जीवनप्रदम् एकैकं वर्षम् सम्वत्सरं वृष्टिं च अवलम्ब्य अनया प्रियया द्रौपद्या समं सुखेन आनन्देन वत्स्यामः स्थास्यामः। यथा चातका जीवनप्रदं जलवर्षमेकमादाय सुखं जीवन्ति तथा वयमपि मिथोविरोधपरिहारेण प्राणरक्षोपायं सम्वत्सरमेकमवलम्ब्य प्रिययाऽनया सहसुखं वत्स्याम इत्यर्थः। अत्र गद्यखण्डे जीवनमयम् इत्यत्र जीवनमयम् इत्यस्य जलरूपं वर्षमिति चातकपक्षे पाण्डवपक्षे च जीवन प्रदम् वर्षम् कालपरिमाणभेदमित्यर्थमेदः। स्पष्टमन्यत्।

तथाभूतेष्वस्मासु यो मिथुनकृतोपवेशे देशे दृशापि प्रविशेत्सोऽयं वृजिनं विहातुमजिनं परिधाय सुकृतसार्थसमर्थापकतीर्थपरिमृष्टास्वष्टासु{19} दिक्षु {20}तत्त्रिगुणसंख्यान्पक्षाक्षपयेदिति{21}।

तथाभूतेष्विति। तथाभूतेषु बद्धसन्धेषु एकं वर्षमनया सहामुकस्तिष्ठेदिति कृतनियमेष्वस्मासु पाण्डुपुत्रेषु सत्सु योऽन्यतम पाण्डवः मिथुनकृतोपवेशे सभार्येण पाण्डवान्यतमेनाध्युषिते देशे स्थाने दृशाऽपि (किमुतकायेन) प्रविशेत् सोऽयं वृजिनं विहातुं पापं परिमार्जयितुम् अजिनं चर्म परिधाय वसित्वा सुकृतसार्थ समर्थापकतीर्थपरिमृष्टासु पुण्यराशिजनक तत्तत्तीर्थयुतासु अष्टासु दिक्षु तत्त्रिगुण संख्यान् चतुर्विंशतिम् पक्षान् पञ्चदशदिवसात्मककालान् क्षपयेत् गमयेत्। यत्र द्रौपद्या सह स्थातुं निर्धारितपर्यायः कश्चिदस्मासु तिष्ठेत्तत्र स्थाने यदि तदितरः कश्चानास्मासु प्रविशेत् तदा कृतनियमभङ्गः सः नियमभञ्जनरूपं पापं प्रक्षालयितुं धृततपस्विवेषः सन् पुण्यप्रदतीर्थयुतास्वष्टासु दिक्षु भ्राम्यन् दिक्‌संख्यात्रिगुणसंख्यान् पक्षान् व्यतियापयेत् वर्षमेकं गमयेदित्यर्थः। `कलुषं वृजिनैनोऽधम्’ इत्यमरः।

राजा निदेशकृदभूदिति धातृसूनोरन्तर्मुदो निरवधेरिदमास चिह्नम्।
यत्तस्य पाणिरकरोन्दृदुकण्ठगीतेर्वीणागुणे विवशारिङ्खणमङ्गुलीनाम् ॥ 15 ॥

रोजेति। मृदुकण्ठगीतेः मधुरकण्ठध्वनेः धातृसूनोः नारदस्य पाणिः करः वीणागुणे वीणोपरि अङ्गुलीनां करजानां विवशरिङ्खणम् अस्वायत्तं चलनमकरोत् (स्वतोऽङ्गुलयः परिचलिताः) इति अङ्गुलीनां स्वतः सञ्चारः-राजायुधष्ठिरः निदेशकृत् उक्तपालनकरः अभूत् इति करणात् निरवधेः अनन्तायाः अन्तर्मुदः आन्तरिकानन्दस्य चिह्नम् आस बभूव। युधिष्ठिरे नारदोक्तमर्थं स्वीकृतवति सति यन्नारदस्य करो वीणागुणोपरि भ्रमणं चक्रे, तेन नारदस्य हृदये राज्ञ आज्ञापालकत्व प्रतीत्योन्तर्मुदोऽनुमानालङ्कारः। वसन्ततिलकं वृत्तम् ॥ 15 ॥

तस्मिन्नभःसरणिमुत्पतिते मुनीन्द्रे सा तेषु पञ्चसु समं ववृते मृगाक्षी।
सांक्रन्दनेषु विटपिष्विव दानलक्ष्मीर्मानोभवेषु जयसिद्धिरिवाशुगेषु{22} ॥ 16 ॥

तस्मिन्निति। तस्मिन्मुनीन्द्रे नारदे नभः सरणिम् आकाशमार्गं प्रत्युत्पतिते उद्गते सति सा मृगाक्षी हरिणनेत्रा द्रौपदी पञ्चसु तेषु पाण्डवेषु युधिष्ठिरादिषु पञ्चसु साङ्क्रन्दनेषु इन्द्रस्वामिकेषु पारिजातादिषु विटपिषु तरुषु दानसम्पदिव वितरण समृद्धिरिव पञ्चसु मानोभवेषु कामसम्बन्धिषु आशुगेषु बाणेषु सिद्धिः सर्वलोक जय इव समं तुल्यानुरागं ववृते स्थिता। अयमाशयः-नारदे वक्तव्यमुक्त्वा स्वर्गमार्गं प्रत्युत्पतिते सति सा द्रौपदी पञ्चापि पाण्डवान् समेनानुरागेण प्रसादयामास, यथा पञ्चस्वपि सुरतरुषु समानैव दानलक्ष्मीर्यथा वा पञ्चस्वपि कामबाणेषु समैव विजयशक्तिरिति। मालोपमाऽलङ्कारः, `मालोपमा यदेकस्योपमानं वहु दृश्यते’ इति लक्षणात् ॥ 16 ॥

विप्रः कश्चन तत्र जात्वथ भुजावुद्‌धृत्य चौरैर्हृता गावो मे निखिला हतोऽस्मि विधिना वत्सोऽपि नो शिष्यते।
राजन्! राज्यमिदं विमुञ्च वसुधां शास्मीति {23}सर्वान्नृपान्किंवा {24}हासयसीति रोषकटुवागद्वारं ययौ भूपतेः ॥ 17 ॥

विप्रः कश्चनेति। तत्र इन्द्रप्रस्थपुरि जातु कदाचित्-`निखिलाः सर्वाः मे गावः, चौरः तस्करैः हृताः चौर्येणनीताः विधिना भाग्येन हतोऽस्मि मृतोऽस्मि, वत्सोऽपि एकोऽपिवत्सो न शिष्यते न त्यक्तः, हे राजन् युधिष्ठिर, इदं (यत्र ब्राह्मणस्वमपि न सुरक्षितं तादृशमुपद्रवभूयिष्ठं) राज्यम् वुमुञ्च त्यज, अहं तव स्थाने एवम्, सर्वान् नृपान् किं हासयसि? किमुपहासस्य पात्राणि करोषि? इति एवञ्च रोषकटुवाक् कोपकठोरवचनः कश्चन विप्रो ब्राह्मणः भुजावुद्‌धृत्य हस्तावत्थाप्य (आक्रोशन्) भूपतेर्धर्मराजस्य द्वारं ययौ प्राप्तः। कदाचिदेको ब्राह्मणो युधिष्ठिरस्य द्वारमायातः सन् आक्रोशद्यत् मम गावश्चौरैर्हृताः त्वं मुञ्चराज्यं तव राज्येस्थितिर्नोपयुक्ता, त्वया राज्ञा सर्वेषां राज्ञामुपहासा भवतीति कथितवांश्चेत्यर्थः ॥ 17 ॥

दृष्ट्वा तं मधुरस्मितोऽथ विजयः कृत्वासनादुत्थितिं नत्वाङ्घ्रौ समवेक्ष्य भृत्यमिह मां ब्रह्मन्! सहस्व क्षणम्।
गावस्ते स्वयमाव्रजेयुरधुनेत्याश्वास्य दस्यून्पुरः प्राविक्षन्मनसा ततस्तु नृपतेः शस्त्राय गेहं स्वयम् ॥ 18 ॥

दृष्ट्वातमिति। अथ विप्रकृताक्रोशश्रवणानन्तरम् मधुरस्मितः मिष्टहासो विजयः अर्जुनः तं विप्रम् दृष्ट्वा पुरोवीक्ष्य आसनात् उत्थितिं कृत्वा ब्राह्मणस्य सत्काराय स्वमासनं विहायोत्थाय अङ्घ्रौ ब्राह्मणस्य चरणदेशे नत्वा प्रणम्य हे ब्रह्मान्, मां भृत्यं स्वसेवकं समवेक्ष्य मत्वा क्षणं सहस्व तिष्ठ दासे मयि दयां कृत्वाऽत्र मां प्रतीक्षस्वेत्यर्थः। अधुना सम्प्रति ते तव ब्राह्मणस्य गावः चौरपाहृता धेनवः स्वयम् आत्मनैव आव्रजेयुः परावृत्त्यागच्छेयुस्तत्राधिकस्य प्रयासस्यावश्यकतानास्तीत्यर्थः। इति एवं प्रकारेण (तं ब्राह्मणम्) आश्वास्य धैर्यं लम्भयित्वा पुरः प्रथमं मनसा दस्यून् विप्रगवापहारकान् चौरान् प्राविक्षत् प्रविष्टः तान्ध्यातवान्, कतमे स्युरमीचौरा इति चिन्तितवान्, परतश्च ततः शस्राय शस्रमासादयितुं नृपतेः धर्मराजस्य गेहं विश्रामागारं प्राविक्षत् प्रविष्टवान्। अत्र प्राविक्षत् इत्यस्य मनसेतिकरणयोगे चिन्तनार्थता, निरूपपदकत्वे तु स्वार्थपरतेति बोध्यम् ॥ 18 ॥

तत्र तेन जगृहे तरस्विना चक्षुषा नृपतिरङ्गनासखः।
पाणिना च सशरं शरासनं पूर्तये सपदि विप्रवासयोः ॥ 19 ॥

तत्र तेनेति। तत्र नृतेर्भवने तरस्विना बलवता वेगवता च तेन अर्जुनेन अङ्गनासखः स्त्रीद्वितीयः द्रौपद्या युक्तः नृपतिः युधिष्ठिरः चक्षुषा नयनेन सशरं बाणयुतं शरासनञ्च पाणिना हस्तेन सपदि तत्काले विप्रवासयोः विप्रगृहवियोगयोः पूर्त्तये भरणाय संगमाय च जगृहे दृष्टः उपादीयत च। अयमाशयः-तस्मिन् भवनेऽर्जुनो राजानं द्रौपद्या सह शयानं दृष्टवान् येन पूर्वोक्तप्रतिज्ञानुसारं तेन विप्रवासः-चतुर्विंशतिं पक्षान् यावत् तीर्थप्रवासः पूरणीय आपिततः, तत्रैव गृहे चासौ शरयुतं स्वं धनुर्गृहीतवान्येनासौ चौरैरपहृता गाः प्रत्यानीय ब्राह्मणस्य वासं गृहं पूरयिष्यतीति ॥ 19 ॥

विनिर्गतोऽसौ विशिखानिव स्वकान् विमुक्तजीवान्विरचय्य तस्करान्।
नितान्तवेगामि गोपरम्परां निवर्तयामास शुचं द्विजन्मनः ॥ 20 ॥

विनिर्गत इति। असौ गृहीतशरासनः धृतचापोऽर्जुनः विनिर्गतः स्वपुरान्निष्क्रान्तः सन् स्वन् स्वीयान् निजान् विशिखान् बाणानिव तस्कारान् चौरान् विमुक्तजीवान् त्यक्तप्रत्यञ्चान् मुक्तप्राणांश्च विरचय्य कृत्वा नितान्तवेगाम् अतिबेगेन प्रधानव्तीम् गोपरम्पराम् इव नितान्तवेगाम् अतिप्रवृद्धां द्विजन्मनो ब्राह्मणस्य शुचम् शोकम् निवर्त्तयाम गृहं प्रत्यावर्त्तयामास समापथामास च। अयमर्थः-चापमादाय चलिगृहाभिमुखधावितया सातिशयवेगामिव ब्राह्मणस्य गां तदीयां प्रवृद्धां शुचम् अपि निवृत्तां चकार। अत्र जीवाशब्दस्य प्रत्यञ्चा जीवितं चार्थः-तथा चामरः-`जीवा जीवन्तिका भूमिर्मौर्वी जीवितवृत्तिषु’ इति। अत्र तुल्ययोगिता द्वयम् ॥ 20 ॥

प्रयाणनम्रे तदनु स्वमौलौ पार्थस्य जज्ञे नियमाभिषेकः।
प्रागेव तीर्थोपगामात्पवित्रैर्बाष्पैर्नरेन्द्रस्य वियोगभीरोः ॥ 21 ॥

प्रयाणनम्र इति। तदनु ब्राह्मणसम्बन्धिगवीप्रत्यावर्त्तनानन्तरम् प्रयाणनम्रे तीर्थयात्रार्थं युधिष्ठिराज्ञामासादयितुं तच्चरणप्रणते पार्थस्य स्वमौलौ निजमस्तके वियोगभीरोः अर्जुनवियोगाद्भीतस्य नरेन्द्रस्य राज्ञोयुधिष्ठिरस्य बाष्पैः अश्रुभिः तीर्थोपगमात् तत्तत्तीर्थप्राप्तेः पूर्वमेव नियमाभिषेकः व्रतस्नानम् जज्ञे अजायत। अयमाशयः-ब्राह्मणस्य गाः प्रत्यावर्त्त्य नियमरक्षार्थं तीर्थभ्रमणायोद्यतोऽर्जुनो राज्ञश्चरणयोः प्रणतस्तस्यां स्थितौ तद्‌वियोगभीतस्य राज्ञो नयनाभ्यां प्रवहमानोऽश्रुभरोऽर्जुनस्य शिरसि पतित्वा तं स्नपयामास, मन्येऽर्जुनस्तीर्थ प्राप्तेः पूर्वमेव नियमाभिषेकं प्राप्तवानिति। अत्र गम्योत्प्रेक्षाऽलङ्कारः ॥ 21 ॥

स धीरधीरत्युच्छ्रितेन कृच्छ्रेण {25}राज्ञा कृताभ्यनुज्ञो वल्कलं घनं {26}घनाघलाङ्घनाय परिधाय मलयानिल इव मनुष्यधर्मणा राजन्वतीं काष्ठां प्रतिष्ठमानस्तपःप्रसादितस्य भगवतो भवानीवल्लभस्य साक्षात्कृपामिव भगीरथरथपथानुसारिणी{27} तरंगिणीमुपगम्य तत्र पवित्रासु वीचिषु सायंतननियमाय ऋचोऽघर्मर्षणीर्जपन्मज्जनमकार्षीत्।

स धीरधीरिति। धीरधीः गभीरहृदयः सोऽर्जुनः अत्युच्छ्रितेन अतिप्रवृद्धेन कृच्छ्रेण अर्जुनवियोगकष्टेन राज्ञा युधिष्ठिरेण कृताभ्यनुज्ञः गन्तुमनुमतः सन् घनाघलङ्घनाय द्रौपदीयुक्त युधिष्ठिरदर्शनजन्यनियमभङ्गकृतमहापातकक्षपणाय घनं सान्द्रं वल्कलं तरुत्वचं परिधाय वसित्वा मलयानिलः दक्षिणपवन इव मनुष्यधर्मणा कुवेरेण राजन्वतीं शोभनराजयुक्तम् काष्ठामुत्तरां दिशं प्रतिष्ठमानश्चलितः सन्, तपः प्रसादितस्य तपस्यया तोषितस्य भगवतो भवानीवल्लभस्य शिवस्य साक्षात् कृपाम् भगीरथेऽनुग्रहमिव भगीरथरथपथानुसारिणीम् यया दिशाः भगीरथस्य रतोगतस्तया दिशागतां तरङ्गिणीं नदीं गङ्गाम् उपगम्य प्राप्य तत्र गङ्गायां पवित्रासु स्वभावपूतासु वीचिषु तत्तरङ्गेषु सायंतन नियमाय सायङ्कालिककर्त्तव्यभूतस-ध्याविधिपूर्त्तेये अघमर्षणीः पापानोदिनीः ऋचः मन्त्रान् जपन् आवर्त्तयन् मज्जनम् स्नानम् अकार्षीत् ॥

नालीकात्कुवलयसंक्रमे स्खलित्वा मग्नाऽघः पयसि रमेव तत्र काचित्।
तं दृष्ट्वा भुजगसुता मिथोरिरंसुः संतुष्टा हृदयमिवानयत्स्वगेहम् ॥ 22 ॥

नालीकादिति। तत्र गङ्गायाम् (सायङ्काले) नालीकात् कमलात् कुवलये यः सङ्क्रमः उत्प्लुत्यगमनं तत्र स्खलित्वा अधः पयसि जलान्तः मग्ना रमा लक्ष्मीरिव स्थिता काचित् भुजगासुता नागकन्या उलूपीनाम् तम् अर्जुनम् दृष्ट्वा अवलोक्य सन्तुष्टा आकृष्टा सती मिथः एकान्ते रिरिंसुः तेन सह विहर्त्तुकामा सती हृदयम् स्वचित्तम् इव गेहम् निजभवनम् आनयत्। सा तं पूर्वं यथा हृदये कृतवती तथैव स्वगृहमप्यानीतवतीत्यर्थः। लक्ष्मीः कमलवासिनी, सा हि सायं स्वावासकमले सङ्कुचिति सति चन्द्रविकासि कमलं कुवलयमुत्ष्लुत्यगच्छन्ती पयसि पतिताऽधो निमग्ना, सेव प्रतीयमाना काचनोलूपीनाम नागकन्या पयसि स्नान्तमर्जुनं दृष्ट्वाऽऽकृष्टचित्ता तं पूर्वं हृदये स्थापितवती पश्चाच्च स्वगृहं प्रापितवतीत्यर्थः। अत्र रमोपमयोलूप्या अलौकिक सौन्दर्यसम्पन्नत्वं द्योत्यते ॥ 22 ॥

प्रहृष्य हृदि तत्रैषा मनुष्यं फणिनां रतैः।
संतर्पयितुमारेभे{28} कंदर्पसममर्जुनम् ॥ 23 ॥

प्रहृष्यते। तत्र गङ्गायाम् अवस्थिते स्वगृहे एषा हृदि मनसि प्रहृष्य तादृशबोग्य पुरुषलाभेन सन्तुष्य कन्दर्पसमं कामसमानसौन्दर्यं मनुष्यम् मानववंशोद्भवं तमर्जुनं फणिनां रतैः नागलोकोचितैः रतिप्रकारैः सन्तर्पयितुं प्रसादयितुमारेभे उपचक्रमे। दुर्लभसमागमं नरं रञ्जयितुं तदननुभूतनागलोकोचित रतानि प्रकाश्यार्जुनं विनोदित वतीत्यर्थः ॥ 23 ॥

भोगाय तस्या भुजगेन्द्रपुत्र्याः फूत्कार एव स्फुटसीत्क्रियासीत्।
कस्तूरिकाङ्कोऽजनि {29}कण्ठनैल्यं फणामणिः पल्लवशेखरोऽभूते ॥ 24 ॥

भोगायेति। तस्याः भुजगेन्द्र पुत्र्याः नागराज कन्यायाः उलूप्याः भोगाय रतिसुखाय फूत्कारः सर्पजातीयश्वासः एव स्फुटसीत्क्रिया प्रकटः सीत्कारः अभूत्, कण्ठनैल्यम् सर्पजातिस्वभावसिद्धं कण्ठे नीलत्वं कस्तूरिकाङ्कः मृगमदलेपः अजनि जातः, फणामणिः फणस्थितं रत्नं च पल्लवशेखरः शिरोभूषणमभूत्। स्त्रियो हि पत्ये कामयमानाः संभोगसुखाभिव्यञ्जकं सीत्कारं कुर्वते, मृगमदं लिम्पन्ति, शिरसि भूषणं च धारयन्ति, अर्जुनाय स्निह्यन्ती सोलूपी स्वजाति सिद्धं फूत्कारमेव सीत्कारम्प्राकटयत्, कण्ठनैल्यमेव मृगमदलेपमबिभिः, फणामणिमेव च मस्तक भूषणमधारयदित्यर्थः। उपजातिर्वृत्तम् ॥ 24 ॥

पाण्योर्ज्यामर्शकाठिन्यं तस्य तत्कुचमर्दने।
तस्याश्च तन्मुखास्वादे फलायाभूद्‌द्विजिह्वता ॥ 25 ॥

पाण्योरिति। तस्य अर्जुनस्य पाण्योः करयोः ज्यामर्शेन प्रत्यञ्चाघर्षणेन यत्काठिन्यम् कठोरत्वम् तत् तस्याः उलूपिकायाः कुचयोर्मर्दने विषये, तस्याः उलूपिकायाः द्विजिह्वता च तन्मुखास्वादे अर्जुनमुखचुम्बने विषये फलाय उपकाराय अभूत्। अर्जुनः सततं ज्याया आमर्शेन यत्करस्य काठिन्यमार्जिजत् तदुलूपी कठोरस्तनमर्दनकाले उपकारायाजायतैवं सोसूप्यपि यद्‌द्वितयं जिह्वाया अभृत तदर्जुनाधरपाने तदुपकारकमभूदिति भावः। अत्रोलूपीस्तनस्य सातिश्य कठोरकरमृद्यतया कठोरतातिशयः, अर्जुनाधरस्य च जिह्वाद्वया स्वाद्यरसतया सरसतातिशयः ध्वन्यते ॥ 25 ॥

सुखाच्चक्षुःश्रवस्तन्व्याः सुरते मीलनं दृशोः।
चक्रे {30}मणितवैदग्ध्यं तस्य काननकौमुदीम् ॥ 26 ॥

सुखादिति। चक्षुः श्रवाः सर्पस्तत्तन्व्याः नागसुन्दर्यास्तस्या उलूप्याः दृशोः नयनयोः सुरते रतिकाले (आनन्दानुभवात्) मीलनं पिधानं तस्य अर्जुनस्य मणितवैदग्ध्यं रतिकूजितवैदुष्यम् काननकौमुदीम् अरण्यचन्द्रिकां चक्रे विदधे। यथाऽरण्ये चन्द्रिका व्यर्था तदुपभोगक्षमजनदौर्लभ्यात्, तद्वदर्जुनस्यापि रतिकूजितपाण्डित्यं व्यर्थमजायत, तेन सह रममाणाया उपूप्याः चक्षुः श्रवस्तया चक्षुर्मीलने श्रवसोऽपि मीलितत्वेनार्जुनकृतरतिकूजितपाण्डित्यप्रदर्शनस्य श्रोत्रभावेन वैयर्थ्यादिति भावः। `चक्षुः श्रवाः काकोदरः फणी’ `मणितं रतिकूजितम्’ इत्युभयत्रामरः ॥ 26 ॥

श्लाघाकम्पात्प्रियरतेः शिरसोऽन्तः पथादधः।
च्युतो मणिरिवेरावान्सुषुवे तनयस्तया ॥ 27 ॥

श्लाघाकम्पादिति। तया उलूपिकया प्रियरतेः अर्जुनकृत सुरतव्यापारस्य श्लाघायाम् अभिनन्दने कम्पात् चलनात् शिरसः मस्तकात् अन्तःपथात् अभ्यन्तरमार्गात् च्युतः मणिः मस्तकस्थं रत्नम् इव तनयः पुत्र इरावान् नाम सुषुवे प्रासूयत। अयमाशयः-उलूपी अर्जुनकृतं रतं प्रशंसन्ती यन्मस्तकमकम्पयत्तेन शिरसि स्थितं तन्मस्तकरत्नमभ्यन्तरमार्गात् च्युतं तदिव प्रकाशमानता शालीरावान् नाम पुत्रस्तयाऽजन्यतेति। उत्प्रेक्षाऽलङ्कारः ॥ 27 ॥

इत्येकिकां स रजनीमपनीय तत्र श्वासैः समं स्वकुलसंभवपृष्ठमित्रैः।
मुक्तस्तया तटागतोऽनुचरान्द्विजातीनन्तर्वतोऽद्भुतरसैरतनोत्स्ववृत्त्या ॥ 28 ॥

इत्येकिकामिति। इति प्रोक्तप्रकारेण तत्र उलूपी भवने सः अर्जुनः एकाम् एव एकिकाम् रजनीं रात्रिम् अपनीय गमयित्वा स्वकुलसंभवाः नागवंश्याः नागाः तेषां पृष्टस्य मित्रैः (सर्पपर्याये `दीर्घपृष्ट’ शब्दः, अतश्च स्वकुलसंभवपृष्टतुल्यैः) विशालैःदीर्घैः स्वासैः समं सह तया उलृपिकया मुक्तः गन्तुमनुमतः सन् तटगतः गङ्गातीरमायातः अनुचरान् सहयात्रिकान् द्विजातीन् ब्राह्मणान् स्ववृत्त्या निजवृत्तान्तेन अद्भुतरसैः आश्चर्यैः अन्तर्वतः (गर्भयुतान्-सहितान्) युक्तान् अतनोत् कृतवान्। उक्तप्रकारेणोलूपी भवने निशामेकामतिवाह्य दीर्घैः श्वासैः समं तया गन्तुमनुमतोऽर्जुनो गङ्गातीरमागत्य तत्र तदागमनं प्रतीक्षमाणान् स्वसहयान्निकान् ब्राह्मणान् स्ववृत्तश्रावणद्वारा साश्चर्यानकृतेत्यर्थः। `अन्तर्वत्नीतु गर्भिणी’इत्यमरः, तेन अन्तर्वत् पदस्य युक्तत्वमर्थः फलतीति बोध्यम् ॥ 28 ॥

उलूपिकाया रतिदंशनैस्तैरुन्मस्तकं मोहमिवापनेतुम्।
उदग्रवीर्यैषधिजन्मभूमिमुमागुरुं शैलमयं प्रपेदे ॥ 29 ॥

उलूपिकाया इति। अयम् अर्जुनः उलूपिकायाः स्वेन रमिताया एतन्नामिकाया नागकन्यायाः तैः प्रसिद्धैरनुभूतैश्च रतिदंशनैः सुरतकालिकदन्तक्षतैः उन्मस्तकम् उत्थापितशिरस्कम् उदितम् इत्यर्थः मोहम् विषविकारजां मूर्च्छाम् अपनेतुं दूरीकर्त्तुमिव उदग्रवीर्याणां विषशमने महाप्रभावाणां पुलिकादिकानाम् ओषधीनाम् जन्मभूमिम् उत्पत्तिस्थानम् उमागुरुम् पार्वतीजनकतया प्रथितं शैलं पर्वतं हिमवन्तं प्रपेदे गतः। अयमर्जुनो हिमवन्तं नाम पर्वतं गतो यत्र महाप्रभावा ओषधयः प्रादुर्भवन्ति, मन्ये स स्वेन रमिताया उलूपीनामकनागकन्यायाः (विषधरवंशजातत्वेन तस्या अपि सविषतया) दन्तत्रतैः सङ्क्रान्तमात्मनि विषवेगं शमयितुमोषधिविशेषमन्विष्यतीवेत्यर्थः। फलोत्प्रेक्षाऽलङ्कारः ॥ 29 ॥

{31}फालस्य पञ्चविशिखे पदयोः कृतान्ते हासस्य दानवपुरेष्ववलोकनस्य।
शम्बायुधे पशुपतेरपदानपद्यं गायन्ति सिद्धमिथुनान्यशृणोत्स तस्मिन् ॥ 30 ॥

फालस्येति। तस्मिन् हिमालये नाम पर्वते सोऽर्जुनः पशुपतेः शिवस्य फालस्य शिरसः पञ्चविशिखे पञ्चबाणे कामदेवे, (शिवेन शिरोऽवयवभूतललाटस्थितेन वह्निना कामो दग्धः, तेन कामदेवे विषये तत्फालस्यापदानम् यशस्करं वृत्तं कर्म) पदयोः शिवस्य चरणयोः कृतान्ते यमराजे, (पुरा सिवभक्तस्य मार्कण्डेयस्य प्राणानाहर्त्तुमागतो यमः शिवेन पादाभ्यां प्रहृत इति शिवपादयोर्यमविषयेऽपादानम्) (शिवसम्बन्धितः) हासस्य दानवपुरेषु त्रिपुरासुरनगरेषु, (रथः क्षोणी, यन्ता शतधृतिः, वासुकिर्धनुः, रथाङ्गे चन्द्रार्कौ, एवमादियुद्धसाधनं सम्पाद्य योद्धुं गतेन शिवेन त्रिपुरात्मकं रिपुं तुच्छं दृष्ट्वा हासः कृतः, इति शिवहासस्य दानवपुरविषयेऽपदानम्) अवलोकनस्य दृक्पातस्य शम्बायुधे वज्रायुधे इन्द्रे विषये, (इन्द्रःकदाचिच्छिवसाक्षात्काराय कैलाशं गतस्तत्र द्वारि रूपान्तरेण स्थितं शिवमनादृत्यान्तः प्रविशन् इन्द्रस्तेन रूपान्तरधृता शिवेन निषिद्धस्तं हन्तुम् वज्रमुद्यतवान् ततः शिवस्तमवलोकनमात्रेण स्तब्धसर्वावयवं कृतवानिति शिवविलोकनस्येन्द्रेऽपदानम्) एवमपदानपद्यम् एतादृशवृत्तकर्मस्तुतिच्छन्दः गायन्ति गानकर्मीकुर्वन्ति सिद्धमिथुनानि विद्याधरयुगलानि अशृणोत्। स तत्र हिमालये सिद्धदम्पतिभिर्गीयमानं शिवस्य तत्तत्कर्म यशस्करमाकर्णितवानित्याशयः। अत्र विद्याधरमिथुनान्यशृणोत्’ इति वाक्ये धर्मधर्मिणोरभेदोपचारेणैव विद्याधरमिथुनानां शृणोतिकर्मतोपपाद्या, प्रयुञ्जते एवं कवयः-यथा वाल्मीकिः-रुदती राक्षसीरशृणोत् कपिः, वाणश्च-`विलपन्तं कपिञ्जलमश्रौषम्’ इति। एवं च गायन्ति सिद्धमिथुनान्यशृणोदित्यस्य सिद्धमिथुनकृतानि अपदानगीतानि अशृणोदित्यर्थः पर्यवस्यति, एवमेव `रुदती राक्षसीरशृणोत् कपि’रित्यस्य राक्षसीनां रोदनमशृणोदिति `विलपन्तं कपिञ्जलमश्रौषम्’ इत्यस्य च कपिञ्जलविलापमश्रौषमित्यर्थो बोध्यः, स्पष्टमन्यत् ॥ 30 ॥

{32}तत्र तस्य हिमाचलस्य{33} खरखुरपुटविनिमयविन्यासचन्द्रकीतैरवतारपथैरपि रोमन्थफेनशकलतारकितैः प्रतीरनमेरुतलोपवेशैरप्यनुमेयहरवृषभस्वैरविहारासु कटकसरसीषु वृजिनानि विशोध्य वनमदावलकलभविदलितसरलद्रुमप्रवालपरिमलसुरभिलेनोपत्यकावर्त्मना{34} दिवि भुवि भरणकुशलाभ्यां महेन्द्राभ्यां परिगृहीतां हरितमवडगाहे।

तत्र तस्येति। सः पार्थः तत्र हिमालये तस्य हिमाचलस्य हिमालयस्य खरैः तीक्ष्णाग्रभागैः खुरपुटैः विनिमयेन वारंवारनिक्षेपेण चन्द्रकितैः अर्धचन्द्राकृतिरेखायुक्तीकृतैः अवतारपथैः जलपर्यन्तावरोहणवर्त्मभिः, रोमन्थेन चर्वितस्याकृष्यपुनश्चर्वणं रोमन्थस्तेन यत् फेनशकलं फेनखण्डं तेन तारकितैः सञ्जाततारोपमश्वेतखण्डयुतैः, प्रतीरनमेरुतलोपवेशैः तटस्थितच्छायाद्रुमतलावस्थानैः अनुमेयाः प्रतीतिपथागामिनः हरवृषभस्य शिववाहनवृषस्य सरस्सु (स्नानादिना) वृजिनानि पापानि विशोध्य अपनुद्य वनमदावलकलभैः अरण्यगजबालकैः विदलितानां भञ्जितानां सरलद्रुमप्रवालानाम् देवदारुवृक्षकिसलयानाम् परिमलैः सुगान्धैः सुगन्धिलेन सुरभीकृतेन उपत्यकावर्त्मना उपत्यकास्थिताध्वना दिवि स्वर्गे भुविः मर्त्यलोके च भरणकुशलाभ्याम् (दिवि भरणकुशलः पालनदक्षो महेन्द्रः शक्रः, भुवि भरणकुशलः धारक्षमो महेन्द्रो नाम पर्वतस्ताभ्याम्) महेन्द्राभ्याम् शक्रपर्वत विशेषाभ्याम् परिगृहीताम् अवलम्बिताम् हरितम् दिशम् अवजगाहे प्राचीं गत इत्यर्थः। हिमालयं गतोऽर्जुनस्तत्रस्थितासु सरसीषु स्नातवान्, यासां सरसीनामवतारपथाः हरवृषखुरपातैश्चन्द्राकारचिह्नयुक्तीकृताः, तटद्रुमाश्च तद्रोमन्थक्रियाच्युतफेनखण्डैस्तारकितमूलाः, तासु सरसीषु स्नानेन शोधितपापोऽसावर्जुनः अरण्यगजशावकभञ्जितदेवदारुपल्लवसुरभितेनोपत्यकापथेन प्रस्थितः प्राचीं दिशं ययौ यत्र महेन्द्रः पर्वतो वर्त्तते, यस्याश्च पतिरिन्द्रः, ययोर्महेन्द्रः पर्वतो भुवं धत्ते, महेन्द्रश्च शक्रो दिवमवतीत्यर्थः ॥

{35}संफुल्यमाननवकेतकपांसुगर्भैः पर्यन्तनिर्झरजलैः {36}फलिताभिषेकः।
पार्थः स तत्र जनकाभिधयेव हृष्टः पादे चिरं परिचचार गिरिं पहेन्द्रम् ॥ 31 ॥

संफुल्यमानेति। संफुल्यमानानि सातिशयविकासशालीनि यानि नवानि प्रत्यग्रप्ररूढानि केतकानि केतकीकुसुमानि तेषां परागाः धूलयो गर्भे अभ्यन्तरे येषां तैः तादृशैः पर्यन्तनिर्झराणाम् प्रान्तपातिजलप्रपातानां जलैः पानीयैः फलिताभिषेकः जातस्नानः सः पार्थः अर्जुनः तत्र पूर्वस्यां दिशि जनकस्य स्वपितुरिन्द्रस्य अभिधया नाममात्रेण तन्मात्रसाम्येनेत्यर्थः हृष्टः प्रसन्नः महेन्द्रं नाम गिरिं पादे चरणे प्रत्यन्तभागे च चिरं बहुकालपर्यन्तं परिचचार पूजयामास् सिषेव बभ्राम च। अयमाशयः- प्राचीं दिशमुपेतोऽर्जुनो महेन्द्रस्य पर्वतस्य प्रत्यन्तभागे नवविकसितकेतकीपरागपूर्णनिर्झरजलैः सम्पादितस्नानः सन् स्वपितुर्नाम्ना समाननामानं महेन्द्रं चरणे चिरं परिचचार सिषेवे बभ्राम चेति भावः। अत्र महेन्द्रप्रत्यन्तभागे भ्रमणमेव महेन्द्रपादपरिचरणरूपेण वर्ण्यते ॥ 31 ॥

निजनगरनिरीतो वासविर्दिक्षु सर्वास्वपि परिणयहेतो क्वापि यात्रामुहूर्ते।
जनकपरिगृहीता सा दिगित्येव तस्यां कथमपि न स जातां कन्यकां पर्यणैषीत् ॥ 32 ॥

निजनगरनिरीत इति। वासवस्यापत्यं पुमान् वासविः अर्जुनः सर्वासु प्राच्यादिषु चतमृष्वपि दिक्षु परिणयस्य विवाहस्य हेतौ कारणीभूते क्वापि अनिर्वाच्युशुभयोगयुक्ते मुहूर्त्ते निजनगरनिरीतः स्ववासग्रामादिन्द्रन्द्रप्रस्थान्निर्गतः अपि सा प्राचीदिक् जनकेन स्वपित्रा शक्रेण परिगृहीता ऊढा इत्येव हेतोः तस्यां दिशि प्राच्यां जातां कन्यकां (स्वसृभावात्तल्याः) न पर्यणैषीत् न परिणीतवान्। अयमाशयः- अर्जुनो यस्मिन् शुभसमये गृहात् प्रस्थितस्तस्मिन् समये एतादृशो योग आसीद्यत्तत्रप्रस्थितस्य सर्वास्वपि दिशासु परिणयः सञ्जायेत, परं स प्राच्यां जातां कन्यकां न परिणीतवान्यतः प्राची तत्पित्रा शक्रेण परिगृहीता, तस्यां जाता च कन्यातस्य भगिनित्वादगम्येति ॥ 32 ॥

जलधितटपदव्या झर्झरैश्चीरशब्दैरवमयमनुकुर्वन् राजतालीवनानाम्।
रतिपतिरथकारेणाद्रिणा लाञ्छितायां दिशि विविधतटिन्यां दत्तचक्षुः प्रतश्थे ॥ 33 ॥

जलधितटेति। अयम् अर्जुनः रतिपतेः मदनस्य रथम् वाहनभूतं मलयानिलं करोति तेन तथाभूतेन अद्रिणा मलयाचलेन लाञ्छितायां युक्तायां विविधतटिन्यां बहुनद्यां दिशि दक्षिणदिशायां दत्तचक्षुः क्षिप्तनयनः, (तां दिशं पश्यन्) झर्झरैः चीरशब्दैः परिहितवल्कलभवशब्दैः राजतालीवनानाम् तालवृक्षपत्राणाम् रवम् ध्वनिम् अनुकुर्वन् अनुहरन् जलधितटपदव्या समुद्रदीरस्थमार्गेण प्रतस्थे चलितः। अयमाशयः-`मलयमरुदायोधनरथः’ इति शङ्करभगवत्पादोक्तदिशा मलयपवनस्य कामर्थत्वप्रसिद्ध्या तादृशरथनिर्मात्रा मलयाद्रिणा युक्तायां दिशि दत्तदृष्टिः स्वशरीरधृतवल्कलोत्थरवेणतालतरुपत्रध्वनिमनुकुर्वन् दक्षिणदिशो निम्नतया नानानदीप्रवाहस्थलतां पश्यंश्चायमर्जुनो जलधितटगामिनाऽध्वना चचालेति। मालिनीवृत्तम् ॥ 33 ॥

अक्ष्णां प्रचारादतिवर्तमानमालोकमालोकमसौ पयोधिम्।
तटेन गच्छंस्तरसोपलेभे चोलीहरिद्रासुरभीन्समीरान् ॥ 34 ॥

अक्ष्णामिति। असौ समुद्रतटगामिनाध्वना प्रस्थितोऽर्जुनः अक्ष्णां प्रचारात् दृष्टिविषयात् अतिवर्त्तमानम् अतिक्रम्य स्थितम् (दूरप्रसृततया दृग्विषयबहिर्भूतम्) पयोधिं सागरम् आलोकम् आलोकम् दृष्ट्वा दृष्ट्वा (आभीक्ष्ण्ये णमुलो द्विरुक्तिः) तटेन समुद्रतटवर्त्मना तरसा वेगेन गच्छन् चोलीनां चोलदेशाङ्गनानां सम्बन्धिन्यो या हरिद्राः मुखकुचादिलिप्तास्ताभिः सुरभीन् शोभनगन्धपूर्णान् समीरान् वायून् उपलेभे प्राप्तवान् दृग्गोचरातिशायिनं पयोधिं पश्यन्नर्जुनो वेगेन गत्वा चोलदेशे तद्देशस्थिताभिर्वनिताभिः स्वीयमुखकुचादिषु लिप्यमानाभिर्हरिद्राभिः सुगन्धपूर्णान् वायूननुबभूवेत्यर्थः। चोलदेशाङ्गनानां हरिद्रालेपः प्रसिद्धस्तदनुरोधेनेयमुक्तिः ॥ 34 ॥

शैलो गर्भे शिशुरिव भुवः शासनाद्यस्य शेते वातापि यो जठरदहने {37}कल्पयामास हव्यम्।
क्षोणीनग्नंकरणमहिमा कोपलेशो यदीयस्तस्यावासं दिशमभिययौ तापसस्येन्द्रसूनः ॥ 35 ॥

शैल इति। इन्द्रसूनुः अर्जुनः यस्य मुनेरगस्त्यस्य शासनात् शैलो विन्ध्यपर्वतः शिशुः बालक इव (आज्ञावसंवदः सन्) भुवः पृथिव्याः गर्भे कुक्षौ शेते निलीयते, योऽगस्त्यः वातापिं नाम दानवं जठरदहने जाठराग्नौ हव्यं हविः कल्पयामास, यदीयः यस्यागस्त्यस्य कोपलेशः क्रोधलवः क्षोणीनग्नङ्करणमहिमा समुद्रशोषणद्वारा समुद्रवसनाया धराया नग्नतासम्पादकेन सामर्थ्येनोपपन्नः तस्य तापस्य तपस्विनो मुनेरगस्त्यस्य आवासं निवासस्थलतां गतां दिशम् अभिययौ प्राप्तः। पुरा सूर्यमार्गावरोधायोद्यन्तं विन्ध्यं तत्समीपगतोऽगस्त्यः पादप्रणताय विन्ध्याय यावदहं दक्षिणस्या दिशो न परावर्त्ते, तावदेवमेव स्थेयमित्युदीर्य तं भूमौ निलाययामास, तेन तदीयशासनाद्विन्ध्यस्य शिशोरिव धराशायित्वमुच्यते, ब्राह्मणवधव्यसनिनं च वातापिमगस्त्यो निगीर्य पाचयामासेति तस्य तज्जठरानलहव्यरूपतोक्तायोक्तमलङ्कारः। मन्दाक्रान्तावृत्तम् ॥ 35 ॥

धृत्वा फलेषु सलिलानि कवेरजायाः साम्यं परीक्षितुमिवाभ्रसरिद्‌गुणौघैः।
अभ्रंलिहैर्निबिडितां तटनारिकेलैरालोक्य चोलवसुधामयमभ्यनन्दत् ॥ 36 ॥

धृत्वेति। अयम् अर्जुनः कवेरजायाः कावेर्याः सलिलानि जलानि फलेषु नारिकेलेषु धृत्वा आदाय अभ्रसरितः आकाशगङ्गाया गुणौघैः माधुर्यधावल्यादिभिः साम्यम् कवेरजाजलस्य धावल्यमाधुर्यादीनि तन्मादुर्यादितुल्यानि सन्ति न वेति तुलनां परीक्षितुम् ज्ञातुम् इव अभ्रंलिहैः आकाशचुम्बिभिः तटनारिकेलैः तीरवर्त्तिनारिकेलवृक्षः निबिडितां व्याप्ताम् चोलवसुधाम् चोलदेशमहीम् आलोक्य अभ्यनन्दत् समधिकं सन्तोषमाप्तवान्। यत्र नारिकेलवृक्षाः स्वर्गङ्गाजलगते माधुर्यधवलत्वे अत्र कावेरीपयसि विद्येते न वेति परीक्षितुमिव फलेषु जलमादायाकाशगङ्गासमीपदेशपर्यन्तं गतास्तां चोलमहीमुपेत्यायमर्जुनोऽतितमामानन्दमविन्ददित्यर्थः, अन्योऽपि कस्यचिद्वस्तुनो गुणान् अन्यवस्तुगुणेन सह तुलयितुं स्वीयं वस्तु तुलनीयगुणवद्वस्तुसमीपं नीत्वा तुलयन्तीति प्रसिद्धं व्यवहारमुपजीव्येयमुत्प्रेक्षा। वसन्ततिलकं वृत्तम् ॥ 36 ॥

कालेन संगततमां {39}कटुतामवेत्य स्वर्गौकसामथ{40} सुधारसनिःस्पृहाणाम्।
{41}अभ्रंलिहः फलवतस्तटनारिकेलान् सह्यात्मजासलिलवैवधिकानमंस्त ॥ 37 ॥

कालेनेति। अथ कालेन बहुना समयेन सङ्गततमाम् अतिशयेन सञ्जातां कटुतां वैरस्य सहचरं काटवं रसविपर्ययम् अवेत्य ज्ञात्वा। (चिरकालपर्युषितेयं सुधा कट्वी जातेति) सुधारसनिःस्पृहाणाम् अमृतपानवीतरागाणाम् स्वर्गौकसाम् देवानाम्-अभ्रंलिहः आकाशचुम्बिनः फलवतः पानीयपूर्णप्रशंसनीयफलयुक्तान् तटनारिकेलान् तीरवर्त्तिनारिकेलितरून् (असौ अर्जुनः) सह्यात्मजासलिलवेवधिकान् कावेरीजलभारवाहकान् अमंस्त ज्ञातवान्। नारिकेलवृक्षा जलपूर्णफलानि धृत्वा आकाशदेशे तिष्ठन्तो देवेभ्यः कावेरीवारि निवेदयितुं भारवाहका इव स्थिताः ज्ञाता अर्जुनेन, देवाश्चिरपर्युषितां सुधां कटुं मन्यमानाः स्पृहयन्ति हि कावेरीजलाय, तेनामी नारिकेलतरवो भारेषु तदारोप्य तेभ्य उपहर्त्तुमिव तदावसदेशपर्यन्तं गता इत्याशयः। `वार्त्तावहो वैवधिकः’ इत्यमरः। विविधः शिक्यद्वयसहितो दण्डविशेषो भारवहनसाधनं तेन भारं हरतीतिवैवधिकः, `तेन वहति’ इति ठक्। उत्प्रेक्षाऽलङ्कारः ॥ 37 ॥

{42}वाराशिवासजडमात्मवपुर्विशोषमानेतुमातपभरात्तटमुत्तरेण।
लङ्कामिवागतवतीं निजपौरवर्जं पार्थो विवेश नगरीमथ पाण्ड्यगुप्ताम् ॥ 38 ॥

वाराशीति। (अथ चोलदेशप्राप्त्यनन्तरं) पार्थोऽर्जुनः वारां राशिर्वाराशिस्तत्र वासेन सततस्थित्या जडम् शीतम् आत्मवपुः स्वाङ्गम् आतपभरात् किरणसम्पर्कवशात् शोषम् शुष्कताम् आनेतुम् निजपौरवर्जम् स्वपुरवासिराक्षसपरित्यागपूर्वकम् आगतवतीम् लङ्कां नगरीम् इव तटमुत्तरेण तीरस्योत्तरतः पाण्ड्यगुप्ताम् मणिलूरपुरम् विवेश प्रविष्टः। अथ चोलान् गतस्यार्जुनस्य चिरं जलमध्यवासादार्द्रं स्वमङ्गमातपेन शोषयितुमिव (राक्षसान्विहाय) आयातां लङ्कामिव सर्वथा समृद्धां मणिलूरपुरं नाम पाण्ड्यराजधानीं प्रति गमनमभूदित्यर्थः। `एनयाद्वितीया’ इति वार्तिकेन तटमुत्तरेण इत्यत्र द्वितीया ॥ 38 ॥

मणलूरपुरे संपद्‌गुणलूनालकामदे।
जनदृष्टिकृतानन्दो जगाम कुरुकुञ्जरः ॥ 39 ॥

मणलूरेति। कुरुकुञ्जरोऽर्जुनः सम्पद्भिः समृद्धिभिः गुणैः सौन्दर्यादिभिश्च लूनः छिन्नः अपासितोऽलकायाः कुवेरनगर्या मदो येन तादृशे तत्र मणलूरपुरे जनदृष्टिकृतानन्दः लोकानां दृष्टिभ्यः स्वदर्शनावसरप्रदानजन्यमानन्दं वितरन् जगाम प्रविष्टः अत्र कुरुकुञ्जरपदस्य कुरुश्रेष्ठ इत्यर्थः, तथाचोक्तम्-`स्युरुत्तरपदे व्याघ्रपुंगवर्षभकुञ्जराः सिंहशार्दूलनागाद्याः पुंसि श्रेष्ठार्थगोचराः’ इत्यमरः। अत्र प्रसङ्गादर्जुनपरत्वं बोध्यम् ॥ 39 ॥

तत्र चित्राङ्गदा तेन व्यूढा राजकुमारिका।
दर्शने दौहृदार्तौ च द्वयोरासीदनङ्गदा ॥ 40 ॥

तत्र चित्राङ्गदेति। तत्र नगर्याम् राजकुमारिका पाण्ड्यराजपुत्री चित्राङ्गदा तेनार्जुनेन व्यूढा परिणीता, या द्वयोः अर्जुनस्य स्वस्याश्च क्रमशो दर्शने अवलोकने अनङ्गदा कामवर्धिका, दौहृदार्त्तौ गर्भपीडायां च अनङ्गदा अङ्गदाख्यभूषणविरहिणी आसीत् या दृश्यमानमात्राऽर्जुनस्य कामं समधुक्षयत्, स्वयं गर्भिणी भूत्वा च याऽ
ङ्गदं नाद्रियतेस्म तादृशी चित्राङ्गदानाम् पाण्ड्यराजपुत्री तेन परिणीतेत्यर्थः। चित्राङ्गदाप्यनङ्गदेति विरोधप्रतिभासः, परिहारस्तूक्त एव ॥ 40 ॥

एलालवङ्गतरुपिप्पलिकापटीरताम्बूलिकाक्रमुकदम्पतिभावरम्याम्।
उद्यानभूमिमुपगम्य तया स पार्थः सुख्यन्पितुः पदममन्यत बल्वजेभ्यः ॥ 41 ॥

एलालवङ्गेति। एला स्त्री लवङ्गः पतिः, पिप्पलिका स्त्री पटीरश्चन्दनश्च पतिः, ताम्बूलिका रमणी क्रमुकश्च वल्लभस्तदेषां दम्पतिभावेन स्त्रीपुरुषसंबन्धेन (स्त्रीपुंभावेन मिश्रुनकृतप्रीत्यतिशयप्रत्ययः) रम्याम् उद्यानभूमिम् पुष्पवाटिकास्थलीम् उपगम्य प्राप्य तया चित्राङ्गदया नाम स्वस्त्रिया सुख्यन् आनन्दमनुभवन् सः पार्थोऽर्जुनः पितुः पदम् इन्द्रभावम् बल्लजेभ्यः तृणविशेषेभ्यः अमन्तय तानिव तुच्छं मन्यतेस्म `बल्वजेभ्यः मन्यतेस्म’ इत्यत्र `मन्यकर्मण्यनादरेविभाषाऽप्राणिषु’ इति चतुर्थी। `सुख्यन्’ इति `सुखदुःख तत्क्रियायाम् इति कण्डवादिपठितधातोर्यगन्ताच्छतरि रूपम्। एतदुद्यानचित्राङ्गदयोः स्वर्गोद्यानतदप्सरोधिकरमणीयतात्र व्यज्यते ॥ 41 ॥

दिवसे शुभंयुगुणकोरकिते दयितं हृदि स्थितमिवार्तिमती।
अवतार्य सा भुवि कुमारमधादथ{43} बभ्रुवाहन इति प्रथितम् ॥ 42 ॥

दिवस इति। अथ सा चित्राङ्गदा आर्त्तिमती गर्भधारिणीसती शुभंयुगुणकोरकिते शुभप्रदगुणगणशालिनि दिवसे वासरे (प्राप्ते सति) हृदि स्थितं मनसि वर्त्तमानं दयितं वल्लभं पार्थमिव बभ्रुवाहन इतिप्रथितं ख्यातं कुमारम् अवर्ताय जनयित्वा भुवि पृथिव्याम् अधात् स्थापितवती। गर्भधारिणी सा पितुरनुरूपं पुत्रं बभ्रुवाहनं सुषुवे इत्यर्थः। अत्र वभ्रुवाहनेऽर्जुनोपमया तद्‌गतगुणगणसम्पन्नत्वं ध्वन्यते। प्रमिताक्षरावृत्तम्, तल्लक्षणं यथा-`प्रमिताक्षरासजससैःकथिता’इति ॥ 42 ॥

असावहंपूर्विकया प्रशंसतां सुतोदयं{44} शोभनमीश्वरार्थिनाम्।
ददौ तथा दक्षिणदेशवासिनां तमेव दायादमुदारतल्लजः ॥ 43 ॥

असाविति। उदारतल्लजः प्रशंसनीयौदार्ययुक्तोऽसावर्जुनः अहम्पूर्विकया अहम् पूर्वमहंपूर्वमितिस्पर्धया शोभनं सुतोदयं रमणीयपुत्रजन्मप्रशंसतां स्तुवताम् तथा ईश्वरार्थिनाम् अस्मभ्यमिमं तनयं राजत्वेन देहीति प्रार्थयमानानां दक्षिणदेशवासिनां चोलदेशवासिजनानां तम् बभ्रुवाहनम् एव दायादं स्वांशहरं पुत्रं राजभावेन ददौ दत्तवान् यदा बभ्रुवाहनो जातस्तदा सर्वे तद्देश्यास्तदुदयं स्तोतुमहंपूर्वमितिस्पर्द्धन्तेऽस्मभ्यं सुन्दरं शासकं देहीति च याचन्तेस्म, तदनुरोधादुदाराग्रणीरर्जुनस्तं स्वपुत्रमेव तेभ्योराजत्वेन दत्तवानित्यर्थः। उदारतल्लजत्वस्य समर्थकं पुत्रदानमिति साभिप्रायविशेषणत्वात्परिकरोऽलङ्कारः ॥ 43 ॥

{45}इति स तत्र कानिचिद्दिनान्युषित्वा प्रयामीति भाषितस्य पक्ष्मावलम्बिबाष्पमेवोत्तरयन्तीं प्रेयसीं रहसि दृढालिङ्गनतरंगितवल्कलोत्तरीयमर्मरसहाध्यायि{46} सीत्कृतिं पुलकझर्झरे {47}कपोलतले परिचुम्ब्य तस्याः कथंचिदुदञ्चितानुमतिर्निर्गत्य रक्षोयोधिभिरिक्ष्वाकुपतिसेनाध्यक्षैरुत्पाटितानां मलयदर्दुरमहेन्द्रपादानां {48}मूलसिलातलपरिदृश्यमानकराङ्गुलिनखरेखाव्यावर्तितकुलिशभयोच्चलितशैलसंस्थानबुद्धिभिः(49} संनिवेशावटैः स्थपुटितामटवीं विलङघ्य पुत्रीनिकाररुषा(50) पुलस्त्यान्वयस्य पुरीमुन्मूलयितुं प्रसारितेन भुवो भुजेनेव सेतुना कृतसीमन्तमुदन्वन्तमभजत।

इति स इति। इति एवं प्रकारेण सः अर्जुनः तत्र चोलदेशे कानिचिद्दिनानि कतिपयवासरान् उषित्वा वासं कृत्वा प्रयामि गच्छामि इति भाषितस्य गतुमिच्छाऽर्जुनेनोक्तस्य वचनस्य पक्ष्मावलम्बिबाष्पम् पक्ष्मस्थितमश्रु एव उत्तरयन्तीं प्रतिवचनं कुर्वतीम् (तादृशस्य प्रेयसः प्रयाणानुज्ञामाकर्ण्य साश्रुनेत्राम्, (नतु प्रकटं रुदतीं तथासत्यमङ्गलाशङ्कायाः संभवात्) प्रेयसीम् प्रियतमाम् चित्राङ्गदाम् रहसि एकान्ते दृढालिङ्गनेन गाढाश्लेषेण तरङ्गितस्य चलितस्य वल्कलोत्तरीयस्य यो मर्मरध्वनिः मर्मरशब्दस्तत्सहाध्यायिन्यः तत्तुल्याः सीत्कृतयः प्रेयोवियोगदुःखनाताः सीत्कारा यस्यास्तां तथोक्तां चित्राङ्गदां पुलकझर्झरे सात्त्विकभावरूपरोमाञ्चविषमे कपोलतले गण्डस्थलविषये परिचुम्ब्य कथंचित् महता कष्टेन उदञ्चितानुमतिःप्राप्तगमनाभ्यनुज्ञः निर्गत्य तत्पुरतो बहिरागत्य रक्षांसि योधयन्ति ये तैः तथोक्तैः इक्ष्वाकुपतिसेनाध्यक्षैः रामसेनानायकैः अङ्गदजाम्बवदादिभिः उत्पाटितानां समुद्रे सेतुं रचयितुमुत्खातानाम् मलयदर्दुरमहेन्द्रपादानाम् तत्तत्पर्वतप्रत्यन्तपर्वतानाम् मूलसिलातलेषु अधः पाषायदर्दुरमहेन्द्रपादानाम् तत्तत्पर्वतप्रत्यन्तपर्वतानाम् मूलशिलातलेषु अधः पाषाणप्रदेशेषु परिदृश्यमानाः स्फुटलक्ष्याः कठिनतराणां कर्कशानां तत्कराङ्गुलीनां जाम्बवदादिकराङ्गुलीनां रेखाः ताभिः व्यावर्त्तिता दूरीकृता कुलिशात् महेन्द्रवज्रात् भयेन भीत्या उच्चालितानां पलायितानां शैलानां संस्थानं प्राक्तनं स्थानमिदमिति बुद्धिः येषुः तैस्ततोक्तैः सन्निवेशावटैः स्थितिगर्तैः स्थपुटिताम् निम्नोन्नताम्, (रुदत्याऽऽलिङ्गितया च चित्राङ्गदया कथञ्चिदनुमतोऽर्जुनः पुरो गत्वा पर्वतसंस्थानानि दृष्ट्वा प्रागन्वमासीद्यदिमे पर्वता महेन्द्रवज्रभीत्या पलायिताः, परं यदा तन्मूलेषु जाम्बवदादीनां रामसेनापतीनामङ्गुलिनखरेखा अपश्यत्तदा तस्य सा बुद्धिरपगता, तदाऽमीपर्वतास्तैः सेनापतिभिरेव सेतौ निहिता इत्यमन्यतार्जुनः) अटवीं काननभूमिम् विलङ्घ्य निस्तीर्य, पुत्रीन्यक्काररुषा स्वसुतायाः सीताया अवमाननाजनितेन कोपेन पुलस्त्यान्वयस्य रावणस्य पुरीम् लङ्काम् उन्मूलयितुम् उत्पाटयितुम् प्रसारितेन दीर्घीकृतेन भुवः पृथिव्याः भुजेन हस्तेन इव सेतुना रामकृतेन बन्धेन कृतसीमन्तं द्विधा विभक्तम् उदन्वन्तं सागरम् अभजत प्राप्तवान्।

समीक्ष्य सेतुं रघुवीरनिर्मितं स चित्रभित्तीकृतधीर्धनंजयः।
दिनेशवंशस्य तपोवि चारणे चिरावकाशं विततान{51} चेतसि ॥ 44 ॥

समीक्ष्येति। सः समुद्रतीरगः धनञ्जयः रघुवीरनिर्मितं रामेण कारितपूर्वम् सेतुं बन्धं समीक्ष्य सादरमालोक्य चित्रस्य आश्चर्यरसस्यैव चित्रस्यालेख्यस्य भित्तीकृता आश्रयीकृता धीर्येन सः तथोक्तः आश्चर्यरसयुक्तबुद्धिरित्यर्थः, दिनेशवंशस्य सूर्यकुलस्य तपसः सुकृतस्य विचारणे भावनायाम् चेतसि स्वहृदि चिरावकाशं प्रभूतमवकाशं विततान विस्तारितवान्। सूर्यवंशेन कीदृशं तपःकृतं येन तत्रेदृशप्रभावशालीरामोऽप्यवतीर्ण इति चिरंभावयामासेत्याशयः ॥ 44 ॥

अब्धौ वानरपातिताचलशिलाभङ्गाभिघातैश्चिरादक्ष्णान्धैः कुणिभिः करेण च पदा खञ्जैः पयोमानुषैः।
वीची{52}वीथिषु कीर्त्यमानमनघं वृत्तं रघूणां प्रभोः श्लाघं श्लाघमसौ तटेन हरितं प्राचेतसीमभ्यगात् ॥ 45 ॥

अब्धाविति। असौ अर्जुनः अभ्धौ सागरे वानरैर्हनूमज्जाम्बवत्प्रभृतिभी रामसेनापतिभिः पातिताः सेतुनिर्माणाय न्यस्ताः येऽचलाः पर्वताः तेषां शिलाभङ्गैः पाषाण खण्डैः येऽभिघाताः प्रहाराः तैश्चिरात् बहुकालतः अक्ष्णा चक्षुषा अन्धैः हतदृक्‌शक्तिभिः करेण कुणिभिः कुकरैः, पदा चरणेन खञ्जैः पङ्गुभिः पयोमानुषैः जलमानवैः वीचीवीथिषु तरङ्गरूपरथ्यासु (उपविश्य) कीर्त्त्यमानं गीयमानं रघूणां प्रभोः राघवश्रेष्ठस्य रामस्य अनघं पापापहारिवृत्तं चरितं श्लाघं श्लाघं प्रशस्य (धन्योरामो यदीयं चरितममी गायन्तीति स्तुत्वा) तटेन समुद्रतीरवर्त्मना प्राचेतसीं वारुणीं हरितं दिश (प्रतीचीम्) अभ्यगात्। तत्र सेतुबन्धस्थले वानरपातित शिलाघातैर्नष्टाक्षिपाणिपादतया कार्यान्तराशक्त्या वीचीवीथिपूवविश्य रामचरितं गायन्ति जलमानुषास्तान् प्रशंसन्नर्जुनः समुद्रतटवर्त्मना प्रतीचीं दिशं प्रतस्थे इत्यर्थः। `अक्ष्णाकाणैः’ `करेण कुणिभिः’ इत्यादौ `येनाङ्गविकारः’ इति तृतीया। शार्दूलविक्रीडितं वृत्तम् ॥ 45 ॥

गोकर्णमेत्य स कुलाद्रिसुताप्रियस्य पुष्पाणि मूर्ध्नि निदधे पुरुहूतसूनुः।
आगामिनां निजशरासनताडनानामत्रावकाश इति सूचयतेव दोष्णा ॥ 46 ॥

गोकर्णमेत्येति। सः पुरुहूतसूनुः इन्द्रपुत्रः गोकर्णं नाम तीर्थविशेषम् एत्य प्राप्य कुलाद्रिसुतापर्वतराजपुत्रीपार्वती तस्याः प्रियस्य पत्युः शिवस्य मूर्ध्नि शिरसि-आगामिनां भविष्यतां निजशरासनेन स्वगाण्डीवधनुषा ताडनानाम् आघातानाम् अत्रशिवशिरसि अवकाशः स्थानम् इति सूचयता इव प्रकटयता इव दोष्णा बाहुना पुष्पाणि निदधे स्थापितवान्। गोकर्णतीर्थेऽर्जुनस्तत्र स्थितस्य शिवस्य शिरसि पुष्पाणि निदधे स्थापितवान्। गोकर्णतीर्थेऽर्जुनस्तत्र स्थितस्य शिवस्य शिरसि पुष्पाणि स्थापितवान् मन्ये संभाविनि किरातयुद्धे शिवस्य शिरसि बाणान् धास्यति, धास्यमानानां वाणानामत्रावकाशोऽस्तीति साम्प्रतिकपुष्पधारणेन सूचितवानितिभावः। पुरा किल तपस्यतोऽर्जुनस्य बलं परीक्षितुं शिवस्तेन ययुधे प्रसह्य चास्त्राणि दत्तवानिति प्राचीनां कथामनुरुध्येयमुत्प्रेक्षा। वसन्ततिलकं वृत्तम् ॥ 46 ॥

गोपृष्ठलग्नं कुलशैलकन्यासहायमन्तः सततं दधानः।
आश्चर्यमैक्षिष्ट तमेव देवं गोकर्णवासं कुरुराजसूनुः ॥ 47 ॥

गोपृष्ठेति। गोपृष्ठलग्नम् वृषभपृष्ठदेशस्थितं कुलशैलकन्यासहायम् हिमालयपुत्रीनाथं शिवमन्तः स्वहृदये सततं दधानः धारयन् (ध्यायन्) कुरुराजसूनुः अर्जुनः तम् शिवम् एव देवम् गोकर्णवासम् गोः कर्णेस्थितमिति विरोधप्रतिभासः, गोकर्णनामकक्षेत्रे स्थितमिति च तत्परिहारः, आश्चर्यम् चकितचकितम् ऐक्षिष्ट। पृष्ठस्थत्वेन ध्यायमानस्य कर्णस्थत्वेन दर्शनमवश्यमाश्चर्यं प्रयोजयेदिति भावः ॥ 47 ॥

पापपनुत्त्यै परिकल्पितो यः प्रभासतीर्थे {53}प्रथितेऽभिषेकः।
सेतुं दृशा {54}दृष्टवतोऽस्य सोऽसौ साध्यं विना जागरितो बभूव ॥ 48 ॥

पापापनुत्त्यै इति। पापस्य मिथुनदर्शंनजन्यदुरितस्य अपनुत्त्यै क्षयाय प्रथिते पापक्षयकरतया ख्याते प्रभासतीर्थे तन्नामके पुण्यतीर्थविशेषे (अर्जुनेन) यः अभिषेकः स्नानम् परिकल्पितः कृतः, सेतुं सागरबन्धं दृशा स्वदृष्ट्या दृष्टवतः साक्षात्कृतवतोऽस्यार्जुनस्य सोऽसौ अभिषेकः साध्यं विना (पापक्षयरूपं फलम् पूर्वं सेतुदर्शनेनैव जातमित्यधुना) फलमन्तरैव जागरितः स्थितः बभूव। स हि प्रभासतीर्थाभिषेकस्तस्य भाविने शुभायातिष्ठत्, सम्प्रतितत्साध्यतया सम्भावितस्य पापक्षयस्य सेतुदर्शनेनैवानुष्ठितत्वादितिभावः ॥ 48 ॥

पापापनोदे फलितेऽर्जुनस्य प्रागेन सेतोरवलोकनेन।
प्रभासतीर्थे नियमाभिषेकः{55} पश्चात्सुभद्रागमहेतुसीत् ॥ 49 ॥

पापानोदे इति। अर्जुनस्य पापापनोदे दुरितक्षये सेतोः समुद्रबन्धस्य अवलोकनेन प्रागेव प्रभासतीर्थेऽभिषेकतः पूर्वमवे फलिते निष्पन्ने सति पश्चात् उत्तरकालिकः प्रभासतीर्थे नियमाभिषेकः यथाविधिस्नानम् सुभद्रागमहेतुः सुभद्राप्राप्तिकारणम् आसीत् अभवत्। सेतुदर्शनादेव क्षीणपापस्यार्जुनस्य प्रभासेऽभिषेकस्तस्य सुभद्राप्राप्तावुपाकरोत्, पुण्यस्य पापक्षयशुभोदयोभयहेतुतया पापक्षयेऽचरितार्थत्वे शुभोदयजननस्वाभाव्यादिति भावः ॥ 49 ॥

ततो घनाविर्भवनाद्भियेव तत्रामलं मानसमस्य भेजे।
कर्णान्तरक्रौञ्चपथेन शोभायशोमरालो यदुकन्यकायाः ॥ 50 ॥

ततो घनेति। ततः प्रभासतीर्थे स्नानात्परतः तत्र प्रभासक्षेत्रे घनाविर्भवनात् वर्षाकालोपसरणात् भिया भयेन इव यदुकन्यकायाः यादववंशसुतायाः सुभद्रायाः शोभायशोमरालः सौन्दर्यकीर्त्तिरूपो हंसः कर्णान्तरक्रौञ्चपथेन कर्णमध्यरूपक्रौञ्चवर्त्मना अमलं निर्मलम् अस्य अर्जुनस्य मानसं हृदयं भेजे प्राप। यथा वर्षागमनाद्‌भीतो हंसः क्रौञ्चवर्त्मना मानसं याति तथैवायं प्रभासे सुभद्रासौन्दर्यकथाः कर्णातिथी चकारेत्यर्थः। समस्तवस्तुवर्त्तिसावयवरूपकमलङ्कारः वर्षाकाले हंसा भारतं वर्षं विहाय मानसं सरो गच्छन्तीति प्रसिद्धिमनुरुध्योक्तिरियम् ॥ 50 ॥

स्मृतिपथस्थितयापि सुभद्रया जनसमक्षमिवासितुमात्तभीः।
द्विजकुलानि स तत्र समत्यजत्सहचराणि रतीशवशंवदः ॥ 51 ॥

स्मृतिपथेति। अथ सुभद्रासौन्दर्ययसोवार्त्ताश्रवणानन्तरं स्मृतिपथस्थितया संकल्पगोचरया अपि सुभद्रया (हेतुभूतया) रतीशवशंवदः मन्मथबाधायुक्तः सः अर्जुनः जनसमक्षम् लोकानां समीपे आसितुं स्थातुम् आत्तभीः गृहीतभयः (भीतः) इव सहचराणि सहयात्रिकाणि द्विजकुलानि ब्राह्मणवृन्दानि तत्र प्रभासतीर्थे समत्यजत् त्यक्तवान् यदा स्मृतमात्रयैव सुभद्रया कामपीडितोऽसावर्जुनो लोकसमक्षमवस्थातुं भयमन्वभूत्तदासौ स्वसहयात्रिकान् ब्राह्मणान्यथेच्छं गन्तुं विसृष्टवानित्यर्थः ॥ 51 ॥

पयसा परिपूरितौ घटौ परिपश्यन्पथि पाकशासनिः।
कमलाक्षकनीयसीकुचौ कलयामास करस्थिताविव ॥ 52 ॥

पयसेति। पाकसासनस्येन्द्रस्यापत्यं पुमान् पाकशासनिः अर्जुनः पथि मार्गे पयसा परिपूरितौ जलपूर्णौ घटौ परिपश्यन् वीक्षमाणः कमलाक्षस्य कृष्णस्य कनीयस्याः अवरजायाः सुभद्रायाः कुचौ स्तनौ करस्थितौ हस्तगतौ इव कलयामास ज्ञातवान्। यदार्जुनो मध्येमार्गं जलसंभृतौ कलशावपश्यत्तदैव सुभद्राप्राप्तिविषये कृतनिश्चयोऽजायत, यात्राकाले जलपूर्णघटदर्शनस्येष्यमाणवस्तु प्रदत्वेनाभ्युपेतत्वादित्यर्थः ॥ 52 ॥

तदानीं खलु,-

चक्राङ्गीमदपश्यतोहरचलच्छम्पासमुन्मेषणैः पुष्पयत्केतकगन्धसिन्धुविलुठत्पुष्पंधयान्धीकृतैः।
{56}मेदस्वीकृत केकिनीकलकलैर्मेघंकराशामुखैः पान्थानामपमृत्युबिः कतिपयः प्रादुर्बभूवे दिनैः ॥ 53 ॥

चक्राङ्गीति। चक्राङ्ग्यः चक्रवाकस्त्रियस्तासां मदो दिने निरन्तरप्रियसहवासदर्पस्तस्य पश्यतोहराणि लुम्पकानि चलन्तीनां समुन्मिषन्तीनां शम्पानां समुन्मेषणैः विलसनैः, एवं पुष्प्यतां विकासं प्राप्नुवतां केतकानां गन्ध एव सिन्धुः सागरस्तत्र विलुठद्भिः सञ्चरद्भिः पुष्पनधयैर्भ्रमरैः अन्धीकृतैः मलिनत्वं प्रापितैः, तथा मेदस्वीकृताः पीनत्वं गमिताः केकिनीनां मयूरीणां कलकलाः कोलाहला यैस्तथाभूतैः, अपि च मेघङ्कराणि मेघायमानानि आशामुखानि दिगवकाशा येषु तादृशैः, अथ च पान्थानामपमृत्युभिः पथिकजनानां वियोगिनां विनैवायुरन्तं मृत्युप्रदैः कतिपयैः द्वित्रैः वार्षिकैः वर्षर्त्तुजातैः दिनैः प्रादुर्बभूव जातम्। कतिपयानि प्रावृषेण्यानि दिनानि प्रादुरासन्यत्राकालन्ध्याऽऽगमेन दिनावच्छेदेन प्रियसहवाससौभाग्यशालिनीनां चक्रवाकीनां गर्वो निर्धूयतेस्म, विद्युतः समुन्मिषन्तिस्म, केतकपुष्पसुगन्धिसञ्चारिणोभ्रमराइतस्तोदिशोऽधीकृतवन्तः, मयूरीणां रुतानि बहुलीभूतानि, सर्वा अपि दिशो मेघायमाना अभवन्, पान्थाश्चाकालिकं मृत्युमापद्यन्तेस्मेत्यर्थः। पश्यतोहरः-चौरः, `पश्यतोऽर्थं हरति यः स चोरः पश्यतोहरः’ इति हलायुधः। `वाग्‌दिक्‌पश्यद्‌भ्यो युक्तिदण्डहरेषु’ इति षष्ठ्याः अलुक्। मेघङ्करशब्दे `मेघर्त्तिभयेषु कृञः’ इति खशि खित्त्वान्मुम् ॥ 53 ॥

कालाम्बुदालिनलिकात्क्षणदीप्तिवर्त्या संधुक्षितात्सपदि सध्वनिनिःसरद्भिः।
वर्षाश्मसीसगुलिकानिकरैः कठोरैर्घर्माभियातिमवधीद्धनकालयोधः ॥ 54 ॥

कालाम्बुदेति। घनकालो वर्षासमयः योधः क्षणदीप्तिः विद्युत् एव वर्त्तिः अग्निमुखीरज्जुस्तया सन्धुक्षितात् सपदि सद्यः तत्क्षणमेव सध्वनि सतडतडाशब्दम् निःसरद्भिः कठोरैः कठिनैः वर्षास्मसीसगुलिकानिकरैः करकारूपसीसकगुलिकासमुदायैः घर्माभियातिम् ग्रीष्मकालरूपं शत्रुमवधीत् मारितवान्। यथा कश्चन भटो नलिकास्त्रं वर्त्त्या सन्धुक्ष्य ततो निर्गतैः कठोरैश्च सीसकगुलिकानिकरैः स्वप्रतिपक्षं वीरं हन्ति, तथाऽयं वर्षासमयो विद्युता वर्त्त्या सन्धुक्षिताद्वर्षाकालिकश्यामलघनमालारूपनलिकास्त्रात् सशब्दं निस्सरद्भिः करकारूपगुलिकासमुदयैः ग्रीष्मसमयरूपं स्वशत्रुं पराजितवानिंति तात्पर्यम्। समस्तवस्तुविषयं सावयवरूपकमत्रालङ्कारः। वसन्ततिलकं वृत्तम् ॥ 54 ॥

माध्वीलिहा वुरुरुचे मलिनीकृताग्र कान्तारसीम्नि नवकेतकबर्हरेखा।
दग्धाञ्चले स्मरभिया दयिताजनेन संप्रेषिता पथिकभर्तृषु पत्रिकेव ॥ 55 ॥

माध्वीलिहेति। माध्वी पुष्पमधु लिह्यते आस्वाद्यते येन तेन माध्वीलिहा भ्रमरेण मलिनीकृताग्रा स्यामीभूताग्रदेश केतकवर्हरेखा केतकीकुसुमपत्रम् स्मरमिया कामभयेन हेतुना दयिताजनेन प्रियाजनेन पथिकभर्त्तृषु दूरगतेषु प्रियतमेषु विषये सम्प्रेषिता निसृष्टा दग्धाञ्चला अन्ते दग्धा पत्रिका लिपिः इव कान्तारसीग्नि वनप्रान्ते विरुरुचे प्रचकाशे। आपदि मग्ना गृहिणी पतिं त्वरितमायातमिच्छन्ती तत्समीपे दग्धैकदेशां पत्रिकां प्रहिणोति, भ्रमरेणाश्रितैकदेशा केतकी तथैव ददृशे इत्याशयः। अत्र पथिकस्त्रीणामापदिमग्नता ध्वन्यते ॥ 55 ॥

अर्जुनेषु सकलेषु विकासिष्वद्रिसीम्नि धृततादृशशब्दः।
एक एव विशुशोष विशेषादेतदम्बुभृदनेहसि चित्रम् ॥ 56 ॥

अर्जुनेष्विति। अम्बुभृदनेहसि वर्षासमये अद्रिसीम्नि पर्वतभूमौ सकलेषु सर्वेषु अर्जुनेषु तदाख्यवृक्षभेदेषु विकासिषु विकाससालिषु सत्सु धृततादृशशब्दः तत्समानाभिधानाभिधेयः एकः (पार्थरूपोऽर्जुनः) विशेषात् सातिशयं विशुशोष शुष्यतिस्म एतत् चित्रम् यस्मिन् वर्षाकाले सर्वेऽर्जुनाः कानने विकसन्ति, तस्मिन्नेव समये एकोऽर्जुनः पार्थः (सुभद्रावियोगव्यथया) सातिशयं शुष्यतिस्म। सर्वविकाससमये एकस्य तज्जातीयस्य शोषो विस्मयमावहतीति भावः ॥ 56 ॥

वियत्यशेषासु विदिक्षु वियोगशिल्पीन्द्रविनिर्मितायाः।
तस्या मृगाक्ष्याश्च तडित्ततेश्च धनंजयः संविविदे न भेदम् ॥ 57 ॥

वियतीति। वियति आकाशे अशेषासु सकलासु दिक्षु विदिक्षु (दिशः प्राच्यादयश्चतस्रः, विदिशश्चैशान्यादयश्चतस्रः, सम्मिलिताश्चता अष्टौ दिशो व्यवह्रियन्ते) वियोगशिल्पीन्द्रविनिर्मितायाः विरहरूपेण कारुवरेण चित्रितायाः मृगाक्ष्याः हरिणनेत्रायास्तस्याः सुभद्रायाः तडित्ततेः विद्युन्मालायाश्च भेदम् पार्थक्यम् धनञ्जयोऽर्जुनो न संविविदे न ज्ञातवान्। `त्रिभुन्मालायाश्च भेदम् पार्थक्यम् धनञ्जयोऽ
र्जुनो न संविविदे न ज्ञातवान्। `त्रिभुवनमपि तन्मयं विरहे’ इति प्रसिद्धोक्तिः, तदनुसारेण वियोगरूपः शिल्पीपार्थस्य दृष्टेः पुरतः सर्वासु दिक्षु सुभद्रायश्चित्रं निर्मातिस्म, तच्चित्राणि च विद्युद्भिस्तुलितानि तदङ्गकान्तेर्विद्युत्प्रभत्वादतः सादृश्येन मिलितासु चित्रितासु सुभद्रामूर्त्तिषु तडित्ततिषु च भेदं बोद्‌धुमर्जुनो नाक्षमतेत्याशयः, सामान्यं नामालङ्कारः, तल्लक्षणं यथा-`सामान्यं गुमसाम्येन विशेषो नोपलक्ष्यते’ इति ॥ 57 ॥

{57}मान्मथे ज्वलति वासवसूनुर्मानसे परिणये यदुपुत्र्याः।
लाजवापमिव कर्तुमुप्रन्द्रं तत्सगर्भ्यमथ चित्तमनैषीत् ॥ 58 ॥

मान्मथ इति। अथ वर्षासमयागमानन्तरम् वासवसूनुः इन्द्रपुत्रोऽर्जुनः यदुपुत्र्याः सुभद्रायाः मानसे परिणये सङ्कल्पकल्पिते विवाहे ज्वलति दीप्यमाने मान्मथे कामविकारात्मकेऽनौ लाजवापं लाजहोमं कर्त्तुम् इव तत्सगर्भ्यं सुभद्रासोदरम् उपेन्द्रम् कृष्णम् चित्तम्, अनैषीत्। लाजहोमकाले कन्याभ्रातुर्विवाहवेद्यामुपस्थितिरपेक्ष्यतेऽतोर्जुनो मानसे सुभद्रापरिणये लाजहोमं कर्त्तुमिवोपेन्द्रं स्वहृदयमानीतवान्, तद्विषये कमप्युपायमाचरितुमर्जुनो हरिं मनसा ध्यातवानित्यर्थः। स्वागतावृत्तम् ॥ 58 ॥

अणुमात्रमिदं सहेत बोढुं न हि विश्वंभरमद्य मामितीव।
मनसोऽध्य{58} वरुह्य तस्य दृष्टेः पुरतः प्रादुरभूत्पुमान्पुराणः ॥ 59 ॥

अणुमात्रमिति। अद्य अधुना अमुमात्रम् अणुपरिमाणम् इदम् अर्जुनस्य हृदयम् विश्वम्भरं समस्तभुवनवहं मां कृष्णं बोढुम् धारयितुं नहि सहेत न क्षमेत, इतीव अत एवहेतोः पुराणः पुमान् पुराणपुरुषः, श्रीकृष्णः मनसो हृदयात् अध्यवरुह्य उत्तीर्य तस्यार्जुनस्य दृष्टेः नयनस्य पुरतोऽग्रे प्रादुरासीत् प्रकटीभवतिस्म। यद्यहमस्यार्जुनस्य हृदये तिष्ठेयं तदाऽणुपरिमाणतयाऽदसीयं हृदयं मां विश्वम्भरतयाऽतिभारयुतं मां वोढुं न क्षमेत, अत एव हेतोर्भगवान् अर्जुनस्य हृदयं विहाय तस्य पुरः प्रकटीबभूवेत्यर्थः। हेतूत्प्रेक्षालङ्कारः ॥ 59 ॥

{59}स्वस्व-चेष्टाकथानद्या द्वितीयर्तुगुणज्ञया।
न बभूवे तयोस्तत्र नयनानन्दिनोर्मिथः ॥ 60 ॥

स्वस्वेति। तत्र तस्मिन् कृष्णप्रादुर्भावसमये मिथः परस्परं नयनानन्दिनोः अन्योन्यप्रीतिजनकविलोकनयोः तयोः कृष्णार्जुनयोः स्वस्वचेष्टाथानद्या स्वस्ववृत्तान्तकथनरूपया नद्या द्वितीयर्त्तोः ग्रीष्मस्य गुणः संक्षेपः (शोषरूपः) तज्ज्ञया तज्ज्ञानसालिन्या न बभूवे न जातं तयोः परस्परस्नेहनोरन्योन्यस्य पुरः स्वस्ववृत्तान्तव्याहारनदी ग्रीष्मर्त्तुगुणं संक्षेपरूपं न वेत्ति स्म अन्योन्यकथासंक्षेपो नाभूदित्यर्थः। `लङ्कानगर्यामुदयाच्चभानोस्तस्यैववारे प्रथमं बभूव मधौ’ इतियादिभास्कराचार्योक्तिदिशा वसन्ते सृष्ट्यादिस्मरणेन ग्रीष्मर्त्तोर्द्वितीयर्त्तुरूपता बोध्या ॥ 60 ॥

विजयो मधुरस्मितस्य भावं विदुषस्तस्य मतेन भिक्षुवेषः।
कुसुमास्त्रभयादिवातिगूढः कुहरे रैवतकस्य तिष्ठति स्म ॥ 61 ॥

विजय इति। विजयः अर्जुनः भावं विदुषः अर्जुनमनोभावं जानतस्तस्य मधुरस्मितस्य साकूतमधुरहासभृतः श्रीकृष्णस्य मतेन सम्मत्या भिक्षुवेषः सन्न्यासिवेषधारी कुसुमास्त्रभयात् कामशरभीरेरिव अतिगूढः प्रच्छन्नः सन् रैवतकस्य तदाख्यपर्वतस्य कुहरे गुहागृहे तिष्ठतिस्म। संन्यासिवेषधारी विजयो भावं ज्ञात्वा हसतो भगवतः सम्मतिमादाय रैवतकपर्वतस्य कुहरेऽतिष्ठत्, मन्ये स कामास्त्रभयादात्मानं गोपायितुमिव तां विजनां स्थलीं स्वावासभूमीचकारेत्याशयः। उत्प्रेक्षा स्फुटा ॥ 61 ॥

कथं सुभद्राकमनीयतायाः कल्पेत नुत्यै कविरुन्नतोऽपि।
चतुर्थमप्याश्रममस्य येन तां साधनीभूय दिदृक्षते स्म ॥ 62 ॥

कथमिति। उन्नतः स्वकवितागुणेन प्रतिष्ठां प्राप्तोऽपि कविः कवितानिर्माणपरः सुभद्राकमनीयतायाः सुभद्रासौन्दर्यस्य नुत्यै प्रशंसायै कल्पेत क्षमः स्यात्, येन यतः (आश्रमेषु ब्रह्मचर्यागार्हस्थ्यवानप्रस्थसन्नयासनामकेषु) चतुर्थम् अपि आश्रमम् अस्य अर्जुनस्य साधनीभूय सुभद्राप्राप्त्युपायरूपतामवलम्ब्य तां सुभद्रां दिदृक्षतेस्म द्रष्टुमिच्छतिस्म। यस्या दर्शनाय निवृत्तिभित्तिकश्चतुर्थः सन्न्यासाश्रमोऽपि अर्जुनस्य साधनीभूय स्पृहयति तद्रूपप्रशंसाकविभिरसाध्यैवेत्यर्थः। अनेन सन्न्यासाश्रमस्यापि रूपदर्शनस्पृहाकथनेन तत्सौन्दर्यस्यालौकिकत्वं व्यञ्जितम्। `आश्रमोऽस्त्री’ इति कथनादाश्रमशब्दोऽत्र क्लीबतया प्रयुक्तो वेद्यः ॥ 62 ॥

तदात्व एवाद्रितटात्पतिः श्रियः परिप्लवं तं प्रकृते शुभागमे।
यदाशये ते शय एव तद्भवेदिति ब्रुवन्द्वारवतीं पुनर्ययौ ॥ 63 ॥

तदात्व इति। श्रियो रुक्मिणीरूपाया लक्ष्म्याः पतिः श्रीकृष्णः प्रकृते तस्मिन् शुभागमे सुभद्रापाणिग्रहणरूपकल्याणाधिगतौ परिप्लवम् अधीरमानसम् स्याद्वा नस्यादितिसन्दिहानमानसमित्यर्थः यत् ते आशये अभिप्राये (मनसि) तत् (सुभद्रारूपं प्रियं वस्तु) ते तव अर्जुनस्य शये करे भवेदेवेति ब्रुवन् कथयन् पुनः अद्रितटात् रैवतकनामकतत्पर्वतात् द्वारवतीं नाम निजपुरीं तदात्वे तत्काले ययौ गतः। अर्जुनं समाश्वास्य तदिष्टसम्पादनौपयिकं विधिं सम्पादयितुं श्रीकृष्णो द्वारकां प्रस्थित इत्यर्थः। `छन्दोऽभिप्राय आशयः’ `पञ्चशाखः शयः पाणिः’ इत्युभयत्रामरः ॥ 63 ॥

तदनन्तरमहस्करमदतस्करमहा{60} महान्मस्करी रैवतकं{61} गिरिमुपस्कुरुते तस्य नमस्करणमस्माकं श्रेयस्करणमिति पुरोधोजनबोधनात्कुतूहलिना हलिना नगरमानीयमानं बहिरपि ज्वलता विरहानलज्वालेनेव काषायवाससावगुण्ठितवपुषं सव्यसाचिशब्दमत्सरेण स्मरवीरेण प्रवासरन्ध्रमन्वीक्ष्य{62} पन्नगपाण्ड्यदुकुमारिकाणां कृते {63}पृथगीरितां त्रिशरकाण्डीमिव त्रिगण्डीं बिभ्राणं निजपल्लवकोमलिमनिर्जयशोकादिव शुष्केण पटीरदारुणा{64} पादुकीभूय परिचर्यमाणपादयुगलं{65} तं कुहनाभिक्षुं{66} संभ्रृमेण वन्दमानेषु यदुवृन्देषु मुकुन्दोऽपि सविनयमुपागतश्चेतः पूरणावशिष्टैः{67} स्वसोदरीप्रेमरसैरिव तीर्थजलैः{68} पिचण्डिलं कमण्डलुं तदीयपाणेरादाय `भगवन्! इत{69} इत एहि’ इति राजभवनमुपनीय कन्य(70)कान्तःपुरे निवेशयामास।

तदनन्तरमिति। तदनन्तरम् हरेर्द्वारकागमनानन्तरम् अहस्करस्य सूर्यस्य यो मदस्तेजस्वितादर्पस्तस्य तस्करमपहतृमहस्तेजो यस्य तादृशस्तथोक्तः सूर्यादप्यधिकतेजाः महान् श्रेष्ठः मस्करीपरिप्राजकः रैवतकं नाम गिरिम् पर्वतम् उपस्कुरुते अलङ्करोति, रैवतकगिरिसमीपे तिष्ठति, तस्य परिव्राजकस्य नमस्करणं प्रणतिः अस्माकं यादवानाम् श्रेयस्करणम् इष्टसाधनमिति पुरोधोजनबोधनात् पुरोहितवचनात् कुतूहलिना तत्परिव्राजकनमस्करणादिधृतोत्कण्ठेन हलिना बलरामेण नगरम् द्वारकापुरं नीयमानं प्राप्यमाणम्, बहिरपि (हृदये का कथा?) ज्वलता दीप्यमानेन विरहानलज्वालेन सुभद्रावियोगानलप्रकाशेन इव काषायवाससा कषायरागरञ्जितसन्न्यासिधार्यवस्त्रेण अवगुण्ठितवपुषम् वेष्टितदेहम्, सव्येन साची बाणप्रयोक्ता सव्यसाची स एव शब्दो बोधको यस्य स सव्यसाची तच्छब्दमत्सरेण तच्छब्दवाच्यताप्रसूतेर्ष्यया स्मरवीरेण कामदेवेन प्रवासरन्ध्रम् प्रवासरूपम् प्रहारावकाशम् अन्वीक्ष्य विचार्यपन्नगकुमारिका उलूपी, पाण्ड्यकुमारिका चित्राङ्गदा, यदुकुमारिका सुभद्रा तासां कृते तासां विषये पृथक् प्रत्येकम् ईरितां प्रयुक्ताम् त्रिशरकाण्डीम् बाणकाण्डत्रयीम् इव त्रिदण्डीं वैष्णवयष्टित्रयं बिभ्राणं धारयन्तम्, त्रिशरकाण्डीम् बाणकाण्डत्रयीम् इव त्रिदण्डीं वैष्णवयष्टित्रयं बिभ्राणं धारयन्तम्, निजपल्लवस्य चन्दनतरुकिसलयस्य यः कोमलिमा मार्दवं तस्य निर्जयः (अर्जुनपदाकृतः पराजयः) ततः शोकात् खेदात् इव शुष्केण पटीरदारुणा चन्दनकाष्ठेन पादुकीभूय चरणपादुकाभावमवाप्य परिचर्यमाणपादयुगलम् चरणयोः सेव्यमानम् तं कुहनाभिक्षुम् मायासन्न्यासिनम् अर्जुनम् यदुवृंदेषु यादवगणेषु संभ्रमेण त्वरया वन्दमानेषु नमस्कुर्वत्सु सत्सु मुकुन्दः श्रीकृष्णोऽपि सविनयम् नम्रभावेन उपागतः सन्न्यासिनोऽर्जुनस्य समीपमायातः, चेतःपूरणावशिष्टैः हृदयं पूरयित्वोर्वरितैः स्वसोदरीप्रेमरसैः सुभद्राप्रीतिरसै इव तीर्थजलैः तत्तत्तीर्थोपहृताभिरद्भिः पिचण्डिलं पूर्णं कमण्डलुम् तदीयपाणेः अर्जुनकरात् आदाय गृहीत्वा भगवन्, इत इतः अस्यां दिशि एहि आगच्छ कन्यकाध्युषितेऽवरोधे निवेशयामास प्रवेशं कारितवान्। तदनन्तरं सूर्यादप्यधिकतेजस्वी कोऽपि सन्न्यासी रैवतके तिष्ठति स प्रणम्य इति पुरोहितोक्तिं प्रमाणीकृत्य तद्दर्शनोत्कण्ठितो बलरामस्तं नगरमनैषीत् तस्य सन्न्यासिनः शरीरे काषायं वसनं वर्त्ततेस्म तद्‌धृदयेऽभिमानो वियोगवह्निज्वाल इव प्रतीयतेस्म, तस्य करे दण्डत्रयी तिष्ठतिस्म, मन्ये सा तस्योपरि प्रहृता उलूपीचित्राङ्गदासुभद्राविषये कामस्य शरत्रयी सा, तदीयपादयोश्चन्दनकाष्ठपादुकावर्त्तत सा तथा प्रतीयतेस्म यथास्य पादेन कोमलतया चन्दनकाष्ठमजीयत, तदेव निजपराजयजनितखेदेन शुष्कीभूयास्य पराजेतुश्चरणौ परिचरति, तादृशं त कपटसन्न्यासिनमर्जुनं यदवः प्रणेमुः, तदैव कृष्णस्तत्रागतः, स तदीयकरतः कमण्डलुमादात्, स हि हृदयं पूरयित्याऽवशिष्यमाणैः प्रेमजलैरिव तीर्थसलिलैः पूर्णः प्रतीयतेस्म, कमण्डलुं स्वकरे गृहीत्वा कृष्णस्तं सन्न्यासिवेषमर्जुनं राजप्रासादमानीय कन्यान्तःपुरप्रवेशं कारितावानित्याशयः। उपमा उत्प्रेक्षा चालङ्कारौ ॥

मार्गे शारत्रयममुष्य कृते विमुच्य शेषं द्वयं पुनरिवोज्झितुमात्तलोभः।
शुश्रूषितुं तदनु सोदरचोदितायास्तन्व्याः स्मरो नयनमेव शरं व्यतानीत् ॥ 64 ॥

मार्गे इति। तदनु अर्जुनस्य कन्यान्तःपुरे प्रवेशात् परतः स्मरः कामदेवः मार्गे तीर्थवर्त्मनि अमुष्यकृते अर्जुनस्य विषये शरत्रयं बाणपञ्चकमध्ये बाणत्रितयं वुमुच्य (उलूपीचित्राङ्गदासुभद्रारूपललनात्रयविषयकानुरागजनने) प्रयुज्य शेषं द्वयं बाणयुगलं पुनः उज्झितुं मोक्तुम् आत्तलोभः धृतेच्छ इव शुश्रूषितुम् अर्जुनं सन्न्यासिनं परिचरितुम् सोदरचोदितायाः कृष्णेन आदिष्टायाः तन्व्याः सुन्दर्याः सुभद्राया नयनं चक्षुरेव शरं बाणं व्यतानीत् कल्पयामास। पञ्चसु बाणेषु त्रीन् बाणान्प्राणान् प्राक् प्रयुक्तवतः कामदेवस्य अवशिष्टं बाणद्वयं परिचर्यायै सन्निहितायाः सुभद्रायां नयनमेवाजायतेत्यर्थः। उत्प्रेक्षया रूपकं सङ्कीर्यते। वसन्ततिलकं वृत्तम् ॥ 64 ॥

वपुषा मधुरेण {71}सुभ्रुवो धनुषा {72}चित्तभुवश्च तर्जितः।
तपसेव दिने दिने तनोस्तनिमानं डगृहे स मस्करी ॥ 65 ॥

वपुषेति। स मस्करी कपटसन्न्यासी मधुरेण कोमलेन सुभ्रुवः सुन्दर्याः सुभद्रायाः वपुषा शरीरेण चित्तभुवः मनोजस्य मधुरेण पुष्पभवत्वात् मधुयुक्तेन धनुषा च तर्जितः सन्तापितः सन् तपसा तपस्यया इव दिने दिने अनुदिनं तनोस्तनिमानं कृशतां जगृहे प्राप्तवान्। कामपीडया जायमानं कार्श्यं तपःप्रभवत्वेनोत्प्रेक्ष्यते। सेयं पञ्चमी कृशता नाम मन्मथावस्तोक्ता ॥ 65 ॥

प्रतिनिःश्वसिते दीर्घे पाणिना नासिकां स्पृशन्।
भावयामास पार्थोऽयं प्राणायामसमापनम् ॥ 66 ॥

प्रतीति। अयं पार्थः दीर्घे प्रतिनिःस्वसिते निःश्वासे पाणिना हस्तेन नासिकां स्पृशन् आमृशन् प्राणायामस्य वायुनिरोधस्य समापनम् अवसानं भावयामास बोधयामास। सुभद्रावियोगजं निःश्वासमन्योविद्यादिति तं गोपयितुमयं पार्थः पाणिना नासाग्रं स्पृष्ट्वा प्राणायामसमाप्तौ ममायं श्वासस्त्यज्यते नायं वियोगजो निश्वास इति लोकान्वञ्चयामासेत्यर्थः। तुलनार्थं दृश्यतां नैषधीये-`मृषाविषादाभिनयादयं क्वचिज्जुगोप निःश्वासततिं वियोगजाम्’ इति। अत्र युक्तिर्नामालङ्कारस्तल्लक्षणमुक्तं यथा-`युक्तिः परातिसंधानं क्रियया मर्म गुप्तये’ इति ॥ 66 ॥

प्रणवोच्चरणे पुरः {73} प्रसर्पन्प्रबभासे यतिनस्तदाधरोष्ठः।
मुहुरग्रगतावनीन्द्रपुत्रीमुखमास्वादयितुं किलोञ्जिहानः{74} ॥ 67 ॥

प्रणवोच्चरण इति। तदा कपटयतिवेषधारणसमये प्रणवोच्चारणे ओङ्कारोच्चारणवेलायाम् पुरः प्रसर्पन् यतिनः अर्जुनख्याधरोष्ठः किल अग्रतायाः पुरःस्थितायाः अवनीन्द्रपुत्र्याः राजकुमार्याः सुभद्रायाः मुखम् आस्वादयितुम् अधरम् पातुम् मुहुः भूयोभूयः उज्जिहानः चलन् इव प्रबभासे प्रतीयते स्म। अयमाशयः-यतिवेषधारी पार्थो यदौङ्कारमुच्चारयति तदौष्ठ्यवर्णौकारोच्चारणकाले तदोष्ठः पुरश्चलति, मन्ये स सुभद्राधरपिपासयैव परिस्फुरतीति। स्वरूपोत्प्रेक्षाऽलङ्कारः। उत्पूर्वकाज्जहातेः शानच उज्जिहानपदम् ॥ 67 ॥

कन्याकरे मृद्गति पादपद्मं {75}पुष्यन्ति गात्रे {76}पुलकाङ्कुराणि।
हरे हरे माधव माधवेति हरिस्मृतेरन्यथयांचकार ॥ 68 ॥

कन्याकरे इति। सः पार्थः कन्यायाः सुभद्रायाः करे पादयुग्मम् अर्जुनचरणद्वयं मृद्नति संवाहयति सति (अर्जुनपादयुगलं मर्दयति सति) पुष्यन्ति जायमाणानि गात्रे स्वदेहे पुलकाङ्कुराणि रोमाञ्चविकारान् हरे हरे माधव माधव इति एवं हरिस्मृतेः भगवत्स्मरणरूपव्याजात् अन्यथायाञ्चकार गोपयति स्म। अयमाशयः-सुभद्रा यदाऽर्जुनस्य पादौ मर्दयति तदा कपटसंन्यासिनस्तस्य रोमाञ्चा उद्गच्छन्ति, भवन्तममुं रोमाञ्चोदयं लोको ज्ञात्वा मां लम्पटं मा ज्ञासीदिति मनसि कृत्यार्जुनस्तदा हरे हरे माधवेत्युच्चारयन् रोमाञ्चोऽयं भगवत्स्मरणजन्येति गोपनं कृतवान् इति। युक्तिरलङ्कारः ॥ 68 ॥

एकदा निर्वर्त्य प्रत्यवसानकृत्यं प्रतिक्षणमिक्षुचापक्षुरप्रसंतक्षणेन{77}समन्तत्पतितैः सत्त्वगुणशकलरिव स्वेदबिन्दुभिर्व्याकीर्णां{78} चामूरवीं त्वचमध्यास्य विश्रामन्यन्तं{79} तं कुहनासंन्यासिनं धवित्रेण वीजयनती सुभद्रा तैस्तैरिङ्गिर्यातत्वे{80} संशय्य तस्य तत्त्वजिज्ञासया सविनयमनुरहसि व्यजिज्ञपत् ॥

एकदेति। एकदा एकस्मिन्समये प्रत्यवसानकृत्यम् भोजनरूपं कार्यं निर्वर्त्त्यसमाप्य प्रतिक्षणं सततं इक्षुचापक्षुरप्रसन्नक्षणेन कामबाणकृतभेदनेन समन्तात् पतितैः समन्ततो विकीर्यमाणैः सत्त्वगुणशकलैः सत्त्वगुणस्य खण्डैरिव स्वेदबिन्दुबिः धर्मजलैः व्याकीर्णां व्याप्तां चामूरवीं मृगसम्बन्धिनीं त्वचं चर्म अध्यास्य उपविश्य विश्राम्यन्तम् श्रममपनुदन्तं कुहनासन्न्यासिनम् मायायतिवेषधारिणम् तम् अर्जुनम् धवित्रेण मृगचर्मव्यजनेन वीजयन्ती वायुं चालयन्ती सुभद्रा तैस्तैः कामविक्रियापूर्णः इङ्ग्रितैः अर्जुनस्य चेष्टाभिः (तस्य) यतित्वे संन्यासिभावे संशय्य संदेहमासाद्य तस्य तत्त्वजिज्ञासया याथार्थ्यं ज्ञातुम् सविनयं नम्रभावेन अनुरहसि एकान्ते व्यजिज्ञपत् अर्जुनं सूचितवती। एकदाऽर्जुनः कृतभोजनतया स्वस्थो भूत्वा मृगचर्मण्युपविश्य विश्राम्यति स्म, तस्य देहात् स्वेदबिन्दवो निपत्य तदासने विकीर्णा कामेन स्वबाणैर्विदीर्णेभ्यस्तदङ्गेभ्यः पतिताः सत्त्वगुणकणा इव प्रतीयन्ते स्म। सा तदङ्गितैस्तस्य यतित्वे समदिग्ध, सा तत्त्वं ज्ञातुं तमेकान्तेऽकथयदित्याशयः। `प्रत्यवसानं भोजनमब्यवहारश्च जग्धिश्च’ इति हलायुधः। `धवित्रं व्यजनं तद्यद्रचितं मृगचर्मणा’ इत्यमरः ॥

तपस्विन्नद्य मे प्रीतिस्तवाभ्यागमसंभवा।
कन्यामौनावकीर्णित्वे कल्पशाखाशिखायते ॥ 69 ॥

तपस्विन्निति। हे तपस्विन् यतिवर, तवाभ्यागमसंभवा त्वदागमनजन्या मे मम प्रीतिः प्रसन्नता कन्यामौनावकीर्णित्वे कन्याजनोचितसंलापनियमभङ्गे कल्पशाखाशिखायते कल्पतरुशाखाग्रभागवदाचरति बहुसंलापेच्छां जनयति। भवदाममनजन्यो हर्षः कन्यामपि मामप्रष्टव्यविषयकप्रश्नकरणे व्यापारयतीत्यर्थः। `अवकीर्णीक्षतव्रतः इत्यमरः ॥ 69 ॥

इदानीममी,-

इदानीम्, इति। इदानीम् भवदागमनसमये, अमी-यादवाः।

यदवः खलु पुण्यराशयो यतिनामिन्द्र! तवाङ्घ्रिसेवनात्{81}।
{82}शिरसैकमवाप्य यद्रजो मनसान्यत्परिवर्ज्यते च यैः ॥ 70 ॥

यदव इति। हे यतिनामिन्द्र यतिश्रेष्ठ, तवाङ्घ्रिसेवनात् भवदीय चरणसेवावसरलाभात् यदवः यादवाः खलु यतिश्रेष्ठ, तवाङ्घ्रिसेवनात् शरीरिणः पुण्यसङ्घा इव जाता इत्यर्थः, यत् यस्मात् एकं भवत्पादोत्थं रजः परागम् शिरसा स्वमस्तकेन अवाप्य प्राप्य यैः यदुभिः अन्यत् स्वहृदयस्थितं रजः वासनासञ्जातो रजोगुणः मनसा हृदयेन परिवर्ज्यते त्यज्यते। स्वहृदयस्थितं रजः वासनासञ्जातो रजोगुणः मनसा हृदयेन परिवर्ज्यते त्यज्यते। भवदागमेन भवत्पादभवं रजः शिरसा गृह्णन्तो निजहृदयगतं रजो जहतोऽमी यादवाः सातिशयपुण्यभाजो जाता इत्याशयः। एकरजोधारणं पररजो निरासकरणत्वेनोक्तमिति काव्यलिङ्गमलङ्कारः। `रजः स्यादार्त्तवे रेणौ परागगुणयोरपि’ इति विश्वः। वैतालीयं वृत्तम् ॥ 70 ॥

भगवन्नखिलं विबुध्यसे परमार्थं वद भावि मे शुभम्।
प्रयता यतयो भवद्विधाः प्रणिधानेन हि दिव्यचक्षुषः ॥ 71 ॥

भगवन्निति। हे भगवन् समार्थ्यशालिन्, अखिलम् समस्तम् भूतभविष्यद्वर्त्तुमानरूपं वस्तु विबुध्यसे जानासि, अतः मे मम भावि भविष्यत् शुभं कल्याणं यथार्थं वस्तुतः सत्यसत्यं वद कथय। हि यतः प्रयताः संयमपरायणाः भवद्विधाः त्वादृशाः दिव्यदृष्टयो यतयः योगिनः प्रणिधानेन समाधिना दिव्यचक्षुषः व्यवहिताव्यवहितजाताजातसकलवस्तुदृश्वनयना भवन्ति। यतो भवादृशायतयः सर्वज्ञा भवन्ति, अतस्त्वमपि सर्वं वेत्सि, तेन मदीयं भविष्यच्छुभं मह्यं कथयेति भावः ॥ 71 ॥
अवकर्ण्य तदेष सीलितः क्षणमक्ष्णोः प्रतिवाचमाददे।
बहुना किमयि! स्वकैर्गुणैर्विजयं प्राप्स्यसि योषितां कुले ॥ 72 ॥

अवकर्ण्येति। एषः कपटसन्न्यास्यर्जुनः तत् सुभद्रावचनम् अवकर्ण्य श्रुत्वा क्षणम् किञ्चित्‌कालपर्यन्तम् मीलितः पिहितदृष्टिः (प्रणिधानं करोमीति बोधयितुं मुद्रितनयनः) अयि सुभद्रे, बहुना उक्तेन अधिककथनेन किम्? नास्ति बहूक्तेन फलम् स्वकैः निजैः गुणैः शीलसौन्दर्यादिभिः योषितां कुले स्त्रीवर्गे विजयं सर्वोत्कर्षं प्राप्स्यसि लप्स्यसे। अर्जुनं नाम विजयं प्राप्स्यसीति च ध्वन्यते। `विजयस्तु पार्थे’ इत्यमरः ॥ 72 ॥

पादाङ्गुष्ठनखं यस्ते {83}फाले कुर्याद्विशेषकम्।
स नरोऽपि स्मरेणार्तः सद्यः स्यादामिषं दृशोः ॥ 73 ॥

पादाङ्गुष्ठेति। यः नरः ते तव सुभद्रायाः पादाङ्गुष्ठनखं चरणाङ्गुष्ठनखरं फाले स्वशिसि विशेषकं तिलकं कुर्यात्, यो मनुष्यः प्रणयकुपितायास्तव प्रसादनाय त्वत्पदयोः प्रणमन् त्वच्चरणनखं स्वशिरसो भूषणभावं प्रापयेत्, सः स्मरेणार्त्तः कामपीडितः नरः पुरुषः (अर्जुनश्च) ते दृशोः नयनयोः सद्यः तत्काल एव आमिषं भोग्यं विषयः स्यात् भवेत्। यस्ते प्रियस्तव मानमपसारयितुं तव चरणयोः प्रणंस्यति स नरः शीध्रमेव त्वया दृस्येत, अचिरेणैव त्वया प्रियः प्राप्येतेत्यर्थः, तव चरणयोः त्वां प्रसादयितु कामोऽर्जुनस्त्वयाऽचिरेणैव द्रक्ष्यत इत्यपि ध्वन्यते। `नरोऽर्जुने मनुष्येऽपि’ इति हलायुधः ॥ 73 ॥

इति सा तस्य वक्रिमस्पृशा वचसा श्रवसा च {84}विश्रुतपूर्वैस्तैस्तैर्लक्षणेः{85} सोऽयं{86} संक्रन्दनन्दन इति निश्चयमणिं हृदयपेटिकापुटे{87} निझा `भगवन्! भवदभिहितयोर्विजय-नरशब्दयोः{88} क्रमेण धर्मिपरता च विशेषनामता{89} च तव कृपया {90}भविता’ इति तस्मै {91}व्रीडतरलतरनयनं वदन{92} मवनमन्ती तस्थे ॥

इतीति। इति उक्तप्रकारेण वक्रिमस्पृशा कौटिल्यपूर्णेन तस्य कपटसन्न्यासिनोऽर्जुनस्य व चसा (श्लेषपूर्णेन भाषणेन) श्रवसा कर्णेन विश्रुतपूर्वैः दूतवन्दीसखीमुखात् आकर्णितचरैस्तैस्तैर्दीर्घबाहुत्वपङ्कजनयनत्वसुरेखमुखत्वादिभिर्लक्षणैः सा सुभद्रा सोऽयं संक्रन्दननन्दनः इन्द्रपुत्रः अर्जुन इति निश्चयमणिं निर्णयरूपं मूल्यवद्रत्नं हृदयपेटिकापुटे हृदयरूपमव्जूषाब्यन्तरे निधाय स्तापयित्वा-भगवन्, महाराज, भवदबिहितयोः पूर्वतनपद्यद्वये भवतोच्चारितयोः विजयनरशब्दयोः क्रमेण आनुपूर्व्येण धर्मिपरता विशिष्टव्यक्तिवाचकता (विजयशब्दस्य धर्मपरत्वं विहाय धर्मिबोधकता) विशेषनामता (नरशब्दस्य सामान्यपुंमात्राभिधायित्वव्युदासने) विशिष्य कस्यापि पुंसो वाचकता च तव कृपया भविता भविष्यति (त्वत्कृपया ममकॉते विजयशब्दो व्यक्तिविशेषवाची, नरशब्दोऽपि कस्यचनैकस्य वाची सम्पत्स्यते) इति एवं सव्रीजतरलतरनयनं लज्जया चञ्चदृष्टिकं यतास्यात्तथा वदनम् मुखम् अवनमन्ती नीचैः कुर्वती तस्थे। एवमभिदधाना सा लज्जानतमुखीजातेत्यर्थः।

यमेवमुद्दिश्य तवोक्तिभङ्गी स एष दासोऽस्म्यनुकम्पनीयः।
िति प्रकाश्य क्षणमर्जुनत्वं चुचुम्ब तां चोरयतिः कपोले ॥ 74 ॥

यमिति। ततः हे सुन्दरि, यम् अर्जुनमुद्दिश्य लक्ष्यीकृत्य एवम् उक्तप्रकारा तव उक्तीनां वचनानां भङ्गी प्रकारो रीतिः (प्रकटी भवति, यं लक्ष्यीकृत्य त्वमेवं व्यङ्ग्येनाभिदधासि, स अनुकम्पनीयः दयनीयः तव दासः सदानुकूलाचारी एषः अर्जुनः अहमस्ति, इति एवम् अर्जुनत्वं प्रकाश्य कपटयतित्वं निराकृत्य स्वमर्जुनं घोषयित्वा चोरयतिः छद्मसन्न्यासी सोऽर्जुनस्तां सुभद्रां कपोले गण्डस्थले क्षणं सकृत् चुचुम्ब चुम्बितवान्। वंशस्थं वृत्तम् ॥ 74 ॥
स्वेदाम्बुपूरभरिते सुदृशस्तदास्याः{93} क्षेत्रे स्वकिंशुकसिलीमुखसीरकृष्टे।
पुष्पास्त्रकर्षकवरः पुलकच्छलेन शृङ्गारबीजनिकरान्निबिडानवाप्सीत् ॥ 75 ॥

स्वेदाम्बुपूरेति। तदा चुम्बनकाले पुष्पास्त्रकर्षकवरः कामदेवरूपो निपुणः कृषकः स्वेदाम्बुपूरभरिते स्वेदजलप्रवाहपूर्णे स्वस्य यः किंशुकशिलीमुखः किंशुकाख्यपुष्पविशेषकृतो बाणः स एव सीरो हलस्तेन कृष्टे विदारिते अस्याः सुभद्रायाः क्षेत्रे शरीरे एव क्षेत्रे केदारे पुलकच्छलेन रोमाञ्चव्याजेन निविडान् घनान् शृङ्गारबीजनिकरान् शृङ्गाररसस्य बीजसमूहान् अवाप्सीत् उप्तवान्। यथा कश्चन निपुणः कृषकः पयः पूर्णे सीरकृष्टे च क्षेत्रे बीजं वपति, तथैवायं कामदेवः सुभद्रायाः शरीरे क्षेत्रे स्वेदपयसाऽऽचिते किंशुकाख्यबाणरूपहलेन कृष्टे च रोमाञ्चरूपबीजरांशीन् शृङ्गाररूपतरुजनकानवाप्सीदित्याशयः। समस्तवस्तुविषयं सावयवं रूपकमंलङ्कारः वसन्ततिलकं वृत्तम् ॥ 75 ॥

तस्यामेव वधूमिमां स रजनौ सद्योऽनुकूलां रहः पाणौकृत्य विलोकितोत्सवभरो द्वाभ्यां हरिभ्यामपि।
पौरेषुभयथा जनेष्वबलतां प्राप्तेषु पार्थस्तया जाग्रत्सारथिविद्यया सह रथारूढः पुरान्निर्ययौ ॥ 76 ॥

तस्यामेवेति। तस्यामेव रजनौ रात्रौ अनुकूलाम् प्रणयिनीम् इमां सुभद्रारूपां वधूं पत्नीम् सद्यः शीघ्रं रहसि एकान्ते पाणौ कृत्य वैवाहिकेन विधिनाऽङ्गीकृत्य द्वाभ्याम् अपि हरिभ्याम् इन्द्रोपेन्द्राभ्याम् विलोकितोत्सवभरः दृष्टवैवाहिकोत्सवसमुदयः सः पार्थः पौरेषु द्वारकावासिषु जनेषु लोकेषु उभयथा द्वाभ्यामपि प्रकारांभ्याम् अबलताम् (बलरामस्यान्यत्रगतत्वेन) बलरामरहितत्वम् निर्बलत्वं च प्राप्तेषु सत्सु जाग्रती प्रकाशमाना सारथिविद्या रथचालनचातुरी यस्यास्तया सुभद्रया सह रथारूढः सन् पुरात् द्वारकानगरात् निर्ययौ प्रस्थितः। शीघ्रं तां परिणीय रथचालनचतुरया तया सह द्वारकातोऽर्जुनः प्रतस्थे, बलरामस्यानुपस्थिततया यादवास्तं रोद्धुमपि नापारयन्तीति भावः ॥ 76 ॥

आकर्ण्येदं जृम्भितानां यदूनां पार्थोद्देशात्क्रोधनत्वस्य जातेः।
म्लानिं दातुं माधवो माधवोऽभूद्यत्रायत्ता कौरवी सा समृद्धिः ॥ 77 ॥

आकर्ण्येति। इदं सुभद्राया हरणम् आकर्ण्य श्रुत्वा पार्थोद्‌देशात् अर्जुनमुद्दिश्य जृम्भितानां युद्धोद्यतानाम् यदूनाम् यादवानाम् क्रोधनत्वस्य कोपस्य जातेः जात्याख्यकुसुमभेदस्य म्लानिं दातुम् म्लानतां जनयितुम् (अनुत्साहं कर्त्तुम्) माधवः श्रीकृष्णो माधवो वसन्तोऽभूत्, (वसन्ते जाते म्लयिमानतायाः `नस्याज्जातीवसन्ते’ इत्यादि कविसम्प्रदायसिद्धतया भगवान् यादवानां कोपरूपस्य जातीकुसुमस्य म्लानौ वसन्तभावं जगामेत्यर्थः) यत्र भवति कौरवी कुरुवंश्यानाम् सा प्रसिद्धा समृद्धिः आयत्ता स्थिता, यत्र माधवे वसन्ते कौरवी कुरवपुष्पसम्बन्धिनी समृद्धिर्विकासादिरूपाऽऽयत्ता मर्यादिता। इदं सुभद्राहरणवृत्तंमाकर्ण्य यद्यपि यादवः पार्तमुद्दिश्य रणायोद्योगं प्रारेभिरे तथापि श्रीकृष्णस्तेषामुद्योगं शिथिलयामास, यथा जातीपुष्पविकासं वसन्तः शिथिलयतीतितात्पर्यम्। शालिनीवृत्तम् ॥ 77 ॥

रणोत्साहे शान्ते यदुजडिमकीर्तिध्वजलतां मुहुः स्मारं स्मारं कपटयतितां वल्गितकुचम्।
हसन्त्याः प्रेयस्या दशनरुचिमित्रीकृतयशाः शताङ्गेनाविक्षत्सुरपतितनूजो निजपुरीम् ॥ 78 ॥

रणोत्साहेति। सुरपतेः इन्द्रस्य तनूजः पुत्रः अर्जुनः रणोत्साहे यादवानां युदधोद्योगे शान्ते सति यदुजडिमकीर्त्तिध्वजलतां यदूनां जडिम्नां मूढभावेन या कीर्त्तिः प्रसिद्धिः तस्या ध्वजलताम् तत्प्रख्यापिकाम् (यादव एवंजडा यदीदृशमर्जुनस्य कपटयतित्वं न ज्ञातवन्तः इति प्रख्यापयन्तीम्) कपटयतितां स्वस्य प्रच्छन्नसन्न्यासितां मुहुः वारं वारं स्मारं स्मारं स्मृत्वा स्मृत्वा वल्गितकुचं चलत्स्तनमण्डलं हसन्त्याः प्रेयस्याः सुभद्रायाः दशनरुचिमित्रीकृतयशाः दन्तकान्तितुलितकीर्त्तिः सन् शताङ्गेन रथेन निजपुरीम् स्वनगरीम् इन्द्रप्रस्थम् अविक्षत् प्रविष्टः। यदवो यदा भगवदनुरोधेन युद्धान्न्यवर्त्तन्त, तदा तेषां कपटयतिकृतवञ्चनया मूढत्वं स्मृत्वा उच्चैर्हसन्त्याः सुभद्राया दन्तकान्त्या समानीभूतयशा अर्जुनोरथेनेन्द्रप्रस्थं प्रविष्ट इत्यर्थः, कीर्त्तिध्वजलतामिति रूपकेण सह दशनरुचिमित्रीकृतयशा इति उपमासङ्कीर्यते ॥ 78 ॥

ततो मुहूर्ते सकलाभिनद्ये कुरूद्वहानां कुशलोदयाय।
सुतं सुभद्रा सुषुवेऽभिमन्युं प्रवीरसूः {94}सा तमिव प्रवीरम् ॥ 79 ॥

ततो मुहूर्त्ते इति। ततः अर्जुनसुभद्रयोः इन्द्रप्रस्थपुरीप्रवेशानन्तरम् प्रवीरसूः वीरजननी स सुभद्रा कुरूद्वाहानां कुरुवंशोद्भवानां पाण्डवानां कुशलोदयाय ऐहिकपारत्रिकशुभसम्पादनाय सकलाभिनन्द्ये सर्वजनप्रशंसनीये मुहूर्त्ते तम् अर्जुनम् इव प्रवीरम् शूरम् अभिमन्युं नाम सुतं पुत्रम् सुषुवे जनयामास। तमिवप्रवीरमित्युपमा। उपेन्द्रवज्रावृत्तम् ॥ 79 ॥

पाञ्चालपुत्री च पतिव्रतानां प्रधानभावे कृतपट्टबन्धा।
पञ्चापि सद्यः प्रतिभूरिव स्वान्पतीन्पितॄणामनृणानकार्षीत्॥ 80 ॥

पाञ्चालपुत्रीति। पतिव्रतानां प्रधानभावे मुख्यपदे कृतपट्टबन्धा कृताभिषेकासर्वैः पतिव्रतामुख्यपदे प्रतिष्ठापिता पाञ्चालपुत्री द्रौपदी च प्रतिभूः लग्निका इव स्वान् स्वकीयान् पञ्चापि युधिष्ठिरादीन् पतीन् सद्यः तदैव पितॄणाम् अनृणान् पितॄणरहितान् सपुत्रत्वेन पितॄणमुक्तान् अकार्षीत् कृतवती। एकैकस्य पत्युरैकैकं पुत्रं जनयित्वा तान् पितॄणमुक्तान् कृतवतीत्याशयः। `जायमानोहवै पुरुषस्त्रिभिर्ऋणैर्ऋणवान् भवति स्वाध्यायेनर्षिभ्यः प्रजया वितृभ्यो यज्ञेन देवेभ्य इति `एषवा अनृणो यः पुत्री’ इति च श्रवणात्पुत्रोत्पादनेन पाण्डवाः वितॄणामनृणा अभवन्निति बोध्यम् ॥ 80 ॥

अथ तेषां तादृशं पुत्रोत्सवमाकर्ण्य ऋतुर्वसन्तसामन्तो{95} राजन्यसंबन्धितया हर्षादिव समाजगाम् ॥

अथेति। अथ पाण्डवानां पुत्रोत्पत्तिवार्त्ताश्रवणानन्तरम् तेषां पाण्डवानां तादृशं विलक्षणं पुत्रोत्सवम् पुत्रजन्म आकर्ण्य श्रुत्वा वसन्तसामन्तः वसन्तर्त्तोरनुचरः ऋतुर्ग्रीष्मर्त्तुः राजन्यसम्बन्धितया वसन्तो ऋतुराजस्तत्सम्बन्धितया (समानानां समानोदये हर्षस्य स्वाभावितकत्वेन ग्रीष्मो राज्ञामुदयेन हृष्यन्निवायातः) हर्षादिव समाजगाम समायातः।

तदानीं भगवान्पवमानस्तु भीमस्य {96}पुत्रोत्पत्तिनिमित्ताशौचवत्तया लोकस्पर्शायं संकुचन्निव {97}कतिचन दिनानि मलयं विहाय पदमेकमपि न चचाल ॥

तदानीमिति। तदानीं ग्रीष्मसमये भगवान् पवमानः वायुदेवः भीमस्य पुत्रोत्पत्तिनिमित्ताशौचवत्तया पुत्रस्य भीमस्य पुत्रो जात इति जन्माशौचशालितया इव लोकस्पर्शाय लोकानां स्पर्शकर्मणे सङ्कुचन् लज्जमान इव (अशौचपाते लोकाः परान्न स्पृशन्तीति लोकाचारः, वायुः पौत्रजन्मना जाताशौच इव परस्पर्शे लज्जमानतया) कतिचन दिनानि कियतो वासरान् यावत् मलयं दिगवस्थितं पर्वतविशेषं विहाय पदम् एकमपि न चचाल न पस्पन्दे। ग्रीष्मे दक्षिणानिलसंचारविरहोऽत्राशौचवत्ताहेतुकतयोत्प्रेक्षितः।

एतेन खल्वकरुणेन तपागमेन जीवातुरद्य मम {98}दूरत एव देशात्।
उत्सारितो मधुरितीव रुषा वनान्ते तत्स्वागतं परभृतो न समाचचार ॥ 81 ॥

एतेनेति। अकरुणेन निर्दयेन एतेन तपागमेन ग्रीष्मेण मम कोकिलस्य जीवातुः जीवनौषधरूपः प्राणदातेत्यर्थः मधुः वसन्तः अद्य देशात् स्वविषयात् एव दूरतः दूरदेशे निःसारितः गमितः, इति अस्मात् कारणात् रुषा कोपेन इव वनान्ते वनभूमौ परभृतः कोकिलो नाम तत्स्वागतं ग्रीष्मस्य स्वागतं न चकार, ग्रीष्मो कोकिलो मूकस्तिष्ठति, मन्ये कोकिलस्य प्राणप्रदो वसन्तोऽमुना ग्रीष्मेण स्वविषयादनेन ग्रीष्मेण निस्सारित इति कोपादसौ कोकिल आगतमपि ग्रीष्मं न स्वागतं व्याहरतीति भावः। ग्रीष्मे कोकिला न कूजन्तीति प्रसिद्धिमनुरुध्येयमुत्प्रेक्षा। वसन्ततिलकं वृत्तम् ॥ 81 ॥

शिरीषपङ्क्तेः कुरुकामिनीनां {99}शरीरवल्ल्या सह मार्दवेन।
उपस्थिताभुदुपमा तदानीं तपःस्थितानां सुलभं हि सर्वम् ॥ 82 ॥

शिरीषेति। तदानीं ग्रीष्मागमनसमये कुरुकामिनीनां द्रौपद्यादिललनानां शरीरवल्ल्या गात्रलतया सह शिरीषपङ्क्तेः शिरीषकुसुमसमूहस्य उपमा सादृस्यम् उपस्थिता अभूत्, अजायत, हि यतः तपःस्थितानां तपस्यानिरतानां ग्रीष्मे वर्त्तमानानाञ्च सर्वं दुरापमपि सुलभम्, यतोऽमूनि शिरीषकुसुमानि तपःस्तितानि अतएवाधुनैषां कुरुसुन्दरीभिः सह सादृश्यमजायत, यावदिमानि तपःस्थितानि नासंस्तावदेषां मार्दवापेक्षया कुरुसुन्दरीणां मार्दवस्यातिशयवत्तया तुलना नाजायत, सम्प्रति तु तपःप्रभावादिव तपःप्रभावादमीषां तुलया कुरुसुन्दरीणामङ्गैः समजनीति तात्पर्यम्। तपःस्थितानामिति पदं श्लिष्टम्, तथैवच सत्यर्थान्तरन्यासस्य सङ्गतिः। तपस्यार्तकतपःशब्दगतविसर्गस्य `खर्परे शरि वा विसर्गलोपोवक्तव्यः’ इति लोपे तपस्तितानामिति रूपेऽर्थद्वयमपि सूपपादम्। अत्र श्लेषमूलकः सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासः ॥ 82 ॥

कुरुकेलिवनेषु मल्लिकाकुसुमेषु {100}भ्रमरावलिर्बभौ।
ऋतुना मधुगन्धगुप्तये जतुनाग्रे निहितेव मुद्रिका{101} ॥ 83 ॥

कुरुकेलीति। कुरुकेलिवनेषु कुरुवंश्यानाममीषां पाण्डवानां क्रीडाकाननेषु मल्लिकाकुसुमेषु मल्लिकानामकश्वेतपुष्पभेदेषु स्थिता मधुपावलिः भ्रमरततिः ऋतुना ग्रीष्मेण मधुगान्धगुप्तये मल्लिकाकुसुमस्थितपरागसुगन्धसुरक्षायै अग्रे उपरिभागे जतुना नीललाक्षया निहिता मुद्रिका मुद्रा इव बभौ प्रचकाशे। यथा कोपि किमपि सुरक्षितीकर्तुं तदुपरि स्वमुद्रां स्थापयति तथैव कुसुमगतपरागसुगन्धयोर्गुप्तये स्थाप्यमाना मुद्रेव भ्रमरमाला प्रतीयते स्म। स्फुटोत्प्रेक्षाऽलङ्कारः। वैतालीयं वृत्तम् ॥ 83 ॥

शुभसौरभसंभृतानि भूमौ शुचिभूतान्यपि यानि पाटलानि।
कलयेयुरतीव चित्रभावं क्षणपीतानि दृशा कथं न तानि ॥ 84 ॥

शुभसौरभेति। भूमौ पऋतिव्यां शुभसौरभेण उत्तमसुगन्धेन संभृतानि पूर्णानि शुचिभूतानि ग्रीष्मे जातानि यानि पाटलानि पाटलपुष्पाणि तान्यपि दृशा नेत्रेण क्षणं पीतानि सादरमवलोकितानि तानि पाटलापुष्पाणि चित्रभावम् आश्चर्यं कथं न कलयेयुः उत्पादयेयुः। स्वतः शुभ्राणां पाटलत्वं श्वेतरक्तत्वं ततश्च (दृशा) पीतत्वमिति आश्चर्यकरत्वमुचितमेव, यानि शुभ्राणि पाटलानि पीतानि तानि चित्रभावं कथं न कलयेयुः दारयेयुरिति भावः। शुचिभवानि पाटलवर्णानि च पीतानि सन्ति कथं नाग्निभावं गच्छेयुरिति च। `शुचिः शुभ्रेऽनुपहते शृङ्गाराषाढ्योरपि। ग्रीष्मे हुतवहेऽपि स्यात्’ इति विश्वः ॥ 84 ॥

सीमन्तविद्युदवतंसशिरीषचापं कैश्यं घनोऽयमिति कैः सुदृशां न जज्ञे।
तस्याध एव निटिले{102} सततं यदासीत्तत्तादृशी सलिलशीकरदुर्दिनश्रीः ॥ 85 ॥

सीमन्तेति। सीमन्तः केशमध्यरेखैव विद्युत् विद्युल्लता यत्र तत्तथोक्तम्, अवतंसशिरीषम् भूषणीभूतं शिरीषकुसुमम् एव चापम् इन्द्रधनुर्यत्र सुदृशां स्त्रीणां तत्तथोक्तम् कैश्यम् केशसमूहः घनोऽयम् मेघोऽयम् इति एवंप्रकारेण कैः द्रष्टभिः न जज्ञे न ज्ञायतेस्म। केशस्थितया मध्यमरेखया सीमन्तसंज्ञया विद्युद्वदतिदीप्तवर्णया भूषणीभूतेन शिरीषपुष्पेण चेन्द्रधनुराकारेण वनिताजनकचनिचये केन जनेन मेघोऽयमिति न सन्दिदिहे, मेघस्यापि श्यामत्वादासीत्तत्र मेघत्वभ्रमः सर्वेषामपीति भावः। केशानां मेघत्वे उपोद्वलकान्तरमाह-तस्येति। यत् यस्मात् तस्य केशस्य एव अधः अधोभागे निटिले ललाटदेशी अनुभवैकवेद्या सलिलशीकरदुर्दिनश्रीः स्वेदजलबिन्दुकृता मेघाच्छन्नदिनक्ष्मीः आसीत्। यत्र मेघो भवति तत्र दुर्दिनमिति समायाति, केशा मेघाः सन्ति तत्सहचं चेदं ललाटस्थितजलबिन्दुकृतं दुर्दिनमिति तात्पर्यम्। अत्र सलिलशीकरैर्दुर्दिनरूपैः केशानां घनत्वानुमानादनुमानालङ्कारः, स च सीमन्तविद्युदित्यादिरूपकसङ्कीर्णः ॥ 85 ॥

उग्रैः करैरुष्णरुचेः समन्तादूष्मायमाणाखिलदिङ्मुखस्य।
आगन्तुमह्नः सविध{103} स्वकालेऽप्यनीश्वरेवापससर्प{104} रात्रिः ॥ 86 ॥

उष्णैरिति। उष्णैः अशीतैः उष्णरुचः सूर्यस्य उग्रैः असह्यैः करैः किरणैः समन्तात् सर्वतः ऊष्मायणाखिलदिङ्मुखस्य सन्तापितसकलदिशावकाशस्य अह्नः दिवसस्य स्वकाले सविधं समीपं प्रति आगन्तुं तदन्तिकमुपगन्तुम् अपि अनीश्वरा अशक्नुवती इव रात्रिः अपससर्प दूरं जगाम। सूर्यकिरणसन्तापितसकलदिशावकाशस्याह्नः समीपमपि गन्तुमशक्नुवतीव रात्रिर्दूरमपससर्पेति भावः ॥ 86 ॥

वर्षास्वियं त्वरितमस्मदुपान्तभूमेरुन्मूलनं कलयतीति रुषावलीढैः।
तीरद्रुमैः स्वनिकटादपसारितेव मध्यं जगाम सरितां सलिलस्य वेणी ॥ 87 ॥

वर्षास्विति। इयं वेणी सलिलधारा वर्षासु वर्षर्त्तौ अस्माकम् तीरवर्तिद्रुमाणाम् उपान्तभूमेः समीपभुवः त्वरितं शीघ्रं यथास्यात्तथा उन्मूलनम् निपातनं कलयति करिष्यति रुषा कोपेन अवलीढैः युक्तैः तीरद्रुमैः तटतरुभिः स्वनिकटान् स्वप्रान्तदेशात् अपसारिता दूरं गमिता इव इयं सलिलस्य वेणी प्रवाहो मध्यम् नदी मध्यदेशं जगाम। पूर्वमियं वेणीतटतरुमूलपदन्तिमागताऽऽसीत्परं तटद्रुमाणां मूलमकृन्तदियं वर्षाकाले सदृद्धजलाऽतः कुपितास्तटतरवस्तां स्वसमीपाददूरमपासारयन्नत एवेयं ग्रीष्मे मध्यदेशमाश्रवतीति भावः ॥ 87 ॥

देशे देशे जडिमकुरङ्गास्तेजोभल्लैर्दिनकरभिल्ले।
धावं धावं प्रहरति राज्ञां धारागेहं शरणमवापुः ॥ 88 ॥

देशेदेशे इति। जडिमानः शैत्यानि एव कुरङ्गाः मृगाः दिनकरभिल्ले सूर्यरूपकिराते देशे देशे सर्वेषु देशेषु धावं धावं भ्रान्त्वा तेजो भल्लैः स्वीयकरणनिकररूपभल्लनामकास्त्रभेदैः प्रहरंति प्रहारं कुर्वति सति राज्ञां धारागेहं यन्त्रधारागृहं शरणं रक्षकम् अवापुः प्राप्तवन्तः। यथा क्रूरैः किरातैरुपद्रुता मृगाः किमपि निभृतं गृहं शरणमाश्रयन्ते तथा दिनकरभिल्लेन करभल्लेन प्रह्रियमाणा अमी शैत्यरूपहरिणा राज्ञां यन्त्रदारागृहाण्येव शरणीचक्रुः। आतपभीतानि शैत्यानि यन्त्रधारागृहे एव निलीय प्राणान् ररक्षुरित्याशयः। `पुलिन्दाः शवरा भिल्लाः किराताश्चान्त्यजाः पृथक्-’ इति त्रिकाण्डशेषः। मत्तावृत्तम्, तल्लक्षणं यथा-`ज्ञेयामत्तामभसगयुक्ता’ इति ॥ 88 ॥

अङ्गाङ्गसङ्गासहने तपर्तावन्योन्यमेवाभिमुखा{105} युवानः।
वाचापि केचिन्मनसापि केचिद्‌दृशापि केचिद्‌दृढमालिलिङ्गुः ॥ 89 ॥

अङ्गङ्गेति। अङ्गैः स्वकीयैः करमुखादिभिः अङ्गनां परकीयावयवानां सङ्गस्य स्पर्शस्य असहने अमर्षयितरि तपर्त्तौ ग्रीष्मसमये अन्योन्याभिमुखाः परस्पराभिमुखस्थिताः एव युवानः युवका युवत्यश्च, केचित् वाचा वचनेन अपि, केचित् दृशा दृष्ट्यापि दृढम् निर्भरम् आलिलिङ्गुः अन्योन्योश्लेषसुखान्यन्वभवन्नितिभावः। अङ्गसङ्गसुखस्यालभ्यत्वे दर्शनसंभाषणादिनैव युवानोऽन्योन्यं समभावयन्नितितात्पर्यम् ॥ 89 ॥

एवं पचेलिमां हेलिमयूखकठोरिमकेलि{106} तस्य तनयायै निवेदयितुकामाभिरिव रामाभिर्निरन्तरोपान्तौ दृगध्वनि वसन्तौ वसन्तरतिकान्ताविव जयन्तजनकानन्तरजकौन्तेयौ परिपाटलहंसपाददुरावगाहवनजातसनाथे पाथसि रोधसि च विहारैस्तेषां दिनानमौपयिकमातिथ्यमापादयितुं {107}तामेव भगवतीं सरितमापतताम् ॥

एवमिति। एवम् अनेन प्रागुक्तप्रकारेण पचेलिमां परिपक्वाम् पूर्णाम् हेलिमयूखकठोरिमकेलिम् सूर्यकिरणकठोरतालीलाम् तस्य सूर्यस्य तनयायै पुत्र्यै यमुनायै निवेदयितुकामाभिः कथयितुमिच्छन्तीभिः इव रामाभिः वनिताभिः निरन्तरोपान्तौ मिलितपार्श्वौ (सङ्गतौ) दृगध्वनि चक्षुर्वर्त्मनि वसन्तौ तिष्ठन्तौ वसन्तरतिकान्तौ वसन्तर्त्तुकामदेवौ इव जयन्तजनक इन्द्रस्तदनन्तरज उपेन्द्रः कौन्तेयः पार्थश्च तौ, परिपाटलैः रक्तवर्णैः हंसानां स्वनामख्यातानां पक्षिणां चरणैर्दुरवगाहैः प्रवेष्टुं मशक्यैः वनजातैः कमलैः सनाथे युक्ते पाथसि यमुनाजले, परिपाटलैः रक्ताभै हंसपादैः सूर्यकिरणैः दुरवगाहैः प्रवेष्टुमशक्यैः वनजातेः तरुभिः सनाथे रक्ताभै हंसपादैः सूर्यकिरणैः दुरवगाहैः प्रवेष्टुमशक्यैः वनजातैः तरुभिः सनाथे युक्ते रोधसि यमुनातटे च विहारैः जलक्रीडाभिः काननक्रीडाभिश्च तेषां ग्रीष्मर्त्तुसंबन्धिनां दिनानाम् औपयिकम् यथोचितम् आतिथ्यम् सत्कारम् उपयोगम् आपा दयितुं कर्त्तुम् तामेव भगवतीम् पूज्याम् सरितम् यमुनाम् सत्कारम् उपयोगम् आपादयितुं कर्त्तुम् तामेव भगवतीम् पूज्याम् सरितम् यमुनाम् आपतताम् गतवन्तौ। भिरसङ्गतौ दृश्यमानौ वसन्तकामदेवाविव स्थितौ कृष्णार्जुनौ रक्ताभहंसचरणदुःसञ्चारकमलकुलोपेते यामुने जले रक्ताभसूर्यकरैद्रुमैयुक्ते च रोधसि यमुनातीरे विहारैः (जलक्रीडाभिर्वनविहारैश्च) ग्रीष्मीयदिवसानामुचितमुपयोगं विधातुम् यमुनामागतवन्तावित्यर्थः ॥

कल्लोलजालकपटेन{108} कलिन्दपुत्र्या पादं प्रससृपे परमस्य पुंसः।
तिष्ठन्ति मे पुनरिह त्रिजगत्पवित्राः सख्यः कतीति {109]समवेक्षितुकामयेवा ॥ 90॥

कल्लोलेति। कलिन्दपुत्र्याः यमुनायाः कल्लोलजालपटलेन तरङ्गावलीसमुदयेन परमस्य पुंसः आदिपुरुषस्य भगवतः श्रीकृष्णस्य पाद प्रति चरणसमीपे पुनः भूयः इह भगवत्पादयोः त्रिजगत् पवित्राः संसारस्य पवित्रतां कुर्वत्यः कति कियत्यः मम सख्यः तिष्ठन्ति इति समवेक्षितुकामया द्रष्टुमिच्छन्त्या इव प्रससृपे गतम्। भगवतः पादयोः समीपमुपसरन्ती यमुनाऽत्र भगवत्पादे (गङ्गाप्रादुर्भावमूलेविष्णोः पादप्रसूतासि’ इत्यादिवचसोक्ते) कतिमम सख्यः सन्तीति जिज्ञासमानेव बभासे इत्यर्थः। प्रससृपे इति भावे लिट्। हेतूत्प्रेक्षाऽलङ्कारः ॥ 90 ॥

तस्या जलेषु तरुणाम्बुदजातिवैरिष्वावर्तजालमनयोरुभयोर्व्यतानीत्{110}।
वीचिकराग्{111}रविनिवारितरामसीर्वयावल्गनोपजनितव्रणगर्तशङ्काम् ॥ 91 ॥

तस्या इति। तस्याः यमुनायाः तरुणाम्बुदानां प्रौढश्यामलमेधानां जातिवैरिषु स्यामतया तत्पराजेतृषु-ततोऽपि श्यामलेषु वारिषु आवर्त्तजालम् जलभ्रमिः वीच्यः तरङ्गा एव कराग्राणि तैनिवारितस्य प्रतीष्टस्य रामसीरस्य बलरामस्य हलस्य व्यावल्गनैः प्रहारैः जनितानां व्रणानां सम्बन्धिनो ये गर्त्ताः खातानि तेषां शङ्कां सन्देहं सादृश्यकृतम् अनयोः श्रीकृष्मार्जुनयोः व्यतानीत् कृतवत्। प्रौढमेघापेक्षयाऽप्यधिकश्यामलेषु यमुनायाजलेष्वावर्त्तो दृश्यमानौ भगवदर्जुनयोर्मनसि बलरामप्रहृतहलकृतव्रणगर्त्तसन्देहं जनयामास, भगवदर्जुनौ जलभ्रमं दृष्ट्वा समभावयतां यदयं बलरामप्रहृतहलक्षतगर्त्तसमुद्यो भवेदित्याशयः। बलरामो यमुनां पुराहलेनाचकर्षेतिकताप्रसिद्धा ॥ 91 ॥

मुरारिनारीमुखपद्मपङ्क्तिर्जवेन योद्धुं जलदुर्गपद्मैः।
तीरेऽवतस्थे तिलकापदशात्कृत्वा पुरः खेटकमण्डलानि ॥ 92 ॥

मुरारीति। मुरारेः श्रीकृष्णस्य या नार्यः स्त्रियस्तासां मुखान्येव पद्मानि तेषां पङ्क्तिः जवेन वेगेन जलदुर्गपद्मैः पानीयदुर्गस्थितैः कमलैः योद्धुं तिलकापदेशात् ललाटावस्थितविशेषकव्याजात् खेटकानाम् पराघातवारकाणैं चर्मणां मण्डलानि समूहान् पुरःकृत्वाऽग्रेऽवस्थाप्य इव तीरे यनुनातटेऽवतस्थे स्थिता। भगवतो वनितानां मुखानि विशेषरूपं चर्मादाय जलदुर्गस्थितकमलैः सह योद्धुकामानीव यमुनातीरेऽतिष्ठनित्यर्थः। तुलनार्थं दृश्यताम्-`कृतावरोहस्य हयादुपानहौ ततः पदे रेजतुरस्यबिभ्रती। तयोः प्रवालैर्वनयोस्तथाम्बुजैर्नियोद्धुकामे किल बद्धवर्मणी’ ॥

तासां विलासगमनं समवेक्ष्य तत्र लाल्यत्वहेतुरपि {112}लज्जितचेतनायाः।
वेगात्तिरोभवनविघ्नतया मराल्या गर्ह्या बभूव नितरां गतिमन्दिमश्रीः ॥ 93 ॥

तासामिति। तत्र यमुनाजले तासां कृष्णवनितानां विलासगमनं सविलासां गतिं समवेक्ष्य आलोक्य लज्जितचेतनायाः त्रपितमनसः मराल्याः हंसास्त्रियः लाल्यत्वहेतुः प्रशंसाकारणम् अपि गतिमन्दिमश्रीः मन्दगतिकलसमृद्धिः अत्यर्थं गर्ह्या निन्दनीया बभूव। अयमाशयः-मरालीनां मन्दागतिः प्रशंसाहेतुतयाऽतीवादरणीया भवति, परं यदा यमुनाजलस्थामराल्यो भगवदङ्गनानां सविलासं गमनमालोक्य स्वगत्यपेक्षया तद्‌गतावुत्कर्षं ज्ञात्वा हीनगतित्वेनात्मानं निन्दन्त्यास्तितोभवितुमैच्छन्, तदा तत्रतिरोभवनकर्मणि ता एव मन्दगतयो विघ्नमाचरन्नतो मरालयस्तादृशीं गतिमतितरामनिन्दन्निति। अवसरवशेन निन्दास्तुती व्यवस्थाप्येते इति हृदयम्। अयं स्लोकश्छायामनुहरति निम्नोद्‌ घृतस्य माघश्लोकस्य-`सलीलयातानि न भर्त्तुरभ्रमोर्नचित्रमुच्चैः श्रवसः पदक्रमम्। अनुद्रुतः संयति तेन केवलं बलस्य शत्रुः प्रशशंस शीघ्रताम्’ इति ॥ 93 ॥

शनैः शनैस्तासु सरितमवगाहमानासु॥
कासांचिदीर्ष्ययेव{113} नितम्बबिम्बानि{114} निजावकाशदानावलम्बितोन्नतिभिरम्बुभिः पुलिनानि निचोलयांचक्रः ॥
अपरासामसूययेव नाभिकुहराणि जलचूषणादा{115}वर्तजवावलेपमवालुम्पन्{116} ॥
इतरासां क्रुधेव कुचकलशाः{117} क्षोभ{18}णात्कनकोकनदकोसान्वि{119}दलयांचक्रुः ॥

शनैः शनैरिति। तासु श्रीकृष्णवनितासु शनैः शनैः क्रमशो मन्दमन्दम् सरितम् नदीं यमुनाम् अवगाहमानासु प्रविशतीषु सतीषु-कासाञ्चित् तत्स्त्रीणाम् नितम्ब विम्बानि श्रोणीमण्डलानि ईर्ष्यया पुलिनेन सह स्वसाम्यकृतयेर्ष्यया इव निजाव काशदानावलम्बितोन्नतिभिः नितम्बबिम्बेभ्योऽवकाशं स्थानंदातुं स्वीकृतोन्नतिभि उपरि प्रसरद्भिः अम्बुभिः जलैः निचोलयामासुः आच्छादयामासुः। इदमत्रबोध्यम्भगवतः कापि स्त्री पयस्यवतरति तदीया श्रोणी जले मज्जति, तन्मज्जनायावकाश ददज्जलं पुलिनमाव-णोति, मन्ये नितम्बबिम्बम्-इदं पुलिनं विशालतायां मयाऽस्पर्धतातोस्तु जलेनाच्छादितमिति पुलिनमाच्छादयतीत्यर्थः। इतरासाम् अन्यास भगवद्वनितानाम् नाभिकुहराणि नाभिरन्ध्राणि असूयया स्वसाम्यकृतकोपेन इव आवर्त्तजवावलेपं जलभ्रमगतं वेगगर्वम् जलचूषणात् पानीयराशिपानात् अवालुम्पन् लुप्तवत्यः। नाभयो गभीरा आवर्त्तेनोपमीयन्ते आवर्त्तैः साम्येनासूयावत्यो नाभयो जलं नीत्वाऽऽवर्त्तानां वेगवत्तां निरस्य तदीयं वेगवत्तादर्यं समापयन्नित्यर्थः। इतरासाम् अन्यासां भगवदङ्गनानां कुचकलशाः स्तनद्वन्द्वानि क्रुधा सादृस्यप्राप्तिचेष्टाकृतकोपेन इव क्षोभणात् सञ्चालनजन्याघातात् कनककोकनदकोशान् स्वर्णकमलकुकुलानि विदलयाञ्चक्रुः बिभिदुः मुकुलितानि कमलानि स्तनसादृस्यमाप्नुवन्ति, मन्ये तदुत्थितकोपादिव काश्चित् स्त्रियः कमलमुकुलानि क्षोभयित्वा विदलयामासुरिति तात्पर्यम् ॥

वक्षोजकुम्भनिवहाद्वनिताजनानां ग्रीष्मर्तुना विनिहितं ग्रहराजपुत्री।
तापं पितुः स्वमहरत्तरलोर्मिहस्तैरन्यं न याति हि विभूतिरपत्यभाजाम् ॥ 94 ॥

वक्षोजेति। ग्रहराजस्य सूर्यस्य पुत्री यमुना ग्रीष्मर्त्तुना विनिहितं न्यासभावेन रक्षितम् पितुः सूर्यस्य तापम् ऊष्माणमेव स्वं धनं वनिताजनानां भगवतः स्त्रीणाम् वक्षोजकुम्भनिवहात् स्तनकलशसमुदयात् तरलोर्मिहस्तैः चञ्चलैस्तरङ्गरूपैः करैः अहरत् प्रापत् तत्रार्थान्तरन्यासमाह-हि यतः अपत्यभाजां सन्तानशालिनां जनानां विभूतिः सम्पत्तिः अन्यं सन्तानातिरिक्तं जनं न याति न पाप्नोति। सूर्यस्य करतापरूपं धनं ग्रीष्मर्त्तुना तरुणीस्तनेषु निहितमासीज्जले स्नातीनां तरुणी नां स्तनेभ्यस्तं तापरूपं पैतृकं धनमियं यमुनासूर्यसुतातरङ्गरूपैः स्वकरैरादात्, यतः सापत्यानां धनं तदपत्यानि विहाय नान्यं याति, तेन तनया रूपया सन्तत्या सूर्यसम्बन्धिधनं गृहीतमित्युचितमवेति। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः ॥ 94 ॥

सुरनायकानुजमनोवशीकृतौ सुदृशो मुखैर्निपुणतां यथा ययुः।
सरसीरुहैर्न नलिनीलतास्तथा सकचान्यमूनि विकचानि तानि यत् ॥ 95 ॥

सुरनायकेति। सुदृशः सुन्दर्यः सुरनायकस्य देवाधिपस्येन्द्रस्य अनुजः कनीयान् भ्राता कृष्णः तन्मनसो तदीयहृदयस्य वशीकृतौ स्वाधीनीकरणे मुखैः स्वीयैराननैर्यथा यादृशीं निपुणतां दक्षतां ययुः प्रापुस्तथा तादृशीं निपुणतां नलिनीलताः कमलिन्यः सरसीरुहैः कमलैः कृष्णमनोवशीकृतौ न ययुः, यतः मुखानि सकचानिकेशयुतानि सरसीरुहाणि पुनः विकचानि केशरहितानि विकसितानि चासन् इति। भगवतो हृदयस्य हरणे तद्वध्वो यता स्वैर्मुखैरक्षमन्त कमलिन्यस्तथा कमर्लैर्नाक्षमन्त, यतो मुखानि सकचानि कमलानि पुनर्विकचानि (विकासभाञ्जि) आसन्निति शेषः। काव्यलिङ्गमलङ्कारः मञ्जुभाषिणीवृत्तम् ॥ 95 ॥

यमस्वसुः{120} संनिधिमेत्य रात्रौ स्वकान्तिचोरं सुदृशामुरोजः।
नालाग्रशूले नलिनं निवेश्य ववल्ग हर्षादिव वारिमध्ये ॥ 96 ॥

यमस्वसुरिति। सुदृशाम् सुन्दरीणां भगवदङ्गनानाम् उरोजः कुचः रात्रौ निशि स्वकान्तिचोरम् स्वसादृस्यप्राप्तिकर्त्तारं स्वीयतुलाधरम् नलिनं कमलम् (कमलस्य रात्रौ मुकुलितत्वेन कुचकान्तिचौरता, रात्रावेव चौर्यस्य संभवाच्च) यमस्वसुः यमुनायाः सन्निधिम् समीपदेशम् एत्य प्राप्य नालाग्रशूले कमलदण्डरूपे शूले निवेश्य स्थापयित्वा वारिमध्ये पयसि ननर्त्त इव। अयमाशयः-यता कश्चन कमपि स्ववित्तापहरं धृत्वा तं कस्यचिद्व्यवस्थापयितुः समीपं प्राप्यय दण्डयित्वा च प्रतीकारसमर्थताप्राप्त्यासन्तुष्यति, तथैव निशिमुकुलितत्वेन स्वकान्तिचौरं नलिनं युवत्याः कुचोऽयं यमुनायाः समीपे नालाग्रं शूलमारोप्य पयसि प्रमोदादिव नृत्यतीति ॥ 96 ॥

व्यात्युक्षिकायां विपुलेक्षणासु वर्षन्नखद्योतवलक्षमम्भः।
सखीमुदारां सरितस्तु तस्याः करोऽप्यसावीदिव कंसहन्तुः ॥ 97 ॥

व्यात्युक्षिकायामिति। कंसहन्तुः श्रीकृष्णस्य करः हस्तः अपि व्यात्युक्षिकायाम् हस्तेनान्योन्यं जलक्षेपक्रीडायाम् विपुलेक्षणासु विशालनयनासु स्वसहचरीषु सुन्दरीषु नखद्योतवलक्षं नखप्रभाभासुरं (यामुनम्) अम्भः वर्षन् क्षिपन् सन् पुनः तस्याः यमुनायाः सखीं सुहृद्‌भूतां उदाराम् महतीं सरितम् भागीरथीम् असावीत् प्रादुर्भावयामास किम्? पूर्वं भगवतः पादो भागीरथीं प्रादुरभावयदिदं प्रसिद्धमेव, अधुना जलप्रक्षेपक्रीडाकाले स्त्रीणामुपरि नखप्रभया धवलं वारिविकिरन् भगवतो हस्तोऽपि किमपरां यमुनायाः सखीं गङ्गां प्रादुर्भावयतोत्युत्प्रेक्षितं बोध्यम् ॥ 97 ॥

उल्लासभाजा हरिणा प्रियायाः कह्लारमाल्ये कलिते कबर्याम्।
अस्रैरसूयाहसितैश्च चित्रमुत्तंसितं वक्त्रमभूत्सपत्न्याः ॥ 98 ॥

उल्लासेति। उल्लासभाजा आह्लादयुक्तेन हरिणा भगवता कृष्णेन प्रियायाः स्वप्रेयस्याः कस्याश्चिन्नायिकायाः कबर्याम् केशपाशे कह्लारमाल्ये रक्ताम्बुजमाल्ये कलिते परिधापिते सति सपत्न्याः अन्यस्याः स्त्रियः वक्त्रम् मुखम् अस्त्रैः उत्तं क्लिन्नम् असूयाहसितैः ईष्याहासैश्च सितम् श्वेतम् अभूत्, उत्तं सितं भूषितमभूदिति च चित्रम् आश्चर्यम्। केशोऽलङ्कृतोऽन्यस्या मुखंचामूष्यतपरस्या इति चित्रमजनि, परमार्थस्तु-भगवतैकस्याः प्रियायाः केशपाशे रक्तकमलमालया भूषिते सति परस्याः सपत्न्या मुखम् (अस्रैः उत्तं) साश्रु, असूयाहसितैश्च सितमजायतेति। `उन्दी’क्लेदने धातोःक्तप्रत्यये `नुदविदोन्दत्राघ्राह्रीभ्योऽन्यतरस्याम्’ इति वैकल्पिकनिष्ठानत्त्वाभावे उत्तम् इति पदम्। `आर्द्रं सार्द्रं क्लिन्नं तिमितं स्तिमितं समुन्नमुत्तं च’ इत्यमरः॥ इन्द्रवज्रावृत्तम् ॥ 98 ॥

ग्लहं निमग्नग्रहणेषु कल्पयन्स्वयंग्रहा{121} श्लेष सुखं यदूद्वहः।
सवर्णवर्ष्मा सलिले तडित्तनूः सुखादगृह्णात्सुदृशस्तु ता न तम् ॥ 99 ॥

ग्लहमिति। सवर्णं यमुनाजलतुल्यकान्तिवर्ष्मशरीरं यस्य सः सवर्णवर्ष्मा यदूद्वहः यादवश्रेष्ठः स कृष्णः निमग्नस्य जलान्तर्लीनस्य जनस्य ग्रहणेषु स्वयं ग्रहाश्लेषसुखं स्वयं ग्रहणपूर्वकालिङ्गनम् ग्लहं पणं कल्पयन् आरोपयन् तडिदिवतनुर्यासां तास्तडित्तनूः विद्युदुपमशरीराः सुन्दरीः सलिले जलान्तः सुखात् अनायासम् अगृह्णात् धारयामास, ताः सुदृशः तु तं नागृह्णन्। अयमाशयः-जलक्रीडाकाले भगवान्नियमं स्थापितवान् यत् जले मग्नं जनो गृह्णाति तस्मै गृह्यमाणोजनः स्वयं ग्रहाश्लेषसुखं दद्यात्, एवं नियमे व्यवस्थापिते भगवान् सलिले निमग्नाः सुन्दरीरगृह्णात्तेन च नियमानुसारं स्वयं ग्रहाश्लेषं तास्तस्मैव्यतरन्, भगवन्तं तु सुन्दर्यो नागृह्णन्, यतस्तथा सति भगवानेव ताः स्वयमाश्लिष्येत्तथा च निर्दयाश्लेषकृतं कष्टं ता अनुभवेयुरिति। किञ्च स्त्रियो गौर्यस्तेन ताः सुखमगृह्यन्त, भगवाँस्तु श्यामलतनुतया जलमिलित कान्तिस्ताबिः सुखं नागृह्यतेति बोध्यम्। परिकरालङ्कारः ॥ 99 ॥

फूत्कृतैः क्वचिदधःस्थितिचिह्नं बुद्‌बुदं हरिरुदस्य निमग्नः।
वञ्चयन्प्रतिवधूं{122} क्वचिदूरुस्तम्भमम्बुषु चुचुम्ब वराङ्गयाः ॥ 100 ॥

फूत्कृतैरिति। अम्बुषु जलेषु निमग्नः लीनो हरिः फूत्कृतैः मुखमारुतैः अधः स्थिति चिह्नम् जलान्तरवस्थानसूचकं बुद्‌बुदम् जलविन्दुमेदम् क्वचिदेकत्र उदस्य उद्‌भाव्य प्रकीटकृत्य प्रतिवधूम् प्रियतमायाः सपत्नीं वञ्चयन् छलयन् क्वचिदन्यत्र वराङ्ग्याः सुन्दर्याः ऊरुस्तम्भं चुचुम्ब चुम्बितवात्। भगवतो बहुषु स्त्रीषु काचिदति प्रेयसी, जलविहारसक्तास्तु परा अपि, तत्र जले निलीनो हरिरेकस्याः प्रियतमाभिन्नायाः स्त्रियो निकटे बुद्‌बुदमुद्भाव्याहमत्रैव वर्त्ते न प्रियतमात्वेनमतायाः समीपंगत इति तां वञ्चयित्वा प्रच्छन्न एव प्रियतमापार्श्वं गत्वा वराङ्ग्याः प्रियतमायाऊरुदेशं चुम्बतिस्मेत्यर्थः ॥ 100 ॥

क्रीडती मण्डलीभूय कृष्णयोरप्सु यौवते।
तटिन्यास्तटयोः प्रान्ते ताटङ्के इव रेजतुः ॥ 101 ॥

क्रौडती इति। तटिन्याः तटयोः यमुनाया उभयोः कूलयोः मण्डलीभूय मण्डलाकारेण स्थित्वा क्रीडती विहारपरायणे कृष्णयोः हर्यर्जुनयोः यौवते युवतिमण्डले प्रान्ते यमुनातीरे ताटङ्के इव रेजतुः शुशुभाते। तटिन्या यमुनाया उभयोस्तटयोरवस्थिते युवतीनां कृष्णार्जुनसम्बन्धिनीनां द्वेमण्डले मण्डलीभूयस्थिते क्रीडति च तडिदाभकायकान्तिशालितया वर्त्तुलाकारावस्थानेन च यमुनायाः कुण्डले इव प्रतीयेते स्मेत्यर्थः ॥ 101 ॥

इति चिरं विहृत्य प्रतीरमुत्तीर्णाभिर्जलमेलनव्रीडादिव संकुचितात्मभिः कुचैरानमिताभिस्तदङ्गसङ्गसगतशर्माणि{123} मर्मरगिरा संस्तुत्य पवनचञ्चलैरञ्चलैः श्लाघमानानीव वसनानि {124}निवसितवतीभिः कायकान्तिलता{125} कोरकाणि{126} कनकाभरणानि कामनीयकपुनरुक्तिमात्रस्य पात्रयन्तीभिर्वधूटीभिः सह तटाटवीं पर्यटतोस्तयोरग्रे दिशि दिशि {127}कृशितशिशिरेतराभीषुप्रकाशो जनदृशां कोशीकरणदेशिकः{128} कोऽपि महसां राशिराविरासीत्।

इति चिरमिति। इति एवं प्रकारेण चिरं बहुकालपर्यन्तं विहृत्य जलविहारमनुभूय प्रतीरम् तटं प्रति उत्तीर्णाभिः, जलमेलनव्रीडात् जडस्य सङ्गेन जातादपत्रपाभरात् इव (जलसंगेन) सङ्कुचितात्पमभिः लघूभुतैः कुचैः स्तनमण्डलैः आनमिताभिः, नतगात्रीभिः, तासां वनितानामङ्गैः स्तनादिभिः सङ्गेन सम्पर्केण सङ्गतानि जातानि शर्माणि सुखानि मर्मरगिरा स्वकीयमर्मरध्वनिना संस्तुत्य प्रशस्य पवनचलैः वायुवशाच्चलितैः अञ्चलैः वस्त्रप्रान्तैः श्लाघमानानि अभिनन्दयन्तीव वसनानि वस्त्राणि निवसितवतीभिः धारितवतीभिः कायकान्तिः शरीरसौन्दर्यमेव लता वल्लरीतत्कोरकाणि तन्मुकुलरूपाणि कनकाभरणानि सुवर्णभूषणानि कामनीयकपुनरुक्तिमात्रस्य पात्रयन्तीभिः सौन्दर्यपुनरुक्तिपात्रतामानयन्तीभिः, वधूटीभिः युवतिभिः सहतटाटवीन् यमुनातटभुवि पर्यटतोः भ्रमतोस्तयोः कृष्णार्जुनयोरग्रे पुरतः दिशि दिशि सर्वासु दिक्षु कृशितः कशतां गमितः क्षीणीकृतः शिशिरेतरामीषोः उष्णकरस्य सूर्यस्य प्रकाशो येन तादृशः सूर्यप्रकाशमपि मलिनीकुर्वाण इत्यर्थः, जनदृशां लोकलोचनानां कोशीकरणेमुकुलितत्वसम्पादने देशिकः आचार्यः (स्वतेजोभरेण लोकनेत्राणि मुकुलीकुर्वन्) कोऽपि अनिर्वचनीयः महसां राशिः प्रकाशपुञ्जः आविरासीत् प्रकटीभूयस्थितः। अयमाशयः-चिरं जले विहृत्य तटमुपेताभिः जलरूपजडसङ्गजनितलज्जयेन लघुपरिणाहतां गतैः स्तनैर्नम्रीभूताभिः, तदङ्गसङ्गजातानि सुखानि मर्मरध्वनिना स्तुत्वा पवनचलैः शिरोभिरिवाञ्चलैः तदङ्गसङ्गसुखोपकारेण तदङ्गानि वन्दमानानीव वसनानि धारितवतीभिः शरीरकान्तिरूपलताकोरकाणिव स्वर्णाभरणानि शोभा पुनरुक्तिमात्रपात्रतां गमयन्तीभिर्युवतिभिः सहयमुनातीरभूमौ पर्यटतोस्तयोः कृष्णार्जुनयोः पुरतः कोपि लघूकृतसूर्यकिरणप्रकाशो लोकनयनानि स्वप्रभयामुकुलीकुर्वन् तेजस्वीपुरुषः प्रादुरासीदित्यर्थः ॥

उन्मिष्योन्मिष्य यत्नात्परिचलितयथापूर्वशक्त्याथ दृष्ट्या तन्मध्ये वीक्ष्य कंचित्पुरुषमनुदितच्छायहस्तातपत्रम्।
अक्ष्णा ज्ञातेयमोतोर्विदधतमनयोः {129}प्रश्रयाश्चर्यलब्धाद्‌द्वैराज्यादाकुलाभूद्यदुकुरुवरयोस्तत्क्षणं चित्तसीमा ॥ 102 ॥

उन्भिष्येति। तत्क्षणं तस्मिन्समये यत्नात् कष्टेन उन्मिष्य उन्मिष्य नेत्रे उन्मील्य (पूर्वं तेजोऽभिघातेन लुप्ताऽपि चिरनेत्रनिमीलनेन लब्धत्वात्) परिचलित यथापूर्वशक्त्या आगतस्वाभाविकसामर्थ्यया दृष्ट्या तन्मध्ये तेजोराशिमध्ये अनुदितच्छायाहस्तातपत्रम् छायारहितमातपत्रं करेण धारयन्तम् (उपरि सूर्यप्रभयाऽधश्च धारयितृप्रभयाछत्रस्य तस्य च्छाया राहित्यम्) अक्ष्णा स्वीयनेत्रेण ओतोः विडालस्य ज्ञातेयम् विदधतं कुटुम्बिनम् विडालससाननेत्रम्, कञ्चित् अप्राप्तपरिचयं पुरुषं वीक्ष्य दृष्ट्वा अनयोः कृष्णार्जुनयोः चित्तसीमा मनोदेशः प्रश्रयेण नम्रतया आश्चर्येण विस्मयेन च लब्धात् प्राप्तात् द्वैराज्यात् द्वौराजानौ यत्र तस्य भावो द्वैराज्यं तस्मात् आकुला अभूत्। कृष्णोऽर्जुनश्च तं तेजोराशिं पुमांसं प्रति प्रश्रयभाजौ साश्चर्यौ चाभूतामित्यर्थः। स्रग्धरावृत्तम् ॥ 102 ॥

मुखे तिरोवेपथुभिर्वयःकृतैर्मुकुन्दवधअवः कृतसूचना इव।
द्विजातिवृद्धस्य पथोऽस्य पार्श्वयोर्द्विधापसस्रुः सहसातिभीरवः ॥ 103 ॥

मुख इति। मुकुन्दस्य कृष्णस्य वध्वः स्त्रियः अस्य समागच्छतस्तेजस्विवृद्धस्य मुत्वे वयः कृतैः वार्धक्यजनितैः तिरोवेपथुभिः तिरश्चीनकम्पैः कृतसूचनाः पथोऽपसर्त्तुकृतप्रेरणा इव अतिभीरवः अतिभीताः सत्यः पथः मार्गात् द्विधा द्वयोर्भागयोः अपसस्रुः अगच्छन्। कम्पमानवदनं वृद्धं तेजस्विनं पुरुषमायान्तं विलोक्य तदीयमुखकम्पमुद्रया मार्गादपसर्त्तुं प्रेर्यमाणा इव मुकुन्दवध्वोमार्गादपसृतवत्य इत्याशयः ॥ 103 ॥

ताभ्यां ततस्तस्य पदोः पुरस्तादपङ्कमात्मानमहो विधातुम्।
स्पृष्टान्युदञ्चद्बहु{130} घर्मतोयैरष्टाभिरङ्गैरवनीरजांसि ॥ 104 ॥

ताभ्याम् इति। ततः तस्य वृद्धतेजस्विनः समीपागमने सति ताभ्यां कृष्णार्जुनाभ्याम् आत्मानम् स्वम् अपङ्कम् विगतपापम् नीरजस्कम् च विधातुम् कर्त्तुम्, अहो आश्चर्यम्, तस्य वृद्धतेजस्विनः पदोः चरणयोः पुरस्तात् अग्रे उदञ्चद्‌ब्रहुधर्मतोयैः चलत्स्वेदवारिभिः अष्टाभिः अङ्गैः करचरणादिशरीराद्यवयवैः अवनीरजांसि महीधूलयः स्पृष्टानि अस्पृश्यन्त। आत्मनः पापमपनोदयितुं तौ तच्चरणयोः साष्टाङ्गं प्रणेमतुरित्यर्थः। पङ्कं प्रक्षालयितुं क्लिन्नैर्गात्रैरवनीरजांसि स्पृष्टवन्तइत्याश्चर्यमिति ध्वनिः। विचित्रालङ्कारः, तल्लक्षणं यथा-`विचित्रं तत्प्रयत्नश्चेद्विपरीतः फलेच्छया’ ॥ 104 ॥

परस्परासङ्गफलप्रदित्सया स्वजन्मतारैन्दववासराविव।
उपस्थितौ तावुपसृत्य संभ्रमात्सं{131} आशिषोऽनन्तरमेवमब्रवीत् ॥ 105 ॥

परस्परेति। सः वृद्धब्राह्मणरूपधरोऽग्निः परस्परम् अन्योन्यम् आसङ्गो मिलनं तस्य फलं भोजनम् तत्प्रदित्सया तद्दानसमीहया उपस्थितौ स्वजन्मतारैन्दव वासरौ जन्मनक्षत्रचन्द्रवासरौ इव (जन्मनक्षत्रेणसह चन्द्रवासरस्य योगे भोजनप्राप्तिरिति ज्यौतिषसिद्धान्तेनेदम्) उपस्थितौ तौ कृष्णार्जुनौ उपसृत्य समीपं गत्वा अनन्तरम् तत्पश्चात् आशिषोऽनन्तरम् इति वा, संभ्रमात् अत्यन्तसंभ्रमेण (भयक्षुद्रादिपीडिते हि संभ्रमः स्वाभाविकः) एवम् वक्ष्यमाणप्रकारेण अब्रवीत् उक्तवान्। `अध्वा भोजनमालस्यम्’ इत्यादिरीत्या भानुवारादेर्जन्मनक्षत्रयोगे मार्गभोजनादिप्रदत्वमुक्तम्, इमौ कृष्णार्जुनौ ममाग्नेर्जन्मनक्षत्रचन्द्रवासराविव परस्परमिलिततया मह्यमग्नये भोजनं प्रादतुमुपस्थितावितीव बुद्‌ध्वा वृद्धब्राह्मणवेषोऽसावग्निस्तयोः समीपं जगाम, आशिष उवाच, तदनन्तरं चार्त्ततया संभ्रमेण वक्ष्यमाणदिशोबाचेति भावः ॥ 105 ॥

क्षुत्प्रपीडयति मामयति वीरौ! कुक्षिमेत्य चकितेव युवाभ्याम्।
{132}याच्यते तदशनं बहु भोक्तुं यस्य तृप्यति पुरातिथिरेषः ॥ 106 ॥

क्षुदिति। अयि वीरौ, युवाभ्यां दृश्यमानाभ्याम् चकिता भयाक्रान्ता इव कुक्षिम् उदरम् एत्यक्षुत् बुभुक्षा माम् अग्निम् पीडयति व्यथयति, (यथा कोऽपि कमपि भीषणं पदार्थं दृष्ट्वा चकितो भूत्वा क्वापि निभृते स्थाने निलीयते, तथैव भवन्तं दृष्ट्वा चकिता क्षुन्ममोदरे गत्वा स्थिता सती मां पीडयतीति भावः) एषः मल्लक्षणः अतिथिः यस्य अन्नस्य भक्ष्यमाणस्य तृप्यतिसन्तुष्टो भवति तत् खाण्डववनरूपम् अशनम् भोजनं बहुभोक्तुं यावत्तृप्ति भक्षयितुं याच्यते प्रार्थ्यते, खाण्डवरूपं वनं मह्यं भक्ष्यत्वेन प्रदाय मां तर्पयेति प्रार्थनां करोमीति यावत्। खाण्डवं नाम वनं दिधक्षामि तत्र मम साहायकं कुरुतमिति तात्पर्यम्। स्वागतावृत्तम् ॥ 106 ॥

इत्थं स्वदक्षिणकरं पुरतः प्रसार्य तस्यार्दतो वचनपार्ष्ण्यनुधाविवेगा।
ताभ्यां तथेति {133}फणितिस्तु समाललम्बे सत्स्वर्थना फलमदौहृदमेव सूते ॥ 107 ॥

इत्थमिति। इत्थम् उक्तप्रकारेण स्वदक्षिणकरं स्वीयं सव्येतररं बाहुं पुरतः प्रसार्य अग्रे कृत्वा अर्दतः भोजनम् अर्थयमानस्य तस्याग्नेः वचनपार्ष्ण्यनुधाविवेगा तदीयवचनानुसारिवेगशालिनी, (येन वर्त्मना प्रार्थयितुरग्नेर्वचनं गतं तेनैव वर्त्मना वेगेन गच्छन्ती, तदीयोक्तिमनुसरन्ती) तथा त्वदर्तितं भोजनं ते दास्यामीत्येवं रूपा फणिति उक्तिः ताभ्यां कृष्णार्जुनाभ्यां समाललम्बे आश्रिता, तौ तथाभोजनमर्थयमानस्याग्नेर्वचनस्य त्वरया स्वीकारं चक्रतुरित्यर्थः, तत्रार्थान्तरन्यासमाह-सत्स्विति। अर्थना प्रार्थना सत्सु महापुरुषेषु विषये क्रियमाणा अदौहृदं गर्भधारणं विनैव फलं सूते जनयति, अर्थना स्त्री सद्भिः सङ्गे सति त्वरितमेव फलमपत्यं जनयतीत्यर्थः। सन्तो विलम्बमकृत्वैवार्थिनोऽनुगृह्णन्तीति परमार्थः। सामान्येन विशेषसमर्थनरूपोऽर्थान्तरन्यासोऽलङ्कारः ॥ 107 ॥

अथ मुदा कथितात्मयथातथाभावो भगवन्बृहद्भानुर्दन्तपटीयव{134}निकान्तर्नट{135}त्स्मितयोर्देवकीपृथासुतयोर्धुरि गिरिदरीवसतिधुरीणविभावरीचरसरीसृपदिविषदरीशमेदुरीकृतदुरीहितताण्डवस्य {136}खाण्डवस्य जगत्कण्ठेगडुत्वं{137} तत्परिरक्षणदक्षस्य ऋभुक्ष्णस्तक्षके पक्षपातं च विनिवेद्य{138} युवयोः कटाक्षबलेन क्षणाद्दिधक्षामीति {139}स्वमपेक्षितविशेषमाचचक्षे ॥

अथेति। अथ श्रीकृष्णार्जुनाभ्यां खाण्डववनदाहे सहायतायाः करिष्यमाणतया स्वीकृतेरनन्तरम् मुदा हर्षेण कथितात्मयथातथाभावः उक्तस्वीयाग्निभावः भगवान् सामर्थ्योपपन्नः बृहद्‌भानुः वह्निः दन्तपटी एव यवनिका तिरस्कारिणी तस्याः अन्तः अभ्यन्तरभागे नटत् प्रसरत् स्मितं मन्दहसितं ययोस्तयोरीषद्धासशालिमुखयोः देवकीपृथासुतयोः कृष्णार्जुनयोः धुरि पुरतः-गिरिदरीषु पर्वतकन्दरासु वसतिधुरीणैर्निवासिभिः विभावरीचरैः राक्षसैः, सरीसृपैः सर्पैः, दिविषदरीशैः असुरश्रेष्ठैश्च मेदुरीकृतं व्याप्तं दुरीहितानां दुष्टचेष्टितानां लोकोपद्रवाणां ताण्डवं प्रकाशीभावो यत्र तस्य खाण्डववनस्य कण्ठेगडुत्वं महागुलिकारूपरोगविशेषत्वं यथासौ रोगो गलग्रहणद्वारानाशकरस्तथैवं खाण्डवमपि जगन्नाशकम् इत्याशयः, तस्य खाण्डवस्य परिरक्षणेदक्षस्य समर्थस्य ऋभुक्ष्णः शक्रस्य तक्षके तद्वनवर्त्तिनि महासर्पभेदे पक्षपातम् च विनिविद्य अभिधाय युवयोः कृष्णार्जुनयोः कटाक्षबलेन साहाय्यप्रदानकृपया क्षणात् त्वरया (तत् खाण्डवम्) दिधक्षामीति स्वम्=निजम् अपेक्षितविशेषं कामितार्थमाचचक्षे उक्तवान्। अयमर्थः-या कृष्णार्जुनौ खाण्डवदाहे साहायकं स्वीकृतवन्तौ तदाऽग्नि स्वंपरिचयमदात्, स्मयमानमुखयोः कृष्णार्जुनयोः पुरतश्च पर्वतकन्दरावासिनां नक्तञ्चराणां, सर्पाणां, राक्षसविशेषाणाञ्च दुश्चेष्टितानां ताण्डवभूमिरिदं खाण्डवं जगदहितकरमिति शकृश्चैतत्खाण्डववनवर्त्तिनस्तक्षकस्य स्नेहेनास्य खाण्डवस्य दाहं न सहिष्यत इत्यथापि भवतोरनुकम्पया दक्ष्यामि वनमिदमहमितिचाभ्यधात् इति।

भ्रूसंज्ञया यदुपतेः पुरुहूतसूनुः संतुष्यतोऽथ जगृहे स तनूनपातः।
तूणौ च गाण्डिवसखौ तुरगांश्च शुभ्रान्कान्तं रथं च नटता कपिकेतनेन ॥ 108 ॥

भ्रूसंज्ञयेति। अथ अग्निवाक्यश्रवणानन्तरम्, स पुरुहूतसूनुः इन्द्रपुत्रोऽर्जुनः यदुपतेः श्रीकृष्णस्य भ्रृसंज्ञया भ्रुवाकृतेनेङ्गितेन सन्तुष्यतः साहायकस्वीकृतिप्रसन्नात् तनूनपातः वह्नेः सकाशात् गाण्डिवसखौ गाण्डीवनामकधनुषासहितौ तूणौ तूणीरद्वयं शुभ्रान् धवलवर्णान् तुरगान् अश्वान् नटता नृत्यता कपिकेतनेन कपियुक्तध्वजेन कान्तं रमणीयं रथं च जगृहे प्राप्तवान्। असाधारणैरेवोपकरणैस्तादृशस्य महतः कार्यस्य सम्पाद्यतया गाण्डीवाख्यं धनुस्तूणीरद्वयं शुभ्रांश्चतुरोऽश्वान् हनुमता ध्वजस्तितेन सनाथं रथं चाग्निस्तस्मैदत्तवान्स च तानि सा धनानि कृष्णाभिप्रायानुसारेण स्वीचकारेत्याशयः ॥ 108 ॥

मरुन्मनोमार्गणवैनतेयपृथग्जयात्तैरिव{140} कीर्तिशापैः।
चतुर्भिरश्वैः समुपास्यमानं स फाल्गुनस्तं रथमारुरोह ॥ 109 ॥

मरुदिति। सः फाल्गुनः अर्जुनः मरुतः वायोः, मनसः, मार्गणस्य बाणस्य, वैनतेयस्य गरुडस्य च एषां चतुर्णां पृथक् प्रत्येकं ये जयाः पराभवास्तेभ्यः आत्तैः प्राप्तैः कीर्त्तिशावैः यशःशिशुभिः इव स्थितैश्चतुर्भिरश्वैः समुपास्यमानं सेवितं तं वेगवत्तया प्रसिद्धं रथम् आरुरोह। रथे चत्वारोऽश्वास्ते मरुतं मनोबाणं गरुडं च जित्वा प्राप्ताः कीर्त्तिशावका इव प्रतीयन्ते, तादृशैरश्वैः सनाथमश्वं धनञ्जय आरुक्षदित्यर्थः। उत्प्रेक्षाऽलङ्कारः ॥ 109 ॥

दशमुखनगरे पुरानुभूतं दहनहठात्करणं पुनर्दिदृक्षुः।
उपगत इव मारुतिः स साक्षादुदलसदस्य रथाग्रकेतनाङ्कः {141} ॥ 110 ॥

दशगुखेति। अस्य खाण्डवदाहप्रवृत्तस्यार्जुनस्य रथाग्रकेतनाङ्कः रथोपरिस्थितध्वजचिह्नभूतः कपिः दशमुखनगरे लङ्कायां पुरा लङ्कादाहसमयेऽनुभूतं साक्षात्कृतम्, दहनहणत्करणम् अग्नेर्बलात्कारं दिदृक्षुः द्रष्टुंकामयमानः अतएव साक्षादुपागतः मारुतिः हनूमान् इव उदलसत् अशोभत। अर्जुनस्य ध्वजाग्रेकपिचिह्नमवर्त्तत, तच्चिह्वभूतः कपिर्लङ्कायां यथाऽग्निः प्रागुदजृग्भत, तादृशमेव तदीयं जृम्भणं द्रष्टुमिच्छुरागतः साक्षाद्धनूमान् इव प्रतीयतेस्मेति तात्पर्यम्। उत्प्रेक्षाऽलङ्कारः। पुष्पिताग्रावृत्तम् ॥ 110 ॥

तद्‌भुजावनुदावन्त्याः संग्रामेषु जयश्रियः।
जङ्घाद्वयधियं {142}तूष्णौ जनयामासतुस्तदा ॥ 111 ॥

तद्‌भुजाविति। संग्रामेषु युद्धेषु तूणौ अर्जुनाय वह्निनादत्तावक्षया तूणीरौ तस्य अर्जुनस्य भुजौ बाहू अनुधावन्त्याः अनुगच्छन्त्याः जयश्रियः विजयलक्ष्म्याः जङ्घाद्वयधियं जङ्घायुगलबुद्धिं तदा खाण्डववनदाहावसरे जनयामासतुः। अर्जुनस्य तूणीरौ विलोक्य लोकानां हृदये संशयो जायते यत्किमिदं युद्धे अर्जुनस्य बाहू अनुसरन्त्या विजयश्रियो जङ्घाद्वयमस्तीति। स्फुटोत्प्रेक्षा ॥ 111 ॥

पवनसखदृशोर्मुदं वितन्वन्पटुतरटंकृतिकम्पिताटवीकः।
कुटिलमतनुतार्जुनः{143} कराभ्यां गुणमिव{144} दण्डमथास्य{145} गाण्डिवस्य ॥ 112 ॥

पवनसखदृशोरिति। अथ अर्जुनः पवनसखस्याग्नेर्दृशोर्नयनयोर्मुदं हर्षं वितन्वन् जनयन् सन् पटुतरया गभीरया टङ्कृत्या धनुष्टङ्कारेण कम्पिताटवीकः कम्पितखाण्डववनः कराभ्यां हस्ताभ्याम् अस्य स्वहस्तधृतस्य गाण्डीवस्य गुणमिव रज्जुमिव दण्डमपि कुटिलं वक्रमकुरुत। यथार्जुनो धनुषो गुणंप्रत्यञ्चामाकृष्टवाँस्तथा तथा तद्दण्डोपि नतोजातः, एतेन बलवदाकर्षणं व्यञ्जितम् ॥ 112 ॥

अथ गरुडवलीमुखध्वजाभ्यामनुमतिमेत्य स संननाह हर्षात्।
बलरिपुमणिनीलमुत्प्रवालं वनमशितुं वडवास्यभूरिवाग्निः ॥ 113 ॥

अथेति। अथ अर्जुनेन धनुषि टंकारिते सति गरुडध्वजः कृष्णः वलीमुखध्वजः कपिध्वजोऽर्जुनश्च तयोः अनुमतिम् अनुज्ञामेत्य प्राप्य सः अग्निः वलरिपुमणिनीलम् इन्द्रनीलमणिश्यामम् उत्प्रवालम् उद्गतनूतनपल्लवं वनम् अशितुं भक्षितुं दाहयितुं हर्षात् प्रसादमादाय सन्ननाह उद्योतोऽभूत् वडवास्यभूः वडवानलः इव इन्द्रनीलमणितुल्यश्यामम् उद्‌गतविद्रुमं च वनं जलम् अशितुमिव, अयमाशयः-अर्जुनेन धनुषि टंकारिते कृष्णार्जुनानुमतिमादायाग्निः वनम् दग्धुं प्रवृत्तः, कीदृशं वनम्? इत्याह-वलरिपुमणिनीलम् इन्द्रनीलमणिश्यामलम्, उत्प्रवालम् उदितनूतनपल्लवं च। यथा वडवानलो वनम् जलम् अशितुं प्रवर्त्तते, वनं जलं तत्रापि-इन्द्रनीलमणिश्याममिति उत्प्रवालमिति च विशेषणं बोध्यम्, तत्रान्त्यविशेषणस्य सम्मुद्रजलपक्षे-प्रकटविद्रुमम् इत्यर्थः। शिलष्टविशेषणोपमालङ्कारः ॥ 113 ॥

शोणरुचा शिखयातिमहत्या बाणपुरावृतिवासनयेव।
{146}चण्डतरोऽस्य वनस्य समन्तात्कुण्डलनां{147} कलयन्ववृधेऽग्निः ॥ 114 ॥

शोणरुचेति। अथ चण्डतरः अतिभीषणः अग्निः बाणपुरस्य शोणितपुरसंज्ञयाख्यातस्य बाणासुरनगरस्य आवृतिवासनया प्राकाररूपतयाऽवस्थानस्य संस्कारेण इव अतिमहत्या विशालया शोणरुचा रक्ताभया शिखया निजऽवालया अस्य खाण्डववनस्य कुण्डलनां कुण्डलाकारेण समन्ततो वेष्टनम् कलयन् कुर्वन् ववृधे समृद्धिमाप। पुरा बाणासुरस्य नगरं शोणितपुराख्यं वह्निना प्रकारभावं गतेनावे ष्ट्य, तत्संस्कारेणेवाग्निरिदं खाण्डवं वनमपि स्वीयया रक्ताभया ज्वालया समन्ताद् वेष्टयित्वाऽवर्धतेत्यर्थः। तोटकं वृत्तम्, तल्लक्षणं यथा, तोटकवृत्तमिदं `भभभागौ’ इति ॥ 114 ॥

प्रथमं पावकषिङ्गे परिरभ्य गृहीतपल्लवोष्ठपुटे।
{148}उपकण्ठे वनराजेरुदगादाकुलकपोतनादततिः ॥ 115 ॥

प्रथममिति। पावको वह्निरेव षिङ्गः विटः तस्मिन् प्रथमं परिरभ्य समन्ततो वेष्टयित्वा आलिङ्ग्य च गृहीनः चुम्बितः दग्धुं धृतश्च पल्लव एव ओष्ठपुटो येन तादृशे सति वनराजेः वनपङ्क्तेः प्रियायाः उपकण्ठे समीपदेशे गलदेशे च आकुलानां भवत्रस्तानाम् कपोतानां पारावतानां नादततिः आकन्दशब्दः (कपोतनादतुल्यः सुरतसुखशब्दश्च) उदगात् आविरासीत्। विटेन प्रियाया आलिङ्गनेन ओष्ठं पातुं प्रवृत्त्या च प्रियाया रसावेशवशात् कपोतशब्दोपमः शब्दः प्रकटीभवति, तथैव वह्नौ वनराजिं समन्ततो वेष्टयित्वा तदीयपल्लवान्दग्धुं प्रवृत्ते सति भीतानां कपोतानां संभ्रमध्वनिराविरासीदित्यर्थः॥ समासोक्तिरलङ्कारः, `समासोक्तिः परिस्फूर्त्ति प्रस्तुतेऽप्रस्तुतस्य चेत्’ इति तल्लक्षणात्। संभोगस्यालिङ्गनपूर्वकत्वं रतिकूजितानां कपोतनादसाभ्यं चोक्तं रतिरहस्ये यथा-`आदौ रतं वाह्यमिह प्रयोज्यं तत्रापि चालिङ्गनमेव पूर्वम्’। तत्र भावुककपोतवारिदेत्यादिना रत्यायासजनितो हुंकारो भणितमिति च॥ 115 ॥

क्रमेण प्रबलीभवतो भगवतः प्रवमानसखस्य तमालादिषु केषुचित्तरुषु{149} पर्णोच्चयायमानैर्धूमैः{150} किंशुकादिषु केषुचिद्{151}द्रुमेषु स्तबकायमानैर्ज्वालाकंदलैस्तिलकादिषु केषुचित्{152} पचेलिमफलबीजायमानैः स्फुलिङ्गैर्हरिचन्दनादिषु केषुंचिद्विटपिषु {153}वल्कलायमानैरालोकैर्नीडवत्सु केषुचित्परस्परपक्षिपक्षताडनरटनायमानैः {154}प्लोषचटचटत्कारैश्च {155}परितः परीतमपि तद्वनं {156}मुहूर्तं यथापुरमवतस्थे ॥

क्रमेणेति। क्रमेण शनैः शनैः प्रबलीभवतो वर्धमानस्य भगवतः सर्वसामर्थ्यशालिनः पवमानसखस्य वायुसखस्याग्नेः तमालादिषु केषुचित्तरुषु कतिपयद्रुमेषु पर्णोच्चयायमानैः पत्रराशिवदाचरद्भिः धूमैः (वर्धमानस्य वह्नेर्धूमराशिः केषुचित्तमालादिषु तरुषु तत्पत्रराशिरिव प्रतीयतेस्मेत्यर्थः) किंशुकादिषु रक्तकुसुमेषु केषुचिद्रुमेषु स्तबकायमानैः पुष्पगुच्छशोभामावहद्भिः ज्वालाकन्दलैः ज्वालाजालैः (वह्नेर्ज्वाला किंशुकादितरुपुष्पस्तबकतया प्रत्यभासतेत्यर्थः) तिलकादिषु केषुचित् रक्तबीजेषु तरुषु पचेलिमफलबीजायमानैः पक्वफलबीजवत्प्रेक्ष्यमाणैः स्पुलिङ्गैः (तिलकादिरक्तबीजतरुषु वह्निस्फुलिङ्गाः पक्वतद्‌बीजबुद्धिमकृषतेत्याशयः) हरिचन्दनादिषु केषुचित् रक्तत्वक्षु विटपिषु वृक्षेषु वल्कलायमानैः तत्तरुवल्कलतुलामधिरोहद्भिः आलोकैः वह्निप्रकाशैः, (वह्नेरालोकाः रक्तत्वचां हरिचन्दनादितरूणां निकटे तदीयत्वचाबुद्धिमुदपादयन्निति भावः) नीडवत्सु पक्षिकुटीरशालिषु केषुचिद्वटादितरुषु परस्परम् अन्योन्यं पक्षिणां पक्षाभ्यां ताडनेन प्रहारेण यद्रटनं तद्वदाचरद्भिः रटनायमानैः प्लोषचटचटत्कारैः दाहजन्यचटचटाशब्दैः (अग्नेश्चटचटाशब्दो नीडवत्सु वटादितरुषु पक्षीणां पक्षताडनानीव प्रतियन्तेस्मेति) परितः परीतं व्याप्तमपि तद्वनम् यथापुरम् पूर्ववत् अवतस्थे। दाहात्पूर्वम् अपि तत्र वने तमालादिपत्राण्यासन्नेव, किंशुकस्तबका अभवन्, तिलकबीजानि रक्तान्यासन्, हरिचन्दनवल्कलानि चालोकवर्णान्यासन्, पक्षिणोऽन्योन्यं पक्षाभ्यां प्राहरंश्च नीडेषु सम्प्रति दाहे प्रवर्त्तमाने धूमस्तमालपत्रात्मना, ज्वालाजालः किंशुकस्तबकरूपतया, अग्निस्फुलिङ्गारक्ताभतिलकबीजत्वेन आलोका हरिचन्दनवल्कलतया, दाहचटचटाशब्दाश्च पक्षिपक्षाघातत्वेन संभाव्यमानाः किमपि नूतनत्वमभावयन्तो वनस्य यथापूर्वत्वं द्योतयन्तीति बोध्यम् ॥

हुताशनपरित्रासादुच्चलन्त्या वनश्रियः।
कबरीव श्लथा वेगात्कपि धूम्या खमानशे ॥ 116 ॥

हुताशनेति। हुताशनपरित्रासात् अग्निभयात् उच्चलन्त्याः वनं विहायोर्ध्वं गच्छन्त्याः वनश्रियः काननलक्ष्म्याः वेगात् संभ्रमवशात् श्लथा मुक्तबन्धा कबरीकेशभार इव धूम्या धूमराशिः खम् आकाशम् आनशे व्याप्तवती। अग्निभयात् खाण्डववनं हित्वा धूमराशिः खम् आकाशम् आनशे व्याप्तवती। अग्निभयात् खाण्डववनं हित्वा गच्छन्त्या वनश्रियो वेगेन श्लथायाः कबर्याः सदृशी धूमराजिर्दिवि वितायतेस्मेति भावः ॥ 116 ॥

वलयं धूमेरेखाया वर्त्मनि द्योसदा {157} बभौ।
भाविनः शरकूटस्य परितो मानसूत्रवत् ॥ 117 ॥

वलयमिति। धूमरेखायाः धूममालायाः वलयं मण्डलम् द्योसदं देवानां वर्त्मनि मार्गे आकाशे भाविनः भविष्यतः शरकूटस्य बाणनिर्मितशालायाः परितः यावत् मानसूत्रवत् मानसूत्रमिव बभौ। गृहं निर्मित्सुः पूर्वं यावतिदेशे गृहं निर्मेयं तावन्तं देशं मानसूत्रेण मिमीते, आकाशे प्याप्तं धूमरेखावलयं भाविनो बाणगृहस्य मानसूत्रमिव प्रतीयते स्म आकाशे बाणा व्याप्तस्यन्ति, बाणैर्गृहमिव निर्मितं भविष्यति तस्य निर्मास्य मानस्य गृहस्य मानसूत्रमिव धूमरेखावलयं दिवि प्रतीयतेस्मेति भावः ॥ 117 ॥

अस्यैव गाण्डिवंभृतो भुवि भो जन{158}! त्वं मल्लं तृणाय मरुतामपि {159}मन्यमानम्।
{160}बाह्वोर्बलं पठ पठेति वदन्निवाग्निः स्फोटारवं स झटिति {161}स्फुटयांचकार ॥ 118 ॥

अस्यैवेति भोः जन हे संसारस्थलोक, त्वं मरुतां देवानां मल्लं प्रधानयोधमिन्द्रमपि तृणाय मन्यमानम् अनाद्रियमाणम् अस्य पुरो विक्राम्यतः गाण्डिवभृतः गाण्डिवाख्यधनुर्धरस्यार्जुनस्य बाह्वोः भुजयोर्बलं सामर्थ्यं पठ पठ भूयोभूय उच्चारय इति वदन् इव कथयन्निव सोऽग्निः झटितित्वरया स्फोटेन वंशादीनामग्निसंयोगजेन दलनेन य आरवः पटपटाशब्दस्तं स्फुटयांचकार प्रकटयामास। अग्नौ प्रसरति वंशादयः पटपटाशब्दं कुर्वते मन्ये तैः शब्दैरग्निः संसारवासिनो बोधयति यद्यूयं शक्रमप्यनाद्रियमाणमर्जुनस्य पराक्रममेव स्तुतेति। उत्प्रेक्षालङ्कारः ॥ 118 ॥

स्वपार्श्वयुग्मज्वलदग्निकन्दला वनान्तभाजोऽजगरा महत्तराः।
निशातवज्रेक्षतनिःस्रुतासृजां दशामयत्नाज्जगृहुर्महीभृताम् ॥ 119 ॥

स्वपार्श्वेति। स्वपार्श्वयुग्मे आत्मनो द्वयोर्भागयोः ज्वलन्तः दीप्यमानाः अग्निकान्दलाः वह्निसमूहा येषां ते तथोक्तः, वनान्तभाजः खाण्डवनमध्यवर्त्तिनः। महत्तरा अजगाराः सर्पभेदाः निशातं तीक्ष्णं यद्वज्रम् कुलिशं तत्क्षतेन तत्प्रहारेण निःस्रुतासृजाम् निर्गतशोणितानाम् महीभृताम् पर्वतानाम् दशां तुलाम् अयत्नात् प्रयासं विनैव जगृहृः अवापुः। अजगराणां पार्श्वयोर्दीप्ता अग्नयः स्थितैस्तैरग्निभिस्तेऽजगरा इन्दवज्रप्रहारनिर्गतासृजां पर्वतानां तुलनामबापुरिति भावः। अजगराः पर्वता इव तत्पार्श्वस्था वह्नयश्च वज्रप्रहारस्रुतशोणितोपमाः प्रत्यभासन्तेति परमार्थः ॥ 119 ॥

तत्र निकुरम्बाणि स्तम्बेरमाणामामूलमनलार्चिरवलम्बितदन्तमुसलानि प्रेमपरवशतया वशासु वितरितुं {163}स्वसृंक्कभागविन्यस्तजग्धार्धसल्लकीपल्लवकवलानीव क्षणमलक्ष्यन्त ॥

तत्रेति। तत्र दह्यमाने खाण्डववने आमूलं मूलपर्यन्तम् अनलार्चिभिः अग्निशिखाभिः अवलम्बितानि धृतानि दन्तमुसलानि येषां तानि तथोक्तानि स्तम्बेरमाणां गजानां निकुरम्बाणि समूहाः प्रेमपरवशतया स्नेहवशंवदतया वशासु करिणीषु वितरितुं प्रदातुम् स्वेषाम् सृक्कभागेषु विन्यस्ताः स्थापिता जग्धार्धाः भक्षितार्धाः सल्लकीपल्लवानां कवला ग्रासा येषां तानीव क्षणम् कियत्कालपर्यन्तम् अलक्ष्यन्त प्रतीयन्ते स्म। अग्निना मूलपर्यन्तं दह्यमानदन्ता गजाः स्वप्रियाभ्यो दातुं सृक्कस्थापितसल्लकीपल्लवा इव प्रतीयन्ते स्मेत्यर्थः। सल्लकीपल्लवानामतिरक्ततया तत्पल्लवानां करिभिराद्रियमाणताय च सृक्कभागेऽवस्थापनस्य स्वभावसिद्धतया चेयमुत्प्रेक्षा ॥

सविधज्वलनोष्मवीचिभिः सपदि म्लानकपित्थशाखिनाम्।
परिपाकसिताः फलव्रजाः प्रबभुः स्फोटकबुद्‌बुदा इव ॥ 120 ॥

सविधेति। सविधे समीपदेशे ज्वलनस्य अग्नेः ऊष्मणां ज्वालानां वीचिभिस्तरङ्गैस्तत्काले सद्यः म्लानानाम् शुष्यताम् कपित्थशाखिनाम् तदाख्यया प्रसिद्धानां तरूणाम् परिपाकसिताः समन्ततः पाकेन शुभ्रतां गताः फलव्रजाः फलानि स्फोटकबुद्‌बुदा इव दाहजन्याः विस्फोटका इव प्रबभुः भासन्ते स्म। कपित्थतरोरधोदेशे ज्वलता वह्निना म्लानस्य तत्तरोः फलानि दाहकृतविस्फोटकतुलां दधुरित्यर्थः ॥ 120 ॥

निशि केवलं तमसि दीप्रतनु{164} निजजातिमोषधितरुं निखिलम्।
इतरे विजेतुमिव ते तरवो दिवसेऽपि जज्वलुरतीवतराम् ॥ 121 ॥

निशीति। निशि रात्रौ तमसि अन्धकारे केवलम् एव दीप्रा भासुरा तनुः देहलता यस्यास्तां निजजातिं स्वज्ञातिम् निखिलम् निशाप्रकाशिनं समस्तम् औषधितरुं विजेतुम् पराभवितुम् इव इतरे निशाप्रकाशशीलतरुबिन्नास्तमालादयस्तरवः दिवसेऽपि अतीवतरां नितराम् जज्वलुः देदीपिरे। `न बन्धुमध्ये धनहीनजीवनम्’ इति नितेरिव तमालादयो वृक्षा निशाप्रकाशिन औषधितरून् स्पर्द्ध्या जेतुमिव दिवसेऽपि (खाण्डवदाहे दह्यमानतया) अतीव जज्वलुरिति भावः ॥ 121 ॥

दृप्तदानवनिशाचरवर्गस्तत्र गाण्डिवभृता निहतोऽपि।
तन्निषङ्गयुगबाणगणानां संख्यया प्रतिभटत्वमकार्षीत् ॥ 122 ॥

दृप्तेति। तत्र खाण्डववनदाहकाले गाण्डिवभृता अर्जुनेन निहतः पलायनकाले खण्डितः अपि दृप्तदानवनिशाचरवर्गः सगर्वदैत्यराक्षसगणः तन्निषङ्गयुगबाणगणानां तत्तूणीरद्वयवर्त्तिशरसमुदयानां सङ्ख्यया प्रतिभटत्वं स्पर्धाम् अकार्षीत्। अर्जुनः शतशः खण्ड्यमानास्ते तद्‌बाणसंख्यया तुलामधुः, यथा तव तूणीरयुगले कोटिर्बाणानां तथा त्वया खण्डितानामस्माकमपि वपुषां कोटिरिति स्पर्धामधारयन्निति भावः। प्रत्यनीकमलङ्कारः। स्वागता वृत्तम् ॥ 122 ॥

ज्वालतापभरकुअण्डलिताङ्गीः क्ष्वेडसारघृतसेचनमृद्वीः।
सर्परुंगवततीरतिहृष्टः शष्कुलीरिव चचर्व कृशानुः ॥ 123 ॥

ज्वालतापेति। कृशानुः अग्निः ज्वालानां निजशिखानां तापभरेण तापातिशयेन कुण्डलिताङ्गीः वक्रीभूतावयवाः क्ष्वेडसारो विषरसस्तदेवघृतं तस्य सेचनेन उक्षणेन मृद्धीः कोमलाः शष्कुलीः चक्राकृतिभक्ष्यविशेषान् (`जलेबी’ इति भाषायां ख्यातान्) इव सर्पततीः सर्पसमुदयान् अतिहृष्टः अतिप्रसन्नः सन् चचर्व अभ्यवजहार। यथा कोपि तापवक्राः धृताक्ताश्च शष्कुलीरतिप्रसन्नतया चर्वयति तथाऽग्निज्वालया वक्रीभूतसर्वावयवा विषरसरूपेण घृतेनासिक्ततया मृद्वीः सर्पततीः शष्कुलीरतिप्रसादेन चर्वयामासेति भावः। समस्तवस्तुविषयं रूपकमलङ्कारः ॥ 123 ॥

तावत्तक्षकरक्षणाय सहसा शक्रोऽधिरुह्य द्विपं वज्रं न्यस्य तदीयमूर्ध्नि मरुता संनाहयन्वाहिनीम्।
ब्रह्माण्डप्रतिरोधनेन विमुखैर्धूमैरिवारण्यजैरातस्तार नभस्तलं जलधरैरारब्धघोरारवैः ॥ 124 ॥

तावदिति। तावत् यावदर्जुनेन खाण्डवे दह्यमाने सर्पा अदह्यन्त तस्मिन् काले शक्रः इन्द्रः तक्षकस्य तदाख्यस्य सर्पराजस्य रक्षणाय दाहात्त्राणाय सहसा झटिति द्विपम् हस्तिनमैरावतम् अधिरुह्य तदीये मूर्ध्नि ऐरावतशिरसि वज्रं नाम स्वमायुधं न्यस्य निधाय मरुतां वाहिनीम् देवसेनां सन्नाहयन् युद्धायोत्साहयन् ब्रह्माण्डप्रतिरोधनेन ब्रह्मण्डभित्तौ प्रत्याघातेन विमुखैः पराङ्मुखीभूतैः प्रत्यावृत्तैः आरण्यजैः वन्यैः (खाण्डवदाहोत्थैः) धूमैरिव स्थितैः आरब्धघोरारवैः प्रारब्धभीषणनादैः जलधरैः मेघैः नभस्तलम् आकाशदेशम् आतस्तार आच्छादयामास। यावत्खाण्डवे सर्पा दग्धुमारब्धास्तावदिन्द्रः स्वप्रियस्य तक्षकनागस्य रक्षार्थं द्विपमधिरुह्य देवसेनां युद्धायोद्योजयन्सन् मेघैरम्बरतलमाच्छादयत्ते च मेघा ब्रह्माण्डप्रतिगातपरावृत्ता धूमा इव प्रतीयन्ते स्मेति भावः ॥ 124 ॥

ततस्तैरनेकैर्नाकौकसामनीकैर्मत्सरेण{165} तदुपरि निपात्यमानदिग्भित्तिसिखराणामिव वेगादापततां वारिधौ {166}वाडवहव्यवाडपि कवलितोऽयमस्माभिरितीव विद्युतः प्रकाश्य गर्जितेन तर्जयतामिव पर्जन्यानामासारसर्वाभिसारेण निर्वापिते {167}वनाग्नौ मनाक्श्यामायमाने सति शोणायमानलोचनेन कपिकेतनेन तत्प्रतिचिकीर्षया शरकदम्बैरम्बरे निरवलम्बमाकलितां {168}शालां छत्रीकृत्य पुनरपि समुन्नीयमाननिजकेतुरुषर्बुधो भगवानुद्दिदीपे ॥

तत इति। ततः तक्षकरक्षार्थमिन्द्रस्य संरम्भं दृष्ट्वा तैः प्रसिद्धैः नाकौकसाम् देवानाम् अनीकैः सैन्यैः मत्सरेण द्वेषेण तेषाम् कृष्णपार्थपावकानाम् उपरि निपात्यमानानाम् दिशामेव भित्तीनाम् इव (ये मेघा देवसैन्यैरर्जुनाद्युपरिपात्यमानादिग्‌भित्तय इव प्रतीयन्ते स्म तेषाम् इत्येकं मेघविशेषणम्) वेगादापतताम् जवेनागच्छताम्, वारिधौ सागरे अयम् वाडवहव्यवाट् वडवानलः अपि कवलितः भक्षितः इति इव एतत् बोधयितुमिव विद्युतः चपलाः प्रकाश्य द्योतयित्वा गर्जितेन स्तनितेन तर्जयताम् भीषयताम् इव (इदं द्वितीयं मेघविशेषणम्, समुद्रे जलेन सह वाडवाग्निरपि भक्षित इति स्वमुत्कर्षं बोधयितुकामा इव मेघा विद्युतः प्रकाशयन्तीति तदर्थः) पर्जन्यानाम् मेघानाम् आसारस्य धारासम्पातस्य सर्वाभिसारेण सर्वोद्योगेन अविरलवृष्ट्येत्यर्थः निर्वापिते शमिते वनाग्नौ खाण्डववनवह्नौ मनाक् स्वल्पं श्यामायमाने धूमाङ्गारादिभावेन मन्दीभूते सति, शोणायमानलोचनेन कोपरक्तीभूतचक्षुषा कपिकेतनेन अर्जुनेन तत्प्रतिचिकीर्षया इन्द्रकृतवृष्टिद्वारा खाण्डववनदाहे जायमानस्य विघ्नस्य निवारणाय अम्बरे आकाशो निरवलम्बं कुड्यस्तम्भाद्याधारवर्जम् शरकदम्बैः बाणगणैः आकलिताम् रचिताम् शालाम् बाणमयं भवनम् छत्रीकृत्य छत्रभावेनादाय पुनः अपि समुन्नीयमान ऊर्ध्वं प्रसार्यमाणो निजस्य वह्नेः केतुर्धूमो येन तताविधः भगवान् उषर्बुधः वह्निः उद्दिदीपे प्रजज्वाल। `धारासम्पात आसारः’ `सर्वाभिसारः सर्वौधः सर्वसंहननार्थकः’ `शोचिष्केश उषर्बुधः-आश्रयाशो वृहद्भानुः कृशानुः पावकोऽनलः’ इति च सर्वत्रामरः ॥

तत्रान्तरे प्रोषितवल्लभतया प्रेम्णा कुमारमश्वसेनं निगीर्य दहनार्चिरुष्णासहिष्णुतया पुनरपि निवृत्य{169} दिवं प्रयान्तीभिर्घनधाराभिरिव पन्नगकन्यकाभिः सह वनादुत्पतन्तीं तक्षककुटुम्बिनीमविलम्बितमेव श्वेतवाहनः। {170}शितमुखेन शिलीमुखेन रसनायामिव ग्रीवायामपि{171} द्विधा {172}विदलयांचक्रे ॥

तत्रान्तरे इति। तत्रान्तरे तस्मिन्समये प्रोषितवल्लभतयां तक्षकस्य पत्युः कुरुक्षेत्रगंतत्वेन पतिवियुक्तया (तक्षकपत्न्या) प्रेम्णा पुत्रवात्सल्येन कुमारम् बालम् अश्वसेनं नाम निगीर्य सुरक्षार्थं कण्ठे निधाय दहनस्याग्नेरर्चिषां ज्वालानाम् उष्णस्य उष्णस्पर्शस्य असिहिष्णुतया सोढुमशक्ततया पुनरपि निवृत्य परावृत्य दिवं कन्यकाभिः नागकन्याभिः सह वनात् दह्यमानात् खाण्डववनात् उत्पतन्तीम् उड्डीय गच्छन्तीम् तक्षककुटुम्बिनीम् तक्षकस्त्रियम् श्वेतवाहनः अग्निदत्तश्वेताश्वयुक्तरथारूढः अर्जुनः अविलम्बितम् शीघ्रम् एव शितमुखेन तीक्ष्णाग्रभागेन शिलीमुखेन वाणेन रसनायाम् जिह्वादेशे ग्रीवायाम् कण्ठदेशेऽपि च द्विधा द्वयोः स्थानयोः खण्डद्वयं वा विदलयां चक्रे अच्छैत्सीत्। अयमर्थः-यदा वृष्ट्याशम्यमानोऽप्यग्निर्जुनरचितशरमयशालाच्छत्रमादाय पुनरदीप्यत तदा वियुक्तपतिका तक्षकस्त्री प्राणरक्षार्थं कतिभिः नागकन्याभिस्सह ततो वनादुत्पपात, वियत्युत्पतन्त्यश्च ता वह्निज्वालां सोढुमशक्ततया-पुनर्दिवं परावर्त्तमाना जलधारा इव प्रतीयन्ते स्म, एवमुत्पतन्तीं तां तक्षकवधूमर्जुनो निशिताग्रेण स्वशरेण जिह्वायां शिरसि च द्विधाऽच्छिनदिति ॥

नभसि कृते शरकूटे न पपाताशुगविनुन्नमम्बुमुचाम्।
तस्मिन्खाण्डववह्नौ तक्षकपत्न्याः कबन्धमेव परम् ॥ 125 ॥

नभसीति। नभसि आकाशे (अर्जुनेन) शरकूटे बाणमये गृहे कृते सति आशुगविनुन्नम् वायुचलितम् अम्बुमुचाम् मेघानाम् कबन्धम् एव उदकमेव तस्मिन् खाण्डववह्नौ न पपात न पतितम्, परम् आशुगविनुन्नम् अर्जुनशरच्चिन्नम् तक्षकपत्न्याः कबन्धम् अपमूर्धकलेवरम् तस्मिन् खाण्डववह्नौ पतितम्। अर्जुनेन बाणमयशालानिर्माणद्वारा निरुध्यमानाः पयोदजलधारास्तु तत्र खाण्डववह्नौ न पेतुः परं तक्षकपत्न्या बाणच्छिन्नं शिरः पतितम्। अत्र कबन्धद्वयपाते प्रसक्ते पातस्य तक्षकपत्नीकबन्ध एव नियमनात् परिसंख्यालङ्कारः॥ `आशुगौ वायुविशिखौ’ इत्यमरः। `कबन्धमुदकेन स्त्रीगतमूर्धकलेवरे’ इति वैजयन्ती। गीतिश्छन्दः ॥ 125 ॥

अथ स कुपितः स्वयं कौशिकोऽपि चकितचकितं वियति{173} विहितोपसरणं नवजननीशोकदयनीयं हृतवालं तमहिबालं परिगृह्यलालनया परितोषमनैषीत् ॥

अथेति। अथ तक्षकवधूशिरश्छेदानन्तरम् कुपितः स कौशिक इन्द्रः स्वयं व्यालग्राही च वियति आकाशे चकितचकितं सभयं विहितोपसरणं कृतसञ्चारम् नवेन सद्यः समुपसथितेन जननीशोकेन मातृवधविपत्त्या दयनीयं शोच्यां दशां गतम् हृतवालम् मातृमुखस्थतया मातुः शिरसिच्छिद्यमाने छिन्नपुच्छं तम् अश्वसेनं नाम अहिबालं तक्षकपुत्रम् परिगृह्य गृहीत्वा लालनया आश्वासनेन परितोषम् सन्तोषम् अनैषीत् प्रापयामास। सर्पग्रहणसामर्थ्यद्योतनायैवेन्द्रस्य कौशिकपदेनोपादानं बोध्यम्। `महेन्द्रगुगुलुलूकव्यालग्राहिषु कौशिकः’ इत्यमरः ॥

सुतं तमभ्येत्य सुरैरशेषैः क्रुध्यन्नतायुध्यत घोरमिन्द्रः।
चक्रे स दावस्य च तक्षकस्य यदग्निमत्तां यदनग्निमत्ताम् ॥ 126 ॥

सुतमिति। अथ अश्वसेनाश्वासनानन्तरम् क्रुध्यन् कुपित इन्द्रः सुतम् पुत्रम् अपि तम् अर्जुनम् अशषैः सुरैः सह अभ्येत्य उपेत्य घोरं यथास्यात्तथा अयुध्यत युद्धं कृतवान्। यत् यस्मात् सः अर्जुनो नामेन्द्रपुत्रः दावस्य खाण्डववनस्य अग्निमत्तां अग्नियुक्तत्वम् चक्रे, तक्षकस्य च अनग्निमत्ताम् (अग्निं मथ्नातीत्यग्निमत्, तस्य भावोऽग्निमत्ता न अग्निमत्ता अनग्निमता ताम्) यज्ञेऽग्निमन्थनानर्हत्वम्, सपत्नीकस्यैव यज्ञेऽधिकारात्पत्नीवधेन यज्ञानर्हत्वम् चक्रे इत्यर्थः। यतोऽर्जुनः खाण्डववने वह्निं ज्वालितवाँस्तक्षकवधूं चावधीदत इन्द्रो देवसेनयोपेतस्तत्समीपमागत्योत्कटं युद्धमारब्धवानिति भावः। वाक्यार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ 126 ॥

वनस्य तस्योपरि केवलं तदा सहस्रनेत्रस्य च सव्यसाचिनः।
निषङ्गनीडोत्पतितानि पत्रिणां कुलानि कोलाहलकेलिमादधुः ॥ 127 ॥

वनस्येति। तदा इन्द्रार्जुनयुद्धसमये वनस्य खाण्डववनस्य उपरि ऊर्ध्वभागे केवलम् सहस्रनेत्रस्य इन्द्रस्य सव्यसाचिनोऽर्जुनस्य निषङ्गाः तूणीरा एव नीडानि वासस्थानानि तेभ्य उत्पतितानि वहिर्गतानि पत्रिणां बाणानां (पक्षिणामिति च) कुलानि समूहाः कोलाहलकेलिम् कलकलध्वनिक्रीडाम् आदधुः चक्रुः। तस्मिन्नवसरे केवलं तयोर्बाणा एव निषङ्गेभ्यो निर्गत्य निपत्य जृम्भन्त, शकुनयस्तु पूर्वमेव दग्धा अभूवन्निति भावः ॥ 127 ॥

शरान्विपाठानपि पारदृश्वनः श्रुतेर्विधायाशु विमुञ्चतस्ततः।
कुरूद्वहात्साध्वसरोगिणो हरेरभूद्भिषग्दूरतरप्रसर्पणम्{174} ॥ 128 ॥

शरानिति। विपाठान् स्थूलान् विपाठसंज्ञकान् वा शरान् श्रुतिपारदृश्वनः कर्णसंगतान् कृत्वा आशु त्वरया विमुञ्चतः सिवृजतः ततः कुरूद्वहात् कुरुवंशभवात् अर्जुनात् साध्वसरोगिणः भयरूपरोगग्रास्तस्य भीतस्य हरेः इन्द्रस्य दूरतरप्रसर्पणं दूरदेशगमनम् पलायनम् भिषक् वैद्यः रक्तकोऽभूत्। विपाठान् त्रिटितपाठान् श्रुतेः शरान् दोषान् विधाय पारदृश्वनः वेदपारंगतस्य ततोऽर्जुनात् साध्वसरोगिणो लज्जितस्य हरेः पलायनमेव रक्षकमभूदिति च ध्वन्यते। यथा कश्चन वेदाध्यायी कश्चन वेदपारगस्य पुरतो वेदस्य त्रिटितं पाठं कृत्वा शरान्नामदोषान् विधाय लज्जमानो विदुषा निगृहीतस्सन् वादात्पलायते ततेन्द्रोऽर्जुनेन स्थूलान् विपाठसंज्ञान् बाणान् कर्णपर्यन्तमाकुञ्च्यत्य ज्यमानान् सोढुमपारयन् भीत्या पलायनमेव ततो भयाद्रक्षकं रोगात्त्रातारं वैद्यमिव शरणीकृतवानिति भावः॥ अत्रार्जुनेन्द्रवृत्तान्ताभ्यां विद्वदविद्वद्‌वृत्तान्तमप्रतीतेः समासोक्तिरलङ्कारः ॥ 128 ॥

जयन्तमेकं युदि सोढुमक्षमे जयन्तमन्यं सुतमीक्षितुं गते।
पुरीं बलद्वेषिणि घोषकैतवाञ्जहास शङ्खद्वितयं च कृष्णयोः ॥ 129 ॥

जयन्तमिति। युधि युद्धे जयन्तम् पराभवन्तम् एकम् सुतम् पुत्रमर्जुनम् सोढुम् शस्त्रादिनि प्रतियोद्‌धुम् अक्षमे असमर्थे बलद्वेषिणि इन्द्रे अन्यं जयन्तं नाम सुतम् ईक्षितुं द्रष्टुम् पुरीम् स्वनगरीम् स्वर्गं गते सति कृष्णयोः कृष्णार्जुनयोः शङ्खद्वितयम् घोषकैतवात् विजयध्वनिच्छलात् जहास इव। युद्धादिन्द्रे पलायिते यलाभात्कृष्णार्जुनौ स्वं स्वं शङ्खं दध्मतुरित्यर्थः। व्यञ्जकाप्रयोगाद्‌गम्योत्प्रेक्षा ॥ 129 ॥

ततः कृशानोर्विपरीनवर्णस्वनामवाच्यादिव भीतभीतम्।
मयं वने दैत्यमयं ररक्ष स चक्रपाणेरिव शक्रसूनुः ॥ 130 ॥

तत इति। अयं स्वः प्रसिद्धपराक्रमः शक्रसूनुः अर्जुनः विपरीतवर्णस्वनामवाच्यात् `मय’ इति नाम्नोऽक्षरयोर्विपरीतत्वेन यम इति सज्ञा जायते तद्वाच्यात् यमात् इव कृशानोः वह्नेः भीतभीतम् अतिभयभीतम् मयं नाम दैत्यं वने चक्रपाणेः कृष्णादिव ररक्ष। कदाचिन्मयं हन्तुमुद्यताद् भगवतो यथा तताऽधुना वह्नेरपि तमर्जुनोऽरक्षीदित्याशयः ॥ 130 ॥

क्षेत्रमप्यधिपतिं{175} कुरुपूर्वं संश्रितौ सपदि दैवबलेन।
चर्वितुः सकलखाण्डवमग्नेस्तक्षकावभजतां वघसत्वम् ॥ 131 ॥

क्षेत्रमिति। कुरुपूर्वम् क्षेत्रं स्थानं कुरुक्षेत्रन्नाम, कुरुपूर्वमधिपतिं कुर्वधिपतिं कुरुराजमर्जुनञ्च सपदि खाण्डववनदाहसमये दैवबलेन भाग्यवशात् संश्रितौ गतौ (तक्षको नाम नागराजो भाग्यवशात्तस्मिन्समये कुरुक्षेत्रं गत आसीत्तक्षा शिल्पी एव तक्षको मयो नाम भाग्योदयादर्जुनं शरणं गत इति च) तक्षकौ नागमयौ सकलखाण्डवं समस्तं खाण्डववनं चर्वितुः भक्षयितुर्दग्धुरग्नेर्विघसताम् भोजनशेषत्वम् अभजतां प्राप्तवन्तौ। वह्निना सकलं वनं दहतापि तक्षको नागराजः कुरुक्षेत्रगतत्वेन देवशिल्पी तक्षा एव तक्षको मयश्चार्जुनशरणगतत्वेन न दग्धाविति भावः। `अमृतं विघसो यज्ञशेषबोजनशेषयोः’ इत्यमरः। स्वागता वृत्तम् ॥ 131 ॥

अथ स्मित्वा तुन्दं परिमृशति मन्दायितगतौ समापृच्छ्य प्रीत्या त्रिदिव{176} मुपयाते हुतवहे।
रथाभ्यां मौनिभ्यां घनसलिलसेकेन महता विजेत्रौ तौ कृष्णौ विविशतुरुपान्तं नरपतेः ॥ 132 ॥

इत्यनन्तभट्टकविकृतौ चम्पूभारते स्मित्वा ईषद्धसित्वा तुन्दमुदरं परिमृशति स्पृशति, मन्दायिप्ता आहाराधिक्यान् मन्दीभूता गतिः सञ्चारो यस्य तस्मिन् हुतवहे वह्नौ प्रीत्या सस्नेहं समापृच्छ्य अनुज्ञआं याचित्वा त्रिदिवम् स्वर्गं प्रति उपयाते गते सति महता सातिशयेन घनसलिलसेकेन जलदकृतजलवृष्ट्या मौनिभ्याम् निःशब्दाभ्यां रताभ्यां स्यन्दनाभ्यां विजेत्रौ जयलक्ष्मीसमेतौ तौ कृष्णौ कृष्णार्जुनौ नरपतेर्युधिष्ठिरस्य उपान्तं समीपं विविशतुः गतवन्तौ। खाण्डवे दग्धे तृप्ततयाऽऽनन्दातिरेकवशतस्तुन्दं स्पृशति भोजनाधिक्यान्मन्दगतौ च वह्नौ सस्नेहं गमनानुज्ञामर्थयित्वा स्वर्याते सति प्रचुरजलवृष्ट्या पथः कर्दमिततया निःशब्दाभ्यां रथाभ्यां कृष्णार्जनौ युधिष्ठिरसमीपमाजग्मतुरित्यर्थः। स्वभावोक्तिरलङ्कारः ॥ 132 ॥

॥ इति मैथिलपण्डितश्रीरामचन्द्रमिश्रप्रणीते चम्पूभारत `प्रकाशे’ तृतीयस्तबक `प्रकाशः’ ॥

॥ Foot Notes ॥

1.`वनीभवती’। 2.`देशे प्रविश्य’। 3.`नयनपात्रेण’। 4.`पारदृश्वकर्मणा’। 5.`विश्वकर्मणा निर्मापितं’। 6.`कामनीयकविलोकन’। 7.`क्षमातलम्’। 8.`कुरुविन्दमणिमन्दिरैरभ्रंलिहम्’। 9.`तन्नमो’। 10.`पदं हरिप्रस्थम्’। 11.`अधिष्ठाय’। 12.`विनिवेद्य’। इति पाo। 13.`अपारभूमा’। इति पाo। 14.`निनाद’। 15.`तमङ्घ्रियुग्मे’। इति पाo। 16.`विरञ्चि’। इति पाo। 17.`चपलैः’। इति पाo। 18.`आवहेत्’। इति पाo । 19.`परिपुष्टासु’। 20.`संख्याकान्’। 21.`प्रक्षिपेदिति’। इति पाo। 22.`इति नारदसंवादः’ 23.`इमान्’। 24.`ह्रासयसीति’। इति पाo। 25.`राज्ञो गृहीताभ्यनुज्ञो’। 26.`कल्कलङ्घनाय’। 27.`रथानुसारिणीम्’। इति पाo। 28.`उत्सेहे’। इति पाo। 29.`कण्ठकान्तिः’। इति पाo। 30.`भणितवैदग्धी’। इति पाo। 31.`भालस्य’। इति पाo। 32.`तत्र तत्र स तस्य’। 33.`हिमाचलस्य खुर’। इति पाo। 34.`तरलसरल’। 35.`पम्फुल्यमान’। 36.`कलिताभिषेकः’। इति पाo। 37.`वर्तयामास’ 38.`वाराशिवास-’। इति पाo। 39.`हन्त महता’। 40.`अपि’। 41.`अभ्रंलिहा’। इति पाo । 42.`वार्राशि’। इति पाo। 43.`अभात्’। इति पाo। 44.`श्रुतोदयम्’। 45.`इति तत्र दिनानि कानिचित्’। 46.`सीत्कारम्’ 47.`कपोले’। 48.`कठिनतरत्कराङ्गुलि’। 49.`उच्चालित’। 50.`नन्यक्कार’। इति पाo। 51.`विततार चेतसे’। 52.`वेदिषु’। इति पाo। 53.`प्रथिते’। 54.`स्पृष्टवतः’। 55.`नियमावगाह’। इति पाo। 56.`कलरवैः’। इति पाo। 57.`मन्मथे’ 58.`अप्यवरुह्य’ 59.`स्वस्य चेष्टा’। इति पाo। 60.`मद्द’। 61.`रैवतकगिरेः’। 62.`अन्विष्य’। 63.`पृथक्पृथक्’। 64.`तरुणा’। 65.`युगं’। 66.`भावनाभिक्षुम्’। 67.`अवशेषैः’। 68.`जलैः पूरितं’। 69.`इत इत इति’। 70.`कन्यान्तःपुरे’। इति पाo। 71.`सुभ्रुवा’। 72.`चित्तभुवा’। 73.`प्रसर्पत्’। 74.`अधरोष्ठम्’। 75.`पुष्यत्सु’। 76.`पुलकाङ्कुराणि’। 77.`प्रसंधुक्षणेन’। 78.`श्वेत’। 79.`विश्राम्यन्तं धवित्रेण’। 80.`तैस्तैरिङ्गितैर्यतित्वे संशय्य तत्त्व’। इति पाo। 81.`संगमे’। 82.`शिरसान्यदवाप्यसे रजो’। इति पाo। 83.`भाले’। 84.`निपीतपूर्वैः’। 85.`लक्षणैश्च’ 86.`अयं यतिः’। 87.`पेटक’। 88.`शब्दयोर्धर्मिपरता विशेष’। 89.`नामपरता’। 90.`भवेत्’। 91.`तरल नयनं’। 92.`अवनमयन्ती’। इति पाo। 93.`तु तस्याः’ इति पाo। 94.`तातमिव’। 95.`वसन्तः सामन्तराजसंबन्धितया’। इति पाo। 96.`सुतोत्पत्ति’। 97.`कतिचिद्दिनानि’। 98.`देशत एव दूरात्’। इति पाo। 99.`शरीरवल्या’। 100.`भ्रमरावली’। 101.`मुद्रणा’। इति पाo। 102.`निटले’। इति पाo। 103.`सविधे’। 104.`हि’। 105.`अभिमुखं’। 106.`हेलिमयूखकटोर’ `हेलिमयूखकेलि’। इति पाo । 107.`भगवतीं तामेव’। 108.`वेग’। 109.`सुविलोकितुकामयेव’। इति पाo। 110.`अतानीत्’। 111.`विनिवर्तित’। इति पाo। 112.`गर्हित’। इति पाo। 113.`एव’। 114.`बिम्बाः’। 115.`आवर्तकुलजवा’। 116.`अवलुम्पन्’। 117.`कुचयुगलानि’। 118.`क्षोभगात्कोकनद’। 119.`विदलवायासुः’ इति पाo। 120.`यमः `खसुः’। इति पाo। 121.`लिङ्ग’। इति पाo। 122.`प्रतिवधूः’। इति पाo। 123.`संगमशर्माणि’। 124.`वसित’। 125.`कनकलता’। 126.`कोरकाणीव’। 127.`क्रशित’। 128.`कोशीकार’। इति पाo। 129.`दत्त’। इति पाo। 130.`घन’। इति पाo। 131.`तदाशिषो’। 132.`याचते’। इति पाo। 133.`भणितिः’। 134.`जवनिका’। 135.`नटीभवत्’। 136.`ताण्डवस्य जगत्कण्ठे’। 137.`गडुत्वं च’। 138.`निवेद्य’। इति पाo। 139.`स्वयमपेक्ष्य’। इति पाo। 140.`जयाप्तैः’। 141.`कितनाङ्कम्’। इति पाo। 142.`तूणौ’। 143.`असकृत्’ 144.`अपि’। 145.`इव’। इति पाo। 146.`चण्डतरस्य’। 147.`कुण्‍डलनम्’। 148.`उपकण्ठम्’। इति पाo। 149.`द्‌द्रष्टुमेषु’। 150.`पत्रोच्चयाय’। 151.`केषुचित्स्तबका’। 152.`पक्त्रिम’। 153.`केषुचिद्वल्कलायमानैः’ 154.`प्रोद्यच्चटचटत्कारः’। 155.`सर्वतः’। 156.`तद्वनं यथापुरम्’। इति पाo। 157.`द्युसदाम्’। इति पाo। 158.`हे जन’। 159.`मन्यमानः’ 160.`बाहोः’ 161.`स्फुटयाम्बभूव’। 162.`क्षतिनिःसृतासृजाम्’। इति पाo। 163.`स्वसृकवभागविन्यस्त’। इति पाo। 164.`दीप्त’। इति पाo। 165.`ततस्तैर्नाकौकसां’। 166.`हव्यवाहोऽपि’। 167.`वने’। 168.`शरशालां’। इति पाo। 169.`निवर्त्य’। 170.`शातमुखेन’। 171.`ग्रीवायां द्विधा’। 172.`विदलितां’। 173.`विनयः’। इति पाo। 174.`दूरतरापसर्पणम्’। इति पाo। 175.`अधिपति’। इति पाo। 176.`अभियाते’। इति पाo।

**************************************************

.

** ॥ चतुर्थः स्तबकः ॥**

याते ततो निजपुरीं यदुवंशकेतौ राज्ञे मयो मणिसभां रचयांबभूव।
यस्या रुचं समवलोक्य शुचाधुनापि जीवं गतागतजुषं वहते सुधर्मा ॥ 1 ॥

यात इति। ततः युधिष्ठिरसमीपमागतयो कृष्णार्जुनयोः यदुवंशकेतौ ध्वजवद्यदुवंशप्रख्यापके कृष्णे निजपुरीं स्वां नगरीं द्वारकां याते गते सति मयो नाम शिल्पी (योऽर्जुनेन रक्षितः) राज्ञे युधिष्ठिराय मणिसभां मणिनिर्मितमास्थाननिकेतनं रचयांबभूव निरमात्, यस्या युधिष्ठिरसभाया रुचं कान्तिं समवलोक्य सुधर्मा देवसभा अधुना सम्प्रति अपि जीवं निजान् प्राणान् बृहस्पतिं च गतागतजुषं गमनागमनशीलं धारयति वहते। देवसभायां बृहस्पतेर्गमनागमनं स्वाभाविकम्, अन्यस्या अपि परोत्कर्षासहिष्णोः शोकेन प्राणा गतागतमिव कुर्वते, तदेवात्र जीवपदश्लेषेण विवक्षितम्। `जीवः प्राणिनिगीष्पत्तौ’ इत्यमरः। अत्र सुधर्मायास्तादृशदुःखासम्बन्धेऽपि तत्संबन्धाभिधानरूपातिशयोक्तिरलङ्कारः ॥ 1 ॥

तामधिष्ठास्नुमभ्येत्य{1} तं मखं कर्तुमन्वशात्।
विपञ्चीरवसारज्ञो नृपं चीरवसांवरः ॥ 2 ॥

तामधिष्ठास्तुमिति। ताम् मयनिर्मिताम् सभाम् आस्थानशालाम् अधिष्ठास्नुम् अधिष्ठितम् नृपम् युधिष्ठिरम् अभ्येत्य उपेत्य विपञ्चीरवसारज्ञः वीणानादरहस्यज्ञाता चीरवसां वल्कलधारिणां मुनीनां वरः नारदमुनिः मखं कर्त्तुं अश्वमेधेन यष्टुम् अन्वशात् आदिदेश। एकदा नारदो युधिष्ठिरमासाद्य तमश्वमेधं कर्त्तुमन्वरुणदित्याशयः ॥ 2 ॥

ततो दूताहूतः पुरुहूतानुजो निरन्तरायमेव महान्तं सप्ततन्तुमुपहर्तुमनसः{2} कौन्तेयस्योपान्ते रहसि मुहूर्तं संमन्त्र्य {3}साक्षादुत्साहप्रभावाभ्यां{4} मूर्तो मन्त्र इव तत्प्रहिताभ्यां गन्धवहसुधान्धोधिपनन्दनाभ्यामनुसंधीयमानगमनो नदीतटाकैर्द्विमातृकतया {5}स्वपालयितारमनुकुर्वतो विविधान्यदुर्लभवसुधान्यसमेधितवसुधान्म{6}गधानवगाह्य{7} विशृङ्खला{8}मोदितगिरिव्रज मपि शृङ्खलाखेदितमहीभृत्कुलं जराघटितदेहमपि देदीप्यमानब{9}लसंपन्नमाशाजेतारमपि परार्थापहारजागरितारं मागधमपि विगीतव्यापारं द्वैमातुरं महार्थं {10}जरासंधं {11} पृथिवीनाथमेत्य प्रधनं ननाथ ॥

तत इति ततो नारदे तथोक्तवति सति महान्तम् प्रयत्नविशेषसम्पाद्यम् सप्ततन्तुं यज्ञम् राजसूयम् निरन्तरायम् अन्तरापातिविघ्नपरिहारेण निर्विघ्नम् उपहर्त्तुमनसः चिकीर्षतः कौन्तेयस्य युधिष्ठिरस्य उपान्ते समीपे रहसि एकान्ते दूताहूतः युधिष्ठिरप्रेषितदूताकारितः पुरुहूतानुजः उपेन्द्रः मुहूर्त्तं किञ्चित्कालपर्यन्तं सम्मन्त्र्य विचारविनिमयं कृत्वा (सर्वान् राज्ञो वशीकृत्यैव राजसूयः कर्त्तव्यः जरासन्धश्चाखिलराजजेता, जिते तस्मिन्नेकस्मिन्सर्वेजिताः, अतः स एव पूर्वं जेतव्य इत्थं विचार्येत्यर्थः) तेन धर्मराजेन प्रहिताभ्याम् प्रेषिताभ्याम् सह गन्तुमादिष्टाभ्याम् गन्धवहनन्दनो वायुपुत्रो भीमः, सुधान्धसोऽमृतभुजो देवास्तेषामधिपस्येन्द्रस्य नन्दनः पुत्रोऽर्जुनश्च ताभ्यां भीमार्जुनाभ्याम् अनुसन्धीयमानम् अनुगम्यमानम् अनुक्रियमाणं गमनं प्रस्थानं यस्य तथोक्तः, (अतएव च) साक्षात् मूर्त्तिमद्‌भ्याम् उत्साहप्रभावाभ्याम् उत्साहशक्तिप्रभावशक्तिभ्याम् अनुसन्धीयमानगमनः युक्तः मन्त्र इव, (यथोत्साहशक्तिप्रभावशक्तिभ्यामुपपन्नो मन्त्रो दुर्वारप्रसरस्तथैव कृष्णोऽपि भीमार्जुनाब्यामुपेतो दुर्वार इत्यर्थः) नदीभिः तटाकैः खातैश्च द्विमातृकतया द्विविधसस्योत्पादकसाधनसामग्रीसम्पन्नतया (द्विमातृकतया द्वाभ्यां मातृभ्यां जनितम्) स्वपालयिताम् स्वरक्षकम् अनुकुर्वतः अनुहरतः (इदमेकं मगधानित्यस्य विशेषणम्, मगधा अपि नद्या खातैश्च युक्ततया द्विमातृकाः सन्तो द्वाभ्यां मातृभ्यां जनितं जरासन्धं नाम स्वशासकमनुकरोति) विविधानि नानाप्रकाराणि अन्यदुर्लभानि यानि वसूनि धनानि धान्यानि व्रीहिभेदाश्च तै समेधिता समृद्धिं गमिता वसुधा पृथ्वीयेषांस्तथोक्तान्, मगधान् नाम भूभागविशेषान् अवगाह्य प्रविश्य, विशृङ्खलम् निष्प्रतिबन्धम् आमोदितः सन्तोषितः गिरिव्रजः पर्वतभरः गिरिव्रजनामाराजधानी च येन तथोक्तमपि शृङ्खलाखेदितम् निगडबन्धेन क्लेशितम् महीभृत्कुलम् राजवर्गो येन तं तथोक्तम्। शृङ्खलामोदितगिरिव्रजस्यापि शृङ्खलाखेदितमहीभृत्कुलत्वोक्त्याऽऽपाततो विरोधप्रतिभासः, परिहारस्तूक्त एव। जराघटितदेहम् जरया नाम राक्षस्या योजितदेहम् अपि देदीप्यमानेन प्रकाशमानेन बलेन सैन्येन सामर्थ्येन च सम्पन्नम् युक्तम्, जरायुक्ततनोरपि बलवत्त्वमिति विरोधप्रतिभासः परिहारकोर्थस्तूक्तएव। आशाजेतारम् दिशां विजयिनम् अपि परार्थापहारे परकीयसम्पत्तिहरणे जागरितारम् जागरूकम्, आशाविजेतानिरस्ताभिलाषः परार्थापहरणजागरूक इति विरोधः, परिहारस्तूक्तविधया मागधम् मगधाख्यदेशोत्पन्नम् अपि विगीतव्यापारम् निन्दिताचारम् मागधस्य स्तुतिपाठकस्य गानव्यापारवै मुख्यमिति विरोधः। द्वैमातुरम् द्वयोर्मात्रोरपत्यम् महारथम् `आत्मानं सारथिं चाश्वान् रक्षन् युध्यति यो भटः, स महारथसंज्ञः स्यात्’ इति परिभाषितस्वरूपम् जरासन्धं नाम पृथिवीनाथम् राजानम् एत्य आसाद्य प्रधनं युद्धं ननाथ याचितवान्। कृष्णो भीमार्जुनाभ्यां सह मगधाधिपं जरासन्धमुपेत्य तं युद्धायाहूतवानिति भावः। पुरा किल केनचिन्मुनिना दत्तं सन्तानप्रदं फलं द्विधा खण्डयित्वा एकैकं खण्डं भुक्तवतीभ्यां मातृभ्यां खण्डशः प्रसूतं शरीरभागद्वयं त्यक्तम्, तच्च त्यक्तं भागद्वयं निशि सञ्चरन्ती काचिज्जरानामपिशाची सन्दधे, स एव जरासन्धोऽभूदिति पुरावृत्तमत्रानुसन्धेयम् ॥

{12}तत्क्षणमतितितिक्षया `त्वमष्टादशकृत्वो दृष्टापजयोऽसि, अयं पुनरितरः किशोरः’ इति कृष्णावुभावप्यवधीर्य {13}हिडिम्बबककुटुम्बशोकोदयादारभ्य प्रवीरजनकर्णिकामौक्तिकायमानकीर्तेरात्मनः{14} संमुखीनं दृढतरपरिकरबन्धं{15} जरासंधं गन्धवहनन्दनः पञ्चदशादिनानि नियुध्य तेषां{16} तृतीयभाग{17}परिसंख्यानपदाभिधेयेन सह योजयामास {18} ॥

तत्क्षणमिति। तत्क्षणम् कृष्णकृतयुद्धप्रार्थनाकाले अतितितिक्षया महत्याक्षमया त्वम् कृष्णः अष्टादशकृत्वः अष्टादशधा दृष्टापजयः प्रत्यक्षीकृतपराजयः असि, अयं पुनः इतरः अर्जुनः किशोरः बालः, इत्येवमुभौ अपि कृष्णार्जुनौ अवधीर्य युद्धानर्हतोक्त्या अपमत्य, हिडिम्बकयोस्तन्नामकयोः राक्षसयोः कुटुम्बस्य स्त्रीकन्यादेः शोकोदयात् खेदप्रादुर्भावात् (तद्वधावसरादित्यर्थः) आरभ्य प्रभृति प्रवीरजनस्य शूरलोकस्य कर्णिका श्रोत्रभूषणभेदस्तन्मौक्तिकायमाना तद्‌गतमौक्तिकवदाचरन्ती कीर्त्तिर्यस्य तस्य हिडिम्बादिराक्षसमारणात् प्रभृति वीरजनाकर्ण्यमानयशसो वीरत्वेन गण्यमानस्य आत्मनः स्वस्य भीमस्य सम्मुखीनं पुरःस्थितं दृढतरपरिकरबन्धं दृढ अतिगाढः परिकरबन्धः युद्धसज्जोपयुक्तो मध्यबन्धो यस्य तं तथोक्तम्, जरासन्धं नाम गन्धवहनन्दनः वायुसुतो भीमः पञ्चदशदिनानि नियुध्य युद्धं कृत्वा तेषां युद्धदिनानां पञ्चदशानां तृतीयभागस्य दिवसपञ्चकस्य परिसङ्ख्यानं अपगमकं पदं पञ्चतेति पदं तदभिधेयेन तद्वाच्यार्थेन योजयामास संघटयामास। पञ्चदशदिनानि युध्यमानोजरासन्धो भीमेन हत इत्याशयः ॥

हते तस्मिंस्त्रयो दीप्रा हरिप्रस्थमुपाययुः।
आगामिनि मखे हव्यमादित्सव इवाग्नयः ॥ 3 ॥

हत इति। तस्मिन् जरासन्धे हते भीमेन मारिते सति दीप्राः जरासन्धवधेन भासुरकान्तयः त्रयः कृष्णभीमार्जुनाः आगामिनि पुरःसम्पाद्ये मखे राजसूये हव्यम् होमद्रव्यम् आदित्सवः बुभुक्षवः (तत्रोपस्थातुमीहमानाः) त्रयोऽग्नयः आहवनीयगार्हपत्यदाक्षिणात्यनामका इव हरिप्रस्थमिन्द्रप्रस्थं नाम पुरम् उपाययुः आजग्मुः॥ युधिष्ठिरयज्ञसम्पत्तयेऽपेक्षितस्य जरासन्धवधस्य सम्पत्त्या त्रयाणां दीप्तत्वमुक्तम् ॥ 3 ॥

कृष्णे गते यदुपुरीं क्षितिपानुजानां जित्वा दिशः प्रतिनिवृत्तवतां चतुर्णाम्।
कोशे ममुः परमसिप्रवरा गृहीता दोष्णोर्बलेन महता न तु हेमपुञ्जाः ॥ 4 ॥

कृष्णे गते इति। कृष्णे यदुपुरीं गते द्वारकां गतवति सति चतस्रो दिशः प्राच्यादिकाः जित्वा प्रतिनिवृत्तवतां परावृत्तानां चतुर्णाम् क्षितिपस्य धर्मराजस्य अनुजानां भीमार्जुननकुलसहदेवाभिधानां भ्रातॄणाम् दोष्णोः बाह्वोः महता बहुना बलेन सारेण गृहीताः करे कृताः असिप्रवरा खड्गश्रेष्ठा एव कोशे खड्गपिधाने आवरके ममुः मान्तिस्म (दिशां जितत्वेन खड्गाः कोशमाश्रयन्तिस्म) दोष्णोर्महता बलेन करे राजदेयभागे गृहीताः करदीकृतभूपालैर्दत्ताः तैरासादिताश्च हेमपुञ्जाः स्वर्णराशयः परम् परन्तु कोशे धनाधारगृहे न ममुः न मान्तिरम। दिक्षु जितासु युद्धं व्यरमत्परं धनागमो न व्यरमदित्यर्थः॥ `कोशोऽस्त्री कुड्‌मले खड्‌गपिधाने धनवेश्मनि’ इति विश्वः। अत्र हेमपुञ्जानां खड्गानां च प्राप्तस्य कोशे मानस्य खड्गमात्रे नियमनात् परिसङ्ख्याऽलङ्कारः, वसन्ततिलकं वत्तम् ॥ 4 ॥

उपायनत्वेन नृपाय सर्वैर्दत्तेषु वित्तेष्वखिलेषु भूपैः।
पार्थस्य पुर्याः क्षितिरेव भेजे वसुंधरावाचकवाच्यभावम् ॥ 5 ॥

उपायनत्वेनेति। सर्वैः नानादेशसमुत्पन्नैः भूपैः राजभिः अखिलेषु समस्तेषु वित्तेषु स्वसम्बन्धिषु धनेषु नृपाय युधिष्ठिराय उपायनीकृतेषु उपहृतेषु सत्सु (अन्यासां राजपुरीणां धनराहित्येन) केवला पार्तस्य पुर्याः इन्द्रप्रस्थनागर्याः क्षितिः एव वसुन्धरावाचकवाच्यभावम् वसुन्धरापदप्रतिपाद्यत्वम् भेजे प्राप। अन्यासां पुरीणां वसुनां शून्यतयाऽस्याश्च धनपूर्णतया वसुन्धरेत्यन्वर्था संज्ञा केवलमिन्द्रप्रस्थस्यैवावर्त्ततान्यासां तु सा रूढा संज्ञैवेति बोध्यम्। अतिशयोक्तिः स्फुटैव ॥ 5 ॥

नरदेवमगाज्जये प्रतीच्या नकुलेनैव{19} वसूनि विस्तृतानि{20}।
तधदानकदुन्दुभिस्वनैर्द्यां दलयन्नानकदुन्दुभेः कुमारः ॥ 6 ॥

नरदेवमिति। विस्तृतानि बहूनि वसूनि धनानि दधत् धारयन् आनकदुन्दुभेः वसुदेवस्य कुमारः श्रीकृष्णः आनकानां पटहानां भेरीणां च स्वनैः शब्दैः द्याम् आकाशं दलयन् भिन्दन् (वाचालयन्) प्रतीच्याः पश्चिमाया दिशः जये सति नकुलेन सहैव नरदेवं युधिष्ठिरम् अगात पुनरायातः। जरासन्धवधानन्तरं द्वारकां गतो भगवान् पश्चिमामाशां जित्वा बहूनि धनानि सहानयता विजयवाद्योनाकाशं च पूरयता नकुलेनैव सह पुनर्युधिष्ठिरसमीपमागतवानित्याशयः। औपच्छन्दसिकं वृत्तम् ॥ 6 ॥

हरिणा स ततः कृताभ्यनुज्ञो हविरादातुमिवागतेन साक्षात्।
क्रमवेदिपुरोधसां{21} समूहैः क्रतुमाहर्तुमुपक्रमं प्रचक्रे ॥ 7 ॥

हरिणेति। ततः कृष्णागमनानन्तरं स धर्मराजः साक्षात् प्रत्यक्षीभूय हविरादातुं हूयमानं द्रव्यजातं ग्रहीतुम् इव आगतेन आयातेन हरिणा श्रीकृष्णेन कृताभ्यनुज्ञः यज्ञं प्रारब्धुं लब्धानुमतिः सः धर्मराजः क्रमवेदिनाम् कर्त्तव्यकर्मपौर्वापर्यज्ञानशालिनाम् पुरोधसां याज्ञिकक्रियावेदिनामृत्विजां समूहैः सह कृतं राजसूयं नाम यज्ञम् आहर्त्तुम् कर्त्तुम् उपक्रमम् प्रारम्भं प्रचक्रे कृतवान्। हरिणा स्वं यज्ञभागमादातुमिव साक्षादुपस्थितेनादिष्टो धर्मराजो याज्ञिककर्मानुष्ठानक्रमज्ञानवतां पुरोधसां समूहैः सह राजसूयं यागमारब्धवानिति भावः। वैतालीयं वृत्तम् ॥ 7 ॥

प्राग्वंशोऽप्युत्तमे तिष्ठन् प्राग्वंशं पुनराविशत्।
कुरीरशिरसा पत्न्या कुरुवीरः स दीक्षितः ॥ 8 ॥

प्राग्वंश इति। उत्तमे रमणीये प्राग्वंशे हविर्गेहे तिष्ठन्नपि कुरीरं जालं शिरसि यस्यास्तया द्रौपद्या नाम पत्न्या दीक्षितः यज्ञदीक्षावान् सः कुरुवीरः पुनः प्राग्वंशं हविर्गृहम् आविशत् आगत। प्राग्वंशे तिष्ठतः प्राग्वंशागमनं विरुद्धमिव भासते, प्राग्वंशे प्राचां कुरुययात्यादीनां वंशे कुले इत्यर्थेन च तत्परिहारः। कुरीरं जालं तद्‌ग्रहणं च यज्ञदीक्षितपन्त्या विहितम्। कुरीरं माङ्गलिकमन्यद्वस्त्विति केचित् ॥ 8 ॥

{22}आप्सातुमिच्छुरनलो हविरत्र रुच्यमानीलधूमकुलनिर्गमनापदेशात्{23}।
जग्धान्पुरा जतुनिकेतनभित्तिखण्डान् कुक्षिस्थितानिव ववाम गुरूनजीर्णान् ॥ 9 ॥

आप्सातुमिति। अनलः वह्निः अत्र युधिष्ठिरसम्पाद्ये राजसूये रुच्यं स्वादु हविः। होमलब्धं द्रव्यजातम् आप्सातुम् भक्षितुम् इच्छुः पुरा लाक्षागृहदाहावसरे जग्धान् भक्षितान् गुरून् बहुकालपाच्यान् अत एव अजीर्णान् कुक्षिस्थितान् उदरवर्त्तिनः जतुनिकेतनभित्तिखण्डान् लाक्षाभवनभित्तिशकलान् आनीलस्य श्यामस्य धूमकुलस्य धूमरासेर्निर्गमनस्य बहिर्भावस्यापदेशात् छलात् इव ववाम वान्नवान्। यथा कश्चन भुक्तपूर्वं किमप्यजीर्णमुदरे वर्त्तमानं वमति, वमनजागृतबुभुक्षश्च रुच्यं भोज्यान्तरमश्नाति, तथैवायं पुरा लाक्षागृहभित्तिखण्डानि भक्षयित्वा तानि गुरूणि पाचयितुमक्षमो वह्निः सम्प्रति नीलधूमराशिव्याजेन वान्त्वा राजसूये रुच्यं हविराजातुमात्मानं सज्जीकरोतीत्यर्थः। अपह्नुतिगर्भोत्प्रेक्षाऽलङ्कारः। वसन्ततिलकं वृत्तम् ॥ 9 ॥

तत्र प्रवर्ग्यजनितं दिवि धूमचक्रमालक्ष्यते स्म विबुधान्प्रति पावकेन।
आनाकदुर्वहहविर्द्रविणेन वेगादाह्वानपत्रवलयं किल नीयमानम् ॥ 10 ॥

तत्रेति। तत्र यज्ञे राजसूययज्ञाङ्गकर्मविशेषेण जनितम् उत्पादितम् धूमचक्रम् धूमराशिः दिवि आकाशे आनाकम् स्वर्गपर्यन्तं दुर्वहम् वोढुमशक्यम् हविः हव्यद्रव्यमेव द्रविणं धनं यस्य तेन तथोक्तेन पावकेन अग्निना विबुधान् देवान् प्रति वेगात् तीव्रतया नीयमानम् उह्यमानम् आह्वानपत्रवलयम् निमन्त्रणपत्रमण्डलम् इव आलक्ष्यतेस्म। प्रवर्ग्यजनितो धूमभरो दिवि विततो देवान् प्रतिनीयमानं निमन्त्रणपत्रमिव प्रतीयतेस्म, शीघ्र च तन्न प्राप्यते, यतो वाहकोऽग्निर्हव्यद्रव्यभारेण मन्दगतिः सम्पन्नोऽस्तीति भावः। स्फुटोत्प्रेक्षा ॥ 10 ॥

मेदस्विनं विपुलखाण्डवक्षणेन देहं निजं चलयितुं शिखिनोऽक्षमस्य।
उद्गम्य संज्वलितुमुत्तरवेदिकायामालम्बनाय किल यूपवरोऽन्तिकेऽभूत् ॥ 11 ॥

मेदस्विनमिति। विपुलस्य अतिविस्तृतस्य खाण्डवस्य तत्संज्ञया ख्यातस्य वनस्य भक्षणेन मेदस्वनम् स्थूलम् अतिमांसलम् निजं देहं स्वां तनुम् चलयितुम् सञ्चारयितुम् अक्षमस्य अशक्तस्य शिखिन पावकस्य, उद्‌गम्य उत्थाय गत्वा उत्तरवेदिकायाम् संज्वलितुम् सम्यक् ज्वलनकार्यं सम्पादयितुम् आलम्बनाय अवलम्बनदानाय यूपवरः यज्ञियस्तम्भविशेषः अन्तिके समीपेऽभूत्। अन्योऽपि बहुभक्षणेन संजातस्थूलभावः क्वचिदन्यत्र किमपि कर्मानुष्ठातुं यियासुस्सन् दण्डमवलम्ब्य गच्छति, तथाऽयमग्निर्भक्षितखाण्डववनतयाऽतिमेदस्वीभूत्वोत्तरवेदिकां गत्वा जिज्वलिषुर्यूपमवलम्बत इति भावः ॥ 11 ॥

बिम्बेन सङ्गं बिसपुष्पबन्धोर्नाथः कलानां न यथा विदध्यात्।
तथैव देवास्ततृपुस्तदानीमत्यद्भुतानां {24}हविषां विशेषैः ॥ 12 ॥

बिम्बेनेति। कलानां नाथः चन्द्रः बिसपुष्पबन्धो कमलकुलप्रेयसः सूर्यस्य बिम्बेन मण्डलेन सह सङ्गम् एकत्रवासम् यथा न विदध्यात् न कुर्यात्, तदानीं राजसूयानुष्ठानसमये अत्यद्‌भुतानाम् अतिस्वादूनां हविषां हव्यद्रवाणां विशेषैः प्राचुर्यैः देवाः तथैव ततृपुः तृप्ताः अभवन्। इदमत्र बोध्यम्, यदा देवाश्चन्द्रमसोऽमृतमयीः कलाः पिबन्ति तदा क्षीणश्चन्द्रः अमावास्यायां सूर्येण सह सङ्गच्छते, युधिष्ठिरयागे स्वादुभिर्हव्यद्रव्यैस्तृप्ता देवा अमृताय अस्पृहयन्तश्चान्द्रीः कला नापिबन्निति चन्द्रस्य क्षीणत्वाभावेन सूर्यबिम्बेन सह सङ्गस्यावसरो नाजनीति भावः। अत्र देवानां तादृशतृप्त्यसम्बन्धे तत्सम्बन्धोक्तेरतिशयोक्तिरलङ्कारः ॥ 12 ॥

सर्वेषु वर्णेष्वपि दातुरस्मात्संप्राप्तवत्स्वर्थमजातशत्रोः।
नवर्ण एकस्तु कदापि लेभे नार्थं क्रतूनामिह सार्वभौमे ॥ 13 ॥

सर्वेष्विति। इह अस्मिन् क्रतूनां यज्ञानां सार्वभौमे प्रधाने राजसूये सर्वेषु वर्णेषु ब्राह्मणादिषु जातिषु (अकाराद्यक्षरेषु च) दातुरस्मादजातशत्रोः सकाशात् स्वम् अर्थजातम् धनम् (वाच्यम् च) सम्प्राप्तवत्सु अधिगतवत्सु, एकः नवर्णः नकारः तु कदापि स्वम् अर्थम् निषेधरूपम् (जातु कदाचिदपि) नहि लेभे। अयमर्थः-युधिष्ठिरेऽर्थं वितरति सति सर्वे वर्णाः स्वाभिमतमर्थं लेभिरे, (सर्वाण्यक्षराणि च स्ववाच्यमर्थं प्राप्तवन्ति, परन्तु) एको `न’ वर्णः स्ववाच्यं निषेधं नाधिगतवान्, तत्र यज्ञे कस्यापि याचितुर्निषेधेन तिरस्कारो नाकारीति। तुलनायां दृश्यताम्-`नाक्षराणि पठता किमपाठि, प्रस्मृतः किमथवा पठितोऽपि। इत्यमर्थिजनसंशयदोलाखेलनं खलु चकार नकारः’ ॥ 13 ॥

तत्र नानाजनपदमेदिनीवल्लभमल्लमुकुटमणिकिरणपल्लविते यज्ञवाटे त्रिपथगापृथातनूजाभ्यां{25} नियुक्तो, वैमात्रेयैर्भ्रातृभिर्जतुभवनवनसवनेषु पृथक्पृथगाराधिततया स्वेनाप्यातिथ्यायामन्त्र्माणेन{26} वीतिहोत्रेणेव ज्वलता हेमपात्रेण परिष्क्रियमाणपाणितलः सहदेवो निखिलभक्तजनकृत्यनिर्वहणभारेणेव{27} निभृतावयवं सभ्यलोकलोचनपक्ष्मयु{28}गलपङ्क्तिपरस्परवैमुख्यवदान्यरूपकोमलिमानं महर्षिजनवलयमध्यमहेन्द्रनीलरत्नं{29] चिरंतनं पुमांसं {30]समासाद्य प्रथममर्घ्येण परिभूजयांचक्रे ॥

तत्रेति। नानाजनपदानां भिन्नभिन्नदेशानां ये मेदिनीवल्लभमल्लाः राजश्रेष्ठाः तेषां मुकुटेषु मस्तकालङ्कारेषु (स्थितानां) मणीनां किरणैः कान्तिभिः पल्लविते सञ्जातपल्लवे (रक्ताभतत्कान्तिभीरञ्जिते) तत्र तस्मिन् यज्ञवाटे राजसूयशालायाम् त्रिपथगातनूजेन भीष्मेण पृथातनूजेन च युधिष्ठिरेण ताभ्यां द्वाभ्यां नियुक्तः कृष्णमर्चयितुमादिष्टः, वैमात्रेयभ्रातृभिः भीमार्जुनयुधिष्ठिरैः क्रमेण जतुभवने लाक्षागृहे वने काण्डवे सवने राजसूये च पृथक् पृथक् आराधिततया संतोषितत्वेन (लाक्षागृहे भीमेनाग्निस्सन्तोषितः खाण्डववनेऽर्जुनेन तर्पितः राजसूये च युधिष्ठिरेण सन्तर्पित इति स्पर्धया वैमात्रेयकृतकर्मानुष्ठानेनात्मनोन्यूनत्वं निरसितुकामः सहदेवो वह्निमातिथ्याय निमन्त्र्य स्वकरयोर्धृतवान्, यत्तस्य हस्ते हेमपात्रं तिष्ठति स्म, तद्धेमपात्रं वह्निरिव प्रतीयते स्मेति हृदयम्) स्वेन आत्मना सहदेवेनापि आतिथ्याय आतिथ्यसत्कारमाचरितुम् आमन्त्र्यमाणेन निमन्त्र्याहूतेन ज्वलता देदीप्यमानेन वीतिहोत्रेण वह्निवा इव हेमपात्रेण स्वर्णभाजनेन परिष्क्रियमाणपाणितलः भूष्यमाणबाहुः सहदेवो नाम कनिष्ठाण्डवः निखिलभक्तजनकृत्यनिर्वहणभारेण इष्ट समस्तस्वभक्तलोककार्यसम्पादनजन्मनाऽऽयासेन इव निभृतावयवं शान्तसकलगात्रम्, सभ्यलोकानां सभास्थजनानां लोचनानां पक्ष्मयुगलपङ्क्तिभ्यः पक्ष्मसमूहेभ्यः परस्परवैमुख्यवदान्यः परस्परसङ्गराहित्यदाता रूपकोमलिमा सौन्दर्यमाधुर्यं यस्य तं तथोक्तम्, यदीयं सौन्दर्यं पश्यन्तः सभ्या निर्निमेषमासते तं तथाभूतमिति यावत्, महर्षिजनवलये ऋषिसमुदाये वलये इव मध्यमहेन्द्रनीलरत्नं मध्यगतेन्द्रनीलमणिमिव प्रतीयमानम् चिरन्ततं पुमांसं पुराणपुरुषं समासाद्य उपसृत्य अर्घ्येण प्रथमं सर्वतः प्राक् पूजयामास। सभायां सर्वेषूपविष्टेषु भीष्मयुधिष्ठिराभ्यामाज्ञप्तः सहदेवो भगवन्तं शान्तभावेनावस्थितं मुनिजनमध्यगतं वासुदेवं सर्वत आदौ यथोचितार्घ्यादिना सत्कृतवानिति ॥

तावत्प्रकोपात्तरलाधरस्य प्रतिक्षितीशानभयानकस्य।
वेदीभुवं तत्र विहाय वह्निश्चेदीशितुश्चित्तमिवाविवेश ॥ 14 ॥

तावदिति। तावत् यावत्सहदेवो भगवन्तमर्चयति तत्काले प्रकोपात् कष्णस्याग्रपूजादर्शनप्रभवक्रोधात् तरलौ चलौ ओष्ठौ यस्य तस्य तथोक्तस्य अतएव प्रतिक्षितीशानभयानकस्य प्रत्यर्थिराजगणभयङ्करस्य चेदीशितुः सिशुपालस्य चित्तं हृदयम् वह्निः यज्ञाहितोऽग्निः तत्र यज्ञशालायाम् वेदीभुवं वेदीरूपं स्वं स्थानम् विहाय आविवेश प्रविष्ट इव। कृष्णस्याग्रपूजां विलोक्य शिशुपालस्य मनः कोपेन ज्ज्वाल, मन्ये वेदीगतो वह्निः स्वं स्थानं विहाय तद्‌हृदयं प्रविष्ठ इत्याशयः ॥ 14 ॥

सदसि न विकृतो यदच्युतोऽभूत्स तु परुषाक्षरमण्डलेन शत्रोः।
{31}बहिरवसदुपेत्य तच्छ्रवोभ्यां बहुतरकुण्डलनीलरत्नलक्ष्यात् ॥ 15 ॥

सदसीति। सः अच्युतः श्रीकृष्णः तु सदसि सभायां शत्रोः विरोधिनः शिशुपालस्य परुषाक्षरमण्डलेन कटुवाक्यसमूहेन यत् विकृतः कोपादिविकारयुक्तः नाभूत्, तत् बहुतराणि भूयांसि यानि कुण्डलनीलरत्नानि कुण्डलप्रोता नीलमणयस्तल्लक्ष्यात् तद्व्याजात् तच्छ्रवोभ्यां भगवतः कर्णाभ्यां बहिः उपेत्य गत्वा (तदनुचितवचोनिचयः) अवसत्। अयमाशयः-भगवान् शिशुपालस्य वचांसि नाकर्णितवानिव, यतस्तद्वाचो भगवत्कर्णलम्बितकुण्डलनीलरत्नप्रभाव्याजाद्वहिरेवावसन्नतोऽश्रुततद्वचनतया भवता मनसि विकारो नाजायतेति ॥ 15 ॥

अश्लीलवागिह {32}समाप्तिमती न वेति संद्रष्टुकाममिव दानववैरिचक्रम्।
कल्पान्ततिग्मकरकल्पमनल्पवेगं कण्ठे बिभेद {33}रणकर्मणि दामघोषम् ॥ 16 ॥

अश्लीलवागिति। ततः कुपित चेदिकटुवाक् प्रयोगानन्तरम् कल्पान्ततिग्मकरकल्पं प्रलयार्कतुल्यम् अथिभ्राजिष्णु अनल्पवेगम् अतिवेगवत् च दानववैरिचक्रम् श्रीकृष्णस्य सुदर्शनं नाम चक्रम् इह शिशुपालकण्ठे अश्लीलवाक् अनुचितशब्दराशिः समाप्तिमती समाप्ता न वा? इति सन्द्रष्टुकामम् वीक्षितुमिच्छन् इव रणकर्मणि तत्र वाग्युद्धपूर्वके युद्धे दामघोषम् दमघोषस्यापत्यम् शिशुपालं नाम कण्ठे कण्ठदेशावच्छेदेन विभेद छिन्नवत्। यथा कुत्रापि पिहितमुखे वस्तुनि किमपि वस्त्वन्तरमस्ति न वेति द्रष्टुमिच्छँस्तद्वस्तु भिनत्ति तथा भगवतश्चक्रं शिशुपालकण्ठेऽवशिष्यतेऽश्लीलवचनराशिरथवा समाप्त इति वीक्षितुमिव तत्कण्ठमभिनदित्यर्थः। `दामघोषजम्, यथाह माघः-`चिरस्य मित्रव्यसनी सुदमोदमघोषजः’ ॥ 16 ॥

इति तस्य दुर्मतेरायुषा सह समापिते सवनकर्मणि निर्मितावभृथाप्लवनमुपदात्वेन दत्तपूर्वाणि वित्तान्युत्तमर्णानिव पुनर्द्विगुणमेव ग्राहितान्सर्वानुर्वीपतीन् प्रस्थापितवन्तं पौरवं तमनुज्ञाप्य चैद्यनिधनोत्सवेन सुदर्शनस्येव {34}स्वपुरजनलोचनस्यापि नवास्रकणिकार्द्रतामनु{35}भवितुमना इव सनातनः पुमान्पुरीं पुरानुभूतकुशस्थलीनाम्नीं प्रतस्थै ॥

इति तस्येति। इति एवं प्रकारेण दुर्मतेः भगवन्तं प्रतीर्ष्याकलुषतया दुष्टबुद्धेः तस्य शिशुपालस्य आयुषा जीवितसमयेन सह सवनकर्मणि राजसूययज्ञरूपकार्ये समापिते अवसानं गमिते सति निर्मितावभृथाप्लवनम् कृतयज्ञान्तस्नानं (पूर्वम्) उपदात्वेन उपहाररूपेण दत्तपूर्वाणि पूर्वं दत्तानि वित्तानि उत्तमर्णान् इव पुनः यज्ञान्ते द्विगुणं ग्राहितान् स्वीकारितान् (ये राजानो यावद्वित्तमुपहाररूपेण दत्तवन्तस्तान् दत्तद्वैगुण्येन प्रत्यावर्त्तितवन्तम्) सर्वानुर्वीपतीन् राज्ञः प्रस्थापितवन्तम् विसृष्टवन्तम् पौरवं युधिष्ठिरम् अनुज्ञाप्य गृहगमनायामन्त्र्य सनातनः पुमान् पुराणपुरुषः कृष्णः चैद्यनिधनोत्सवेन शिशुपालमरणजन्मना हर्षेण सुदर्शनस्य तन्नामकस्य स्वचक्रस्येव स्वपुरजनलोचनस्यापि स्वनगरवासिलोकनयनसमूहस्यापि नवास्रकणिकाभिः अचिरोद्गतहर्षाश्रुन्बिदुभिः आर्द्रताम् सेकम् अनुभवितुमनाः द्रष्टुमिच्छन्, (यथा शिशुपालवधेन जातेन सुदर्शनं नवरुधिरकणेनार्द्रमजनि तथा तन्निधनवार्त्ताश्रवणेन मत्पुरवासिजनलोचननिवहोऽपि प्रत्यग्रोद्गतानन्दाश्रुकणिकाभिः सिक्तमस्त्विति कामयमानः सन्नित्यर्थः) पुरा कृष्णवासात् पूर्वम् अनुभूतकुशस्थलीनाम्नीम् कुशस्थलीतिसंज्ञया प्रथितामधुना द्वारकासंज्ञां पुरीम् प्रतस्थे प्रचलितवान्॥

अन्धभूपतनयोऽपि बलौर्घैर्हास्तिनं पुरमवाप्य विलक्षः।
सौबलिं गिरमसौ बलवन्तं दुर्विचाररचनासु चचक्षे ॥ 17 ॥

अन्धभूपेति। असौ अन्धभूपतनयः धृतराष्ट्रसुतः दुर्योधनोऽपि बलौधैः सैन्यसमुदयैः सह हास्तिनं पुरम् धर्मराजराजधानीम् अवाप्य प्राप्य विलक्षः धर्मराजैश्वर्यदर्शनविस्मतः सन् दुर्विचाररचनासु कुटिलमन्त्रणाकृतिषु बलवन्तं सौबलिं सुबलस्य नाम्नो राज्ञोऽपत्यं शकुनिम् प्रति गिरं वक्ष्यमाणलक्षणां वाचं चचक्षे उक्तवान्। हस्तिनापुरागतो दुर्योधनो धर्मराजविभवावलोकनेन विस्मितः सन् कुटिलं शकुनिं प्रति वक्ष्यमाणवचनमुवाचेत्यर्थः। स्वागतावृत्तम् ॥ 17 ॥

अग्नेरपत्यमिति हेम यदाहुरेतन्मिथ्या न मातुल! विरोधिमखेऽनुभूतम्।
तत्स्मर्यमाणमखिलक्षितिपोपनीतं नक्तंदिवं दहति चित्तमिदं यतो मे ॥ 18 ॥

अग्नेरपत्यमिति। हे मातुल, मातृभ्रातः, शकुने। हेम सुवर्णम् अग्नेरपत्यम् अग्निजन्यम् इति यद्वाक्यमाहुः, एतत् हेम्नः अग्निजन्यत्वम्, मया विरोधिमखे विरोधिनो ज्ञातेर्युधिष्ठिरस्य मखे राजसूयेऽनुभूतम् साक्षात्कृतम्। अखिलैः क्षितिपैः राजभिः उपनीतमुपहृतं करत्वेन समर्पितं वा इदं सुवर्णं स्मर्यमाणम् अपि भावनोपनीतम् अपि यतो यस्मात् मे मम दुर्योधनस्य चित्तं नक्तंदिवम् अहर्निशं दहति ज्वलयति। यदि हेमसुवर्णजन्यं न स्यात्तदा स्मर्यमाणतया हृदयगतं सन्मम हृदयं कथं दहेत्, दहति तु स्मर्यमाणमतो निश्चीयते वह्निजन्यत्वं तस्य, तथात्वे सत्येव दाहकत्वोपपत्तेरिति भावः ॥ 18 ॥

वल्गत्कुचं परिजहास सभावलोके मां द्रौपदी मणिभुवि स्खलितं यदुच्चैः।
तत्साधु जातमिति वक्तुमिव स्नुषां स्वां मत्प्राणवायुरयमुत्क्रमणेच्छुरास्ते{36} ॥ 19 ॥

वल्गदिति। सभायाः मणिमयसभामण्डपस्य अवलोके दर्शनसमये मणिभुवि वज्रकृतकुट्टिमे स्खलितम् जले स्थलम् स्थले च जलम् इति विपरीतज्ञानवन्तं माम् द्रौपदी वल्गत्कुचं हासक्षोभात् चलत्स्तनभारं यत् उच्चैः परिजहास परिहासमकरोत्, तत् परिहसनं साधु उपयुक्तं जातम् इति स्वां निजां स्नुषां पुत्रवधूं वक्तुमिव अयं मम प्रामवायुः युत्क्रमणेच्छुः बहिर्भवितुकामः आस्ते। सभायां पश्यतो मम जाते जले स्थलत्वप्रकारके स्थले च जलत्वप्रकारके ज्ञाने द्रौपदीकम्पमानकुचं यथा तथा यद्धसितवती, तत्तदीयं हसितमुचितमजायतेति वक्तुमिव द्रौपदीं नाम स्वां स्नुषामुपैतुमयं मम प्राणवायुर्निर्गन्तुमिवेच्छतीति भावः। अत्र वायोर्भीमपितृत्वेन द्रौपद्या वायुस्नुषात्वं कल्पितम् ॥ 19 ॥

अधुना युधि सेनाभिर्विधुन्वानो{37} धरातलम्{38}।
{39}विधाय निधनं तेषां{40} निगृह्णीयामिमां शुचम् ॥ 20 ॥

अधुर्नति। अहम् एवमपमतोऽहम् अधुना सम्प्रति सेनाभिः सैन्यैः धरातलं भूतलं युधि युद्धे विधुन्वानः कम्पयन् तेषां युधिष्ठिरादीनां निधनं प्राणापहारं विधाय कृत्वा इमाम् तदपमानजनितां शुचं खेदं निगृह्णीयाम् शमपेयम्। अनुज्ञायां लोट् ॥ 20 ॥

इति निगद्य व्रीडाव्यथानद्योः संगमे निमग्नमेनमभग्नकैतवबन्धुः गान्धारपतिरुत्तारयितुमेवमुत्तरमादत्त।

इतीति। इति उक्तप्रकारेण निगद्य उक्त्वा व्रीडाव्यथानद्योः लज्जादुःखरूपयोः सरितोः सङ्गमे एकत्रमिलनस्थाने निमग्नम् ब्रुडितम् एनम् दुर्योधनम् अभग्नकैतवस्य अप्रतिहतकपटविद्यायाः (अक्षविद्यायाः) बन्धुः (तत्र कुशलः) गान्धारपतिः गान्धारदेशाधीशः शकुनिः उत्तारयितुं लज्जादुःखनद्योः परम् पारं लम्भयितुम् उत्तरं प्लवम् प्रतिवचनं च आदत्त गृहीतवान्। श्लिष्टपरम्परितरूपकमलङ्कारः ॥

ज्य्यतां कथमुपैति तेऽर्जुनो वत्स! यद्युधि भयात्पलायिताः।
केवलं हरिमुखा न नामतो वेगतोऽपि मरुतोऽभवन्सुराः ॥ 21 ॥

जय्यतामिति। हे वत्स दुर्योधन, अर्जुनः तृतीयपाण्डवस्तव जय्यतां जेतुं शक्यत्वं कथं केन प्रकारेण उपैति, अर्जुनस्त्वया कथमपि जेतुं न शक्य इत्यर्थः, यद्युधि यस्यार्जुनस्य युद्धे भयात् पलायिताः विद्रुताः हरिमुकाः इन्द्रप्रभृतयः सुराः केवलं नामतः संज्ञामात्रेण मरुतो न, अपितु वेगतः अपि मरुतो वायवः अभवन् यद्युद्धे इन्द्रादयो देवा वायुवेगेन पलायिषत, तमर्जुनं त्वं कथं जेष्यसि, अतो युद्धेन खेदविनोदनमशक्यसम्पादनम् इत्यर्थः ॥ 21 ॥

अपि च,-

तं वीक्षितुं जगति शक्नुयुरत्र के वा भीमं प्रकोपधृतभीमगदाङ्कबाहुम्।
एकैकमुष्टिहतये स्म भवन्ति नालं यस्याहवे बकबृहद्रथभूहिडिम्बाः ॥ 22 ॥

त वीक्षितुमिति। अपि च किञ्च प्रकोपात् क्रोधाद्धेतोः धृता भीमा भयजननी गदा सैव अङ्कः चिह्नम् यस्य तादृशो गदायुक्तो बाहुर्यस्य तं तथोक्तं भीमं बीक्षुतुं द्रष्टुम् अत्र जगति के वा शक्नुयुः के समर्थोः स्युः। कोपेन धृतया गदया युक्तं बाहुं बिभ्रतं भीमं लोके कोऽपि वीक्षितुमपि न क्षमते किमुत जेतमिति सामान्यतो जेतृनिषेधेन त्वयाप्यसौ न जेतव्य इति विशेषो व्यज्यते। तस्य अजेयत्वे उपोद्वलकमाह-केकेति। यस्य भीमस्य आहवे युद्धे बको बकासुरः बृहद्रथभूः जरासन्धः हिडिम्बो नाम हिडिम्बाभ्राता च एते सर्वेऽपि ख्यातिभाजो वीरा एकैकमुष्टिहतये एकैकमुष्टिप्रहाराय अपि अल योग्या न भवन्ति, यस्यैकमुष्टिप्रहारमपीमे वीरा न सोढुमपारयँस्तज्जयस्य नितान्तमसम्भाव्यत्वमिति भाव-। काव्यलिङ्गमलङ्कारः ॥ 22 ॥

ताभ्यामुपास्यमानस्य {43}तपसस्तनुजन्मनः।
व्यापादेऽपि प्रसक्तिः का विशेषात्तादृशां रणे{43} ॥ 23 ॥

ताभ्यामिति। ताभ्यां पूर्वोदितसामर्थ्याभ्याम् अर्जुनभीमाभ्याम् उपास्यमानस्य भागद्वये स्थित्वाऽऽराध्यमानस्य तपसो धर्मस्य तनुतन्मनः पुत्रस्य धर्मात्मजस्य युधिष्ठिरस्य व्यापादे द्रोहचिन्तनेऽपि काः प्रसक्तिः शक्तिः अस्माकमिति शेषः, विशेषात् तादृशाम् भीमार्जुनादिसेवासौभाग्यशालिनां युधिष्ठिरादीनाम् रणे (नः) का प्रसक्ति नैवास्ति सामर्थ्यमित्यर्थः ॥ 23 ॥

तथाप्यहं तु तव च तेषां {44}च {45}परस्परं विभवे {46}परिपणनपदाधिरोहिणि क्षणादक्षममाणेन जगत्सामान्यतामक्षसंप्रदायेन तं पराजयघण्टापथे संचारयिष्यामि{47} ॥

तथापीति। तथापि-यद्यपि युद्धेनासौ युधिष्ठिरो न पराभवितुं शक्यस्तथाप्युपायेन तमहं पराभवितुं क्षम इत्यवतारयति तथापीति। अहम् शकुनिः तव दुर्योधनस्य तेषां पाण्डवानां च परस्परम् अन्योन्यम् विभवे समस्तायां सम्पदि परिपणनपदाधिरोहिणि पणत्वेन स्थाप्यमाने सहि- यदाक्षक्रीडायां त्वया तैश्च निजः सर्वोऽपि विभवः पणत्वेन स्थापयिष्यते तदेत्यर्थः जगत्सामान्यताम् सर्वसाधारणताम् अक्षममाणेन असहमानेन सर्वविलक्षणेन असामान्येन अक्षसम्प्रदायेन द्यूतपाटवेन क्षणात् झटिति तम् युधिष्ठिरम् पराजयघण्टापथे पराजयराजमार्गे संचारयिष्यामि भ्रमयिष्यामि पराजेष्ये इत्यर्थः। `घण्टापथो राजमार्ग’ इत्यमरः ॥

वित्ते हृते दरिद्रास्ते विसृष्टा बन्धुभिः स्वयम्।
विनाशं वा शुचा यायुविदेशं वाथ लज्जया ॥ 24 ॥

वित्तेहृत इति। वित्ते सर्वस्वे हृते द्यूतकपटेन अपहृते सति दरिद्राः निःस्वास्ते पाण्डवाः बन्धुभिः भ्रातृपुत्रादिभिरपि स्वयम् विसृष्टाः त्यक्ताः सन्तः शुचा धनपरिजनत्यागमूलकेन खेदेन विनाशं मरणं यायुर्गच्छेयुः, अथवा लज्जया निःस्वताऽवाप्तिजनितत्रपया विदेशम् देशान्तरं वा यायुः गच्छेयुः, `सतां माने म्लाने मरणमथवा दूरगमन’मिति भर्त्तुर्युक्तेरित्थमुक्तम् ॥ 24 ॥

त्वं ततस्तु सुखमात्मसंयुतैः सोदरैः सदृशसंख्यकाः समाः।
नीरराशिहरिनीलमेखलां निःसपत्नमनुभुङ्क्ष मेदिनीम् ॥ 25 ॥

त्वं ततस्त्विति। ततः पाण्डवेषु शुचामृतेषु लज्जाया परदेशं वा प्रयातेषु त्वम् दुर्योधनः नीरराशिः सागर एव हरिनीलमेखला इन्द्रनीलमणिरचिता काञ्ची यस्यास्तां तथोक्ताम् मेदिनीम् पृथ्वीम् आत्मसंयुतैः स्वोपेतैः सोदरैः भ्रातृभिः संदृशी शतत्वरूप संख्या येषां ताः शतसंख्याः समाः संवत्सरान् सुखं विना प्रयासम् निःशपत्नम् अकण्टकं च अनुभुङ्क्ष्व पालय अनुशाधि ॥ 25 ॥

इत्थंकारं रहसि {48}कल्पिते कैतवदुरध्वे तावुभावप्यनुदावितुं दिव्यचक्षुषा तेनान्धेन वसुंधराधिपतिना नवमणिमण्डपिकाप्रवेशोत्सवव्याजादाहूतः सानुजो {49}धर्मजः कुरुपत्तनमुपेत्य बन्धुतया प्रत्युद्गम्यमानो दुस्तरं भाविवनवासवर्षमेकैकमेकैकेन{50} प्रणिपातणुण्येन सुप्रतरं करिष्यन्निव पितृव्यं द्वादशकृत्वः पदयोः प्रणंसीत् ॥

इत्यङ्कारमिति। इत्थंकारम् अनेन प्रकारेण विचार्य रहसि एकान्ते कल्पिते व्यवस्थापिते कैतवदुरध्वे द्यूतरूपच्छलमार्गे सति, शकुनिदुर्योधनाभ्यां द्यूतं कर्त्तुं स्थिरीकृते सतीत्यर्थः, तौ उभौ शकुनिदुर्योधनौ अनुधावितुम् अनुगन्तुम् तदीयं मतं समर्थयितुमित्यर्थः, दिव्यचक्षुषा दूरदृष्टिना तेन अन्धेन वसुन्धराधिपतिना राज्ञा धृतराष्ट्रेण नवायाम् प्रत्यग्रनिर्मापितायाम् मणिमण्डपिकायां मणिमयसभायां प्रवेशोत्सवस्य व्याजात् कपटात् आहूतः आकारितः सानुजः भ्रातृभिर्युक्तो धर्मजः धर्मपुत्रो युधिष्ठिरः, बन्धुतया बन्धुगणेन प्रत्युद्‌गम्यमानः प्रत्युत्थानादिसत्कारेणाद्रियमाणः सन् दुस्तरम् कठिननिस्तारम् भाविवनवासवर्षम् एकैकम् एकैकेन प्रणिपातपुण्येन प्रणामजन्मना सदहृष्टेन सुप्रतरम् अनयासव्यतियाप्यं करिष्यन् इव पितृव्यं धृतराष्ट्रं द्वादशकृत्वो द्वादशधा पदयोः तच्चरणयोः प्राणंसीत् प्रणतवान्। एवं शकुनिदुर्योधनाभ्यां स्थिरीकृते कपटद्यूतप्रयोगे तयोर्विचारमनुमोदयता धृतराष्ट्रेण मणिमयनवसभाबावनप्रवेशोत्सवव्याजात्समाहूतो युधिष्ठिरः सानुजः समागत्य दुर्योधनादिभिः सत्‌क्रियमाणो धृतराष्ट्रस्य चरणयोर्द्वादशधा प्रणतवान्, मन्ये द्वादशवर्षाणि वने व्यतियाप्यानि भविष्यन्ति, तानि वर्षाणि दुस्तराणि बहुविघ्नत्वात्तेषां सुकयाप्यता पुण्योदयादेव संभवति, अतएवैकस्य वर्षस्य सुयाप्यत्वायैकप्रणामजं पुण्यं कल्पेतेति स धृतराष्ट्रचरणयोर्द्वादशकृत्वः प्रणतदानितिभावः ॥

अवभृथाम्बुकणैरिव नूतनैरधिगतामथ {51}जालकमौक्तिकैः।
स्वकबरीं द्रुपदस्य सुतापि सा सुबलजापदयोः {52}समनीनयत् ॥ 26 ॥

अवभृथेति। अथ सा द्रुपदस्य सुता द्रौपद्यपि नूतनैः नवीनैः अवभृथाम्बुकणैः अवभृथनामकयज्ञान्तस्नानसंबन्धिभिरिव स्थितैः जालके नाम शिरोभूषणे मौक्तिकैः मुक्ताभिः अधिगताम् उपेताम् स्वकबरीम् निजं केशपाशं सुबलजापदयोः गान्धार्याश्चरणयोः समनीनयत् प्रापितवती। यावद्युधिष्ठिरो धृतराष्ट्र प्रणमति तावद्‌द्रौपद्यपि गान्धारीं प्रणतवती, प्रणामकाले तत्कबरी गान्धारीचरणौ पस्पर्श, तस्यां कबर्यां भूषणभावेन स्थापिता मुक्ता अवभृथस्नानसङ्गतजलबिन्दव इवाबासन्तेत्याशयः ॥ 26 ॥

अनुजाबिरनामयानुयुक्तेरभिनन्द्य क्रतुलाभलालनाभिः।
सदनाय ससर्ज तं विनीतं स धृताकारनिगूहनो महीपः ॥ 27 ॥

अनुजाभिरिति। धृताकारनिगूहनः अवलम्बिताकारगुप्तिः स्वं मनोगतं दुरभिसन्धिं न प्रकाशयन् इत्यर्थः सः महीपः धृतराष्ट्रः अनामयानुयुक्तेः कुशलप्रश्नस्य अनुजाभिः अनुचरीभिः पश्चाज्जाताभिः क्रतुलाभलालनाभिः राजसूययज्ञसम्पादनप्रशंसाभिः अभिनन्द्य प्रशस्य तं धर्मराजं सदनाय विश्रामनिकेताय ससर्ज प्रेषितवान्। पूर्वं कुशलं पृष्ट्वा तदनन्तरं राजसूययज्ञानुष्ठानं प्रशस्य च धृतराष्ट्रो युधिष्ठिरं सदनं प्रेषितवानिति भावः ॥ 27 ॥

तावन्मदीयतनुभेदिभटान्तहेतुर्वैरं मिथः प्रभविता कुरुभूभुजां श्वः।
इत्यन्तराहितशुचेव{53} दिशि प्रतीच्यां मन्दायमानमहसा रविणा निपेते ॥ 28 ॥

तावदिति। तावत् तस्मिन् काले श्वः प्रभाते मदीयतनुमेदिनीम् मृत्वा मम मण्डलं भित्त्वा स्वर्गच्छताम् युद्धे मरिण्यताम् भटानाम् वीराणाम् अन्तहेतुः मरणकारणम् कुरुभूभुडाम् कौरवंशोद्भवानां राज्ञाम् मिथः परस्परं वैरं विरोधः (द्यूतकृतापमानजन्म) प्रभविता सम्पत्स्यते इत्यन्तराहितशुचा इव एवंप्रकारकान्तःस्थितकेदेन इव मन्दायमानमहसा मन्दीभूततेजसा रविणा प्रतीच्यां दिशि पश्चिमाशायां निपेते पतितम्। श्वः कुरुवंश्यानां राज्ञां तद्वैरं जन्म ग्रहीष्यति यत् बहूनां भटानां मरणं कारयिष्यति, म्रियमाणाश्च ते स्वर्गामिनः सूर्यमण्डलं भित्त्वा स्वर्गं गमिप्यन्ति, इति स्वमण्डलभेदसम्भावनाजनितशुचेव मन्दीभूततेजाः पश्चिमदिशि पपातेत्यर्थः ॥ 28 ॥

दिग्धे संतमसैः सान्द्रैर्दिशापदिशचत्वरे।
सर्वाः प्रजास्तदा {54}राज्ञा समारुक्षन्दृशा तुलाम् ॥ 29 ॥

दिग्धे इति। ततः सूर्ये पश्चिमायां पतिते अस्ते सति सांन्द्रैः गाढैः सन्तमसैः तमोभिः दिशापदिशचत्वरे प्राच्यादिदिशासु ईशान्यादिष्वपदिशेषु चत्वरे अङ्गणे च दिग्धे व्याप्ते सति (सर्वतः तमसि प्रसृते सति) सर्वाः प्रजाः लोकाः दृशा उपहतया राज्ञा धृतराष्ट्रेण तुलानि सादृश्यम् समारुक्षन् प्राप्ताः। यथा राजाऽन्धस्तथा प्रजा अपि तमसा लुप्तदृक्शक्तयो जाता इत्यर्थः ॥ 29 ॥

मनुजावलीनयनवर्त्मने पुनर्मघवादिदेवममभावगोचराः।
ककुभो विभेजुरमृतांशुभानवः क्षणमेव{55} तं प्रथमशैलरोहिणः ॥ 30 ॥

मनुजावलीति। तं क्षणम् एव तस्मिन्नेव क्षणे समये प्रथमशैलरोहिणः उदयाद्रेः प्रकटीभवन्तः अमृतांशुभानवः चन्द्रकिरणाः मनुजावल्याः मनुष्यसमुदायस्य नयनवर्त्मने नयनानां मार्गाय मानवनेत्रप्रचाराय (मनुप्यैः द्रष्टुम्) पुनः भूयः मघवादीनाम् इन्द्रादीनाम् देवानाम् ममभावगोचराः ममत्ववत्तिनीः इन्द्रादिदेवसम्बन्धिनीः प्राच्यादिकाः ककुभो दिशः विभेजुः विभक्ताः कृतवन्तः। कियतैवकालेन जाते चन्द्रोदये पूर्वशैलात्प्रकटीभवन्तश्चान्द्रकरा लोकचक्षुःप्रसाराय यथापूर्वं प्राच्यादिदिशो व्यभजन्नित्यशयः ॥ 30 ॥

अथोपकार्यामधितिष्ठतोऽस्य संदर्सनायानिशमापतद्भिः।
अशेषपौरैरति {56}बाल्यमित्रैरशेषि किंचिन्न तया रजन्या ॥ 31 ॥

अथोपकार्यामिति अथ उपकार्याम् उपवेशगृहम् अधितिष्ठतः भूषयतः अस्य युधिष्ठिरस्य सन्दर्शनाय विलोकनाय अनिशम् सततम् आपतद्भिः आगच्छद्भिः अतिबाल्यमित्रैः युधिष्ठिरस्य बाल्यकालसुहृद्भिः अशेषपौरैः सर्वैः नगरवासिभिः अशेषि अवशिष्टम्, तया रजन्या रात्र्या तु किञ्चित् अल्पम् अपि नाशेषि न अवशिष्टम्। उकार्यायां वर्त्तमानस्य तस्य दर्शनाय समागच्छतां पौराणां समवायो यावदायात्येव, तेषामागमनं यावन्न समाप्तं तावद्रात्रिरेव समाप्ता जातेति भावः। परिसंख्यालङ्कारः, उभयत्र प्राप्तस्य शेषीभावस्य रात्रेर्व्यवच्छिद्य पौरमात्रे नियमनात् ॥ 31 ॥

धर्मजन्मा ततः कर्म निर्मायाहर्मुखोचितम्।
सभां स भासुरां पौरैर्भूपैश्चापाक्षवेदिभिः{57} ॥ 32 ॥

धर्मजन्मेति। ततः प्रभातकाले धर्मजन्मा धर्मात्मजो युधिष्ठिरः अहर्मुखोचितम् प्रातःकालयोग्यं कर्म सन्ध्यावन्दनादि निर्माय कृत्वा अक्षवेदिभिः द्यूतविद्याकुशलैः पौरैः ग्रामवासिभिः भूपै राजभिश्च भासुरां दीप्यमानां सभां द्यूतशालाम् आप आयातः ॥ 32 ॥

तत्र चित्रीयमाणेष्वनल्पचतुरिमजल्पाकेषु{58} सभाशिल्पेषु दृशं परिकल्पयतः प्रज्ञादृशं{59} निकषा मूर्ते {60}तृतीयगुण इव दिविषदृषभनीलदृषदासने निषीदतोऽमुष्य कुरुकुलप्रदीपस्य प्रतीपं निविशमानः शकुनिः स्थानाद्‌भ्रंशयितुं साक्षात्कृतसंनिधी{61} रिक्तिमध्यमवर्णया तदीयाभिख्यया {62}वाच्यो ग्रहविशेष इव प्रासङ्गिकेन पथा दुरोदरविहारेऽवतारमचिरमभिरोचयामास{63} ॥

तत्रेति। तत्र द्यूतसभायाम् चित्रीयमाणेषु चित्रीयमाणेषु आश्चर्यजनकेषु अनल्पस्य महतः चतुरिण्णः चातुर्यस्य जल्पाकेषु अभिदायिषु अनल्पचातुर्यद्योतकेषु सबाशिल्पेषु सभाबावननिर्माणपाटवेषु दृशं स्वं नयनं परिकल्पयतः व्यापायतः प्रज्ञादृशं धृताराष्ट्रं निकषा समीपे मूर्त्ते शरीरधारिणि तृतीयगुणे तमसि इव दिविषदृषभ इन्द्रस्तस्य नीलदृषत् नीलाश्म तदासने इन्द्रनीलमणिनिर्मितासने निषीदतः उपविष्टस्य अमुष्य एतस्य कुरुकुलप्रदीपस्य कुरुवंशप्रकाशकस्य प्रतीपम् अभिमुखम् निविशमानः स्थितः शकुनिः स्थानाद् राज्यपदात् भ्रंशयितुं पातयितुं अभिमुखम् निविशमानः स्थितः शकुनिः स्थानाद् राज्यपदात् भ्रंशयितुं पातयितुं साक्षात् प्रत्यक्षभावेन कृतसन्निधिः समीपमुपगतः रिक्तमध्यवर्णया दूरीकृत’कु’रूपमध्यमाक्षरया तदीयाभिख्यया शकुनिरूपतत्संज्ञया (शकुनिशब्दे मध्यमवर्णलोपे शनीतितया संज्ञया) वाच्यः शनिपदबोध्यो ग्रह इव प्रासङ्गिकेन कथाप्रस्तावागतेन पथा मार्गेण दुरोदरविहारे द्यूतक्रीडायाम् अवतारम् भागग्रहणम् अचिरम् शीघ्रम् अभिरोचयामास रुचिविषयीकारयामास। तत्र सभायाग्रहणम् अचिरम् शीघ्रम् अभिरोचयामास रुचिविषयीकारयामास। तत्र सभायामिन्द्रमणिनिर्मित आसने उपवुष्टः सभाभवनसौन्दर्यं पश्यन् युधिष्ठिरः पुरत उपविष्टेन शनिनेव शकुनिना कथाप्रसङ्गेन द्यूतक्रीडायां भागं ग्रहीतुमनुरुध्यानुकूलित इत्याशयः ॥

अथ सदसि महत्यामज्ञयासौ{64} नियत्याः सुमतिमपि विमुह्य द्यूतमार्गे प्रवृत्तम्।
बहुषु जनपदेषु प्राप्नुवत्सु{65} ग्लहत्वं सपदि सुबलसूनुर्धर्मसूनुं विजिग्ये ॥ 33 ॥

अथ सदसीति। अथ युधिष्ठिरेण द्यूतक्रीडास्वीकारे सति महत्यां विशालायां सदसि सभायाम् नियत्वा भाग्यलेखाया आज्ञया सुमतिमपि कर्त्तव्याकर्त्तव्यज्ञानवन्तम् अपि विमुह्य मूढभावं प्रपद्य द्यूतमार्गेऽक्षक्रीडायां प्रवृत्तम् धर्मसूनुं युधिष्ठिरम् बहुषु कतिपयेषु जनपदेषु विभिन्नदेशेषु ग्लहत्वं प्राप्तवत्सु पणत्वेन स्थापितेषु सुबलसूनुः शकुनिः विजिग्ये जितवान्। यद्यपि युधिष्ठिरः कर्त्तव्यविदासीत्तथापि भाग्यवसान्मूढो भूत्वा तस्यां सभायां द्यूतं कर्त्तुं प्रावर्त्तत, अथ च स्वीयान्नानादेशान्पणीचकार, तदा कैतवपटुः शकुनिस्तं जितवानितिभावः `स्त्री नपुंसकयोः सदः’ इति वचनात् सदसः स्त्रीलिङ्गत्वम्। मालिनीवृत्तम् ॥ 33 ॥

एकेन यत्सुबलभूर्युगपद्‌ग्रहीतुमक्षेण सर्वविषयान्नृपतेरशक्नोत्।
अस्मात्परं जगति वाच्यतयाभ्युपेत्य तिष्ठेत किं तु परमाद्‌भुतवाचकाय ॥ 34 ॥

एकेनेति। सुबलभूः शलुनिः एकेन अक्षेण द्यूतपाशेन इन्द्रियेण च नृपतेः युधि,्ठिरस्य सर्वविषयान् सर्वान् देशान् सकलान्ग्राह्यान् शब्दस्पर्शादीन् च युगपत् एक समयेन ग्रहीतुम् जित्वा स्वायत्तीकर्त्तुम् ज्ञातुम् च अशक्नोत् शक्यते स्म, अस्मात् एकेन पाशेन सर्वेषां देशानां जयात्, एकेनेन्द्रियेण एकालावच्छेदेन सर्वपदार्थज्ञानाच्च परम् अधिकम् अद्भुतवाचकाय आश्चर्यद्योतकाय शब्दाय वाच्यतया अर्थतया अभ्युपेत्य तत्समीपे गत्वा किंनु तिष्ठेत किमितोऽद्भुतमधिकं स्यात्? न किमपीतोऽद्‌भुतमधिकं कोऽपि अद्‌भुतवाचकः शब्दः प्रतिपादयितुं क्षमो यत् शकुनिरेकेन पाशेन युधिष्ठिरेण पणीकृतान् सर्वान् देशान् जितवान्, एकेनेन्द्रियेण तुल्यकालं सर्वानेव शब्दस्पर्शादीन् विषयांश्च जग्राहेति। `अयौपपद्याज्ज्ञाननां प्रतिनियतविषयग्रहकत्वाच्चेन्द्रियाणामेकेनेन्द्रियेण सहैव सकलवस्तुज्ञानं यथाऽत्याश्चर्याय जायते, तथैव युधिष्ठिरस्य सर्वदेशानामेकदैव पणीकरणं तेषां जयश्च लोकानामत्याश्चर्यमजनयदिति भावः ॥ 34 ॥

प्रतिदेवनमेवमेव भूषाः प्रचुरान्रत्नचयांश्च{66} हेमराशीन्{67}।
सहजान्सह जाययास्य जित्वा स तु गान्धारपतिर्जगर्ज हर्षात् ॥ 35 ॥

प्रतिदेवनम् इति। सः गान्धारपतिः शकुनिः तु प्रतिदेवनम् सर्वेषु देवनेषु अक्षपरिवर्त्तनेषु एवम् उक्तप्रकारेण अस्य युधिष्ठिरस्य भूषाः भूषणानि प्रचुरान् नानाविधान् बहून् रत्नचयान् मणिराशीन् स्वर्णनिचयांशअच, जायया द्रौपद्या सह सहजान् भ्रातॄन् भीमादींश्च जित्वा द्यूते विजित्य हर्षात् प्रसन्नतावशात् जगर्ज गर्जितवान्। क्रमशो युधिष्ठिरेण पणीकृतान् अलङ्कारान् बहून्मणीन् स्वर्णराशीन् द्रौपद्या नाम भार्यया सह सहजान् भ्रातॄन्भीमादींश्च जित्वा स्ववशीकृत्य शकुनिरानन्देन गर्जितवानिति भावः ॥ 35 ॥

तत्रान्तरे,-

घटीचेटी नोऽभूद्बहुपरिवधूटी द्रुपदजा वराकीं तामत्रानय परिषदीत्यग्रजगिरम्।
हरन्द्वैतीयीकः सुबलतनयासूनुषु जवात्समुत्तस्थौ साक्षादवनिमवतीर्णो यम इव ॥ 36 ॥

घटीचेटीति। तत्रान्तरे तस्मिन्समये युधिष्ठिरसर्वस्वविजयवेलायाम्, बहूनां युधिष्ठिरादीनां पञ्चानां भ्रातॄणां पतीनां बधूटी भार्या इयं द्रुपदजा द्रौपदी नः अस्माकम् घटीचेटी कुम्भदासी जलाहरणकर्त्री भृत्याऽभूत्, वराकीं घटीदासीत्वेन तुच्छां तां द्रौपदीम् अत्र परिषदि आनय प्रापय हठादाहर इति एवं प्रकाराम् अग्रजगिरम् दुर्योधनवाचं हरन् अनुसरन् सुबलतनयासूनुषु गान्धारीपुत्रेषु द्वैतीयिक द्वितीयः दुःशासनः साक्षात् प्रत्यक्षीभूय अवनिम् पृथ्वीतलम् अवतीर्णः आयातः यमः यमराज इव जवात् वेगात्समुत्तस्थौ द्रौपदीं सभायामानेतुं चलित इत्यर्थः, शिखरिणीवृत्तम्, `रसैरीशैश्छिन्ना यमनसभलागः शिखिरिणी’ इति तल्लक्षणात् ॥ 36 ॥

दृष्ट्वा भिया सदसि धावनमाचरन्त्याः कैश्ये चकार स कराङ्गुलिमानताङ्ग्याः।
वक्षोरुहेषु च महीपपुरंध्रिवर्गा{69} नासाग्रसीम्नि सुधियश्च नदीसुताद्याः ॥ 37 ॥

दृष्टेति। सः द्रौपदीं बलाद् आकृष्य नेतुमायातो दुःशासनः दृष्ट्वा बलान्नेतुम् यातं यमोपमं दुःशासनमालोक्य भिया भीत्या सदसि सभायाम् धावनम् इतस्त तः पलायनम् आचरन्त्याः आनताङ्ग्याः कुचादिभारेण नतावयवाया द्रौपद्याः कैश्चकचभारे कराङ्गुलिं हस्ताङ्गुलिविनिवेशनं चकार, बलादाकृष्य नेतुं तस्याः केशानग्र हीदित्यर्थः महीपपुरन्ध्रिवार्गाः राजस्त्रीसमुदयाः वक्षोरुहेषु स्वस्वस्तनेषु (हृदयेषु) `कराङ्गुलिम् हस्तविनिवेशेन दुःखप्रकाशनं चक्रुः, तथा सुधियः बुद्धिमन्तो नदीसु ताद्याः भूष्मादयः नासाग्रसीम्नि नासाग्रदेशे अङ्गुलिं चक्रुः कोयं दैवसंयोगः नेदमुचितं जातमिति चिन्तामिव प्रकाशयामासुः। अत्रैकस्यैव कराङ्गुलिं चक्रुरि त्यस्य द्रौपद्याः कचेषु पुन्ध्रीगणेषु भीष्मादिषु चान्वयाच्चमत्कारो दीपनकृतः ॥ 37 ॥

तत्र स दुर्मेधा बलवदाकर्षणोद्भिदुराणि{70} स्वेदपृषन्तीव भूषाजालकमुक्ताफलानि{71} धारयन्त्याश्चिकुरभारात्करतलनिष्पीडननिर्गलितां{72} कालिमधारामिव निर्भरकुवलयगर्भकमाल्यरसझरीमश्रुभिः सह वर्षन्त्यास्तस्याः पातिव्रत्यलक्ष्मीनिवासस्फटिकप्राकारमिव दुकूलमप्याहर्तुं{73} प्रावर्तत ॥

तत्रेति। तत्र सभायाम् दुर्मेधाः भ्रष्टबुद्धिः सः दुःशासनः बलवत् दृढम् आकर्षणेन उद्भिदुराणि उद्भेदभाञ्जिप्रकटीभूतानि स्वेदपृषन्ति स्वेदबिन्दून् इव भूषाजालकमुक्ताफलानि भूषणखचितमौक्तिकानि धारयन्त्याः, (द्रौपद्याः भूषणेषु बहूनि मुक्ताफलान्यासंस्तानि तद्वपुषि दृढ़ाकर्षणोद्गतस्वेदजलपृषन्तीव प्रतीयन्तेस्मेत्येद्विशेषणार्थः) चिकुरभारात् केशसमूहात् करतलनिष्पीडननिर्गलिताम् हस्तनिष्पीङितज्ञरिताम् कालिमधाराम् नैल्यप्रवाहमिव निर्भराणि सान्द्राणि बहूनि कुवलयानि नीलकमला गर्भे अभ्यन्तरे यस्य तादृशस्य माल्यस्य शिरोमाल्यस्य रसझरीम् रसप्रवाहमिव अश्रुबिः नयनवारिभिः सह वर्षन्त्याः विसृजन्त्याः (द्रौपद्याः केशपाशे स्थितानां कुवलयगर्भमाल्यानां रसा बलवत्पीङनेन क्षरिताः सन्तः केशच्युताः नैल्यदारा इव प्रतीयनते स्म, तान् रसप्रवाहांश्च साऽश्रुभिः सहामुञ्चदिति विशेषणस्यास्यार्थः। तस्याः द्रौपद्याः पातिव्रत्यं पतिमात्रसंयोगित्वं तदेवव्रतं नियमस्तल्लक्ष्म्याः निवासाय वसतये स्फटिकप्राकारम् श्वेतप्रस्तारनिर्मितवरणमिव दुकूलम् वस्त्रम् अपि आहर्त्तुम् आक्रष्टम् व्रावर्त्तत प्रवृत्तः। दुःशासनस्तद्‌वासांस्यपि हर्त्तुं प्रावर्त्ततेति भावः ॥

तादृक्षे समुपस्थिते परिभवे सभ्येषु वाचंयमेष्वाध्यायत्सु विघेर्बलं स्वदयितेष्वन्येष्वशक्तेष्वपि।
निश्चित्यार्तिमतां गतिं यदुपतिं नीव्यां करौ कुर्वती सा चक्रन्द {74}तदोच्चकैरिह{75} हरे! त्रायस्व हा मामिति ॥ 38 ॥

तादृक्षे इति। सा द्रौपदी तादृक्षे तथाविधेऽनुभवैकवेद्ये परिभवे अपमाने वस्त्रापहारप्रवृत्तिजनिते समुपस्थिते प्राप्ते सति, सभ्येषु भीष्मादिषु सभाजनेषु वाचंयमेषु धर्मसौक्ष्म्यनिर्धारणाशक्त्या मूकभावं भजत्सु, स्वदयितेषु स्वपतिषु युधिष्ठिरादिषु विदेर्नियत्याः बलं सामर्थ्यं निध्यायत्सु चिन्तयत्सु सत्सु, अन्येषूदासीनजनेषु अशक्तेषु ततः परिभवात् त्रातुमक्षममाणेषु सत्सु आर्त्तिमतां पीडितानां गतिं परायणं रक्षकं यदुपतिं श्रीकृष्णं निश्चित्य अवधार्य नीव्यां स्ववस्त्रग्रन्थौ द्वौ अपि करौ हस्तौ कुर्वतीं (द्वाभ्यामपि स्वहस्ताभ्यां नीवीग्रन्थिं धारयन्ती सती) इह सभायाम् हे हरे, मां विपद्यमानां त्रायस्व अस्मादपमानाद्रक्ष इति एवम् उच्चकैः उच्चैः शब्दपूर्वकम् चक्रन्द विललाप। सर्वेषु तत्रत्येषु रक्षाविमुखेषु सत्सु भगवन्तमेव त्रातारमवधार्य सा तमेवाहूय रक्षं प्रार्थितवतीति भावः ॥ 38 ॥

तस्याः सभायां ह्रियमाणवस्त्रात्तन्व्या नितम्बात्सहसाविरासीत्।
कंसारिकारुण्यपयःपयोधेः कल्लोलमालेव दुकूलपङ्क्तिः ॥ 39 ॥

तस्या इति। सभायां संसदि सर्वजनसमक्षम् ह्रियमाणवस्त्रात् दुःशासनेनाकृष्यमाणवाससः तस्याः तन्व्याः कृशाङ्ग्याः, द्रौपद्याः नितम्बात् श्रोणीभागात् कंसारेः कृष्णस्य कारुण्यं दयैव पयः पानीयं तत्पयोधेः तत्सागरस्य कल्लोलमाला तरङ्गपरम्परा इव दुकूलपङ्क्तिः वस्त्रराशिः सहसा हठात् आविरासीत् प्रकटीबभूव। दुःशासने वस्त्रमाकर्षति भगवन्तं त्रातारमाक्रन्दन्त्यास्तस्या द्रौपद्या नितम्बदेशात् कृष्णदयासागरतरङ्गमालेव वस्त्रपरम्परा झटिति प्रादुबर्भूवेति भावः। कृष्णस्य कृपया सा नग्ना नाजायत, तस्या वस्त्रमजस्रं ववृधे इत्याशयः ॥ 39 ॥

हृते हृते वाससि हृद्यरूपं वासोऽन्तरं यद्ववृधे वराङ्ग्याः।
नरस्य तेनैव न कस्य तत्र चित्रस्य {76}नाव्योऽजनि चित्रपूरः{77}॥ 40 ॥

हृते हृते इति। यत् यस्मात् वराङ्ग्याः सुन्दर्याः तस्याः द्रौपद्याः (एकैकस्मिन्) वाससि वस्रे हृते हृते सति हृद्यरूपं सुन्दरं वासोऽन्तरम् अन्यद्वस्त्रम् ववृधे, (एकस्मिन्वाससि हृतेऽन्यत्प्रकटितं पुनस्तस्मिन् हृतेऽन्यत्पुनरेवम्) प्रकटीबभूव, तेन प्रतिवस्त्रापहारमन्यवस्त्राविर्भावेण एव चित्रपूरः आश्चर्यप्रवाहः कस्य जनस्य चित्तस्य मनसः (कत्तृभूतस्य) नाव्यः नावा तार्यः न अजनि। सर्वस्यापि चित्तेषु अगाधो विस्मयरसः प्रकटीबभूव, सर्वेषामपि मानसान्यगाधे विस्मये मग्नानीवाजायन्तेति भावः ॥ 40 ॥

अदृश्यस्यापहारेऽपि वर्धितानेकवाससः।
अम्बरप्रायता {78}तस्या मध्यस्योभयथाप्यभूत् ॥ 41 ॥

अदृश्यस्येति। अदृश्यस्य अतिसूक्ष्मतया द्रष्टुमयोग्यस्य अपहारे वस्त्राणां दुःशासनद्वारा कर्षणेऽपि वर्धितानेकवाससः वृद्धिप्राप्तबहुवसनस्य (भगवदनुकम्पया सम्पद्यमाननवनवानेकवस्त्रस्य) तस्याः द्रौपद्या मध्यस्य मध्यभागस्य उभयथा प्रकारद्वयेन अपि अम्बरप्रायता-अदृश्यतामूलकेन आकाशसाम्येन अम्बरप्रायता आकाशसमता, नानावस्त्राविर्भावस्थानतया च अम्बरप्रायता बहुलवस्त्रता वस्त्रमयता अभूत्। बहुवस्त्रोत्पत्ते वस्त्ररूपता अम्बरप्रायता, सूक्ष्मत्वादाकाशसादृश्यादम्बरप्रायतेति प्रकारद्वयेनापि तन्मध्यस्याम्बरप्रायताऽजायतेति बोध्यम्। `प्रायो वयसि बाहुल्ये साम्ये निरशनव्रते’ इत्यमरः। अयं श्लोको निम्नलिखित शिशुपालवधोयश्लोकस्य च्छायां गृह्णाति-`आकाशसाम्यं दधुरम्बराणि न नामतः केवलमर्थतोऽपि’ इति ॥ 41 ॥

चलानि{42} कर्षंश्चिरमन्धसूनुस्तस्यास्तु नग्नंकरणः स नाभूत्।
श्रमात्स्खलित्वा धरणौ पतन्सन्दन्तावलेरेव जनव्रजानाम् ॥ 42 ॥

चेलानीति। सः अन्धसूनुः धृतराष्ट्रपुत्रो दुःशासनः चेलानि द्रौपद्याः वस्त्राणि चिरं कर्षन् बहुकालं यावदपहरन्नपि तस्याः द्रौपद्याः नग्नङ्करणः विवस्त्रत्वसम्पादकः नाभूत् नाजायत, तु किन्तु श्रमात् चिरकालपर्यन्तं वस्त्रकर्षणजन्यखेदात् धरणौ भूमौ स्खलित्वा पतन् सन् जनव्रजानाम् पश्यतां लोकानां दन्तावलेः दन्तपङ्क्तेः एव नग्नङ्करणः अनावृतत्वसम्पादक अभूत्। वस्रं चिरमपकर्षन्नपि दुःशासनो भगवत्कृपया वर्द्धितानेकवाससो द्रौपद्या नग्नतां कर्त्तुं नाक्षमत, परं श्रमाद्‌भूमौ पतन् सन् लोकानां दन्तानेव नग्नानकृत, लोकानहासयदित्याशयः। अत्र द्रोपदीदन्तावल्योः प्रसक्तस्य नग्नत्वस्य जनदन्तावल्यामेव नियमनात् परिसंख्यालङ्कारः ॥ 42 ॥

अथ तथाभूतपरुषयोषाभिषङ्गरोषकलुषेण पृषदश्वजनुषा परिषदि भीषणमेवं बभाषे ॥

अथेति। अथ तथाभूतेन तादृशेन (वचसाऽप्रकाश्येन) परुषेण कठोरेण निर्ममेण योषायाः स्त्रियो द्रौपद्या अभिषङ्गेण पराभवदुःखेन यो रोषः दुःशासनविषयः कोपः तेन कलुषेण विकृतचित्तेन अधीरेण पृषदश्वो वायुः ततो जनुर्यस्य तेन पृषदश्वजनुषा वायुसुतेन भीमेन परिषदि सभायां भीषणं भयजनकभावेन एवं वक्ष्यमाणप्रकारं वचनं बभाषे उच्यते स्म। `पृषदश्वो गन्धवहो गन्धवाहानिलाशुगाः’ इत्यमरः ॥

उरसिःस्खलदूष्मलं मृगाक्ष्याः समितावस्रमिदं यथाहमक्ष्णा।
द्विषतः कचकर्षिणोऽप्यमुष्या{80} रसनेनानुभवेयमेवमेव ॥ 43 ॥

उरसीति। समितौ भीष्मादियुक्तायां सभायां मृगाक्ष्याः द्रौपद्याः उरसि वक्षसि स्खलत् निपतत् ऊष्मलम् सन्तापाधिक्यवशादुष्णम् अस्रम् अशृ अहम् अक्ष्णा स्वदृष्ट्या यथा येन प्रकारेण अन्वभवम् दृष्टवान्, एवमेव अमुष्या द्रौपद्याः कचकर्षिणः केशाकर्षणप्रवृत्तस्य द्विषतो दुःशासनस्य उरसि वक्षोदेशे (हृदयान्निर्यत् अस्रम् शोणितम्) रसनेन जिह्वया अनुभवेयम् पिबेयम्। अहमधुना यथा रुदत्या द्रौपद्या वक्षसि प्रसृमरमश्रु स्वदृष्ट्या पश्यामि, तथैव दुःशासनं व्यापाद्य तदीयहृदयं विदार्य च ततो निर्यदुष्णं शोणितं पास्यामीति प्रतिज्ञा वाक्यार्थः। अस्त्रपदे श्लेषः, अनुभवतिपदेऽपि ॥ औपच्छन्दसिकं वृत्तम् ॥ 43 ॥

उत्सेकात्कृतहस्ततालममुना गान्धारपुत्रीभुवा राधासूनुसौ जहास सदसि ग्राम्यं ब्रुवन्यत्ततः{83}।
यस्यां जात्वपि देहिनोऽभ्युदितता नैवाभिनिर्मुक्तता स्यातां द्वे अपि गाण्डिवो मम तु तां निद्राममुंनेष्यति ॥ 44 ॥

उत्सेकादिति। असौ राधासूनुः कर्णः सदसि तस्यां द्यूतसभायाम् उत्सेकात् गर्वात् ग्राम्यम् अश्लीलम् वचनम् ब्रुवन् भाषमाणः अमुना गान्धारपुत्रीभुवा गान्धारीपुत्रेण दुर्योधनेन कृतहस्ततालम् तद्धस्तोपरि स्वीयं हस्तं निपात्य ध्वनि विशेषमुद्भावयन् यत् जहास कृतवान्, ततः तेन तदीयेनापकर्मणा तु मम गाण्डीवो धनुः अमुं कर्णं कृततादृशापराधं यस्यां निद्रायां जात्वपि कदाचिदपि अभ्युदितता अभिनिर्मुक्तता (चेति दोषद्वयं) न स्यातां तां दीर्घनिद्रां मरणं नेष्यति प्रापयिष्यति। अमुमपकारिणं कर्णं रणेऽहं हनिष्यामीति प्रतिज्ञा बोध्या। सुप्ते सूर्योदये अभ्युदितता दोषः, सुप्ते सूर्यास्ते च सति अभिनिर्मुक्तता दोषः, ताभ्यां यस्यां निद्रायां न सम्बन्ध इति सा दीर्घनिद्रामृत्युः। एतददोषद्वयस्वरूपमुक्तममरे-`सुप्ते यस्मिन्नस्तमेति सुप्ते यस्मिन्नुदेति च। अंशुमानभिर्निर्मुक्ताभ्युदितौ च यथाक्रमम्’ इति अत्र पर्यायोक्तमलङ्कारः पर्यायोक्तं यदा सङ्ग्या गम्यतमेवाभिधीयते इति। शार्दूलविक्रीडितं वृत्तम् ॥ 44 ॥

इति तयोस्तादृशेन वीरवादेन `अयि{84}! सुखमिहास्स्व’ इति {85}करास्फालननिदर्शिते {86}सक्थन्येव तव मृत्युः स्यादिति सुयोधनं प्रति याज्ञसेन्याः {87}शापेन च भयात्तगन्धाभ्यामन्धदंपतिभ्यां यथापुरं राज्यं प्रत्यर्प्य हरिप्रस्थं प्रति प्रस्थापितो युधिष्ठिरः पुनरपि कृतमन्त्रैरमित्रै{88}रयमाहूतमात्रोऽर्धपथाद्विधिना गलहस्तिकया विनिवर्तित{89} इव तामेव सभां प्रत्यावर्तत ॥

इति तयोरिति। इति उक्तप्रकारेण तयोः भीमार्जुनयोः तादृशेन उक्तरूपेण वीरवादेन प्रतिज्ञावाक्येन, `अयि द्रौपदि, इह मम जङ्घायां सुखमास्व उपविश’ इति एवं प्रकारेण करास्फालितदर्शिते करास्फालनपूर्वकं प्रदर्शिते सक्थनि जङ्घाप्रदेशे एव तव दुर्योधनस्य मृत्युः स्यात्-यत्र जङ्घाभागे मामुपवेष्टुं ब्रूषे तस्यैव जङ्घाभागस्य भङ्गेन तव मरणं भावि, इति एवं सुयोधनं प्रति दुर्योधनं लक्ष्यीकृत्य याज्ञसेन्याः द्रौपद्याः शापेन आक्रोशेन च भयात्तगन्धाभ्याम् भीतिपराभूताभ्यां (कदाचिदेषां क्लिश्यमानानां वचांसि सत्यानि स्युरिति संभाव्य भयभीताभ्याम्) ताभ्याम् अन्धदम्पतिभ्याम् धृतराष्ट्रगान्धारीभ्याम् यथापुरं पूर्वतननिर्विशेषं राज्यं हस्तिनापुराधिपत्यं प्रत्यर्प्य परावर्त्य हरिप्रस्थं प्रति प्रस्थापितो विसृष्टः युधिष्ठिरः पुनरपि कृतमन्त्रै कृतविचारैः `अपमता इमे क्षमां न करिष्यन्ति, अतः पुनर्द्यूतेनेमान् वनं प्रेषयामस्ततो न संभवति भयम्’ इत्यभिसंदाधानैर्दुर्योधनशकुनिकर्णादिभिः अमित्रैः शत्रुभिः आहूतमात्रः आकारितः सन्नेव अर्धपथात् मध्यमार्गात् विधिना दैवेन गलहस्तिकया कण्ठे हस्तं दत्त्वा विनिवर्त्तितः प्रत्यावर्त्तितः इव अयम् युधिष्ठिरः ताम् एव सभां प्रत्यावृतः पुनरागतः, `आत्तगन्धोऽभिभूतः स्यात्’ इत्यमरः ॥

भूताभिविष्ट इव बोधवतां वरोऽपि भूयोऽपि धर्मतनयः सह सौबलेन।
आधत्त देवनविहारमनार्यजुष्ट{90}माद्यक्षरं विजहदेव पणोऽपि {91}योऽभूत् ॥ 45 ॥

भूताभिविष्ट इति। बोधवतां कर्त्तव्याकर्त्तव्यज्ञानवतां वरः श्रेष्ठोऽपि धर्मतनयः युधिष्ठिरः भूताभिविष्टः पिशाचाविष्ट इव (उन्मत्त इव) भूयः पुनरपि सौबलेन शकुनिना सह अनार्यजुष्टम् अभद्रजनसेवितम् देवनविहारम् अक्षक्रीडाम् आधत्त प्रारब्धवान्। यः देवनविहारः एव आद्यक्षरं प्रथमं वर्णम् `दे’ रूपं विजहत् त्यजन् पणोऽभूत् तत्र द्यूते `वनवासः’ एव पणत्वेन स्थिरीकृत इत्यर्थः। ज्ञानवानपि युधिष्ठिरः पुनः शकुनिना सह द्यूतक्रीडामारभत, तत्र च द्यूतक्रीडायाम् वनविहारः वनवास एव पणः कृतः, यो जोयेत स वनं गच्छेदिति पणबन्धं कृतवानितिभावः ॥ 45 ॥

कितवे शकुनौ वशंवदान्किरति स्वेन करेण पाशकान्।
विजयेन सदा पुरस्कृतोऽप्यभवत्तेन स पृष्ठतः कृतः ॥ 46 ॥

कितव इति। कितवे धूर्त्ते अक्षकलाविदग्धे शकुनौ दुर्योधनमातुले वशंवदान् स्ववशगान् पाशकान् अक्षान् स्वेन करेण निजहस्तेन विकिरति चालयति सति विजयेन अर्जुनेन जयेन च सदा सर्वदा पुरस्कृतः अग्रतः कृतः अपमतः, यद्यपि युधिष्ठिरः सर्वत्र जयेन युज्यते स्म (विजयेनार्जुनेन चानुगम्यते स्म) परं तत्र क्रीडायां विजयस्तं पृष्ठतश्चक्रे, तं नानुजगाम्, स विजयी नाभूत, पराजितो जात इत्यर्थः। विजयेन पुरस्कृतोऽपि पृष्टतः कृत इति विरोधः अर्जुनादृतोऽपि जयेन रहित इति च तत्परिहारः। विरोधाभासः स्फुटोऽलङ्कारः ॥ 46 ॥

उत्थायाथ क्षितीन्द्रः क्षणमपि धरणौ स्थातुमस्यामयुक्तं{92} प्रत्यर्थिस्वीकृतायामिति सह सहजैः सत्यसंधः सजानिः।
पाणौ {93}क्षत्तुर्निधाय प्रसुवमतितरामन्तरुत्तप्यमानां पद्भ्यां प्रापद्वनानि व्यथितहृदमुचत्पौरलोकस्तु दृग्भ्याम् ॥ 47 ॥

उत्थायेति। अथ पराजयानन्तरम् सत्यसन्धः सत्यप्रतिज्ञः धर्मराजः युधिष्ठिरः प्रत्यर्थिस्वीकृतायाम् शत्रुवशंगतायाम् अस्यां धरणौ राज्ये क्षणम् अल्पकालम् अपि स्थातुम् अयुक्तम् नोचितम् इति (विचार्य) उत्थाय ततः स्थानाद्‌गन्तुमुत्थाय अन्तः स्वहृदये अतितराम् अत्यर्थम् उत्तप्यमानां पुत्राणामुपरीदृशविपदुपनिपातेन खिद्यमानां प्रसुवम् मातरं क्षत्तुः विदुरस्य पाणौ हस्ते निधाय (कुन्त्या रक्षणावेक्षणादिभारं विदुरोपरि निधाय) सजानिः स्त्रीकः सहजैः भ्रातृभिः सह पद्भ्याम् पादचारेण वनानि काननानि प्रापत् गतवान् पौरलोकः नगरवासिजनसमूहस्तु व्यथितहृत् सखेदहृदयः सन् दृग्भ्याम् नयनाभ्याम् वनानि जलानि अशृणि अमुचत् रुरोद। स्त्रग्धरावृत्तम् ॥ 47 ॥

कान्तारर्त्मनिमृगाः{94} पुरतो निषण्णाः शान्ताकृतेः सधनुषोऽपि निषङ्गिणोऽपि।
उत्थाय तस्य पटुमर्मरचारु चीरं रोमन्थलोलचिबुकेन मुखेन जघ्रुः ॥ 48 ॥

कान्तारवर्त्मनीति। कान्तारवर्त्मनि वनमार्गे पुरतः अग्रे निषण्णाः उपविष्टाः मृगाः हरिणाः उत्थाय सधनुषः धनुर्धारिणः अपि निषङ्गिणः तूणीरयुतस्यापि शान्ताकृतेः सौम्यवपुषः तस्य धर्मराजस्य चीरं वल्कलम् रोमन्थलोलचिबुकेन रोमन्थक्रियाचपलमुखाग्रभागेन मुखेन पटुमर्मरचारु मधुरध्वनिसुन्दरं यथा तथा जघ्रुः आस्वादयन्। यद्यपि युधिष्ठिरो धनुषा तूणीरेण च युक्त आसीदथापि शान्ताकृतेस्तस्य समीपमागत्य निर्विकारमनसो हरिणास्तदीयं वल्कलं रोमन्थचलितेन मुखाग्रेण भक्षितुमारेभिरे, यत्र स्पृश्यमानेभ्यो वल्कलेभ्यो मर्मरध्वनीर्निरगात् इत्याशयः। `अथ मर्मरः, स्वनिते वस्त्रपर्णानाम्’ इत्यमरः। अत्र शान्ताकृतित्वस्य पदार्थगत्या मृगकर्त्तृकवल्कलचुम्बनकारणत्वात् पदार्थहेतुकं काव्यलिङ्गमलङ्कारः ॥ 48 ॥

परागपूर्णे पथि तस्य पादेखा घटस्य प्रतिमा मनोज्ञः।
भक्त्योपनीता वनदेवताभिः पाद्योदकुम्भा इव जाग्रति स्म ॥ 49 ॥

परागेति। परागपूर्णे कोमलरजोयुते पथि वनमार्गे घटस्य प्रतिमाः घटाकृतयः मनोज्ञाः रमणीयाः तस्य युधिष्ठिरस्य पादयोः चरणयोः रेखाः कलशाकृतिचिह्नानि वनदेवताभिः काननाधिष्ठातृदेवताभिः भक्त्योपनीताः सादरमुपहृताः पाद्योदकुम्भाः पादोदकघटा इव जाग्रतिस्म प्रतीयन्ते स्म। परागपूर्णे पथि चलतो युधिष्ठिरस्य चरणपातेन जातानि तच्चरणवर्त्तिकलशरेखाचिह्नानि वनदेवताभिर्युधिष्ठिरसत्कारायोपहृताः पादोदकघटा इव प्रतीयन्तेस्मेत्याशयः। उत्प्रेक्षाऽलङ्कारः ॥ 49 ॥

क्रमेण{95} ते सजानयो विलङ्घ्य विविधानि विपिनानि{96} जह्नमुनिकर्णशष्कुलीपथवशेन{97} शिक्षितैर्गतिविशेषैरिव {98}गभीरैरावर्तैरु{99}पासिक {100}जनताहृतानि संसारचक्राणीव दर्शयन्तीं कोकनदवदनोदितैरिव{101} कोककुटुम्बकूजितैः{102} कुमारस्य देवव्रतस्य कुशल{103} पृच्छन्तीमिव{104} भागीरथीं पुरस्कृत्य{105} तत्र तां निशीथिनीं पश्चाच्चक्रुः।

अपरेद्युरतिमात्रबुभुक्षितानुयात्रिकसत्रिजनपरित्राणाय पवित्रैः स्तोत्रैः प्रसेदुषा चित्रभानुना दत्तमक्षय्यमन्नपात्रमादाय{106} ते कलत्रे निदधुः।

क्रमेणेति। सजानयः समानस्त्रीकाः सस्त्रीका वा ते पाण्डवाः विविधानि नानाप्रकारकाणि विपिनानि वनानि विलङ्घ्य जह्नुमुने जह्नुनामकस्य ऋषेः कर्णशष्कुल्यां शष्कुल्याकृतौ कर्णे यः पन्था सञ्चारमार्गः तद्वशेन तत्र यातायातवशेन शिक्षितैः अभ्यस्तैः गतिविशेषैः गमनप्रकारैरिव गभीरैः आवर्त्तैः जलभ्रमिभिः उपासकजनाहृतानि सेकजनेभ्यो गृहीतानि संसारचक्राणि इव दर्शयन्तीं प्रकटयन्तीं कोकनदवदनोदितैः कमलरूपमुखनिर्गतैः कोककुटुम्बकूजितैः चक्रवाकपरिवारशब्दैः कुमारस्य पुत्रस्य देवव्रतस्य भीष्मस्य कुशलम् अनामयं पृच्छन्तीम् इव भागीरथीं गङ्गां पुरस्कृत्य पुरः प्राप्य तत्र गङ्गातीरे निशीथिनीं रात्रिं पश्चाच्चक्रुः व्यतियापयामासुः। अपरेद्युः अन्यस्मिन् दिवसे ते पाण्डवाः अतिमात्रम् अत्यन्तं बुभुक्षितानां क्षुधितानाम् अनुयात्रिकाणाम् सहगच्छताम् सत्रिजनानां यज्वनां लोकानां परित्राणाय बुभुक्षाशमनद्वारा रक्षणाय पवित्रैः स्तोत्रैः आदित्यहृदयादिभिः प्रसेदुषा प्रसन्नेन चित्रभानुना सूर्येण दत्तम् समर्पितम् अक्ष्य्यम् अरिच्यमानम् अन्नपात्रम् भोजनभाण्डम् आदाय स्वीकृत्य ते पाण्डवास्तत् पात्रं कलत्रे द्रौपद्यां निदधुः समर्पितवन्तः। क्रमशः सस्त्रीकास्समानस्त्रीकाश्च ते पाण्डवा नानाकाननानि व्यतियाप्य गङ्गातटं गताः, तत्र गङ्गायां बहवो जलभ्रमयः अभवन्, मन्ये कुटिले जह्नुमुनेः कर्णे वासेन ताय कुटिला गतयोऽशिक्ष्यन्त, तयैव शिशिक्षया गङ्गा कुटिलया गत्या भ्रमति, उपासकास्त्र गङ्गायां स्नात्वा स्वं मुक्तं कृत्वा स्वीयं संसारचक्रं तत्र गङ्गायां विसृजन्ति, तानि चक्राणीव जलभ्रमयो भासन्ते, तत्र गङ्गायां कमलवनेषु चक्रवाकाः कूजन्ति, मन्ये गङ्गा स्वीयेन कमलमुखेन चक्रवाकशब्दद्वारा। चिरवियुक्तस्य स्वपुत्रस्य भीष्मस्य कुशलमिव पृच्छति, तदेतादृशीं गङ्गामुपेत्य ते तां रात्रिं तत्रैव गमयामासुः, प्रातश्च अतिबुभुक्षिताननुगच्छता मुनीन् सन्तर्पयितुं सूर्यं स्तवैः प्रसाद्य लब्धमक्षय्यं भोजनपाकपात्रमासाद्य तद्‌द्रौपद्यै समर्पितवन्त इत्याशयः।

वनं ततः काम्यकमेत्य तेषु वसत्सु भीमस्तु नियोद्‌धुकामम्।
{107}किर्मीरमुग्रं कुणपाशनेन्द्रं क्षिप्रं तदाहारदशामनैषीत् ॥ 50 ॥

वनमिति। ततः सूर्यादक्षय्यपात्रप्राप्त्यनन्तरं तेषु पाण्डवेषु काम्यकं नाम वनम् अरण्यम् एत्य प्राप्य वसत्सु तिष्ठत्सु सत्सु भीमो नाम द्वितीयपाण्डवः नियोद्‌धुकामम् बाहुयुद्ध कर्त्तुम् इच्छन्तम् उग्रम् भयङ्करम् कुणपाशनेन्द्रम् शवभक्षिराक्षसप्रधानम् किर्मीरन्नाम क्षिप्रम् आशु तदाहारदशाम् तदीयभोजनसाम्यम् शवभोजिनाम् भक्ष्यस्य शवस्य स्थितिम् निष्प्राणत्वमित्यर्थः अनैषीत् प्रापयमास। किर्मीरमवधीदित्यर्थः ॥ 50 ॥

ततश्चरन्द्वैतवने{108} स सार्धं वध्वा कदध्वालसतामबुद्‌ध्वा।
मूलानि सर्वस्य शुभस्य भूपो मूलानि जग्राह मुनीन्द्रसंघात् ॥ 51 ॥

ततश्चरन्निति। सः भूयो धर्मराजः कदध्वनि कुशकण्टकादिसङ्कुलतया कुत्सिते वर्त्मनि अलसतां श्रमकृतं शैथिल्यम् अबुद्‌ध्वा अविगणय्य, कुत्सितेऽपि पथि श्रममविभावयन्नित्यर्थः, वध्वा स्त्रिया द्रौपद्या सह ततः काम्यकवनात् चरन् निर्गच्छन् सन् द्वैतवने द्वे रागमात्सर्ये इते गते यस्मात् तद्‌द्वीतम्, द्वीतमेव द्वैतं तच्च वनं द्वैतवनं तपोवनं तस्मिन् सर्वस्य समस्तस्य शुभस्य मूलानि कारणानि मूलानि कन्दादीनि भोज्यानि मुनीन्द्रसङ्घात् ऋषिसमुदयात् (आतिथ्यरूपेण जग्राह स्वीकृतवान्। काम्यकवनान्निर्गत्य वर्त्मकृतं श्रममविगणय्य युधिष्ठिरो द्वैतवनमायातः सन् ऋषिभिरातिथ्यरूपेण दीयमानानि सर्वशुभजनकानि मूलानि भोज्यानि प्राप्तवानिति भावः ॥ 51 ॥

तत्राथ ते सत्यवतीसुतस्य पादारविन्दात्प्रविसृत्वरीभिः।
नखप्रभाभिर्नवपुष्पपङ्क्तीर्जटालतानां{109} जनयांबभूवुः ॥ 52 ॥

तत्राथेति। अथ एतदनन्तरं ते पाण्डवाः सत्यवतीसुतस्य व्यासस्य पादारविन्दात् चरणकमलात् प्रविसृत्वरीभिः प्रकर्षेण निर्गच्छन्तीभिः नखप्रभाभिः चरणनखकान्तिभिः जटालतानां निजशिरसि स्थितानां जटारूपाणां वल्लरीणां पुष्पपङ्क्तीः कुमुमसमूहान् जनयांबभूवुः उत्पादयामासुः। व्यासदेवस्य चरणयोः प्रणमतामेषां पाण्डवानां जटास्तच्चरणनखप्रभाभिर्मिलितास्तदानीं ता नखप्रभास्तज्जटावल्लरीणां कुसुमभावमभजन्नेति भावः। रूपकमलङ्कारः ॥ 52 ॥

*/***********************************************************/*

]